;METADATA ;title{अभिधानचिन्तामशिलोञ्छ} ;author{जिनदेवमुनीश्वर} ;bookFullName{The Abhidhana-sangraha or A Collection of Sanskrit Ancient Lexicons.} ;bookSeriesDetails{Nos. 6, 7, 8, 9, 10. The Abhidhānachintāmaṇi, The Abhidhānachintāmaṇipariśiṣṭa, The Anekārthasaṅgraha, The Nighaṇṭuśeṣa and The Lingānuśāsana of Hemachandra and No. 11. The Abhidhānachintāmaṇiśiloñcha of Jinadeva Munīśvara.} ;editor{Paṇḍit Śivadatta and Kāśīnāth Pānḍurang Parab} ;editorQualifications{} ;publisher{Printed and published by The Proprietor of The Nirṇayasāgara Press, Bombay} ;pressDetails{The Nirṇayasāgara Press, Bombay} ;publicationYear{1896 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ACSJ} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to digitize and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{2 February 2019} ;version0.0.2{4 June 2019} ;version0.0.3{6 June 2019} ;version0.0.4{6 June 2019} ;version0.1.0{7 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{॥ श्रीः ॥} ;c{श्रीमज्जिनदेवमुनीश्वरविरचितः अभिधानचिन्तामणिशिलोञ्छः ।} ;k{देवाधिदेवकाण्डः} अर्हं बीजं नमस्कृत्य गुरूणामुपदेशतः । श्रीहेमनाममालायाः शिलोञ्छः क्रियते मया ॥ १ ॥ सर्वीय इत्यपि जिने संभवः शंभवेऽपि च । श्रीसुव्रते मुनिरपि नेमौ नेमीत्यपीक्ष्यते ॥ २ ॥ षष्ठे गणेशे मण्डितपुत्रोऽपि कथितो बुधैः । मरुदेव्यपि विज्ञेया युगादिजिनमातरि ॥ ३ ॥ चक्रेश्वर्यामप्रतिचक्राप्यजितापिः कविभिरजितबला । श्यामा त्वच्युतदेव्यपि सुतारिकोक्ता सुतारापि ॥ ४ ॥ भद्रकृद्भद्रकरोऽपि श्रमणः श्रवणोऽपि च । भद्रं भन्द्रमपि प्राहुः प्रशस्तमपि कोविदाः ॥ ५ ॥ प्रव्रज्यापि परिव्रज्या शिष्योऽन्तेषदपि स्मृतः । इति प्रथमकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ६ ॥ ;k{देवकाण्डः} व्योमयानमपि प्रोक्तं विमानं बुधपुंगवैः । स्यात्समुद्रनवनीतं पेयूषमपि चामृतम् ॥ ७ ॥ कथ्यन्ते व्यन्तरा वानभन्तरा अपि सूरिभिः । द्योतस्तथा पृष्णिर्मुष्णी प्रोक्ता रश्यभिधायकाः ॥ ८ ॥ समुद्रनवनीतं च विदुश्चन्द्रमसं बुधाः । चन्द्रिका चन्द्रिमापि स्यादिल्वला इन्वका अपि ॥ ९ ॥ अनुराधाप्यनूराधा गुरुः सप्तर्षिजोऽपि च । सौरिः सौरोऽपि राहुस्तु ग्रहकल्लोल इत्यपि ॥ १० ॥ अभ्रपिशाचोऽपि तथा नाडिका नालिकापि च । रात्रौ यामवतीतुङ्ग्यौ निःसंपातो निशीथवत् ॥ ११ ॥ तमः स्यादन्धतमसं वर्षाः स्युर्वरिषा अपि । खेऽन्तरीक्षं सांसृष्टकमपि तत्कालजे फले ॥ १२ ॥ मेघमाला कालिकापि वार्दलं चापि दुर्दिने । सूत्त्रामापीन्द्रे शतारः शतधारोऽपि चाशनौ ॥ १३ ॥ आश्चिनेयौ स्वर्गवैद्यौ हर्यक्षोऽपि धनाधिपे । अजगवमजगावमपि शंकरधन्वनि ॥ १४ ॥ गौर्यां दाक्षायणीश्वर्यौ नारायणे जलेशयः । कौमोदकी कौपोदकी आर्द्रशब्दौ श्रियां मतौ ॥ १५ ॥ कन्तुः कंदर्पे सिद्धार्थः सुगते परिकीर्तितः । अङ्गे व्याख्याविवाहा(दा)भ्यां प्रज्ञप्तिरपि पञ्चमे ॥ १६ ॥ दृष्टिपातो द्वादशाङ्ग्यां कल्याणेऽबन्धमप्यथ । निन्दा गर्हा जुगुप्साप्याक्षारणा रतिगालिषु ॥ १७ ॥ समाख्यापि समाज्ञावद्रुशतीवदुशत्यपि । काल्यापि कल्या संधायां समाधिरपि कथ्यते ॥ १८ ॥ व्रीडः सूकामन्दाक्षं च ह्रियामूहापि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामहंप्रथमिकापि च ॥ १९ ॥ अहंपूर्विकायां केलीकिलोऽपि स्याद्विदूषके । मार्षवन्मारिषोऽपीति शिलोच्छो देवकाण्डगः ॥ २० ॥ ;p{0002} ;k{मर्त्यकाण्डः} स्तनंधये स्तनपश्च श्रीरपश्चाभिधीयते । तारुण्यं स्याद्यौवनिका दशमीस्थो जरत्तरः ॥ २१ ॥ कवितापि कविः स्यात्कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु ॥ २२ ॥ वदन्यौ पृथगित्यन्ये दानशैलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये श्रीमानपि बुधैः स्मृतः ॥ २३ ॥ विवधिकवीवधिकावपि वैवधिके प्रतिचरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुषान्यार्जक इतीष्यते च परैः ॥ २४ ॥ विहङ्गिकायां च विहङ्गमाप्यथौर्ध्वदेहिके । और्ध्वदैहिकमप्याहुरनृजौ शण्ठ इत्यपि ॥ २५ ॥ मायाविमायिकौ धूर्ते कपटे तूपधा मता । चौरश्चोरोऽपि विज्ञेयः स्तेयं स्तैन्यमपीष्यते ॥ २६ ॥ दाने प्रादेशनमपि क्षमा स्यात्क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक् पिपासितोऽपि कथ्यते ॥ २७ ॥ भक्षकः स्यादाशिरोऽपि मर्जितापि च मार्जिता । पेयूषमपि पीयूषं कूचिकापि च कूर्चिका ॥ २८ ॥ द्रप्से द्रप्स्यमपि प्रोक्तं विजिपिलं च पिच्छिले । व्योषे त्रिकटुकं जग्धौ जमनं जवनं तथा ॥ २९ ॥ आघ्राणोऽपि भवेत्तृप्तौ शौष्कलः पिशिताशिनि । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥ ३० ॥ कामुके कमनोऽपि स्यादाक्षारितोऽपि दूषिते । संशयालुः सांशयिको जागरितापि जागरी ॥ ३१ ॥ पूजितेऽपचायितोऽपि तन्दिभोदरिकावपि । तन्दिलो न्युब्जोऽपि कुब्जे खलतोऽप्यैन्द्रलुप्तके ॥ ३२ ॥ पामरोऽपि कच्छुरोऽतीसारक्यप्यतिसारकी । कण्डूतिरपि खर्जूतिर्विस्फोटो पिटके स्मृतः ॥ ३३ ॥ कोढे मण्डलकमपि गुदकीलोऽपि वार्शसि । मेहः प्रमेहवदायुर्वेदकोऽपि चिकित्सके ॥ ३४ ॥ आयुष्मानपि दीर्घायुः कथ्यतेऽथ परीक्षकः । स्यादाक्षपाटलिकोऽपि पारिषद्योऽपि सभ्यवत् ॥ ३५ ॥ स्युर्नैमित्तिकनैमित्तमौहूर्ता गणके लिपौ । लिखितापि मषी मेला कुलिके कुलकोऽपि च ॥ ३६ ॥ अष्टापदे बुधैः शारीफलकोऽपि निगद्यते । मनोजवस्ताततुल्ये प्रभविष्णुरपि क्षमे ॥ ३७ ॥ जाङ्घिके जङ्घाकरोऽपि चानुगोऽप्यनुगामिनि । पर्येषणोपासनापि शुश्रूषायामधीयते ॥ ३८ ॥ आतिथ्योऽप्यतिथौ कुल्येऽभिजो गोत्रे तु संततिः । महेला योषिता च स्त्री तरुणी युवतीत्यपि ॥ ३९ ॥ स्ववासिनी चरिण्टी च चिरण्टी च चरण्ट्यपि । वधूट्यां पत्न्यां करात्ती गेहिनी सहधर्मिणी ॥ ४० ॥ सधर्मचारिणी चापि स्नुषायां तु वधूट्यपि । प्रेमवत्यपि कान्तायां पणिग्राहो विवोढरि ॥ ४१ ॥ परिणेतोपयन्ता च यौतके दाय इत्यपि । दिधीषूर्दिधिषूर्जीवत्पत्नी जीवत्पतिः समे ॥ ४२ ॥ तुल्ये अवीरानिर्वीरे श्रवणाश्रवणे तथा । रण्डापि विधवा पुष्पवती स्यात्पुष्पितापि च ॥ ४३ ॥ पुष्पे कुसुममप्युक्तं पशुधर्मोऽपि मोहने । सहोदरे सगर्भोऽपि स्यादग्रजवदग्रिमः ॥ ४४ ॥ शण्ठः शठः पण्डुरपि क्लीषो माता जनित्र्यपि । चिहुरा अपि केशाः स्युः कर्णः शब्दग्रहोऽपि च ॥ ४५ ॥ नेत्रं विलोचनमपि सृक्वणीसृक्वणी अपि । दाढिका द्राढिकापि स्यात्कपोणिस्तु कफोणिवत् ॥ ४६ ॥ कूर्परे कुर्परः सिंहतले संहतलोऽपि च । चलुकोऽपि चलौ मुष्के स्यादाण्डः पेलकोऽपि च ॥ ४७ ॥ पत्पादङ्घ्रिश्च चरणे कीकसं हड्डमित्यपि । कपालं शकलमपि पृष्ठास्थनि कशारुका ॥ ४८ ॥ मज्जायामस्थितेजोऽपि नाडीषु नाडिनाटिके । शिङ्घाणकोऽपि शिङ्घाणः स्तृणीका स्तृणिकापि च ॥ ४९ ॥ ;p{0003} शान्तः षान्तश्च विड्गूथेऽशुचि वेशोऽपि वेषवत् । उत्सादनोच्छादने च प्लवप्लावौ तथा समौ ॥ ५० ॥ वंशकं कृमिजग्धं चागरौ स्यादथ वाल्हिकम् । संकोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे ॥ ५१ ॥ चापके कालानुसार्यं यावनोऽपि च सिह्लके । मकुटोऽपि च कोटीरे चित्रकं च विशेषके ॥ ५२ ॥ वतंसोऽप्यवतंसे स्यात्पत्त्रभङ्ग्यां तु वल्लरी । मञ्जरी च पत्रात्पारितथ्या पर्यवतथ्यया ॥ ५३ ॥ कणान्दूरपि कर्णान्दुः परिहार्योऽपि कङ्कणः । किङ्किणी किङ्कणी तुल्ये आच्छादाच्छादने समे ॥ ५४ ॥ कुर्पासेऽप्यङ्गिका कक्षापटे कक्षापुटोऽपि च । कुथे वर्णपरिस्तोम इत्युषण्डं जगुः परे ॥ ५५ ॥ तत्रास्तरणमिति च पल्यङ्कोऽप्यवसक्थिका । यमन्यपि प्रतिसीरा संस्तरः प्रस्तरोऽपि च ॥ ५६ ॥ पतद्ग्राहप्रतिग्राहावपि स्यातां पतद्ग्रहे । मकुरोऽप्यात्मदर्शोऽथ कशिपुः कसिपुः समे ॥ ५७ ॥ यावकालक्तकौ यावे तुल्ये व्यजनवीजने । गीरीयको गिरिकोऽपि बालक्रीडनके मतौ ॥ ५८ ॥ गण्डकोऽपि गन्दुको राट् मूर्धावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥ ५९ ॥ रामचन्द्ररामभद्रौ हनूमानपि मारूतौ । वालौ सुग्रीवाग्रजोऽपि पार्थे बीभत्सुरित्यपि ॥ ६० ॥ सातवाहनवत्सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः परिवकर्णमित्यपि ॥ ६१ ॥ मन्त्री बुद्धिसहायोऽपि वेत्री वेत्रधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि टङ्कपतिस्तु नैष्किके ॥ ६२ ॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकान्तःपुरिकावपि । सहायसाप्तपदीनौ सख्यावसूहृदप्यरौ ॥ ६३ ॥ नये नीतिरपि स्कन्धावारेऽपि शिबिरो मतः । जयन्त्यपि वैजयन्त्यां पटाकापि प्रकीर्त्यते ॥ ६४ ॥ ध्वजः पताकादण्डोऽपि झम्फानं याप्ययानवत् । सादी सव्येष्ठोऽपि सूते कवचितोऽपि वर्मिते ॥ ६५ ॥ कवचे दंशनं त्वक्त्रं तनुत्राणमपि स्मृतम् । अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥ ६६ ॥ शिरस्कं खोलमप्याहुः स्यान्निषङ्ग्यपि तूणिनि । चापे धनूधनुशरासनान्यपि विदुर्बुधाः ॥ ६७ ॥ फरकस्फरकौ खेटे क्षुरिका छुरिका छुरी । ईत्म्यां तरवालिकापि परिघः पलिघः समौ ॥ ६८ ॥ ऊर्जस्व्यूर्जस्वान्मगधो मंषो बोधकरोऽर्थिकः । सौखशायनिकः सौख्यशय्यिकौ सौखसुप्तिके ॥ ६९ ॥ रणे संस्फेटसंफेटौ बले द्रविणमूर्क्तथा । अवस्कन्दोऽपि धाट्यां स्यान्नशनं च पलायने ॥ ७० ॥ चारकोऽपि भवेद्गुप्तौ तापसे तु तपस्यपि । विप्रे ब्रह्मापि चाग्नीध्रा अनीध्रोऽप्यथ वृषी वृसी ॥ ७१ ॥ शसने शमनं चाथ दधिप्राज्यं पृषातके । अग्निहोत्र्यग्न्याहितोऽप्यवासे समाविमौ ॥ ७२ ॥ उपवस्त्रमोपवस्त्रमुपवीते प्रवक्ष्यते । ब्रह्मसूत्रं पवित्रं च वाल्मीकौ द्वाविमावपि ॥ ७३ ॥ मैत्त्रावरुण्यादिकवी पर्शुरामोऽपि भार्गवे । योगीशो याज्ञवल्क्योऽपि दाक्षीपुत्रोऽपि पाणिनौ ॥ ७४ ॥ स्फोटायनः स्फौटायनः कात्यो वररुचौ तथा । कारेणवः पालकाप्ये चाणक्यश्चणकात्मजे ॥ ७५ ॥ वैशेषके काणादोऽपि जैनोऽनेकान्तवाद्यपि । चार्वाके लोकायतिकः कृषिः प्रसृतमित्यपि ॥ ७६ ॥ न्यासार्पणे परिदानं वणिक्प्रापणिकः स्मृतः । अयुते नियुतं पोते स्मृतं प्रवहणं बुधैः ॥ ७७ ॥ कर्णो पारित्रे दुर्गस्य गवेश्वरोऽपि गोमति । कर्षके क्षेत्रजीवोऽपि कोटीशो लोष्टभेदनः ॥ ७८ ॥ मार्द्वीकमपि मद्येऽनुतर्षोऽपि चषके स्मृतः । कुविन्दे तन्त्रवायोऽपि वेमा व्योमापि कीर्त्यते ॥ ७९ ॥ रजको धावकोऽप्युक्तः पादत्राणं च पादुका । तैलिकस्तैलंतुदोऽपि रथकारोऽपि वर्धकिः ॥ ८० ॥ चित्रकारो लेखकश्च लेपकृल्लेपकोऽपि च । कुतूहले विनोदोऽपि सौनिकः खट्टिकोऽपि च ॥ ८१ ॥ ;p{0004} कूटयन्त्रे पाशयन्त्रं समौ चाण्डालपुक्कसौ । इति तृतीयकाण्डस्य शिलोञ्छोऽयं समर्थितः ॥ ८२ ॥ ;k{तिर्यक्काण्डः} रत्नवती भुवि दिवस्पृथिव्यावपि रोदसी । माणिबन्धं माणिमन्तं सैन्धवे वसुके वसु ॥ ८३ ॥ टङ्कनष्टङ्कण उपावर्तनं चापि नीवृति । जङ्गलः स्याज्जाङ्गलोऽपि मालवन्मालको मतः ॥ ८४ ॥ पत्तने पट्टनमपि कुण्डिने कुण्डिनापुरम् । स्यात्कुण्डिनपुरमपि विपणौ पण्यवीथिका ॥ ८५ ॥ सुरङ्गायां संधिरपि गृहे धाममपि स्मृतम् । उपकार्योपकर्यापि प्रसादे च प्रसादनः ॥ ८६ ॥ शान्तीगृहं शान्तिगृहे प्राङ्गणं त्वङ्गणं मतम् । कपाटवत्कवाटोऽपि पक्षद्वारे खडक्किका ॥ ८७ ॥ कुसूलवत्कुशूलोऽपि संपुटे पुट इत्यपि । पेटायां स्यात्पेटकोऽपि पेडापि कृतिनां मते ॥ ८८ ॥ पवन्यपि समूहिन्यामयोनिं मुशलं विदुः । कण्डोलके पिटकोऽपि चुल्ल्यामन्तीति कथ्यते ॥ ८९ ॥ खजः खजाकोऽपि मथि विष्कम्भो कटकोऽस्य तु । अगोऽपि पर्वते क्रौञ्चः क्रोञ्चवन्मन्यते बुधैः ॥ ९० ॥ कखट्यपि खटिन्यां स्यात्ताम्रमौदुम्बरं विदुः । शातकुम्भमपि स्वर्णं पारदश्चपलोऽपि च ॥ ९१ ॥ रसजातं रसाग्र्यं च तुत्थे दार्वीरसोद्भवे । गौक्षिके वैष्णवोऽपि स्याद्गोपित्तं हरितालके ॥ ९२ ॥ मनःशिलायां नेपाली शिला च सुधियां मता । शृङ्गारमपि सिन्दूरे कुरुविन्दे तु हिङ्गुलः ॥ ९३ ॥ बोलो गोपरसोऽप्युक्तो रत्नं माणिक्यमित्यपि । पद्मरागे शोणिरत्नं वैराट्टो राजपट्टवत् ॥ ९४ ॥ नीलमणौ महानीलं कमन्धमपि वारिणि । धूमिकाधूममहिषी धूमर्यो महिकाः समाः ॥ ९५ ॥ अकूवारोऽपि जलधौ मकरालय इत्यपि । निम्नगायां ह्रादिनी स्याज्जह्नुकन्यापि जाह्नवी ॥ ९६ ॥ कलिन्दपुत्री कालिन्दी रेवा मेकलकन्यका । चान्द्रभागा चन्द्रभागा गोमती गोतमीत्यपि ॥ ९७ ॥ चक्राण्यपि पुटभेदाः पङ्के चिखल्ल इत्यपि । उद्घातनोद्घाटने च घटीयन्त्रे प्रकीर्तिते ॥ ९८ ॥ सरस्तडागस्तटाकोऽप्यथ तल्लश्च पल्वले । आशयाशशुष्मबर्हिर्बहिरुत्थदमूनसः ॥ ९९ ॥ अग्नौ क्षणप्रभा विद्युद्गन्धवाहसदागती । वायौ चरणपेऽपि द्रुस्त्वक्त्वचा स्तबके पुनः ॥ १०० ॥ गुलुञ्छलुञ्छ्यौ माकन्दरसालावपि चूतवत् । किंकिराते कुरुण्टकुरुण्डकावपि स्मृतौ ॥ १०१ ॥ कर्कन्धूरपि कर्कन्धौ ह्रस्वादिश्चाटरूषकः । वाशा च स्नुहिः स्नुहापि पियालोऽपि प्रियालवत् ॥ १०२ ॥ नार्यङ्गोऽपि च नारङ्गोऽक्षे विभेदक इत्यपि । भवेत्तमालस्तापिच्छो निर्गुण्डी सुन्दुवारवत् ॥ १०३ ॥ जपा चवा मातुलुङ्गो मातुलिङ्गोऽपि कीर्तितः । धत्तूर इव धत्तूरो वंशस्त्वक्सार इत्यपि ॥ १०४ ॥ ह्रीवेरं केशसलिलपर्यायैः स्मर्यते बुधैः । पङ्कजिन्यां कमलिनी कुमुदिनी कुमुद्वती ॥ १०५ ॥ बिसप्रसूनं कमले कुमुत्कुमुदवन्मतम् । शेपालं च जलनीली सातीनोऽपि सतीनवत् ॥ १०६ ॥ कुल्मासवत्कुल्माषोऽपि गवेधुका गवीधुका । कणिशं कनिशं रिद्धे धान्ये त्वावासितं मतम् ॥ १०७ ॥ हालाहलं हालहलं मुस्तायां मुस्ताकोऽपि च । कृमिः क्रिमिरपि गण्डूपदः किंचुलुकोऽपि च ॥ १०८ ॥ शम्बुका अपि शम्बूका वृश्चिको द्रुत इत्यपि । भसलो मधुकरोऽली पिक्को विक्कः करिः करी ॥ १०९ ॥ व्यालो व्याडोऽप्यौपवाह्योऽप्युपवह्योऽपि रावरा । शृङ्खले निगलोऽण्डुश्च कक्षा कक्ष्यापि वाल्हिके ॥ ११० ॥ वाल्हीकोऽपि वल्गवागे खलिनं च खलीनवत् । मार्यो पुष्टे गोपतौ तु शंल इत्वर इत्यपि ॥ १११ ॥ स्थौरी स्थूर्यपि ककुदे ककुत्ककुदमित्यपि । नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी ॥ ११२ ॥ पवित्रं गोमये छागे शुभोऽथ भषकः शुनि । सैरमा देवशुन्यां च यमरथोऽपि सैरिभे ॥ ११३ ॥ पारिन्द्र इव पारिन्द्रः शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि प्लवगः प्रवगोऽपि च ॥ ११४ ॥ वानायुरपि वातायुरुन्दरोऽपि च मूषके । ह्रीकुर्वन्बिडालोऽपि गोकर्णोऽपि भुजंगमे ॥ ११५ ॥ ;p{0005} जलव्यालेऽलीगर्दोऽपि शेषः स्यादेककुण्डलः । आशीराशी च दंष्ट्रायां निर्मोके निलयन्यपि ॥ ११६ ॥ पतत्त्री पतत्रिरपि पिच्छं पिञ्छमपि स्मृतम् । परपुष्टान्यभृतौ च पिके बर्हिणि बर्हिणः ॥ ११७ ॥ वायसे बलिपुष्टोऽपि द्रोणोऽपि द्रोणकाकवत् । सारसा लक्ष्मणी क्रौश्चा क्रुञ्चा चाषे दिविः किकीः ॥ ११८ ॥ किकिदीविरपि प्रोक्तष्टिट्टिभे टीटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्ठकः ॥ ११९ ॥ दात्यूहोऽपि बलाका च बकेरुर्बिसकण्ठिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी ॥ १२० ॥ कपोते वारावतोऽपि मत्स्ये मच्छोऽथ तन्तुणे । स्मृतो वरुणपाशोऽपि नक्रे शङ्कुमुखोऽपि च ॥ १२१ ॥ उहारः कूर्म इत्येष तिर्यक्काण्डः शिलोञ्छितः ॥ १२२ ॥ ;k{नारककाण्डः} नारकास्तु नैरयिकाः पाताले तु तलं रसा । इति पञ्चमकाण्डस्य शिलोच्छोऽयं समर्थितः ॥ १२३ ॥ ;k{सामान्यकाण्डः} जीवोऽपि चेतने जन्तौ प्राणी जन्मोऽपि जन्मनि । जीवातुर्जीवितेऽथायुः पुंस्युदन्तोऽपि चायुषि ॥ १२४ ॥ संकल्पे स्याद्विकल्पोऽपि मनो नेन्द्रियमप्यथ । शर्मं सौख्यं पीडा बाधा चर्चा चर्चोऽपि कथ्यते ॥ १२५ ॥ विप्रतीशारोऽनुशयेऽथार्था अपीन्द्रियार्थवत् । सुसीमस्तु सुषीमोऽपि कक्खटे खक्खटोऽपि च ॥ १२६ ॥ जरठे जरढोऽम्लेऽम्ब्लो रावो रव इव स्मृतः । निषादो निषधो गर्जो गर्जा मद्रोऽपि मन्द्रवत् ॥ १२७ ॥ आकारो निकरे युग्मे जकुटोऽथ कनीयसि । कनीष्ठं विग्रहः शब्दप्रपञ्चे निखिले पुनः ॥ १२८ ॥ स्यान्निःशेषमनूनं च खण्डलं चापि खण्डवत् । मलीमसे कल्मषं च निकृष्टे याव्यरेपसी ॥ १२९ ॥ लडहं रमणीयं रम्ये नित्ये सदातनम् । शाश्वतीकं च नेदीय इत्यन्तिकतमे स्मृतम् ॥ १३० ॥ एकाकिन्यवगणोऽपि प्रागप्यादौ प्रकीर्तितम् । मध्यमे मध्यंदिनं च निरर्गलमनर्गले ॥ १३१ ॥ बहुरूपपृथग्रूपनानाविधाः पृथग्विधे । झम्पा झम्पो व्यवच्छिन्ने छादितं पिहितेऽपि च ॥ १३२ ॥ प्रकाशिते प्रादुष्कृतमवज्ञायामसूक्षणम् । बुधैरवमनानावगणने अपि कीर्तिते ॥ १३३ ॥ अन्दोलनमपि प्रेङ्खाथोदस्तमप्युदञ्चितम् । भिदा भिच्चोदितमपीरितेऽथाङ्गीकृते पुनः ॥ १३४ ॥ कक्षीकृतं स्वीकृतं च च्छिन्ने छातमपि स्मृतम् । प्राप्ते विन्नं विस्मृते च भवेत्प्रस्मृतमित्यपि ॥ १३५ ॥ अटाटाट्या पर्यटनमानुपूर्व्यमनुक्रमे । परीरम्भोऽपि संश्लेषे स्यादुद्घातोऽप्युपक्रमे ॥ १३६ ॥ जातौ जातमपि स्पर्धा संधर्षोऽप्यथ विक्रिया । विकारो विकृतिश्चापि विलम्भस्तु समर्पणम् ॥ १३७ ॥ दिष्ट्या समुपजोषं सर्वदा सदा सनत् सनात् । निर्भरे च स्वती हेतौ येन तेन च कीर्तितौ ॥ १३८ ॥ अहो संबोधनेऽपीति षष्ठ काण्डः शिलोञ्छितः ॥ १३९ ॥ ;end{ वैक्रमेऽब्दे त्रिवस्विन्दुमिते ;c{(१)} राधाद्यपक्षतौ । ग्रन्थोऽयं ददृभे श्रीमज्जिनदेवमुनीश्वरः ॥ १४० ॥ } ;c{इति हैमनाममालायाः शिलोञ्छः समर्थितः ।}