;METADATA ;title{अनेकार्थसमुच्चय} ;author{शाश्वत} ;bookFullName{शाश्वतकोशः - The Anekārthasamuchchaya of Śāśvata. A lexicon of Sanskrit words. Edited with Introduction disucssing the Date of Sasvata, Critical Notes, Glossary of Words and एकाक्षरकाण्डः of another Lexicon named नानार्थरत्नमाला} ;bookSeriesDetails{} ;editor{Narayan Nathaji Kulkarni} ;editorQualifications{B. A., LL.B., Editor of तर्कभाषा, काव्यालंकारसूत्रवृत्तिः &c.} ;publisher{Dr. N. G. Sardesai, L. M. & S. for the Oriental Book Agency, Poona.} ;pressDetails{Text 1-4o pp. by Mr. Saptarshi, at the Prabhakar Press, Poona. Text 41-110 pp. by Mr. Thakar at the Sidheshwar Press Kholhapur. Introd. & Title by Mr. rajaguru at the Rajaguru & Co's, Poona.} ;publicationYear{1929 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ANKS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. www.archive.org for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to enter data and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{none} ;newVerseNumbersAtChangeOf{none} ;newLineNumbersAtChangeOf{none} ;version0.0.1{17 February 2019} ;version0.0.2{10 March 2019} ;version0.0.3{17 May 2019} ;version0.0.4{17 May 2019} ;version0.1.0{12 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;preface{} {{ अथ श्रीशाश्वतप्रणीतः अनेकार्थसमुच्चयः अथवा शाश्वतकोशः श्रीगणेशाय नमः । ॐ नमः सरस्वत्यै । पाकोत्तीर्णसुवर्णवर्णरुचिरच्छायं वसानोम्बरं भास्वत्कौस्तुभकान्तिकर्बुरपरिभ्राजिष्णुवक्षःस्थलः । शङ्खं चक्रमसिं गदामवितरं बिभ्रच्चतुर्भिः करै- रारूढो गरुडं नवीनजलदश्यामो हरिः पातुः वः ॥ १ ॥ पूर्वाचार्यप्रसादेन विदित्वा शब्दविस्तरम् । क्रियते शाश्वतेनायमनेकार्थसमुच्चयः ॥ २ ॥ स्फुटार्थपदविन्यासः शिशूनां प्रतिपत्तये । कृतोयं न प्रबुद्धानामतः क्षाम्यन्तु सूरयः ॥ ३ ॥ एष ज्ञानार्थमज्ञानां संतोषाय विजानताम् । श्रमो मम न तु ज्ञानलवगर्वितचेतसाम् ॥ ४ ॥ प्रसिद्धैरप्रसिद्धैश्च शब्दैरेष विनिर्मितः । प्रसिद्धैर्ग्रन्थितुं ग्रन्थमप्रसिद्धैश्च वेदितुम् ॥ ५ ॥ दृष्टशिष्टप्रयोगोऽहं दृष्टव्याकरणत्रयः । अधीती सदुपाध्यायाल्लिङ्गशास्त्रेषु पञ्चसु ॥ ६ ॥ अतः शब्दार्थलिङ्गेषु कर्तव्योऽत्र न संशयः । शब्दकोशेऽभियोगेन विद्वज्जननिरूपिते ॥ ७ ॥ }} ;p{0002} $शिव; #,, $शिवा; #,,, शिवं भद्रं शिवः शंभुः शिवा गौरी शिवाभया । शिवः कीलः शिवा क्रोष्टा भवेदामलकी शिवा ॥ १ ॥ $बल; #,,,,,,, बलं शक्तिर्बलं सैन्यं बलं स्थौल्यं बलो बली । बलं रूपं बलो दैत्यो बलः काको हली बलः ॥ २ ॥ $मधु; #,,,,, मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः । मधुर्दैत्यो मधुश्चैत्रो मधुकोपि मधुर्मतः ॥ ३ ॥ $ध्रुव; #,,,,, $ध्रुवा; # ध्रुवः कीले (लो) ध्रुवं शश्वद् ध्रुवं तर्के ध्रुवो मुनौ । ध्रुवो नित्ये निश्चिते च गीतिस्रुग्भेदयोर्ध्रुवा ॥ ४ ॥ $शिखा; #,,,,, शिखा ज्वाला शिखा चूडा शिखा शाखा शिखा शिफा । शिखा शिखण्डिनां चूडा शिखा स्यादग्रमात्रकम् ॥ ५ ॥ $घन; #,,,,,,,, वाद्ये मुस्तेऽम्बुदे सान्द्रे घनः स्याल्लोहमुद्गरे । घनौ काठिन्यसंघातौ मूर्तिबाहुल्ययोर्घनः ॥ ६ ॥ (घनं सान्द्रं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः । घनौ काठिन्यसंघातौ घनः स्याल्लोहमुद्गरः ॥) $राम; #,,,,, $रामा; # रामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ । रामः पशुविशेषोपि रामौ चारुहलायुधौ ॥ ७ ॥ $पद्म; #,,,, $पद्मा; # पद्मा लक्ष्मीर्निधिः पद्मः पद्मानि गजबिन्दवः । संख्यानागविशेषौ च पद्मौ पद्मं सरोहरुम् ॥ ८ ॥ $वसु; #,,,,, देवप्रभेदा वसवो वसुः किरणयोक्त्रयोः । वसु रत्नं वसु धनं वसु तेजो निगद्यते ॥ ९ ॥ (वसुमाहुर्हुताशनम् ॥) $गोत्र; #,, $गोत्रा; #, विश्वम्भरा भवेद् गोत्रा गोत्रा गोनिकुर(रु)म्बकम् । नाम गोत्रं कुलं गोत्रं गोत्रश्च धरणीधरः ॥ १० ॥ ;p{0003} शाश्वतकोशः $शुचि; #,,,,, शुचिरग्निः शुचिः शुक्लः शुद्धानुपहतौ शुची । उपधाशुद्धसचिव आषाढश्च शुचिर्मतः ॥ ११ ॥ $अमृत; #,,,, सुराणामन्नममृतममृतं स्यादयाचितम् । अमृतं यज्ञशेषोपि निर्वाणं वारि चामृतम् ॥ १२ ॥ $निर्वाण; #,,, निर्वाणमस्तंगमनं निर्वाणं गजमज्जनम् । निर्वाणमपवर्गोपि निर्वाणं निर्वृतिं विदुः ॥ १३ ॥ $पुण्डरीक; #,,, पुण्डरीकं सितच्छत्रं पुण्डरीकं सिताम्बुजम् । व्याघ्रोपि पुण्डरीकः स्यात्पुण्डरीकश्च दिग्गजः ॥ १४ ॥ $पालि; #,,,, चिह्नमाहुर्बुधाः पालिं पालिः पङ्क्तिप्रदेश(भेदः)योः । कर्णस्य ललिता पालिः पालिरश्रिरपि स्मृता ॥ १५ ॥ $बहुल; #,, $बहुला; #, एला गावश्च बहुला बहुलाः कृत्तिका अपि । बहुलः कृष्णपक्षो(क्षे)ऽग्निर्बहुलो बहुलं शिति ॥ १६ ॥ $चित्र; #,,, $चित्रा; #, चित्रं तिलकमिच्छन्ति चित्रमालेख्यमद्भुतम् । नक्षत्रं च सुभद्रा च चित्रा चित्रं च कर्बुरम् ॥ १७ ॥ $बलि; #,,,, बलिः पूजोपहारः स्याद्बलिर्दैत्यो बलिः करः । बलिर्जराश्लथं चर्म जठरावयवो बलिः ॥ १८ ॥ $विनीत; #,,, अपनीतं विनीतं स्याद्विनीतो विजितेन्द्रियः । विदुर्विनीतं निभृतं विनतग्राहितेपि च ॥ १९ ॥ $शुक्र; #,,,, देवारातिगुरुः शुक्रः शुक्रौ मासहुताशनौ । शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः ॥ २० ॥ $गव्य; #,, $गव्या; #, ज्या गव्यं गोहितं गव्यं गव्या गोनिकुर(रु)म्बकम् । रागद्रव्यं च गव्याख्यं गव्यं क्षीरादिकं गवाम् ॥ २१ ॥ $संभव; #,, संभवं मेलकं विद्यादुत्पत्तिरथ संभवः । आधारानतिरिक्तत्वमाधेयस्य च संभवः ॥ २२ ॥ ;p{0004} $मणि; #,,, अलिञ्जरं मणिं विद्यान्मेहनावयवो मणिः । रत्नं मणिरजानां च कण्ठदेशस्तनौ मणी ॥ २३ ॥ $कल्य; #,,, $कल्या; #, कल्यं प्रभातं सज्जं च (सज्जितं) कल्यो नीरोगदक्षयोः । कल्याणी वाक्च कल्याख्या कल्या कादम्बरी मता ॥ २४ ॥ $गुरु; #,,,,, गुरुर्महति विख्यातो दुर्वहा (र्जरा) लधुनोर्गुरु(रुः) । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ २५ ॥ $अक्ष; #,,,,,, अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रिये । विभीतकेऽक्षः कर्षे च शकटव्यवहारयोः ॥ २६ ॥ $वृत्त; #,,,,,, वृत्तं दृढमधीतं च वृत्तं वृत्तिर्मतं तथा । चरित्रच्छन्दसोर्वृत्तं निस्तलातीतयोरपि ॥ २७ ॥ $कृष्ण; #,,,, $कृष्णा; #, वर्णः कृष्णो विदुः कृष्णां पिप्पलीं द्रौपदीमपि । कृष्णाख्याः शस्त्रकव्यासधनंजयजनार्दनाः ॥ २८ ॥ $वार्त्त; #,,, $वार्त्ता; #,, निःसारारोग्ययोर्वार्त्तं नीरुग्वार्तोथ वृत्तिमान् । कृष्यादाविष्यते वार्ता वर्तनोदन्तयोरपि ॥ २९ ॥ $क्षुद्र; #,,, $क्षुद्रा; #,, अधमक्रूरयोः क्षुद्रः क्षुद्रोऽल्पः कृपणस्तथा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ ३० ॥ $परिग्रह; #,,,, परिग्रहः परिजने शपथे च परिग्रहः । परिग्रहः कलत्रे च मूलस्वीकारयोरपि ॥ ३१ ॥ $मत्सर; #, धनवन्तमदातारं पुरुषं मत्सरं विदुः । असोढा परसंपत्तेर्मात्सर्यमपि मत्सरः ॥ ३२ ॥ $रस; #,,,,,,, $रसा; # शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । पारदे देहधातौ च रसः स्यान्मेदिनी रसा ॥ ३३ ॥ $वर्ण; #,,,,,,,, वर्णो गुणाक्षरयशःशुक्लादिब्राह्मणादिषु । वर्णः स्तुतौ कुथायां च वर्णः स्याद्भेदरूपयोः ॥ ३४ ॥ ;p{0005} $तल; #,,,, तलश्चपेटस्तालश्च स्वरूपानूर्ध्वयोस्तलम् । ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं मतम् ॥ ३५ ॥ $करण; #,,,, करणानि हृषीकाणि करणं साधनं विदुः । करणाख्या च विज्ञेया कायकायस्थकर्मसु ॥ ३६ ॥ $पद; #,,,,,,,, व्यवसाये परित्राणे पादतच्चिह्नयोरपि । वस्तुस्थानापदेशेषु पदं स्याद्वाक्यशब्दयोः ॥ ३७ ॥ $प्रमाण; #,,,, सम्यक्प्रवक्तृपुरुषे प्रमाणमथ कारणे । मर्यादायां प्रमाणाख्या प्रमाणं मानशास्त्रयोः ॥ ३८ ॥ $वर; #,,, वरो जामातरि श्रेष्ठे देवतादेरभीप्सिते । मनागिष्टे वरं यच्च कश्चिदाह तदव्ययम् ॥ ३९ ॥ $ताल; #,, गीतकालक्रियामाने तालस्तालोथ पादपे । तालः करतलेङ्गुष्ठमध्यमाख्यामिते तथा ॥ ४० ॥ $तन्त्र; #,,,,, प्रधानौपधिसिद्धान्तास्तन्तुवायपरिच्छदौ । तन्त्राणि तन्त्रमेकं स्यादुभयार्थप्रयोजकम् ॥ ४१ ॥ $समय; #,,,,, शपथाचारसिद्धान्तान्समयान्संप्रचक्षते । समयः स्यात्क्रियाकारे कालसंकेतयोरपि ॥ ४२ ॥ $सत्त्व; #,,,,,,,, व्यवसाये स्वभावे च पिशाचादौ गुणे बले । द्रव्यात्मभावयोः सत्त्वं सत्त्वं प्राणेषु जन्तुषु ॥ ४३ ॥ $भग; #,,,,,,,,,, ऐश्वर्यस्य प्रयत्नस्य धर्मवीर्ययशःश्रियाम् । ज्ञानवैराग्यसूर्याणामिच्छायोन्योर्भगश्रुतिः (र्भगः श्रुतिः) ॥ ४४ ॥ $दाय; #,, विभक्तव्यं पितृ [त्र्य] द्रव्यं दायमाहुर्मनीषिणः । यौतकादिधनं दायो दायो दानं च कथ्यते (नमुदाहृतम्) ॥ ४५ ॥ $अभिपन्न; #,,, अभिपन्नोपराद्धः स्यादभिपन्नो विपद्गतः । अभिपन्नमभिग्रस्तमभिपन्नमभिद्रुतम् ॥ ४६ ॥ ;p{0006} $प्लव; #,,,, क्रमनिम्ने भुवो भागे भेकपक्षिप्रभेदयोः । प्लवं विदन्ति विद्वांसः प्लवनोडुपयोः प्लवः ॥ ४७ ॥ $भाव; #,,,,,,,,,,, भावः स्त्तास्वभावाभिप्रायचेष्ठात्मजन्मसु (योनिषु) । क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु ॥ ४८ ॥ $धर्म; #,,,,,,, स्वभावन्याययागादियमाचारेषु सोमपे । प्रचक्षते धर्मशब्दमहिंसाग (सोप) मयोरपि ॥ ४९ ॥ $वश; #,,, $वशा; #,,, आयत्ततायामायत्ते प्रभुत्वे च वशं विदुः । वशाश्रतस्रो वन्ध्या गौः सुता नारी करेणुका ॥ ५० ॥ $कल; # $कला; #,,,, कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च । इन्दोरंशे कला ध्यानेप्यव्यक्तमधुरे कलः ॥ ५१ ॥ $काण्ड; #,,,,,,, र[स]होविटपवर्गेषु गर्हपानीययोरपि । बाणावसरयोः काण्डं काण्डं नालमपि स्मृतम् ॥ ५२ ॥ $अरिष्ट; #,,,,,, तक्रे मरणचिह्ने चारिष्टं वृक्षे च फेनिले । सुरायां च शुभेपि स्यात्काके निम्बे च पुंस्ययम् ॥ ५३ ॥ (तक्रे मरणचिह्ने स्यादरिष्टमशुभे शुभे । अरिष्टः कथ्यते काके निम्बफेनिलवृक्षयोः ॥) $अवहार; #,, द्यूतयुद्धादिविश्रामे(न्तौ) ग्राहाभिख्ये च यादसि । निमन्त्रणोपनेतव्यद्रव्ये स्यादवहारवाक् ॥ ५४ ॥ $तुला; #,,,, गृहाणां दारुबन्धाय पीठिकायां तुलां विदुः । तुला पलशते माने भाण्डसादृश्ययोरपि ॥ ५५ ॥ $पर्वन्; #,,, दर्शप्रतिपदोः संधौ ग्रन्थिप्रस्तावयोरपि । पर्वशब्दं विजानीयाद्विषवत्प्रभृतिष्वपि ॥ ५६ ॥ $परिकर; #,,,, प्रगाढगात्रिकाबन्धे पर्यङ्कपरिवारयोः । प्रयुज्यते परिकरः समूहारम्भयोरपि ॥ ५७ ॥ ;p{0007} $जन्य; #,,,,, नवोढाया ज्ञातिभृत्या जन्याः स्निग्धा वरस्य च । जननीयजनित्रोश्च जन्यं निर्वादयुद्धयोः ॥ ५८ ॥ $हर्षित; #,,, $हृष्ट; #,,, जातहर्षे प्रतिहते विस्मिते च मनीषिभिः । रोमाञ्चविषये हृष्टो हृषितश्च प्रयुज्यते ॥ ५९ ॥ $चक्र; # चक्रवाको मतश्चक्रश्चक्रं सेनारथाङ्गयोः । राष्ट्रे दम्भप्रभेदेपि चक्रं प्रहरणान्तरे ॥ ६० ॥ $मात्र; #, $मात्रा; #,,,,, परिच्छदाल्पमानेषु धने कर्णविभूषणे । अक्षरावयवे मात्रा मात्रं कार्त्स्न्येवधारणे ॥ ६१ ॥ $आत्मन्; #,,,,,, कलेवरे प्रयत्ने च स्वभावे परमात्मनि । स्वान्ते धृतौ मनीषायामात्मानं कवयो विदुः ॥ ६२ ॥ $संगर; #,,,, संगरः स्यात्क्रियाकारे विपत्तावपि संगरः । संगरः संश्रवे युद्धे संगरं तु शमीफलम् ॥ ६३ ॥ $प्रसव; #,,, उत्पादः प्रसवो ज्ञेयः प्रसवो गर्भमोचनम् । पुष्पं फलं च वृक्षाणां प्रसवं परिचक्षते ॥ ६४ ॥ $अनुबन्ध; #,,, दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादेर्विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ ६५ ॥ $प्रतिसर; #,,,, आरक्षे मण्डने सूत्रे चमूकटिनियोज्ययोः । पञ्चस्वर्थेषु शब्दज्ञा विदुः प्रतिसरध्वनिम् ॥ ६६ ॥ $व्यसन; #,,,, विपत्तावशुभे पापे पानस्त्रीमृगयादिषु । दैवानिष्टफलेऽशक्तौ[ले सक्तौ] व्यसनं कवयो विदुः ॥ ६७ ॥ $पण; #,,,,,,, ग्लहे माने श्वेतका (वराटा) नां मूल्ये कार्षापणे धने । द्यूतादौ कल्पिते चैव बद्धमुष्टौ भृतौ पणः ॥ ६८ ॥ (द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ पणः ॥) $भोग; #,,,,,, पालनेऽभ्यवहारे च निर्वेशे च पणे स्त्रियाः(पणस्त्रियाः) । भोगः सुखे भुजंगानां(गस्य) शरीरफणयोरपि ॥ ६९ ॥ ;p{0008} $पक्ष; #,,,,,,,, केशे पक्षः समूहार्थः पक्षः साध्यविरोधयोः । बले काले पतत्रे च रुचौ पार्धे विकल्पिते ॥ ७० ॥ (बलकालपतत्रेषु सहायपरिपार्श्वयोः ॥) $क्षेत्रिय; #,,, अन्यदेहचिकित्सार्हे क्षेत्रियः क्षेत्रजे तृणे । असाध्यरोगे विज्ञेयः क्षेत्रियः पारदारिके ॥ ७१ ॥ $प्रतिग्रह; #,,,, प्रयुज्यते स्वीकारणे सैन्यपृष्ठे पतद्ग्रहे । द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रतिग्रहः ॥ ७२ ॥ $शेष; #, उपयुक्ताद्भवेदद्न्यच्छेषं शेषोथ नागराट् । प्रसादान्निजनिर्माल्यदत्तिः शेषेति कीर्तिता ॥ ७३ ॥ $प्रग्रह; #,,,,, प्रग्रहः स्यात्तुलासूत्रे बन्द्यां(न्दौ) नियमनेपि च । धाम्नि योक्त्रे च वृक्षे च सुवर्णहलिसाह्वये ॥ ७४ ॥ $निष्क; #,,,,, अष्टाधिके हेमशते हेम्नि हेमपले तथा । उरोविभूषणे निष्कं कर्षरदीनारयोरपि ॥ ७५ ॥ $धातु; #,,,,,,, श्लेष्मादी रसरक्तादिर्महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिर्धातवो भ्वादिरस्थि च ॥ ७६ ॥ (श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिर्विशेषादस्थि धातवः) ॥ ७७ ॥ $अर्थ; #,,,,,, अर्थोभिधेये शब्दानां धनकारणवस्तुषु । प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥ ७८ ॥ $पुष्कर; #,,,,,,, मतङ्गजस्य हस्ताग्रे व्योम्नि खड्गफलेम्बुजे । जलभेषजयोस्तीर्थे तूर्यवक्त्रे च पुष्करम् ॥ ७९ ॥ $तीर्थ; #,,,,,,,, अवतारे विदुस्तीर्थं पात्रोपाध्यायमन्त्रिषु । स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ ८० ॥ $ललाम; #,,,,,,,, $ललामन्; #,,,,,,,, प्रधानध्वजशृङ्गेषु पुण्ड्रवालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं च ललाम च ॥ ८१ ॥ $कूट; #,,,,,,,, मायादम्भादिशृङ्गेषु सीरावयवयन्त्रयोः । ;p{0009} अयोघनेऽनृते राशौ निश्चले कूट इष्यते ॥ ८२ ॥ $रूप; #,,,,,,, ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः । रूपमाकारसौन्दर्ये नाणकश्लोकयोरपि ॥ ८२ ॥ $क्रिया; #,,,,,,,,, उपायारम्भशिक्षासु निष्कृतौ संप्रधारणे । चिकित्साकर्मपूजासु चेष्टाकरणयोः क्रिया ॥ ८३ ॥ $गो; #,,,,,,,,, गोशब्दः पशुभूम्यंशुवाग्दिगर्थः प्रयुज्यते । स्वर्गलोचनबाणाम्बुकुलिशार्थोपि दृश्यते ॥ ८४ ॥ $साधन; #, निवृत्तौ दापने सिद्धौ गतावनुगमे धने । उपायमृतसंस्कारवधमेढ्रेषु साधनम् ॥ ८५ ॥ $गुण; #,,,,,,,,, शुल्बे मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसंध्यादिषु गुणः स्मृतः ॥ ८६ ॥ $हरि; #,,,,,,,,,,,, इन्द्रचन्द्राश्ववातार्कशकभेकयमाहिषु । कपौ सिंहे सुवर्णाभे वर्णे विष्णौ हरिं विदुः ॥ ८७ ॥ $अन्तर; #,,,,,,,,,,,, भेदावसरबाह्येषु मध्यावधिविनात्मसु । स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् ॥ ८८ ॥ $कशिपु; #,, भोजनाच्छादने सद्भिरुभे कशिपुरिष्यते । एकैकशोपि कशिपुं[पू] भोजनाच्छादने विदुः ॥ ८९ ॥ $रोदसी; #,, $रोदस्; #,, द्यावापृथिव्योरेकत्र प्रयोगे रोदसीं विदुः । दिवि विश्वंभरायां च रोदसी रोदसा सह ॥ ९० ॥ $संसरण; #,, आचक्षेते संसरणं नगरस्योपनिर्गमे । संसारेपि रथादीनामसंबाधगतावपि ॥ ९१ ॥ $इन्द्राणी; #,, इन्द्राणी करणे स्त्रीणां रतिशिल्पकृतात्मनाम् । इन्द्राणी सिन्धुवारे च कलत्रे च शतक्रतोः ॥ ९२ ॥ $कर्णिका; #,,, बीजकोशे सरोजस्य कर्णिका कर्णभूषणे । मता गजस्य हस्ताग्रे कर्णिकाङ्गुलिसंज्ञके ॥ ९३ ॥ ;p{0010} $विषय; #,,,, प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः स्मृतः । इन्द्रियार्थे जनपदे विषयो गोचरे पदे ॥ ९४ ॥ $अग्र; #,,,, अग्रं प्रधानमूर्ध्वं च पुरस्तादग्रमिष्यते । अग्रमभ्यधिके दृष्टं परिमाणे पलस्य च ॥ ९५ ॥ $गात्र; #,, गात्राणि विदुरङ्गेषु गात्रमुक्तं कलेवरे । अग्रजङ्घाविभागे च गजानां गात्रमिष्यते ॥ ९६ ॥ $पौरुष; #,, ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं विदुः । भावे कर्मणि विज्ञेयं पौरुषं पुरुषस्य च ॥ ९७ ॥ $पौरुषेय; #,,, पुरुषेण कृते कार्ये पुरुषाणां कदम्बके । वधे विकारे पुंसश्च पौरुषेयपदं विदुः ॥ ९८ ॥ $भाग्य; #,, भवान्तरकृतं कर्म भाग्यमाहुः शुभात्मकम् । अशुभात्मकमप्याहुः केवलं च शुभाशुभम् ॥ ९९ ॥ $योग; #,,,,,, योगः संनह(वन)नोपायस्संगतिध्यानयुक्तिषु । योगोऽपूर्वार्थसंप्राप्तौ योगो विश्रम्भवातिनि ॥ १०० ॥ $गन्धर्व; #,,,, अन्तराभवसत्त्वे स्याद् गन्धर्वः खेचरे हये । गन्धर्वः पशुभेदे च गन्धर्वं गायनं विदुः ॥ १०१ ॥ $कुतप; #,,, कुतपो वाद्यविन्यासे दर्भकालप्रभेदयोः । छागरोममयं केचित्कम्बलं कुतपं विदुः ॥ १०२ ॥ $काम; #,,,, कामे(म्ये) निकामे कामाख्या कामाश्च मदनेच्छयोः । यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥ १०३ ॥ $पिप्पल; #,, पिप्पलं सलिलं विद्यात्तरुजातिश्च पिप्पलः । वस्त्रच्छेदप्रभेदं च केचिदिच्छन्ति पिप्पलम् ॥ १०४ ॥ $भोगिन्; #,, $भोगिनी; # वैयावृत्त्य(पृत्त्य) करो भोगी भोगी राजभुजंगयोः । विहाय महिषीमन्या भोगिन्यो राजयोषितः ॥ १०५ ॥ ;p{0011} $निर्वेश; #,, निर्वेश उपभोगः स्यान्निर्वेशः कर्मणो भृतिः । संमूर्च्छनं च केषांचिन्निर्वेश इति संमतम् ॥ १०६ ॥ $कुण्ड; #,, पतिवत्नीसुतो जारात्कुण्डः कुण्डमुखा मता । देवतादेर्जलाधारविशेषः कुण्डसंज्ञकः ॥ १०७ ॥ $कौलीन; #,, अवर्णवादः कौलीनं कौलीनं च कुलीनता । कौलीनं विविधं द्यूतं पक्षीभिः पशुभिस्तथा ॥ १०८ ॥ $काकिणी; #,, काकिणी मानदण्डः स्यात्तुरीयांशे पणस्य च । काकिणीं ब्रुवते केचिदेकमेव वराटकम् ॥ १०९ ॥ $कौतुक; #, पारंपर्योपदेशेन प्रख्याते मङ्गले किल । कौतुहले च शब्दज्ञाः कौतुकं संप्रचक्षते ॥ ११० ॥ $निकाय; #,, एकार्थभाजि संघे च निवासे च निकायवाक् । असंहतपदार्थानामेकत्र करणेऽपि च ॥ १११ ॥ $वनस्पति; #, विना पुष्पं फलं यस्य वृक्षस्य स वनस्पतिः । प्रयुज्यते प्रयोगज्ञैर्वृक्षमात्रे वनस्पतिः ॥ ११२ ॥ $ऐरावत; #, ऋजुदीर्घं महेन्द्रस्य चापमैरावतं मतम् । तस्यैव हस्तिमल्लाख्यो गजोऽप्यैरावतो मतः ॥ ११३ ॥ $संविद्; #,,,,,,,, संभाषणे क्रियाकारे संकेते नाम्नि तोषणे । संविदाजौ प्रतिज्ञायामाचारज्ञानयोरपि ॥ ११४ ॥ $कात्यायनी; #, काषायवस्त्रविधवां द्वितीयवयसं स्त्रियम् । कात्यायनीं विदुः सन्त उमा कात्यायनी मता ॥ ११५ ॥ $सरस्वत्; #, $सरस्वती; #,,, सरिद्विशेषे सरिति वाचि प्रोक्ता सरस्वती । सरस्वती गवि क्वापि सरस्वान्वारिधौ नदे ॥ ११६ ॥ $यम; #,, शरीरसाधनापेक्षं नित्यं कर्म यमो मतः । यमजश्च यमो ज्ञेयो यमो दक्षिणदिक्पतिः ॥ ११७ ॥ ;p{0012} $परिवेष; #, परिवेषं विजानीयादुपसूर्यकमण्डलम् । परिवेष्टनमप्याहुः परिवेषं मनीषिणः ॥ ११८ ॥ $शुद्धान्त; #, शुद्धान्तसंज्ञं शब्दज्ञैराख्यातमवरोधनम् । कक्षान्तरं च भूपानामसर्वजनगोचरम् ॥ ११९ ॥ $ऐरावती; #, $शतह्रदा; #, $सौदामनी; #, ऐरावतीशतह्रदासौदामन्य इति त्रयम् । प्रयुज्यते कविवरैर्विद्युद्विद्युद्विशेषयोः ॥ १२० ॥ $नीवी; #, नीवीं ग्रन्थिं विदुर्नार्या जघनस्थस्य वाससः । धनं चोपचयाजीवैर्मूलं यस्य न हिंस्यते ॥ १२१ ॥ $परिभाषण; #,, परिभाषणमालापो नियमः परिभाषणम् । निन्दात्मक उपालन्भः परिभाषणमिष्यते ॥ १२२ ॥ $अनूचान; #, अनूचानं वदन्त्यार्या विनयावनतं नरम् । साङ्गे प्रवचनेऽधीती द्विजोऽनूचानसंज्ञकः ॥ १२३ ॥ $अर्जुन; #,,, $अर्जुनी; # अर्जुनी सौरभेयी स्यादर्जुनं तृणशुक्लयोः । अर्जुनो वृक्षभेदे च तथा मध्यमपाण्डवे ॥ १२४ ॥ $स्थपति; #,, बृहस्पतिसवेनेष्टं येनासौ स्थपतिर्मतः । प्रासादादिकरः शिल्पी स्थपतिः कञ्चुकी मतः ॥ १२५ ॥ $दर्श; #, अर्थज्ञैरिष्यते दर्शः पक्षान्ते वैदिको विधिः । दर्शः सूर्येन्दुसंपर्कादमावास्येति या स्मृता ॥ १२६ ॥ $गृह्य; #,, $गृह्या; # शाखापुरे विदुर्गृह्यां गृह्यमस्वैरिपक्षयोः । गृह्यान्वदन्ति विद्वांसो गृहासक्तान्मृगाण्डजान् ॥ १२७ ॥ $चिल्ल; #, $पिल्ल; #, $चुल्ल; #, विज्ञेयं चक्षुषि क्लिन्ने चिल्लं पिल्लं च चुल्लवत् । क्लिन्नाक्षे प्राणिनि प्रोक्ता चिल्लपिल्लौ सचुल्लकौ ॥ १२८ ॥ $कक्ष; #,,, $कक्षा; # जन्तोरवयवे कक्षः कच्छवीरुत्तृणेषु च । कक्षा स्यात्परिधानस्य पश्चादञ्चलपल्लवे ॥ १२९ ॥ ;p{0013} $दक्षिण; #,, संभूतो दक्षिणस्यां यो दक्षिणः स उदाहृतः । परच्छन्दानुवर्ती च सरलोऽपि च दक्षिणः ॥ १३० ॥ $सैरन्ध्री; #, सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । वर्णसंकरजा या च सैरन्ध्री सा प्रकीर्तिता ॥ १३१ ॥ $अरुण; #,,, अव्यक्तरागमरुणमरुणः सूर्यसारथिः । संध्यारागोऽरुणः क्वापि लोहितोऽरुण इष्यते ॥ १३२ ॥ $रूप्य; #,, आहतं हेमरजतं रूप्यमाहुर्मनीषिणः । प्रशस्तरूपको रूप्यो रूप्यं रजतमिष्यते ॥ १३३ ॥ गौर,२;गौरी,२ चामीकराभं शुक्लं च गौरमाहुर्मनीषिणः । असंजातरजाः कन्या गौरी गौरी च पार्वती ॥ १३४ ॥ $क्ष्वेड; #, $क्ष्वेडा; #, क्ष्वेडो विषं ध्वनिः क्ष्वेडः क्ष्वेडा शस्यं च वैणवम् । योधानां सिंहनादोऽपि रणे क्ष्वेडेति कीर्तितः (ता) ॥ १३५ ॥ $उत्थान; #,,,, उत्थानं गृहवास्त्वन्ते स्यादुत्थानं च पौरुषे । उत्थानमुद्यमे तन्त्रे विद्यादुत्थानमुद्गमे ॥ १३६ ॥ $स्थान; #, $स्थाने; #, अवकाशे स्थितौ स्थानं सप्तम्यन्तमिदं पुनः । युक्तार्थं कारणार्थं च शब्दतत्त्वविदां मतम् ॥ १३७ ॥ $हृद्य; #,,, हृत्प्रियं हृद्भवं हृद्यं हृदयाय हितं च यत् । वशीकरणमन्त्रोऽपि वैदिको हृद्य इष्यते ॥ १३८ ॥ $प्राच्; #,,, $प्राक्; #,,, $उदच्; #,,, $उदक्; #,,, $प्रत्यच्; #,,, $प्रत्यक्; #,,, दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगव्ययम् । प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ १३९ ॥ $पाश; #,, खगादिबन्धने पाशः समूहे केशपूर्वकः । कर्णपूर्वोऽपि शब्दोऽयं कर्णं वदति शोभनम् ॥ १४० ॥ $तार; #,, $तारा; #, मुक्ताशुद्धौ स्वनेऽत्युच्चे तारस्तारं च रूप्यके । नक्षत्रे नेत्रमध्ये च तारा तारवदिष्यते ॥ १४१ ॥ ;p{0014} $अभीक्ष्ण; #, पौनः पुन्यं सर्वदा च स्यादभीक्ष्णार्थकं द्वयम् । अनव्ययमयं शब्दः कथितो बहुदर्शिभिः ॥ १४२ ॥ $धारा; #,, अश्वानां गतयः पञ्च धारा धारा च संततिः । अग्रस्कन्धे च सैन्यस्य धारामाहुर्मनीषिणः ॥ १४३ ॥ $कंस; #,,, $कांस्य; #, स्यात्कंसस्तैजसे द्रव्ये पानपात्रे च कांस्यवत् । दृष्टः कंसो विशेषेण दैत्यमानप्रभेदयोः ॥ १४४ ॥ $प्रभव; #,, स्याज्जन्महेतुः प्रभवः प्रभवो मूलमप्यपाम् । प्रभवं केचिदिच्छन्ति स्थानमाद्योपलब्धये ॥ १४५ ॥ $विरोचन; #,, $तमोपह; #,, $तमोनुद्; #,, हुताशने निशानाथे सहस्रकिरणे तथा । तमोनुदा (दः) समौ दृष्टौ विरोचनतमोपहौ ॥ १४६ ॥ $मध्यम; #,, $मध्यमा; #, गीतस्वरे देहमध्ये मध्योद्भुते च मध्यमः । पाणेर्मध्याङ्गुलिर्दृष्टरजाः कन्या च मध्यमा ॥ १४७ ॥ $प्रत्यय; #,,,,,, प्रत्ययः प्रथितत्वे स्यात्प्रत्ययो ज्ञानवाचकः । प्रत्ययः शपथे रन्ध्रे (स्यादि-) विश्वासाधीनहेतुषु ॥ १४८ ॥ $धर्मराज; # $बुद्ध; # $जिन; # $विनायक; # तथागते धर्मराजजिनबुद्धविनायकाः । अन्तकेऽर्हति दोषज्ञे गजवक्त्रे क्रमादमी ॥ १४९ ॥ $निस्तरण; #, $द्वार; #, $निःसरण; #, स्यादुपाये निस्तरणं द्वारं निःसरणं तथा । तरणे द्वारि निर्याणे(र्वाणे) यथासंख्यमवस्थितम् ॥ १५० ॥ $ऋतु; #, $कसुम; #, $आर्तव; #, त्रयं स्त्रीरजसि ज्ञेयमृतुः कुसुममार्तवम् । शरदादिषु पुष्पे च ऋतूत्थे च विदुः क्रमात् ॥ १५१ ॥ (शरदादिषु पुष्पेषु ऋतूत्थेषु त्रिषु क्रमात् ॥) $अञ्जनः; # $अञ्जना; # $अञ्जनम्; # दिग्गजः कज्जलं माता मारुताङ्गभुवः कपेः । यथासंख्यं विनिर्दिष्टमञ्जनोऽञ्जनमञ्जना ॥ १५२ ॥ $प्रकर; # $उपकार; #, प्रकरश्चोपकारश्च विकीर्णकुसुमादिषु । संहतौ चोपकृत्यां च यथासंख्यमवस्थितौ ॥ १५३ ॥ ;p{0015} श्लोकेनैकेन निर्दिष्टं यथाशास्त्रमतः परम् । श्लोकस्यार्धेन वक्ष्यन्ते शब्दाः प्रव्यक्तया गिरा ॥ १५४ ॥ $सूनृत; #, प्रियं सत्यं च वचनं सूनृतं सुनृतं शिवम् । $ब्रह्मन्; #,,,, वेद्योऽध्यात्मं तपो ब्रह्म ब्राह्मणौ विप्रवेधसौ ॥ १५५ ॥ $पिनाक; #, स्थाणोर्धनुः पिनाकं स्यात्पिनाकं शूलमात्रकम् । $काली; #,, मातृभेदे स्मृता काली भवानीनवमेघयोः ॥ १५६ ॥ $दशमीस्थ; #, स्थविरे नष्टबीजे च दशमीस्थं द्वयोर्विदुः । $हेरम्ब; #, हेरम्बो महिषः ख्यातो हेरम्बो विघ्ननायकः ॥ १५७ ॥ $हंस; #,,, योगिभेदे खगे हंसो निर्लोभनृपसूर्ययोः । $गण; #,,, गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः ॥ १५८ ॥ $वृन्दारक; #,, वृंदारकं विदुर्देवे मनोज्ञश्रेष्ठयोरपि । $अभिख्या; #,, अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥ १५९ ॥ $उत्तर; #,,, उदीच्यश्रेष्ठयोरूर्ध्वे वाग्भेदेविदुरुत्तरम् । $ईश; #, $ईश्वर; #, ईश ईश्वरवद् दृष्टः प्रभुचन्द्रार्धचूडयोः ॥ १६० ॥ $चन्द्र; #, उच्यते काञ्चनं चन्द्रं चन्द्रश्च मृगलाञ्छनः । $पार्ष्णि; #, पादग्रन्थरेधः पार्ष्णिः पार्ष्णिः स्याद्वाहिनीकटिः ॥ १६१ ॥ $लक्ष्मी; #,, $श्री; #,, शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृष्यते । $भव; #,,,, प्राप्तिसंसारसत्तासु जन्मशङ्करयोर्भवः ॥ १६२ ॥ $उपनिषद्; #,, धर्मे रहसि वेदान्ते बुधैरुपनिषन्मता । $दृश्; #,,, $दृष्टि; #,, लोचने दर्शने बुद्धौ दृग्दृष्टी दृक्च वीक्ष्यते ॥ १६३ ॥ $संकुल; #, इष्यते संकुलं व्याप्ते विष्ल्लिष्टार्थवचस्यपि । $अपवर्ग; #,, क्रियावसानसाफल्ये मोक्षे त्यागेऽपवर्गवाक् ॥ १६४ ॥ $लिङ्ग; #,, सांख्योक्तप्रकृतौ लिङ्गं लिङ्गं स्यात्चिह्नशेफसोः । $अभिशस्ति; #, अभिशापप्रार्थनयोरभिशस्तिपदं विदुः ॥ १६५ ॥ ;p{0016} $कुमार; #,,, युवराजे शिशौ स्कन्दे कुमारोऽश्वानुचारके । $सुमनस्; #,,, मालत्यां पण्डिते पुष्पे देवे च सुमनोभिधा ॥ १६६ ॥ $प्रकृति; #,,,, लिङ्गे स्वभवावे प्रकृतिः पौरामात्यादियोनिषु । $निसर्ग; #, $सृष्टि; # निर्माणे च स्वभावे च निसर्गः सृष्टिवन्मतः ॥ १६७ ॥ $शंभु; #,, शंभुरर्हन् पिनाकी च शंभुः कमलसंभवः । $दर्शन; #,,, लोचने दर्शनं दृष्टं बुद्धिशास्त्रोपलब्धिषु ॥ १६८ ॥ $कृतान्त; #,,, दैवे कृतान्तः सिद्धान्ते यमाकुशलकर्मणोः । $दुरोदर; #,, त्रयं दुरोदराभिख्यं द्यूतं द्यूतकरः पणः ॥ १६९ ॥ $वृष; #,,,, उक्तः श्रेष्ठाखुधर्मेषु वृषा गोबहुशुक्रयोः । $तीक्ष्ण; #,,,, विषात्मत्यागिनोस्तिग्म तीक्ष्णस्तीक्ष्णं रणायसोः ॥ १७० ॥ $रजत; #,, इष्यते रजसः शुक्ले रजतं रुप्यहारयोः । $पतङ्ग; #,,, शालिप्रभेदे शलभे पतङ्गः पक्षिसूर्ययोः ॥ १७१ ॥ $नाग; #,,, काद्रवेयगजौ नागौ नागं सीसकरङ्गयोः । $उदुम्बर; #, उदुम्बरो वृक्षजातिर्देहली स्यादुदुम्बरः ॥ १७२ ॥ $कलधौत; #, रजतं कलधौतं स्यात्कलधौतं च काञ्चनम् । $पर्जन्य; #, सध्वानमेघः पर्जन्यः पर्जन्यो मेघवाहनः ॥ १७३ ॥ $गोविन्द; #, गोविन्दो भगवान् विष्णुर्गोविन्दोऽधिकृतो गवाम् । $रोहित; #,, ऋजुशक्रधनुर्मत्स्यौ रोहितौ रोहितोऽरुणः ॥ १७४ ॥ $शक्ति; #,, उत्साहादौ बले शक्तिः शक्तिं प्रहरणं विदुः । $निष्ठा; #,,,, निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वणेषु च ॥ १७५ ॥ $ऋषभ; #,, गीतस्वरे बलीवर्दे श्रेष्ठे च ऋषभं विदुः । $द्रविण; #, $द्युम्न; #, पराक्रमे च वित्ते च द्रविणं द्युम्नवन्मतम् ॥ १७६ ॥ $रङ्ग; #,, नृत्तयुद्धस्थले रागे रङ्गो रङ्गं त्रपु स्मृतम् । $प्रवाल; #,, प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ १७७ ॥ ;p{0017} $दण्ड; #,,, दण्डो लगुडमन्थानदमसैन्येषु दृश्यते । $कोण; #,, वीणादिवादनोपाये कोणोऽस्त्रौ(श्रौ) लगुडे तथा ॥ १७८ ॥ $निर्वृत्ति; #, निर्वृत्तिः स्यादस्तमये सुस्थतायां च निर्वृत्तिः । $अनुभाव; #,, अनुभावः प्रभावे स्यान्निश्चये भावसूचके ॥ १७९ ॥ $ककुभ; #, वीणाप्रसेवः ककुभः ककुभोऽर्जुनपादपः । $वराटक; #, बीजकोशे सरोजस्य कपर्दे च वराटकः ॥ १८० ॥ $अर्क; #,, स्फटिके वृक्षभेदेऽर्कः स्यादर्को दिननायकः । $कण्टक; #,, रोमाञ्चे क्षुद्रशत्रौ च तरोरङ्गे च कण्टकः ॥ १८१ ॥ $पाद; #,, पादो भासि तुरीयांशे गिरेः प्रत्यन्तपर्वते । $हिरण्य; #,,, मानभेदे धने हेम्नि हिरण्यं स्यादकुप्यके ॥ १८२ ॥ $प्रधान; #,, परमात्ममहामात्रमनीषासु प्रधानवाक् । $कौशिक; #,,, गुग्गुलूलूकशक्राहितुण्डिकेषु च कौशिकः ॥ १८३ ॥ $उग्र; #,, उग्रः शूद्रासुते क्षत्रादुग्रावुत्कटशूलिनौ । $अभिमान; #,,, गर्वविज्ञप्तिहिंसासु प्रणये चाभिमानवाक् ॥ १८४ ॥ $सुषिर; #,, गर्ते गर्तान्विते वाद्यविशेषे सु(शु)षिरं त्रिषु । (गर्ते गर्तान्विते वाद्ये सुषिरं त्रिषु दृश्यते ।) ;समान,४ एकतुल्यशरीरस्थवायुसत्सु समानवाक् ॥ १८५ ॥ $मुख; #,, आदावुपाये च मुखं वदनं च मुखं विदुः । $वर्ष्मन्; #,, प्रमाणदेहयोर्वर्ष्म स्यादाकारे च सुन्दरे ॥ १८६ ॥ $संभ्रम; #,, त्रयं संभ्रममिच्छन्ति भयं संवेगमादरम् । $स्व; #,,, स्वशब्दो वदति ज्ञातिमात्मात्मीयधनानि च ॥ १८७ ॥ $द्रव्य; #,, भव्यभेषजयोर्द्रव्यं द्रव्यं द्रविणमिष्यते । $आतङ्क; #,, शङ्कायामाहुरातङ्कं रोगसंतापयोरपि ॥ १८८ ॥ ;p{0018} $वाम; #,, $वामा; # वामा स्त्री सुन्दरं वामं वामं सव्यप्रतीपयोः । $प्रग्राह; #, हयरश्मौ तुलासूत्रे प्रग्राहः सद्भिरिष्यते ॥ १८९ ॥ $प्रतिष्ठा; #, आदृतत्वे प्रतिष्ठा स्यात्प्रतिष्ठा स्थानमात्रके । ;प्रलय,३ प्रलयौ मृत्युसंवर्तौ मूर्च्छायां प्रलयं विदुः ॥ १९० ॥ $मान; #,, मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि । $वर्ष; #,, लोकधातौ च वृष्टौ च वर्षं वर्षं च वत्सरे ॥ १९१ ॥ $वारूणी; #, वारुणीं मदिरामाहुः पश्चिमा दिक्च वारुणी । $ज्योत्स्ना; #, ज्योत्स्ना ज्योतिष्मती रात्रिर्ज्योत्स्ना चन्द्रमसः प्रभा ॥ १९२ ॥ $दाक्षायणी; #, दाक्षायणीं विदुर्दुर्गामश्विन्याद्याश्च तारकाः । $व्यायाम; #, परिश्रमार्थो व्यायामो व्यायामं पौरुषं विदुः ॥ १९३ ॥ $आपन्न; #, आपन्नं ब्रुवते प्राप्तमापन्नश्चापदि स्थितः । $परिगत; #,, विज्ञाते वेष्टिते प्राप्ते विदुः परिगतध्वनिम् ॥ १९४ ॥ $धिषण; # $धिषणा; # धिषणस्त्रिदशाचार्यो धिषणा धीरपि स्मृता । $अनुमति; #, ऊनेन्दुपूर्णिमानुज्ञे द्वे अप्यनुमती मते ॥ १९५ ॥ $सौम्य; #,, चारुचन्द्रजयोः सौम्यः सोमो यस्य च देवता । $राका; #, पूर्णेन्दुपूर्णिमा राका कन्या जातरजाश्च या ॥ १९६ ॥ $सूचा; #, $सूचना; #, व्यघनेभिनये सूचा सूचनात्प्रयुज्यते । ;तत,३;वितत,३ वादित्रे विस्तृते व्याप्ते ततं विततवन्मतम् ॥ १९७ ॥ $तिष्य; #, $पुष्य; #, ऋक्षे कलियुगे तिष्यः पुष्यवत्परिकीर्तितः । $चित्रभानु; #, $विभावसु; #, सूर्ये वह्नौ चित्रभनुर्विभावसुरिवेष्यते ॥ १९८ ॥ $क; #,,,, कं वारिशिरसोः कश्च प्रजापत्यत्मवायुषु । $धूमकेतु; #,, उत्पाते ग्रहभेदे च धूमकेतुर्हुताशने ॥ १९९ ॥ (स्यादुत्पातो धूमकेतुर्धूमकेतुर्हुताशनः) ;p{0019} $कीनाश; #,, त्रयः कीनाशनामानः कदर्यः कर्षको यमः । $पुण्य; #,, मनोज्ञं सुकृतं धर्मस्त्रयं पुण्यमुदाहृतम् ॥ २०० ॥ $शिखिन्; #,,, शिखी हुताशने वृक्षे शिखिनौ केकिकुक्कुटौ । $कल्प; #,,,, कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने ॥ २०१ ॥ $शमन; #, इच्छन्ति वधमर्थज्ञाः शमनं शमनोऽन्तकः । $उपक्रम; #,, उपक्रमश्चिकित्सायामारम्भोपधयोरपि ॥ २०२ ॥ $कम्बु; #,, शम्बूक इष्यते कम्बुः कम्बुर्वलयशङ्खयोः । $शङ्ख; #,, निधिभेधः स्मृतः शङ्खः शङ्खं कम्बुललाटयोः ॥ २०३ ॥ $ज्यायस्; #, $ज्येष्ठ; #, प्रशस्यवृद्धतरयोर्ज्यायाञ्ज्येष्ठवदिष्यते । $वीर्य; #,, $तेजस्; #,, बलशुक्रप्रभावेषु वीर्यं तेजश्च कीर्तीतम् ॥ २०४ ॥ $ऊर्णायु; #, ऊर्णायुरिष्यते मेष ऊर्णायुर्मेषकम्बलः । $विमान; #, विमानः देवतायाने सप्तभूमे च वेश्मनि ॥ २०५ ॥ $श्रेयस्; #,, धर्ममङ्गलयोः श्रेयः प्रशस्तातिशयेपि च । $पिचण्ड; #, पिच(चि)ण्ड उदरे ज्ञेयः पिच(चि)ण्डोऽवयवः पशोः ॥ २०६ ॥ $ग्रहण; #,, त्रयं ग्रहणमिच्छन्ति बन्दीं स्वीकारमादरम् । $सुरभि; #,, मधुमासः सुगन्धिश्च सुरभिः सुरभिश्च गौः ॥ २०७ ॥ $रुचि; #,, अभिष्वङ्गाभिलाषौ च दीप्तिश्च रुचिरेष्यते । $बिम्ब; #,, मण्डले प्रतिबिम्बे च बिम्बं स्याद्बिम्बिकाफले ॥ २०८ ॥ $मन्द; #,,,,, मन्दाः स्वैराल्परोगार्त्तमूढाभाग्यशनैश्चराः । $हायन; #,, तिस्रश्च हायनाभिख्या व्रीहिसंवत्सरार्चिषः ॥ २०९ ॥ $अब्ज; #,,, अब्जो धन्वन्तरौ चन्द्रे स्यादब्जं शङ्खपद्मयोः । $ग्रह; #,,, सूर्यादौ पूतनादौ च राहुनिर्बन्धयोर्ग्रहः ॥ २१० ॥ $वत्स; #,,, पुत्रादौ तर्णके वर्षे वत्सो वत्सं च वक्षसि । $ख; #,, खमिन्द्रिये खमाकाशे खं स्वर्गेऽपि प्रयुज्यते ॥ २११ ॥ ;p{0020} $अवरोह; #,, अवरोहोऽवतरणे पादपाङ्गे लतोद्गमे । $काष्ठा; #,,, काष्ठा दिक्कालमर्यादाप्रकर्षेषु प्रयुज्यते ॥ २१२ ॥ $व्युत्थान; #, स्वान्तन्त्र्यकृते व्युत्थानं विरोधाचरणे तथा । $काच; #,, मृद्भेदाक्षिगदौ काचौ काचः शिक्येऽपि दृश्यते ॥ २१३ ॥ $धामन्; #,,, तेजोजन्मप्रभावेषु स्मृतं धाम गृहेषु च । $वरिष्ठ; #, वरिष्ठं स्याद् गुरुतमं तथा वरतमं च यत् ॥ २१४ ॥ $अरुष्कर; #, अरुष्करः स्याद् व्रणकृद्भल्लातकमरुष्करम् । $आशितंभव; #, आशितंभवमन्नाद्यं तृप्तिरप्याशितंभवः ॥ २१५ ॥ $ज्योतिस्; #,,, दीप्तिताराहुताशेषु ज्योतिर्ज्योतिर्विलोचने । $कलाप; #,,, कलापः संहतौ बर्हे काञ्चीतूणीरयोरपि ॥ २१६ ॥ $शारदा; #,, शारदौ वर्षशालिनौ प्रत्यग्रं शारदं विदुः । $ग्रामणी; #,, पतिप्रधाने ग्रामण्यौ ग्रामण्यं (णीर्) वक्ति नापितम् ॥ २१७ ॥ $सौरभ्य; #, सौरभ्यमाहुः सौगन्ध्यं सौरभं च मनोज्ञता । $भाण्ड; #,, तुरंगाभरणे पात्रे भाण्डं मूलवणिग्धने ॥ २१८ ॥ $अपभ्रंश; #,, पतने स्यादपभ्रंशो भाषाभेदापशब्दयोः । $पेचक; #, उलूकगजलाङ्गूलमूलयोरपि पेचकः ॥ २१९ ॥ $करभ; #, कनिष्ठामणिबन्धान्तरो(रु)ष्ट्रयोः करभो मतः । $मार्ग; #,,, मासान्वेषनयोर्मार्गो मार्गो मृगमदाध्वनोः ॥ २२० ॥ $सारङ्ग; #,, सारङ्गः शबलो वर्णः सारङ्गावेणचातकौ । $हस्तिमल्ल; #, हस्तिमल्लौ विजानीयादैरावतविनायकौ ॥ २२१ ॥ $गुच्छ; #, स्तबके हारभेदे च गुच्छमिच्छन्ति सूरयः । $स्थित; #, स्थितमूर्ध्वं विजानीयात्प्रतिज्ञानवति स्थितः ॥ २२२ ॥ $बभ्रु; #,, नारायणः स्मृतो बभ्रुर्बभ्रू नकुलपिङ्गलौ । $पत्त्रिन्; #,, श्येनाख्यो विहगः पत्त्री पत्त्रिणौ शरपक्षिणौ ॥ २२३ ॥ ;p{0021} $अपवाद; #, अप(व)वादं विदुर्विन्दामप(व)वादो निदेशनम् । $क्रन्दन; #, आह्वानं क्रन्दनं विद्यात्क्रन्दनं रुदितध्वनिः ॥ २२४ ॥ $धव; #,, धवो नरो धवो वृक्षो धवो भर्ता च योषिताम् । $तमस्; #,,, ध्वान्तं तमस्तमो राहुस्तमः शोकस्तमो गुणः ॥ २२५ ॥ $गर्जित; #, स्वनो गर्जितमब्दानां गर्जितो मत्तकुञ्जरः । $कमल; #,, $कमला; # कमला श्रीर्जलं पद्मः कमलं कमलो मृगः ॥ २२६ ॥ $गुहा; #, पृश्रिपर्णी गुहा ज्ञेया गुहा पर्वतगह्वरम् । $मदकल; #, मत्तः करी मदकलो मदेनाव्यक्तवाक्च यः ॥ २२७ ॥ $सम; #,, $समा; # समा वर्षं समं सर्वं समं साधु समं सदृक् । $क्षण; #,,, क्षणो व्यापारशून्यत्वे मुहूर्तोत्सवपर्वसु ॥ २२८ ॥ $उषा; #, उषा रात्रिस्तदन्ते च स्यादुषाध्वनिरव्ययम्(यः) । $बाल; #,,,, बालः केशाज्ञडिम्भेषु ह्रीवेरे गजवालधौ ॥ २२९ ॥ $शतपत्र; #, दार्वाघाटः शतपत्त्रः शतपत्त्रं सरोरुहम् । $एकाग्र; #, एकाग्रमेकतानाख्यमेकाग्रं स्यादनाकुलम् ॥ २३० ॥ $कलिङ्ग; #, भवेत्कलिङ्गो धूम्याटः कलिङ्गं कौटजं फलम् । $अयन; #, अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ॥ २३१ ॥ $त्रुटि; #,,, सूक्ष्मैलायां कालमाने त्रुटिरल्पेपि संशये । (त्रुटिरल्पे प्रशस्यते) $पराग; #,, पुष्परेणौ परागः स्यात्स्नानीयरजसोरपि ॥ २३२ ॥ $कद्रु; # नागानां जननी कद्रूः कद्रुः कनकपिङ्गलः । $पवन; #, पाकस्थानं कुलालस्य पवनं पवनो मरुत् ॥ २३३ ॥ $शोण; #,, शोणः स्याद्बन्धुजीवाभे नदे लोहितवाजिनि । $लोहित; #, लोहितं रक्तवद् दृष्टं क्षतजारुणयोरपि ॥ २३४ ॥ ;p{0022} $हरिणि; #,, सुवर्णप्रतिमामृग्योर्हरिणी हरिता च या । $अवदात; #,, अवदातः सिते गौरे परिशुद्धे च दृश्यते ॥ २३५ ॥ $तनु; #,,,, तनुस्त्वगल्पकायेषु तनुः स्याद्विरले कृशे । $आस्था; #,, आस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः ॥ २३६ ॥ $शिपिविष्ट; #,, शिपिविष्टः शिवो देवो दुश्चर्मा खलतिश्च यः । $कट; #,,,, शवे श्रोणौ क(कि)लिञ्जे च गजगण्डे भृशे कटः ॥ २३७ ॥ $वृजिन; #,, वृजिनं किल्बिषे भुग्ने वृजिनश्च शिरोरुहः । $क्षेत्र; #,,, केदारे वपुषि क्षेत्रं सिद्धस्थानकलत्रयोः ॥ २३८ ॥ $कपोत; #, पारावतः कपितः स्यात्कपोतो विहगान्तरम् । $शिशिर; #,, शीतले शिशिरं विद्यात्तुषारऋतुभेदयोः ॥ २३९ ॥ $करीर; #,, वृक्षप्रभेदे कलशे करीरो वैणवाङ्कुरे । $नेत्र; #,,, नेत्रं वस्त्रे मथिगुणे तरुमूले विलोचने ॥ २४० ॥ $सार्वभौम; #, सर्वपृथ्वीपतौ राज्ञि सार्वभौमोथ दिग्गजे । $रेवती; #,, ऋक्षे लाङ्लिदारेषु रेवत्याख्याथ मातृषु ॥ २४१ ॥ $पक्षति; #, प्रतिपत्पक्षतिर्ज्ञेया गरुन्मलेपि पक्षतिः । $सारस; #, सारसो विहगः ख्यातः सारसं सरसीरुहम् ॥ २४२ ॥ $शर्करा; #,, सितोपलायां शकले रोगभेदे च शर्करा । $जिष्णु; #,, शक्रजित्वरयोर्जिष्णुर्जिष्णुर्मध्यमपाण्डवे ॥ २४३ ॥ $पोत्र; #, मुखाग्रं पोत्रमुद्दिष्टं सूकरस्य हलस्य च । $अष्टापद; #, सुवर्णं शारिफलकं द्वयमष्टापदं विदुः ॥ २४४ ॥ $चषक; #, चषकं शी(सी)धु विज्ञेयं चषकं मद्यभाजनम् । $उपग्रह; #, उपग्रहाख्यं द्वितयं स्याद्बन्दिरनुकूलनम् ॥ २४५ ॥ $श्रेणी; #, श्रेणिः समानशिल्पानां संहतिः श्रेणिरावलिः । $अर्घ्य; #, अर्घार्थं यत्तदर्घ्यं स्यादर्घ्यो यश्चार्घमर्हति ॥ २४६ ॥ ;p{0023} $कल्याण; #,, कल्याणं मङ्गलं विद्यात्काञ्चनं च यदक्षयम् । $आतिथ्य; #, आतिथ्यं स्यादतिथ्यर्थ आतिथ्यमतिथिं विदुः ॥ २४७ ॥ (आतिथ्यं यदतिथ्यर्थमातिथ्यमतिथिं विदुः ॥) $पर्याप्त; #,,, शक्तौ(क्ते) निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते । $अत्यय; #,,, कृच्छ्रे दण्डे च दोषे च नाशे च विदुरत्ययम् ॥ २४८ ॥ $केतु; #,, पताकायां मतः केतुः केतुरुत्पातचिह्नयोः । $विवध; #,, $वीवध; #,, पर्याहाराध्वभारेषु मतौ विवधवीवधौ ॥ २४९ ॥ $जैवातृक; #, जैवातृकौ विजानीयादायुष्मन्मृगलाञ्छनौ । $भुजिष्य; #, अनधीनो भुजिष्याख्यो भुजिष्यः प्रैष्य इष्यते ॥ २५० ॥ $विषयिन्; #, इन्द्रियं विषयि ज्ञेयं विषयी विषयान्वितः । $विधि; #,,, विधी विधानधातारौ विधिः स्यात्कालदैवयोः ॥ २५१ ॥ $अवधि; #,, अवधी कालगतौ स्तः सीमानोऽवधयः स्मृताः । $क्षम; #,, $क्षमा; #, क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते हिते क्षमम् ॥ २५२ ॥ $समुन्नद्ध; #, समुन्नद्धाभिधानौ द्वौ पण्डितंमन्यगर्वितौ । $अभिजात; #,, न्याय्ये कुलीनबुधयोरभिजातपदं विदुः ॥ २५३ ॥ $आच्छादन; #, आच्छादनं संपिधानं वस्त्रमाच्छादनं मतम् । $आकार; #, विदुराकृतिमाकारमाकारो गात्रवैकृतम् ॥ २५४ ॥ $विष्टर; #,, विष्टरः कुशमुष्टौ स्यात्पीठपादपयोरपि । $भङ्ग; #, $भङ्गा; # भेदकल्लोलयोर्भङ्गो भङ्गा सस्यं शणाह्वयं ॥ २५५ ॥ $अपदेश; #,,, अपदेशं विदुर्लक्ष्ये निमित्तव्याजयोस्तथा । $निगम; #,, जानीयान्निगमं वेदे नगरेथ वणिक्पथे ॥ २५६ ॥ $अभिषङ्ग; #,, आक्रोशशापाभिभवेष्वभिषङ्गपदं विदुः । $संनय; #, संनयः समवाये स्यात्पृष्ठस्थायिबले तथा ॥ २५७ ॥ $उष्णीष; #, शिरोवेष्टनमुष्णीषमुष्णीषं मुकुटं विदुः । $किंशारु; #, स्याद्व्रीहिशुकः किंशारुः किंशारुर्विशिखो मतः ॥ २५८ ॥ ;p{0024} $आकर्ष; #,, आकर्षः शारिफलके द्यूतपाशकयोरपि । $सुवर्ण; #, सुवर्णमिष्यते सद्भिर्हेमकर्षे च हेम्नि च ॥ २५९ ॥ $संग्रह; #,, संग्रहो बृहदुद्रङ्गे ग्रहसंक्षेपयोरपि । $कूप; #,, गर्तोदपानयोः कूपः कूपः स्याद्गुणवृक्षके ॥ २६० ॥ $गुल्म; #,,, सैन्यभेदे रुजायां च गुल्मो विटपघट्टयोः । $क्षय; #,,, क्षयौ निलयकल्पान्तौ क्षयोपचयरोगयोः ॥ २६१ ॥ $आक्रन्द; #,, आक्रन्दः क्रन्दनध्वाने नाथदारुणयुद्धयोः । $उत्सव; #,, अमर्षोत्सेकयोरिच्छाप्रसवेप्युत्सवं विदुः ॥ २६२ ॥ $आडम्बर; #,, आडम्बरः समारम्भे गजगर्जिततूर्ययोः । $स्थूलोच्चय; #, स्थूलोच्चयोप्यसामग्र्ये गजानां मध्यमे गते ॥ २६३ ॥ $प्रतियत्न; #,, संस्कारे प्रतियत्नः स्यादुपग्रहणलिप्सयोः । $पटु; #,, पटुरामयनिर्मुक्तः पटुश्चतुरतीक्ष्णयोः ॥ २६४ ॥ $वलज; #,,, क्षेत्रे चारुस्त्रियां सस्ये पूर्द्वारे वलजाभिधा । $उदार; #,, उदारो दातृमहतोरुदारम् दक्षिणं विदुः ॥ २६५ ॥ $शक्करी; #, शक्वरी छन्दसि ज्ञेया शक्वरी मेखला क्वचित् । $आसुतीवल; #, यज्वा च कल्यपालश्च द्वयं स्यादासुतीवलः ॥ २६६ ॥ $भेद; #,, उपजापो विशेषश्च भेदौ भेदो विदारणम् । $वप्र; #,,, पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः ॥ २६७ ॥ $राजन्; #,,, राजा नृपः प्रभू राजा राजा क्षत्रियचन्द्रयोः । $शिशुमार; #, शिशुमारा जलोद्भुतजन्तौ तारामयाच्युते ॥ २६८ ॥ $अस्र; #,, बाष्पोऽस्र(श्र)मस्रं रुधिरमस्रः शिरसिजः स्मृतः । $आहत; #,, मिथ्योक्तौ ताडिते विद्यादाहते गुणिते तथा ॥ २६९ ॥ $यादसांपति; #, यादसांपतिरम्भोधिः ग्रचेता यादसांपतिः । $कूल; #, सैन्यस्य पश्चिमे भागे प्रतीरे कूलमिष्यते ॥ २७० ॥ ;p{0025} $परीष्टि; #, परिचर्या परीष्टिः स्यात्परीष्टिश्च गवेषणे । $दर; #,, दरो भये च गर्ते च किंचिदर्थे दरा(रो)व्ययम् ॥ २७१ ॥ $पर्यङ्क; #, पर्यस्तिकायां पर्यङ्कः पर्यङ्कः शयनं तथा । $कारा; #, कारा बन्धनशालायां कारा बन्धनमात्रके ॥ २७२ ॥ $मूर्धाभिषिक्त; #, मूर्धाभिषिक्तो भूपाले क्षत्रिये च प्रयुज्यते । $वंश; #,, वंशोन्वयः समूहश्च वंशो वंशाश्च वेणवः ॥ २७३ ॥ $रजस्; #,, रजो गुणे रजो रेणुर्योषितामार्तवं रजः । $आधि; #,, आधिं वदन्त्यधिष्ठाने बन्धके व्यसने तथा ॥ २७४ ॥ $खल; #,,,, खलं भूस्थानकल्केषु पामरक्रूरयोः खलः । $वृत्तान्त; #,,, वृत्तान्तः प्रक्रियायां स्यात्कार्त्स्न्ये वार्ताविशेषयोः ॥ २७५ ॥ (कार्त्स्न्यवार्ताविशेषयोः ॥) $सूत; #,,, सूतः क्षत्त्राद् ब्राह्मणीजे तक्ष्णि सारथिबन्दिनोः । (सूतः शूद्रात्क्षत्त्रियाजे) $कुण्डलिन्; #, कुण्डली भुजगो येन पिनद्धमपि कुण्डलम् ॥ २७६ ॥ $दिवाकीर्ति; #, जनंगमो दिवाकीर्तिर्दिवाकीर्तिश्च नापितः । $माल्य; #, माल्यं सुमनसां माला माल्यं सुमनसोपि च ॥ २७७ ॥ $गोप; #,, ग्रामौघाधिकृते गोपो गोष्ठाध्यक्षेऽथ बल्लवे । $दक्ष; #,, इष्यते चतुरे दक्षस्ताराचूडे प्रजापतौ ॥ २७८ ॥ $वेग; #,, जवे प्रवाहे किंपाके वेगशब्दस्त्रिषु स्मृतः । $प्रदर; #,, रोगप्रभेदे प्रदरः प्रदरः शरभङ्गयोः ॥ २७९ ॥ $समुदय; #,, समुद्गमे समुदयः संग्रामनिकुर(रु)म्बयोः । $नग; #, $अग; #, $शिखरिन्; #, नगागौ शिखरीत्येतत्त्रयं पर्वतवृक्षयोः ॥ २८० ॥ $वाह; #,, बाहुरेव स्मृतो वाहो वाहो मानतुरंगयोः । $बाण; #,, दैत्यमार्गणयोर्बाणो बाणो दासीकुर(रु)ण्टकः ॥ २८१ ॥ ;p{0026} $सादिन्; #, सादिनः स्यन्दनारोहा अश्वारोहाश्च सादिनः । $व्याड(ल); #,, भुजगश्वापदक्रूरास्त्रयो व्याडा(ला) इति स्मृताः ॥ २८२ ॥ $विश्; #, $भूमिस्पृश्; #, विशो भूमिस्पृशो वैश्या विशो भूमिस्पृशो नराः । $सालावृक; #,, त्रयः सा(शा)लावृकाभिख्याः श्वसृ(शृ)गालवलीमुखाः ॥ २८३ ॥ $आश्रम; #, आश्रमो ब्रह्मचर्यादिराश्रमो मठ इष्यते । $निराकृति; #,, अस्वाध्याये निराकारे प्रत्य्यादेशे निराकृतिःः ॥ २८४ ॥ $जीवक; #, जीवकः क्षपणो ज्ञेयः प्राणदोऽपि च जीवकः । $माणवक; #,, हारभेदे माणवको बाले कुपुरुषे तथा ॥ २८५ ॥ $निवात; #,, आश्रये दृढसंनाहे निवातो वातवर्जिते । $पुलाक; #,, संक्षेपे तुच्छधान्ये च पुलाको भक्तसिक्थके ॥ २८६ ॥ $कटक; #,, राजधान्यां गिरेरङ्गे वलये(यं) कटकं विदुः । $तरल; #,, तरलो भास्वरे हारमध्यरत्नेथ चञ्चले ॥ २८७ ॥ $दव; #, $दाव; #, वने च वनवह्नौ च दवो दाव इवेष्यते । $शिल; # $शिला; #, शिला द्वाराधरं दारु शिलमुञ्छः शिला दृषत् ॥ २८८ ॥ $कोश; #,,,, पेश्यां दिव्ये धने कोशः कुङ्गलासिपिधानायोः । $नासा; #, विज्ञेया नासिका नासा नासा द्वारोर्ध्वदारु च ॥ २८९ ॥ $अन्ध; #, अन्धो दर्शननिर्मुक्तो जन्तुरन्धं तमो मतम् । $शाक्वर; #, शाक्करोऽनडुहि ज्ञेय उक्तं छन्दसि शाक्वरम् ॥ २९० ॥ $क्रूर; #,, नृशंसकठिनौ क्रूरौ क्रूरं विद्याद् भयंकरम् । $दृष्टान्त; #, दृष्टो दृष्टान्तशब्दोयमुदाहरणशास्त्रयोः ॥ २९१ ॥ $सत्र; #,,, सत्रं यज्ञे सदादाने छादनारण्ययोरपि । $क्षेम; #, जानीयान्मङ्गलं क्षेमं क्षेमं लब्धार्थरक्षणम् ॥ २९२ ॥ $देवन; #,, व्यवहारे जिगीषायां क्रीडयामपि देवनम् । $साल; #,, प्राकारवृक्षयोः सा(शा)लः सा(शा)लः सर्जतरुः स्मृतः ॥ २९३ ॥ ;p{0027} $प्रतिष्कष; #,, वार्ताहरे पुरोगे च सहाये च प्रतिष्कशः । $पत्ति; #,, सैन्यभेदे पदातौ च पत्तिः पत्तिर्गतावपि ॥ २९४ ॥ $पलल; #, पललं तिलमिश्रे(चूर्णे) स्यात्पललं पिशितेपि च । $बन्धुर; #, बन्धुरं सुन्दरे दृष्टं बन्धुरं नम्रवाचकम् ॥ २९५ ॥ $जगत्; #, $चराचर; #, जगच्चराचरमिव भुवने गतिमत्यपि । $प्रतिक्षिप्त; #, प्रेषिते स्यात्प्रतिक्षिप्तं प्रतिक्षिप्तं निराकृते ॥ २९६ ॥ $अनय; #,, व्यसनेष्वशुभे दैवे विपत्तवनयस्त्रिषु । $स्पर्श; #,,, रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि ॥ २९७ ॥ $परिवार; #, परिवारः परिजने तथा खड्गपिधानके । $बन्धकी; #, पुंश्चली बन्धकी विद्यात्करेणुरपि बन्धकी ॥ २९८ ॥ $अपाचीन; #, विपर्यस्तमपाचीनमपाचीनमपाग्गतिः । $पक्व; #, विनाशाभिमुखं पक्वं पक्वं परिणतार्थकम् ॥ २९९ ॥ $जीवितेश; #, प्रयुज्यते जीवितेशो यमजीवितनाथयोः । $कनीयस्; #,, अत्यल्पयूनोरनुजे कनीयान्स्यात्कनिष्ठवत् ॥ ३०० ॥ $वयस्; #,, वयो बाल्यादि पक्षी च यौवनं च वयः क्वचित् । $लघु; #,,, शीघ्रे मनोज्ञे निःसारे लघुः स्यादगुरुद्रुमे ॥ ३०१ ॥ $सवन; #,, सोमनिर्दलने स्नाने यजने सवनं मतम् । $इरा; #,,, पृथिव्यां वाचि पानीये मदिरायामिरा मता ॥ ३०२ ॥ $यातयाम; #, परिभुक्तोज्झिते जीर्णे यातयामपदं विदुः । $उच्छ्रित; #,, समुन्नते(द्वे) प्रवृद्धे च जाते च विदुरुच्छ्रितम् ॥ ३०३ ॥ $केवल; #,, केवलः कृत्स्न एकश्च केवलश्चावधारितः । $सत्; #,,,, सत्सत्येभ्यर्हिते साधौ विद्यमानप्रशस्तयोः ॥ ३०४ ॥ $जाति; #,,,, जातिच्छन्दसि सामान्ये मालतीगोत्रजन्मसु । $अधर; #,, ओष्ठे स्यादधरो हीनमनूर्ध्वमधरं विदुः ॥ ३०५ ॥ ;p{0028} $दृषद्; #, दृषन्निष्पेषणशिला केवलापि शिला दृषत् । $उपासन; #, उपासनं विदुः सेवां बाणाभ्यास उपासनम् ॥ ३०६ ॥ $शश्रूषा; #, शुष्रूषा श्रोतुमाशंसा शुश्रूषा स्यादुपासनम् । $संज्ञा; #,, नामचेतनयोः संज्ञा सूचनायां करादिभिः ॥ ३०७ ॥ $पीलु; #,,, प्रसूनकाण्डयोः पीलुः पीलुः स्याद्गजवृक्षयोः । $आनर्त्त; #,, आनर्त्तो नृत्यशालायां जन्ये(ने) जनपदान्तरे ॥ ३०८ ॥ $प्रेत; #, $परेत; #, मृते भूतान्तरे प्रेतः परेतोऽप्यनयोर्मतः । $कुकूल; #, शङ्कुभिर्निचिते श्वभ्रे तुषाग्नौ च कुकूलवाक् ॥ ३०९ ॥ $प्रतिश्रय; #, प्रतिश्रयः सभायां स्यादाश्रयश्च प्रतिश्रयः । $निर्यूह; #,,, निर्यासे शेखरे द्वारे निर्यूहो नागदन्तके ॥ ३१० ॥ $समाधि; #,,, समाधिर्ध्याननीवाकनियमेषु समर्थने । $घनाघन; #,, घनाघनो वर्षुकाब्दे शक्रे समदहस्तिनि ॥ ३११ ॥ $सिन्धु; #,, नदप्रभेदे नद्यां च सिन्धुर्नीरनिधावपि । $परंपर; #,,,, मृगभेदे च पुत्रस्य प्रपौत्रे च परंपरः ॥ ३१२ ॥ $व्यलीक; #,,, व्यलीकमप्रियाकार्यवैलक्ष्येष्वथ पीडने । $निष्क्रम; #, निष्क्रमो निर्गमे ख्यातो बुद्धिसंपदि निष्क्रमः ॥ ३१३ ॥ $सर्ग; #,,, अध्याये निश्चये पर्वो निर्माणोत्साहयोरपि । $समा; #, पक्षिभिः ॥ ३१४ ॥ $हस्त; #,, पाणिनक्षत्रयोर्हस्तः संघाते केशपूर्वकः । $निह्नव; #,, अविश्वासेऽपलापे च निकृताषपि निह्नवः ॥ ३१५ ॥ (विश्वासेप्यपलापे च निष्कृतावपि निह्नवः ॥) $प्राय; #,,, मृत्यावनशने प्रायः प्रायो बाहुल्यतुल्ययोः । $क्षत्तृ; #,, क्षत्ता शूद्रात्क्षत्रियाजे सारथिप्रतिहारयोः ॥ ३१६ ॥ ;p{0029} $अभिजन; #, कुले च जन्मभूमौ च विद्यादभिजनध्वनिम् । $निर्ग्रन्थक; #, निर्ग्रन्थकं विजानीयात्क्षपणे निष्परिच्छदे ॥ ३१७ ॥ $महासेन; #, महासेनः कार्तिकेये महासैन्यपतावपि । $आरोह; #,, आरोहो योषिताम् श्रोणौ तरोरङ्गे समुच्छ्रये ॥ ३१८ ॥ $वणिज्; #, वाणिज्ये वणिजं विद्यात्तथा वाणिज्यजीविनि । $विग्रह; #,, संग्रामे विग्रहः ख्यातः कायविस्तारयोरपि ॥ ३१९ ॥ $अनुशय; #,, विद्यादनुशयं द्वेषे पश्चात्तपानुबन्धयोः । $धिष्णय; #,,, स्थाननक्षत्रयोर्धिष्ण्यं धिष्ण्योऽग्नौ धिष्ण्यमालये ॥ ३२० ॥ $मागध; # $मागधी; #, मागधी पिप्प्लीयूथ्योर्मागधो बन्दिनि स्मृतः । $कुसुम्भ; #, महारजनं कुसुम्भं कुसुम्भश्च कमण्डलुः ॥ ३२१ ॥ $जगाल; #, जगलः पिष्टमद्यं च मेदको जगलः स्मृतः । $करक; #, कमण्डलुश्च करकः करकश्च घनोपलः ॥ ३२२ ॥ $परिवाप; #, परिवापो जलस्थानं परिवापः परिच्छदः । $वारि; #, करिणां बन्धनी वारिरम्बु वारीति विश्रुतम् ॥ ३२३ ॥ $कुमारी; #, अयं द्वीपः कुमारी स्यात्कुमारी कन्यका स्मृता । $वातूल; #, वातूलो वातसंघाते वातूलो मारुतासहे ॥ ३२४ ॥ $पाद; #, $अङ्घ्रि; #, $चरण; #, पादाङ्घ्रि(दांह्रि)चरणा जन्तोरङ्गे मूले च भूरुहाम् । $विपणि; #, आपणः पण्यवीथी च द्वयं विपणिसंज्ञकम् ॥ ३२५ ॥ $जठर; #, कुक्षौ कठिने जठरं विदुः । $श्याम; #, $श्यामा; #, श्यामा श्यामौ च हरितासितौ ॥ ३२६ ॥ $दुन्दुभि; #,, इष्यते दुन्दुभिर्भेर्यामक्षे बिन्दुत्रिकद्वये ॥ ३२७ ॥ $भिक्षा; #,,, प्रार्थनाभृतिसेवासु भिक्षा भिक्षितवस्तुनि । $प्रतीत; #,, प्रख्यातज्ञातह्रष्टेषु प्रतीतं त्रिषु विश्रुतम् ॥ ३२८ ॥ ;p{0030} $इला; #,,, इला गोवाग्धरित्रीषु कलत्रे चन्द्रजस्य च । $गण्डूषा; #, गण्डूषा मुखपूर्तौ च गण्डूषा प्रसृतोन्मिते ॥ ३२९ ॥ $गोष्पद; #, गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे । $प्रथम; #, $प्रमुख; #, आदौ प्रधाने प्रथमं प्रमुखेन समं विदुः ॥ ३३० ॥ $मृग; #,,, मृगशीर्षे हस्तिजातौ मृगः पशुकुरङ्गयोः । $तमिस्रा; #, तमिस्रा सतमा रात्रिस्तमिस्रा च तमस्ततिः ॥ ३३१ ॥ $अरत्नि; #, अरत्निः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ । $गति; #,,, उपायो वर्त्म च गतिर्गतिर्यात्रा गतिर्दशा ॥ ३३२ ॥ $घटा; #,, घटा स्याद् घटना गोष्ठी करिणां घटना घटा । (करिसंघटने गोष्ठ्यां घटनायां घटा मता ।) $कटु; #,,, रसे(सः) कटुः कटुस्तीक्ष्णे मत्सराकार्ययोः कटुः ॥ ३३३ ॥ $सुधा; #,,,, गङ्गेष्टिकास्नुहीमूर्वापीयूषेषु सुधा स्मृता । $परिध; #,, आयुधे परिघः ख्यातः परिघोऽर्गलघातयोः ॥ ३३४ ॥ $उपह्वर; #, उपह्वरं विजानीयान्निःशलाकसमीषयोः । $लक्ष; #,, लक्षं छद्मनि विख्यातं लक्षं संख्याशरव्ययोः ॥ ३३५ ॥ $गन्ध; #,, आमोदलेशयोर्गन्धो गन्धः संबन्धमात्रकः । $कल्क; #,,, कल्कः पापाशये दम्भे कल्कं स्यात्पापकिट्टयोः ॥ ३३६ ॥ $कोष्ठ; #,, कोष्ठः कुशूले स्वीये च कुक्षाव(क्षेर)न्तर्गृहस्य च । $कुश; #, $कुशा; # $कुशी; # कुशो दर्भः कुशी फालः कुशा वल्गा कुशं जलम् ॥ ३३७ ॥ $उपलब्धि; #,, उपलब्धिर्भवेद् बुद्धौ प्राप्तौ ज्ञाने च दृश्यते । $सार; #,,, सारो बले स्थिरांशे च न्याय्ये सारं वरे तथा ॥ ३३८ ॥ $न्युङ्ख; #, न्युङ्खः साम्नः षडोङ्कारे न्युङ्खः सम्यङ्मनोहरे । $चटु; #, चटुः पिच(चि)ण्डे भूपादेरपि सद्गुणवर्णने ॥ ३३९ ॥ ;p{0031} $शृङ्गार; #, रसे नाट्यस्य शृङ्गारः शृङ्गारो गजमण्डने । $भार; #, विवधे द्विसहस्रे च पलानां भार इष्यते ॥ ३४० ॥ $आचित; #, आचितः शकटोन्मेये पलानामयुतद्वये । $वर्षाभू; #, पुनर्नवायां वर्षाभूर्वर्षाभूरपि दर्दुरे ॥ ३४१ ॥ $अनीकस्थ; #, राजरक्षिष्वनीकस्थो रा(ग)जशिक्षाविचक्षणे । $पुरस्कृत; #,, अग्रेकृताभ्यर्चितयोरतिशस्ते पुरस्कृतः ॥ ३४२ ॥ $वधू; #,,, नवोढयोषिति वधूः स्नुषाभार्याङ्गनासु च । $आशय; #, आशयं विदुराधारं स्यादभिप्राय आशयः ॥ ३४३ ॥ $दुर्जात; #, दुर्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि । $कुल्य; # $कुल्या; #, कुल्या नदी कुल्यमस्थि कुल्या नीरप्रणालिका ॥ ३४४ ॥ $शुण्डा; #, कुञ्जराणां करः शुण्डा शुण्डा कादम्बरी मता (तथा) । $अपचिति; #,,, विद्यादपचितिं हानौ निष्कृतावर्चने व्यये ॥ ३४५ ॥ $वैदेहक; #, वैदेहको वाणिजके वैश्यतो ब्राह्मणीसुते । (वैश्यापुत्रे च शूद्रजे) $आशिस्; #, आशीरभीप्सिताशंसा दंष्ट्राशीरनिलाशिनाम् ॥ ३४६ ॥ $प्रसिद्ध; #, कृतप्रसाधने ख्याते प्रसिद्धं पण्डिता विदुः । $उदर्क; #, उदर्क उत्तरः काल उदर्कः फलमुत्तरम् ॥ ३४७ ॥ $वेदना; #, वेदना स्यादनुभवः पीडायामपि वेदना । $मेखला; #,, मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः ॥ ३४८ ॥ $नाडी; #,, कलेवरसिरा नाडी नाडी स्यात्कालनालयोः । $वक्तव्य; #,, $वाच्य; #,, वचोर्हे कुत्सितेधीने वक्तव्यं वाच्यवन्मतम् ॥ ३४९ ॥ $आवाप; #, प्रक्षेपे चालवाले च विदुरावापमुत्तमाः । $कलकण्ठ; #, कलकण्ठः कोकिलः स्यान्मधुरो यस्य च ध्वनिः ॥ ३५० ॥ ;p{0032} $खनक; #, मूषिकः खनकाभिख्यः खनकश्चावदारकः । $सरक; #,, इक्षुशी(सी)धौ शी(सी)धुपाने सरकं मद्यभाजने ॥ ३५१ ॥ $ईरण; #, निराश्रये महीभागे भवेदीर(दिरि)णमूषरे । $पाताल; #, रसातलं स्यात्पातालं पातालं वडवानलः ॥ ३५२ ॥ $पारायण; #, पारायणं समासङ्गः कार्त्स्न्ये पारायणं स्मृतम् । $निरूपण; #, निरूपणं दर्शने च विचारे च निरूपणम् ॥ ३५३ ॥ $आराधन; #, आराधनं तोषणं स्यात्प्राप्तौ चाराधनं विदुः । $रसन; #,, आस्वादने च रसनं रसनं ध्वनिजिह्वयोः ॥ ३५४ ॥ $इष्वास; #, इषुक्षेपक इष्वास इष्वासो(सं) धनुरिष्यते । $रीति; #, रीतिर्दग्धसुवर्णादिमले स्यादारकूटके ॥ ३५५ ॥ $अत्याहित; #, अत्याहितं महाभीतिर्जीवे च निरपेक्षता । $अगाध; #, अगाधमतलस्पर्शमगाधं विवरं विदुः ॥ ३५६ ॥ $वान; #, स्मृतं शुष्कफलं वानं वानं सीवनकर्म च । $अनुकर्ष; #, रथाधोधरणे दारुण्यनुकर्षोऽनुकर्षणे ॥ ३५७ ॥ $उत्सर्ग; #, $त्याग; #, उत्सर्गस्त्यागवद्दाने परित्यागे प्रयुज्यते । $वीत; #,, असाराश्वगजे शान्ते वीतमङ्कुशकर्मणि ॥ ३५८ ॥ $निर्याण; #, निर्याणं द्विरदस्याङ्गे निर्याणमथ निर्गमे । $उपधि; #, उपधिं व्याजमिच्छन्ति रथस्यावयवे तथा ॥ ३५९ ॥ $गोमुख; #, लेपने वाद्यभाण्डे च कवयो गोमुखं विदुः । $भागधेय; #, भागधेयं मतं भाग्यं भागधेयं बलिं विदुः ॥ ३६० ॥ $बादर; #, कार्पासं बादरं विद्याद्बादरं कोलिकाफलम् । $वार्द्धक; #,, वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ॥ ३६१ ॥ $निरसन; #, निषूदने निरसनं निरासे च प्रयुज्यते । $उपगम; #, अङ्गीकृतावुपगमः समीपगमनेऽपि च ॥ ३६२ ॥ ;p{0033} $प्रणीत; #,, त्रिषु प्रणीतो विहिते संस्कृतेऽग्नौ प्रवेशिते । $घनरस; #, आचक्षते घनरसं सान्द्रनिर्यासनीरयोः ॥ ३६३ ॥ $शंवर; #,, शंव(शम्ब)रं जलमाख्यातं शंव(शम्ब)रो मृगदैत्ययोः । $युग; #,, युगो रथस्यावयवे कृतादौ युगले युगम् ॥ ३६४ ॥ $कोल; #,, पोत्रिप्लवकयोः कोलः कोलं तु बदरीफलम् । (पोत्रिभेलकयोः कोलः कोलं च बदरीफलम्) $विहायस्; #, विदुर्विहायसं व्योम पक्षिणश्च विहायसः ॥ ३६५ ॥ $वरीयस्; #, वरीयानतिविस्तीर्णो वरीयानथ सत्तमः । $वीथी; #,,, पङ्क्तिवर्त्मगृहाङ्गेषु वीथी वीथी च रूपकम् ॥ ३६६ ॥ $अभिहार; #,, चौर्याभियोगसंनाहेष्वभिहारपदं विदुः । $काल; #,,,, महाकाले यमे मृत्यौ कालः समयकृष्णयोः ॥ ३६७ ॥ $द्वन्द्व; #,,, रहस्ये कलहे द्वन्द्वं द्वन्द्वं मिथुनयुग्मयोः । $परिबर्ह; #, पार्थिवौपयिकद्रव्ये परिबर्हः परिच्छदे ॥ ३६८ ॥ $परिवाह; #, परिवाहो जलोच्छ्वासे नृपयोग्ये च वस्तुनि । $अघ; #,, अघमंहसि दुःखे च व्यसने स प्रयुज्यते ॥ ३६९ ॥ $अवग्रह; #,, गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः । $मेचक; #,, जानीयान्मेचकं कृष्णं मेचको बर्हचूडयोः ॥ ३७० ॥ $पटल; #,, पटलं छदिषि ज्ञेयमक्षिरोगसमूहयोः । $अपह्नव; #, अपह्नवोऽपलापश्च स्नेहश्चापह्नवो मतः ॥ ३७१ ॥ $कौक्कुटिक; #, कौक्कुटिको दाम्भिकश्च यश्चादूरेरितेक्षणः । $ललाटिक; #, लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ ३७२ ॥ $हिङ्गुनिर्यास; #, हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च । $पुलक; #,, कुमिप्रभेदे रोमाञ्चे पुलकं प्रस्तरे विदुः ॥ ३७३ ॥ ;p{0034} $ब्रह्मबन्धु; #, ब्रह्मबन्धुरधिक्षेपे निर्देशे ब्राह्मणस्य च । $अवष्टब्ध; #, अवष्टब्धं द्वयं विद्याददूरमवलम्बितम् ॥ ३७४ ॥ $समर्थ; #,, उक्तः समर्थः संबन्धे समर्थो हितशक्तयोः । $तल्प; #,, शयनीयं विदुस्तल्पं तल्पमट्टकलत्रयोः ॥ ३७५ ॥ $मन्यु; #,, निगदन्ति क्रुधं मन्युं मन्युरध्वरदैन्ययोः । $स्कन्ध; #,, अंसे महीपतौ स्कन्धः समुदायसमूहयोः ॥ ३७६ ॥ $कवि; #, $कवी; # कविर्विद्वान्कविः शुक्रो विज्ञेया खलिना कवि । $अभ्यागम; #, अभ्यागमोऽभ्यागमनं युद्धमभ्यागमं विदुः ॥ ३७७ ॥ $प्रकाण्ड; #,, प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । $उपस्पर्शन; #, उपस्पर्शनमिच्छन्ति स्नानाचमनयोरपि ॥ ३७८ ॥ $महामात्र; #, समृद्धे स्यान्महामात्रस्तथा हस्तिपकाधिपे । $गोकर्ण; #, गोकर्णो दन्दशूके स्यादङ्गुष्ठानामिकोन्मिते ॥ ३७९ ॥ $प्रियक; #, प्रियकः पीतसारे च मृगभेदे च दृश्यते । $चूर्ण; #, चूर्णानि वासयोगाः स्युश्चूर्णो धूलिः सशर्करा ॥ ३८० ॥ (चूर्णो धूलिरुदाह्रतः ॥ ३८० ॥) $तरस्विन्; #, तरस्विनो वेगवन्तो बलिनश्च तरस्विनः । $अन्त; #,, स्वरूपप्रान्तयोरन्तमन्तिकेऽपि प्रयुज्यते ॥ ३८१ ॥ $अणु; #, $लौहित्य; #, व्रीहावप्यणुलोहित्यौ सूक्ष्मसागरयोः क्रमात् । $मौलि; #,, मौलिः संयतकेशेषु चूडामुकुटयोस्तथा ॥ ३८२ ॥ $गोलक; #,, जारजे विधवापुत्रे गोलको गोलको गुडे । $अव्यक्त; #, अव्यक्तशब्दं जानीयादस्फुटे परमात्मनि ॥ ३८३ ॥ $कम्बल; #, कथ्यते कम्बलः सास्ना प्रावारेऽपि च कम्बलः । $आसन; #, आसनं करिणां स्कन्धः पीठमासनमिष्यते ॥ ३८४ ॥ ;p{0035} $शङ्कु; #,, संख्याकीलकयोः शङ्कुः शङ्कुः प्रहरणान्तरे । $आधार; #,, आलवालेऽधिकरणे वाप्यामाधार इष्यते ॥ ३८५ ॥ $प्रपञ्च; #, विपर्यासः प्रपञ्चः स्यात्प्रपञ्चो विस्तरो मतः । $कुहन; # $कुहना; # ईर्ष्यालुर्दम्भचर्या च कुहनः कुहना क्रमात् ॥ ३८६ ॥ (ईर्ष्यालौ दम्भचर्यायां) $अकूपार; #, अकूपारः समुद्रः स्यादकूपारश्च कूर्मराट् । $पृषत्; #, $पृषत्; #, पृषन्मृगे पृषद्बिन्दौ पृषतोऽप्यनयोर्मतः ॥ ३८७ ॥ $अनन्त; #, $अनन्ता; # नभोऽनन्तमनन्ता भूरनन्तो नागनायकः । (... ... ... तो नागनायकः ।) $संधि; #,, संधिर्भगं सुर(रु)ङ्गा च संधिं संघट्टनं विदुः ॥ ३८८ ॥ $निग्रह; #, निग्रहो भर्त्सनाभिख्यो मर्यादां निग्रहं विदुः । $गन्धवह; # $गन्धवहा; # समीरणो गन्धवहो नासा गन्धवहा मता ॥ ३८९ ॥ $सत्तम; #, जानीयात्सत्तमं श्रेष्ठं साधीयानपि सत्तमः । $तोक्म; #, हरिन्मात्रं च तोक्मं स्यात्तोक्मश्च हरितो यवः ॥ ३९० ॥ $ओजस्; #,,, ओजो बलमवष्टम्भ ओजः स्यात्त्विट्प्रकाशयोः । $स्पर्शन; #,, समीरणे(णः) स्पर्शनाख्या(ख्यः) स्पर्शनं स्पर्शदानयोः ॥ ३९१ ॥ $उपताप; #, उपतप्ते गदे विद्यादुपतापं विचक्षणः । $भगवती; # $भगवत्; #, ज्ञेया भगवती दुर्गा भगवान्बुद्धपूज्ययोः ॥ ३९२ ॥ $शिशुक; #,, बालोऽतिमात्रं शिशुकः शिशुकः शिशुमारकः । $चय; #, प्राकारमूलबन्धश्च समूहश्च चयो मतः ॥ ३९३ ॥ $वेला; #,, विकारेऽम्बुनिधेर्वेला कालमर्यादयोस्तथा । $समापन; #, समापनं विनिर्दिष्टं समाप्तिवधयोरपि ॥ ३९४ ॥ $आयति; #, द्वयोरायतिराख्याता प्रभावागामिकालयोः । $निशमन; #, दृष्टं निशमनं धीरैर्दर्शने क्षवणे तथा ॥ ३९५ ॥ ;p{0036} $गर्भ; #,, भ्रूणे गर्भं विजानीयाज्ज्ठरार्भकयोरपि । $अवदान; #,, अवदानमितिवृत्ते कर्मखण्डनयोस्तथा ॥ ३९६ ॥ $उन्माथ; #,, पाशयन्त्रकमुन्माथ उन्मातो वधघातयोः । $भूत; #,,,, भूतं क्ष्मादौ पिशाचादौ न्याय्ये जन्तूपमानयोः ॥ ३९७ ॥ $तिलक; #,, वृक्षप्रभेदे जडुले चित्रके तिलकं विदुः । $प्रतिपत्ति; #,,, प्रागल्भ्ये गौरवे प्राप्तौ प्रवृत्तौ प्रतिपत्तिवाक् ॥ ३९८ ॥ $पत्र; #,, पर्णवाहनयोः पत्त्रं पत्त्रं पक्षे पतत्त्रिणाम् । $कूर्च; #,, दम्भभ्रूमध्ययोः कूर्चः कूर्चः श्मश्रुणि दृश्यते ॥ ३९९ ॥ $प्राण; #,, प्राणोऽसुबलयोरुक्तः प्राणो देहचरोऽनिलः । $पात्र; #,, योग्यभाजनयोः पात्रं पात्रं कूलद्वयांतरम् ॥ ४०० ॥ $विधा; #,,,, विधानर्द्धिप्रकारेषु गजान्ने वेतने विधा । $कौपीन; #,, अकार्यगुह्यचीरेषु कौपीनं कवयोः विदुः ॥ ४०१ ॥ $छन्दस्; #,, गायत्रीप्रभृति च्छन्दच्छन्दो वेदेच्छयोरपि । $वितान; #,,, यागे वितान उल्लोचे शून्यविस्तारयोरपि ॥ ४०२ ॥ $कोटि; #,,, अश्रिचापाग्रयोः कोटिः कोटिः संख्याप्रकर्षयोः । $कक्ष्या; #,, मेखलायां स्मृता कक्ष्या गजरज्जुप्रकोष्ठयोः ॥ ४०३ ॥ $गञ्ज; # $गञ्जा; # भाण्डागारं(रे) विदुर्गञ्जं खनौ गञ्जा सुरागृहे । $तूवर; #, काले प्राप्तेप्यश्रुङ्गो गौर्नरोऽश्मश्रुश्च तूव(प)रः ॥ ४०४ ॥ $शम्ब; #, शम्बः स्यान्मुसलाग्रस्थे लोहमण्डलके पवौ । $विविक्त; #,, विविक्तं रहसि ख्यातमसंपृक्तपवित्रयोः ॥ ४०५ ॥ $खेट; #,, ग्रामभेदे विदुः खेटं कफकुत्सितयोरपि । $शृङ्ग; #,, प्रभुत्वे पर्वताग्रे च शृङ्गमङ्गे पशोरपि ॥ ४०६ ॥ $पङ्क्ति; #,, छन्दोविशेषे लेखायां दशसंख्यासु पङ्क्तिवाक् । $कण; #, $कणा; # धान्यस्यवयवे लेशे कणः स्यात्पिप्पली कणा ॥ ४०७ ॥ ;p{0037} $सून; # $सूना; #, सूनं पुष्पं वधस्थाने सूना जिह्वातलेपि च । $रौहिष; #,,, रौहिषं रक्तकतृणं रौहिषो हरिणान्तरम् ॥ ४०८ ॥ $धर्षण; #, धर्षणं सुरतं विद्यादभिभूतिश्च धर्षणम् । $कपाल; #, शिरसोऽस्थि कपालं स्याद् घटादेः शकलं च यत् ॥ ४०९ ॥ $प्रणाय्य; #, अभिलाषविनिर्मुक्ते(क्तः) प्रणाय्यः स्यादसंमते(तौ) । $सारसन; #, मेखलायां सारसनमुरस्त्रे च प्रयुज्यते ॥ ४१० ॥ $जटा; #, जटा कचविकारे च मूले च धरणीरुहाम् । $कलहंस; #, कादम्बे राजहंसे च कलहंसः प्रयुज्यते ॥ ४११ ॥ $कमठ; #, भाण्डप्रभेदः कमठः कमठः कच्छपो मतः । $काकोल; #, काकोलो द्रोणकाकः स्यात्काकोलो विषमुच्यते ॥ ४१२ ॥ $करहाट; #, पिण्डीतके पद्मकन्दे करहाटपदं विदुः । (पुष्पजातौ पद्मकन्दे) $संतति; #, $तोक; #, $अपत्य; #, $प्रसूतिः; #, पुत्रयोः सह संतत्या तोकापत्यप्रसूतयः ॥ ४१३ ॥ $विबुध; #,,,, विज्ञेया विबुधाः देवा विबुधाः पण्डिता अपि । $अङ्गज; #,, अङ्गजो मन्मथे पुत्रे शोणितं क्वचिदङ्गजम् ॥ ४१४ ॥ $कर्कश; #,, कर्कशः स्यात्साहसिके खरस्पर्शेऽथ निर्दये । $सामुद्र; #, लवणादौ समुद्रस्य सामुद्रं देहलक्षणे ॥ ४१५ ॥ $पक्ष्मन्; #,, पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि । $किम्; #,,, कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते ॥ ४१६ ॥ $सभा; #,,, सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् । $विषाण; #, विषाणं करिणां दन्तो विषाणं शृङ्गमुच्यते ॥ ४१७ ॥ $शरण; #,,, शरणं गृहरक्षित्रोः शरणं रक्षणे वधे । $पार्श्व; #, वक्रोपायं विदुः पार्श्व पार्श्वं चावयवान्तरम् ॥ ४१८ ॥ ;p{0038} $सीमन्; #,, आघाटे कथिता सीमा स्थितौ क्षेत्रे च दृश्यते । $एक; #,, एकं श्रेष्ठे विजानीयादन्यकेवलयोरपि ॥ ४१९ ॥ $बृहती; #,, क्षुद्रायां क्षुद्रवार्त्ताक्यां बृहती छन्दसि क्वचित्(स्मृता) । $तारक; #, $तारका; #, नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च(यथा) ॥ ४२० ॥ $कान्त; #, $कान्ता; #, प्रियङ्गुयोषितोः कान्ता कान्तः प्रियमनोज्ञयोः । $जाल; #,,, गवाक्षवृन्ददम्भेषु जालं मत्स्यादिबन्धने ॥ ४२१ ॥ $संवित्ति; #, संवित्तिः प्रतिपत्तिः स्यात्संवित्तिरविवादिता । $जघन्य; #, पश्चाद्वाची जघन्यं स्याद्जघन्यं गर्हितार्थकम् ॥ ४२२ ॥ $संपराय; #,, आपदायतियुद्धेषु संपरायपदं विदुः । $आलि; #,, आलिः सखी सेतुरालिरालिरावलिरिष्यते ॥ ४२३ ॥ $परिधि; #, परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । $अधिष्ठान; #,, रथाङ्गाध्यासनपुरेष्वधिष्ठानपदं विदुः ॥ ४२४ ॥ $धात्री; #,, आमलक्युपमाता च धात्री धात्री च मेदिनी । $श्राद्ध; #, हव्यकव्यविधिः श्राद्धं श्राद्धः श्रद्धासमन्वितः ॥ ४२५ ॥ $वाणिनी; #,, नर्तक्यामथ मत्तायां विदग्धायां च वाणिनी । $तन्त्री; #, वीणादीनां गुणस्तन्त्री तन्त्री देहसिरा मता ॥ ४२६ ॥ $कारिका; #, कृतौ विवरणश्लोके यातनायां च कारिका । $ऊर्णा; #, भ्रूमध्यावर्तमेषादीलोम्नोरूर्णा निगद्यते ॥ ४२७ ॥ $अवतंस; #, $वतंस; #, शेखरे कर्णपूरे स्यादवन्तसो वतंसवत् । $बालिका; #, बालायां बालुकायां च बालिकाशब्द इष्यते ॥ ४२८ ॥ $जघन; #, श्रोणिभागे स्त्रियाः पूर्वे जघनं जघनं फटिः । $नितम्ब; #, नितम्बोप्यपरस्तस्याः श्रोणिभागः कटिस्तथा ॥ ४२९ ॥ $समाहित; #, समाहितं प्रतिज्ञातं समाधिस्थः समाहितः । $उदूढ; #, उदूढ ऊढमात्रे स्यादुदूढः पृथुलेऽपि च ॥ ४३० ॥ ;p{0039} $कन्द; #, कन्दानि मूलसस्यानि विदुः कन्दांश्च(न्दानि) शूरणान् । $कृच्छ्र; #, आहुः कृच्छ्राणि दुःखानि कृच्छ्रं सांतपनादिकम् ॥ ४३१ ॥ $दशा; #,, दशावस्था दशा वर्तिर्वाससोऽवयवे दशा । $किष्कु; #, सप्रकोष्ठकरः किष्कुर्वितस्तिः किष्कुरिष्यते ॥ ४३२ ॥ $अवगीत; #,, अवगीतं मुहुर्दुष्टे निर्वादे गर्हितेऽपि च । $तृष्णा; #, $तृष्; #, $तर्ष; #, तृष्णा तृट् तर्ष इत्येते शब्दा लिप्सापिपासयोः ॥ ४३३ ॥ $अजिर; #,, अजिरं विषये काये विद्यादजिरमङ्गनम् । $बीभत्स; #,, बीभत्सो विकृते क्रूरे तथा मध्यमपाण्डवे ॥ ४३४ ॥ $त्वष्टृ; #, देवशिल्पिन्यपि त्वष्टा त्वष्टारं वर्धकिं विदुः । $आनद्ध; #, मुरजादिकमानद्धमानद्धं बद्धमात्रकम् ॥ ४३५ ॥ $निर्यातन; #,, न्यासार्पणे वैरशुद्धौ दाने निर्यातनं विदुः । $गन्धन; #,, उत्साहने सूचनायां गन्धनं स्यात्प्रकाशने ॥ ४३६ ॥ $पूर्व; #,, पुमांसं पूर्वजाः पूर्वे पूर्वं प्राक् पूर्वमग्रतः । $अभिनीत; #,, अभिनीतं संस्कृते च न्याय्ये चामर्षवत्यपि ॥ ४३७ ॥ उद्यान,३ प्रयोजने निःसरणे स्यादुद्यानं वनान्तरे । $व्यञ्जन; #,,, व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवे तथा ॥ ४३८ ॥ $संस्थान; #,,, संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे । $कुशल; #,,, कुशलं सुकृते क्षेमे पर्याप्तौ शिक्षितेऽपि च ॥ ४३९ ॥ $पावन; #, स्यात्पावनः पावयिता प्रायश्चित्तं तु पावनम् । $केतन; #,, निमन्त्रणे ध्वजे कार्ये केतनं कवयो विदुः ॥ ४४० ॥ $ककुद; #,, $ककुद्; #,, ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे नृपलक्ष्मणि । $बीज; #,, हेतौ रेतसि बीजं स्याद्बीजमङ्कुरकारणम् ॥ ४४१ ॥ $फल; #,,,, लाभे सस्ये शराद्यग्रे व्युष्टौ च फलके फलम् । $धन्वन्; #,, स्थलं धन्व धनुर्धन्व धन्वा मरूरपि स्मृतः ॥ ४४२ ॥ ;p{0040} $आगम; #, जानीयादागमं शास्त्रं स्यादागमनमागमः । $प्रवण; #,, प्रह्वे च क्रमनिम्ने च प्रवणः स्याच्चतुष्पथे ॥ ४४३ ॥ $दृढ; #,, दृढं नितान्ते स्थूले च दृढः स्याद्बलवत्यपि । $औशीर; #, औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥ ४४४ ॥ $प्रकोष्ठ; #, कक्षान्तरं प्रकोष्ठः स्यात्प्रकोष्ठः कूर्परादधः । $उपाधि; #, उपाधिर्धर्मचिन्तापि कुटुम्बव्यापृतोऽपि च (तावपि) ॥ ४४५ ॥ $निर्वासन; #, निर्वासनं मारणे स्यान्नगरादेर्बहिष्कृतौ । $उद्धरण; #, भुक्तोज्झितोन्मूलनयोरुक्त उद्धरणध्वनिः ॥ ४४६ ॥ $कृत्य; #, $कृत्या; #, क्रियादेवतयोः कृत्या कृत्यं विद्विष्टकार्ययोः । $नाश; #,, निधनानुपलम्भौ च नाशौ नाशः पलायनम् ॥ ४४७ ॥ $नैगम; #, नैगमः स्याद्वाणिजके नैगमो नगरोद्भवे । $किल्बिष; #, पाप्मानं किल्बिषं विद्यादपराधेऽपि किल्बिषम् ॥ ४४८ ॥ $अभिषव; #,, सवने मध्यसंधाने स्नानेऽप्यभिषवं विदुः । $संतान; #,,, संतानः सन्ततौ देववृक्षे चापत्यगोत्रयोः ॥ ४४९ ॥ $संस्त्याय; #, संघाते संनिवेशे च संस्त्यायं कवयो विदुः । $अभिमर; #, विद्यादभिमरं युद्धे स्वबलादपि साध्वसे ॥ ४५० ॥ $आषाढ; #,, आषाढो व्रतिनां दण्डे मासि क्षितिधरान्तरे । $उद्धृत; #, उद्धृतं स्यदुत्तुलितं भुक्त्वा चोज्झितमुद्धृतम् ॥ ४५१ ॥ $विश्वकर्मन्; #, देवशिल्पी विश्वकर्मा विश्वकर्मा दिवाकरः । $अभिमर्द; #, अभिमर्दं विदुर्युद्धमभिमर्दोऽभिमर्दनम् ॥ ४५२ ॥ $निर्देश; #, आज्ञा भवति निर्देशो निर्देशः कथनं मतम् । $मधुक; #, बन्दिनो मधुकाः केपि मधुकं मधुयष्टिका ॥ ४५३ ॥ $अनुत्तरं; #,, अनुत्तरमनूर्ध्वे स्यादनुदक्श्रेष्ठयोरपि । $पर; #,,, आत्मनोऽन्यत्र दूरे च संपन्नश्रेष्ठयोः परः ॥ ४५४ ॥ ;p{0041} $परिमल; #, स्याद्विमर्दे परिमलो गन्धे जनमनोहरे । $पाटल; #,, पाटलं कुसुमे वर्णेऽप्याशुव्रीहिश्च(हौ च) पाटलः ॥ ४५५ ॥ $यापन; #, स्याद्यापनं निरसनं यापनं वर्तनं विदुः । $राजीव; #,, राजीवो हरिणो मत्स्यो राजीवं सरसीरुहम् ॥ ४५६ ॥ $माधव; #,, वसन्ते माधवो विष्णौ वैशाखे मासि माधवः । $प्रसृत; #, पाणिर्निकुब्जः प्रसृतः प्रसृतो वेगितः स्मृतः ॥ ४५७ ॥ $साधीयस्; #, साधीयो बाढमत्यर्थे साधीयानतिशोभनः । $मयूख; #,, मयूखः कथितो दीप्तौ ज्वालाकिरणयोरपि ॥ ४५८ ॥ $अङ्ग; #,, उपायगात्रयोरङ्गमङ्गवानङ्ग इष्यते । $इष्ट; #, इष्टं यज्ञेषु यद्दानमिष्टमाशंसितं मतम् ॥ ४५९ ॥ $चैत्य; #, विदुरायतनं चैत्यं चैत्यमुद्देशपादपः । $लालस; #, लालसं प्रार्थनामाहुरौत्सुक्यमपि लालसम् ॥ ४६० ॥ $जाङ्गल; #, जाङ्गलो निर्जले देशे जाङ्गलं पिशितं विदुः । $न्युब्ज; #, विद्यादधोगतं (मुखं) न्युब्जं न्युब्जः कुब्ज उदाहृतः ॥ ४६१ ॥ $हरण; #, यौतकद्रविणं प्रोक्तं हरणं हरणं हृतिः । $वनिता; #, उत्पादितानुरागा स्त्री वनिता वनिताङ्गना ॥ ४६२ ॥ $विटप; #,, शाखायां पल्लवे स्तम्बे विटपं विदुरुत्तमाः । $विहनन; #, पिञ्जनं स्याद्विहननं विदुर्विहननं वधम् ॥ ४६३ ॥ $धवल; #, $धवली; # धवलं सुन्दरे शुक्ले धवली गौरपि स्मृता । $ग्राम; #, ग्रामः संवसथे ज्ञेयो वृन्दे शब्दादिपूर्वकः ॥ ४६४ ॥ $विक्रम; #, विक्रमः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः । $उत्थित; #,, उत्थितं विदुरुत्पन्ने प्रोद्यते वृद्धिमत्यपि ॥ ४६५ ॥ $कार्मुक; #, शरासने कार्मुकं स्याच्छक्तमात्रे च कार्मुकः । $अंशुक; #,, स्यादैशुकं शुक्लवस्त्रे वस्त्रमात्रोत्तरीययोः ॥ ४६६ ॥ ;p{0042} $गुड; #, $गुडा; #, गुडौ गोलेक्षुविकृती स्नुहीगुडिकयोर्गुडा । $विश्रम्भ; #, विश्रम्भशब्दमिच्छन्ति विश्वासे प्रणयेऽपि च ॥ ४६७ ॥ $आतञ्चन; #,, आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् । $विकृत; #, बीभत्सो विकृतो ज्ञेयो विकृतो रोगितेऽपि च ॥ ४६८ ॥ $जीवा; # $जीव; #,, ज्या जीवा जीवितं जीवं जीवौ जन्तुबृहस्पती । $साधु; #,, जानीयाच्छोभनं साधु साधू वार्धुषिसज्जनौ ॥ ४६९ ॥ $छाया; #,, छाया स्यादातपाभावे प्रभाप्रतिमयोरपि । $श्रुति; #,, आम्नायं श्रुतिमिच्छन्ति श्रोत्रं तत्कर्म च श्रुतिः ॥ ४७० ॥ $हरित्; #,,, हरित्ककुभि वर्णे च तृणवाजिविशेषयोः । $जगती; #,,, छन्दोविशेषे जगती पृथिव्यां विष्टपे जने ॥ ४७१ ॥ $स्तनयित्नु; #, मेघनिःस्तनिते मेघे स्तनयित्नुं विदुर्बुधाः । $ग्रहराज; #, ग्रहराजं विदुश्चन्द्रं ग्रहराजो दिवाकरः ॥ ४७२ ॥ $मातृ; #,, मातरौ गोजनन्यौ च रेवत्याद्याश्च मातरः । $चपल; #, $चपला; # इष्यते चपला विद्युच्चपलं लोलशीघ्रयोः ॥ ४७३ ॥ $दीप्त; #, $ज्वलित; #, दग्धे विभासिते दीप्तं दृष्टं ज्वलितवद् बुधैः । $समिति; #,, सभासंगमयुद्धेषु भाषन्ते समितिं बुधाः ॥ ४७४ ॥ $सिकता; #, सिकता बालुकायां च देशे च सिकतान्विते । $लता; #, लता व्रततिराख्याता लता शाखा च शाखिनाम् ॥ ४७५ ॥ $चिरिण्टी; #, स्ववासिन्यां चिरिण्टी स्याद् द्वितीयवयसि स्त्रियाम् । $कुल; #,,, कुलं सजातीयगणे गोत्रे जनपदे तनौ ॥ ४७६ ॥ $कौलेयक; #, सारमेये कुलोद्भूते कौलेयक इति स्मृतः । $प्रतिभय; #, भयंकरं प्रतिभयं भयं प्रतिभयं विदुः ॥ ४७७ ॥ $अभिग्रह; #, अभिग्रहोऽभिग्रहणमभियोगोऽप्यभिग्रहः । $अर्थिन्; #, अर्थिनः स्युर्याचनका अर्थिनः सेवका अपि ॥ ४७८ ॥ ;p{0043} $निकृत; #, निकृतः स्याद्विप्रकृतो निकृतो विप्रलब्ध(म्भ)कः । $सृष्ट; #,,, मुक्तनिर्मितयोः सृष्टं सृष्टं निश्चितभूरिणोः ॥ ४७९ ॥ $द्वितीया; #, द्वितीया कथ्यते जाया द्वितीया पूरणी द्वयोः । $आरम्भ; #, वदन्ति वधमारम्भमारम्भः समुपक्रमः ॥ ४८० ॥ $मुक्ति; #, $मोक्ष; #, निःश्रेयसे मोचने च मुक्तिर्मोक्षवदिष्यते । $शार्ङ्ग; #, धनुर्मात्रं विदुः शार्ङ्गं शार्ङ्गं विष्णोः शरासनम् ॥ ४८१ ॥ $चन्द्रहास; #, चन्द्रहासो रावणासिरसिमात्रे च कुत्रचित् । $अन्तावसायिन्; #, अन्तावसायी चाण्डाले नापिते च क्वचिन्मतः ॥ ४८२ ॥ $अपवर्जन; #, परित्यागे च दाने च जानीयादपवर्जनम् । $नियामक; #, नियामकाः पोतवाहा नियन्तारो नियामकाः ॥ ४८३ ॥ $समर्याद; #, समर्यादं समीपं च मर्यादासहितं च यत् । $पिण्डित; #, संख्यातं पिण्डितं ज्ञेयं निबिडं पिण्डितं विदुः ॥ ४८४ ॥ $आस्य; #, मुखं मुखान्तरालं च द्वयमास्यमुदाहृतम् । $सह्य; #,, विज्ञेयं सह्यमारोग्यं सह्यौ सोढव्यपर्वतौ ॥ ४८५ ॥ $छेक; #, छेको विदग्धश्छेकाश्च गृहासक्तमृगाण्डजाः । $आयोधन; #, आयोधनं घातनं स्याद्युद्धमायोधनं मतम् ॥ ४८६ ॥ $पीडा; #, उपमर्दं विदुः पीडां पीडामाहुः कृपामपि । $अणि; # अणिमश्रिं विजानीयादाणिरक्षाग्रकीलकः ॥ ४८७ ॥ $अध्यक्ष; # प्रत्यक्षं विदुरध्यक्षमध्यक्षोऽधिकृतो मतः । $अपाङ्ग; #, अपाङ्गो लोचनान्तः स्यादपाङ्गस्तिलकेपि च ॥ ४८८ ॥ $कण्ठ; #,, समीपगलशब्देषु त्रिषु कण्ठं विदुर्बुधाः । $अम्बर; #,, सुगन्धिद्रव्यभेदे स्यादम्बरं व्योमवस्त्रयोः ॥ ४८९ ॥ $काय; #,, कायः शरीरे लक्षे च समूहे च प्रयुज्यते । $कलत्र; #, भार्यायां स्त्रीनितम्बे च कलत्रं कवयो विदुः ॥ ४९० ॥ ;p{0044} $भद्र; #,,, हस्तिभेदे वृषे भद्रः स्याद् भद्रं साधुशर्मणोः । $मलय; #, आरामे मलयं विद्यात्पर्वतावयवे तथा ॥ ४९१ ॥ $प्रतिकृति; #, बुधाः विदुः प्रतिकृतिं प्रतिमाप्रतिकारयोः । $आयस्त; #,,, आयस्तः क्लेशिते क्षिप्ते कुपिते तेजिते तथा ॥ ४९२ ॥ $निदाघ; #,, $घर्म; #,, उष्णे स्वेदाम्भसि ग्रीष्मे निदाघो घर्मवन्मतः । $प्रसव्य; #, बुधाः प्रसव्यमिच्छन्ति प्रतिकूलानुकूलयोः ॥ ४९३ ॥ $शाला; #, शाला तरुस्कन्धशाखा शाला भवनमिष्यते । (शाला तरोः स्कन्धशाखा) $नग्न; #, विदुर्दिग्वाससं नग्नं नग्ना वैतालिकादयः ॥ ४९४ ॥ $कदली; #, इष्यते कदली रम्भा कदली वैजयन्तिका । $वेष्टन; #, वेष्टनं मुकुटं विद्यादुष्णीषमपि वेष्टनम् ॥ ४९५ ॥ $संसिद्धि; #, सम्यक्सिद्धिः स्वभावश्च द्वयं संसिद्धिवाचकम् । $अन्तर्गत; #, मध्यप्राप्तं विस्मृतं च द्वयमन्तर्गतं विदुः ॥ ४९६ ॥ $विशिखा; #, प्रतोलीं विशिखामाहुर्विशिखा च खनित्रिका । $उचित; #, समञ्जसं स्यादुचितमभ्यस्तमुचितं विदुः ॥ ४९७ ॥ $कल्पन; # $कल्पना; #, कल्पनं कर्तने क्लृप्तौ कल्पना गजसज्जना । $पितामह; #, पितामहः पितृपिता परमेष्ठी पितामहः ॥ ४९८ ॥ $अहार्य; #, अहार्यं ब्रुवते शैलं यच्च हर्तुं न शक्यते । $प्राध्व; #, प्राध्वोऽतिमात्रं प्रणतः प्राध्वं बन्धनमिष्यते ॥ ४९९ ॥ $व्यतिकर; #, व्यसने व्यतिषङ्गे च विदुर्व्यतिकरं वुधाः । $उपराग; #, राहुव्यसनयोरुक्तमुपरागपदं बुधैः ॥ ५०० ॥ $नन्द्यावर्त; #, नन्द्यावर्तं विदुर्वेश्मप्रभेदे तगरद्रुमे । $परिवाद; #, वल्लकीवादनोपाये निर्वादे परिवादवाक् ॥ ५०१ ॥ $द्यो; #, $दिव्; #, द्यौः स्वर्गे नभसि ख्याता द्योशब्दोऽप्यनयोर्मतः । ;p{0045} $शारि; #, अक्षोपकरणं शारिः शारिः शकुनिकान्तरम् ॥ ५०२ ॥ $याप्य; #, याप्यं गर्हितमिच्छन्ति याप्यं स्याद्यापनीयकम् । $प्रतिहित; #, प्रतिस्खलिताविद्विष्टौ मतौ प्रतिहतार्थकौ ॥ ५०३ ॥ $प्रसूत; #, मतं प्रसूतमुत्पन्नं प्रसूतं कुसुमं विदुः । $सेवक; #, प्रसेवः सेवको ज्ञेयः सेवाजीवी च सेवकः ॥ ५०४ ॥ $आयोग; #, गन्धमाल्योपहारे स्यादायोगे व्यापृतावपि । $कादम्ब; #, कादम्बो विशिखो ज्ञेयः कादम्बो विहगान्तरम् ॥ ५०५ ॥ $सुकृत; #, सुकृतं शोभनं कर्म पुण्यं च सुकृतं मतम् । $हव; #, इष्यते हव आह्वानं हव आज्ञा हवः क्रतुः ॥ ५०६ ॥ $विष्टि; #, आजूवेतनयोर्विष्टिः कर्मकृत्कर्मणोरपि । (विष्टिं कर्मकरे विद्यात्कर्मवेतनयोरपि ।) $तपस्विन्; #, तपस्वी चानुकम्पार्हे तपस्वी च तपोधमे ॥ ५०७ ॥ $शुक्ति; #, मुक्तास्फोटे स्मृता शुक्तिः शुक्तिर्दुर्नामकेऽपि(मिकापि) च । $नाभि; #, प्राण्यङ्गे क्षत्रिये नाभिः प्रधाननृपतावपि ॥ ५०८ ॥ (प्रधाने नृपतावपि ॥ ५०८ ॥) $वडवा; #, अश्वायां कुम्भदास्यां च वडवा परिकीर्तिता । $जर्जर; #, इन्द्रध्वजे विशीर्णे च जर्जरं परिचक्षते ॥ ५०९ ॥ $हरिचन्दन; #, कुङ्कुमे देववृक्षे च हरिचन्दनमिष्यते । $अग्रजन्मन्; #, अग्रजन्मा ब्राह्मणे च ज्येष्ठे भ्रातरि च स्मृतः ॥ ५१० ॥ $द्विजन्मन्; #, $द्विजाति; # द्विजन्मा विहगे विप्रे द्विजातिरपि दन्तके । (द्विजातिरपि दृश्यते ।) $उलिखित; #, तनूकृतं समुत्कीर्णं द्वयमुल्लिखितं विदुः ॥ ५११ ॥ $क्षारक; #, पक्षिमत्स्यादिपिटके क्षारकः कोरकेपि च । $गुञ्जा; #, वाद्यभाण्डे स्मृता गुञ्जा गुञ्जा स्यात्काकचिञ्चिका ॥ ५१२ ॥ ;p{0046} $पिप्पलक; #, स्तनवृन्ते पिप्पलकं तथा सीवनसूत्रके । $उर्वरा; #, उर्वरा सर्वसस्या भूरुर्वरा भूमिमात्रकम् ॥ ५१३ ॥ $प्रखर; #, प्रखरोऽश्वादिसंनाहः प्रखरः स्याद् भृशं खरः । $स्थासक; #, चर्चायां स्थासको ज्ञेयः स(स्फ)रादेरपि बुद्बुदे ॥ ५१४ ॥ $जयन; #, अश्वादीनां च संनाहे जये च जयनं मतम् । $चिपिट; #, खाद्यप्रभेदे चिपिटस्तथा पिच्छि(च्चि)तविस्तृते ॥ ५१५ ॥ $सज्जन; #,, घट्टाख्ये गुल्मके साधौ सज्जनं सज्जनः क्रमात् । $परुष; #, परुषः कर्बुरो ज्ञेयः परुषं निष्ठुरं वचः ॥ ५१६ ॥ $संमति; #, संमतिः स्यादनुज्ञानमभिलाषोपि संमतिः । $पलित; #, पलितं पाण्डुरः केशः पलितं कर्दमं विदुः ॥ ५१७ ॥ $विद्ध; #, विद्धं सूच्यादिभिर्भिन्ने सादृश्ये च प्रयुज्यते । $पृथुक; #, खाद्यप्रभेदे पृथुकः पृथुकः शिशुकेपि च ॥ ५१८ ॥ $कुलाय; #, $नीड; #, कुलायो नीडवद् दृष्टः स्थाने गेहे च पक्षिणाम् । $उत्कालिका; #, विद्यादुत्कालिकाशब्दमुत्कण्ठावीचिवाचकम् ॥ ५१९ ॥ $ईहामृग; #, वृकं रूपकभेदं च द्वयमीहामृगं विदुः । $कारि; #, क्रियायां कारिराख्याता नापितादौ च शिल्पिनि ॥ ५२० ॥ $विदारण; #, विडम्बने भेदने च विदारणमुदाहृतम् । $भिन्न; #, संगते दारिते भिन्नं भिन्नमन्यार्थकं विदुः ॥ ५२१ ॥ $विच्छिन्न; #, समालब्धे विभक्ते च विच्छिन्नमभिधीयते । $विकट; #, विशाले विकराले च विकटं कवयो विदुः ॥ ५२२ ॥ $स्वप्न; #, स्वप्नः स्वापे च सुप्तस्य विज्ञाने च प्रयुज्यते । $निरस्त; #, निष्ठ्यूते त्वरितोक्ते च निरस्तमभिधीयते ॥ ५२३ ॥ $ग्रस्त; #, ग्रासीकृतं भवेद् ग्रस्तं ग्रस्तं लुप्तपदं वचः । $म्लिष्ट; #, अविस्पष्टं वचो म्लिष्टं म्लानं म्लिष्टमुदाहृतम् ॥ ५२४ ॥ ;p{0047} $सनातन; #, सनातनः स्मृतो विष्णुः शाश्वतं च सनातनम् । $विश्वस्त; # $विश्वस्ता; # विश्वासयोग्यो विश्वस्तो विश्वस्ता विधवा मता ॥ ५२५ ॥ $गद; #, $गदा; # गदा शस्त्रं गदो व्याधिर्गदो भ्राता च शार्ङ्गिणः । $प्लक्ष; #, विज्ञेया पर्कटी प्लक्षः प्लक्षः पिप्पलपादपः ॥ ५२६ ॥ $शकुन; #, शुभाशंसिनिमित्ते च खगे च शकुनं विदुः । $अभिनिष्टान; #, विसर्जनीयाक्षरयोरभिनिष्टान इष्यते ॥ ५२७ ॥ $संधिनी; #, संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च संधिनी । $कङ्कण; #,, कङ्कणं मण्डणे सूत्रे कङ्कणं करभूषणम् ॥ ५२८ ॥ $पलाश; #,,, राक्षसे किंशुके पर्णे पलाशाख्या हरित्यपि । $प्रणिहित; #,, न्यस्ते समाहिते प्राप्ते विदुः प्रणिहितं बुधाः ॥ ५२९ ॥ $सूद; #, $सूप; #, व्यञ्जने सूपकारे च सूदः सूपवदिष्यते । $संपद्; #, गुणोत्कर्षे विभूतौ च संपदुक्ता मनीषिभिः ॥ ५३० ॥ $अचल; # $अचला; # जानीयादचलां पृथ्वीमचलश्च महीधरः । $भोगावती; #, नागानां नगरीनद्यौ भोगवत्यौ प्रकीर्तिते ॥ ५३१ ॥ $प्लवंगम; #, $प्लवग; #, प्लवंगमः कपौ भेके प्लवगोऽप्यनयोर्मतः । $संनिधि; #, प्रत्यक्षे संनिधाने च संनिधिः परिकीर्तितः ॥ ५३२ ॥ $उपाहित; #, उपाहितोनलोत्पात आरोपित उपाहितः । $विवश; #, विवशः स्यादवश्यात्मा विवशोऽरिष्टदुष्टधीः ॥ ५३३ ॥ $अधिक्षिप्त; #, अधिक्षिप्तं प्रणिहिते भर्त्सिते च प्रयुज्यते । $अभाव; #, अभावः स्यादसत्तायामभावो निधनार्थकः ॥ ५३४ ॥ $प्रज्ञा; #, प्राज्ञी स्त्री भवति प्रज्ञा प्रज्ञा बुद्धिरुदाहृता । $आसार; #,, आसारः स्यात्प्रसरणे वेगाद्वर्षे सुहृद्बले ॥ ५३५ ॥ $भूयस्; #, पुनरर्थेव्ययं भूयो भूयान्बहुतरार्थकः । $परम; #, अव्ययं स्यादनुज्ञाने परमं परमः परः ॥ ५३६ ॥ ;p{0048} $उदास्थित; #, उदास्थितः प्रतिहारे चरभेदे च कीर्तितः । $प्रतिमान; #, प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ ५३७ ॥ $संख्य; # $संख्या; # एकत्वादौ विचारे च संख्या संख्यं च संयुगे । $उद्घात; #, पादस्खलितमुद्धात उद्धातः समुपक्रमः ॥ ५३८ ॥ $दिग्ध; #, विषलिप्तशरो दिग्धो दिग्धो लिप्तार्थवाचकः । $प्रार्थित; #, प्रार्थितः प्रार्थनालब्धः प्रार्थितं च हतं विदुः ॥ ५३९ ॥ $कुमुद; #,, कुमुदं कैरवे ख्यातं कुमुदौ कपिदिग्गजौ । $कोकनद; # रक्ताब्जे रक्तकुमुदे बुधैः कोकनदं स्मृ(म)तम् ॥ ५४० ॥ $अनेडमूक; #, अनेडमूकमिच्छन्ति शठे वाक्श्रुतिवार्जिते । $प्रवचनीय; #, प्रवक्तरि प्रवाच्ये च द्वयोः प्रवचनीयवाक् ॥ ५४१ ॥ $मदन; #,,, मधूच्छिष्टे स्मरे वृक्षे वसन्ते मदनं विदुः । $वामन; #,, निखर्वे दिग्गजे विष्णौ वामनः परिकीर्तितः ॥ ५४२ ॥ $अधिवास; #, अधिवासो निवासो स्यात्संस्कारे धूपनादिभिः । $विहार; #,, परिक्रमक्रीडनयोर्विहारः सुगतालये ॥ ५४३ ॥ $अभिरूप; #, $प्राप्तरूप; #, $स्वरूप; #, अभिरूपप्राप्तरूपस्वरूपा बुधरूपिणोः । $कषाय; #,,,, द्रवेङ्गरागे सुरभौ रसे वर्णे कषायवाक् ॥ ५४४ ॥ $धर; #, $धरा; # धरा भूमिर्धरः शैलः कर्पासीतूलको धरः । $शुल्क; #, घट्टे शुल्कं विवाहार्थे जामातुर्गृह्यते च यत् ॥ ५४५ ॥ $अवतार; #, तीर्थेवतरणे विद्यादवतारपदं बुधः । $पुण्ड्र; #,, इक्षुचित्रकयोः पुण्ड्रः पुण्ड्राञ्जनपदान् विदुः ॥ ५४६ ॥ $श्रवण; #,, नक्षत्रे श्रवणो ज्ञेयः श्रवणं श्रुतिकर्णयोः । $सूतक; #, पारदाख्ये रसद्रव्ये जनने सूतकं मतम् ॥ ५४७ ॥ $प्रासाद; #, देवाधिवासे प्रासादः प्रासादो नृपवेश्मनि । $दुकूल; #, क्षौमे दुकूलमिच्छन्ति दुकूलं सूक्ष्मवाससि ॥ ५४८ ॥ ;p{0049} $राग; #,,, रागः क्लेशादिके रक्तौ मात्सर्ये लोहितादिषु । $मण्डल; #,, समूहे मण्डलं बिम्बे देशे द्वादशराजके ॥ ५४९ ॥ $भास्; #, $अंशु; #, प्रभायां किरणे भासा सममंशुरुदाहृतः । $सिक्थ; #, मधूच्छिष्टं स्मृतं सिक्थं सिक्थ ओदनसंभवः ॥ ५५० ॥ $उत्पतन; #, ऊर्ध्वे गमनमुत्पत्तिर्द्वयमुत्पतनं मतम् । $तिक्त; #, $तिक्ता; # शुभगन्धे रसे तिक्तस्तिक्ता स्यात्कटुरोहिणी ॥ ५५१ ॥ $कल्माष; #, सितेतरः स्यात्कल्माषः कल्माषः कृष्णपाण्डुरः । $दम; #, दमो दण्डः समाख्याते दम इन्द्रियनिग्रहः ॥ ५५२ ॥ $लेख; #, $लेखा; # लेख्यदेवतयोर्लेखो लेखा राजिरुदाहृता । $प्रविदारण; #, प्रविदारणमाख्यातं विद्वद्भिर्दारणे रणे ॥ ५५३ ॥ $विष्कम्भ; #, विस्तारे प्रतिबन्धे(बिम्बे) च विष्कम्भः समुदाहृतः । $अवध्वस्त; #,, समुज्झिते निन्दिते स्यादवध्वस्तोऽवचूर्णिते ॥ ५५४ ॥ $अपात; #, पतने च तदात्वे च विदुरापातमुत्तमाः । $प्रवाह; #, प्रवाहशब्दमिच्छन्ति प्रवृत्तिजलवेगयोः ॥ ५५५ ॥ $आप्लुत; #, आप्लुतः स्नातको ज्ञेय आप्लुतः स्नातमात्रके । $आत्मयोनि; #, आत्मयोनिर्मतो वेधा आत्मयोनिर्मनोभवः ॥ ५५६ ॥ $भूमि; #, $भू; # पृथिव्यां स्थानमात्रे च भूमिर्भूरिव दृश्यते । $गोप्य; #, गोपनीयं भवेद् गोप्यं गोप्या दासस्य सूनवः ॥ ५५७ ॥ $संस्कार; #, संसकारशब्दमिच्छन्ति संकल्पप्रतियत्नयोः । $प्रवचन; #, विद्यात्प्रवचनं वेदे प्रकृष्टवचनं च यत् ॥ ५५८ ॥ $मञ्जुल; #, मञ्जुलो मधुरे ख्यातो जलरङ्कुपतत्रिणि । $आकर; #, आकरो निकरो ज्ञेय उत्पत्तिस्थानमाकरः ॥ ५५९ ॥ $रौहिणेय; #, रौहिणेयो बुधो ज्ञेयो रौहिणेयो हलायुधः । $संघर्ष; #, संघ(ह)र्षशब्दमिच्छन्ति स्पर्धायां घर्षणेपि च ॥ ५६० ॥ ;p{0050} $वालक; #, वालकं कटकं विद्यादङ्गुलीयं च वालकम् । $परायण; #, परायणमभीष्टं स्यात्तत्परश्च परायणः ॥ ५६१ ॥ $विद्रुम; #, समुद्रोत्थे प्रवालाख्ये रत्ने वृक्षे च विद्रुमः । $सहज; #, निसर्गे च सहोत्थे च सहजं पण्डिता विदुः ॥ ५६२ ॥ $प्रतिशिष्ट; #, प्रख्याते प्रेषिते च प्रतिशिष्टपदं विदुः । $उपोढ; #, उपोढमूढमात्रेपि समासन्नेपि कीर्तितम् ॥ ५६३ ॥ $आक्षेप; #, आकर्षणं स्यादाक्षेपः स्यादाक्षेपश्च भर्त्सनम् । $साहस; #, बलात्कारकृतं कर्म साहसं साहसं दमः ॥ ५६४ ॥ $पित्सत्; #, $पिपतिषत्; # पतनेच्छौ विहंगे च पित्सन् पिपतिषन्यथा । $जिगीषा; #, जिगीषा जेतुमिच्छायां व्यवसाये च दृश्यते ॥ ५६५ ॥ $पशु; #,, पशुर्मृगादौ छगले पशु दृश्यार्थमव्ययम् । $बहु; #, विपुले त्र्यादिसंख्यासु बहुशब्दः प्रयुज्यते ॥ ५६६ ॥ $आकलन; #, बन्धने कलनायां च विदुराकलनं बुधाः । $स्तनन; #, स्तननं क्रन्दनध्वाने ध्वानमात्रे च कीर्तितम् ॥ ५६७ ॥ $कञ्चुक; #,,, कवचे वारबाणे च निर्माके चापि कञ्चुकः । $पूर्णपात्र; #, वर्धापके पूर्णपात्रं पात्रे पूर्णे जलादिना ॥ ५६८ ॥ $लक्ष्मीपति; #, लक्ष्मीपतिर्वासुदेवे भूमिपालेन दृश्यते । $वैदेही; #, वैदेही पिप्पली प्रोक्ता वैदेही जनकात्मजा ॥ ५६९ ॥ $अभीक; #, अभिकामयिताऽभीकः स्यादभीको भयोज्झितः । $नत; #, नतं बन्धुरमिच्छन्ति नतं कुटिलवाचकम् ॥ ५७० ॥ $ययु; #, ययुः स्यादस्यमेधाश्वो ययुरश्वोपि केवलः । $ताम्र; #, वर्णप्रभेदे शुल्बे च ताम्रशब्दं विदुर्बुधाः ॥ ५७१ ॥ $उषस्; #, उषसं ब्रुवते संध्यामुषः प्रत्यूषवाचकम् । $आग्रह; #, आग्रहोनुग्रहे दृष्ट आसक्तिग्रहयोस्तथा ॥ ५७२ ॥ ;p{0051} $द्वीपवत्; #, $द्वीपवती; # द्वीपवत्यः स्मृता नद्यौ द्वीपवानम्बुधौ नदे । $कुसीद; #, कुसीदिकः कुसीदः स्यात्कुसीदं वृद्धिजीवनम् ॥ ५७३ ॥ $प्रतीक; #, प्रतीकोवयवे ख्यातः प्रतीपेपि क्वचिन्मतः । $क्षिति; #, क्षये निवासे मेदिन्यां क्षितिशब्दस्त्रिषु स्मृतः ॥ ५७४ ॥ $पिण्याक; #, पिण्याकस्तिलकल्के च सिह्लकेपि प्रयुज्यते । $सोमवल्क; #, कट्फले शुक्लखदिरे सोमवल्क उदाहृतः ॥ ५७५ ॥ $श्रीपर्ण; #, श्रीपर्णमग्निमन्थाख्ये(ख्यं) पादपे कमलेपि च । $भूतिक; #,, भूनिम्बे भूस्तृणे प्रोक्तं भूतिकं कत्तृणे तथा ॥ ५७६ ॥ $विधूत; #, $धूत; #, विधूतं कम्पिते त्यक्ते धूतमप्यनयोर्मतम् । $अवसित; #, अवसानगते ज्ञाते विद्यादवसितध्वनिम् ॥ ५७७ ॥ $अवलेप; #, गर्वलेपनयोरुक्तमवलेपपदं बुधैः । $क्षेप; #, क्षेपणे चावहेले च क्षेपशब्दः प्रयुज्यते ॥ ५७८ ॥ $प्रतिपादन; #, बोधने च प्रदाने च प्रतिपादनमिष्यते । $लूता; #, लूताशब्दं विजानीयादूर्णनाभे पिपीलिके ॥ ५७९ ॥ $घोष; #,,,,, गोपपल्लौ स्वरे घोषो मेघादेरपि निस्वने । $नियम; #,,, यन्त्राणायां प्रतिज्ञायां नियमो निश्चये व्रते ॥ ५८० ॥ $गिरि; #,,, गीर्णौ गिरियके(क-) क्रीडागुडके पर्वते गिरिः । $अण्डज; #,, कृकलासः खगो मीनस्त्रयमण्डजसंज्ञकम् ॥ ५८१ ॥ $ब्राह्मण्य; #, ब्राह्मण्यं ब्राह्मणत्वे च समूहे च द्विजन्मनाम् । $निकार; #, निकारः परिभावे च धान्यस्योत्क्षेपणेपि च ॥ ५८२ ॥ $तर्क; #, वितर्काकाङ्क्षयोस्तर्कस्तर्क ऊह उदाहृतः । $विजृम्भित; #, विजृम्भितं विकसिते चेष्टायां च विजृम्भितम् ॥ ५८३ ॥ $विवर; #, $छिद्र; #, $रन्ध्र; #, विवरच्छिद्ररन्ध्रादीनाहुर्दूषणगर्तयोः । $महाकाल; #,, प्रयुज्यते महाकालं किंपाके प्रमथेऽपि च (शिवे) ॥ ५८४ ॥ ;p{0052} $अर; #,, अरमङ्गे रथाङ्गस्य शीघ्रशीघ्रगयोऽपि । $उद्ग्राहित; #, बद्धप्राहितयोरुक्तमुद्ग्राहितपदं बुधैः ॥ ५८५ ॥ $दर्शक; #, स्याद्दर्शको दर्शयिता प्रतिहारश्च दर्शकः । $अन्तिक; # $अन्तिका; #, समीपमन्तिकं विद्यादन्तिकां चुल्लिकामपि ॥ ५८६ ॥ $आवेशन; #, स्यादावेशनमावेशे शालायामपि शिल्पिनाम् । $आस्कन्दन; #, विदुरास्कन्दनं युद्धमास्कन्दं च विचक्षणाः ॥ ५८७ ॥ $चोद्य; #, विस्मये चोदनार्हे च चोद्यमाहुर्मनीषिणः । $विषाणिन्; #, विषाणिनः स्युः करिणः शृङ्गिणश्च विषाणिनः ॥ ५८८ ॥ $विश्लेष; #, $अयोग; #, विश्लेषवदयोगः स्याद्वियोगे विधुरे तथा । $गाण्डिव; #, $गाण्डीव; #, जिष्णोर्धनुषि कोदण्डे गाण्डीवं गाण्डीवं यथा ॥ ५८९ ॥ $योग्य; #, $योग्या; # प्रवीणोपायिनौ योग्यौ योग्यामभ्यसनं विदुः । $वर्णक; #, विलेपने चन्दने च शब्दज्ञैर्वर्णकः स्मृतः ॥ ५९० ॥ $विश्रब्ध; #, विश्रब्धशब्दमिच्छन्ति विश्वस्तानुद्भटार्थकम् । $अश्वीय; #, स्यादश्वहितमश्वीयमश्वीयं चाश्वसंहतिः ॥ ५९१ ॥ $निषध; #,,, निषधः कठिने देशे तद्राजे पर्वतान्तरे । $कश्य; #,, कश्यं मद्ये कशार्हे च हयमध्ये च दृश्यते ॥ ५९२ ॥ $दिष्टि; #, आनन्दे परिमाणे च दिष्टिं बहुविदो विदुः । $वर्ति; #,, दीपे दीपदशायां च वर्तिर्गात्रानुलेपने ॥ ५९३ ॥ $गुप्ति; #,, गुप्तिः कारा च रक्षा च जी(दी)र्णं च विवरं भुवः ॥ ५९४ ॥ ;p{0053} विभक्तिप्रविभागेण नानारूपैरतः परम् । श्लोकपादैः प्रवक्ष्यन्ते शब्दाः श्रुतिसुखावहाः ॥ ५९४ ॥ $केशव; #, $चक्रिन्; #, केशवौ केशवत्कृष्णौ चक्रिणौ सर्पशार्ङ्गिणौ । $वेधस्; #, $विधु; #, वेधसौ हरिधातारौ विधू विष्णुनिशाकरौ ॥ ५९५ ॥ $विवस्वत्; #, $खग; #, देवसूर्यौ विवस्वन्तौ खगावादित्यपक्षिणौ । $भानु; #, $इन; #, भानू दीप्तिदिनकरौ प्रभुतिग्मरुचाविनौ ॥ ५९६ ॥ $वृषाकपि; #, $भीम; #, वृषाकपी विष्णुशिवौ भीमौ शिवभयानकौ । $स्वामिन्; #, $मरुत; #, स्वामिनौ गुहभर्तारौ मरुतौ पवनामरौ ॥ ५९७ ॥ $मुण्ड; #, $शार; #, मुण्डौ मुण्डितमूर्धानौ शारौ शबलमारुतौ । $अनिमिष; #, $सिद्धार्थ; #, सुरमत्स्यावनिमिषौ सिद्धार्थौ बुद्धसर्षपौः ॥ ५९८ ॥ $श्लोक; #, $पराक्रम; #, श्लोकौ यशोवृत्तबन्धौ प्राणोद्योगौ पराक्रमौ । $वल्लभ; #, $मधुर; #, वल्लभौ दयिताध्यक्षौ मधुरौ स्वादुशोभनौ ॥ ५९९ ॥ $तार्क्ष्य; #, $ह्रादिनी; #, तुरंगगरुडौ तार्क्ष्यौ ह्रादिन्यौ वज्रविद्युतौ । $क्लीब; #, $बुध; #, षण्ढनिर्विक्रमौ क्लीबौ बुधौ ग्रहविचक्षणौ ॥ ६०० ॥ $अब्द; #, $शरद; #, अब्दौ संवत्सराम्भोदौ शरदावृतुवत्सरौ । $शूल; #, $पिशुन; #, शूलौ प्रहरणामयौ पिशुनौ खलसूचकौ ॥ ६०१ ॥ $प्रस्तर; #, $ग्रावन्; #, प्रस्तरौ मणिपाषाणौ ग्रावाणौ पर्वतोपलौ । $पोत; #, $भृङ्ग; #, यानपात्रशिशू पोतौ भृङ्गौ धूम्याटषट्पदौ ॥ ६०२ ॥ $ऋक्ष; #, $श्येन; #, ऋक्षौ नक्षत्रभल्लूकौ श्येनौ श्येतविहंगमौ । $ध्वाङ्क्ष; #, $पृथग्जन; #, बलिपुष्टबकौ ध्वाङ्क्षौ नीचमूर्खौ पृथग्जनौ ॥ ६०३ ॥ $वाजिन्; #, $वृद्ध; #, वाजिनौ पक्षितुरगौ वृद्धौ स्थविरपण्डितौ । $वार; #, $पाक; #, विसरावसरौ वारौ पाकौ पचनबालकौ ॥ ६०४ ॥ $सित; #, $कुञ्च; #, सितौ च बद्धधवलौ कुञ्जौ च हनुगह्वरौ । $मूढ; #, $शिति; #, मूढौ च तन्द्रितजडौ शिती च धवलासितौ ॥ ६०५ ॥ ;p{0054} $बर्ह; #, $शिलीमुख; #, शिखिपिच्छदलौ बर्हौ बाणभृङ्गौ शिलीमुखौ । $भुजङ्ग; #, $शकुन्त; #, भुजंगौ षिड्गभुजगौ शकुन्तौ भासपक्षिणौ ॥ ६०६ ॥ $निवेश; #, $जिह्वा; #, निवेशौ शिबिरोद्वाहौ जिह्मौ कुटिलमन्दकौ । $विश्व; #, $विस्मय; #, विश्वसंज्ञौ जगत्सर्वौ चित्रदर्पौ च विस्मयो ॥ ६०७ ॥ $हरिण; #, $जीमूत; #, हरिणौ पाण्डुरमृगौ जीमूतौ मेघपर्वतौ । $उपल; #, $बालिश; #, उपलौ रत्नपाषाणौ बालिशौ मूर्खशावकौ ॥ ६०८ ॥ $निपाक; #, $गेय; #, निपाकौ पचनस्वेदौ गेयौ गातव्यगायनौ । $गरुत्मत्; #, $प्राप्त; #, पक्षितार्क्ष्यौ गरुत्मन्तौ प्राप्तौ लब्धसमञ्जसौ ॥ ६०९ ॥ $पयोधर; #, $संस्थर; #, पयोधरौ स्त्रीस्तनाब्दौ संस्तरौ प्रस्तराध्वरौ । $आमिष; #, $कृषक; #, आमिषौ पललोत्कोचौ कृषकौ फालकर्षकौ ॥ ६१० ॥ $दायाद; #, $मातङ्ग; #, सपिण्डपुत्रौ दायादौ मातङ्गौ श्वपचद्विपौ । $श्वशुर्य; #, $तुषार; #, श्वशुर्यौ देवरश्या(स्या)लौ तुषारौ हिमशीकरौ ॥ ६११ ॥ $जम्बुक; #, $स्पश; #, जम्बुकौ कोष्टवरुणौ स्पशौ प्रणिधिसंगरौ । $नीलकण्ठ; #, $नरेन्द्र; #, नीलकण्ठौ शिखिहरौ नरेन्द्रौ नृपवार्तिकौ ॥ ६१२ ॥ $सम्भोग; #, $पुद्गल; #, रतभोगौ च संभोगौ देहात्मानौ च पुद्गलौ । $शिखण्ड; #, $क्षेत्रज्ञ; #, शिखण्डौ च शिखाबर्हौ क्षेत्रज्ञौ चात्मशिक्षितौ ॥ ६१३ ॥ $जम्भ; #, $संबाध; #, रदाभ्यवहृती जम्भौ संबाधौ योनिसंकटौ । $स्फुट; #, $विकाश; #, स्फुटौ व्याकोशविशदौ विकाशौ विजनस्फुटौ ॥ ६१४ ॥ $सेनानी; #, $विगत; #, सेनान्यौ गुहसेनापौ विगतौ वीतानिष्प्रभौ । $त्रास; #, $हठ; #, मणिदोषदरौ त्रासौ पार्ष्णिगप्रसभौ हठौ ॥ ६१५ ॥ $अर्घ; #, $पिण्ड; #, पूजाप्रतिक्रियावर्घौ पिण्डौ पुद्गलगोलकौ । $शाण; #, $भ्रातृव्य; #, मानभेदकषौ शाणौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ ६१६ ॥ $आमोद; #, $स्थूल; #, प्रमोदगन्धावामोदौ स्थूलौ निष्प्रज्ञपीवरौ । $आभोग; #, $शक्र; #, आभोगौ पूर्णतायत्नौ शक्रौ कुटजवासवौ ॥ ६१७ ॥ ;p{0055} $प्रतिघ; #, $आदित्य; #, प्रतिघौ रुट्प्रतीघातावादित्यौ देवभास्करौ । $सामज; #, $देव; #, सामजौ गजसामोत्थौ देवौ सुरमहीभुजौ ॥ ६१८ ॥ $अण्डीर; #, $धीर; #, अण्डीरौ शक्तपुरुषौ धीरौ मन्थरपण्डितौ । $विस्तार; #, $आदृत; #, विस्तारौ विस्तृतिस्तम्बवादृतौ सादरार्चितौ ॥ ६१९ ॥ $मन्थ; #, $वृषभ; #, मन्थौ साक्तवमन्थानौ वृषभौ वृषपुंगवौ । $संकीर्ण; #, $मूर्च्छित; #, संकीर्णौ निचिताशुद्धौ मूर्च्छितौ मूढसोच्छ्रयौ ॥ ६२० ॥ $धनपति; #, $एत; #, कुबेराढ्यौ धनपती एतावागतकर्बुरौ । $ऊर्ज; #, $यक्ष; #, उत्साहकार्तिकावूजौ यक्षौ यक्षेशगुह्यकौ ॥ ६२१ ॥ $कोक; #, $पलाशिन्; #, चक्रवाकवृकौ कोकौ रक्षोवृक्षौ पलाशिनौ । $डिम्भ; #, $उपप्लव; #, वैधेयबालकौ डिम्भौ राहूत्पातावुपप्लवौ ॥ ६२२ ॥ $विशारद; #, $मिथुन; #, विशारदौ धृष्टबुधौ मिथुने युग्मदम्पती । $मैथुन; #, $तलिम; #, मैथुने रतसंबन्धौ तलिमे तल्पकुट्टिमौ ॥ ६२३ ॥ $सचिव; #, $पराभव; #, मन्त्रिसहायौ सचिवौ नाशावज्ञे पराभवौ । $आविद्ध; #, $भर्तृ; #, आविद्धौ कुटिलक्षिप्तौ भर्तारौ स्वामिधारकौ ॥ ६२४ ॥ $करट; #, $उत्सेध; #, काकेभगण्डौ करटावुत्सेधौ वपुरुन्नती । $दन्त; #, $आहि; #, दन्तौ रदाद्रिकटकावसुराशीविषावही ॥ ६२५ ॥ $अज; #,, $कर; #,, अजा विष्णुहरच्छागा बलिहस्तांशवः कराः । $अवि; #,, $व्रज; #,, अवयश्चाद्रिमेषार्का गोष्ठाध्वनिवहा व्रजाः ॥ ६२६ ॥ $वृत्र; #,, $आद्रि; #,, ध्वान्तदैत्यारतो वृत्रा अद्रयोर्कगिरिद्रुमाः । $वर्चस्; #,, $द्विज; #,, वर्चांसि रूपविड्भासो दन्तविप्राण्डजा द्विजाः ॥ ६२७ ॥ $गृह; #, $कुट; #, गृहा गेहं गृहा दाराः कुटो वेश्म कुटो घटः । $शस्त्र; #, $पयस्; #, शस्त्रं हेतिरयः शस्त्रं पयः क्षीरं पयोम्बु च (घृतम्) ॥ ६२८ ॥ $उस्र; # $उस्रा; # $द्युति; #, गभस्तिरुस्र उस्रा गौर्द्युतिः कन्तिर्द्युतिः प्रभा । $उरस्; # $ज्या; #, उरो वक्ष उरः श्रेष्ठं ज्या मौर्वी ज्या वसुन्धरा ॥ ६२९ ॥ ;p{0056} $श्वेत; #, $तपस्; # श्वेतं रुप्यं सितः श्वेतस्तपा माघस्तपो व्रतम् । $सूक्ष्म; #, $नभस्; #, सूक्ष्मोणुः सूक्ष्ममध्यात्मं नभः खं श्रावणो नभाः ॥ ६३० ॥ $वन; #, $विष; # वनं नीरं वनं सत्त्रं विषं क्ष्वेडो विषं जलम् । $भर्मन्; #, $त्विष्; #, भर्म हेम भृतिर्भर्म त्विषः शोभास्त्वि(त्वि)षो रुचः ॥ ६३१ ॥ $भीरु; #, $घृत; #, भीरु स्त्री कातरो भीरुर्घृतमाज्यं घृतं जलम् । $क्षीर; #, $अभ्र; #, क्षीरमम्बुः पयः क्षीरमभ्रं व्योमाभ्रमम्बुदः ॥ ६३२ ॥ $मद; #, $ऋत; #, मदो गर्वो मदो हर्ष ऋतं सत्यमृतं शिलम् । $युत; #, $यति; #, युतं पृथग्युतं युक्तं यतिः कारो यतिर्यती ॥ ६३३ ॥ $कार; #, $जल; #, कारो बलिर्यतिः कारो जलमम्बु जलो जडः । $काव्य; #, $सहस्; #, काव्यं ग्रन्थो ग्रहः काव्यः सहा मासः सहो बलम् ॥ ६३४ ॥ $क्रोड; #, $शुषि; #, वक्षः क्रोडः किरः क्रोडः शुषिः शोषः शुषिर्बिलम् । $व्यक्त; #, $चर; #, व्यक्तं स्फुटं बुधो व्यक्तश्चरश्चारश्चरश्चलः ॥ ६३५ ॥ $सेव्य; #, $लभ्य; #, सेवार्होशीरयोः सेव्यं लभ्यं लब्धव्ययुक्तयोः । $शल्य; #, $स्वरु; #, शलाकाबाणयोः शल्यं स्वरुर्यूपाङ्गवज्रयोः ॥ ६३६ ॥ $चेल; #, $अशनि; #, वस्त्रगर्हितयोश्चेलमशनिर्वज्रविद्युतोः । $वृषाकपायी; #, $अम्बिका; #, वृषाकपायी श्रीगौर्योरम्बिका मातृकोमयोः ॥ ६३७ ॥ $हैमवती; #, $वर्जन; #, वचार्गौर्योर्हैमवती वर्जनं त्यागहिंसयोः । $अर्ति; #, $उमा; #, चापाग्रपीडयोरर्तिरतसीदुर्गयोरुमा ॥ ६३८ ॥ $लीला; #, $विभ्रम; #, लीलाविलासक्रिययोर्विभ्रमो भ्रान्तिहावयोः । $महिषी; #, $तन्द्री; #, महिषी पशुराट्पत्न्योस्तन्द्री निद्राप्रमीलयोः ॥ ६३९ ॥ $बन्ध; #, $प्रयोजन; #, आधिबन्धनयोर्बन्धः कार्यहेत्वोः प्रयोजनम् । $स्वेद; #, $सरणि; #, घर्मस्वेदनयोः स्वेदः सरणिः पङ्क्तिमार्गयोः ॥ ६४० ॥ $गणिका; #, $अर्हत्; #, वेश्याकरिण्योर्गणिका स्यादर्हञ्जिनपूज्ययोः । $वज्र; #, $त्रपु; #, रत्नशक्रास्त्रयोर्वज्रं रङ्गसीसकयोस्त्रपुः ॥ ६४१ ॥ ;p{0057} $लोक; #, $पवित्र; #, जनविष्टपयोर्लोकः पवित्रं कुशपूतयोः । $व्यग्र; #, $प्रजा; #, व्यापृताकुलयोर्व्यग्रः प्रजा संतानलोकयोः ॥ ६४२ ॥ $अनीक; #, $जीवातु; #, अनीकं सैन्यमृधयोर्जीवातुर्जायुजीवयोः । $हेति; #, $अर्चिस्; #, आयुधज्वालयोर्हेतिरर्चिर्ज्वालामयूखयोः ॥ ६४३ ॥ $रश्मि; #, $भूरि; #, रश्मिर्घृणिप्रग्रहयोर्भूरि प्राज्यसुवर्णयोः । $प्रकाश; #, $महत्; #, स्फुटभासोः प्रकाशः स्यान्महद्राज्यविशालयोः ॥ ६४४ ॥ $भाग; #, $सोम; #, भाग्यैकदेशयोर्भागः सोम ओषधिचन्द्रयोः । $राशि; #, $सत्य; #, मेषादिपुञ्जयो राशिः सत्यं शपथतथ्ययोः ॥ ६४५ ॥ $भव्य; #, $हिम; #, योग्यकल्याणयोर्भव्यं हिमं शीततुषारयोः । $शुभ्र; #, $पल; #, शुक्लप्रदीप्तयोः शुभ्रं पलमुन्मानमांसयोः ॥ ६४६ ॥ $प्रीति; #, $धृति; #, प्रेमप्रमोदयोः प्रीतिर्धृतिर्धारणसौख्ययोः । $इष्टि; #, $भृति; #, इष्टिर्यागेच्छयोरुक्ता भृतिर्भरणमूल्ययोः ॥ ६४७ ॥ $कृत; #, $क्रव्याद्; #, कृतं पर्याप्तयुगयोः क्रव्यान्मांसाशिरक्षसोः । $न्यग्रोध; #, $बिन्दु; #, न्यग्रोधो व्यामवटयोर्बिन्दुर्वेदितृविप्रुषोः ॥ ६४८ ॥ $अङ्क; #, $चर्मन्; #, उत्सङ्गलक्ष्मणोरङ्कश्चर्म स्यात्फलकत्वचोः । $मोह; #, $चिकुर; #, अविद्यामूर्च्छयोर्मोहश्चिकुरश्चलकेशयोः ॥ ६४९ ॥ $ग्राह; #, $चोक्ष; #, ग्रहावहारयोर्ग्राहश्चोक्षो गीतमनोज्ञयोः । $भेल; #, $कीलाल; #, प्लवभीलुकयोर्भेलः कीलालमसृगम्बुनोः ॥ ६५० ॥ $दस्यु; #, $मति; #, रिपुतस्करयोर्दस्युर्मतिरिच्छामनीषयोः । $रण; #, $लव; #, रणः स्यात्क्वाणमृधयोर्लवश्छेदनलेशयोः ॥ ६५१ ॥ $मर्यादा; #, $इज्या; #, मर्यादा धारणासीम्नोरिज्या यजनपूजयोः । $विरुध्; #, $वप; #, लताविटपयोर्विरुज्जयन्तीदुर्गयोर्जया ॥ ६५२ ॥ $भित्ति; #, $जया; #, प्रदेशकुड्ययोर्भित्तिर्वपा विवरमेदसोः । $सती; #, $मूल्य; #, सती हैमवतीसाध्व्योर्मूल्यं वेतनवस्नयोः ॥ ६५३ ॥ ;p{0058} $लङ्का; #, $प्रसून; #, नगरीशाखयोर्लङ्का प्रसूनं फलपुष्पयोः । $रत्न; #, $प्रतिपद्; #, मणिप्रकृष्टयो रत्नं प्रतिपत्तिथिसंविदो ॥ ६५४ ॥ $चिह्न; #, $गौरिक; #, पताकालक्ष्मणोश्चिह्नं गैरिकं धातुरुक्मयोः । $व्रज्या; #, $वाहिनी; #, अर्गप्रस्थानयोर्व्रज्या वाहिनी सिन्धुसेनयोः ॥ ६५५ ॥ $अर्वन्; #, $गह्वर; #, अश्वकुत्सितयोरर्वा गह्वरं बिलदम्भयोः । $बाष्प; #, $प्रेमन्; #, ऊष्मनेत्राम्भसोर्बाष्पः प्रेम स्निग्धत्वनर्मणोः ॥ ६५६ ॥ $निन्दा; #, $सुत; #, कुत्सापवादयोर्निन्दा सुतः पुत्रमहीभुजोः । $शास्त्र; #, $कुथ; #, निदेशागमयोः शास्त्रं प्रवेणीकुशयोः कुथः ॥ ६५७ ॥ $त्वक्; #, $निभ; #, त्वक्चर्मवल्कयोरुक्ता सदृशव्याजयोर्निभः । $डिम्ब; #, $शुद्ध; #, प्लीहविप्लवयोर्डिम्बः शुद्धः केवलपूतयोः ॥ ६५८ ॥ $सामिधेनी; #, $लक्षण; #, ऋक्समिधोः सामिधेनी लक्षणं नामचिह्नयोः । $शान्ति; #, $कान्ति; #, कल्याणशमयोः शान्तिः कान्तिः शोभेच्छयोः स्मृता ॥ ६५९ ॥ $योनि; #, $ओघ; #, आकरोपस्थयोर्योनिरोघो वृन्दाम्बुवेगयोः । $स्वैर; #, $कृतिन्; #, मन्दस्वच्छन्दयोः स्वैरो योग्यपण्डितयोः कृती ॥ ६६० ॥ $वृष्णि; #, $विलग्र; #, मेषयादवयोर्वृष्णिर्विलग्नो मध्यलग्नयोः । $शाद; #, $द्रोण; #, शष्पकर्दमयोः शादो द्रोणो वायसमानयोः ॥ ६६१ ॥ $वसति; #, $क्षवथु; #, वसतिर्वेश्मयामिन्योः क्षवथुः क्षुतकासयोः । $प्रतीहार; #, $सायक; #, द्वाःस्थद्वारोः प्रतीहारः सायकः शरखड्गयोः ॥ ६६२ ॥ $शङ्का; #, $बन्धन; #, वितर्कत्रासयोः शङ्का बन्धनं वृत्तबन्धयोः । $रूक्ष; #, $मृदु; #, परुषास्निग्धयो रूक्षः कोमलातिग्मयोर्मृदुः ॥ ६६३ ॥ $अन्त्य; #, $वाडव; #, अधमान्तभुवोरन्त्यो वाडवो ब्राह्मणौर्वयोः । $घृणा; #, $अवट; #, घृणा जुगुप्साकृपयोरवटः कूपगर्तयोः ॥ ६६४ ॥ $ऊति; #, $साति; #, स्यूतिरक्षणयोरूतिः सातिर्दानावसानयोः । $सेवन; #, $दृत; #, सेवनं सीवनोपास्त्योर्द्रुतं शीघ्रविलीनयोः ॥ ६६५ ॥ ;p{0059} $सव्य; #, $अधम; #, वामदक्षिणयोः सव्यमधमो न्यूनगर्ह्ययोः । $प्रेक्षा; #, $मूर्ति; #, धीनृत्यदर्शयोः प्रेक्षा मूर्तिः काठिन्यकाययोः ॥ ६६६ ॥ $यात्रा; #, $धन; #, वृतिप्रस्थानयोर्यात्रा धनं गोधनवित्तयोः । $अर्चा; #, $महस्; #, प्रतिमापूजयोरर्चा मह उत्सवतेजसोः ॥ ६६७ ॥ $आप्ति; #, $लक्ष्मन्; #, प्राप्तिसंबन्धयोराप्तिर्लक्ष्म चिह्नप्रधानयोः । (... ... ... लक्ष्मचिह्नप्रधानयोः) $चित्र; #, $वदान्य; #, नवेऽ(?)विचारेति चित्रं वदान्यो दातृवाग्मिनोः । $हिंसा; #, $जामि; #, चौर्यादिवधयोर्हिंसा जामिः स्वसृकुलस्त्रियोः ॥ ६६८ ॥ $लेप; #, $अन्न; #, जग्धिलेपनयोर्लेपः स्यादन्नं भक्तभुक्तयोः । $विद्वस्; #, $गोपति; #, विद्वान् विदत्पण्डितयोर्गोपतिः षण्डसूर्ययोः ॥ ६६९ ॥ $श्रद्धा; #, $भूति; #, श्राद्धत्वकाङ्क्षयोः श्रद्धा भूतिः संपत्तिभस्मनोः । $बाध; #, $क्षुल्लक; #, निषेधदुःखयोर्बाधा क्षुल्लकः पामराल्पयोः ॥ ६७० ॥ $करेणु; #, $वर्तनी; #, करेणुर्गजहस्तिन्योर्वर्तनी वृत्तिमार्गयोः । $व्रतति; #, $आकृति; #, विस्तारवल्ल्योर्व्रततिराकृतिः कायरूपयोः ॥ ६७१ ॥ $स्नेह; #, $अक्षर; #, स्नेहस्तैलादिकप्रेम्णोरक्षरं ब्रह्मवर्णयोः । $कर्षू; #, $भर; #, कर्षूर्नदीकरीषाग्न्योर्भरोतिशयभारयोः ॥ ६७२ ॥ $गुह्य; #, $अनूक; #, उपस्थरहसोर्गुह्यमनूकं कुलशीलयोः । $राष्ट्र; #, $आगस्; #, विषयोत्पातयो राष्ट्रमागः पापापराधयोः ॥ ६७३ ॥ $मध्य; #, $चर्चा; #, न्याय्यावलग्नयोर्मध्यं चर्चा स्थासकचिन्तयोः । $रथ्या; #, $मृत; #, रथौघमार्गयो रथ्या मृत्युयाचितयोर्मृतम् ॥ ६७४ ॥ $स्रोतस्; #, $छल; #, स्रोतोम्बुवेगेन्द्रिययोश्छद्मस्खलितयोश्छलम् । $अट्ट; #, $प्रस्थ; #, अत्यर्थगृहयोरट्टः प्रस्थः स्यात्सानुमानयोः ॥ ६७५ ॥ $अन्य; #, $उडुप; #, इतरासदृशोरन्य उडुपश्चन्द्रभेलयोः । $छ्न्द; #, $संस्था; #, छन्दोभिप्रयवशयोः संस्था स्थितिविनाशयोः ॥ ६७६ ॥ ;p{0060} $वीचि; #, $अहिभुज्; #, स्वल्पकल्लोलयोर्वीचिरहिभुक्केकितार्क्ष्ययोः । $द्विजिह्व; #, $निज; #, द्विजिह्वः सर्पखलयोर्निजमात्मीयनित्ययोः ॥ ६७७ ॥ $क्षोद; #, $रभस; #, धूलिपेषणयोः क्षोदो रभसो वेगहर्षयोः । $पल्लि; #, $सखि; #, कुटीग्रामकयोः पल्लिः सखा मित्रसहाययोः ॥ ६७८ ॥ $व्यूढ; #, $चार; #, विन्यस्ते संहते व्यूढश्चारो बन्धापसर्पयोः । $आशुग; #, $वैशाख; #, आशुगो मारुते बाणे वैशाखो मासमन्थयोः ॥ ६७९ ॥ $आशा; #, $स्वादु; #, आशा ककुभि तृष्णायां स्वादुर्मृष्टमनोज्ञयोः । $मार्गण; #, $जात; #, मार्गणो याचके बाणे जातं जन्मसमूहयोः ॥ ६८० ॥ $नियति; #, $प्रकार; #, नियतिः संयमे दैवे प्रकारस्तुल्यभेदयोः । $व्यवाय; #, $मरु; #, व्यवायः सुरतेऽन्तर्धौ धन्वपर्वतयोर्मरुः ॥ ६८१ ॥ $कुम्भ; #, $ध्वज; #, गजाङ्गे कलशे कुम्भः पताकाचिह्नयोर्ध्वजः । $भ्रूण; #, $प्रियङ्गु; #, भ्रूणोऽर्भके स्त्रैणगर्भे प्रियङ्गुः कङ्गुवृक्षयोः ॥ ६८२ ॥ $आकल्प; #, $निस्त्रिंश; #, आकल्पः कल्पने वेषे निस्त्रिंशः क्रूरखङ्गयोः । $संप्रयोग; #, $कलङ्क; #, रतेन्वितौ संप्रयोगः कलङ्कोङ्कापवादयोः ॥ ६८३ ॥ $प्राप्ति; #, $क्षार; #, उदयेधिगमे प्राप्तिः क्षारः स्यात्काचभस्मनोः । $वह; #, $पद्धति; #, वहो वाहे गवां स्कन्धे पद्धतिः पङ्क्तिवर्त्मनोः ॥ ६८४ ॥ $शल्क; #, $प्रगाढ; #, वल्कले शकले शल्कं प्रगाढं दृढकृच्छ्रयोः । $स्वभू; #, $शुक्त; #, स्वभूर्वेधसि गोविन्दे शुक्तं स्यात्परुषाम्लयोः ॥ ६८५ ॥ $क्षुण्ण; #, $निशान्त; #, व्युत्पन्ने प्रहते क्षुण्णो निशान्तं गेहशान्तयोः । $गोधा; #, $विभु; #, गोधा तले निहाकायां विभुः स्यात्प्रभुनित्ययोः ॥ ६८६ ॥ $त्रयी; #, $निषङ्ग; #, त्रयी त्रिवेद्यां त्रितये निषङ्ग सङ्गतूणयोः । $भ्रमर; #, $भूतात्मन्; #, भ्रमरः कामुके भृङ्गे भूतात्मा धातृदेहयोः ॥ ६८७ ॥ $द्रुम; #, $चरु; #, द्रुमस्तरौ पारिजाते भाण्डहव्यान्नयोश्चरुः । $कराल; #, $न्यक्ष; #, करालो दन्तुरे तुङ्गे न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ ६८८ ॥ ;p{0061} $अदस्; #, $व्यूह; #, अदः परस्मिन्नत्रापि व्यूहो विन्यासवृन्दयोः । $स्तिमित; #, $कष्ट; #, स्तिमितोऽतरले क्लिन्ने कष्टं गहनकृच्छ्रयोः ॥ ६८९ ॥ $विकार; #, $विरोध; #, विकारो विकृतौ रोगे विरोधो नाशरोधयोः । $संरोध; #, $गाथा; #, क्षेपे रोधे च संरोधो गाथा वाग्भेदवृत्तयोः ॥ ६९० ॥ $विशद; #, $निधन; #, प्रव्यक्ते विशदः शुक्ले निधनं कुलनाशयोः । $अर्थ्य; #, $बल्लव; #, अर्थ्यो विपश्चिति न्याय्ये बल्लवो गोपसूदयोः ॥ ६९१ ॥ $पल्लव; #, $मल; #, पल्लवो विटपे षिङ्गे किट्टकिल्बिषयोर्मलम् । $पीति; #, $वित्त; #, पीतिस्तुरंगमे पाने वित्तं द्रव्यप्रकाशयोः ॥ ६९२ ॥ $धेनुका; #, $हेला; #, करिण्यां धेनुका धेनौ हेलावज्ञाविलासयोः । $दुर्गति; #, $क्रिमि; #, दुर्गतिर्नरके नैःस्व्ये क्रि(कृ)मिः स्यात्कीटलाक्षयोः ॥ ६९३ ॥ $वृत्ति; #, $तरस्; #, वर्तने विवृतौ वृत्तिस्तरः स्याद्बलवेगयोः । $जनपद; #, $प्रवृत्ति; #, देशे जने जनपदः प्रवृतिर्वृत्तिवार्तयोः ॥ ६९४ ॥ $शाखा; #, $लुब्ध; #, शाखा भुजे पादपाङ्गे लुब्धो मृगयुकाङ्क्षिणोः । $समाघात; #, $धावन; #, समाघातो वधे युद्धे धावनं गतिशौचयोः ॥ ६९५ ॥ $व्युष्टि; #, $यान; #, व्युष्टिः फले समृद्धौ च यानं गमनयुग्ययोः । $स्नान; #, $सैन्धव; #, स्नानीये सवने स्नानं सैन्धवो लवणाश्वयोः ॥ ६९६ ॥ $वर्धन; #, $रहस्; #, वर्धनं छेदने वृद्धौ रहः सुरतगुह्ययोः । $वीर; #, $प्रज्ञान; #, उत्तमे सुभटे वीरः प्रज्ञानं बुद्धिचिह्नयोः ॥ ६९७ ॥ $कर्बुर; #, $गाङ्गेय; #, किर्मिरे कर्बुरं होम्नि गाङ्गेयं गाङ्गरुक्मयोः । $पूग; #, $शूक; #, समूहे पादपे पूगः शूकोऽनुक्रोशशुङ्गयोः ॥ ६९८ ॥ $अभीषु; #, $बर्हि; #, अभीषुः(शुः) प्रग्रहे भासि बर्हिर्दर्भहुताशयोः । $अर्य; #, $निकृति; #, अर्यः स्वामिनि वैश्ये च निकृतिः शठशाठ्ययोः ॥ ६९९ ॥ $पक्ति; #, $रति; #, पक्तिः स्याद् गौरवे पाके रतिः सुरतरागयोः । $नर; #, $नालिक; #, नरः स्यादर्जुने मर्त्ये नालीकश्च शराब्जयोः ॥ ७०० ॥ ;p{0062} $दुर्वर्ण; #, $आभील; #, रूप्ये कुवर्णे दुर्वर्णमाभीलं भीष्मकृच्छ्रयोः । $खर्जूर; #, $वाशिता; #, फले रूप्ये च खर्जूरं वाशिता करिणीस्त्रियोः ॥ ७०१ ॥ $अनृत; #, $तक्षक; #, अनृतं कृषावसत्ये तक्षकस्तक्षनागयोः । $वेश; #, $भास्वत्; #, वेश्यावासे गृहे वेशो भास्वान्भास्वरसूर्ययोः ॥ ७०२ ॥ $हृदय; #, $पुरुष; #, हृदयं वक्षसि स्वान्ते पुरुषो मानवात्मनोः । $कलित; #, $ईहा; #, ज्ञाते गृहीते कलित ईहा स्यादुद्यमेच्छयोः ॥ ७०३ ॥ $अर्ध; #, $प्रदोष; #, खण्डेऽर्धः समभागेऽर्धं प्रदोषो दोषकालयोः । $मित्र; #, $समुछ्रय; #, मित्रं सुहृदि मित्रोऽर्के वैरोन्नत्योः समुच्छ्रयः ॥ ७०४ ॥ $रोक; #, $नाक; #, दीप्तौ रोको बिले रोकं नाकः स्वर्गान्तरिक्षयोः । $दल; #, $पुष; #, दलं खण्डे दलं पत्रे पुष्पमार्तवसूनयोः ॥ ७०५ ॥ $संव्यान; #, $भरण; #, संव्यानं छादने वस्त्रे भरणं वेतने भृतौ । $कञ्चुकिन्; #, $वेल्लित; #, स्थापत्ये कञ्चुकी सर्पे वोल्लितं कुटिले धुते ॥ ७०६ ॥ $त्रेता; #, $रै; #, वह्नित्रये युगे त्रेता रैशब्दः कनके धने । $चित्रक; #, $छद; #, ओषधौ चित्रको व्याघ्रे पलाशे गरुतिच्छदः ॥ ७०७ ॥ $रिष्ट; #, $वपुस्; #, रिष्टं स्यादशुभे पापे शस्ताकारे तनौ वपुः । $स्तम्भ; #, $द्रव; #, स्तम्भो जडत्वे स्थूणायां निर्यासे नर्मणि द्रवः ॥ ७०८ ॥ $शील; #, $कैतव; #, शीलं स्वभावे सद्वृत्ते छले द्यूते च कैतवम् । $उत्कट; #, $कील; #, उत्कटः प्रवले क्षीबे स्थाणौ ज्वाले च कीलवाक् ॥ ७०९ ॥ $उदर्चिस्; #, $पुर; #, उदर्चिरुत्प्रभे वह्नौ पुरं स्यान्नगरे गृहे । $वृद्धि; #, $कृष्टि; #, आनन्दे वर्धने वृद्धिः कृष्टिराकर्षणे बुधे ॥ ७१० ॥ $जघन्यज; #, $स्थिरा; #, जघन्यजोऽनुजे शूद्रे शालपर्ण्यां भुवि स्थिरा । $तृणता; #, $कारु; #, तृणत्वे तृणता चापे कारुः शिल्पिनि कारके ॥ ७११ ॥ $अण्ड; #, $द्वापर; #, मुष्के खगादिकोशेण्डं द्वापरः संशये युगे । $भक्ति; #, $तरणि; #, विभागे सेवने भक्तिस्तरणिर्नावि भास्करे ॥ ७१२ ॥ ;p{0063} $एनस्; #, $पुङ्गव; #, एनोपराधे दुरिते वरेण्ये पुंगवो वृषे । $पूज्य; #, $इन्द्रिय; #, पूजार्हे श्वशुरे पूज्यो हृषीके रेतसीन्द्रियम् ॥ ७१३ ॥ $आनक; #, $मन्दिर; #, आनकः पटहे भेर्यां मन्दिरं नगरे गृहे । $इतर; #, $पेशल; #, इतरः पामरेऽन्यस्मिन्दक्षे चारौ च पेशलः ॥ ७१४ ॥ $वर्त्मन्; #, $प्रोक्षण; #, वर्त्म नेत्रच्छदे मार्गे प्रोक्षणं सेचने वधे । $कारण; #, $प्रसू; #, कारणं घातने हेतावश्वार्या मातरिः प्रसूः ॥ ७१५ ॥ $त्रिदिव; #, $दान; #, स्वर्गेन्तरिक्षे त्रिदिवं दानं गजमदे दितौ । $हविस्; #, $मल्ल; #, हविः सर्पिषि होतव्ये मल्लः पात्रे बलीयसी ॥ ७१६ ॥ $उपस्थ; #, $गडु; #, उपस्थः शिस्न उत्सङ्गे कुब्जे पृष्टगुडे गडुः । $यन्तृ; #, $अवस्कर; #, यन्ता हस्तिपके सूते गृथे गुह्येप्यवस्करः ॥ ७१७ ॥ $खड्ग; #, $प्रणिधि; #, निस्त्रिंशे गण्डके खड्गः प्रणिधिः प्रार्थने चरे । $वञ्चुक; #, $दुर्विध; #, वञ्चुको जम्बुके धूर्ते दुर्विधो दुर्गते खले ॥ ७१८ ॥ $ॠषि; #, $गिरीश; #, ऋषिर्वेदे वसिष्ठादौ गिरीशोऽद्रिपतौ शिवे । $अस्त्र; #, $कदम्ब; #, अस्त्रं स्यादायुधे चापे कदम्बाख्या द्रुमे चये ॥ ७१९ ॥ $कबन्ध; #, $रोदन; #, कबन्धं सलिले रुण्डे क्रन्दे रोदनमश्रुणि । $नलिनी; #, $कुहर; #, पद्माकरेब्जे नलिनी कुहरं गह्वरे बिले ॥ ७२० ॥ $चूडा; #, $छदन; #, शिखायां वलभौ चूडा छदनं गरुतिच्छदे । $चिति; #, $सृति; #, चितिः समूहे चित्यायां गमने पद्धतौ सृतिः ॥ ७२१ ॥ $स्थूणा; #, $रोहिणी; #, स्थूणां स्तम्भेथ(म्भे च) सूर्म्यां च नक्षत्रे गवि रोहिणी । $षण्ड; #, $खर; #, षण्डो वने गवां पत्यौ तिग्मे स्याद् गर्दभे खरः ॥ ७२२ ॥ $वराङ्ग; #, $कृपीट; #, वराङ्गं मस्तके योनौ कृपीटमुदरे जले । $तोदन; #, $आस्पद; #,,,,,,,, तोदनं व्यथने तोत्त्रे कृत्ये स्यादास्पदं पदे ॥ ७२३ ॥ $भूभृत्; #, $अतिसर्जन; #, भूभृद्गिरौ महीपाले वधे दानेतिसर्जनम् । $निमित्त; #, $जीवन; #, निमित्तं लक्षणे हेतौ जीवनं वर्तनेम्भसि ॥ ७२४ ॥ ;p{0064} $कलुष; #, $शयन; #, आविले कलुषं पापे शय्यायां शयनं रते । $शासन; #, $गहन; #, शास्त्रे शासनमाज्ञायां गह्वरे गहनं वने ॥ ७२५ ॥ $अवन; #, $लिप्त; #, अवनं रक्षणे तृप्तौ लिप्तं भुक्ते विलिप्तके । $उषित; #, $उदित; #, व्युषिते दग्ध उषितमुदितं प्रोक्त उद्गते ॥ ७२६ ॥ $शाप; #, $तरुण; # आक्रोशे शपथे शापस्तरुणो यूनि नूतने । $छन्न; #, $भुवन; #, छादिते रहसिच्छन्नं भुवनं विष्टपे जने ॥ ७२७ ॥ $शय्या; #, $पर्ण; #, शय्या तल्पे ग्रन्थगुम्फे पर्णाख्या किंशुके छदे । $मूल; #, $कान्तार; #, मूलमाद्ये शिफायां च कान्तरं प्रान्तरे वने ॥ ७२८ ॥ $भावित; #, $उद्धान; #, भावितं वासिते लब्धे चुल्ल्यामुद्धा(द्वा)नमुद्गते(मे) । $तलिन; #, $अर्दित; #, स्वच्छे तलिनमल्पे स्यादर्दितं प्रार्थिते हते ॥ ७२९ ॥ $भ्रम; #, $गोपुर; #, भ्रमोम्बुनिर्गमे भ्रान्तौ पूर्द्वारि द्वारि गोपुरम् । $प्रसर; #, $वर्तक; #, प्रसरः प्रणये वेगे वर्तको श्वखुरे खगे ॥ ७३० ॥ $निःश्रेयस; #, $दिवौकस्; #, निःश्रेयसं शिवे मोक्षे दिवौकाश्चातके सुरे । $आजि; #, $पर्याय; #, आजिः समावनौ युद्धे पर्यायोऽवसरे क्रमे ॥ ७३१ ॥ $प्रैष; #, $कलि; #, पीडने प्रेषणे प्रैषः कलिरन्त्ययुगे रणे । $प्रवेणी; #, $दिष्टवाक्; #, कुथे प्रवेणी वेण्यां च काले दैवे च दिष्टवाक् ॥ ७३२ ॥ $आलोक; #, $विन्न; #, आलोको दर्शने द्योते विन्नं लब्धे विचारिते । $शंसा; #, $धनंजय; #, वाञ्छायां वचने शंसा वह्नौ पार्थे धनंजयः ॥ ७३३ ॥ $पङ्क; #, $रुजा; #, कर्दमे कल्मषे पङ्कं भङ्गे रोगे रुजा मता । $शकल; #, $व्यायत; #, शकलं वल्कले खण्डे व्यायतो व्यापृते दृढे ॥ ७३४ ॥ अपिशब्देन साध्यन्ते पूर्वाचार्चानुसारतः । विस्मृता ये प्रमादेन कथ्यते तेऽधुना पुनः ॥ ७३५ ॥ $मन्द; # $धर्म; # मन्दो हस्तिविशेषेपि घर्मः स्यादातपेपि च । $उपस्पर्शन; # $कर; # स्पर्शेप्युपस्पर्शनं स्यात्करो मेघोपलेपि च ॥ ७३६ ॥ ;p{0065} $वश; # $पूर्व; # स्यादिच्छायामपि वशश्चाण्डालेपि प्लवो मतः । $प्रसव; # $वर; # प्रसवः स्यादपत्येपि वरणेपि वरः स्मृता ॥ ७३७ ॥ $अन्तर; # $बृहती; # अन्तरं परिधानेपि बृहती वाच्यपि स्मृता । $अङ्क; # $वेला; # अङ्कं विदुः समीपेपि वेला कूलेपि वारिधेः ॥ ७३८ ॥ $सूचना; # $पिण्ड; # सूचना दर्शनेपि स्यात्पिण्डमाजीवनेपि च । $वेधस्; # $चिकुर; # विदुष्यपि स्मृतो वेधाश्चिकुरः पादपेपि च ॥ ७३९ ॥ $वाल; # $मत्सर; # वालः स्यादश्वपुच्छेपि क्वचित्कोपेपि मत्सरः । $आधि; # $तिलक; # आधिर्मानसपीडापि तिलकं क्लोम्न्यपि स्मृतम् ॥ ७४० ॥ $सुरभि; # $तार; # सुरभिः स्यान्मनोज्ञेपि तारः शुद्धेपि मौक्तिके । $दान; # $खग; # खण्डनेपि मतं दानं खगः काण्डेपि दृश्यते ॥ ७४१ ॥ $रोहित; # $अज; # ऋश्येपि रोहितः प्रोक्तः प्रजानाथेप्यजः स्मृतः । $गोकर्ण; # $मूल; # गोकर्णो मृगभेदेपि मूलं स्यादन्तिकेपि च ॥ ७४२ ॥ $भद्रा; # $ध्रुवा; # रास्नायामपि भद्रा स्याच्छालपर्ण्यामपि ध्रुवा । $लता; # $शेष; # लता स्यादतिमुक्तेपि शेषः सीरिण्यपि स्मृतः ॥ ७४३ ॥ $क्षार; # $दर्शन; # क्षारो रसविशेषेपि मतं स्वप्नेपि दर्शनम् । $नाभि; # $ग्राम; # नाभिश्चक्रस्य मध्येपि ग्रामो गीतस्वरेपि च ॥ ७४४ ॥ $वृष; # $मार्गण; # वृषः स्यात्पुंविशेषेपि याञ्चायामपि मार्गणम् । $स्थान; # $विद्वस्; # सादृश्येपि क्वचित्स्थानं विद्वानप्यात्मवेदिनि ॥ ७४५ ॥ $वान; # $भव्य; # वानं विशुष्कमात्रेपि भव्यं भाविन्यपि स्मृतम् । $शाखा; # $मध्य; # शाखा वेदविभागेपि मध्यं स्यादन्तरेपि च ॥ ७४६ ॥ $ऋषभ; # $तेजस्; # ऋषभो गेयभेदेपि तेजो दीप्तावपि स्मृतम् । $चार; # $पल्लव; # चारः पि(प्रि)यालवृक्षेपि मतं पत्रेपि पल्लवम् ॥ ७४७ ॥ $वार्त्ता; # $स्फुट; # वार्त्ताकेपि क्वचिद् वार्ता स्फुटो व्याप्तेपि च क्वचित् । $पात्र; # $काय; # पात्रं मुगादिकोपे स्यात्कायः संघेपि दृश्यते ॥ ७४८ ॥ ;p{0066} $भव; # $आयति; # क्ल्याणेपि भवः प्रोक्तो दीर्घत्वेप्यायतिं विदुः । $घन; # $अनन्त; # विस्तारेपि घनं विद्यादनन्तः केशवेपि च ॥ ७४९ ॥ $तन्त्र; # $प्रधान; # तन्त्रं कुटुम्बकृत्येपि प्रधानं प्रकृतावपि । $कदली; # $कर्कश; # कदली मृगभेदेपि कर्कशः कठिनेपि च ॥ ७५० ॥ $पण; # $ग्रमणी; # पणः स्याद् व्यवहारेपि ग्रामणीर्भोगिकेपि च । $प्रतिपत्ति; # $घृति; # बोधेपिः प्रतिपत्तिः स्याद्धैर्येपि धृतिरिष्यते ॥ ७५१ ॥ $जाल; # $उत्सव; # कोरकेपि मतं जालं महेपि स्मृत उत्सवः । $परीवाप; # $हेति; # आवावेपि परीवापो हेतिर्भास्करभास्यपि ॥ ७५२ ॥ $सत्त्व; # $इष्ट; # मनस्यपि मतं सत्त्वं विद्यादिष्टं क्रतावपि । $कोश; # $परंपरा; # कोशः पात्रविशेषेपि संतानेपि परंपरा ॥ ७५३ ॥ $चर्चा; # $गुह; # देव्यामपि भवेच्चर्चा विशाखेपि गुहः स्मृतः । $रति; # $धीर; # रतिः स्मरकलत्रेपि धीरः स्याद्धैर्यवत्यपि ॥ ७५४ ॥ $वडवा; # $गह्वर; # वडवा स्त्रीविशेषेपि निकुञ्जेपि च गह्वरः । $काली; # $भीम; # क्षीरकीटेपि काली स्याद् भीमः पाण्डुसुतेपि च ॥ ७५५ ॥ $शारि; # $व्यूढ; # शारिः पर्याणभेदेपि व्यूढः स्यात्पृथुलेपि च । $भाव; # $वाजिन्; # भावो रसनिमित्तेपि च वाजी स्याद्विशिखेपि च ॥ ७५६ ॥ $कला; # $संस्था; # कलावयवमात्रेपि संस्था स्यात्प्रणिधावपि । $करक; # $पुर; # करकः स्यात्करङ्केपि पुरं देहेपि दृश्यते ॥ ७५७ ॥ $करट; # $द्रोण; # करटो दुर्दुरूटेपि द्रोणोर्जुनगुरावपि । $युग; # $व्यायात; # युगं हस्तचतुष्केपि दीर्घेपि व्यायतं विदुः ॥ ७५८ ॥ $चरण; # $मद; # बह्वृचाद्येपि चरणो मदो बीजेपि देहिनाम् । $रथ्य; # $वालिका; # रथोद्वहेपि रथ्यः स्यादलङ्कारेपि वालिका ॥ ७५९ ॥ $शुक्ति; # $भ्रम; # अश्वावर्तेपि शुक्तिः स्याद् भ्रमः कुन्देपि दृश्यते । $पद्म; # $धर्म; # पद्मो व्यूहविशेषेपि धर्म चापेपि कीर्तितम् ॥ ७६० ॥ ;p{0067} $रीति; # $काण्ड; # प्रचारेपि स्मृता रीतिः काण्डः स्कन्धेपि शाखिनाम् । $ग्रहण; # $सुधा; # सोमग्रहेपि ग्रहणं सुधा लेपेपि दृश्यते ॥ ७६१ ॥ $कटु; # $वसति; # कटुः शोभनगन्धेपि वसतिश्च स्थितावपि । $भाण्ड; # $सून; # भाण्डं भूषणमात्रेपि सूनं स्यात्पुष्पितेपि च ॥ ७६२ ॥ $स्नेह; # $जन्य; # सौहार्देपि मतः स्नेहो जन्यः स्याज्जनकेपि च । $धर्मराज; # $राम; # धर्मराजः पाण्डवेपि रामो दाशरथावपि ॥ ७६३ ॥ $जम्भ; # $कुल्य; # जम्भो दैत्यविशेषेपि कुल्यः स्यात्कुलजेपि च । $पटल; # $पर; # पटलं पिटकेपि स्यात्केवलेपि परं मतम् ॥ ७६४ ॥ $स्कन्ध; # $कुल; # स्कन्धस्तरुप्रकाण्डेपि कुलं गेहेपि दृश्यते । $पर्जन्य; # $वसु; # मेघध्वानेपि पर्जन्यो मधुरेपि वसुः स्मृतः ॥ ७६५ ॥ $कीला; # $मल; # कीला कफो(फ)णिभागेपि वर्चस्केपि मलं मतम् । $प्रसूति; # $संतति; # उत्पादेपि प्रसूतिः स्यात्पारंपर्येपि संततिः ॥ ७६६ ॥ $शाला; # $धवल; # शाला गृहैकदेशेपि धवलो गोवृषेपि च । $परुष; # $विशिख; # परुषं रूक्षमात्रेपि शरेपि विशिखः स्मृतः ॥ ७६७ ॥ $कषाय; # $लघु; # क्वचित्कषायं रक्तेपि लघु स्यादजुरुण्यपि । $करण; # $चपल; # क्रियाभेदेपि करणं चपलः पारदेपि च ॥ ७६८ ॥ $पक्ष्मन्; # $भोग; # पुष्पच्छदेपि पक्ष्म स्याद् भोगो वित्तेपि च क्वचित् । $फल; # $योग; # फलं हेतुसमुत्थेपि योगः स्याद् भेषजेपि च ॥ ७६९ ॥ $पक्ष; # $वाह; # पक्षोश्मन्तकरन्ध्रेपि वाहमाहुर्वृषेपि च । $आरोह; # $वशा; # आरोहो हस्तिवाहेपि वशा वन्ध्यस्त्रियामपि ॥ ७७० ॥ $क; # $कक्षा; # कं सुखेपि विजानीयात्कक्षा स्पर्धापदेपि च । $वितान; # $अन्त; # मन्देपि च वितानं स्याद् विनाशेऽप्यन्त इष्यते ॥ ७७१ ॥ $शृङ्ग; # $शासन; # शृङ्गं क्रीडाम्बुयन्त्रेपि मतं लेखेपि शासनम् । $चूर्ण; # $कवि; # चूर्णं क्षारविशेषेपि कविः काव्यकरेपि च ॥ ७७२ ॥ ;p{0068} $वर्ण; # $पद; # वर्णो विलेपनेपि स्यात्पदं चिह्नेपि दिश्यते । $अरुण; # $छाया; # अरुणः क्वचिदर्केपि च्छाया पङ्क्तावपि स्मृता ॥ ७७३ ॥ $वित्त; # $मृग; # वित्तं विचारितेपि स्यान्मार्गणेपि मृगः क्वचित् । $सित; # $भूत; # सितं प्राप्तावसानेपि भूतं प्राप्तेति दृश्यते ॥ ७७४ ॥ $शल्य; # $घोष; # शल्यकेपि मतः शल्यो घोषः स्याद् घोषकेपि च । $कृष्ण; # $विश्व; # मरीचेपि भवेत्कृष्णं विश्वं शुण्ठ्यामपि स्मृतम् ॥ ७७५ ॥ $प्रवण; # $कूल; # प्रवणं दक्षिणेपि स्यात्कूलं स्यूतेपि कथ्यते । $ताल; # $रक्त; # तालं स्याद्धरितालेपि रक्तं कुङ्कुमकेपि च ॥ ७७६ ॥ $बीभत्स; # $रस; # घृणात्मकेपि बीभत्सो रसः स्वादेपि कीर्तितः । $सिन्धु; # $विनीत; # सिन्धुर्देशविशेषेपि विनीतो वाणिजेपि च ॥ ७७७ ॥ $अधिष्ठान; # $तपस्; # स्यात्प्रभावेप्यधिष्ठानं तपो धर्मेपि कीर्तितम् । $नभस्; # $भूतिक; # वर्षास्वपि नभाः प्रोक्तो यवान्यामपि भूतिकम् ॥ ७७८ ॥ $सहस्; # $तपस्; # $खर; # हेमन्तेपि सहाः प्रोक्तः शिशिरेपि तपाः स्मृतः । (खरो वेगसरेपि च ।) $मधु; # $शुचि; # मधुर्मतो वसन्तेपि शुचिर्ग्रीष्मेपि दृश्यते ॥ ७७९ ॥ $वामी; # $कारण; # अश्वायामपि वामी स्यात्कारणं करणेपि च । $प्रार्थित; # $भाग; # प्रार्थितं चाभियुक्तेपि भागो रूपार्धकेपि च ॥ ७८० ॥ अथाव्यया निबध्यन्ते श्लोकार्धेन सविस्तरम् । $प्रति; # प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ ७८१ ॥ $अति; #, प्रशंसायां प्रकर्षे च लङ्घने च भवेदति । $अपि; #,,,, गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ ७८२ ॥ $हि; #,, हिशब्दः स्याद्विशेषार्थे कारणार्थेवधारणे । $अस्तु; #,, ईर्ष्यायामभ्यनुज्ञाने पीडायामस्तु कथ्यते ॥ ७८३ ॥ $हन्त; #,,, हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोः । $बत; #,,, खेदानुकम्पाहर्षेषु विस्मये च स्मृतं बत ॥ ७८४ ॥ ;p{0069} $खलु; #,, निषेधे वाक्यभूषायां जिज्ञासादौ मतं खलु । $ऊरी; #, $उररी; #, विस्तारेङ्गीकृतावूरी निर्दिष्टमुररी तथा ॥ ७८५ ॥ $नाम; #,,,, प्राकाश्येङ्गीकृतौ कोपे नाम संभाव्यकुत्सयोः । $अलम्; #,, वारणे भूषणे शक्तौ विद्यादलमिति ध्वनिम् ॥ ७८६ ॥ $पुरा; #,,,, पुराणेऽनागतेऽतीते प्रबन्धे निकटे पुरा । $अभितस्; #,,,, कार्त्स्न्यशीघ्रोभयत्राग्रे समीपेष्वभितो मतम् ॥ ७८७ ॥ $ननु; #,,, प्रश्नावधारणानुज्ञानुनयेषु स्मृतं ननु । $इति; #,,, इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ ७८८ ॥ $पुरस्तात्; #,,, पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेग्रतः । $यावत्; #,,, $तावत्; #,,, यावत्तावत्परिच्छेदे कार्त्स्न्ये मानेवधारणे ॥ ७८९ ॥ $अथ; #,,,, $अतो; #,,,, मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । $च; #,, अन्योन्यार्थे समाहारे च स्यादन्वाचयादिषु ॥ ७९० ॥ $साम्प्रतम्; #, युक्तार्थमधुनार्थं च सांप्रतं संप्रयुज्यते । $अह; #, क्षेमार्थे विनियोगार्थमहशब्दं विदुर्बुधाः ॥ ७९१ ॥ $पूर्वेद्युस्; #, पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे(रः) । $अभीक्ष्ण; #, पुनः पुनरभीक्ष्णं स्यादभीक्ष्णमनिशं मतम् ॥ ७९२ ॥ $अन्तरेण; #, अन्तरेणपदं विद्याद्विनामध्यार्थवाचकम् । $आङ्(आ); #,, आङभिव्याप्तिमर्यादाकिंचिदर्थादिषु स्मृतम् ॥ ७९३ ॥ $स्वित्; #, श्लोकपादैरितो वक्ष्ये स्वित्स्यात्प्रश्नवितर्कयोः । $अमा; #, $वा; #, अमा सहार्थान्तिकयोर्वा विकल्पोपमानयोः ॥ ७९४ ॥ $स्वर्; #, $पुनर्; #, स्वः स्वर्गः स्वः परो लोको भेदाप्रथमयोः पुनः । $प्राक्; #, $आरात्; #, समीपदूरयोरारात्प्रभाते प्रागनन्तरे ॥ ७९५ ॥ $पश्चात्; #, $साक्षात्; #, प्रतीच्यां चरमे पश्चात्साक्षात्प्रत्यक्षतुल्ययोः । $एवम्; #,, $एव; #, प्रकारोपमयोरेवमेवोपम्येवधारणे ॥ ७९६ ॥ ;p{0070} $ई; #, $अहह; #, ई दुःखभावने कोपे खेदे स्यादहहाद्भुते । $आ; #, $तु; #, आशब्दः स्मरणे वाक्ये तु स्याद् भेदेवधारणे ॥ ७९७ ॥ $कु; #,, $धिक्; #, पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः । $शश्वत्; #, $सामि; #, पुनःसदार्थयोः शश्वत्सामि निन्दार्धयोर्मतम् ॥ ७९८ ॥ $नु; #, $अनु; #, नु स्यात्प्रश्ने वितर्कार्थे पश्चात्सादृश्ययोरनु । $उप; #, $किम्; #, उप हीनेधिके दृष्टं किंशब्दः प्रश्नकुत्सयोः ॥ ७९९ ॥ $हुम्; #, $नून; #, हुं वितर्के परिप्रश्ने नूनं निश्चिततर्कयोः । $समया; #, $मिथस्; #, अन्तिके समया मध्ये मिथोन्योन्यं मिथो रहः ॥ ८०० ॥ $निस्; #, $निर्; #, $वृथा; #, निर्निश्चये निषेधे च वन्ध्ये निष्कारणे वृथा । $किमुत; #, $उत; #, किमुतातिशये प्रश्न उत बाढविकल्पयोः ॥ ८०१ ॥ $स्वस्ति; #, $अधि; #, आशिषि स्वस्ति पुण्यादावीश्वराधिकयोरधि । $जोषम्; #, $कम्; #,, जोषं च तूष्णींसुखयोः कम् शिरःसुखवारिषु ॥ ८०२ ॥ $प्रादुस्; #, $किल; #, प्रकाश्ये संभवे प्रादुर्वार्त्तासंभाव्ययोः किल । $हा; #, $अञ्जसा; #, दुःखे शुचि विषादे हा तत्त्वतूर्णार्थमञ्जसा ॥ ८०३ ॥ $सकृत्; #, $आस्; #, $आः; #, सत्कृत्सहै(दै)कवारे च स्यादाः संतापकोपयोः । $तिरस्; #, $नाना; #, तिरोन्तर्धौ तिर्यगर्थे नानानेकोभयार्थकम् ॥ ८०४ ॥ अभिधनानि विविच्य ज्ञात्वा निखिलानि सुकविकाव्यानि । कृत्वा गुरुमभियोगं कोशोयं शाश्वतेन कृतः ॥ ८०५ ॥ श्रीमद्विद्याविलासस्य सभ्यैः श्रीखुडुलादिभिः । महाविदग्धैः कविभिर्विद्वद्भिश्च समीक्षितः ॥ ८०६ ॥ महाबलेन कविना वराहेण च धीमता । सह सम्यक्परामृश्य निर्मितोयं प्रयत्नतः ॥ ८०७ ॥ समाप्तोयमनेकार्थसमुच्चयः । कृतिरियं भट्टपुत्रशाश्वतस्य ॥