;METADATA ;title{अनेकार्थनिघण्टु} ;author{धनञ्जय} ;bookFullName{महाकवि धनञ्जयविरचिता नाममाला - अमरकीर्तिविरचितभाष्योपेता, अनेकार्थनिघण्टुः एकाक्षरीकोशश्च} ;bookSeriesDetails{ज्ञानपीठ मूर्तिदेवी जैन ग्रन्थमाला संस्कृत ग्रन्थाङ्क ६} ;editor{पं० शम्भुनाथ त्रिपाठी} ;editorQualifications{व्याकरणाचार्य, सप्ततीर्थ} ;publisher{अयोध्याप्रसाद गोयलीय, मन्त्री, भारतीय ज्ञानपीठ काशी, दुर्गाकुण्ड रोड, बनारस सिटी} ;pressDetails{पं० पृथ्वीनाथ भार्गव, भार्गव भूषण प्रेस, गायघाट, काशी} ;publicationYear{1944 A.D.} ;dataEntryBy{Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html} ;dataEntryEmail{} ;proofReadBy{Mr. Pradeep Rastogi} ;proofReaderEmail{pkrastogi.lko@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ANND} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Mr. Pradeep Rastogi for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{19 February 2019} ;version0.0.2{16 February 2020} ;version0.0.3{16 February 2020} ;version0.0.4{16 February 2020} ;version0.1.0{16 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0102} ;c{अनेकार्थ-निघण्टुः} गम्भीरान् रुचिराँश्चित्रान् विस्तीर्णार्थप्रसाधनान् । कष्टशब्दान् प्रवक्ष्यामि कवीनां हितकाम्यया ॥ १ ॥ वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु । नवस्वर्थेषु मेधावी गोशब्दमुपलक्षयेत् ॥ २ ॥ कः प्रजापतिरुद्दिष्टो को वायुरभिधीयते । कः शब्दः स्वर्गमाख्याति क इत्यात्मा मतः क्वचित् ॥ ३ ॥ सलिलं कमिति ज्ञेयं शिरः कमिति चोच्यते । देवाननिमिषानाहुर्मत्स्याननिमिषांस्तथा ॥ ४ ॥ अग्निश्च वर्हिणः चैव वृक्षः कुक्कुट एव च । शिखिनोऽभिहिताः शस्त्रः पृथुकश्च मतः शिखी ॥ ५ ॥ हंसो नारायणः प्रोक्तः क्वचिद्धंसो दिवाकरः । अश्वश्चापि स्मृतो हंसो हंसश्चापि विहंगमः ॥ ६ ॥ सारसस्सरसिजेन्द्वोः पतत्र्यपि च सारसः । राजाऽपि नृपतिर्ज्ञेयो राजा चोक्तो निशाकरः ॥ ७ ॥ विभावसुर्हुताशः स्याच्छ्वेतच्छत्रं क्वचिद्भवेत् । हिमारातिः स्मृतो वह्निः हिमारातिश्च भास्करः ॥ ८ ॥ धनञ्जयोऽग्निर्व्याख्यातो पार्थश्चापि धनञ्जयः । बीभत्सश्च मतः पार्थो बीभत्सो विकृतः स्मृतः ॥ ९ ॥ अग्निर्विरोचनः प्रोक्तो भास्करस्तु विरोचनः । विरोचनश्च चन्द्रः स्यात्क्वचिद्दैत्यो विरोचनः ॥ १० ॥ पाञ्चजन्यः क्वचिद्वह्निः क्वचिच्छङ्खो निगद्यते । कम्बुश्च गदितः शङ्खः कम्बुरिष्टश्च कुञ्जरः ॥ ११ ॥ भास्करोऽग्निः समुद्दिष्टः सहस्रांशुरपि क्वचित् । पतङ्गो दिनकृद् ज्ञेयः पतङ्गः शलभः स्मृतः ॥ १२ ॥ कौशिको देवराजः स्यादुलूकश्चापि कौशिकः । शम्भुर्ब्रह्मा च विष्णुश्च शम्भुश्चैव महेश्वरः ॥ १३ ॥ वृषकेतुर्मतः शङ्कुः शङ्कुः कील इहोच्यते । जम्बुको वरुणो ज्ञेयः शृगालश्चापि जम्बुकः ॥ १४ ॥ अर्क इष्टस्तु मघवान् घर्मांशुरर्क उच्यते । मन्थी राहुश्च चन्द्रश्च ग्रहो मन्थी निरुच्यते ॥ १५ ॥ केतवो रश्मयो ज्ञेयाः केतवश्च महाध्वजाः । तमोनुदः सहस्रांशुरग्निश्चापि प्रकीर्त्यते ॥ १६ ॥ मयूखाः किरणा ज्ञेया मयूखाश्चापि कीलकाः । सप्तर्षिरुत्सवः प्रोक्तः सप्तान्ये ऋषयः क्वचित् ॥ १७ ॥ वसवः शंवरा उक्ता देवाश्च वसवो मताः । नक्षत्रं धिष्ण्यमित्युक्तं गेहं धिष्ण्यं मतं क्वचित् ॥ १८ ॥ वासोऽम्बरमिति ख्यातमम्बरं च नभःस्थलम् । पयः सलिलमुद्दिष्टं पयः क्षीरं मतं क्वचित् ॥ १९ ॥ शिवं पानीयमुद्दिष्टं शिवं श्रेयः शिवं सुखम् । शिवं व्योमपतिं प्राहुः शिवं श्रेष्ठं प्रचक्षते ॥ २० ॥ क्षरं जलं विजानीयात्क्वचिन्मेधं विदुः क्षरम् । स्यन्दनं चाम्बु निर्दिष्टं स्यन्दनश्च महारथः ॥ २१ ॥ कृष्णं तमः समाख्यातं कृष्णश्चाधोक्षजस्तथा । अमृतं क्षीरमित्युक्तं क्वचिच्चेष्टं समुद्रजम् ॥ २२ ॥ शवं च सलिलं प्रोक्तं मृतमाहुः शवं तथा । तोयं घृतमिति प्रोक्तं घृतं सर्पिः क्वचिद्भवेत् ॥ २३ ॥ पानीयं च विषं प्रोक्तं क्वचिद्धालाहलं विषम् । हस्तिहस्तः करः प्रोक्तः करो हस्तः प्रचक्ष्यते ॥ २४ ॥ कीलालं रुधिरं प्रोक्तं नीरं चैव प्रशस्यते । भुवनं सलिलं प्रोक्तं आकाशं भुवनं स्मृतम् ॥ २५ ॥ प्रवालं कोमलं ज्ञेयं कोमलं स्पष्टवाचकम् । सदनं च स्मृतं तोयं सदनं वेश्म उच्यते ॥ २६ ॥ तोयं सद्मेति गदितं निलयं सद्म निगद्यते । संवरं च जलं प्रोक्तं संवरः पर्वतो भवेत् ॥ २७ ॥ संवरश्चाऽसुरः ख्यातो यो बिभर्ति रसां प्रियाम् । स्वरवाक्क्ष्मास्विडां प्राहुरिडा चाम्बरदेवताम् ॥ २८ ॥ पत्नीं चन्द्रेरिडां प्राहुरिला तत्समतां गता । अदितिः पृथिवी ज्ञेया देवमाताऽदितिः क्वचित् ॥ २९ ॥ अध्यूढा भार्या परित्यक्ता त्वद्भिदिश्च निगद्यते । वृषो धर्म्मः क्वचिज्ज्ञेयो गवामपि पतिर्वृषः ॥ ३० ॥ वृषा कर्णश्च गदितो वृषा चोक्तः शतक्रतुः । रौहिणेयो बलः प्रोक्तो रौहिणेयो बुधः क्वचित् ॥ ३१ ॥ बलदेवो मतः शेषो नागो वा शेष उच्यते । रामस्तु लांगली ज्ञेयो रामो दाशरथिः क्वचित् ॥ ३२ ॥ रामश्च शुक्लो वर्णो रामश्च क्षत्रनाशनः । वराहः केशवः ख्यातो वराहो जलदः क्वचित् ॥ ३३ ॥ वराहः शकरो ज्ञेयो विष्णुर्मेघो हरिस्तथा । अजाराट्स्मरेन्दवो ज्ञेयास्त्रिनेत्रश्चाप्यजो मतः ॥ ३४ ॥ अजः पशुश्च विख्यातो तथाजौ ब्रह्मकेशवौ । शरीरजः स्मृतो रोगः पुत्रश्चापि शरीरजः ॥ ३५ ॥ ;p{0103} ज्ञेयं पुष्करमब्जं च नागनासाग्रमेव च । कूलं नभः समाख्यातं कूलं रोधः प्रचक्षते ॥ ३६ ॥ खं चानन्तमिति प्रोक्तमनन्तं च बलं क्वचित् । विष्णुः क्वचिदनन्तः स्यान्नागश्चानन्त उच्यते ॥ ३७ ॥ प्रजापतिः स्मृतो राजा ब्रह्मा चापि प्रजापतिः । प्रजापतिः स्मृतः क्षत्ता क्षत्ता च चर उच्यते ॥ ३८ ॥ वामः पयोधरः प्रोक्तो वामः स्याद्द्रविणं हरः । वामश्च मदनः प्रोक्तो वामश्च प्रतिकूलके ॥ ३९ ॥ आगोपो गोपको ज्ञेयः क्वचिदागोपको ध्वजः । उरश्चाङ्कः समाख्यातः स्थानमङ्कः स्मृतस्तथा ॥ ४० ॥ वासरस्तु स्मृतो नागो वासरो दिवसो मतः । विभावसुर्निशा ज्ञेया गन्धर्वश्च क्वचिन्मतः ॥ ४१ ॥ शर्वर्यो रात्रयः प्रोक्ताः शर्वर्यश्च स्त्रियो मताः । सान्द्रं घनमिति प्रोक्तं स्निग्धं सान्द्रं निगद्यते ॥ ४२ ॥ स्वः स्वर्गस्य मतं नाम स्वः सुखं क्वचिदुच्यते । स्व आत्मा चैव निर्दिष्टः स्वः प्रोक्तो गृहमूषिकः ॥ ४३ ॥ ककुश्छन्दोविशेषज्ञो मतः शास्त्रेपि ना ककुप् । ककुम्महीरुहः प्रोक्तो ज्ञेयास्तु ककुभो दिशः ॥ ४४ ॥ क्षयं वेश्म समुद्दिष्टं क्षयं रोगं प्रचक्षते । जलदस्तु प्लवो ज्ञेयः प्लवो ज्ञेयस्तथोडुपः ॥ ४५ ॥ प्रासादो मण्डपः प्रोक्तो विहारश्चापि कथ्यते । घनं घनं विजानीयाद् घनं विपुलमुच्यते ॥ ४६ ॥ प्रयुज्यते च कस्मिंश्चिद् घनं सङ्घातवाद्ययोः । वरूथं स्यन्दनाग्रं स्याद्वरूथं वेश्म उच्यते ॥ ४७ ॥ चमूश्च वर्म सहसा प्रवदन्ति मनीषिणः । असुराश्च सुरा ज्ञेयाः क्वचिद्देवारयोऽसुराः ॥ ४८ ॥ नागाश्च द्विरदा ज्ञेयाः पन्नगाश्च क्वचिन्मताः । गन्धर्वश्च तथा वायुः क्वचित्स्याद् देवगायनः ॥ ४९ ॥ तार्क्ष्यो हयः समुद्दिष्टस्तार्क्ष्यश्चापि पतत्रिराट् । बालेयानसुरानाहुर्वालेयांश्च क्वचित् खरान् ॥ ५० ॥ तृणी वनस्पतिः प्रोक्ता क्वचिदार्द्राश्च कथ्यते । शिखरी वृक्ष उद्दिष्टः शिखरी पर्व्वतः स्मृतः ॥ ५१ ॥ द्विजो विप्रश्च दन्तश्च द्विजः पक्षी निगद्यते । चौरो मलिम्लुचो ज्ञेयो वातश्चापि मलिम्लुचः ॥ ५२ ॥ आत्मजं रक्तमुद्दिष्टं सुतः कामस्तथैव च । कीनाशो मृतको ज्ञेयः कीनाशश्चापि राक्षसः ॥ ५३ ॥ कीनाशोऽग्निः कृतघ्नश्च कृपणो यम एव च । कीनाशः कर्षको ज्ञेयः कीनाशश्च वृकोदरः ॥ ५४ ॥ अवदातं प्रधानं स्यादवदातं च पाण्डुरम् । ज्योतिर्ल्लोचनमुद्दिष्टं ज्योतिर्नक्षत्रमुच्यते ॥ ५५ ॥ ज्योतिश्च गदितो वह्निः काव्येषु मुनिपुङ्गवैः । प्रधानं सज्जनं ज्ञेयं प्रधानं श्वेतमुच्यते ॥ ५६ ॥ अब्दः संवत्सरो ज्ञेयो मेघश्चापि क्वचिन्मतः । बलाहका महामेघाः शिखरी च बलाहकः ॥ ५७ ॥ तोयदं जलदं प्राहुस्तोयदं कथ्यते घृतम् । जीमूतश्च मतो नागो जीमूतः क्वचिदम्बुदः ॥ ५८ ॥ पौलस्त्यं तु मतं युद्धं पौलस्त्यं पौरुषं विदुः । शुचिकृद्रजकश्चैव प्रोक्तो नित्यं बुधै रसः ॥ ५९ ॥ पर्जन्यं जलदं प्राहुः पर्जन्यं तु शतक्रतुः । शिलीमुखाः स्मृता बाणा भ्रमराश्च शिलीमुखाः ॥ ६० ॥ लेखा सीमेति विज्ञेया लेखा चित्रकृतौ मता । अम्बरीषं क्वचिद्भ्राष्ट्रं क्वचिद्युद्धं निगद्यते ॥ ६१ ॥ पुंस्त्वं चापि मतं युद्धं पुंस्त्वं पौरुषमुच्यते । विद्वांसोऽरिपवो ज्ञेया विद्वांसस्त्वसवो मताः ॥ ६२ ॥ मायाऽविद्येति विज्ञेया क्वचिन्माया तु सांवरी । मधु द्राक्षीति विज्ञेया क्वचित्स्यान्मधु माक्षिकम् ॥ ६३ ॥ मधु चाम्बु समाख्यातं सुरा च मधुसंज्ञका । खं रंध्रमिति विज्ञेयं खं गृहं नभ एव च ॥ ६४ ॥ खमिन्द्रियमिति ख्यातं खं च नक्षत्रमुच्यते । धार्तराष्ट्रा महाहंसा धृतराष्ट्रसुताः क्वचित् ॥ ६५ ॥ प्रभाकरो मतः सूर्यो वह्निश्चापि प्रभाकरः । सितं शुक्लमिति ज्ञेयं सितं बद्धं प्रचक्षते ॥ ६६ ॥ असितं कृष्णमित्युक्तं अशितं भक्षितं स्मृतम् । वभ्रुस्तु नकुलो ज्ञेयः पाण्डवो नकुलस्तथा ॥ ६७ ॥ त्रिशङ्कुमाहुर्मार्जारमृषिश्चापि तथेष्यते । यमस्तु वायसो ज्ञेयो यमः प्रेताधिपस्तथा ॥ ६८ ॥ लक्ष्मणं सारसं विद्यात्तथा दशरथात्मजम् । लक्ष्म चन्द्रस्य कार्ष्ण्यं स्याल्लक्ष्म्यः केतुः प्रकीर्तितः ॥ ६९ ॥ केतुश्चापि मतः काव्ये लक्ष्मेति मुनिपुङ्गवैः । आरुणेयः स्मृतो दक्षो दक्षश्चाचेतसः क्वचित् ॥ ७० ॥ आशुकारी भवेद्दक्षः स्यादली तोमरः स्मृतः । आदित्यं च रविं विद्याद् दैत्यश्चाप्यदितेः सुतः ॥ ७१ ॥ रोगो रजस्तथा रेणू रजो लोहितमुच्यते । स्कन्धो नितम्बसंज्ञः स्यान्नितम्बं जघनं तटम् ॥ ७२ ॥ हेम वस्विति विज्ञेयं वसु तेजो निगद्यते । सारङ्गं चातकं प्राहुः सवर्णे चापि सितासिती ॥ ७३ ॥ रम्भाश्च कदलीः प्राहू रम्भा स्वर्गाङ्गना मता । ग्रावाणो गिरिजाः प्रोक्ता मेघाश्चापि मनीषिभिः ॥ ७४ ॥ ;p{0104} . . . . . . . . . . . . . . . . . . . . . . . . . . . . निगद्यते । औषणं रसमुद्दिष्टमृतं सत्यमपि क्वचित् ॥ ७५ ॥ अक्ष आत्मेति विज्ञेयः केचिदाहुर्विभीतकम् । ज्ञेयमिन्द्रियमक्षं च शाकटं कर्ष एव च ॥ ७६ ॥ अक्षं च पाशकं विद्याद्व्यावहारिकमेव च । पद्ममिन्द्रयमित्युक्तं पद्मं तामरसं विदुः ॥ ७७ ॥ चैत्यमायतनं प्रोक्तं नीडमायतनं तथा । पुष्पं लोहितमुद्दिष्टं पुष्पं च कुसुमं तथा ॥ ७८ ॥ वाजी तुरङ्गमो ज्ञेयो वाजी श्येनो विहङ्गमः । विष्ण्विन्द्रसिंहमण्डूकचन्द्रादित्याँस्तु वानरान् ॥ ७९ ॥ वभ्रुशिवानिलहयान् हरीनिच्छन्ति कोविदाः । पुरुषध्वजलिङ्गेषु हयभूषणलक्ष्मषु ॥ ८० ॥ रामशेषावनीन्द्रेषु ललामं नवसु स्मृतम् । शुक्रा स्मृताऽक्षिदोषोना लवली मञ्जरी तथा ॥ ८१ ॥ वक्रवक्त्रः शुको ज्ञेयः कोकिला वचनप्रिया । पुलिनं जलविच्छेदः पङ्कजं स्यात्कुशेशयम् ॥ ८२ ॥ रतं पापमिति ज्ञेयं सत्वरं शीघ्रमुच्यते । पिशङ्गं रोचनाभं स्यान्मेचकस्तिलको मतः ॥ ८३ ॥ ललाटेऽवस्थितं चिह्नं विद्वद्भिस्तिलकं मतम् । परिचर्यं च कटकं निकषस्तु कषो मतः ॥ ८४ ॥ नानारत्नैरुपचिता मञ्जूष रागिणी स्मृता । दिनकृद्वाजिसिंहेषु केसरित्वं विधीयते ॥ ८५ ॥ अव्यक्तो मधुरः शब्दः कल इत्यभिधीयते । अलातमुल्मुकं ज्ञेयं छेदो नाम भयङ्करः ॥ ८६ ॥ भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् । विलासः कामजो दोषस्तदेव ललितं मतम् ॥ ८७ ॥ उत्तमाङ्गं विना देहं कबन्धं चेति शस्यते । शिरसो वेष्टनं यद्वै तदुष्णीषं निगद्यते ॥ ८८ ॥ आहतं समदीर्घं स्यान्निविडं पीडितोन्नतम् । मण्डूको भेकसंज्ञः स्याद्वर्षाभूश्चातको मतः ॥ ८९ ॥ शिवा पिङ्गवती ज्ञेया विशालं सबलं मतम् । दुश्चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः ॥ ९० ॥ कन्याजातश्च फानीनो पण्डः क्लीब इति स्मृतः । उत्कृष्टः श्वसुरः स्यातां म्लिष्टमव्यक्तवाचकम् ॥ ९१ ॥ रदनो हस्तिदन्तः स्याद्दानं कटकसंज्ञितम् । तोदनं चाङ्कुशं विद्यादालानं हस्तिबन्धनम् ॥ ९२ ॥ घनाघन इति ख्यातः शास्त्रेष्वधिकपौरुषः । अपाचीनं मनोज्ञं च बुद्धिर्ज्ञेया तु शेमुषी ॥ ९३ ॥ अर्कस्तु पादपे ज्ञेयो नदी स्यात्फेनवाहिनी । अश्वारोहो मरुद्यानोऽश्वानां हृदये ध्वनिः ॥ ९४ ॥ आक्रन्द इति विज्ञेयः खुराश्च शफसंज्ञिताः । आममासं भवेत्क्रव्यं पक्वं पिशितमुच्यते ॥ ९५ ॥ शुष्कं तु विरसं ज्ञेयं मृष्टं सरसमुच्यते । शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् ॥ ९६ ॥ वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् । लोकज्ञो दक्षिणो ज्ञेयो दक्षिणश्च तुरः स्मृतः ॥ ९७ ॥ आकूतं तु मतं विद्यात्कण्टकं गहनं मतम् । आननं चाकुले नेत्रे चिकुरं चापि शस्यते ॥ ९८ ॥ पापः श्याम इति प्रोक्तो वभ्रुस्तु कपिलो मतः । स्थविष्टं स्थावरे चैव दविष्टं दूरमुच्यते ॥ ९९ ॥ परमेष्ठी मतः श्रेष्ठः प्रेम प्रियमुदाहृतम् । प्रकाशः स्त्रीगृहेरक्तः शैलूष इति संज्ञितः ॥ १०० ॥ पदकृच्चर्म्मकारः स्यान्नापितस्त्वजयः स्मृतः । लावण्यमाहुर्माधुर्यं चित्रं च शुभकर्म्मजम् ॥ १०१ ॥ व्याधयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः । आधयस्तु स्मृताः प्राज्ञैश्चित्तोत्पन्ना उपद्रवाः ॥ १०२ ॥ रंहो वेगः समाख्यातः सत्रं सच्चरितं स्मृतम् । आलवालं स्मृतं सद्भिरपां वेगनिवारणम् ॥ १०३ ॥ चटकः कलविङ्कः स्यात्तुल्यं सदृशमुच्यते । किलासं पाण्डुरं ज्ञेयं दोला प्रेङ्खेति शस्यते ॥ १०४ ॥ मन्दिरं नगरं ज्ञेयं निलयं चापि मन्दिरम् । सहस्रनयनोऽगारिः प्रघनं युद्धमुच्यते ॥ १०५ ॥ पलाशो हरितो वर्ण्णो मेचको नीलपिञ्जरः । उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः ॥ १०६ ॥ उस्रा वन्ध्या वसा वेहत् पृष्ठोही गर्भिणी हि या । व्याख्यातो मस्करो वेणुस्त्वचिसारः परिकीर्तितः ॥ १०७ ॥ हिलं कामं शपं चैव रोषमाहुर्मनीषिणः । कलभोऽल्पवयो नागः कलुषं चाविलं मतम् ॥ १०८ ॥ वृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ । रत्नं वज्रं विजानीयात्त्रियामा क्षणदा मता ॥ १०९ ॥ दीर्घं प्रांशु विजानीयात् ह्रस्वं नीचकमुच्यते । भूरि प्रभूतमुद्दिष्टमभितः सर्ववाचकम् ॥ ११० ॥ पवनश्चानिलो ज्ञेयः पवनश्चाधमो जनः । प्रियवाक्यो भवेदार्यः स्नातश्च परिकीर्तितः ॥ १११ ॥ आडम्बरश्च पटहो व्यञ्जनं बोधनं मतम् । विपंची वल्लकी ख्याता वीणा चैव निगद्यते ॥ ११२ ॥ मालती सुमना ज्ञेया सुमना मुदितो जनः । वल्लरी मञ्जरी ख्याता प्रपाऽप्शाला प्रकीर्तिताः ॥ ११३ ॥ ;p{0105} आयुर्निरुच्यते तोयं तेन जीवति पद्मकम् । तस्य पत्राक्षिमानेन रामो राजीवलोचनः ॥ ११४ ॥ उत्कृत्य कवचं देहादसृग्दग्धं च यत्पुरा । इन्द्राय दत्तवान्कर्णस्तेन वैकर्त्तनः स्मृतः ॥ ११५ ॥ तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः । स पाण्डवस्य उदरे तेन भीमो वृकोदरः ॥ ११६ ॥ यस्य श्रुतिमुखा वाणी पुण्य-श्लोकः स उच्यते । यः खेदी चानिवर्त्ती च युद्धशौण्डः स उच्यते ॥ ११७ ॥ महासंसर्गसङ्घातं महेष्वासं प्रचक्षते । स्वविक्रमैस्तापयेच्च परं . . . . . . यूथं तापयेत् ॥ ११८ ॥ यूथं तापयेद्यस्तं विज्ञेयश्च स यूथपः । तस्मादपि च यो वर्यः स तु यूथपयूथपः ॥ ११९ ॥ सिंहान्नितान्तसौवीरः स नृसिंह इति स्मृतः । ये हि स्पष्टप्रवक्तारो मतास्ते व्यक्तवादिनः ॥ १२० ॥ यो यमित्थं च नाम्नाति स कीनाश इति स्मृतः । योऽप्रबुद्धोऽल्पबुद्धिश्च स तु मन्द इति स्मृतः ॥ १२१ ॥ उपकारं तु यो हन्ति स कृतघ्न इति स्मृतः । हर्षे गर्वे सुखे खेदे वृद्धौ च प्रतिभासते ॥ १२२ ॥ स्नेहभाग्यक्षये चैव मन्दशब्दो निगद्यते । नातीत्य वर्तते यत्र तदध्यात्मं प्रचक्षते ॥ १२३ ॥ चेतसश्च समाधानं समाधिरिति गद्यते । सर्वक्लेशविनिर्मुक्तो स हि दान्त इति स्मृतः ॥ १२४ ॥ निर्ममो निरहङ्कारो विज्ञेयः छिन्नसंशयः । प्रदाता देशकालज्ञः समाधिस्थः स उच्यते ॥ १२५ ॥ मुखरोऽल्पमतिर्यस्तु सक्रोधश्चैव कीटकः । वृत्तिर्यत्र तु गृह्यानां परोक्षे बहिः तत्क्रिया ॥ १२६ ॥ आहारव्यवहारेषु सा प्रीतिर्निरुपस्करा । परस्परं स्वदारेषु सतां येषां प्रवर्तते ॥ १२७ ॥ विश्रम्भात्प्रणयाद्वापि सा प्रीतिर्निरुपद्रवा । यशः ख्यातिरिति प्रोक्तं तद्योगात्प्राहुरुच्यते ॥ १२८ ॥ कीर्तिख्यातियशोयोगाद् भगवन्निति चोच्यते । प्रियदानेषु यः शुद्धः स उदार इति स्मृतः ॥ १२९ ॥ रजस्वला तु या नारी सा चोदक्या प्रकीर्तिता । प्रीतिर्भावक्रिये स्वच्छरक्षालिंगितनुं विपुम्? ॥ १३० ॥ तेजो रेतसि दीप्तौ तपो हि स्याद् वृषार्थकः । योऽन्यजातो हनो जीवः स शरारू इति स्मृतः ॥ १३१ ॥ मिथ्यादृष्टिरहंमानी नास्तिकः सः प्रकीर्त्तितः । कामः क्रोधश्च वै पूर्वे लोभोऽसत्यं च मध्यमे ॥ १३२ ॥ अन्ते मोहो विषादश्च यस्य ज्ञेयः स षड्वदः । अमृते जारजः कुण्डो मृते भर्त्तरि गोलकः ॥ १३३ ॥ अनयोर्योऽन्नमश्नाति स कुण्डाशी निगद्यते । भ्रूणस्त्री गर्भिणी बाला ब्राह्मणी ब्रह्मजीविनी ॥ १३४ ॥ परचित्ते यवीयान् योः ज्येष्ठपत्नीं परामृशन् । यः पश्चिमश्च ज्येष्ठोऽपि परिचित्तः स उच्यते ॥ १३५ ॥ पुष्पजं क्षोमजं चर्म्मकोशजं भर्म्मजं तथा । गुणजं च समुद्दिष्टं तद्भेदा वस्त्रजातिषु ॥ १३६ ॥ बिम्बारक्तधरा या स्त्री बिम्बोष्ठीं तां विनिर्द्दिशेत् । या स्यात् संक्रीडनपरा ललनां तां विनिर्द्दिशेत् ॥ १३७ ॥ दूर्व्वाकाण्डप्रतीकाशा कुंभौ यस्यास्तनू कुचौ । सर्वरूपविविक्ताङ्गी सा भवेद्वरवर्ण्णिनी ॥ १३८ ॥ लावण्ययुक्ता या नारी ललितां तां विनिर्द्दिशेत् । या मत्ता मत्तवज्ज्योतिः सा ज्ञेया मत्तकाशिनी ॥ १३९ ॥ भूरिश्च भूरिमुद्दिष्टं अन्नं श्रव इति स्मृतम् । भूरि श्रवो ददातीह तस्माद् भूरिश्रवो हि सः ॥ १४० ॥ चतुष्पाद्‌विंशतिभुजो लोहितग्रीव एव च । निसर्गाद्दारुणात्क्रूराद्रवणाद् रावणः स्मृतः ॥ १४१ ॥ रोषणा या भवेन्नारी भामिनीं तां विनिर्द्दिशेत् । न्यग्रोधलक्षणं विद्याद्दधाना परिमण्डलम् ॥ १४२ ॥ ताभ्यामुपेता वनिता न्यग्रोधपरिमण्डला । तत्तुल्ये चाक्षिणी यस्याः सा स्त्री राजीवलोचना ॥ १४३ ॥ वर्णप्रमाणनिर्घोषोऽछिन्नसंपद्भिरन्वितः । राजीवमन्ये शंसन्ति स्निग्धवर्णं सितासितम् ॥ १४४ ॥ किंचिदुत्तरतद्योगात्सीता राजीवलोचना । बलिभिर्यास्त्रिभिर्युक्ता शङ्खकण्ठी उदाहृता ॥ १४५ ॥ . . . . . . जराकराकारं स्यन्दनाग्रमिवाग्रतः । वस्त्वे . . . ति तज्ज्ञेयं तस्यैवाग्रं . . . . . . . . . ॥ १४६ ॥ . . . . . . त्तं मर्मसंयुक्तं तत्तथालिनमुच्यते । ग्रहणे धारणे सामे वाहने धर्मसंयुता ॥ १४७ ॥ रमणे क्रीडने सङ्गे भार्या नाम प्रवर्त्तते । मूढतायां सविद्यायां सप्ताश्वस्त्वंशुमालिनि ॥ १४८ ॥ विषमाक्षदरा एते ज्ञेयाग्रं तैः विसंस्थिताः । कोटरस्था इति ज्ञेयाः सर्प्पकीटखगादयः ॥ १४९ ॥ आताम्रपल्लवो यस्तु वृक्षाणामचिरोद्गमः । . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ॥ १५० ॥ सौकुमार्यं किसलयं कोमलत्वं च तत्स्मृतम् । शतानां च चतुर्हस्तं नल्वं तदिहसंज्ञितम् ॥ १५१ ॥ कुम्भो वाहः प्रस्थः समं नल्व इति विधीयते । विपिनं शून्यमित्युक्तं विपिनं गृहमेव च ॥ १५२ ॥ रुक्म वर्ण्णं च वामं च दर्शनीयार्थवाचकः । सर्वार्थश्चाप्युवर्णश्च पानीयं शीतमुच्यते ॥ १५३ ॥ नीहारं शीतमित्युक्तं प्रदोषान्तो निशीथकः । . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . ॥ १५४ ॥ ;c{इति महाकविश्रीधनञ्जयकृते निघण्टुसमये शब्दसंकीर्णे अनेकार्थप्ररूपणो द्वितीयपरिच्छेदः ॥ २ ॥}