;METADATA ;title{हलायुधकोशः (अभिधानरत्नमाला)} ;author{हलायुध} ;bookFullName{हलायुधकोशः (अभिधानरत्नमाला)} ;bookSeriesDetails{हिन्दी समिति प्रभाग ग्रन्थमाला - १५०} ;editor{जयशङ्करजोशी} ;editorQualifications{} ;publisher{विनोद चन्द्र पाण्डेय, निदेशक, उत्तर प्रदेश हिन्दी संस्थान, राजर्षि पुरुषोत्तमदास टण्डन हिन्दी भवन, महात्मा गांधी मार्ग, लखनउ - २२६००१} ;pressDetails{शिवम् प्रिन्टर्स, सी. २७/२७३, इण्डियन प्रेस कोलोनी, मलदहिया, वाराणसी - २२१००२} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{1.0.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ARMH} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. www.archive.org for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{25 June 2019} ;version0.0.2{25 June 2019} ;version0.0.3{01 July 2019} ;version0.0.4{01 July 2019} ;version0.1.0{02 July 2019} ;version0.2.0{14 January 2021} ;version0.2.1{17 January 2021} ;version0.2.2{17 January 2021} ;version0.3.0{17 January 2021} ;version0.3.1{17 January 2021} ;version0.3.2{17 January 2021} ;version0.3.3{17 January 2021} ;version0.3.4{17 January 2021} ;version0.3.5{17 January 2021} ;version0.3.6{19 January 2021} ;version1.0.0{19 January 2021} ;CONTENT ;nymtype{syno} ;p{0001} ;c{हलायुधकोशः} ;c{( अभिधानरत्नमाला )} ;k{स्वर्गकाण्डम्} ;c{प्रथमं स्वर्गकाण्डम्} शब्दब्रह्म यदेकं यच्चैतन्यं च सर्वभूतानाम् । यत्परिणामस्त्रिभुवनमखिलमिदं जयति सा वाणी ॥ १ ॥ इयममरदत्तवररुचिभागुरिवोपालितादिशास्त्रेभ्यः । अभिधानरत्नमाला कविकण्ठविभूषणार्थमुद्ध्रियते ॥ २ ॥ #स्वर्,स्वर्ग,सुरसद्मन्,त्रिदशावास,त्रिविष्टप,त्रिदिव,द्यो,गो,अमर्त्यभुवन,नाक,ऊर्ध्वलोक स्वः स्वर्गः सुरसद्म त्रिदशावासस्त्रिविष्टपं त्रिदिवम् । द्यौर्गौरमर्त्यभुवनं नाकः स्यादूर्ध्वलोकश्च ॥ ३ ॥ #आदित्य,त्रिदश,सुर,सुमनस्,स्वर्गौकस्,देवता,गीर्वाण,ऋभु,अमर,मरुत्,वृन्दारक,निर्जर,अस्वप्न,विबुध,त्रिविष्टपसद्,लेख,सुपर्वन्,अमृताशन,अनिमिष,देव,दैवत आदित्यास्त्रिदशाः सुराः सुमनसः स्वर्गौकसो देवता, गीर्वाणा ऋभवोऽमराश्च मरुतो वृन्दारका निर्जराः । अस्वप्ना विबुधास्त्रिविष्टपसदो लेखाः सुपर्वाण इ-, त्याख्याता अमृताशना अनिमिषा देवास्तथा दैवतम् ॥ ४ ॥ #असुर,दानव,दैत्य,दैतेय,सुरशत्रु,पूर्वदेव,शुक्रशिष्य,पातालनिलय असुरा दानवा दैत्या दैतेयाः सुरशत्रवः । पूर्वदेवाः शुक्रशिष्याः पातालनिलयाः स्मृताः ॥ ५ ॥ ;p{0002} #ब्रह्मन्,स्रष्टृ,परमेष्ठिन्,धातृ,पद्मभू,सुरज्येष्ठ,वेधस्,विधि,विरिञ्च,हिरण्यगर्भ,शतानन्द,शम्भु,स्वयम्भू,द्रुहिण,चतुर्वक्त्र,प्रजापति,पितामह,जगत्कर्तृ,विरञ्चि,कमलासन ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः । वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥ शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः । पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥ #वाक्,वाणी,भारती,भाषा,गो,गीर्,ब्राह्मी,सरस्वती वाग्वाणी भारती भाषा गौर्गीर्ब्राह्मी सरस्वती । #ओङ्कार,प्रणव #वेदाः,त्रयी ओङ्कारः प्रणवः प्रोक्तस्त्रयो वेदास्त्रयी स्मृताः ॥ ८ ॥ #वेद,श्रुति,आम्नाय,स्वाध्याय,छन्दस्,आगम वेदः श्रुतिस्तथाम्नायः स्वाध्यायश्छन्द आगमः । #वेदान्त,रहस्य,उपनिषद् वेदान्तश्च रहस्यं च बुधैरुपनिषन्मता ॥ ९ ॥ #ऊह,तर्क,अनुमानोक्ति #मीमांसा,विचारणा ऊहस्तर्कोऽनुमानोक्तिर्मीमांसा स्याद्विचारणा । #कृतान्त,राद्धान्त,सिद्धान्त,समय स्मृताः कृतान्तराद्धान्तसिद्धान्तसमयाः समाः ॥ १० ॥ #ईशान,शशिशेखर,पशुपति,शूली,शिव,शङ्कर,शर्व,शम्भु,उमापति,गिरिश,श्रीकण्ठ,उग्र,हर,सर्वज्ञ,त्रिपुरान्तक,त्रिनयन,रुद्र,कपर्दिन्,भव,भूतेश,परमेश्वर,अन्धकरिपु,दक्षाध्वरध्वंसकृत्,स्थाणु,स्रष्टृ,धूर्जटि,वामदेव,कामध्वंसिन्,व्योमकेश,कपालिन्,नीलग्रीव,वह्निरेतस्,पिनाकिन्,भीम,भर्ग,कृत्तिवासस्,वृषाङ्क,अहिर्बुध्न,विरूपाक्ष,शिपिविष्ट,गणाधिप,गङ्गाधर,महादेव,मृड,नीललोहित ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः, शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः । सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो, भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥ स्थाणुः स्रष्टा धूर्जटिर्वामदेवः, कामध्वंसी व्योमकेशः कपाली । नीलग्रीवो वह्निरेताः पिनाकी, भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥ अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः । गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥ ;p{0003} #पिनाक,अजगव #प्रमथ,गण पिनाकं स्यादजगवं प्रमथास्तु गणाः स्मृताः । #कपर्द,शिव_जटाबन्ध #तण्डु,नन्दिकेश्वर कपर्दोऽस्य जटाबन्धस्तण्डुः स्यान्नन्दिकेश्वरः ॥ १४ ॥ #रुद्राणी,शर्वाणी,काली,कात्यायनी,भवानी,आर्या,अम्बिका,मृडानी,हैमवती,पार्वती,गौरी,उमा,भगवती,दुर्गा,चण्डी,दाक्षायणी,शिवा,अपर्णा,महादेवी,गिरिजा,मेनकात्मजा रुद्राणी शर्वाणी काली कात्यायनी भवानी च । आर्याम्बिका मृडानी हैमवती पार्वती गौरी ॥ १५ ॥ उमा भगवती दुर्गा चण्डी दाक्षायणी शिवा । अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजा ॥ १६ ॥ #देवतामातरः ब्रह्माण्याद्याः स्मृताः सप्त देवतामातरो बुधैः । #चामुण्डा,कर्णमोटी,चर्चा,भैरवी चामुण्डा कर्णमोटी च चर्चा स्याद्भैरवी तथा ॥ १७ ॥ #हेरम्ब,लम्बोदर,आखुरथ,गणपति,गजवदन,परशुधर,एकदन्त,विनायक,विघ्नराज हेरम्बो लम्बोदर आखुरथो गणपतिश्च गजवदनः । परशुधर एकदन्तो विनायको विघ्नराजश्च ॥ १८ ॥ #गौरीपुत्र,षण्मुख,शक्तिपाणि,क्रौञ्चाराति,कार्तिकेय,विशाख,स्कन्द,स्वामिन्,तारकारि,कुमार,सेनानी,अग्निभू,बाहुलेय,गाङ्गेय,ब्रह्मचारिन्,गुह,वर्हिणवाहन,महासेन,महातेजस्,शरजन्मन् गौरीपुत्रः षण्मुखः शक्तिपाणिः, क्रौञ्चारातिः कार्त्तिकेयो विशाखः । स्कन्दः स्वामी तारकारिः कुमारः, सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥ गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः । महासेनो महातेजाः शरजन्मा च कथ्यते ॥ २० ॥ #विष्णु,कृष्ण,केशव,मञ्जुकेशी,श्रीवत्साङ्क,श्रीपति,पीतवासस्,विष्वक्सेन,विश्वरूप,मुरारि,शौरि,शार्ङ्गिन्,पद्मनाभ,मुकुन्द,गोविन्द,धरणिधर,सुपर्णकेतु,वैकुण्ठ,जलशयन,चतुर्भुज,दैत्यारि,मधुमथन,रथाङ्गपाणि,दाशार्ह,क्रतुपुरुष,वृषाकपि,जनार्दन,अधोक्षज,वासुदेव,दामोदर,श्रीधर,अच्युत,उपेन्द्र,इन्द्रावरज,बभ्र,हरि,हृषीकेश,आत्मभू,पुण्डरीकाक्ष,श्रीवत्स,विष्टरश्रवस्,नारायण,जगन्नाथ,वनमाली,गदाधर,सनातन,जिन,शम्भु,विधि,वेधस्,गदाग्रज,कैटभारि,अज,जिष्णु,कंसजित्,पुरुषोत्तम विष्णुः कृष्णः केशवो मञ्जुकेशी, श्रीवत्साङ्कः श्रीपतिः पीतवासाः । विष्वक्सेनो विश्वरूपो मुरारिः, शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥ ;p{0004} गोविन्दो धरणिधरः सुपर्णकेतु- र्वैकुण्ठो जलशयनश्चतुर्भुजश्च । दैत्यारिर्मधुमथनो रथाङ्गपाणि- र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥ जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च । उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥ आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः । नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥ सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः । कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥ #विष्णु_चक्र,सुदर्शन #विष्णु_चाप,शार्ङ्ग #विष्णु_गदा,कौमोदकी #विष्णु_खड्ग,नन्दक #विष्णु_शङ्ख,पाञ्चजन्य #विष्णु_मणि,कौस्तुभ #विष्णु_लाञ्छन,श्रीवत्स चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा । खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥ कौस्तुभो वक्षसि मणिः श्रीवत्सोऽस्य च लाञ्छनम् । #वसुदेव,आनकदुन्दुभि वसुदेवस्तु कथितो बुधैरानकदुन्दुभिः ॥ २७ ॥ #बलदेव,बलभद्र,मुशलिन्,नीलाम्बर,प्रलम्बघ्न,सीरिन्,सात्वत,तालध्वज,एककुण्डल,अनन्त,सङ्कर्षण,रौहिणेय,कालिन्दीकर्षण,बल,रेवतीरमण,राम,कामपाल,हलायुध बलदेवो बलभद्रो मुशली नीलाम्बरः प्रलम्बघ्नः । सीरी च सात्वतः स्यात्तालध्वज एककुण्डलोऽनन्तः ॥ २८ ॥ सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः । रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥ #विहङ्गराज,गरुड,गरुत्मत्,तार्क्ष्य,सुपर्णीतनय,सुपर्ण,वैनतेय,पवनाशनाश,सुरेन्द्रजित्,कश्यपनन्दन विहङ्गराजो गरुडो गरुत्मान्, तार्क्ष्यः सुपर्णीतनयः सुपर्णः । ;p{0005} स्याद्वैनतेयः पवनाशनाशः, सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥ #लक्ष्मी,श्री,कमला,पद्मा,पद्मवासा,हरिप्रिया,क्षीरोदतनया,मा,इन्दिरा लक्ष्मीः श्रीः कमला पद्मा पद्मवासा हरिप्रिया । क्षीरोदतनया मा च शब्दज्ञैरिन्दिरा स्मृता ॥ ३१ ॥ #प्रद्युम्न,मकरध्वज,मनसिज,सङ्कल्पजन्मन्,अङ्गज,पञ्चेषु,कुसुमायुध,मदन,मार,स्मर,मन्मथ,काम,शम्बरसूदन,मधुसख,शृङ्गारयोनि,दर्पक,शूर्पकाराति,अनङ्ग,विषमायुध,आत्मभू,मनसिशय,पुष्पधन्वन्,मनोभव,मापत्य,इरज #कामपत्नी,रति प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः, पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः । कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः, कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥ दर्पकः शूर्पकारातिरनङ्गो विषमायुधः । आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥ मापत्यमिरजश्चैव कामपत्नी रतिः स्मृता । #अनिरुद्ध,काम_सूनु,उषारमण अनिरुद्धश्च तत्सूनुरुषारमण इष्यते ॥ ३४ ॥ #आदित्य,सवितृ,सहस्रकिरण,प्रद्योतन,भास्कर,तिग्मांशु,तरणि,दिनमणि,भास्वत्,विवस्वत्,हरि,मार्तण्ड,तपन,विकर्तन,इन,पूषन्,पतङ्ग,भग,सूर्य,गोपति,यम,दिनकर,सूर,अंशुमालिन्,रवि,मिहिर,विरोचन,अर्क,तिमिररिपु,द्युमणि,अंशुमत्,अंशु,हरिदश्व,सप्ताश्व,प्रभाकर,भानुमत्,भानु,ब्रध्न,हंस,खग,मित्र,चित्रभानु,अहर्पति,कर्मसाक्षिन्,जगच्चक्षुस्,द्वादशात्मन्,त्रयीतनु आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर- स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः । मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः, सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥ मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः । हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥ ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः । कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥ ;p{0006} #रोचिस्,शोचिस्,अभीशु,प्रद्योत,गभस्ति,रश्मि,घृणि,किरण,रुचि,रुच्,दीधिति,दीप्ति,द्युति,प्रभा,भा,विभा,भास्,उस्र,धामन्,वसु,केतु,मरीचि,प्रग्रह,उपधृति,वृष्णि,मयूख,अंशु,भानु,कर,पाद,विरोक,गो रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः । रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥ उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः । अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥ #तिग्म,तीक्ष्ण,खर,तीव्र,चण्ड,उष्ण,पटु तिग्मं तीक्ष्णं खरं तीव्रं चण्डमुष्णं पटु स्मृतम् । #आतप,रौद्र,निदाघ,घर्म आतपः कथ्यते रौद्रं निदाघो घर्म उच्यते ॥ ४० ॥ #परिधि,परिवेष,मण्डल,उपसूर्यक परिधिः परिवेषः स्यान्मण्डलं चोपसूर्यकम् । #राहुसंस्पर्श,उपराग,उपप्लव उच्यते राहुसंस्पर्श उपराग उपप्लवः ॥ ४१ ॥ #इन्दु,चन्द्र,चन्द्रमस्,ओषधीश,सोम,राजा,रोहिणीवल्लभ,अब्ज,ऋक्षेश,अत्रिनेत्रप्रसूत,प्रालेयांशु,श्वेतरोचिस्,शशाङ्क,द्विजराज,रजनिकर,पीयूषरुचि,निशीथिनीनाथ,जैवातृक,मृगाङ्क,विधु,दाक्षायणीरमण इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः, सोमो राजा रोहिणीवल्लभोऽब्जः । ऋक्षेशः स्यादत्रिनेत्रप्रसूतः, प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥ द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः । जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥ #चन्द्रिका,कौमुदी,ज्योत्स्ना,चन्द्रातप चन्द्रिका कौमुदी ज्योत्स्ना तथा चन्द्रातपः स्मृतः । #मण्डल,बिम्ब #चन्द्र_लाञ्छन,मृग मण्डलं बिम्बमाख्यातं हृदये लाञ्छनं मृगः ॥ ४४ ॥ #अङ्क,चिह्न,अभिज्ञान,लाञ्छन,लक्ष्मन्,लक्षण,कलङ्क अङ्कश्चिह्नमभिज्ञानं लाञ्छनं लक्ष्म लक्षणम् । कलङ्कश्चेति विज्ञेया नातिनानार्थवाचकाः ॥ ४५ ॥ #वक्र,अङ्गारक,भौम,लोहिताङ्ग,धरात्मज वक्रमङ्गारकं भौमं लोहिताङ्गं धरात्मजम् । #रौहिणेय,बुध,सौम्य,चान्द्रमसायन रौहिणेयं बुधं सौम्यमाहुश्चान्द्रमसायनम् ॥ ४६ ॥ ;p{0007} #वाचस्पति,आङ्गिरस,बृहस्पति,गुरु,जीव,धिषण,त्रिदशाचार्य,चित्रशिखण्डिप्रसूत वाचस्पतिराङ्गिरसो वृहस्पतिः कथ्यते गुरुर्जीवः । धिषणस्त्रिदशाचार्यश्चित्रशिखण्डिप्रसूतश्च ॥ ४७ ॥ #उशनस्,शुक्र,काव्य,दैत्यगुरु,भार्गव,कवि,धिष्ण्य उशना शुक्रः काव्यो दैत्यगुरुर्भार्गवः कविर्धिष्ण्यः । #असित,क्रोड,पङ्गु,छायातनय,शनैश्चर,शौरि असितः क्रोडः पङ्गुश्छायातनयः शनैश्चरः शौरिः ॥ ४८ ॥ #स्वर्भानु,सैंहिकेय,तमस्,राहु,विधुन्तुद स्वर्भानुः सैंहिकेयश्च तमो राहुर्विधुन्तुदः । #केतु,शिखिन्,आर्द्रालुब्धक केतवः शिखिनः प्रोक्ता आर्द्रालुब्धक उच्यते ॥ ४९ ॥ #सप्तर्षि,चित्रशिखण्डिन् सप्तर्षयस्तु विद्वद्भिः स्मृताश्चित्रशिखण्डिनः । #कृत्तिका,बहुला #पक्ष,बहुल,असित कृत्तिका बहुला प्रोक्ताः पक्षस्तु बहुलोऽसितः ॥ ५० ॥ #भ,नक्षत्र,तारक,तारका,ज्योतिस्,तारा,धिष्ण्य,ऋक्ष,उडु भं नक्षत्रं तारकं तारका च, ज्योतिस्तारा धिष्ण्यमृक्षं तथोडु । #पुष्य,तिष्य #धनिष्ठा,श्रविष्ठा पुष्यस्तिष्यः स्याद्धनिष्ठा श्रविष्ठा, #दाक्षायण्यः,चन्द्रदाराः दाक्षायण्यः कीर्तिताश्चन्द्रदाराः ॥ ५१ ॥ #इन्द्र,दुश्च्यवन,हरि,सुरपति,सङ्क्रन्दन,वासव,वृत्रारि,बलसूदन,शतमख,वृद्धश्रवस्,कौशिक,जिष्णु,वज्रधर,सहस्रनयन,वास्तोष्पति,गोपति,पर्जन्य,मघवन्,वृषन्,हरिहय,प्राचीनबर्हिस्,पुरुहूत,पृतनाषाट्,पुरन्दर,पूर्वदिक्पति,स्वाराज्,आखण्डल,तुराषाह्,सुत्रामन्,गोत्रभिद्,सुनासीर,शक्र,उग्रधन्वन्,हरिवत्,पाकशासन,दिवस्पति,विडौजस्,मरुत्वत्,मेघवाहन इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो, वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः । जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः, पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥ पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् । आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥ शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः । दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥ ;p{0008} #इन्द्राणी,पौलोमी,शची #इन्द्र_सुत,जयन्त इन्द्राणी पौलोमी शची जयन्तश्च तत्सुतो ज्ञेयः । #इन्द्र_नगरी,अमरावती #इन्द्र_उद्यान,नन्दन अमरावती च नगरी नन्दनमुद्यानमिन्द्रस्य ॥ ५५ ॥ #पवि,अशनि,शतधार,वज्र,कुलिश,दम्भोलि,गो,भिदुर,व्याधाम,स्वरु,इन्द्रप्रहरण,शम्ब पविरशनिः शतधारं वज्रं कुलिशं च भवति दम्भोलिः । गौर्भिदुरं व्याधामः स्वरुरिन्द्रप्रहरणं तथा शम्बः ॥ ५६ ॥ #स्फूर्जथु,वज्रनिर्घोष #वज्रज्वाला,अतिभी स्फूर्जथुर्वज्रनिर्घोषो वज्रज्वालाऽतिभीः स्मृता । #ऋजु,रोहित,शक्रशरासन ऋजु रोहितमिच्छन्ति बुधाः शक्रशरासनम् ॥ ५७ ॥ #अभ्र,अब्द,घन,मेघ,स्तनयित्नु,पयोधर,धाराधर,धूमयोनि,जीमूत,बलाहक अभ्रमब्दो घनो मेघः स्तनयित्नुः पयोधरः । धाराधरो धूमयोनिर्जीमूतश्च बलाहकः ॥ ५८ ॥ #धारासम्पात,आसार #वातास्त,वारिसीकर धारासम्पात आसारो वातास्तं वारिसीकरः । #दुर्दिन,मेघतिमिर #करक,घनोपल दुर्दिनं मेघतिमिरं करकः स्याद्घनोपलः । #चलन्नवाभ्रमाला,कादम्बिनी चलन्नवाभ्रमाला च बुधैः कादम्बिनी स्मृता ॥ ५९ ॥ #शम्पा,चपला,क्षणिका,शतह्रदा,ह्लादिनी,तडित्,विद्युत्,सौदामिनी,अचिरांशु,ऐरावती शम्पा चपला क्षणिका शतह्रदा ह्लादिनी तडिद्विद्युत् । सौदामिन्यचिरांशुः प्राज्ञैरैरावती च विज्ञेया ॥ ६० ॥ #ऐरावत,अभ्रमातङ्ग,ऐरावण ऐरावतोऽभ्रमातङ्गः स चैरावण उच्यते । #उच्चैःश्रवस्,देवाश्व #मातलि,शक्रसारथि उच्चैःश्रवास्तु देवाश्वो मातलिः शक्रसारथिः ॥ ६१ ॥ #सप्तार्चिस्,बहुल,शिखिन्,हुतवह,वैश्वानर,अग्नि,वसु,वह्नि,वायुसख,सितेतरगति,स्वाहाप्रिय,पावक,अर्चिष्मत्,ज्वलन,कृशानु,अनल,धूमध्वज,हव्यवाह्,बर्हिर्ज्योतिस्,उषर्बुध,दहन,चित्रभानु,शुचि,कृपीटयोनि,दमुनस्,कृष्णवर्त्मन्,आशुशुक्षणि,विभावसु,अपांपित्त,जातवेदस्,तनूनपाद्,वीतिहोत्र,बृहद्भानु,आश्रयाश,धनञ्जय,हिरण्यरेतस्,तमोघ्न,रोहिताश्व,हुताशन सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु- र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः । अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्, बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥ ;p{0009} कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः । विभावसुरपांपित्तं जातवेदास्तनूनपात् ॥ ६३ ॥ वीतिहोत्रो बृहद्भानुराश्रयाशो धनञ्जयः । हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥ #अर्चिस्,कीला,ज्वाला,वर्चस्,तेजस्,त्विष्,ज्योतिस्,हेति,द्युति,दीप्ति,रुच्,शिखा,प्रभा,रश्मि अर्चिः कीला ज्वाला वर्चस्तेजस्त्विषस्तथा ज्योतिः । हेतिद्युतिदीप्तिरुचः शिखाप्रभारश्मयः समानार्थाः ॥ ६५ ॥ #प्रकाश,आलोक,उद्द्योत स्मृतः प्रकाश आलोक उद्द्योतश्च समास्त्रयः । #अग्नायी,स्वाहा #धूम्या,धूमसंहति अग्नायी कथ्यते स्वाहा धूम्या स्याद्धूमसंहतिः ॥ ६६ ॥ #उष्मा,वाष्प #स्फुलिङ्ग,कणा,जिह्वा,अर्चिस् ऊष्मा वाष्पः स्फुलिङ्गश्च कणा जिह्वास्तथार्चिषः । #अलात,उल्मुक #उल्का,ज्वाला अलातमुल्मुकं ज्ञेयमुल्का ज्वालास्य निर्गता ॥ ६७ ॥ #हिरण्या,कनका,रक्ता,कृष्णा,सुप्रभा,अतिरक्ता,बहुरूपा,अर्चिस्_जिह्वाः भवति हिरण्या कनका रक्ता कृष्णा सुप्रभा चान्या । अतिरक्ता बहुरूपेति सप्त सप्तार्चिषो जिह्वाः ॥ ६८ ॥ #एध,तर्पण,इन्धन,एधस्,समिध्,इध्मन् एधस्तर्पणमिन्धनमेधः समिदिध्म इत्यभिन्नार्थाः । #भूति,भसित,भस्मन्,क्षार,रक्षा भूतिर्भसितं भस्म क्षारं रक्षा च निर्दिष्टा ॥ ६९ ॥ #वनवह्नि,दव,दाव #मेघवह्नि,इरंमद वनवह्निर्दवो दावो मेघवह्निरिरंमदः । #और्व,समुद्रवह्नि,वाडव,वडवामुख और्वः समुद्रवह्निः स्याद्वाडवो वडवामुखः ॥ ७० ॥ #शमन,समवर्तिन्,प्रेतपति,पितृपति,कीनाश,वैवस्वत,कृतान्त,कालिन्दीसोदर,काल,अन्तक,धर्मराज,यम,दण्डधर,हरि,दक्षिणाशापति,श्राद्धदेव शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः । वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥ अन्तको धर्मराजश्च यमो दण्डधरो हरिः । दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥ ;p{0010} #यातु,यातुधान,क्रव्याद,राक्षस,रक्षस्,नक्तञ्चर,नैरृत,कौणप,नैकषेय यातूनि यातुधानाः क्रव्यादा राक्षसाश्च रक्षांसि । नक्तञ्चरनैर्ऋतकौणपास्तथा नैकषेयाः स्युः ॥ ७३ ॥ #वरुण,यादसांनाथ,पाशपाणि,प्रचेतस्,जलाधिदैवत,प्रत्यगाशापति वरुणं यादसां नाथं पाशपाणिं प्रचेतसम् । जलाधिदैवतं प्राहुः प्रत्यगाशापतिं बुधाः ॥ ७४ ॥ #पवन,श्वसन,वायु,मरुत्,अनिल,मारुत,जगत्प्राण,पृषदश्व,पवमान,प्रभञ्जन,स्पर्शन,वात,नभस्वत्,मातरिश्वन्,समीर,समीरण,सदागति,गन्धवह,हरि,महाबल पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः । पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥ नभस्वान्मातरिश्वा च समीरश्च समीरणः । सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥ #कङ्कावात #वात्या,वात_मण्डली कङ्कावातः सवृष्टिः स्याद्वात्या वातस्य मण्डली । #आमोद,परिमल,सौरभ्य,सुगन्धिता आमोदः स्यात्परिमलः सौरभ्यं च सुगन्धिता ॥ ७७ ॥ #ऐलविल,पौलस्त्य,वैश्रवण,किन्नरेश्वर,धनद,श्रीद,श्रीकण्ठसख,मनुष्यधर्मन्,धनाध्यक्ष,उत्तराशापति,यक्ष,कुबेर,नरवाहन,गुह्यक,राजराज,धनिन्,पुण्यजनेश्वर ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः । श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥ उत्तराशापतिर्यक्षः कुवेरो नरवाहनः । गुह्यको राजराजश्च धनी पुण्यजनेश्वरः ॥ ७९ ॥ #द्युम्न,द्रव्य,द्रविण,रै,सार,स्वापतेय,अर्थ,स्व,ऋक्थ,पृक्थ,वित्त,धन,हिरण्य,वसु,विभव द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् । ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥ #अकुप्य #कुप्य अकुप्यं रूप्यहेमाख्यं कुप्यमन्यद्धनं भवेत् । #जीवधन,गोमहिष्यादिक गोमहिष्यादिकं सर्वं बुधैर्जीवधनं स्मृतम् ॥ ८१ ॥ #निक्षेप,उपनिधि #शेवधि,निधि निक्षेपः स्यादुपनिधिः कथ्यते शेवधिर्निधिः । #किन्नर,किम्पुरुष,मयु,अश्वमुख किन्नरः स्यात्किम्पुरुषो मयुरश्वमुखस्तथा ॥ ८२ ॥ ;p{0011} #कुबेर_उद्यान,चैत्ररथ #कुबेर_विमान,पुष्पक उद्यानं स्याच्चैत्ररथं विमानं चास्य पुष्पकम् । #कुबेर_नगरी,अलका #कुबेर_पुत्र,नलकूबर अलका नगरी ज्ञेया पुत्रस्तु नलकूवरः ॥ ८३ ॥ #विश्वकृत्,विश्वकर्मन्,त्वष्टृ,देववर्धकि विश्वकृद्विश्वकर्मा च त्वष्टा स्याद्देववर्धकिः । #नासत्यौ,अश्विनौ,दस्रौ,देवचिकित्सकौ नासत्यावश्विनौ दस्रौ प्रोक्तौ देवचिकित्सकौ ॥ ८४ ॥ #शौद्धोदनि,दशबल,बुद्ध,शाक्य,तथागत,सुगत,मारजित्,अद्वयवादिन्,समन्तभद्र,जिन,सिद्धार्थ शौद्धोदनिर्दशबलो बुद्धः शाक्यस्तथागतः सुगतः । मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥ #जिनेन्द्र,वीतराग,अर्हन्,केवलिन्,त्रिकालविद् जिनेन्द्रो वीतरागोऽर्हन् केवली च त्रिकालवित् । #अलक्ष्मी,निरृति #नियति,विधि अलक्ष्मीर्निर्ऋतिर्ज्ञेया नियतिर्विधिरुच्यते ॥ ८६ ॥ #यक्ष,राक्षस,गन्धर्व,सिद्ध,किन्नर,गुह्यक,विद्याधर,अप्सरस्,भूत,पिशाच,देवयोनि यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः । विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥ #घृताची,मेनका,रम्भा,उर्वशी,तिलोत्तमा,सुकेशी,मञ्जुघोषा,अप्सरसः घृताची मेनका रम्भा उर्वशी च तिलोत्तमा । सुकेशी मञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः ॥ ८८ ॥ #हेला,विलास,बिब्बोक,लीला,ललित,विभ्रम,हाव,स्त्री_शृङ्गारचेष्टाः हेलाविलासविब्बोकलीलाललितविभ्रमाः । स्त्रीणां शृङ्गारचेष्टाः स्युर्हावपर्यायवाचकाः ॥ ८९ ॥ #भाव #रस बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत् । स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः ॥ ९० ॥ #रति,हास,शोक,क्रोध,उत्साह,भय,जुगुप्सा,विस्मय,शम,स्थायिभावाः रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥ #शृङ्गार,हास्य,करुण,रौद्र,वीर,भयानक,बीभत्स,अद्भुत,शान्त,रसाः शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥ ९२ ॥ ;p{0012} #गीत,गान #वाद्य,आतोद्य गीतं गानमिति प्रोक्तं वाद्यमातोद्यमिष्यते । #नृत्य,ताण्डव,लास्य नृत्यं तु ताण्डवं लास्यं त्रितयं नाट्यमुच्यते ॥ ९३ ॥ #ताल,कालक्रियामान #लय,साम्य तालः कालक्रियामानं लयः साम्यमुदाहृतम् । #अङ्गहार,अङ्गविक्षेप #अभिनय अङ्गहारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः ॥ ९४ ॥ #सङ्गीत प्रेक्षार्थं गीतवाद्यं तु सङ्गीतमभिधीयते । #पूर्वरङ्ग आदावेव तु यन्नाट्यं पूर्वरङ्गः स उच्यते ॥ ९५ ॥ #घोषवती,वीणा,विपञ्ची,परिवादिनी,वल्लकी प्रोक्ता घोषवती वीणा विपञ्ची परिवादिनी । वल्लकी चेति तद्भेदास्तन्त्रीभेदसमुद्भवाः ॥ ९६ ॥ #रङ्ग,नर्तनस्थान #मृदङ्ग,मुरज रङ्गः स्यान्नर्तनस्थानं मृदङ्गो मुरजः स्मृतः । #आनक,पटह,डिण्डिम,पणव आनकः पटहो ज्ञेयो डिण्डिमः पणवस्तथा ॥ ९७ ॥ #कोण,वादनदण्ड #भेरी,दुन्दुभि कोणो वादनदण्डः स्याद्भेरी दुन्दुभिरिष्यते । #राज्ञी,देवी #कुमार,भर्तृदारक नाट्ये राज्ञी स्मृता देवी कुमारो भर्तृदारकः ॥ ९८ ॥ #भाव,विद्वस् #भावुक,भगिनीपति भाव इत्युच्यते विद्वान् भावुको भगिनीपतिः । #आवुक,पितृ #आर्य,मारिष आवुकस्तु पिता ज्ञेय आर्यो मारिष उच्यते ॥ ९९ ॥ ;p{0013} #आशा,ककुभ्,काष्ठा,हरित्,दिश् आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः । #इन्द्र,अनल,यम,नैरृत,वरुण,मरुत्,धनद,रुद्र,दिक्पालाः इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥ #ऐन्द्री,पूर्वा,प्राची #याम्या,दक्षिणा,अवाची ऐन्द्री पूर्वा प्राची याम्या दिग्दक्षिणा तथाऽवाची । #वारुणी,प्रतीची #कौबेरी,उत्तरा,उदीची स्याद्वारुणी प्रतीची कौवेरी चोत्तरोदीची ॥ १०१ ॥ #दिश्_अन्तराल,विदिश्,प्रदिश् अन्तराला दिशश्चान्या विदिशः प्रदिशः स्मृताः । #उपरिष्टात्,उपरि,ऊर्ध्व #अधस्तात्,अवाक्,अधस् उपरिष्टादुपर्यूर्ध्वं तथाधस्तादवागधः ॥ १०२ ॥ #प्राचीन,प्राक् #उदीचीन,उदक् प्राचीनं प्राक् स्मृतं प्राज्ञैरुदीचीनमुदक् तथा । #प्रत्यक्,प्रतीचीन #अपाचीन,अपाक् प्रत्यक् चैव प्रतीचीनमपाचीनमपागिति ॥ १०३ ॥ #ऐरावत,पुण्डरीक,कुमुद,अञ्जन,वामन,पुष्पदन्त,सार्वभौम,सुप्रतीक,दिग्गजाः ऐरावतः पुण्डरीकः कुमुदाञ्जनवामनाः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १०४ ॥ #दिष्ट,काल,अनेहस् #कला दिष्टः कालस्तथानेहास्तद्भेदाः स्युः कलादयः । #अहोरात्र,षष्टिनाडिक अहोरात्रं च विद्वद्भिः कथ्यते षष्टिनाडिकम् ॥ १०५ ॥ #दिवस,दिवा,दिन,द्यु,अहन्,वासर,घस्र दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः । #प्रहर,याम #सन्ध्या,रजनीप्रवेशनिष्कासौ,दिनप्रवेशनिष्कासौ प्रहरो यामः सन्ध्ये रजनीदिनयोः प्रवेशनिष्कासौ ॥ १०६ ॥ #तमी,तमिस्रा,तमस्विनी,विभावरी,नक्तमुखा,शर्वरी,क्षपा,त्रियामा,क्षणदा,निशीथिनी,निशा,दोषा,रजनी,यामिनी,वसति,वासतेयी,श्यामा,रात्रि तमी तमिस्रा कथिता तमस्विनी, विभावरी नक्तमुखा च शर्वरी । ;p{0014} क्षपा त्रियामा क्षणदा निशीथिनी, निशा च दोषा रजनी च यामिनी ॥ १०७ ॥ वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते । #गणरात्र,निशा,चिररात्र गणरात्रो निशा बह्व्यश्चिररात्रस्ततः परम् ॥ १०८ ॥ #सायम्,दिवावसान,प्रदोष,रजनीमुख सायं दिवावसानं स्यात्प्रदोषो रजनीमुखम् । #निशीथ,मध्यमा-रात्रि,महानिशा निशीथो मध्यमा रात्रिः प्रोक्ता सा च महानिशा ॥ १०९ ॥ #अवतमस्,अन्धतमस्,संतमस्,ध्वान्त,अन्धकार,तिमिर,तमस्,तमिस्रा,तमिस्र,भूछाया अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च । तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥ #कल्य,उष,प्रत्यूष,प्रगे,प्रभात,विभात कल्यमुषः प्रत्यूषं प्रगे प्रभातं भवेद्विभातं च । #दिवसमुख,गोसर्ग,प्रातर्,व्युष्ट दिवसमुखं गोसर्गः प्रातर्व्युष्टं च निर्दिष्टम् ॥ १११ ॥ #सिनीवाली #कुहू,अमावास्या शशिनि सिनीवाली स्याद्दृष्टे नष्टे कुहूरमावास्या । #अनुमति #राका,पूर्णमासी अनुमतिरूने राका सम्पूर्णे पूर्णमासी च ॥ ११२ ॥ #त्रिंशदहोरात्र,मास #ऋतु,वसन्त,ग्रीष्म,प्रावृष्,शरद्,हेमन्त,शिशिर त्रिंशदहोरात्रः स्यान्मासस्ताभ्यामृतुर्वसन्ताद्याः । ग्रीष्मः प्रावृट् शरदा हेमन्तः शिशिर इति ते षट् ॥ ११३ ॥ #मधु,माधव,शुक्र,शुचि,नभस्,नभस्य,इष,ऊर्ज,सहस्,सहस्य,तपस्,तपस्य चैत्रादिमासा मधुमाधवौ द्वौ, ततः परं शुक्रशुची क्रमेण । नभोनभस्यौ कथिताविषोर्जौ, सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥ #पितृ_अहोरात्र,देव_अहोरात्र,ब्रह्मन्_अहोरात्र मासेन मनुष्याणां पित्र्यमहोरात्रमेकमिच्छन्ति । अब्देन तु देवानां ब्राह्मं देवयुगसहस्राभ्याम् ॥ ११५ ॥ ;p{0015} #हायन,अब्द,शरद्,वर्ष,संवत्सर,सम हायनाब्दशरद्वर्षसंवत्सरसमाः समाः । #निदाघ,ग्रीष्म #वर्षा,प्रावृष्,तपात्यय निदाघः कथ्यते ग्रीष्मो वर्षाः प्रावृट् तपात्ययः ॥ ११६ ॥ #संवर्त,परिवर्त,क्षय,युगान्त,जगद्विनाश,कल्पान्त,समसुप्ति,संहार,महाप्रलय संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च । कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥ #सान्दृष्टिक #उदर्क सान्दृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् । #तत्काल,तदात्व #उत्तरकाल,आयति तत्कालं तु तदात्वं स्यादुत्तरः काल आयतिः ॥ ११८ ॥ #दिति,अदिति,दनु,कद्रू,निकषा,विनता #दैत्य,सुर,दानव,उरग,पिशिताशन,पक्षिराज दितिरदितिर्दनुकद्रूनिकषाविनताश्च मातरः प्रोक्ताः । दैत्यसुरदानवोरगपिशिताशनपक्षिराजानाम् ॥ ११९ ॥ #चन्द्रार्कौ,पुष्पदन्तौ चन्द्रार्कावेकवाक्येन पुष्पदन्तौ प्रकीर्तितौ । #जायापती,जम्पती,दम्पती जायापती च विद्वद्भिर्जम्पती दम्पती तथा ॥ १२० ॥ #द्यावाभूमी,रोदस्यौ,रोदस्,रोदसी द्यावाभूमी च रोदस्यौ रोदसी रोदसीति च । #कशिपु,भोजनाच्छादौ #औशीर,शयनासन कशिपुर्भोजनाच्छादावौशीरं शयनासने ॥ १२१ ॥ #श्वस्,श्रेयस,कल्याण,श्वोवसीय,शिव,शुभ,भविक,भावुक,श्रेयस्,भव्य,भद्र,मङ्गल श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् । भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥ #प्रमोद,प्रमद,हर्ष,प्रीति,उत्कर्ष,उद्धव,सम्मद,मुद्,आनन्द,शर्मन्,जोषम्,शम्,सुख प्रमोदप्रमदौ हर्षः प्रीतिरुत्कर्ष उद्धवः । सम्मदो मुत्तथानन्दः शर्म जोषं च शं सुखम् ॥ १२३ ॥ #कैवल्य,निर्वाण,निःश्रेयस्,अमृत,अक्षर,ब्रह्मन्,अपुनर्भव,अपवर्ग,मुक्ति,मोक्ष,महानन्द कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म । अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥ ;p{0016} #सनातन,ध्रुव,नित्य,शाश्वत,अनश्वर सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् । #धर्म,पुण्य,वृष,श्रेयस्,सुकृत धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥ #दैव,अयानय,इष्टानिष्टफल इष्टानिष्टफलं प्राज्ञैः स्मृतं दैवमयानयम् । #भागधेय,भाग्य,विपाक,भवितव्यता भागधेयं तथा भाग्यं विपाको भवितव्यता ॥ १२६ ॥ #उपलिङ्ग,अरिष्ट,उपसर्ग,उपद्रव,उत्पात,ईति,अजन्य #डमर,डिम्ब,विप्लव उपलिङ्गमरिष्टं स्यादुपसर्ग उपद्रवस्तथोत्पातः । ईतिरजन्यं च बुधैर्डमरो डिम्बश्च विप्लवः कथितः ॥ १२७ ॥ #अर्चा,पूजा,सपर्या #उपहार,बलि अर्चा पूजा सपर्या स्यादुपहारो बलिः स्मृतः । #प्रणिधान,समाधान,समाधि प्रणिधानं समाधानं समाधिश्च समास्त्रयः ॥ १२८ ॥ #वरिवस्या,परिचर्या,शुश्रूषा,उपासना,परीष्टि,सेवा,भक्ति,उपास्ति,प्रसादन,आराधन,उपचार वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् । सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥ #प्रतिबिम्ब,प्रतिरूप,प्रतिमान,प्रतिकृति,प्रतिच्छन्द,प्रतिकाय,प्रतिनिधि,प्रतियातना,प्रतिच्छाया,अर्चा,प्रतिमा #हरिणी,हिरण्मयी-प्रतिमा प्रतिबिम्बं प्रतिरूपं प्रतिमानं प्रतिकृतिं प्रतिच्छन्दम् । प्रतिकायं च प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम् ॥ १३० ॥ अर्चा तु प्रतिमा प्रोक्ता हरिणी स्याद्धिरण्मयी । #सूर्मी,स्थूणा,लोहमयी-प्रतिमा अन्यलोहमयी प्राज्ञैः सूर्मी स्थूणा च कथ्यते ॥ १३१ ॥ #शुचि,मेध्य,पवित्र,पुण्य,पावन,विमल,विशद,विध्र,उज्ज्वल,अनाविल शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते । विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥ #भुवन,विष्टप,लोक,जगत् भुवनं विष्टपं लोको जगदेकार्थवाचकाः । #अमृत,त्रिदशाहार,सुधा,पीयूष अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥ #असवः,जीवित,प्राणाः,जीव,जीवाः असवो जीवितं प्राणा जीवो जीवा च कथ्यते । #क्षेत्रज्ञ,पुरुष,आत्मन् #संसारी,चेतन क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥ ;p{0017} #मन्दार,पारिजातक,हरिचन्दन,कल्पवृक्ष,सन्तान,सुरतरु मन्दारपारिजातकहरिचन्दनकल्पवृक्षसन्तानाः । #मेरु,सुरपर्वत पञ्चैते सुरतरवो मेरुः सुरपर्वतो ज्ञेयः ॥ १३५ ॥ #शक्रक्रीडाचल,मेरु,सुमेरु,हेमपर्वत,रत्नसानु,हेमाद्रि,त्रिदशालय शक्रक्रीडाचलो मेरुः सुमेरुर्हेमपर्वतः । रत्नसानुरिति ख्यातो हेमाद्रिस्त्रिदशालयः ॥ १३६ ॥ #नभस्,मरुद्वर्त्मन्,वियत्,विहायस्,तारापथ,पुष्कर,अन्तरिक्ष,व्योमन्,अम्बर,विष्णुपद,ख,द्यौ,विहायसा,गगन,द्यु नभो मरुद्वर्त्म वियद्विहाय- स्तारापथः पुष्करमन्तरिक्षम् । व्योमाम्बरं विष्णुपदं च खं द्यौ- र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥ #ह्राद,नाद,शब्द,स्वान,ध्वान,स्वर,रव,घोष ह्रादो नादः शब्दः स्वानो ध्वानः स्वरो रवो घोषः । #अभिधान,व्याहार,उदीरण,कथन अभिधानव्याहारोदीरणकथनादयस्तु तद्भेदाः ॥ १३८ ॥ #कोलाहल,कलकल,तुमुल,व्याकुल कोलाहलः कलकलस्तुमुलो व्याकुलो रवः । #उच्चावच,अनिबद्ध उच्चावचमिति प्रोक्तमनिबद्धं तु यद्वचः ॥ १३९ ॥ #उच्चैस्तर,तार #मन्द्र,गम्भीर उच्चैस्तरो ध्वनिस्तारो मन्द्रो गम्भीर उच्यते । #कल,मधुर-अव्यक्त #विक्रुष्ट,निष्ठुर कलश्च मधुरोऽव्यक्तो विक्रुष्टो निष्ठुरो मतः ॥ १४० ॥ #सान्त्व,मधुर-वाक्य #सूनृत,प्रिय-सत्य-वाक्य सान्त्वं स्यान्मधुरं वाक्यं प्रियं सत्यं च सूनृतम् । #म्लिष्ट,अविष्पष्ट #अबद्ध,वियुतार्थक ख्यातं म्लिष्टमविस्पष्टमबद्धं वियुतार्थकम् ॥ १४१ ॥ #तूर्णोदित,निरस्त #ग्रस्त,लुप्तपद तूर्णोदितं निरस्तं स्याद् ग्रस्तं लुप्तपदं स्मृतम् । #अम्बूकृत,सनिष्ठीव #ग्राम्य,अश्लील अम्बूकृतं सनिष्ठीवं ग्राम्यमश्लीलमुच्यते ॥ १४२ ॥ #काकु भिन्नकण्ठो ध्वनिर्धीरैः काकुरित्यभिधीयते । #समासप्राय,तण्डक समासप्रायमाख्यातं पदजातं च तण्डकम् ॥ १४३ ॥ ;p{0018} #ऋत,सत्य,समीचीन,सम्यक्,तथ्य,यथातथ ऋतं सत्यं समीचीनं सम्यक् तथ्यं यथातथम् । #अलीक,वितथ,मिथ्या,मृषा,अनृत अलीकं वितथं मिथ्या मृषा स्यादनृतं तथा ॥ १४४ ॥ #अर्थवाद,प्रशंसा,स्तोत्र,ईडा,स्तुति,नुति,विकत्थन,स्तव,श्लाघा,वर्णना अर्थवादः प्रशंसा च स्तोत्रमीडा स्तुतिर्नुतिः । विकत्थनं स्तवः श्लाघा वर्णना च निगद्यते ॥ १४५ ॥ #चटु,चाटु #हृद्यार्थ,हृदयङ्गम चटु चाटु प्रियं वाक्यं हृद्यार्थं हृदयङ्गमम् । #वार्ता,उदन्त,प्रवृत्ति,वृत्तान्त वार्त्तोदन्तः प्रवृत्तिश्च वृत्तान्तश्च समाः स्मृताः ॥ १४६ ॥ #अनादिवार्ता,ऐतिह्य #किंवदन्ती,जनश्रुति,कौलीन,जनवाद #विगान,वचनीयता अनादिवार्त्ता ह्यैतिह्यं किंवदन्ती जनश्रुतिः । कौलीनं जनवादः स्याद्विगानं वचनीयता ॥ १४७ ॥ #अपवाद,उपक्रोश,निर्वाद,अवर्णवाद,परिवाद,गर्हा,निन्दा,जुगुप्सा अपवाद उपक्रोशो निर्वादावर्णवादपरिवादाः । एकार्थाः कथ्यन्ते गर्हा निन्दा जुगुप्सा च ॥ १४८ ॥ #शाप,आक्रोश,आक्षेप,क्षारणा,विरूक्षण शाप आक्रोश आक्षेपः क्षारणा स्याद्विरूक्षणम् । #सोल्लुण्ठ,सोत्प्रास,सोपहास स्मृताः सोल्लुण्ठसोत्प्रासोपहासाः समास्त्रयः ॥ १४९ ॥ #अनुलाप,मुहुर्भाषा #प्रलाप,अनर्थक अनुलापो मुहुर्भाषा प्रलापोऽनर्थकं वचः । #उल्लाप #संलाप,मिथः-भाषण काक्वा वर्णनमुल्लापः संलापो भाषणं मिथः ॥ १५० ॥ #मर्मर,शुष्कपर्ण_ध्वनि #विस्फार,धनुष्_ध्वनि मर्मरः शुष्कपर्णानां विस्फारो धनुषां ध्वनिः । #बृंहित,वारण_ध्वनि #हेषा,ह्रेषा,वाजिन्_ध्वनि वृंहितं वारणानां च हेषा ह्रेषा च वाजिनाम् ॥ १५१ ॥ #आख्या,संज्ञा,अभिधा,आह्वान,नामधेय,नामन् आख्या संज्ञाभिधाह्वानं नामधेयं च नाम च । #आख्यायिका,कथा,आख्यान #प्रह्वलीका,प्रहेलिका आख्यायिका कथाख्यानं प्रह्वलीका प्रहेलिका ॥ १५२ ॥ #आम्रेडित,द्विस्त्रिर्व्याहरण विदुराम्रेडितं प्राज्ञा द्विस्त्रिर्व्याहरणं च यत् । #कीर्ति,श्लोक,यशस्,अभिख्या,समाख्या कीर्तिः श्लोको यशोऽभिख्यासमाख्यास्तुल्यलक्षणाः ॥ १५३ ॥ ;p{0019} #प्रश्न,अनुयोग #पर्यनुयोग,उपालम्भ प्रश्नः स्यादनुयोगः पर्यनुयोगो भवेदुपालम्भः । #आकारण,आह्वान,अभिमन्त्रण आकारणमाह्वानं कथयन्त्यभिमन्त्रणं प्राज्ञाः ॥ १५४ ॥ #तत्रभवत्,भगवत् #पाद,देव,भट्टारक तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये । पादा इति नामान्ते देवो भट्टारको वापि ॥ १५५ ॥ ;c{इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां स्वर्गकाण्डं प्रथमं समाप्तम् ॥ १ ॥} ;p{0020} ;k{भूमिकाण्डम्} ;c{द्वितीयं भूमिकाण्डम्} #भू,भूमि,वसुधा,अवनि,वसुमती,धात्री,धरित्री,धरा,गो,गोत्रा,जगती,रसा,क्षिति,इला,क्षोणी,क्षमा,क्ष्मा,अचला,कु,पृथ्वी,पृथिवी,स्थिरा,धरणी,विश्वम्भरा,मेदिनी,ज्या,अनन्ता,विपुला,समुद्रवसना,सर्वंसहा,ऊर्वी,मही,काश्यपी,भूतधात्री,रत्नगर्भा,वसुन्धरा,धराधारा भूर्भूमिर्वसुधावनिर्वसुमती धात्री धरित्री धरा, गौर्गोत्रा जगती रसा क्षितिरिला क्षोणी क्षमा क्ष्माचला । कुः पृथ्वी पृथिवी स्थिरा च धरणी विश्वम्भरा मेदिनी, ज्यानन्ता विपुला समुद्रवसना सर्वंसहोर्वी मही ॥ १५६ ॥ काश्यपी भूतधात्री च रत्नगर्भा वसुन्धरा । धराधारा च विज्ञेया तद्विशेषान्निबोधत ॥ १५७ ॥ #उर्वरा,सर्वसस्या #इरण,ऊषर उर्वरा सर्वसस्या भूर्भवेदिरिणमूषरम् । #खिल,अप्रहत #मरु,धन्वन् #स्थल,स्थली खिलमप्रहतं स्थानं मरुर्धन्वा स्थलं स्थली ॥ १५८ ॥ #मृद्,मृत्तिका #प्रशस्ता-मृद्,मृत्सा,मृत्स्ना मृन्मृत्तिका प्रशस्तासौ मृत्सा मृत्स्नेति कथ्यते । #शाद्वल #नड्वल शाद्वलं हरितं प्रोक्तं नड्वलं नलसंयुतम् ॥ १५९ ॥ #कृष्णभूम #कृष्णमृत्तिका कृष्णभूमः प्रदेशोऽसौ यत्र स्यात्कृष्णमृत्तिका । #पाण्डुभूम #उदग्भूम पाण्डुभूमस्तथा प्रोक्त उदग्भूमश्च पण्डितैः ॥ १६० ॥ #नदीमातृक नद्यम्बुजीवनो देशो नदीमातृक उच्यते । #देवमातृक वृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः ॥ १६१ ॥ ;p{0021} #मौद्गीन #कौद्रवीण मुद्गादीनां क्षेत्रं मौद्गीनं कौद्रवीणमित्यादि । #व्रैहेय #शालेय व्रैहेयं शालेयं भवति पुनर्व्रीहिशाल्योर्यत् ॥ १६२ ॥ #तिल्य,तैलीन #माष्य,माषीण #उम्य,औमीन तिल्यं तैलीनं स्यान्माष्यं माषीणमुम्यमौमीनम् । #भङ्ग्य,भाङ्गीन #यव्य,पष्टिक्य भङ्ग्यं भाङ्गीनं वा यव्यं षष्टिक्यमेषां च ॥ १६३ ॥ #शाकशाकट,शाकशाकिन शाकशाकटमाख्यातमथवा शाकशाकिनम् । शाकस्य क्षेत्रमन्येषामेवं क्षेत्रेषु संहतिः ॥ १६४ ॥ #अचल,शिलोच्चय,शैल,क्षितिधर,गिरि,गोत्र,पर्वत,अहार्य,नग,शिखरिन्,सानुमत्,धर,अद्रि,कुध्र अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः । नगशिखरिसानुमन्तो धराद्रिकुध्राश्च तुल्यार्थाः ॥ १६५ ॥ #नितम्ब,कटक #सानु,प्रस्थ #तट,भृगु नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः । #शृङ्ग,शिखर,कूट #निर्झर,अम्भस्_प्रस्रव शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥ #गुहा,पाषाणसन्धि,कन्दर,कन्दरा,दरी गुहा पाषाणसन्धिः स्यात्कन्दरः कन्दरा दरी । #निकुञ्ज,गह्वर निकुञ्जं गह्वरं प्रोक्तं पादाः प्रत्यन्तपर्वताः ॥ १६७ ॥ #शिला,उपल,अश्मन्,पाषाण,ग्रावन्,प्रस्तर,दृषद् शिलोपलाश्मपाषाणग्रावाणः प्रस्तरो दृषत् । #गण्डशैल गलिताः स्थूलपाषाणा गण्डशैला इति स्मृताः ॥ १६८ ॥ #अयस्कान्त,चुम्बक,भ्रामक अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः । #आकर,खनि,गञ्जा #रुमा,लवणाकर आकरः स्यात्खनिर्गञ्जा रुमा च लवणाकरः ॥ १६९ ॥ #गैरिक,ताम्र,शुल्ब,उदुम्बर उच्यते गैरिकं धातुस्ताम्रं शुल्वमुदुम्बरम् । #आरकूट,रीति #कांस्य,सौराष्ट्रक आरकूटः स्मृतो रीतिः कांस्यं सौराष्ट्रकं तथा ॥ १७० ॥ #गिरिसार,अश्मसार,लोह,कालायस,शस्त्र,तीक्ष्ण,अयस्,पारशव गिरिसारमश्मसारं लोहं कालायसं तथा शस्त्रम् । तीक्ष्णमयः पारशवं कवयः कथयन्त्यभिन्नार्थम् ॥ १७१ ॥ #सीसक,सीसपत्र #वङ्ग,मधुक,त्रपु सीसकं सीसपत्रं स्याद्वङ्गं च मधुकं त्रपु । #रजत,कलधौत,रूप्य,तार रजतं कलधौतं च रूप्यं तारं च कथ्यते ॥ १७२ ॥ ;p{0022} #हेमन्,स्वर्ण,जातरूप,सुवर्ण,भर्मन्,रुक्म,हाटक,शातकुम्भ,गाङ्गेय,गैरिक,भूरि,चन्द्र,रै,कल्याण,निष्क,अष्टापद,जाम्बूनद,हिरण्य,कनक,महारजत,काञ्चन,कार्तस्वर,चामीकर,कर्बुर,तपनीय हेम स्वर्णं जातरूपं सुवर्णं, भर्मं रुक्मं हाटकं शातकुम्भम् । गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं, राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥ जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः । कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥ #अश्मगर्भ,मरकत,हरिन्मणि अश्मगर्भं मरकतं हरिन्मणिरिति स्मृतः । #शोणाश्मन्,पद्मराग #वैदूर्य,बालवायज शोणाश्मा पद्मरागः स्याद्वैदूर्यं बालवायजम् ॥ १७५ ॥ #स्फटिक,सूर्यकान्त,अर्काश्मन्,दहनोपल स्फटिकः सूर्यकान्तः स्यादर्काश्मा दहनोपलः । #रत्न,वसु,मणि #लोह,तैजस रत्नं वसु मणिः सर्वं सर्वं लोहं च तैजसम् ॥ १७६ ॥ #वृक्ष,अंह्रिप,क्षितिरुह,शिखरिन्,शाखिन्,शाल,वनस्पति,अग,विटपिन्,कुठ,अद्रि,कुज,तरु,अनोकह,द्रु,विष्टर,नग,द्रुम,पादप वृक्षोंऽह्रिपः क्षितिरुहः शिखरी च शाखी, शालो वनस्पतिरगो विटपी कुठश्च । अद्रिः कुजस्तरुरनोकह इत्यभिन्नाः, शब्दा द्रुविष्टरनगद्रुमपादपाश्च ॥ १७७ ॥ #अवकेशिन् अवकेशी स विज्ञेयः फलैर्बन्ध्यस्तु यो भवेत् । #क्षुप #फलवान्,फलिन,फलिन् क्षुपो ह्रस्वशिफाशाखी फलवान् फलिनः फली ॥ १७८ ॥ #वानस्पत्य वानस्पत्याः स्मृता वृक्षा ये पुष्प्यन्ति फलन्ति च । #वनस्पति फलन्ति ये विना पुष्पं तान्वदन्ति वनस्पतीन् ॥ १७९ ॥ #ओषधि फलपाकावसानास्तु बुधैरोषधयः स्मृताः । #लता,प्रतानिनी,वल्ली,प्रतति,व्रतति लता प्रतानिनी वल्ली प्रततिर्व्रततिस्तथा ॥ १८० ॥ ;p{0023} #अवाग्भाग,बुध्न #प्राग्र,शिखिर,शिरस् अवाग्भागो भवेद् वुध्नः प्राग्रं तु शिखिरं शिरः । #विस्तार,विटप #आरोह,समुच्छ्रय विस्तारो विटपः प्रोक्त आरोहस्तु समुच्छ्रयः ॥ १८१ ॥ #स्कन्धादि,प्रकाण्ड #प्रघाण,स्कन्ध स्कन्धादधः प्रकाण्डः स्यात्प्रघाणः स्कन्ध उच्यते । #स्कन्धशाखा,शाला #निष्कुट,कोटर स्कन्धशाखा तु शाला स्यान्निष्कुटः कोटरः स्मृतः ॥ १८२ ॥ #त्वक्,वल्क,वल्कल #मज्जा,सार त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः । #करहाट,कन्द #पाद,मूल,जटा,शिफा करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥ #आवाल,आलवाल,आवाप,स्थानक आवाल आलवालः स्यादावापः स्थानकं तथा । #लतोद्गम,अवरोह #प्रवाल,पल्लवाङ्कुर,पल्लव,किसलय #वल्लरी,मञ्जरी,वर्ह,पर्ण,दल,पत्त्र,पलाश,छदन,छद लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥ पल्लवः स्यात्किसलयं वल्लरी मञ्जरी तथा । वर्हं पर्णं दलं पत्त्रं पलाशं छदनं छदः । #अङ्कूर,अङ्कुर #वृन्त,प्रसवबन्धन अङ्कूरश्चाङ्कुरः प्रोक्तो वृन्तं प्रसवबन्धनम् ॥ १८५ ॥ #पुष्प,प्रसव,कुसुम,प्रसूनक,सुमनस् पुष्पं प्रसवः कुसुमं प्रसूनकं सुमनसः समाख्याताः । #कोरक,जालक,कलिका,कुड्मल,मुकुल कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि ॥ १८६ ॥ #उन्मीलित,उन्मिषित,स्मित,उन्निद्र,विजृम्भित,हसित,उद्बुद्ध,व्याकोश उन्मीलितमुन्मिषितं स्मितमुन्निद्रं विजृम्भितं हसितम् । उद्बुद्धं व्याकोशं पुष्पेषु विकाशवाचकाः शब्दाः ॥ १८७ ॥ #पुष्प_रजस्,पराग #मकरन्द,मधु पौष्पं रजः परागः स्यान्मकरन्दो मधुः स्मृतः । #स्तबक,गुच्छक,गुच्छ,गुलुञ्छ स्तवको गुच्छको गुच्छो गुलुञ्छः परिकीर्तितः ॥ १८८ ॥ #शलाटु,कोमलफल #वान,शुष्कफल शलाटुः कोमलं प्रोक्तं वानं शुष्कफलं भवेत् । #बीजकोशी,शमी,शिम्बा #ग्रन्थि,पर्वन्,परु बीजकोशी शमी शिम्बा ग्रन्थिः पर्व परुस्तथा ॥ १८९ ॥ ;p{0024} #उलप,स्तम्ब,गुल्म #वीरुध्,विटप उलपस्तम्बगुल्माश्च वीरुधो विटपाः स्मृताः । #शष्प,बालतृण #तृण,अर्जुन,घास,यवस #बर्हिस्,दर्भ,कुथ,कुश शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥ घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः । #उलप,वल्वज #इषीका,काश उलपो वल्वजः प्रोक्त इषीका काश उच्यते । #हरिताली,दूर्वा #शर,मुञ्ज हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥ #रम्भा,कदली,मोचा #तृणराज,तल,ताल रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः । #कङ्केलि,अशोक #आम्र,चूत,सहकार कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥ #मृद्वीका,गोस्तनी,द्राक्षा,हारहूरा मृद्वीका गोस्तनी द्राक्षा हारहूरा च कथ्यते । #प्रियङ्गु,फलिनी,श्यामा #कुटज,गिरिमल्लिका प्रियङ्गुः फलिनी श्यामा कुटजो गिरिमल्लिका ॥ १९३ ॥ #करवीर,हयमार #मालूर,श्रीफल,विल्व करवीरो हयमारो मालूरः श्रीफलो भवेद्विल्वः । #करुण,जम्बीर #बदरी,कुवली,कर्कन्धु करुणो जम्बीरः स्याद्बदरी कुवली च कर्कन्धुः ॥ १९४ ॥ #अर्जुन,ककुभ #साल,सर्ज अर्जुनं ककुभं प्राहुः सालं सर्जं च सूरयः । #झाबुक,पिचुल #इज्जल,निचुल झाबुकः पिचुलः प्रोक्त इज्जलो निचुलः स्मृतः ॥ १९५ ॥ #अरिष्ट,पिचुमन्द #न्यग्रोध,वट अरिष्टः पिचुमन्दः स्यान्न्यग्रोधो वट उच्यते । #श्रीवृक्ष,पिप्पल,अश्वत्थ,बोधि श्रीवृक्षः पिप्पलोऽश्वत्थो बुधैर्बोधिश्च कथ्यते ॥ १९६ ॥ #ब्रह्मवृक्ष,पलाश,किंशुक,त्रिपत्त्रक ब्रह्मवृक्षः पलाशः स्यात्किंशुकश्च त्रिपत्त्रकः । #महावृक्ष,स्नुहि #शेलु,श्लेष्मातक महावृक्षः स्नुहिः प्रोक्तः शेलुः श्लेष्मातकः स्मृतः ॥ १९७ ॥ #नक्तमाल,करञ्ज #वृषा,वासा,आटरूषक नक्तमालः करञ्जः स्याद्वृषा वासाटरूषकः । #आरग्वध,कृतमाल,स्वर्णपुष्पी आरग्वधः कृतमालः स्वर्णपुष्पी च कथ्यते ॥ १९८ ॥ ;p{0025} #वृक्षोत्पल,कर्णिकार #पीतसाल,असन वृक्षोत्पलः कर्णिकारः पीतसालोऽसनः स्मृतः । #दण्डोत्पल,सहदेवा #सल्लकी,गजप्रिया दण्डोत्पलः सहदेवा सल्लकी स्याद् गजप्रिया ॥ १९९ ॥ #निर्गुण्डी,सिन्दुवार #मन्दार,पारिभद्रक निर्गुण्डी सिन्दुवारः स्यान्मन्दारः पारिभद्रकः । #ताम्बूली,नागवल्ली #गूवाक,पूग ताम्बूली नागवल्ली स्याद् गूवाकः पूग उच्यते ॥ २०० ॥ #वानीर,वञ्जुल,शीत,विदुल,वेतस वानीरो वञ्जुलः शीतो विदुलो वेतसः स्मृतः । #गोक्षुर,स्थलशृङ्गाट,श्वदंष्ट्रा,त्रिकण्टक गोक्षुरः स्थलशृङ्गाटः श्वदंष्ट्रा स्यात्त्रिकण्टकः ॥ २०१ ॥ #पिचव्य,बादर,कर्पास,तूलक,पिचु पिचव्यो बादरः प्रोक्तः कर्पासस्तूलकं पिचुः । #कोशातकी,पटोली #गिरिकर्णी,अपराजिता कोशातकी पटोली स्याद् गिरिकर्ण्यपराजिता ॥ २०२ ॥ #कृष्णला,गुञ्जा #तापिच्छ,काकतुण्डिका कथ्यते कृष्णला गुञ्जा तापिच्छः काकतुण्डिका । #किम्पाक,महाकाल #ओष्ठी,बिम्बी,तुण्डिका किम्पाकः स्यान्महाकाल ओष्ठी विम्बी च तुण्डिका ॥ २०३ ॥ #त्वचिसार,वंश,वेणु,त्वक्सार,मस्कर त्वचिसारश्च यो वंशो वेणुत्वक्सारमस्कराः । #कीचक स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः ॥ २०४ ॥ #नील-झिण्टी,बाण #पीत-झिण्टी,सहचरी नीला झिण्टी भवेद्वाणः पीता सहचरी भवेत् । #मालती,जाति,मागधी,यूथिका मालती कथ्यते जातिर्मागधी यूथिका तथा ॥ २०५ ॥ #हेमपुष्प,नागकेसर हेमपुष्पमिह नागकेसरं, #केसर,वकुल केसरं च वकुलं प्रचक्षते । #कोविदार,काञ्चनारक कोविदारमपि काञ्चनारकं, #मल्लिका,विचकिल मल्लिकां विचकिलं विचक्षणाः ॥ २०६ ॥ #वर्णपुष्प,अमलानक,किङ्किरात,कुरण्टक वर्णपुष्पममलानकं तथा, किङ्किरातमुदितं कुरण्टकम् । ;p{0026} #ओड्रपुष्प,जपा ओड्रपुष्पमभिधीयते जपा, #सप्तला,नवमालिका सप्तला च नवमालिका स्मृता ॥ २०७ ॥ #बन्धूक,बन्धुजीव #पुन्नाग,सुरपर्णिका बन्धूकं बन्धुजीवं स्यात्पुन्नागः सुरपर्णिका । #अतिमुक्त,वासन्ती,माधवी,लता अतिमुक्तकमिच्छन्ति वासन्तीं माधवीं लताम् ॥ २०८ ॥ #एर्वारु,चिर्भट,वालुकी,कर्कटी एर्वारुश्चिर्भटः प्रोक्तो वालुकी कर्कटी तथा । #कर्कारु,कूष्माण्ड #तुम्बी,अलाबू,दुग्धिका कर्कारुरथ कूष्माण्डस्तुम्ब्यलाबूश्च दुग्धिका ॥ २०९ ॥ #अरण्य,अटवी,सत्त्र,कान्तार,कानन,वन,विपिन,गहन अरण्यमटवी सत्त्रं कान्तारं काननं वनम् । विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥ #वनराजी तटोपकण्ठे या जाता वनराजी महीभृताम् । #उपत्यका #अधित्यका उपत्यकां तु तामाहुरुपरिष्टादधित्यकाम् ॥ २११ ॥ #आराम,उपवन नगरान्नातिदूरेण यः सद्भिरुपरोपितः । तरुषण्डः स आरामस्तथोपवनमुच्यते ॥ २१२ ॥ #प्रमदवन विज्ञेयं प्रमदवनं नृपस्तु यस्मिन्, शुद्धान्तैः सह रमते गृहोपकण्ठे । #उद्यान उद्यानं स्वयमपरैः समं च लोकै- रन्येषां विभववतां च पुष्पवाटी ॥ २१३ ॥ #मातङ्ग,द्विरद,द्विप,करि,गज,स्तम्बेरम,अनेकप,कुम्भिन्,कुञ्जर,वारण,इभ,रदिन्,सामोद्भव,सिन्धुर मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः, कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः । #हरि,मृगपति,पञ्चानन,केसरिन्,हर्यक्ष,नखरायुध,मृगरिपु,सिंह,कण्ठीरव तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी, हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥ #भद्र,मन्द,मृग भद्रो मन्दो मृगश्चेति विज्ञेयास्त्रिविधा गजाः । वनप्रचारसारूप्यसत्त्वभेदोपलक्षिताः ॥ २१५ ॥ ;p{0027} #मूर्धपिण्ड,कुम्भ #करट,कट,गण्ड #वमथु,करसीकर मूर्धपिण्डौ स्मृतौ कुम्भौ कुम्भयोरन्तरं विदुः । करटः स्यात्कटो गण्डो वमथुः करसीकरः ॥ २१६ ॥ #दान,मद #विषाण,दशन #स्कन्ध,आसन दानं मदो विषाणौ च दशनौ स्कन्ध आसनम् । #अपाङ्गदेश,निर्याण #कर्णमूल,चूलिका अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ २१७ ॥ #अवग्रह,ललाट #आरक्ष अवग्रहो ललाटं स्यादारक्षः कुम्भयोरधः । #प्रतिमान दन्तयोरुभयोर्मध्यं प्रतिमानं प्रचक्ष्यते ॥ २१८ ॥ #कराग्र,पुष्कर,अङ्गुलि,कर्णिका कराग्रं पुष्करं प्रोक्तमङ्गुलिः कर्णिका मता । #पेचक,पुच्छमूल #पद्म,बिन्दुजालक पेचकः पुच्छमूलं तु पद्मं स्याद् विन्दुजालकम् ॥ २१९ ॥ #लग्न,प्रभिन्न,मत्त #उपात्त,मदवर्जित लग्नः प्रभिन्नो मत्तः स्यादुपात्तो मदवर्जितः । #परिणत तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः ॥ २२० ॥ #सज्जित,कल्पित #घटना,घटा सज्जितः कल्पितो ज्ञेयो बहूनां घटना घटा । #चूषा,कक्ष्या,वरत्रा #आलान,स्तम्भ चूषा कक्ष्या वरत्रा स्यादालानं स्तम्भ उच्यते ॥ २२१ ॥ #पादकर्मन्,यत #यात,अङ्कुशवारण पादकर्म यतं प्रोक्तं यातमङ्कुशवारणम् । #वीत #स्थूलोच्चय उभयं वीतमाख्यातं भेदः स्थूलोच्चयो गतेः ॥ २२२ ॥ #करीरी,दन्तमूल #वारी,गजबन्धन करीरी दन्तमूलं स्याद्वारी च गजबन्धनम् । #निगड,पादबन्ध,हिञ्जीर,शृङ्खला,अन्दुक निगडः पादबन्धश्च हिञ्जीरः शृङ्खलोऽन्दुकः ॥ २२३ ॥ #कलभ,करिपोत #अङ्कुश,सृणि कलभः करिपोतः स्यादङ्कुशः सृणिरुच्यते । #औपवाह्य,राजवाह्य #सन्नाह्य औपवाह्यो राजवाह्यः सन्नाह्यः समरोचितः ॥ २२४ ॥ #व्याल,दुष्टगज #हस्तिनी,वशा व्यालो दुष्टगजः प्रोक्तो हस्तिनी तु वशा स्मृता । ;p{0028} #आधोरण,हस्तिपक,हस्त्यारोह,निषादिन् आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । #गजाजीव,महामात्र गजाजीवास्तु शास्त्रज्ञैर्महामात्रा इति स्मृताः ॥ २२५ ॥ #कोल,क्रोड,शूकर,वराह,पोत्रिन्,दंष्ट्रिन्,घृष्टि,किरि कोलः क्रोडः शूकरः स्याद्वराहः, पोत्री दंष्ट्री घृष्टिरुक्तः किरिश्च । #व्याघ्र,द्वीपिन्,पुण्डरीक,तरक्षु,शार्दूल,चित्रकाय,मृगारि व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः, शार्दूलः स्याच्चित्रकायो मृगारिः ॥ २२६ ॥ #महिष,सैरिभ,रक्ताक्ष,कासर,लुलाय महिषः सैरिभ उक्तो रक्ताक्षः कासरो लुलायश्च । #वाध्रीणस,खड्गिन्,गण्डक वाध्रीणसश्च खड्गी गण्डक इति कथ्यते सद्भिः ॥ २२७ ॥ #ऋक्ष,अच्छ,भल्ल,भाल्लूक,भल्लूक ऋक्षाच्छभल्लभाल्लूकभल्लूकाश्च समाः स्मृताः । #अरण्यश्वन्,कोक,ईहामृग,वृक अरण्यश्वा बुधैर्ज्ञेयः कोक ईहामृगो वृकः ॥ २२८ ॥ #गोमायु,भूरिमाय,शृगाल,जम्बुक,शिवा,फेरण्ड,फेरव,फेरु,क्रोष्टृ,मृगधूर्तक गोमायुर्भूरिमायः स्याच्छृगालो जम्बुकः शिवा । फेरण्डः फेरवः फेरुः क्रोष्टा च मृगधूर्तकः ॥ २२९ ॥ #एण,कुरङ्ग,हरिण,मृग,सारङ्ग,ऋष्य,पृषत,रुरु,न्यङ्कु,रङ्कु,वातप्रमी,शम्बर,कृष्णसार एणः कुरङ्गो हरिणो मृगः स्यात् सारङ्ग ऋष्यः पृषतो रुरुश्च । न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा, वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥ #बलीमुख,मर्कटक,वनौकस्,प्लवङ्गम,प्लवग,प्लवङ्ग,हरि,कपि,कीश,शाखामृग,वानर बलीमुखो मर्कटको वनौकाः, प्लवङ्गमः स्यात्प्लवगः प्लवङ्गः । हरिः कपिः कीश इमे च शब्दाः, शाखामृगो वानर इत्यभिन्नाः ॥ २३१ ॥ ;p{0029} #गोलाङ्गूल गोलाङ्गूल इति प्रोक्तः कृष्णवक्त्रस्तु मर्कटः । #कापेय कपेः क्रीडादिकं किञ्चित्कापेयमिति कथ्यते ॥ २३२ ॥ #शलल,शल्लक,श्वावित् #सूची,शलल,शल शललः शल्लकः श्वावित्तत्सूची शललं शलम् । #श्वापद व्याघ्रादयो वनचराः पशवः श्वापदाः स्मृताः ॥ २३३ ॥ #गोधा,मुशलिका #गौधेर गोधा मुशलिका प्रोक्ता गौधेरास्तत्सुता मताः । #सरट,कृकलास,प्रतिसूर्यशयानक सरटः कृकलासः स्यात्प्रतिसूर्यशयानकः ॥ २३४ ॥ #आखु,वृष,मूषक,उन्दुर,खनक आखुर्वृषो मूषकः स्यादुन्दुरः खनकस्तथा । #छुच्छुन्दरी,गन्धमूषिका छुच्छुन्दरी च विज्ञेया विद्वद्भिर्गन्धमूषिका ॥ २३५ ॥ #ओतु,विडाल,मार्जार,वृषदंश ओतुर्विडालो मार्जारो वृषदंशश्च कथ्यते । #जाहक,गात्रसङ्कोचिन्,मण्डलिन् जाहको गात्रसङ्कोची मण्डली च बुधैः स्मृतः ॥ २३६ ॥ #पतन्,पतङ्ग,पतग,पतत्रिन्,पत्त्रिन्,शकुन्ति,शकुनि,शकुन्त,वयस्,विहायस्,विहग,विहङ्ग,विहङ्गम,पत्त्ररथ,गरुत्मत्,शकुन,खग,नगौकस्,पक्षिन्,वि,विष्किर,विकिर,अण्डज,नीडज,वाजि,द्विज पतन्पतङ्गः पतगः पतत्री, पत्त्री शकुन्तिः शकुनिः शकुन्तः । वयो विहायो विहगो विहङ्गो, विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥ शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः । अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥ #तनूरुह,गरुत्,पत्त्र,पतत्त्र,छदन,छद,पिच्छ,वाज,पक्ष तनूरुहं गरुत्पत्त्रं पतत्रं छदनं छदः । #पक्षमूल,पक्षति पिच्छं वाजस्तथा पक्षः पक्षमूलं तु पक्षतिः ॥ २३९ ॥ #पेशीकोश,अण्ड #कुलाय,नीड पेशीकोशः स्मृतोऽण्डश्च कुलायो नीड उच्यते । #चञ्चु,चञ्चू,त्रोटि #डयन चञ्चुश्चञ्चूस्तथा त्रोटिर्डयनं गगने गतिः ॥ २४० ॥ ;p{0030} #केकिन्,शिखिन्,शिखण्डिन्,प्रचलाकिन्,बर्हिण,कलापिन्,सर्पाशन,मयूर,शिखावल,श्यामकण्ठ केकी शिखी शिखण्डी प्रचलाकी वर्हिणः कलापी च । सर्पाशनो मयूरः शिखावलः श्यामकण्ठश्च ॥ २४१ ॥ #केका,शिखा,चूडा #चन्द्रक,मेचक वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः । #प्रचलाक,शिखण्ड,कलाप,वर्ह प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥ #अन्यभृत,परपुष्ट,कलकण्ठ,कोकिल,पिक अन्यभृतः परपुष्टः कलकण्ठः कोकिलः पिकः प्रोक्तः । #कलविङ्क,चटक,गृहबलिभुज्,नीलकण्ठ कलविङ्कश्चटकः स्याद् गृहबलिभुक् नीलकण्ठश्च ॥ २४३ ॥ #क्रौञ्च,क्रुञ्च् #खञ्जन,खञ्जरीट क्रौञ्चः क्रुङ् स्यात्खञ्जनः खञ्जरीटः #कोक,चक्र,चक्रवाक,रथाङ्ग कोकश्चक्रश्चक्रवाको रथाङ्गः । #दार्वाघाट,सारस,पुष्कर दार्वाघाटः सारसः पुष्कराख्यः, #सारसी,लक्ष्मणा प्रोक्ता सद्भिः सारसी लक्ष्मणा च ॥ २४४ ॥ #अरिष्ट,करट,काक,बलिपुष्ट,सकृत्प्रज,एकदृश्,बलिभुज्,ध्वाङ्क्ष,चिरञ्जीविन्,वायस अरिष्टः करटः काको बलिपुष्टः सकृत्प्रजः । एकदृग्बलिभुक् ध्वाङ्क्षश्चिरञ्जीवी च वायसः ॥ २४५ ॥ #उलूक,कौशिक,ध्वाङ्क्षाराति,निशाटन उलूकः कौशिकः प्रोक्तो ध्वाङ्क्षारातिर्निशाटनः । #काकोल,मौकलि,द्रोण,कृष्णकाक,वनाश्रय काकोलो मौकलिर्द्रोणः कृष्णकाको वनाश्रयः ॥ २४६ ॥ #कृकवाकु,ताम्रचूड,कुक्कुट,चरणायुध कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः । #किकिदीवि,चाष #शकुन्त,भास किकिदीविः स्मृतश्चाषः शकुन्तो भास उच्यते ॥ २४७ ॥ #भृङ्ग,कलिङ्ग,धूम्याट #सारङ्ग,चातक भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः । #व्याघ्राट,भरद्वाज #शुक,कीर व्याघ्राटस्तु भरद्वाजः शुकः कीर उदाहृतः ॥ २४८ ॥ #आटि,शरारि,आति #उत्क्रोश,कुरर आटिः शरारिरातिः स्यादुत्क्रोशः कुररो मतः । #दात्यूह,जलरङ्कु #कोयष्टि,शिखरिन् दात्यूहो जलरङ्कुः स्यात्कोयष्टिः शिखरी स्मृतः ॥ २४९ ॥ ;p{0031} #बक,बकोट #बलाका,विस्रकण्ठिका वको वकोटो विज्ञेयो बलाका विस्रकण्ठिका । #आतायिन्,शकुनि,चिल्ल #मद्गु,जलवायस आतायी शकुनिश्चिल्लो मद्गुः स्याज्जलवायसः ॥ २५० ॥ #हंस,श्वेतच्छद,चक्राङ्ग,मानसौकस् हंसाः श्वेतच्छदाः प्रोक्ताश्चक्राङ्गा मानसौकसः । #वारला,हंसकान्ता,वरला,वरटा वारला हंसकान्ता स्याद्वरला वरटा तथा ॥ २५१ ॥ #राजहंस #धार्तराष्ट्र आताम्रै राजहंसाश्च धार्तराष्ट्राः सितेतरैः । #मल्लिका मलिनैर्मल्लिकाख्याश्च कथ्यन्ते चरणाननैः ॥ २५२ ॥ #कलहंस पक्षैराधूसरैर्हंसाः कलहंसा इति स्मृताः । #प्राचिका,श्येना #चटिका,क्षुद्रपक्षिका प्रोच्यन्ते प्राचिकाः श्येनाश्चटिकाः क्षुद्रपक्षिकाः ॥ २५३ ॥ #जीवञ्जीव,कपिञ्जल,चकोर,हारीत,वञ्जुल,कपोत,कारण्डव,कादम्ब,क्रकर जीवञ्जीवकपिञ्जलचकोरहारीतवञ्जुलकपोताः । कारण्डवकादम्बक्रकराद्याः पक्षिजातयो ज्ञेयाः ॥ २५४ ॥ #मधुकर,मधुप,मधुव्रत,शिलीमुख,भ्रमर,भृङ्ग,पुष्पलिह्,इन्दिन्दिर,आलि,षट्चरण,चञ्चरीक,अलिन्,द्विरेफ मधुकरमधुपमधुव्रतशिलीमुखभ्रमरभृङ्गपुष्पलिहः । इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः ॥ २५५ ॥ #झिल्लीका,चीरी #सरघा,मधुमक्षिका,क्षुद्रा झिल्लीका चीरी स्यात्सरघा मधुमक्षिका भवेत्क्षुद्रा । #लूता,ऊर्णनाभ,मर्कट,जालिक,कृमि लूतोर्णनाभमर्कटजालिककृमयश्च तुल्यार्थाः ॥ २५६ ॥ #पतङ्ग,शलभ #खद्योत,द्योतिरिङ्गण पतङ्गः शलभः प्रोक्तः खद्योतो द्योतिरिङ्गणः । #हालाहल,अञ्जनिका #ज्येष्ठा,गृहगोधिका हालाहलश्चाञ्जनिका ज्येष्ठा स्याद् गृहगोधिका ॥ २५७ ॥ #ग्राम,संवसथ,ग्रामाधान,खेटक ग्रामः संवसथो ज्ञेयो ग्रामाधानं च खेटकम् । #ग्रामीण,ग्राम्य,ग्रामेयक ग्रामीणास्तु निगद्यन्ते ग्राम्या ग्रामेयका इति ॥ २५८ ॥ #परिसर,कट ग्रामान्तिकमुपशल्यं पर्यन्तः परिसरः कटः प्रोक्तः । #अवधि,मर्यादा,आघाट,सीमन्,सीमा अवधिर्मर्यादा स्यादाघाटः सीम सीमा च ॥ २५९ ॥ ;p{0032} #अध्वन्,पथस्,पद्धति,एकपदी,वर्त्मन्,वर्तनी,सरणि,अयन,पदवी,मार्ग,पद्या,निगम अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः । अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥ #प्रान्तर ग्रामयोरन्तरं दीर्घं प्रान्तरं परिकीर्त्यते । #घोष,आभीरपल्ली #पक्कण,शबरालय घोष आभीरपल्ली स्यात्पक्कणः शवरालयः ॥ २६१ ॥ #व्रज,गोकुल,गोष्ठ,गोवृन्द,गोधन व्रजः स्याद् गोकुलं गोष्ठं गोवृन्दं गोधनं धनम् । #गोमत्,गोमिन्,गोस्वामिन्,गोविन्द गोमान् गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् ॥ २६२ ॥ #उक्षन्,अनडुह्,बलीवर्द,ककुद्मत्,वृषभ,वृष,ऋषभ,सौरभेय,गो,वाडवेय,शाक्वर उक्षानड्वान्वलीवर्दः ककुद्मान्वृषभो वृषः । ऋषभः सौरभेयो गौर्वाडवेयोऽथ शाक्वरः ॥ २६३ ॥ #तर्णक,वत्स #दम्य,वत्सतर तर्णकः स्मर्यते वत्सो दम्यो वत्सतरः स्मृतः । #आर्षभ्य आर्षभ्यः स च विज्ञेयः षण्ढत्वे यस्य योग्यता ॥ २६४ ॥ #महोक्ष,उक्षतर #वृद्धोक्ष,जरद्गव महोक्षः स्यादुक्षतरो वृद्धोक्षस्तु जरद्गवः । #धुर्य,धौरेय धुरं वहति यो धुर्यो धौरेयः स च कथ्यते ॥ २६५ ॥ #स्थूरिन्,पृष्ठवाह्य #स्कन्धिक,स्कन्धवाहक स्थूरी स्यात्पृष्ठवाह्यस्तु स्कन्धिकः स्कन्धवाहकः । #अंसकूट,ककुद #सास्ना,गलकम्बल अंसकूटस्तु ककुदं सास्ना स्याद् गलकम्बलः ॥ २६६ ॥ #नीचकी,वह नीचकी च शिरोदेशः स्कन्धदेशो वहः स्मृतः । #नस्योत,नस्तित #षोडन्,षड्दशन नस्योतो नस्तितः प्रोक्तः षोडन् षड्दशनः स्मृतः । #भग्नशृङ्ग,कूट #विषाण,शृङ्ग भग्नशृङ्गस्तु कूटः स्याद्विषाणं शृङ्गमुच्यते ॥ २६७ ॥ #अघ्न्या,गो,माहेयी,सुरभि,बहुला,सौरभेयी,उस्रा,अर्जुनी,रोहिणी,अनडुही,अनड्वाही अघ्न्या गौर्माहेयी सुरभिर्बहुला च सौरभेयी च । उस्रार्जुनी च रोहिण्युक्तानडुही बुधैरनड्वाही ॥ २६८ ॥ #वेहत्,वृषभोपगता #प्रष्ठौही,गर्भिणी #वशा,वन्ध्या वेहद्वृषभोपगता प्रष्ठौही गर्भिणी वशा बन्ध्या । #धेनु,नवप्रसूता #वष्कयणी,प्रौढवत्सा धेनुर्नवप्रसूता वष्कयणी प्रौढवत्सा स्यात् ॥ २६९ ॥ ;p{0033} #अवतोका,स्रवद्गर्भा #भद्रा,गोमतल्लिका अवतोका स्रवद्गर्भा भद्रा गौर्गोमतल्लिका । #अचण्डी,सूरता #वत्सकामा,वत्सला अचण्डी सूरता प्रोक्ता वत्सकामा तु वत्सला ॥ २७० ॥ #ऊधन्,आपीन #पीनोध्नी,पीवरस्तनी ऊधः स्यादापीनं पीनोध्नी पीवरस्तनी प्रोक्ता । #श्रेष्ठा,नैचिकी #द्रोणदुधा,प्रचुरदुग्धा श्रेष्ठा च नैचिकी स्याद्द्रोणदुघा प्रचुरदुग्धा च ॥ २७१ ॥ #काल्या,उपसर्या काल्योपसर्या प्रजने प्रसिद्धा, #परेष्टुका,प्रचुरप्रसूति परेष्टुका च प्रचुरप्रसूतिः । #समांसमीना विजायते या प्रतिवत्सरं गौः, समांसमीनेति निगद्यतेऽसौ ॥ २७२ ॥ #गृष्टि #पलिक्नी,बालगर्भिणी गृष्टिः सकृत्प्रसूता स्यात्पलिक्नी बालगर्भिणी । #गव्य,गोसम्भव #करीष,गोमय गव्यं गोसम्भवं सर्वं करीषं गोमयं स्मृतम् ॥ २७३ ॥ #ऊधस्य,क्षीर,दुग्ध,स्तन्य,पयस्,पीयूष ऊधस्यं क्षीरं स्याद्दुग्धं स्तन्यं पयश्च पीयूषम् । #दधिसार,नवनीत,हैयङ्गवीन दधिसारं नवनीतं ब्रुवते हैयङ्गवीनं च ॥ २७४ ॥ #तक्र,अरिष्ट,उदश्वित्,दण्डाहत,कालशेय,मथित तक्रमरिष्टमुदश्विद्दण्डाहतकालशेयमथितानि । #द्रप्स,दधि,अघन #घृत,आज्य,आघार द्रप्सं दध्यघनं स्यात्सर्पिर्घृतमाज्यमाघारः ॥ २७५ ॥ #शीन,स्त्यान #शृत,पक्व #विलीन,द्रुत शीनं स्त्यानं शृतं पक्वं विलीनं द्रुतमुच्यते । #मथन्,मन्थ,मन्थान,वैशाख,खजक मन्था मन्थश्च मन्थानो वैशाखः खजकस्तथा ॥ २७६ ॥ #सन्दान,दामनी,दामन् सन्दानं दामनी दाम पशूनां बन्धनं मतम् । #अज,स्तम्भ #वस्त,छाग,छगलक,छग अजः प्रोक्तः स्तभो वस्तश्छागश्छगलकश्छगः ॥ २७७ ॥ #वर्कर वर्करः कथ्यते सद्भिः सर्वोऽपि तरुणः पशुः । #तूवर तूवरः शृङ्गहीनस्तु पुमानव्यञ्जनश्च यः ॥ २७८ ॥ ;p{0034} #अवि,ऊर्णायु,अभ्र,हुडु,उरण,वृष्णि,मेष,मेण्ढ अविरूर्णायुरभ्रो हुडुरुरणो वृष्णिमेषमेण्ढाः स्युः । #अविसोढ,अविमरीस,अविदूस अविसोढमविमरीसं स्यादविदूसं च दुग्धमवेः ॥ २७९ ॥ #दासेरक,क्रमेलक,उष्ट्र,मय,रवण,करभ,शृङ्खलक दासेरकः क्रमेलक उष्ट्रो मयरवणकरभशृङ्खलकाः । #बालेय,चक्रीवत्,खर,गर्दभ,रासभ बालेयश्चक्रीवान् खरगर्दभरासभाश्च तुल्यार्थाः ॥ २८० ॥ #कौलेयक,सारमेय,भषण,श्वन्,कुर्कुर,शुनक,मृगदंश,शालावृक कौलेयकः सारमेयो भषणः श्वा च कुर्कुरः । शुनको मृगदंशश्च बुधैः शालावृको मतः ॥ २८१ ॥ #विश्वकद्रु मृगव्ये कुशलः श्वा च विश्वकद्रुरिति स्मृतः । #अलर्क #शुनकी,सरमा अलर्को रोगितो ज्ञेयः शुनकी सरमोच्यते ॥ २८२ ॥ #षड्गव पशूनां षट्कसंख्यायां षड्गवं स्मर्यते बुधैः । #गोयुग द्वित्वे च गोयुगं तेषां नामोच्चारणपूर्वकम् ॥ २८३ ॥ #नीवृत्,जनपद,देश,उपवर्तन नीवृज्जनपदो देश उपवर्तनमिष्यते । #जन,लोक,प्रजा जनो लोकः प्रजा प्रोक्ता विषयो ग्रामसंख्यया ॥ २८४ ॥ #पत्तन,अधिष्ठान,निगम,पुटभेदन,नगर,नगरी,द्रङ्ग,स्थानीय,पुर्,पुरी,पुर पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् । नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥ #स्कन्धावार,राजधानी स्कन्धावार इति प्राज्ञै राजधानी निगद्यते । #शाखानगर,उपनगर शाखानगरमाख्यातं तथोपनगरं बुधैः ॥ २८६ ॥ #विदेहा,मिथिला #काशि,वाराणसी विदेहा मिथिला प्रोक्ता काशिर्वाराणसी स्मृता । #अवन्ती,उज्जयिनी #कन्यकुब्जा,महोदया अवन्त्युज्जयिनी ज्ञेया कन्यकुब्जा महोदया ॥ २८७ ॥ #हस्तिनख,परिकूट #गोपुर,पुरद्वार हस्तिनखः परिकूटं च कथ्यते गोपुरं पुरद्वारम् । #वप्र,शाल,प्राकार #अरर,कपाट वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥ ;p{0035} #प्रतोली,विशिखा,रथ्या #मुख,निःसरण प्रतोली विशिखा रथ्या मुखं निःसरणं स्मृतम् । #शृङ्गाटक,संस्थान,चतुष्पथ शृङ्गाटकः पथां श्लेषः संस्थानं तु चतुष्पथम् ॥ २८९ ॥ #गृहभूमि,वास्तु #वाट,आवेष्टक,वृति गृहभूमिस्तु वास्तुः स्याद्वाट आवेष्टको वृतिः । #उपकार्या,उपकारिका गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका ॥ २९० ॥ #आवास,आवसथ,गृह,भवन,स्थान,निशान्त,कुल,संस्त्याय,निलय,निकाय्य,उटज,गेह,कुट,मन्दिर,धिष्ण्य,धामन्,निकेतन,सदन,पस्त्य,वास्तु,क्षय,शाला,वेश्मन्,निवेशन,उदवसित,सद्मन्,ओकस्,शरण,अगार,निवसन,आलय आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं, संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् । धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥ शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः । #अपवरक,गर्भगृह #संजवन,चतुःशाल अपवरकं गर्भगृहं संजवनं स्याच्चतुःशालम् ॥ २९२ ॥ #प्रासाद गृहमिष्टकादिरचितं प्रासादो देवतानरेन्द्राणाम् । #आयतन #हर्म्य आयतनं देवानामन्येषां धनवतां हर्म्यम् ॥ २९३ ॥ #सौध #कुट्टिम सुधाधवलितं सौधं कुट्टिमं बद्धभूमिकम् । #इन्द्रकोश,तमङ्ग #अट्ट,अट्टालक इन्द्रकोशस्तमङ्गः स्यादट्टश्चाट्टालको मतः ॥ २९४ ॥ #पाकस्थान,रसवती,महानस पाकस्थानं रसवती कथ्यते तन्महानसम् । #शयनस्थान,वासागार उशन्ति शयनस्थानं वासागारं विशारदाः ॥ २९५ ॥ #आवेशन,शिल्पिशाला #वाजिशाला,मन्दुरा आवेशनं शिल्पिशाला वाजिशाला तु मन्दुरा । #पण्यविक्रयशाला,आपण,विपणि पण्यविक्रयशाला स्यादापणो विपणिस्तथा ॥ २९६ ॥ #कारु_कर्मशाला,अन्वासन कर्मशाला च कारूणामन्वासनमुदाहृतम् । #प्रपा,पानीयशाला #सत्त्रशाला,प्रतिश्रय प्रपा पानीयशाला स्यात्सत्त्रशाला प्रतिश्रयः ॥ २९७ ॥ ;p{0036} #उपघ्न,आश्रय #आश्रम उपघ्न आश्रयः प्रोक्तो मुनीनां स्थानमाश्रमः । #मठ #मण्डप मठश्च व्रतिनां स्थानं मण्डपः स्याज्जनाश्रयः ॥ २९८ ॥ #प्रघण,प्रघाण,अलिन्दक वेश्मैकदेशः प्रघणः प्रघाणः स्यादलिन्दकः । #अजिर,प्राङ्गण #वेदिका,वितर्दिका अजिरं प्राङ्गणं प्रोक्तं वेदिका च वितर्दिका ॥ २९९ ॥ #द्वार्,द्वार,बलज #अर्गला,परिघ द्वार्द्वारं बलजं ज्ञेयमर्गला परिघः स्मृतः । #उत्तरङ्ग उत्तरङ्गं मतं तिर्यक् द्वारस्योपरि दारु यत् ॥ ३०० ॥ #वन्दनमाला,तोरण बुधैर्वन्दनमाला तु तोरणं परिकीर्त्यते । #आरोहण,सोपान,निःश्रेणि,अधिरोहिणी आरोहणं स्यात्सोपानं निःश्रेणिरधिरोहिणी ॥ ३०१ ॥ #गृहावग्रहणी,देहली गृहावग्रहणी प्रोक्ता देहली तु मनीषिभिः । #संमार्जनी,वर्धनी #सङ्कर,अवकर संमार्जनी वर्धनी स्यात्सङ्करोऽवकरः स्मृतः ॥ ३०२ ॥ #आच्छादन,वलभी आच्छादनं स्याद्वलभी गृहाणां, #गोपानसी गोपानसी दारु च वक्रसंस्थम् । #नीव्र,वलीक,पटलान्त नीव्रं वलीकं पटलान्तमाहुः, #कपोतपाली,विटङ्क कपोतपाली च विटङ्कसंज्ञा ॥ ३०३ ॥ #वातायन,गवाक्ष,जालक,जाल वातायनो गवाक्षश्च जालकं जालमुच्यते । #कक्षान्तर,प्रकोष्ठ #चन्द्रशाला,शिरोगृह कक्षान्तरं प्रकोष्ठं च चन्द्रशाला शिरोगृहम् ॥ ३०४ ॥ #स्वस्तिक,वर्धमान,नन्द्यावर्त,विच्छन्दक स्वस्तिको वर्धमानश्च नन्द्यावर्तादयस्तथा । विच्छन्दकविशेषाः स्युरमी भूपतिवेश्मनाम् ॥ ३०५ ॥ #परिवार,परिकर,परिस्पन्द,परिग्रह,उपकरण,परिवर्ह,परिच्छद परिवारः परिकरः परिस्पन्दः परिग्रहः । तथोपकरणं प्रोक्तं परिवर्हः परिच्छदः ॥ ३०६ ॥ ;p{0037} #पर्यङ्क,शयन,शय्या,तल्प,तलिन पर्यङ्कः शयनं शय्या तल्पं च तलिनं स्मृतम् । #अपाश्रय,मत्तवारण अपाश्रयस्तु विद्वद्भिः कथ्यते मत्तवारणः ॥ ३०७ ॥ #प्रवेणी,आस्तरण,वर्ण,परिस्तोम,कुथ,कुथा,नवत #प्रच्छद,उत्तरच्छद प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथः कुथा । नवतं चेति तुल्यार्थाः प्रच्छदश्चोत्तरच्छदः ॥ ३०८ ॥ #अपटी,काण्डपट #प्रतिसीरा,जवनिका,तिरस्करिणी अपटी काण्डपटः स्यात्प्रतिसीरा जवनिका तिरस्करिणी । #उच्छीर्षक,उपधान,उपवर्ह उच्छीर्षकमुपधानं धीरैरुपवर्हमाख्यातम् ॥ ३०९ ॥ #चन्द्रोदय,वितान,उल्लोच,कदक चन्द्रोदयो वितानं स्यादुल्लोचः कदकस्तथा । #व्यञ्जन,तालवृन्त #विष्टर,पीठ,आसन व्यञ्जनं तालवृन्तं च विष्टरः पीठमासनम् ॥ ३१० ॥ #वेत्रासन,आसन्दी #कङ्कत,केशमार्जन वेत्रासनं तथासन्दी कङ्कतं केशमार्जनम् । #पादुका,अनुपदीना,उपानह्,पादरक्षण पादुकानुपदीना स्यादुपानत्पादरक्षणम् ॥ ३११ ॥ #दर्वी,तर्दू,खजिका,दारुहस्तक दर्वी तर्दूश्च खजिका कथ्यते दारुहस्तकः । #पेटा,मञ्जूषा #कुशूल,धान्यकोष्ठक पेटां वदन्ति मञ्जूषां कुशूलं धान्यकोष्ठकम् ॥ ३१२ ॥ #अम्बरीष,भ्राष्ट्र #कन्दु,स्वेदनिका अम्बरीषो भवेद् भ्राष्ट्रः कन्दुः स्वेदनिका स्मृता । #चुल्ली,अश्मन्तक,उद्ध्मान,अधिश्रयणी चुल्ल्यश्मन्तकमुद्ध्मानं स्मृताधिश्रयणी बुधैः ॥ ३१३ ॥ #अङ्गारशकटी,हसन्ती,हसन्तिका अङ्गारशकटीं प्राहुर्हसन्तीं च हसन्तिकाम् । #उखा,स्थाली,चरु,कुम्भी,पिठर,कुण्ड उखा स्थाली चरुः कुम्भी पिठरं कुण्डमुच्यते ॥ ३१४ ॥ #कटाह,कर्पर #भृङ्गार,कनकालुका कटाहः कर्परो ज्ञेयो भृङ्गारः कनकालुका । #शालाजिर,वर्धमान,शराव शालाजिरो वर्धमानः शरावः स्मर्यते बुधैः ॥ ३१५ ॥ ;p{0038} #कोशिका,मल्लिका #पिधान,उदञ्चन कोशिका मल्लिका प्रोक्ता पिधानं स्यादुदञ्चनम् । #घट,करीर,कलश,कुट,कुम्भ,निप,कर्करी,करक,वर्धनी,गलन्तिका,गर्गरी,मन्थनी,मणिक,अलिञ्जर घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥ कर्करी करकः प्रोक्तो वर्धनी च गलन्तिका । गर्गरी मन्थनी प्रोक्ता मणिकः स्यादलिञ्जरः ॥ ३१७ ॥ #धान्याम्ल,आरनाल,सन्धान,काञ्जिक,सौवीर,अभिषव,अवन्तिसोम,तुषोदक,शुक्त धान्याम्लमारनालं सन्धानं काञ्जिकं च सौवीरम् । अभिषवमवन्तिसोमं तुषोदकं शुक्तमिच्छन्ति ॥ ३१८ ॥ #अन्धस्,कूर,भक्त,दिदीवि,अन्न,ओदन,भिस्सा अन्धः कूरं भक्तं दिदीविरन्नं तथौदनो भिस्सा । #अशन,आहार #पूप,अपूप,पूपलिका अशनं स्यादाहारः पूपापूपौ च पूपलिका ॥ ३१९ ॥ #यवागू,उष्णिका,श्राणा,तरला,विलेपिका यवागूरुष्णिका श्राणा तरला च विलेपिका । #क्षैरेयी,पायस,परमान्न क्षैरेयी पायसं प्रोक्तं परमान्नं च सूरिभिः ॥ ३२० ॥ #मिष्टान्न,व्यञ्जन #वेषवार,उपस्कर मिष्टान्नं व्यञ्जनं ज्ञेयं वेषवार उपस्करः । #दधिमण्ड,मस्तु #करम्भ,दधिसक्तु दधिमण्डो भवेन्मस्तु करम्भो दधिसक्तवः ॥ ३२१ ॥ #दाधिक #सार्पिष दाधिकं संस्कृतं दध्ना सार्पिषं सर्पिषा स्मृतम् । #उदलावणिक लवणोदकसंसिद्धमुदलावणिकं मतम् ॥ ३२२ ॥ #भूति,भरूटक,भृष्ट अङ्गारेषु विपक्वं मांसं भूतिर्भरूटकं भृष्टम् । #उख्य,उखासंसिद्ध #शूल्य,भटित्र उख्यमुखासंसिद्धं शूले शूल्यं भटित्रं च ॥ ३२३ ॥ #किलाट,कूर्चिका किलाटः कूर्चिका चेति क्षीरस्य विकृती उभे । #फाणितविकृति,गौडी #मत्स्यण्डी,खण्डशर्करा फाणितविकृतिर्गौडी मत्स्यण्डी खण्डशर्कराः ॥ ३२४ ॥ ;p{0039} #वल्भन,अभ्यवहार,प्रत्यवसान,जेमन,जग्धि,खादन,अशन,भक्षण,आहार,भोजन,स्वदन वल्भनमभ्यवहारः प्रत्यवसानं च जेमनं जग्धिः । खादनमशनं भक्षणमाहारो भोजनं स्वदनम् ॥ ३२५ ॥ #पर्याप्त,उपसम्पन्न #तृप्ति,सौहित्य पर्य्याप्तमुपसम्पन्नं तृप्तिः सौहित्यमुच्यते । #विघस,भुक्तशेष #भुक्तोच्छिष्ट,फेलिका विघसो भुक्तशेषं स्याद्भुक्तोच्छिष्टं तु फेलिका ॥ ३२६ ॥ #अमत्र,भाजन,पात्र,स्थाल अमत्रं भाजनं पात्रं स्थालं तुल्यार्थमिष्यते । #गल्वर्क,अनुतर्ष,चषक,सरक गल्वर्कश्चानुतर्षश्च चषकः सरकः स्मृतः ॥ ३२७ ॥ #आपान,पानगोष्ठी #सपीति,सहपानक आपानं पानगोष्ठी स्यात्सपीतिः सहपानकम् । #उपदंश,अवदंश,चक्षण उपदंशावदंशौ च चक्षणं सम्प्रचक्षते ॥ ३२८ ॥ #मध्वासव,शीधु,सुरा,प्रसन्ना,परिस्रुता,मदिरा,मदिष्ठा,कादम्बरी,स्वादुरसा,शुण्डा,गन्धोत्तमा,माधवक,हाला,कल्य,कश्य,मद्य,मैरेय,कापिशायन,माध्वीक,आसव,परिस्रुत्,वारुणी,मधु मध्वासवः शीधु सुरा प्रसन्ना, परिस्रुता स्यान्मदिरा मदिष्ठा । कादम्बरी स्वादुरसा च शुण्डा, गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥ कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् । माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥ #मनुष्य,मानुष,मर्त्य,मनुज,मानव,पुंस्,पञ्चजन,नृ,पुरुष,पूरुष,विष् मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः । पुमान्पञ्चजनो ना च पुरुषः पूरुषश्च विट् ॥ ३३१ ॥ #धीर,धीमत्,लब्धवर्ण,विपश्चित्,वृद्ध,विद्वस्,प्राप्तरूप,अभिरूप,सूरि,प्राज्ञ,पण्डित,मनीषिन्,ज्ञ,दोषज्ञ,कोविद,प्रबुद्ध,बुध,सुधी,कृती,कृष्टि,कवि,व्यक्त,विशारद,विचक्षण,मेधाविन्,संख्यावत्,मतिमत् धीरो धीमान् लब्धवर्णो विपश्चिद्, वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः । सूरिः प्राज्ञः पण्डितः सन्मनीषी, ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥ ;p{0040} बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः । विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥ #प्रेक्षा,प्रज्ञा,प्रतिभा,धी,धिषणा,शेमुषी,मनीषा,बुद्धि,मति,मेधा,संख्या,संवित्ति,उपलब्धि प्रेक्षा प्रज्ञा प्रतिभा धीर्धिषणा शेमुषी मनीषा च । बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः ॥ ३३४ ॥ #चतुर,क्षेत्रज्ञ,कृतहस्त,कृतमुख,कृतकर्मन्,दक्ष,कुशल,अभिज्ञ,निष्णात,शिक्षित,प्रवीण चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा । दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥ #वैधेय,बालिश,बाल,जड,जाल्म,यथोद्गत,मूढ,मन्द,विवर्ण,मूर्ख,मातृशासित वैधेयो बालिशो बालो जडो जाल्मो यथोद्गतः । मूढो मन्दो विवर्णश्च मूर्खः स्यान्मातृशासितः ॥ ३३६ ॥ #अर्वन्,अणक,अपसद,अवम,अवद्य,निकृष्ट,अपकृष्ट,अधम,चेल,काण्ड,खेट,पाप,रेफस् अर्वाणमणकमपसदमवममवद्यं निकृष्टमपकृष्टम् । अधमं चेलं काण्डं खेटं पापं च रेफसं प्राहुः ॥ ३३७ ॥ #ऐकागारिक,तस्कर,दस्यु,प्रतिरोधक,परास्कन्दिन्,चौर,मलिम्लुच्,परिमोषिन्,पारिपन्थिक,स्तेन ऐकागारिकतस्करदस्युप्रतिरोधकाः परास्कन्दी । चौरो मलिम्लुचः स्यात्परिमोषी पारिपन्थिकः स्तेनः ॥ ३३८ ॥ #पश्यतोहर पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः । #लोप्त्र,स्तेय,चौर्य द्रव्यं ह्यपहृतं लोप्त्रं स्तेयं चौर्यमिति स्मृतम् ॥ ३३९ ॥ #पाटच्चर,पटचौर #बद्ध,नद्ध,संयत पाटच्चरः पटचौरो बद्धो नद्धश्च संयतः । #क्षेमङ्कर,रिष्टताति,शिवताति,शिवङ्कर क्षेमङ्करो रिष्टतातिः शिवतातिः शिवङ्करः ॥ ३४० ॥ #परवत्,पराधीन,निघ्न,परवश,परतन्त्र,परायत्त,परच्छन्द,गृह्यक परवांस्तु पराधीनो निघ्नः परवशस्तथा । परतन्त्रः परायत्तः परच्छन्दश्च गृह्यकः ॥ ३४१ ॥ #कठोर,कठिन,क्रूर,कक्खट,कर्कश,दृढ कठोरः कठिनः क्रूरः कक्खटः कर्कशो दृढः । #बहुल,स्थूल,पीन,पीवन्,पीवर उच्यते बहुलः स्थूलः पीनः पीवा च पीवरः ॥ ३४२ ॥ ;p{0041} #अर्य,परिवृढ,स्वामिन्,प्रभु,नेतृ,नायक,अधिभू,अधिप,अधीश,अधिपति अर्यः परिवृढः स्वामी प्रभुर्नेता च नायकः । अधिभूरधिपः प्रोक्तो ह्यधीशोऽधिपतिस्तथा ॥ ३४३ ॥ #तपस्विन्,संयत,शान्त,मुनि,लिङ्गिन्,यति,व्रतिन् तपस्वी संयतः शान्तो मुनिर्लिङ्गी यतिर्व्रती । #रजोहरणधारिन्,श्वेतवासस्,सिताम्बर,नग्नाट,दिग्वासस्,क्षपण,श्रमण #जीवक,जैन,आजीव,मलधारिन्,निर्ग्रन्थ रजोहरणधारी च श्वेतवासाः सिताम्बरः ॥ ३४४ ॥ नग्नाटो दिग्वासाः क्षपणः श्रमणश्च जीवको जैनः । आजीवो मलधारी निर्ग्रन्थः कथ्यते सद्भिः ॥ ३४५ ॥ #दुर्जन,पिशुन,क्षुद्र,नीच,कर्णेजप,खल,दोषग्राहिन्,पुरोभागिन्,द्विजिह्व,मत्सरिन् दुर्जनः पिशुनः क्षुद्रो नीचः कर्णेजपः खलः । दोषग्राही पुरोभागी द्विजिह्वो मत्सरी मतः ॥ ३४६ ॥ #कदर्य,हीन,कीनाश,किम्पचान,मितम्पच,कृपण,क्षुल्लक,क्लीव,क्षुद्र कदर्यहीनकीनाशकिम्पचानमितम्पचाः । कृपणक्षुल्लकक्लीवक्षुद्रा एकार्थवाचकाः ॥ ३४७ ॥ #क्षुद्र,दरिद्र,अकिञ्चन,दुर्विध,दुःस्थ,दुर्गत क्षुद्रदरिद्राकिञ्चनदुर्विधदुःस्थाश्च दुर्गताः प्रोक्ताः । #इतर,प्राकृत,पामर,पृथग्जन,वर्वर इतरप्राकृतपामरपृथग्जना वर्वराश्च तुल्यार्थाः ॥ ३४८ ॥ #दाण्डाजिनिक,कुहक,कार्पटिक,जालिक,कौसृतिक,धूर्त,व्यंसक,मायाविन्,मायिक,मायिन् दाण्डाजिनिकः कुहकः कार्पटिको जालिकश्च कौसृतिकः । धूर्तो व्यंसक उक्तो मायावी मायिको मायी ॥ ३४९ ॥ #आद्यून,औदरिक,भक्षक,घस्मर,अद्मर आद्यूनः स्यादौदरिको भक्षको घस्मरोऽद्मरः । #असेचनक तमसेचनकं प्राहुस्तृप्तिर्यस्य न जायते ॥ ३५० ॥ #परान्न,परपिण्डाद,परिजात,परैधित परान्नः परपिण्डादः परजातः परैधितः । #सर्वान्नीन,सर्वभक्ष #मांसादिन्,शौष्कल सर्वान्नीनः सर्वभक्षो मांसादी शौष्कलः स्मृतः ॥ ३५१ ॥ ;p{0042} #प्रवण,प्रह्व,तत्पर,परायण उच्यते प्रवणः प्रह्वस्तत्परश्च परायणः । #व्युत्पन्न,प्रहत,क्षुण्ण,संस्कृत व्युत्पन्नः प्रहतः क्षुण्णः संस्कृतश्च निगद्यते ॥ ३५२ ॥ #लोलुभ,लोलुप,लोल,लालस,लम्पट लोलुभं लोलुपं लोलं लालसं लम्पटं विदुः । #प्रतूर्ण,त्वरित,तूर्ण #उत्सुक,प्रसृत प्रतूर्णस्त्वरितस्तूर्ण उत्सुकः प्रसृतः स्मृतः ॥ ३५३ ॥ #शूर,वीर,विक्रान्त,भट,आरभट शूरो वीरश्च विक्रान्तो भटश्चारभटो भवेत् । #दरित,चकित,भीत,त्रस्त,भीरु,कातर,क्षुभित,शङ्कित दरितश्चकितो भीतस्त्रस्तो भीरुश्च कातरः ॥ ३५४ ॥ क्षुभितः शङ्कितश्चेति नातिनानार्थवाचकाः । #महोत्साह,महोद्योग,महेच्छ,महामनस्,उदात्त,उदीर्ण,महात्मन्,उदार महोत्साहो महोद्योगो महेच्छः स्यान्महामनाः ॥ ३५५ ॥ उदात्तश्च तथोदीर्णो महात्मोदार उच्यते । #आढ्य,समृद्ध,धनवत्,इन,ईश,धनिन्,ईश्वर आढ्यः समृद्धो धनवानिन ईशो धनीश्वरः ॥ ३५६ ॥ #अभ्यागारिक,कुटुम्बव्यापृत अभ्यागारिकमिच्छन्ति कुटुम्बव्यापृतं जनाः । #पान्थ,अध्वग,अध्वनीन,अध्वन्य,पथिक पान्थोऽध्वगोऽध्वनीनः स्यादध्वन्यः पथिकस्तथा ॥ ३५७ ॥ #जङ्घाल,जवन,वेगिन् #पाथेय,शम्बल जङ्घालो जवनो वेगी पाथेयं शम्बलं स्मृतम् । #आवेशिक,प्राघुणक,आगन्तु,अतिथि आवेशिकः प्राघुणक आगन्तुरतिथिः स्मृतः ॥ ३५८ ॥ #आतिथेय,आतिथ्य,आतिथेयी आतिथेयं तथातिथ्यमातिथेयी च कथ्यते । #अर्थिन्,मार्गणक,याचक,वनीपक अर्थी मार्गणकः प्रोक्तो याचकश्च वनीपकः ॥ ३५९ ॥ #अध्येषणा,एषणा,याच्ञा,याचना,प्रार्थना अध्येषणैषणा याच्ञा याचना प्रार्थना स्मृता । #क्षुद्वत्,बुभुक्षित,प्सात,जिघत्सु,क्षुधित क्षुद्वान्बुभुक्षितः प्सातो जिघत्सुः क्षुधितस्तथा ॥ ३६० ॥ ;p{0043} #अशनाया,बुभुक्षा,प्सा,जिघत्सा,क्षुद्,क्षुधा अशनाया बुभुक्षा प्सा जिघत्साक्षुत्क्षुधाः समाः । #कोपन,क्रोधन,क्रोधिन्,रोषण,अमर्षण कोपनः क्रोधनः क्रोधी रोषणः स्यादमर्षणः ॥ ३६१ ॥ #कोप,क्रोध,अमर्ष,रोष,प्रतिघ कोपः क्रोधस्तथामर्षो रोषः प्रतिघ उच्यते । #तृषित,तर्षित,पिपासु,पिपासित तृषितस्तर्षितः प्रोक्तः पिपासुश्च पिपासितः ॥ ३६२ ॥ #उदन्या,तर्ष,तृष्,तृष्णा,पिपासा उदन्या तर्षतृट्तृष्णापिपासाश्च समाः स्मृताः । #तृष्णक,गर्धन,गृध्नु,लिप्सु,लुब्ध,अभिलाषुक तृष्णको गर्धनो गृध्नुर्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ३६३ ॥ #तृष्णा,अभिलाष,लिप्सा,आशा,धनाया,गर्धना तृष्णाभिलाषो लिप्साशा धनाया गर्धनोच्यते । #अधर,हीनवादिन् #प्रसक्त,प्रसृत अधरो हीनवादी स्यात्प्रसक्तः प्रसृतः स्मृतः ॥ ३६४ ॥ #दास,दासेरक,चेट,भुजिष्य,किङ्कर दासो दासेरकश्चेटो भुजिष्यः किङ्करो मतः । #श्लक्ष्ण,मधुरवाक् #स्थूललक्ष,बहुव्ययिन् श्लक्ष्णो मधुरवाक् प्रोक्तः स्थूललक्षो बहुव्ययी ॥ ३६५ ॥ #प्रियवाच्,दानशील,वदान्य प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः । #अक्षिगत,द्वेष्य,प्रणाय्य,असंमत भवेदक्षिगतो द्वेष्यः प्रणाय्योऽसंमतो मतः ॥ ३६६ ॥ #चक्षुष्य,सुभग,वल्लभ,दयित,प्रिय चक्षुष्यः सुभगो ज्ञेयो वल्लभो दयितः प्रियः । #गेहेनर्दिन्,गेहेशूर,पिण्डीशूर गेहेनर्दी गेहेशूरः पिण्डीशरश्च कथ्यते ॥ ३६७ ॥ #गोष्ठश्व स्थानस्थो यो परान् द्वेष्टि गोष्ठश्वं तं विदुर्बुधाः । #पञ्चजनीन असौ पञ्चजनीनः स्याद्यो भाण्डादिरतो नरः ॥ ३६८ ॥ #वैरङ्गिक,विरागार्ह #धनवत्,अस्तिमत् वैरङ्गिको विरागार्हो धनवानस्तिमान्मतः । #प्रेष्य,परिस्कन्द #कर्मशूर,कर्मठ प्रेष्यः प्रोक्तः परिस्कन्दः कर्मशूरश्च कर्मठः ॥ ३६९ ॥ #अलङ्कर्मीण,कर्मशील अलङ्कर्मीण इत्युक्तः कर्मशीलस्तु यः पुमान् । #उत्ताल,त्वरित #विश्रब्ध,स्थिर उत्तालस्त्वरितो ज्ञेयो विश्रब्धः स्थिर उच्यते ॥ ३७० ॥ ;p{0044} #आयःशूलिक तीक्ष्णोपायेन योऽन्विच्छेत्स आयःशूलिको मतः । #अरुन्तुद,व्यथक #वियात,धृष्ट अरुन्तुदः स्याद्व्यथको वियातो धृष्ट उच्यते ॥ ३७१ ॥ #शरारु,घातक,हिंस्र,नृशंस,क्रूरकर्मकृत् शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत् । #साधु,सज्जन,आर्य #गृहमेधिन्,गृहाधिप साधुः सज्जन आर्यः स्याद्गृहमेधी गृहाधिपः ॥ ३७२ ॥ #कुशाग्रीयमति,सूक्ष्मदर्शिन् कुशाग्रीयमतिः प्रोक्तः सूक्ष्मदर्शी च यः पुमान् । चिद्रूपः स्यात्सहृदयः सहस्तः शिक्षितायुधः ॥ ३७३ ॥ #समुख समुखः स खलु प्रोक्तो यो वक्ति प्रतिभान्वितः । #नीलीराग नीलीरागः स विज्ञेयः स्थिरप्रेमा च यः पुमान् ॥ ३७४ ॥ #हरिद्राराग क्षणमात्रानुरागी च हरिद्राराग उच्यते । #शालिन्,श्रेयस् #अधृष्ट,शालीन,शारद शाली श्रेयानधृष्टौ च प्रोक्तौ शालीनशारदौ ॥ ३७५ ॥ #दीर्घदृष्टि दूरार्थानर्थसन्दर्शी दीर्घदृष्टिः प्रकीर्तितः । #प्रत्युत्पन्नमति प्रत्युत्पन्नमतिर्ज्ञेयस्तत्कालोत्पन्नधीर्नरः ॥ ३७६ ॥ #यद्भविष्य,दैवपर #यद्वद,अनुत्तर यद्भविष्यो दैवपरो यद्वदः स्यादनुत्तरः । #अज्ञ,मातृमुख #दुर्मुख,मुखर अज्ञो मातृमुखः प्रोक्तो दुर्मुखो मुखरः स्मृतः ॥ ३७७ ॥ #कद्वद,गर्ह्यवादिन् #कट्वर,कुत्सित कद्वदो गर्ह्यवादी स्यात्कट्वरः कुत्सितो भवेत् । #प्रकाण्ड,उद्ध #हतक प्रकाण्डोद्धौ प्रशंसायामाक्षेपे हतकः स्मृतः ॥ ३७८ ॥ #अहंयु,अहङ्कारिन् #शुभंयु,शुभसंयुत अहंयुः स्यादहङ्कारी शुभंयुः शुभसंयुतः । #यथाकामिन्,स्वरुचि,स्वच्छन्द,निरवग्रह यथाकामी स्वरुचिः स्यात्स्वच्छन्दो निरवग्रहः ॥ ३७९ ॥ #अन्वेष्टृ,अनुपदिन् #प्रतिभू,लग्नक अन्वेष्टानुपदी प्रोक्तः प्रतिभूर्लग्नकः स्मृतः । #उन्मुक्त,उल्लाघ #कल्य,वार्त्त,निरामय रोगादुन्मुक्त उल्लाघः कल्यो वार्त्तो निरामयः ॥ ३८० ॥ #जैवातृक,आयुष्मत् #बलवत्,अंसल जैवातृकः स्यादायुष्मान् बलवानंसलो मतः । #जाबाल,अजाजीव #कम्र,कामिन्,कामुक जाबालः स्यादजाजीवः कम्रः कामी च कामुकः ॥ ३८१ ॥ ;p{0045} #वेश्यापति,भुजङ्ग,विट,पल्लवक वेश्यापतिर्भुजङ्गः स्याद्विटः पल्लवकः स्मृतः । #विहस्त,व्याकुल #कुण्ठ,मन्द विहस्तो व्याकुलः प्रोक्तः कुण्ठो मन्दः क्रियासु यः ॥ ३८२ ॥ #क्रियावत्,उद्युक्त #दीर्घसूत्र,जडक्रिय क्रियावान्कर्मसूद्युक्तो दीर्घसूत्रो जडक्रियः । #निकृत,विप्रलब्ध #समुन्नद्ध,अतिगर्वित निकृतो विप्रलब्धः स्यात्समुन्नद्धोऽतिगर्वितः ॥ ३८३ ॥ #प्रतीक्ष्य,पूज्य,पूजित,अपचित प्रतीक्ष्यः कथ्यते पूज्यः पूजितोऽपचितो भवेत् । #ईर्ष्यालु,कुहन #जार,उपपति ईर्ष्यालुः कुहनः प्रोक्तो जारो ह्युपपतिः स्मृतः ॥ ३८४ ॥ #सरल,दक्षिण #विदग्ध,छेक सरलो दक्षिणो ज्ञेयो विदग्धश्छेक उच्यते । #उत्पश्य,उन्मुख #न्युब्ज,अधोमुख उत्पश्यमुन्मुखं विद्यान्न्युब्जं विद्यादधोमुखम् ॥ ३८५ ॥ #आसीन,उपविष्ट #ऊर्ध्व,ऊर्ध्वन्दम,स्थित आसीन उपविष्टः स्यादूर्ध्वं ऊर्ध्वन्दमः स्थितः । #क्षीव,मत्त #क्षम,शक्त #प्रगल्भ,प्रौढ क्षीवो मत्तः क्षमः शक्तः प्रगल्भः प्रौढ उच्यते ॥ ३८६ ॥ #उत्क,उत्कण्ठित #विक्लव,विह्वल उत्क उत्कण्ठितः प्रोक्तो विक्लवो विह्वलः स्मृतः । #अलस,शीतक,मन्द,जड,जिह्म,मन्थर अलसः शीतको मन्दो जडो जिह्मश्च मन्थरः ॥ ३८७ ॥ #पोगण्ड,विकलाङ्ग #लोहल,अव्यक्तवाच् पोगण्डो विकलाङ्गः स्याल्लोहलोऽव्यक्तवाग्भवेत् । #कितव,द्यूतकार #दूत,अक्षवती कितवः स्याद्द्यूतकारो द्यूतमक्षवती भवेत् । #अक्ष,दुरोदर #सभिक,द्यूतकारक अक्षो दुरोदरं प्रोक्तं सभिको द्यूतकारकः ॥ ३८८ ॥ #परीक्षक,कारणिक #गृह्य,पक्ष परीक्षकः कारणिको गृह्यः पक्ष उदाहृतः । #अभिजात,कुलीन #कुचर,कुटिलाशय अभिजातः कुलीनः स्यात्कुचरः कुटिलाशयः ॥ ३८९ ॥ #निषादिन्,गजारोह #अश्वारोह,सादिन् निषादिनो गजारोहा अश्वारोहास्तु सादिनः । #रथिन्,स्यन्दनारोह #नावारोह,नाविक रथिनः स्यन्दनारोहा नावारोहास्तु नाविकाः ॥ ३९० ॥ ;p{0046} #ब्राह्मण,वाडव,विप्र,भूमिदेव,द्विजोत्तम,अग्रजन्मन्,द्विजन्मन्,षट्कर्मन्,सोमपा,द्विज ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः । अग्रजन्मा द्विजन्मा च षट्कर्मा सोमपा द्विजः ॥ ३९१ ॥ #द्विजाति,ब्राह्मण,क्षत्रिय,वैश्य ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । #शूद्र,तुरीयवर्ण #अन्त्यज शूद्रस्तुरीयवर्णः स्यात्तद्भेदास्वन्त्यजाः स्मृताः ॥ ३९२ ॥ #आश्रम ब्रह्मचार्यादयो वेदे प्रोक्ताश्चत्वार आश्रमाः । शूद्रोऽगृहस्थ एव स्यात्क्षत्रियो न यतिर्भवेत् ॥ ३९३ ॥ #ब्रह्मचारिन्,वर्णिन् #गृहस्थ,स्नातक ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा । #वैखानस,वानप्रस्थ #कर्मसंन्यासिक,यति वैखानसो वानप्रस्थः कर्मसंन्यासिको यतिः ॥ ३९४ ॥ #अनूचान,सर्ववेद,श्रोत्रिय,छान्दस अनूचानः सर्ववेदः श्रोत्रियश्छान्दसो मतः । #आमुष्यायण प्रख्यातात्पितुरुत्पन्न आमुष्यायण इष्यते ॥ ३९५ ॥ #अन्ववाय,अन्वय,वंश,गोत्र,अभिजन,कुल अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनः कुलम् । #चरित्र,चरित,शील,चारित्र चरित्रं चरितं शीलं चारित्रं च समं स्मृतम् ॥ ३९६ ॥ #ब्रह्मवर्चस् वृत्ताध्ययनसम्पत्तिरिष्यते ब्रह्मवर्चसम् । #ब्रह्मचर्य ब्रह्मचर्यं बुधाः प्राहुः समस्तेन्द्रियसंयमम् ॥ ३९७ ॥ #उपसङ्ग्राह्य संज्ञेय उपसङ्ग्राह्यो योऽभिवाद्यो यथाविधि । #उपसङ्ग्रहण उपसङ्ग्रहणं चापि प्राहुः सन्तोऽभिवादनम् ॥ ३९८ ॥ #श्रान्त,शान्त निवृत्तेन्द्रियलौल्यस्तु श्रान्तः शान्तश्च कथ्यते । #तपःक्लेशसह,दान्त #अन्तर्वाणि,शास्त्रविद् तपःक्लेशसहो दान्तो ह्यन्तर्वाणिश्च शास्त्रवित् ॥ ३९९ ॥ #अध्यापक,उपाध्याय #व्याख्या,विवरण अध्यापक उपाध्यायो व्याख्या विवरणं स्मृतम् । #शिष्य,अन्तेवासिन्,छात्र,शैक्ष,प्राथमकल्पिक शिष्यान्तेवासिनौ छात्रः शैक्षः प्राथमकल्पिकः ॥ ४०० ॥ #विघ्न,अन्तराय,प्रत्यूह,व्यवाय विघ्नोऽन्तरायः प्रत्यूहो व्यवायश्च प्रकीर्तितः । #साकल्यवचन,पारायण साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् ॥ ४०१ ॥ ;p{0047} #आम्नाय,सम्प्रदाय,पारम्पर्य,गुरुक्रम आम्नायः सम्प्रदायः स्यात्पारम्पर्यं गुरुक्रमः । #प्रयत,अनुच्छिष्ट #संशित,सुनिश्चित प्रयतः स्यादनुच्छिष्टः संशितश्च सुनिश्चितः ॥ ४०२ ॥ #सांवत्सर,ज्योतिषिक,ज्ञानिन्,मौहूर्तिक,कार्तान्तिक,दैवज्ञ,आदेशिन्,गणक सांवत्सरो ज्योतिषिको ज्ञानी मौहूर्तिकस्तथा । कार्तान्तिकस्तु दैवज्ञ आदेशी गणकः स्मृतः ॥ ४०३ ॥ #व्रात्य,संस्कारहीन #अवकीर्णिन्,क्षतव्रत व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षतव्रतः । #शिश्विदान,दुराचार #त्यक्ताग्नि,वीरहन्,द्विज शिश्विदानो दुराचारस्त्यक्ताग्निर्वीरहा द्विजः ॥ ४०४ ॥ #धर्मध्वज,लिङ्गवृत्ति #स्वाध्याय,निराकृति धर्मध्वजो लिङ्गवृत्तिरस्वाध्यायो निराकृतिः ॥ #शस्त्राजीव,काण्डस्पृष्ट #ब्रह्मबन्धु,अधम-द्विज शस्त्राजीवः काण्डस्पृष्टो ब्रह्मबन्धुर्द्विजोऽधमः ॥ ४०५ ॥ #जातिमात्रोपजीविन्,ब्राह्मणब्रुव जातिमात्रोपजीवी च कथ्यते ब्राह्मणब्रुवः । #अब्रह्मण्य,अवध्य #ब्रह्मण्य अब्रह्मण्यमवध्यं स्याद् ब्रह्मण्यं ब्रह्मणे हितम् ॥ ४०६ ॥ #उपवीत,ब्रह्मसूत्र उपवीतं ब्रह्मसूत्रं प्रक्षिप्तं दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ४०७ ॥ #आचमन,उपस्पर्शन,आप्लवन,स्नान,सवन आचमनमुपस्पर्शनमाप्लवनं स्नानमिष्यते सवनम् । #निर्णिक्त,प्रक्षालित,धौत निर्णिक्तं प्रक्षालितमाहुर्धौतं च तुल्यार्थम् ॥ ४०८ ॥ #पाराशरिन्,व्रतिन्,भिक्षु,मस्करिन्,पारिरक्षिक,पारिव्राजक,तपस्विन्,कर्मन्दिन्,तापस पाराशरी व्रती भिक्षुर्मस्करी पारिरक्षिकः । परिव्राजकस्तपस्वी कर्मन्दी तापसः स्मृतः ॥ ४०९ ॥ #वैकक्ष,उत्तरासङ्ग,वृहतिका वैकक्षमुत्तरासङ्गः प्रोक्ता वृहतिका तथा । #पर्यस्तिका,परिकर,पर्यङ्क पर्यस्तिका परिकरः पर्यङ्कश्चेति कथ्यते ॥ ४१० ॥ #कक्षापट,कौपीन #कुण्डिका,कमण्डलु कक्षापटः स्यात्कौपीनं कुण्डिका च कमण्डलुः । #आषाढ,व्रतिन्_दण्ड #वृषिन्,व्रतिन्_आसन आषाढो व्रतिनां दण्डो व्रतिनामासनं वृषी ॥ ४११ ॥ ;p{0048} #ऋषि,त्रिकालदर्शिन्,मुनि,वाचंयम ऋषिस्त्रिकालदर्शी स्यान्मुनिर्वाचंयमो मतः । #प्राचेतस,वाल्मीकि,मैत्रावरुण प्राचेतसस्तु वाल्मीकिर्मैत्रावरुण उच्यते ॥ ४१२ ॥ #अगस्ति,अगस्त्य,लोपामुद्रापति,घटयोनि उक्तोऽगस्तिरगस्त्यो लोपामुद्रापतिश्च घटयोनिः । #सात्यवतेय,पाराशर्य,द्वैपायन,व्यास सात्यवतेयः पाराशर्यो द्वैपायनो व्यासः ॥ ४१३ ॥ #याग,यज्ञ,क्रतु,स्तोम,सप्ततन्तु,मख,अध्वर,वितान,संस्तर,बर्हिस्,सव,सत्त्र यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः । वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥ #निर्मन्थकाष्ठ,अरणि #संस्कृत,प्रणीत-अग्नि निर्मन्थकाष्ठमरणिः प्रणीतोऽग्निश्च संस्कृतः । #वेदी,परिष्कृता-भूमि #पात्र,स्रुग् वेदी परिष्कृता भूमिः पात्रमुक्तं स्रुगादिकम् ॥ ४१५ ॥ #हव्यपाक,चरु #सान्नाय्य,हविस् हव्यपाकश्चरुः प्रोक्तः सान्नाय्यं हविरुच्यते । #आमिक्षा शृते क्षीरे दधिक्षिप्तमामिक्षा कथ्यते बुधैः ॥ ४१६ ॥ #उपाकृत उपाकृतस्तु विज्ञेयो मन्त्रेण प्रोक्षितः पशुः । #हुत,वषट्कृत #यज्ञान्त,अवभृथ हुतं वषट्कृतं ज्ञेयं यज्ञान्तोऽवभृथः स्मृतः ॥ ४१७ ॥ #स्थपति बृहस्पतिसवेनेष्टं येनासौ स्थपतिर्भवेत् । #सर्ववेदस् सर्ववेदास्तु विज्ञेयो दत्तसर्वस्वदक्षिणः ॥ ४१८ ॥ #विश्राणन,विहापित,अंहति,अपवर्जन,वितरण,निर्वपण,स्पर्शन,उत्सर्ग,प्रदेशन,दान विश्राणनं विहापितमंहतिरपवर्जनं वितरणं च । निर्वपणं च स्पर्शनमुत्सर्गः स्यात्प्रदेशनं दानम् ॥ ४१९ ॥ #यष्टृ,यजमान,आदेष्टृ,दीक्षित,व्रतिन् यष्टा च यजमानः स्यादादेष्टा दीक्षितो व्रती । #इज्याशील,यायजूक,यज्वन्,आसुतीवल इज्याशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ४२० ॥ #राजन्,राजन्य,राज्,प्रजापति,क्षत्रिय,नृप,क्षत्त्र,मूर्धाभिषिक्त,भूपति,पार्थिव,नरदेव,लोकपाल राजा राजन्यो राट् प्रजापतिः क्षत्रियो नृपः क्षत्त्रम् । मूर्धाभिषिक्तभूपतिपार्थिवनरदेवलोकपालाः स्युः ॥ ४२१ ॥ ;p{0049} #सम्राज् येनेष्टं राजसूयेन स सम्राट् परिकीर्तितः । #चक्रवर्तिन्,सार्वभौम #मध्यम,मण्डलेश्वर चक्रवर्ती सार्वभौमो मध्यमो मण्डलेश्वरः ॥ ४२२ ॥ #आतपत्र,छत्र #चामर,प्रकीर्णक आतपत्रं भवेच्छत्रं चामरं तु प्रकीर्णकम् । #भद्रासन,हैम-सिंहासन हैमं सिहासनं राज्ञां स्मृतं भद्रासनं बुधैः ॥ ४२३ ॥ #द्वास्थ,दौवारिक,क्षत्तृ,दण्डिन्,वेत्रधर,उत्सारक,द्वारपाल,प्रतिहार द्वास्थो दौवारिकः क्षत्ता दण्डी वेत्रधरस्तथा । उत्सारको द्वारपालः प्रतिहारो बुधैः स्मृतः ॥ ४२४ ॥ #अपसर्प,चार,प्रणिधि,गूढपूरुष,यथार्थवर्ण,मन्त्रज्ञ,स्पश,हेरक अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः । यथार्थवर्णो मन्त्रज्ञः स्पशो हेरक उच्यते ॥ ४२५ ॥ #मन्त्रिन्,बुद्धिसहाय,अमात्य,सचिव मन्त्री बुद्धिसहायः स्यादमात्यः सचिवस्तथा । #सौवस्तिक,पुरोधस्,पुरोहित सौवस्तिक इति प्रोक्तः पुरोधाश्च पुरोहितः ॥ ४२६ ॥ #महामात्र,प्रधान #अध्यक्ष,अधिकृत महामात्रः प्रधानं स्यादध्यक्षोऽधिकृतः स्मृतः । #सौविद,सौविदल्ल,स्थापत्य,कञ्चुकिन् सौविदः सौविदल्लश्च स्थापत्यः कञ्चुकी मतः ॥ ४२७ ॥ #मित्र,सखि,वयस्य,सुहृद्,स्निग्ध मित्रं सखा वयस्यश्च सुहृत्स्निग्धश्च कथ्यते । #अनुजीविन्,सहाय,सेवक,अनुचर,अनुग अनुजीवी सहायः स्यात्सेवकोऽनुचरोऽनुगः ॥ ४२८ ॥ #प्राड्विवाक,अक्षदृश्,स्थेय #न्याय,अक्ष प्राड्विवाकोऽक्षदृक् स्थेयो न्यायोऽक्ष इति कथ्यते । #अन्तर्वंशिक अन्तःपुरेष्वधिकृतः स्मृतोऽन्तर्वंशिको नरः ॥ ४२९ ॥ #क्लीव,वर्षधर,षण्ढ,षण्डक,नपुंसक,उभयव्यञ्जन,पोटा,तृतीयाप्रकृति क्लीवो वर्षधरः षण्ढः षण्डकश्च नपुंसकः । उभयव्यञ्जनं पोटा तृतीयाप्रकृतिः स्मृताः ॥ ४३० ॥ #आरालिक,सूपकार,सूद,बल्लव आरालिकः सूपकारः सूदः स्याद्वल्लवस्तथा । #पौरोगव,सूदाध्यक्ष पौरोगवस्तु विज्ञेयः सूदाध्यक्षो मनीषिभिः ॥ ४३१ ॥ ;p{0050} #वैहासिक,केलिकिल,वासन्तिक वैहासिकः केलिकिलो बुधैर्वासन्तिको मतः । #परिहास,द्रव,नर्मन्,केलि,क्रीडा,खेलन परिहासो द्रवो नर्म केलिः क्रीडा च खेलनम् ॥ ४३२ ॥ #रक्षिवर्ग,अनीकस्थ #सेनानी,वाहिनीपति रक्षिवर्गो ह्यनीकस्थः सेनानीर्वाहिनीपतिः । #अर्थागम,आय #भागधेय,बलि,कर अर्थागमो भवेदायो भागधेयो बलिः करः ॥ ४३३ ॥ #उपदा,प्राभृत,उपग्राह्य,उपायन,लञ्चा,उत्कोच,उपादान,उपचार,अमिष उपदा प्राभृतं प्रोक्तमुपग्राह्यमुपायनम् । लञ्चोत्कोचमुपादानमुपचारस्तथामिषम् ॥ ४३४ ॥ #प्रबोधक,मागध,बन्दिन्,सूत,वैतालिक,मङ्गलपाठक प्रबोधका मागधवन्दिसूता, वैतालिका मङ्गलपाठकाश्च । #अच्छोटन,मृगया,मृगव्य,पापर्द्धि,आखेटक अच्छोटनं स्यान्मृगया मृगव्यं, पापर्द्धिराखेटक इत्यभिन्नम् ॥ ४३५ ॥ #अर्वन्,गन्धर्व,अश्व,सप्ति,वाजिन्,तुरङ्गम,तुरग,तार्क्ष्य,हरि,तुरङ्ग,युयु,घोटक,हय,वाह अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः । तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥ #कर्क,श्वेत,शोण,रक्त,हेम,कृष्ण गुणदेशकृतास्तेषां संज्ञाः स्युरनेकधा लोके । कर्कः श्वेतः शोणो रक्तो हेमश्च कृष्णवर्णोऽश्वः ॥ ४३७ ॥ #मल्लिकाक्ष #इन्द्रायुध मल्लिकाक्षः सितैर्नेत्रैः कृष्णैरिन्द्रायुधो मतः । #श्रीवृक्षकिन् श्रीवृक्षकी स विज्ञेयः श्रीवृक्षो यस्य लाञ्छनम् ॥ ४३८ ॥ #आजानेय,कुलीन #पारसीक,वनायुज आजानेयाः कुलीनाः स्युः पारसीका वनायुजाः । #काम्बोज,वाह्लिक #सैन्धव,सिन्धुपारज काम्बोजा वाह्लिकाः प्रोक्ताः सैन्धवाः सिन्धुपारजाः ॥ ४३९ ॥ #शूलक,दुर्विनीत #पोत,किशोरक शूलको दुर्विनीतोऽश्वः पोतः प्रोक्तः किशोरकः । #अर्वती,वडवा,वामी,प्रसूता,वाजिनी अर्वती वडवा वामी प्रसूता वाजिनी स्मृता ॥ ४४० ॥ ;p{0051} #लून,पुच्छ,लाङ्गूल #बालहस्त,वालधि लूनं पुच्छं तु लाङ्गूलं वालहस्तश्च वालधिः । #प्रोथ,घोणा #मध्य,कश्य #खुर,शफ प्रोथ इत्युच्यते घोणा मध्यं कश्यं खुरः शफः ॥ ४४१ ॥ #पर्याण,पल्ययन #खलीन,कविक पर्याणं स्यात्पल्ययनं खलीनं कविकं स्मृतम् । #चर्मदण्ड,कशा #वल्गा,रश्मि,कुश चर्मदण्डः कशा प्रोक्ता वल्गारश्मिकुशाः स्मृताः ॥ ४४२ ॥ #रंहस्,तरस्,स्यद,प्रस्तर,वेग,रयस्,जव,वाज रंहस्तरः स्यदः स्यात्प्रसरो वेगो रयो जवो वाजः । #पांशु,क्षोद,रेणु,चूर्ण,धूली,रजस् पांशुः क्षोदो रेणुश्चूर्णं धूली रजश्च तुल्यार्थाः ॥ ४४३ ॥ #अन,शताङ्ग,शकट #स्यन्दन,रथ अनः शताङ्गः शकटः स्यन्दनः कथ्यते रथः । #गन्त्री,कम्बलिवाय,कूवरी गन्त्री कम्बलिवाह्यस्तु कूवरी च निगद्यते ॥ ४४४ ॥ #योग्यारथ,वैनयिक #अध्वन्य,पारियानिक योग्यारथो वैनयिको ह्यध्वन्यः पारियानिकः । #कर्णीरथ,प्रवहण,डयन कर्णीरथः प्रवहणं डयनं चेति कथ्यते ॥ ४४५ ॥ #देवतार्थ-रथ,देवरथ #युद्धार्थ-रथ,साम्परायिक देवतार्थो देवरथो युद्धार्थः साम्परायिकः । #क्रीडारथ,पुष्परथ #जेतृ-रथ,जैत्ररथ क्रीडारथः पुष्परथो जेता जैत्ररथः स्मृतः ॥ ४४६ ॥ #चक्र,रथाङ्ग #कूबर,युगन्धर चक्रं रथाङ्गमाख्यातं कूवरं च युगन्धरम् । #चक्रधारा,प्रधि,नेमि #नाभि,चक्र_पिण्डिका चक्रधारा प्रधिर्नेमिर्नाभिश्चक्रस्य पिण्डिका ॥ ४४७ ॥ #अपस्कर,रथाङ्ग #अणि,अक्षाग्रकीलिका अपस्करो रथाङ्गः स्यादणिरक्षाग्रकीलिका । #नियन्तृ,प्राजितृ,क्षत्तृ,दक्षिणस्थ,सारथि नियन्ता प्राजिता क्षत्ता दक्षिणस्थश्च सारथिः ॥ ४४८ ॥ #सव्येष्ठ,सूत #वरूथ,रथगोपन सव्येष्ठः कथ्यते सूतो वरूथं रथगोपनम् । #वाहन,घोरण,युग्य,यान,पत्त्र वाहनं धोरणं युग्यं यानं पत्त्रमिति स्मृतम् ॥ ४४९ ॥ ;p{0052} #शिविका,याप्ययान #वेसर,अश्वतर शिविका याप्ययानं स्याद्वेसरोऽश्वतरो मतः । #पदात,पत्ति,पादात,पदातिक,पदाति,पद्ग,पदग,पादचारिन् पदातपत्तिपादातपदातिकपदातयः । पद्गश्च पदगश्चेति कथ्यन्ते पादचारिणः ॥ ४५० ॥ #दूष्य,स्थुल,पटकुटी,गुणलयनी,केणिका दूष्यं स्थुलं पटकुटी गुणलयनी केणिका च निर्दिष्टा । #ध्रुवक,शिवक,शङ्कु,पुष्पलक,कीलक ध्रुवकः शिवकः शङ्कुः पुष्पलकः कीलकः प्रोक्तः ॥ ४५१ ॥ #यात्रा,प्रयाण,प्रस्थान #निवेश,शिविर यात्रा प्रयाणं प्रस्थानं निवेशः शिविरं स्मृतम् । #अवस्कन्द,प्रपात,सौप्तिक अवस्कन्दः प्रपातश्च सौप्तिकं च निगद्यते ॥ ४५२ ॥ #सङ्ग्राम,समिति,समित्,समर,संख्य,समीक,रण,युद्ध,युध्,प्रधन,मृध,समुदय,संयत्,कलि,संयुग,द्वन्द्व,आयोधन,सम्प्रहार,कलह,आक्रन्द,आहव,अभ्यागम,संस्फोट,प्रविदारण,प्रहरण,अनीक,आजि,सङ्गर,सम्पराय,समाघात,प्रघात,समाह्वय,जन्य,अभिसम्पात,सम्मर्द,विग्रह सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं, युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् । द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः, संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥ सम्परायः समाघातः प्रघातश्च समाह्वयः । जन्यं स्यादभिसम्पातः सम्मर्दो विग्रहस्तथा ॥ ४५४ ॥ #अभियाति,अराति,अमित्र,रिपु,प्रतिपक्ष,विपक्ष,विरोधिन्,अरि,अहित,असहन,जिघांसु,परिपन्थिन्,पर,असुहृद्,प्रत्यर्थिन्,पर्यवस्थातृ,द्वेषिन्,वैरिन्,शात्रव,शत्रु,सपत्न,भ्रातृव्य,प्रत्यनीक,द्विषत् अभियातिररातिरमित्ररिपू, प्रतिपक्षविपक्षविरोध्यरयः । अहितोऽसहनश्च जिघांसुरिति, प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥ ;p{0053} प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः । शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥ #पृतना,सेना,ध्वजिनी,पताकिनी,वाहिनी,बल,सैन्य,चक्र,चमू,वरूथिनी,अनीकिनी,अनीक पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् । चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥ #वैजयन्ती,पताका,केतु,केतन,ध्वज वैजयन्ती पताका च केतुः स्यात्केतनं ध्वजः । #उच्चूल,अवचूल,ऊर्ध्वमुखकूर्चक,अधोमुखकूर्चक अस्योच्चूलावचूलाख्यावूर्ध्वाधोमुखकूर्चकौ ॥ ४५८ ॥ #सन्नाह,कवच,वर्मन्,तनुत्राण,उरश्छद,जगर,कङ्कट,माठी,दंशन,जालिका सन्नाहः कवचं वर्म तनुत्राणमुरश्छदः । जगरः कङ्कटो माठी दंशनं जालिका स्मृता ॥ ४५९ ॥ #खेटक,फलक,चर्मन्,आवरण खेटकं फलकं चर्म प्रोक्तमावरणं बुधैः । #वर्मित,कवचित,सन्नद्ध,दंशित वर्मितः स्यात्कवचितः सन्नद्धो दंशितस्तथा ॥ ४६० ॥ #सर्वाभिसार,सर्वसन्नहन सर्वाभिसारमिच्छन्ति सर्वसन्नहनं बुधाः । #अभिनिर्याण,अभिषेणन यत्सेनयाभिनिर्याणं स्मृतं तदभिषेणनम् ॥ ४६१ ॥ #हेति,शस्त्र,प्रहरण,आयुध,अस्त्र हेतिः शस्त्रं प्रहरणमायुधमस्त्रं चतुर्विधं तच्च । #मुक्तामुक्त,अमुक्त,करमुक्त,यन्त्रमुक्त मुक्तामुक्तममुक्तं करमुक्तं यन्त्रमुक्तं च ॥ ४६२ ॥ शक्त्यादि पाणिमुक्तं स्यादमुक्तं क्षुरादिकम् । मुक्तामुक्तं तु यष्ट्यादि यन्त्रमुक्तं शरादिकम् ॥ ४६३ ॥ #अस्त्र,धनुष्,इष्वास,कोदण्ड,धन्वन्,कार्मुक,चाप अस्त्रं धनुरिष्वासं कोदण्डं धन्व कार्मुकं चापम् । #बाणासन,द्रुणा,मौर्वी,ज्या,सिञ्जिनी,गुण,जीवा बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥ #तूणीर,उपासङ्ग,तूण,तूणी,निषङ्ग,इषुधि,बाणाश्रय,कलाप #कार्मुककोटि,अटनि तूणीरमुपासङ्गस्तूणं तूणी निषङ्ग इषुधिश्च । बाणाश्रयः कलापः कार्मुककोटिर्भवेदटनिः ॥ ४६५ ॥ #कङ्क,पत्त्र,शर,मार्गण,बाण,चित्रपुङ्ख,विशिख,इषु,कलम्ब,सायक,प्रदर,काण्ड,पृषत्क,पत्त्रिन्,खग,शिलीमुख,रोप कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः । सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥ ;p{0054} #प्रक्ष्वेडन,एषण,नारा सर्वायसस्तु बाणः प्रक्ष्वेडन एषणश्च नाराचः । #काण्डभेद,तीरी,तद्बल,दण्डासन तीरीतद्बलदण्डासनादयः काण्डभेदाः स्युः ॥ ४६७ ॥ #पत्त्रपाली,वाज #कर्तरी,पुङ्ख पत्त्रपाली भवेद्वाजः कर्तरी पुङ्ख उच्यते । #वेध्य,लक्ष्य,शरव्य,निमित्त वेध्यं लक्ष्यं शरव्यं च निमित्तं च समं विदुः ॥ ४६८ ॥ #अर्धचन्द्र,क्षुरप्र #धाराग्र,मुख अर्धचन्द्रक्षुरप्रादि धाराग्रं मुखमुच्यते । #आराग्र आराग्रं तु मुखं तेषां पुष्पपत्त्रादिभेदतः ॥ ४६९ ॥ #बाणमुक्ति,व्यवच्छेद #दीप्ति,वेग_तीव्रता बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता । #अभ्यास,योग्या #श्रमस्थान,खलूरिका अभ्यासः कथ्यते योग्या श्रमस्थानं खलूरिका ॥ ४७० ॥ #लघुहस्त,शीघ्रवेधिन् #कृतपुङ्ख,शिक्षित लघुहस्तः शीघ्रवेधी कृतपुङ्खस्तु शिक्षितः । #अपराद्धेषु स भवेदपराद्धेषुर्यस्य लक्ष्याच्च्युतः खगः ॥ ४७१ ॥ #निस्त्रिंश,करबाल,खड्ग,कौक्षेयक,कृपाण,रिष्टि,असि,चन्द्रहास,तरवारि,मण्डलाग्र निस्त्रिंशः करबालः खड्गः कौक्षेयकः कृपाणः स्यात् । रिष्टिरसिचन्द्रहासौ तरवारिर्मण्डलाग्रं च ॥ ४७२ ॥ #कोश,प्रत्याकार,खड्गपिधान #त्सरु,मुष्टि कोशः प्रत्याकारः खड्गपिधानं त्सरुर्भवेन्मुष्टिः । #असिपुत्रिका,असिधेनु,क्षुरिका,पत्त्र,शस्त्रिका असिपुत्रिकासिधेनुः क्षुरिका पत्त्रं च शस्त्रिका ज्ञेया ॥ ४७३ ॥ #परश्वध,कुठार,परशु,स्वधिति परश्वधः कुठारः स्यात्परशुः स्वधितिस्तथा । #निशात,निशित,धौत,तेजित निशातं निशितं धौतं तेजितं च समं स्मृतम् ॥ ४७४ ॥ #प्रास,कुन्त #मुद्गर,द्रुघण प्रासो निगदितः कुन्तो मुद्गरो द्रुघणः स्मृतः । #क्रकच,करपत्त्र #परिघ,परिघातन क्रकचं करपत्त्रं स्यात्परिघः परिघातनः ॥ ४७५ ॥ #यष्टि,पट्टिस,दुःस्फोट,मुखण्डी,शङ्कु,शक्ति,भिन्दिपाल,गदा,दण्ड,चक्र,शस्त्र_जाति यष्टिपट्टिसदुःस्फोटमुखण्डीशङ्कुशक्तयः । भिन्दिपालगदादण्डचक्राद्याः शस्त्रजातयः ॥ ४७६ ॥ ;p{0055} #मारण,निशरण,निवर्हण,सूदन,निरसन,निशुम्भन,घातन,प्रशमन,प्रमापण,वर्जन,विशसन,प्रवासन,निर्वापण,निर्वासन,कदन,व्यापादन,निर्ग्रन्थन,आलम्भ,प्रमया,हिंसा,संज्ञपन मारणं निशरणं निवर्हणं, सूदनं निरसनं निशुम्भनम् । घातनं प्रशमनं प्रमापणं, वर्जनं विशसनं प्रवासनम् ॥ ४७७ ॥ निर्वापणनिर्वासनकदनव्यापादनानि तुल्यानि । निर्ग्रन्थनमालम्भः प्रमया हिंसा च संज्ञपनम् ॥ ४७८ ॥ #नष्ट,गृहीतदिक्,कान्दिशीक,भयद्रुत नष्टो गृहीतदिक् प्रोक्तः कान्दिशीको भयद्रुतः । #प्रस्कन्न,पतित #जितकाशिन्,जिताहव प्रस्कन्नः पतितो ज्ञेयो जितकाशी जिताहवः ॥ ४७९ ॥ #शुद्धान्त,अवरोध,अन्तःपुर शुद्धान्तमवरोधश्च राज्ञोऽन्तःपुरमुच्यते । #कृताभिषेका,महिषी #भट्टिनी कृताभिषेका महिषी भट्टिन्य इतराः स्मृताः ॥ ४८० ॥ #रामा,वामा,वामनेत्रा,पुरन्ध्री,नारी,भीरु,भामिनी,कामिनी,योषा,योषित्,वासिता,वर्णिनी,स्त्री,सीमन्तिनी,अङ्गना,सुन्दरी,अबला,महिला,ललना,प्रमदा,रमणी,नितम्बिनी,वनिता,दयिता,प्रतीपदर्शिनी,कान्ता,वधू,वशा,युवति रामा वामा वामनेत्रा पुरन्ध्री, नारी भीरुर्भामिनी कामिनी च । योषा योषिद्वासिता वर्णिनी स्त्री, स्यात्सीमन्तिन्यङ्गना सुन्दरी च ॥ ४८१ ॥ अबला महिला ललना प्रमदा रमणी नितम्बिनी वनिता । दयिता प्रतीपदर्शिन्युक्ता कान्ता वधूर्वशा युवतिः ॥ ४८२ ॥ #कुमारी,कन्या #किञ्चित्प्रौढा,सुवासिनी कुमारी कथिता कन्या किञ्चित्प्रौढा सुवासिनी । #वर्या,पतिंवरा #नग्ना,कौटवी वर्या पतिंवरा प्रोक्ता नग्ना प्रोक्ता च कौटवी ॥ ४८३ ॥ #अदृष्टरजस्,नग्निका अदृष्टरजसं नारीं नग्निकां ब्रुवते बुधाः । #वधूटी,चिरण्टी,द्वितीयवयस् वधूटी च चिरण्टी च द्वितीयवयसौ स्त्रियौ ॥ ४८४ ॥ #अर्द्धवृद्धा,कात्यायनिका अर्द्धवृद्धा तु या नारी सा कात्यायनिका स्मृता । #पुनर्भू,दिधिषू #वृषस्यन्ती,रतार्थिनी पुनर्भूर्दिधिषूः प्रोक्ता वृषस्यन्ती रतार्थिनी ॥ ४८५ ॥ ;p{0056} #पतिवत्नी,जीवत्पति #जीवतोका,जीवसू पतिवत्नी जीवत्पतिर्जीवतोका च जीवसूः । #निर्वीरा रहिता पतिपुत्राभ्यां निर्वीरेत्यभिधीयते ॥ ४८६ ॥ #विश्वस्ता,विधवा #पुष्पहीना,निष्फला विश्वस्ता विधवा प्रोक्ता पुष्पहीना च निष्कला । #श्रमणा,भिक्षुकी,मुण्डा #वयस्या,आली,सखी श्रमणा भिक्षुकी मुण्डा वयस्याली सखी स्मृता ॥ ४८७ ॥ #अवी,उदक्या,रजस्वला,आत्रेयिका,पुष्पवती अवीरुदक्या च रजस्वला स्यात्, आत्रेयिका पुष्पवती च नारी । #राका,जातरजस् #नश्यत्प्रसूति,भिन्दु राका भवेज्जातरजास्तु कन्या, नश्यत्प्रसूतिः कथिता च भिन्दुः ॥ ४८८ ॥ #मुख्या,वरारोहा,वरस्त्री,मत्तकाशिनी मुख्या नारी वरारोहा वरस्त्री मत्तकाशिनी । #विदग्धा,मत्ता,वाणिनी स्त्री विदग्धा च मत्ता च वाणिनीत्यभिधीयते ॥ ४८९ ॥ #रूपाजीवा,वेश्या,गणिका,पण्याङ्गना,क्षुद्रा रूपाजीवा वेश्या गणिका पण्याङ्गना तथा क्षुद्रा । #राजकुलप्रतिबद्धा,वारस्त्री,वारमुख्या राजकुलप्रतिबद्धा वारस्त्री वारमुख्या च ॥ ४९० ॥ #गाणिक्य गाणिक्यं गणिकानां च समूहः कथ्यते बुधैः । #असिक्नी,अन्तःपुरप्रेष्या #दूती,सञ्चारिका असिक्न्यन्तःपुरप्रेष्या दूती सञ्चारिका स्मृता ॥ ४९१ ॥ #कुट्टिनी,शम्भली,चुन्दी #सैरन्ध्री,गन्धकारिका कुट्टिनी शम्भली चुन्दी सैरन्ध्री गन्धकारिका । #पोटा,वोटा,चेटी,दासी,कुट्टहारिका पोटा वोटा तथा चेटी दासी स्यात्कुट्टहारिका ॥ ४९२ ॥ #पाञ्चालिका,पुत्रिका पाञ्चालिका पुत्रिका स्यात्काष्ठदन्तादिनिर्मिता । #लेप्यमयी,अञ्जलिकारिका स्मृता लेप्यमयी स्त्री तु बुधैरञ्जलिकारिका ॥ ४९३ ॥ #दाराः,क्षेत्र,कलत्र,भार्या,सहचरी,वधू,सधर्मचारिणी,पत्नी,जाया,गृहिणी,गृहा दाराः क्षेत्रं कलत्रं च भार्या सहचरी वधूः । सधर्मचारिणी पत्नी जाया च गृहिणी गृहाः ॥ ४९४ ॥ ;p{0057} #उपयाम,परिणयन,पाणिग्रहण,विवाह,उद्वाह उपयामः परिणयनं पाणिग्रहणं विवाह उद्वाहः । #कुलबालिका,कुलस्त्री #पतिव्रता,सुचरिता,सती,साध्वी कुलबालिका कुलस्त्री पतिव्रता सुचरिता सती साध्वी ॥ ४९५ ॥ #पांशुला,बन्धुकी,स्वैरिणी,असती,पुंश्चली,इत्वरी,धर्षिणी,कुलटा #अविनीता,अभिसारिका पांशुला बन्धुकी स्वैरिण्यसती पुंश्चलीत्वरी । धर्षिणी कुलटा प्रोक्ता त्वविनीताभिसारिका ॥ ४९६ ॥ #कान्त,कमितृ,पति,वरयितृ,भर्तृ,भोक्तृ,धव,रुच्य,अभीक,वर,अभिक,रमण,प्राणाधिनाथ,अनुग कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो, रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः । #सूनु,सन्तति,आत्मज,तनुज,पुत्र,प्रसूति,सुत,तुक्,तोक,तनय,नन्दन,अपत्य सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः, तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥ #आपन्नसत्त्वा,गुर्वी,अन्तर्वत्नी,गर्भिणी आपन्नसत्त्वा गुर्वी स्यादन्तर्वत्नी च गर्भिणी । #दोहद,दौहृद,श्रद्धा,लालसा दोहदं दौहृदं श्रद्धा लालसा च समाः स्मृताः ॥ ४९८ ॥ #सूतिमास,वैजनन #गर्भ,भ्रूण सूतिमासो वैजननो गर्भो भ्रूण इति स्मृतः । #अरिष्टगृह,सूतिकाभवन अरिष्टगृहमिच्छन्ति सूतिकाभवनं बुधाः ॥ ४९९ ॥ #विजाता,प्रजाता,प्रसूता विजाता च प्रजाता च प्रसूता स्त्री निगद्यते । #गर्भाशय,जरायु #उल्व,कलल गर्भाशयो जरायुः स्यादुल्वं च कललं स्मृतम् ॥ ५०० ॥ #कन्यापुत्र,कानीन #नाटेर,नटीसुत कन्यापुत्रस्तु कानीनो नाटेरः स्यान्नटीसुतः । #बन्धुक,बन्धुकीपुत्र #गोप्य,दासीसुत बन्धुको बन्धुकीपुत्रो गोप्यो दासीसुतः स्मृतः ॥ ५०१ ॥ #बाल,पाक,अर्भक,गर्भ,पोत,पृथुक,शिशु,शाव,डिम्भ #बटु,माणवक बालः पाकोऽर्भको गर्भः पोतश्च पृथुकः शिशुः । शावो डिम्भश्च विज्ञेयो वटुर्माणवको मतः ॥ ५०२ ॥ #प्रवयस्,स्थविर,वृद्ध,यातयाम प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते । #जरा,विस्रसा #दारक,तरुण,युवन् जरा तु विस्रसा प्रोक्ता दारकस्तरुणो युवा ॥ ५०३ ॥ ;p{0058} #अम्बा,सवित्री,जननी,मातृ #वप्तृ,तात,जनक,पितृ अम्बा सवित्री जननी च माता, वप्ता च तातो जनकः पिता च । #स्नुषा,जनी,पुत्रवधू,वधू स्नुषा जनी पुत्रवधूर्वधूः स्यात्, #प्रजावती,भ्रातृवधू प्रजावती भ्रातृवधूः स्मृता च ॥ ५०४ ॥ #दुहिता,तनया,पुत्री #जामातृ,दुहितृ_पति दुहिता तनया पुत्री जामाता दुहितुः पतिः । #दौहित्र,नप्तृ,पौत्र दौहित्रस्तत्सुतो नप्ता स च पौत्रश्च कथ्यते ॥ ५०५ ॥ #अग्रज,पूर्वज,ज्येष्ठ #कनिष्ठ,अवरज,अनुज अग्रजः पूर्वजो ज्येष्ठः कनिष्ठोऽवरजोऽनुजः । #भ्रातृव्य,भ्रातृपुत्र,भ्रात्रीय,भ्रातृज भ्रातृव्यो भ्रातृपुत्रः स्याद् भ्रात्रीयो भ्रातृजस्तथा ॥ ५०६ ॥ #धात्री,उपमाता #भगिनी,जामि,स्वसृ धात्री स्यादुपमाता भगिनी जामिः स्वसा च विज्ञेया । #स्वस्रीय,जामेय,भागिनेय तत्पुत्रः स्वस्रीयो जामेयो भागिनेयः स्यात् ॥ ५०७ ॥ #समानोदर्य,सोदर्य,सगर्भ,सोदर समानोदर्यसोदर्यसगर्भाः सोदराः समाः । #यातृ भ्रातृवर्गस्य या जाया यातरस्ताः परस्परम् ॥ ५०८ ॥ #आत्मीय,स्वजन,बन्धु,आप्त,ज्ञाति,बान्धव,सनाभि,सपिण्ड,सगोत्र आत्मीयः स्वजनो बन्धुराप्तो ज्ञातिश्च बान्धवः । सनाभयः सपिण्डाश्च सगोत्राश्च समाः स्मृताः ॥ ५०९ ॥ #तनु,तनू,संहनन,शरीर,कलेवर,विग्रह,देह,काय,अङ्ग,वपुस्,वर्ष्मन्,पुर,पिण्ड,क्षेत्र,गात्र,घन,मूर्ति तनुस्तनूः संहननं शरीरं, कलेवरं विग्रहदेहकायाः । अङ्गं वपुर्वर्ष्म पुरं च पिण्डं, क्षेत्रं च गात्रं च घनश्च मूर्तिः ॥ ५१० ॥ #अंह्रि,पाद,चरण #पाणि,शय,पञ्चशाख,कर,हस्त अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः । #कामाङ्कुश,कररुह,पुनर्नव,पाणिज,नख,नखर कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥ ;p{0059} #काञ्चीपद,कलत्र,जघन,श्रोणी,ककुद्मती काञ्चीपदं कलत्रं जघनं श्रोणी ककुद्मती ज्ञेया । #आरोह,नितम्ब,कटी,कटीर,त्रिकस्थान आरोहश्च नितम्बः कटी कटीरं त्रिकस्थानम् ॥ ५१२ ॥ #गुद,पायु,अपान #कटिप्रोथौ,स्फिजौ,पुतौ गुदः पायुरपानं स्यात्कटिप्रोथौ स्फिजौ पुतौ । #कुकुन्दरौ,जघनकूपकौ कुकुन्दरौ समाचष्टे जनो जघनकूपकौ ॥ ५१३ ॥ #भग,योनि,उपस्थ,वराङ्ग,स्मरमन्दिर भगो योनिरुपस्थश्च वराङ्गं स्मरमन्दिरम् । #शिश्न,शेफ,मेढ्र,मेहन,शेफस् शिश्नः शेफोऽथ मेढ्रश्च तुल्ये मेहनशेफसी ॥ ५१४ ॥ #जानु,अष्ठीवत् #प्रसृता,जङ्घा #घुण्टक,गुल्फ जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः । #ऊरु,सक्थि #पिचण्ड,जठर,उदर,तुन्द,कुक्षि,गर्भ ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥ #अङ्गुल्यः,करशाखाः #कर्ण,श्रोत्र,श्रुति,श्रव,श्रवण अङ्गुल्यः करशाखाः कर्णः श्रोत्रं श्रुतिः श्रवः श्रवणम् । #ग्रीवा,धमनि,मन्या,शिरोधरा,कन्धरा #गल,कण्ठ ग्रीवा धमनिर्मन्या शिरोधरा कन्धरा गलः कण्ठः ॥ ५१६ ॥ #कम्बुग्रीवा रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते । #अवलग्न,विलग्न,मध्यम,मध्य अवलग्नं विलग्नं च मध्यमं मध्यमुच्यते ॥ ५१७ ॥ #मुण्ड,उत्तमाङ्ग,मस्तक,मौलि,शिरस्,शीर्ष,मूर्धक मुण्डोत्तमाङ्गमस्तकमौलिशिरःशीर्षमूर्धकानि स्युः । #तुण्ड,वदन,वक्त्र,लपन,मुख,आस्य,आनन तुण्डं वदनं वक्त्रं लपनं मुखमास्यमाननं च समम् ॥ ५१८ ॥ #दृक्,दृष्टि,नेत्र,लोचन,चक्षुष्,नयन,अम्बक,ईक्षण,अक्षि दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि । #अश्रु,वाष्प,रोदन,नयनजल,अश्र,अस्रु अश्रूणि वाष्परोदननयनजलाश्रास्रुनामानि ॥ ५१९ ॥ #नयनोपान्त,अपाङ्ग #कनीनिका,नयनमध्यतारा नयनोपान्तमपाङ्गः कनीनिका नयनमध्यतारा च । #कूर्प #सृक्वन्,ओष्ठपर्यन्त कूर्पं भ्रुवोश्च मध्यं सृक्व स्यादोष्ठपर्यन्तः ॥ ५२० ॥ ;p{0060} #सिङ्घिनी,नासिका,नासा,घ्राण,घोणा सिङ्घिनी नासिका नासा घ्राणं घोणा च कथ्यते । #रसज्ञा,रसना,जिह्वा #तालु,काकुद रसज्ञा रसना जिह्वा तालु काकुदमुच्यते ॥ ५२१ ॥ #दोस्,प्रवेष्ट,भुज,बाहु,भुजा दोः प्रवेष्टो भुजो बाहुर्भुजा च स्मर्यते बुधैः । #गण्ड,गल्ल,कपोल,हनु गण्डो गल्लः कपोलश्च हनुस्तुल्यार्थवाचकाः ॥ ५२२ ॥ #मुष्क,अण्ड,वृषण,कोश #सङ्ग्राह,मुष्टि मुष्कोऽण्डं वृषणः कोशः सङ्ग्राहो मुष्टिरुच्यते । #जत्रु #ऊरुसन्धि,वङ्क्षण जत्रु वक्षोंऽसयोः सन्धिरूरुसन्धिश्च वङ्क्षणः ॥ ५२३ ॥ #रोमन्,तनूरुह #पक्ष्म,नयनगतरोमन् #श्मश्रु,मुखगतरोमन् रोम तनूरुहमुक्तं नयनगतं पक्ष्म मुखगतं श्मश्रु । #अधर,दन्तच्छद,ओष्ठ,दन्तवासस् अधरो दन्तच्छद ओष्ठ उच्यते दन्तवासश्च ॥ ५२४ ॥ #चिबुक #ललाट,अलिक #भुजाग्र,अंस ओष्ठस्याधश्चिबुकं ललाटमलिकं भुजाग्रमंसं च । #कक्षा,बाहुमूल #घाटा,अवटु,कृकाटिका कक्षां च बाहुमूलं घाटामवटुं कृकाटिकामाहुः ॥ ५२५ ॥ #उरसिज,कुच,वक्षोरुह,पयोधर,स्तन उरसिजकुचवक्षोरुहपयोधराः स्तनसमाननामानि । #कुचमुख,चूचुक,वृन्त,शिखा उक्ताः कुचमुखचूचुकवृन्तानि शिखा च तुल्यानि ॥ ५२६ ॥ #भुजमध्य,उरस्,वक्षस्,हृदयस्थान,वत्स भुजमध्यमुरो वक्षो हृदयस्थानं च वत्समिच्छन्ति । #दशन,द्विज,दन्त,रद,रदन एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः ॥ ५२७ ॥ #क्रोड,अङ्क,उत्सङ्ग,प्राग्भाग क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः । #पृष्ठ,पश्चिमभाग #कटि,शीर्षक पृष्ठं स्यात्पश्चिमो भागः कटौ च कटिशीर्षकौ ॥ ५२८ ॥ #जीवस्थान,मर्मन् #पादाग्र,प्रपद जीवस्थानं भवेन्मर्म पादाग्रं प्रपदं मतम् । #सीमन्त सीमन्तः कथ्यते स्त्रीणां केशमध्ये तु पद्धतिः ॥ ५२९ ॥ #केश,शिरसिज,मूर्धज,कच,चिकुर,शिरोरुह,बाल केशाः शिरसिजमूर्धजकचचिकुरशिरोरुहाः स्मृता वालाः । #वेणी,धम्मिल्ल,कुन्तल,कबरी तद्बन्धविशेषाः स्युर्वेणी धम्मिल्लकुन्तलकवर्यः ॥ ५३० ॥ ;p{0061} #हस्त,पक्ष,पाश हस्तः पक्षः पाशः केशेषु बहुत्ववाचकाः शब्दाः । #अलक #भ्रमरक अलकं कुटिलाः केशा भ्रमरकमुक्तं ललाटस्थम् ॥ ५३१ ॥ #शिखा,काकपक्ष,शिखण्डिका बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डिका । #पलित,पाण्डुर #जटा,सटा पलितं पाण्डुराः केशा व्रतिनां तु जटा सटा ॥ ५३२ ॥ #मणिबन्ध,पाणिमूल #कफणि,कूर्पर मणिबन्धः पाणिमूलं कफणिः कूर्परः स्मृतः । #प्रकोष्ठ #प्रकाण्ड तयोर्मध्यं प्रकोष्ठः स्यात्प्रकाण्डः कूर्परांसयोः ॥ ५३३ ॥ #चेतस्,चित्त,मनस्,स्वान्त,हृदय,मानस चेतश्चित्तं मनः स्वान्तं हृदयं मानसं समम् । #एकायन,एकाग्र,एकतान एकायनं तथैकाग्रमेकतानं च तद्गतम् ॥ ५३४ ॥ #आधि,मानसी-पीडा #वाञ्छितार्थ,मनोरथ आधिस्तु मानसी पीडा वाञ्छितोऽर्थो मनोरथः । #ख,अक्ष,इन्द्रिय,स्रोतस्,हृषीक,करण खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥ #कर मध्याङ्गुलीकूर्परयोर्मध्ये प्रामाणिकः करः । #रत्नि,बद्धमुष्टिकर #अरत्नि,सकनिष्ठिक बद्धमुष्टिकरो रत्निररत्निः सकनिष्ठिकः ॥ ५३६ ॥ #सम्पिण्डिताङ्गुलि,मृष्टि #प्रसृति,कुञ्चिताङ्गुलि सम्पिण्डिताङ्गुलिर्मुष्टिः प्रसृतिः कुञ्चिताङ्गुलिः । #प्रसारिताङ्गुलि,पाणि,प्रतल,तल प्रसारिताङ्गुलिः पाणिः कथ्यते प्रतलस्तलः ॥ ५३७ ॥ #प्रादेश #ताल प्रादेशः स्यात्प्रदेशिन्या तालो मध्यमया भवेत् । #गोकर्ण #वितस्ति गोकर्णोऽनामया प्रोक्तो वितस्तिः स्यात्कनिष्ठया ॥ ५३८ ॥ #आकल्प,मण्डन,वेष,प्रतिकर्मन्,प्रसाधन,भूषण,अलङ्कार,नेपथ्य,आभरण आकल्पो मण्डनं वेषः प्रतिकर्म प्रसाधनम् । भूषणं स्यादलङ्कारो नेपथ्याभरणे तथा ॥ ५३९ ॥ #समालभन,चर्चा,मार्ष्टि,स्थासक,हस्तबिम्ब #परिष्कार,भूषण समालभनमिच्छन्ति चर्चां मार्ष्टिं च सूरयः । स्थासकं हस्तविम्बं स्यात्परिष्कारश्च भूषणम् ॥ ५४० ॥ #तिलक,तमालपत्त्र,चित्रक,विशेषक,पुण्ड्र तिलकं तमालपत्त्रं चित्रकमुक्तं विशेषकः पुण्ड्रम् । #ललाटिका रचिता ललाटपट्टे ललाटिका कथ्यते रेखा ॥ ५४१ ॥ ;p{0062} #पत्रवल्ली भुजशिखरस्तनमण्डलकपोलकण्ठेषु विरचिता कुशलैः । अनुलेपनेन लेखा निगद्यते पत्रवल्लीति ॥ ५४२ ॥ #कुङ्कुम,घुसृण,वर्ण,लोहितचन्दन,काश्मीरज,कालेय,जागुड कुङ्कुमं घुसृणं वर्णं प्रोक्तं लोहितचन्दनम् । काश्मीरजं च विद्वद्भिः कालेयं जागुडं स्मृतम् ॥ ५४३ ॥ #चन्दन,मलयज,श्रीखण्ड,रोहणद्रुम चन्दनं स्यान्मलयजं श्रीखण्डं रोहणद्रुमः । #मृगनाभि,मृगमद,कस्तूरिका मृगनाभिर्मृगमदः प्रोक्ता कस्तूरिका बुधैः ॥ ५४४ ॥ #कर्पूर,घनसार #काकतुण्ड,अगरु कर्पूरो घनसारः स्यात्काकतुण्डोऽगरुः स्मृतः । #ताम्बूल,क्रमुक #अङ्गराग,विलेपन ताम्बूलं क्रमुकं प्रोक्तमङ्गरागो विलेपनम् ॥ ५४५ ॥ #उपसंव्यान,परिधान,अन्तरीय,निवसन उपसंव्यानं परिधानमन्तरीयं च निवसनं तुल्यम् । #प्रावरण,संव्यान,प्रच्छादन,उत्तरीय प्रावरणं संव्यानं प्रच्छादनमुत्तरीयं च ॥ ५४६ ॥ #अर्धोरुक,चण्डातक अर्धोरुकं वरस्त्रीणां वासश्चण्डातकं स्मृतम् । #परिधानांशुकग्रन्थि,नीवी,उच्चय परिधानांशुकग्रन्थिः प्रोक्ता नीवी तथोच्चयः ॥ ५४७ ॥ #चेल,चीर,वासस्,कर्पट,आच्छादन,निवसन,अम्बर,अंशुक,वस्त्र,सिचय,पट,पोट चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च । अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥ #त्वग्ज,सूत्रज,कृमिज,रोमज चतुर्विधं तु विज्ञेयं त्वक्सूत्रकृमिरोमजम् । #पत्त्रोर्ण,धौतकौशेय,दुकूल,क्षौम पत्त्रोर्णं धौतकौशेयं दुकूलं क्षौममिष्यते ॥ ५४९ ॥ #कार्पास,बादर #वस्त्र_अन्त,अञ्चल कार्पासं वादरं प्रोक्तं वस्त्रस्यान्तो मतोऽञ्चलः । #अहत,नव-वासस् #जीर्ण-वासस्,पटच्चर अहतं स्यान्नवं वासो जीर्णमुक्तं पटच्चरम् ॥ ५५० ॥ #धौत,उद्गमनीय,वर्ति,वस्ति,दशा,सिच् धौतमुद्गमनीयं च वर्तिर्वस्तिर्दशाः सिचः । #आविक,औरभ्र,रल्लक,ऊर्णायु,कम्बल एकार्था आविकौरभ्ररल्लकोर्णायुकम्बलाः ॥ ५५१ ॥ ;p{0063} #कञ्चुक,वारवाण #कूर्पास,निचोलक कञ्चुको वारवाणः स्यात्कूर्पासश्च निचोलकः । #स्रज्,माला,माल्य #गर्भक स्रग्माला माल्यमाख्यातं केशमध्ये तु गर्भकः ॥ ५५२ ॥ #प्रभ्रष्टक #ललामक प्रभ्रष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् । #वैकक्षक तिर्यग्वक्षसि विक्षिप्तं वैकक्षकमुदाहृतम् ॥ ५५३ ॥ #प्रालम्बक ग्रीवायां लम्बितं प्राज्ञैः प्रालम्बकमिति स्मृतम् । #आपीड,शेखर,उत्तंस,अवतंस,शिरःस्रज् आपीडः शेखरोत्तंसावतंसाः शिरसि स्रजः । #कर्णपूर,उत्तंस,अवतंसक कर्णपूरेऽपि दृश्येते तथोत्तंसावतंसकौ ॥ ५५४ ॥ #जतु,यावक,लाक्षा,अलक्तक #सिक्थक,मधूच्छिष्ट जतुयावकलाक्षाऽलक्तकाः समाः सिक्थकं मधूच्छिष्टम् । #कज्जल,अञ्जन #आदर्श,दर्पण,मुकुर कज्जलमञ्जनमभिहितमादर्शो दर्पणो मुकुरः ॥ ५५५ ॥ #ताडङ्क,ताडपत्त्र,कुण्डल,कर्णवेष्टन ताडङ्कस्ताडपत्त्रं स्यात्कुण्डलं कर्णवेष्टनम् । #कर्णालङ्करण,कर्णिका कर्णालङ्करणं सर्वं कर्णिकेत्यभिधीयते ॥ ५५६ ॥ #केयूर,अङ्गद,बाहुमूलविभूषण केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम् । #आवाप,परिहार्य,कटक,वलय आवापः परिहार्यः स्यात्कटको वलयं तथा ॥ ५५७ ॥ #कङ्कण,हस्तसूत्र,प्रतिसर कङ्कणं हस्तसूत्रं च विदुः प्रतिसरं बुधाः । #ग्रीवालङ्करण,ग्रैवेयक ग्रीवालङ्करणं सर्वं ग्रैवेयकमितीष्यते ॥ ५५८ ॥ #अङ्गुल्याभरण,अङ्गुलीयक,ऊर्मिका अङ्गुल्याभरणं प्रोक्तमङ्गुलीयकमूर्मिका । #अङ्गुलिमुद्रा कथ्यतेऽङ्गुलिमुद्रा च भवेद्या लिखिताक्षरा ॥ ५५९ ॥ #कलाप,सप्तकी,काञ्ची,मेखला,रसना,कटिसूत्र,सारसन #किङ्किणी,क्षुद्रघण्टिका कलापः सप्तकी काञ्ची मेखला रसना तथा । कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५६० ॥ #सिञ्जिनी,पादकटक,तुलाकोटि,नूपुर,मञ्जीर,हंसक,चरणाभरण सिञ्जिनी पादकटकस्तुलाकोटिस्तु नूपुरम् । मञ्जीरं हंसकं स्त्रीणां चरणाभरणं स्मृतम् ॥ ५६१ ॥ ;p{0064} #देवच्छन्दस्,शतयष्टि #अर्घ,माणवक देवच्छन्दः शतयष्टिरर्धो माणवकः स्मृतः । #हार,गुच्छ,अर्धगुच्छ,गोपुच्छ हारो गुच्छार्धगुच्छौ च गोपुच्छश्च भवेत्क्रमात् ॥ ५६२ ॥ #एकावली,एकयष्टि,कण्ठिका एकावल्येकयष्टिः स्यात्कथ्यते सा च कण्ठिका । #नक्षत्रमाला,सप्तविंशतिमौक्तिका प्रोक्ता नक्षत्रमाला च सप्तविंशतिमौक्तिका ॥ ५६३ ॥ #नायक,तरल हारामध्यस्थितं रत्नं नायकं तरलं विदुः । #चूडामणि चूडामणिं च विद्वांसो वदन्ति शिरसि स्थितम् ॥ ५६४ ॥ #किरीट,उष्णीष,कोटीर,मुकुट आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् । #राढा,शोभा,विभूषा,अभिख्या,सुषमा राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥ #निभालन,निशामन,निध्यान,अवलोकन,ईक्षण,दर्शन,दृष्टि,द्योतन निभालनं निशामनं निध्यानमवलोकनम् । ईक्षणं दर्शनं दृष्टिर्द्योतनं च समं स्मृतम् ॥ ५६६ ॥ #कटाक्ष,दृष्टिविक्षेप #ईषद्धसित,स्मित कटाक्षो दृष्टिविक्षेप ईषच्च हसितं स्मितम् । #ह्री,लज्जा,अपत्रपा,व्रीडा,त्रपा,मन्दाक्ष ह्रीर्लज्जापत्रपा व्रीडा त्रपा मन्दाक्षमुच्यते ॥ ५६७ ॥ #आलिङ्गन,उपगूहन,परिरम्भण,परिष्वङ्ग,आश्लेष,अङ्कपाली,क्रोडीकरण आलिङ्गनमुपगूहनमाहुः परिरम्भणं परिष्वङ्गम् । आश्लेषमङ्कपालीं क्रोडीकरणं च तुल्यार्थम् ॥ ५६८ ॥ #संवेशन,निधुवन,सम्प्रयोग,रहस्,रति,सुरत,मोहन #मणित,रतकूजित संवेशनं निधुवनं सम्प्रयोगो रहो रतिः । सुरतं मोहनं प्रोक्तं मणितं रतकूजितम् ॥ ५६९ ॥ #आर्य,भूमिस्पृश्,वैश्य,ऊख्य,विश् आर्या भूमिस्पृशो वैश्या ऊख्याश्च विशः स्मृताः । #जीवन,वृत्ति,आजीव,वार्त्ता जीवनं वृत्तिराजीवो वार्त्ता चेति निगद्यते ॥ ५७० ॥ #पण्याजीव,वणिज्,प्रापणिक,नैगम,वैदेह पण्याजीवा वणिजः प्रापणिका नैगमाश्च वैदेहाः । #द्वैगुणिक,वार्धुषिक,वृद्ध्याजीव,कुसीदिक द्वैगुणिको वार्धुषिको वृद्ध्याजीवः कुसीदिकः प्रोक्तः ॥ ५७१ ॥ ;p{0065} #अपमित्यक,उद्धार,ऋण,पर्युदञ्चन अपमित्यकमुद्धार ऋणं स्यात्पर्युदञ्चनम् । #वृद्धि,कलान्तर #कुसीद,वृद्धिजीवन वृद्धिः कलान्तरं प्रोक्तं कुसीदं वृद्धिजीवनम् ॥ ५७२ ॥ #परिवृत्ति,विनिमय,वैमेय परिवृत्तिर्विनिमयो वैमेयश्च निगद्यते । #प्रक्रय,कॢप्तिक #भाटक,अवक्रय प्रक्रयः कॢप्तिक प्रोक्तं भाटकोऽवक्रयः स्मृतः ॥ ५७३ ॥ #क्षेत्राजीव,कृषिक,कृषीवल,कर्षक,कुटुम्बिन् क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च । #सीत्य,सस्य #वप्र,क्षेत्र,केदार सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥ #हल,लाङ्गल,सीर #फाल,कुशिक हलं स्याल्लाङ्गलं सीरः फालः कुशिक उच्यते । #योक्त्र,रश्मि,आबन्ध #शम्या,युगकीलक योक्त्रं तु रश्मिराबन्धः शम्या च युगकीलकः ॥ ५७५ ॥ #लोष्टक,लोष्ट #कोटीश,लोष्टभेदन कथितो लोष्टको लोष्टः कोटीशं लोष्टभेदनम् । #शम्बाकृत,द्विसीत्य #सीता,लाङ्गलपद्धति शम्बाकृतं द्विसीत्यं स्यात्सीता लाङ्गलपद्धतिः ॥ ५७६ ॥ #गोदारण,कुद्दाल #लवित्र,दात्र गोदारणं च कुद्दालं लवित्रं दात्रमुच्यते । #प्रतोद,प्राजन,तोत्र #लून,दात प्रतोदः प्राजनं तोत्रं लूनं दातमिति स्मृतम् ॥ ५७७ ॥ #खलेवाली,मेठि #खलधान्य,खल खलेवाली भवेन्मेठिः खलधान्यं खलं स्मृतम् । #बुश,कडङ्गर #कण,क्षुद्रतण्डुल बुशः कडङ्गरः प्रोक्तः कणः स्यात्क्षुद्रतण्डुलः ॥ ५७८ ॥ #धान्यशूक,किंशारु #कणिश,धान्यशीर्षक धान्यशूकं च किंशारुः कणिशं धान्यशीर्षकम् । #नाल,काण्ड #क्षुप,गुच्छ #व्रीहि,स्तम्बकरि नालं काण्डं क्षुपो गुच्छो व्रीहिः स्तम्बकरिः स्मृतः ॥ ५७९ ॥ #रक्तशालि,महाशालि,कलम,शालि रक्तशालिर्महाशालिः कलमाश्चेति शालयः । #उद्दाल,कोद्रव,कोरदूषक उद्दालः कथितः प्राज्ञैः कोद्रवः कोरदूषकः ॥ ५८० ॥ ;p{0066} #मङ्गल्यक,मसूर #सिद्धार्थ,सर्षप मङ्गल्यको मसूरः स्यात्सिद्धार्थः सर्षपः स्मृतः । #आसुरी,राजिका,राजसर्षप आसुरी राजिका चेति कथ्यते राजसर्षपः ॥ ५८१ ॥ #प्रियङ्गु,कङ्गु #अतसी,उमा,क्षुमा प्रियङ्गुः कथ्यते कङ्गुरतसी स्यादुमा क्षुमा । #कलाय,खण्डिक,सातीन कलायः खण्डिको ज्ञेयः सातीनश्च मनीषिभिः ॥ ५८२ ॥ #जर्तिल,अरण्यप्रभव-तिल जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिलः । #तिलपिञ्ज,तिलपेज,षण्ढतिल तिलपिञ्जस्तिलपेजस्तथा षण्ढतिलः स्मृतः ॥ ५८३ ॥ #तृणधान्य,नीवार #श्यामाक,श्यामक तृणधान्यं तु नीवारः श्यामाकः श्यामको भवेत् । #वल्ल,निष्पावक #आढकी,तुवरी वल्ला निष्पावकाः प्रोक्ता आढकी तुवरी स्मृता ॥ ५८४ ॥ #भृष्ट-धान्य,लाज #पृथुक,चिपिट,कुट्टित भृष्टं धान्यं लाजाः पृथुकाश्चिपिटाश्च कुट्टितास्ते स्युः । #भृष्ट-यव,धान #दरपक्वा,अभ्यूष भृष्टा यवास्तु धाना दरपक्वा कथ्यतेऽभ्यूषः ॥ ५८५ ॥ #शूद्र,अन्त्यवर्ण,वृषल,पद्य,पज्ज शूद्रोऽन्त्यवर्णो वृषलः पद्यः पज्जश्च कथ्यते । #लेखक,लिपिकर,कायस्थ,अक्षरजीवक लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः ॥ ५८६ ॥ #आभीर,महाशूद्र,गोपाल,वल्लव आभीरः स्यान्महाशूद्रो गोपालो वल्लवस्तथा । #त्वष्टृ,काष्ठतक्ष्,तक्षन्,रथकार,वर्धकि त्वष्टा च काष्ठतट् तक्षा रथकारश्च वर्धकिः ॥ ५८७ ॥ #नाडिन्धम,कलाद,सुवर्णकार,मुष्टिक नाडिन्धमः कलादः सुवर्णकारश्च मुष्टिको ज्ञेयः । #वैकटिक,मणिकार #ध्माकार,लोहकार वैकटिको मणिकारो ध्माकारो लोहकारः स्यात् ॥ ५८८ ॥ #क्षुरमर्दिन्,दिवाकीर्ति,चण्डिल,नापित क्षुरमर्दी दिवाकीर्तिश्चण्डिलो नापितः स्मृतः । #मालाकार,मालिक,प्रातिहारिक मालाकारस्तु विज्ञेयो मालिकः प्रातिहारिकः ॥ ५८९ ॥ #कुम्भकार,कुलाल #तन्तुवाय,कुविन्दक कुम्भकारः कुलालः स्यात्तन्तुवायः कुविन्दकः । #संवाहक,अङ्गमर्दिन् #तुन्नवाय,सौचिक संवाहकोऽङ्गमर्दी स्यात्तुन्नवायश्च सौचिकः ॥ ५९० ॥ ;p{0067} #लेपक,पलगण्ड #रङ्गाजीव,चित्रकृत् लेपकः पलगण्डः स्याद्रङ्गाजीवस्तु चित्रकृत् । #पुस्तकर्मन् कर्म लेप्यादिकं सर्वं पुस्तकर्म स्मृतं बुधैः ॥ ५९१ ॥ #शैलालिन्,शैलूष,कुशीलव,चारण,कृशाश्विन्,जायाजीव,भरत,नट #नटी,क्षुद्रा शैलाली शैलूषः कुशीलवश्चारणः कृशाश्वी च । जायाजीवो भरतो नटस्तथा स्यान्नटी क्षुद्रा ॥ ५९२ ॥ #शिल्पिन्,कारु,प्रकृति शिल्पिनः कारवः प्रोक्ताः प्रकृतिश्च मनीषिभिः । #निर्णेजक,रजक #कल्पपाल,शौण्डिक निर्णेजकः स्याद्रजकः कल्पपालस्तु शौण्डिकः ॥ ५९३ ॥ #कैवर्त,धीवर,दास,मत्स्यबन्धिन्,जालिक कैवर्तो धीवरो दासो मत्स्यबन्धी तु जालिकः । #आनाय,जाल #कुवेणी,मत्स्यबन्धनी आनायः कथ्यते जालं कुवेणी मत्स्यबन्धनी ॥ ५९४ ॥ #वैतंसिक,सौनिक #कौटिक,मांसविक्रयिन् वैतंसिकः सौनिकः स्यात्कौटिको मांसविक्रयी । #सूना,घातनस्थान #कृपाणी,ईली,कर्तरी सूना स्याद् घातनस्थानं कृपाणीली च कर्तरी ॥ ५९५ ॥ #चर्मकृत्,पादुकाकार #नद्ध्री,वद्ध्री चर्मकृत्पादुकाकारो नद्ध्री वद्ध्री च कथ्यते । #मृगयु,लुब्धक,व्याध,वागुरिक मृगयुर्लुब्धको व्याधो बुधैर्वागुरिकः स्मृतः ॥ ५९६ ॥ #शुल्वा,रज्जु,वराट,वट,तन्त्री,गुण शुल्वा रज्जुर्वराटश्च वटस्तन्त्रीर्गुणः स्मृतः । #पाश,बन्धनग्रन्थि #वागुरा,मृगजालिका पाशः स्याद्बन्धनग्रन्थिर्वागुरा मृगजालिका ॥ ५९७ ॥ #अन्तावसायिन्,चण्डाल,निषाद,जनङ्गम,श्वपच,पक्वश,मातङ्ग,प्लवक अन्तावसायी चण्डालो निषादश्च जनङ्गमः । श्वपचः पक्वशश्चैव मातङ्गः प्लवकः स्मृतः ॥ ५९८ ॥ #किरात,शबर,निष्ट्य,पुलिन्द,नाहल,भट,माल,म्लेच्छ,भिल्ल,अन्यजाति किराताः शबरा निष्ट्याः पुलिन्दा नाहला भटाः । माला म्लेच्छादयो भिल्लाः कथ्यन्ते ह्यन्तजातयः ॥ ५९९ ॥ #रोग,रुज्,व्याधि,आकल्य,गद,मान्द्य,अपाटव,आम,आमय,आतङ्क,उपताप,रुजा रोगो रुक् व्याधिराकल्यं गदो मान्द्यमपाटवम् । आम आमय आतङ्क उपतापो रुजा स्मृता ॥ ६०० ॥ ;p{0068} #क्षवथु,कास #वेपथु,कम्प क्षवथुः कथ्यते कासो वेपथुः कम्प उच्यते । #दवथु,परिताप #ग्लानि,क्लमथु दवथुः परितापः स्याद् ग्लानिश्च क्लमथुः स्मृतः ॥ ६०१ ॥ #राजयक्ष्मन्,क्षय,शोष #शोफ,श्वयथु राजयक्ष्मा क्षयः शोषः शोफः श्वयथुरिष्यते । #किलास,सिध्मन् #पामन्,कच्छू,खस,कण्डूति,कण्डूया,कण्डू,कण्डूयन,खर्जू किलासं कथ्यते सिध्म पामा कच्छूः खसः स्मृतः ॥ ६०२ ॥ कण्डूतिः कण्डूया कण्डूः कण्डूयनं तथा खर्जूः । #जागर्या,जागरण,प्रजागर,जागरा जागर्या जागरणं प्रजागरो जागरा च विज्ञेया ॥ ६०३ ॥ #पिटक,स्फोटक,गण्ड #श्वित्र,कुष्ठ,पाण्डुर पिटकः स्फोटको गण्डः श्वित्रं कुष्ठं च पाण्डुरम् । #श्लीपद,पादवल्मीक #पृष्ठग्रन्थि,गडु श्लीपदं पादवल्मीकः पृष्ठग्रन्थिर्गडुः स्मृतः ॥ ६०४ ॥ #केशघ्न,इन्द्रलुप्त #अर्शस्,गुदकीलक केशघ्नमिन्द्रलुप्तं स्यादर्शश्च गुदकीलकः । #मायु,पित्त #कफ,श्लेष्मन् #प्रतिश्याय,पीनस मायुः पित्तः कफः श्लेष्मा प्रतिश्यायश्च पीनसः ॥ ६०५ ॥ #वातकी,वातरोगिन् #सातिसार,अतिसारकिन् वातकी वातरोगी स्यात्सातिसारोऽतिसारकी । #सिध्मल #श्लेष्मल #अर्शस सिध्मश्लेष्मार्शसंयोगात्सिध्मलः श्लेष्मलोऽर्शसः ॥ ६०६ ॥ #दद्रुण,दद्रुरोगिन् #नःक्षुद्र,क्षुद्रनासिक दद्रुणो दद्रुरोगी स्यान्नःक्षुद्रः क्षुद्रनासिकः । #पिल्ल,चिल्ल,चुल्ल क्लिन्ने यस्याक्षिणी पिल्लश्चिल्लश्चुल्लश्च स स्मृतः ॥ ६०७ ॥ #पिचण्डिल,बृहत्कुक्षि,तुन्दिल,उदरिल पिचण्डिलो वृहत्कुक्षिस्तुन्दिलोदरिलौ च सः । #खलति,शिपिविष्ट,ऐन्द्रलुप्तिक खलतिः शिपिविष्टः स्यादैन्द्रलुप्तिक एव च ॥ ६०८ ॥ #अन्ध,अनेडमूक #एड,बधिर अन्धो ह्यनेडमूकः स्यादेडो वधिर उच्यते । #जड,कड,मूक #कल्लमूक,अवाक्श्रुति जडः कडः स्मृतो मूकः कल्लमूकस्त्ववाक्श्रुतिः ॥ ६०९ ॥ #खञ्ज,पङ्गु,श्रोण #कुणि,विकलपाणिक खञ्जः पङ्गुस्तथा श्रोणः कुणिर्विकलपाणिकः । #तुण्डि,उन्नतनाभि #विग्र,विगतनासिक तुण्डिरुन्नतनाभिः स्याद्विग्रो विगतनासिकः ॥ ६१० ॥ ;p{0069} #गडुल,कुब्ज #खर्वशाख,वामन गडुलः कथ्यते कुब्जः खर्वशाखस्तु वामनः । #पृश्नि,स्वल्पशरीर,किरात पृश्निः स्वल्पशरीरः स्यात्किरातः स च कथ्यते ॥ ६११ ॥ #आयुर्वेदिन्,भिषज्,वैद्य,दोषज्ञ,चिकित्सक आयुर्वेदी भिषग्वैद्यो दोषज्ञः स्याच्चिकित्सकः । #उपचर्या,चिकित्सा #निदान,हेतु उपचर्या चिकित्सा स्यान्निदानं हेतुरुच्यते ॥ ६१२ ॥ #जाङ्गुलिक,विषभिषज् #व्यालग्राहिन्,अहितुण्डिक जाङ्गुलिको विषभिषक् व्यालग्राह्याहितुण्डिकः । #भैषज्य,भेषज,जायु,अगद,तन्त्र,औषध भैषज्यं भेषजं जायुरगदस्तन्त्रमौषधम् ॥ ६१३ ॥ #सिन्धूत्थ,माणिमन्थ,सैन्धव,लवणोत्तम सिन्धूत्थं माणिमन्थं च सैन्धवं लवणोत्तमम् । #कृष्णा,उपकुल्या,वैदेही,मागधी,पिप्पली,कणा कृष्णोपकुल्या वैदेही मागधी पिप्पली कणा ॥ ६१४ ॥ #शुण्ठी,नागर,महौषध,विश्वभेषज,विश्वा शुण्ठी नागरमुक्ता महौषधं विश्वभेषजं विश्वा । #मधुक,यष्टिमधु #अमृता,वत्सादनी,गुडूची मधुकं यष्टिमधु स्यादमृता वत्सादनी गुडूची च ॥ ६१५ ॥ #आर्द्रक,शृङ्गवेर #अजाजी,जीरक आर्द्रकं शृङ्गवेरं स्यादजाजी जीरकः स्मृतः । #वेल्लज,मरिच,ऊषण वेल्लजं मरिचं प्रोक्तमूषणं च मनीषिभिः ॥ ६१६ ॥ #सौवर्चल,रुचक #कुस्तुम्बुरु,धान्यक सौवर्चलस्तु रुचकः कुस्तुम्बुरु च धान्यकम् । #त्रिकटु,त्र्यूषण,व्योष #हिङ्गु,रामठ त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ॥ ६१७ ॥ #हरीतकी,अभया,पथ्या #धात्री,आमलकी,शिवा हरीतक्यभया पथ्या धात्री चामलकी शिवा । #कलि,अक्ष,विभीत #त्रितय,त्रिफला कलिरक्षो विभीतः स्यात्त्रितयं त्रिफला स्मृता ॥ ६१८ ॥ #एडगज,प्रपुनाट,दद्रुघ्न,चक्रमर्दक एडगजः प्रपुनाटो दद्रुघ्नश्चक्रमर्दकः प्रोक्तः । #शतमूलिका,अभीरु #निदिग्धिका,कण्टकारिका,व्याघ्री शतमूलिका त्वभीरुर्निदिग्धिका कण्टकारिका व्याघ्री ॥ ६१९ ॥ ;p{0070} #पुर,महिषाक्ष,गुग्गुल,पलङ्कष पुराख्यो महिषाक्षश्च गुग्गुलः स्यात्पलङ्कषः । #महारजन,कुसुम्भ महारजनमिच्छन्ति कुसुम्भं च सुमेधसः ॥ ६२० ॥ #हिङ्गुल,हंसपाद,कुरुविन्द हिङ्गुलं हंसपादं च कुरुविन्दं निगद्यते । #सारघ,माक्षिक,क्षौद्र,मधु,पुष्परस सारघं माक्षिकं क्षौद्रं मधु पुष्परसस्तथा ॥ ६२१ ॥ #उशीर,वीरणीमूल #ह्रीवेर,वालक,जल उशीरं वीरणीमूलं ह्रीवेरं वालकं जलम् । #मुस्तक,कुरुविन्द,गुन्द्रा,जलदाह्वय मुस्तकः कुरुविन्दः स्याद् गुन्द्रा च जलदाह्वयः ॥ ६२२ ॥ ;c{इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां भूमिकाण्डं द्वितीयं समाप्तम् ॥ २ ॥} ;p{0071} ;k{पातालकाण्डम्} ;c{तृतीयं पातालकाण्डम्} #वडवामुख,पाताल,वैरोचननिकेतन,अधोभुवन,नागलोक,रसातल वडवामुखं पातालं वैरोचननिकेतनम् । तथाधोभुवनं प्रोक्तं नागलोको रसातलम् ॥ ६२३ ॥ #निम्न,अगाध,गर्त,श्वभ्र,शुषिर,वपा,बिल,विवर,अन्तर,अवटु,छिद्र,निर्व्यथन,रन्ध्र,रोक,कुहर,दर निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् । अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥ #निरय,दुर्गति,नरक निरयो दुर्गतिश्चैव नरकः परिकीर्तितः । #नारक,प्रेत,यात्य,अतिवाहिक नारका जन्तवः प्रेता यात्याश्चैवातिवाहिकाः ॥ ६२५ ॥ #यातना,कारणा #कारा,बन्धन यातना कारणा प्रोक्ता कारा बन्धनमुच्यते । #आबाधा,वेदना,दुःख,अर्ति,पीडा,व्यथा आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥ #वृजिन,दुरित,दुष्कृत,अघ,अंहस्,किल्विष,तमस्,कल्क,एनस्,कल्मष,अशुभ,पाप,पातक,पाप्मन् वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् । एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥ #निधन,नाश,मृत्यु,मरण,पञ्चत्व,अत्यय,काल,संस्था,दिष्टान्त,निमीलन,दीर्घनिद्रा निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः । संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥ #परासु,उपसम्पन्न,प्रमीत,संस्थित,मृत,प्रेत,परेत #कुणप,शव परासुरुपसम्पन्नः प्रमीतः संस्थितो मृतः । प्रेतः परेतश्च तथा कुणपः शवमुच्यते ॥ ६२९ ॥ ;p{0072} #कबन्ध,रुण्ड #क्षत,ईर्म,अरु,व्रण कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः । #असृग्धरा,अजिन,चर्मन्,कृत्ति,त्वच् असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥ #पलल,जाङ्गल,मांस,पल,पिशित,आमिष,क्रव्य,तरस #विस्र,आमगन्धिक पललं जाङ्गलं मांसं पलं पिशितमामिषम् । क्रव्यं तरसमेकार्थं विस्रं स्यादामगन्धिकम् ॥ ६३१ ॥ #क्षतज,लोहित,रुधिर,असृज्,शोणित,रक्त क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् । #अस्थि,धातु,कीकस,कुल्य अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥ #शरीरास्थि,कङ्काल,अस्थिपञ्जर शरीरस्यास्थि कङ्कालं तथा स्यादस्थिपञ्जरम् । #करोटि,कपाल,शकल शिरसोऽस्थि करोटिः स्यात्कपालं शकलं च तत् ॥ ६३३ ॥ #शाखास्थि,नलक #पृष्ठास्थि,कसेरु शाखास्थि नलकं प्रोक्तं पृष्ठस्यास्थि कसेरु च । #कण्डरा,महास्नायु #स्नसा,स्नायु,शिरा कण्डरा स्यान्महास्नायुः स्नसा स्नायुः शिरा स्मृता ॥ ६३४ ॥ #मस्तिष्क,मस्तकस्नेह #वपा,मेदस्,वसा मस्तिष्कं मस्तकस्नेहो वपा मेदो वसा स्मृता । #अन्त्र,पुरीतत् #कालखण्ड,यकृत् अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥ #बुक्क,अग्रमांस #तिलक,क्लोमन् बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते । #कृमि,कीट,नीलङ्गु,पुलक कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥ #वर्चस्,उच्चार,वर्चस्क,अवस्कर,गूथ,कीट,विष्,विष्ठा,पुरीष,शमल,मल उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् । गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥ #शुक्र,वीर्य,बल,बीज,इन्द्रिय,रेतस् शुक्रं वीर्यं बलं बीजमिन्द्रियं रेत उच्यते । #श्मशान,पितृवन #चिता,चित्या श्मशानं स्यात्पितृवनं चिता चित्या च कथ्यते ॥ ६३८ ॥ #क्रन्दित,रुदित #विलाप,परिदेवन क्रन्दितं रुदितं प्रोक्तं विलापः परिदेवनम् । #अपस्नान,मृतस्नान #निवाप,पितृतर्पण अपस्नानं मृतस्नानं निवापः पितृतर्पणम् ॥ ६३९ ॥ ;p{0073} #विषधर,दन्दशूक,पवनाशन,सर्प,सरीसृप,उरुग,व्याल,भुजग,भुजङ्ग,कुम्भीनस,पन्नग,नाग,भोगिन्,अहि,फणभृत्,पृदाकु,काकोदर,कञ्चुकि,चक्रिन्,गूढपाद्,द्विरसन,काद्रवेय,दर्वीकर,अदृक्श्रुति,भुजङ्गम,आशीविष,दीर्घपृष्ठ,कुण्डलिन्,जिह्मग विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल- भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः । अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्, द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥ आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः । #फण,फणा,फटा #विष,गरल,गर फणः फणा फटा प्रोक्ता विषं स्याद्गरलं गरः ॥ ६४१ ॥ #भोग #आशिस्,दंष्ट्रा अहेः शरीरं भोगः स्यादाशीर्दंष्ट्राभिधीयते । #तिलित्स,गोनास #वाहस,अजगर,शयु भवेत्तिलित्सो गोनासो वाहसोऽजगरः शयुः ॥ ६४२ ॥ #अलगर्द,जलव्याल #राजिल,डुण्डुभ अलगर्दो जलव्यालो राजिलो डुण्डुभः स्मृतः । #अहीरणी,द्विमुख #राजसर्प,सर्पभुज् अहीरणी स्याद्द्विमुखो राजसर्पश्च सर्पभुक् ॥ ६४३ ॥ #निर्ल्वयनी,निर्मोक,कञ्चुक,भुजङ्गमुक्ता-त्वच् निर्ल्वयनी निर्मोकः कञ्चुक उक्ता भुजङ्गमुक्ता त्वक् । #वम्रीकूट,नाकु,वल्मीक,वामलूर वम्रीकूटं नाकुर्वल्मीको वामलूरश्च ॥ ६४४ ॥ #उपजिह्वा,उपदीका,वम्री,उपदेहिका उपजिह्वोपदीका च वम्री स्यादुपदेहिका । #अल,वृश्चिकलाङ्गूल #द्रुत,आलि,वृश्चिक अलं वृश्चिकलाङ्गूलं द्रुत आलिश्च वृश्चिकः ॥ ६४५ ॥ #ब्रह्मपुत्र,शौल्किकेय,दारद,प्रदीपन,रस,सौराष्ट्रिक,क्ष्वेड,तीक्ष्ण,विष ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः । रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥ ;p{0074} #शृङ्गिक,वत्सनाभ,कालकूट,हलाहल,काकोल,विस्फुलिङ्ग शृङ्गिको वत्सनाभश्च कालकूटो हलाहलः । काकोलो विस्फुलिङ्गश्च तद्भेदाः स्युरनेकधा ॥ ६४७ ॥ #आप्,तोय,घन,रस,पयस्,पुष्कर,मेघपुष्प,क,पानीय,सलिल,उदक,वारि,वार्,शम्बर,अर्णस्,पाथस्,कुश,जल,वन,क्षीर,अम्भस्,अम्बु,नीर,भुवन,अमृत,जीवनीय,दक आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं, कं पानीयं सलिलमुदकं वारि वाः शम्बरं च । अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं, प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥ #अतलस्पर्श,अगाध,गम्भीर,गभीर,अस्थाग अतलस्पर्शमगाधं गम्भीरं स्याद् गभीरमस्थागम् । #नाव्य #द्राग्भृतक नावा तार्यं नाव्यं द्राग्भृतकं तत्क्षणोद्धृतं तोयम् ॥ ६४९ ॥ #प्रालेय,अवश्याय,तुहिन,शिशिर,हिम,तुषार,मिहिका,नीहार #हिमसंघात,हिमानी प्रालेयमवश्यायस्तुहिनं शिशिरं हिमं तुषारं च । मिहिका स्यान्नीहारो हिमसंघातो हिमानी च ॥ ६५० ॥ #रोमाञ्च,पुलक,कण्टक,उद्धुषण,उल्लकसन,रोमोद्गम,रोमविकार,हर्ष रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च । रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥ #रत्नाकर,सरस्वत्,उदधि,उदन्वत्,सरित्पति,अकूपार,पारावार,तोयनिधि,अर्णव,जलराशि,सागर,समुद्र रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः । पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥ #वीची,भङ्ग,तरङ्ग वीची भङ्गस्तरङ्गः स्यात्तन्महत्त्वे च कथ्यते । #ऊर्मि,उत्कलिका,उल्लोल,लहरी ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा ॥ ६५३ ॥ #मर्यादा,कूलदेश,वेला #वेला मर्यादा कूलदेशोऽस्य वेला वृद्धिश्च वारिणः । #वेलावन वेलावनं तु विज्ञेयमुपकण्ठेऽस्य यद्वनम् ॥ ६५४ ॥ #सांयात्रिक,पोतवणिज् #पोत,प्रवहण सांयात्रिकः पोतवणिक् पोतः प्रवहणं स्मृतम् । #कूपक,गुणवृक्ष #निर्याम,कर्णधारक कूपको गुणवृक्षः स्यान्निर्यामः कर्णधारकः ॥ ६५५ ॥ ;p{0075} #यादस् अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते । #अवहार,ग्राह #कुम्भीर,नक्र अवहारः स्मृतो ग्राहः कुम्भीरो नक्र उच्यते । #कच्छप,कमठ,कूर्म #डुली कच्छपः कमठः कूर्मस्तद्भार्या च डुली स्मृता ॥ ६५६ ॥ #वैसारिण,विसार,पृथुरोमन्,जलचर,झष,मत्स्य,तिमि,अनिमिष,मीन,शकलिन्,शल्किन् वैसारिणो विसारः पृथुरोमा जलचरो झषो मत्स्यः । तिमिरनिमिषश्च मीनः शकली शल्की च विज्ञेयः ॥ ६५७ ॥ #सहस्रदंष्ट्र,पाठीन #प्रोष्ठी,शफरी सहस्रदंष्ट्रः पाठीनः प्रोष्ठी च शफरी स्मृता । #नलमीन,चिलिचिम #कुलीर,कर्कट नलमीनश्चिलिचिमः कुलीरः कर्कटो मतः ॥ ६५८ ॥ #शाल,शकुल,कुलिश,राजीव,रोहित,पल्लवक,शृङ्गी,मद्गुर,वागुस,नन्द्य,आवर्त,महामत्स्य शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः । शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥ #मकर #करिमकर मत्स्यविशेषो मकरः करिमकरो भवति तद्विशेषस्तु । #चीरिल्लि,तिमि,तिमिङ्गिल,महामत्स्य चीरिल्लितिमितिमिङ्गिलगिलादयो महामत्स्याः ॥ ६६० ॥ #क्षुद्राण्ड,मत्स्यसंघात,पोताधान क्षुद्राण्डो मत्स्यसंघातः पोताधानं च कथ्यते । #गण्डूपद,किञ्चुलक #जलौकस्,जलौकस गण्डूपदः किञ्चुलको जलौकाः स्युर्जलौकसः ॥ ६६१ ॥ #मण्डूक,प्लवक,भेक,शालूर,दर्दुर,हरि,प्लवङ्गम,प्लवग #वर्षाभू मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः । प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥ #जलजीव यावन्तो दृश्यन्ते नरकरितुरगादयः स्थले जीवाः । तावन्तः सलिलेष्वपि जलपूर्वास्ते तु विज्ञेयाः ॥ ६६३ ॥ #मुक्ता,मौक्तिक,शौक्तिक उक्ता मुक्ता मौक्तिकं शौक्तिकेयं, #मुक्तास्फोट,शुक्ति मुक्तास्फोटः शुक्तिराख्यायते च । ;p{0076} #कम्बु,शङ्ख #क्षुल्लक,क्षुद्रशङ्ख कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः, शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥ #सिन्धु,स्रवन्ती,तटिनी,तरङ्गिणी,नदी,धुनी,निर्झरिणी,निम्नगा,कूलङ्कषा,शैवलिनी,सरस्वती,समुद्रकान्ता,ह्रदिनी,आपगा,स्रोतस्,स्रोतस्विनी,कर्षू,कुल्या,द्वीपवती,सरित्,रोधस्,वप्र,भिद्य,उद्ध्य,नद सिन्धुः स्रवन्ती तटिनी तरङ्गिणी, नदी धुनी निर्झरिणी च निम्नगा । कूलङ्कषा शैवलिनी सरस्वती, समुद्रकान्ता ह्रदिनी तथापगा ॥ ६६५ ॥ स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् । रोधो वप्रस्तु विज्ञेयो भिद्य उद्ध्यो नदः स्मृतः ॥ ६६६ ॥ #तीर,कूल,तट,कच्छ,प्रपात,रोधस् तीरं कूलं तटं कच्छः प्रपातो रोध उच्यते । #अर्वाक्कूल,अपार #पर,पार अर्वाक्कूलमपारं स्यात्परं पारमिति स्मृतम् ॥ ६६७ ॥ #पात्र,आवर्त,पयस्_भ्रम पात्रं तु कूलयोर्मध्यमावर्तः पयसां भ्रमः । #पूर,अम्भस्_वृद्धि #फेन,डिण्डीर पूरः स्यादम्भसो वृद्धिः फेनो डिण्डीर उच्यते ॥ ६६८ ॥ #ओघ,प्रवाह,वेणी,धारा,स्रोतस्,रय ओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः । #सम्भेद,सङ्गम,संवेद्य सम्भेदः सङ्गमो नद्योः संवेद्यश्च निगद्यते ॥ ६६९ ॥ #सैकत,पुलिन,द्वीप #सिकता,वालुका सैकतं पुलिनं द्वीपं सिकता वालुका स्मृता । #अन्तरीप #ह्रद,तोयाशय मध्ये द्वीपमन्तरीपं ह्रदस्तोयाशयो मतः ॥ ६७० ॥ #चक्र,पुटभेद #सेतु,वर चक्राणि पुटभेदाः स्युः सेतुर्वरण उच्यते । #आतर,तरपण्य #तल्प,उडुप,प्लव आतरस्तरपण्यं च तल्पं स्यादुडुपः प्लवः ॥ ६७१ ॥ #तरी,नौ,मङ्गिनी,बेडा #नौदण्ड,क्षेपणी तरीर्नौर्मङ्गिनी बेडा नौदण्डः क्षेपणी स्मृता । #अरित्र,कोटिपात्र #पुलिन्द,मङ्ग अरित्रं कोटिपात्रं स्यात्पुलिन्दो मङ्ग उच्यते ॥ ६७२ ॥ ;p{0077} #भागीरथी,सुरसरित्,विष्णुपदी,जाह्नवी,गङ्गा,मन्दाकिनी,त्रिपथगा,सरिद्वरा,त्रिदशदीर्घिका भागीरथी सुरसरिद्विष्णुपदी जाह्नवी तथा गङ्गा । मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता ॥ ६७३ ॥ #गोदावरी,गोदा #कालिन्दी,दिनकरात्मजा,यमुना गोदावरी च गोदा कालिन्दी दिनकरात्मजा यमुना । #शोण,हिरण्यबाहु #मेकलकन्या,नर्मदा,रेवा शोणो हिरण्यबाहुर्मेकलकन्या च नर्मदा रेवा ॥ ६७४ ॥ #वेशन्त,पल्वल,तल्ल #कासार,सरसी,सरस् वेशन्तः पल्वलं तल्लं कासारः सरसी सरः । #आखात,देवखात #खाता,पुष्करिणी आखातो देवखातः स्यात्खाता पुष्करिणी भवेत् ॥ ६७५ ॥ #आधार,तडाग #आली,पाली आधारश्च तडागं स्यादाली पाली च कथ्यते । #परिखा,दीर्घिका परिखा दीर्घिका प्रोक्ता खाता या परितः पुरम् ॥ ६७६ ॥ #परीवाह,जलोच्छ्वास #उत्स,प्रस्रवण परीवाहो जलोच्छ्वास उत्सः प्रस्रवणं स्मृतम् । #विप्रुष्,बिन्दु,पृषत्,पृषत विप्रुषो बिन्दवः प्रोक्ताः पृषतः पृषतास्तथा ॥ ६७७ ॥ #पिच्छिल,विजपिल #पङ्क,शाद,निषद्वर,जम्बाल,कर्दम,इचिकिल पिच्छिलं स्याद्विजपिलं पङ्कः शादो निषद्वरः । जम्बालः कर्दमः प्रोक्तो बुधैरिचिकिलस्तथा ॥ ६७८ ॥ #सहस्रपत्त्र,शतपत्त्र,अम्बुज,कुशेशय,तामरस,सरोरुह,विप्रसून,कमल,महोत्पल,सरोज,अब्ज,नलिन,पुष्कर,राजीव,अरविन्द,पद्म,पङ्कज सहस्रपत्त्रं शत्रपत्त्रमम्बुजं कुशेशयं तामरसं सरोरुहम् । विसप्रसूनं कमलं महोत्पलं, सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥ राजीवमरविन्दं च पद्मं पङ्कजमिष्यते । #कोकनद,रक्तपद्म #पुण्डरीक,सिताम्बुज रक्तं कोकनदं प्रोक्तं पुण्डरीकं सिताम्बुजम् ॥ ६८० ॥ #सौगन्धिक,कह्लार #इन्दीवर,उत्पल,नीलोत्पल,कुवलय #कैरव,कुमुद सौगन्धिकं च कह्लारं स्यादिन्दीवरमुत्पलम् । नीलोत्पलं कुवलयं कैरवं कुमुदं विदुः ॥ ६८१ ॥ ;p{0078} #कर्णिका,बीजकोश #किञ्जल्क,केसर कर्णिका बीजकोशः स्यात्किञ्जल्कं केसरं स्मृतम् । #मृणाल,बिस,कन्द #बिसिनी,नलिनी मृणालं स्याद्विसं कन्दो विसिनी नलिनी भवेत् ॥ ६८२ ॥ #कुमुद्वती,कुमुदिनी,कैरविणी कुमुद्वती कुमुदिनी बुधैः कैरविणी स्मृता । #शेवाल,शैवल #जलशूक,नीलिका शेवालं शैवलं प्रोक्तं जलशूकं च नीलिका ॥ ६८३ ॥ #अन्धु,कूप #प्रधि,नेमि #चुरी,चुण्ढी,चूतक अन्धुः कूपः प्रधिर्नेमिश्चुरी चुण्ढी च चूतकः । #निपान,उदपान #वापी,आहाव निपानमुदपानं च वाप्याहावश्च कथ्यते ॥ ६८४ ॥ #उद्घाटक,घटीयन्त्र #पादावर्त,अरघट्टक उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः । #पान,सारणि #प्रणाली,जलपद्धति पानं तु सारणिः प्रोक्ता प्रणाली जलपद्धतिः ॥ ६८५ ॥ ;c{इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां पातालकाण्डं तृतीयं समाप्तम् ॥ ३ ॥} ;p{0079} ;k{सामान्यकाण्डम्} ;c{चतुर्थं सामान्यकाण्डम्} #निकर,निकाय,निवह,विसर,व्रज,पुञ्ज,समूह,सञ्चय,समुदय,सार्थ,यूथ,निकुरम्ब,कदम्ब,पूग,राशि,चय,समवाय,वृन्द,सन्दोह,समाज,वितान,संहति,प्रकर,घन,ओघ,संघ,संघात,व्रात,कुल,उत्कर,पटल,पेटक,चक्र,चक्रवाल,मण्डल,जाल,जात,व्यूह,वार,स्तोम निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः, समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः । चयसमवायवृन्दसन्दोहसमाजवितानसंहति- प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥ पटलं पेटकं चक्रं चक्रवालं च मण्डलम् । जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥ #सूक्ष्म,लेश,लव,श्लक्ष्ण,क्षुद्र,दभ्र,कण,अणु,किञ्चित्,मात्र,तनु,स्तोक,ह्रस्व,अल्प,त्रुटि सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः । किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥ #प्राग्र्य,प्राग्रहर,प्रवेक,अपर,वर्य,वरेण्य,वर,श्रेष्ठ,प्रेष्ठ,अनुत्तम,मधुर,मञ्जु,प्रिय,मञ्जुल,हृद्य,हारि,मनोहर,रुचिर,कान्त,पर,सुन्दर,सौम्य,साधु,वल्गु,चारु,सुषम,वाम,शुभ,पेशल,अग्र्य,प्रधान,प्रमुख,पुरोग,मुख्य,परार्ध्य,प्रवर,प्रवर्ह,अग्रेसर,सत्तम,उत्तम,ग्रामण्य,अग्रण्य प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं, श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् । हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं, सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥ ;p{0080} अग्र्यं प्रधानं प्रमुखं पुरोगं, मुख्यं परार्ध्यं प्रवरं प्रवर्हम् । अग्रेसरं सत्तममुत्तमं च, ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥ #शङ्का,वितर्क,सन्देह,संशय,आरेक,विभ्रम,विचिकित्सा,विकल्प,भ्रान्ति शङ्का वितर्कः सन्देहः संशयारेकविभ्रमाः । विचिकित्सा विकल्पश्च भ्रान्तिरेकार्थवाचकाः ॥ ६९१ ॥ #समीप,सनीड,समर्याद,आरात्,सदेश,सवेश,ससीमन्,उपकण्ठ,अभ्यर्ण,अभ्यग्र,अभ्याश,सन्निधान,अन्तिक,सन्निकृष्ट,आसन्न,सविध,पार्श्व,उपान्त,अपदान्तर समीपं सनीडं समर्यादमारात्, सदेशं सवेशं ससीमोपकण्ठम् । तथाभ्यर्णमभ्यग्रमभ्याशमाहु- र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥ आसन्नं सविधं पार्श्वमुपान्तमपदान्तरम् । विप्रकृष्टं परं दूरमाराद् व्यवहितं स्मृतम् ॥ ६९३ ॥ #सदृश्,समान,सदृश,सदृक्ष,प्रख्य,प्रकाश,प्रतिम,प्रकार,तुल्य,सम,सन्निभ सदृक् समानः सदृशः सदृक्षः, प्रख्यः प्रकाशः प्रतिमः प्रकारः । तुल्यः समः सन्निभ इत्यभिन्नाः, शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥ #लोल,चपल,चटुल,प्रचल,तरल,परिप्लव,अधीर,पारिप्लव,चलाचल,चञ्चल लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् । पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥ #वक्र,वृजिन,भङ्गुर,आविद्ध,वेल्लित,नत,जिह्म,भुग्न,अराल,कुटिल,व्याकुञ्चित,ऊर्मिमत् वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् । भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥ ;p{0081} #द्राक्,चपल,लघु,मङ्क्षु,स्राक्,तूर्ण,त्वरित,आशु,शीघ्र,अरम्,अह्नाय,सत्वर,क्षिप्र,द्रुत,अञ्जसा,झटिति द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् । अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥ #सतत,सन्तत,अनिश,नित्य,अजस्र,शश्वत्,अश्रान्त,अविरत,अनवरत,अनारत,असक्त सततं सन्ततमनिशं नित्यमजस्रं च शश्वदश्रान्तम् । अविरतमनवरतं स्यादेकार्थमनारतमसक्तम् ॥ ६९८ ॥ #बृहद्,उरु,गुरु,विस्तीर्ण,पुरु,पृथु,पृथुल,महत्,विशाल,व्यूढ,विपुल,रुद्र,वरिष्ठ वृहदुरु गुरु विस्तीर्णं पुरु पृथु पृथुलं महद्विशालं च । व्यूढं विपुलं रुद्रं वरिष्ठमेकार्थमुद्दिष्टम् ॥ ६९९ ॥ #युग्म,युग,युगल,द्वन्द्व,द्वितय,यम,यमल युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् । #मिथुन स्त्रीपुंसयोस्तु युग्मं मिथुनं परिकथ्यते सद्भिः ॥ ७०० ॥ #प्राज्य,भूरि,प्रभूत,प्रचुर,बहुल,बहु,पुरुज,पुष्कल,पुष्ट,अदभ्र प्राज्यं भूरि प्रभूतं च प्रचुरं बहुलं बहु । पुरुजं पुष्कलं पुष्टमदभ्रमभिधीयते ॥ ७०१ ॥ #आचित,निचित,व्याप्त,छन्न,कीर्ण,सङ्कुल,आकुल,भरित,पूर्ण आचितं निचितं व्याप्तं छन्नं कीर्णं च सङ्कुलम् । आकुलं भरितं पूर्णं नातिनानार्थवाचकाः ॥ ७०२ ॥ #प्रत्याख्यात,प्रतिक्षिप्त,प्रत्यादिष्ट,निराकृत,निरस्त,अपविद्ध,परिहृत प्रत्याख्यातं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् । निरस्तमपविद्धं च प्राज्ञाः परिहृतं विदुः ॥ ७०३ ॥ #अत्याकार,परिभव,निकार,पराभव,अनादर,अभिभव,तिरस्कार अत्याकारः परिभवो निकारश्च पराभवः । अनादरश्चाभिभवस्तिरस्कारश्च कथ्यते ॥ ७०४ ॥ #घोर,प्रतिभय,भीम,दारुण,भयानक,आभील,भीषण,भीष्म,भैरव,भयावह घोरं प्रतिभयं भीमं दारुणं स्याद्भयानकम् । आभीलं भीषणं भीष्मं भैरवं च भयावहम् ॥ ७०५ ॥ #सख्य,साप्तपदीन,सौहार्द,सौहृद,स्नेह,मैत्री,प्रीति,अजर्य,सभाजन,सङ्गत सख्यं साप्तपदीनं सौहार्दं सौहृदं तथा स्नेहः । मैत्री प्रीतिरजर्यं सभाजनं सङ्गतं प्रोक्तम् ॥ ७०६ ॥ ;p{0082} #आदि,अग्र,पुरा,पूर्व,प्रथम,प्राक्,पुर आदिरग्रं पुरा पूर्वं प्रथमं प्राक् पुरः स्मृतम् । #उपज्ञा,उपक्रम,आरम्भ #पश्चात्,चरम उपज्ञोपक्रमारम्भौ पश्चाच्च चरमं भवेत् ॥ ७०७ ॥ #रहस्,प्रच्छन्न,एकान्त,निःशलाक,उपह्वर,उपांशु,विजन #रहस्य,गुह्य रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् । उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥ #कैतव,कपट,कूट,व्याज,छद्मन्,उपधि,छल,मिष,निभ,व्यपदेश कैतवं कपटं कूटं व्याजच्छद्मोपधिच्छलम् । मिषं निभं च निर्दिष्टं व्यपदेशश्च सूरिभिः ॥ ७०९ ॥ #इच्छा,वाञ्छा,स्पृहा,काङ्क्षा,कामना,ईप्सा,रुचि,आशंसा #निश्चित,नियत इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा । आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥ #जीर्ण,जरत्,पुराण,प्रत्न,प्रतन,पुरातन जीर्णं जरत्पुराणं प्रत्नं प्रतनं पुरातनं प्रोक्तम् । #नव्य,नव,नवीन,नूतन,अभिनव,नूत्न नव्यं नवं नवीनं स्यान्नूतनमभिनवं नूत्नम् ॥ ७११ ॥ #निवृत,वेष्टित,परिवृत,वलयित,परिक्षिप्त निवृतं वेष्टितमुक्तं परिवृत्तं वलयितं परिक्षिप्तम् । #आवर्हित,उन्मूलित,उत्पाटित,उद्धृत आवर्हितमुन्मूलितमुत्पाटितमुद्धृतं च समम् ॥ ७१२ ॥ #कृत्स्न,समग्र,सकल,समस्त,सर्व,विश्व,निखिल,अखिल कृत्स्नं समग्रं सकलं समस्तं, सर्वं च विश्वं निखिलाखिले च । #खण्ड,अर्ध,नेम,शकल,भित्त,सामि,असम्पूर्ण खण्डार्धनेमाः शकलं च भित्तं, सामीत्यसम्पूर्णसमानसंज्ञाः ॥ ७१३ ॥ #अवकीर्ण,अवध्वस्त #त्यक्त,उत्सृष्ट,उज्झित अवकीर्णमवध्वस्तं त्यक्तमुत्सृष्टमुज्झितम् । #अनादृत,अवज्ञात,अपहस्तित अनादृतमवज्ञातमपहस्तितमिष्यते ॥ ७१४ ॥ #आगू,सङ्गर,सन्धा,प्रतिश्रव,संश्रव,प्रतिज्ञा आगूः सङ्गरसन्धाप्रतिश्रवाः संश्रवः प्रतिज्ञा च । #हेला,अवहेल,रीढा,अवज्ञा,अवलीढा हेला स्यादवहेलं रीढावज्ञावलीढा च ॥ ७१५ ॥ ;p{0083} #मूलीकर्मन्,संवनन,कार्मण,वशीकरण मूलीकर्म प्रोक्तं संवननं कामर्णं वशीकरणम् । #विप्रतिसार,अनुशय,पश्चात्ताप,अनुताप विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापः स्यात् ॥ ७१६ ॥ #क्षाम,शात,कृश,क्षीण,पेलव,तलिन,तनु क्षामं शातं कृशं क्षीणं पेलवं तलिनं तनु । #निरन्तर,घन,सान्द्र,बहुल,विरलेतर,निबिड,निविरीश,दृढ,गाढ निरन्तरं घनं सान्द्रं बहुलं विरलेतरम् ॥ ७१७ ॥ निविडं निविरीशं च दृढं गाढं प्रचक्षते । #काम,प्रकाम,पर्याप्त,नितान्त,भृश कामं प्रकामं पर्याप्तं नितान्तं भृशमुच्यते ॥ ७१८ ॥ #अत्यर्थ,अतिमर्याद,अतिवेल अत्यर्थमतिमर्यादमतिवेलं च कथ्यते । #व्यवधान,तिरोधान,अन्तर्धि,अपवारण व्यवधानं तिरोधानमन्तर्धिरपवारणम् ॥ ७१९ ॥ #परस्पर,मिथ,अन्योन्य,इतरेतर परस्परं मिथः प्रोक्तमन्योन्यमितरेतरम् । #कौतूहल,विनोद,कौतुक,कुतूहल कौतूहलं विनोदः स्यात्कौतुकं च कुतूहलम् ॥ ७२० ॥ #आली,श्रेणी,आवली,पङ्क्ति,वीथी,राजी आली श्रेण्यावली पङ्क्तिर्वीथी राजी च कथ्यते । #क्षौर,भद्राकरण,मुण्डन,वपन क्षौरं च भद्राकरणं मुण्डनं वपनं स्मृतम् ॥ ७२१ ॥ #दर्प,मद,अवलेप,मान,गर्व,अहङ्कार,आवेश,संवेग,संरम्भ,सम्भ्रम,आटोप दर्पो मदोऽवलेपो मानो गर्वो भवेदहङ्कारः । आवेशः संवेगः संरम्भः सम्भ्रमस्तथाटोपः ॥ ७२२ ॥ #प्राण,स्थामन्,बल,द्युम्न,ओजस्,शुष्मन्,तरस्,सह,प्रताप,पौरुष,तेजस्,विक्रम,पराक्रम प्राणः स्थाम बलं द्युम्नमोजः शुष्म तरः सहः । प्रतापः पौरुषं तेजो विक्रमः स्यात्पराक्रमः ॥ ७२३ ॥ #अनुक्रोश,कृपा,शूक,दया,करुणा,घृणा अनुक्रोशः कृपा शूकं दया च करुणा घृणा । #प्रतिक्षण,अभीक्ष्ण,भूयस्,असकृत्,मुहुस् प्रतिक्षणमभीक्ष्णं च भूयः स्यादसकृन्मुहुः ॥ ७२४ ॥ #आतङ्क,भय,आशङ्का,दर,त्रास,साध्वस आतङ्को भयमाशङ्का दरस्त्रासश्च साध्वसम् । #मर्ष,क्षमा,तितिक्षा,क्षान्ति,सहिष्णुता मर्षः क्षमा तितिक्षा च क्षान्तिरुक्ता सहिष्णुता ॥ ७२५ ॥ ;p{0084} #वैणव,लगुड,रम्भ,दण्ड,यष्टि वैणवो लगुडो रम्भो दण्डो यष्टिश्च कथ्यते । #गति,वीखा,विहार,परिसर्प,परिक्रम गतिर्वीखा विहारः स्यात्परिसर्पः परिक्रमः ॥ ७२६ ॥ #अणि,अश्रि,कोटि,अश्र,कोण अणिरश्रिस्तथा कोटिरश्रः कोणश्च कथ्यते । #कश्मल,मलिन,म्लान,मलीमस कश्मलं मलिनं म्लानं मलीमसमुदाहृतम् ॥ ७२७ ॥ #भृति,भृत्या,कर्मण्या,वेता,मूल्य,वेतन भृतिर्भृत्या च कर्मण्या वेता मूल्यं च वेतनम् । #लिपि,आलेख्यलेखा,लेखाक्षर लिपिरालेख्यलेखा स्याल्लिपिर्लेखाक्षरस्य च ॥ ७२८ ॥ #कल्पन,कर्तन,वर्धन,छेदन कल्पनं कर्तनं प्रोक्तं वर्धनं छेदनं तथा । #व्यत्यय,विपर्यास,वैपरीत्य,विपर्यय व्यत्ययः स्याद्विपर्यासो वैपरीत्यं विपर्ययः ॥ ७२९ ॥ #अपह्नव,अपलाप,अपज्ञान,अपात्यय अपह्नवोऽपलापः स्यादपज्ञानमपात्ययः । #श्रन्थन,ग्रन्थन,गुम्फ,सन्दर्भ,रचना श्रन्थनं ग्रन्थनं गुम्फः सन्दर्भो रचना स्मृता ॥ ७३० ॥ #उद्वर्तन,उत्सादन #सोत्प्रासहसित,उपहसित उद्वर्तनमुत्सादनमाहुः सोत्प्रासहसितमुपहसितम् । #उत्पिञ्जल,आकुलक,अनुपद,अन्वञ्च्,अन्वक्ष उत्पिञ्जलमाकुलकं स्यादनुपदमन्वगन्वक्षम् ॥ ७३१ ॥ #गौर,श्वेत,सित,शुभ्र,वलक्ष,धवल,अर्जुन गौरः श्वेतः सितः शुभ्रो वलक्षो धवलोऽर्जुनः । #हरिण,पाण्डुर,पाण्डु,अवदात,पाण्डर हरिणः पाण्डुरः पाण्डुरवदातश्च पाण्डरः ॥ ७३२ ॥ #अरुण,शोण,रक्त,माञ्जिष्ठ,पाटल,ताम्र,लोहित अरुणः शोणो रक्तो माञ्जिष्ठः पाटलस्तथा ताम्रः । लोहित इत्येकार्थाः कविभिः शब्दाः प्रयुज्यन्ते ॥ ७३३ ॥ #अशित,शिति,कृष्ण,काल,नील,मेचक,श्याम,श्यामल,राम #पालाश,हरित,हरित् असितं शिति कृष्णं च कालं नीलं च मेचकम् । श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥ #हरि,कद्रु,कडार,पिङ्गल हरिः कद्रुः कडारश्च पिङ्गलः परिकीर्तितः । #पीत,हारिद्र #श्याव,कपिश पीतं हारिद्रमाख्यातं श्यावं तु कपिशं स्मृतम् ॥ ७३५ ॥ ;p{0085} #पिङ्ग,पिशङ्ग,बभ्रु,कपिल,पिङ्गल पिङ्गः पिशङ्ग इत्युक्तो बभ्रुः कपिलः पिङ्गलः । #सारङ्ग,शबल #कल्माष,कृष्णपाण्डुर सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥ #पिञ्जर,पीतरक्त #धूसर,स्तोकपाण्डुर पिञ्जरः पीतरक्तः स्याद्धूसरः स्तोकपाण्डुरः । #रक्तश्याम,धूम्र,धूमल रक्तश्यामो भवेद्धूम्रो धूमलः स च कथ्यते ॥ ७३७ ॥ #श्येनी,कुमुदपत्राभा #शुकाभा,हरिणी श्येनी कुमुदपत्राभा शुकाभा हरिणी स्मृता । #जपाकुसुमसंकाशा,लोहिनी जपाकुसुमसंकाशा लोहिनी परिकीर्तिता ॥ ७३८ ॥ #परिपाटी,आनुपूर्वी #उपशाय,अनुपात्यय परिपाट्यानुपूर्वी स्यादुपशायोऽनुपात्ययः । #अनुक्रम,पर्याय,विशाय अनुक्रमश्च पर्यायो विशायः परिकीर्तितः ॥ ७३९ ॥ #ईर्ष्या,कुहना,दम्भ,मिथ्याचर्चा,कुक्कुटि ईर्ष्या स्यात्कुहना दम्भो मिथ्याचर्या च कुक्कुटिः । #कुसृति,निकृति,माया,शाम्बरी,पथकल्पना कुसृतिर्निकृतिर्माया शाम्बरी पथकल्पना ॥ ७४० ॥ #चित्र,किर्मीर,कल्माष,शबल,उन्मिश्र,कर्बुर चित्रकिर्मीरकल्माषशबलोन्मिश्रकर्बुराः । #करम्ब,कवर,शार,सम्पृक्त,खचित करम्बः कवरः शारः सम्पृक्तः खचितः समाः ॥ ७४१ ॥ #आयल्लक,उत्कण्ठा,उत्कलिका,रति,रणरणक,औत्सुक्य,हृल्लेख,विरह,वियोग आयल्लकमुत्कण्ठा स्यादुत्कलिका रतिश्च रणरणकम् । औत्सुक्यं हृल्लेखो विरहवियोगौ च तुल्यार्थौ ॥ ७४२ ॥ #प्रतिकूल,प्रतिलोम,प्रतीप,प्रसव्य प्रतिकूलं प्रतिलोमं प्रतीपमुक्तं प्रसव्यमेकार्थम् । #अपवारित,पिहित,संवीत,संवृत,स्थगित अपवारितं च पिहितं संवीतं संवृतं स्थगितम् ॥ ७४३ ॥ #प्रतीक,अवयव,अपघन,अङ्ग,एकदेश आहुः प्रतीकमवयवमपघनमङ्गं तथैकदेशं च । #उल्वण,उद्धत,उद्भट,उत्कट उल्वणमुद्धतमुद्भटमुत्कटमिति नातिनानार्थाः ॥ ७४४ ॥ #समाज,संसद्,आस्थानी,सभा,परिषद्,सदस् समाजः संसदास्थानी सभा स्यात्परिषत्सदः । #चित्र,अद्भुत,आश्चर्य,विस्मय,चोद्य चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥ ;p{0086} #प्रेङ्खोलित,तरलित,प्रेङ्खित,लुलित प्रेङ्खोलितं तरलितं प्रेङ्खितं लुलितं स्मृतम् । #युक्त,उचित,न्याय्य,प्राप्त,औपयिक युक्तं स्यादुचितं न्याय्यं प्राप्तमौपयिकं तथा ॥ ७४६ ॥ #आहित,निहित,न्यस्त,आरोपित आहितं निहितं न्यस्तमारोपितमिति स्मृतम् । #बद्ध,पिनद्ध,आमुक्त,अपिनद्ध बद्धं पिनद्धमामुक्तमपिनद्धं च कथ्यते ॥ ७४७ ॥ #वञ्चन,अतिसन्धान,व्यलीक,प्रतारण वञ्चनं चातिसन्धानं व्यलीकं स्यात्प्रतारणम् । #विप्रलम्भ,विसंवाद,विप्रलाप विप्रलम्भो विसंवादो विप्रलापश्च कीर्तितः ॥ ७४८ ॥ #व्यलीक,अपराध,आतस्,मन्तु,विप्रिय व्यलीकमपराधः स्यादागो मन्तुश्च विप्रियम् । #प्रणति,अनुनय,प्रणिपात,सान्त्वन प्रणतिः स्यादनुनयः प्रणिपातश्च सान्त्वनम् ॥ ७४९ ॥ #उद्घात,प्रस्ताव #वार,अवसर,क्षण उद्घात उक्तः प्रस्तावो वारश्चावसरः क्षणः । #उपनत,उपसन्न,उपस्थित वदन्त्युपनतं प्राज्ञा उपसन्नमुपस्थितम् ॥ ७५० ॥ #प्रांशु,उच्च,उन्नत,तुङ्ग,उदग्र #दीर्घ,आयत प्रांशूच्चमुन्नतं तुङ्गमुदग्रं दीर्घमायतम् । #अयन्त्रित,उद्दाम,उच्छृङ्खल,अनर्गल अयन्त्रितं स्यादुद्दाममुच्छृङ्खलमनर्गलम् ॥ ७५१ ॥ #विशद,प्रकट,स्पष्ट,प्रकाश,स्फुट विशदं प्रकटं स्पष्टं प्रकाशं स्फुटमिष्यते । #तत्क्षण,एकपद #सद्यस्,सपदि तत्क्षणैकपदे तुल्ये सद्यः सपदि च स्मृते ॥ ७५२ ॥ #विशङ्कट,विशाल,कराल,विकट विशङ्कटं विशालं स्यात्करालं विकटं तथा । #निस्तल,वर्तुल,वृत्त #स्थपुट,विषमोन्नत निस्तलं वर्तुलं वृत्तं स्थपुटं विषमोन्नतम् ॥ ७५३ ॥ #अवगाह,जलद्रोणी #निर्वेद,खेद अवगाहो जलद्रोणी निर्वेदः खेद उच्यते । #प्रमाद,अनवधान #अत्याधान,अतिक्रम प्रमादोऽनवधानं स्यादत्याधानमतिक्रमः ॥ ७५४ ॥ #निर्वेश,उपभोग #आभोग,परिपूर्णता निर्वेश उपभोगः स्यादाभोगः परिपूर्णता । #अवगीत,मुहुर्दृष्ट,उपलब्ध अवगीतं मुहुर्दृष्टमुपलब्धं च यद्भवेत् ॥ ७५५ ॥ ;p{0087} #वाम,सव्य #अपसव्य,दक्षिण वामं सव्यं विदुः प्राज्ञा अपसव्यं च दक्षिणम् । #अपष्ठु,प्रतिकूल #अनपष्ठु,अनुकूल प्रतिकूलानुकूलार्थे अपष्ठु त्वनपष्ठु च ॥ ७५६ ॥ #विपरीत,पराचीन,अपाचीन,पराङ्मुख विपरीतं पराचीनमपाचीनं पराङ्मुखम् । #कौसीद्य,आलस्य #उपधा,परीक्षण स्मृतं कौसीद्यमालस्यमुपधा तु परीक्षणम् ॥ ७५७ ॥ #विवध,वीवध,भार,पर्याहार विवधो वीवधो भारः पर्याहारश्च कथ्यते । #काच,शिक्य #भारयष्टि,विहङ्गिका काचं शिक्यमिति प्रोक्तं भारयष्टिर्विहङ्गिका ॥ ७५८ ॥ #सौष्ठव,अवष्टम्भ #हठ,प्रसभ सौष्ठवं स्यादवष्टम्भो हठः प्रसभमुच्यते । #प्रग्रह,ग्रहक,बन्दिन् #पण,ग्लह प्रग्रहो ग्रहको वन्दी पणोऽक्षेषु ग्लहः स्मृतः ॥ ७५९ ॥ #भोजनत्याग,संन्यास,अनशन प्रायः स्याद्भोजनत्यागः संन्यासोऽनशनं स्मृतम् । #मोघ,मुधा #अफल,वन्ध्य #नत,नम्र,बन्धुर मोघं मुधाऽफलं बन्ध्यं नतं नम्रं च बन्धुरम् ॥ ७६० ॥ #वणिज्य,वाणिज्य,वणिज्या स्मृतं वणिज्यं वाणिज्यं वणिज्या च समं त्रयम् । #युद्ध,दौर्मद्य,करीरक युद्धार्थे द्वे प्रयुज्येते दौर्मद्यं च करीरकम् ॥ ७६१ ॥ #आकूत,अभिप्राय #व्याकूति,भङ्गि आकूतं स्यादभिप्रायो व्याकूतिर्भङ्गिरुच्यते । #स्थण्डिल,संस्कृता-भूमि #अयन,स्थान स्थण्डिलं संस्कृता भूमिरयनं स्थानमुच्यते ॥ ७६२ ॥ #प्रत्यग्र,सद्यस्क #उपाग्र,उपसर्जन प्रत्यग्रमुक्तं सद्यस्कमुपाग्रमुपसर्जनम् । #दोला,प्रेङ्खोलन,प्रेङ्खा #उत्सव,महस्,क्षण दोला प्रेङ्खोलनं प्रेङ्खा उत्सवः स्यान्महः क्षणः ॥ ७६३ ॥ #गवल,महिष_शृङ्ग #दृति,चर्मप्रसेवक गवलं माहिषं शृङ्गं दृतिश्चर्मप्रसेवकः । #समुद्ग,सम्पुट #वडिश,मत्स्यबन्धन समुद्गः सम्पुटो ज्ञेयो वडिशं मत्स्यबन्धनम् ॥ ७६४ ॥ ;p{0088} #प्रतिकृत,प्रतिनिर्यातन कृते प्रतिकृतं प्राज्ञैः प्रतिनिर्यातनं स्मृतम् । #सपत्त्राकरण,अतिपीडन सपत्त्राकरणं प्रोक्तं यत्परस्यातिपीडनम् ॥ ७६५ ॥ #समास,समाहार,संक्षेप,सङ्ग्रह समासः स्यात्समाहारः संक्षेपः सङ्ग्रहस्तथा । #व्यास,प्रपञ्च,विस्तार #विस्तर व्यासः प्रपञ्चो विस्तारः स च शब्दस्य विस्तरः ॥ ७६६ ॥ #उन्न,क्लिन्न #नुन्न,क्षिप्त #तुन्न,पीडित उन्नं क्लिन्नं स्मृतं नुन्नं क्षिप्तं तुन्नं च पीडितम् । #पन्न,पतित #सन्न,शान्त पन्नं तु पतितं प्रोक्तं सन्नं शान्तं च सूरिभिः ॥ ७६७ ॥ #न्यञ्चित,अधःक्षिप्त #ऊर्ध्वक्षिप्त,उदञ्चित न्यञ्चितं स्यादधःक्षिप्तं क्षिप्तमूर्ध्वमुदञ्चितम् । #काचित,सज्जित #रूषित,गुण्डित काचितं सज्जितं प्रोक्तं रूषितं गुण्डितं स्मृतम् ॥ ७६८ ॥ #विष्कम्भ,प्रतिबन्ध #विश्रम्भ,विश्वास विष्कम्भः प्रतिबन्धो विश्रम्भः कथ्यते च विश्वासः । #सम्मर्द,परिमल #उपमर्द,विप्रकार सम्मर्दः स्यात्परिमल उपमर्दो विप्रकारः स्यात् ॥ ७६९ ॥ #उपाधि,धर्मचिन्ता #निःशोध्य,अनवस्कर उपाधिर्धर्मचिन्ता स्यान्निःशोध्यमनवस्करः । #कुप्रिय,जघन्य #निःशेष,न्यक्ष कुप्रियं च जघन्यं स्यान्निःशेषं न्यक्षमिष्यते ॥ ७७० ॥ #अपकार,द्रोह #दोष,आदीनव अपकारो भवेद् द्रोहो दोष आदीनवो मतः । #कषाय,तुवर #सुरुङ्गा,सन्धि कषायं तुवरं प्रोक्तं सुरुङ्गा सन्धिरुच्यते ॥ ७७१ ॥ #असौम्य-चक्षुष्,अचक्षुस् असौम्यं यद्भवेच्चक्षुरचक्षुस्तत्प्रचक्षते । #अवहित्थ,निगूहन अवहित्थं च शब्दज्ञा आकारस्य निगूहनम् ॥ ७७२ ॥ #संस्तव,परिचय #प्रसाद,प्रणय संस्तवः स्यात्परिचयः प्रसादः प्रणयः स्मृतः । #प्रवारण,महादान #सङ्कल्प,मानस-कर्मन् प्रवारणं महादानं सङ्कल्पः कर्म मानसम् ॥ ७७३ ॥ #अनायास,फाण्ट #अन्तर्गडु,निरर्थक अनायासार्थकं फाण्टमन्तर्गडु निरर्थकम् । #स्वाच्छन्द्य,निर्निमित्त,यदृच्छा स्वाच्छन्द्यं निर्निमित्तं च यदृच्छेत्यभिधीयते ॥ ७७४ ॥ ;p{0089} #आद्य,आदिम #अन्त्य,अन्तिम #अग्र्य,अग्रिम आद्यमादिममन्त्यं स्यादन्तिमं चाग्र्यमग्रिमम् । #मध्यम,मध्यमीय,मध्यन्दिन मध्यमं मध्यमीयं च मध्यन्दिनमुदाहृतम् ॥ ७७५ ॥ #नमस्या,वन्दना #तपस्या,नियमस्थिति नमस्या वन्दना प्रोक्ता तपस्या नियमस्थितिः । #परिव्रज्या,व्रतादान #व्रज्या,अट्या,गति परिव्रज्या व्रतादानं व्रज्याऽट्या च गतिः स्मृता ॥ ७७६ ॥ #रिक्त,तुच्छ,असार,फल्गु #व्युष्टि,फल रिक्तं तुच्छमसारं तु फल्गु व्युष्टिः फलं स्मृतम् । #कलिल,गहन #श्लथ,शिथिल कलिलं गहनं प्रोक्तं श्लथं शिथिलमुच्यते ॥ ७७७ ॥ #स्वतन्त्रवृत्ति,व्युत्थान #अभ्युत्थान,गौरव स्वतन्त्रवृत्तिर्व्युत्थानमभ्युत्थानं च गौरवम् । #संस्थान,संनिवेश #आस्थान,नृपति_सभा संस्थानं संनिवेशः स्यादास्थानं नृपतेः सभा ॥ ७७८ ॥ #सङ्कथा,अन्योन्यसङ्गीति #प्रतिपत्ति,प्रगल्भता सङ्कथान्योन्यसङ्गीतिः प्रतिपत्तिः प्रगल्भता । #ऊर्जस्,उत्साह #भृकुटि,भ्रुकुटि उच्यत ऊर्ज उत्साहो भृकुटिर्भ्रुकुटिस्तथा ॥ ७७९ ॥ #उपजाप,भेद #सामन्,सान्त्व उपजापो भवेद्भेदः साम सान्त्वमिति स्मृतम् । #प्रत्यय,श्रद्धा #संस्कार,वासना तथेति प्रत्ययः श्रद्धा संस्कारो वासना स्मृता ॥ ७८० ॥ #आस्थित,आक्रान्त #प्रतीष्ट,पतदाहृत स्मृतमास्थितमाक्रान्तं प्रतीष्टं पतदाहृतम् । #प्रच्छादित,संवीत #प्रशस्त,संस्कृत प्रच्छादितं स्यात्संवीतं प्रशस्तं संस्कृतं स्मृतम् ॥ ७८१ ॥ #उन्माथ,कूटयन्त्र #अवपात,अवट उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः । #धर्म,स्वभाव,आत्मन् #अवेक्षा,प्रतिजागर धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥ #परुष,अस्निग्ध,आचारातिक्रम स्मृतं परुषमस्निग्धमाचारातिक्रमः क्रिया । #उच्चण्ड,अप्रलम्ब #माढि,पत्त्रशिरा उच्चण्डमप्रलम्बं स्यान्माढिः पत्त्रशिरा स्मृता ॥ ७८३ ॥ ;p{0090} #अहमहमिका अहमहमिका तु सा स्याद्यत्क्रियते स्पर्धयाधिकं किञ्चित् । #आहोपुरुषिका यत्र वृथाभिनिवेशस्तामाहोपुरुषिकां विदुः प्राज्ञाः ॥ ७८४ ॥ #सिंहनाद,क्ष्वेडा #गण्डूष,मुखपूरण सिंहनादो भवेत् क्ष्वेडा गण्डूषो मुखपूरणम् । #प्रभावता,प्रभुता,प्रभविष्णुता प्रभावतां वदन्त्यार्याः प्रभुतां प्रभविष्णुताम् ॥ ७८५ ॥ #परभाग,गुणोत्कर्ष #स्पर्धा,संहर्ष परभागो गुणोत्कर्षः स्पर्धा संहर्ष उच्यते । #आयाम,आनाह #परिणाह,विशालता आयामः स्मृत आनाहः परिणाहो विशालता ॥ ७८६ ॥ ;c{इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालयां सामान्यकाण्डं चतुर्थं समाप्तम् ॥ ४ ॥} ;p{0091} ;nymtype{homo} ;k{अनेकार्थकाण्डम्} ;c{पञ्चममनेकार्थकाण्डम्} एकोऽर्थो बहुभिः शब्दैः कथितः कथ्यतेऽधुना । एकस्यैव तु शब्दस्य बहुष्वर्थेषु वर्तनम् ॥ ७८७ ॥ $खण्डपरशु #रुद्र $एककुण्डल #वैश्रवण रुद्रेऽपि खण्डपरशुर्वैश्रवणेऽप्येककुण्डलः प्रोक्तः । $प्रतिहार #द्वार $कपिशीर्ष #प्राकाराग्र द्वारेऽपि प्रतिहारः प्राकाराग्रेऽपि कपिशीर्षम् ॥ ७८८ ॥ $कृत #पर्याप्त $त्रेता #आहवनीयादि पर्याप्तेऽपि कृतं स्यादाहवनीयादिषु त्रिषु त्रेता । $द्वापर #सन्देह $कलि #कलह सन्देहेऽपि द्वापरमाहुः कलहेऽपि कलिशब्दम् ॥ ७८९ ॥ $कटक #सेना $प्राणिद्यूत #युद्ध सेनायामपि कटकं प्राणिद्यूतं वदन्ति युद्धेऽपि । $पुण्यजन #रक्षस् $उष्ट्रिका #मृद्भाण्ड रक्षस्यपि पुण्यजनं मृद्भाण्डेऽप्युष्ट्रिकामार्याः ॥ ७९० ॥ $श्वेत #रजत $रजत #हार $किंशारु #शर श्वेतं रजतेऽप्युक्तं रजतं हारे शरेऽपि किंशारुः । $गह्वर #दम्भ $उपह्वर #सन्निधान दम्भेऽपि गह्वरं स्यादुपह्वरं सन्निधानेऽपि ॥ ७९१ ॥ $वर्त्मन् #नयनच्छद $प्रतिग्रह #सैन्यपृष्ठभाग नयनच्छदेऽपि वर्त्म प्रतिग्रहः सैन्यपृष्ठभागेऽपि । $खेट #श्लेष्मन् $जामि #कुलबालिका श्लेष्मण्यपि खेटः स्याज्जामिः कुलबालिकायां च ॥ ७९२ ॥ $गन्ध #लेश #तपस्विन् गन्धो लेशेऽप्युक्तः करुणाप्रतिपादने तपस्वी च । #करभ मणिबन्धकनिष्ठकयोर्मध्यविभागेऽपि करभः स्यात् ॥ ७९३ ॥ ;p{0092} $चर्चा #चिन्ता $जगती #राजप्रधानलोक चिन्तायामपि चर्चा जगती राजप्रधानलोकेऽपि । $ऋतु #अङ्गनारजस् $विकट #श्रेष्ठ ऋतुरङ्गनारजस्यपि विकटं श्रेष्ठेऽपि निर्दिष्टम् ॥ ७९४ ॥ $वारवाण #कवच $जीमूत #पर्वत कवचेऽपि वारवाणं जीमूतं पर्वतेऽपि कथयन्ति । $व्यूह #रचना $शतपत्त्र #दार्वाघाट व्यूहं रचनायामपि दार्वाघाटेऽपि शतपत्त्रम् ॥ ७९५ ॥ $करण #काय $उष्णीष #मूर्धवेष्टन करणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः । $मात्रा #परिच्छद $क्षुद्र #क्रूर $निगम #श्रुति मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥ $वृजिन #केश $स्थाणु #कील $नाग #कुञ्जर वृजिनः केशेऽप्युक्तः स्थाणुः कीलेऽपि कुञ्जरे नागः । $गञ्ज #भाण्डागार $गोमुख #उपलेपन गञ्जो भाण्डागारे गोमुखमुपलेपनेऽपि स्यात् ॥ ७९७ ॥ $धामन् #तेजस् $आशय #आधार $घटा #गोष्ठी तेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् । $कुल्या #कुलस्त्री $तार #मुक्तागुण कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥ $दशा #गति,कर्मविपाक $दव #कानन $दाव #कानन कर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ । $चूडा #शिखा $चूडा #शिरस् $धेनुका #हस्तिनी $गणिका #हस्तिनी चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥ $प्रतिपत् #प्रतिपत्ति $शाद #शष्प $घृणा #जुगुप्सा प्रतिपत्प्रतिपत्तावपि शादः शष्पे घृणा जुगुप्सायाम् । $उत्ताल #उन्नत $सुरभि #श्रेष्ठ उत्तालमुन्नतेऽपि श्रेष्ठेऽपि निगद्यते सुरभिः ॥ ८०० ॥ $संवर्त #हायन $परिवर्त #हायन $नाक #अम्बर संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः । $प्रस्थ #परिमाण $सर्वसन्नाह #सर्वात्मन् परिमाणेऽपि प्रस्थः सर्वात्मनि सर्वसन्नाहः ॥ ८०१ ॥ $द्वितीया #पत्नी $पवित्र #दर्भ $अवधि #अवट पत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि । $प्रधान #प्रकृति $विवक्षित #शोभन प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥ $अतिवेल #अतिमात्र $उत्सेध #काय अतिमात्रेऽप्यतिवेलं कायेऽप्युत्सेध इष्यते सद्भिः । $वंश #पृष्ठास्थि $कदली #करिवैजयन्ती पृष्ठास्थन्यपि वंशः कदली करिवैजयन्त्यां च ॥ ८०३ ॥ ;p{0093} $जाल #कपट $कपाल #घटादिशकल जालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि । $रिष्ट #पाप,अशुभ $अरिष्ट #अशुभ रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥ $विग्रह #व्यास $पौरुष #मानविशेष $व्याम #मानविशेष व्यासेऽपि विग्रहः स्यान्मानविशेषेऽपि पौरुषव्यामौ । $हेला #प्रस्ताव $प्रग्रह #आबन्धन हेला प्रस्तावेऽपि प्रग्रह आबन्धनेऽप्युक्तः ॥ ८०५ ॥ $शुण्डा #कुञ्जरकर $ग्रावन् #शैल $भव #संसार कुञ्जरकरेऽपि शुण्डा ग्रावा शैले भवश्च संसारे । $बालिश #बाल $कलधौत #शातकुम्भ बालेऽपि बालिशः स्यात्कलधौतं शातकुम्भेऽपि ॥ ८०६ ॥ $परिधि #शाखा $वसति #जनाश्रम शाखायामपि परिधिर्वसतिर्जैनाश्रमेऽपि निर्दिष्टा । $मार्ग #अन्वेषण $भद्र #वृषभ $ध्वाङ्क्ष #बक अन्वेषणेऽपि मार्गो भद्रो वृषभे वके ध्वाङ्क्षः ॥ ८०७ ॥ $त्रास #मणिदोष $वत्स #संवत्सर मणिदोषेऽपि त्रासो वत्सः संवत्सरेऽपि निर्दिष्टः । $वाम #प्रतिकूल $शुचि #शुक्ल $राम #शुक्ल वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥ $कल्य #ह्यस्तनदिन $नेत्र #मूल $पराग #रजस् ह्यस्तनदिनेऽपि कल्यं नेत्रं मूले रजस्यपि परागः । $भ्रूण #गर्भिणी $भूति #विभव $बल #काक भ्रूणो गर्भिण्यामपि भूतिर्विभवे बलः काके ॥ ८०९ ॥ $वप्र #गिरिसानु $तल्प #दाराः $ज्योतिष् #चक्षुष् गिरिसानुन्यपि वप्रं तल्पं दारेषु चक्षुषि ज्योतिः । $हिंसा #चौर्यादि $प्रसर #प्रणय चौर्यादावपि हिंसा प्रसरः प्रणयेऽपि निर्दिष्टः ॥ ८१० ॥ $ग्राम #भूतसंघात,इन्द्रियसंघात,शब्दसंघात,विषयसंघात,करणसंघात संघातेऽपि ग्रामो भूतेन्द्रियशब्दविषयकरणानाम् । $षण्ड #पादप_षण्ड $स्कन्ध #करिस्कन्ध,नरस्कन्ध,तुरङ्गस्कन्ध षण्डश्च पादपानां स्कन्धः करिनरतुरङ्गाणाम् ॥ ८११ ॥ $वृक्षविशेष #नन्द्यावर्त,सरल,शाल,काक,धव,अञ्जन,तिलक,पद्म,स्पन्दन,मोक्ष नन्द्यावर्तः सरलः शालः काको धवोऽञ्जनस्तिलकः । पद्मस्पन्दनमोक्षा वृक्षविशेषेऽपि दृश्यन्ते ॥ ८१२ ॥ $सौरभ्यविशेष #कटुतिक्त,कषाय कटुतिक्तकषायास्तु सौरभ्येऽपि प्रकीर्तिताः । $लक्ष्मी #शोभा $श्री #शोभा $कान्ति #शोभा $विभ्रम #शोभा शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिविभ्रमाः ॥ ८१३ ॥ ;p{0094} $आर्य #सौविदल्ल $अणु #व्रीहि आर्यः स्यात्सौविदल्लेऽपि व्रीहावप्यणुरिष्यते । $दिवाकीर्ति #चण्डाल $विवस्वत् #देवता चण्डालेऽपि दिवाकीर्तिर्विवस्वान् देवतास्वपि ॥ ८१४ ॥ $अपह्नव #स्नेह $अनुशय #द्वेष स्नेहेऽप्यपह्नवः प्रोक्तो द्वेषेऽप्यनुशयः स्मृतः । $व्यवाय #सुरत $नैगम #ऋतु सुरतेऽपि व्यवायः स्यान्नैगमश्च ऋतावपि ॥ ८१५ ॥ $कान्तार #दुर्गमार्ग $निष्कुट #गृहवाटी दुर्गमार्गेऽपि कान्तारं गृहवाट्यां च निष्कुटः । $रूप #मृग $बभ्रु #नकुल रूपं मृगेऽपि विज्ञेयं बभ्रुः स्यान्नकुलेऽपि च ॥ ८१६ ॥ $कोष्ठ #अन्तर्देह $चत्वर #प्राङ्गण अन्तर्देहेऽपि कोष्ठः स्याच्चत्वरं प्राङ्गणेऽपि च । $शिपिविष्ट #दुश्चर्मन् दुश्चर्मण्यपि निर्दिष्टः शिपिविष्टो मनीषिभिः ॥ ८१७ ॥ $संस्तर #प्रस्तर $कुञ्ज #हनु $स्पश #रण संस्तरः प्रस्तरेऽप्युक्तो हनौ कुञ्जो रणे स्पशः । $पर्जन्य #गर्जन्मेघ $सन्धा #अवधि गर्जन्मेघेऽपि पर्जन्यः सन्धा स्यादवधावपि ॥ ८१८ ॥ $संस्था #व्यवस्था $वेदना #संवित्ति व्यवस्थायां च संस्था स्यात्संवित्तावपि वेदना । $यात्रा #अनुवृत्ति $समाह्वय #संज्ञा यात्रा स्यादनुवृत्तौ च संज्ञायां च समाह्वयः ॥ ८१९ ॥ $क्लीब #विक्रमहीन $कट #समय क्लीवो विक्रमहीनेऽपि समयेऽपि कटः स्मृतः । $कलङ्क #लाञ्छन,दोष $अद्रि #रवि कलङ्कं लाञ्छने दोषेऽप्यद्रिः प्रोक्तो रवावपि ॥ ८२० ॥ $समिति #सङ्गति,सभा $ककुद #शृङ्ग,प्रधान समितिः सङ्गतिसभयोः ककुदं शृङ्गे विदुः प्रधानेऽपि । $टङ्क #अभिमान,प्रस्तरघटनोपकरण टङ्कः स्यादभिमाने प्रस्तरघटनोपकरणे च ॥ ८२१ ॥ $संज्ञा #सङ्केत,चैतन्य सङ्केते चैतन्ये च सूरिभिः कथ्यते तथा संज्ञा । $दण्ड #दमन,सैन्य $कुतप #दर्भ,अपराह्ण दण्डो दमने सैन्ये कुतपो दर्भेऽपराह्णे च ॥ ८२२ ॥ $अनुषङ्ग #कारुण्य $अवस्कर #गुह्य कारुण्येऽप्यनुषङ्गः स्यात्प्रोक्तो गुह्येऽप्यवस्करः । $वेदिका #अङ्गुलिमुद्रा $कृमि #लाक्षा वेदिकाऽङ्गुलिमुद्रायां लाक्षायां च कृमिस्तथा ॥ ८२३ ॥ ;p{0095} $नीवी #परिपण $मेखला #कटिदेश नीवी परिपणेऽप्युक्ता कटिदेशेऽपि मेखला । $विधुर #प्रत्यवाय,विश्लेष प्रत्यवायेऽपि विश्लेषे विधुरं स्मर्यते बुधैः ॥ ८२४ ॥ $निदान #अवसान $इन #स्वामिन् निदानमवसानेऽपि स्वामिन्यपि भवेदिनः । $जठर #कठिन,परिणत जठरः कठिनेऽप्युक्तः प्राज्ञैः परिणतेऽपि च ॥ ८२५ ॥ $विधि #काल,कल्प $घनाघन #शक्र,वर्षुकाम्बुद काले कल्पेऽपि विधिर्घनाघनः शक्रवर्षुकाम्बुदयोः । $अत्यय #कृच्छ्र,अतिक्रम अत्ययशब्दः प्राज्ञैः कृच्छ्रे चातिक्रमे च निर्दिष्टः ॥ ८२६ ॥ $कृपीट #उदर,जल $सम्बाध #सङ्कट,भग उदरे जले कृपीटं सम्बाधः सङ्कटे भगेऽप्युक्तः । $पार्ष्णि #प्रत्यासार,रण_पश्चिमभाग पार्ष्णिः प्रत्यासारे च रणस्य च पश्चिमे भागे ॥ ८२७ ॥ $सम्भोग #रति,भुक्ति $शुल्क #पथिदेय,स्त्रीधन रतिभुक्त्योः सम्भोगः पथिदेये स्त्रीधने च शुल्कं स्यात् । $करीर #वंशाङ्कुर,वृक्षविशेष वंशाङ्कुरे करीरं वृक्षविशेषेऽपि कथयन्ति ॥ ८२८ ॥ $अनूक #अन्वय,शील $गोत्र #नामन्,अन्वय अनूकमन्वये शीले गोत्रं नाम्नि तथान्वये । $पुलाक #भक्तसिक्थ,क्षुद्रधान्य पुलाकं भक्तसिक्थे च क्षुद्रधान्ये च कथ्यते ॥ ८२९ ॥ $कौपीन #अकार्य,गुह्य $कीलाल #रुधिर,जल अकार्ये गुह्ये कौपीनं कीलालं रुधिरे जले । $कुकूल #शङ्कुमद्गर्त,तुषाग्नि कुकूलं शङ्कुमद्गर्ते तुषाग्नौ च निगद्यते ॥ ८३० ॥ $चैत्य #बुद्धाण्डक,देवतायतन चैत्यं बुद्धाण्डकेऽप्युक्तं देवतायतने तथा । $शिलीन्ध्र #छत्त्रक,वृक्षजाति छत्त्रके वृक्षजातौ च शिलीन्ध्रं स्मर्यते बुधैः ॥ ८३१ ॥ $व्याल #अर्थव्ययसह,हिंस्रपशु अर्थव्ययसहे व्यालस्तथा हिंस्रपशौ स्मृतः । $पोत्र #हलमुख,शूकरमुख पोत्रमित्युच्यते प्राज्ञैर्हलशूकरयोर्मुखम् ॥ ८३२ ॥ $स्वैर #मन्द,स्वच्छन्द $कक्ष #कच्छ,वीरुध् मन्दस्वच्छन्दयोः स्वैरं कक्षः स्यात्कच्छवीरुधोः । $करेणु #गज,हस्तिनी $पीलु #गज,वृक्ष करेणुर्गजहस्तिन्योः पीलुश्च गजवृक्षयोः ॥ ८३३ ॥ ;p{0096} $शल्य #शलाका,आयुध $बाधा #दुःख,निषेध शलाकायुधयोः शल्यं बाधा दुःखनिषेधयोः । $स्तम्भ #स्थूणा,स्तब्धत्व $इला #वाक्,अघ्न्य स्थूणास्तब्धत्वयोः स्तम्भ इला वागघ्न्ययोरपि ॥ ८३४ ॥ $अर्घ #अर्चना,मूल्य $विसर्ग #मुक्ति,वर्चस् अर्चनामूल्ययोरर्घो विसर्गो मुक्तिवर्चसोः । $दक्ष #मुनि,कुक्कुट $सन्धि #संश्लेष,रन्ध्र मुनिकुक्कुटयोर्दक्षः सन्धिः संश्लेषरन्ध्रयोः ॥ ८३५ ॥ $बाढम् #अवश्य,भृश $दायाद #तुक्,सपिण्ड अवश्यभृशयोर्वाढं दायादस्तुक्सपिण्डयोः । $जात्य #कुलीन,श्रेष्ठ $कोटि #उत्कर्ष,संख्या कुलीनश्रेष्ठयोर्जात्यं कोटिरुत्कर्षसंख्ययोः ॥ ८३६ ॥ $ब्रध्न #तण्डु,गिरिश $स्थिति #स्थान,व्यवस्था ब्रध्नस्तण्डुगिरिशयोः स्थितिः स्थानव्यवस्थयोः । $वीकाश #स्फुट,रहस् $काष्ठा #काल,प्रकर्ष वीकाशः स्फुटरहसोः काष्ठा कालप्रकर्षयोः ॥ ८३७ ॥ $सिन्धु #नदी,समुद्र $मरु #देश,पर्वत नदीसमुद्रयोः सिन्धुर्देशपर्वतयोर्मरुः । $मैथुन #सम्बन्ध,ग्राम्यधर्म मैथुनं कथ्यते सद्भिः सम्बन्धग्राम्यधर्मयोः ॥ ८३८ ॥ $प्राध्व #प्रह्व,बन्धन $मोह #मौढ्य,मूर्छा प्रह्वबन्धनयोः प्राध्वं मोहः स्यान्मौढ्यमूर्छयोः । $वेला #अम्भस्_व्यवस्थान $रवि #पर्वत,सूर्य व्यवस्थानेऽम्भसो वेला रविः पर्वतसूर्ययोः ॥ ८३९ ॥ $धूमकेतु #अग्नि,उत्पात $श्वशुर्य #श्याल,देवर अग्न्युत्पातौ धूमकेतू श्वशुर्यौ श्यालदेवरौ । $कोश #दिव्यार्थ,संग्रह $नरेन्द्र #नृप,वार्त्तिक दिव्यार्थसंग्रहौ कोशौ नरेन्द्रौ नृपवार्त्तिकौ ॥ ८४० ॥ $आडम्बर #गज_पटहरव,गर्जित,प्रपञ्च आडम्बरो गजानां पटहरवे गर्जिते प्रपञ्चे च । $ग्रह #सूर्याभिनिवेष,भूताभिनिवेशे ग्रहशब्दः सूर्यादिषु भूतादिष्वभिनिवेशे च ॥ ८४१ ॥ $अव्यक्त #परमात्मन्,मूर्ख,स्पष्टेतर अव्यक्तः परमात्मनि मूर्खे स्पष्टेतरे च निर्दिष्टः । $कक्षा #गुह्यपिधान,काञ्ची,गेह,प्रकोष्ठ कक्षा गुह्यपिधाने काञ्च्यां गेहे प्रकोष्ठे च ॥ ८४२ ॥ $प्रतियत्न #संस्कार,लिप्सा,उपग्रहण प्रतियत्नः संस्कारे लिप्सोपग्रहणयोश्च निर्दिष्टः । $अभिहार #सन्नाह,अभियोग,परस्वहरण अभिहारः सन्नाहे स्यादभियोगे परस्वहरणे च ॥ ८४३ ॥ ;p{0097} $दाय #दानविशेष,लब्धि,भागार्हपित्र्यरिक्थ दानविशेषे लब्धौ दायो भागार्हपित्र्यरिक्थे च । $ग्रन्थ #लिपिसंख्या,शास्त्र,द्रव्य लिपिसंख्यायां शास्त्रे द्रव्ये च ग्रन्थशब्दमिच्छन्ति ॥ ८४४ ॥ $आकर्ष #द्यूत,अक्ष,सारिफलक द्यूताक्षसारिफलकास्त्रयोऽप्याकर्षसंज्ञकाः । $अभिषङ्ग #संसर्ग,अभिभव,आक्रोश संसर्गाभिभवाक्रोशेष्वभिषङ्गः प्रकीर्त्तितः ॥ ८४५ ॥ $वृत्र #त्वाष्ट्र,तमस्,शत्रु त्वाष्ट्रे तमसि शत्रौ च वृत्रशब्दस्त्रिषु स्मृतः । $मन्यु #दैन्य,क्रतु,कोप $इडा #नाडी,स्वर्ग,क्षिति मन्युर्दैन्ये क्रतौ कोपे नाडीस्वर्गक्षितिष्विडा ॥ ८४६ ॥ उक्तानामप्यनुक्तानां शब्दानामिह संग्रहः । $क #सुख,वायु,अम्बु,ब्रह्म,मस्तक कशब्दः सुखवाय्वम्बुब्रह्ममस्तकवाचकः ॥ ८४७ ॥ $प्रत्यय #शपथ,ज्ञान,हेतु,विश्वास,निश्चय प्रत्ययाः शपथज्ञानहेतुविश्वासनिश्चयाः । $वितान #विस्तार,कदक,शून्य,क्रतु,क्षण विस्तारे कदके शून्ये वितानं स्यात्क्रतौ क्षणे ॥ ८४८ ॥ $पक्ष #देहावयव,मासार्ध,पतत्त्र,गृहभित्ति,परिग्रह,समीप देहावयवमासार्धपतत्रगृहभित्तिषु । परिग्रहे समीपे च पक्षः षट्सु निगद्यते ॥ ८४९ ॥ $वसु #अग्नि,धन,रश्मि,रत्न,त्रिदशविशेष अग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः । $भाव #चेष्टा,आत्मन्,जन्मन्,सत्ता,अभिप्राय चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥ $क्षण #कालविशेष,अवसर,अव्यापार,पारतन्त्र्य,मध्य,उत्सव कालविशेषेऽवसरेऽव्यापारे पारतन्त्र्ये च । मध्ये तथोत्सवे च क्षणशब्दः कथ्यते सद्भिः ॥ ८५१ ॥ $अक्ष #आचार,नयनादि,द्यूतविशेष,रथावयव,विभीतक आचारे नयनादौ द्यूतविशेषे तथा रथावयवे । अक्षं विभीतकेऽपि प्रयुञ्जते पञ्चसु प्राज्ञाः ॥ ८५२ ॥ $निष्ठा #क्लेश,अवसान,व्यवस्था,उत्कर्ष,व्रत निष्ठा क्लेशेऽवसाने च व्यवस्थोत्कर्षयोर्व्रते । $सार #श्रेष्ठ,स्थामन्,धन,शुक्र,मज्जन् श्रेष्ठे स्थाम्नि धने शुक्रे मज्ज्ञि सार उदाहृतः ॥ ८५३ ॥ ;p{0098} $गो #दिक्,दृष्टि,दीधिति,स्वर्ग,वज्र,वाक्,बाण,वारि,भूमि,पशु दिग्दृष्टिदीधितिस्वर्गवज्रवाग्वाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ ८५४ ॥ $ललाम #भूषा,लाङ्गूल,प्रधान,शृङ्ग,प्रभाव,पुण्ड्र,ध्वज,लक्ष्म,तुरङ्ग भूषायां लाङ्गूले प्रधानशृङ्गप्रभावपुण्ड्रेषु । ध्वजलक्ष्मतुरङ्गेषु च नवसु ललामं प्रचक्षते प्राज्ञाः ॥ ८५५ ॥ $हरि #अर्क,मर्कट,मण्डूक,विष्णु,वासव,वायु,तुरङ्ग,सिंह,शीतांशु,यम अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥ $धातु #पृथिव्यादिभूत,शरीर,रसादि,लोह,स्वभाव,गैरिकादि पृथिव्यादिषु भूतेषु शरीरेषु रसादिषु । लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥ $पुष्कर #द्विरदकराग्र,पद्म,खड्गफल,व्योमन्,वाद्यभाण्डमुख,अगद,जल,तीर्थ द्विरदकराग्रे पद्मे खड्गफले व्योम्नि वाद्यभाण्डमुखे । अगदे जले च तीर्थे पुष्करमष्टासु निर्दिष्टम् ॥ ८५८ ॥ $भूत #चतुर्विधजीव,पृथिव्यादि,अतीत,देवयोनि चतुर्विधेषु जीवेषु पृथिव्यादिषु पञ्चसु । अतीते देवयोनौ च भूतशब्दं प्रचक्षते ॥ ८५९ ॥ $वर्ण #शुक्लादि,ब्राह्मणादि,शोभा,अक्षर,व्रत,गीतक्रम,स्तुति,वेष शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते । गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥ $रस #शृङ्गारादि,लवणादि,पारद,राग,निर्यास,वीर्य,गुण,धातु,विष,घृतादि शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे । निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥ $तीर्थ #योनि,जलावतार,मन्त्रादि,पुण्यक्षेत्र,पात्र,दर्शन योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थ स्याद्दर्शनेषु च ॥ ८६२ ॥ ;p{0099} $स्वर #अकारादि,षड्जादि,उदात्तादि,प्राणिस्वन अकारादिषु वर्णेषु षड्जादिषु च सप्तसु । उदात्तादिषु विज्ञेयः प्राणिनां च स्वने स्वरः ॥ ८६३ ॥ $प्रकृति #सत्त्वादि_साम्यावस्था,पौर,अमात्यादि,कारण,कारु,स्वरूप सत्त्वादीनां साम्यावस्थां प्रकृतिं वदन्ति तत्त्वज्ञाः । पौरामात्यादीनि च कारणकारुस्वरूपाणि ॥ ८६४ ॥ $गुण #सत्त्वादि,रूपादि,शौर्यादि,तन्तु,सिञ्जिनी,अप्रधान सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः । गुणशब्दं सिञ्जिन्यां प्रयोजयन्त्यप्रधानेऽपि ॥ ८६५ ॥ $साधन #उपकरण,करण,द्रविण,लिङ्ग,यातना,सेनाङ्ग,संसिद्धि उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च । सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥ $अर्थ #अभिधेय,अभिप्राय,प्रयोजन,द्रव्यवाचक,प्रस्ताव अभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः । $काण्ड #प्रस्ताव,संघात,कुत्सा,आयुध,जल प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥ $ब्रह्मन् #वेद,अध्यात्म,ब्राह्मण्य,हिरण्यगर्भ वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म । $सत्त्व #प्रकृतिगुण,सत्ता,स्थामन्,भूत प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥ $इरा #भू,वाक्,अशन,अम्भस् इराशब्दो बुधैर्ज्ञेयो भुवि वाच्यशनेऽम्भसि । $काल #निमेषादि,यम,वर्ण,मृत्यु निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥ $समय #काल,सङ्केत,आचार,सिद्धान्त कालसङ्केतकाचारसिद्धान्ताः समयाः समाः ॥ ८६९ ॥ $तन्त्र #तन्तु,मन्त्र,सिद्धान्त,परिच्छद,प्रधान तन्त्रं तन्तुषु मन्त्रेषु सिद्धान्तपरिच्छदप्रधानेषु । $गन्धन #उत्साहन,सूचन,प्रकाशन उत्साहनसूचनयोः प्रकाशने गन्धनं प्रोक्तम् ॥ ८७० ॥ $अन्तर #वस्त्र,मध्य,छिद्र,व्यवधान,अन्तरात्मन्,अवकाश,बहिर्योग,विशेष,अवसर वस्त्रे मध्ये तथा छिद्रे व्यवधानेऽन्तरात्मनि । अवकाशे बहिर्योगे विशेषेऽवसरेऽन्तरम् ॥ ८७१ ॥ ;p{0100} $दिष्ट्या #मङ्गल प्रागेव नामपर्याये निपाताः केऽपि कीर्तिताः । कथ्यन्ते केचिदन्येऽपि दिष्ट्या स्यान्मङ्गलादिषु ॥ ८७२ ॥ $चिराय #चिररात्र,दीर्घकाल,चिर,चिरात्,चिरेण $वा #विकल्प,उपमान चिराय चिररात्राय दीर्घकाले प्रयुज्यते । चिरं चिराच्चिरेणेति वा विकल्पोपमानयोः ॥ ८७३ ॥ $परितस् #सर्वतस्,विष्वक्,समन्तात्,समन्ततस् परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । $साक्षात् #प्रत्यक्ष,सदृश् $किल #वार्ता,सम्भाष प्रत्यक्षसदृशोः साक्षाद्वार्त्तासम्भाषयोः किल ॥ ८७४ ॥ $हन्त #शोचन,सम्प्रहर्ष शोचने सम्प्रहर्षे च हन्तशब्दः प्रयुज्यते । $ई #दुःखभावन,क्रोध,प्रत्यक्ष,सन्निधि ई दुःखभावने क्रोधे प्रत्यक्षे सन्निधावपि ॥ ८७५ ॥ $पृथक् #विना,अन्तरेण,ऋते,व्यतिरेक पृथग्विनान्तरेणर्ते व्यतिरेकार्थवाचकाः । $मुहुस् #प्रत्यारम्भ $हुम् #सम्प्रश्न,वितर्क प्रत्यारम्भे मुहुः प्रोक्तो हुं सम्प्रश्नवितर्कयोः ॥ ८७६ ॥ $इतिह #सम्प्रदाय $प्रेत्य #अमुत्र,भवान्तर इतिह स्यात्सम्प्रदाये प्रेत्यामुत्र भवान्तरे । $साकम् #सार्धम्,समम्,सत्रम्,सह साकं सार्धं समं सत्रं सहार्थे सम्प्रकीर्तिताः ॥ ८७७ ॥ $अधरस्तात् #अधस्,अधर अधरस्तादधरतः स्यादधस्तादधोऽधरे । $अतस् #हेतु $बत #निन्दा,विस्मय अत इत्युच्यते हेतौ निन्दायां विस्मये वत ॥ ८७८ ॥ $समया #सामीप्य $निकषा #सामीप्य समयानिकषाशब्दौ सामीप्ये कीर्तितौ बुधैः । $नूनम् #तर्क,निश्चय $कच्चित् #प्रश्न,काम तर्कनिश्चययोर्नूनं कच्चित्स्यात्प्रश्नकामयोः ॥ ८७९ ॥ $आहो #सन्देह $उताहो #सन्देह $नु #प्रश्न,वितर्क $स्वित् #प्रश्न,वितर्क आहो उताहो सन्देहे नु स्वित्प्रश्नवितर्कयोः । $साम्प्रत #वर्तमान,युक्त वर्तमाने च युक्ते च साम्प्रतं सम्प्रचक्षते ॥ ८८० ॥ $प्रादुस् #प्रकाश,सम्भव $प्रति #प्रधान,सदृश् प्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति । $हि #विशेषण,हेतु $तु #भेद,अवधारण हि स्याद्विशेषणे हेतौ तु स्याद्भेदेऽवधारणे ॥ ८८१ ॥ ;p{0101} $अयि #प्रश्न,सानुनय $अञ्जसा #सत्य,शीघ्र अयि प्रश्ने सानुनये सत्ये शीघ्रे तथाञ्जसा । $ईषत् #किञ्चित्,मनाक्,किञ्चन,स्तोक ईषत्किञ्चिन्मनाक् प्रोक्ताः किञ्चनस्तोकवाचकाः ॥ ८८२ ॥ $तूष्णीम् #जोषम्,मौन $स्म #संस्मरण तूष्णीं जोषं भवेन्मौने स्म स्यात्संस्मरणादिषु । $अङ्ग #आमन्त्रण $हम् #आमन्त्रण $हो #आमन्त्रण $भो #आमन्त्रण $भोस् #आमन्त्रण अङ्गेत्यामन्त्रणे हं हो भो भो इति च कथ्यते ॥ ८८३ ॥ $नाना #अनेक $ननु #प्रश्न,अवधारण अनेकार्थे भवेन्नाना ननु प्रश्नेऽवधारणे । $सहसा #आकस्मिक,तत्काल आकस्मिकार्थे सहसा तत्काले च निगद्यते ॥ ८८४ ॥ $ऊरी #विस्तार,अङ्गीकृति $उररी #विस्तार,अङ्गीकृति विस्तारेऽङ्गीकृतावूरी कथ्यत उररी तथा । $अद्धा #असंशय $अमा #सह,अन्तिक असंशये भवेदद्धा सहार्थान्तिकयोरमा ॥ ८८५ ॥ $अथ #अनन्तर,कल्याण,सम्प्रश्न अथानन्तरकल्याणसम्प्रश्नादिषु कथ्यते । $अथो #तथा,नामाभ्युपगम अथो इति तथा प्रोक्तो नामाभ्युपगमादिषु ॥ ८८६ ॥ $सदा #नित्यत्व $सना #नित्यत्व $स्वस्ति #मङ्गल सदा सना च नित्यत्वे स्वस्ति स्यान्मङ्गलादिषु । $इति #हेतु,प्रकारादि,समाप्ति इतिशब्दः स्मृतो हेतौ प्रकारादिसमाप्तिषु ॥ ८८७ ॥ ;c{इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायामनेकार्थकाण्डं पञ्चमं समाप्तम् ॥ ५ ॥} ;end{}