;METADATA ;title{मङ्खकोशः} ;author{मङ्खः} ;bookFullName{श्रीमद्मङ्खविरचितम् मङ्खकोशः - मङ्खविरचितटीकासारसहित, त्रिप्रकारक-शब्दसूच्यादि-विभूषितः} ;bookSeriesDetails{श्री काशी संस्कृत ग्रन्थमाला २१६} ;editor{Theodor Zachariae} ;editorQualifications{} ;publisher{The Chowkhamba Sanskrit Series Office, Gopal Mandir Lane, P.O. Chowkhamba, Post Box 8, Varanasi - 1, India} ;pressDetails{Vidya Vilas Press, Varanasi} ;publicationYear{1972 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ANKM} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Dr. Dhaval Patel for spending time type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{29 July 2019} ;version0.0.2{29 July 2019} ;version0.0.3{28 September 2019} ;version0.0.4{28 September 2019} ;version0.1.0{28 September 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{ओं स्वस्ति श्रीगणेशाय नमः । ओं नमः ॥} ;k{मङ्गलाचरणम्} पातु वोधिधरं दूरविकीर्णकरशीकरः । दुःखबीजच्छिदे वर्षत्करका इव विघ्नजित् ॥ १ ॥ विषमपदविषधरालीं निहत्य संगृह्य शेवधिविशेषान् । सकलजनसुलभविभवान्कश्चन निर्मत्सरः कुरुते ॥ २ ॥ भागुरिकात्यहलायुधहुग्गामरसिंहशाश्वतादिकृतान् । कोशान्निरीक्ष्य निपुणं धन्वन्तरिनिर्मितं निघण्टुं च ॥ ३ ॥ लिङ्गानुशासनानि च विचार्य लक्ष्यं महाकवीनां च । कुरुतेनेकार्थानां शब्दानां मङ्खकः कोशम् ॥ ४ ॥ यथासंभवकान्तादिक्रमादक्षरसंख्यया । करामलकवत्साक्षादेष भासिष्यते सताम् ॥ ५ ॥ यत्रैक एव रूढोर्थो यौगिकस्तत्र दर्श्यते । अनेकस्मिंस्तु रूढेर्थे यौगिकः प्रोच्यते न वा ॥ ६ ॥ पदभङ्गादनेकोर्थः प्रकटीक्रियते न च । विशेषणप्रत्ययाद्यैः सिद्धं लिङ्गं न चोच्यते ॥ ७ ॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ८ ॥ त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ९ ॥ ;k{कान्तवर्गः} को धात्रर्कात्मवातेषु कं शिरोम्बुसुखेषु तु । आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ १० ॥ पद्ये यशसि च श्लोकष्टङ्को दर्पेश्मदारणे । अङ्क एकादिगणनान्यास उत्सङ्गचिह्नयोः ॥ ११ ॥ ;p{0002} भानुद्रुस्फटिका अर्काः शल्के शकलवल्कले । किष्कुर्माने चतुर्विंशद्द्वादशाङ्गुलसंमिते ॥ १२ ॥ साष्टे शते सुवर्णानां होम्नि हेमदले पले । उरोविभूषणे कर्षे दीनारे निष्कमस्त्रियाम् ॥ १३ ॥ रोको दीप्तौ बिले चूर्णे कल्कोस्त्री समलैनसोः । दमेल्पपुत्रयोः स्तोकः पाकौ पचनशावकौ ॥ १४ ॥ शुल्कोस्त्री घट्टलभ्योर्थो जामातुर्गृह्यते च यः । नगरीशाखयोर्लङ्का शङ्का त्रासवितर्कयोः ॥ १५ ॥ ऊहाकाङ्क्षावितर्केषु तर्को मुख्यान्यकेवलाः । एके त्रिषु च संख्यायां पङ्कोस्त्री कर्दमैनसोः ॥ १६ ॥ चक्रवाकवृकौ कोकौ भेकौ मण्डूकभीरुकौ । गृहासक्ताः पक्षिमृगाश्छेकाः सहृदया अपि ॥ १७ ॥ झषायुधभिदोः स्थाणौ शङ्कुः कीलकसंख्ययोः । कूपयन्त्रे त्रिका क्लीवे गात्राङ्गे त्रितये तथा ॥ १८ ॥ त्रिषु त्रयाणां संघादौ मूकोवागज्ञयोस्त्रिषु । राका नवरजःकन्या पूर्णिमा प्रतिपद्युता ॥ १९ ॥ किंशारौ कण्टके च स्याच्छूकोनुक्रोशशुङ्गयोः । रत्नस्वरूपभिच्छस्त्रभाण्डाभ्यञ्जनतूलिकाः ॥ २० ॥ परीक्षा च शलाका स्याद्गुरौ देश्ये च दैशिकः । चित्रकृद्भाण्डशय्याभिच्छलाकासु च तूलिका ॥ २१ ॥ विलेपने चन्दने च परीक्षोद्धृतवस्तुनि । ना वर्णकस्तान्तवे स्याद्वयो रागेषु वर्णिका ॥ २२ ॥ पर्यायार्हादिकथने व्याख्यातरि भवेत्त्रिषु । यूथीभ्यौ गणिका वेश्या दैवज्ञे त्रिषु चित्रकम् ॥ २३ ॥ तिलको ना तु शार्दूले पाठ्यामेरण्डके तथा । जम्बुकौ क्रोष्टुवरुणौ कलङ्कोङ्कापवादयोः ॥ २४ ॥ पृथुको बालको भक्ष्यं खलभृष्टार्द्रसस्यजम् । आलोकौ दर्शनोद्द्योतौ भेरीपटहमानकः ॥ २५ ॥ ;p{0003} शराज्ञयोः स्यान्नालीकस्तक्षकौ नागवर्धकी । स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ २६ ॥ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ दाडिमे ना करकः करिका पुनः ॥ २७ ॥ मद्यभाण्डे च करका भवेद्वर्षोपले द्वयोः । करङ्को मांसरहिते ताम्बूलादेश्च भाजने ॥ २८ ॥ ---------------- । प्रतिकूले प्रतीकं त्रिष्वंशे दीपे च पुंस्ययम् ॥ २९ ॥ छत्त्रायवान्योर्भूतीकं भूनिम्बे कट्फलेपि च । यवान्यां जीरके दीपे नालंकारे तु दीपकम् ॥ ३० ॥ कौशिका गाधिजोलूकगुग्गुल्विन्द्राहितुण्डिकाः । कनिष्ठे च दरिद्रे च स्वल्पेपि क्षुल्लकस्त्रिषु ॥ ३१ ॥ तिलकल्के सिल्हके च पिण्याकोथ द्वयोः खगे । वर्तकोश्वखुरे पुंसि शरे खड्गे च सायकः ॥ ३२ ॥ व्यलीकं कामजे दोषे विलक्षाप्रिययोरपि । विपर्यये रुजायामप्यकार्ये चाथ गैरिकम् ॥ ३३ ॥ स्वर्णे धातुविशेषे चाथाम्बिका मातृकोमयोः । भालानृताप्रियेलीकमनूकं कुलशीलयोः ॥ ३४ ॥ क्षुरिकोमा करेण्वां च धेनुका चाथ कालिका । देव्यां वृद्धौ स्वर्णमले मेघजालेथ कारिका ॥ ३५ ॥ यातनावृत्तिकृतिषु ना भृत्ये त्रिषु कर्तरि । कर्मादौ साधने क्लीवे कर्णिका कर्णभूषणे ॥ ३६ ॥ करिहस्ताङ्गुलौ पद्मबीजकोश्यां स्त्रिया गदे । वाह्लीकं कुङ्कुमे हिङ्गौ वाह्लिदेशोद्भवे त्रिषु ॥ ३७ ॥ विवाहमङ्गलद्रव्ये कौतुकं कुतुके तथा । द्वयोः शिशौ वालुकायां भूषाभेदे च वालिका ॥ ३८ ॥ कङ्कणे चाङ्गुलीये च ह्रीवेरे चापि वालकम् । प्रियकौ नीपबन्धूकौ कारम्भो मृगभित्तथा ॥ ३९ ॥ ;p{0004} उदर्क उत्तरे काले फले चोत्तरकालिके । मेचकं त्रिषु कृष्णे स्यात्पुमांस्तु शिखिचन्द्रके ॥ ४० ॥ विधवाया जारजाते गुले पिण्डे च गोलकः । त्रिश्लोक्यां कृष्णलवणे तिलकं क्लोम्नि चास्त्रियाम् ॥ ४१ ॥ जडुले चित्रके ना द्रुरातङ्कास्तापभीरुजः । गुणवक्षः कूपकः स्यात्तोयार्थं विवरश्च यः ॥ ४२ ॥ अल्पकूपः श्रोणिपार्श्वगर्तावथशिलाजतु । सौभाञ्जनं गन्धकं स्याद्रेणुकौषधभित्तथा ॥ ४३ ॥ भार्गवाम्बा पुण्डकोतिमुक्तेक्षुतिलकेषु तु । प्रस्तरे पुलकं ना तु रोमाञ्चक्रिमिभेदयोः ॥ ४४ ॥ श्रुद्रवैरिणि रोमाञ्चे तरोरङ्गे च कण्टकः । कटकोस्त्री नितम्बोद्रेः क्लीवे वलयसैन्ययोः ॥ ४५ ॥ इक्षुशीधौ शीधुपाने सरकं मद्यभाजने । तारकर्क्षेक्ष्णि च न ना दैत्यभेदे पुमानयम् ॥ ४६ ॥ देवीभेदे तारिका स्यात्पिटके मत्स्यपक्षिणाम् । क्षारकं कोरके चाथ जीवकः प्राणके त्रिषु ॥ ४७ ॥ बन्धूके क्षपणे पुंसि जीवने वेतने स्त्रियाम् । पर्यस्तिकायां शयने पर्यङ्कोथ भयोज्झिते ॥ ४८ ॥ त्रिष्वभीकः कामयिता कुलटेभी च बन्धकी । आधावस्त्री बन्धिका तु बन्धकारिणि वाच्यगा ॥ ४९ ॥ वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि । स्याद्दर्शकः प्रतीहारस्त्रिषु दर्शयिता पुनः ॥ ५० ॥ चर्चायां स्थासको ज्ञेयो हारभेदेपि बुद्बुदे । स्यादंशुकं शुक्लवस्त्रे वस्त्रमात्रोत्तरीययोः ॥ ५१ ॥ शिशुकः शिशुमाराख्यनक्रोलूप्योश्च बालके । त्रिष्वथो मधुयष्ट्यां स्यान्मधुकं वन्दिभित्पुमान् ॥ ५२ ॥ खनकी त्रिषु शिल्पिन्यां खनकौ भेत्तृमूषकौ । जलाधारे स्त्रियां रत्नाद्याकरे चाथ कार्मुकम् ॥ ५३ ॥ ;p{0005} चापे त्रिषु तु कर्मण्ये शक्तमात्रेथ कञ्चुकः । निर्मोके कवचे वारवाणेथ धनदस्य पूः ॥ ५४ ॥ अलका स्त्रीकचे न स्त्र्यनीकं तु रणसैन्ययोः । वञ्चको जम्बुके धूर्ते स्त्री चुल्ल्यां निकटेन्तिकम् ॥ ५५ ॥ विपाकौ पचनस्वेदौ कृषकौ फालकार्षकौ । कनकं मातुले स्वर्णे रेखासुर्योस्तु राजिका ॥ ५६ ॥ स्यादार्द्रायां शाकुनिके लुब्धको मध्यगो मणिः । नेता च नायको नाट्यपात्रभूम्युत्तमे द्वयोः ॥ ५७ ॥ खेटकौ ग्रामफलकौ पेटकं भाण्डवृन्दयोः । त्रिष्वतो जालिकौ धूर्तधीवरौ पद्मकेसरे ॥ ५८ ॥ पुष्परेणौ च किञ्जल्को दारकौ बालभेदकौ । करभ्यां भाण्डभेदे चाप्युष्ट्रिकाथ वितर्दिका ॥ ५९ ॥ वलभी चोन्नते देशे विटङ्कः पुंनपुंसकः । शांकरे शूलधनुषी पिनाकावथ जालकम् ॥ ६० ॥ जालाभे क्षारके संघे ना प्राणी स्त्री मुखावृतौ । सेवाजीवे प्रसेवे च सेवकः सूतको ग्रहे ॥ ६१ ॥ सूतिका सूतका सूता क्लीवे जन्मनि ना रसे । जनकौ पितृवैदेहौ दीक्ष्यभेदे तु पुत्रकः ॥ ६२ ॥ कृत्रिमादौ द्वयोः स्त्रीत्वे पुत्रका पुत्रिकापि च । अभ्रातृपितृका कन्या पूर्णदाया च पुत्रिका ॥ ६३ ॥ जलधानी वारिपर्णी वलनं नरकास्पदम् । कुम्भिका प्राणरोधे ना कुलकं श्लोकसंचये ॥ ६४ ॥ न स्त्री पटोले काकेन्दुतरौ श्रेष्ठिनि चापि ना । पट्टिकातूलपूगेषु क्रमुकोथौषधीभिदि ॥ ६५ ॥ आडकी मानभिद्यस्त्री कैशिकं केशसंचये । ना रागभेदे वृत्तौ तु कैशिकी हस्तिबिन्दुषु ॥ ६६ ॥ औषधे च कुसुम्भे च पद्मकं स्यात्तु यावकः । कुल्मासेलक्तके च स्युः सेनारक्षास्तु सैनिकाः ॥ ६७ ॥ ;p{0006} सेनायां समवेताश्च रीतिपुष्पं तु पुष्पकम् । विमाने नेत्ररोगे ना पौष्पिकी त्रिषु शिल्पिनि ॥ ६८ ॥ रीतिपुष्पे भवेत्क्लीवं वातिकौ रोगिमान्त्रिकौ । भावुकं कुशलं क्लीवं भवेद्भवितरि त्रिषु ॥ ६९ ॥ रुचकः स्यान्मातुलुङ्गैरण्डभूषाललामसु । क्लीवे सौवर्चलेथान्तरङ्ग उण्डूकमुत्करे ॥ ७० ॥ पुंस्यथो मल्लिका दीपपात्रं शेफालिवाद्यभित् । मोचकः शल्मलिः सौभाञ्जनो रम्भा च मोक्तरि ॥ ७१ ॥ तद्धेतौ त्रिषु चाङ्गेरी शौण्डिकी चुक्रिकाम्ब्लिका । पदातिः पदिकः पुंसि भवेत्स्थानवति त्रिषु ॥ ७२ ॥ अलातमुल्मुकं वृष्णिराजभेदे पुमानयम् । मड्डुकं वाद्यभेदे च मुष्टौ स्यात्फलकस्य च ॥ ७३ ॥ खजाको दारुहस्ते च मन्थे च पदकः पुमान् । पदाध्येता मध्यमणिश्चरणत्रे नपुंसकम् ॥ ७४ ॥ क्रीताद्यर्थे पादिकः स्याद्भेद्यवत्पादिका पुनः । उपानद्रसतूर्येण वेधः स्वर्णादिकस्य च ॥ ७५ ॥ चालको दुष्टहस्ती स्याच्चाक्रिकश्चाथ चन्द्रकः । वर्ह्यग्रपक्षे तोथस्थतैलादिप्रसरे तथा ॥ ७६ ॥ मोदको भक्ष्यभित्पुंसि हर्षहेतौ भवेत्त्रिषु । कीचकाः स्युर्विराटस्य स्याला वंशाश्च सस्वनाः ॥ ७७ ॥ सिंहिका राहुमाता स्याद्वाशिका सिंहपोतिका । लाक्षारक्तो लाक्षिकः स्याल्लक्षमूल्यश्च भेद्यवत् ॥ ७८ ॥ इक्ष्वाकुः कटुतुम्ब्यामप्यादिराजेथ कालिमा । स्वर्णव्याजो लोहमलं श्यामिका गण्डकं पुनः ॥ ७९ ॥ उपधाने स्त्रियां छेदे ना प्राण्यथ कदम्बकम् । समूहे सर्षपे मुंसि विषे सौराष्ट्रिकः पुमान् ॥ ८० ॥ सुराष्ट्रजे त्रिष्वथार्घोरुके चण्डातकं नरि । करवीरौषधौ गन्धाश्मनि सौगन्धिकं तथा ॥ ८१ ॥ ;p{0007} कह्लारेथ क्लीतकिका मधुयष्टी च नीलिका । अश्मन्तकं भवेच्चुल्ल्यां ना वृक्षतृणभेदयोः ॥ ८२ ॥ तार्क्ष्ये गणेशे प्रेतेशे सुगते च विनायकः । पटोलिकाप्यपामार्गः कोशातक्यथ कट्फले ॥ ८३ ॥ करञ्जे खदिरे सोमवल्कः सालावृकः कपिः । क्रोष्टा श्वा स्यादथायुष्मान्भवेज्जैवात्रिकः शशी ॥ ८४ ॥ स्तनवृन्ते पिप्पलकः शस्त्रीसीवनसूत्रयोः । अङ्गारकः पक्षिभेदे भौमे वह्निकणे तथा ॥ ८५ ॥ द्वयोः कपर्थके बीजकोशेब्जस्य वराटकः । प्रसेवकस्तु ककुभे त्रिषु सेवापरायणे ॥ ८६ ॥ हारभेदे माणवको बाले कुपुरुषे द्वयोः । वैदेहको वाणिजके शूद्राद्वैश्यासुतेपि च ॥ ८७ ॥ विदेहादागतादौ च द्वयोः कौलेयकः शुनि । त्रिषु कुल्येथ यन्ता च पोतवाहो नियामकः ॥ ८८ ॥ स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ ८९ ॥ वीच्युत्कण्ठे उत्कलिके देवे वृन्दारकः पुमान । त्रिषु मुख्ये मनोज्ञे च पुण्डरीकस्तु दिग्गजे ॥ ९० ॥ व्याघ्रे सिताम्बुजसितच्छत्त्रयोस्तु नपुंसके । अनेलमूकस्त्रिष्वन्धे शठे वाक्कायवर्जिते ॥ ९१ ॥ पीतयूथ्यां स्त्रियां हेमपुष्पिका चम्पके नरि । उपकर्त्र्यां त्रिषु स्त्री तु पटकुट्युपकारिका ॥ ९२ ॥ बोधके त्रिषु खट्वाङ्घ्र्याधारे स्यात्प्रतिपादकम् । मातुलापत्ये धतूरफले मातुलपुत्रकः ॥ ९३ ॥ ;k{खान्तवर्गः} खानि स्वरिन्द्रियाकाशा आद्युपायानने मुखम् । अग्रज्वालाकेकिचूडाचूडाशाखाशिफाः शिखाः ॥ ९४ ॥ शङ्खो नीधौ ललाटास्थ्नि नागेह्नोंशे नखौषधौ । कम्बावस्त्री नखोप्येवमोषधौ करजे तथा ॥ ९५ ॥ ;p{0008} व्युङ्खौ मन्त्रषडोंकारमनोज्ञावय दैवते । लेख्ये च लेखः पङ्क्तौ स्त्री चन्द्रांशाभोगयोरपि ॥ ९६ ॥ व्याज आभोग उल्लेख्ये रेखा स्यादल्पके तथा । उखा स्थाल्यां यज्ञभाण्डे शाखा वेदद्रुमांशयोः ॥ ९७ ॥ हस्ताद्वाराङ्घ्र्यवयवे सखा मित्रसहाययोः । आदौ प्रधाने प्रमुखमग्रे चाथ नपुंसकम् ॥ ९८ ॥ धानुष्कस्थानभेदे ना वैशाखो मासमन्थयोः । वाद्यभाण्डे लेपने च गोमुखं विशिखा पुनः ॥ ९९ ॥ प्रतोल्यां च खनित्र्यां च निश्चूडे सायके पुमान् । विशाखः षण्मुखे शाखारहिते भे पुनः स्त्रियाम् ॥ १०० ॥ मयूखस्त्विट्करज्वालास्वलिवाणौ शिलीमुखौ । स्त्रियां वह्न्यर्चिरोषध्योः क्लीवमग्निशिखं वरे ॥ १०१ ॥ क्लीवे जले ब्रह्मणि तु पुमान्स्यात्सर्वतोमुखः । स्यात्क्लीवे मकरमुखं मकराकारधारिणि ॥ १०२ ॥ जलनिर्गमनद्वारे जानूर्ध्वावयवे तथा । ;k{गान्तवर्गः} स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले ॥ १०३ ॥ लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः सङ्गः श्लेषरोधयोः । भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ १०४ ॥ मोक्षविज्ञानवैराग्ययोनिधर्मेष्वथो मृगः । मृगशीर्षे हस्तिजातौ कुरङ्गे मार्गणे पशौ ॥ १०५ ॥ सषडङ्गुलयोनौ तु नायिकायां भवेन्मृगी । सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ॥ १०६ ॥ पालनेभ्यवहारे च निर्वेशे च पणस्त्रियः । भोगः स्याद्वित्तसुखयोरहेश्च फणकाययोः ॥ १०७ ॥ योगः संनहनोपायध्यानसंगतियुक्तिषु । अलब्धलाभे भैषज्ये शरे विस्त्रब्धघातिनि ॥ १०८ ॥ मासान्वेषणयोर्मार्गस्तथा मृगमदाध्वनोः । द्वयोरहौ गजे नागः क्लीवे सीसकरङ्गयोः ॥ १०९ ॥ ;p{0009} संघगूवाकयोः पूगः शैलवृक्षौ नगावगौ । रागः क्लेशादेके सङ्गे पानके लोहीतादिषु ॥ ११० ॥ यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु । चतुर्हस्तप्रमाणे च शरार्कविहगाः खगाः ॥ १११ ॥ सांख्योक्तप्रकृतौ बुद्धौ लिङ्गं स्याच्चिह्नशेपसोः । उपकारिण्युपायेङ्गं गात्रे ना त्वङ्गवत्यथ ॥ ११२ ॥ नृत्तयुद्धखले रागे रङ्गः क्लीवे त्रपुण्यथ । धनुर्मात्रे विष्णुचापे शार्ङ्गं भृङ्गस्तु षट्पदे ॥ ११३ ॥ धूम्राटे च त्वचे क्लीवे शृङ्गं स्वाम्याद्रिकूटयोः । क्रीडाम्बुपात्रे पश्वङ्गे भागो भाग्यैकदेशयोः ॥ ११४ ॥ भेदोर्मिभाक्तिकौटिल्यभीषु भङ्गः स्त्रियां शणे । वेगः प्रवाहजवयोर्भङ्गिर्भक्तितरंगयोः ॥ ११५ ॥ गिरीशभास्करौ भर्गौ खड्गोसौ गण्डकेपि च । वर्गः पक्षे समूहे च त्यागस्त्यजनदानयोः ॥ ११६ ॥ वङ्गं त्रपुणि ना राज्ञि तद्देशे तत्सुते बहुः । भृगुः प्रपातो मुनिभित्तत्सुते पुंसि भूमनि ॥ ११७ ॥ तुङ्गाजगन्धा पुंनागे नोच्चे त्रिष्वल्पमोघयोः । काकोदुम्बरिकायां ना फल्गुरिङ्गं नरीङ्गिते ॥ ११८ ॥ क्लीवं जगति रक्ताङ्गः कम्पिल्येङ्गारके तथा । आशुगौ वायुविशिखौ भुजंगः शिड्गसर्पयोः ॥ ११९ ॥ गन्धमाल्योपहारे स्यादायोगो व्यापृतावपि । परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ १२० ॥ कलिङ्गः स्यादिन्द्रयवे शाके धूम्याटदेशयोः । चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ १२१ ॥ शालिप्रभेदे शलभे पतंगः पक्षिसूर्ययोः । मातङ्गाविभचण्डालौ निषङ्गः सङ्गतूणयोः ॥ १२२ ॥ वराङ्गं मस्तके योनौ त्वचेथ कपभेकयोः । प्लवगो लोचनान्ते स्यादपाङ्गस्तिलकेपि च ॥ १२३ ॥ ;p{0010} रते भोगे च संभोगः प्रियङ्गुः क्रङ्कुसस्ययोः । निर्माणे च स्वभावे च निसर्गो द्रुभिदग्र्ययोः ॥ १२४ ॥ पुंनागोथ विसर्गः स्यात्त्यागे बिन्दुद्वये तथा । सामान्यविधिरुत्सर्गः प्रचारस्त्याग एव च ॥ १२५ ॥ समङ्गा गण्डकाल्याख्यशाकमञ्जिष्ठयोर्भवेत् । स्यादुद्वेगः पुमान्खेदे क्लीवे पूगफले पुनः ॥ १२६ ॥ त्रिवर्गो धर्मकामार्थाः स्थानं वृद्धिः क्षयस्तथा । रतान्विती संप्रयोगाभिषङ्गः पराभवे ॥ १२७ ॥ आक्रोशशापयोश्चापवर्गो मोक्षे क्रियाफले । त्यागे चाथोपरागः स्यादुपरक्तौ विधुंतुदे ॥ १२८ ॥ व्यसनेथ वृके काव्यभेद ईहामृगः पुमान् । पदभेदे तूपसर्गः पीडोपद्रवयोपरि ॥ १२९ ॥ उपयोगस्तु भोगे स्याद्विद्याया ग्रहणे तथा । कथाप्रसङ्गः संलापक्षणे गारुडिके तथा ॥ १३० ॥ ;k{घान्तवर्गः} वृन्दाम्बुवेगयोरोघो दुःखांहोव्यसनेष्वघम् । स्त्री स्पृक्काल्पेष्टाश्वसारे लघु त्रिष्वगुरौ तु ना ॥ १३१ ॥ मूल्ये पूजाविधावर्घो द्रव्ये तदुपकारके । आयुधार्गलघातेषु परिघः प्रतिघः पुनः ॥ १३२ ॥ द्वेषे शत्रावथ ग्रीष्मे निदाघः स्वेदतापयोः । तापके त्रिष्वथामोघा विडङ्गं पाटला तथा ॥ १३३ ॥ ;k{चान्तवर्गः} दिग्देशकाले पूर्वादिभावे प्रागादयस्त्रिषु । वल्कचर्मत्वचेषु त्वग्वाग्बाण्यां वाचकार्थयोः ॥ १३४ ॥ शुक्छोके व्यसने तापे रुक्स्याद्दीप्त्यभिलाषयोः । श्मश्रुमर्मभिदोर्दम्भे केशभञ्जनभाजने ॥ १३५ ॥ कुविन्दभाण्डे कूर्चः स्याच्चित्रकृद्भाजने द्वयोः । सौवर्णरसदाने स्त्री ताम्रादेः पावके शुचिः ॥ १३६ ॥ मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु । इच्छांशुसङ्गेषु रुचिः केशे शुक्रसुते कचः ॥ १३७ ॥ ;p{0011} अर्चे पूजाकृती काचाः शिक्यमृद्भेददृग्रुजः । व्यधनेभिनये सूचा वीचिः स्वल्पतरंगयोः ॥ १३८ ॥ देवीस्थासकचिन्तासु चर्चा नीचमधोधमम् । त्रिषूर्ध्वोत्कृष्टयोश्चोच्चः पिचुः स्यात्पायुतूलयोः ॥ १३९ ॥ मोचा कदल्यां ना वृक्षे चोचं पालेवते त्वचे । देशमेखलयोः काञ्ची प्रपञ्चस्ततिमाययोः ॥ १४० ॥ संकोचं कुङ्कुमे क्लीवं ना विकासविपर्यये । त्रिषूत्फुल्ले तु विकचो द्रव्यभेदे नपुंसकम् ॥ १४१ ॥ ;k{छान्तवर्गः} सूक्ष्मैला नीलिनी तुच्छा लाघवेल्पे भवेत्त्रिषु । कच्छस्तु गहनो देशस्तुन्याख्या चौषधिर्भवेत् ॥ १४२ ॥ स्तवके हारभेदे च गच्छोच्छो निर्मलेल्पके । मोचस्रावो भवेत्पिच्छा द्वयोस्तु विषदेतरे ॥ १४३ ॥ ;k{जान्तवर्गः} अब्जो धन्वन्तरौ चन्द्रे शङ्खे पद्मे नपुंसकम् । त्रिषु कुब्जेधोमुखे च न्युब्जो बीजं तु रेतसि ॥ १४४ ॥ हेतावङ्कुरकार्ये च दन्तविप्राण्डजा द्विजाः । स्त्री करेण्वोषधौ व्याजो दोषे दम्भापदेशयोः ॥ १४५ ॥ छागोजो ब्रह्मविष्ण्वीशा गोष्ठाध्वनिवहा व्रजाः । समे क्ष्मांशे रणेप्याजिः प्रजा स्यात्संततौ जने ॥ १४६ ॥ ध्वजश्चिह्ने पताकायां स्वके नित्ये निजं त्रिषु । खनौ सुरागृहे गञ्जा भाण्डागारे पुमानथ ॥ १४७ ॥ कुञ्जोस्त्री गहने दन्ते गुञ्जा स्यात्काकचिञ्चिका । वाद्यभाण्डे च वाणिज्ये तज्जीविन्यपि ना वणिक् ॥ १४८ ॥ निसर्गे च सहोत्थे च सहजं त्रिष्वथाण्डजाः । मीनपक्ष्यहयः सामजाते हस्तिनि सामजः ॥ १४९ ॥ बलजे क्षेत्रपूर्द्वारे त्रिषु स्याद्वल्गुदर्शने । अङ्गजो मन्मथे पुत्रे शोणिते तु नपुंसकम् ॥ १५० ॥ केकितार्क्ष्यावहिभुजावग्रजो भ्रातृविप्रयोः । लाक्षा स्त्रियां स्यात्क्रिमिजा पट्टवस्त्रे नपुंसकम् ॥ १५१ ॥ ;p{0012} करजो नक्तमाले स्यान्नखे च निचुलोम्बुजः । पद्मे क्लीवं विप्रवरे द्विजराजः शशिन्यपि ॥ १५२ ॥ धर्मराजः प्रेतराजे षडभिज्ञे युधिष्ठिरे । ग्रहराजौ चन्द्रसूर्यौ शूद्रनीचौ जघन्यजौ ॥ १५३ ॥ ;k{ञान्तवर्गः} ज्ञः सौम्ये त्रिषु सूरौ त्रिष्वज्ञौ मूर्खेर्भके द्वयोः । ज्ञे प्राज्ञस्त्रिषु धीः प्रज्ञा संज्ञाश्चिन्नामसूचनाः ॥ १५४ ॥ शिवबुद्धौ तु सर्वज्ञौ दोषज्ञा वैद्यवित्खलाः । पुंस्यात्मनि प्रवीणे तु क्षेत्रज्ञो वाच्यलिङ्गकः ॥ १५५ ॥ ;k{टान्तवर्गः} मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । अयोघने शैलशृङ्गे साराङ्गे कूटमस्त्रियाम् ॥ १५६ ॥ क्लीवे हस्तिनखे घण्टा किङ्किणी पाटलिस्तरुः । सूक्ष्मैलायां तुटिः स्त्री स्यात्कालेल्पे संशये तथा ॥ १५७ ॥ अर्त्यर्बुदाश्रयः कोट्यो मूले लग्नकचे जटा । मांस्यां नटस्तु पत्तोर्णो नड्यां स्त्री नर्तके द्वयोः ॥ १५८ ॥ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेक्ष्णि दर्शने । इष्टिर्यागेच्छयोः स्पष्टं निश्चिते बहुनि त्रिषु ॥ १५९ ॥ शवे श्रोणौ कलिञ्जे च गजगण्डे भृशे कटः । रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ १६० ॥ चटुः पिचण्डे भूपादेरपि सद्गुणवर्णने । कष्टे तु कृच्छ्रगहने कृष्टिः कर्षे बुधे तु ना ॥ १६१ ॥ देवशिल्पिनि तक्ष्ण्यर्के त्वष्टाथ चतुरेरुजि । त्रिष्वगुरौ ना पटोले क्लीवं तु लवणे पटु ॥ १६२ ॥ दिष्टं दैवे पुमान्काले कुटः कुम्भे गृहे द्वयोः । अत्यर्थगृहयोरट्टः सिद्धान्ने च वणिक्पथे ॥ १६३ ॥ पोटा दासी द्विलिङ्गा च सृष्टिः सर्गस्वभावयोः । पुटं व्याघ्रनखे जातीफले हस्तादिसंपुटे ॥ १६४ ॥ त्सरौ पणे पाणिबन्धे मुष्टिः पर्यन्तवस्त्रयोः । पट्टो घट्टः शुल्कदेशे तरोपाये घटी द्वयोः ॥ १६५ ॥ ;p{0013} भाण्डे गोष्ठ्यां हस्तिपङ्क्तौ घटनायां तथा घटा । दिष्टिः स्यात्तु परीमाणभेद आनन्दने स्त्रीयाम् ॥ १६६ ॥ आजूवेतनयोर्विष्टिः करणे कर्मकृत्यपि । अविस्पष्टे तु वचसि म्लिष्टं म्लाने त्रिलिङ्गकम् ॥ १६७ ॥ आशंसिते भवेदिष्टं यज्ञादौ दीयते च यत् । वृष्टं स्यादैहिके वृष्टौ त्रिषु ज्ञातेवतारिते ॥ १६८ ॥ ग्रामभेदे मले खेटः कुत्सिते च भवेत्त्रिषु । रिष्टं स्यादशुभे पापे घृष्टिर्घर्षे किरे तु ना ॥ १६९ ॥ वातवर्षप्रतिहते निस्मिते हर्षिते त्रिषु । रोमाञ्चविषये क्लीवे हृष्टः केशेषु पुंस्ययम् ॥ १७० ॥ झाटामलक्यां गहने ना सटा सिंहकुन्तले । जटायां स्वादु शुद्धं च क्षान्तं मृष्टं भवेत्त्रिषु ॥ १७१ ॥ शिष्टस्तु साधौ खसिते विहिते शिक्षिते त्रिषु । त्रोटिः स्यात्पक्षिचञ्च्वां स्त्री द्विधाभावे च वस्तुषु ॥ १७२ ॥ अरिष्टमासवे तक्रे लक्षणे मृत्युसूचके । सूतिगेहे चाप्यशुभे शुभे तद्वति तु त्रिषु ॥ १७३ ॥ ना दैत्ये लशुने काके निम्बफेनिलवृक्षयोः । सुवासिन्यां चिरण्टी स्याद् द्वितीयवयसि स्त्रियाम् ॥ १७४ ॥ परिचर्यान्वेषणयोः परीष्टिः स्त्री त्रिषूत्कटः । प्रबले च प्रमत्ते च कृपीटमुदरे जले ॥ १७५ ॥ विकटस्तु करालोर्वोरवटः कूपगर्तयोः । त्रिषु प्रमत्ते करटः स्यात्तु काकेभगण्डयोः ॥ १७६ ॥ खाद्यप्रभेदे चिपिटस्तथा पिच्चितविस्तृते । अज्ञानादर्शनासौम्याक्षिष्वदृष्टिरथ त्रिवृत् ॥ १७७ ॥ सूक्ष्मैला त्रिपुटा मर्कट्यपामार्गः करञ्जभित् । कपिकच्छूर्द्वयोः प्राणीभगण्डद्वारपट्टयोः ॥ १७८ ॥ कवाटः स्यादथोच्छिष्टं भुक्तशेषे नपुंसके । क्षते च वृक्षभेदस्तु पत्तोर्णाख्यः कुटन्नटः ॥ १७९ ॥ ;p{0014} कुटन्नटा दाशपुरे शाकभेदे न पुंसि च । देशानोकहयोर्भेदे करहाटोम्बुजाङ्कुरे ॥ १८० ॥ शिपविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे । प्रत्याख्याते प्रोषिते च प्रतिशिष्टास्त्रिलिङ्गकः ॥ १८१ ॥ तुलाकोटिर्मानभेदेर्बुदे स्यान्नूपुरे पुमान् । ;k{ठान्तवर्गः} पुंसि कोष्ठोन्तर्जठरं कुसूलोन्तर्गृहं तथा ॥ १८२ ॥ दिक्कालोत्कर्षमर्यादाः काष्ठाः क्लीवे तु दारुणि । समीपगलशब्देषु कण्ठोथर्क्षभिदि स्त्रियाम् ॥ १८३ ॥ मासभेदे पुमाञ्ज्येष्ठस्त्रिषु वृद्धप्रशस्ययोः । गोस्थानाङ्गनयोर्गोष्ठं कुष्ठमोषधिरोगयोः ॥ १८४ ॥ निष्ठा निष्पत्तिनाशान्ताः पार्ष्णिगप्रसभौ हठौ । पाठः पुमानध्ययने स्त्रियां स्यादोषधीभिदि ॥ १८५ ॥ देशभेदे महादेवे श्रीकण्ठः संकरोद्भवे । अम्बष्ठो यूथिकापाठाचाङ्गेरीषु स्त्रियां भवेत् ॥ १८६ ॥ प्रतिष्ठास्पदमर्यादादेवादिस्थापनेष्वथ । अतिविस्तीर्णवरयोर्वरिष्ठं स्यात्त्रिलिङ्गकम् ॥ १८७ ॥ कमठौ मानभित्कूर्मौ कनिष्ठातियुवाल्पयोः । नीलकण्ठः शिवो वर्ही कलकण्ठौ सुवाक्पिकौ ॥ १८८ ॥ चाङ्गेरी स्याद्दन्तशठा ना जम्बीरकपित्थयोः । ;k{डान्तवर्गः} पतिवत्नीसुते जारात्कुण्डः क्लीवे न भाजने ॥ १८९ ॥ न ना कुण्डी जलाग्न्यादेराधारे स्यान्नपुंसकम् । वंशाङ्कुरे सिंहनादे क्ष्वेडा ना विषशब्दयोः ॥ १९० ॥ इषौ पुमान्विपाठः स्यात्पाठहीने तु वाच्यवत् । मस्त्वाचामद्रवा मण्डास्तरुस्कन्धलतेपि च ॥ १९१ ॥ काण्डोस्त्री दण्डबाणार्ववर्गावसरवारिषु । स्याद्भाण्डमश्वाभरणे पात्रे मूलवणिग्धने ॥ १९२ ॥ तुर्योपाये राजबले दण्डोस्त्री लगुडे मथि । गुडौ गोलेक्षुविकृती स्नुहीगुलिकयोः स्त्रियाम् ॥ १९३ ॥ ;p{0015} संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे । गण्डौ कपोलविस्फोटौ मुण्डं के त्रिषु मुण्डिते ॥ १९४ ॥ स्थाणौ तु ना त्रिष्वजातशृङ्गकाकृतचूडयोः । खण्डोस्त्री शकलेपीक्षुभेदे स्फुटितशृङ्गके ॥ १९५ ॥ द्वयोर्गवादौ शौण्डा तु पिप्पली वृषभे नरि । समर्थे मधुसक्ते च विज्ञेयो वाच्यलिङ्गकः ॥ १९६ ॥ रण्डा मूषकपर्णी स्याद्विधवा कठिने तथा । मुष्के खगादिकोशेण्डं किरे क्रोडो न नोरसि ॥ १९७ ॥ कृपावमर्दयोः पीडा नीडं स्थानकुलाययोः । न स्त्री कायसिरा नीडी नालं कालश्च षट्क्षणः ॥ १९८ ॥ शुण्डा पानमदस्थानं स्तम्बेरमकरस्तथा । सुरा वक्त्रैकदेशश्च कुब्जे पृष्ठगले गडुः ॥ १९९ ॥ रोगेथौषधिभिच्चण्डा गणे ना कोपने त्रिषु । चण्डी देव्यां गोपतौ तु षण्डो वल्ल्यादिसंचये ॥ २०० ॥ सर्ममांसात्पशू व्याडौ भूगोवागप्सरःस्विडा । तरुस्कन्धे प्रकाण्डोस्त्री प्रशंसायां नपुंसकम् ॥ २०१ ॥ सपिण्डौ पुत्रदायादौ शिखण्डो वर्हचूडयोः । पोगण्डो विकलाङ्गः स्याद्बालश्चाषोडशाब्दगः ॥ २०२ ॥ ;k{ढान्तवर्गः} शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । जडतन्द्रितयोर्मूढो रूढोङ्कुरितलग्नयोः ॥ २०३ ॥ भृशप्रतिज्ञयोर्बाढं लीढं स्वादितम्लिष्टयोः । गाढौ विलोडितदृढावूढौ धृतविवाहीतौ ॥ २०४ ॥ उदूढावूढपृथुलावुद्गाढं भृशकृच्छ्रयोः । उपोढमूढमात्रे स्यात्समासन्नेपि च त्रिषु ॥ २०५ ॥ आषाढो व्रतिनां दण्डे मासभूधरभेदयोः । शिलष्टस्पृष्टास्वादिते त्रिष्वालीढं चापभृत्स्थितौ ॥ २०६ ॥ अतिक्रमेत्यूर्ध्वगमे चात्यारूढं नपुंसकम् । अध्यारूढः सहेवाके त्रिषु पृष्ठगते तथा ॥ २०७ ॥ ;p{0016} ;k{णान्तवर्गः} भ्रूणोर्भके स्त्रैणगर्भे बाणो बलिसुते शरे । देवभेदे स्त्रियां वाचि द्वयोर्दासीकुरण्टके ॥ २०८ ॥ स्त्रियामजाज्यतिविषापिप्पलीष्वल्पविप्रुषोः । कणोतिसूक्ष्मधान्यांशे कर्णोरित्रे श्रुतौ नृपे ॥ २०९ ॥ गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः । ग्लहे माने श्वेतिकानां मूल्ये कार्षापणे धने ॥ २१० ॥ द्यूतादौ कल्पिते चैव बद्धमुष्टौ भृतौ पणः । रज्जौ मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये ॥ २११ ॥ भागभाण्डोत्कर्षशौर्यसत्त्वसंध्यादिके गुणः । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ २१२ ॥ वर्णो गुणव्रतयशःशुक्लादिब्राह्मणादिषु । विलेपने कुथायां च गीते रूपेक्षरेस्त्रियाम् ॥ २१३ ॥ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः । सूर्मीस्तम्भगदाः स्थूणास्तृष्णेषणपिपासयोः ॥ २१४ ॥ विषाजिलोहाभिसरे तीक्ष्णमस्त्री खरे त्रिषु । अलिञ्जरे मेहनांशे रत्नेजादिगलस्तने ॥ २१५ ॥ मणिः कृष्णस्तु बीभत्सौ व्यासशस्त्रकविष्णुषु । वर्णे त्रिषूषणे क्लीवे द्रौपदीकणयोः स्त्रियाम् ॥ २१६ ॥ वीणादिवादनोपाये कोणोश्रौ लगुडेपि च । शोणः स्याद्बन्धुजीवाभे नदे लोहितवाजिनि ॥ २१७ ॥ बलवाय्वसवः प्राणा जुगुप्साकरुणे घृणे । श्रेणिः स्त्री तुल्यशिल्पानां संहतिः कुलमावलिः ॥ २१८ ॥ पादग्रन्थेरधः पार्ष्णिः स्त्रियां स्याद्वाहिनीकटिः । मध्यमे पाण्डवे शक्रे जिष्णुः स्यात्त्रिषु जित्वरे ॥ २१९ ॥ प्रमाणकाकयोर्भेदे द्रोणोर्जुनगुरावपि । द्रोणी काष्ठाम्बुवाहिन्यां भवेदन्नादिभाजने ॥ २२० ॥ नीलिन्यां च गुहायां च देवताडो नदीस्रुतिः । वेणी केशकलापः स्यादुष्णः स्वेदनिदाघयोः ॥ २२१ ॥ ;p{0017} त्रिषु तप्ते निर्वृते त्रिष्वणुरल्पोन्नभित्पुमान् । चूर्णो धूलौ क्षारभेदे क्लीवे भूम्न्यधिवासके ॥ २२२ ॥ अक्षाग्रगीलकाश्र्योः स्यादाणिः क्वाणे मृधे रणः । मेषयादवयोर्वृष्णिः क्षुण्णः प्रहतदक्षयोः ॥ २२३ ॥ मानभेदे कषे शाणः पर्णं स्यात्किंशुके छदे । वृक्षे शाखाविरहिते पुंसि स्थाणुर्महेश्वरे ॥ २२४ ॥ रात्रिभेदे शकुन्ती च पक्षिणी वरणस्तरौ । प्राकारे स्वीकृतौ रोधे क्लीवे स्याद्वषणा कणा ॥ २२५ ॥ क्लीवे तु मरिचे पङ्लौ धोरणी वाहने स्थितौ । श्रीपर्णी स्यात्तु काश्मीरी क्लीवे पद्माग्निमन्थयोः ॥ २२६ ॥ ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु । हरिण्येणे द्वयोर्हेमप्रतिमा हरिता च या ॥ २२७ ॥ यूथिका त्रिषु पाण्डौ स्यात्सुरा प्रत्यक् च वारुणी । पण्याध्वहट्टौ विपणी ग्रामीणा नीलिनी त्रिषु ॥ २२८ ॥ ग्राम्ये पट्टांशुके तु स्यात्पत्तोर्णं वृक्षभित्पुमान् । करेणुरिभ्यां स्त्री नेभे द्रविणं तु बले धने ॥ २२९ ॥ शरणं गृहरक्षित्रोः प्रोक्षणं सेचने वधे । प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ २३० ॥ करणं साधकतमक्षेत्रगात्रेन्द्रियक्रियाः । नाट्यकन्दर्पशास्त्रोक्ते कार्ये कायस्थकर्मणि ॥ २३१ ॥ निर्वाणं निर्वृतौ क्लीवे शान्तिमोक्षेभमज्जने । शान्ते च त्रिष्वथेन्द्राणी करणे कामशास्त्रजे ॥ २३२ ॥ सिन्धुवारे शक्रपत्न्यां काकिणी तु वराटके । पणतुर्ये मानभेदे सरणिः पङ्क्तिमार्गयोः ॥ २३३ ॥ सक्तौ स्यात्तर्पणः क्लीवे तृप्तिबृंहणपोषणे । पित्राद्युद्देशदाने च पारणा व्रतभोजने ॥ २३४ ॥ कर्मान्ते क्लीवमपि च धर्षणं रतधार्ष्ट्ययोः । अनुकूले दक्षिणस्त्रिष्वृजौ दक्षिणदिग्भवे ॥ २३५ ॥ ;p{0018} दिक्श्रद्धादेययोस्तु स्त्री सव्यहस्ते पुमानयम् । अरुणाः स्युः सांध्यरागसूर्यसूतदिवाकराः ॥ २३६ ॥ त्रिषु शोणेव्यक्तरागे लक्षणं नामचिह्नयोः । नक्षत्रे श्रवणः पुंसि क्लीवे तु श्रुतिकर्णयोः ॥ २३७ ॥ श्रावण्यां श्रवणा बद्धिर्धिषणा वाक्पतौ पुमान् । वरुणो द्रुभिदप्पत्योर्हरणं यौतके हृतौ ॥ २३८ ॥ निर्याणं निर्गमेभाङ्गे कल्याणं स्वर्णमङ्गले । सुवर्णे हेम्नि तन्माने धने वेश्यादिभाटके ॥ २३९ ॥ सोमग्रहादौ स्वीकारे वन्द्यां ग्रहणमादरे । कङ्कणं मण्डले सूत्रे रत्नाढ्यकरभूषणे ॥ २४० ॥ कारणं घातने हेतौ कारणा यातने स्त्रियाम् । याचके त्रिषु बाणे ना मार्गणो याचने न ना ॥ २४१ ॥ वृक्षादिमूले प्राण्यङ्गे चरणो बह्वृचादिके । नूतने यूनि तरुणस्त्रिष्वर्के तरणिः पुमान् ॥ २४२ ॥ कुमार्योषधिनावोः स्त्री ब्राह्मणी भार्गिविप्रयोः । कुथे प्रवेणी वेण्यां च नक्षत्रे गवि रोहिणी ॥ २४३ ॥ रूप्ये कुवर्णे दुर्वर्णं भरणं वेतने भृतौ । अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ॥ २४४ ॥ प्रवणः क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे । संकीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् ॥ २४५ ॥ रोहणं रोपणे रूढौ पर्वते नाथ धारणा । योगिकर्मणि साम्ये च धारके धारणी त्रिषु ॥ २४६ ॥ वारणं वृत्तिघाते ना गजे स्याद्वारके त्रिषु । धरणी भूर्धृतौ क्लीवे चारणौ देवभिद्विटौ ॥ २४७ ॥ सारणा स्वरसंस्थाने सरिदल्पा च सारणी । रसभिन्ना घृणायां स्त्री दीने तु करुणा त्रिषु ॥ २४८ ॥ समीरणो मरुवके वायौ सोपानमुद्गमः । आरोहणे आस्तरणं शय्यायां वर्णकम्बले ॥ २४९ ॥ ;p{0019} विलक्षणं व्यर्थसंस्थाविशिलष्टेन्यत्र च त्रिषु । मधुपर्णी तु काश्मारी गुडूची नालिका तथा ॥ २५० ॥ व्यादानं स्याद्विहरणं प्रापणं क्रीडनं तथा । प्राण्युत्पादे संसरणमसंबाधचमूगतौ ॥ २५१ ॥ घण्टापथेथ वान्तान्ने समुद्धरणमुन्नये । वस्त्रेजीर्ण आवरणमर्गले छादने त्रिषु ॥ २५२ ॥ प्रस्तावः स्यात्प्रकरणं कीर्णं रूपकभित्तथा । निरूपणे दृष्टिचर्चे लज्जाभेदौ विदारणे ॥ २५३ ॥ आश्रये भर्त्सनेभीक्ष्णे क्लीवं तु स्यात्परायणम् । पारायणं समासङ्गे कार्त्स्न्येथ प्रविदारणम् ॥ २५४ ॥ रणमारणयोरुक्तौ नियमोनियमेन यः । यः सनिन्दमुपालम्भस्तच्च स्यात्परिभाषणम् ॥ २५५ ॥ मण्डूकपर्णी मञ्जिष्ठा पत्तोर्णे नाधिरोहिणी । निःश्रेण्यभिनिवेशे तु क्लीवमूर्ध्वगतौ तथा ॥ २५६ ॥ छदिः प्रवृत्तिघातश्चाप्यन्तर्धिरपवारणम् । स्यादुदाहरणं क्लीवमभिधाने निदर्शने ॥ २५७ ॥ ;k{तान्तवर्गः} सत्सत्येभ्यर्हिते साधौ विद्यमानप्रशस्तयोः । त्रिषु स्त्रियां दक्षपुत्र्यां भृती भरणवेतने ॥ २५८ ॥ धतूरे ना त्रिषु प्राज्ञे धूर्तो वञ्चकदीव्यतोः । खातं वाप्यां रोपिते स्याद्वाच्यलिङ्गं विदारिते ॥ २५९ ॥ सेतुर्ना वृक्षभित्सीमा तरणोपाय एव च । लता प्रियङ्गुर्वीरुच्च ज्योतिष्मत्यपि शारिवा ॥ २६० ॥ हारादिसरिकायां च व्रततावतिमुक्तके । प्रसक्तासादितौ प्राप्तावाप्तौ संप्राप्तबान्धवौ ॥ २६१ ॥ अविसंवादकः पक्षी पतन्गच्छंल्लुठन्नधः । यन्ता हस्तिपके सूते भर्तारौ पतिधारकौ ॥ २६२ ॥ यानपात्रे शिशौ पोतः प्रेतः सत्त्वान्तरे मृते । निर्वाणे मोचने मुक्तिर्युक्तौ शिलष्टसमञ्जसौ ॥ २६३ ॥ ;p{0020} वह्नित्रये युगे त्रेता लिप्ता कालेञ्जिते त्रिषु । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ २६४ ॥ क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । श्लेष्मादिरस्थिरक्तादि महाभूतानि तद्गुणाः ॥ २६५ ॥ इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः । कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ २६६ ॥ अर्तिः पीडाधनुष्कोट्योः सातिर्दानावसानयोः । उदयेधिगमे प्राप्तिरीतिर्डिम्बप्रवासयोः ॥ २६७ ॥ रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः । त्यक्तकम्पितयोर्धूतं भूतिर्भस्मसुधर्द्धयः ॥ २६८ ॥ श्रुतिः श्रवसि वेदे च स्वरांशे श्रवणे स्त्रियाम् । श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ॥ २६९ ॥ निःसारारोग्ययोर्वार्त्तं नीरुग्वृत्तिमतोस्त्रिषु । वार्त्ताकवर्तनोदन्तपाशुपाल्यादिषु स्त्रियाम् ॥ २७० ॥ वृत्तमध्ययने पद्ये चरित्रे वर्तने मृते । अल्पाशये त्रिलिङ्गः स्यादतीते निस्तले दृढे ॥ २७१ ॥ प्रियङ्गुयोषितोः कान्ता त्रिषु प्रियमनोज्ञयोः । जातिश्छन्दसि सामान्ये मालतीगोत्रजन्मसु ॥ २७२ ॥ काव्यालंकारभेदे च स्वभावे च स्त्रियामयम् । सेनाविशेषे पत्तिः स्री गतौ च पदगे पुमान् ॥ २७३ ॥ वैदर्भ्यादावारकूटे प्रचारस्यन्दयोस्तथा । मर्यादायां च रीतिः स्त्री रूप्ये श्वेतं सिते त्रिषु ॥ २७४ ॥ श्वेता स्त्री सूर्यभार्यायां राजभेदे पुमानयम् । शर्कराभित्सिता शुक्ले बद्धावसितयोस्त्रिषु ॥ २७५ ॥ छन्दोविशेषः पङ्क्तिः स्त्री दशसंख्यावलिस्तथा । क्षये निवासे मेदिन्यां क्षितिः कान्तिप्रभे द्युती ॥ २७६ ॥ त्रिषु प्राप्ते विस्तृते च ततं वाद्ये नपुंसकम् । ब्राह्मण्यां क्षत्रियात्सूतस्त्रिषु क्लीवं तु पारते ॥ २७७ ॥ ;p{0021} रथकारे सारथौ ना वन्दिन्याज्याम्बुनोर्घृतम् । मानभेदे प्रशंसायां हस्तः करभभेदयोः ॥ २७८ ॥ असाराश्वगजे शान्ते वीतमङ्कुशकर्मणि । सांख्यसाधर्म्यहेतौ च विगतच्छन्नयोस्त्रिषु ॥ २७९ ॥ लुप्तवर्णपदं ग्रस्तं त्रिषु ग्रासीकृते तथा । तिक्ता स्यात्कटुरोहिण्यां शुभगन्धे रसे त्रिषु ॥ २८० ॥ नतं नितम्बे तगरे कुटिलेधःकृते त्रिषु । जन्तौ क्ष्मादौ पिशाचादौ भूतं न्याय्योपमानयोः ॥ २८१ ॥ प्राप्ते त्रिषु युतं युक्ते वियुक्ते च तथा त्रिषु । गुप्तिः कारा च रक्षा च दीर्णे च विवरं भुवः ॥ २८२ ॥ मूर्छाले कठिने मूर्तो वस्तिर्वस्त्राञ्चले द्वयोः । अपानमार्गे तत्कर्मण्यश्वप्रस्रवणे तथा ॥ २८३ ॥ लूता तु स्यादूर्णनाभे व्याधिभेदे पिपीलके । रतिः स्मरकलत्रे स्याद्रताभिष्वङ्गयोरपि ॥ २८४ ॥ चित्तावस्थानशृङ्गारभावकामफलेष्वपि । वित्तं स्याद्द्रविणे हेम्नि त्रिषु ख्याते विचारिते ॥ २८५ ॥ धूपे दीपशिखायां च वर्तिर्गात्रानुलेपने । आलेख्यभाण्डे दीपस्य दशायां चक्षुरञ्जने ॥ २८६ ॥ प्राप्तिसंबन्धयोराप्तिर्गमने पद्धतौ सृतिः । वर्तने विवृतौ वृत्तिः कैशिक्यादौ मनस्कृतौ ॥ २८७ ॥ काव्याङ्गे कामभार्यायां प्रीतिः प्रेमप्रमोदयोः । पक्तिः पाके व्यवहृतौ वीतिर्याने तुरंगमे ॥ २८८ ॥ विच्छित्तौ सेवने भक्तिर्भित्तिः कुडयप्रदेशयोः । चितिश्चित्सङ्गचित्यासु द्रुतं शीघ्रविलीनयोः ॥ २८९ ॥ दन्तौ रदाद्रिकटकौ मृत्युयाचितयोर्मृतम् । जातं जन्म प्रकारश्च त्रिषु संपन्नपुत्रयोः ॥ २९० ॥ व्यक्तं स्फुटे बुधे व्यक्तः शिती शारासितौ त्रिषु । यतिर्विरामव्रतिनोरूतिः स्यात्स्यूतिरक्षयोः ॥ २९१ ॥ ;p{0022} स्थित ऊर्ध्वे वर्तमाने प्रतिष्ठावति च त्रिषु । कुङ्कुमे क्षतजे रक्तं सरागारुणयोस्त्रिषु ॥ २९२ ॥ मत्तः करी मदकलो मदेनाव्यक्तवाक्त्रिषु । अवस्थायां गतिर्यात्राधीनतोपायवर्त्मसु ॥ २९३ ॥ शुक्तं स्यात्परुषेम्ब्ले च ग्रीष्मादौ स्त्रीरजस्यृतुः । विनाशान्तिकयोरन्तः स्वरूपेंशावसानयोः ॥ २९४ ॥ माता गौर्जननी देव्यो रेवत्याद्या बहुस्त्रियाम् । मर्यादायां स्थितिः स्थाने भास्वद्दीप्तविवस्वतोः ॥ २९५ ॥ भूभृद्भूमिधरे भूपे स्यादर्हञ्जिनपूज्ययोः । सूर्याश्वेषु हरित्पुंसि नीले त्रिषु दिशि स्त्रियाम् ॥ २९६ ॥ महद्राज्ये सांख्यबुद्धौ न स्त्री बृहति तु त्रिषु । छन्दोभिज्जगती भूश्च जगज्जङ्गमलोकयोः ॥ २९७ ॥ समित्सभासंगरयोः पित्सन्पातेच्छुपक्षिणोः । क्लीवे बिन्दौ पृषन्ना तु हरिणे पृषतोनयोः ॥ २९८ ॥ हल्या भूर्जानकी सीते एतौ शारासितौ त्रिषु । धाता ब्रह्मा च धर्ता च क्षिप्तेस्तः पश्चिमाचले ॥ २९९ ॥ गुणे शीतं त्रिषु तद्वन्ना श्लेष्मातकवेतसौ । यातरो भ्रातृजायाः स्युर्गतिशीले भवेत्त्रिषु ॥ ३०० ॥ मुक्तास्फोटे हयावर्ते शुक्तिर्माननखौषधी । पूतः पवित्रे निःशूके धारिते सुस्थिते धृतम् ॥ ३०१ ॥ शान्तिः शमे निर्वृतौ च तथा कुशलकर्मणि । संक्रान्ताक्रान्तयोः क्रान्तो मरुतौ पवनामरौ ॥ ३०२ ॥ देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ । पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ॥ ३०३ ॥ स्थपतिः कञ्चुकी तक्षा बृहस्पतिसवेष्टवान् । जातहर्षे प्रतिहते रोमाञ्चिविषये तथा ॥ ३०४ ॥ विस्मिते हृषितः स्थात्त्रिष्वमृतं मोक्षवारिणोः । अयाचिते यज्ञशेषे देवान्नसुधयोरपि ॥ ३०५ ॥ ;p{0023} दुरालभामलक्योः स्त्री गुडूचीपथ्ययोस्तथा । परस्यां वाच्यर्करश्मिसमाधानभिदोस्तथा ॥ ३०६ ॥ दूर्वादुरालभाभूमिष्वनन्ता क्लीवमम्बरे । पुमान्नागाधिपे विष्णावनाशेनवधौ त्रिषु ॥ ३०७ ॥ प्रियं सत्यं च वचनं कल्याणमपि सूनृतम् । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ३०८ ॥ वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्ये वार्त्ताप्रकारयोः । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ३०९ ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी । वृद्धिमत्प्रोद्गतोत्पन्ना आदृतौ सादरार्चितौ ॥ ३१० ॥ विवक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ । प्रख्यातज्ञातहृष्टेषु प्रतीतं त्रिषु संस्कृतम् ॥ ३११ ॥ कृत्रिमे लक्षणोपेते पिण्डितं गुणिते घने । वनिता जनितात्यर्थानुरागा स्त्र्यङ्गनापि च ॥ ३१२ ॥ पलितं जरसा शौक्ल्यं केशादेः कर्दमं तथा । समञ्जसे स्यादुचितमभ्यस्ते च त्रिलिङ्गकम् ॥ ३१३ ॥ कुङ्कुमे शोणिते क्लीवमरुणे त्रिषु लोहितम् । शक्ते निवारिते पूर्णे पर्याप्तं त्रिष्वपीप्सिते ॥ ३१४ ॥ आनर्तः समरे नृत्तस्थाननीवृद्विशेषयोः । मिथ्योक्तावाहतं क्लीवे ताडिते गुणिते त्रिषु ॥ ३१५ ॥ आचितः स्यात्त्रिषु व्याप्ते पलानामयुतद्वये । दुर्जातं व्यसनेसम्यग्जातवस्तुनि तु त्रिषु ॥ ३१६ ॥ त्रिष्वव्यक्तमस्फुटे स्यात्पुमांस्तु परमात्मनि । त्रिषु प्रणीतो विहिते संस्कृतेग्नौ प्रवेशिते ॥ ३१७ ॥ विप्रलब्धे विप्रकृते निकृतस्त्रिष्वथोद्धृतम् । भुक्तोज्झिते तोलिते च सुकृतं शुभपुण्ययोः ॥ ३१८ ॥ आयस्तं लेशितोत्क्षिप्ते कोपिते तेजिते त्रिषु । निरस्तं त्रिष्वधिक्षिप्ते त्यक्ते च त्वरितोदिते ॥ ३१९ ॥ ;p{0024} विश्वास्ये त्रिषु विश्वस्तो विधवायां पुनः स्त्रियाम् । लिङ्गे स्वभावे प्रकृतिर्धात्वमात्यादियोनिषु ॥ ३२० ॥ सभासंगतियुद्धेषु समितिर्निर्वृतिः पुनः । स्वस्थतायामस्तमये निकृतिः शठशाठ्ययोः ॥ ३२१ ॥ दुर्गतिर्नरके दौस्थ्ये पद्धतिः पङ्क्तिवर्त्मनोः । काये रूपे चाकृतिः स्यात्प्रसूतिर्जन्मपुत्रयोः ॥ ३२२ ॥ वसतिः स्थितियामिन्योः प्रवृत्तिर्वृत्तिवार्त्तयोः । ऋक्षे लाङ्गलिदारेषु रेवत्याख्यापि मातृषु ॥ ३२३ ॥ स्तिमितेतरलक्लिन्ने निशान्तं गेहशान्तयोः । अनृते कुकृतासत्ये वाशिता करिणीस्त्रियोः ॥ ३२४ ॥ उदितावुद्गतप्रोक्तावर्दितं पीडितेर्थिते । द्विजातिर्विहगे विप्रे जीवातुर्जायुजीवयोः ॥ ३२५ ॥ निमित्तं लक्षणे हेतौ जीमूतौ मेघपर्वतौ । देवताडद्रुरुत्तप्तं शुष्कमांसं वितापितम् ॥ ३२६ ॥ सिकता वालुकायां च देशे च सिकतान्विते । विस्तारवल्ल्योर्व्रततिः कलितं विदितात्तयोः ॥ ३२७ ॥ संख्याते तुलिते क्षिप्ते शब्दिते च भवेत्त्रिषु । वृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ॥ ३२८ ॥ गर्जितं स्तनितेभ्राणां पुंसि स्यान्मत्तकुञ्जरे । प्रार्थितं प्रार्थनालभ्येभियुक्ते सान्त्विते त्रिषु ॥ ३२९ ॥ विततं प्रस्तुते व्याप्ते विस्तृते च भवेचिषु । परंपरायां पुत्रे च विस्तारेपि च संततिः ॥ ३३० ॥ संमतिः स्यादनुज्ञानमभिलाषोपि च स्त्रियाम् । रूप्ये हारे च रजतं शुक्ले स्याद्वाच्यलिङ्गकः ॥ ३३१ ॥ पारावते कपोतः स्याद्विहगान्तरवर्णयोः । संवित्तिः प्रतिपत्तिः स्याद्व्यवस्था चाविवादिता ॥ ३३२ ॥ ऋज्विन्द्रास्त्रं रोहितं ना मत्स्यभिद्यरुणे त्रिषु । प्रतिपत्पक्षतिः पक्षमूलं च द्वीपवान्नदे ॥ ३३३ ॥ ;p{0025} अब्धौ नदी स्त्री दृष्टान्त उदाहरणशास्त्रयोः । स्यादायतिर्दीर्घतायां प्रतापागामिकालयोः ॥ ३३४ ॥ विधूतः कम्पिते त्यक्ते नियती दैवसंयमौ । बीभत्से विकृतोस्वस्थे चाप्लुतः स्नातमात्रके ॥ ३३५ ॥ स्नातके चाप्यथोद्घात आरम्भे स्खलिते तथा । पाणिर्निकुब्जः प्रसृतः स्त्री जङ्घा विस्तृते त्रिषु ॥ ३३६ ॥ दान्ते ककुद्मान्स्त्री कट्यां परेतो दूरगे मृते । दैवतं देवता देवाः सरस्वन्तौ नदार्णवौ ॥ ३३७ ॥ मारजिच्छंकरे बुद्धे शान्तेथ भगवाञ्जिने । पूज्ये द्वयोरथोन्मत्तो धतूरे मादिनि त्रिषु ॥ ३३८ ॥ निर्ऋती यमदिक्पालौ स्त्र्यलक्ष्मीराक्षसाम्बयोः । आवर्तो रोमभेदेम्भोभ्रमे पठनरूपयोः ॥ ३३९ ॥ एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ । रजस्वला पुष्पवती माल्यधारिणि तु त्रिषु ॥ ३४० ॥ विवृतः कोशनिष्कृष्टे व्याकृतेपि प्रकाशिते । विकासिते वर्णपाठधर्मे च सुशिरे तथा ॥ ३४१ ॥ एषां भावे तु विवृतिः स्थगितासत्यभूतयोः । वर्णपाठगुणे गुप्ते संवृतो विवृतेतरे ॥ ३४२ ॥ एषां भावे संवृतिः स्यादेकान्तो निश्चयो रहः । गुणैकदेशयोरव्यभिचारिणि च पुंस्ययम् ॥ ३४३ ॥ प्रत्यन्तौ म्लेच्छदेशान्तौ देव्यौषधिविशेषयोः । जयन्तीन्द्रात्मजे पुंसि स्त्र्यास्फोता गिरिकर्णिका ॥ ३४४ ॥ गिरिपर्णी शारिवा च भवेदर्कतरौ पुमान् । साक्षात्कृतोत्पादितयोराश्वस्ते भवितं त्रिषु ॥ ३४५ ॥ भक्तवासितयोश्चाथाहृतमानीतभुक्तयोः । परावृत्ते च लुठितं भ्रष्टे त्रिषु पदाच्च्युते ॥ ३४६ ॥ तिरोहिते स्रुते भुक्ते पतिते गलितं त्रिषु । छन्दोविशेषे गलिता निर्मुक्तो मुक्तकञ्चुके ॥ ३४७ ॥ ;p{0026} त्यक्ते निर्ग्रन्थिके वाच्यलिङ्गो वस्तुमती भुवि । त्रिषु स्फीते चित्रकरे चित्रकृद्वञ्जुले तथा ॥ ३४८ ॥ पर्याप्तिः पूर्णताशक्त्योर्गुडूचीशाकभेदयोः । जीवन्ती स्याद्वृक्षरुहा विनीतः शिक्षिते हये ॥ ३४९ ॥ सप्रश्रये निरस्ते च त्रिष्वथो यज्ञसूत्रके । कण्ठालम्बे प्रावृत्ते च निवीतं वाच्यलिङ्गकम् ॥ ३५० ॥ स्वकर्महीने पतितो गते भ्रष्टेपि च त्रिषु । यवे स्यादक्षतः पुंसि क्षत्यभावे त्रिलिङ्गकः ॥ ३५१ ॥ कलधौतं रूप्यहेम्नोर्विष्णौ लक्ष्मीपतिर्नृपे । अग्रेकृताभ्यर्चितयोर्भवेत्त्रिषु पुरस्कृतः ॥ ३५२ ॥ दुष्टे त्रिष्ववगीतं स्यान्निर्वादे गर्हितेपि च । अभिनीतं संस्कृते च प्रापितेमर्षवत्यपि ॥ ३५३ ॥ प्रतिस्खलितविद्विष्टौ त्रिषु प्रतिहतावपि । सुकुमारेभिजातं स्यात्कुलीनबुधयोस्त्रिषु ॥ ३५४ ॥ नन्द्यावर्त ऋद्धवेश्मप्रकारे तगरद्रुमे । स्त्रियामपचितिर्हानौ निष्कृतावर्चने व्यये ॥ ३५५ ॥ अत्याहितं महाभीतिर्जीवे च निरपेक्षता । समाहितं समाधिस्थे तथा दत्तोत्तरे त्रिषु ॥ ३५६ ॥ उपाहितोनलोत्पाते भवेदारोपिते त्रिषु । उपस्थितः प्रतीहारे द्वारभेदे समाश्रिते ॥ ३५७ ॥ वाच्यलिङ्गो निन्दिते स्यादवध्वस्तोवचूर्णिते । अवसानं गते ज्ञाते निश्चितेवसितस्त्रिषु ॥ ३५८ ॥ विजृम्भितं विकसिते चेष्टायां प्रसृते त्रिषु । विज्ञाते वेष्टिते प्राप्ते भवेत्परिगतस्त्रिषु ॥ ३५९ ॥ मध्यप्राप्तं विस्मृतं च भवेदन्तर्गतं त्रिषु । अवदातः सिते पीते विशुद्धे वाच्यलिङ्गकः ॥ ३६० ॥ निराकृते प्रेषिते च प्रतिक्षिप्तं त्रिलिङ्गकम् । ऊर्ध्वाहिते भर्त्सिते त्रिष्वधिक्षिप्तो विनिन्दिते ॥ ३६१ ॥ ;p{0027} नागानां नगरीनद्यौ भोगवत्यौ शतक्रतोः । चाप ऋज्वायते न स्त्री गजे त्वैरावतः पुमान् ॥ ३६२ ॥ अस्वाध्याये पुमान्स्त्री तु प्रत्यादेशे निराकृतिः । प्रतिमायां प्रतीकारे भवेत्प्रतिकृतिः स्त्रियाम् ॥ ३६३ ॥ अभिशापप्रार्थनयोरभिशस्तिः स्तुतावपि । जनंगमो दिवाकीर्तिर्नापितश्च भवेद्द्वयोः ॥ ३६४ ॥ प्रागल्भ्यगौरवारम्भाप्तिबोधाः प्रतिपत्तयः । अग्न्युत्पातौ धूमकेतू वचा गौरी च काञ्चनी ॥ ३६५ ॥ गङ्गा हरीतकी हैमवत्यस्तज्जादिषु त्रिषु । वैजयन्ती पताका स्यात्तर्कारी च यमो मनुः ॥ ३६६ ॥ सौरः कर्णो रविसुतः सुग्रीवश्च निपातितः । मारितः साधितश्च स्याद्देवखातं ह्रदो गुहा ॥ ३६७ ॥ प्रजावती भ्रातृजाया प्रजायुक्ते भवेत्त्रिषु । स्पृक्का भूमिश्च कार्पासी समुद्रान्ता दुरालभा ॥ ३६८ ॥ राहुग्रस्तार्कशशिनोर्व्यसनार्तात्तरागयोः । उपरक्तोवगमितेपास्तनिद्रे प्रबोधितः ॥ ३६९ ॥ समाघातो वधे युद्धे प्रहारेथ विहंगमे । पातेच्छौ स्यात्पिपतिषंस्त्रिषु न्यस्ते समाहिते ॥ ३७० ॥ त्रिषु प्रणिहितं न्यासे समाधौ च नपुंसकम् । सक्ताक्षिप्तावभियुक्तौ भूपाले क्षत्रिये तथा ॥ ३७१ ॥ मूर्धाभिषिक्तोथाम्भोधौ वरुणे यादसांपतिः । समन्तादुच्यमाने स्यान्नियमे परिभाषितम् ॥ ३७२ ॥ ;k{थान्तवर्गः} आदिराजे पृथुर्दीर्घे त्रिषु कृष्णे च जीरके । द्वयोः स्याद्धिङ्गुपर्ण्यां च पृथ्वी धरणिवृत्तयोः ॥ ३७३ ॥ पर्वसंधानपिटकयन्त्रणा ग्रन्थयो नरि । अर्थोभिधेयविषयरैप्रयोजनवस्तुषु ॥ ३७४ ॥ सोपानपात्रयोस्तीर्थमर्हद्भिः सेविते गुरौ । स्त्र्यृतौ सत्त्रिण्युपाये च प्रस्थोस्त्री सानुमानयोः ॥ ३७५ ॥ ;p{0028} वृत्तवाग्भेदयोर्गाता ग्रन्थो द्रविणशास्त्रयोः । आस्थान्याशादराश्वासयत्नेष्वास्थाथ ना स्पशे ॥ ३७६ ॥ संस्था व्यवस्थामरणयागोपस्करणेषु च । वीथी रूपकभेदः स्यात्पङ्क्तिवेश्माङ्गवर्त्मसु ॥ ३७७ ॥ सिक्थः पुलाके मदने क्लीवेथो वर्णकम्बत्ने । द्वयोर्दर्भेषु च कुथः सक्तूनां द्रवताविधौ ॥ ३७८ ॥ मन्थानेक्षिगदे मन्थः सिद्धार्थौ बुधसर्षपौ । समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हते तथा ॥ ३७९ ॥ क्षवथुस्तु क्षुते कास उपस्थस्त्वङ्कगुह्ययोः । निर्ग्रन्थो निष्परीवारे त्रिषु स्यात्क्षपणे पुमान् ॥ ३८० ॥ पाशयन्त्रकमुन्माथं न स्त्री ना वधघातयोः । वयःस्थामलकी क्षीरकाकोली यूनि तु त्रिषु ॥ ३८१ ॥ पथ्या कयस्था काकोल्यव्यथा पद्मा हरीतकी । कपित्थे मन्मथः कामे मधूकाश्रमिभेदयोः ॥ ३८२ ॥ वानप्रस्थः क्षीणरागे दशमीस्थो वयोतिगे । राजरक्षिष्वनीकस्थो गजशिक्षाविचक्षणे ॥ ३८३ ॥ ;k{दान्तवर्गः} हृन्मनोवक्षसोः क्लीवे स्त्री भिद्दारणभेदयोः । वन्दी तु पणबन्धः स्यान्नारी चापि हठाहृता ॥ ३८४ ॥ व्यवसाये परित्राणे स्थाने वस्त्त्रपदेशयोः । पादतन्मुद्रयोश्चिह्ने पदं न्यासेक्षशब्दयोः ॥ ३८५ ॥ पादा रश्म्यङ्घ्रितुर्यांश ऋगंशाद्र्यन्तपर्वताः । वृक्षमूलं चाथ संवित्संकेते ज्ञानकालयोः ॥ ३८६ ॥ संभाषणे क्रियाकारे प्रतिज्ञाचारनामसु । दृशन्निष्पेषणशिला शिला चाथ विदारणे ॥ ३८७ ॥ उपजापे विशेषे च भेदः स्यात्तु गदो हरेः । भ्राता व्याधिश्चायुधे तु स्त्री संपच्छ्रीस्तथोच्छ्रयः ॥ ३८८ ॥ मूलसूरणयोः कन्दः पर्णौष्ठगरुतश्छदाः । ह्रदस्तोयाशयः स्रोतो बिन्दुर्वेदितृविप्रुषोः ॥ ३८९ ॥ ;p{0029} दन्तक्षतेर्थप्रकृतौ शून्ये भ्रूमध्यतेजसि । त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ३९० ॥ अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ । घर्मस्वेदनयोः स्वेदः सात्त्विके भावभिद्यपि ॥ ३९१ ॥ छेदो विरामे खण्डे च शादो जम्बालशष्पयोः । विमर्दचूर्णयोः क्षोदो नादः स्यात्प्राणशब्दयोः ॥ ३९२ ॥ स्त्री शरद्वत्सरर्त्वोः स्यात्क्रव्यान्मांसाशिरक्षसोः । सूदः सूपे सूपकरे देशे चोषरभूमिके ॥ ३९३ ॥ भ्रमे भवेत्पुमान्कुन्दः पुष्पभेदे नपुंसकम् । मन्दोपटौ शनैरर्थे मूढे च त्रिषु पुंसि तु ॥ ३९४ ॥ सौरेभजात्योः स्यात्क्षैव्ये गर्वे हर्षेबदानयोः । मदो मद्ये राजलिङ्गे पृष्ठाङ्गश्रेष्ठयोः ककुत् ॥ ३९५ ॥ दायादौ बान्धवसुतावामोदो हर्षगन्धयोः । निषादो लुब्धके गीतस्वरे संकरजन्मनि ॥ ३९६ ॥ प्रधाने राजलिङ्गे च पृष्ठाङ्गे ककुदोस्त्रियाम् । मर्यादा धारणासीम्नोर्विषदो व्यक्तशुक्लयोः ॥ ३९७ ॥ गोष्ठाध्यक्षे च विष्णौ च गोविन्दः कपिनागयोः । कुमुदो जलजे क्लीवं कुसूदं वृद्धिजीवने ॥ ३९८ ॥ कुसेवके त्रिषु ज्ञाने तिथौ च प्रतिपत्स्त्रियाम् । स्यात्प्रसादोनुग्रहेपि नैर्मल्यप्रीतिदानयोः ॥ ३९९ ॥ सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे । पश्चाद्राजविशेषे च गोष्पदे मानसेविते ॥ ४०० ॥ त्रिष्वधृष्टे नवे शुद्धे शारदोपि शरद्भवे । अस्त्री संवत्सरे सप्तपर्णे ना शारदी पुनः ॥ ४०१ ॥ लाङ्गली शारदा देवी कुविन्दौ भ्रमिवायकौ । प्रमदा तरुणी ना तु हर्षेधिकमदे त्रिषु ॥ ४०२ ॥ धर्मे रहस्युपनिषद्वेदान्ते च शतह्रदा । विद्युद्भेदे विद्युति च वह्नीन्द्वर्कास्तमोनुदाः ॥ ४०३ ॥ ;p{0030} मर्यादासहितेभ्यर्णे समर्यादं त्रिलिङ्गकम् । अववादौ तु निन्दाज्ञे देशे जनपदो जने ॥ ४०४ ॥ गङ्गा विष्णुपदी क्लीवे हर्यङ्घ्र्याकाशविष्टपे । अभिमर्दौ युद्धपीडे धृष्टो ज्ञश्च विशारदः ॥ ४०५ ॥ त्रिषु कोकनदं रक्तकुमुदे रक्तवारिजे । निर्वादे वादनोपाये परिवादोथ हेमनि ॥ ४०६ ॥ अष्टापदं शारिफले स्त्रियां तु पशुगर्भिणी । अपवादस्तु गर्हायां बाधके बाधनेपि च ॥ ४०७ ॥ ;k{धान्तवर्गः} ऋद्धिरोषधिभिल्लक्ष्मीः प्रभावोतिशयः स्त्रियाम् । कुष्ठाख्यायामोषधौ च व्याधिः पुंस्यामये तथा ॥ ४०८ ॥ वसन्तदैत्यभिच्चैत्रमधूका मधवो मधु । मद्यं पुष्परसः क्षौद्रं मधुरे वाच्यलिङ्गकः ॥ ४०९ ॥ बन्धको व्यसनं चेतःपीडाधिष्ठानमाधयः । विधुर्विष्णुः शशी बाधा द्वयोर्दुःखनिषेधयोः ॥ ४१० ॥ नददेशबिदोरब्धौ सिन्धुर्ना सरिति स्त्रियाम् । द्वयोर्विधौ प्रकारे च गजान्ने वेतने विधा ॥ ४११ ॥ वधूर्जाया स्नुषा स्त्री च प्रियङ्गुस्पृक्कयोरपि । निधी निक्षेपगूढार्थौ स्थानं श्रद्धादरः स्पृहा ॥ ४१२ ॥ क्लीवे तमोम्भसोरन्धमदृष्टौ वाच्यलिङ्गकः । संधा प्रतिज्ञा मर्यादा मक्कोलामृतयोः सुधा ॥ ४१३ ॥ विधिर्विधायके वाक्ये दैवे स्रष्टृविधानयोः । हव्यकव्यविधौ श्राद्धं त्रिषु श्रद्धासमन्विते ॥ ४१४ ॥ संधिर्भगे सुरुङ्गायां संधानगुणभेदयोः । गोधा तले निहाकायां बुधा विद्वद्ग्रहामराः ॥ ४१५ ॥ राधा तु कृष्णजायायां शरव्ये कर्णमातरि । मूलाधिकेर्थे वृद्धिः स्याद्वर्धनौषधिभेदयोः ॥ ४१६ ॥ सिद्धिरोषधिनिष्पत्त्योर्बन्धः स्नेहाधिबन्धने । वृन्ते च रचनायां च वातादिनियतावधौ ॥ ४१७ ॥ ;p{0031} अंसे महीपतौ स्कन्धस्तरुजङ्घासमूहयोः । लताविटपयोर्वीरुत्खण्डोर्धोर्धं समेंशके ॥ ४१८ ॥ दोषज्ञे सुगते बुद्धः शुद्धस्त्रिष्वेकपूतयोः । पण्डिते स्थविरे वृद्धस्त्रिषु साधुस्तु शोभने ॥ ४१९ ॥ वार्द्धुषौ सज्जने सिद्धे देवे निष्पन्नपूज्ययोः । विषलिप्ते शरे दिग्धो लिप्तमात्रे त्रिलिङ्गकः ॥ ४२० ॥ मुग्धं मनोहरे मूढे त्रिषु योषिति तु स्त्रियाम् । विद्धं सूच्यादिभिर्भिन्ने सादृश्ये ज्ञे त्रिलिङ्गकः ॥ ४२१ ॥ घ्राणग्राह्याल्पयोर्गन्धो द्रव्ये संबन्धमात्रके । लुब्धः स्पृहावान्मृगयुः क्षत्रियायां तु वैश्यजः ॥ ४२२ ॥ वन्दी च मागधः स्त्री स्यात्पिप्पली यूथिका तथा । व्यामो वटश्च न्यग्रोधो न्यग्रोधी चोपचित्रिका ॥ ४२३ ॥ प्रबोधौ जागरोद्घाटावुत्सेधौ वपुरुन्नती । पर्याहाराध्वभारेषु विवधो वीवधोपि च ॥ ४२४ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ ४२५ ॥ प्रणिधी प्रार्थनचरौ परिच्छेदे बिलेवधिः । अगाधमतलस्पर्शे त्रिषु गर्ते नपुंसकम् ॥ ४२६ ॥ व्याजे रथाङ्गेप्युपधिर्विबुधौ सुरपण्डितौ । वाद्यं मृदङ्गाद्यानद्धं बद्धमात्रे त्रिलिङ्गकम् ॥ ४२७ ॥ उपाधिर्धर्मचिन्ता च कुटुम्बव्यापृतेपि च । विशेषणोपार्जनयोः प्रबुद्धो ज्ञानिजाग्रतोः ॥ ४२८ ॥ सम्यक्सिद्धौ स्वभावे स्त्री संसिद्धिः संनिधिस्तु ना । प्रत्यक्षे संनिधाने च निरोधो नाशरोधयोः ॥ ४२९ ॥ निषधः कठिने देशे राजभेदे नगान्तरे । तोये कबन्धं ना रक्षोभेदे शिरसि न स्त्रियाम् ॥ ४३० ॥ भृशार्थदोषावाबाधौ संबाधौ योनिसंकटौ । अतस्त्रिषु तु विस्रब्धो विश्वस्ते प्रोद्भटे तथा ॥ ४३१ ॥ ;p{0032} आविद्धी कुटिलोत्क्षिप्तौ प्रसिद्धौ ख्यातभूषितौ । विरुद्धौ वैरिविगुणौ दुर्विधौ खलदुर्गतौ ॥ ४३२ ॥ अविदूरस्त्ववष्टब्धो बद्धश्चाप्यवलम्बितः । ब्रह्मबन्धुरधिक्षेपे निर्देशे ब्राह्मणस्य च ॥ ४३३ ॥ दोषोत्पादेनुबन्धः स्यात्प्रकृत्यादेर्विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ ४३४ ॥ कर्णिकारः परिव्याधो जलवेतस इत्यपि । तमालः श्यामखदिरः कालस्कन्धोपि तिन्दुकः ॥ ४३५ ॥ इक्षुगन्धा विदारी स्यात्कोकिलो गोक्षुरोपि च । महौषधं प्रतिविषा लशुनं नागरं विषम् ॥ ४३६ ॥ अजमोदोग्रगन्धा स्याद्वचा गन्धोत्कटे त्रिषु । ;k{नान्तवर्गः} पृश्निरल्पतनू रश्मिमवर्णभेदे गवि स्त्रियाम् ॥ ४३७ ॥ व्याधिभिद्यक्षयोर्यक्ष्मा मुनिर्बुद्ध ऋषिस्तथा । शुष्मा वह्निर्बले क्लीवे शृङ्गी प्रतिविषा विषम् ॥ ४३८ ॥ वृषाख्यौषधिभिद्दान्तपर्वतौ शृङ्गवांस्त्रिषु । हनुर्नखौषधिः सृक्व जटी प्लक्षतरुर्व्रती ॥ ४३९ ॥ घनो मेघे मूर्तिगुणे विस्तारे लोहमुद्गरे । मुस्ते च न द्वयोर्वाद्ये त्रिषु मूर्तिनिरन्तरे ॥ ४४० ॥ इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे । त्वग्देहयोस्तनुः स्त्री स्यात्तद्गुणे त्रिषु पर्व तु ॥ ४४१ ॥ तिथिभेदे क्षणे ग्रन्थौ वर्त्म नेत्रच्छदेध्वनि । वेदस्तत्त्वं तपो ब्रह्म पुमान्विप्रे प्रजापतौ ॥ ४४२ ॥ पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेप्यणीयसि । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ ४४३ ॥ देहप्रमाणयोर्वर्ष्म स्यादाकारेपि सुन्दरे । ग्रावाणौ शैलपाषाणौ पत्त्रिणौ शरपक्षिणौ ॥ ४४४ ॥ वृक्षोग्निः कुक्कुटो शिखिनोथ तु सादिनौ । द्वौ सारथिहयारोहौ वाजिनोश्वेषुपक्षिणः ॥ ४४५ ॥ ;p{0033} स्थितौ क्षेत्रेवधौ मार्गे सीमा लक्ष्माग्र्यचिह्नयोः । गृहं देहस्त्विट् प्रभावो धाम धन्व स्थलं धनुः ॥ ४४६ ॥ पुमान्मरावथ स्वप्नः स्वापे सुप्तस्य संविदि । सूनं पुष्पे वधस्थाने स्त्रियां जिह्वातलेपि च ॥ ४४७ ॥ पुष्पिते त्रिष्वहिहरी चक्रिणौ रथतैलिकौ । भृतौ सुवर्णे भर्म स्याच्चर्म स्यात्फलके त्वचि ॥ ४४८ ॥ स्वामिनौ गुहभर्तारौ जनौ लोकपृथग्जनौ । जनी वधूश्चन्द्रयुता रात्रिर्ज्योत्स्नी पटोलिका ॥ ४४९ ॥ अश्वकुत्सितयोरर्वा प्रेमास्त्री स्नेहनर्मणोः । मन्दस्वच्छन्दयोः स्वैरी श्येनौ श्वेतविहंगमौ ॥ ४५० ॥ गभस्तिव्रध्नयोर्भानुर्वनं कानननीरयोः । समूहे पर्वते च स्यात्तानस्तात्पर्यगीतयोः ॥ ४५१ ॥ मणिप्रकृष्टयो रत्नं यानं गमनयुग्मयोः । गुणभेदे च नृपतेर्धेनुर्दोग्ध्र्यां तथा गवि ॥ ४५२ ॥ रूपे धने बले द्युम्नं विन्नं लब्धे विचारिते । सेवके याचके चार्थी स्थानं स्थित्यवकाशयोः ॥ ४५३ ॥ सादृश्ये गीतविषये स्याच्च योग्यप्रसङ्गयोः । वैयापृत्यकरो भोगी त्रिषु राजभुजंगयोः ॥ ४५४ ॥ ज्योत्स्ना ज्योतिष्मती रात्रिस्तथा चन्द्रमसः प्रभा । मानं प्रमाणे प्रस्थादौ पुमांश्चित्तसमुन्नतौ ॥ ४५५ ॥ दिग्वासास्त्रिषु नग्नः स्यान्नग्ना वैतालिकादयः । संस्कृते दारिते भिन्नास्त्रिषु स्यादन्यवाचकः ॥ ४५६ ॥ शुष्के शुष्कफले वानं तथा सीवनकर्मणि । भगाकरौ द्वयोर्योनी कृती सूरिकृतार्थयोः ॥ ४५७ ॥ स्नानीये सवने स्नानं धनं गोसंघवित्तयोः । पताकालक्ष्मणोश्चिह्नं स्यादन्नं भुक्तभक्तयोः ॥ ४५८ ॥ छादिते रहासि च्छन्नं पानं पीतौ च रक्षणे । खण्डने रक्षणे दानं त्यागे गजमदे तथा ॥ ४५९ ॥ ;p{0034} शुद्धिलून्योश्चोनगर्ह्यौ हीनन्यूनौ त्रिलिङ्गकौ । जिह्वायां रसना क्लीवे ध्वनावास्वादने न ना ॥ ४६० ॥ कुहना दम्भचर्यायामीर्ष्यालौ तु भवेत्त्रिषु । तरुशैलौ शिखरिणौ बली वेगी तरस्विनौ ॥ ४६१ ॥ विषाणिनौ करी शृङ्गी प्रीणने रक्षणेवनम् । स्वच्छे तलिनमल्पे च गम्भीरे गहनं वने ॥ ४६२ ॥ रोदनं त्वस्रुणि क्रन्दे प्रज्ञानं बुद्धचिह्नयोः । भुवने विष्टपजले धावने गतिशोधने ॥ ४६३ ॥ त्रैवर्णिकेण्डजे दन्ते द्विजन्मा तारकासु च । न ना तु परिहारे स्याद्वर्जनं त्यागहिंसयोः ॥ ४६४ ॥ कुले नाशे च निधनं सूचना स्त्रीनपुंसकम् । व्यधनेभिनये संज्ञापैशुन्यक्रिययोरपि ॥ ४६५ ॥ जीवनं राजलभ्यांशे जीविते तोयवर्तने । उद्वानमुद्गमे चुल्ल्यां शयनं रतशय्ययोः ॥ ४६६ ॥ शासनं लेखशास्त्राज्ञा वर्तनी वृत्तिमार्गयोः । तोदनं व्यधने तोत्त्रे प्रसूनं फलपुष्पयोः ॥ ४६७ ॥ दले पतत्रे छदनं विलग्नो लग्नमध्ययोः । मेषादौ च तनुस्थे स्यात्प्रभोराराधने भवेत् ॥ ४६८ ॥ सेवनं सीवने पाशे बन्धनं स्नेहवृन्तयोः । अब्जाकरेब्जे नलिनी वाहिनी सिन्धुसेनयोः ॥ ४६९ ॥ मैथुने रतसंबन्धौ मिथुने युग्मदंपती । सेनान्यौ गुहसेनेशौ ह्रादिन्यौ वज्रविद्युतौ ॥ ४७० ॥ सल्लकी च नदी च स्यात्त्रिष्वयं नादवत्यपि । द्वयोर्वज्रेशनिः शम्पा रक्षोवृक्षौ पलाशिनौ ॥ ४७१ ॥ अरत्निः कूर्परे हस्ते सप्रकोष्ठतताङ्गुलौ । वाणिन्यौ नर्तकीदूत्यौ भोगिनी देवताभिदि ॥ ४७२ ॥ विहाय महिषीमन्या भोगिन्यो राजयोषितः । प्रधानं धीमहामात्यप्रकृत्यात्मसु सत्तमे ॥ ४७३ ॥ ;p{0035} अश्वादीनां च संनाहे जये च जयनं भवेत् । व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि ॥ ४७४ ॥ संस्कारके भवेत्क्लीवे वादित्रकरणे पुमान् । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ४७५ ॥ स्यादुद्यानं राजमार्गे वनभेदे प्रयोजने । क्रतौ करकुके चास्त्री वितानं त्रिषु तुच्छके ॥ ४७६ ॥ मन्दे शून्ये विस्तृतौ ना गृहान्ते तूद्यमे तथा । उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेपि च ॥ ४७७ ॥ व्युत्थानं प्रतिरोधे च विरोधाचरणेपि च । अञ्जनं कज्जलं माता कपेः स्त्री दिग्ग्जे पुमान् ॥ ४७८ ॥ प्रभिन्नोनेकतां प्राप्ते गजे जातमदे तथा । नालिकेरे हलधरे लाङ्गली जननं कुले ॥ ४७९ ॥ जन्मन्यम्बा च जननी वृद्धौ छेदे च वर्धनम् । अर्जुनौ वृक्षभित्पार्थौ तृणे क्लीवेर्जुनी गवि ॥ ४८० ॥ त्रिषु शुक्ले केतनं तु गृहे केतौ निमन्त्रणे । आपन्न आपदं प्राप्ते प्राप्ते च स्यात्त्रिलिङ्गकः ॥ ४८१ ॥ देहवायौ समानो ना सत्तुल्यैकेषु तु त्रिषु । व्योमयानं विमानोस्त्री सप्तभूमे च वेश्मनि ॥ ४८२ ॥ इन्द्रिये विषयि क्लीवे त्रिषु स्याद्विषयान्विते । तपनोर्को नरकभित्प्राचीनं प्रान्ततो वृतिः ॥ ४८३ ॥ पाठायां स्त्री प्राग्भेवे त्रिष्विन्तर्द्वारे रहस्यपि । प्रच्छन्नं छादिते गूढे त्रिष्वथ श्वसनो मरुत् ॥ ४८४ ॥ श्वासुयुक्ते मरुवके पूतना तु हरीतकी । भूतभेदे द्वयोर्लाला स्यन्दिनी निम्नगा तथा ॥ ४८५ ॥ द्राक्षायां गोस्तनी हारभेदे ना धमनी नडी । सिराग्न्युद्दीपनं भाण्डं नडे नाथ नभोगतौ ॥ ४८६ ॥ कर्णीरथे च डयनं मार्जनी पांसुशोधनी । उपस्पर्शोत्पुंसनयोः क्लीवे ना रोध्रपादपे ॥ ४८७ ॥ ;p{0036} मार्जना वाद्यपिण्ड्यां स्यात्तत्परीक्षार्थवादने । कुण्डली भुजगे बद्धकुण्डले तु भवेत्त्रिषु ॥ ४८८ ॥ त्रिषु शान्तो वराकश्च तपस्वी स्त्री तु मल्लकी । संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च हायनाः ॥ ४८९ ॥ वत्सरार्चिर्व्रीहिभेदाः क्रन्दने ध्वानरोदने । विपत्तावशुभे भ्रंशे पानस्त्रीमृगयादिषु ॥ ४९० ॥ दैवानिष्टफले सक्तौ व्यसनं क्रोधदूषणे । निवृत्तौ दापने सिद्धौ गतावनुगमे धने ॥ ४९१ ॥ उपायमृतसंस्कारवधमेढ्रेषु साधनम् । अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ॥ ४९२ ॥ पाकस्थाने कुलालस्य पवनं ना प्रभञ्जने । सोमनिर्मथने स्त्राने सवनं यजने तथा ॥ ४९३ ॥ वामनो दिग्गजे विष्णौ निखर्वे भेद्यलिङ्गकः । अन्तके शमनः क्लीवे वधेथ जघनं कटौ ॥ ४९४ ॥ पश्चादर्थे नितम्बाग्रे कौपीनं गर्ह्यगुह्ययोः । पुमानक्षे जिघांसायां क्रीडायामपि देवनम् ॥ ४९५ ॥ मधूच्छिष्टे स्मरे वृक्षे वसन्ते मदनः पुमान् । पिण्डीतके कपित्थे च धतूरे मदकारिणि ॥ ४९६ ॥ वेदनानुभवः पीडा यापने त्यागवर्तने । कल्पना कर्तने कॢप्तावुद्देशे गजसज्जने ॥ ४९७ ॥ विकल्पे स्यादाकलने विधानेपि विभाजने । समीरणः स्पर्शनः स्यात्क्लीवे तु स्पर्शदानयोः ॥ ४९८ ॥ हिंसात्मके सूचने च गन्धनं स्यात्प्रकाशने । संतानः संततौ देववृक्षे चापत्यगोत्रयोः ॥ ४९९ ॥ स्तननं कुत्सिते ध्वाने देवशब्देथ सज्जना । न नेभसज्जीकरणे त्रिषु साधौ नपुंसकम् ॥ ५०० ॥ पटगुल्मे चेतना धीः पुंसि प्राणिनि तेजनी । मूर्वा शाणोपलस्तेजोवती वेणौ शरे पुमान् ॥ ५०१ ॥ ;p{0037} स्पृक्कायां पिशुना दुष्टे सूचके त्रिषु वेष्टनम् । उष्णीषे मुकुटे चाथ शकुनी पक्षिणि द्वयोः ॥ ५०२ ॥ शुभशंसिनिमित्ते तु क्लीवेथ वृजिनः कचे । चर्मकिल्विषयोः क्लीवे भूतात्मा धातृदेहयोः ॥ ५०३ ॥ संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे । समाप्तौ च विभक्ते च विच्छिन्नं त्रिष्वथासनम् ॥ ५०४ ॥ करिस्कन्धे च पीठे च मलिनं समलैनसोः । आराधनं साधने स्यात्तोषणोपासयोरपि ॥ ५०५ ॥ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । आतञ्चनं प्रतीवापे जवनाप्यायने तथा ॥ ५०६ ॥ आस्कन्दने रणाक्रान्ती शोषणप्रापणे तथा । सूर्यवह्नी चित्रभानू मूर्खनीचौ पृथग्जनौ ॥ ५०७ ॥ कुलेप्यभिजनो जन्मभूम्यां चाथ समापनम् । वधेन्ते चापदानं तु खण्डनेद्भुतकर्मणि ॥ ५०८ ॥ निर्वासनं मारणे स्यान्नगरादेर्बहिष्कृतौ । शक्रघातुकमत्तेभवर्षुकाब्दा घनाघनाः ॥ ५०९ ॥ अभिमानोर्थादिदर्पे ज्ञाने प्रणयहिंसयोः । स्यादावेशनमावेशे शालायामपि शिल्पिनाम् ॥ ५१० ॥ निसूदने निरसनं निष्कासे च विरोचनाः । चन्द्राग्न्यर्का विश्वकर्मा मार्ताण्डसुरशिल्पिनोः ॥ ५११ ॥ निर्यातनं वैरशुद्धौ दाने न्यासार्पणेपि च । अभिपन्नोपराद्धाभिग्रस्तव्यापद्गतद्रुताः ॥ ५१२ ॥ आच्छादनं संवननमपवारणमित्यपि । आयोधनं निघातः स्याद्युद्धं चाथ सनातनम् ॥ ५१३ ॥ नित्ये त्रिषु पुमान्विष्णौ स्तनयित्नुर्बलाहके । तद्ध्वनौ च महासेनो गुहे सेनापतावपि ॥ ५१४ ॥ ब्रह्मा कामश्चात्मयोनी पिञ्जे विहननं वधे । संस्कारे प्रतियत्नः स्यादुपग्रहणलिप्सयोः ॥ ५१५ ॥ ;p{0038} विपर्यस्तमपाचीनं त्रिषु क्लीवे त्वपागपि । मेखलायां सारसनमुरस्त्रे च नपुंसकम् ॥ ५१६ ॥ उत्पत्तिः स्यादुत्पतनमूर्ध्वंगमनमित्यपि । ग्रहणे कलनायां च बन्धे चाकलनं वृतौ ॥ ५१७ ॥ विद्यात्प्रवचनं वेदे व्याख्याने सुवचस्यपि । प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ ५१८ ॥ सामिधेनी त्वृक्समिधोरग्र्यजन्मा द्विजोग्रजः । विनीते त्रिष्वनूचानः साङ्गे वेदे च पाठकः ॥ ५१९ ॥ काषायवस्त्रार्धवृद्धा स्यात्कात्यायन्युमापि च । दृष्टौ श्रुते निशमनं कार्यहेत्वोः प्रयोजनम् ॥ ५२० ॥ आवर्जनं दाननती तथा भ्रंशमनोहृती । संमार्जनी शोधनी स्यात्क्लीवे क्षालनलेपने ॥ ५२१ ॥ संस्कृतौ क्षीरिकोत्कृष्टभोज्ये राजादनं भवेत् । पियालेथोपधानं स्याद्दृष्टान्तप्रतिबिम्बयोः ॥ ५२२ ॥ गण्डके चाथ कारम्भा विश्वक्सेना हरौ गणे । पुमानथ क्रतुध्वंसी प्रोक्तः शर्वश्च दानवः ॥ ५२३ ॥ प्रसाधनी कङ्कतिका क्लीवे त्वाराधनार्जने । मण्डनायां कृष्णवर्त्मा हव्यवाहनपापयोः ॥ ५२४ ॥ उपासनं शराभ्यासे नमस्यासेवयोर्न ना । आम्रातके शिरीषे च प्लक्षे च स्यात्कपीतनः ॥ ५२५ ॥ उष्ट्राहितुण्डिकौ व्यालग्राहिणौ मातुलप्रिया । मातुलानी तथा भङ्गा विषौषध्योः प्रदीपनः ॥ ५२६ ॥ बोधने प्रतिदाने च भवेत्तु प्रतिपादनम् । कुङ्कुमे देववृक्षे च पुंसि वा हरिचन्दनम् ॥ ५२७ ॥ अन्तावसायी चण्डाले नापिते च द्विलिङ्गकः । वधेतिसर्जनं दाने शुद्धौ त्यागेपमार्जनम् ॥ ५२८ ॥ स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । विसर्जनीयाक्षरयोरभिनिष्टानमस्त्रियाम् ॥ ५२९ ॥ ;p{0039} मेघवाहन इन्द्रः स्याद्वायुश्च शकुलादनी । कटुका लाङ्गली च स्याद्धरिद्रा वरवर्णिनी ॥ ५३० ॥ नायिका च तपस्वी स्यात्सर्पश्च पवनाशनः । प्रतिबिम्बे प्रतीकारे न पुंसि प्रतियातना ॥ ५३१ ॥ वेश्या नखौषधिर्हट्टविलासिन्यावपि स्मृते । ;k{पान्तवर्गः} ओड्रपुष्पे जपा मन्त्रावृत्तौ ना भयवेपथू ॥ ५३२ ॥ स्वरभिद्वरुणः कम्पो भावभेदश्च सात्त्विकः । ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ॥ ५३३ ॥ सौन्दर्याकारयो रूपं रङ्गसीसकयोस्त्रपु । कल्पः शास्त्रे विधौ न्याय्ये संवर्ते ब्रह्मणो दिने ॥ ५३४ ॥ गर्तोदपानयोः कूपस्तथा स्याद्गुणवृक्षके । क्षेपणावज्ञयोः क्षेपो लेपो लेपनमृत्क्रिये ॥ ५३५ ॥ आक्रोशे शपथे शापः पुष्पमार्तवसूनयोः । द्वयोर्गोपी वल्लवी स्त्री शारिवा पातरीश्वरे ॥ ५३६ ॥ गोष्ठाध्यक्षे ग्रामवृन्दपतौ गोपो भवेत्त्रिषु । तल्पं शय्याट्टदारेषूपर्याधारेषु वेश्मनः ॥ ५३७ ॥ तापद्रव्यभिदौ धूपौ वपा विवरमेदसोः । वाष्पावूष्मास्रुणी सूपो व्यञ्जने सूपकारके ॥ ५३८ ॥ ग्रन्थिपर्णे तु शष्पं स्याद्व्रीहौ रूढे हरित्तृणे । शाखायां विस्तृतौ स्तम्बे विटपं पुंनपुंसकम् ॥ ५३९ ॥ आक्षेपौ भर्त्सनाकर्षावुडुपः प्लवचन्द्रयोः । आवाप आलवाले स्यात्प्रक्षेपे वलये तथा ॥ ५४० ॥ रूढप्रधानयोर्नीतितन्त्रे स्यादथ कल्पने । वेशे चाकल्प आच्छादनान्ने कशिपु ते पृथक् ॥ ५४१ ॥ कुतपो वाद्यविन्यासे दर्भकालप्रभेदयोः । छागरोममये वस्त्रे कूर्मी वीणा च कच्छपी ॥ ५४२ ॥ कलापः संहतौ वर्हे काञ्चीतूणीरयोरपि । प्रतापावातपख्याती सुरूपो बुधरूपिणोः ॥ ५४३ ॥ ;p{0040} प्राप्तरूपाभिरूपौ चावलेपौ मदगर्हणे । परिच्छदे परीवापो वपने सलिलस्थितौ ॥ ५४४ ॥ वृषाकपी विष्णुशिवावग्निरिन्द्रो दिवाकरः । हेमपुष्पी तु दुःस्पर्शा बिम्बिका पीतयूथिका ॥ ५४५ ॥ श्रीवासः सिल्हकश्च स्याद्वृकधूपोथ वेतसे । जले च मेघपुष्पं स्यादुपक्षेप उपक्रमे ॥ ५४६ ॥ ;k{फान्तवर्गः} कालादेरतिवाहे च रेफः स्यात्पापवर्णयोः । ;k{बान्तवर्गः} कम्बुर्ना वलये शङ्खे शालिधूलौ च मण्डले ॥ ५४७ ॥ बिम्बोस्त्री प्रतिबिम्बे ना क्लीवे स्वाद्बिम्बिकाफले । पूर्बोन्यलिङ्गः प्रागाह पुंबहुत्वेपि पूर्बजान् ॥ ५४८ ॥ आद्यर्थे तु भवेत्क्लीवे डिम्बौ तु प्लीहविप्लवौ । शम्बः स्यान्मुसलाग्रस्थे लोहे श्रेयोन्विते पवौ ॥ ५४९ ॥ कादम्बः सायकः पक्षी कदम्बः संहतौ द्रुमे । द्विजिह्वः सर्पखलयोर्नितम्बोद्रितटे कटौ ॥ ५५० ॥ अन्तराभवसत्त्वेश्वे गन्धर्बो दिव्यगायने । मृगभेदेथ हेरम्बो महिषे विघ्ननायके ॥ ५५१ ॥ संविभज्ये जने गेहे कुटुम्बं स्यान्नपुंसकम् । ;k{भान्तवर्गः} नक्षत्रे भं प्रभायां स्त्री कुम्भी स्यात्कट्फले द्वयोः ॥ ५५२ ॥ जलादिभाण्डे ना हस्तिकटराशिभिदोस्तथा । सावष्टम्भे ग्रहे कुम्भा शंभुरर्हन्विधिः शिवः ॥ ५५३ ॥ विभुः स्वामी व्यापकश्च डिम्भौ तु शिशुवालिशौ । स्तम्भाः स्थूणागर्वभावाः स्वभूर्गोविन्दवेधसोः ॥ ५५४ ॥ कुक्षिभ्रूणाशया गर्भा बालकाभ्यन्तरेपि च । जृम्भा विकासे प्रसरे व्यादाने वदनस्य तु ॥ ५५५ ॥ त्रिषु गात्रविरामेजे शुभो भद्रे नपुंसकम् । क्षत्रिये विजिगीषौ च ना प्राण्यवयवे पुनः ॥ ५५६ ॥ नाभिः स्त्री चक्रमध्येपि निभो व्याजे समे त्रिषु । संसद्गोष्ठ्योर्गृहे द्यूते सभा जम्भो रयेशने ॥ ५५७ ॥ ;p{0041} दैत्यभेदे मुखे शक्तस्वामिनोस्तु प्रभुस्त्रिषु । रम्भाप्सरोभित्कदली दण्डे स्याद्वैणवे पुमान् ॥ ५५८ ॥ वीणाप्रसेवे ककुभो गेयभेदेर्जुनद्रुमे । गीतस्वरे वलीवर्दे श्रेष्ठे च ऋषभः पुमान् ॥ ५५९ ॥ कनिष्ठामणिबन्धान्तरोष्ट्रयोः करभोथ गौः । सुरभिः स्री काभधेनुः सल्लकी चैलवालुकी ॥ ५६० ॥ सुरायां स्यात्सुगन्धौ तु मनोज्ञे त्रिषु ना मधौ । ना भेर्यां दुन्दुभिः स्त्री स्यादक्षबिन्दुत्रिकद्वये ॥ ५६१ ॥ स्यान्महारजने क्लीवे कुसुम्भं करके पुमान् । पुनर्नवायां वर्षाभूः स्त्री वर्षाभ्वी द्वयोः प्लवे ॥ ५६२ ॥ विस्तारे प्रतिबिम्बे च विष्कम्भो नाटकांशके । वल्लभो दयितेध्यक्षे हये च प्रणये पुनः ॥ ५६३ ॥ स्यादाश्वासे च विस्रम्भो वृषभो द्रव्यभिद्गवोः । आलम्भौ स्पर्शनवधावारम्भौ तु क्रमोद्यमौ ॥ ५६४ ॥ जनाभ्यन्तरयोः पुंसि विदर्भस्त्रिषु निष्कुशे । विप्रलम्भो विसंवादो विरहो वञ्चना तथा ॥ ५६५ ॥ ;k{मान्तवर्गः} कुत्साप्रश्नवितर्केषु किं मा लक्ष्मीप्रमाणयोः । लक्ष्मीर्हरिप्रिया संपच्छोभा ब्राह्मी तु मातृभित् ॥ ५६६ ॥ वागोषधिभिदौ ब्रह्मभवादौ तु भवेत्त्रिषु । रामा योषिद्दाशरथौ जामदग्न्ये हलायुधे ॥ ५६७ ॥ मृगभेदे च पुंसि स्यात्कृष्णे चारौ सिते त्रिषु । भार्गीश्रीपद्मचारिण्यः पद्मा अब्जेस्त्रियां पुमान् ॥ ५६८ ॥ संख्यानिधिव्यूहनागभित्क्लीवे गजबिन्दुषु । स्याद्धर्ममस्त्रियां पुण्ये क्लीवे तत्साधने पुमान् ॥ ५६९ ॥ स्वभावदेवभिन्न्याययमाचारेषु सोमपे । अहिंसोपमयोश्चाथ जामिः स्वसृकुलस्त्रियोः ॥ ५७० ॥ काम्ये स्वैरे च कामः स्यादभिलाषे मनोभवे । अव्ययं त्वभ्यनुज्ञाने सोम ओषधिभेशयोः ॥ ५७१ ॥ ;p{0042} यमोन्तकः कर्म च यन्नित्यं सहजयोरपि । क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ ५७२ ॥ त्रिषु श्यामौ हरित्कृष्णौ स्त्रियां स्याच्छारिवानिशोः । कान्ता प्रियङ्गुः पालिन्दी वटभेदे तु पुंस्ययम् ॥ ५७३ ॥ समा वर्षेनुच्चनीचे त्रिषु सर्वसदृक्षयोः । गुल्मो रुक्स्तम्बसेनाभिद्रक्षास्थानेषु गह्वरे ॥ ५७४ ॥ उष्णे स्वेदाम्भसि ग्रीष्मे घर्मो भावभिदातपे । त्रिषु तोक्मं हरिन्मात्रे न स्त्रियां हरिते यवे ॥ ५७५ ॥ सीमावधौ स्थितौ क्षेत्रे विषये केशभूषणे । वृक्षमात्रे पारिजाते द्रुमश्चैद्यकुलोद्भवे ॥ ५७६ ॥ कुशलं क्षेममस्त्री ना त्वौषधे लब्धरक्षणे । ग्रामः संवसथे गेयभेदे वृन्दे सपूर्वकः ॥ ५७७ ॥ भ्रमिर्मोहस्तक्षभाण्डं स्यादतस्मिंस्तु तद्ग्रहः । भ्रमो मूर्छा तक्षभाण्डं छत्त्रमम्बुविनिर्गमः ॥ ५७८ ॥ रश्मिर्घृणिप्रग्रहयोः स्याद्भङ्गादुर्गयोरुमा । भीमो रुद्रे सभीष्मस्तु राजभेदे भयानके ॥ ५७९ ॥ अध्यात्मं सूक्ष्ममल्पे तु त्रिषु शीते हिमं त्रिषु । क्लीवे तुषारे भूमिः स्यात्स्थानं पात्रं धरा दशा ॥ ५८० ॥ वामा योषित्त्रिषु वल्गौ स्यात्सव्यप्रतिकूलयोः । वाम्यश्वा हार्यवस्त्वर्थवाहयुग्मकृतेपि सा ॥ ५८१ ॥ कुटिले मन्दके जिह्मो दमौ दण्डेन्द्रियग्रहौ । श्रमः प्रयत्ने खेदे च क्रिमिः स्यात्कीटरोगयोः ॥ ५८२ ॥ परिपाटी क्रमः कल्पः पादक्षेपः परंपरा । आनन्तर्यं पदसंधिः शमी शिम्बा द्रुभित्स्त्रियाम् ॥ ५८३ ॥ कूर्मी भवेद्द्वयोः प्राणी यमिनामासनेस्त्रियाम् । नेमिः स्त्री रथचक्रान्ते कूपाङ्गे तिनिशे तु ना ॥ ५८४ ॥ शान्तिर्हस्तः शमो राज्ञां व्यवस्था निजमण्डले । आमो रोगे त्रिष्वपक्वे स्तोमः संघेध्वरे स्तुतौ ॥ ५८५ ॥ ;p{0043} पाणेर्मध्याङ्गुलिर्दृष्टरजाः कन्या च मध्यमा । गीतस्वरे देहमध्ये देशराजभिदोः पुमान् ॥ ५८६ ॥ अन्यूनानतिरिक्ते च तथा मध्यभवे त्रिषु । भयसंवेगादरेषु संभ्रमोथ परिश्रमे ॥ ५८७ ॥ व्यायामः पौरुषे कृत्ये विद्रुमो वृक्षरत्नयोः । यन्त्रणायां प्रतिज्ञायां नियमो निश्चये व्रते ॥ ५८८ ॥ हेलाभ्रान्त्योर्विभ्रमः स्याच्छक्तौ क्रान्तौ च विक्रमः । तलिमः कुट्टिमे तल्पे शास्त्रे ग्रहण आगमः ॥ ५८९ ॥ गत्यभावद्रुदुर्गेष्वगमो बुद्धस्तु गौतमः । मुनौ द्वयोः संगमस्तु नदीसंभेदसङ्गयोः ॥ ५९० ॥ आश्रमो ब्रह्मचर्यादौ मठे स्थाने तपस्विनाम् । वणिक्पथः पुरं वेदो निगमास्त्रिष्वतो वणिक् ॥ ५९१ ॥ नैगमो नागरो विप्रः श्रेष्ठः साधुश्च सत्तमः । आद्ये प्रधाने प्रथमोथाधमौ न्यूनगर्हितौ ॥ ५९२ ॥ बुध्नस्थश्चावमोप्येवमग्रिमोग्र्यप्रधानयोः । उत्कृष्टे परमश्चाप्यभ्यनुज्ञानेव्ययं पुनः ॥ ५९३ ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु । रत्ने शृङ्गे श्वेतगुणे तिलके स्याल्ललाम च ॥ ५९४ ॥ निष्क्रमो निर्गमो बुद्धिसंपच्चाथ परिश्रमः । व्यायामयत्नखेदेषु युद्धे त्वभ्यागमो भवेत् ॥ ५९५ ॥ आभिमुख्यागतौ चोपशमः शान्तिर्विनीतता । उपक्रमश्चिकित्सायामारम्भोपधयोरपि ॥ ५९६ ॥ अङ्गीकृतावुपगमः समीपगमनेपि च । जीर्णं च परिभुक्तं च यातयामं भवेत्त्रिषु ॥ ५९७ ॥ ;k{यान्तवर्गः} ज्या मौर्वी भूश्च नाके द्यौरन्तरिक्षे तथा स्त्रियाम् । ज्या गव्या गोसमूहे च रागद्रव्ये नपुंसकम् ॥ ५९८ ॥ गोक्षीरादौ त्रिषु पुनः स्यादर्यः स्वाभिवैश्ययोः । कल्यं प्रातः सुरायां स्त्री कल्याण्यां वाच्यपि त्रिषु ॥ ५९९ ॥ ;p{0044} सज्जनीरोगदक्षेषु काल्यं तु स्यादहर्मुखे । प्राप्तकाले त्रिषु भवेद्भाग्यं कर्म शुभाशुभम् ॥ ६०० ॥ यौतकादौ धने दायो दाने भोज्ये च पैतृके । विवाह्याया ज्ञातिभृत्या जन्याः स्निग्धा वरस्य च ॥ ६०१ ॥ निर्वादे जनके युद्धे क्लीवे कार्ये तु स त्रिषु । आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ ६०२ ॥ उपायः कर्म चेष्टा च चिकित्सा करणं क्रियाः । धात्वर्थाख्यातसंस्कारा और्ध्वदैहिकमेव च ॥ ६०३ ॥ शाखापुरे न ना गृह्यं त्रिषु त्वस्वैरिपक्ष्ययोः । गृहासक्ताण्डजमृगे गृह्या तु स्याद्बहिर्भवा ॥ ६०४ ॥ आहते हेम्नि रजते वा रूप्यं रजतेपि च । त्रिषु प्रशस्तरूपे स्यान्माल्यं पुष्पेपि तत्स्रजि ॥ ६०५ ॥ हृद्भवं हृत्प्रियं हृद्यं हृदयाय हितं त्रिषु । वशीकरणमन्त्रे ना सत्यं शपथतथ्ययोः ॥ ६०६ ॥ भव्यौषधधने द्रव्यं गुणाधारगवोस्तथा । विशेष्ये परमाणौ च तिष्यपुष्यौ कलौ च भे ॥ ६०७ ॥ पुण्यं तु धर्मे सुकृते त्रिषु पूतमनोज्ञयोः । सौम्यो बुधे मनोज्ञे च त्रिषु स्यात्सोमदैवते ॥ ६०८ ॥ पूजार्थं द्रव्यमर्घ्यं स्यादर्घार्थार्घार्हयोस्त्रिषु । शराग्रान्तर्व्रणौ शल्ये प्राण्योषधिनृपेषु ना ॥ ६०९ ॥ स्पर्धाकाञ्च्योर्दन्तिमध्यरज्जौ कक्ष्या गृहान्तरे । प्रतिज्ञायां तुलायां च पुंसः सारसनेपि च ॥ ६१० ॥ त्रिषु रथ्यो रथोद्वाहे स्त्रियां मार्गरथौघयोः । देहसंघातलक्ष्येषु कायस्त्रिषु कदैवते ॥ ६११ ॥ क्षयो निलयकल्पान्तरोगापचयमृत्युषु । त्रिषु सद्भावियोग्येषु भव्यः क्लीवे शिवे फले ॥ ६१२ ॥ मृतावनशने प्रायो बाहुल्ये सदृशे त्रिषु । धिष्ण्यं स्थाने गृहे भे ना देत्याचार्याग्निभेदयोः ॥ ६१३ ॥ ;p{0045} सर्वज्ञभिषजौ वैद्यौ स्याच्छय्या तल्पगुम्फयोः । तुरंगगरुडौ तार्क्ष्यौ पूज्यौ श्वशुरसज्जनौ ॥ ६१४ ॥ रिपुतस्करयोर्दस्युर्वर्यः प्रार्थ्यप्रधानयोः । वामदक्षिणयोः सव्यमर्थ्यो न्याय्यविपश्चितोः ॥ ६१५ ॥ अधमान्तभुवोरन्त्यो मध्यो न्याय्यावलग्नयोः । अन्तरेनधिकन्यूने मध्ये तूद्दिश्यवाचकः ॥ ६१६ ॥ इतरासदृशावन्यौ त्रिवेद्यां त्रितये त्रयी । रहस्योपस्थयोर्गुह्यं मन्युर्दैन्ये क्रतौ क्रुधि ॥ ६१७ ॥ पूजाव्रतक्रिये चर्ये गेयौ गातव्यगायनौ । ययुरश्वेश्वमेधाश्वे मूल्यं विनिमये धने ॥ ६१८ ॥ काव्यं ग्रन्थे ग्रहे पुंसि कुल्या नीरप्रणालिका । नदी च क्लीवमस्थ्नि स्याद्वाच्यलिङ्गं कुलोद्भवे ॥ ६१९ ॥ त्रिषु चोद्यं चोदनार्हे क्लीवे स्याच्चोदनेद्भुते । त्रिषु गोप्यं गोपनीये गोप्या दासस्य सूनवः ॥ ६२० ॥ प्रवीणोचितयोर्योग्यस्त्रिष्वभ्यासे भवेत्स्त्रियाम् । एकत्वादौ विचारे च संख्या क्लीवे तु संयुगे ॥ ६२१ ॥ प्राप्तव्येम्बुमथ चाप्यं याप्ये नेतव्यगर्हिते । मुखं मुखान्तरं चास्यमासने स्त्री हरितकी ॥ ६२२ ॥ पथ्यार्याभिच्चौषधे तु क्लीवे त्रिष्वगते पथः । पाक्यं काचे यवक्षारे विडे पाकार्हणे त्रिषु ॥ ६२३ ॥ छेदनीये त्रिषु भवेत्कृत्यो विद्विष्टकार्ययोः । स्त्रियां क्रियादेवतयोर्वाच्यं तु त्रिषु कुस्सिते ॥ ६२४ ॥ उपालभ्ये च चैत्यः स्यात्स्तूप उद्देशपादपे । प्राकारमूलबन्धे च संघसंचययोश्चयः ॥ ६२५ ॥ साध्या देवभिदः पुंसि भूम्नि शक्ये पुनस्त्रिषु । वन्या वनसमूहे स्त्री वने साधुनि तु त्रिषु ॥ ६२६ ॥ छाया स्यादातपाभावे प्रभाप्रतिमयोरपि । सूर्यप्रियायां गङ्गायां संवाहन्याय्ययोरपि ॥ ६२७ ॥ ;p{0046} सह्योगे त्रिषु सोढव्य आरोग्ये तु नपुंसकम् । वीर्यं वलं प्रभावश्च रेतः स्याद्वीरकर्म च ॥ ६२८ ॥ देवीभेदे जयौषध्योर्द्वयोर्ना भारते गणे । उत्कर्षेभिभवे चार्या ज्येष्ठब्राह्मणसज्जनाः ॥ ६२९ ॥ छन्दोभित्स्त्री चिता चित्या स्यादग्निचयने न ना । सभ्यः सामाजिकेग्नौ च तथा प्रत्यायिते त्रिषु ॥ ६३० ॥ दूष्येभमध्यबन्धन्यां क्लीवे पटगृहे त्रिषु । दूषणीये बले सैन्यं त्रिषु तत्समवायिनि ॥ ६३१ ॥ माया स्याद्बुद्धजननी वञ्चनाविद्ययोरपि । तदधिष्ठातृदेव्यां च जात्यं कुलजकान्तयोः ॥ ६३२ ॥ आदित्यौ सूर्यगीर्वाणौ श्वशुर्यौ स्यालदेवरौ । त्रिषु हर्तुमशक्ये स्यादहार्यः पर्वते पुमान् ॥ ६३३ ॥ स्यान्नादेयी भूमिजम्बूस्तर्कारी जलवेतसः । त्रिषु नद्यां भवे पश्चाज्जघन्यं त्रिषु गर्हिते ॥ ६३४ ॥ अभिलाषविनिर्मुक्ते प्रणाय्यः स्यादसंमते । आधार आशयः स्याद्धृद्यभिप्रायेश्वसंहतिः ॥ ६३५ ॥ अश्वीयं स्यादश्वहिते त्रिष्वपत्यं तु पुत्रयोः । ब्राह्मण्यं ब्राह्मणत्वे च तथा तत्कर्मसंघयोः ॥ ६३६ ॥ मलयौ पर्वतारामौ भ्रातृव्यौ भ्रातृजद्विषौ । विस्रम्भयाच्ञाप्रेमाणः प्रणयाः संस्तवोपि च ॥ ६३७ ॥ संघाते संनिवेशे च संस्त्यायः स्याद्गृहे तथा । पश्चादवस्थायिबलं संनयो द्रव्यमेलनम् ॥ ६३८ ॥ कषायः सुरभौ स्निग्धे भाविते त्रिषु ना रसे । द्रवे वर्णे चित्तधर्मेवस्नेहे स्त्री पुनर्मले ॥ ६३९ ॥ काञ्चिकस्य द्वितीया तु जाया स्यात्पूरणे त्रिषु । स्थाने विहंगमावासे कुलायं पुंनपुंसकम् ॥ ६४० ॥ कशेरुहेम्नोर्गाङ्गेयं पुंसि भीष्मे गणाधिपे । त्रिषु वामे प्रसव्यः स्यात्प्रतिकूलानुकूलयोः ॥ ६४१ ॥ ;p{0047} शोभायां नाम्नि कीर्तावप्यभिख्या क्षेत्रियस्त्रिषु । अन्यदेहचिकित्सार्हे विषादौ क्षेत्रिजे तृणे ॥ ६४२ ॥ असाध्यरोगे दुःशोध्ये तृणादौ पारदारिके । विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ६४३ ॥ आधारे ग्रामसंघे च व्यवायो व्यवधौ रते । हृदयं वक्षसि स्वान्तेभिप्रायाभ्यन्तरोण्डुके ॥ ६४४ ॥ चित्रादर्पौ विस्मयौ तु पर्यायोर्थसमे क्रमे । निकायः स्यान्निवासे च संघे राशीकृतौ तथा ॥ ६४५ ॥ समयाः शपथाचारकालसिद्धान्तसंविदः । प्रत्ययोधीनशपथज्ञानविश्वासहेतुषु ॥ ६४६ ॥ रन्ध्रे शब्दे प्रथायां च संवादे मेषकम्बलौ । ऊर्णायू स्यात्तु सौरभ्यं सौगन्ध्यं रम्यता तथा ॥ ६४७ ॥ मेघे तु सध्वनौ शक्रे पर्जन्यो मेघदैवते । हिरण्यं हेम्नि तन्मानभेदेर्थे स्यादकुप्यके ॥ ६४८ ॥ प्रलयौ मृत्युसंवर्तौ मूर्छा भावश्च सात्त्विकः । न नातिथ्यमतिथ्यर्थमतिथौ तु नपुंसकम् ॥ ६४९ ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः । क्लेशे दण्डे च दोषे च विनाशेतिक्रमेत्ययः ॥ ६५० ॥ पानीयं सलिले पेयरक्ष्ययोस्त्रिष्वथोदयः । पूर्वाद्रिरुद्गमो वृद्धिः स्थेये स्थानहिते पुरे ॥ ६५१ ॥ स्थानीयमुत्तरपदे त्रिषु स्यादुपमार्थकम् । छत्त्रायां पुंसि शालेयः क्षेत्रे क्लीवमथाभयम् ॥ ६५२ ॥ भयाभाव उशीरं च स्त्री पथ्या निर्भये त्रिषु । राजस्याले राष्ट्रियः स्यात्त्रिषु राष्ट्रभवादिके ॥ ६५३ ॥ शीर्षण्यो विषदे केशे शिरस्त्रे तु नपुंसकम् । शिरोभवे तद्धिते च प्रधाने चान्यलिङ्गकः ॥ ६५४ ॥ संचयः संग्रहे संघ आत्रेयी स्याद्रजस्वला । अत्र्यपत्ये त्रिषु फले मदनस्यापि कट्फले ॥ ६५५ ॥ ;p{0048} कैडर्यं तूलवृक्षे तु ब्रह्मण्यो ब्रह्मणो हिते । त्रिष्वन्वयो वंशवाक्यपदमेलनयोस्तथा ॥ ६५६ ॥ संबन्धेव्याभिचारे च चाम्पेयो नागकेसरे । चम्पके चाथ विजयो गणभेदेर्जुने गतौ ॥ ६५७ ॥ पराभिभूतौ देव्यां स्त्री हृषीके शेपसीन्द्रियम् । हच्छयौ मदनात्मानौ स्यादाम्नायोन्वये श्रुतौ ॥ ६५८ ॥ निलयः स्याल्लये स्थाने निचयौ संघसंचयौ । पर्वतादेश्च वप्रं स्यादुच्चयोप्युञ्छसंघयोः ॥ ६५९ ॥ शाण्डिल्यो मुनिभेदे स्यात्पुंसि बिल्वमहीरुहे । प्रचयौ स्वरभित्संघौ भूरिमायस्तु राक्षसः ॥ ६६० ॥ सृगालश्चाथ नलदे जलाधारे जलाशयः । समवायौ श्लेषसंघौ मेरुस्वर्गौ सुरालयौ ॥ ६६१ ॥ देवागारेप्यथ सुरा सीरिभार्या हलिप्रिया । नीपे नाथोपकार्या स्यात्पटकुट्यां तथा त्रिषु ॥ ६६२ ॥ संविभज्ये रणे संघे समुदायोपि संविदि । आतिथेयी स्त्रियां पूजातिथिसाधौ भवेत्त्रिषु ॥ ६६३ ॥ युद्धावत्योः संपरायो वैरोन्नत्योः समुच्छ्रयः । स्थूलोच्चयस्त्वसाकल्ये दन्तिनां मध्यमे गते ॥ ६६४ ॥ समुद्गमे समुदयः संग्रामनिकुरुम्बयोः । दोषे द्वेषे चानुशयः पश्चात्तापानुबन्धयोः ॥ ६६५ ॥ पुंसां संघे पौरुषेयं त्रिषु तेन कृते वधे । विकारे तस्य हुतभुक्पार्थयोः स्याद्धनंजयः ॥ ६६६ ॥ हलीन्दुजौ रौहिणेयौ सभास्थाने प्रतिश्रयौ । भयंकरे प्रतिभवं त्रिषु भीतौ नपुंसकम् ॥ ६६७ ॥ भागधेयो बलौ भागे भाग्ये क्लीवे समाह्वयः । रणे द्यूते वासतेयी रात्रौ तत्साधुनि त्रिषु ॥ ६६८ ॥ स्यादभ्यासे परिचयः संस्कारे मेलने तथा । चन्द्रोदयो विताने स्याद्द्विजराजोद्गमे तथा ॥ ६६९ ॥ ;p{0049} वक्ता प्रवचनीयः स्यात्प्रवाच्यश्च त्रिलिङ्गकः । वृषाकपायी श्रीर्गौरी स्वाहेन्द्राण्यृषिभार्ययोः ॥ ६७० ॥ ;k{रेफान्तवर्गः} राः स्वर्णधनयोः श्रीस्तु शोभालक्ष्मीसमृद्धिषु । प्रशंसायां पुरे पूः स्याद्गृहे काये स्त्रियामथ ॥ ६७१ ॥ धू रथावयवे स्त्री स्यात्तथा वोढव्यमात्रके । द्रुर्द्रुमे विटपे शौरी नारायणशनैश्चरौ ॥ ६७२ ॥ उरुर्महांस्त्रिषु स्त्री भूश्चीरी स्याज्झिल्लिका मृगे । ना क्लीवे व्रतिनां वस्त्रे वारः काले क्रमे चये ॥ ६७३ ॥ छत्त्रौषधावातपत्रे क्लीवे पादे नखौषधौ । खुरः शरो नडे बाणे दधिसारेथ वायसे ॥ ६७४ ॥ वाल्यर्जुनजयन्तेषु स्यादैन्द्रिरथ राक्षसे । रुरुश्चित्रमृगे गुन्द्रा प्रियङ्गुः सैरिकैरका ॥ ६७५ ॥ अक्षमालाग्रफलके मेरुः सुरगिरौ तथा । अम्ब्लवेतसवृक्षाम्ब्लाम्ब्लाश्चुक्रास्त्रिषु तद्रसे ॥ ६७६ ॥ रोमच्छेदककाण्डेक्षू क्षुरौ तीक्ष्णे भवेत्त्रिषु । शब्दोपतापिनोर्वर्णे षड्जोदात्तादिषु स्वरः ॥ ६७७ ॥ गौर्यजातरजाः कन्या पार्वती त्रिषु पाण्डुनि । पीतेरुणे च राष्ट्रोस्त्री विषये स्यादुपद्रवे ॥ ६७८ ॥ मित्रं सुहृदि पुंस्यर्के मरू धन्वधराधरौ । अद्रयो द्रुमशैलार्काः कारुः कारकशिल्पिनोः ॥ ६७९ ॥ गोत्रा भूर्गोसमूहश्च नाद्रौ क्लीवेभिधाकुले । तिलकालेख्याद्भुतेषु चित्रं त्रिषु तु कर्बुरे ॥ ६८० ॥ सुभद्रौषधिभेषु स्त्री क्षेत्रं पत्नीशरीरयोः । गणितव्यवहारे च तीर्थे केदारयोग्ययोः ॥ ६८१ ॥ ज्यैष्ठेग्नौ भार्गवे शुक्रः क्लीवे रेतोक्षिरोगयोः । गुरुः संस्कारके पुंसि पित्रादौ सुरमन्त्रिणि ॥ ६८२ ॥ दुर्जरालघुनोः स्थूल आराध्ये च त्रिलिङ्गकः । त्रिषु क्षुद्रोल्पकृपणक्रूरगर्ह्येष्वपि स्त्रियाम् ॥ ६८३ ॥ ;p{0050} व्यङ्गा नटी शीलहीना सरघा कण्टकारिका । वरो विवाह्ये देवादेः प्रार्थिते स्वीकृतौ गवि ॥ ६८४ ॥ श्रेष्ठे त्रिष्वोषधौ स्त्री स्यान्मनागिष्टेव्ययं पुनः । क्लीवे च कुङ्कुमे पारी पात्रं पारा नदीभिदि ॥ ६८५ ॥ तीरात्तीरान्तरे क्लीवं समाप्तौ सर्वसंग्रहे । तन्त्रं प्रधाने सिद्धान्ते तन्तुवाने परिच्छदे ॥ ६८६ ॥ आयत्तश्लेषशास्त्रोक्तप्रक्रियाशब्दसिद्धिषु । स्वमण्डलादिचिन्तायामौषधादावुपस्करे ॥ ६८७ ॥ वीणादीनां गुणे नाड्यां तन्त्री स्यादात्मनः पृथक् । युक्तश्च दूरश्रेष्ठारिपूर्वान्या भेद्यवत्पराः ॥ ६८८ ॥ शारोनिले द्यूतभाण्डे त्रिषु वर्णे तु कर्बुरे । गर्तदूषणयोश्छिद्रं रन्ध्रं च विवरं तथा ॥ ६८९ ॥ मुक्ताशुद्धौ स्वरेत्युच्चे स्यात्तारः शुद्धमौक्तिके । देवीभनेत्रमध्ये स्त्री क्लीवे रूप्ये त्रिषूद्भटे ॥ ६९० ॥ अश्र्युत्कर्षाम्बुवेगाश्वगतिभेदेषु संततौ । अग्रस्कन्धे तु सैन्यस्य धारोस्रोंशौ गवि द्वयोः ॥ ६९१ ॥ दम्भराष्ट्रायुध -- चक्रं सेनारथाङ्गयोः । पुटभेदे चये शिल्पिभाण्डे चक्राह्वये पुमान् ॥ ६९२ ॥ परिच्छदाल्पमानेषु धने कर्णविभूषणे । तालाङ्गेप्यक्षरांशे स्त्री मात्रं कार्त्स्न्येवधारणे ॥ ६९३ ॥ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुक्राहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ ६९४ ॥ पुरोधिकमुपर्यग्रं भिक्षाभेदप्रधानयोः । गजाग्रजङ्घयोः शक्तौ गात्रमङ्गे कलेवरे ॥ ६९५ ॥ उग्रः शूद्रासुते क्षत्रादुत्कटे त्रिषु ना शिवे । दीक्षितस्याधिदैवे च व्याघ्री प्राण्योषधी द्वयोः ॥ ६९६ ॥ नागानां जननी कद्रूः कद्रुस्तु त्रिषु पिङ्गले । विपुले नकुलेग्नौ च बभ्रुः स्यात्पिङ्गले त्रिषु ॥ ६९७ ॥ ;p{0051} नेत्रं पट्टे मन्थगुणे तरुमूले विलोचने । वस्तिनाड्यां चाथ पोत्रं मुखाग्रे हलकोलयोः ॥ ६९८ ॥ जरा रुग्भङ्गयोरस्री वप्रः प्राकाररोधसोः । केदारे सीसके स्वर्णे क्लीवे पितरि ना पुनः ॥ ६९९ ॥ स्नुह्योषधौ विद्युति च वज्रोस्त्री हीरके पवौ । स्नुह्यां सक्तास्रुणोरस्रं पुंसि केशे दरो भये ॥ ७०० ॥ गर्ते दरी गुहाल्पार्थे त्वव्ययं पर्वते धरः । धरा भूमावथ क्रूरो नृशंसे कठिने तथा ॥ ७०१ ॥ भयंकरे चाथ सत्त्रं यज्ञेरण्ये च साधने । सदादाने च दम्भे च धनाच्छादनयोरपि ॥ ७०२ ॥ धारार्तिकोणेष्वश्रिः स्त्री कारा बन्धे च तद्गृहे । राजग्राह्ये पुमान्भागेथाङ्घ्रिः पादद्रुमूलयोः ॥ ७०३ ॥ करिणां बन्धनोर्व्यां स्त्री वारिस्तोये नपुंसकम् । सारं न्याय्ये वस्तुनि च पुमान्मज्ज्ञि स्थिरे बले ॥ ७०४ ॥ त्रिषूत्कृष्टे वस्तुनि तु दुर्वहेतिशयान्विते । वीवधे द्विसहस्रे च पलानां भार इक्षुभित् ॥ ७०५ ॥ चित्रकं देशभेदश्च पुण्ड्रः पत्त्रं तु वाहने । पर्णे पक्षे चाथ धात्री स्तनदा क्ष्मामलक्यपि ॥ ७०६ ॥ योग्यभाजनयोः पात्रं नदीकूलद्वयान्तरे । स्रुगादौ नाट्यविषये शास्त्रं ग्रन्थनिदेशयोः ॥ ७०७ ॥ कृच्छ्रं दुःखं तपोभेदः शस्त्रमायुधलोहयोः । हस्तिभेदे वृषे भद्रो भद्रं शर्म सति त्रिषु ॥ ७०८ ॥ रास्नायां स्त्री शारिरक्षे पक्षिपर्याणभेदयोः । पीलौ गिरियकक्रीडागुलके पर्वते गिरिः ॥ ७०९ ॥ ताम्रं शुल्बे त्रिषु गुणे तन्द्री निद्राप्रमीलयोः । व्यापृताकुलयोर्व्यग्रस्त्रिषु भाण्डं हविश्चरुः ॥ ७१० ॥ चक्राद्यश्रौ शीघ्रगे च त्रिषु क्लीवे त्वरं द्रुतौ । बलौ मेघोपले हस्तिहस्ते पाणौ करोंशुषु ॥ ७११ ॥ ;p{0052} क्षारं रसविशेषे च पुंसि स्यात्काचभस्मनोः । ध्वान्तदैत्यारयो वृत्रा अभ्रमाकाशमेधयोः ॥ ७१२ ॥ स्त्रीभेदे कातरे भीरुः स्वरुर्यूपाङ्गवज्रयोः । क्षीरं दुग्धाम्बुनोश्चन्द्रं स्वर्णं कम्पिल्यके तु ना ॥ ७१३ ॥ कर्पूरेन्द्वोश्च कुटजे शक्रः स्याद्वासवे तथा । मर्त्ये नरो देवभेदे भरोतिशयभारयोः ॥ ७१४ ॥ चारे चरस्त्रिषु चले भूरि स्वर्णे बहौ त्रिषु । प्रस्थाने वर्तनोपाये यात्रा देवोत्सवेपि च ॥ ७१५ ॥ सालपर्ण्यां स्थिरा भूमौ दृढे स्थास्नौ च भेद्यवत् । खरस्तीक्ष्णे त्रिषु क्रूरे गर्दभे तु खरी द्वयोः ॥ ७१६ ॥ रक्षोभेदे पुमान्द्वारमुपायप्रतिहारयोः । इरा भूवाक्सुरान्नापोप्सराश्चाथ पुरं पुरि ॥ ७१७ ॥ न ना देहे सर्वभद्रयागे क्लीवे गृहेपि च । धीरं स्यात्कुङ्कुमे सूरौ गम्भीरसहयोस्त्रिषु ॥ ७१८ ॥ मारी भृशमृतौ कामे मरणे मारणे पुमान् । चारी ताण्डवचेष्टायां नृपतिप्रणिधौ पुमान् ॥ ७१९ ॥ संधानाच्छादने वस्त्रे शुभ्रौ दीप्तसितौ त्रिषु । संकरो मार्जनक्षिप्ते मेलने लोमजे त्रिषु ॥ ७२० ॥ उच्चारः पाठशकृती उद्भवे मार्गगे त्रिषु । इन्द्रद्रुर्देवदारुः स्याल्लकुचः कुटजार्जुनौ ॥ ७२१ ॥ मन्दारः सुरवृक्षे स्यात्पारिभद्रकरम्भयोः । मयूरस्तुत्थको दीप्योप्यपामार्गश्च वर्हिणः ॥ ७२२ ॥ कुक्कुरं ग्रन्थिपर्णे स्याद्द्वयोः शुन्यथ बर्बरः । अजगन्धा बर्द्धकद्रुः शाकभेदे तु बर्बरा ॥ ७२३ ॥ चिकुरः केशपाशे स्त्री भ्रूलये चपले त्रिषु । पश्चाज्जङ्घा न नेमस्यावरा दक्षिणदिक्स्त्रियाम् ॥ ७२४ ॥ परान्यानन्तरोनाश्च त्रिष्वेवमपरोप्यरौ । पश्चिमायामेव दिशि चतुरो वेगिदक्षयोः ॥ ७२५ ॥ ;p{0053} किञ्चल्केस्त्री केसरो ना पुंनागे नागकेसरे । सटाबकुलयोर्नीचः पाण्डुरोगी च पामरः ॥ ७२६ ॥ सौवीरमञ्जनं कोलं काञ्चिकं त्रिषु देशजे । जम्भीरः स्याद्दन्तशठे मरुवे हस्तिपिप्पली ॥ ७२७ ॥ अपामार्गोब्धिलवणं वसिरो बदरी द्रुभित् । कर्पासी तत्फले क्लीवे कवरी केशपाशभित् ॥ ७२८ ॥ कडारस्त्रिषु कल्माष उद्धारः संग्रहर्णयोः । भुक्तोच्छिष्टे परावर्त उत्क्षेपे चाथ वर्करः ॥ ७२९ ॥ युवमेषे द्वयोः सोपहासे स्याद्वाच्यलिङ्गकः । युवराजे शिशौ स्कन्दे कुमारोश्वानुचारके ॥ ७३० ॥ द्वीपे कुमारो ना स्त्री तु कन्यकौषधिभेदयोः । मत्सरोन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ७३१ ॥ संगराः स्युः क्रियाकाराविपदाजिप्रतिश्रवाः । क्लीवे शमीफलेथेभहस्ताग्रे व्योम्नि पङ्कजे ॥ ७३२ ॥ वाद्यभाण्डमुखे नीरे तीर्थौषधिविशेषयोः । असेः फले पुष्करं स्यादन्तरं त्वन्यभेदयोः ॥ ७३३ ॥ अवकाशेवधौ मध्ये व्यवधानपिधानयोः । परिधानात्मरन्ध्रेषु स्थानावसरयोरपि ॥ ७३४ ॥ तादर्थ्यस्वकबाह्येषु मध्यगेप्यभिधेयवत् । अजिरं प्राङ्गणे काये रूपादिविपये तथा ॥ ७३५ ॥ सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । वर्णसंकरजाता च संस्तरौ स्रस्तराध्वरौ ॥ ७३६ ॥ प्रकरः संहतौ पुष्पोपकारेथोत्तरा दिशि । भे पार्थवध्वां चोदीच्यानन्तरोर्ध्वेषु भेद्यवत् ॥ ७३७ ॥ श्रेष्ठप्रधानयोश्चापि प्रतिवाक्ये नपुंसकम् । विराटतनये पुंसि द्वापरौ युगसंशयौ ॥ ७३८ ॥ स्याद्वाद्यभेदे सुशिरं गर्ते गर्तान्विते त्रिषु । नडे तु सुशिराभीरुः शतावर्यभये त्रिषु ॥ ७३९ ॥ ;p{0054} शिशिरोस्त्री ऋतौ शीते त्रिषु क्लीवे हिमे भवेत् । वंशाङ्कुरे करीरोस्त्री तरुभेदे घटे च ना ॥ ७४० ॥ इक्षोर्विकारः सूक्ष्माश्मा रोगभेदश्च शर्करा । विष्टरः कुशमुष्टौ च पीठपादपयोरपि ॥ ७४१ ॥ गायत्री खदिरे मन्त्रे छन्दोभेदे त्रिलिङ्गकः । उदारो दातृमहतोर्दक्षिणोद्भटयोस्त्रिषु ॥ ७४२ ॥ शाक्वरोनडुहि च्छन्दोभेदे त्रिष्वथ रोगभित् । प्रदरः शरभङ्गौ च केदारः क्षेत्रतीर्थयोः ॥ ७४३ ॥ ओष्ठोधरोनूर्ध्वहीने त्रिषु दम्भे मृगेसुरे । मायायां शम्बरः पुंसि जले क्लीवेथ गत्वरे ॥ ७४४ ॥ सृमरस्त्रिषु पुंस्येणे कलत्रं श्रोणिभार्ययोः । तमस्तमिस्रं सतमा रात्रिः स्त्री गजसज्जनम् ॥ ७४५ ॥ शृङ्गारो रसराजश्च तूवरोश्मश्रुणि त्रिषु । अजातशृङ्गे छागे च सामुद्रं देहलक्षणे ॥ ७४६ ॥ लवणादौ समुद्रस्याथाकाराविङ्गिताकृती । प्रकारे मुखरागादावाह्वाने वर्णभिद्यपि ॥ ७४७ ॥ अम्बरे वसनाकाशौ सुगन्धिद्रव्यमाश्रयः । वाप्यालवाले चाधारो विस्तारौ तज्ज्ञविस्तृतौ ॥ ७४८ ॥ विटपेस्त्री भास्वरा स्यात्पाठा त्रिषु तु भासुरे । औशीरं चामरे दण्डे सहिते शयनासने ॥ ७४९ ॥ इन्द्रध्वजे विशीर्णे च सच्छिद्रे चापि जर्जरः । उर्वरा सर्वसस्याढ्या भूस्तथा भूमिमात्रकम् ॥ ७५० ॥ खपुरो लसकः पूगो विहारः सुगतालये । परिक्रमक्रीडनयोः संस्कारः शास्त्रजो गुणः ॥ ७५१ ॥ वासना प्रतियत्नश्चाथाकरो निकरे खनौ । आसारः स्यात्प्रसरणे वेगाद्वर्षे सुहृद्बले ॥ ७५२ ॥ निकारः परिभावे च धान्यस्योत्क्षेपणेपि च । प्रस्तरा मणिपाषाणशय्यास्त्रिषु मनोहरे ॥ ७५३ ॥ ;p{0055} स्वादौ च मधुरो नीचपरयोरितरस्त्रिषु । व्यायामे प्रसरो वेगे प्रपञ्चे प्रणये तथा ॥ ७५४ ॥ गोपुरं द्वारि पूर्द्वारि तथा दाशपुरौषधौ । दुर्भिक्षादिकृते दुःखे कान्तारं दुर्गमे पथि ॥ ७५५ ॥ माणिक्यमुज्ज्वलं शृङ्गमूर्ध्वाग्रं शिखरत्रयम् । गुहादम्भनिकुञ्जेषु गह्वरं स्यात्तु चत्वरम् ॥ ७५६ ॥ चतुष्पथे प्राङ्गणे च नरेन्द्रौ नृपदैशिकौ । उदरे जठरं क्लीवे कठिने वाच्यलिङ्गकः ॥ ७५७ ॥ कन्दे राजकशेर्वाख्ये शुण्ठ्यामपि च नागरम् । पूर्भवे वाच्यलिङ्गं स्यात्कुहरं गह्वरे बिले ॥ ७५८ ॥ शार्वरं त्वन्धतमसे घातुकेभे त्रिलिङ्गकः । वर्णे मोक्षे परब्रह्मण्यक्षरं त्रिषु चाक्षये ॥ ७५९ ॥ आण्डीरो बालके पुंसि सुवर्णे तु नपुंसकम् । मन्दिरं नगरे गेहे पिठिरं चरुपस्तयोः ॥ ७६० ॥ किंशारू व्रीहिशूकेषू विकारौ वैरवैकृते । ऋषौ मन्त्रे कुशे देवे पवित्रं पाविते त्रिषु ॥ ७६१ ॥ सुवर्णे कर्बुरं पापे कल्माषे तु त्रिलिङ्गकः । बन्धुरं संनते रम्ये खर्जूरं फलरूप्ययोः ॥ ७६२ ॥ ना द्रुमेनाकुले तु स्यादेकाग्रं तत्परे त्रिषु । आहारः स्वीकृतौ भुक्तौ छन्दःकाञ्च्योस्तु शक्वरी ॥ ७६३ ॥ तुषारस्तु कणे क्लीवे तुहिने शीतले त्रिषु । कठोरः कठिनेपक्वे संहारो नाशसंघयोः ॥ ७६४ ॥ प्रत्याहारे संग्रहे च तथा नारकभूभिदि । कर्पूरे पुंसि नासीरो भवेदग्रसरे त्रिषु ॥ ७६५ ॥ कालसूत्रं कृष्णसूत्रे तथा नारकभूभिदि । विद्याधरी देवभेदे द्वयोर्विद्यावति त्रिषु ॥ ७६६ ॥ विद्याधरः शक्तिधरः स्कन्दः शक्तिमति त्रिषु । तुण्डिकेरी तु कर्पासी बिम्बी च पितृकाननम् ॥ ७६७ ॥ ;p{0056} करवीरः पुष्पभिच्चोपचित्रा पृश्निपर्णिका । दन्ती दण्डधरो राजा यमो दण्डभृति त्रिषु ॥ ७६८ ॥ चतुरश्रश्चतुःस्रक्तिस्त्रिषु कालोपयुक्तिवित् । द्युतयुद्धादिविश्रान्तौ ग्राहाभिख्ये च यादसि ॥ ७६९ ॥ निमन्त्रणोपनेतव्येवहारोथ परिच्छदे । प्रगाढगात्रिकाबन्धे पर्यङ्कारम्भयोरपि ॥ ७७० ॥ समूहे स्यात्परिकरः स्यात्तु प्रतिसरोस्त्रियाम् । हस्तसूत्रे चमूपश्चाद्भागे यागादिके पुमान् ॥ ७७१ ॥ आरक्षे मण्डने च स्यान्नियोज्ये वाच्यालिङ्गकः । उपकारस्तूपकृतौ कुसुमप्रकरेपि च ॥ ७७२ ॥ दुरोदरो द्यूतकरे पणे द्यूते नपुंसकम् । उदुम्बरो वृक्षभेदे देहल्यां चाप्यरुष्करः ॥ ७७३ ॥ व्रणकृद्वृक्षभेदश्च क्लीवे तु स्यात्सरोरुहे । शतपत्त्रं पुमान्दार्वाघाटे स्यादथ सागरे ॥ ७७४ ॥ अकूवारः कूवरे स्त्री भुवि विश्वंभरोच्युते । आडम्बरोस्त्री संरम्भे रवे च गजतूर्ययोः ॥ ७७५ ॥ अभिहारोभियोगे च चौर्ये संनहनेपि च । शिशुमारो जलोद्भूतजन्तौ तारागमाच्च्युते ॥ ७७६ ॥ परिवारः परिजने खड्गकोशेप्युपह्वरः । विविक्ते च समीपे च महामात्रो महर्द्धिके ॥ ७७७ ॥ हस्त्यारोहाधिपे चाभिसरः स्वबलसाध्वसे । युद्धे च व्यभिचारः स्याद्धिंसायामप्यसंभवे ॥ ७७८ ॥ संकरे व्यसने वृत्तान्तेपि व्यतिकरः कृतौ । तीर्थेवतारो देवादेरंशे स्यादवरोहणे ॥ ७७९ ॥ वर्धापके पूर्णपात्रं पात्रे पूर्णे जलादिना । प्रतीहारो द्वारि तत्स्थे द्वयोर्गुह्येप्यवस्करः ॥ ७८० ॥ वर्चस्के चापचारस्तु दुष्कृतभ्रंशयोरपि । आचारे परिचर्यायां प्राभृतारोपयोरपि ॥ ७८१ ॥ ;p{0057} उपचारः सहचरी भार्यापत्योः परस्परम् । लताभेदे द्वयोर्मित्रे सार्धसंचारिणि त्रिषु ॥ ७८२ ॥ अर्धचन्द्रा तु पालिन्दी गलहस्ते पुमाञ् शरे । नखक्षतविशेषे च हंसभित्कौरवस्तथा ॥ ७८३ ॥ धार्तराष्ट्रः कृष्णशारः शवले त्रिषु ना मृगे । पारिभद्रः पारिजाते बदर्यां सुरदारुणि ॥ ७८४ ॥ ब्रह्मपुत्रो द्विजसुतो विषभिन्नारदादयः । सुकुमारस्त्रिषु मृदौ घृतभेदे नपुंसकम् ॥ ७८५ ॥ उपस्करो वेशवारो गृहभाण्डाद्यथाम्बुदे । पयोधरः स्तनेपि स्यादुपस्कारो गुणाहितौ ॥ ७८६ ॥ अध्याहारे वैकृते च दीर्घसूत्रश्चिरक्रियः । तन्तौ च विस्तृते क्लीवे दीर्घनिद्रा मृतिस्तथा ॥ ७८७ ॥ अतिस्वापरतिश्चाथ काव्यमण्डलवेश्मभित् । निम्बश्च सर्वतोभद्रो व्यूहः कल्याणवांस्त्रिषु ॥ ७८८ ॥ ;k{लान्तवर्गः} चूडा किरीटं केशाश्च संहता मौलयस्त्रयः । मातृभेदे क्षारकीटे काली दुर्गानवाब्दयोः ॥ ७८९ ॥ पालिन्दी पाटला कृष्णाजाजी कालापि नीलिनी । तिन्दुकेद्रौ यमे मृत्यौ समये नासिते त्रिषु ॥ ७९० ॥ मूलान्याद्यशिफाभान्ताः कलहेन्त्ययुगे कलिः । करोपहारदैत्येषु बलिर्ना गात्रजे स्त्रियाम् ॥ ७९१ ॥ स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः । दैत्यभेदे च वलिनि त्रिष्वोषधिभिदि स्त्रियाम् ॥ ७९२ ॥ भेद्यलिङ्गः शठे व्यालो द्वयोः शार्दूलसर्पयोः । कुटीग्रामकयोः पल्लिः स्त्र्यस्त्री शूलं रुगायुधम् ॥ ७९३ ॥ तच्छिखा वंधकं काष्ठं शूला वारविलासिनी । ज्वालाशङ्कू द्वयोः कीलौ कूर्परः प्रहतं रते ॥ ७९४ ॥ कर्णाधो भाजने प्रान्ते पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु । कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च ॥ ७९५ ॥ ;p{0058} इन्द्वंशेंशे तालगुरौ निवृत्त्यादौ छले कला । शक्तावव्यक्तमधुरे ध्वाने त्रिषु मनोहरे ॥ ७९६ ॥ आल्यनर्थे सखीपङ्क्त्योः सेतौ ना वृश्चिके फलम् । सस्यादौ फलके लाभ आयुधाग्रे कणेकृते ॥ ७९७ ॥ अब्ध्यम्बुविकृतौ वेला मर्यादा गिरिकालयोः । फालो हलाग्रोत्प्लवयोर्लोलश्चलसतृष्णयोः ॥ ७९८ ॥ लीला विलासेनुकृतौ दलं दण्डार्धयोश्छदे । सुगन्धपत्त्रोपादानहेत्वो रन्ध्रगुहे बिलम् ॥ ७९९ ॥ पण्यौषधिभिदो रागद्रव्ये नील्यथ झिल्लिका । नीला त्रिषु प्राणिगुणे कपिरत्नभिदोस्तु ना ॥ ८०० ॥ मलोस्त्री पापविट्किट्टे कृपणे मलिने त्रिषु । आणवादावशुद्धौ च कालिम्नि स्याद्वसादिषु ॥ ८०१ ॥ गवाक्षे कोरके वृन्दे दम्भे मत्स्यादिवन्धने । धूर्तकृत्ये च जालं स्याच्छीलं वृत्तस्वभावयोः ॥ ८०२ ॥ तलं गोधास्वरूपाधःपृष्ठेष्वस्त्री पुमान्द्रुभित् । चपेटे च वितस्तौ च व्याजस्खलितयोश्छलम् ॥ ८०३ ॥ चेलं वस्त्रे त्रिष्वधमे पलमुन्मानमांसयोः । त्रिषु स्थूले जडे पीने हेलावज्ञाविलासयोः ॥ ८०४ ॥ गीतकालक्रियामाने मध्याङ्गुष्ठमिते तरौ । तालः करतले चाथ तुला सादृश्यमानयोः ॥ ८०५ ॥ गृहाणां दारुबन्धार्थपीठिका सदृशं तथा । जलोदञ्चनभाण्डे च राशिभेदे घटे द्वयोः ॥ ८०६ ॥ जलं तोयं त्रिषु जडे त्रिषु बालोर्भकाज्ञयोः । क्लीवे ह्रीवेरके नाङ्गरुहे गोत्रे गृहे तथा ॥ ८०७ ॥ कुलं सजातीयगणे संघे शास्त्रशरीरयोः । क्लिन्नाक्षे त्रिषु चुल्लोक्ष्णि क्लीवे चुल्ली तु पाकभूः ॥ ८०८ ॥ खलं भूस्थानकर्णेषु क्रूरपामरयोस्त्रिषु । सैन्यस्य पश्चिमे भागे कूलमन्तिकतीरयोः ॥ ८०९ ॥ ;p{0059} शिला द्वाराधरं दारु दृशच्च करका तथा । प्राकारवृक्षयोः सालः सर्जे चाथ प्लवे किरे ॥ ८१० ॥ कोलः क्लीवे बदर्यां स्यात्कणा कोलाथ भूरिला । वाक्स्वःस्त्री गौर्द्रुशाखायां गेहे गेदैकदेशयोः ॥ ८११ ॥ शाला स्याद्दर्दुरे भेलो भीरुके वाच्यलिङ्गकः । तूलिश्चित्रोपकरणे शलाकातूलशय्ययोः ॥ ८१२ ॥ खेला क्रीडा विलासाक्षे त्रिषु दोला तु दोलिनी । प्रेङ्खा स्थाली पाकभाण्डं पाटलास्त्री तु भाजने ॥ ८१३ ॥ शिली गण्डूपदी भेका शिलोञ्छेषु शिलश्च ना । प्राण्यङ्गे तृणकाण्डे च ना नाली धमनौ स्त्रियाम् ॥ ८१४ ॥ न ना नालाब्जादिकाण्डे त्रिषु स्याज्जलनिर्गमे । कमला श्रीर्मृगे पुंसि क्लीवे स्यात्पद्मतोययोः ॥ ८१५ ॥ सास्नायां नागभेदे चाप्यूर्णावाससि कम्बलः । वातूलः पुंसि वात्यायां वाते वातासहे त्रिषु ॥ ८१६ ॥ वातलो वातुलश्चैवमाभीलं भीमकृच्छ्रयोः । बहुलाः कृत्तिका गाव एलाः पुंस्यग्निपक्षयोः ॥ ८१७ ॥ प्रभूते च प्रायिके च शितौ च स्यात्त्रिलिङ्गकः । उपलेक्षुविकारे स्याच्छर्करायां च नाश्मनि ॥ ८१८ ॥ रत्ने चाथामृते तोये कीलालं मण्डरक्तयोः । छदिर्नेत्ररुजोः क्लीवे समूहे पटलं न ना ॥ ८१९ ॥ पुष्पादिभाण्डे नाध्याये प्रियङ्गुर्महिला वधूः । पातालमौर्वाग्निरसातलयोः शङ्कुभिश्चिते ॥ ८२० ॥ श्वभ्रे कुकूलं पुंसि स्यात्तुषाग्नावथ केवलम् । निर्णीते त्रिषु कृत्स्ने स्यादसहायेथ शिक्षिते ॥ ८२१ ॥ कुशलस्त्रिषु पर्याप्ते क्लीवे स्यात्क्षेमपुण्ययोः । वीणादण्डे प्रवालोस्त्री विद्रुमे नवपल्लवे ॥ ८२२ ॥ देवीभेदे करालोच्चे त्रिषु स्याद्व्याप्तभीमयोः । खण्डेस्त्री शकलं वल्के रागभेदेस्थिभिद्यपि ॥ ८२३ ॥ ;p{0060} मृदौ स्निग्धे त्रिषु भवेद्दक्षे चारौ च पेशलः । मण्डली स्यान्न ना संघे देशबिम्बे च मण्डलः ॥ ८२४ ॥ त्रिषु वृत्ते स्थानके तु परिधौ तु नपुंसकम् । कर्माङ्गेप्युपलेपादौ कुष्ठं नीलब्जमुत्पलम् ॥ ८२५ ॥ उषणा पिप्पली ना तु तरुवस्त्राच्छिदाभिदोः । क्लीवे जले स्यात्कुद्दालः खनित्रे कोविदारके ॥ ८२६ ॥ संकुलं व्याकुले व्याप्तेविस्पष्टार्थवचस्यपि । यवाग्वां तरला रत्ने पुंसि दीप्ते चले त्रिषु ॥ ८२७ ॥ पललं तिलकल्के स्यान्मांसे च जगलस्त्रिषु । मेचके पिष्टमद्ये ना मेखला खड्गबन्धने ॥ ८२८ ॥ काञ्च्यद्रिदेशमौञ्जीषु कपालं कर्परे त्रिषु । उत्तमाङ्गास्थ्नि भक्ष्ये तु शष्कुली कर्णपुत्रिका ॥ ८२९ ॥ तुमुलं व्याकुले शब्दे त्रिषु स्यात्संकुले रणे । पाटला त्रिषु वर्णे स्याद्व्रीहौ ना कुसुमे न ना ॥ ८३० ॥ जाङ्गलो निर्जले देशे पिशिते स्यान्नपुंसकम् । दुगूलं तनुवासः स्यात्क्षौमं च चपला तडित् ॥ ८३१ ॥ कुलटे स्याद्द्वयोर्ना तु पारते चञ्चले त्रिषु । तण्डुलो धान्यसारे स्याद्विडङ्गे कदली स्त्रियाम् ॥ ८३२ ॥ मृगभेदे ध्वजे रम्भास्तम्भे स्यादथ मञ्जुलः । मधुरे भेद्यलिङ्गो ना जलरङ्कुपतत्रिणि ॥ ८३३ ॥ काकोलो द्रोणकाके स्याद्विषे चाप्योषधौ स्त्रियाम् । धवलं सुन्दरे शुक्ले त्रिषु यूनि गवि द्वयोः ॥ ८३४ ॥ अचलोद्रौ स्त्रियां भूमौ देहोन्मानौ तु बाहुलौ । कार्त्तिकः कोमला वृत्तिः स्निग्धे तुल्ये त्रिषु त्रिषु ॥ ८३५ ॥ शृङ्खला पुंस्कटीकाञ्च्यां बन्धने चायसादिके । रसाला मधुरा भाषा भोज्यं ना त्विक्षुचूतयोः ॥ ८३६ ॥ निचुलो वेतसे चापादिकोशे - - - र्गला । न पुमान्यन्त्रणायां च कपिलागुरुशिंशपा ॥ ८३७ ॥ ;p{0061} हरेण्वाख्यौषधिर्गोश्च मुनौ ना तद्गुणे त्रिषु । धतूरो मातुलो मातुर्भ्राता भार्यास्य मातुली ॥ ८३८ ॥ [दारिकाबीजमाज्यं च राजसर्षप एव च ] । श्रद्धालुर्दोहदवती श्रद्धाशीले भवेत्त्रिषु ॥ ८३९ ॥ नीलिन्यां श्रीफली बिल्वे नेभरोगे तु पाकलः । कुष्ठे क्लीवं फेनिलं तु कुवलेरिष्टपादपे ॥ ८४० ॥ ना फेनयुक्ते त्रिषु च लाङ्गली गर्भपातनी । तोयपिप्पल्यथ स्पष्टोशठश्च सरलस्त्रिषु ॥ ८४१ ॥ त्रिवृत्स्त्री ना तु पीतद्रौ पिच्छिलागुरुशिंशपा । मोचातरुस्त्रिषु स्निग्धे तिनिशशोकवेतसाः ॥ ८४२ ॥ वञ्जुलाः कन्दली वीरुत्तद्भेदमृगभेदयोः । कपालमूलयोः क्लीवे निष्कला विगतार्तवा ॥ ८४३ ॥ विमले मन्त्रदेवादौ त्रिषु वाद्ये नपुंसकम् । विकङ्कतः करीरश्च संनिवेशविशेषवान् ॥ ८४४ ॥ खड्गादिश्च ग्रन्थिलः स्याच्छमलं कल्मषं शकृत् । पुंभूम्नि केशे देशे च द्वयोस्तत्स्थे च कुन्तली ॥ ८४५ ॥ मधुपात्रे भवेत्क्लीवे मरालौ हंसविस्तृतौ । स्यान्मङ्गलः कुजे क्लीवे शुभे देव्यां स्त्रियामपि ॥ ८४६ ॥ एकाष्ठीला तु पाठायां ना वुके नडकाशयोः । भवेत्पोटगलो गन्धफला चम्पकमालिका ॥ ८४७ ॥ प्रियङ्गुः स्यात्पुष्पफलः कूष्माण्डककपित्थयोः । धूम्रे त्रिषु महाकालः किंपाके प्रमथे शिवे ॥ ८४८ ॥ यमतद्दूतयोः पुंसि चक्रवालं तु मण्डले । लोकालोके पुमान्स्यात्तु विमर्दे परिशीलने ॥ ८४९ ॥ अत्युत्कृष्टे परिमलो गन्धे जनमनोहरे । मत्तः करी मदफलस्त्रिषु चाव्यक्तवाङ्मदात् ॥ ८५० ॥ ऐरावणे गणेशे च हस्तिमल्लोथ यज्वनि । मदिराक्रयशिल्पे च त्रिषु स्यादासुतीबलः ॥ ८५१ ॥ ;p{0062} ;k{वान्तवर्गः} स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोस्त्रियां धने । स्वर्गेन्तरिक्षे च द्यौः स्त्री शैले मेषे रवावविः ॥ ८५२ ॥ दवदावौ वनारण्यवह्नी जन्महरौ भवौ । कल्याणप्राप्तिसंसारसत्ताश्चाथाध्वरो हवः ॥ ८५३ ॥ आज्ञाह्वाने चाथ योषित्पतिः शाखी नरो धवः । भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ ८५४ ॥ क्रियासुरतसंवेगलीलातात्पर्यवस्तुषु । स्थायिसात्त्विकसंचारिविभावेषु च पूज्यवत् ॥ ८५५ ॥ शब्दप्रवृत्तिहेतौ च योन्यैश्वर्योदयेषु च । ध्रुवा भभित्स्थाणुकीला निश्चले शाश्वते त्रिषु ॥ ८५६ ॥ सत्यनिश्चितयोः क्लीवे गीतिस्रुग्भेदयोः स्त्रियाम् । सालपर्ण्यां क्षवस्तु स्यादासुर्यी क्षवथौ तथा ॥ ८५७ ॥ अभयामलकी गौरी शमी क्रोष्टा शिवा पुमान् । हरे कीले च कल्याणे क्लीवे तद्वति तु त्रिषु ॥ ८५८ ॥ पक्वं विनाशाभिमुखं तथा परिणते त्रिषु । रहस्ये कलहे दुःखे द्वंद्वं मिथुनयुग्मयोः ॥ ८५९ ॥ क्लीवो नपुंसके शण्डे दैन्ययुक्ते जने त्रिषु । वक्रोपायश्चान्तिकं च पार्श्वं कुक्ष्यङ्गभित्तथा ॥ ८६० ॥ ज्या जीवा जीविते न स्त्री पुमाञ्जन्तौ बृहस्पतौ । अत्यध्वगोतिप्रणतः प्राध्वः क्लीवे तु बन्धने ॥ ८६१ ॥ उशनाः काव्यकृद्विद्वान्कविर्नाश्वाङ्गगा कवी । केलौ स्रवे द्रवो-पे छेदेल्पे च कणे लवः ॥ ८६२ ॥ विश्वं जगच्च शुण्ठी च सर्वस्मिन्वाच्यलिङ्गकः । स्त्रियां प्रतिविषायां च पुंबहुत्वे च देवभित् ॥ ८६३ ॥ स्त्रीकटीवस्त्रबन्धे स्यान्नीविः परिपणे स्त्रियाम् । आयव्ययविशुद्धे च धने कारागृहे तथा ॥ ८६४ ॥ मनः सत्यत्वात्मभावे पिशाचादौ गुणे बले । द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ॥ ८६५ ॥ ;p{0063} क्रमनिम्ने भुवो भागे भेकपक्षिभिदोः प्लवः । प्लवनोडुपवचण्डालेष्वोषधौ स्यान्नपुंसकम् ॥ ८६६ ॥ देवी मूर्वा द्वयो राजतत्स्त्रियोर्दैवते तथा । मन्त्री सहायः सचिवौ प्रभवः स्थानमूलयोः ॥ ८६७ ॥ स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने । अपत्येप्यथाविश्वासे निकृतौ चापि निह्नवः ॥ ८६८ ॥ अपलापेप्यथाधारानतिरेके च संभवः । जन्मोपपत्तिसंघेषु गाण्डीवं गाण्डिवं तथा ॥ ८६९ ॥ जिष्णोर्धनुषि कोदण्डे वैशाखे माधवो हरौ । वसन्ते चाथ राजीवो मृगभिन्मीनभेदयोः ॥ ८७० ॥ क्लीवे पद्मेथ वडवा स्त्रीविशेषो हयी तथा । कुम्भदासी पल्लवोस्त्री विटपे क्षेत्रपत्त्रयोः ॥ ८७१ ॥ वस्त्रैकदेशे रहसि सैन्धवो लवणाश्वयोः । अभावौ निधनासत्ते व्याजे द्यूते च कैतवम् ॥ ८७२ ॥ उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः । विप्रौर्वाश्वा वाडवाः स्युर्वल्लवो गोपसूदयोः ॥ ८७३ ॥ विप्लवौ रणनिर्बाधावुत्सवो यदुरुद्धवः । धतूरे ना वञ्चकस्तु कितवो द्यूतकृत्त्रिषु ॥ ८७४ ॥ सामुद्रलवणेक्षीवो महानिम्बे च गन्धके । नील्यां त्रिषु निरुन्मादे कारवी कृण्णजीरके ॥ ८७५ ॥ हिङ्गुपर्ण्यां प्रसेवस्तु भस्त्रादौ ककुभे तथा । कैरवं जलजेरौ ना देवरागभिदोर्द्वयोः ॥ ८७६ ॥ भैरवी त्रिषु भीमे स्याद्गन्धर्वो मृगदेवभित् । ऐरण्डाश्वौ गायनश्च राहूत्पातावुपप्लवौ ॥ ८७७ ॥ अनाश्वासोपलापश्च स्नेहश्च स्यादपह्नवः । अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ ८७८ ॥ सवने मद्यसंधाने स्नाने चाभिषवः पुमान् । क्लीवे पारशवं शस्त्रे वर्णभेदे त्रिलिङ्गकम् ॥ ८७९ ॥ ;p{0064} ;k{शान्तवर्गः} द्वौ विशौ वैश्यमनुजौ संततौ स्त्री जने बहु । दृग्बुद्धौ दर्शनोक्ष्णि स्त्री दिगुपाये निदर्शने ॥ ८८० ॥ मार्गे ककुभि च स्त्री स्याद्द्वौ चराभिसरौ स्पशौ । द्वौ राशी पुञ्जमेषाद्यौ लब्धव्ये गणिते च ना ॥ ८८१ ॥ ईशो महेश्वरः स्वामी पृष्ठ्यास्थ्यस्यादिमध्यभूः । वंशोन्वयः समूहश्च काण्डं वेणुरथो दशा ॥ ८८२ ॥ अवस्था वर्तिरन्ते तु वाससो भूमनि स्त्रियाम् । कुशा वल्गा कुशी फालो दर्भेस्त्री क्लीवमम्बुनि ॥ ८८३ ॥ निधनानुपलम्भौ तु नाशौ क्लीवे पलायने । पशुर्मृगादौ छगले दर्शनार्थे तदव्ययम् ॥ ८८४ ॥ रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि । आशा ककुभि तृष्णायां दर्शः सूर्येन्दुसंगमे ॥ ८८५ ॥ कृष्णपक्षान्तयागे च पाशोक्षे बन्धने तथा । रज्ज्वादिवलयच्छिद्रे प्रशस्ते तु सपूर्वकः ॥ ८८६ ॥ त्रिष्वायत्ते यन्त्रणेच्छा प्रभावः प्रभुता वशः । शुन्यां वेश्यावन्ध्यगवीस्त्रीकरेणुषु तु स्त्रियाम् ॥ ८८७ ॥ पेश्यां धने तद्नृहे च चषके पट्टयोनिषु । दिव्ये च कोशः पुष्पादिकुट्मलासिपिधानयोः ॥ ८८८ ॥ कायावृतौ द्वयोः पद्मकर्णिकायां समाश्रये । वेश्यानां वेश आकल्पे दुःस्पर्शा कण्टकारिका ॥ ८८९ ॥ यवाशे पुंसि परुषे निर्दये च भवेत्त्रिषु । रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ ८९० ॥ प्रसरे चाथ निर्देश आज्ञायां कथने तथा । कृतान्ते पुंसि कीनाशः क्षुद्रकार्षकयोस्त्रिषु ॥ ८९१ ॥ राक्षसे किंशुके पर्णे पलाशो हरिते त्रिषु । शटीपर्णे भवेत्क्लीवमभींशुः प्रग्रहे करे ॥ ८९२ ॥ विवशः स्यादवश्यादौ त्रिलिङ्गोनिष्टदुष्टधीः । कर्कशः स्यात्साहसिके दुःस्पर्शे कठिनेदये ॥ ८९३ ॥ ;p{0065} कम्पिल्ये च प्रदेशस्तु मानभित्स्थानभेदयोः । वागीशो देवताभेदे ना जीवे हयमूर्धनि ॥ ८९४ ॥ ब्रह्मणि ज्ञे त्रिषु भवेत्कलशोस्त्री त्वपां निधौ । दधिमन्थनकुम्भ्यां च कलशी कलशिः स्त्रियौ ॥ ८९५ ॥ निवेशौ शिविरोद्वाहौ वालिशौ मूर्खशावकौ । त्रिषु स्फुटे प्रसिद्धे च प्रकाशो भासि पुंस्ययम् ॥ ८९६ ॥ संध्यङ्गभिद्विमर्शो ना स्यात्परामर्शबाधयोः । निस्त्रिंशोसौ त्रिषु क्रूरे नगेशोद्रिपतौ शिवे ॥ ८९७ ॥ भूमिस्पृशो नरा वैश्या व्यपदेशोभिधा छलम् । अपदेशौ व्याजहेतू जीवितेशौ यमप्रियौ ॥ ८९८ ॥ वार्त्ताहरे सहाये च पुरोगे च प्रतिष्कशः । पतने स्यादपभ्रंशो भाषाभेदापशब्दयोः ॥ ८९९ ॥ ;k{षान्तवर्गः} त्विट् शोभा रुक्च तृड् लिप्सा तर्षो विड् मलगूथयोः । ऋषिर्वेदे वसिष्टादौ भवेद् घोषो गवां गणे ॥ ९०० ॥ गोपपल्लौ गह्वरे च स्वरे मेघादिनिःस्वने । उपयुक्तेतरच्छेपं त्रिषु ना नागसीरिणोः ॥ ९०१ ॥ प्रसादान्निजनिर्माल्यदाने स्त्री स्याद्वृषो गवि । शुक्रले मूषके श्रेष्ठे शृङ्गीवाशिकयोः शुभे ॥ ९०२ ॥ झषा नागबला ना तु मत्स्ये स्याद्वत्सरेस्त्रियाम् । वर्षो वृष्टौ लोकधातावुषा बाणसुता निशा ॥ ९०३ ॥ दोषो गुणेतरे रात्रौ स्त्री भ्रेषो नाशगर्हयोः । करीषाप्नौ पुमान्कर्षूस्त्रिषु कृष्यल्पकुल्ययोः ॥ ९०४ ॥ शुषिः शोषे बले क्लीवे विषं क्ष्वेडे जले तथा । स्त्रियां प्रतिविषायां स्याच्छोषस्तानवरोगयोः ॥ ९०५ ॥ तुषो विभीतको दोषो धान्यचर्मावृतौ धने । तद्गृहे पट्टयोन्यादौ कोषः शान्तश्च कैश्चन ॥ ९०६ ॥ शैलूषो नर्तके बिल्वे मनीषा धिषणेच्छयोः । अभींषुः प्रग्रहे रश्मौ पुरुषा स्रात्मसाधनः ॥ ९०७ ॥ ;p{0066} पञ्चहस्तप्रमाणे च कल्माषौ कृष्णकर्बुरौ । रोहिषं रक्तकत्तृणं मत्स्यभिद्धरिणान्तरम् ॥ ९०८ ॥ शुण्डाग्रभागे गण्डूषा द्वयोश्च मुखपूरणे । प्रसृतोन्मित उष्णीषः शिरोवेष्टकिरीटयोः ॥ ९०९ ॥ पुंसः कृत्यविशेषे स्यात्पौरुषं तन्मिते त्रिषु । आमिषे पललोत्कोचावामिषी स्यात्तु मल्लकी ॥ ९१० ॥ पीयूषममृते नूत्नदुग्धक्वाथे घने द्वयोः । व्यक्तौ भेदे विशेषः स्यात्प्रदोषो दोषिकालयोः ॥ ९११ ॥ त्रिष्वाविले स्यात्कलुषं पापे च महिषी प्रभोः । स्त्रियां द्वयोः पशावंहस्यपराधे च किल्विषम् ॥ ९१२ ॥ आकर्षः शारिफलक आक्षेपे पाशके तथा । निष्ठुरे वचने रूक्षे परुषं कर्बुरे त्रिषु ॥ ९१३ ॥ सदृशे च जिगीषा स्याज्जयेच्छाव्यवसाययोः । संघर्षौ कषणस्पर्धे उपासाश्रवणेच्छयोः ॥ ९१४ ॥ शुश्रूषानिमिषा मत्स्याः सुराः शम्यां तु न स्त्रियाम् । कपिशीर्षे भित्तिशृङ्गे रथाधो दारु कर्षणम् ॥ ९१५ ॥ अनुकर्षमनुतर्षोभिलाषश्चषकः सुरो । परिवेषस्तु वलने परिधौ मण्डले तथा ॥ ९१६ ॥ कालमेषी तु मञ्जिष्ठा बृहती सोमराजिका । पलंकषा भवेल्लाक्षा गोक्षुरो गुग्गुलुस्तथा ॥ ९१७ ॥ ;k{सान्तवर्गः} भा रश्मिदीप्त्योर्न पुमान्वासौ रतगृहौकसी । देवा देवभिदोग्निश्च योक्त्रांशू च वुके वसुः ॥ ९१८ ॥ भासि रत्ने धने क्लीवे पाठारास्नाभुवो रसाः । मांसे नाट्ये देहधातौ वीर्ये रागे द्रवे विषे ॥ ९१९ ॥ स्वादेम्ब्लादौ चर्वणे ना ध्वनौ क्लीवे तु पारते । खगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः ॥ ९२० ॥ विष्णौ प्राणे चात्मनि च ज्योतिर्भद्युतिदृष्टिषु । पुत्रादौ तर्णके वर्षे वत्सः क्लीवे सु वक्षसि ॥ ९२१ ॥ ;p{0067} ध्वान्ते राहौ गुणे शोके तमो वेधा विधातरि । विष्णौ विदुषि चाथार्चिर्ज्वालाभासोर्न पुंस्ययम् ॥ ९२२ ॥ सरित्प्रवाहे खद्वारे स्रोतः स्यात्करिणः करे । वर्चांसि रूपविड्भासो रहः सुरतगुह्ययोः ॥ ९२३ ॥ एनोपराधे दुरितेप्यागः पापापराधयोः । रजो गुणे च रेणौ च योषितामार्तवेपि च ॥ ९२४ ॥ द्वारोर्ध्वदारु नासा स्यान्नासिका चाथ यौवनम् । देहावस्था वयः पक्षी मह उत्सवतेजसोः ॥ ९२५ ॥ छन्दः पद्येभिलाषे च वेदे चौजो बले रुचौ । गृहं सदाश्रयश्चौकः पयः क्षीरे जलेपि च ॥ ९२६ ॥ तेजः प्रभावो दीप्तिश्च बलशुक्रासहिष्णुताः । नमो वर्षाः श्रावणोभ्रमन्तरिक्षे नपुंसकम् ॥ ९२७ ॥ सहो दीप्तौ बले मार्गशीर्षहेमन्तयोः पुमान् । तपास्तु शिशिरे माघे क्लीवं कृच्छ्रादिके व्रते ॥ ९२८ ॥ चौर्यादिकर्म हिंसा स्याद्वधश्च जननी प्रसूः । अश्वा चाथ स्त्रियामाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ९२९ ॥ स्त्र्युषाः संध्या प्रभाते तु क्लीवे भासः प्रभांशवः । मणिदोषो भयं त्रासः सर्पिर्होतव्ययोर्हविः ॥ ९३० ॥ नाग्नौ क्लीवे कुशे बर्हिरुरः श्रेष्ठेपि वक्षसि । असिः खड्गे तथा चापे शुभाकारे तनौ वपुः ॥ ९३१ ॥ अदः परस्मिन्नत्रापि शंसोक्तौ स्तुतिवाञ्छयोः । आत्मज्ञे पण्डिते विद्वान्क्लीवे द्यौर्भूश्च रोदसी ॥ ९३२ ॥ पुनरर्थेव्ययं भूयोतिवह्वर्थे त्रिलिङ्गकः । [प्रशस्तवृद्धयोर्ज्यायानुत्कर्षार्थे त्रिलिङ्गकः] ॥ ९३३ ॥ मृत्सौषधिः प्रशस्ता मृद्दासी वीरुच्च नर्तकी । भृत्ये द्वयोर्वरासी तु वरखड्गोच्चशाटकौ ॥ ९३४ ॥ लालसे प्रार्थनौत्सुक्ये तद्वति स्यात्त्रिलिङ्गकः । [आशंसा वचनं वाञ्छा स्तुतिः संभावना तथा] ॥ ९३५ ॥ ;p{0068} स्तुतिः प्रशंसा श्लाघा च दिवौकाश्चातके सुरे । उदर्चिरुत्प्रभे वह्नौ रभसो हर्षवेगयोः ॥ ९३६ ॥ वतंसोस्त्री कर्णपूर उत्तंसश्चापि शेखरे । सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान् ॥ ९३७ ॥ सारसः खगभेदे स्यात्क्लीत्रे तु सरसीरुहे । त्रिषु धानुष्क इष्वासो भवेत्क्लीवे तु कार्मुके ॥ ९३८ ॥ व्योम्न्यस्त्रियां विहायः स्यात्पुंवहुत्वे पतत्रिषु । बलात्कारकृतं कर्म साहसं दण्डभित्तथा ॥ ९३९ ॥ बीभत्सो विकृते क्रूरे निन्द्ये च त्रिषु फल्गुने । पुंसि नाट्यरसे च स्याज्जुगुप्सायां नपुंसकम् ॥ ९४० ॥ वरीयानतिविस्तीर्णे तथा वरतरे त्रिषु । बाढसाध्वोरतिशये साधीयान्वाच्यलिङ्गकः ॥ ९४१ ॥ युवाल्पयोरतिशये कनीयानपि भेद्यत्रत् । पाठा हरीतकी हस्तिपिप्पली श्रेयसी त्रिषु ॥ ९४२ ॥ शस्तेथ पायसं दुग्धसंस्कृते बलिभिद्यापि । श्रीवासे नौषधिभिदि राक्षसी रक्षसि द्वयोः ॥ ९४३ ॥ तद्भवादौ त्रिष्वभुक्तावुपवासो व्रतस्थितौ । मूर्वाद्राक्षे मधुरसे मृद्वीका च शतावरी ॥ ९४४ ॥ काकोली परिहासः स्यात्क्रीडोपहसनं तथा । शेखरे कर्णपूरे चावतंसं पुंनपुंसकम् ॥ ९४५ ॥ जले सान्द्रे च निर्यासे भवेट्घनरसोस्त्रियाम् । कादम्बे राजहंसे च कलहंसो द्वयोर्भवेत् ॥ ९४६ ॥ चन्द्रहासो रावणासावसिमात्रेथ संस्कृतौ । धूपमन्त्रादिभिर्वासेप्यधिवासः पुमानयम् ॥ ९४७ ॥ निःश्रेयसं शिवे मोक्षे सूर्यवह्नी विभावसू । निम्बे स्याद्धिङ्गुनिर्यासस्तथा हिङ्गुतरुद्रवे ॥ ९४८ ॥ ;k{हान्तवर्गः} शिखिपिच्छदले वर्हे ईहा स्यादुद्यमेच्छयोः । गृहं गेहे बहुत्वे तु न स्त्री दारेषु संवहः ॥ ९४९ ॥ ;p{0069} दान्तस्कन्धेश्वावयवे वोढर्याचरणे तथा । वहो वाहे वर्णके च मुद्गपर्णी वचा सहा ॥ ९५० ॥ कुमारी त्रिषु शक्ते स्याद्वार्त्ताकी वाशिका तथा । सिंही द्वयोः प्राणिभेदे वप्रवृत्रोरगेष्वहिः ॥ ९५१ ॥ अविद्यामूर्छयोर्मोहो ग्राहो यादोवहारयोः । स्नेहस्तैलादिकप्रेम्णोः सौहार्दे चाथ गह्वरे ॥ ९५२ ॥ गुहा स्यात्पृश्निपर्ण्यां च पुमान्स्कन्देथ संचये । सूर्यादौ पूत्तनादौ च राहुनिर्बन्धयोर्ग्रहः ॥ ९५३ ॥ राहुग्रस्तेन्दुरपूष्णोश्च मही भूरुत्सवे पुमान् । वाहा बाहुतरे स्त्री स्यात्पुमान्माने हयादिषु ॥ ९५४ ॥ वर्गविन्यासयोर्व्यूहो विस्वारे पृथुले त्रिषु । विपुले त्र्यादिसंख्यायां बहुः स्याद्वाच्यलिङ्गकः ॥ ९५५ ॥ प्रग्रहः स्यात्तुलासूत्रे वन्द्यां रज्जौ हयस्य च । हयरश्मौ तुलासूत्रे प्रग्राहो जीविकाकृतौ ॥ ९५६ ॥ संवाहः परिचर्यायां विग्रहः कायविस्तरौ । वैरवाक्ये तिरस्कारोभिध्या भर्त्सा च निग्रहः ॥ ९५७ ॥ स्यादूर्ध्वमाने स्त्रीश्रोणावारोहोङ्गे तरोरपि । तथाश्वाद्यध्यासितरि स्यात्स्पष्टा मलसंसृतिः ॥ ९५८ ॥ प्रवृत्तिर्जलवेगश्च प्रवाहा अथ संग्रहः । संचये महदुद्धारे फलादिस्वीकृतावपि ॥ ९५९ ॥ द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके । वैदेह्यौ पिप्पलीसीते वाराह्यौ देवतौषधी ॥ ९६० ॥ रास्ना शेफालिका गन्धनाकुली सुवहा त्रिषु । रम्ये दैर्ध्ये रोगभेदे स्यादानाहोपि बन्धने ॥ ९६१ ॥ गजभाले वृष्टिरोधे प्रतिबन्धेप्यवग्रहः । पदपर्वविभागे च भूमौ सर्वसहा सहे ॥ ९६२ ॥ स्यादारम्भे स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रतिग्रहः ॥ ९६३ ॥ ;p{0070} पत्नीपरिजनादानमूलशापाः परिग्रहाः । समीरणे गन्धवहो नासिकायां स्त्रियामथ ॥ ९६४ ॥ पितामहः पितृपिता ब्रह्मा चाथ तमोपहाः । अग्नीन्द्वर्का नृपार्हेर्थे परिवर्हः परिच्छदे ॥ ९६५ ॥ ;k{क्षान्तवर्गः} ध्वाङ्क्षः काके बके कक्षः पार्श्वपातकभित्तिषु । तृणे वीरुधि च स्त्री तु प्रतिज्ञास्थानभेदयोः ॥ ९६६ ॥ परिधानस्य च बहिः कटीनिगडने भवेत् । रथांशेक्षो दैत्यभिदि पाशकद्यूतयोरपि ॥ ९६७ ॥ बीजे विभीतके कर्षे स्रोतोग्रे क्लीव इन्द्रये । सौवर्चले च पक्षस्तु वर्गे कालसहाययोः ॥ ९६८ ॥ गरुत्साध्यविरोधेषु पुष्पच्छेदेभपार्श्वयोः । रुचौ विकल्पिते पार्श्वे परः केशात्तु संहतौ ॥ ९६९ ॥ प्रजापतौ कुक्कुटे च दक्षः स्याच्चतुरे त्रिषु । प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ ९७० ॥ याच्ञाप्राप्यं तथान्नादि न्यक्षं कार्त्स्न्यनिकर्षयोः । ऋक्षं भे पुंसि भल्लूके रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ ९७१ ॥ चोक्षो गीते मनोज्ञे च मोक्षो मुक्तौ च पाडलौ । पर्कट्यां पिप्पले प्लक्षो यक्षौ यक्षेशगुह्यकौ ॥ ९७२ ॥ न ना शतसहस्रं स्याल्लक्षं व्याजशरव्ययोः । प्रत्यक्षेधिकृते साक्षिण्यध्यक्ष - - धातकी ॥ ९७३ ॥ सुभिक्षा सुलभान्नत्वे क्लीवे हंसाश्वभेदयोः । मल्लिकाक्षो विरूपाक्षो हरे विकृतलोचने ॥ ९७४ ॥ ;k{अव्ययवर्गः} आ प्रगृह्यः स्मृतो वाक्य आश्चित्रे कोपपीडयोः । आङीषदर्थे व्याप्तौ च मर्यादायां क्रियान्वये ॥ ९७५ ॥ इ दुःखभावने कोप उदाह्वाने विसर्जने । पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ॥ ९७६ ॥ ;p{0071} चोन्वाचये समाहारेतरेतरसमुच्चये । विनियोगे तुल्यकाले हेतौ यद्यर्थ एव च ॥ ९७७ ॥ स्वित्प्रश्ने च वितर्के च तुर्विशेषेवधारणे । यद्वाक्योपक्रमे हेतौ यदायद्यर्थयोरपि ॥ ९७८ ॥ तद्धेतावुपसंहारे तदातर्ह्यर्थथोरपि । सकृत्सहैकवारार्थे सदार्थे चाथ मङ्गले ॥ ९७९ ॥ स्वस्त्वाशीःक्षेमपुण्यादौ प्रकर्षे लङ्घनेप्यतिः । प्रतिच्यां चरमे पश्चादाराद्दूरसमीपयोः ॥ ९८० ॥ विकल्पप्रश्नसत्यार्थेषूतासत्याविकल्पयोः । पुनः सह सदा शश्वत्साक्षात्प्रत्यक्षतत्त्वयोः ॥ ९८१ ॥ खेदानुकम्पासंतोषविस्मयामन्त्रणे वत । हन्त हर्षे कृपादाने वाक्यारम्भविषादयोः ॥ ९८२ ॥ प्रतिः प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ ९८३ ॥ मतस्वरूपैवमर्थविवक्षानियमादिषु । यावत्तावच्च साकल्ये हेतौ मानेवधारणे ॥ ९८४ ॥ संप्रत्यवधिभाव्यर्थेष्वीर्ष्यापीडाप्रतिश्रवे । पुरस्तात्प्रथमं प्राच्यामानन्तर्येग्रतोपि च ॥ ९८५ ॥ देशे कालेपि चाधस्ताद्दक्षिणेधोभवेपि च । किमुत स्यादतिशये प्रश्नमध्यविकल्पयोः ॥ ९८६ ॥ मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । अङ्गीकारेधिकारे च स्याद्वितर्कविकल्पयोः ॥ ९८७ ॥ वृथा निरर्थकाविध्योः सादृश्ये प्रक्रमे यथा । प्रकारयोग्यतावीप्सापदार्थानतिलङ्घने ॥ ९८८ ॥ तथातिदेशेनुज्ञाने प्रकारेपि समुच्चये । नः पृच्छायां वितर्के च पश्चात्सादृश्ययोरनु ॥ ९८९ ॥ दैर्ष्ये च लक्षणादौ च तत्त्वाख्यानेप्यथो ननु । प्रश्नावधारणानुज्ञानुनयामन्त्रणोत्तरे ॥ ९९० ॥ ;p{0072} आक्षेपेच्छानिश्चयेषु वाक्यादिप्रतिवाक्ययोः । गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ ९९१ ॥ आक्षेपादौ पदार्थे च वर्जने गर्हणेप्यपः । उपः समीप आधिक्ये हीनत्वेङ्गीकृतावपि ॥ ९९२ ॥ किं पृच्छायां जुगुप्सायामाक्षेपेल्पावसानयोः । हुं वितर्के परिप्रश्ने प्रक्रान्तोक्तिनिवारणे ॥ ९९३ ॥ भयादौ भर्त्सने कोपेनिच्छायामथ कं जले । मूर्धनिन्दासुखेषु स्यादां सत्यार्थे स्मृतौ तथा ॥ ९९४ ॥ अमा सह समीपे स्यात्सामि त्वर्घे जुगुप्सने । तूष्णीमर्थे सुखे जोषं नूनं तर्केर्थनिश्चये ॥ ९९५ ॥ उपांशु वचने तूष्णीमेवमित्थंतथार्थयोः । निर्देशे चोपदेशे च निश्चये च प्रतिश्रवे ॥ ९९६ ॥ नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने । विस्मयस्मृत्यलीकेषु समं तुल्यसहार्थयोः ॥ ९९७ ॥ अलं भूषणपर्याप्तिसामर्थ्येषु निवारणे । सांप्रतं वर्तमानार्थे युक्तार्थेनन्तरं तथा ॥ ९९८ ॥ मध्येन्तिके च समया निर्निश्चयनिषेधयोः । स्वर्गे परे च लोके स्वर्भेदाप्रथमयोः पुनः ॥ ९९९ ॥ प्रातः प्रभाते स्वार्थे च मध्ये बाह्येन्तरित्यपि । स्यात्प्रबन्धे चिरातीते निकटागामिफे पुरा ॥ १००० ॥ ऊर्युरर्युरुरी चैते विस्तारेङ्गीकृतावपि । किल संभाव्यवार्त्तार्थहेत्वलीकारुचिष्वथ ॥ १००१ ॥ निषेधवाक्यालंकारजिज्ञासानुनये खलु । -- ल शंसानिश्चययोर्वा विकल्पोपमानयोः ॥ १००२ ॥ द्वंद्वे समुच्चये च स्यादेवौपम्येवधारणे । अवज्ञायां मनागर्थ उत्प्रेक्षातर्कयोरपि ॥ १००३ ॥ तिरोन्तर्धो तिर्यगर्थे मिथोन्योन्यं रहस्यपि । जन्मप्राकाश्ययोः प्रादुरधो बुधनिकारयोः ॥ १००४ ॥ ;p{0073} नमः पूजाप्रह्वतयोस्तत्त्वं मुख्यत्वमञ्जसा । कष्टे क्षतौ हशब्दः स्यादा - - र्थस्य सूचने ॥ १००५ ॥ दुःखे शोके विषादे [ हा ] - - - - - । हिशब्दः स्याद्विशेषा - - - - चावधारणे ॥ १००६ ॥ अह क्षेपे विनियोगेहह खेदेद्भुत - - - ॥ अभ्यादानेभ्युपगमे तूष्णींभावे समर्चने । दानप्रतिग्रहादौ स्यादोंकारोपि च मङ्गले ॥ १००७ ॥ ;c{॥ इति मङ्खकोशः समाप्तः ॥}