;METADATA ;title{अनेकार्थसङ्ग्रह} ;author{हेमचन्द्राचार्य} ;bookFullName{अनेकार्थसङ्ग्रहो नाम कोशः आचार्यश्रीहेमचन्द्रेण विरचितः ।} ;bookSeriesDetails{हरिदाससंस्कृतग्रन्थमालासमाख्य-काशीसंस्कृतसीरिजपुस्तकमालायाः ६८ कोशविभागे (२) द्वितीयं पुष्पम् ।} ;editor{श्रीपण्डितघनानन्दपाण्डेयेन पल्लवग्रामवासिना तथा श्रीपण्डितजनार्दनज्योतिर्विदा तारादत्तिना चीनाखनीवासिना च कूर्माचलपर्वतीयाभ्याम् उद्धृत्य संशोध्याऽकारादिसूच्या संवेष्ट्य मुद्रणायाऽर्पितः । श्रीमता पण्डितजगन्नाथशास्त्रिहोशिङ्गमहोदयेन साहित्योपाध्यायेन सम्पादितः} ;editorQualifications{साहित्योपाध्याय} ;publisher{जयकृष्णदास-हरिदासगुप्तः - चौखम्बा संस्कृत सीरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी ।} ;pressDetails{विद्याविलास प्रेस, गोपालमंदिर के उत्तरफाटक, बनारस सिटी ।} ;publicationYear{1985 V.S.} ;dataEntryBy{Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html} ;dataEntryEmail{} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The data available at Sansknet site is in custom font. The present attempt is to bring them to Unicode encoding.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ANSH} ;funding{} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Dr. Dhaval Patel for proof reading the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{The digitization seems to be based on two different publications. First part seems to be based on some other edition, maybe Abhidhanasangraha, Nirnayasagara edition. The second part seems to be based on the edition mentioned above. It is not clearly demarcated where this change occurs. The numberings are also not consistent with Nirnayasagara press edition. Therefore the page numbers have not been mentioned in the digitization. There is a misnumbering in trisvarakanda in printed edition which has led to some verse number anomalies. Verse number 208 is missing, and there are two verses having numbering of 235 in trisvarakanda. In digitization, the verse 208 is shown missing. But after verse 235, the numbers are carried till 410 and then there are two verses 410 to come up to the printed edition numbers from verse 410 onwards.} ;nymic{homo} ;pagenum{false} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{19 February 2019} ;version0.0.2{19 February 2019} ;version0.0.3{28 June 2019} ;version0.0.4{28 June 2019} ;version0.1.0{28 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;c{अनेकार्थसङ्ग्रहः} ;c{हेमचन्द्राचार्यविरचितः} ;preface{ ध्यात्वाऽर्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसङ्ग्रहम् ॥ १ ॥ अकारादिक्रमेणादावत्र कादिक्रमोऽन्ततः । उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥ २ ॥ यत्रैक एव रूढोऽर्थो यौगिकस्तत्र दर्शितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ ३ ॥ पदानां भङ्गतो योऽस्मिन्नेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ ४ ॥ } ;k{एकस्वरकाण्डः} को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले । कं शीर्षेऽप्सु सुखे खं स्वसंविदि व्योमनीन्द्रिये ॥ ५ ॥ शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ वज्रे भूमाविषौ गिरि ॥ ६ ॥ त्वग्वल्कले चर्मणि च न्यग्निम्ने नीचकार्त्स्नयोः । रुक् शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥ ७ ॥ जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च । ज्ञः स्याद्विचक्षणे पद्मासने चान्द्रमसायनौ ॥ ८ ॥ सद्विद्यमाने सत्ये प्रशस्तार्चितसाधुषु । भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥ ९ ॥ स्थाने च मः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि ॥ १० ॥ क्ष्मामौर्व्योर्द्युर्दिने वह्नौ द्यौस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ॥ ११ ॥ द्रूः कामरूपिणि स्वर्णे धूर्यानमुखभारयोः । पूः शरीरे च नगरे श्रीर्लक्ष्म्यां सरलद्रुमे ॥ १२ ॥ वेषोपकरणे वेषरचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्रूः स्रवे निर्झरेऽपि च ॥ १३ ॥ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने ॥ १४ ॥ दृग्दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः । तृट् तृष्णावत्तर्षवच्च भवेल्लिप्सापिपासयोः ॥ १५ ॥ त्विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि । भाः प्रभावे मयूखे च मास्तु मासे निशाकरे ॥ १६ ॥ ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रह एकस्वरकाण्डः प्रथमः ॥ १ ॥} ;k{द्विस्वरकाण्डः} ;v{द्विस्वरकान्ताः} अर्को द्रुभेदे स्फटिके ताम्रे सूर्ये बिडौजसि । अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १ ॥ चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः । एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः ॥ २ ॥ दम्भे पापिनि किट्टे च कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे ॥ ३ ॥ कर्केतनेऽग्नौ राशौ च काकः स्यात्पीठसर्पिणि । द्वीपमानद्रुभेदेषु शिरोवक्षालने द्विके ॥ ४ ॥ काकं काकसमूहे स्याद्रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः ॥ ५ ॥ काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि । किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ॥ ६ ॥ कोको वृके चक्रवाके खर्जूरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥ ७ ॥ टङ्को नीलकपित्थेऽसिकोशे कोपेऽश्मदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ ८ ॥ तर्को वितर्के काङ्क्षायामूहकर्मविशेषयोः । त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठाधरे त्रये ॥ ९ ॥ तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः । न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ॥ १० ॥ मुनिवल्मीकयोर्निष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ ११ ॥ पङ्कोऽघे कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीबकोटयोः ॥ १२ ॥ भूकश्छिद्रे काले भेको मेघमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्घे तस्करे मांसलाण्डयोः ॥ १३ ॥ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः । राका कच्छ्वां दृष्टरजःकन्यायां सरिदन्तरे ॥ १४ ॥ पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः । हीनेऽपि रोकं क्रयणभेदे नावि बिलेचरे ॥ १५ ॥ रोकोंऽशौ लङ्का तु शाखा शाकिनी कुलटा पुरी । लोको विश्वे जने वल्कं शकले त्वचि शल्कवत् ॥ १६ ॥ शको देशे राजभेदे शङ्का स्यात्संशये भये । शङ्कुः पत्त्रशिराजाले संख्याकीलकशंभुषु ॥ १७ ॥ यादोऽस्त्रभेदयोर्मेढ्रे शाको द्वीपे नृपे द्रुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ १८ ॥ रक्षोऽमात्ये शुकं ग्रन्थिपर्णेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ १९ ॥ शूकोऽनुक्रोशकिंशार्वोः शोकेऽभिषवशुङ्गयोः । शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ २० ॥ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे । सृका बाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः ॥ २१ ॥ ;c{इति द्विस्वरकान्ताः ।} ;v{द्विस्वरखान्ताः} नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः । न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये ॥ २२ ॥ पुङ्खः स्यान्मङ्गलाचारे शराङ्गश्येनयोरपि । प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ २३ ॥ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः । रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ २४ ॥ लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीङ्खा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ २५ ॥ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ २६ ॥ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखाघृणिष्वपि ॥ २७ ॥ सखा सहाये मित्त्रे च सुखं त्रिदिवशर्मणोः । सुखा प्रचेतसः पुर्याम् ;c{इति द्विस्वरखान्ताः ।} ;v{द्विस्वरगान्ताः} अगः स्यान्नगवत्तरौ ॥ २८ ॥ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥ २९ ॥ अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गितेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽर्कग्रहपक्षिषु ॥ ३० ॥ शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके । टङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ॥ ३१ ॥ दुर्गं पुनर्दुर्गमे स्याद्दुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्पे पुंनागे नागकेसरे ॥ ३२ ॥ क्रूराचारे नागदन्ते मस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ ३३ ॥ नागं रङ्गे सीसपत्त्रे स्त्रीबन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥ ३४ ॥ पिङ्गं बालके पिशङ्गे पूगः क्रमुकसंघयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ३५ ॥ भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥ ३६ ॥ भंगस्तरंगे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्योर्भंगा शणे भंगिः पुनः ॥ ३७ ॥ भक्तिवीच्योर्भागो रुपार्द्धके भाग्यैकदेशयोः । भृंगं त्वक्पत्रं भृंगास्तु खिड्गधूम्याटमार्कवाः ॥ ३८ ॥ षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः । शुक्रे रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ३९ ॥ धनेऽहिकायफणयोः पालनाऽभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि ॥ ४० ॥ मृगः कुरंगे याच्ञायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे ॥ ४१ ॥ युगं हस्तचतुष्के स्याद्रथाद्यंगे कृतादिके । वृद्धिनामौषधे युग्मे योगो विश्रब्धघातिनि ॥ ४२ ॥ अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु । वपुः स्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ ४३ ॥ विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्भुवोः रागे रङ्गं तु त्रपुणि रागः स्याल्लोहितादिषु ॥ ४४ ॥ गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । लङ्गः संगे च पिङ्गे च लिङ्गं मेहनचिह्नयोः ॥ ४५ ॥ शिवमूर्तावनुमाने सांख्योक्तविकृतावपि । वङ्गः कार्पासे वृन्ताके वङ्गा जनपादान्तरे ॥ ४६ ॥ वङ्गं त्रपुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके हीनाङ्गे च वेगो रयप्रवाहयोः ॥ ४७ ॥ रेतः किंपाकयोश्चापि शार्ङ्गं विष्णुधनुर्द्धनुः । शुङ्ग्याम्राते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः ॥ ४८ ॥ क्रीडाम्बुयन्त्रे शिखरे प्रभुत्वोत्कर्षसानुषु । शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः ॥ ४९ ॥ विषायामृषभौषध्यां सर्गस्त्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥ ५० ॥ ;c{इति द्विस्वरगान्ताः ।} ;v{द्विस्वरघान्ताः} अर्घः पूजाविधौ मूल्येऽर्घं दुःखे व्यसनैनसोः । उद्घो हस्तपुटे वह्नौ श्लाघायां देहजानिले ॥ ५१ ॥ ओघः प्रवाहः संघातो द्रुतनृत्तं परंपरा । उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥ ५२ ॥ मोघो दीने निष्फले च मोघा स्यात् पाटलातरौ । लघुः सृक्का लघ्वसारं ह्रस्वं चार्वगुरु द्रतम् ॥ ५३ ॥ श्लाघोपात्तीच्छयोः स्तोत्रे-- ;c{इति द्विस्वरघान्ताः ।} ;v{द्विस्वरचान्ताः} ऽर्चा पूजा प्रतिमाऽपि च । कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीष्पतेः ॥ ५४ ॥ कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काञ्ची गुञ्जामेखलयोः पुर्यां कूर्चो विकत्थने ॥ ५५ ॥ श्मश्रुणि दम्भे भ्रूमध्ये क्रौञ्चो द्वीपे खगे गिरौ । चर्चा स्याच्चर्ममुण्डायां चिन्तास्थासकयोरपि ॥ ५६ ॥ चंचुः पंचांङ्गुले त्रोट्यां नीचः पामरखर्वयोः । मोचा शाल्मलिकदल्योर्मोचः शिग्रौ रुचिर्द्युतौ ॥ ५७ ॥ स्पृहाऽभिष्वङ्गशोभासु वचः शुके वचौषधौ । शारिकायां वीच्याल्यूर्म्योरवकाशे सुखाल्पयोः ॥ ५८ ॥ शचीन्द्राणीशतावर्योः शुचिः शुद्धे सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि ॥ ५९ ॥ श्रृङ्गारे सूच्यभिनये व्यधने करणे स्त्रियाम् । ;c{इति द्विस्वरचान्ताः ।} ;v{द्विस्वरछान्ताः} अच्छो भल्लूके स्फटिकेऽमलेऽच्छाभिमुखेऽव्ययम् ॥ ६० ॥ कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे कच्छा स्यात् परिधानापराञ्चले ॥ ६१ ॥ चीर्यां वाराह्यां च गुच्छो गुच्छे हारकलापयोः । पिच्छः पुच्छे पिच्छं वाजे पिच्छा शाल्मलिवेष्टके ॥ ६२ ॥ पङ्क्तिः पूगच्छटाकोशमण्डेष्वश्वपदामये । मोचायां पिच्छिले म्लेच्छो जातिभेदेऽपभाषणे ॥ ६३ ॥ ;c{इति द्विस्वरछान्ताः ।} ;v{द्विस्वरजान्ताः} अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे । अब्जो धन्वन्तरौ चन्द्रे शङ्खेऽब्जं पद्मसंख्ययोः ॥ ६४ ॥ आजिः क्षणे समक्ष्मायां युध्यूर्जः कार्तिके बले । कञ्जो वेधसि केशे च कञ्जं पीयूषपद्मयोः ॥ ६५ ॥ कुञ्जो हनो दन्तिदन्ते निकुञ्जे च कुजो द्रुमे । आरे नरकदैत्ये च कुब्जो न्युब्जद्रुभेदयोः ॥ ६६ ॥ खजा दर्वीमथोः खर्जूः खर्जूरीकीटकण्डुषु । गञ्जो भाण्डागारे रीढाखन्योर्गञ्जा सुरागृहे ॥ ६७ ॥ गुञ्जा तु कृष्णलायां स्यात् पटहे मधुरध्वनौ । द्विजो विप्रक्षत्रिययोर्वैश्ये दन्ते विहंगमे ॥ ६८ ॥ द्विजा भार्गीरेणुकयोर्ध्वजः पूर्वदिशो गृहे । शिश्ने चिह्ने पताकायां खट्वांगे शौण्डिकेऽपि च ॥ ६९ ॥ निजो नित्ये स्वकीये च न्युब्जः कुशे स्त्रुचि । अधोमुखेऽपि च न्युब्जं कर्मरङ्गतरोः फले ॥ ७० ॥ प्रजा लोके संततौ च पिंजा तूलहरिद्रयोः । पिंजो व्यग्रे वधे पिंजं बले बीजं तु रेतसि ॥ ७१ ॥ स्यादाधाने च तत्त्वे च हेतावङ्कुरकारणे । भुजो बाहौ करे मर्जूः शिद्धौ च रजकेऽपि च ॥ ७२ ॥ राजी रेखायां पंक्तौ च रुजा त्वामयभङ्गयोः । लञ्जः पट्टे च कच्छे च लाजः स्यादार्द्रतण्डुले ॥ ७३ ॥ लाजास्तु भृष्टधानाः स्युर्लाजं पुनरुशीरके । व्रजोऽध्वगोष्ठसंघेषु वणिग् वाणिज्यजीविनि ॥ ७४ ॥ वाणिज्ये करणभेदे वाजं सर्पिषि वारिणि । यज्ञान्ने वाजस्तु पक्षे मुनौ निस्वनवेगयोः ॥ ७५ ॥ व्याजः शाठ्येऽपदेशे च सज्जौ संनद्धसंभृतौ । संजौ ब्रह्मशिवौ ;c{इति द्विस्वरजान्ताः ।} ;v{द्विस्वरञान्ताः} प्रज्ञः प्राज्ञे प्रज्ञा तु शेमुषी ॥ ७६ ॥ यज्ञः स्यादात्मनि मखे नारायणहुताशयोः । संज्ञा नामनि गायत्र्यां हस्ताद्यैरर्थसूचने ॥ ७७ ॥ चेतनाऽर्कस्त्रियोः ;c{इति द्विस्वरञान्ताः ।} ;v{द्विस्वरटान्ताः} अट्टो हट्टाऽट्टालकयोर्भृशे । चतुष्कभक्तयोरिष्टमीप्सिते क्रतुकर्मणि ॥ ७८ ॥ पूज्ये प्रेयसि संस्कारे योगेऽथेष्टिर्मखेच्छयोः । संग्रहश्लोकेऽथ कटो गजगण्डे कटौ भृशे ॥ ७९ ॥ शवे शवरथौषध्योः क्रियाकारश्मशानयोः । किलिञ्जे समये चापि कष्टं गहनकृच्छ्रयोः ॥ ८० ॥ कट्वकार्ये मत्सरे च दूषणे च कटू रसे । तिक्ते प्रियङ्गुसुरभिकटुकाराजिकास्वपि ॥ ८१ ॥ कुटः कोटे शिलाकुट्टे घटे गेहे कुटी मुरा । चित्रगुच्छः कुम्भदासी कूटं पूर्द्वारयन्त्रयोः ॥ ८२ ॥ मायादम्भाद्रिशृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ कृष्टिः कर्षणधीमतोः ॥ ८३ ॥ कोट्युत्कर्षाटनीसंख्यास्रिषु खटस्तृणे कफे । टङ्केऽन्धकूपे प्रहारे खाटिः शवरथे किणे ॥ ८४ ॥ एकग्रहेऽथ खेटः स्याद्ग्रामभेदे कफेऽधमे । स्फरे मृगव्ये गृष्टिस्तु सकृत्सूतगवी भवेत् ॥ ८५ ॥ वराहक्रान्ता च घटा घटने गजसंहतौ । गोष्ठ्यां घटस्त्विभशिरः कूटे समाधिकुम्भयोः ॥ ८६ ॥ घृष्टिः स्पर्धाघर्षणयोर्विष्णुक्रान्तावराहयोः । घोण्टा पूगबदरयोश्चटुश्चाटुपिचण्डयोः ॥ ८७ ॥ व्रत्यासने जटा केशविकारे मांसिमूलयोः । झाटो व्रणादिसंमार्ष्टौ कुञ्जकान्तारयोरपि ॥ ८८ ॥ त्वष्टाऽर्के विश्वकृत्तक्ष्णोस्त्रुटिः संशयलेशयोः । सूक्ष्मैलायां कालमाने त्रोटिचञ्च्वां खगान्तरे ॥ ८९ ॥ मीनकज्जुलयोर्दिष्टं दैवे दिष्टस्त्वनेहसि । दिष्टिरानन्दे माने च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ९० ॥ पट्टश्चतुष्पथे पीठे राजादेः शासनान्तरे । व्रणादिबन्धने पेषाश्मनि पट्टी ललाटिका ॥ ९१ ॥ रोध्रेऽथ पटु लवणे पटुस्तीक्ष्णपटोलयोः । स्फुटे रोगविहीने च छत्रायां चतुरेऽपि च ॥ ९२ ॥ पुष्टिः स्यात् पोषणे वृद्धौ फटा तु कैतवे फणे । भटो वीरे म्लेच्छभेदेऽपि च भृष्टिस्तु भर्जने ॥ ९३ ॥ शून्यवाट्यामथ म्लिष्टं म्लानमस्पष्टभाषितम् । यष्टिर्भार्ग्यां मधुयष्ट्यां ध्वजदण्डेऽस्त्रहारयोः ॥ ९४ ॥ रिष्टं क्षेमेऽशुभे रिष्टोऽसौ लाटो वस्त्रदेशयोः । वटो गोले गुणे भक्ष्ये वृक्षे साम्यवराटयोः ॥ ९५ ॥ वाटः पथि वृतौ वाटं वरण्डेऽङ्गान्नभेदयोः । वाटी वास्तौ गृहोद्यानेत्कट्योर्विटस्तु मूषिके ॥ ९६ ॥ खदिरे लवणे षिड्गेऽद्रौ च व्युष्टं फले दिने । पर्युषिते प्रभाते च व्युष्टिः स्तुतिफलर्द्धिषु ॥ ९७ ॥ विष्टिः कर्मकरे मूल्ये भद्राजूप्रेषणेषु च । सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः ॥ ९८ ॥ सिते व्याप्ते स्फुटिस्त्वङ्घ्रिस्फोटे निर्भिन्नचिर्भटे । सृष्टिः स्वभावे निर्माणे सृष्टं निश्चितयुक्तयोः ॥ ९९ ॥ प्रचुरे निर्मिते चाथ हृष्टः स्यात् केशरोमसु । जातहर्षे प्रतिहते विस्मिते हृषितो यथा ॥ १०० ॥ ;c{इति द्विस्वरटान्ताः ।} ;v{द्विस्वरठान्ताः} कठो मुनौ स्वर ऋचां भेदे तत्पाठिवेदिनोः । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनद्रुमे ॥ १०१ ॥ काष्ठं दारुणि काष्ठा तु प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि ॥ १०२ ॥ कुण्ठोऽकर्मण्ये मूर्खे च कुष्ठं भेषजरोगयोः । कोष्ठो निजे कुसूले च कुक्षेरन्तर्गृहस्य च ॥ १०३ ॥ गोष्ठं गोस्थानके गोष्ठी संलापे परिषद्यपि । ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः ॥ १०४ ॥ ज्येष्ठा भे गृहगोधायां निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते ॥ १०५ ॥ पृष्ठं पश्चिममात्रे स्याच्छरीरावयवान्तरे । वण्ठः कुण्ठायुधे खर्वे भृत्याकृतविवाहयोः ॥ १०६ ॥ शठो मध्यस्थपुरुषे धूर्ते धत्तूरकेऽपि च । श्रेष्ठोऽग्र्ये धनदे षष्ठी गौरी षण्णां च पूरणी ॥ १०७ ॥ हठोऽम्बुपर्ण्यां प्रसभेऽण्डं पेशीकेशमुष्कयोः । ;c{इति द्विस्वरठान्ताः ।} ;v{द्विस्वरडान्ताः} इडेलावत् स्वर्गनाडीभूवाग्गोषु बुधस्त्रियाम् ॥ १०८ ॥ काण्डो नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सहः श्लाघाम्बुषु स्तम्बे क्रीडा केल्यामनादरे ॥ १०९ ॥ कुण्डी कमण्डलौ कुण्डो जाराज्जीवत्पतेः सुते । देवतोयाशये स्थाल्यां क्ष्वेडः कर्णामये ध्वनौ ॥ ११० ॥ विषे वक्रे क्ष्वेडा सिंहनादवंशशलाकयोः । क्ष्वेडं लोहितार्कफले घोषपुष्पे दुरासदे ॥ १११ ॥ क्रोडः कोले शनौ क्रोडमङ्के खण्डोऽर्द्ध ऐक्षवे । मणिदोषे च गण्डस्तु वीरे पिटकचिह्नयोः ॥ ११२ ॥ कपोले गण्डके योगे वाजिभूषणबुद्वुदे । गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ ११३ ॥ गुडः कुञ्जरसंनाहे गोलकेक्षुविकारयोः । गुडा तु गुडिकास्नुह्योर्गोण्डः स्याद्वृद्धनाभिके ॥ ११४ ॥ पामरजातौ चण्डस्तु यमदासेऽतिकोपने । तीव्रे दैत्यविशेषे च चण्डी तु शिवयोषिति ॥ ११५ ॥ चण्डा धनहरीशङ्खपुष्प्योश्चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च चोडः कञ्चुकदेशयोः ॥ ११६ ॥ जडो मूर्खे हिमाघ्राते जडा स्याच्छूकशिम्बिका । ताडोऽद्रौ ताडने घोषे मुष्टिमेयतृणादिके ॥ ११७ ॥ ताडी तालीदलतरौ दण्डः सैन्ये दमे यमे । मानव्यूहग्रहभेदेष्वश्वेऽर्कानुचरे मथि ॥ ११८ ॥ प्रकाण्डे लगुडे कोणे चतुर्थोपायगर्वयोः । नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः ॥ ११९ ॥ नाले गुणान्तरे स्नायौ नीडं स्थाने खगालये । पण्डः षण्ढे पण्डा बुद्धौ पाण्डुः कुन्तीपतौ सिते ॥ १२० ॥ पिण्डो वृन्दे जपापुष्पे गोलबोलेऽङ्गसिह्लयोः । कवले पिण्डं तु वेश्मैकगेशे जीवनायसोः ॥ १२१ ॥ बले सान्द्रे पिण्ड्यलाबूखर्जूर्योस्तगरेऽपि च । पीडार्तिमर्दनोत्तंसकृपासु सरलद्रुमे ॥ १२२ ॥ भाण्डं मूलवणिग्वित्ते तुरङ्गाणां च मण्डने । नदीकूलद्वयीमध्ये भूषणे भाजनेऽपि च ॥ १२३ ॥ मण्डो मस्तुनि भूषायामेरण्डे सारपिच्छयोः । शाके मण्डा चामलक्यां मुण्डो मण्डितशीर्षयोः ॥ १२४ ॥ राहौ दैत्यान्तरे रण्डा त्वाखुकर्णी मृतप्रिया । व्याडो हिंस्रपशौ सर्पे शुण्डा करिकरः सुरा ॥ १२५ ॥ जलेभी नलिनी वारस्त्री शुण्डो मदनिर्भरे । शौण्डी चविकपिप्पल्योः शौण्डो विख्यातमत्तयोः ॥ १२६ ॥ षडः पेयान्तरे भेदे षण्डः कानन इड्वरे । ;c{इति द्विस्वरडान्ताः ।} ;v{द्विस्वरढान्ताः} गूढं रहःसंवृतयोर्दाढा दंष्ट्राभिलाषयोः ॥ १२७ ॥ दृढः शक्ते भृशे स्थूले बाढं भृशप्रतिज्ञयोः । माढिर्दैन्यं पत्रसिरार्चा मूढस्तन्द्रिते जडे ॥ १२८ ॥ राढा सुह्मेषु शोभायां व्यूढा न्यस्तोरुसंहताः । वोढा स्याद्भारिके सूते शण्ढषण्ढौ तु सौविदे ॥ १२९ ॥ वन्ध्यपुंसीड्वरे क्लीबे सोढा मर्षणशक्तयोः । ;c{इति द्विस्वरढान्ताः ।} ;v{द्विस्वरणान्ताः} अणिराणिवदश्रौ स्यात्सीमन्यक्षाग्रकीलके ॥ १३० ॥ अणुर्व्रीह्यल्पयोरुष्णा ग्रीष्मदक्षातपाऽहिमाः । ऊर्णा भ्रूमध्यगावर्ते मेषादीनां च लोमनि ॥ १३१ ॥ ऋणं देये जलदुर्गे कणो घान्यांशलेशयोः । कणा जीरकपिप्पल्योः कर्णश्चम्पापतौ श्रुतौ ॥ १३२ ॥ क्षणः कालविशेषे स्यात् पर्वण्यवसरे महे । व्यापारविकलत्वे च परतन्त्रत्वमध्ययोः ॥ १३३ ॥ कीर्णः क्षिप्ते हते छन्ने कुणिः कुकरवृक्षयोः । कृष्णः काके पिके वर्णे विष्णौ व्यासेऽर्जुने कलौ ॥ १३४ ॥ कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि । कृष्णां तु मरिचे लोहे कोणो वीणादिवादने ॥ १३५ ॥ लगुडेऽश्रौ लोहिताङ्गे गणः प्रथमसंख्ययोः । समूहे सैन्यभेदेऽथ गुणो ज्यासूदतन्तुषु ॥ १३६ ॥ रज्जौ सत्त्वादौ संध्यादौ शौर्यादौ भीम इन्द्रिये । रुपादावप्रधाने च दोषान्यस्मिन् विशेषणे ॥ १३७ ॥ गेष्णो नटे गायने च घ्राणं तु घ्रातघोणयोः । घृणा तु जुगुप्सायां करुणायां घृणिः पुनः ॥ १३८ ॥ अंशुज्वालातरङ्गेषु चूर्णानि वासयुक्तिषु । चूर्णं क्षोदे क्षारभेदे जर्णो जीर्णद्रुमेन्दुषु ॥ १३९ ॥ जिष्णुः शक्रेऽर्जुने विष्णौ जित्वरेऽर्के वसुष्वपि । झूर्णिः क्रमुकभेदे स्याद्दुष्टदैवश्रुतावपि ॥ १४० ॥ त्राणं त्राते रक्षणे च त्रायमाणौषधावपि । तीक्ष्णं समुद्रलवणे विषायोऽमरकाजिषु ॥ १४१ ॥ आत्मत्यागिनि तिग्मे च तूणी नीलीनिषङ्गयोः । द्रुणः स्याद्वृश्चिके भृङ्गे द्रुणं चापकृपाणयोः ॥ १४२ ॥ द्रुणी कूर्म्यां जलद्रोण्यां देष्णो दातरि दुर्दमे । द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति ॥ १४३ ॥ नौभेदे शैलसंधौ च पणः कार्षापणे ग्लहे । विक्रय्यशाकादिबद्धमुष्टौ मूल्ये भृतौ धने ॥ १४४ ॥ व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पर्णस्त्रिपत्रे पर्णं तु पत्त्रे प्राणोऽनिले बले ॥ १४५ ॥ हृद्वायौ पूरिते गन्धरसे प्राणास्तु जीविते । पार्ष्णिः कुम्भ्यां चमूपृष्टे पादमूलोन्मदस्त्रियोः ॥ १४६ ॥ पूर्णः कृत्त्स्ने पूरिते च फाणिर्गुडकरम्बयोः । बाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥ १४७ ॥ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्त्रैणगर्भे च मणिस्त्वजागलस्तने ॥ १४८ ॥ मेढ्राग्रेऽलिञ्जरे रत्ने मोणः सर्पकरण्डके । वाने नक्रमक्षिकायां रणः कोणे क्वणे युधि ॥ १४९ ॥ रेणुर्धूल्यां पर्पटके वर्णः स्वर्णे व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ १५० ॥ भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्णं तु कुङ्कुमे वाणिरम्बुदे ॥ १५१ ॥ व्यूतौ मूल्ये सरस्वत्यां वीणा स्याद्वल्लकी तडित् । वृष्णिर्मेषे यादवे च वेणी सेतुप्रवाहयोः ॥ १५२ ॥ देवताडे केशबन्धे वेणुर्वंशे नृपान्तरे । शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ १५३ ॥ शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे । स्थाणुः कीले हरे स्थूणा सूर्म्यां स्तम्भे रुगन्तरे ॥ १५४ ॥ ;c{इति द्विस्वरणान्ताः ।} ;v{द्विस्वरतान्ताः} अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यर्थार्हन् स्यात् पूज्ये तीर्थकरेऽपि च ॥ १५५ ॥ अस्तः क्षिप्ते पश्चिमाद्रावर्तिस्त्वटनिपीडयोः । आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः ॥ १५६ ॥ ईतिरजन्ये प्रवासे स्यादूतिः स्यूतिरक्षयोः । ऋतं शिलोञ्छे पानीये पूजिते दीप्तसत्ययोः ॥ १५७ ॥ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः । स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥ १५८ ॥ क्षत्ता शूद्रात्क्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासजे द्वाःस्थे कन्तुः कामकुसूलयोः ॥ १५९ ॥ कान्तो रम्ये प्रिये ग्राव्णि कान्ता प्रियङ्गुयोषितोः । कान्तिः शोभाकामनयोः क्षितिर्गेहे भुवि क्षये ॥ १६० ॥ कीर्तिर्यशसि विस्तारे प्रासादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोर्विहिते हिंसिते फले ॥ १६१ ॥ कृत्तं छिन्ने वेष्टिते च केतुर्द्युतिपताकयोः । ग्रहोत्पातारिचिह्नेषु गर्तोऽवटे ककुन्दरे ॥ १६२ ॥ त्रिगर्तांशेऽप्यथ ग्रस्तं जग्धे लुप्तपदोदिते । गतिर्वहद्व्रणे ज्ञाने यात्रोपायदशाध्वसु ॥ १६३ ॥ गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः । गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥ १६४ ॥ कारायां घृतमाज्याम्बुदीप्तेष्वथ चिताचिती । मृतार्थदारुषु चये जगल्लोकेऽङ्गवायुषु ॥ १६५ ॥ जातं जात्योऽघजनिषु जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुल्ल्यां काम्पिल्यजन्मनोः ॥ १६६ ॥ जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाद्ये स्यात्ततो व्याप्तेऽनिले पृथौ ॥ १६७ ॥ तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभौ रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १६८ ॥ त्रेता युगेऽग्नित्रये च दन्तो दशनसानुनोः । दन्त्यौषध्यामथ दितिर्दैत्यमातरि खण्डने ॥ १६९ ॥ दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥ १७० ॥ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥ १७१ ॥ धुतं त्यक्ते कम्पिते च धूतौ कम्पितभर्त्सितौ । धूर्तं तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥ १७२ ॥ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १७३ ॥ नीतिर्नये प्रापणे च पक्तिर्गौरवपाकयोः । पङ्क्तिछन्दःश्रेण्योः सेनाभित्पद्गयोर्गतौ ॥ १७४ ॥ प्राप्तिर्महोदये लाभे पित्सन् पिपतिषन् यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १७५ ॥ पीता हरिद्रा पीतिः पानेऽश्वे प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि ॥ १७६ ॥ पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके । पूर्तं पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ १७७ ॥ बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतो गुम्फितवाससोः ॥ १७८ ॥ भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्त्योर्भङ्ग्यां श्रद्धाविभागयोः ॥ १७९ ॥ भास्वान् दीप्रे रवौ भ्रान्तिर्मिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः ॥ १८० ॥ प्राप्तेऽतीते पिशाचादौ पृथ्व्यादौ जन्तुयुक्तयोः । भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥ १८१ ॥ मांसपाकविरोषे च संपदुत्पादयोरपि । भृतिर्मूल्यभरणयोर्मतं तु संमतेऽर्चिते ॥ १८२ ॥ महद्बृहति धीतत्वे राज्ये मरुत्सुरेऽनिले । मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही ॥ १८३ ॥ मातरस्तु ब्रह्माण्याद्यया मितिरैयत्यमानयोः । मुक्ता मौतिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः ॥ १८४ ॥ मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृत्यौ याचिते च यन्ता सूते निषादिनि ॥ १८५ ॥ यतिर्निकारे विरतौ भिक्षौ युतोऽन्विते पृथक् । युक्तिर्न्याये योजने च रक्तं नील्यादिरञ्जिते ॥ १८६ ॥ कुङ्कुमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥ १८७ ॥ वैदर्भ्यादौ लोहकिट्टे सीमनि स्रवणे गतौ । लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ॥ १८८ ॥ स्पृक्कामाधव्योः कस्तूर्यां लिप्तं भुक्तविलिप्तयोः । विषाक्ते लूता तु रोगे पिपीलकोर्णनाभयोः ॥ १८९ ॥ वर्तिर्गात्रानुलेपिन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ १९० ॥ व्यक्तो मनीषिस्फुटयोर्वार्त्ता वार्त्ताक्युदन्तयोः । कृष्यादौ वर्तने वार्त्तं त्वारोग्यारोगफल्गुषु ॥ १९१ ॥ वृत्तिशालिन्यथ व्याप्तिर्व्यापने लम्भनेऽपि च । वास्तु स्याद्गृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ १९२ ॥ वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचरे च वीतमङ्कुशकर्मणि ॥ १९३ ॥ असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ १९४ ॥ चरित्रे वर्तुले छन्दस्यतीताधीतयोर्वृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु वर्तने ॥ १९५ ॥ कैशिक्यादौ विवरणे वृतिर्वरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ १९६ ॥ शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे । शास्ता जिने शासके च शान्तिर्भद्रे शमेऽर्हति ॥ १९७ ॥ शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जे सितेऽसिते । श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि ॥ १९८ ॥ शीतो हिमे च जिह्मे च वानीरबहुवारयोः । शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे ॥ १९९ ॥ शुक्तिः शङ्खनके शङ्खे कपालखण्डदृग्रुजोः । नख्यश्चावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥ २०० ॥ श्रुतमाकर्णिते शास्त्रे श्रुतिराम्नायवार्तयोः । षड्जाद्यारम्भिकायां च कर्णाकर्णनयोरपि ॥ २०१ ॥ श्वेतं रुप्ये श्वेतो द्वीपे वर्णे शैले कपर्दके । श्वेता तु शङ्खिनीकाष्ठपाटल्योः स्यात् सती पुनः ॥ २०२ ॥ कात्यायन्यां च साध्व्यां च सातिर्दानावसानयोः । सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा ॥ २०३ ॥ स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीम्नि च । सीता जनकजागङ्गाभेदयोर्हलपद्धतौ ॥ २०४ ॥ सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि । सूतः पारदसारथ्योः प्रसूतेरितबन्दिषु ॥ २०५ ॥ ब्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि । स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥ २०६ ॥ नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः । केशात्कलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २०७ ॥ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिर्ज्वालास्त्रसूर्यांशुषु ;c{इति द्विस्वरतान्ताः ।} ;v{द्विस्वरथान्ताः} अर्थो हेतौ प्रयोजने ॥ २०८ ॥ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु । आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २०९ ॥ कन्था पुरे प्रावरणे क्वाथो व्यसनदुःखयोः । द्रवनिष्पापकेऽथ कुथः स्यादास्तरणदर्भयोः ॥ २१० ॥ कोथस्तु मथने नेत्ररुग्भेदे शटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मिर्तौ ॥ २११ ॥ ग्रन्थिर्वस्त्रादिबन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥ २१२ ॥ तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्त्रिण्युपाये स्त्रीरजस्यपि ॥ २१३ ॥ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने । तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयोः ॥ २१४ ॥ प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि । पृथुर्विशाले भूपाले वापिकाकृष्णजीरयोः ॥ २१५ ॥ प्रोथोऽश्वघोणाध्वगयोः कट्यां मन्थो रवौ मथि । साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥ २१६ ॥ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके । रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥ २१७ ॥ वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरुपके । संस्था स्पशे स्थितौ मृत्यौ सार्थो वृन्दे वणिग्गणे ॥ २१८ ॥ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुलाकके । ;c{इति द्विस्वरथान्ताः ।} ;v{द्विस्वरदान्ताः} अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥ २१९ ॥ अन्दुः स्यान्निगडे भूषाभेदे ककुदवत् ककुत् । श्रेष्ठे वृषाङ्गे राट्चिह्ने क्रव्यान्मांसाशिरक्षसोः ॥ २२० ॥ कन्दोऽब्दे सूरणे सस्यमूले कुन्दोऽच्युते निधौ । चक्रभूमौ च माघ्ये च क्षोदः पेषणचूर्णयोः ॥ २२१ ॥ गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे । छदः पत्रे पतत्त्रे च ग्रन्थिपर्णतमालयोः ॥ २२२ ॥ छन्दो वशेऽभिप्राये च दृषत् पाषाणमात्रके । निष्पेषणार्थपट्टेऽपि धीदा कन्यामनीषयोः ॥ २२३ ॥ नदो वहेऽब्धौ निनदे नन्दा संपद्यलिञ्जरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २२४ ॥ आनन्दने च द्यूते च निन्दा कुत्सापवादयोः । पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्कवस्तुनोः ॥ २२५ ॥ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः । पादो मूलोस्त्रतुर्यांशाङ्ध्रिषु प्रत्यन्तपर्वते ॥ २२६ ॥ भन्दं कल्याणे सौख्ये च भसद्भास्वरमांसयोः । भेदो विदारणे द्वैधे उपजापविशेषयोः ॥ २२७ ॥ मदो रेतस्यहंकारे मद्ये हर्षेभदानयोः । कस्तूरिकायां क्षेब्ये च मदी कृषकवस्तुनि ॥ २२८ ॥ मन्दो मूढे शनौ रोगिण्यलसे भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥ २२९ ॥ मृद्वतीक्ष्णे कोमले च रदो दन्ते विलेखने । विदा ज्ञानधियोर्बिन्दुविप्रुट्ज्ञात्रो रदक्षते ॥ २३० ॥ वेदिरङ्गुलिमुद्रायां बुधेऽलंकृतभूतले । शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ॥ २३१ ॥ शरद्वर्षात्यये वर्षे शादः कर्दमशष्पयोः । संवित्संभाषणे ज्ञाने संग्रामे नाम्नि तोषणे ॥ २३२ ॥ क्रियाकारे प्रतिज्ञायां संकेताचारयोरपि । संपदृद्धौ गुणोत्कर्षे हारे स्वादुस्तु सुन्दरे ॥ २३३ ॥ मृष्टे सूदः सूपकारे व्यञ्जनेऽपि च सूपवत् । स्वेदो घर्मे स्वेदने च ;c{इति द्विस्वरदान्ताः ।} ;v{द्विस्वरधान्ताः} अन्धोऽन्धकारेऽक्षिवर्जिते ॥ २३४ ॥ अर्धः खण्डेऽर्धं समांशेऽथाब्धिः सरसि सागरे । आधिर्मनोर्त्तौ व्यसनेऽधिष्ठाने बन्धकाशयोः ॥ २३५ ॥ ऋद्धं समृद्धे सिद्धान्ने गन्धः संबन्धलेशयोः । गन्धकामोदगर्वेषु गाधः स्यात्स्ताघलिप्सयोः ॥ २३६ ॥ गोधा प्राणिविशेषे स्याज्ज्याघातस्य च वारणे । दिग्धो लिप्ते विषाक्तेषौ प्रवृद्धस्नेहयोरपि ॥ २३७ ॥ दुग्धं क्षीरे पूरिते च दोग्धा गोपालवत्सयोः । अर्थोपजीवककवौ बन्ध आधौ च बन्धने ॥ २३८ ॥ बन्धुर्भ्रातृबान्धवयोर्बाधा दुःखनिषेधयोः । बुधः सौम्ये कवौ बुद्धः पण्डिते बुधिते जिने ॥ २३९ ॥ बोधिर्बौद्धसमाधौ चार्हद्धर्माप्तौ च पिप्पले । मधुश्चैत्रर्तुदैत्येषु जीवाशाकमधूकयोः ॥ २४० ॥ मधु क्षीरे जले मद्ये क्षौद्रे पुष्परसेऽपि च । मिद्धं चिन्ताभिसंक्षेपे निद्रालसतयोरपि ॥ २४१ ॥ मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी । राधो वैशाखमासे स्याद् राधा विद्युद्विशाखयोः ॥ २४२ ॥ विष्णुक्रान्तामलक्योः गोपीवेध्यविशेषयोः । लुब्ध आकाङ्क्षिणि व्याधे वधो हिंसकहिंसयोः ॥ २४३ ॥ वधूः पत्न्यां स्नुषानार्योः स्पृक्काशारिवयोरपि । नवपरिणीतायां च व्याधो मृगयुदुष्टयोः ॥ २४४ ॥ विद्धं सदृग्वेधितयोः क्षिप्ते विधर्द्धिमूल्ययोः । प्रकारे भान्नविधिशु विधिर्ब्रह्मविधानयोः ॥ २४५ ॥ विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रेऽच्युते वीरुल्लतायां विटपेऽपि च ॥ २४६ ॥ वृद्धः प्राज्ञे स्थविरे च वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे वर्धने भेषजान्तरे ॥ २४७ ॥ श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च शुद्धः केवलपूतयोः ॥ २४८ ॥ स्कन्धः प्रकाण्डे कायेंऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च सन्धा स्थितिप्रतिज्ञयोः ॥ २४९ ॥ सन्धिर्योनौ सुरगायां नाट्याऽश्लेषभेदयोः । साधुर्जैनमुनौ वार्धुषिके सज्जनरम्ययोः ॥ २५० ॥ सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्धे सिद्धिस्तु मोक्षे निष्पत्तियोगयोः ॥ २५१ ॥ सिन्धुर्नद्यां गजमदेऽब्धौ देशनदभेदयोः । सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च ॥ २५२ ॥ ;c{इति द्विस्वरधान्ताः ।} ;v{द्विस्वरनान्ताः} अन्नं भक्तेऽशितेऽर्वाश्वेऽधमेऽध्वा कालवर्त्मनोः । संस्थाने सास्रवस्कन्धेऽर्थिनौ याचकसेवकौ ॥ २५३ ॥ आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ॥ २५४ ॥ स्वभावेऽथेन ईशेऽर्केऽथोऽन्नं क्लिन्ने दयापरे । ऊष्माणस्तु निदाघोष्णग्रीष्माः शषसहा अपि ॥ २५५ ॥ कर्म कारकभेदे स्यात्क्रियायां च शुभाशुभे । कामी स्यात्कमने चक्रवाके पारावतेऽपि च ॥ २५६ ॥ कृती योग्ये बुधे खड्गी गण्डके खड्गधारिणि । ग्रावाश्मनि गिरौ गोमी फेरौ गोमत्युपासके ॥ २५७ ॥ घनः सान्द्रे दृढे दार्ढ्ये विस्तारे मुद्गरेऽम्बुदे । सङ्घे मुस्ते घनं मध्यनृत्तवाद्यप्रकारयोः ॥ २५८ ॥ चर्म त्वचि स्फरे चर्मी भूर्जे फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥ २५९ ॥ चिह्नमङ्के पताकायां चीनो देशैणतन्तुषु । व्रीहौ वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि ॥ २६० ॥ छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने ॥ २६१ ॥ जनी स्नुषावनितयोर्जिनोऽर्हद्बुद्धविष्णुषु । ज्योत्स्ना स्याज्ज्योतिःसंयुक्तनिशि चन्द्रातपेऽपि च ॥ २६२ ॥ ज्यौत्स्नी पटोली ज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयोः ॥ २६३ ॥ दानं मतं गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ २६४ ॥ धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः । धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः ॥ २६५ ॥ धनुःशब्दः पियालद्रौ राशिभेदे धनुष्यपि । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ॥ २६६ ॥ धाना भृष्टयवेऽङ्कुरे धान्याके चूर्णसक्तुषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २६७ ॥ मागधे क्षपणके च नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे न्यूनं हीनवच्चोनगर्ह्ययोः ॥ २६८ ॥ पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्सन्धौ च तिथिग्रन्थविशेषयोः ॥ २६९ ॥ पक्ष्माऽक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्त्री काण्डे खगे द्रुमे ॥ २७० ॥ रथेऽद्रौ रथिके श्येने प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २७१ ॥ ऋत्विग्योगभिदोश्चाथ बुध्नो गिरिशमूलयोः । भर्म भारे भृतौ हेम्नि भानिरंशौ रवौ दिने ॥ २७२ ॥ भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजङ्गमे । वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च ॥ २७३ ॥ मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे । मीनो मन्स्ये राशिभेदे मृत्स्ना तुवर्यपि ॥ २७४ ॥ यानं युग्ये गतौ योनिः कारणे भगताम्रयोः । रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे ॥ २७५ ॥ निशाकरे प्रभौ शक्रे यक्षक्षत्रिययोरपि । रास्नैलापर्णी सर्पाक्ष्योः रागी कामिनि रङ्क्तरि ॥ २७६ ॥ रोही रोहीतकेऽश्वत्थे वटे लग्नं तु लज्जिते । राशीनामुदये सक्ते लक्ष्म प्रधानचिन्हह्नयोः ॥ २७७ ॥ वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने । वस्नं वस्त्रे धने मूल्ये भृतौ वर्ष्म पुनस्तनौ ॥ २७८ ॥ प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि । वर्णी पुनश्चित्रकरे लेखके ब्रह्मचारिणि ॥ २७९ ॥ वानं शुष्कफले शुष्के सीवने गमने कटे । जलसंप्लुतवातोर्मिसुरङ्गासौरभेषु च ॥ २८० ॥ वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे । विन्नं विचारिते लब्धे स्थिते वृषा तु वासवे ॥ २८१ ॥ वृषभे तुरङ्गे पुंसि शाखी तु द्रुमवेदयोः । राजभेदे शिखी त्वग्नौ वृक्षे केतुग्रहे शरे ॥ २८२ ॥ चूडावति बलीवर्दे मयूरे कुक्कुटे हये । शीनो मूर्खाजगरयोः श्येनः शुक्ले पतत्त्रिणि ॥ २८३ ॥ स्वप्नः स्वापे सुप्तज्ञाने स्थानं स्थित्यवकाशयोः । सादृश्ये सन्निवेशे च स्नानं स्नानीय आप्लवे ॥ २८४ ॥ स्त्यानं स्यात्स्निग्ध आलस्ये प्रतिध्वानघनत्वयोः । सादी तुरङ्गमारोहे निषादिरथिनोरपि ॥ २८५ ॥ स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता । अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ ॥ २८६ ॥ हनुः कपोलावयवे मरणामययोरपि । हरिद्रायामायुधे च हली कृषकसीरिणोः ॥ २८७ ॥ ;c{इति द्विस्वरनान्ताः ।} ;v{द्विस्वरपान्ताः} कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे । शास्त्रे न्याये विधौ कूपो गर्तेऽन्धौ गुणवृक्षके ॥ २८८ ॥ मृन्माने कूपके क्षेपो गर्वे लङ्घननिन्दयोः । विलम्बेरणहेलासु गोपौ भूपालबल्लवौ ॥ २८९ ॥ ग्रामौघगोष्ठाधिकृतौ गोपी गोपालसुन्दरी । शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः ॥ २९० ॥ त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः । तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे ॥ २९१ ॥ दर्पो मृगमदे गर्वे पुष्पं विकास आर्तवे । धनदस्य विमाने च कुसुमे नेत्ररुज्यपि ॥ २९२ ॥ बाष्प ऊष्माक्षिजलयो रूपं तु श्लोकशब्दयोः । पाशावाकारे सौन्दर्ये नाणके नाटकादिके ॥ २९३ ॥ ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विगर्हिते । रोपौ रोपणेषू रोपं रन्ध्रे लेपस्तु लेपने ॥ २९४ ॥ अशने च सुधायां च वपा विवरमेदसोः । शष्पं तु प्रतिमाहीनतायां बालतृणेऽपि च ॥ २९५ ॥ शापः शपथ आक्रोशे शिष्पं स्रुवे क्रियोचिते । स्वापो निद्रायां रुग्भेदे शयनाज्ञानमात्रयोः ॥ २९६ ॥ ;c{इति द्विस्वरपान्ताः ।} ;v{द्विस्वरफान्ताः} गुम्फो दोर्भूषणे दृब्धौ रेफोऽवद्यरवर्णयोः । शफं खुरे गवादीनां मूले विटपिनामपि ॥ २९७ ॥ शिफा मातरि मांस्यां च जटायां च सरित्यपि । ;c{इति द्विस्वरफान्ताः ।} ;v{द्विस्वरबान्ताः} कम्बिर्वंशलतादर्व्योः कम्बुर्वलयशङ्खयोः ॥ २९८ ॥ गजे शम्बूके कर्चूरे ग्रीवायां नलकेऽपि च । जम्बूर्मेरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः ॥ २९९ ॥ डिम्ब एरण्डभययोर्विप्लवे प्लीह्नि पुप्फुसे । बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले ॥ ३०० ॥ शम्बः पवौ लोहकाञ्च्यां स्तम्ब आलानगुल्मयोः । व्रीह्यादीनां प्रकाण्डे च ;c{इति द्विस्वरबान्ताः ।} ;v{द्विस्वरभान्ताः} कुम्भो वेश्यापतौ घटे ॥ ३०१ ॥ द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ । कुम्भ्युखायां पाटलायां वारिपर्ण्यां च कट्फले ॥ ३०२ ॥ गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकण्टके । मध्येऽग्नावपवरके जम्भः स्याद्दानवान्तरे ॥ ३०३ ॥ दन्तभोजनयोरंशे हनौ जम्बीरतूणयोः । जृम्भा जृम्भणे विकासे डिम्भो वैधेयबालयोः ॥ ३०४ ॥ दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः । चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्यराजि च ॥ ३०५ ॥ निभः स्यात्सदृशे व्याजे दम्भो वैणवदण्डके । रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ ॥ ३०६ ॥ व्यापके शङ्करे नित्ये शम्भुर्ब्रह्मार्हतोः शिवे । शुभो योगे शुभं भद्रे स्तम्भः स्थूणाङ्गजाड्ययोः ॥ ३०७ ॥ सभा सभ्येषु शालायां गोष्ठ्यां द्यूतसमूहयोः । स्वभूर्विष्णौ विधावामोऽपक्वे रुग्भेदरोगयोः ॥ ३०८ ॥ ;c{इति द्विस्वरभान्ताः ।} ;v{द्विस्वरमान्ताः} उमा गौर्यां हरिद्रायां कीर्तिकान्त्यतसीष्वपि । ऊर्मिः पीडाजवोत्कण्ठाभङ्गप्रकाशवीचिषु ॥ ३०९ ॥ वस्रसंकोचलेखायां क्रमः कल्पाङ्घ्रिशक्तिषु । परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति ॥ ३१० ॥ क्षमा क्षान्तौ क्षितौ कामं बाढेऽनुमितिरेतसोः । कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी ॥ ३११ ॥ कृमिः क्रिमिश्च लाक्षायां कीटे क्षेमस्तु मङ्गले । लब्धसंरक्षणे मोक्षे क्षेमोमा धनहर्यपि ॥ ३१२ ॥ क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपि च । खर्मं क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः ॥ ३१३ ॥ सदृक्पाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वकः । षड्जादौ संवसथे च गुल्मः सैन्योपरक्षणे ॥ ३१४ ॥ रुक्सैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि । आमलक्येलयोर्वन्यामथ घर्मो निदाघवत् ॥ ३१५ ॥ स्वेदाम्भस्यातपे ग्रीष्मोण्मणोर्जाल्मस्तु पामरे । असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः ॥ ३१६ ॥ जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे । तोक्मं कर्णमले तोक्मः स्याद्धरिते हरिद्यवे ॥ ३१७ ॥ दमः स्यात्कर्दमे दण्डे दमने दमथेऽपि च । दस्मस्तु हव्यवाहे स्याद् यजमाने मलिम्लुचे ॥ ३१८ ॥ धर्मो यमोपमापुण्यस्वभावाचारधन्वसु । सत्सङ्गेऽर्हत्यहिंसादौ न्यायोपनिषदोरपि ॥ ३१९ ॥ धर्मं दानादिके नेमस्त्वर्धे प्राकारगतयोः । अवधौ केतवे काले नेमिः कूपत्रिकाप्रधिः ॥ ३२० ॥ तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ । संख्याब्जयोः पद्ममिभबिन्दौ ब्राह्मी तु भारती ॥ ३२१ ॥ शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी । ब्रह्मशक्तिर्भ्रमस्तु स्याद्भ्रमणे वारिनिर्गमे ॥ ३२२ ॥ भ्रान्तौ कुन्दाख्ययन्त्रे च भीष्मो घोरे वृकोदरे । हरेऽम्लवेतसे चाथ भीष्मो गाङ्गेयरुद्रयोः ॥ ३२३ ॥ राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे । यमः कालयमजयोरहिंसादिषु पञ्चसु ॥ ३२४ ॥ संयमे यमने ध्वाङ्क्षे यामौ प्रहरसंयमौ । रमः कान्ते रक्ताशोके मन्भथे च रमा श्रियाम् ॥ ३२५ ॥ रश्मिर्घृणिप्रग्रहयो रामः श्यामे हलायुधे । पशुभेदे सिते चारौ राघवे रेणुकासुते ॥ ३२६ ॥ रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः । रुक्मं लोहे सुवर्णे च रुमा स्याल्लवणाकरे ॥ ३२७ ॥ सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपतप्रियङ्गुषु । वमिर्वान्तेऽनले वामः कामे सव्ये पयोधरे ॥ ३२८ ॥ उमानाथे प्रतिकूले चारौ वामा तु योषिति । वामी शृगाल्यां करभीरासभीवडवासु च ॥ ३२९ ॥ शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदे शितौ । हरिते प्रयागवटे कोकिले वृद्धदारके ॥ ३३० ॥ श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः । शारिवावल्गुनीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु ॥ ३३१ ॥ अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः । शुष्ममोजसि सूर्ये च समं साध्वखिलं सद्दक् ॥ ३३२ ॥ सीमाघाटे स्थितौ क्षेत्रे सूक्ष्मोऽणौ सूक्ष्ममल्पके । अध्यात्मे कतके सोमस्त्वौषधीतद्रसेन्दुषु ॥ ३३३ ॥ दिव्यौषध्यां घनसारे समीरे पितृदैवते । वसुप्रभेदे सलिले वानरे किन्नरेश्वरे ॥ ३३४ ॥ हिमं तुषारे शीते च हिमश्चन्दनपादपे । होमिः सर्पिषि वह्नौ च स्यादर्य्यः स्वामिवैश्ययोः ॥ ३३५ ॥ ;c{इति द्विस्वरमान्ताः ।} ;v{द्विस्वरयान्ताः} अर्थ्यं शिलाजतुन्यर्थशालिनि न्यायविज्ञयोः । अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभेवेऽधमे ॥ ३३६ ॥ अर्घ्यमर्घार्थमर्घार्हमास्यं मुखभवे मुखे । मुखान्तरास्या तु स्थित्यामार्यौ सज्जनसंविदौ ॥ ३३७ ॥ आर्योमाच्छन्दसोरिज्या दाने सङ्गेऽध्वरेऽर्चने । इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ ॥ ३३८ ॥ कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये । कल्या कल्याणवाची स्यात्कश्यं कशार्हमद्ययोः ॥ ३३९ ॥ अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि । कन्या नार्य्यां कुमार्य्यां च राश्योषधिविशेषयोः ॥ ३४० ॥ कक्ष्या गृहप्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु । बृहतिकेभनाडयोश्च कार्यं हेतौ प्रयोजने ॥ ३४१ ॥ कायः कदैवते मूर्तौ सङ्घे लक्ष्यस्वभावयोः । कायं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः ॥ ३४२ ॥ काव्यं ग्रन्थे काव्यः शुक्रे कांस्यं तैजसवाद्ययोः । पानपात्रे मानभेदे क्रिया करणचेष्टयोः ॥ ३४३ ॥ कर्मोपायचिकित्सासु निष्कृतौ सम्प्रधारणे । अर्चाप्रारम्भशिक्षासु कुल्यं तु कुलजेऽस्थनि ॥ ३४४ ॥ सूर्पामिषाष्टद्रोणीषु कुल्या सरिति सारणौ । कृत्यो विद्विषि कार्ये च कृत्या स्याद्देवता क्रिया ॥ ३४५ ॥ गव्यं क्षीरादिके ज्यायां रागवस्तुनि गोहिते । गव्या गोवृन्दगव्यूत्योर्गुह्यः कमठदम्भयोः ॥ ३४६ ॥ गुह्यमुपस्थे रहस्ये गृह्यं तु मलवर्त्मनि । गुह्योऽस्वैरिणि पक्ष्ये च गृहासक्तभृगाण्डजे ॥ ३४७ ॥ गृह्या तु शाखानगरे गेयौ गातव्यगायनौ । गोप्यौ दासेरगोप्तव्यौ चयः प्राकारपीठभूः ॥ ३४८ ॥ समूहेऽप्यथ चव्या स्याच्चविकाशतपर्वयोः । चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ३४९ ॥ चैत्यं जिनौकस्तद्विम्बं चेत्यो जिनसभातरुः । उद्देश्यवृक्षश्चोद्यं तु प्रेर्ये प्रश्नेऽद्भुतेऽपि च ॥ ३५० ॥ छाया पङ्क्तौ प्रतिमायामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि ॥ ३५१ ॥ जयो जयन्ते विजये जयोमा तत्सखी तिथिः । पथ्या जयन्त्यग्निमन्थे जन्यो जामातृवत्सले ॥ ३५२ ॥ जनके जननीये च नवोढानुचरादिके । जन्यं कौलीने युध्यट्टे जन्या मातृसखीमुदोः ॥ ३५३ ॥ त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि । तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे ॥ ३५४ ॥ अश्वकर्माह्वयतरौ स्यात्तार्क्ष्यं तु रसाञ्जने । तिष्यः पुष्यवत्कलौ भे तिष्या त्वामलकीतरौ ॥ ३५५ ॥ द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः । विनये भेषजे रीर्य्यां दस्युः प्रत्यर्थिचौरयोः ॥ ३५६ ॥ दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः ॥ ३५७ ॥ द्युभवे दिव्यामलक्यां दूष्यं वाससि तद्गृहे । दूषणीये चाथ दैत्योऽसुरे दैत्या सुरौषधौ ॥ ३५८ ॥ धन्यः पुण्ययुते धन्यामलक्यामुपमातरि । धान्यं तु व्रीहौ धन्याके धिष्ण्यं स्थानोडुवेश्मसु ॥ ३५९ ॥ बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु । नीतिद्यूतभिदोः पथ्यं हितं पथ्या हरीतकी ॥ ३६० ॥ पद्योऽन्त्यवर्णे स्यात्पद्यं श्लोके पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥ ३६१ ॥ प्रियो वृद्ध्यौषधे हृद्ये पत्यौ पुण्यं तु सुन्दरे । सुकृते पावने धर्मे पूज्यः श्वसुरवन्द्ययोः ॥ ३६२ ॥ बल्यं रेतोबलकृतोर्भयं भीतौ भयङ्करे । कुब्जकपुष्पे भव्यं तु फले योग्ये शुभेऽस्थनि ॥ ३६३ ॥ सत्ये भाविनि भव्यस्तु कर्मरङ्गतरौ सति । भव्योमाकरिपिप्पल्योर्भाग्यं कर्म शुभाशुभम् ॥ ३६४ ॥ मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योष्ट्रवेसराः । मयुर्मृगाश्वमुखयोर्मन्युर्दैत्ये क्रतौ क्रुधि ॥ ३६५ ॥ माल्यं मालाकुसुमयोः स्यान्माया शाम्बरी कृपा । दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपि च ॥ ३६६ ॥ मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये । याम्याऽवाच्यां भरण्यां च योग्यो योगार्हशक्तयोः ॥ ३६७ ॥ उपायिनि प्रवीणे च योग्यमृद्ध्याह्वयौषधौ । योग्यार्कयोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ ३६८ ॥ रम्या रात्रावथ रथ्यो रथांशे रथवोढरि । रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे ॥ ३६९ ॥ रुप्यमाहतहेमादौ रजते रुपवत्यपि । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ ३७० ॥ लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्यं तेजःप्रभावयोः ॥ ३७१ ॥ शुक्रे शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च । वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे ॥ ३७२ ॥ वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे । नृपभेदेऽश्वाविधि च सीम्नि शस्त्रशलाकयोः ॥ ३७३ ॥ शय्या तल्पे शब्दगुम्फे शून्यं बिन्दौ च निर्जने । शून्या तु नलिका शौर्यं चारभट्यां बलेऽपि च ॥ ३७४ ॥ सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं दक्षिणे । वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥ ३७५ ॥ तथ्ये तद्वति सत्यस्तु लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च सन्ध्या कालनदीभिदोः ॥ ३७६ ॥ चिन्तायां संश्रवे सीम्नि सन्धाने कुसुमान्तरे । साध्यो योगे साधनीये गणे दैवतभिद्यपि ॥ ३७७ ॥ सायः शरेऽपराह्णे च स्थेयोऽक्षदृक्पुरोधसोः । सेव्यमुशीरे सेवार्हे सैन्यं सैनिकसेनयोः ॥ ३७८ ॥ सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मृगशिरःशिरःस्थाः पञ्चतारकाः ॥ ३७९ ॥ हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हृद्धिते हृज्जे हृद्या तु वृद्धिभेषजे ॥ ३८० ॥ हृद्यस्तु वशकृन्मन्त्रे ;c{इति द्विस्वरयान्ताः ।} ;v{द्विस्वररान्ताः} अग्रं पुरः प्रथमेऽधिके । उपर्य्यालम्बने श्रेष्ठे परिमाणे पलस्य च ॥ ३८१ ॥ भिक्षाप्रकारे सङ्घाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगनेऽम्बुदे ॥ ३८२ ॥ अस्रः शिरसिजे कोणे स्यादस्रं शोणितेऽश्रुणि । अस्त्रं चापे प्रहरणेऽप्यह्निः पादद्रुमूलयोः ॥ ३८३ ॥ अरो जिनेऽरं चक्राङ्गे शीघ्रशीघ्रगयोरपि । आरो रीरी शनिर्भौम आरा चर्मप्रभेदिनी ॥ ३८४ ॥ इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्ये योगभेदे स्यादिन्द्रा तु फणिज्झके ॥ ३८५ ॥ उग्रः क्षत्रियतः शूद्रासूनावुत्कटरुद्रयोः । उग्रा वचाछिक्किकयोरुस्रा गवोपचित्रयोः ॥ ३८६ ॥ उस्रो मयूखे स्यादुष्ट्री मृद्भाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे ॥ ३८७ ॥ औड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरो मेघे क्षरं जले ॥ ३८८ ॥ कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि । कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ॥ ३८९ ॥ कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥ ३९० ॥ भस्मनि धूर्तलवणे कारिः शिल्पी क्रियाऽपि च । कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ॥ ३९१ ॥ कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि ॥ ३९२ ॥ क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ ३९३ ॥ चाङ्गेरिकायां हिंस्रायां मक्षिकामात्रवेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ ३९४ ॥ क्रूरा नृशंसघोरोष्णकठिनाः कृच्छ्रमंहसि । कष्टे सान्तपने क्षेत्रं भरतादौ भगाङ्गयोः ॥ ३९५ ॥ केदारे सिद्धभूपत्न्योः क्रोष्ट्री क्षीरविदारिका । शृगालिका लाङ्गली च क्षौद्रं तु मधुनीरयोः ॥ ३९६ ॥ खरो रक्षोऽन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च ॥ ३९७ ॥ खुरः शफे कोलदले गरस्तूपविषे विषे । रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ३९८ ॥ गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ३९९ ॥ गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके । गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४०० ॥ अलघौ दुर्जरे चापि गृद्ध्रो गृध्नौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे सम्भाव्यबोधवर्त्मनोः ॥ ४०१ ॥ वने नाम्नि च गोत्रोऽद्रौ गोत्रा भुवि गवाङ्गणे । गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ॥ ४०२ ॥ विशदे गौरं तु श्वेतसर्षपे पद्मकेसरे । गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४०३ ॥ रजन्यां रोचनीनद्योर्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥ ४०४ ॥ चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे । कुलालाद्युपकरणे राष्ट्रे सैन्यरथाङ्गयोः ॥ ४०५ ॥ जलावर्त्ते छले चक्रः कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौ कर्पुरे कम्पिल्ये मेचकेऽपि च ॥ ४०६ ॥ चरुर्हव्यान्ने भाण्डे च चारो बन्धावसर्पयोः । गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४०७ ॥ आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडुम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४०८ ॥ चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीरी कच्छाटिकाझिल्ल्योश्चुक्रस्त्वम्लेऽम्लवेतसे ॥ ४०९ ॥ वृक्षाम्ले चुक्री चाङ्गेर्य्यां चैत्रो मासाद्रिभेदयोः । चैत्त्रं मृतकचैत्ये च चौरो दस्युसुगन्धयोः ॥ ४१० ॥ छत्त्रं स्यादातपत्राणे छत्त्रा मधुरिकौषधौ । धान्यके च शिलीन्ध्रे च छिद्रं विवररन्ध्रवत् ॥ ४११ ॥ गर्ते दोषे जारस्तूपपत्तौ जार्यौषिधीभिदि । जीरस्त्वजाज्यां खड्गे च टारो लिङ्गतुरङ्गयोः ॥ ४१२ ॥ तन्त्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृत्ये तन्तुवाने परिच्छदे ॥ ४१३ ॥ श्रुतिशाखान्तरे शास्त्रे करणे द्व्यर्थसाधके । इतिकर्तव्यतातन्त्वोस्तन्त्री स्याद्वल्लकीगुणे ॥ ४१४ ॥ अमृतायां च नद्ध्र्यां च शिरायां वपुषोऽपि च । तरिर्दशायां बेडायां वस्त्रादीनां च पेटके ॥ ४१५ ॥ तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके । मुक्ताशुद्धावुच्चनादे नक्षत्रनेत्रमध्ययोः ॥ ४१६ ॥ तारं रुप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपत्न्यां ताम्रं तु शुल्बे शुल्बनिभेऽपि च ॥ ४१७ ॥ तीव्रं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी । गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥ ४१८ ॥ तोत्त्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः । दरी तु कन्दरे दस्रः खरो दस्रौ रवेः सुतौ ॥ ४१९ ॥ द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गुरौ । कर्पासतूलेऽथ धरा मेदोभूमिजरायुषु ॥ ४२० ॥ धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोत्कर्षे खड्गाद्यग्रे सैन्याग्रे वाजिनां गतौ ॥ ४२१ ॥ जलादिपाते सन्तत्यां धात्री भुव्युपमातरि । आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४२२ ॥ स्वैरे धीरं तु घुसृणे नरोमर्त्येऽच्युतेर्जुने । नरं तु रामकर्पूरे नक्रं नासाग्रदारुणोः ॥ ४२३ ॥ नक्रो यादसि नीव्रं तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथोगुणे ॥ ४२४ ॥ मूलाक्षिनेतृषु परो दूरान्यश्रेष्ठशत्रुषु । परन्तु केवले पत्रं यानं पक्षश्छदश्छुरी ॥ ४२५ ॥ पारं प्रान्ते परतटे पारी पूरपरागयोः । पात्र्यां कर्पूरिकायां च पादबंधे च हस्तिनः ॥ ४२६ ॥ पात्त्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभाजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ॥ ४२७ ॥ पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्ड्रः कृमौ दैत्येक्षुभेदयोः ॥ ४२८ ॥ वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति । पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः ॥ ४२९ ॥ पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४३० ॥ पौरं कत्तृणे पुरजे बभ्रुः पिङ्गाग्निशूलिषु । मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ ४३१ ॥ मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे । भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ॥ ४३२ ॥ गवि शम्भौ भद्रा विष्टौ नभःसरिति कट्फले । कृष्णानन्तारास्नासु च भरोऽतिशयभारयोः ॥ ४३३ ॥ भरुर्भर्तृकनकयोर्भारो दशशतीद्वये । पलानां वीवधे चापि भीरुर्योषिति कातरे ॥ ४३४ ॥ भूरि स्वर्णे प्रचुरे च मन्त्रो देवादिसाधने । वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४३५ ॥ मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये । मात्त्रं त्ववधृतौ स्वार्थे कार्त्स्न्ये मात्रापरिच्छदे ॥ ४३६ ॥ अक्षरावयवे द्रव्ये मानेऽल्पे कर्मभूषणे । काले वृत्ते च मित्रं तु सख्यौ मित्रे दिवाकरे ॥ ४३७ ॥ यात्रोत्सवे गतौ वृत्तौ राष्ट्रमुत्पातनीवृतोः । रुरुर्दैत्ये मृगे रेत्रं पीयूषपटवासयोः ॥ ४३८ ॥ रेतःसूतकयो रोध्रो लोध्रे रोध्रमघागसोः । रौद्रो भीष्मे रसे तीव्रे रौद्री गौर्यां वरो वृतौ ॥ ४३९ ॥ विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु घुसृणे किञ्चिदिष्टे वरी शतावरी ॥ ४४० ॥ वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः । वक्त्रमास्ये छन्दसि च वप्रःप्राकाररोधसोः ॥ ४४१ ॥ क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः । बालके वज्रा त्वमृता वर्ध्रः सीसवरत्रयोः ॥ ४४२ ॥ व्यग्रो व्यापृताकुलयोर्वारः सूर्यादिवासरे । महेश्वरावसरयोर्वृन्दे कुब्जाख्यपादपे ॥ ४४३ ॥ वारं तु मदिरापात्रे वारि ह्रीबेरनीरयोः । वारिर्घट्यां सरस्वत्यां गजबन्धनभुव्यपि ॥ ४४४ ॥ व्याघ्रः करञ्जे शार्दूले रक्तैरण्डतरावपि । श्रेष्ठे तूत्तरपदस्थः स्याद् व्याघ्री कण्टकारिका ॥ ४४५ ॥ वीरो जिने भटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च । वीरा गम्भारिकारम्भातामलक्येलवालुषु ॥ ४४६ ॥ मदिराक्षीरकाकोलीगोष्ठोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि ॥ ४४७ ॥ वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ । वेरं घुसृणवृन्ताकशरीरेषु शरं जले ॥ ४४८ ॥ शरः पुनर्दधिसारे काण्डतेजनयोरपि । शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ ४४९ ॥ लोहे शस्त्री छुरिकायां शद्रिर्जिष्णौ तडित्वति । शरुः कोपे शरे वज्रे शारः शबलवातयोः ॥ ४५० ॥ द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥ ४५१ ॥ शिग्रुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतूर्णयोः । उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः ॥ ४५२ ॥ शुक्रं तु रेतोऽक्षिरुजोः शुभ्रं दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्य्ये सरौ दध्यग्रसायकौ ॥ ४५३ ॥ स्वरः शब्देऽचि षड्जादौ सत्रमाच्छादने क्रतौ । सदादाने वने दम्भे स्वरुः स्याद्यूपखण्डके ॥ ४५४ ॥ अध्वरे कुलिशे वाणे सारो मज्जास्थिरांशयोः । बले श्रेष्ठे च सारन्तु द्रविणन्याय्यवारिषु ॥ ४५५ ॥ स्फारस्तु स्फरकादीनां बुद्वुदे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च स्थिरा भूःशालपर्ण्यपि ॥ ४५६ ॥ सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी । सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥ ४५७ ॥ लाङ्गलेऽथ सुरो देवे सुरा चषकमद्ययोः । सूत्रं तु सूचनाकारिग्रन्थे तन्तुव्यवस्थयोः ॥ ४५८ ॥ स्वैरो मन्दे स्वतन्त्रे च हरो रासभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ ४५९ ॥ यमवासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवर्णे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥ ४६० ॥ लोकान्तरे च हारस्तु मुक्तादामनि संयुगे । हिंस्रः स्याद्घातुके हिंस्रा मांसी काकादनी वसा ॥ ४६१ ॥ हीरो वज्रे हरे सर्पे हीरा पिपीलिकाश्रियोः । होरा तु लग्ने राश्यर्द्धे शास्त्ररेखाप्रभेदयोः ॥ ४६२ ॥ ;c{इति द्विस्वररान्ताः ।} ;v{द्विस्वरलान्ताः} अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेर्यामालं स्यादनर्थहरितालयोः ॥ ४६३ ॥ आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ॥ ४६४ ॥ इलोर्वी वाग् बुधस्त्री गौः कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्यात्कालशिल्पयोः ॥ ४६५ ॥ कलने मूलरैवृद्धौ षोडशांशे विधोरपि । कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ ४६६ ॥ कालः पुनः कुष्णवर्णे महाकालकृतान्तयोः । मरणानेहसोः काली कालिकाक्षीरकीटयोः ॥ ४६७ ॥ मातृभेदोमयोर्नव्यमेघौघपरिवादयोः । काला कृष्णत्रिवृन्नील्योर्जिग्यां कीलोऽग्नितेजसि ॥ ४६८ ॥ कफणिस्तम्भयोः शङ्कौ कीला रताहतावपि । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४६९ ॥ कूलं तटे सैन्यपृष्ठे तडागस्तूपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥ ४७० ॥ कोलं तु बदरे कोला पिपल्ल्यां चव्यभेषजे । खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे ॥ ४७१ ॥ खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः । खल्ली तु हस्तपादावमर्दनाह्वयरुज्यपि ॥ ४७२ ॥ गलः कण्ठे सर्जरसे गोलः स्यात्सर्ववर्तुले । गोला पत्राञ्जने गोदावर्य्यां सख्यामलिञ्जरे ॥ ४७३ ॥ मण्डले च कुनद्यां च बालक्रीडनकाष्ठके । चिल्लः खगे स चुल्लश्च पिल्लवत् क्लिन्नलोचने ॥ ४७४ ॥ क्लिन्नाक्ष्णि चुल्ली तूद्धाने चेलं गर्हितवस्त्रयोः । छलं छद्मस्खलितयोश्छल्ली सन्तानवीरुधोः ॥ ४७५ ॥ वल्कले पुष्पभेदे च जलं गोकलले जडे । ह्रीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४७६ ॥ दम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोर्मौ झिल्ली तूद्वर्तनाशके ॥ ४७७ ॥ वर्त्यातपरुचोश्चीर्य्यां तलं ज्याधातवारणे । तलश्चपेटे तालद्रौ स्वभावाधरयोः त्सरौ ॥ ४७८ ॥ तल्लो जलाधारभेदे तल्ली तु वरुणस्त्रियाम् । तालः कालक्रियामाने हस्तमानद्रुभेदयोः ॥ ४७९ ॥ करास्फोटे करतले हरिताले त्सरावपि । तुला माने पलशते सादृश्ये राशिभाण्डयोः ॥ ४८० ॥ गृहाणां दारुबन्धाय पीठ्यां तूलं तु खे पिचौ । ब्रह्मदारुण्यथ दलं शस्त्रिच्छदेऽर्द्धपर्णयोः ॥ ४८१ ॥ उत्सेधवद्वस्तुनि च नलो राज्ञि कपौ नडे । पितृदैवे नलं तु स्यात्पद्मे नली मनःशिला ॥ ४८२ ॥ नालं काण्डे मृणाले च नाली शाककदम्बके । नीलो वर्णे मणौ शैले निधिवानरभेदयोः ॥ ४८३ ॥ नील्योषध्यां लाञ्छने च पलमुन्मानमांसयोः । पल्लिस्तु ग्रामके कुट्यां पालिर्यूकाश्रिपङ्क्तिषु ॥ ४८४ ॥ जातश्मश्रुस्त्रियां प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिन्हयोः ॥ ४८५ ॥ पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च ॥ ४८६ ॥ फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः ॥ ४८७ ॥ फली फलिन्यां फालं तु वाससि फाल उत्प्लुतौ । कुशिके च बलं रूपे स्थामनि स्थौल्यसैन्ययोः ॥ ४८८ ॥ बोले बलस्तु बलिनि काके दैत्ये हलायुधे । बला त्वौषधिभेदे स्याद्बलिर्दैत्योपहारयोः ॥ ४८९ ॥ करे चामरदण्डे च गृहदारूदरांशयोः । त्वक्सङ्कोचे गन्धके च बालोऽज्ञेऽश्वेभपुच्छयोः ॥ ४९० ॥ शिशौ ह्रीवेरकचयोर्बाला तु त्रुटियोषितोः । बाली भूषान्तरे मेधौ बिल उच्चैःश्रवोहये ॥ ४९१ ॥ बिलं रन्ध्रे गुहायां च भल्लो भल्लूकबाणयोः । भल्ली भल्लातके भालं स्यल्ललाटे महस्यपि ॥ ४९२ ॥ भेलः प्लवे मुनिभेदे भीरौ बुद्धिविवर्जिते । मल्लः कपाले बलिनि मत्स्ये पात्रे मलस्त्वघे ॥ ४९३ ॥ किट्टे कदर्ये विष्टायां मालं तु कपटे वने । मालो जने स्यान्माला तु पङ्क्तौ पुष्पादिदामनि ॥ ४९४ ॥ मालुः स्त्रियां पत्रवल्ल्यां मूलं पार्श्वद्ययोरुडौ । निकुञ्जशिफयोर्मेला त्वञ्जने मेलकेऽपि च ॥ ४९५ ॥ मौलिः किरीटे धम्मिल्ले चूडाकङ्केल्लिमूर्द्धसु । लीला केलिर्विलासश्च शृङ्गारभावजक्रिया ॥ ४९६ ॥ लोलश्चले सतृष्णे च लोला तु रसनाश्रियोः । वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥ ४९७ ॥ व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः । वेला बुधस्त्रियां काले सीमनीश्वरभोजने ॥ ४९८ ॥ अक्लिष्टमरणेऽम्भोधेस्तीरनीरविकारयोः । शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ४९९ ॥ स्कन्धशाखायां शालिस्तु गन्धोतौ कलमादिषु । शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥ ५०० ॥ शिलमुञ्छः शिला द्वाराऽधोदारु कुनटी दृषत् । शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ॥ ५०१ ॥ शुक्लं रूप्ये शुक्लो योगे श्वेते शूलं रुगस्त्रयोः । योगे शूला तु पण्यस्त्री वधहेतुश्च कीलकः ॥ ५०२ ॥ शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके । सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ ५०३ ॥ स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः । स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥ ५०४ ॥ हाला सुरायां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽपि ;c{इति द्विस्वरलान्ताः ।} ;v{द्विस्वरवान्ताः} अविर्मूषिककम्बले ॥ ५०५ ॥ मेषे रवौ पर्वते च स्यादूर्ध्वं तु समुत्थिते । उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥ ५०६ ॥ क्षवः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥ ५०७ ॥ किण्वं पापे सुराबीजे क्लीबोऽपौरुषषण्ढयोः । खर्वह्रस्वौ न्यग्वामनौ ग्रीवे शिरोधितच्छिरे ॥ ५०८ ॥ छविस्तु रुचि शोभायां जवः स्याद् वेगवेगिनोः । जवौड्रपुष्पे जिह्वा तु वाचि ज्वालारसज्ञयोः ॥ ५०९ ॥ जीवः स्यात्त्रिदशाचार्ये द्रुमभेदे शरीरिणि । जवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥ ५१० ॥ शिञ्जते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च द्रवो विद्रवनर्मणोः ॥ ५११ ॥ प्रद्रावे रसगत्योश्च द्वन्द्वः से द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले ॥ ५१२ ॥ वने दर्वी फणातर्व्वोर्दार्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥ ५१३ ॥ देवं हृषीके देवस्तु नृपतौ तोयदे सुरे । देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥ ५१४ ॥ धवो धूर्त्ते नरे पत्यौ द्रुभेदेऽथ ध्रुवो वटे । वसुयोगभिदोरातौ शङ्कावुत्तानपादजे ॥ ५१५ ॥ स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजस्रतर्कयोः । ध्रुवा मूर्वाशालिपर्ण्योः स्रुग्भेदे गीतिभिद्यपि ॥ ५१६ ॥ नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे प्लवः प्लक्षे प्लुतौ कपौ ॥ ५१७ ॥ शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५१८ ॥ जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्वं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५१९ ॥ कक्षाधोवयवे वक्रोपायपर्शुसमूहयोः । प्राध्वं दूरपथे प्रह्वे बन्धे पूर्वं तु पूर्वजे ॥ ५२० ॥ प्रागग्रे श्रुतिभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५२१ ॥ स्वभावजन्मसत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्च कारणे ॥ ५२२ ॥ शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोषिति । नील्यां मेकलकन्यायां लवः कालभिदिच्छिदि ॥ ५२३ ॥ विलासे रामजे लेशे लट्वा पक्षिकुसुम्भयोः । लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ ५२४ ॥ विश्वाः सुरेषु विश्वन्तु शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले ॥ ५२५ ॥ शिवो योगान्तरे वेदे गुग्गुलौ वालुके हरे । पुण्डरीके द्रुमे कीले शिवा झाटामलोमयोः ॥ ५२६ ॥ फेरौ शम्यां पथ्याधात्र्योः शिविर्भुर्जे नृपान्तरे । शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसन्निधौ ॥ ५२७ ॥ सत्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु ॥ ५२८ ॥ सान्त्व सामनि दाक्षिण्ये स्रुवा मूर्वा स्रुवः स्रुचि । हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि ॥ ५२९ ॥ ;c{इति द्विस्वरवान्ताः ।} ;v{द्विस्वरशान्ताः} अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ । आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ॥ ५३० ॥ ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके । काशस्तृणे रोगभेदे कीशः कपौ दिगम्बरे ॥ ५३१ ॥ कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वला कुशं जले ॥ ५३२ ॥ केशः शिरसिजे पाशपाणौ ह्रीवेरदैत्ययोः । क्लेशो रागादौ दुःखे च कोशः कोष इवाण्डके ॥ ५३३ ॥ कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोशेऽसिपिधाने दर्शः सूर्येन्दुसङ्गमे ॥ ५३४ ॥ पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि । दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥ ५३५ ॥ दशा वर्ताववस्थायां दशास्तु वसनाञ्चले । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५३६ ॥ निशा हरिद्रायां रात्रौ पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५३७ ॥ कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ॥ ५३८ ॥ मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च । भूस्पृग् वैश्ये मानवे च राशिर्मेषादिपुञ्जयोः ॥ ५३९ ॥ वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः । वशा नार्य्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५४० ॥ वंशः सङ्घेऽन्वये वेणौ पृष्ठाद्यवयवेऽपि च । वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५४१ ॥ बोले लोघ्रे नृभेदे च स्पशो हेरिकयुद्धयोः । स्पर्शो वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५४२ ॥ ;c{इति द्विस्वरशान्ताः ।} ;v{द्विस्वरषान्ताः} अक्षो रथस्यावयवे व्यवहारे बिभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि रावणौ ॥ ५४३ ॥ अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि । बाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥ ५४४ ॥ महीधरविशेषे च शोणके क्षतवेधने । ऋषिर्वेदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥ ५४५ ॥ कक्षो वीरुधि दोर्मूले कच्छे शुष्कवने तृणे । पापे कक्षा त्विभरज्जौ काञ्च्छां गेहप्रकोष्ठके ॥ ५४६ ॥ भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले । उद्ग्राहण्यां च कर्षूस्तु तुषाग्नौ कृषिकुल्ययोः ॥ ५४७ ॥ घोषः कांस्ये स्वने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगोतयोः ॥ ५४८ ॥ शुचौ झषस्तु मकरे वने मीने झषा पुनः । नागबलायां तुषस्तु धान्यत्वचि बिभीतके ॥ ५४९ ॥ दक्षः प्रजापतौ रुद्रवृषभे कुक्कुटे पटौ । द्रुमे दक्षा तु मेदिन्यां ध्वाङ्क्षः काके बकेऽर्थिनि ॥ ५५० ॥ गृहे ध्वाङ्क्षी तु कक्कोल्यां न्यक्षः कार्त्स्न्यनिकृष्टयोः । जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥ ५५१ ॥ चुल्लीरन्ध्रे बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥ ५५२ ॥ प्लक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके । प्रेक्षा धीरीक्षणं नृतं प्रैषौ प्रेषणपीडने ॥ ५५३ ॥ पौषो मासप्रभेदे स्यात्पौषं तु महयुद्धयोः । भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि ॥ ५५४ ॥ माषो माने धान्यभेदे मूर्खे त्वग्दोषभिद्यपि । मिषं व्याजे स्पर्द्धने च मेषो राश्यन्तरे हुडौ ॥ ५५५ ॥ मोक्षो निःश्रियसे वृक्षविशेषे मोचने मृतौ । यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥ ५५६ ॥ रूक्षोऽस्निग्धपरुषयोर्लक्षं व्याजशरव्ययोः । संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५५७ ॥ वर्षवरेऽपि वर्षा तु प्रावृष्यथ विषं जले । क्ष्वेडे विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥ ५५८ ॥ पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च । श्रेष्ठे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्टरे ॥ ५५९ ॥ वृषा पुनः कपिकच्छ्वां शुषिः शुषिरशोषयोः । शोषोऽनन्ते वधे सीरिण्युपयुक्तेतरेऽपि च ॥ ५६० ॥ शोषा निर्माल्यदाने स्याच्छोषः शोषणयक्ष्मणोः । ;c{इति द्विस्वरषान्ताः ।} ;v{द्विस्वरसान्ताः} अर्चिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५६१ ॥ आगः स्यादेनोवदघे मन्तावाशीर्हितैषणे । उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५६२ ॥ उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्योकस्तु सद्मनि ॥ ५६३ ॥ ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥ ५६४ ॥ बुद्धौ विकलवाचि स्याद्गुत्सः स्तम्बगुलुच्छयोः । हारभेदे ग्रन्थिपर्णे गोसो बोलविभातयोः ॥ ५६५ ॥ चास इक्षुपक्षिभेदोश्छन्दः पद्येच्छयोः श्रुतौ । ज्यायान् वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ॥ ५६६ ॥ प्रकाशे दृशि नक्षत्रे तपः कृच्छ्रादिकर्मणि । धर्मे लोकप्रभेदे च तपाः शिशिरमाघयोः ॥ ५६७ ॥ तमो राहौ गुणे पापे ध्वान्ते तरो जवे बले । त्रासो भये मणिदोषे तेजस्त्विड्रेतसोर्बले ॥ ५६८ ॥ नवनीते प्रभावेऽग्नौ दासो धीवरभृत्ययोः । वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ॥ ५६९ ॥ धनुः शरासने राशौ पियालर्दौ धनुर्धरे । नभो व्योम्नि नभा घ्राणे विसतन्तौ पतद्ग्रहे ॥ ५७० ॥ प्रावृषि श्रावणे नासा घोणा द्वारोर्ध्वदारुणोः । पयः क्षीरे च नीरे च प्रसूरश्वा जनन्यपि ॥ ५७१ ॥ बर्हिः कुशेऽग्नौ भासस्तु भासि गृद्ध्रशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मांस्यजमोदयोः ॥ ५७२ ॥ शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ॥ ५७३ ॥ चोले रागे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठामल्लकीक्षितिकङ्गुषु ॥ ५७४ ॥ रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम् ॥ ५७५ ॥ भाषाशृङ्खलके वत्सा उरस्तुग्वर्षतर्णकाः । वयस्तारुण्यबाल्यादौ खगे वर्चस्तु तेजसि ॥ ५७६ ॥ गूथे रूपे वसुस्त्वग्नौ देवभेदे नृपे रुचि । योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने ॥ ५७७ ॥ वपुः शस्ताकृतौ देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके ॥ ५७८ ॥ विद्वान् ज्ञात्मविदोः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरोमूर्द्धप्रधानयोः ॥ ५७९ ॥ सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥ स्रोतः प्रवाहेन्द्रिययोर्हंसोऽर्के मत्सरे च्युते । खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि ॥ ५८१ ॥ निर्लोभनृपतौ प्रणवाते श्रेष्ठेऽग्रतः स्थितः । हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे ॥ ५८२ ॥ ;c{इति द्विस्वरसान्ताः ।} ;v{द्विस्वरहान्ताः} अहिः सर्पे वृत्रे वप्रे स्यादीहोद्यमवाञ्छयोः । कुहूर्नष्टेन्दुदर्शे स्यात्क्वणिते कोकिलस्य च ॥ ५८३ ॥ ग्रहो ग्रहणनिर्बन्धानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ विधुन्तुदे ॥ ५८४ ॥ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गह्वरे सिंहपुच्छ्यां च गृहा दारेषु सद्मनि ॥ ५८५ ॥ प्रौहो निपुणतर्के स्याद्गजाङ्घ्रिपर्वणोरपि । बर्हः पर्णे परीवारे कलापे बहु भूयसि ॥ ५८६ ॥ त्र्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ ॥ ५८७ ॥ लोहं कालायसे सर्वतेजसे जोङ्गिकेऽपि च । वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ॥ ५८८ ॥ वृषे वाहा तु वाहौ स्याद् व्यूहो निर्वाणतर्कयोः । समूहे बलविन्यासे सहः क्षमे बलेऽपि च ॥ ५८९ ॥ सहोर्व्यां सहदेवायां कुमार्यां नखभेषजे । मूद्गपर्ण्यां च सिंहस्तु राशिभेदे मृगाधिपे ॥ ५९० ॥ श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि । वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि घृतादिके ॥ ५९१ ॥ ;c{इति द्विस्वरहान्ताः ।} ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्रहे द्विस्वरकाण्डो द्वितीयः ॥ २ ॥} ;k{त्रिस्वरकाण्डः} ;c{अथ त्रिस्वरकाण्डः} ;v{त्रिस्वरकान्ताः} अणुको निपुणेऽल्पे चाऽशोकौ कङ्केल्लिवञ्जुलौ । निःशोकपारदौ चाप्यशोका तु कटुरोहिणी ॥ १ ॥ अभीको निर्भये कम्रेऽप्यनीकं रणसैन्ययोः । अलीकमप्रिये भावे वितथेऽनूकमन्वये ॥ २ ॥ शीलेऽनूको गतजन्मन्यंशुकं सूक्ष्मवाससि । उत्तरीये वस्त्रमात्रेऽप्यलकाश्चूर्णकुन्तलाः ॥ ३ ॥ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्ली स्यात्सातलाख्यौषधेऽपि च ॥ ४ ॥ नाट्योक्तौ ज्येष्ठभगिनी अत्तिका प्रोच्यतेऽपि सा । अलर्को नृपे श्वेतार्के रोगोन्मादितशुन्यपि ॥ ५ ॥ अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि । अन्धिका तु कैतवे स्याच्छर्वरीसिद्धयोरपि ॥ ६ ॥ अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च । आलोको दर्शने बन्दिभाषाणोद्योतयोरपि ॥ ७ ॥ आनकः पटहे भेर्यां नदन्मेघमृदङ्गयोः । आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ ॥ ८ ॥ आह्निकं स्यात्पुनरहर्निवृत्ये नित्यकर्मणि । भोजने ग्रन्थभागे चाऽऽढकः प्रस्थचतुष्टयम् ॥ ९ ॥ आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे । स्यादुलूकः काकशत्राविन्द्रे भारतयोधिनि ॥ १० ॥ उष्णिका मृद्भाण्डभेदे करभस्य च योषिति । उदर्कस्तूत्तरकालफले मदनकण्टके ॥ ११ ॥ उष्णको घर्म उद्युक्तातुरयोरूर्मिका पुनः । उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके ॥ १२ ॥ वीच्यां च कनकं हेम्नि कनको नागकेसरे । धत्तूरे चम्पके काञ्चनारकिंशुकयोरपि ॥ १३ ॥ करको दाडिमे पक्षिभेदे हस्ते कमण्डलौ । लट्वाकरञ्जयोर्मेघोपले च कटुकं कटु ॥ १४ ॥ कटुरोहिणी व्योषं च कञ्चुकश्चोलवर्मणोः । वर्द्धापकगृहीताङ्गवसने वरबाणके ॥ १५ ॥ निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायां राजधन्यां च क्रमुको भद्रमुस्तके ॥ १६ ॥ गुवाके पट्टिकालोध्रे कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाङ्गे रोमाञ्चे कलङ्कोऽङ्कापवादयोः ॥ १७ ॥ कालायसमले चापि कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य करमध्याङ्गुलावपि ॥ १८ ॥ कुट्टिन्यां हस्तिहस्ताग्रे कर्णिका सूक्ष्मवस्तुनि । अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः ॥ १९ ॥ कारकं कर्त्तृकर्माद्योः कारिका यातना नदी । कृतौ विवरणश्लोके नापितादिककर्मणि ॥ २० ॥ कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः । वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे ॥ २१ ॥ कोरके पक्षादिपाशे कालिका योगिनीभिदि । स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे ॥ २२ ॥ क्रमदेयवस्तुमूल्ये कार्ष्ण्यवृश्चिकपत्रयोः । रोमाल्यां धूसरीमांस्योः काकीपटोलशाखयोः ॥ २३ ॥ किम्पाको वृक्षभिद्यज्ञे कीटको निष्ठुरे कृमौ । कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे ॥ २४ ॥ कुलकं पञ्चादिश्लोकसमन्वये पटोलके । कुलकः कुलप्रधाने वल्मीके काकतिन्दुके ॥ २५ ॥ कुलिकस्तु कुलश्रेष्ठे नागद्रुमविशेषयोः । कुशिको मुनिभेदे स्यात्फाले सर्ज्जे बिभीतके ॥ २६ ॥ क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःखिते खले । कूपको गुमवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ २७ ॥ कूर्चिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले । आलेख्यकूर्चिकासूच्योः कृषकौ फालकर्षकौ ॥ २८ ॥ कोरकं कुड्मले तु स्यात्कक्कोलकमृणालयोः । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ॥ २९ ॥ पारम्पर्यागतस्थाने मङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥ ३० ॥ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ । कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे ॥ ३१ ॥ मूषके भूमिवित्तज्ञे खट्टिको मांसविक्रयी । महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः ॥ ३२ ॥ खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे ॥ ३३ ॥ ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः । गण्डको विघ्ने विद्यायां संख्यावच्छेदखड्गिषु ॥ ३४ ॥ गण्डकी तु सरिद्भेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति ॥ ३५ ॥ ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि । गान्धिको लेखके गन्धवणिजे गुण्डकं पुनः ॥ ३६ ॥ कलोक्तौ मलिने धूलौ स्नेहपात्रेऽथ गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ३७ ॥ अलिञ्जरे गुडे चापि गोरङ्कुर्नग्नवेदिनोः । खगे च चषको मद्ये सरके मद्यभाजने ॥ ३८ ॥ चुलकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा । चारकोऽश्वादिपाले स्याद्बन्धे संचारकेऽपि च ॥ ३९ ॥ चित्रकं चित्रकमये द्रुमौषधिविशेषयोः । चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः ॥ ४० ॥ चुल्लकी कुण्डिकाभेदे शिशुमारे कुलान्तरे । चूतकः कूप आम्रे च चूलिका नाटकान्तरे ॥ ४१ ॥ करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुको वरुणे फेरौ जतुकं हिङ्गुलाक्षयोः ॥ ४२ ॥ जतुका च चर्मचटिका जीवको वृद्धिजीविनि । क्षपणे प्राणके पीतसालसेवकयोर्द्रुमे ॥ ४३ ॥ व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लीका झिल्लिकेव स्याच्चीर्यां रुच्यातपस्य च ॥ ४४ ॥ विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥ ४५ ॥ तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ ४६ ॥ दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्ड्रके तिलकालके ॥ ४७ ॥ तिलकं रुचके क्लोम्नि त्रिशङ्कुः शलभे नृपे । मार्जारे च तुरुष्कस्तु देशे श्रीवाससिह्लयोः ॥ ४८ ॥ तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः ॥ ४९ ॥ द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः । दारको भेदके पुत्रे दीपकः स्यादलङ्कृतिः ॥ ५० ॥ दीपकौ दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ५१ ॥ धनाढ्ये धनिका वध्वां धेनुका धेनुरित्यपि । धैनुकं धेनुसंहत्यां करणेऽपि च योषिताम् ॥ ५२ ॥ नरकौ दैत्यनिरयौ नन्दकः कुलपालके । हर्षके विष्णुखड्गे च नर्तकः केलके नटे ॥ ५३ ॥ द्विपे पोटगले चापि नर्तकी लासिका द्विपी । नालीकोऽङ्गे शरे शल्ये नालीकं पद्मतद्वने ॥ ५४ ॥ नायको मणिभिन्नेतृप्रधानेष्वथ नालिका । नाले काले चूर्णरन्ध्रे विवरे वेणुभाजने ॥ ५५ ॥ निपाकः पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके ॥ ५६ ॥ नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि । पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ॥ ५७ ॥ पर्यङ्को मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः । पद्मकं पद्मकोष्ठेभबिन्दुजालकयोरपि ॥ ५८ ॥ पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि पथ्यते । पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके ॥ ५९ ॥ पातुको जलमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलयोः ॥ ६० ॥ पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके । वाद्यभेदे महाकिष्कौ मूलस्यावयवेऽपि च ॥ ६१ ॥ पालङ्कः शाकभेदे स्यात्सल्लक्यां वाजिपक्षिणि । पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ॥ ६२ ॥ भल्लातके विडङ्गे च शोधयितृनरेऽपि च । पिनाकः शिवकोदण्डे पांशुवृष्टित्रिशूलयोः ॥ ६३ ॥ प्रियकस्तु चञ्चरीके नीपे काश्मीरजन्मनि । प्रियङ्गौ चित्रहरिणे पीतशालतरावपि ॥ ६४ ॥ पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते । पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ॥ ६५ ॥ पिण्याकः कुङ्कुमे हिङ्गौ सिह्लके तिलचूर्णके । पुलको गजान्नपिण्डे रोमाञ्जे प्रस्तरान्तरे ॥ ६६ ॥ असुराज्यां मणिदोषे गल्वर्के तालके कृमौ । पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः ॥ ६७ ॥ पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे । कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने ॥ ६८ ॥ लोहकांस्ये रीतिकायां पुत्रकः शरभे शठे । शैवे वृक्षप्रभेदे च पुत्रिका यावतूलिके ॥ ६९ ॥ पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूडके । पूर्णिका नासिकार्दिन्यां पृथुकश्चिपिटेऽर्भके ॥ ७० ॥ पृदाकुश्चित्रकव्याघ्रवृश्चिकेषु सरीसृपे । पेचकः करिलाङ्गूलमूले घूकेऽथ पेटकम् ॥ ७१ ॥ मञ्जूषायां समूहे च बहुको जलखातके । दात्यूहे कर्कटेऽर्के च बन्धूकः पीतसालके ॥ ७२ ॥ बन्धुजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी । स्वैरिण्यां च करिण्यां च बालिका कर्णभूषणे ॥ ७३ ॥ पिछोलायां वालुकायां बालायां बालकः पुनः । शिशौ मूर्खेऽश्वगजयोर्वालधौ भस्मकं रुजि ॥ ७४ ॥ विडङ्गे कलधौते च भ्रामकः फेरुधूर्त्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ७५ ॥ महालक्षणसम्पूर्णे पूरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कट्फलौषधौ ॥ ७६ ॥ यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका रचनायां तु रूपान्तरपरिग्रहे ॥ ७७ ॥ मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं त्रपुः । मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः ॥ ७८ ॥ मण्डूकी मण्डूकपर्ण्यां मण्डूकौ भेकशोणकौ । मल्लिको हंसभेदे स्यान्मल्लिका कुसुमान्तरे ॥ ७९ ॥ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृष्वथ मालिका ॥ ८० ॥ पक्षिमल्ले सरिद्भेदे ग्रैवेये पुष्पदामनि । मामकं तु मदीये स्यान्मामको मातुले स्मृतः ॥ ८१ ॥ मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके । मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु ॥ ८२ ॥ मोदको हर्षुके खाद्ये यमको यमजे व्रते । यमकं वागलङ्कारे याजको राजकुञ्जरे ॥ ८३ ॥ याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः । संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्जले ॥ ८४ ॥ रजकौ धावकशुक्रौ रसिका कटिसूत्रके । रसनायां रसालायां रल्लकः कम्बले स्मृतः ॥ ८५ ॥ तथैव कम्बलमृगे रात्रकं पञ्चरात्रके । रात्रकस्तु पण्यवधूगृहान्तर्वर्षवासिनि ॥ ८६ ॥ राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे । रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च ॥ ८७ ॥ रोचनायां विडङ्गे च मङ्गलद्रव्यदन्तयोः । अश्वस्याभरणे माल्ये प्रोत्कटेऽपि प्रकीर्तितः ॥ ८८ ॥ रूपकं नाटके प्रोक्तं काव्यालङ्कारधूर्त्तयोः । रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥ ८९ ॥ लम्पाको लम्पटे देशे लासकौ केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ॥ ९० ॥ कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूश्लथचर्मणि ॥ ९१ ॥ वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे । वञ्चको जम्बुके गेहनकुले खलधूर्तयोः ॥ ९२ ॥ वल्मीको नाकुवाल्मिक्यो रोगभेदेऽथ वर्णकः । विलेपने मलयजे चारणे वसुकं पुनः ॥ ९३ ॥ रोमके वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः । व्यलीकं व्यङ्ग्यवैलक्ष्याप्रियाकार्येषु पीडने ॥ ९४ ॥ वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ॥ ९५ ॥ वाल्हीकवद्वार्द्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके ॥ ९६ ॥ वालुका तु सिकतासु वितर्कः संशयोहयोः । विपाकः परिणामे स्याद् दुर्गतिस्वादुनोरपि ॥ ९७ ॥ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभल्लातशङ्करेषु महल्लके ॥ ९८ ॥ वृश्चिकस्तु द्रुणे राशावौषधे शूककीटके । वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे ॥ ९९ ॥ शङ्खकं वलये कम्बौ शङ्खकस्तु शिरोरुजि । शम्याकस्तु विपाके स्याद्याचके चतुरङ्गुले ॥ १०० ॥ शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः । शलाका शारिका शल्यः श्वाविदालेख्यकूर्चिका ॥ १०१ ॥ छत्रपञ्जरकाष्ठीषु शल्लकी श्वाविधि द्रुमे । शार्ककः स्याद् दुग्धफेने शर्करायाश्च पिण्डके ॥ १०२ ॥ शिशुकः पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे सुस्थे शूककः प्रावटे रसे ॥ १०३ ॥ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीकः पादपे नाकौ स्यात् स्यमीका तु नीलिका ॥ १०४ ॥ सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥ १०५ ॥ सम्पर्कः सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्करकादेश्च बुद्बुदे ॥ १०६ ॥ सूतकं जन्मनि रसे सूचकः शुनि दुर्ज्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च ॥ १०७ ॥ सृदाकुर्वज्रे दावाग्नौ प्रतिसूर्ये समीरणे । सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः ॥ १०८ ॥ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हुडुक्को मदमत्ते स्याद्दात्यूहे वाद्यभिद्यपि ॥ १०९ ॥ हेरुकस्तु महाकालगणबुद्धविशेषयोः । ;c{इति त्रिस्वरकान्ताः ।} ;v{त्रिस्वरखान्ताः} गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि ॥ ११० ॥ त्रिशिखो रक्षस्त्रिशिखं स्यात्किरीटत्रिशूलयोः । दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥ १११ ॥ प्रमुखं प्रथमे मुख्ये मयूखा ज्वालरुक्त्विषः । विशिखा खनित्रिकायां रथ्यायां विशिखः शरे ॥ ११२ ॥ विशाखो याचके स्कन्दे विशाख भे कठिल्लके । वैशाखः खजके मासे सुमुखो गरुडात्मजे ॥ ११३ ॥ पण्डिते फणिभेदे स्यात् ;c{इति त्रिस्वरखान्ताः ।} ;v{त्रिस्वरगान्ताः} अयोगः कठिनोद्यमे । विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्रयोः ॥ ११४ ॥ अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे । आभोगः परिपूर्मत्वे वरुणच्छत्रयत्नयोः ॥ ११५ ॥ आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः । आशुगोऽर्के शरे वायावुत्सर्गस्त्यागदानयोः ॥ ११६ ॥ वर्जने सामान्यविधावुद्वेगं पूगिकाफले । उद्वेगस्तूद्विजने स्यात्स्तिमिते शीघ्रगामिनि ॥ ११७ ॥ उद्वाहे च भयेऽपि स्यात् कलिङ्गो नीवृदन्तरे । पूतीकरञ्जे धूम्याटे स्यात्कलिङ्गा नितम्बिनी ॥ ११८ ॥ कलिङ्गं कौटजफले कालिङ्गस्तु भुजङ्गमे । द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी ॥ ११९ ॥ चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी । जिह्मगो मन्दगे सर्पे तुरगो वाजिचित्तयोः ॥ १२० ॥ तुरगी त्वश्वगन्धायां धाराङ्गः खड्गतीर्थयोः । नरङ्गः शेफे वरण्डे नारङ्गं विटजन्मिनोः ॥ १२१ ॥ कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः । निसर्गः सृष्टौ स्वभावे नीलङ्गुः कृमिजातिके ॥ १२२ ॥ भम्भराल्यां प्रसूने च प्लवगः कपिभेकयोः । अर्कसूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे ॥ १२३ ॥ परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥ १२४ ॥ पारदे शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः ॥ १२५ ॥ यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्गू राजसर्षपे ॥ १२६ ॥ पिपल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे । जातीफले नरश्रेष्ठे भुजङ्गः सर्पषिड्गयोः ॥ १२७ ॥ मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्गं कम्पिल्ये विद्रुमेऽपि च ॥ १२८ ॥ रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्गं योनौ शीर्षे गुडत्वचि ॥ १२९ ॥ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः । विसर्गो विसर्जनीये वर्चिसि त्यागदानयोः ॥ १३० ॥ सम्भोगो भोगरतयोः शुण्डायां सर्वगं जले । सर्वगस्तु विभौ रुद्रे सारङ्गो विहगान्तरे ॥ १३१ ॥ चातके चञ्जरीके च द्विपैणशबलेषु च । ;c{इति त्रिस्वरगान्ताः ।} ;v{त्रिस्वरघान्ताः} अनघः स्याद्गतपापे मनोज्ञे निर्मलेऽपि च ॥ १३२ ॥ अमोघः सफलेऽमोघा पुनः पथ्याविडङ्गयोः । उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि ॥ १३३ ॥ काचिघस्तु मूषिके स्याच्छातकुम्भे छमण्डके । परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च ॥ १३४ ॥ पलघः काचकलशे घटे प्राकारगोपुरे । प्रतिघौ रुट्प्रतीघातौ महार्घो लावकाण्डजे ॥ १३५ ॥ महामूल्येऽपि ;c{इति त्रिस्वरघान्ताः ।} ;v{त्रिस्वरचान्ताः} अवीचिस्तु तरङ्गे नरकान्तरे । कवचस्तु तनुत्राणे पटहे नन्दिपादपे ॥ १३६ ॥ क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ १३७ ॥ नमुचिर्दितिजे कामे नाराचो लोहसायके । जलेभे नाराच्येषण्यां प्रपञ्चो विप्रलम्भने ॥ १३८ ॥ विस्तारे सञ्चये वापि मरीचिः कृपणे घृणौ । ऋषिभेदे मारीचः कक्कोले याज्ञिकद्विजे ॥ १३९ ॥ रक्षोभेदेऽपि --- ;c{इति त्रिस्वरचान्ताः ।} ;v{त्रिस्वरजान्ताः} अण्डजः स्यात्कक्किण्डेऽहौ खगे झषे । अण्डजा मृगनाभ्यां स्यादङ्गजो मन्मथे सुते ॥ १४० ॥ मदे केशे सुन्दरे च कम्बोजो नीवृदन्तरे । शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः ॥ १४१ ॥ काम्बोजः पुनरश्वानां भेदे पुन्नागपादपे । वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ १४२ ॥ कारुजः कलभे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयं जाततिलेऽपि च ॥ १४३ ॥ कुटजोऽगस्त्ये द्रुभेदे द्रोणे गिरिजमभ्रके । शिलाजतुनि लोहे च गिरिजा मातुलुङ्ग्युमा ॥ १४४ ॥ जलजं कमले शङ्खे नीरजं पद्मकुष्ठयोः । परञ्जोऽसौ तैलयन्त्रे क्षुरिकाफलफेनयोः ॥ १४५ ॥ बाहुजस्तु स्वयंजाते तिले क्षत्रियकीरयोः । भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा ॥ १४६ ॥ वलजं गोपुरे सस्ये क्षेत्रसङ्गरयोरपि । सदाकारे वलजा तु पृथिव्यां वरयोषिति ॥ १४७ ॥ वनजो मुस्तके स्तम्बेरमे वनजमम्बुजे । वनजा तु मुद्गपर्ण्यां सहजः सहसम्भवे ॥ १४८ ॥ निसर्गे च सामजस्तु सामोत्थे कुञ्जरेऽपि च । हिमजो मेनकापुत्रे हिमजा पार्वती शटी ॥ १४९ ॥ ;c{इति त्रिस्वरजान्ताः ।} ;v{त्रिस्वरञान्ताः} क्षेत्रज्ञावात्मनिपुणौ दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शङ्करेऽपि च ॥ १५० ॥ ;c{इति त्रिस्वरञान्ताः ।} ;v{त्रिस्वरटान्ताः} अवटः कूपखिलयोर्गर्ते कुहकजीविनि । अरिष्टो लशुने निम्बे फेनिले दैत्यकाकयोः ॥ १५१ ॥ अरिष्टं सूत्यगारेऽन्तश्चिह्ने तक्रे शुभेऽशुभे । अवटुर्गर्तान्धुघाटासूत्कटस्तीव्रमत्तयोः ॥ १५२ ॥ उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ १५३ ॥ काके वाद्ये दुर्दुरूढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ कर्कटी ॥ १५४ ॥ शाल्मलीफलवालुङ्क्योः कार्पटो जतुकाऽर्थिनोः । कीकटः कृपणे नीचे देशभेदे तुरङ्गमे ॥ १५५ ॥ कुरण्टो झिटिकाभेदे कुरण्टी दारुपुत्रिका । कुक्कुटः कुक्कुभे ताम्रचूडे वह्निकणेऽपि च ॥ १५६ ॥ निषादशूद्रयोः पुत्रे कृपीटं चोदरे जले । चक्राटो धूर्त्ते दीनारे विषवैद्येऽथ चर्पटः ॥ १५७ ॥ चपेटे स्फारविपुले पर्पटे चिपिटः पुनः । पृथुके पिच्चटे खाद्यभेदे स्याद्विस्तृतावपि ॥ १५८ ॥ चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो यमले शुनि ॥ १५९ ॥ त्र्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामपि स्मृतम् । त्रिकूटं सिन्धुलक्षणे त्रिकूटः स्यात्सुवेलके ॥ १६० ॥ त्रिपुटौ तीरसतीनौ त्रिपुटा त्रिवृदौषधौ । सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके ॥ १६१ ॥ चतुष्पदीप्रभेदे च बैडालव्रतिकेऽपि च । धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने ॥ १६२ ॥ निर्दयेऽन्यदोषरते निष्कुटो गृहवाटिका । केदारकः कपाटश्च पर्पटो भेषजान्तरे ॥ १६३ ॥ पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः । स्यात्पर्क्कटी प्लक्षतरौ पूगादेर्नूतने फले ॥ १६४ ॥ पिच्चटस्तु नेत्ररोगे पिच्चटं त्रपुसीसयोः । बर्वटी व्रीहिभिद्वेश्या बार्वटः कान्तिपुज्जके ॥ १६५ ॥ वारुण्डे मकरे पोके भाकूटः शैलमीनयोः । भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमर्पके ॥ १६६ ॥ भावाटो भावके साधुनिवेशे कामुके नटे । मर्कटस्तु कपावूर्णनाभे स्त्रीकरणानतरे ॥ १६७ ॥ मर्कटी करञ्जभेदः शूकशिम्बी च वानरी । बीजं च राजकर्कट्याः प्राचीनामलकस्य च ॥ १६८ ॥ गवेधुकाफलं चापि चक्राङ्गीकरजान्तरम् । मोरटं त्विक्षुमूले स्यादङ्कोटकुसुमेऽपि च ॥ १६९ ॥ सप्तरात्रात्परं क्षीरे मोरटा मूर्विका मता । मोचाटः कदलीगर्भे चन्दने कृष्णजीरके ॥ १७० ॥ रेवटो दक्षिणावर्तशङ्खे जाङ्गुलिकेऽपि च । रेवटो (?) सोरटे वेणौ स्याद्वातूलवराहयोः ॥ १७१ ॥ वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ ॥ १७२ ॥ कराले सुन्दरे वाटे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः ॥ १७३ ॥ वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिचारिणि ॥ १७४ ॥ संसृष्टं तु सङ्गते स्याच्छुद्धे च वमनादिना । हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च ॥ १७५ ॥ ;c{इति त्रिस्वरटान्ताः ।} ;v{त्रिस्वरठान्ताः} अम्बष्ठो विप्रतो वैश्यतनये नीवृदन्तरे । अम्बष्ठा स्यादम्ललोण्यां पाठायूथिकयोरपि ॥ १७६ ॥ कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ । कमठः कच्छपे दैत्यविशेषे मुनिभाजने ॥ १७७ ॥ कमठः कठिने जीर्णे नर्मठौ षिड्गचूचुकौ । प्रकोष्ठः कूर्पराधस्ताद्भूपक्षान्तरेऽपि च ॥ १७८ ॥ हस्ते च विस्तृतकरे प्रतिष्ठा गौरवे स्थितौ । छन्दोजातौ यागसिद्धौ मकुष्ठौ धान्यमन्थरौ ॥ १७९ ॥ लघिष्ठो भेलकेऽत्यल्पे स्याद्वरिष्ठस्तु तित्तिरौ । वरिष्ठं मरिचे ताम्रे वरोरुतमयोरपि ॥ १८० ॥ वैकुण्ठो वासवे विष्णौ श्रीकण्ठः कुरुजाङ्गले । शङ्करे चाऽथ साधिष्ठोऽत्यर्थे दृढतमेऽपि च ॥ १८१ ॥ ;c{इति त्रिस्वरठान्ताः ।} ;v{त्रिस्वरडान्ताः} कारण्डो मधुकोशेऽसौ कारण्डवे दलाढके । कूष्माण्डौ गणकर्कारू कूष्माण्डी त्वम्बिकौषधी ॥ १८२ ॥ कोदण्डं कार्मुके देशभेदभ्रूलतयोरपि । गारुडं स्यान्मरकते विषशास्त्रे विषोद्भवे ॥ १८३ ॥ तरण्डो बडिशीसूत्रबद्धस्तुनि भेलके । तित्तिडो दैत्यभेदे स्याद्यमदासेऽथ तित्तडी ॥ १८४ ॥ कालदासे पादपे च तिन्तिडी चुक्रचिञ्चयोः । द्राविडो वेधमुख्ये स्यान्नीवृदन्तरशङ्खयोः ॥ १८५ ॥ निर्गुण्डी नीलशेफाली सिन्दुवारोऽब्जकन्दकः । प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ १८६ ॥ प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । पिचण्डो जठरे प्रोक्तः पशोरवयवेऽपि च ॥ १८७ ॥ पूत्यण्डः स्याद्गन्धमृगे सर्पभिद्गन्धकीटयोः । भेरुण्डौ भीषणखगौ भेरुण्डा देवताभिदि ॥ १८८ ॥ मारुण्डस्तु भुजङ्गाण्डे मार्गे गोमयमण्डले । मार्तण्डस्त्वरणौ क्रोडे वरण्डो वदनव्यथा ॥ १८९ ॥ अन्तरावेदिसङ्घौ च वरण्डा शारिका छुरी । वर्त्तिर्वारुण्डस्तु कर्णदृङ्मले सेकभाजने ॥ १९० ॥ गणिराजद्वारपिण्ड्योर्वारुण्डः खग उद्रिणि (?) । वितण्डा वातभेदे स्यात्कच्चीशाके शिलाह्वये ॥ १९१ ॥ करवीर्यामपि प्रोक्तः शिखण्डो बर्हिचूडयोः । सरण्डः स्यात्कृकलासे भूषणान्तरधूर्त्तयोः ॥ १९२ ॥ सपिण्डस्तनये प्रोक्तो दायादे सदृशेऽपि च । ;c{इति त्रिस्वरडान्ताः ।} ;v{त्रिस्वरढान्ताः} अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ १९३ ॥ आषाढो व्रतिनां दण्डे मासे च मलयाचले । उपोढ ऊढे निकटेऽप्युदूढः पीवरोढयोः ॥ १९४ ॥ प्ररूढो जठरे वृद्धे प्रगाठो दृढकृच्छ्रयोः । वारूढः शम्बले वस्त्राञ्चलेऽग्नौ पञ्जरेऽररे ॥ १९५ ॥ विरूढोऽङ्कुरिते जाते विगूढो गुह्यगुप्तयोः । समूढं पुञ्जिते भूग्ने सद्योजातेऽनुपप्लवे ॥ १९६ ॥ संरूढोऽङ्कुरिते प्रौढे समीढो मूत्रिते घने । ;c{इति त्रिस्वरढान्ताः ।} ;v{त्रिस्वरणान्ताः} अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः ॥ १९७ ॥ सन्ध्यारागे बुधे कुष्ठे निःशब्दाव्यक्तरागयोः । व्याकुले कपिले वर्णे रक्तवर्णेऽपि वाच्यवत् ॥ १९८ ॥ अरुणा त्रिवृताश्यामामञ्जिष्ठाऽतिविषासु च । अरणिस्तु भवेदग्निमन्थे निर्मन्थ्यदारुणि ॥ १९९ ॥ इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाः । इरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि ॥ २०० ॥ उषणा तु कणायां स्यादुषणं मरिचे मतम् । एषणी व्रतमार्गानुसारिण्यां च तुलाभिदि ॥ २०१ ॥ कङ्कणं करभूषायां हस्तसूत्रे च शेखरे । कत्तृणं रौहिषं फङ्गा कल्याणं हेम्नि मङ्गले ॥ २०२ ॥ करणः शूद्र्यां विट्पुत्रे करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ ॥ २०३ ॥ वर्णानां स्पष्टतादौ च योगिनामसानादिषु । हृषीके साधकतमे बवादौ च कृतावपि ॥ २०४ ॥ करुणा तु कृपायां स्यात् करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि ॥ २०५ ॥ कारणं घातने हेतौ करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके ॥ २०६ ॥ काकिणी मानदण्डे स्यात्तुरीयांशे पणस्य च । कृष्णलायां वराटे च कृपाणी कर्त्तरी छुरी ॥ २०७ ॥ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः । कोङ्कणः स्याज्जनपदे कोङ्कणं त्वायुधानतरे ॥ २०९ ॥ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्याये ग्रहणी तु रुगन्तरम् ॥ २१० ॥ ग्रामणीर्भोगिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामिणीः पण्ययोषा स्याद्ग्रामेयीनीलिकाऽपि च ॥ २११ ॥ गोकर्णोऽश्वतरे सर्पे मृगभेदे गणान्तरे । अङ्गुष्ठाऽनामिकोन्माने गोकर्णी मूर्विकौषधौ ॥ २१२ ॥ चरणो बह्वृचादौ स्यात्पादे च मूलगोत्रयोः । चरमं भ्रमणे भक्षे रासभस्य ध्वनावपि ॥ २१३ ॥ जारणो रुचके हिङ्गौ जीरके कृष्णजीरके । तरुणः कुब्जपुष्पे स्यादेरण्डे यूनि नूतने ॥ २१४ ॥ तरणिस्तरणेऽर्केंऽशौ कुमार्योषधिनौकयोः । यष्ठावद्धो(?) दक्षिणस्तु परच्छन्दानुवर्तिनि ॥ २१५ ॥ दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यथ दक्षिणा । दिक् प्रतिष्ठा यज्ञदानं द्रविणं काञ्चने धने ॥ २१६ ॥ पराक्रमे बलेऽपि स्यात् द्रुघणः पर्शुवेधसोः । मुद्गरेऽप्यथ दुर्वर्णं कलधौतकुवर्णयोः ॥ २१७ ॥ दौर्वीणं मृष्टपर्णे स्याद्धरितालीरसेऽपि च । धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे ॥ २१८ ॥ धरणं धारणे मानविशेषे धरणी भुवि । धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः ॥ २१९ ॥ सर्पभेदे वृक्षभेदे धर्षिणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारिणी नाडिकादिभिः ॥ २२० ॥ धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषणस्त्रिदशाचार्ये धिषणा तु मनीषिका ॥ २२१ ॥ निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः । निर्वाणं मोक्षनिवृत्त्योर्विघाते करिमज्जने ॥ २२२ ॥ निर्माणं सारनिर्मित्योः कर्मभेदे समज्जसे । निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च ॥ २२३ ॥ प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे । प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे ॥ २२४ ॥ आयत्ते च प्रमाणं तु मर्यादासत्यवादिनोः । प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः ॥ २२५ ॥ पत्रोर्णं धौतकौशेयं पत्रोर्णः शोणकद्रुमे । पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः ॥ २२६ ॥ प्रवेणिर्वेणिकुथयोः पुराणं प्रत्नशास्त्रयोः । पुराणः षोजशपणे पुराणं वानतन्तुषु ॥ २२७ ॥ पूरके पिष्टभेदे च पूरणी शाल्मलिद्रुमे । प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ ॥ २२८ ॥ भरणी शोणके भे च भ्रमणी स्यादधीशितुः । क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे ॥ २२९ ॥ भीषणो दारुणे गाढे मत्कुणोऽश्मश्रुपूरुषे । उद्दंशे नालिकेरे च निर्विषाणगजेऽपि च ॥ २३० ॥ मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि । मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽर्थिनि ॥ २३१ ॥ यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः । पटोलमूले जघने रमणो रासभे प्रिये ॥ २३२ ॥ रोषणो रोषणे हेमघर्षे पारद ऊषरे । रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि ॥ २३३ ॥ लोहिताकटुरोहिण्योर्लवणो राक्षसे रसे । अस्थिभेदे लवणा त्विड् लक्षणं नामचिह्नयोः ॥ २३४ ॥ लक्ष्मणं च लक्षणस्तु सौमित्रौ लक्ष्मणो यथा । लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् ॥ २३५ ॥ वरुणोऽर्केऽप्पतौ वृक्षे वरणो वरुणद्रुमे । प्राकारे वरणं वृत्यां वारणः स्यान्मतङ्गजे ॥ २३६ ॥ वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ । वेदे च ब्राह्मणो विप्रो ब्रह्मणी वाडवस्त्रियाम् ॥ २३७ ॥ स्पृक्कायां फञ्जिकायां च वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु श्रृङ्गे कोलेभदन्तयोः ॥ २३८ ॥ विषाणी मेषश्रृङ्ग्यां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निर्ग्रन्थे निन्द्यजीविनि ॥ २३९ ॥ श्रणा सुलता मांसी मुण्डीरी च सुदर्शना । श्रवणो नक्षत्रभेदे श्रवणं श्रवसि श्रुतौ ॥ २४० ॥ शरणं रक्षणे गेहे वधरक्षकयोरपि । श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता ॥ २४१ ॥ श्रीपर्णस्त्वग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे । सङ्कीर्णो निचितेऽशुद्धौ सरणिः श्रेणिमार्गयोः ॥ २४२ ॥ सारणः स्यादतीसारे दशकन्धरमन्त्रिणि । सारणी त्वल्पसरिति प्रसारण्योषधावपि ॥ २४३ ॥ सिङ्खाणं तु घ्राणमलेऽयःकिट्टे काचभाजने । सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके ॥ २४४ ॥ सुवर्णं काञ्चने क्र्षे सुवर्णालौ मखान्तरे । कृष्णागुरुणि बिस्ते च सुपर्णः कृतमालके ॥ २४५ ॥ गरुडे स्वर्णचूडे च सुपर्णा विनताऽब्जिनी । हरणं यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ ॥ २४६ ॥ हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति । सुवर्णप्रतिमायां च हरितावृत्तभेदयोः ॥ २४७ ॥ हर्षणं श्राद्धदेवे च हर्षके योगरुग्भिदोः । हरेणुः कुलयोषायां रेणुकायां सतीनके ॥ २४८ ॥ हिरणं हिरण्यमिव वराटे हेम्नि रेतसि । ;c{इति त्रिस्वरणान्ताः ।} ;v{त्रिस्वरतान्ताः} अमृतं यज्ञशेषाम्बुसुधामोक्षेष्वयाचिते ॥ २४९ ॥ अन्नकाञ्चनयोर्जग्धौ खे स्वादुनि रसायने । घृते हृद्ये गोचरे चाऽमृतो धन्वन्तरौ सुरे ॥ २५० ॥ अमृताऽऽमलकापथ्यागूडूचीमाधवीषु च । अनृतं कर्षमेऽलीके चाऽक्षतः स्यादहिंसिते ॥ २५१ ॥ षण्ढे लाजेष्वर्दितं तु वातव्याधौ हतेऽर्थिते । अजितस्तीर्थकृद्भेदे बुद्धे विष्णावनिर्जिते ॥ २५२ ॥ अच्युतो द्वादशस्वर्गे केशवाऽभ्रष्टयोरपि । अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः ॥ २५३ ॥ अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि । विष्णौ शेषेऽप्यनन्ता तु गुडूची भूर्दुरालभा ॥ २५४ ॥ विशल्या लाङ्गली दूर्वा शारिवा हैमवत्यपि । अश्मन्तमशुभे क्षेत्रे चुल्यामनवधौ मृतौ ॥ २५५ ॥ अमतिः काले चन्द्रे स्यादङ्कतिश्चिह्नवेधसोः । अग्निहोत्रिण्यगस्तिर्द्रुमुन्योः स्याददितिर्भुवि ॥ २५६ ॥ देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः । आपातः पाते तत्कालेऽप्यदृतः सादरेऽर्चिते ॥ २५७ ॥ आख्यातं भाषिते त्यादावाघ्रातं ग्रस्तशिङ्घिते । आप्लुतः स्नातके स्नातेऽप्यावर्तः पयसां भ्रमे ॥ २५८ ॥ आवर्तने चिन्तने चाऽऽनर्तो जनपदे जने । समरे नृत्यशालायामाहतं तु मृषार्थके ॥ २५९ ॥ गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः । वातरोगेऽप्यथाऽऽस्फोतः कोविदारार्कपर्णयोः ॥ २६० ॥ आस्फोता गिरिकर्ण्यां तु वनमाल्यामथाऽऽचितः । छादेते शकटोन्मेये पलानामयुतद्वये ॥ २६१ ॥ सङ्गृहीतेऽप्यथाऽऽयस्तः क्लिशिते तेजिते हते । क्रुद्धे क्षिप्तेऽथाऽऽयतिः स्यात्प्रभावोत्तरकालयोः ॥ २६२ ॥ दैर्ध्यसङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि । आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीम्नि च ॥ २६३ ॥ आसत्तिः सङ्गमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः । आपद्यपीङ्गितं तु स्याच्चेष्टायां गमनेऽपि च ॥ २६४ ॥ उत्तप्तं चञ्चले शुष्कमांससन्तप्तयोरपि । उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् ॥ २६५ ॥ वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तूद्गतोक्तयोः । उद्धृतं स्यादतुलिते परिभुक्तोज्झितेऽपि च ॥ २६६ ॥ उषितं व्युषिते प्लुष्टेऽप्युच्छ्रितं तूच्चजातयोः । प्रवृद्धे स्यादथोद्वान्त उद्गीर्णे निर्मदद्विपे ॥ २६७ ॥ उदात्तो दातृमहतोर्हृद्ये च स्वरभिद्यपि । उन्मत्तो मुचुकुन्दे स्याद्धत्तूरोन्मादयुक्तयोः ॥ २६८ ॥ उदन्तः साधौ वार्तायामुद्घातः समुपक्रमे । मुद्गरेऽभ्यासयोगाय कुम्भकादित्रयेऽपि च ॥ २६९ ॥ पादस्खलन उत्तुङ्गेऽप्युन्नतिस्तार्क्ष्ययोषिति । उदग्रे च समृद्धौ चाप्येधतुर्नरि पावके ॥ २७० ॥ क्रन्दितो रुदिते हूतौ कलितं विदिताप्तयोः । कपोतः पारावते स्यात्कवकाख्यविहङ्गमे ॥ २७१ ॥ कापोतं यामुने सर्ज्यां कपोतानाञ्च संहतौ । किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि ॥ २७२ ॥ किराती कुट्टिनी गङ्गा कृतान्तोऽक्षेमकर्मणि । सिद्धान्तयमदैवेषु गर्जितो मत्तकुञ्जरे ॥ २७३ ॥ गर्जितं जलदध्वाने ग्रन्थितं हतदृब्धयोः । आक्रान्ते च गरुत्मांस्तु विहगे पन्नगाशने ॥ २७४ ॥ गभस्तिः स्याद्दिनकरे स्वाहाकिरणयोरपि । गोदन्तो हरिताले स्यात्सन्नद्धे दंशितेऽपि च ॥ २७५ ॥ गोपतिः शङ्करे षण्ढे नृपतौ त्रिदशाधिपे । सहस्रकिरणे चापि ज्वलितौ दग्धभास्करौ ॥ २७६ ॥ जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः । जीवन्त्यामिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ ॥ २७७ ॥ जम्बूवप्रे जने लोके जामाता दुहितुः पतौ । सूर्यावर्ते वल्लभे च जिमूतौ वासवेऽम्बुदे ॥ २७८ ॥ घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः । जीवन्यां च गुडूच्यां च जीवातुर्जीवनौषधे ॥ २७९ ॥ जीविते च जृम्भितं तु प्रवृद्धे च विचेष्टिते । जृम्भायां स्फुटिते चापि त्वरितं वेगतद्वतोः ॥ २८० ॥ तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ । त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ॥ २८१ ॥ घुर्घुयामथ तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती च द्रवन्त्यपि ॥ २८२ ॥ नद्यामोषधिभेदे च द्विजातिर्ब्राह्मणेऽण्डजे । दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः ॥ २८३ ॥ दारिद्र्ये नरके चापि दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ॥ २८४ ॥ निरस्तः प्रेरितशरे सन्त्यक्ते त्वरितोदिते । निष्ठ्यूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ २८५ ॥ निवातो वातरहिते दृढसन्नाह आश्रये । निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे ॥ २८६ ॥ निशान्तं सदने शान्ते प्रभातेऽप्यथ निर्वृतिः । मोक्षे मृत्यौ सुखे सौस्थे निकृतिः शठशाठ्ययोः ॥ २८७ ॥ भर्त्सनेऽभिभवे क्षेपे निर्ऋतिर्निरुपद्रवे । अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ २८८ ॥ प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ २८९ ॥ प्रहतं विस्तृते क्षुण्णे पलितं पङ्कतापयोः । पक्वकेशे शैलजाते पण्डितः सिह्लधीमतोः ॥ २९० ॥ प्रणीत उपसम्पन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ च पर्याप्तं शक्ते तृप्तौ निवारणे ॥ २९१ ॥ यथेष्टे दोषे कृच्छ्रे च पर्याप्तिः परिरक्षणे । प्राप्ते कामे प्रसृतोऽर्द्धाञ्जलौ वेगिविनीतयोः ॥ २९२ ॥ तते च प्रसृता जङ्घा प्रमीतं प्रोक्षिते मृते । पर्यस्तं तु हते स्रस्ते प्रपातो निर्झरे भृगौ ॥ २९३ ॥ अवटे पतने कच्छे पक्षतिः प्रतिपत्तिथौ । पक्षमूले पर्वतस्तु देवर्षौ धरणीधरे ॥ २९४ ॥ प्रसूतिः प्रणवोत्पत्तिपुत्रेषु दुहितर्यपि । पद्धतिः पथि पङ्क्तौ च प्रकृतिर्योनिशिल्पिनोः ॥ २९५ ॥ पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिर्विस्तृतिर्लता ॥ २९६ ॥ प्रवृत्तिर्वृत्तवृत्ताप्रवाहेषु प्रवर्तने । प्रचितः शकटोन्मेषे पलानामयुतद्वये ॥ २९७ ॥ प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते । प्रार्थितं शत्रुसंरुद्धे याचिते निहतेष्टयोः ॥ २९८ ॥ पार्वती शल्लकी गौरी जीवनी द्रुपदात्मजा । पिण्डितं गुणिते सान्द्रे पिशितं मांसवाचकम् ॥ २९९ ॥ पिशिता मांसिकायां स्यात् पीडितं करणे स्त्रियाः । बाधिते यन्त्रसंमर्दे पुटितः स्यूतपाटिते ॥ ३०० ॥ हस्तिपुटे पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात् प्रोषितं प्रेरिते गते ॥ ३०१ ॥ प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे । क्षेत्रे रामानुजे शास्त्रे दौष्यन्तावृषभात्मजे ॥ ३०२ ॥ तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि । भारती यक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् ॥ ३०३ ॥ वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः । मथितं निर्मलव्याजे व्यालोडितनिघृष्टयोः ॥ ३०४ ॥ महती तु बृहत्यां स्याद्वीणायां नारदस्य च । मालती युवतौ काकमाच्यां जातीविशल्ययोः ॥ ३०५ ॥ ज्योत्स्नायां निशि नद्यां च मुण्डितं खण्डिते हृते । मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽपि च ॥ ३०६ ॥ मूर्च्छितं सोछ्रये मूढे रजतो दन्तिदन्तयोः । धवले शोणिते हारे दुर्वर्णे ह्रदशैलयोः ॥ ३०७ ॥ रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि । रमतिर्नायके स्वर्गे रमितं स्तनिते रुते ॥ ३०८ ॥ रेवती बलभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णालौ हरेऽसुरे ॥ ३०९ ॥ रोहितो लोहिते मीने मृगे रोहितकद्रुमे । रोहितं त्वृजुशक्रास्त्रे धीरे ललितमीप्सते ॥ ३१० ॥ तडिते हारभेदे च लोहितो मङ्गले नदे । वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने ॥ ३११ ॥ गोशीर्षे रुधिरे युद्धे वर्धितं छिन्नवर्द्धयोः । प्रसृते वनिते तु स्यात्प्रर्थिते सेवितेऽपि च ॥ ३१२ ॥ वनितोत्पादितात्यर्थरागनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥ ३१३ ॥ व्रततिस्तु प्रतानिन्यां विस्तारे वहतुः पथि । वृषभे वहतिर्धेन्वां सचिवेऽप्यथ वापितम् ॥ ३१४ ॥ बीजाकृते मुण्डिते च व्याघातो योगविघ्नयोः । धातेऽपि व्यायतं दीर्घे व्यावृतेऽतिशये दृढे ॥ ३१५ ॥ वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे । वासन्ती माधवीयूथीपाटलास्वथ वासितम् ॥ ३१६ ॥ वस्त्रच्छन्ने ज्ञातमात्रे भाविते विहगारवे । वासिता करिणीनार्योर्विहितं तु कृते श्रुते ॥ ३१७ ॥ विदितं स्वीकृते ज्ञाते विवस्वान् देवसूर्ययोः । विश्रुतं तु प्रतीते स्याज्जातहर्षितयोरपि ॥ ३१८ ॥ विगतो निःप्रभे वीते विविक्तो वसुनन्दके । विविक्तं स्यादसम्पृक्ते रहःपूतविवेकिषु ॥ ३१९ ॥ विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः । बीभत्सश्च विनीतस्तु निभृते निर्जितेन्द्रिये ॥ ३२० ॥ वाणिज्ये साधुवाह्यश्वे विनयग्राहिते हृते । विनतः प्रणते भूग्ने विनता पिटिकाभिदि ॥ ३२१ ॥ सुपर्णायां विहस्तस्तु विकले पण्डकेऽकरे । विश्वस्तः कृतविश्वासे विश्वस्ता विधवस्त्रियाम् ॥ ३२२ ॥ विजातो विकृते जाते विजाता तु प्रसूतिका । विवर्तो नर्त्तने सङ्घेऽपावृत्तौ विकृती रुजि ॥ ३२३ ॥ डिम्बे विकारे मद्यादौ विपत्तिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हारविच्छेदयोरपि ॥ ३२४ ॥ विधाता द्रुहिणे कामे विनेतादेशके नृपे । वृत्तान्तस्तु प्रकरणे कार्त्स्न्ये वार्ताप्रकारयोः ॥ ३२५ ॥ बृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः । महत्यां वाचि वर्द्धन्यां वेल्लितं कुटिले धुते ॥ ३२६ ॥ प्लुते वेष्टितं लासके रुद्धे स्त्रीकरणानतरे । शकुन्तो विहगे भासे श्रीपतिर्विष्णुभूपयोः ॥ ३२७ ॥ शुद्धान्तः स्याद्रहःकक्षान्तरे राज्ञोऽवरोधने । संख्यावान् बुधमितयोः सरस्वानुदधौ नदे ॥ ३२८ ॥ संवर्तः प्रलयेऽक्षद्रौ संहतं मिलिते दृढे । स्खलितं छलिते भ्रेषे संस्कृतं लक्षणान्विते ॥ ३२९ ॥ भूषिते कृत्रिमे शस्ते शङ्घातो घातसङ्घयोः । नरके च समाप्तिः स्यादवसाने समर्थने ॥ ३३० ॥ संहिता वर्णमसंयोगे शास्त्रवेदैकदेशयोः । स्थपतिः सौविदेऽधीशे बृहस्पतीष्टियज्वनि ॥ ३३१ ॥ कारुके च सन्ततिस्तु तनये दुहितर्यपि । परम्पराभवे पङ्क्तौ गोत्रविस्तारयोरपि ॥ ३३२ ॥ सन्नतिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसङ्गयोः । संमतिर्वाञ्छाऽनुमत्योः समितिर्युधि सङ्गमे ॥ ३३३ ॥ साम्ये सभायां संवित्तिः प्रतिपत्तिविवादयोः । स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिन्ननिश्चलौ ॥ ३३४ ॥ सिकताः स्युर्वालुकायां सिकता सैकते रुजि । सुकृतं तु शुभे पुण्ये सुविधानेऽथ सुव्रता ॥ ३३५ ॥ सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सद्व्रते । सुनीतिर्ध्रुवमाता स्यात्सुनया सुरतं पुनः ॥ ३३६ ॥ मोहने सुरता देवभावे च सुहितः पुनः । तृप्तावुक्ते सुष्ठुहिते सूनृतं प्रियसत्यवाक् ॥ ३३७ ॥ मङ्गले च हसन्ती तु मल्लिकाऽङ्गारधानिका । स्मिताङ्गाशाकिनाभेदे हर्मितं क्षिप्तदग्धयोः ॥ ३३८ ॥ हारीतो मुनिभेदे स्यात्कैतवे विहगान्तरे । हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ॥ ३३९ ॥ ;c{इति त्रिस्वरतान्ताः ।} ;v{त्रिस्वरथान्ताः} अश्वत्थो गर्दभाण्डे स्यात्पिप्पले संस्मृतौ जले । अश्वत्थेषापौर्णमास्यामतिथिः कुशनन्दने ॥ ३४० ॥ क्रुध्यागन्ता वव्यथस्तु व्यथाहीने च पन्नगे । अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः ॥ ३४१ ॥ उत्सङ्गगुदयोश्चापि समीपस्थितवत्यपि । उन्माथो मारणे कूटयन्त्रघातकयोरपि ॥ ३४२ ॥ उद्रथस्ताम्रचूडे स्यान्महेन्द्रमहकामुके । क्षवथुः कासे छिक्कायां कायस्थोऽक्षरजीवकः ॥ ३४३ ॥ परमात्मा च कायस्था हरीतक्यामलक्यपि । गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ॥ ३४४ ॥ दमथो दमने दण्डे निर्ग्रन्थो भिक्षुमूर्खयोः । श्रमणे च निशीथस्तु रात्रिमात्राऽर्द्धरात्रयोः ॥ ३४५ ॥ प्रमथः शङ्करगणे प्रमथा तु हरीतकी । मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः ॥ ३४६ ॥ रुदथः कुक्कुटशुनोर्वर्वथः पिककालयोः । वरूथं स्यात्तनुत्राणे रथगोपनवेश्मनोः ॥ ३४७ ॥ वयस्थो मध्यमवया वयस्था शाल्मलिद्रुमे । ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ ३४८ ॥ वमथुर्वमने कासे मातङ्गकरशीकरे । विदथो योगिनि प्राज्ञे शमथः सचिवे शमे ॥ ३४९ ॥ शपथः कार आक्रोशे शपने च सुतादिभिः । शयथः स्यादजगरे निद्रालौ मरणेऽपि च ॥ ३५० ॥ षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा शटी । समर्थः शक्तिसम्पन्ने सम्बद्धार्थे हितेऽपि च ॥ ३५१ ॥ सिद्धार्थः सर्षपे शाक्यसिंहेऽन्त्यजिनप्तरि ;c{इति त्रिस्वरथान्ताः ।} ;v{त्रिस्वरदान्ताः} अर्बुदः पर्वते मांसकीलके दशकोटिषु ॥ ३५२ ॥ अर्द्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने । गलहस्ते नखाङ्केऽर्द्धचन्द्रेऽङ्गदस्तु वालिजे ॥ ३५३ ॥ अङ्गदं तु केयूरे स्यादङ्गदा याम्यदिग्गजी । आस्पदं कृत्यपदयोरामोदो गन्धहर्षयोः ॥ ३५४ ॥ आक्रन्दो दारुणरणे सारावरुदिते नृपे । क्षमदं तोये क्षणदो गणके क्षणदा निशि ॥ ३५५ ॥ कपर्दः पार्वतीभर्त्तुर्जटाजूटे वराटके । कर्णान्दुः स्यात्कर्णपाल्युत्क्षिप्तिका कुमुदः कपौ ॥ ३५६ ॥ दिङ्नागनागयोर्दैत्यविशेषे च सितोत्पले । कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने ॥ ३५७ ॥ वृद्ध्याजीवे कौमुदस्तु कार्तिके कौमुदीन्दुभा । गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ ॥ ३५८ ॥ गोष्पदं गोखुरे श्वभ्रे गवां च गतिगोचरे । जलदो मुस्तके मेघे जीवदो रिपुवैद्ययोः ॥ ३५९ ॥ ग्रन्थपर्णे तमोभित्तु शशिमार्तण्डवह्निषु । तोयदो मुस्तके मेघे तोयदं नवनीतजे ॥ ३६० ॥ दारदो विषभेदे स्यात्पारदे हिङ्गुलेऽपि च । दायादौ सुतसपिण्डौ दोहदो गर्भलक्षणे ॥ ३६१ ॥ अभिलाषे तथा गर्भे धनदौ दातृगुह्यकौ । नलदा मांस्यां नलदमुशीरमकरन्दयोः ॥ ३६२ ॥ नर्मदा रेवानर्माल्योर्निषादः श्वपचे स्वरे । निर्वादस्त्यक्तवादे च प्रमदो मुदि मत्तके ॥ ३६३ ॥ प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु । काव्यगुणे प्रह्लादस्तु निनादे दानवान्तरे ॥ ३६४ ॥ प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे । देवतायतने चापि मर्यादा स्थितिसीमयोः ॥ ३६५ ॥ माकन्दः स्यात्सहकारे माकन्द्यामलकीफले । मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे ॥ ३६६ ॥ मेनादः केकिनि च्छागे मार्जारे वरदः पुनः । प्रसन्ने शान्तचिन्ते च वरदा तु कुमारिका ॥ ३६७ ॥ विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे । शरद्भवे पतीमुद्गे शालीनेऽप्यथ शारदी ॥ ३६८ ॥ सप्तपर्णाम्बुपिप्पल्योः सम्भेदः सिन्धुसङ्गमे । पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचना ॥ ३६९ ॥ जननी बाहुबलिनोऽपि- ;c{इति त्रिस्वरदान्ताः ।} ;v{त्रिस्वरधान्ताः} अगाधोऽस्ताघरन्ध्रयोः । अवधिः स्यादबधाने कालसीमबिलेष्वपि ॥ ३७० ॥ आनद्धौ बद्धमुरजावाविद्धः क्षिप्तवक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्रये ॥ ३७१ ॥ संहननेऽप्युपाधिस्तु धर्मध्याने विशेषणे । कुटुम्बव्यापृते छद्मन्युपधिर्व्याजचक्रयोः ॥ ३७२ ॥ कबन्धं सलिले रुण्डे कबन्धो राहुरक्षसोः । दुर्विधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ३७३ ॥ शम्यां व्यामे न्यग्रोधी तु मोहनाख्यौषधावपि । वृषपर्ण्यां निषधस्तु कठिने पर्वते स्वरे ॥ ३७४ ॥ देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ३७५ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ ३७६ ॥ वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्षली । यूथीभाषविशेषश्च विबुधः पण्डिते सुरे ॥ ३७७ ॥ विश्रब्धोऽनुद्भटे शान्ते विश्वस्तात्यर्थयोरपि । विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ३७८ ॥ सम्बाधः सङ्कटे योनौ संरोधः क्षेपरोधयोः । सन्नद्धो वर्मिते व्यूढे समाधिः स्यात्समर्थने ॥ ३७९ ॥ चित्तैकाग्र्यनियमयोर्मौने सन्निधिरन्तिके । प्रत्यक्षे चाथ संसिद्धिः सम्यक्सिद्धिस्वभावयोः ॥ ३८० ॥ ;c{इति त्रिस्वरधान्ताः ।} ;v{त्रिस्वरनान्ताः} अयनं पथि गेहेऽर्कस्योदग्दक्षिणतो गतौ । अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ३८१ ॥ नेत्ररोगेऽर्जुनः पार्थे हैहये ककुभद्रुमे । मातुरेकसुते चाऽर्जुन्यषा गौः कुट्टिनी सरित् ॥ ३८२ ॥ अङ्गनं प्राङ्कणे यानेऽप्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तद्वायावञ्जनं मसौ ॥ ३८३ ॥ रसाञ्जनेऽक्तौ सौवीरेऽथाञ्जनो दिङ्मतङ्गजे । अञ्जना हनुमन्मातर्यञ्जनी लेप्ययोषिति ॥ ३८४ ॥ अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्य्यभक्तायामशनिर्वज्रविद्युतोः ॥ ३८५ ॥ अरत्निः कूर्परे पाणौ सप्रकोष्ठतताङ्गुलौ । आसनं विष्टरे हस्तिस्कन्धे यात्रानिवर्तने ॥ ३८६ ॥ आसनो जीवकतरावासनी पण्यवीथिका । आपन्नः सापदि प्राप्तेऽप्यादानं वाजिभूषणे ॥ ३८७ ॥ ग्रहणेऽथोत्थानं सैन्ये पौरुषे युधि पुस्तके । उद्यमोद्गमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ३८८ ॥ मलोत्सर्गेऽप्यथोत्तानः सुप्तोन्मुखगभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ३८९ ॥ उद्धानमुद्गमे चुल्यामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ ३९० ॥ कामिकामाभिरूपेषु कठिनं निष्ठुरोषयोः । कठिनी तु खटिका स्यात्कठिना गुडशर्करा ॥ ३९१ ॥ कर्तनं योषितां तूलसेवने छेदनेऽपि च । क्रन्दनं रोदने ह्वाने कल्पनं क्लृप्तिकर्तने ॥ ३९२ ॥ कल्पनेभसर्ज्जनायां कलापी प्लक्षकेकिनोः । कञ्चुकी जोङ्गकतरौ महल्ले पन्नगे विटे ॥ ३९३ ॥ काञ्चनं हेम्नि किञ्जल्के काञ्चनो नागकेसरे । उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ॥ ३९४ ॥ काञ्चनी तु हरिद्रायां कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥ ३९५ ॥ कुहनो मूषिके सेर्ष्ये कुहना दम्भकर्मणि । कुण्डली वरुणे सर्पे मयूरे कुण्डलान्विते ॥ ३९६ ॥ केतनं सदने चिह्ने कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ३९७ ॥ कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे । कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ ३९८ ॥ कायगुह्ये कौलीन्ये च गहनं वनगुह्ययोः । गह्वरे कलिले चापि गन्धनं तु प्रकाशने ॥ ३९९ ॥ सूचनोत्साहहिसासु गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदग्धस्य पशोर्मांसे सरोनके ॥ ४०० ॥ गोस्तनो हारभेदे स्याद्गोस्तनी हारहूरिका । घटना चलनावृत्योश्चलनः पादकम्प्रयोः ॥ ४०१ ॥ चलनं कम्पे चलनी वारीभिद्वस्त्रघर्घरी । चन्द्नो वानरभिदि श्रीखण्डे चन्दिनी नदी ॥ ४०२ ॥ चेतनः स्यात्सहृदयः प्राणिनोश्चेतना तु धीः । चोलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ ४०३ ॥ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि । छदनं पत्रगरुतोश्छेदनं कर्तने भिदि ॥ ४०४ ॥ जयनं विजये श्वादिसन्नाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ ४०५ ॥ वेग्यश्वे नीवृति जवन्यपट्यामोषधीभिदि । जीवनस्तु पुत्रजीवे जीवनं वृत्तिवारिणोः ॥ ४०६ ॥ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा । तलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ॥ ४०७ ॥ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुषु ॥ ४०८ ॥ तपस्वी तापसे दीने तरस्वी वेगिशूरयोः । तेमनं व्यज्जने क्लेदे तेमनी चुल्लिभिद्यपि ॥ ४०९ ॥ तोदनं व्यथने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेऽग्नौ च दमनो द्वीपपुष्पयोः ॥ ४१० ॥ दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्म्मदंशयोः ॥ ४१० ॥ द्विजन्मा वौ रदे विप्रे दुर्नाम पुनरर्शसि । दुर्नामा दीर्घकोश्यां स्पाद्देवनोऽक्षेऽथ देवनम् ॥ ४११ ॥ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्त्राध्मायके च धमनी कन्धरा शिरा ॥ ४१२ ॥ हरिद्रा च धावनं तु गतौ शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ ४१३ ॥ नलिनं नीलिकातोयाम्बुजेषु नलिनी पुनः । पद्माकरे गङ्गाब्जिन्योर्निधनं कुलनाशयोः ॥ ४१४ ॥ निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च प्रधनं युधि दारणे ॥ ४१५ ॥ प्रधानं प्रकृतौ वृद्धावुत्ताने परमात्मनि । महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥ ४१६ ॥ प्रज्ञानं बुद्धौ चिह्ने च स्यात् प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवल्लयोः ॥ ४१७ ॥ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अब्जेऽब्जिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ४१८ ॥ पावनः पावके सिह्लेऽध्यासे पावयितर्यपि । पावनी तु हरीतक्यां पाठीनो गुग्गुलुद्रुमे ॥ ४१९ ॥ पाठके मीनभेदे च प्रर्थना याचने स्मृता । अभियाने रोधने च पिशुनः सूचके खले ॥ ४२० ॥ कप्यास्ये पिशुना स्पृक्का स्यात् पिशुनं तु कुङ्कुमम् । पीतनं तु हरिताले पीतदारुणि कुङ्कुमे ॥ ४२१ ॥ पीतनः पुनराम्राते पूतना तु हरीतकी । वध्या च वासुदेवस्य पृतनाऽनीकिनी चमूः ॥ ४२२ ॥ सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः । नदीजेऽर्जुने वृक्षे च फाल्गुनी पूर्णिमाभिदि ॥ ४२३ ॥ भवनं सदने भावे भण्डनं कवचे युधि । खलीकारे भट्टिनी तु ब्राह्मण्यां नृपयोषिति ॥ ४२४ ॥ भावना वासना ध्यानं भुवनं लोकखाम्बुषु । भूतात्मा द्रुहिणे देहे मदनः सिक्थके स्मरे ॥ ४२५ ॥ राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः । मलिनी रजस्वलायां मण्डनं तु प्रसाधने ॥ ४२६ ॥ मण्डनोऽलङ्करिष्णौ स्यान्मार्जनो लोध्रशाखिनि । मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ ॥ ४२७ ॥ मालिन्युमायां गङ्गायां चम्पावृत्तप्रभेदयोः । मालिक्यां मिथुनो राशौ मिथुनं पुंस्त्रियोर्युगे ॥ ४२८ ॥ मुण्डनं रक्षणे क्षौरे मेहनं मूत्रशिश्नयोः । मैथुनं रतसङ्गत्योर्यमनं दमबन्धयोः ॥ ४२९ ॥ यावनं कालविक्षेपे निराशे वर्तनेऽपि च । योजनं तु चतुःक्रोश्यां स्याद्योगपरमात्मनोः ॥ ४३० ॥ रसनं ध्वनिते स्वादे रसज्ञारास्नयोरपि । रज्जनं रजके रक्तचन्दनेऽप्यथ रञ्जनी ॥ ४३१ ॥ मञ्जिष्ठारोचनानीलीगुण्डासु रजनी निशि । लाक्षानीलीहरिद्रासु राधनं प्राप्तितोषयोः ॥ ४३२ ॥ साधने रेचनी गुन्द्रा दन्ती रोचनिका त्रिवृत् । रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ ॥ ४३३ ॥ रोचना रक्तकह्लारे गोपित्ते वरयोषिति । लङ्घनं भोजनत्यागे लवने क्रमणेऽपि च ॥ ४३४ ॥ ललामवल्ललामाऽश्वे श्रृङ्गे चिह्नपताकयोः । रम्ये प्रधाने भूषायां पुण्ड्रे पुच्छप्रभावयोः ॥ ४३५ ॥ ललना स्त्री नाडिजिह्वा लाञ्छनं लक्ष्मसंज्ञयोः । लाङ्गली स्याद्बलभद्रे नालिकेरेऽथ लेखनम् ॥ ४३६ ॥ भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे । दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु ॥ ४३७ ॥ पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः । तेमनेऽवयवे कादौ वमनं छर्दनेऽर्दने ॥ ४३८ ॥ वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः । वर्द्धनं छेदने वृद्धौ वर्द्धनी तु गलन्तिका ॥ ४३९ ॥ वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि । वर्तने तर्कुपिण्डे वा वनश्वा विप्रतारके ॥ ४४० ॥ शार्दूले गन्धमार्जारे वमनो दिग्गजेऽच्युते । खर्वेऽङ्कोठे वाहिनी तु सेनातद्भेदसिन्धुषु ॥ ४४१ ॥ स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि । वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि ॥ ४४२ ॥ तुच्छे मन्दे वृत्तशून्ये शून्यावसथयोरपि । विज्ञानं कार्मणे ज्ञाने विलग्नं मध्यलग्नयोः ॥ ४४३ ॥ विक्लिन्नो जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ । विषघ्नः शिरीषतरौ विषघ्ना त्रिवृता मृता ॥ ४४४ ॥ विच्छिन्नं तु कुटिले स्यात् समालब्धविभक्तयोः । विमानं देवतायाने सप्तभूमिगृहेऽपि च ॥ ४४५ ॥ विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने । चेतनोपायविधिषु प्रकारे वैरकर्मणि ॥ ४४६ ॥ विपन्नो भूजगे नष्टे विश्वप्सा वह्निचन्द्रयोः । समीरणे कृतान्ते च विलासी भोगिसर्पयोः ॥ ४४७ ॥ विषयी विषयासक्ते वैषयिकजने नृपे । कामे विषयि हृषीके व्युत्थानं प्रतिरोधने ॥ ४४८ ॥ विरोधाचरणे स्वैरवृत्तौ समाधिपारणे । वृजिनः केशे वृजिनं भुग्नेऽघे रक्तचर्मणि ॥ ४४९ ॥ वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ । वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः ॥ ४५० ॥ रते शमनस्तु यमे शमनं शान्तिहिंसयोः । श्वसनं श्वासे श्वसनः पवने मदनद्रुमे ॥ ४५१ ॥ शकुनं स्याद्दैवशंसिनिमित्ते शकुनः खगे । शकुनिः खगे करणभेदे कौरवमातुले ॥ ४५२ ॥ शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः । शासनं नृपदत्तोर्व्यां शास्त्राज्ञालेखशास्तिषु ॥ ४५३ ॥ शिखरी कोठकोयष्ट्योर्द्रुमेऽपामार्गशैलयोः । शिखण्डी कुक्कुटे चित्रमेखले बर्हिबर्हयोः ॥ ४५४ ॥ भीष्मारौ बाणे श्रृङ्गारी सुवेषे क्रमुके द्विपे । श्लेष्मघ्नी स्यान्मल्लिकायां कम्पिल्लकफणिज्जयोः ॥ ४५५ ॥ शोभनः सुन्दरे योगे सवनं स्नानयागयोः । सोमनिर्दलने चापि सदनं जलसद्मनोः ॥ ४५६ ॥ स्तननं क्रन्दने मेघगर्जितध्वनिमात्रयोः । स्पर्शनं हृषीके दाने स्पर्शे च स्पर्शनोऽनिले ॥ ४५७ ॥ स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे । संव्यानं छादने वस्त्रे समानो देहमारुते ॥ ४५८ ॥ वर्णभित्सत्समैकेषु सन्तानोऽपत्यगोत्रयोः । सन्ततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ ॥ ४५९ ॥ चतुष्पथे सन्निवेशे सज्जनं घट्टगुल्मके । सज्जनस्तु कुलीने स्यात्सज्जनाऽपि च कल्पना ॥ ४६० ॥ सन्धानं तु सङ्घटनेऽभिषवे सन्धिनी तु गौः । वृषाक्रान्ता कालदुग्धा स्थापनं तु निवेशने ॥ ४६१ ॥ पुंसवने समाधौ च साधनं सिद्धिसैन्ययोः । उपायेऽपगमे मेढ्रे निवृत्तौ कारके वधे ॥ ४६२ ॥ दीपने मृतसंस्कारे प्रमाणे गमने धने । सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि ॥ ४६३ ॥ सुदामा पर्वते मेधे सुधन्वा त्वष्ट्रधन्विनोः । सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः ॥ ४६४ ॥ सूचना स्यादभिनये गन्धने व्यधने दृशि । सेवनं सीवनोपास्त्योः सेनानीः सैन्यपे गुहे ॥ ४६५ ॥ हसन्यङ्गारधान्यां स्याद्धसनं हसिते मतम् । हस्तिनी नायिकाभेदे मातङ्गस्य स्त्रियामपि ॥ ४६६ ॥ हायनोऽर्चिर्व्रीहिर्वर्षं ह्रादिनी वज्रविद्युतोः । हिण्डनं क्रीडारतयोर्याने - ;c{इति त्रिस्वरनान्ताः ।} ;v{त्रिस्वरपान्ताः} अनूपस्तु सैरिभे ॥ ४६७ ॥ जलप्रयेऽप्यथाऽऽवापः पानभेदालवालयोः । प्रक्षेपे भाण्डपवनेऽप्याक्षेपः परिभर्त्सने ॥ ४६८ ॥ काव्यालङ्करणाकृष्ट्योः स्यादाकल्पः प्रसाधने । कल्पने वाप्युलपस्तु गुल्मिनीतृणभेदयोः ॥ ४६९ ॥ उडुपः प्लवशीतांश्वोः कलापो बर्हितूणयोः । संहतौ भूषणे काञ्च्यां कच्छपो मल्लबन्धने ॥ ४७० ॥ कमठे कच्छपी वीणा कशिपुर्भोज्यवस्त्रयोः । एकैकस्मिन्द्वयोश्चचापि कश्यपो मुनिमीनयोः ॥ ४७१ ॥ काश्यप्युर्व्यां कुतपस्तु छागकम्बलदर्भयोः । वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि ॥ ४७२ ॥ भागिनेयेऽष्टमांशेऽह्नो वाद्येऽथ कुटपो मुनौ । निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि ॥ ४७३ ॥ शवे जिह्वापस्तु शुनि व्याघ्रे द्वीपिबिडालयोः । प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः ॥ ४७४ ॥ रक्तपो रक्षो रक्तपा जलौका विटपः पुनः । पल्लवेऽपि च वृक्षेषु विस्तारे षिड्गशाखयोः ॥ ४७५ ॥ सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् । ;c{इति त्रिस्वरपान्ताः ।} ;v{त्रिस्वरबान्ताः} कदम्बः सर्षपे नीपे कदम्बं निकुरम्बके ॥ ४७६ ॥ कलम्बो नालिकाशाके पृषत्के नीपपादपे । कादम्बः कलहंसेष्वोः नितम्बः कटिरोधसोः ॥ ४७७ ॥ स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् । दैत्यस्तालाङ्कुरः शाखा प्रालम्बस्तु पयोधरे ॥ ४७८ ॥ त्रपुषे हारभेदे च भूजम्बूस्तु विकङ्कते । गोधूमाह्वयधान्ये च हेरम्बः शौर्यगर्विते ॥ ४७९ ॥ महिषे विघ्नराजे वा - ;c{इति त्रिस्वरबान्ताः ।} ;v{त्रिस्वरभान्ताः} आरम्भस्तु वधदर्पयोः । त्वरायामुद्यमे वाऽप्यात्मभूर्ब्रह्मणि मन्मथे ॥ ४८० ॥ ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे । कर्णरन्ध्रे कोलपुच्छे श्रेष्ठे चाप्युत्तरस्थितः ॥ ४८१ ॥ ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति । विधवायां शिरालायां करभो मृग उष्ट्रके ॥ ४८२ ॥ अङ्गुलेश्च कनिष्ठायां मणिबन्धस्य चान्तरे । ककुभो वीणाप्रसेवे रागभेदेऽर्जुनद्रुमे ॥ ४८३ ॥ कुसुम्भं तु शातकुम्भे स्याल्लट्वायां कमण्डलौ । गर्दभो रासभे गन्धे गर्दभी जन्तुरुग्भिदोः ॥ ४८४ ॥ गर्दभं कुमुदश्वेते दुर्लभः कच्छुरे प्रिये । दुष्प्रापे दुन्दुभिस्तु स्याद्भेर्यां दितिसुते विषे ॥ ४८५ ॥ अक्षबिन्दुत्रिकद्वन्द्वे निकुम्भः कुम्भकर्णजे । दन्त्यां च वल्लभोऽध्यक्षे कुलीनाश्वे प्रियेऽपि च ॥ ४८६ ॥ वर्षाभूः पुनर्नवायां स्याद्गण्डूपदभेकयोः । विष्कम्भो विस्तृतौ योगविशेषप्रतिबन्धयोः ॥ ४८७ ॥ योगिनां च बन्धभेदे रूपकावयवेऽपि च । विस्रम्भः केलिकलहे विश्वासे प्रमये वधे ॥ ४८८ ॥ वृषभः स्यादादिजिने वृषपुङ्गवयोरपि । सनाभिर्ज्ञातिसदृशोः सुरभिर्हेम्नि चम्पके ॥ ४८९ ॥ जातीफले मातृभेदे रम्ये चैत्रवसन्तयोः । सुगन्धौ गवि शल्लक्याम् ;c{इति त्रिस्वरभान्ताः ।} ;v{त्रिस्वरमान्ताः} अधमो न्यूनगर्ह्ययोः ॥ ४९० ॥ आगमं त्वागतौ शास्त्रे आश्रमो व्रतिनां मठे । ब्रह्मचर्यादिचतुष्केऽप्युत्तमा दुग्धिकौषधौ ॥ ४९१ ॥ उत्तमं तु प्रधाने स्यात् कलमः शालिचौरयोः । कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ॥ ४९२ ॥ कृत्रिमं लवणभेदे कृत्रिमः कृतसिह्लयोः । गोधूमो भेषजे नागरङ्गव्रीहिविशेषयोः ॥ ४९३ ॥ गोलोमी वारयोषायां षड्ग्रन्थासितदूर्वयोः । गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः ॥ ४९४ ॥ गौतम्युमायां रोचन्यां तलिमं तल्पखड्गयोः । विताने कुट्टिमे चापि दाडिमः करकैलयोः ॥ ४९५ ॥ निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुःकुलेऽपि च । नियमः स्यात्प्रतिज्ञायां निश्चये यन्त्रणे व्रते ॥ ४९६ ॥ निगमाः पूर्वणिग्भेदनिश्चयाध्ववणिक्पथाः । नैगमो नयपौरोपनिषद्दृतिषु वाणिजे ॥ ४९७ ॥ प्रथमः स्यात्प्रधानाद्योः प्रक्रमोऽवसरे क्रमे । पञ्चमः पूरणे दक्षे पञ्चानामपि पूरणे ॥ ४९८ ॥ रागभेदे पञ्जमी तु द्रौपद्यां परमः परे । अग्रेसरप्रधानयोरोङ्कारे परमं पुनः ॥ ४९९ ॥ स्यादव्ययमनुज्ञायां प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च मध्यमो मध्यजे स्वरे ॥ ५०० ॥ देहमध्ये मध्यदेशे मध्यमा कर्णिकाङ्गुलिः । राका रजस्वला चापि व्यायामः पौरुषे श्रमे ॥ ५०१ ॥ वियामे दुर्गसञ्चारे विलोममरघट्टके । विलोमो वरुणे सर्पे प्रतीपे कुक्कुरेऽपि च ॥ ५०२ ॥ वलोमी स्यादामलक्यां विक्रमः शक्तिसम्पदि । क्रान्तौ च विद्रुमो वृक्षे प्रवालेऽप्यथ विभ्रमः ॥ ५०३ ॥ शोभायां संशये हावे सत्तमः श्रेष्ठपूज्ययोः । साधिष्ठे संभ्रमो भीतौ संवेगादरयोरपि ॥ ५०४ ॥ सुषीमः शिशिरे रम्ये सुषमं रुचिरे समे । सुषमा तु स्यात्परमशोभायां कालभिद्यपि ॥ ५०५ ॥ ;c{इति त्रिस्वरमान्ताः ।} ;v{त्रिस्वरयान्ताः} अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ ५०६ ॥ अभयमुशीराभीत्योरभाया तु हरीतकी । अनयोऽशुभदैवे स्याद्विपव्द्यसनयोरपि ॥ ५०७ ॥ अश्वीयमश्वसङ्घेऽश्वहितेऽधृष्यः प्रगल्भके । अधृष्या निम्नगाभेदेऽहल्या गौतमयोषिति ॥ ५०८ ॥ सरोभेदेऽप्यभिख्या तु शोभायां कीर्तिसंज्ञयोः । अहार्यो हर्तुमशक्ये शैलेऽथाशय आश्रये ॥ ५०९ ॥ अभिप्रायपनसयोरादित्यस्त्रिदशार्कयोः । आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि ॥ ५१० ॥ आतिथ्योऽतिथौ तद्योगेऽप्याम्नायः कुल आगमे । उपदेशे चेन्द्रियं तु चक्षुरादिषु रेतसि ॥ ५११ ॥ उदयः पर्वतोन्नत्योरूर्णायुरविकम्बले । ऊर्णानाभे च मेषे चैणेयमेणीत्वगादिके ॥ ५१२ ॥ रतबन्धादिषु स्त्रीणां कषायः सुरभौ रसे । रागवस्तुनि निर्यासे क्रोधादिषु विलेपने ॥ ५१३ ॥ वर्णे कालेयस्तु दैत्ये कालेयं कुङ्कुमं यकृत् । कुकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ५१४ ॥ कुलायः पक्षिणां स्थानगेहयोः क्षेत्रियास्त्रयः । अन्यदेहचिकित्सार्हाऽसाध्यरुक्पारदारिकाः ॥ ५१५ ॥ क्षेत्रियं क्षेत्रजतृणे गाङ्गेयं स्वर्णमुस्तयोः । कशेरुण्यथ गाङ्गेयो गाङ्गवत्स्कन्दभीष्मयोः ॥ ५१६ ॥ चक्षुष्यः सुभगे पुण्डरीकवृक्षे रसाञ्जने । केतकेऽक्षिहिते चापि चक्षुष्या तु कुलत्थिका ॥ ५१७ ॥ चाम्पेयो हेम्नि किञ्जल्के चम्पके नागकेसरे । जघन्यं शिश्ने गर्ह्येऽन्त्ये जटायुर्गुग्गुलौ खगे ॥ ५१८ ॥ तपस्यः फाल्गुने मासे तपस्या नियमस्थितौ । द्वितीया तिथिगेहिन्योर्द्वितीयः पूरणे द्वयोः ॥ ५१९ ॥ नादेयी भूमिजम्ब्वां स्यान्नारङ्गे जलवेतसे । काङ्गुष्ठे च जपायां च निकायः सद्मसङ्घयोः ॥ ५२० ॥ परमात्मनि लक्ष्ये च निलयोऽस्तमये गृहे । गोपनस्य प्रदेशेऽपि नेपथ्यं तु प्रसाधने ॥ ५२१ ॥ रङ्गभूमौ वेषभेदे प्रणयः प्रेमयाच्ञयोः । विस्रम्भे प्रसरे चापि प्रत्ययो ज्ञानरन्ध्रयोः ॥ ५२२ ॥ विश्वासे शपथे हेतावाचारप्रथितत्वयोः । अधीने निश्चये स्यादौ प्रणाय्यः कामवर्जिते ॥ ५२३ ॥ असंमते प्रसव्यस्तु प्रतिकूलानुकूलयोः । प्रतीक्ष्यः प्रतिपाल्यै स्यात्पूज्ये च प्रलयो मृतौ ॥ ५२४ ॥ संहारे नष्टचेष्टत्वे पर्यायोऽवसरे क्रमे । निर्माणे द्रव्यधर्मे च पर्जन्यो गर्जदम्बुदे ॥ ५२५ ॥ वासवे मेघशब्दे च पयस्यं तु पयोभवे । पयोहिते पयस्या तु काकोली दुग्धिकाऽपि च ॥ ५२६ ॥ प्रक्रिया तूत्पादने स्यादधिकारप्रकारयोः । पानीयं पेयजलयोः पारुष्यस्तु बृहस्पतौ ॥ ५२७ ॥ पारुष्यं परुषभावे सङ्क्रन्दनवनेऽपि च । पौलस्त्यो रावणे श्रीदे भ्रातृव्यो भ्रातृजे रिपौ ॥ ५२८ ॥ भुजिष्यः स्यादनधीने किङ्करे हस्तसूत्रके । भुजिष्या गणिकादास्योर्भुवन्युर्वह्निसूर्ययोः ॥ ५२९ ॥ मलयो देश आरामे शैलांशे पर्वतान्तरे । मलया त्रिवृत् मङ्गल्यस्त्रायमाणे मसूरके ॥ ५३० ॥ बिल्वे मङ्गल्यं तु दध्नि मङ्गल्या रोचना शमी । शतपुष्पा शुक्लवचा प्रियङ्गुः शङ्खपुष्प्यपि ॥ ५३१ ॥ अधःपुष्पी मृगयुस्तु फेरौ ब्रह्मणि लुब्धके । रहस्यं गोपनीये च रहस्या सरिदन्तरे ॥ ५३२ ॥ लौहित्योऽब्धौ नदे व्रीहौ ब्रह्मण्यो ब्रह्मणो हिते । शनैश्चरे व्यवायस्तु मैथुनव्यवधानयोः ॥ ५३३ ॥ वदान्यः प्रियवाग्दानशीलयोरुभयोरपि । वक्तव्यो वाच्यवद्गर्ह्ये वचोर्हहीनयोरपि ॥ ५३४ ॥ वलयः कङ्कणं कण्ठरुग् वालेयस्तु गर्दभे । वल्यर्थे कोमलेऽङ्गारवल्लर्यां विजयो जये ॥ ५३५ ॥ पार्थे विमाने विजयोमातत्सख्योस्तिथावपि । विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः ॥ ५३६ ॥ शब्दादौ जनपदे च विस्मयोऽद्भुतदर्पयोः । विनयः शिक्षाप्रणत्योर्विनया तु बलौषधौ ॥ ५३७ ॥ विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्मणस्य च ॥ ५३८ ॥ श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे । बिल्वे मुनौ च शालेयं शतपुष्पाह्वयौषधे ॥ ५३९ ॥ क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदकचे शैलेयं शैलसम्भवे ॥ ५४० ॥ सिन्धूत्थे तालपर्ण्यां च शैलेयस्तु मधुव्रते । समयः शपथे भाषासम्पदोः कालसंविदोः ॥ ५४१ ॥ सिद्धान्ताचारसङ्केतनियमावसरेषु च । क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥ ५४२ ॥ सन्निवेशे सन्नयस्तु समवायानुसैन्ययोः । सामर्थ्यं योग्यताशक्त्योः सौकर्यं तु विना श्रमे ॥ ५४३ ॥ सूकरस्य क्रियायां च सौरभ्यं गुणगौरवे । सौगन्ध्ये चारुतायां च हिरण्यं पुनरक्षये ॥ ५४४ ॥ प्रधानधातौ कनके मानभेदे कपर्दके । द्रविणाकुप्ययोश्चापि हृच्छयो मन्मथात्मनोः ॥ ५४५ ॥ हृदयं वक्षसि स्वान्ते बुक्कायाम्- ;c{इति त्रिस्वरयान्ताः ।} ;v{त्रिस्वररान्ताः} अमरः सुरे । स्नुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती ॥ ५४६ ॥ स्थूणा दुर्वा गुडूची वाऽन्तरं रन्ध्रावकाशयोः । मध्ये विनार्थे तादर्थ्ये विशेषेऽवसरेऽवधौ ॥ ५४७ ॥ आत्मीयात्मपरिधानान्तर्धिबाह्येष्वथाऽवरम् । चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः ॥ ५४८ ॥ अक्षरं स्यादपामार्गे परमब्रह्मवर्णयोः । गगने धर्मतपसोरध्वरे मूलकारमे ॥ ५४९ ॥ अधरोऽनूर्ध्वहीनोष्ठे अध्वरः सावधानके । वसुभेदे क्रतौ चाप्यथाऽम्बरं व्योमवस्त्रयोः ॥ ५५० ॥ कार्पासे सुरभिद्रव्येऽररं छदकपटयोः । अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ ५५१ ॥ अजिरं दर्दुरे कार्ये विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽग्नावङ्गारोऽलातभौमयोः ॥ ५५२ ॥ अण्डीरः सक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीराश्योरगुरुर्जोङ्गके लघौ ॥ ५५३ ॥ शिंशपायामवीरा तु नारी पतिसुतोज्झिता । रजसा संयुताऽप्युक्ताहार आहरणेऽशने ॥ ५५४ ॥ आसारो वेगवद्वर्षे सुहृद्बलप्रसारयोः । आकार इङ्गिताकृत्योराधारो जलधारणे ॥ ५५५ ॥ आलवालेऽधिकरणेऽप्याकरो निकरे खनौ । इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि ॥ ५५६ ॥ पथिके दुर्विधे नीचे स्यादित्वर्यभिसारिका । ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराऽद्रिजा ॥ ५५७ ॥ उदरं तुन्दरणयोरुत्तरं प्रवरोर्ध्वयोः । उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे ॥ ५५८ ॥ उत्तरा दिगुदीच्यां स्यात्स्नुषायामर्जुनस्य च । उद्धारः स्यादृणोद्धृत्योरुदारो दक्षिणो महान् ॥ ५५९ ॥ दातोर्वरा तु भूमात्रे सर्वसस्याढ्यभुव्यपि । ऋक्षरं वारिधारायामृक्षरः पुन ऋत्विजि ॥ ५६० ॥ एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे च कररः खगे ॥ ५६१ ॥ करीरे क्रकचे दीने कर्बुरं काञ्चने जले । कर्बुरो राक्षसे पापे शबले कन्दरोऽङ्कुशे ॥ ५६२ ॥ विवरे च गुहायां च कर्करो मुकुरे दृढे । कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ५६३ ॥ कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः । कच्चरं कुत्सिते तक्रे कडारो दासपिङ्गयोः ॥ ५६४ ॥ कञ्जारः कुञ्जरे सूर्ये जठरे द्रुहिणे मुनौ । करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः ॥ ५६५ ॥ कलत्रं श्रोणौ भार्यायां दुर्गस्थाने च भूभूजाम् । कटित्रं तु कटीवस्त्रे रशनाचर्मभेदयोः ॥ ५६६ ॥ कच्छुरः पुंश्चले पामासहिते कच्छुरा शटी । दुस्पर्शा शूकशिम्बी च कबरं लवणाम्लयोः ॥ ५६७ ॥ कबरी केशविन्यासशाकयोः कन्धरोऽम्बुदे । कन्धरा तु शिरोधौ स्यात् कसेरुः पृष्ठकीकसे ॥ ५६८ ॥ तृणजातौ कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभीकर्णकारेषु कटप्रूरक्षदेवने ॥ ५६९ ॥ विद्याधरेऽस्रपे रुद्रे कर्चूरं शटितालयोः । कठोरौ पूर्णकठिनौ कान्तारं दुर्गवर्त्मनि ॥ ५७० ॥ महारण्योपसर्गाढ्योः काननेक्षुविशेषयोः । काश्मीरं पुष्करमूले टङ्ककुङ्कुमयोरपि ॥ ५७१ ॥ कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे । किर्मीरः शबले दैत्ये किशोरो हयशावके ॥ ५७२ ॥ सूर्ये यून्यथ किंशारुर्धान्यशूके शरेऽपि च । कुहरं गह्वरे छिद्रे कुक्कुरं ग्रन्थिपर्णके ॥ ५७३ ॥ कुक्कुरः श्वा कुबेरस्तु धनदे नन्दिपादपे । कूर्परौ जानुकफोणी कुमारोऽश्वानुवारके ॥ ५७४ ॥ युवराजे शिशौ स्कन्दे शुके वरुणपादपे । कुमारं जात्यकनके कुमारी त्वपराजिता ॥ ५७५ ॥ नदीभिद्रामतरणी कन्यका नवमाल्युमा । जम्बूद्वीपविभागश्च कुठारं केवले रते ॥ ५७६ ॥ कुञ्जरोऽनेकपे कोशे कुञ्जरा धातकीद्रुमे । पाटलायां कुठारुर्द्रुकीशयोः कूवरः पुनः ॥ ५७७ ॥ कुब्जे युगन्धरे रम्ये केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे ॥ ५७८ ॥ पुन्नागवृक्षे किञ्जल्के स्यात् केसरं तु हिङ्गुनि । केदारः क्षेत्रभिद्यालवाले शङ्करशैलयोः ॥ ५७९ ॥ केनारः कुम्भिनरके शिरःकपालसन्धिषु । कैटिरः शक्रगोपे स्यान्कुले पाकशासने ॥ ५८० ॥ कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके । खर्परं तस्करे भिक्षापात्रे धूर्त्तकपालयोः ॥ ५८१ ॥ खपुरो मुस्तके पूगेऽलसके खपुरं घटे । खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः ॥ ५८२ ॥ खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षताक्षरे । खदिरी शाके खदिरो दन्तधावनचन्द्रयोः ॥ ५८३ ॥ खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके । खिखीरावद् बहुत्वे च गह्वरं बिलदम्भयोः ॥ ५८४ ॥ कुञ्जेऽथ गर्ग्रो मीने स्याद् गर्गरी तु मन्धनी । गान्धारो रागसिन्दूरस्वरेषु नीवृदन्तरे ॥ ५८५ ॥ गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः । मुस्तके द्वारि पूर्द्वारे घर्घरस्तु नदान्तरे ॥ ५८६ ॥ चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनोः । चत्वरं स्यात्पथां श्लेषे स्थण्डिलाजिरयोरपि ॥ ५८७ ॥ चङ्कुरः स्यन्दने वृक्षे चतुरो नेत्रगोचरे । चाटुकारे बुधे चक्रगण्डे चातुरको यथा ॥ ५८८ ॥ चमरश्चामरे दैत्ये चमरी तु मृगान्तरे । चिकुरोऽहौ गृहबभ्रौ केशे चञ्चलशैलयोः ॥ ५८९ ॥ पक्षिवृक्षभिदोश्चापि छिदिरोऽग्नौ परश्वधे । करवाले च रज्जौ च छित्वरो दैत्यधूर्त्तयोः ॥ ५९० ॥ छित्वरं छेदने द्रव्ये जठरः कुक्षिवृद्धयोः । कठिने च जर्जरं तु वासवध्वजजीर्णयोः ॥ ५९१ ॥ जम्बीरः प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे । जलेन्द्रो जम्भकेऽम्भोधौ वरुणेऽप्यथ झर्झरः ॥ ५९२ ॥ वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी । वाद्यभेदे केशचक्रे टङ्कारो ज्यारवेऽद्भुते ॥ ५९३ ॥ प्रसिद्धौ चाथ टगरष्टङ्कणे केकराक्षके । टट्टरी त्वनृताख्यानलम्पापटहवाद्ययोः ॥ ५९४ ॥ तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी । तमस्ततिस्तिमिरं तु दृष्टिरोगान्धकारयोः ॥ ५९५ ॥ तित्तिरिः पक्षिणि मुनौ तुषारो हिमदेशयोः । शीकरे हिमभेदे च तुम्बुरी धन्याकं शुनी ॥ ५९६ ॥ तूवरोऽश्मश्रुपुरुषेऽप्रौढाश्रृङ्गानडुह्यपि । दहरो मूषिको ह्यल्पो भ्राता डिम्होऽथ दन्तुरः ॥ ५९७ ॥ उन्नतदन्ते विषमे दर्दुरो भेकमेघयोः । वाद्यभेदे शैलभेदे दर्दुरं ग्रामजालके ॥ ५९८ ॥ दर्दुरोमा दर्दरः स्यादीषद्भग्ने गिरावपि । दण्डारो वहने मत्तवारणे शरयन्त्रके ॥ ५९९ ॥ कुम्भकारस्य यंत्रे च द्वापरं संशये युगे । दासेर उष्ट्रे चेटे च दुर्द्धरस्त्वृषभौषधौ ॥ ६०० ॥ दुःखधार्य्ये धूसरस्तु रासभे स्तोकपाण्डुरे । नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽथ नागरम् ॥ ६०१ ॥ शुण्ठीमुस्तकपौरेषु निर्जरस्त्वसुरे सुरे । निर्जरा तु तालपत्र्यां गुडूच्यां तत्त्वभिद्यपि ॥ ६०२ ॥ निर्झरोऽर्काश्वे तुषाग्नौ निकरः सारसङ्घयोः । न्यायदातव्यवित्ते च निर्वरं तु गतत्रपे ॥ ६०३ ॥ कठिने निर्भये सारे निकारस्तु पराभवे । धान्योत्क्षेपे नीवरस्तु वास्तव्येऽपि वणिज्यपि ॥ ६०४ ॥ प्रवरं सन्ततौ गोत्रे श्रेष्ठे च प्रखरः पुनः । वेसरे हयसन्नाहे कुक्कुरेऽतिभृशं खरे ॥ ६०५ ॥ प्रकरः कीर्णपुष्पादौ संहतौ प्रकरं पुनः । जोङ्गके प्रकरी त्वर्थप्रकृतौ चत्वराऽवनौ ॥ ६०६ ॥ प्रस्तरः प्रस्तारे ग्राव्णि मणौ च प्रदरः शरे । भङ्गे रोगे प्रसरस्तु सङ्गरे प्रणये जवे ॥ ६०७ ॥ प्रकारः सदृशे भेदे पङ्कारो जलकुब्जके । सोपाने शैवले सेतौ पदारः पादधूलिषु ॥ ६०८ ॥ पादालिन्दे पवित्रं तु मेध्ये ताम्रे कुशे जले । अर्घोपकरणे चापि पवित्रा तु नदीभिदि ॥ ६०९ ॥ प्रान्तरं कोटरेऽरण्ये दूरशून्यपथेऽपि च । पार्परो भस्मनि यमे जराटे नीपकेसरे ॥ ६१० ॥ क्षयरोगे भक्तसिक्थे पामरो मूर्खनीचयोः । पाटीरो मूलके वङ्गे तितऔ वातिकेऽम्बुदे ॥ ६११ ॥ केदारे वेणुसारे च पाण्डुरो वर्णतद्वतोः । पाण्डुरं तु मरुबके पिण्डारो भिक्षुके द्रुमे ॥ ६१२ ॥ महिषीपालके क्षेपे पिठरं मथि मुस्तके । उखायां च पिञ्जरस्तु पीते रक्तेऽश्वभिद्यपि ॥ ६१३ ॥ पिञ्जरं शातकुम्भे स्यात् पीवरः स्थूलकूर्मयोः । पुष्करं द्वीपतीर्थाहिखगराजौषधान्तरे ॥ ६१४ ॥ तूर्यास्येऽसिफले काण्डे शुण्डाग्रे खे जलेऽम्बुजे । वठरो मूर्खशठयोः बन्धूरो रम्यनम्रयोः ॥ ६१५ ॥ बन्धुरस्तु तयोर्हंसे बन्धुजीवविडङ्गयोः । बन्धुरा पण्ययोषायां बर्बरी नीवृदन्तरे ॥ ६१६ ॥ बर्बरस्तु हञ्जिकायां पामरे केशचक्रले । पुष्पे च बर्बरा शाके वर्करः पशुनर्मणोः ॥ ६१७ ॥ वदरा स्यादेलापर्ण्यां विष्णुक्रान्तौषधावपि । बदरी कोलिकार्पास्योर्बादरं तु तयोः फले ॥ ६१८ ॥ बदरस्तु कार्पासास्थ्नि भङ्गुरौ वक्रनश्वरौ । भ्रामरं मधुदृषदोर्भास्करो वह्निसूर्ययोः ॥ ६१९ ॥ भार्योरुरन्यस्त्रीपुत्रोत्पादके मृगशैलयोः । भृङ्गारी तु चीरिकायां भृङ्गारः कनकालुका ॥ ६२० ॥ मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि । कृपणे मत्सरा तु स्यान्मक्षिका मकरो निधौ ॥ ६२१ ॥ नक्रे राशिविशेषे च मन्दरो मन्थपर्वते । स्वर्गमन्दारयोर्मन्दे बहले मधुरं विषम् ॥ ६२२ ॥ मधुरस्तु प्रिये स्वादौ रसे च रसवत्यपि । मधुरा मथुरापुर्यां यष्टीमोदामधूलिषु ॥ ६२३ ॥ मधुकर्कटिकायां च मिश्रेयाशतपुष्पयोः । मन्दिरो मकरावासे मन्दिरं नगरे गृहे ॥ ६२४ ॥ मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं तु कुसुम्भ्यां स्यान्मन्दारस्त्रिदशद्रुमे ॥ ६२५ ॥ पारिभद्रेऽर्कपर्णे च मसूरो मसुरोऽपि च । मसुरा च मसूरा च चत्वारः पण्ययोषिति ॥ ६२६ ॥ तथा व्रीहिविशेषे च मर्मरो वसनान्तरे । शुष्कपत्रध्वनौ चापि मर्मरी पीतदारुणि ॥ ६२७ ॥ मयूरः केकिचूडाख्योषध्यपामार्गकेकिषु । महेन्द्रो वासवे शैले मज्जरी तिलकद्रुमे ॥ ६२८ ॥ वल्लर्य्यां स्थूलमुक्तायां माठरो व्यासविप्रयोः । सूर्यानुगेऽथ मार्जारः स्यात्खट्वाङ्गबिडालयोः ॥ ६२९ ॥ मिहिरोऽर्केऽम्बुदे बुद्धे मुद्गरः कोरकास्त्रयोः । लोष्ठादिभेदने वापि मुहिरो मूर्खकामयोः ॥ ६३० ॥ मुदिरः कामुके मेघे मुकुरो मकुरो यथा । कुलालदण्डे बकुले कोरकादर्शयोरपि ॥ ६३१ ॥ मुर्मुरो मन्मथे सूर्यतुरगे तुषपावके । रुधिरं घुसृणे रक्ते रुधिरो धरणीसूते ॥ ६३२ ॥ वल्लरं कुञ्जमञ्जर्योः क्षेत्रेऽनम्भसि शाद्वले । वल्लूरं तु वनक्षेत्रे वाहनोषरयोरपि ॥ ६३३ ॥ शुष्कमांसे कोलमांसे वरत्रा वर्त्तिकक्षयोः । वशिरं किणिही सिन्धुलवणे कुम्भकेषु च ॥ ६३४ ॥ वागरो वारके शाणे निर्णये वाडवे वृके । मुमुक्षौ पण्डिते चापि परित्त्यक्तभयेऽपि व ॥ ६३५ ॥ वासरो रागभेदेऽह्नि वादरं कृमिजे जले । काकचिञ्च्याश्च बीजे वाग्दक्षिणावर्तशङ्खयोः ॥ ६३६ ॥ वासुरा वासितारात्र्योर्भुवि विष्टर आसने । पादपे कुशमुष्टौ च विस्तरौ स्तम्बविस्तृती ॥ ६३७ ॥ विदुरो नागरे धीरे धृतराष्ट्रानुजेऽपि च । विकारो विकृतौ रोगे विहारस्तु जिनालये ॥ ६३८ ॥ लीलायां भ्रमणे स्कन्धे विदारो युधि दारणे । विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः ॥ ६३९ ॥ विधुरं स्यात्प्रविश्लेषे विकले विधुरा पुनः । रसालायां विसरस्तु समूहे प्रसरेऽपि च ॥ ६४० ॥ शबरो म्लेच्छभेदेऽप्सु हरेऽथो शम्बरं जले । चित्रे बौद्धव्रतभेदे शम्बरो दानवान्तरे ॥ ६४१ ॥ मत्स्यैणगिरिभेदेषु शम्बरी पुनरौषधौ । शर्करा खण्डविकृतौ कर्परांशे रुगन्तरे ॥ ६४२ ॥ उपलायां शर्करायुग्देशे च शकलेऽपि च । शणीरं शोणमध्यस्थपुलिने दर्दरीतटे ॥ ६४३ ॥ शर्वरी निशि नार्यां च शक्वरी सरिदन्तरे । छन्दोजातौ मेखलायां शारीरं देहजे वृषे ॥ ६४४ ॥ शार्वरं धातुके ध्वान्ते शावरो रोध्रपापयोः । अपराधे शाबरी तु शूकशिम्ब्यथ शाक्वरम् ॥ ६४५ ॥ छन्दोभिच्छाक्वरस्तूक्षा शालारं पक्षिपञ्जरे । सोपानहस्तिनखयोः शिखरं पुलकाग्रयोः ॥ ६४६ ॥ पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । गिरिवृक्षाग्रकक्षासु शिशिरः शीतले हिमे ॥ ६४७ ॥ ऋतुभेदे शिलीन्ध्रस्तु तरुमीनप्रभेदयोः । शिलीन्ध्रं कदलीपुष्पे कवकत्रिपुटाख्ययोः ॥ ६४८ ॥ शिलीन्ध्री विहगी गण्डूपदी मृदथ शीकरः । वातास्तजलेऽम्बुकणे सुषिरं वाद्यगर्तयोः ॥ ६४९ ॥ सुषिरोऽग्नौ सरन्ध्रे च श्रृङ्गारो गजमण्डने । सुरते रसभेदे च श्रृङ्गारं नागसम्भवे ॥ ६५० ॥ चूर्णे लवङ्गपुष्पे च संस्तरः स्रस्तरे मखे । सङ्गरोऽङ्गीकृतौ युद्धे क्रियाकारे विषापदोः ॥ ६५१ ॥ सङ्गरं तु फले शम्याः सम्भारः सम्भृतौ गणे । संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि ॥ ६५२ ॥ गुणभेदेऽथ सङ्कारोऽवकरेऽग्निचटत्कृतौ । सङ्कारी भुक्तकन्यायां सामुद्रं लवणान्तरे ॥ ६५३ ॥ लक्षणे च शरीरस्य सावित्रस्तु महेश्वरे । सावित्री देवताभेदे सिन्दूरं नागसम्भवे ॥ ६५४ ॥ सिन्दूरस्तु वृक्षभेदे सिन्दूरी रक्तचेलिका । रोचनी धातकी सुन्दर्यङ्गनायां द्रुमान्तरे ॥ ६५५ ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डे चटकेकऽपि च । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ ६५६ ॥ वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि । सौवीरं काञ्जिकस्रोतोञ्जनयोर्बदरीफले ॥ ६५७ ॥ ;c{इति त्रिस्वरान्ताः ।} ;v{त्रिस्वरलान्ताः} स्यादर्गलं तु दण्डोर्मिपारिघेष्वनलोऽनिले । वसुदेवे वसौ वह्नावरालः समदद्विपे ॥ ६५८ ॥ वक्रे सर्जरसे चाप्यऽवेलस्तु स्यादुपद्रवे । अवेला तु पूगचूर्णेऽचलस्तु गिरिकीलयोः ॥ ६५९ ॥ अचला भुव्यज्जलिस्तु कुडवे करसम्पुटे । अङ्गुलिः करशाखायां कर्णिकायां गजस्य च ॥ ६६० ॥ अमला कमलायां स्यादमलं विशदेऽभ्रके । आभीलं भीषणे कृच्छ्रेऽपील्वलो मत्स्यदैत्ययोः ॥ ६६१ ॥ इल्वलास्ताकारभेदेऽप्युपलो ग्रावरत्नयोः । उपला तु शर्करायामुत्पलं कुष्टभूरुहे ॥ ६६२ ॥ इन्दीवरे मांसशून्येऽप्युज्वलस्तु विकासिनि । श्रृङ्गारे विशदे दीप्तेऽप्युत्तालस्त्वरिते कपौ ॥ ६६३ ॥ श्रेष्ठोत्कटकरालेषूत्फुल्लं स्त्रीकरणान्तरे । विकस्वरोत्तालयोश्च कमलं क्लोम्नि भेषजे ॥ ६६४ ॥ पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः कपिलो वह्निपङ्गयोः ॥ ६६५ ॥ कुक्कुरे मुनिभेदे च कपिला शिंशपातरौ । पुण्डरीककरिण्यां च रेणुकागोविशेषयोः ॥ ६६६ ॥ कपालं कुष्ठरुग्भेदे घटादिशकले गणे । शिरोस्थनि कन्दले तु नवाङ्कुरे कलध्वनौ ॥ ६६७ ॥ उपरागे मृगभेदे कपाले कदलीद्रुमे । करालो रौद्रतुङ्गोरुधूणतैलेषु दन्तुरे ॥ ६६८ ॥ करालं तु कुठेरे स्यात् कम्बलः कृमिसास्नयोः । नागप्रभेदे प्रावारवैकक्ष्ये कम्बलं जले ॥ ६६९ ॥ कल्लोलोऽरौ हर्षवीच्योः कदली हरिणान्तरे । रम्भायां वैजयन्त्यां च कामलः कामिरोगयोः ॥ ६७० ॥ मरुदेशे वसन्ते च काकोलो मौष्कुलौ विषे । कुलाले काहलं तु स्याद् भृशे सन्त्यक्तवाचि च ॥ ६७१ ॥ शुष्के च वाद्यभेदे च काहली तरुणस्त्रियाम् । किट्टालस्तु लोहगूथे ताम्रस्य कलशेऽपि च ॥ ६७२ ॥ कीलालं रुधिरे नीरे कुशलं क्षेमपुण्ययोः । पर्याप्तौ कुशलोऽभिज्ञे कुवलं बदरीफले ॥ ६७३ ॥ मुक्ताफलोत्पलयोश्च कुम्बिलो मीनमूषयोः । श्लोकच्छायाहरे श्याले कुद्दालो भूमिदारुणे ॥ ६७४ ॥ युगपत्रेऽथ कुटिलं भङ्गुरे कुटिला नदी । कुण्डलं वलये पाशे ताटङ्के कुण्डली पुनः ॥ ६७५ ॥ काञ्चनादौ गूडूच्यां च कुन्तलो यवकेशयोः । कुन्तलाः स्युर्जनपदे कुकूलं तु तुषानले ॥ ६७६ ॥ शङ्कुसंयुक्तगर्ते च कुलालो घूकपक्षिणि । कुक्कुभे कुम्भकारे च कुचेलः स्यात्कुवाससि ॥ ६७७ ॥ कुचेला स्याद्विद्धकर्ण्यां केवलं त्वेककृत्स्नयोः । निर्णीते कुहने ज्ञाने केवली ग्रन्थभिद्यपि ॥ ६७८ ॥ कोमलं मृदुले तोये कोहलो मुनिमद्ययोः । ग्रन्थिलो ग्रन्थिसहिते विकङ्कतकरीरयोः ॥ ६७९ ॥ गरलं पन्नगविषे तृणपूलकमानयोः । गन्धोली वरटाशुण्ठ्योर्मद्रायामथ गोकिलः ॥ ६८० ॥ मुसले लाङ्गले चापि गोपालो नृपगोपयोः । स्याद्गौरिलस्तु सिद्धार्थे लोहचूर्णेऽथ चन्द्रिलः ॥ ६८१ ॥ नापिते वास्तुके रुद्रे चञ्चलोऽनिलकामिनोः । चञ्चला तु तडिल्लक्ष्म्योश्चपलश्चोरके चले ॥ ६८२ ॥ क्षणिके चिकुरे शीघ्रे पारदे प्रस्तरान्तरे । मीनेऽपि चपला तु स्यात्पिप्पल्यां विद्युति श्रियाम् ॥ ६८३ ॥ पुंश्चल्यामथ चात्वालो यज्ञकुण्डकगर्भयोः । चूडालश्चूडया युक्ते चूडालापि च चक्रला ॥ ६८४ ॥ छगलश्छागे छगली वृद्धदारकभेषजे । छगलं तु नीलवस्त्रे जगलो मदनद्रुमे ॥ ६८५ ॥ मेदके कितवे पिष्टमद्येऽथ जटिलो जटी । जटिला तु मांसिकायां जम्बूलः क्रकचच्छदे ॥ ६८६ ॥ जम्बूद्रुमेऽथ जम्बालं कर्दमे शैवलेऽपि च । जङ्गलो निर्जले देशे पिशितेऽप्यथ जम्भलः ॥ ६८७ ॥ जम्बीरे देवताभेदे जाङ्गलः स्यात्कपिञ्जले । जाङ्गली तु शूकशिम्ब्यां जाङ्गुलं जालिनीफले ॥ ६८८ ॥ जाङ्गुली विषविद्यायां तरलो भास्वरे चले । हारमध्यमणौ पिङ्गे तरला मद्यमुष्णिका ॥ ६८९ ॥ तमालो वरुणे पुण्ड्रेऽसौ तापिच्छेऽथ तण्डुला । विडङ्गे धान्यसारे च ताम्बूलं क्रमुके फले ॥ ६९० ॥ ताम्बूली नागवल्यां स्यात्तुमुलं रणसङ्कुले । तुमुलो विभीतकद्रौ तैतिलं करणान्तरे ॥ ६९१ ॥ तैतिलो गण्डकपशौ दुकूलं सूक्ष्मवाससि । क्षौमवस्त्रेऽथ धवलो महोक्षे सुन्दरे सिते ॥ ६९२ ॥ धवली गौर्नकुलस्तु पाण्डवप्राणिभेदयोः । नकुली कुक्कुटीमांस्योर्नाभीलं तूत्तमस्त्रियाः ॥ ६९३ ॥ वंक्षणे नाभिगर्भाण्डे नाकुली चव्यरास्नयोः । कुक्कुटीकन्दे निचुलस्त्विज्जलद्रौ निचोलके ॥ ६९४ ॥ निस्तलं चले वृत्ते स्यान्निर्मले विमलेऽभ्रके । निर्माल्ये च निष्कलस्तु नष्टबीजे कलोज्झिते ॥ ६९५ ॥ नैपाली मनःशिला स्यात्सुवरा नवमाल्यपि । पटोलस्तु समाख्यातः फलवस्त्रविशेषयोः ॥ ६९६ ॥ प्रवालो विद्रुमे वीणादण्डेऽभिनवपल्लवे । प्रतलः पातालभेदे तताङ्गुलिकरेऽपि च ॥ ६९७ ॥ पटलं तिलके नेत्ररोगे छदिषि सञ्चये । पिटके परिवारे च पञ्चाला नीवृदन्तरे ॥ ६९८ ॥ पाञ्चाली पुत्रिकागीत्योः पललं पङ्कमांसयोः । तिलचूर्णे पललस्तु राक्षसे पाचलोऽनले ॥ ६९९ ॥ अनिले राधनद्रव्ये पाकलो द्विरदज्वरे । पाकलं कुष्ठभैषज्ये पातालं वडवानले ॥ ७०० ॥ रसातले पाटलं तु कुसुमश्वेतरक्तयोः । पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे ॥ ७०१ ॥ पांशुलो हरखट्वाङ्गे पुंश्चले पांशुला भूवि । पाटली मृत्तिकापात्रे नारीवागुरयोरपि ॥ ७०२ ॥ पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पलः । निरंसुले वृक्षपक्षिभेदयोः पिप्पली कणा ॥ ७०३ ॥ पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपरिपार्श्वके । कपौ मुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् ॥ ७०४ ॥ कारायिकायां वेश्यायां नाडीवेदेऽथ पित्तलम् । पित्तवत्यारकूटे च पित्तला तोयपिप्पली ॥ ७०५ ॥ पिचुलो निचुले तोयवायसे कामुकद्रुमे । पिञ्जले स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः ॥ ७०६ ॥ विजिले पिच्छिला पोतकिकायां सरिदन्तरे । शाल्मलौ शिंशपायां च पिण्डिलो गणनागदे ॥ ७०७ ॥ स्थूलजङ्घे पुष्कलस्तु पूर्णे श्रेष्ठेऽथ पुद्गलः । काये रूपादिमद्द्रव्ये सुन्दराकार आत्मनि ॥ ७०८ ॥ पेशलः कुशले रम्ये फेनिलोऽरिष्टपादपे । फेनिलं मदनफले बदरे फेनवत्यपि ॥ ७०९ ॥ बहुलं भूरिवियतोर्बहुलः पावके शितौ । कृष्णपक्षे बहुला तु सुरभ्यां नीलिकैलयोः ॥ ७१० ॥ बहुलास्तु कृत्तिकासु बिडालो वृषदंशके । पक्षिभेदेऽक्षिगोले च मण्डलो बिम्बदशयोः ॥ ७११ ॥ भुजङ्गभेदे परिधौ शुनि द्वादशराजके । सङ्घाते कुष्ठभेदे च मञ्जुलं तु जलाञ्जले ॥ ७१२ ॥ रम्ये कुञ्जे मञ्जुलस्तु दात्यूहे मङ्गलं पुनः । कल्याणे मङ्गलो भौमे मङ्गला श्वेतदूर्विका ॥ ७१३ ॥ महिलाऽङ्गनायां गुण्ड्रायां मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽथ माचलः ॥ ७१४ ॥ बन्दिचौरे रुजि ग्राहे मुसलं स्यादयोग्रके । मुशली तालमूल्याखुपर्णिका गृहगोधिका ॥ ७१५ ॥ मेखलाऽद्रिनितम्बे स्याद्रसनाखड्गबन्धोः । रसाल इक्षौ चूते च रसालं चोलसिह्लयोः ॥ ७१६ ॥ रसाला दूर्वाविदार्योर्जिह्वामार्जितयोरपि । रामिलो रमणे कामे लाङ्गूलं शिश्नपुच्छयोः ॥ ७१७ ॥ लाङ्गलं तालहलयोः पुष्पभिद्गृहदारुणोः । लाङ्गली जलपिप्पल्यां लोहलोऽस्फुटवादिनि ॥ ७१८ ॥ श्रृङ्खलाधार्ये वञ्जुलस्त्वशोके तिनिशद्रुमे । वानीरे चाथ वण्टालः शूरयुन्नौखनित्रयोः ॥ ७१९ ॥ वातूलो वातले वातसमूहे मारुतासहे । वामिलो दाम्भिके वामे विपुलः पृथ्वगाधयोः ॥ ७२० ॥ विपुलाऽऽर्याभिदि क्षोण्यां विमलोऽर्हति निर्मले । वृषलस्तुरगे शूद्रे शकलं रागवस्तुनि ॥ ७२१ ॥ वल्कले त्वचि खण्डे च शम्बलं मत्सरे तटे । पाथेये च शयालुस्तु निद्रालौ वाहसे शुनि ॥ ७२२ ॥ श्यामलः पिप्पले श्यामे शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ ७२३ ॥ शाल्मलिः पादपे द्वीपे शीतलः शीतलेऽर्हति । श्रीखण्डे पुष्पकासीसासनपर्ण्योः शिलोद्भवे ॥ ७२४ ॥ श्रृगालो दानवे फेरौ शृगाली स्यादुपप्लवे । श्रृङ्खलं पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने ॥ ७२५ ॥ शौष्कलः शुष्कमांसस्य पणिके पिशिताशिनि । षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् ॥ ७२६ ॥ सङ्कुलोऽस्पष्टवचने व्याप्ते च सरलस्त्वृजौ । उदारे पूतिकाष्ठे च सप्तला नवमालिका ॥ ७२७ ॥ सातला पाटला गुञ्जा सन्धिलौकःसुरुङ्गयोः । नद्यां सिध्मलः किलासी सिध्मला मत्सचूर्णके ॥ ७२८ ॥ सुतलोऽट्टालिकाबन्धे पातालभुवनान्तरे । सुवेलः प्रणते शान्ते गिरिभेदेऽथ हेमलः ॥ ७२९ ॥ कलादे सरटे ग्रावभिदि- ;c{इति त्रिस्वरलान्ताः ।} ;v{त्रिस्वरवान्ताः} अभावः पुनर्मृतौ । असत्तायामथाक्षीबं वशिरे मदवर्जिते ॥ ७३० ॥ आवहः समरे यज्ञेऽप्याश्रवो वचनस्थिते । प्रतिज्ञायां च क्लेशे च स्यादार्तवमृतूद्भवे ॥ ७३१ ॥ नारीरजसि पुष्पे चोद्धवः केशवमातुले । उत्सवे क्रतुवह्नौ चोत्सवोऽमर्षे महेऽपि च ॥ ७३२ ॥ इच्छाप्रसर उत्सेके कारवी कृष्णजीरके । दीप्ये मधुरात्वक्पत्र्योः कितवः कनकाह्वये ॥ ७३३ ॥ मत्ते च वञ्चके चापि केशवः केशसंयुते । पुन्नागे वासुदेवे च कैतवं द्यूतदम्भयोः ॥ ७३४ ॥ कैरवः कितवे शत्रौ कैरवं सितपङ्कजे । कैरवी तु चन्द्रिकायां गन्धर्वस्तु नभश्चरे ॥ ७३५ ॥ पुंस्कोकिले गायने च मृगभेदे तुरङ्गमे । अन्तराभवदेहे च गालवो मुनिलोध्रयोः ॥ ७३६ ॥ गाण्डीवगाण्डिवौ चापमात्रे पार्थधनुष्यपि । ताण्डवं तृणभिन्नाट्यभेदयोस्त्रिदिवं तु खे ॥ ७३७ ॥ स्वर्गे च त्रिदिवा नद्यां द्विजिह्वः खलसर्पयोः । निह्नवः स्यादविश्वासे प्रलोपे निकृतावपि ॥ ७३८ ॥ निष्पावः पवने सूर्पपवने निर्विकल्पके । वल्ले कडङ्गरे शिम्ब्यां प्रभवो जन्मकारणे ॥ ७३९ ॥ आद्योपलम्भनस्थानेऽपां मूले मुनिभिद्यपि । प्रसवः पुष्पफलयोरपत्ये गर्भमोचने ॥ ७४० ॥ उत्पादे च प्रसेवस्तु वीणाङ्गस्यूतयोर्दृतौ । प्रभावस्तेजसि शक्तौ पल्लवः किसले वटे ॥ ७४१ ॥ विटपे विस्तरेऽलक्तरागे श्रृङ्गारषिड्गयोः । पञ्चत्वं भावे पञ्चानां प्राणानामत्ययेऽपि च ॥ ७४२ ॥ पार्थिवो नृपतौ भूमिविकारे पार्थिवी तु का । पुङ्गवो गवि भैषज्ये प्रधाने चोत्तरस्थितः ॥ ७४३ ॥ फेरवो राक्षसे फेरौ बान्धवो बन्धुमित्रयोः । भार्गवः परशुरामे सुधन्वनि मतङ्गजे ॥ ७४४ ॥ दैत्याचार्ये भार्गवी तु कृष्णदूर्वोमयोः श्रियाम् । भैरवो भीषणे रुद्रे रागभेदेऽथ माधवः ॥ ७४५ ॥ विष्णो वसन्ते वेशाखे माधवी मधुशर्करा । वासन्ती कुट्टिनी हाला राघवोऽब्धेर्झषान्तरे ॥ ७४६ ॥ रघुजेऽप्यथ राजीवो मीनसारङ्गभेदयोः । राजीवमब्जे रौरवो भीषणे नरकान्तरे ॥ ७४७ ॥ बल्लवः स्यात्सूपकारे गौदोग्धरि वृकोदरे । वडवाऽश्वायां स्त्रीभेदे कुम्भदास्यां द्विजस्त्रियाम् ॥ ७४८ ॥ वाडवं करणे स्त्रीणां वडवौघे रसातले । वाडवो विप्र और्वे च विद्रवो धीः पलायनम् ॥ ७४९ ॥ विभावः स्यात्परिचये रत्यादीनां च कारणे । विभवो धननिर्वृत्योः शात्रवं शत्रुसम्भवे ॥ ७५० ॥ शत्रुत्वे शात्रवः शत्रौ षाण्डवो रसभावयोः । सम्भवो जनने हेतौ मेलके चारुजन्मनि ॥ ७५१ ॥ आधेयस्याधारानतिरिक्तत्वे समयेऽपि च । सचिवो भृत्यकेऽमात्ये सुषवी कृष्णजीरके ॥ ७५२ ॥ कारवेल्ले च जीरे च सुग्रीवो वानराधिपे । चारुग्रीवे सैन्धवस्तु सिन्धुदेशोद्भवे हये ॥ ७५३ ॥ मणिमन्थेऽपि - ;c{इति त्रिस्वरवान्ताः ।} ;v{त्रिस्वरशान्ताः} अथादर्शष्टीकायां प्रतिपुस्तके । दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि ॥ ७५४ ॥ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । कर्कशो निर्दये क्रूरे कम्पिल्लककृपाणयोः ॥ ७५५ ॥ इक्षौ साहसिके कासमर्दके परुषे दृढे । कपिशौ सिह्लकश्यावौ कपिशा माधवी सुरा ॥ ७५६ ॥ कीनाशः क्षुद्रयमयोः कर्षकोपांशुघातिनोः । कुलिशो मत्स्यभिद्वज्रो गिरीशो वाक्पतौ हरे ॥ ७५७ ॥ अद्रिराजेऽथ तुङ्गीशः शशाङ्गे शशिशेखरे । दुःस्पर्शस्तु स्वरस्पर्शे कण्टकार्यां यवासके ॥ ७५८ ॥ निस्त्रिंशो निर्घृणे खड्गे निर्देशः कथनाज्ञयोः । निर्वेशः स्यादुपभोगे मूर्छने वेतनेऽपि च ॥ ७५९ ॥ निवेशः सैन्यविन्यासे न्यासे द्रङ्गविवाहयोः । निदेशः स्यादुपकण्ठशासने परिभाषणे ॥ ७६० ॥ नीकाशो निश्चये तुल्ये प्रकाशः स्फुटहासयोः । उद्योतेऽतिप्रसिद्धे च प्रदेशो देशमात्रके ॥ ७६१ ॥ भित्तौ मानविशेषे च पलाशः किंशुकः शटी । हरिद्वर्णे राक्षसे च पलाशं छेदने स्मृतम् ॥ ७६२ ॥ पक्षीशो गरुडे विष्णौ पिङ्गाशं जात्यकाञ्जने । पिङ्गाशौ मत्स्यपल्लीशौ पिङ्गाशी नीलिका मता ॥ ७६३ ॥ बालिशस्तु शिशौ मूर्खे भूकेशः शैवले नटे । भूकेशी वल्वजेषु स्यात् लोमशो लोमसंयुते ॥ ७६४ ॥ मुनिभेदे च मेषे च लोमशा शाकिनीभिदि । महामेदाकाकजङ्घाश्रृगालीजटिलासु च ॥ ७६५ ॥ काशीशेऽतिवलाशूकशिम्बीमर्कटिकासु च । विवशः स्यादवश्यात्मानिष्टदुष्टमतिस्तथा ॥ ७६६ ॥ विकाशो रहसि व्यक्ते विपाशः पाशवर्जिते । विपाशा तु सरिद्भेदे सदेशोऽन्तिकदेशयोः ॥ ७६७ ॥ सदृशं तूचिते तुल्ये सङ्कोचे सदृशेऽन्तिके । संवेशः शयने पीठे सुखाशस्तु प्रचेतसि ॥ ७६८ ॥ शुभासे राजतिनिशे हताशो निष्कृपे खले । नष्टवाञ्छे हुताशस्तु पावके बहुभोजिनि ॥ ७६९ ॥ ;c{इति त्रिस्वरशान्ताः ।} ;v{त्रिस्वरषान्ताः} अध्यक्षोऽधिकृतेऽन्वक्षेऽभीषुः प्रग्ररोचिषोः । आरक्षो रक्षके हस्तिकुम्भाधश्चामिषं पले ॥ ७७० ॥ सुन्दराकाररूपादौ सम्भोगे लोभलञ्चयोः । आकर्षः पाशके धन्वाभ्यासाङ्गे द्यूत इन्द्रिये ॥ ७७१ ॥ आकृष्टे शारिफलकेऽप्युष्णीषं लक्षणान्तरे । शिरोवेष्टे किरीटे स्यादुत्प्रेक्षाऽनवधानके ॥ ७७२ ॥ काव्यालङ्करणे वापि कलुषं त्वाविलांऽहसोः । कल्माषो राक्षसे कृष्णे शबलेऽप्यथ किल्विषम् ॥ ७७३ ॥ पापे रोगऽपराधे च कुल्माषं स्यात्तु काञ्जिके । कुल्माषोऽर्द्धस्विन्नधान्ये यावके चणकेऽपि च ॥ ७७४ ॥ गवाक्षी त्विन्द्रवारुण्यां गवाक्षो जालके कपौ । गण्डूषो मुखपूर्त्तौ स्याद् गजहस्ताङ्गुलावपि ॥ ७७५ ॥ प्रसूत्या प्रमितेऽपि स्याद् गोरक्षो धेनुगोप्तरि । नारङ्गे च जिगीषा तु विजयेच्छाप्रकर्षयोः ॥ ७७६ ॥ व्यवसायो तरीषस्तु शोभनाकारभेलयोः । समुद्रे व्यवसाये च तारिषोऽब्धिसुवर्णयोः ॥ ७७७ ॥ स्वर्गे च नहुषो राजविशेषे नागभिद्यपि । निकषः शाणपाषाणे निकषा यातुमातरि ॥ ७७८ ॥ निमेषनिमिषौ नेत्रमीलने कालभिद्यपि । प्रत्यूषः स्याद्वसौ प्रातः प्रदोषः कालदोषयोः ॥ ७७९ ॥ परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि । पीयूषममृते नव्यसूतधेनुपयस्यपि ॥ ७८० ॥ पुरुषस्त्वात्मनि नरे पुन्नागे चाथ पौरुषम् । ऊर्द्ध्वविस्तृतदोःपाणिपुरुषोन्मानतेजसोः ॥ ७८१ ॥ पुंसः कर्मणि भावे च महिषी नृपयोषिति । सैरभ्यामौषधीभेदे मारिषस्त्वार्यशाकयोः ॥ ७८२ ॥ मारिषा दक्षजननी मृगाक्षी मृगलोचना । त्रियामेन्द्रवारुणी च रक्ताक्षो रक्तलोचने ॥ ७८३ ॥ चकोरे महिषे क्रूरे पारावतेऽथ रोहिषः । मृगकत्तृणमत्स्येषु विश्लेषस्तु वियोजने ॥ ७८४ ॥ विधुरे च विशेषस्तु व्यक्ताववयवेऽपि च । आधिक्ये चाथ शुश्रूषोपासनाश्रवणेच्छयोः ॥ ७८५ ॥ शैलूषः स्यान्नटे बिल्वे संहर्षः पवने मुदि । स्पर्द्धायां च समीक्षा तु ग्रन्थभेदे समीक्षणे ॥ ७८६ ॥ ;c{इति त्रिस्वरषान्ताः ।} ;v{त्रिस्वरसान्ताः} अलसो द्रुमभेदे स्यात्पदरोगे क्रियाजडे । अलसा तु हंसपद्यां नगौकोवदगौकसः ॥ ७८७ ॥ विहङ्गसिंहसरभा आश्वासः स्यात्तु निर्वृतौ । आख्यायिका परिच्छेदेऽपीष्वासो धन्वधन्विनोः ॥ ७८८ ॥ उच्छ्वासः प्राणने श्वासे गद्यबन्धान्तरेऽपि च । उत्तंसः शेखरे कर्णपूरे चाप्यवतंसवत् ॥ ७८९ ॥ उदर्चिरुत्प्रभे वह्नौ कनीयाननुजेऽल्पके । अतियूनि कीकसस्तु कृमौ कीकसमस्थिनि ॥ ७९० ॥ तामसः सर्पखलयोस्तामसी स्यान्निशोमयोः । त्रिस्रोता जान्हवीसिन्धुभिदोरथ दिवौकसौ ॥ ७९१ ॥ चातकस्त्रिदशश्चापि दीर्घायुर्जीवके द्विके । मार्कण्डे शाल्मलितरौ नभसस्तु नदीपतौ ॥ ७९२ ॥ गगने ॠतुभेदे च पनसः कपिरुग्भिदोः । कण्टके कण्टकिफले प्रचेता वरुणे मुनौ ॥ ७९३ ॥ हृष्टे पायसः श्रीवासे पायसं परमान्नके । बीभत्से विकृते क्रूरे रसे पार्थे घृणात्मनि ॥ ७९४ ॥ पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे । मानसं स्वान्तसरसोः रभसो वेगहर्षयोः ॥ ७९५ ॥ राक्षसी कोणपी दंष्ट्रा रोद इव तु रोदसी । दिवि भुव्युभयोश्चापि लालसो लोलयाञ्चयोः ॥ ७९६ ॥ तृष्णातिरेक औत्सुक्ये वरीयान् श्रेष्ठयोगयोः । अतियूनि च विस्तीर्णे वायसस्त्वगुरौ द्विके ॥ ७९७ ॥ श्रीवासे वायसी काकोदुम्बरी काकमाच्यपि । वाहसः स्यादजगरेऽम्बुनिर्याणनिषण्णयोः ॥ ७९८ ॥ विलासो हावे लीलायां विहायो व्योमपक्षिणोः । श्रीवासो वृकधूपे स्यात्कमले मधुसूदने ॥ ७९९ ॥ श्रेयसी गजपिप्पल्यामभयारास्नयोरपि । समासः स्यादेकपद्ये संक्षेपे च समर्थने ॥ ८०० ॥ सप्तार्चिः क्ररनेत्रेऽग्नौ साधीयानतिशोभने । अतिबाढे साहसं तु दमे दुष्करकर्मणि ॥ ८०१ ॥ अविमृश्य कृतौ धार्ष्ट्ये सारसं सरसीरुहे । सारसः पुष्कराख्येन्द्वोः सुमनाः प्राज्ञदेवयोः ॥ ८०२ ॥ जात्यां पुष्पे सुमेधास्तु ज्योतिष्मत्यां विदुष्यपि । सुरसः स्यात् सुमधुरे सुरसा त्वौषधीभिदि ॥ ८०३ ॥ ;c{इति त्रिस्वरसान्ताः ।} ;v{त्रिस्वरहान्ताः} अत्यूहस्तु मयूरे स्यादत्यूहा नीलिकौषधौ । आग्रहोऽनुग्रहासक्तिग्रहेष्वाक्रमणेऽपि च ॥ ८०४ ॥ आरोहो दैर्घ्य उच्छ्राये स्त्रीकट्यां मानभिद्यपि । आरोहणे गजारोहेऽप्युत्साहः सूत्र उद्यमे ॥ ८०५ ॥ कलहो मण्डले खड्गकोशे युद्धवराटयोः । कटाहः स्यात्कूर्मपृष्टे कर्परे महिषीशिशौ ॥ ८०६ ॥ तैलादिपाकपात्रे च दात्यूहः कालकण्टके । वातकेऽपि नवाहस्तु प्रतिपत्तिथिघस्रयोः ॥ ८०७ ॥ निर्व्यूहो द्वारि निर्यासे शिखरे नागदन्तके । निरूहो निश्चिते तर्के वस्तिभेदेऽथ निग्रहः ॥ ८०८ ॥ बन्धके भर्त्सने सीम्नि प्रग्रहः किरमे भुजे । तुलासूत्रेऽश्वादिरश्मौ सुवर्णे हरिपादपे ॥ ८०९ ॥ बन्धे वन्द्यां प्रवाहस्तु व्यवहाराम्बुवेगयोः । प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ॥ ८१० ॥ प्रग्राहः स्यात्तुलासूत्रे वृषादीनां च बन्धने । पटहो वाद्य आरम्भे वराहो नाणके किटौ ॥ ८११ ॥ मेघे मुस्ते गिरौ विष्णौ वारही गृष्टिभेषजे । मातर्यपि विदेहस्तु निर्देहे मैथिलेऽपि च ॥ ८१२ ॥ विग्रहो युधि विस्तारे प्रविभागशरीरयोः । वैदेही पिप्पलीसीतारोचनासु वणिक्स्त्रियाम् ॥ ८१३ ॥ सङ्ग्रहो बृहदुद्रङ्गे मुष्टिसंक्षेपयोरपि । सुवहस्तु सम्यग्वहे सुवहा सल्लकीद्रुमे ॥ ८१४ ॥ रास्नाशेफालिकागोधापद्यैलापर्णिकासु च । ;c{इति त्रिस्वरहान्ताः ।} ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे त्रिस्वरकाण्डः समाप्तः ।} ;k{चतुःस्वरकाण्डः} ;c{अथ चतुर्थः काण्डः ।} ;v{चतुःस्वरकान्ताः} अङ्गारकस्तूल्मुकांशे महीपुत्रे कुरुण्टके । अङ्गारिका त्विक्षुकाण्डे किंशुकस्य च कोरके ॥ १ ॥ अलिपिकः पिके भृङ्गेऽलिमकः पद्मकेसरे । मधूके कोकिले भेकेऽश्मन्तकं मल्लिकाच्छदे ॥ २ ॥ चुल्यां चाऽऽक्षेपको व्याधे निन्दके वातरुज्यपि । आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥ ३ ॥ आखनिकस्त्वाखुरिव किरावुन्दुरुचौरयोः । उत्कलिका तु हेलायां तरङ्गोत्कण्ठयोरपि ॥ ४ ॥ एडमूकोऽनेडमूक इवावाक्श्रुरुतिके शठे । कठिल्लकस्तु वर्षाभ्वां पर्णासे कारवेल्लके ॥ ५ ॥ कर्क्कोटकोऽहौ बिल्वे च कनीनिकाऽक्षितारके । स्यात्कनिष्ठाङ्गुलिरपि काकरूको दिगम्बरे ॥ ६ ॥ उलूके स्त्रीजिते दम्भे भीरुके निर्द्धनेऽपि च । कुरुबकः शोणाम्लानेऽरुणा पीता च झिण्टिका ॥ ७ ॥ कृकवाकुस्ताम्रचूडे मयूरकृकलासयोः । कोशातकः कचे कोशातकी ज्योत्स्नी पटोलिका ॥ ८ ॥ घाषकेऽथ कौलेयकः सारमेयकुलीनयोः । कौक्कुटिको दाम्भिके स्याददूरेरितलोचने ॥ ९ ॥ गुणनिका तु शून्याङ्के नर्तने पाठनिश्चये । गोमेदकं पीतरत्ने काकोले पत्रकेऽपि च ॥ १० ॥ गोककण्टको गोक्षुरके गोखुरे स्थपुटीकृते । गोकुलिकः केकरे स्यात्पङ्कस्थगव्युपेक्षके ॥ ११ ॥ घर्घरिका भ्रष्टधान्ये किङ्किण्यां सरिदन्तरे । वादित्रस्य च दण्डेऽपि चाण्डालिकौषधीभिदि ॥ १२ ॥ किन्नरायामुमायां च जर्जरीकं जरातुरे । बहुच्छिद्रेऽप्यथ जैवातृकः स्याद्रजनीकरे ॥ १३ ॥ कृशायुष्मद्भेषजेषु तर्तरीकं वहित्रके । पारगे त्रिवर्णकस्तु गोक्षुरेऽथ त्रिवर्णकम् ॥ १४ ॥ त्र्यूषणं त्रफला तिक्तशाकस्तु पथि सुन्दरे । वरुणे खदिरे दन्दशूकस्तु फणिरक्षसोः ॥ १५ ॥ दलाढकोऽरण्यतिले गैरिके नागकेसरे । कुन्दे महत्तरे फेने करिकर्णशिरीषयोः ॥ १६ ॥ वात्यायां खातके पृश्न्यां दासेरकस्तु धीवरे । दासीपुत्रे च करभे नियामको नियन्तरि ॥ १७ ॥ पोतवाहे कर्णधारे निश्चारकः समीरणे । पुरीषस्य क्षये स्वैरे प्रचलाको भुजङ्गमे ॥ १८ ॥ शराघाते शिखण्डे च प्रकीर्णकं तुरङ्गमे । चामरे विस्तरे ग्रन्थभेदे पिप्पलकं पुनः ॥ १९ ॥ चूचुके सीवनसूत्रे पिण्डीतकः फणिज्जके । तगरे मदनेऽद्रौ च पुण्डरीकं सिताम्बुजे ॥ २० ॥ सितच्छत्रे भेषजे च पुण्डरीकोऽग्निदिग्गजे । सहकारे गणधरे राजिलाहौ गजज्वरे ॥ २१ ॥ कोषकारान्तरे व्याघ्रे पुष्कलकस्तु कीलके । क्षपणे गन्धहरिणे स्यात्पूर्णानकमानके ॥ २२ ॥ पात्रे च पूर्णपात्रे च फर्फरीकं तु मार्दवे । फर्फरीकश्चपेटायां बलाहकोऽम्बुदे गिरौ ॥ २३ ॥ दैत्ये नागे बर्बरीकः केशविन्यासकर्मणि । शाकभेदे महाकाले वकेरुका बलाकिका ॥ २४ ॥ वातावर्जितशाखा च भ्रमरको मधुव्रते । गिरिके चूर्णकेशे च भयानकः सभीषणे ॥ २५ ॥ व्याघ्रे राहौ रसे भट्टारको राज्ञि मुनौ सुरे । भार्याटिको मृगभेदे भार्यया च विनिर्जिते ॥ २६ ॥ मरुबकः पुष्पभेदे मदनद्रौ फणिज्जके । मयूरकस्त्वपामार्गे मयूरकं तु तुत्थके ॥ २७ ॥ मण्डोदकं तु चित्तस्य राग आतर्पणेऽपि च । माणवकः कुपुंसि स्याद्बालहारभिदोरपि ॥ २८ ॥ मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि । रतर्द्धिकं तु दिवसे सुखस्नानेऽष्टमङ्गले ॥ २९ ॥ राधरङ्कुः सुनासीरे शीकरे जलदोपले । लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥ ३० ॥ प्रभोर्भालदर्शिनि च लेखनिकस्तु तत्र यः । स्वहस्तपरहस्तेन लिखितेषु विलेखयेत् ॥ ३१ ॥ लेखहारे वर्त्तरूकः काकनीडे जलावटे । वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ ३२ ॥ वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके । संवर्तुले कचे भित्तौ विनायको गणाधिपे ॥ ३३ ॥ बुद्धे तार्क्ष्ये गुरौ विघ्ने वितुन्नकं तु धान्यके । झाटामलौषधौ चापि विदूषकोऽन्यनिन्दके ॥ ३४ ॥ क्रीडानायकपात्रे च विशेषकस्तु पुण्ड्रके । विशेषाधायके वापि वृन्दारको मनोरमे ॥ ३५ ॥ सुरे श्रेष्ठे बृहतिका स्यादूरुवस्त्रभेदयोः । वैतानिकः खड्गताले मङ्गलपाठकेऽपि च ॥ ३६ ॥ वैनाशिकः स्यात्क्षणिके परायत्तोर्णनाभयोः । वैदेहको वणिजके वैश्यापुत्रे च शूद्रतः ॥ ३७ ॥ शतानीको मुनौ वृद्धे शालावृको वलीमुखे । सारमेये श्रृङ्गाले च शिलाटकः शिलाट्टयोः ॥ ३८ ॥ श्रृङ्गाटकं पथां श्लेषे पानीयकण्टकेऽपि च । श्रृगालिका शिवायां स्यात्त्रासादपि पलायने ॥ ३९ ॥ सङ्घाटिका तु कुट्टिन्यां घ्राणे युग्मेऽम्बुकण्टके । सन्तानिका क्षीरसारे मर्कटस्य च जालके ॥ ४० ॥ सुप्रतीकः स्यादीशानदिग्गजे शोभनाङ्गके । सैकतिकं पुनर्मातृयात्रामङ्गलसूत्रयोः ॥ ४१ ॥ सैकतिकः क्षपमके संन्यस्ते भ्रान्तिजीविनि । सोमवल्कः कट्फले स्याद्वलक्षखदिरद्रुमे ॥ ४२ ॥ सौगन्धिको गन्धवणिक् सौगन्धिकं तु कत्तृणे । गन्धोपले पद्मरागे कह्लारे - ;c{इति चतुःस्वरकान्ताः ।} ;v{चतुःस्वरखान्ताः} अग्निमुखो द्विजे ॥ ४३ ॥ भल्लाते चित्रके देवेऽप्यग्निशिखं तु कुङ्कुमे । अग्निशिखा लाङ्गलिक्यामिन्दुलेखेन्दुखण्डके ॥ ४४ ॥ गुडूचीसोमलतयोः पञ्चनखस्तु कच्छपे । गजे बद्धशिखो बाले बद्धशिखोश्चटौषधौ ॥ ४५ ॥ महाशङ्खो निधिभेदे संख्याभेदे नरास्थिनि । व्याघ्रनखस्तु कन्दे स्याद्गन्धद्रव्यान्तरेऽपि च ॥ ४६ ॥ शशिलेखा वृत्तभेदे वाकूचीन्द्रलेखयोः । शिलीमुखोऽलौ बाणे च- ;c{इति चतुःस्वरखान्ताः ।} ;v{चतुःस्वरगान्ताः} अपवर्गस्त्यागमोक्षयोः ॥ ४७ ॥ क्रियावसानसाफल्येऽप्यभिषङ्गः पराभवे । आक्रोशे शपथे चेहामृगः स्याद्रूपकान्तरे ॥ ४८ ॥ वृके जन्तौ चोपरागो राहुग्रस्तार्कचन्द्रयोः । विगाने दुर्नये राहावुपसर्ग उपद्रवे ॥ ४९ ॥ प्रादौ रोगप्रभेदे च कटभङ्गो नृपात्यये । हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये ॥ ५० ॥ स्वातन्त्र्ये विधवत्त्वे च दीर्घाध्वगः क्रमेलके । लेखहारे मल्लनागो वात्स्यायनसुरेभयोः ॥ ५१ ॥ समायोगस्तु संयोगे समवाये प्रयोजने । सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ॥ ५२ ॥ ;c{इति चतुःस्वरगान्ताः ।} ;v{चतुःस्वरचान्ताः} जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि । कङ्कश्रृङ्गाटयोश्चापि मलिम्लुचस्तु तस्करे ॥ ५३ ॥ वाते- ;c{इति चतुःस्वरचान्ताः ।} ;v{चतुःस्वरजान्ताः} काश्मीरजं कुष्टे कुङ्कुमे पुष्करेऽपि च । काश्मीरजाऽतिविषायां क्षीराब्धिजं तु मौक्तिके ॥ ५४ ॥ वशिरे क्षीराब्धिजस्तु चन्द्रे क्षीराब्धिजा श्रियाम् । ग्रहराजः शशिन्यर्के जघन्यजोऽनुजन्मनि ॥ ५५ ॥ शूद्रे च द्विजराजस्तु शेषे तार्क्ष्ये निशाकरे । धर्मराजस्तु सुगते श्राद्धदेवे युधिष्ठिरे ॥ ५६ ॥ भरद्वाजः पक्षिभेदे बृहस्पतिसुतेऽपि च । भारद्वाजो मुनौ भारद्वाजी वनपिचुद्रुमे ॥ ५७ ॥ भृङ्गराजो मधुकरे मार्कवे विहगान्तरे । राजराजो नृपेशेन्द्वोः कुबेरेऽथ सकृत्प्रजः ॥ ५८ ॥ द्विके सिंहे- ;c{इति चतुःस्वरजान्ताः ।} ;v{चतुःस्वरटान्ताः} अथोच्चिङ्गटः कोपने मीनभिद्यपि । करहाटः पद्मकन्दे पुष्पद्रुमविशेषयोः ॥ ५९ ॥ कार्यपुटोऽनर्थकरे कृपणोन्मत्तयोरपि । कामकूटौ वेश्याविभ्रमेष्ठावथ कुटन्नटः ॥ ६० ॥ शोणके कैवर्तीमुस्ते कुण्डकीटस्तु जारतः । विप्रापुत्रे धवे दास्याश्चार्वाकोक्तिविशारदे ॥ ६१ ॥ खञ्जरीटस्तु फलकेऽसिधाराव्रतचारिणि । गन्धकुटी मदिरायां बुद्धाद्यायतनेऽपि च ॥ ६२ ॥ गाढमुष्टिस्तु कृपणे कृपाणप्रभृतावपि । चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ ॥ ६३ ॥ चतुःषष्टिश्चतुःषष्टिकलासु च हवेऽपि च । तुलाकोटिर्मानभेदेऽर्बुदे स्यान्नूपुरेऽपि च ॥ ६४ ॥ नारकीटः स्वदत्ताशाविहन्तर्यश्मकीटके । प्रतिकृष्टं तु गुह्ये स्याद्द्विरावृत्त्या च कर्षिते ॥ ६५ ॥ प्रतिसृष्टः पुनः प्रत्याख्याते च प्रेषितेऽपि च । परपुष्टः कलकण्ठे परपुष्टा पणाङ्गना ॥ ६६ ॥ वर्कराटस्तु तरुणादित्यरोचिःकटाक्षयोः । स्त्रीणां पयोधरोत्सेधकान्तदत्तनखेऽपि च ॥ ६७ ॥ शिपिविष्टस्तु खल्वाटे दुश्चर्मणि पिनाकिनि । श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः ॥ ६८ ॥ ;c{इति चतुःस्वरटान्ताः ।} ;v{चतुःस्वरठान्ताः} कलकण्ठः पिके पारावते हंसे कलघ्वनौ । कालकण्ठनीलकण्ठौ पीतसारे महेश्वरे ॥ ६९ ॥ दात्यूहे ग्रामचटके खञ्जरीटे शिखावले । कालपृष्ठं तु कोदण्डमात्रके कर्णधन्वनि ॥ ७० ॥ कालपृष्ठो मृगभेदे कङ्के दन्तशठः पुनः । जम्बीरे नागारङ्गे च कर्मकारकपित्थयोः ॥ ७१ ॥ पूतिकाष्ठं तु सरले देवदारुद्रुमेऽपि च । सूत्रकण्ठः खञ्जरीटे द्विजन्मनि कपोतके ॥ ७२ ॥ हारिकण्ठो हारयुक्तकण्ठे परभृतेऽपि च । ;c{इति चतुःस्वरठान्ताः ।} ;v{चतुःस्वरडान्ताः} अपोगण्डोऽतिभीरौ स्याच्छिशुके विकलाङ्गके ॥ ७३ ॥ चक्रवाडं गणे चक्रवाडोऽद्रौ चक्रवालवत् । जलरुण्डः पयोरेणौ जलावर्त्ते भुजङ्गमे ॥ ७४ ॥ देवताडो घोषकेऽग्रौ राहौ वातखुडा पुनः । वात्यायां पिच्छिले स्फोटे वामायां वातशोणिते ॥ ७५ ॥ ;c{इति चतुःस्वरडान्ताः ।} ;v{चतुःस्वरढान्ताः} अध्यारूढः समारूढेऽप्यधिकेऽप्यभिधेयवत् । ;c{इति चतुःस्वरढान्ताः ।} ;v{चतुःस्वरणान्ताः} अङ्गारिणी हसन्त्यां स्याद्भास्करत्यक्तदिश्यपि ॥ ७६ ॥ आथर्वणोऽथर्वविदि ब्रह्मणे च पुरोधसि । आरोहणं समारोहे सोपाने च प्ररोहणे ॥ ७७ ॥ आतर्पणं तु सौहित्ये विद्यादालिम्पनेऽपि च । उत्क्षेपणा तु व्यजने धान्यमर्दनवस्तुनि ॥ ७८ ॥ उदञ्चने चोद्धरणं स्यादुन्मूलन उन्नये । वान्तान्ने च कामगुणो विषयाभोगयो रतौ ॥ ७९ ॥ कार्षापणः कार्षिके स्यात् पणे षोडशकेऽपि च । चीर्णपर्णस्तु निम्बे स्यात् खर्जूरीभूरुहेऽपि च ॥ ८० ॥ चूडामणिः काकचिञ्चाफले मूर्द्धमणावपि । जुहुवाणोऽध्वर्युवह्न्योस्तण्डुरीणस्तु बर्बरे ॥ ८१ ॥ तण्डुलाम्बुनि कीटे च तैलपर्णी तु सिह्लके । श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च ॥ ८२ ॥ रोहिण्यां च देवमणिर्विष्णुवक्षोमणौ हरौ । अश्वस्य कण्ठावर्त्ते च नारायणस्तु केशवे ॥ ८३ ॥ नारायणी शतावर्युमा श्रीर्निःसरणं मृतौ । उपाये गेहादिमुखे निर्वाणे निर्गमेऽपि च ॥ ८४ ॥ निस्तरणं तु निस्तारे तरणोपाययोरपि । निरूपणं विचारे स्यादालोके च निदर्शने ॥ ८५ ॥ निगरणं भोजने स्यात् निगरणः पुनर्गले । प्रवारणं काभ्यदाने निषेधेऽथ परीरणः ॥ ८६ ॥ दण्डे कूर्मे पट्टशाटे पर्परीणं तचु पर्वणि । पर्णवृन्तरसे पर्णशिरायां द्यूतकम्बले ॥ ८७ ॥ परायणं स्यादभीष्टे तत्पराश्रययोरपि । परवाणिर्धर्माध्यक्षे वर्षे पारायणं पुनः ॥ ८८ ॥ कार्त्स्न्ये पारगतौ सङ्गे पीलुपर्ण्यौषधीभिदि । मूर्वायां बिम्बिकायां च पुष्करिणी जलाश्रये ॥ ८९ ॥ हस्तिन्यां कमलिन्यां च मीनाम्रीणस्तु खञ्जने । दर्दुराम्रे रक्तरेणुः पलाशकलिकोद्गमे ॥ ९० ॥ सिन्दूरे रागचूर्णस्तु खदिरे मकरध्वजे । रेरिहाणोऽम्बरे रुद्रे लम्बकर्णः पुनश्छगे ॥ ९१ ॥ अङ्कोटे वारबाणस्तु कूर्पासे कवचेऽपि च । विदारणं भेदने स्यात्सम्परायविडम्बने ॥ ९२ ॥ वैतरणी प्रेतनद्यां जनन्याममपि रक्षसाम् । शरवाणिः शरमुखे पदातौ शरजीविनि ॥ ९३ ॥ शिखरिणी वृत्तभेदे रोमालीपेयभेदयोः । स्त्रीरत्ने मल्लिकायां च समीरणः फणिज्जके ॥ ९४ ॥ पान्थे वायौ संसरणं त्वसम्बाधचमूगतौ । संसारे समरारम्भे नगरस्योपनिर्गमे ॥ ९५ ॥ हस्तिकर्णः स्यादेरण्डे पलाशगणभेदयोः । ;c{इति चतुःस्वरणान्ताः ।} ;v{चतुःस्वरतान्ताः} अवदातं तु विमलं मनोज्ञे सितपीतयोः ॥ ९६ ॥ अपवृतोऽपरायत्ते पिहितेऽवसितं गतौ । बद्धे ज्ञातेऽवसाने चाप्यऽवगीतं विगर्हिते ॥ ९७ ॥ मुहुर्दृष्टेऽपवादे वाऽत्याहितं तु महाभये । जीवनिरपेक्षकर्मण्यभिजातः कुलोद्भवे ॥ ९८ ॥ न्याये प्राज्ञेऽभिनीतस्तु न्यायेऽमर्षिणि संस्कृते । अभियुक्तः परिरुद्धे तत्परेऽन्तर्गतं पुनः ॥ ९९ ॥ मध्यप्राप्तविस्मृतयोरङ्गारितं तु भस्मिते । पलाशकलिकोद्भेदे चातिमुक्तः सुनिष्कले ॥ १०० ॥ वासन्तिकायां तिनिशेऽप्यवध्वस्तोऽवचूर्णिते । त्यक्तनिद्रितयोश्चाऽधिक्षिप्तौ निहितभर्त्सितौ ॥ १०१ ॥ अपचितिर्व्यये हानौ पूजायां निष्कृतावपि । अनुमतिः स्यादनुज्ञापूर्णमासीविशेषयोः ॥ १०२ ॥ अभिशस्तिः पुनर्लोकापवादे प्रार्थितेऽपि च । उदास्थितश्चरे द्वाःस्थेऽध्यक्षे चोपाहितः पुनः ॥ १०३ ॥ आरोपितेऽनलोत्पातेऽप्युपाकृत उपद्रुते । मन्त्रेण प्रोक्षितपशावुल्लिखितं तनूकृते ॥ १०४ ॥ उत्कीर्णे चोपरक्तस्तु स्वर्भानौ व्यसनातुरे । राहुग्रस्तार्कशशिनोरुपचितः समाहिते ॥ १०५ ॥ ऋद्धे दिग्धेऽथोज्जृम्भितमुत्फुल्ले चेष्टितेऽपि च । उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि ॥ १०६ ॥ उपसत्तिः सङ्गमात्रे प्रतिपादनसेवयोः । ऋष्यप्रोक्ता शूकशिम्ब्यां शतावर्यां बलाभिदि ॥ १०७ ॥ ऐरावतोऽहौ नारङ्गे लकुचे त्रिदशद्विपे । ऐरावतं तु शक्रस्य ऋजुदीर्घशरासने ॥ १०८ ॥ ऐरावती सरिद्विद्युद्भिदोः शतह्रदा यथा । कलधौतं रूप्यहेम्नोः कलधौतः कलध्वनौ ॥ १०९ ॥ कुहरितं तु रटिते पिकालापे रतस्वने । कुमुद्वती कैरविण्यां दयितायां कुशस्य च ॥ ११० ॥ कृष्णवृन्ता माषपर्ण्यां पाटलाख्यद्रुमेऽपि च । गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः ॥ १११ ॥ गृहपतिर्गृही सत्री चन्द्रकान्तं तु कैरवे । चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि ॥ ११२ ॥ कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके । दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे ॥ ११३ ॥ दिवाकीर्तिर्नापिते स्यादुलूकेऽन्त्यावसायिनि । धूमकेतू वह्न्युत्पातौ नन्द्यावर्तो गृहान्तरे ॥ ११४ ॥ तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु । नदीकान्ता लताजम्ब्वोः काकजङ्घौषधेऽपि च ॥ ११५ ॥ नागदन्तो हस्तिदन्ते गृहान्निःसृतदारुणि । नागदन्ती श्रीहस्तिन्यां कुम्भख्यभेषजेऽपि च ॥ ११६ ॥ निस्तुषितं वर्जिते स्याद्गतत्वचि लघूकृते । निराकृतिरस्वाध्याये निराकारनिषेधयोः ॥ ११७ ॥ प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः । प्रणिहितं तु सम्प्राप्तनिहितयोः समाहिते ॥ ११८ ॥ प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च । प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि ॥ ११९ ॥ प्रव्रजिता तु मुण्डीर्यां तापस्यां मासिकौषधौ । प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे ॥ १२० ॥ वह्नौ त्वष्टरि दक्षादौ प्रतिकृतिस्तु पूजने । प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे ॥ १२१ ॥ प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते । प्राप्तवेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे ॥ १२२ ॥ लाक्षारक्ते तते पञ्चगुप्तश्चार्वाकदर्शने । कमठे परिवर्तस्तु कूर्मराजे पलायने ॥ १२३ ॥ युगान्ते विनिमये च परिघातस्तु घातने । अस्त्रान्तरे पशुपतिः पिनाकिनि हुताशने ॥ १२४ ॥ पाशुपतः शिवमल्ल्यां पशुपत्यभिदैवते । पारिजातस्तु मन्दरे पारिभद्रे सुरद्रुमे ॥ १२५ ॥ पारावतः कलरवे गिरौ मर्कटतिन्दुके । पारावती तु लवलीफलगोपालगीतयोः ॥ १२६ ॥ पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे । पुष्पवन्तौ च चन्द्रार्कावेकोक्त्याऽथ पुरस्कृतम् ॥ १२७ ॥ पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च । भोगवती च सर्पाणां नगरे सरिदन्तरे ॥ १२८ ॥ रङ्गमाता जतुचेद्योर्लक्ष्मीपतिर्जनार्दने । पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे ॥ १२९ ॥ योगभेदेऽपयाने च वनस्पतिर्द्रुमात्रके । विनापुष्पफलिद्रौ च विनिपातस्तु दैवतः ॥ १३० ॥ व्यसनं चावपाते च वैजयन्तो गुहे ध्वजे । इन्द्रालये वैजयन्ती त्वग्निमन्थपताकयोः ॥ १३१ ॥ जयन्त्यां च शुभ्रदन्ती पुष्षदन्तगजस्त्रियाम् । सुदत्यां च समाघातस्त्वाहवे घातनेऽपि च ॥ १३२ ॥ समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः । अविनीते समुद्गीर्णे समुद्रान्ता दुरालभा ॥ १३३ ॥ कर्पासिका च सृक्का च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरिद्भिदि ॥ १३४ ॥ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि । सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजके ॥ १३५ ॥ सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनले । हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाऽभाया ॥ १३६ ॥ ;c{इति चतुःस्वरतान्ताः ।} ;v{चतुःस्वरथान्ताः} अनीकस्थो रक्षिवर्गे युत्खले वीरमर्दले । चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे ॥ १३७ ॥ अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ । अब्धौ चित्ररथौ विद्याधरे गन्धर्वसूर्ययोः ॥ १३८ ॥ चतुष्पथश्चतुर्मार्गसङ्गमे ब्राह्मणेऽपि च । दशमीस्थोऽतिवृद्धे स्यात्क्षीणरागे मृताशने ॥ १३९ ॥ वानप्रस्थो मधूकद्रौ किंशुकाश्रमभेदयोः । ;c{इति चतुःस्वरथान्ताः ।} ;v{चतुःस्वरदान्ताः} अष्टापदश्चन्द्रमाल्यां लूतायां शरभे गिरौ ॥ १४० ॥ कनके शारिफलकेऽभिमर्दो मन्थयुद्धयोः । स्यादभिष्यन्द आश्रावनेत्ररोगातिवृद्धिषु ॥ १४१ ॥ अपवादस्तु निर्देशे निन्दाविस्रम्भयोरपि । उपनिषत्तु वेदान्ते रहस्यधर्मयोरपि ॥ १४२ ॥ एकपदं तु तत्काले स्यादेकपदी तु वर्त्मनि । कटुकन्दः श्रृङ्गवेरे शोभाञ्जनरसोनयोः ॥ १४३ ॥ कुरुविन्दः पद्मरागे मुकुरव्रीहिभेदयोः । कुल्माषे हिङ्गुले मुस्ते कोकनदं तु रक्तयोः ॥ १४४ ॥ अम्भोजन्मकुमुदयोश्चतुष्पदं गवादिषु । स्त्रीणां करमभेदे च रक्तपादो(?) मतङ्गजे ॥ १४५ ॥ स्यन्दने च जनपदः स्यात्पुनर्जनदेशयोः । परिवादस्तु निन्दायां वीणावादनवस्तुनि ॥ १४६ ॥ प्रियंवदः प्रियवादिनभश्चरविशेषयोः । पीठमर्दोऽतिधृष्टे स्यान्नाट्योक्त्या नायकप्रिये ॥ १४७ ॥ पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे । महानादो वर्षुकाब्दे महाध्वाने शयानके ॥ १४८ ॥ गजे च मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः । मेघनादोऽम्बुदध्वाने वरुणे रावमात्मजे ॥ १४९ ॥ विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा ॥ १५० ॥ सङ्क्रान्तिर्द्वारका चापि शतह्रदा तु विद्युति । वज्रेऽपि च समर्यादा मर्यादासहितेऽन्तिके ॥ १५१ ॥ ;c{इति चतुःस्वरदान्ताः ।} ;v{चतुःस्वरधान्ताः} अनुबन्धोऽप्रयोगे स्याच्छिशौ मुख्यानुयायिनि । प्रकृतस्यानुवर्ते च दोषस्यापादनेऽपि च ॥ १५२ ॥ अनुबन्धी तृषा हिक्काऽवरोधस्तु नृपौकसि । शुद्धान्ते च तिरोधाने गर्तादौ रोधनेऽपि च ॥ १५३ ॥ अवष्टब्धमदूरे स्यात्समाक्रान्तेऽवलम्बिनि । अनिरुद्धश्चरे पुष्पायुधसूनावनर्गले ॥ १५४ ॥ आशाबन्धः समाश्वासे मर्कटस्य च जालके । इष्टगन्धः सुगन्धि स्यादिष्टगन्धं तु वालुके ॥ १५५ ॥ इक्षुगन्धा काशक्रोष्ट्रीकोकिलाक्षेषु गोक्षुरे । उग्रगन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधौ ॥ १५६ ॥ उपलब्धिर्मतौ प्राप्तौ कालस्कन्धस्तु तिन्दुके । तमाले जीवकद्रौ च तीक्ष्णगन्धा वचौषधे ॥ १५७ ॥ शोभाञ्जने राजिकायां परिव्याधो द्रुमोत्पले । वेतसे महौषधं तु विषाशुण्ठ्योः रसोनके ॥ १५८ ॥ ब्रह्मबन्धुर्निन्द्यविप्रे ब्राह्मणस्य च बान्धवे । समुन्नद्धस्तूर्द्ध्वबद्धे पण्डितंमन्यदृप्तयोः ॥ १५९ ॥ ;c{इति चतुःस्वरधान्ताः ।} ;v{चतुःस्वरनान्ताः} अपाचीनं विपर्यस्ते पामर्थेऽभिजनः कुले । कुलध्वजे जन्मभूम्यामभिमानस्त्वहङ्कृतौ ॥ १६० ॥ हिंसायां प्रणये ज्ञानेऽवलग्नो मध्यलग्नयोः । अवदानमतिवृत्ते खण्डने शुद्धकर्मणि ॥ १६१ ॥ अधिष्ठानं प्रभावेऽध्यासने नगरचक्रयोः । अनूचानः साङ्गवेदकोविदे विनयान्विते ॥ १६२ ॥ अन्वासनं स्नेहवस्तौ सेवायामनुशोचने । अग्रजन्माऽग्रजे विप्रेऽन्तेवासी पुनरन्त्यजे ॥ १६३ ॥ शिष्यप्रान्तगयोश्चाप्यायोधनं समरे वधे । आराधनं पाकप्राप्त्योः साधने तोषणेऽपि च ॥ १६४ ॥ आच्छादनं तु वासेन संपिधानेऽपवारणे । आकलनं परिसंख्याकांक्षयोर्बन्धनेऽपि च ॥ १६५ ॥ आतञ्चनं स्याज्जवेन प्रीणनप्रतिवापयोः । आवेशनं भूतावेशे प्रवेशे शिल्पवेश्मनि ॥ १६६ ॥ आस्कन्दनं तिरस्कारे संशोषणसमीकयोः । आत्माधीनः सुते प्रामाधारे श्याले विदूषके ॥ १६७ ॥ आत्मयोनिः स्मरे वेधस्युद्वर्तनं विलेपने । अपावृत्तावुत्पतने स्यादुपासनमासने ॥ १६८ ॥ शुश्रूषायां शराभ्यासेऽप्युषधानं तु गेन्दुके । व्रते विशेषे प्रणये स्यादुत्पतनमुत्प्लुतौ ॥ १६९ ॥ उत्पत्तावुदयनस्तु वत्सराजे घटोद्भवे । उत्सादनं समुल्लेखोद्वर्तनोद्वाहनेषु च ॥ १७० ॥ उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वराटके । कपीतना गर्दभाण्डशिरीषाम्रातपिप्पलाः ॥ १७१ ॥ कलध्वनिः परभृते पारावतकलापिनोः । कात्यायनो वररुचौ कात्यायनी तु पार्वती ॥ १७२ ॥ काषायवस्त्रविधवाऽर्द्धवृद्धा महिलाऽपि च । कामचारी कलविङ्के स्वेच्छाचारिणि कामुके ॥ १७३ ॥ कारन्धमी धातुवादनिरते कांस्यकारिणि । किष्कुपर्वा पोटगले स्यादिक्षुत्वचिसारयोः ॥ १७४ ॥ कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने । कुम्भयोनिर्द्रोणेऽगस्त्ये कृष्णवर्त्मा विधुन्तुदे ॥ १७५ ॥ दुराचारे हुताशे च गवादनीन्द्रवारुणी । घासस्थानं गवादीनां गदयित्नुः शरासने ॥ १७६ ॥ जल्पाके पुष्पचापे च घनाघनो निरन्तरे । वासवे घातुके मत्तगजे वर्षुकवारिदे ॥ १७७ ॥ घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥ १७८ ॥ जलाटनः कङ्कखगे जलाटनी जलौकसि । तपोधना तु मुण्डीर्यां तपोधनस्तपस्विनि ॥ १७९ ॥ तपस्विनी पुनर्मांसी कटुरोहिणिकापि च । तिक्तपर्वा हिलमोची गुडूची मधुयष्टिका ॥ १८० ॥ देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । नागाञ्जना नागयष्टौ द्विरदस्य च मुद्गरे ॥ १८१ ॥ निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनं तु मारणे ॥ १८२ ॥ पुरादेश्च बहिष्कारे निरसनं निषूदने । निष्ठीवने निरासे च निशमनं निशामनम् ॥ १८३ ॥ निरीक्षणश्रवणयोर्निर्भर्त्स्ननमलक्तके । खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥ १८४ ॥ प्रणिधानमभियोगे समाधानप्रवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात् प्रवचनमागमे ॥ १८५ ॥ प्रकृष्टवचने प्रस्फोटनं शूर्पे प्रकाशने । ताडने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥ १८६ ॥ प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्स्योः । प्रहसनं च प्रहसाक्षेपयोः रूपकान्तरे ॥ १८७ ॥ प्रतिमानं प्रतिबम्बे गजदन्तद्वयान्तरे । प्रसाधनी कङ्कतिकासिद्ध्योः प्रसाधनं पुनः ॥ १८८ ॥ वेषे प्रचलाकी सर्पे मयूरेऽथ पयस्विनी । विभावर्यां गोधेन्वां च पुण्यजनस्तु सज्जने ॥ १८९ ॥ गुह्यके यातुधाने च पृथग्जनोऽधमे जडे । पृष्ठश्रृङ्गी भीमसेने षण्डसेरिभयोरपि ॥ १९० ॥ महाधनं महामूल्ये सिह्लके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः ॥ १९१ ॥ अगस्तिकुस्तुम्बुरुणोर्मालुधानी लताभिदि । मालुधाना मातुलाहौ मातुलानी पुनः शणे ॥ १९२ ॥ कलापे मातुलपत्न्यां रसायनो विहङ्गमे । पक्षीन्द्रे रसायनं तु जराव्याधिजिदौषधे ॥ १९३ ॥ राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके । रोचमानो दीप्ययाने कण्ठावर्त्ते च वाजिनः ॥ १९४ ॥ वर्द्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु । प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः ॥ १९५ ॥ प्रह्लादानन्दने चन्द्रे विहेठनं विडम्बने । हिसायां मर्दने विस्मापना स्यात्कुहके स्मरे ॥ १९६ ॥ गन्धर्वनगरे चापि विष्पक्सेनो जनार्दने । विष्वक्सेना तु फलिनी विश्राणनं विहापिते ॥ १९७ ॥ संप्रेषणे परित्यागे विहननं तु पिञ्जने । वधेऽथ विश्वकर्मार्के मुनिभिद्देवशिल्पिनोः ॥ १९८ ॥ विघ्नकारी विघातस्य कारके घोरदर्शने । विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि ॥ १९९ ॥ वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः । वृक्षादनी तु वन्दायां विदारीगन्धिकौषधे ॥ २०० ॥ वृषपर्वा तु श्रृङ्गारिहरदैत्यकसेरुषु । वैरोचनो रविसुते सुगते बलिदानवे ॥ २०१ ॥ श्वेतधामा घनसारे कलानाथाब्धिफेनयोः । श्लेष्मघना तु केतक्यां मल्यामथ समापनम् ॥ २०२ ॥ परिच्छेदे समाधाने समाप्तिवधयोरपि । संमूर्छनमभिव्याप्तौ मोहे सनातनोऽच्युते ॥ २०३ ॥ पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे । सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे ॥ २०४ ॥ संयमनं व्रते बन्धे संयमनी यमस्य पूः । समादानं समीचीनग्रहणे नित्यकर्मणि ॥ २०५ ॥ समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि । संवदनं च संवादे समालोचे वशीकृतौ ॥ २०६ ॥ समुत्थानं निदानेऽभियोगे संवाहनं पुनः । वाहनेऽङ्गमर्दने च संप्रयोगी तु कामुके ॥ २०७ ॥ कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे । सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ॥ २०८ ॥ मृत्यौ स्तनिते रोगे च सारसनमुरश्छदे । काञ्च्यां च सामयोनिस्तु सामोत्थे द्रुहिणे गजे ॥ २०९ ॥ सामिधेनी समिदृचोः सुधामुनो जनार्दने । प्रासादे वत्सराजेऽद्रिभेदे वाऽथ सुदर्शनम् ॥ २१० ॥ विष्णोश्चक्रे सुदर्शन्यमरवत्यां सुदर्शना । आज्ञायामौषधीभेदे मरुजम्ब्वां पुरीभिदि ॥ २११ ॥ सौदामिनी तडिद्भेदतडितोरप्सरोभिदि । हर्षयित्नुः सुते स्वर्णे- ;c{इति चतुःस्वरनान्ताः ।} ;v{चतुःस्वरपान्ताः} अवलेपो गर्वलेपयोः ॥ २१२ ॥ दूषणेऽप्यपलापस्तु प्रेमापह्नवयोरपि । उपतापो गदे तापे जलकूप्यन्धुगर्भके ॥ २१३ ॥ सरस्यां जीवपुष्पं तु दमनके फणिज्जके । नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥ २१४ ॥ परिवापो जलस्थाने पर्युप्तिपरिवारयोः । परिकम्पो भये कम्पे प्राप्तरूपोऽज्ञरम्ययोः ॥ २१५ ॥ पिण्डपुष्पं जवायां स्यादशोके सरसीरुहे । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे ॥ २१६ ॥ मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनर्थकवचस्यपि ॥ २१७ ॥ वृगधूपो वृक्षधूपे सिह्लकेऽथ वृषाकपिः । वासुदेवे शिवेऽग्नौ च हेमपुष्पं तु चम्पके ॥ २१८ ॥ अशोकद्रौ जपापुष्पे - ;c{इति चतुःस्वरपान्ताः ।} ;v{चतुःस्वरबान्ताः} राजजम्बूस्तु जम्बुभित् । पिण्डखर्जूरवृक्षश्चाऽपि- ;c{इति चतुःस्वरबान्ताः ।} ;v{चतुःस्वरभान्ताः} अवष्टम्भस्तु काञ्चने ॥ २१९ ॥ सरम्भारम्भयोः स्तम्भे शातकुम्भोऽश्वमारके । शातकुम्भं तु कनके - ;c{इति चतुःस्वरभान्ता ।} ;v{चतुःस्वरमान्ताः} अभ्यागमः समरेऽन्तिके ॥ २२० ॥ घाते रोधेऽभ्युपगमेऽनुपमस्तु मनोरमे । अनुपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥ २२१ ॥ अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि ॥ २२२ ॥ आरम्भेऽथ जलगुल्मो जलावर्तेऽम्बुचत्वरे । कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥ २२३ ॥ प्लवङ्गमः कपौ भेके पराक्रमस्तु विक्रमे । सामर्थ्ये चाऽभियोगे च महापद्मः पुनर्निधौ ॥ २२४ ॥ नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ २२५ ॥ ;c{इति चतुःस्वरमान्ताः ।} ;v{चतुःस्वरयान्ताः} अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः । अन्वाहार्यममावास्याश्राद्धमिष्टेश्च दक्षिणा ॥ २२६ ॥ अवसायोपयुक्तान्ये(?) समाप्तौ निश्चयेऽपि च । अवश्यायो हिमे दर्पेऽप्यपसव्यं तु दक्षिणे ॥ २२७ ॥ प्रतिकूलेऽन्तशय्या भूशय्या पितृवनं मृतिः । उपकार्या राजगेहमुपकारोचितापि च ॥ २२८ ॥ चन्द्रोदयौ शश्युदयोल्लोचौ चन्द्रोदयौषधौ । जलाशयमुशीरे स्याज्जलाशयो जलाश्रये ॥ २२९ ॥ तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः । तृणशून्यं मल्लिकायां केतकीशाखिनः फले ॥ २३० ॥ धनञ्जयो नागभेदे ककुभे देहमारुते । पार्थेऽग्नौ निरामयस्तु स्यादिडिक्के गतामये ॥ २३१ ॥ प्रतिभयं भये भीष्मे प्रतिश्रयः सभौकसोः । परिधायः परिकरे जलस्थाननितम्बयोः ॥ २३२ ॥ पाञ्चजन्यः पोटगले शङ्खे दामोदरस्य च । पौरुषेयं पुरुषेण कृतेऽप्यवहिते वधे ॥ २३३ ॥ समूहे च विकारे च फलोदयो द्युलाभयोः । बिलेशयो मूषिकेऽहौ भागधेयः पुनः करे ॥ २३४ ॥ दायादे भागधेयं तु भाग्ये महालयः पुनः । तीर्थे विहारपरमात्मनोर्महोदयं पुरे ॥ २३५ ॥ महोदयः स्वाम्यमुक्त्योर्महामूल्यं महार्घके । पद्मरागमणौ मार्जालीयः शूद्रबिडालयोः ॥ २३६ ॥ शरीरशोधने रौहिणेयो वत्से बुधे बले । वैनतेयस्तु गरुडे स्याच्चण्डांशोश्च सारथौ ॥ २३७ ॥ समुच्छ्रयो वैरोन्नत्योः समुदायो गमे रणे । समुदयस्तूद्गमेऽपि सम्परायस्तु संयुगे ॥ २३८ ॥ आपद्युत्तरकाले च स्यात्समाह्वय आहवे । पशुभिः पक्षिभिर्द्यूते स्थूलोच्चयो वरण्डके ॥ २३९ ॥ गजानां मध्यमगते गण्डाश्माकार्त्स्न्ययोरपि । हिरण्मयो लोकधातौ सौवर्णे- ;c{इति चतुःस्वरयान्ताः ।} ;v{चतुःस्वररान्ताः} अभिमरो वधे ॥ २४० ॥ स्वबलात्साध्वसे युद्धेऽवसरो वत्सरे क्षणे । अरुष्करं व्रणकरे भल्लातकफलेऽपि च ॥ २४१ ॥ अश्वतरो नागभेदे वेसरेऽनुत्तरः पुनः । निरुत्तरे च श्रेष्ठे चाऽवस्करो गूथगुह्ययोः ॥ २४२ ॥ अभिहारः संनहने चौरिकोद्यमयोरपि । अवहारस्तु युद्धादिविश्रान्तौ ग्राहचौरयोः ॥ २४३ ॥ निमन्त्रणोपनेतव्येऽलङ्कारः कङ्कणादिषु । उपमादावकूपारः कूर्मराजसमुद्रयोः ॥ २४४ ॥ अवतारस्तु नद्यादितीर्थेऽवतरणेऽपि च । अग्निहोत्रोऽनले हव्येऽसिपत्रो नरकान्तरे ॥ २४५ ॥ कोशकारेऽर्धचन्द्रस्तु गलहस्तेन्दुखण्डयोः । चन्द्रके बाणभेदे चाऽर्धचन्द्रा त्रिवृताभिदि ॥ २४६ ॥ आत्मवीरो बलवति श्यालपुत्रे विदूषके । आडम्बरः क्षमारम्भे बृंहिते तूर्य्यनिस्वने ॥ २४७ ॥ इन्दीवरं नीलोत्पलमिन्दीवरी शतावरी । उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ २४८ ॥ उपचारस्तु लञ्चायां व्यवहारोपचर्ययोः । उदुम्बरः कुष्ठभेदे देहल्यां व्यवहारोपचर्ययोः ॥ २४९ ॥ उदुम्बरं ताम्र उपह्वरं रहसि सन्निधौ । उद्दन्तुरः कराले स्यादुत्तुङ्गोत्कटदन्तयोः ॥ २५० ॥ औदुम्बरो यमे रोगभेदे कर्मकरोऽन्तके । भृतिजीविनि भृत्ये च कर्मकरी तु बिम्बिका ॥ २५१ ॥ मूर्वा च कर्णिकारस्तु कृतमाले द्रुमोत्पले । करवीरो हयमारे कृपाणे दैत्यभिद्यपि ॥ २५२ ॥ करवीरी पुत्रवत्यां सद्गव्यामदितावपि । कलिकारस्तु धूम्याटे पीतमुण्डकरञ्जयोः ॥ २५३ ॥ कर्णपूरः स्याच्छिरीषे नीलोत्पलवतंसयोः । कटम्भरा प्रसारण्यां गोलायां गजयोषिति ॥ २५४ ॥ कलम्बिकायां रोहिण्यां वर्षाभूमूर्वयोरपि । कालञ्जरो भैरवाद्योर्योगिचक्रस्य मेलके ॥ २५५ ॥ कादम्बरं दधिसारे सीधुमद्यप्रभेदयोः । कादम्बरी कोकिलायां वाणीशारिकयोरपि ॥ २५६ ॥ कुम्भकारः कुलाले स्यात्कुम्भकारी कुलत्थिका । कृष्णसारः शिंशापायां मृगभेदे स्नुहीतरौ ॥ २५७ ॥ गिरिसारः पुनर्लोहे लिङ्गे मलयपर्वते । घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ २५८ ॥ चर्मकारः पादूकृति चर्मकार्योषधीभिदि । चक्रधरो विष्णुसर्पचक्रिषु ग्रामजालिनि ॥ २५९ ॥ चराचरं जङ्गमे स्यादिङ्गविष्टपयोरपि । चित्राटीरो घण्टाकर्णबलिच्छागास्त्रबिन्दुभिः ॥ २६० ॥ अङ्कितभाले चन्द्रे च तालपत्रं तु कुण्डले । स्यात्तालपत्री रण्डायां तुङ्गभद्रो मदोत्कटे ॥ २६१ ॥ तुङ्गभद्रा नदीभेदे तुलाधारस्तुलागुणे । वाणिजे तुण्डिकेरी तु कार्पासी बिम्बिकाऽपि च ॥ २६२ ॥ तोयधारो जलधरे सुनिषण्णाख्यभेषजे । दशपुरं पत्तने स्यान्मुस्तायां नीवृदन्तरे ॥ २६३ ॥ दण्डधारो यमे राज्ञि दम्डयात्रा तु दिग्जये । संयाने वरयात्रायां दिगम्बरस्तु शङ्करे ॥ २६४ ॥ अन्धकारे क्षपमके स्याद्वस्त्ररहितेऽपि च । दुरोदरः पुनर्द्यूते द्यूतकारे पणेऽपि च ॥ २६५ ॥ देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासन्धे हेरम्बेऽथ धराधरः ॥ २६६ ॥ कृष्णेऽद्रौ धाराधरस्तु पयोदकरवालयोः । धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ॥ २६७ ॥ धार्तराष्ट्रः कौरवेऽहौ कृष्णास्याङ्घ्रिसितच्छदे । धुन्धुमारो गृहधूमे नृपभेदेन्द्रगोपयोः ॥ २६८ ॥ पदालिकोऽप्यथ धुरन्धरो धुर्ये धवद्रुमे । धृतराष्ट्रः खगे सर्पे सुराज्ञि क्षत्रियान्तरे ॥ २६९ ॥ धृतराष्ट्री हंसपद्यां नभश्चरः खगेऽम्बुदे । विद्याधरे समीरे च निशाचरस्तु राक्षसे ॥ २७० ॥ सर्पे घूके शृगाले च निशाचरी तु पांसुला । निषद्वरः स्मरे पङ्के निषद्वरी पुनर्निशि ॥ २७१ ॥ नीलाम्बरो बलभद्रे राक्षसे क्रूरलोचने । प्रतीहारो द्वारि द्वास्थे प्रतीकारः समे भटे ॥ २७२ ॥ प्रतिसरश्चमूपृष्ठे नियोज्यकरसूत्रयोः । मन्त्रभेदे व्रणशुद्धावारक्षे मण्डने स्रजि ॥ २७३ ॥ कङ्कणेऽथ परिकरः पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोर्गणे ॥ २७४ ॥ परिवारः परिजनेऽसिकोशेऽथ परम्परः । मृगभेदे प्रपौत्रादौ परम्पराऽन्वये वधे ॥ २७५ ॥ परिपाट्यां परिसरः प्रान्तभूदैवयोर्मृतौ । पक्षचरो यूथभ्रष्टपृथक्चरिगजे विधौ ॥ २७६ ॥ पयोधरः कुचे मेघे कोशकारे कशेरुणि । नालिकेरे पात्रटीरस्त्वपव्यापारमन्त्रिणि ॥ २७७ ॥ लोहकांस्ये जरत्पात्रे पिङ्गाणकहुताशयोः । पारावारः पयोराशौ पारावारं तटद्वये ॥ २७८ ॥ पारिभद्रस्तु मन्दारे निम्बे पीताम्बरोऽच्युते । नटे च पीतसारस्तु गोमेदकमणौ स्मृतः ॥ २७९ ॥ मलयजे पूर्णपात्रं जलादिपूर्णभाजने । वर्धापके बलभद्रस्त्वनन्ते बलशालिनि ॥ २८० ॥ बलभद्रा कुमार्यां स्यात्त्रायमाणौषधावपि । ब्रह्मपुत्रो नदभिदि क्षेत्रसङ्गरयोरपि ॥ २८१ ॥ वार्वटीरस्त्रपुम्याम्रास्थ्न्यङ्कुरे गणिकासुते । वारकीरो भारग्राहिण्याराधिततुरङ्गमे ॥ २८२ ॥ यूकायां वेणिवेधिन्यां भूत्रयीमुखयोरपि । बिन्दुतन्त्रं पुनः शारिफलके च तुरङ्गके ॥ २८३ ॥ महावीरोऽन्तिमजिने परपुष्टे जराटके । तार्क्ष्ये कर्के पवौ शूरे सिंहे मखहुताशने ॥ २८४ ॥ महामात्रः प्रधाने स्यादारोहकसमृद्धयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २८५ ॥ रथकारस्तक्षिणि स्यान्महिष्यात्करिण्यां सुते । रागसूत्रं पट्टसूत्रे तुलासूत्रेऽपि च क्वचित् ॥ २८६ ॥ लम्बोदरः स्यादुद्धमाने प्रमथानां च नायके । लक्ष्मीपुत्रो हये कामे व्यवहारः स्थितौ पणे ॥ २८७ ॥ द्रुभेदेऽथ व्यतिकरो व्यसनव्यतिषङ्गयोः । वक्रनक्रौ खलशुकौ विश्वम्भरोऽच्युतेन्द्रयोः ॥ २८८ ॥ विश्वम्भरा तु मेदिन्यां विभाकरोऽग्निसूर्ययोः । विश्वकद्रुस्तु मृगयाकुक्कुरे पिशुने ध्वनौ ॥ २८९ ॥ वीरभद्रो वीरणेऽश्वमेधाश्वे वीरसत्तमे । वीरतरो वीरश्रेष्ठे शरे वीरतरं पुनः ॥ २९० ॥ वीरणे वीतिहोत्रस्तु दिवाकरहुताशयोः । शतपत्रो दार्वाघाटे राजकीरमयूरयोः ॥ २९१ ॥ शतपत्रं तु राजीवे सम्प्रहारो गतौ रणे । सहचरः पुनर्झिण्ट्यां वयस्ये प्रतिबन्धके ॥ २९२ ॥ समाहारस्तु संक्षेप एकत्रकरणेऽपि च । समुद्रारुर्ग्राहभेदे सेतुबन्धे तिमिङ्गिले ॥ २९३ ॥ सालसारस्तरौ हिङ्गौ सुकुमारस्तु कोमले । पुण्ड्रेक्षौ सूत्रधारस्तु शिल्पिभेदे नटेन्द्रयोः ॥ २९४ ॥ स्थिरद्रंष्ट्रो भुजङ्गे च वराहाकृतिशार्ङ्गिणि । ;c{इति चतुःस्वररान्ताः ।} ;v{चतुःस्वरलान्ताः} अतिबलः स्यात्प्रबलेऽतिबला तु बलाभिदि ॥ २९५ ॥ अक्षमाला त्वक्षसूत्रे वसिष्ठस्य च योषिति । अङ्गपाली परीरम्भे स्यात्कोट्यामुपमातरि ॥ २९६ ॥ उलूखलं गुग्गुलुद्रौ सन्धिभेदे च कण्डने । उलूखली दन्तच्छिद्रमेकाष्ठीलोऽम्बुकौषधे ॥ २९७ ॥ एकाष्ठीला तु पाठायां भवेत् कलकलः पुनः । कोलाहले सर्जरसे कन्दरालो जटिद्रुमे ॥ २९८ ॥ गर्दभान्देऽप्यथ कमण्डलू पर्कटिकुण्डिके । कूतूहलं शस्तेऽद्भूते खतमालो बलाहके ॥ २९९ ॥ धूमेऽथ गण्डशैलोऽद्रिच्युतस्थूलाश्मभालयोः । गन्धफली प्रियङ्गौ स्यात् चम्पकस्य च कोरके ॥ ३०० ॥ जलाञ्चलं तु शैवाले स्वतश्च जलनिर्गमे । चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले ॥ ३०१ ॥ दलामलं दमनके तथा मरुबकेऽपि च । ध्वनिलाला तु वल्लक्यां वेणुकाहलयोरपि ॥ ३०२ ॥ परिमलो विमर्दोत्थहृद्यगन्धे विमर्दने । पुष्पफलः पुनर्ग्राम्यकर्कट्यां च कपित्थके ॥ ३०३ ॥ पोटगलो नले काशे झषे बहुफलः पुनः । नीपे बहुफला फल्गौ भस्मतूलं पुनर्हिमे ॥ ३०४ ॥ ग्रामकूटे पांशुवर्षे भद्रकाल्योषधीभिदि । गन्धोल्यां हरपत्न्यां च महाकालो महेश्वरे ॥ ३०५ ॥ किम्पाके गणभेदे च मदकलो मदद्विपे । मदेनाऽव्यक्तवचने महानीलो मणेर्भिदि ॥ ३०६ ॥ नागभेदे भृङ्गराजे महाबलो बलीयसि । वायौ महाबलं सीसे महाबला बलाभिदि ॥ ३०७ ॥ मणिमाला स्त्रिया हारे दशनक्षतभिद्यपि । मुक्ताफलं घनसारे मौक्तिके लवलीफले ॥ ३०८ ॥ मृत्युफलो महाकाले मृत्युफली कदल्यपि । यवफलो मांसिकायां कुटजत्वचिसारयोः ॥ ३०९ ॥ रजस्वला पुष्पवत्यां रजस्वलस्तु सैरिभे । वायुफलं तु जलदोपले शक्रशरासने ॥ ३१० ॥ वातकेलिः कलालापे षिड्गानां दन्तलेखने । विचकिलो दमनके मल्यामथ बृहन्नलः ॥ ३११ ॥ महापोटगले पार्थे सदाफल उदुम्बरे । नालिकेरे स्कन्धफले सौवर्चलं सुवर्चिके ॥ ३१२ ॥ शूलरुङ्नाशके चाथ हस्तिमल्लः सुरद्विपे । विघ्नेशे हलाहलस्तु हयलालोरगे विषे ॥ ३१३ ॥ जेष्ट्यां च हरिताली तु दूर्वागगनरेखयोः । कृपाणलतिकायां च हरितालं तु तालके ॥ ३१४ ॥ ;c{इति चतुःस्वरलान्ताः ।} ;v{चतुःस्वरवान्ताः} अनुभावः प्रभावे स्यान्निश्चये भावसूचने । अपह्नवः पुनः स्नेहेऽपलापे चौरकर्मणि ॥ ३१५ ॥ अभिषवः क्रतौ मद्यसन्धानस्नानयोरपि । अदीनवः पुनर्दोषे परिक्लिष्टदुरन्तयोः ॥ ३१६ ॥ उपप्लवौ राहूत्पातौ कुशीलवस्तु चारणे । प्राचेतसे याचके च जलबिल्वस्तु कर्कटे ॥ ३१७ ॥ जलचत्वरे पञ्चाङ्गे जीवञ्जीवः खगान्तरे । द्रुमभेदे चकोरे च धामार्गवस्तु घोषके ॥ ३१८ ॥ अपामार्गेऽप्यथ परिप्लवावाकुलचञ्चलौ । पराभवस्तिरस्कारे नाशे पारशवोऽयसि ॥ ३१९ ॥ शूद्रायां विप्रतनये तनये च परस्त्रियाः । पुटग्रीवस्तु गर्गर्यां ताम्रस्य कलशेऽपि च ॥ ३२० ॥ बलदेवस्तु कालिन्दीकर्षणे मातरिश्वनि । बलदेवा त्रायमाणा रोहिताश्वो हुताशने ॥ ३२१ ॥ हरिश्चन्द्रनृपसुते सहदेवस्तु पाण्डवे । सहदेवा बलादण्डोत्पलयोः शारिवौषधे ॥ ३२२ ॥ सहदेवी तु सर्पाक्ष्याम् - ;c{इति चतुःस्वरवान्ताः ।} ;v{चतुःस्वरशान्ताः} अपदेशस्तु कारणे । व्याजे लक्ष्येऽप्यपभ्रंशो भाषाभेदाऽपशब्दयोः ॥ ३२३ ॥ पतने चाश्रयाशस्तु वह्नावाश्रयनाशके । उपदंशो विदंशे स्यान्मेढरोगेऽपि कीर्तितः ॥ ३२४ ॥ उपस्पर्शस्त्वाचमनस्नानयोः स्पर्शमात्रके । खण्डपर्शुः शिवे राहौ भार्गवे चूर्णलेपिनि ॥ ३२५ ॥ खण्डामलकभैषज्ये जीवितेशः प्रिये यमे । जीवितस्वामिजीवात्वोर्नागपाशस्तु योषिताम् ॥ ३२६ ॥ करणे वरुणास्त्रे च परिवेशस्तु वेष्टने । भानोः सविधबिम्बे च प्रतिष्कशः पुरोगमे ॥ ३२७ ॥ वार्ताहरे सहाये च पञ्चदशी तु पूर्णिमा । दर्श पादपाशी तु खट्टिकायामुदाहृता ॥ ३२८ ॥ शृङ्खलाकटके वापि पुरोडाशो हविर्भिदि । हुतशेषे सोमरसे चमस्यां पिष्टकस्य च ॥ ३२९ ॥ ;c{इति चतुःस्वरशालन्ताः ।} ;v{चतुःस्वरषान्ताः} अम्बरीषो नृपे सूर्य युधि भ्राष्टकिशोरयोः । आम्राते खण्डपरशावनुकर्षोऽनुकर्षणे ॥ ३३० ॥ रथस्याधो दारुणि चाऽनिमिषः सुरमत्स्ययोः । अनुतर्षोऽअभिलाषे स्यात्तृष्णाचषकयोरपि ॥ ३३१ ॥ अलम्बुषश्छर्दनेऽलम्बुषा स्वःपण्ययोषिति । गण्डीर्यां किम्पुरुषस्तु किंनरे लोकभिद्यपि ॥ ३३२ ॥ देववृक्षो मन्दारादौ गुग्गुलौ विषमच्छदे । नन्दिघोषो वन्दिघोषे स्यन्दने च किरीटिनः ॥ ३३३ ॥ परिवेषः परिवृत्तौ परिधौ परिवेषणे । पारिवेषः स्यादवाच्ये निनादे जलदघ्वनौ ॥ ३३४ ॥ पलङ्कषो यातुघाने पलङ्कषा तु किंशुके । गोक्षुरे गुग्गुलौ लाक्षारास्नामुण्डीरिकासु च ॥ ३३५ ॥ भूतवृक्षस्तु शाखोटे स्योनाककलिवृक्षयोः । महाघोषो महाशब्दे स्यान्महाघोषमापणे ॥ ३३६ ॥ पहाघोषा श्रृङ्ग्योषघ्यां राजवृक्षः पियालके । सुवर्णालुतरौ वातरूषः शक्रशरासने ॥ ३३७ ॥ वातूलोत्कोचयोश्चापि विशालाक्षो महेश्वरे । तार्क्ष्ये विशालनेत्रे च वीरवृक्षोऽर्जुनद्रुमे ॥ ३३८ ॥ भल्लाते सकटाक्षस्तु कटाक्षिणि धवद्रुमे । ;c{इति चतुःस्वरषान्ताः ।} ;v{चतुःस्वरसान्ताः} अधिवासः स्यान्निवासे संस्कारे धूपनादिभिः ॥ ३३९ ॥ अवघ्वंसस्तु निन्दायां पारित्यागेऽवचूर्णने । कलहंसो राजहंसे कादम्बे नृपसत्तमे ॥ ३४० ॥ कुम्भीनसस्त्वहौ कुम्भीनसी लवणमातरि । घनरसोऽप्सु कर्पूरे सान्द्रे सिद्धरसे द्रवे ॥ ३४१ ॥ मोरटे पीलुपर्ण्यां च चन्द्रहासोऽसिमात्रके । दशग्रीवकृपाणे च तामरसं तु पङ्कजे ॥ ३४२ ॥ ताम्रकाञ्चनयोर्दिव्यचक्षुस्त्वन्धे सुलोचने । सुगन्धभेदे च निःश्रेयसं कल्याणमोक्षयोः ॥ ३४३ ॥ नीलञ्जसा नदीभेदेऽप्सरोभेदे तडित्यपि । पुनर्वसुः स्यान्नक्षत्रे कात्यायनमुनावपि ॥ ३४४ ॥ पौर्णमासो यागभेदे पौर्णमासी तु पूर्णिमा । मलीमसं पुनः पुष्पकासीसे मलिनायसोः ॥ ३४५ ॥ महारसः पुनरिक्षौ खर्जूरद्रौ कशेरुणि । मधुरसा तु मूर्वायां द्राक्षादुग्धिकयोरपि ॥ ३४६ ॥ यमस्वसा तु कालिन्द्यां कपर्दिनः स्त्रियामपि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ३४७ ॥ रासेरसो रससिद्धिवलौ श्रृङ्गारहासयोः । षष्ठीजागरके रासे गोष्ठ्यां विश्वावसुः पुनः ॥ ३४८ ॥ निशि गन्धर्वभेदे च विभावसुस्तु भास्करे । हुताशने हारभेदे चन्द्रे श्वःश्रेयसं सुखे ॥ ३४९ ॥ परानन्दे च भद्रे च सर्वरसस्तु घूणके । वाद्यभाण्डे च देशे च षड्रसान्वितवस्तुनि ॥ ३५० ॥ ;c{इति चतुःस्वरसान्ताः ।} ;v{चतुःस्वरहान्ताः} अवग्रहो ज्ञानभेदे ह्यस्वातन्त्र्ये गजालिके । प्रतिबन्धे वृष्टिरोधेऽप्यभिग्रहस्तु गौरवे ॥ ३५१ ॥ अभियोगेऽभिग्रहणेऽवरोहस्तु लतोद्गमे । तरोरङ्गेऽवतरणेऽप्यश्वारोहोऽश्ववारके ॥ ३५२ ॥ अश्वारोहाऽश्वगन्धायामुपग्रहोऽनुकूलने । बन्द्युपयोगयोश्चोपनाहो वीणानिबन्धने ॥ ३५३ ॥ व्रणालेपनपिण्डे च गन्धवहो मृगेऽनिले । गन्धवहा तु नासायां तमोपहो जिने रवौ ॥ ३५४ ॥ चन्द्रेऽग्नौ तनूरुहस्तु पुत्रे गरुति लोम्नि च । प्रतिग्रहः सैन्यपृष्ठे ग्रहभेदे पतद्ग्रहे ॥ ३५५ ॥ क्रियाकारे दानद्रव्ये तद्ग्रहे स्वीकृतावपि । परिग्रहः परिजने पत्न्यां स्वकारमूलयोः ॥ ३५६ ॥ शापेऽथ परिवाहोऽम्बूच्छ्वासे राजार्हवस्तुनि । परिबर्हः परीवारे पार्थिवोचितवस्तुनि ॥ ३५७ ॥ पितामहः पद्मयोनौ जनके जनकस्य च । महासहा स्यादम्लानकुसुमं माषपर्ण्यपि ॥ ३५८ ॥ वरारोहो गजारोहे वरारोहा कटावपि । सर्वंसहः सहिष्णौ स्यात्सर्वंसहा पुनः क्षितौ ॥ ३५९ ॥ ;c{इति चतुःस्वरहान्ताः ।} ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे चतुःस्वरकाण्डश्चतुर्थः ।} ;k{पञ्चस्वरकाण्डः} ;c{अथ पञ्चमः काण्डः} ;v{पञ्चस्वरकान्ताः} स्यादाच्छुरितकं हासनखघातविशेषयोः । उपकारिका पिष्टभेदोपकारेशवेश्मसु ॥ १ ॥ कक्षावेक्षकः शुद्धान्तपालकोद्यानपालयोः । द्वाःस्थे षिड्गे कवौ रङ्गाजीवेऽथ कटखादकः ॥ २ ॥ खादके काचकलशे शृगालबलिपुष्टयोः । कृमिकण्टकं चित्रायामुदुम्बरविडङ्गयोः ॥ ३ ॥ स्याद्गोजागरिकं भक्ष्यकारके मङ्गलेऽपि च । चिलमीलिका खद्योते कण्ठीभेदे तडित्यपि ॥ ४ ॥ जलकरङ्कः स्यान्मेघे नालिकेरतरोः फले । शङ्खे जललतायाञ्च जलनायको मत्स्यके ॥ ५ ॥ काकोच्यां राजशफरे नवफलिका नूतने । नवजातरजोनार्यामप्यथो नागवारिकः ॥ ६ ॥ गणिस्थराजे गरुडे राजकुञ्जरहस्तिपे । चित्रमेखलके प्रोक्तः स्यादथो व्यवहारिका ॥ ७ ॥ लोकयात्रेङ्गुदीवर्धनीष्वथ व्रीहिराजिकः । चीनान्ने कामलिकायामप्यथो शतपर्विका ॥ ८ ॥ स्याद्वचादूर्वयोः शीतचम्पकौ दीपतर्पणे । सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ ९ ॥ हेमपुष्पकश्चम्पके हेमपुष्पिका यूथिका । ;c{इति पञ्चस्वरकान्ताः ।} ;v{पञ्चस्वरखान्ताः} मलिनमुखस्तु गोलाङ्गूले प्रेतेऽनले खले ॥ १० ॥ शीतमयूखः कर्पूरे चन्द्रेऽथ सर्वतोमुखः । विधावात्मनि रुद्रे च सर्वतोमुखमम्बु खम् ॥ ११ ॥ ;c{इति पञ्चस्वरखान्ताः ।} ;v{पञ्चस्वरगान्ताः} कथाप्रसङ्गो वातूले विषस्य च चिकित्सके । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १२ ॥ ;c{इति पञ्चस्वरगान्ताः ।} ;v{पञ्चस्वरचान्ताः} रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ । ;c{इति पञ्चस्वरचान्ताः ।} ;v{पञ्चस्वरजान्ताः} ऋषभघ्वजः प्रथमजिनेन्द्रे शशिशेखरे ॥ १३ ॥ मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च । ;c{इति पञ्चस्वरजान्ताः ।} ;v{पञ्चस्वरटान्ताः} दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि ॥ १४ ॥ ;c{इति पञ्चस्वरटान्ताः ।} ;v{पञ्चस्वरणान्ताः} अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् ॥ १५ ॥ दारणे युधि च परिभाषणं तु प्रजल्पने । नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारणः ॥ १६ ॥ प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णो रलुकशोणकयोः कपीतने ॥ १७ ॥ मण्डूकपर्णी मञ्जिष्ठाव्रीह्योर्गोजिह्विकौषधौ । स्याद्रोमहर्षणाख्या तु रोमोद्गमे बिभीतके ॥ १८ ॥ वातरायण उन्मत्ते निष्प्रयोजनपूरुषे । काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥ १९ ॥ समुद्धरणं वान्तान्ने जलस्योद्धरणे प्रहे । ;c{इति पञ्जस्वरणान्ताः ।} ;v{पञ्चस्वरतान्ताः} अवलोकितस्तु बुद्धेऽप्यवलोकितमीक्षिते ॥ २० ॥ स्यादपराजितो विष्णौ श्रीकण्ठे निष्पराजये । अपराजिता तु दुर्गाश्वेतावपि जयन्तिका ॥ २१ ॥ उपधूपित आसन्नमरणे धूपितेऽपि च । स्याद्गणाधिपतिर्विघ्ननायके पार्वतीपतौ ॥ २२ ॥ पृथवीपतिस्तु भूपे कृतान्त ऋषभौषधौ । मूर्घाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २३ ॥ यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि । वसन्तदूतश्चूते स्यात्पिकपञ्चमरागयोः ॥ २४ ॥ वसन्तदूती पाटल्यामतिमुक्तकभूरुहि । ;c{इति पञ्चस्वरतान्ताः ।} ;v{पञ्चस्वरदान्ताः} सहस्रपादः कारण्डे भास्करे यज्ञपूरुषे ॥ २५ ॥ ;c{इति पञ्चस्वरदान्ताः ।} ;v{पञ्चस्वरधान्ताः} योजनगन्धा कस्तूर्यां सीतायां व्यासमातरि । ;c{इति पञ्चस्वरधान्ताः ।} ;v{पञ्चस्वरनान्ताः} अपवर्जनं निर्वाणे परित्यागे विहायिते ॥ २६ ॥ अभिनिष्ठानस्तु वर्णे विसर्गेऽथोऽनुवासनम् । स्नेहने धूपने चाऽन्तावसायी श्वपचे मुनौ ॥ २७ ॥ अपसर्जनं तु दाने परित्यागेऽतिसर्जनम् । विश्राणने च हिंसायामादेशे सेवकस्य च ॥ २८ ॥ स्यादुपस्पर्शनं स्नाने स्पर्शाचमनयोरपि । उपसंपन्नं पर्य्याप्ते संस्कृतप्राप्तयोर्मृते ॥ २९ ॥ कलानुनादी चटके चञ्चरीके कपिञ्जले । गन्धमादनः कप्यद्रिभिदोरलिनि गन्धके ॥ ३० ॥ गन्धमादनी सुरायामथ जायानुजीविनः । नटाश्विनबकदुःस्थाः स्याद् धूमकेतनोऽनले ॥ ३१ ॥ ग्रहभेदे च प्रतिपादने बोधनदानयोः । पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥ ३२ ॥ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि । पीतचन्दनं स्याद्धरिद्रायां काश्मीरजन्मनि ॥ ३३ ॥ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे ॥ ३४ ॥ द्रोणकाकेऽप्पथ वरचन्दनं देवदारुणि । कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ ३५ ॥ रोचनायां हरिद्रायामथ स्याच्छकुलादनी । कट्वां मांसीपिचुलिकाजलपिप्पलिकासु च ॥ ३६ ॥ शलङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि । शिवकीर्तिनशब्दस्तु भृङ्गिरीटेऽसुरद्विषि ॥ ३७ ॥ श्वेतवाहन इत्याख्या शशाङ्गे च धनञ्जये । स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे ॥ ३८ ॥ सहस्रवेधी चुक्रे स्यात् सहस्रवेधि रामठे । हरिचन्दनमाख्यातं गोशीर्षे देवपादपे ॥ ३९ ॥ हरिवाहन इत्युक्तो भास्करामरनाथयोः । ;c{इति पञ्चस्वरनान्ताः ।} ;v{पञ्चस्वरपान्ताः} भवेच्चामरपुष्पस्तु केतके चूतकाशयोः ॥ ४० ॥ ;c{इति पञ्चस्वरपान्ताः ।} ;v{पञ्चस्वरबान्ताः} गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले । धूलीकदम्बस्तिनिमे नीपे वरुणपादपे ॥ ४१ ॥ शृगालजम्बूर्गोडुम्बे फले च बदरीतरोः । ;c{इति पञ्चस्वरबान्ताः ।} ;v{पञ्चस्वरमान्ताः} अभ्युपगमः समीपागमने स्वीकृतावपि ॥ ४२ ॥ नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु । ;c{इति पञ्चस्वरमान्ताः ।} ;v{पञ्चस्वरयान्ताः} कालानुसार्यं शैलेये कालीये शिंशपातरौ ॥ ४३ ॥ अथ स्वाद् दुग्धतालीयं दुग्धाग्रदुग्धफेनयोः । भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥ ४४ ॥ वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । ;c{इति पञ्चस्वरयान्ताः ।} ;v{पञ्चस्वररान्ताः} उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते ॥ ४५ ॥ कपिलधारा त्रिदशापगायां तीर्थभिद्यपि । तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च ॥ ४६ ॥ तालीसपत्रं तु तामलक्यां तालीसके क्वचित् । पादचत्वरः करके परदोषैकभाषिणि ॥ ४७ ॥ सैकते छगलेऽश्वत्थद्रुमेऽथ पांशुचामरः । वर्धापके प्रशंसायां दूर्वाञ्चिततटीभुवि ॥ ४८ ॥ पुरोटोधूलिगुच्छे पीतकावेरं तु कुङ्कुमे । पित्तले वस्वौकसारा त्विन्द्रस्य धनदस्य च ॥ ४९ ॥ पुरीनलिन्यौ विप्रतिसारस्त्वनुशये क्रुधि । कौकृत्ये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः ॥ ५० ॥ निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति । समभिहारो भृशार्थे पौनःपुन्येऽपि कथ्यते ॥ ५१ ॥ ;c{इति पञ्चस्वररान्ताः ।} ;v{पञ्चस्वरलान्ताः} आसुतीवलशब्दस्तु जज्ञकर्तरि शौण्डिके । भवेदुद्दण्डपालस्तु मत्स्यसर्पप्रभेदयोः ॥ ५२ ॥ एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ ॥ ५३ ॥ कूटपले गजपित्तज्वरे कुलालमारुते (?) । स्यात्पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः ॥ ५४ ॥ मन्त्रचूर्णलमिच्छन्ति वशीकरणवादिनि । डाकिनीदोषमन्त्रज्ञे कुशाम्बुप्रीणनेऽपि च ॥ ५५ ॥ भवेत्सुरतताली तु दूतिकायां शिरःस्रजि । ;c{इति पञ्चस्वरलान्ताः ।} ;v{पञ्चस्वरवान्ताः} आशितम्भवमन्नादावाशितम्भवस्तु तर्पणे ॥ ५६ ॥ स्यादाषाढभवो भौमे नवीनजलदेऽपि च । ;c{इति पञ्चस्वरवान्ताः ।} ;v{पञ्चस्वरसान्ताः} स्यान्नभश्चमसश्चन्द्रे चित्रयूपेन्द्रजालयोः ॥ ५७ ॥ हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च । हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च ॥ ५८ ॥ ;c{इति पञ्चस्वरसान्ताः ।} ;c{इत्याचार्यहेमचनच्दरविरचितेऽनेकार्थसङ्ग्रहे पञ्चस्वरकाण्डः पञ्चमः ।} ;k{षट्स्वरकाण्डः} ;c{अथ षष्ठः काण्डः} ;v{षट्स्वरकान्ताः} ग्राममद्गुरिका श्रृङ्ग्यां ग्रामयुद्धेऽपि कीर्त्यते । स्यान्मदनशलाका तु सार्यां कामोदयौषधौ ॥ १ ॥ मातुलपुत्रको धत्तूरफले मातुलात्मजे । लूतामर्कटकः पुत्रीनवमालिकयोः कपौ ॥ २ ॥ वर्णविलोडकः काव्यच्छायाहृत्सन्धिचौरयोः । स्नानाचिकित्सकश्चातुर्मास्यव्रतकरे नरे ॥ ३ ॥ स्नानाचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः । सिन्दूरतिलको हस्ती सिन्दूरतिलकाऽङ्गना ॥ ४ ॥ ;c{इति षट्स्वरकान्ताः ।} ;v{षट्स्वरणान्ताः} दोहदलक्षणं गर्भे स्यात्सन्धौ योवनस्य च । यौवनलक्षणं वक्षोरुहे च लवणिम्नि च ॥ ५ ॥ ;c{इति षट्स्वरणान्ताः ।} ;v{षट्स्वरतान्ताः} अर्धपारावतश्चित्रकण्ठे स्यात्तित्तिरावपि । ;c{इति षट्स्वरतान्ताः ।} ;v{षट्स्वरयान्ताः} प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥ ६ ॥ विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि । समुद्रनवनीते स्यात्पीयूषे च सुधाकरे ॥ ७ ॥ ;c{इति षट्स्वरयान्ताः ।} ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे षट्स्वरादिकाण्डः षष्ठः ।} ;k{परिशिष्टकाण्डः} ;c{परिशिष्टः काण्डः} ;v{एकस्वराव्ययानि} अथाऽव्ययानि वक्ष्यानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम् ॥ १ ॥ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । आं स्याद्वाक्येऽवस्मरणे स्यादा वेधस्यनव्ययम् ॥ २ ॥ आ स्यादवधृतिस्मृत्योराः सन्तापप्रकोपयोः । इ स्यात्खेदे प्रकोपोक्तौ कामदेवे त्वनव्ययम् ॥ ३ ॥ ई दुःखभावने क्रोध ईर्लक्ष्म्यां तु च नाव्ययम् । उ सम्बुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् ॥ ४ ॥ उत् प्राधान्ये प्रकाशे च प्रबल्यास्वस्थ्यक्तिषु । विभागे बन्धने मोक्षे भावे लाभोर्ध्वकर्म्मणोः ॥ ५ ॥ उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्वे रोषवाचि च । ऊ रक्षणे रक्षके च सूच्यां स्यूतावनव्ययम् ॥ ६ ॥ ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् । ॠ वाक्यकुत्सयोर्दैत्यजनन्यामप्यनव्ययम् ॥ ७ ॥ लृ कुत्सायां विस्मये च लॄशब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ ॥ ८ ॥ एऐशब्दौ तु हेहैव स्मृत्यामन्त्रणहूतिषु । क्रमाच्चतुर्भुजे शम्भावेऐशब्दावनव्ययौ ॥ ९ ॥ ओमित्यनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे । ओऔशब्दौ तु होहौव सम्बुद्ध्याह्वानयोर्मतौ ॥ १० ॥ विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ । कु पापीयसि निन्दायामीषदर्थे निवारणे ॥ ११ ॥ कं सुखे वारिशिरसोः किं प्रश्रे कुत्सनेऽपि च । चाऽन्योन्यार्थसमाहारान्वाचयेषु समुच्चये ॥ १२ ॥ हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः । पादपूरणेऽवधृतौ तु विशेषेऽवधारणे ॥ १३ ॥ समुच्चये पादपूर्तौ धिक् निर्भर्त्सनिन्दयोः । नि स्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि ॥ १४ ॥ संनिधानोपरमयोः संशयाश्रयराशिषु । मोक्षेऽन्तर्भावेऽधोभावे बन्धने कौशलेऽपि च ॥ १५ ॥ नु प्रश्नेऽनुनयेऽतीतार्थे विकल्पवितर्कयोः । नञीषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः ॥ १६ ॥ व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि । निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः ॥ १७ ॥ प्राक् पूर्वस्मिन् प्रभाते दिग्देशकालेष्वनन्तरे । अतीतेऽग्रेऽप्यथ प्र स्याद्गताद्यर्थप्रर्षयोः ॥ १८ ॥ वा समुच्चय एवार्थ उपमानविकल्पयोः । वितर्के पादपूर्तौ च विश्रम्भातीतयोरपि ॥ १९ ॥ वि श्रेष्ठेऽतीते नानार्थे पक्षिवाचि त्वनव्ययम् । वै पादपूरणे हैतौ सम्बुद्ध्यनुनयेऽपि च ॥ २० ॥ शं कल्याणे सुखेऽथ स्वित्परिप्रश्नवितर्कयोः । सं सङ्गार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः ॥ २१ ॥ सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिषु । स्माऽतीते पादपूर्तौ ह सम्बुद्धौ पादपूरणे ॥ २२ ॥ हा शुग्दुःखविषादेषु हि हेताववधारणे । विशेषे पादपूर्तौ च ही विस्मयविषादयोः ॥ २३ ॥ दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने हुं लज्जायां निवारणे ॥ २४ ॥ भयादौ भर्त्सने कोपेऽप्यनिच्छायां च कुत्सने । ;c{इत्येकस्वराव्ययानि ।} ;v{द्विस्वराऽव्ययानि} मनागल्पे च मन्दे चाऽङ्ग सम्बोधनहर्षयोः ॥ २५ ॥ पुनरर्थे चाऽथ किञ्च साकल्यारम्भयोर्मतम् । तिर्यक् तिरोऽर्थे वक्रे च विहगादौ त्वनव्ययम् ॥ २६ ॥ हिरुक् मध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे । स्तुतावसम्प्रति क्षेपेऽप्यस्तु पीडानिषेधयोः ॥ २७ ॥ असूयायामनुज्ञायामाराद् दूरसमीपयोः । इति स्वरूपे सांनिध्ये विवक्षानियमेऽपि च ॥ २८ ॥ हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ २९ ॥ समुच्चये विकल्पे च तावद्यावदिवाऽवधौ । कार्त्स्न्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ ३० ॥ प्रतिदाने प्रतिनिधौ वीप्सालक्षणयोरपि । पश्चात्प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः ॥ ३१ ॥ धृत्याश्चर्यानुकम्पासु यद्वत् प्रश्नवितर्कयोः । शश्वत् सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ ३२ ॥ स्वस्त्याशीःक्षेमपुण्यादौ साक्षात् प्रत्यक्षतुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३३ ॥ निश्चये च प्रमोदे चाप्यथो अथ समुच्चये । मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ ३४ ॥ अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ ३५ ॥ यथा निदर्शने द्वौ तूद्देशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथा त्वपिधौ स्यादनर्थके ॥ ३६ ॥ अनु लक्षणवीप्सेत्थम्भूतभागेषु संनिधौ । सादृश्यायामहीनेषु पश्चादर्थसहर्थयोः ॥ ३७ ॥ नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥ ३८ ॥ नाना विनोभयानेकार्थेषु स्थाने तु कारणे । युक्ते साम्येऽप्यवस्तेयेऽप कृष्टे वर्जने मुदि ॥ ३९ ॥ विपर्यये वियोगे च निर्देशे विकृतावपि । अपि संभावनाशङ्कागर्हणासु समुच्चये ॥ ४० ॥ प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियत्नयोः ॥ ४१ ॥ उद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ ४२ ॥ अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः । स्यादमा संनिधानार्थे सहार्थेऽलं निरर्थके ॥ ४३ ॥ अलङ्करणसामर्थ्यपर्याप्तिषु च वारणे । एवं प्रकारोमपयोरङ्गीकारेऽवधारणे ॥ ४४ ॥ कथं प्रश्ने प्रकारार्थे सम्भ्रमे सम्भवेऽपि च । कामं प्रकामेऽनुमतावसूयानुगमेऽपि च ॥ ४५ ॥ किमु संभावनायां च मर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ॥ ४६ ॥ सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि । नूनं तर्के निश्चिते च प्राध्वं नर्मानुकूलयोः ॥ ४७ ॥ भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते । अयि प्रश्नानुनययोरये क्रोधविषादयोः ॥ ४८ ॥ सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतावपि ॥ ४९ ॥ पराभिमुख्ये प्राधान्ये विमोक्षप्रतिलोम्ययोः । गतिहर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥ ५० ॥ परि व्याधानुपरमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ ५१ ॥ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि च । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः ॥ ५२ ॥ पुनरप्रथमे भेदे किल सम्भाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ ५३ ॥ जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च । अवाऽऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥ ५४ ॥ एवौपम्ये परिभव ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे ॥ ५५ ॥ मङ्क्षु शीघ्रे भृषे तत्त्वे ऽतो हेतोरपदेशवत् । निर्देशे पञ्चम्यर्थे चेतो यतश्च विभागवत् ॥ ५६ ॥ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धौ तिरश्चि च ॥ ५७ ॥ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः । पुरोऽग्रे प्रथमे च स्यात् मिथोऽन्योन्यं रहस्यपि ॥ ५८ ॥ शनैः शनैश्चरे स्वैरे सहस्साहसतेजसोः । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ ५९ ॥ अह क्षेपे नियोगे चाप्याहो प्रश्नविचारयोः । सह सम्बन्धसादृश्ययौगपद्यसमृद्धिषु ॥ ६० ॥ साकल्ये विद्यमाने च हीही विस्मयहास्ययोः । ;c{इति द्विस्वराव्ययानि ।} ;v{त्रिस्वराव्ययानि} ननुच प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि ॥ ६१ ॥ अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः । विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः ॥ ६२ ॥ पूर्वस्यां च पुरार्थे चाऽभीक्ष्णं शीघ्रप्रकर्षयोः । पौनःपुन्ये सन्तते चाऽवश्यं निश्चयनित्ययोः ॥ ६३ ॥ इदानीं साम्प्रतं वाक्यालङ्कारे तद्दिनं पुनः । दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना ॥ ६४ ॥ समयानिकषे चान्तर्निकटे चान्तरा पुनः । विनार्थे संनिधौ मध्येऽभितोऽभिमुखकात्र्स्नयोः ॥ ६५ ॥ सभीपोभयतःशीघ्रेष्वग्रतः प्रथमाग्रयोः । अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थषु शासने ॥ ६६ ॥ पुरतोऽग्राद्ययोः पूर्वेद्युः पूर्वाह्णप्रभातयोः । अहहेत्यद्भुते खेदे- ;c{इति त्रिस्वराव्ययानि ।} ;v{चतुःस्वराव्ययानि} अन्तरेणाऽन्तर्विनार्थयोः ॥ ६७ ॥ अहोबताऽनुकम्पायां खेदामन्त्रणयोरपि । ;c{इति चतुःस्वराव्ययानि ।} ;v{पञ्चस्वराव्ययानि} अनपयति प्रभाते क्षणंक्षणं क्षणार्थके ॥ ६८ ॥ ;c{इति पञ्चस्वराव्ययानि ।} ;c{इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहे एकादिपञ्चास्वराव्ययाऽभिधः परिशिष्टः काण्डः ।} ;c{समाप्तश्चाऽयं ग्रन्थः ।}