;METADATA ;title{Anekārthanāmamālā} ;author{Harṣakīrti} ;bookFullName{Harṣakīrti's Anekārthanāmamālā - A homonymic dictionary of Sanskrit} ;bookSeriesDetails{NACHRICHTEN DER AKADEMIE DER WISSENSCHAFTEN IN GOTTINGEN I. PHILOLOGISHCH-HISTORISCHE KLASSE Nr. 6} ;editor{Claus vogel} ;editorQualifications{} ;publisher{Vandenhoeck & Ruprecht in gottingen} ;pressDetails{Hubert & Co., Gottingen} ;publicationYear{1981 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ANHK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Dr. Dhaval Patel for spending time to type in and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{24 January 2020} ;version0.0.2{24 January 2020} ;version0.0.3{24 January 2020} ;version0.0.4{24 January 2020} ;version0.1.0{24 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0140} ;k{कान्ताः} सूर्ये वेधसि वायौ कः कं सुखे मस्तके जले । अनुष्टुब्यशसोः श्लोको लोकस्तु भुवने जने ॥ १ ॥ उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः । इन्द्रे घूके कौशिकः स्यात् पृथुकौ चिपिटार्भकौ ॥ २ ॥ कटकं कण्ठके सैन्ये नितम्बे पर्वतस्य च । कण्टकं रोमहर्षे स्यात् सूच्यग्रे क्षुद्रवैरिणि ॥ ३ ॥ जैवातृकश्चन्द्रमसि तथा दीर्घायुषि स्मृतः । किष्कुर्हस्ते वितस्तौ च पङ्कः कर्दमपापयोः ॥ ४ ॥ ;c{॥ कान्ताः ॥} ;k{खान्ताः} खमिन्द्रियं खमाकाशमलिबाणौ शिलीमुखौ । शङ्खो निधौ कम्बुनि च भालश्रवोऽन्तरेऽस्थनि ॥ ५ ॥ ;c{॥ खान्ताः ॥} ;k{गान्ताः} नागः सर्पे गजे शीर्षे अगो वृक्षे च पर्वते । भागो ज्ञाने रवौ योनौ समग्रैश्वर्यवीर्ययोः ॥ ६ ॥ रुपप्रयत्नधर्मेच्छायशोवैराग्यमुक्तिषु । आशुगौ वायुबाणौ च शरार्कविहगाः खगाः ॥ ७ ॥ पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः । सारङ्गश्चातके भृङ्गे कुञ्जरे हरिणेऽपि च ॥ ८ ॥ भोगः सुखे सर्पकाये फणायां गणिकाभृतौ । शकटाङ्गे युगः प्रोक्तो युगं युग्मे कृतादिषु ॥ ९ ॥ वराङ्गं मस्तके योनौ लिङ्गं स्याच्चिह्नशिश्नयोः । पुंस्त्रीनपुंसकं लिङ्गं पशवोऽपि मृगाः स्मृताः ॥ १० ॥ ;c{॥ गान्ताः ॥} ;p{0142} ;k{घान्ताः} अर्घः पूजाविधौ मूल्येऽप्योघो वृन्देऽम्भसां रये । ;c{॥ घान्ताः ॥} ;k{चान्ताः} शुचिः पवित्रे वह्नौ च शृङ्गाराषाढयोरपि ॥ ११ ॥ रुचिः स्पृहायां किरणे काचः शिक्ये दृशो रुजि । अर्चा पूजाप्रतिमयोश्चर्चा लेपे विचारणे ॥ १२ ॥ ;c{॥ चान्ताः ॥} ;k{जान्ताः} अजो विष्णौ विधौ छागे तथा व्रीहौ त्रिवार्षिके । द्विजो विप्रेऽण्डजे दन्ते जलजं पद्मशङ्खयोः ॥ १३ ॥ प्रजा तु संततौ लोके गोष्ठे च निवहे व्रजः । ध्वजश्चिह्ने पताकायां शौण्डिके मेहनेऽपि च ॥ १४ ॥ ;c{॥ जान्ताः ॥} ;k{ञान्ताः} दोषज्ञौ वैद्यविद्वांसौ क्षेत्रज्ञौ ----- । संज्ञा तु चेतना हस्तनेत्राद्यैश्चार्थसूचना ॥ १५ ॥ ;c{॥ ञान्ताः ॥} ;k{टान्ताः} काके निम्बेऽप्यरिष्टः स्याद्घोले चैवाप्युपद्रवे । फेनिले च तस्य फले अरिष्टं सूतकागृहे ॥ १६ ॥ अनृते शैलशृङ्गे च कूटं कपटपाशयोः । सूक्ष्मैलायां अल्पकाले त्रुटिः स्यात् संशयेऽपि च ॥ १७ ॥ अत्युत्कर्षे च संख्यायां कोटिः स्यादग्रभागके । जटा लग्नकचे मूले दक्षेऽमन्देऽगदे पटुः ॥ १८ ॥ ;c{॥ टान्ताः ॥} ;p{0144} ;k{ठान्ताः} नीलकण्ठः शिवो बर्ही काष्ठोत्कर्षे स्थितौ दिशि । निष्ठा नाशे च निर्वाहे तथोत्कर्षे व्रतेऽपि च ॥ १९ ॥ ;c{॥ ठान्ताः ॥} ;k{डान्ताः} नीरेऽधमे द्रुमस्कन्धे काण्डोऽवसरबाणयोः । कृपाणके भाजने च भाण्डं मूलवणिग्धने ॥ २० ॥ ;c{॥ डान्ताः ॥} ;k{णान्ताः} मार्गणो याचके बाणे गणो गच्छसमूहयोः । वर्णो द्विजादौ विस्तारे स्तुतौ वर्णं तु चाक्षरे ॥ २१ ॥ गुणाः सत्त्वादयो ज्ञेया गुणा रूपादयस्तथा । धनुर्ज्यायां गुणो ज्ञेयः प्रत्यङ्गरज्जुतन्तुषु ॥ २२ ॥ करणं साधकतमं बवादि गात्रमिन्द्रियम् । प्रमाणं सत्यमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ २३ ॥ शरणं गृहरक्षित्रोर्वारुणी पश्चिमा सुरा । उत्सवे सूक्ष्मकाले च प्रस्तावे च क्षणः स्मृतः ॥ २४ ॥ अरुणो रक्तवर्णे स्याद्भास्करे सारथावपि । हरिणो मृगे च धवले द्यूते मूल्ये धने पुनः ॥ २५ ॥ पशुशृङ्गे हस्तिदन्ते विषाणं परिकीर्तितम् । तृष्णा स्पृहा पिपासा च घृणा दयाजुगुप्सयोः ॥ २६ ॥ जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽपि च कीर्तितः । केशबन्धे नदीवेगे वेणी स्याद्धरणेऽपि च ॥ २७ ॥ तीक्ष्णं तिक्ते विषे लोहे मणिर्मेढ्राग्ररत्नयोः । ;c{॥ णान्ताः ॥} ;k{तान्ताः} क्षत्ता द्वाःस्थे रथाध्यक्षे क्षत्रियायां च शूद्रजे ॥ २८ ॥ यन्ता हस्तिपके सूते मरुतौ पवनामरौ । कृतान्तौ यमसिद्धान्तौ मूर्तिः काठिन्यकाययोः ॥ २९ ॥ जातिर्गोत्रे च सामान्ये भूतिर्भस्मनि संपदि । रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ॥ ३० ॥ ;p{0146} श्रुतिर्वेदे च कर्णे च क्षितिः स्थाने भुवि क्षये । कान्तिः शोभाभिलाषश्च शान्तिर्भद्रे शमेऽर्हति ॥ ३१ ॥ सितो बद्धे ग्रहे वर्णे नतस्तगरनम्रयोः । वृत्तं पद्ये चरित्रे च संजाते वर्तुले दृढे ॥ ३२ ॥ रतिः स्मरस्त्रियां रागे संभोगे च तृतावपि । प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥ ३३ ॥ ग्रहभेदे ध्वजे केतुश्चिह्ने सूर्यद्युतावपि । यानपात्रे शिशौ पोतः प्रतीतः ख्यातहृष्टयोः ॥ ३४ ॥ सूतः पारदसारथ्योर्व्यक्तः स्फुटमनीषिणोः । गृहे रात्रौ च वसतिर्भूभृच्छैले च राजनि ॥ ३५ ॥ ऋतुर्हिमादौ स्त्रीपुष्पे वित्तं द्रव्ये विचारणे । ख्यातेऽपि सीता विज्ञेया मैथिल्यां हलपद्धतौ ॥ ३६ ॥ कलधौतं रूप्यहेम्नोर्धातुर्भ्वादौ रसादिषु । सुवर्णादौ मृद्भेदेऽपि कान्तो रम्ये धवेऽपि च ॥ ३७ ॥ अमृतं यज्ञशेषे स्यात् पीयूषे शैले घृते । अयाचिते च मोक्षे चामृता पथ्या गुडुच्यपि ॥ ३८ ॥ अव्यक्तं च प्रधानं चाशब्दश्च प्रकृतिर्महान् । ;c{॥ तान्ताः ॥} ;k{थान्ताः} अर्थोऽभिधेये द्रव्ये च पदार्थे च प्रयोजने ॥ ३९ ॥ ;p{0148} तीर्थश्चतुर्विधे संघे पुण्यक्षेत्रावतारयोः । ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः ॥ ४० ॥ प्रस्थं सानौ मानभेदे वीथी पङ्क्तौ च वर्त्मनि । ;c{॥ थान्ताः ॥} ;k{दान्ताः} छन्दोऽभिप्रायवशयोरामोदो गन्धहर्षयोः ॥ ४१ ॥ छदः पर्णे गरुति स्यादब्दो वत्सरमेघयोः । ककुच्छ्रेष्ठे वृषस्कन्धे राजचिह्ने महीपतौ ॥ ४२ ॥ मन्दो मूर्खे शनौ रोगिण्यलसे भागवर्जिते । पदं स्थाने विभक्त्यन्ते चरणन्यासपादयोः ॥ ४३ ॥ पादो मूले चतुर्थांशे चांह्रौ पर्यन्तपर्वते । भेदो विदारणे द्वैध उपजापविशेषयोः ॥ ४४ ॥ मदो मद्येऽप्यहंकारे द्वंद्वं समरयुग्मयो । उपनिषच्छुद्धधर्मे वेदतत्त्वे रहस्यपि ॥ ४५ ॥ माकन्दः सहकारे स्यान्माकन्द्यामलकीफले । ;c{॥ दान्ताः ॥} ;k{धान्ताः} मधु मद्ये मधु क्षौद्रे मधु पुष्परसेऽपि च ॥ ४६ ॥ मधुश्चैत्रश्च दैत्यश्च विधुश्चन्द्रे तथाच्युते । सिद्धिर्निष्पत्तिमुक्त्योः स्यात् सिद्धो निष्पन्नमुक्तयोः ॥ ४७ ॥ सिद्धो देवविशेषे च साधुः सज्जनरम्ययोः । वधूः स्त्रियां पुत्रपत्न्यां विद्वच्चान्द्रिसूरा बुधाः ॥ ४८ ॥ बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले । कर्तव्यार्थोपदेशे तु विधिर्दैवे च वेधसि ॥ ४९ ॥ श्रद्धास्तिक्येऽभिलाषे च मुग्धः सुन्दरमूढयोः । स्कन्धः प्रकाण्डे चांसे च विज्ञानादिषु पञ्चसु ॥ ५० ॥ ;p{0150} समूहे सैन्यभागे च बुद्धः सौम्यविपश्चितोः । सुधा चूर्णेष्टिकालेपे स्नुह्यां चाप्यमृतेऽपि च ॥ ५१ ॥ ;c{॥ धान्ताः ॥} ;k{नान्ताः} वनं जले कानने स्याद्भुवनं विष्टपे जले । इनः स्वामिनि सूर्ये च जिनोऽर्हद्बुद्धविष्णुषु ॥ ५२ ॥ घने मेघे दृढे सान्द्रे वाद्यभेदे च मुद्गरे । दानं गजमदे त्यागे धाम तेजसि मन्दिरे ॥ ५३ ॥ जातिश्रेष्ठे मणौ रत्नं राजा चन्द्रे महीपतौ । वेदो ज्ञानं तपो ब्रह्म ब्रह्मा विप्रे च वेधसि ॥ ५४ ॥ चित्रभानू सूर्यवह्नी भानुः सूर्यमयूखयोः । शिखी वह्नौ मयूरे च पत्त्रिणौ शरपक्षिणौ ॥ ५५ ॥ आराधनं साधने स्यात् सेवायां तोषणेऽपि च । प्रधानं प्रकृतौ श्रेष्ठे वितानं कदके क्रतौ ॥ ५६ ॥ ललाम तिलके रम्ये प्रधाने शीर्षदामनि । वर्धनं छेदने वृद्धौ रसना काञ्चीजिह्वयोः ॥ ५७ ॥ ;c{॥ नान्ताः ॥} ;k{पान्तौ} कलापो बर्हतूणीरसमूहरसनासु च । हरे विष्णौ च वह्नौ च वृक्षाकपिरिति स्मृतः ॥ ५८ ॥ ;c{॥ पान्तौ ॥} ;k{फान्तौ} रेफो वर्णे कुत्सिते स्याच्छफः कन्दे क्षुरेऽपि च । ;c{॥ फान्तौ ॥} ;k{बान्तौ} गन्धर्बोऽश्वे गायने च द्विजिह्बौ सर्पदुर्जनौ ॥ ५९ ॥ ;c{॥ बान्तौ ॥} ;k{भान्ताः} पुंल्लिङ्गे दुन्दुभिर्भेर्यामक्षबिन्दौ स्त्रियां पुनः । कुम्भो घटे हस्तिमूर्ध्नि गर्भो भ्रूणे तथोदरे ॥ ६० ॥ ;c{॥ भान्ताः ॥} ;k{मान्ताः} कामः स्मरेऽभिलाषे च कपौ भेके प्लवंगमः । मार्गे वेदे च निगमो रामः श्यामे मनोरमे ॥ ६१ ॥ धर्मः पुण्ये स्वभावे च स्तोमो यज्ञसमूहयोः । ग्रामो निवासे वृन्देऽपि जिह्मस्तु कुटिलेऽलसे ॥ ६२ ॥ ;p{0152} ललामं पुच्छपुण्ड्राश्वभूषाप्रधानकेतुषु । क्षमा पृथ्व्यां तितिक्षायां वामो वक्रे मनोरमे ॥ ६३ ॥ ;c{॥ मान्ताः ॥} ;k{यान्ताः} क्षयो गृहे विनाशे च भ्रातृव्यौ भ्रातृजद्विषौ । अर्यः स्वामिनि वैश्ये च मन्युः क्रोधे क्रतावपि ॥ ६४ ॥ प्रत्ययो ज्ञानविश्वासहेतुसनादिकेष्वपि । धिष्ण्यं गृहे च नक्षत्रे तार्क्ष्यौ गरुडवाजिनौ ॥ ६५ ॥ चैत्यं जिनौकस्तद्बिम्बश्रेष्ठवृक्षवनेषु च । समयः कालसिद्धान्तसंकेतेषु बुधैः स्मृतः ॥ ६६ ॥ विषया इन्द्रियार्थेषु देशे ग्रास्रे च गोचरे । छाया रविस्त्री शोभा च प्रतिबिम्बमनातपः ॥ ६७ ॥ कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने । रहस्योपस्थयोर्गुह्यं प्रणयः स्नेहयाच्ञयोः ॥ ६८ ॥ द्रव्यं गुणाश्रये वित्ते पर्जन्यः शक्रमेघयोः । वृषाकपायी श्रीगौर्योः कल्यौ सज्जनिरामयौ ॥ ६९ ॥ ;c{॥ यान्ताः ॥} ;k{रान्ताः} पयोधरः कुचे मेघे द्वापरः संशये युगे । पारः परतटे प्रान्ते भूरिर्बहुसुवर्णयोः ॥ ७० ॥ करो हस्तांबुबलिषु करीरः कलसे तरौ । अम्बरं व्योम वस्त्रं च क्षीरं दुग्धे जलेऽपि च ॥ ७१ ॥ पुष्करं हस्तिशुण्डाग्रे पद्मे खड्गफले जले । वाद्यभाण्डमुखे व्योम्नि तीर्थौषधिविशेषयोः ॥ ७२ ॥ सूर्ये चन्द्रे यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः ॥ ७३ ॥ सारः श्रेष्ठे बले वित्ते स्वर्णे द्रव्ये च राः स्मृतः । प्रतिज्ञायां च संग्रामे संगरः परिकीर्तितः ॥ ७४ ॥ ;p{0154} मध्ये छिद्रे विशेषे च व्यवधाने बहिर्युजि । अन्तरीये निवसने षट्सु त्वर्थेषु चान्तरम् ॥ ७५ ॥ शिखरं शैलवृक्षाग्रे कक्षापुलककोटिषु । पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च ॥ ७६ ॥ विहारो देशगमने क्रीडायां जिनसद्मनि । पाटीरश्चन्दने वङ्गे कर्पूरेऽगुरुणि स्मृतः ॥ ७७ ॥ धात्री तु स्यादुपमाता क्षितिरामलकीतरुः । आलेख्याश्चर्ययोश्चित्रं क्षेत्रं पत्नीशरीरयोः ॥ ७८ ॥ योग्यभाजनयोः पात्रं पत्त्रं वाहनवाजयोः । मित्रं सखा रविर्मित्रः कलत्रं श्रोणिभार्ययोः ॥ ७९ ॥ कर्पूरस्वर्णयोश्चन्द्रः सूत्रं तन्तुव्यवस्थयोः । तन्त्रं स्वराष्ट्रचिन्तायां सिद्धान्ते च परिच्छदे ॥ ८० ॥ सत्त्रं आच्छादने यज्ञे सदादाने धनेऽपि च । शुक्रं रेतसि शुक्रस्तु ज्येष्ठभार्गववह्निषु ॥ ८१ ॥ नरेन्द्रो विषवैद्येऽपि नरेन्द्रः पार्थिवेऽपि च । श्रीर्वेषरचना शोभा लक्ष्मीः श्रीविष्णुपत्न्यपि ॥ ८२ ॥ ;c{॥ रान्ताः ॥} ;k{लान्ताः} मस्तिके मुकुटे मौलिराजौ तुर्ययुगे कलिः । शीलं स्वभावे सद्वृत्ते बलं सैन्ये पराक्रमे ॥ ८३ ॥ कृतान्तानेहसोः कालो बलिः करोपहारयोः । व्यालो दुष्टगजे सर्पे शूलं रोगे तथायुधे ॥ ८४ ॥ प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे । बालो मूर्खेऽर्भके केशे कीलालं रुधिरे जले ॥ ८५ ॥ ;p{0156} कमलं जले च पद्मे च कुरङ्गे कमलः पुनः । जालं समूह आनाये गवाक्षे कोरकेऽपि च ॥ ८६ ॥ अब्ध्यम्बुवृद्धौ वेला स्यात् कालमर्यादयोरपि । आली सख्यां च पङ्क्तौ च पीलुर्वृक्षे च हस्तिनि ॥ ८७ ॥ ;c{॥ लान्ताः ॥} ;k{वान्ताः} ध्रुवस्त्वौत्तानपादिः स्याच्छाश्वते निश्चिते ध्रुवम् । स्व आत्मनि तथात्मीये ज्ञातौ स्वं च धनेऽपि च ॥ ८८ ॥ शिवं भद्रं शिवः शम्भुः शिवा गौरी शृगाल्यपि । नीवी स्त्रीकटिकाग्रन्थौ वणिङ्मूलधनेऽपि च ॥ ८९ ॥ राज्ञि मेघे सुरे देवो नवो नव्ये स्तुतावपि । भवः शिवे च संसारे भूतिसत्ताप्तिजन्मसु ॥ ९० ॥ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ९१ ॥ भावः स्वभावाभिप्रायसत्ताशृङ्गारचेष्टिते । दावो वने वनाग्नौ च प्रसवो जन्मपुष्पयोः ॥ ९२ ॥ पृथ्वी भूमौ पृथौ हिङ्गुपत्त्रिकाकृष्णाजीरयोः । ;c{॥ वान्ताः ॥} ;k{शान्ताः} कोशः खड्गपिधाने स्यात् पद्मगर्भे धनौकसि ॥ ९३ ॥ खगाण्डे शपथे दिव्ये कोशः स्याद्योनिशिम्बयोः । विट् तु वैश्यो मनुष्यश्च राशिर्मेषादिपुञ्जयोः ॥ ९४ ॥ कीनाशः कृपणे काले राक्षसे कर्षकेऽपि च । वंशोऽन्वये मस्करे च गात्रपृष्ठे कदम्बके ॥ ९५ ॥ ईशः स्वामिनि रुद्रे च वशा नारी च हस्तिनि । आशा ककुभि वाञ्छायां स्पशस् ------ ॥ ९६ ॥ प्रकाशोऽतिप्रसिद्धे स्याद्दशा वर्तिव्यवस्थयोः । ;c{॥ शान्ताः ॥} ;k{षान्ताः} शेषोऽनन्ते वसिष्ठे च शेषा निर्माल्यवस्तुषु ॥ ९७ ॥ ;p{0158} कोषस्तु कोशवज्ज्ञेयो विषं हालाहले जले । अक्षो रथस्यावयवे पाशके च विभीतके ॥ ९८ ॥ सौवर्चले हृषीके च हेम्नोऽक्षे राक्षसेऽपि च । कक्षा साम्ये च दोर्मूलेऽधोवासःपश्चिमाञ्चले ॥ ९९ ॥ तृणे वने हस्तिरज्जौ कक्षो द्वारप्रकोष्ठके । पक्षः सहाये मासार्धे वर्गे देहस्य पार्श्वके ॥ १०० ॥ लक्षं व्याजे च वेध्ये च रक्षा रक्षणभस्मनोः । ;c{॥ षान्ताः ॥} ;k{सान्ताः} हंसः सितच्छदे सूर्ये जीवे च परमात्मनि ॥ १०१ ॥ वसुस्त्वग्नौ देवभेदे वसु रत्ने धनेऽपि च । द्वावुत्तंसावतंसौ च कर्णपूरे च शेखरे ॥ १०२ ॥ प्रसूर्माता च वडबा दासो धीवरभृत्ययोः । रसः सूते विषे वीर्ये वोले रागे जलेऽपि च ॥ १०३ ॥ शृङ्गारादौ देहधातौ मधुरादौ द्रवे गुणे । विभावसू सूर्यवह्नी व्यासो मुनिप्रपञ्चयोः ॥ १०४ ॥ ओजो बले तेजसि च च्छन्दः पद्येच्छयोः श्रुतौ । तपः कृच्छ्रे च धर्मे च महस्तेजसि चोत्सवे ॥ १०५ ॥ आगोऽप्रधाने पापे च वयो बाल्यादिपक्षिणोः । तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले ॥ १०६ ॥ श्रेयो भद्रे च धर्मे च प्रशस्तेऽपि प्रकीर्तितम् । रहो गुह्ये रते तत्त्वे वर्चो गूथे च तेजसि ॥ १०७ ॥ रजः स्त्रीपुष्परेण्वोश्च पयः क्षीरं पयोऽम्बु च । विहायः पक्षिनभसोः सुमना देवपुष्पयोः ॥ १०८ ॥ ;c{॥ सान्ताः ॥} ;k{हान्ताः} बर्हः पर्णे कलापे च परिवारे पतद्ग्रहे । महस्तेजस्युत्सवे च स्नेहस्तैले च प्रेमणि ॥ १०९ ॥ ;c{॥ हान्ताः ॥} ;p{0160} ;k{अव्ययानि} ;c{अथाव्ययानि} आङीषदर्थेऽभिविधौ मर्यादायां क्रियायुजि । आ प्रगृह्यः स्मृतौ वाक्ये आस्तु संतापकोपयोः ॥ ११० ॥ खेदानुकम्पासंतोषविस्मयामन्त्रणे बत । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ १११ ॥ इति हेतुप्रकरणप्रकाशादिसमाप्तिषु । अपि संभावनागर्हाशङ्काप्रश्नसमुच्चये ॥ ११२ ॥ यावत् तावच्च साकल्येऽवधौ मानेऽवधारणे । अथो अथ द्वौ माङ्गल्येऽनन्तरारम्भप्रश्नेषु ॥ ११३ ॥ अलं भूषणपर्याप्तिसमर्थेषु निवारणे । किलेति निश्चयालीकवार्त्तासंभावनासु च ॥ ११४ ॥ निषेधहेत्वलंकारजिज्ञासानुनये खलु । नाम प्रकाशसंभाव्यकोमलामन्त्रणेषु च ॥ ११५ ॥ नु पृच्छायां वितर्के च पश्चात्सादृश्ययोरनु । ननु प्रश्ने वितर्के चामन्त्रणेऽनुनयेऽपि च ॥ ११६ ॥ वोपमायां विकल्पे च निर्निश्चयनिषेधयोः । ईषदर्थे कुत्सिते कु धिग् निर्भर्त्सननिन्दयोः ॥ ११७ ॥ तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु । नञभावे निषेधे च तद्विरुद्धतदन्ययोः ॥ ११८ ॥ अहहेत्यद्भुते खेदे हि हेतौ निश्चयेऽपि च । अङ्ग संबोधने हर्षे प्रकर्षेऽतिक्रमेऽप्यति ॥ ११९ ॥ नागपुरीय-तपोगण-राजाः श्री-चन्द्रकीर्ति-सूरि-वराः । तच्छिष्य-हर्षकीर्ति-सुरिरनेकार्थशतमाह ॥ १२० ॥