;METADATA ;title{अनेकार्थतिलक} ;author{महीप} ;bookFullName{महीपविरचितः अनेकार्थतिलकः} ;bookSeriesDetails{Sources of Indo-Aryan Leicography - 1} ;editor{Madhukar Mangesh Patkar} ;editorQualifications{B.A.} ;publisher{Dr. S. M. Katre for the Deccan College Postgraduate and Research Institute, 10 Connaught Road, Poona 1.} ;pressDetails{Ramchandra Yesu Shedge at the Nirnaya Sagar Press, 16-28, Kolbhat Street, Bombay 2.} ;publicationYear{1947 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ATMH} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{none} ;version0.0.1{02 March 2019} ;version0.0.2{27 April 2019} ;version0.0.3{27 April 2019} ;version0.0.4{15 June 2019} ;version0.1.0{15 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{महीपविरचितः अनेकार्थतिलकः} ;k{प्रथमः काण्डः} ;c{॥ नमो भगवत्यै सरस्वत्यै ॥} ;preface{ या संस्मृता प्राणभृतां क्षणेन संसाधयेदिष्टसमस्तसिद्धिं । विश्वस्य सृष्टिस्थितिनाशहेतुः सा भारती यच्छतु वाञ्छितं वः ॥ १ ॥ कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरः । विरच्यते चतुःकाण्ड्या रम्योऽनेकार्थसंग्रहः ॥ २ ॥ मुख्योऽत्र शब्दः प्रथमं स्वं युक्त्यालंकृतः कृतः । परस्त्वर्थान्तराख्यायी सप्तम्यन्त इति स्थितिः ॥ ३ ॥ अकाराद्यादिभिः शब्दैः क्षान्तैरेकाक्षराभिधः । ग्रन्थेस्मिन्प्रथमः काण्ड आविरस्ति सुविस्तरात् ॥ ४ ॥ } अः कृष्णे विनतासूनौ आ विधातरि मन्मथे । आ अव्ययं स्मृतौ वाक्ये स्यादाः सन्तापकोपयोः ॥ ५ ॥ आङ् सीमायामभिव्याप्तौ क्रियायोगेषदर्थयोः । इः स्मरेऽर्थेऽव्ययं खेदे कोपोक्तावी भुवि श्रियाम् ॥ ६ ॥ उः शम्भावुत्प्रकाशे स्यान्मोक्षे भावोर्द्ध्वशक्तिषु । उ क्रोधे बन्धने लोभे विभागेऽव्ययं गुरौ ॥ ७ ॥ पालने रक्षणे च स्यादः पृथिव्यां देवमातरि । ऋ दैत्यमातरि स्यात्तु देव्यामॄस्तु लतान्तरे ॥ ८ ॥ वाराह्यामे महीध्रे च विष्णावैरद्रिजापतौ । ओर्धातर्यौरनन्ते स्यादं ब्रह्मण्यः कपालिनि ॥ ९ ॥ ;p{0002} कं सुखे सलिले शीर्षे कः स्वर्गस्मरवह्निषु । सुहृत्सूर्ययमोद्योतकेकि(की)ब्रह्मात्मवायुषु ॥ १० ॥ कुर्भूमौ कुत्सिते शब्दे पापीयसि निवारणे । ईषदर्थेऽथ किं प्रश्ने वितर्काश्चर्ययोरपि ॥ ११ ॥ कुत्सनाक्षेपनिन्दासु किम् कियत्यपि दृश्यते । खं पुनर्गगने बिन्दाविन्द्रिये चन्द्रमण्डले ॥ १२ ॥ वर्णखण्डसुखस्वर्गशून्यसंवित्सुखौ रवौ । गं गीते गस्तु गन्धर्वे गणनायकगीतयोः ॥ १३ ॥ गौर्वज्रेऽप्सु वृषे धेनौ वाचि दिग्बाणयोर्गिरि । भूमयूखसुखस्वर्गसत्यवह्न्यक्षिमातृषु ॥ १४ ॥ गीस्तु वाचि सरस्वत्यां दुर्गायां ककुभिः स्मृता । घो घटे हनने रुद्रे घा किङ्किण्यां घनस्वने ॥ १५ ॥ ङ शब्दो विषये भीमे चश्चन्द्रे तस्करे तरौ । चाव्ययं तु समाहारे पादपूर्त्तौ समुच्चये ॥ १६ ॥ परस्परार्थे साकल्ये कारणेऽवधृतावपि । पक्षान्तरे समाने स्याच्चुश्चकोरे चतुष्पथे ॥ १७ ॥ छः सूर्ये छेदके चारे छं तु छन्दसि निर्मले । जो जिष्णौ विगते जीवे जूशब्दाम्बरवाचि च ॥ १८ ॥ पिशाच्यां जवने कीटे जो नष्टे चारुमारुते । ज्ञः स्याद्विचक्षणे चन्द्रपुत्रे मुनिविरिञ्चयोः ॥ १९ ॥ ञः शब्दो गायने गूढरूपके घर्घरध्वनौ । टः शब्दे पवने भूमौ करण्टे टं पुनर्गवि ॥ २० ॥ ;p{0003} ठो घटे सुस्वने रुद्रे चन्द्रमण्डलशून्ययोः । डः ध्वनौ गिरिशे जापे ढोऽगुणे ध्वनिढङ्कयोः ॥ २१ ॥ णो मोक्षे निष्फले स्पष्टे तः क्रोडे चौरपुच्छयोः । युद्धेऽथ ता महीलक्ष्म्योस्त्वक् चर्मणि च वल्कले ॥ २२ ॥ त्विट् प्रभायां जिगीषायां व्यवसाये रुचौ गिरि । तृट् तृष्णेवमता विद्भिः पिपासालिप्सयोरपि ॥ २३ ॥ तु स्मृतौ च समाहारे साकल्ये कारणेऽव्ययं । थो भीषणे भरेऽद्रौ दं पत्न्यां दा दातृदानयोः ॥ २४ ॥ बन्धे विखण्डने चाथ दृक् स्याद्दर्शननेत्रयोः । द्युर्वह्नौ दिवसे द्यौस्तु नाके नभसि धं धने ॥ २५ ॥ धो धीरे धनदेऽपि स्यादश्ववारकचित्रयोः । धीर्धियामिषुधौ धा च गुह्यकेशे च धातरि ॥ २६ ॥ धूस्तु धूर्ते भरे कम्पे रथास्ये नस्तु संविदि । अस्मानस्माकमस्मभ्यं स्थाने निर्बन्धबुद्धयोः ॥ २७ ॥ नु स्तुतौ तु वितर्क्के स्याद्विकल्पेऽनुशयेऽव्ययं । प्रश्नेऽथ निर्नरे भूपे निर्निश्चयनिषेधयोः ॥ २८ ॥ क्रीताद्यर्थे चये ना न नो निषेधेऽव्ययानि च । नौस्तरण्यां च नी नद्यां न्यक् निम्ने नीचकार्त्स्न्ययोः ॥ २९ ॥ पः पातरि पयःपाने प्रौढे पवनमार्गयोः । पूः शरीरे पुरे चाथ फो जञ्जानिलफेनयोः ॥ ३० ॥ फूः फूत्कृतौ च वातूले बः पद्मे वरुणे घटे । विट् प्रवेशे नरे वैश्ये वाक् भारत्यां वचस्यपि ॥ ३१ ॥ ;p{0004} वः शम्भौ वरुणे वा तु स्यादौपम्ये गणेऽव्ययं । विः खगे खेऽपि भं धिष्ण्ये भोऽलिशुक्रयोः ॥ ३२ ॥ भी प्रभावे मयूखे भूरुत्पत्तिस्थितिभूमिषु । भीर्भये मो विधौ चन्द्रे शिवे शिरसि मा श्रियाम् ॥ ३३ ॥ माने मातरि मा शब्दो निषेधार्थेऽव्ययं स्मृतौ । मू शब्दस्तु ग्रहे बन्धे मास्तु मासे निशाकरे ॥ ३४ ॥ यो वेधसि यमे वाते यमम्भसि पशावपि । यातर्यपि खट्वाङ्गे लक्ष्म्यां यानेऽथ रः स्मरे ॥ ३५ ॥ तीव्रे वैश्वानरे शब्दे रामे वज्रे नरेऽथ राः । कनके विभवे मेघे स्थानके रुस्तु रक्षणे ॥ ३६ ॥ भये दिनाधिपे शब्दे री गते रुक् प्रभेच्छयोः । किरणे रुज् व्यथायां च रे हूताव्ययं स्मृतौ (तम्) ॥ ३७ ॥ ला दाने लूश्च लवने ल इन्द्रे चलनेऽमृते । लिर्लावे लीर्द्रवे श्लेषे कङ्कणे दृढबन्धने ॥ ३८ ॥ श्रीः प्रभाभारतीलक्ष्मीसंपत्सु सरलद्रवे । शं सुखे स्याच्च कल्याणे शीः शये शुः सुधाकरे ॥ ३९ ॥ षूः प्रसूतौ च षः श्रेष्ठे सः परोक्षेथ सा श्रियां । सन् शोभने प्रशस्ते स्याद्विद्यमाने च सत्यपि ॥ ४० ॥ सत्यपूजितयोश्चाथ स्वः स्वर्गपरलोकयोः । स्वो ज्ञातावात्मनि स्वं तु निजेर्थे हः शिवे करे ॥ ४१ ॥ वीरे भयङ्करे ह स्यात्सम्बुद्धौ पादपूरणे । हा शुग्दुःखविषादेषु ही विषादेपि विस्मये ॥ ४२ ॥ ;p{0005} दुःखहेतौ च हुं स्वल्पे परप्रश्नवितर्कयोः । हि हेतौ पादपूर्त्तौ च विशेषेऽप्यवधारणे ॥ ४३ ॥ हे हूतावपि सम्बुद्धौ हं खेदे रोषभाषणे । अव्ययं क्ष्मा भुवि ज्यायां क्षः क्षेत्रे रक्षसि क्षमे ॥ ४४ ॥ श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत् सन् प्रासूतसुतं महीपममलं सौभाग्यदेवी च यं । तत्सृष्टेतिमुदे विदामनुपमे नानार्थनामालये ग्रन्थेऽस्मिन्प्रथमः पृथौ समभवत्काण्डोऽयमेकाक्षरः ॥ ४५ ॥ ;c{इत्यनेकार्थतिलके एकाक्षरसंज्ञः प्रथमः काण्डः ।} ;p{0006} ;k{द्वितीयः काण्डः} ;c{अथ द्वितीयं काण्डम् ।} अकाराद्यादिभिः शब्दैः अस्मिन् वर्णद्वयाभिधः । द्वितीयोऽनुपमः काण्डः क्रमादारभ्यतेऽधुना ॥ १ ॥ अर्घः पूजाविधौ मूल्येऽप्यब्जो धन्वन्तरौ तरौ । चन्द्रे शङ्खेऽपि जम्बालेऽब्जं तु नीरजसंख्ययोः ॥ २ ॥ अक्षो बिभीतके कर्षे रावणौ शकटात्मनोः । रथस्यावयवे तुच्छे व्यवहारवराटयोः ॥ ३ ॥ पाशके चाक्षमाकाशेन्द्रियसौवर्चलेष्वलिः । हालामधुलिहोरभ्रमभ्रके गगने घने ॥ ४ ॥ अंशुर्दिनेश्वरे रश्मावन्त्यस्त्वन्त्यभवेधमे । अर्को वृक्षान्तरे शक्रे स्फटिके सूर्यताम्रयोः ॥ ५ ॥ अकं दुःखाघयोरङ्कचिह्ने रूपकभूषयोः । उत्संगे नाटकाद्यंशे समीपस्थानमन्तुषु ॥ ६ ॥ अध्वा तु समये वर्त्मन्यजो विष्णौ रघूद्वहे । विरिञ्चे मन्मथे रुद्रे मेषेऽदोत्र परत्र च ॥ ७ ॥ अगो वृक्षे रवौ शैले सर्पेघं वृजिने घने । व्यसनाशर्मणोरर्चा प्रतिमापूजयोरपि ॥ ८ ॥ ;p{0007} अन्तःस्वरूपे निकटे प्रान्तेऽवयवनाशयोः । निश्चयेऽपि भवेदब्धिः पारावारतडागयोः ॥ ९ ॥ अग्रं श्रेष्ठेऽधिके चोर्द्ध्वपलमाने पुरःस्मृतं । संघाते प्रथमे भिक्षा प्रकारप्रान्तयोरपि ॥ १० ॥ अरोजिनेऽरं चक्रांगे शीघ्रगे सत्वरे स्मृतं । अस्तः शैलान्तरे क्षिप्ते स्यादस्रः कोणकेशयोः ॥ ११ ॥ अस्रं तु रुधिरेप्यश्रुण्यर्हन् तीर्थंकरे गुरौ । अर्थः कार्येऽभिधे ये चाभिप्राये विषये धने ॥ १२ ॥ निवृत्तौ कारणे वस्तुन्यंह्रिर्यद्वृक्षपादयोः । अणुर्व्रीह्यल्पयोरद्रावर्त्तिस्त्वटनिपीडयोः ॥ १३ ॥ अब्दः संवत्सरे मेघे गिरौ वासवमुस्तयोः । अहिर्वप्रे रवौ वृत्रे राहावध्वगसर्पयोः ॥ १४ ॥ अद्रिः सूर्ये धरेऽविस्तु मेषेऽर्के कम्बले गिरौ । अन्दूश्च निगडे भूषाभिद्यर्च्चीरश्मिकीलयोः ॥ १५ ॥ अट्टो हट्टे चतुष्केऽश्मभेदेर्यः प्रभुवैश्ययोः । अण्डं कोशे च मुष्के चानु सादृश्येऽप्यनन्तरे ॥ १६ ॥ अर्द्धः खण्डे बुधैर्दृष्टमर्द्धं मानसमांशयोः । अलं मण्डनसामर्थ्यनिषेधेष्वथ मङ्गले ॥ १७ ॥ प्रश्नानन्तर्यकार्त्स्न्येषु प्रारम्भेऽथो तथाव्ययं । अधि स्यादधिके स्वामिन्यपि प्रश्ने समुच्चये ॥ १८ ॥ ;p{0008} शङ्कासम्भावनागर्हास्वन्नं भक्ते शितेपि च । अति स्मृतौ प्रशंसायामाधिक्ये लङ्घने जवे ॥ १९ ॥ अङ्गादेशेङ्गमाधारे प्रधाने चान्तिके तनौ । शिक्षाद्यवयवोपायेष्वङ्गसम्बोधनेव्ययम् ॥ २० ॥ आजिः क्षणे समक्ष्मायां युध्याधिर्बन्धकाशयोः । मानसार्त्तावधिष्ठाने व्यसनेऽपि प्रयुज्यते ॥ २१ ॥ आत्मा यत्ने धृतौ चित्ते बुद्धौ शीलशरीरयोः । विरिञ्चेऽर्क्केऽनिले विष्णावार्यावृत्ते च मातरि ॥ २२ ॥ दुर्गायां च भवेदास्यं मुखे मुखबिले रहे । आज्यं घृते च श्रीवासेप्याप्तिः सम्बन्धलाभयोः ॥ २३ ॥ आशीरिष्टप्रशंसायां दंष्ट्रायां पवनाशिनां । आज्ञा निदेशे निर्देशे नृपादिशपथेऽपि च ॥ २४ ॥ आलिः पालिः सखीश्रेणीष्वनर्थे विमले द्रुणे । आराद्व्यवहिते दूरे समीपे विस्मयेऽव्ययम् ॥ २५ ॥ आप्तो लब्धे हिते सत्येप्यार्यः सुकृतपूज्ययोः । आगो मन्तावघे वाशा तृष्णायां ककुभिस्स्मृता ॥ २६ ॥ इला चन्द्रजभार्यायामुर्वीवाचोर्गविश्रियां । इरा जलमहीमद्यसुवाणीष्वशनेऽपि च ॥ २७ ॥ इडा गविजले भूमौ स्वर्गनाड्योर्बुधस्त्रियां । इन्द्रो भूपे रवौ शक्रे योगभेदेन्तरात्मनि ॥ २८ ॥ ;p{0009} इष्टं तु वाञ्छिते पूज्ये यागे चेनः प्रभौ रवौ । इत्यव्ययं प्रकारादिसमाप्तिक्रमहेतुषु ॥ २९ ॥ इष्टिर्यागे च वाञ्छायामीहानृषि समुद्यमे । ईतिः प्रवासेऽजन्ये स्यादीशः शम्भौ क्षमे हरौ ॥ ३० ॥ उरो वक्षसि मुख्ये स्यादुग्रमुत्कटशर्वयोः । शूद्रायां क्षत्रियाज्जातेप्युषः सायंप्रभातयोः ॥ ३१ ॥ उमातसीशचीगौरीदुर्गाकीर्तिषु भाश्रियोः । भारत्युपमयोरुष्ट्रा मृद्भाण्डकरभस्त्रियोः ॥ ३२ ॥ ऊर्णलोमनिमेषस्य लोमावर्ते भ्रुवोन्तरे । ऊर्जो मासे बलेप्यूर्तिः रक्षणे च स्मृतावृतं ॥ ३३ ॥ सत्ये जले शिलोञ्छे स्यादृणं देयाम्बुदुर्गयोः । ऋतिर्घृणा गतिस्पर्द्धाकल्याणसुरमातृषु ॥ ३४ ॥ ऋक्षं धिष्ण्ये भवेदृक्षो भल्लूके स्यादृषिर्मुनौ । श्रुतावृतुवसंतादौ स्त्रीणां पुष्पेषु दृश्यते ॥ ३५ ॥ एनः पापे गदे मन्तावेकः केवलपूज्ययोः । एवं प्रकारे चौपम्ये एवौपम्येवधारणे ॥ ३६ ॥ ओजो बले गुणे धातुतेजोऽबष्टम्भदीप्तिषु । ओघो नृत्यान्तरे सङ्घे जलवेगोपदेशयोः ॥ ३७ ॥ कणाजीरकपिप्पल्योः कुणिः कुकरवृक्षयोः । कर्क्कः कर्क्केतने कुम्भे दर्पणानलराशिषु ॥ ३८ ॥ श्वेताश्वे कन्दुके काकं रतबन्धे च योषितां । काकवृन्देऽथ काकः स्यात् एकदृग्द्रुमभेदयोः ॥ ३९ ॥ ;p{0010} पङ्गौ मानेथ काका स्यात् काकोलीकाकजङ्घयोः । काकोदुम्बरिकाकाकमाचिकारक्तिकास्वपि ॥ ४० ॥ विहङ्गे काकनासायां कुञ्जो हनुनिकुञ्जयोः । मन्दिरे दन्तिनां दन्ते कोकः स्याद्वृकभेकयोः ॥ ४१ ॥ चक्रवाके च खर्जूरीद्रुमे किष्कुस्तु कुत्सिते । प्रकोष्ठे पञ्चशाखे च वितस्तौ प्रतिमण्ठके ॥ ४२ ॥ कचः शुष्कव्रणे बन्धे केशवाक्पतिपुत्रयोः । काचः शिक्ये मणौ वृक्षे नेत्ररोगे मृदीष्यते ॥ ४३ ॥ कच्छस्तटे तरण्यङ्गेनूपप्रायद्रुभेदयोः । कम्बुः स्याद्वलये शङ्खे कपर्दग्रीवयोर्गजे ॥ ४४ ॥ कर्चूरे नलके कम्बिर्देवीभूषाविशेषयोः । वंशवल्ल्यां करे कर्मक्रियाकारकभेदयोः ॥ ४५ ॥ कञ्जो धातरि केशे स्यात्कञ्जं पीयूषपद्मयोः । कुजो महीसुते वृक्षे मण्ठके नरकासुरे ॥ ४६ ॥ कटुस्तिक्ते रसे निम्बप्रियङ्गुकटुकासु च । मत्सरेऽथ क्रमः शक्तिः परिपाटीपदेषु च ॥ ४७ ॥ कुटो गेहे शिलाकुट्टे वृक्षे कुम्भे कठो मुनौ । ऋग्भेदे वेदवित्पाठे कण्ठस्तु मदनद्रुमे ॥ ४८ ॥ संनिधाने गले घोषे कीर्तिर्यशसि कर्दमे । प्रासादे विस्तरे क्रोडः शनावुत्सङ्गकोलयोः ॥ ४९ ॥ कार्यं प्रयोजने हेतौ कामी तु कमनीयके । पारापते चक्रवाके कृष्णं मरिचलोहयोः ॥ ५० ॥ ;p{0011} कृष्णो वर्णे पिके विष्णौ व्यासे काकेर्जुने कलौ । कृष्णा तु पिप्पलीनील्योर्द्रौपदीहारदूरयोः ॥ ५१ ॥ कद्रुः सुवर्णवर्णे स्यात्कद्रूः पन्नगमातरि । कल्या कल्याणभारत्यां कल्यं मद्यप्रभातयोः ॥ ५२ ॥ सज्जे निरामये केशः पाशिन्यब्जे कचे सुरे । काशो रोगे तृणे काश्यं सोमे मद्यकशार्हयोः ॥ ५३ ॥ कुशः श्रीरामजे दर्भे पापिष्ठेऽपि कुशं जले । कुशी लोहविकारे स्यात्कीशो दिग्वसने कपौ ॥ ५४ ॥ कोशो दिव्येवने पेश्यां परिवारे च कुड्मले । जातीकोषे धनागारे चषके योनिशम्बयोः ॥ ५५ ॥ क्रिया तु निष्कृतावर्चाकर्मणोः संप्रधारणे । आरम्भोपायचेष्टासु क्रतौ शिक्षाचिकित्सयोः ॥ ५६ ॥ कान्तिः शोभेच्छयोश्चाथ कन्तुः कामकुशूलयोः । कान्तो रम्ये प्रिये कान्ता योपारेषाप्रियङ्गुषु ॥ ५७ ॥ कृतं फलेऽपि पर्याप्ते हिंसिते विहिते युगे । काव्यं ग्रन्थे च काव्योभे (?) ज्ञे काव्या पूतनाधियोः ॥ ५८ ॥ कालः वर्णे महाकाले समये मरणे यमे । काली नवाम्बुदे कीटे कालिका परिवादयोः ॥ ५९ ॥ कीलोऽग्नितेजसि स्तम्भे शङ्कौ कीला हतारतौ । कीर्णः क्षिप्ते हते छन्ने कर्णोरित्रेऽर्कजे श्रुतौ ॥ ६० ॥ कूटाख्या शिखरे दम्भे तुच्छे निश्चलयन्त्रयोः । सीदाङ्गे नगरद्वारायोधनानृतराशिषु ॥ ६१ ॥ कामाख्यातिशये काम्ये वाञ्छायां मकरध्वजे । काञ्ची तु नगरीभेदमेखलारक्तिकास्वपि ॥ ६२ ॥ ;p{0012} काण्डं बाणे क्षणे नाले संघश्लाघाधमेषु च । एकान्ते सलिले वर्गे स्तम्बे स्कन्धे च शाखिनाम् ॥ ६३ ॥ कुण्डः कुम्भ्यां जलाधारभेदे देवजलाशये । जाराज्जीवत्पतेः पुत्रे क्रीडा केल्यामनादरे ॥ ६४ ॥ कला काले च चन्द्रांशे शिल्पे च कलनांशयोः । अर्थवृद्धौ कलं स्पष्टे रुचिरे मधुरे स्वरे ॥ ६५ ॥ कुम्भो वेश्यापतौ राशौ करिकुम्भस्थले घटे । कोलं स्याद्बदरे कोलो भेके खञ्जे च सूकरे ॥ ६६ ॥ क्रौञ्चः शैले खगे द्वीपे कलिः स्यात्कलहे युगे । बिमीतकद्रुमे शूरेप्याजौ कक्षस्तु वीरुधि ॥ ६७ ॥ कच्छे शुष्कवने पापे बाहुमूले तृणेपि च । कक्षा बृहतिकोद्योगेभनाडीमेखलास्वपि ॥ ६८ ॥ कटः कलिञ्जे समये शवे शवरथे भृशे । दन्तिगण्डे क्रियाकारे कट्यां गण्डश्मशानयोः ॥ ६९ ॥ कल्पो न्याये विधौ शास्त्रे संवर्त्ते ब्रह्मवासरे । कल्पद्रुमे विकल्पैऽथ कूपो वाटेपि कुपके ॥ ७० ॥ मृन्माने तोलभेदे स्याद्गर्त्तेब्धौ गुणवृक्षके । काष्ठा दिशि प्रकर्षे भूकालमाननिशासु च ॥ ७१ ॥ कारा प्रसेविके हेमकारिकाबन्धशालयोः । करो मेधोपले दन्तिशुण्डाप्रत्यायपाणिषु ॥ ७२ ॥ किरणे करणे चाथ कुष्ठं(ष्ठं) भेषजरोगयोः । कुलं स्वजातिसन्दोहे समूहे देहगेहयोः ॥ ७३ ॥ ;p{0013} कायः कदैवते देहे लक्ष्ये सङ्घस्वभावयोः । कूर्चो विकत्थने दम्भे श्मश्रुणि स्थाद्भ्रुवोन्तरे ॥ ७४ ॥ कष्टं तु गहने कृच्छ्रे कृष्टिर्धीमति कर्षणे । कोष्ठं निजे कुशूले च कुक्षावन्तर्गृहस्य च ॥ ७५ ॥ कूलं स्तूपे तटे सैन्ये सरस्यग्रनितम्बयोः । केतुर्ग्रहे पताकायां कलङ्कोत्पातयोस्त्विषि ॥ ७६ ॥ कोटिरग्रे च संख्यायामटन्याधिक्ययोः फले । कन्दोऽब्दे सूरणे मूले कुन्दो यन्त्रे निधौ द्रुमे ॥ ७७ ॥ कोथस्तु शटिते नेत्ररुग्भेदे मथनेपि च । कुथस्तालान्तरे दर्भे प्रातःस्नानरतद्विजे ॥ ७८ ॥ रोगे कीटभिदि स्यादास्तरणे करिकम्बले । कन्था पुरे प्रावरणे कविः शुक्रे विधौ मुनौ ॥ ७९ ॥ हयोपकरणे वाचस्पतिवाग्गुम्फकारयोः । कङ्कस्तु लोहपृष्ठेपि यमे ब्राह्मणलिङ्गिनि ॥ ८० ॥ किल प्रश्ने वितर्के च प्रसिद्धौ पादपूरणे । वृत्तान्ते क्रीडने सत्ये किमु प्रश्नवितर्कयोः ॥ ८१ ॥ खरस्तु गर्दभे तिग्मे दुःस्पर्शे कोणपान्तरे । खरुस्तुरङ्गमे दर्पे रुद्रदन्तसितेषु च ॥ ८२ ॥ खल्लो निम्ने खगे वस्त्रे त्वचि खल्ली गदान्तरे । खलः स्यात् खलके ताले पिण्याके राशिनीचयोः ॥ ८३ ॥ खर्जूरिक्षुविशेषे स्यात्कण्डूकीटविशेषयोः । खर्जूरी भूरुहे चाथ खर्वो ह्रस्वे च वामने ॥ ८४ ॥ ;p{0014} खेटोधमे कफे ग्रामे दुनेतारामृगव्ययोः । खेटस्तृणे प्रहारे स्यात्कफेटङ्कान्धकूपयोः ॥ ८५ ॥ खाटिः किणे शवरथे खण्डोऽर्द्धमणिदोषयोः । ऐक्षवेऽथ खगो मेधे ग्रहेर्क्के पक्षिबाणयोः ॥ ८६ ॥ देवे खङ्गः(ड्ग) कृपाणे स्यात्खड्गि(ड्गी)शृङ्गेपि गण्डके । खलु वारणजिज्ञासावाक्यभूषासु सान्त्वने ॥ ८७ ॥ गौरी गोरोचनीपाशिपत्नीचण्डीप्रियङ्गुषु । पौर्णमासीमहानद्योरप्रसूतस्त्रियां निशि ॥ ८८ ॥ गुडः कुञ्जरसन्नाहे गोलकेक्षुविकारयोः । गुडा स्नहीगुटिकयोर्गौडं स्याद्गृद्धनाभिके ॥ ८९ ॥ पामरेथ गजो माने द्विपे गञ्जा सुरागृहे । गञ्जो भाण्ड्गृहे रीढाखन्योर्गुञ्जा कलध्वनौ ॥ ९० ॥ पटहेपि लताभेदे गोष्ठं गोस्थानके स्मृतं । तालान्तरे वने गोष्ठी संलापे परिषद्यपि ॥ ९१ ॥ गण्डस्तु गण्डके योगे कपोले खनिचिह्नयोः । गन्धो गर्वे गन्धके चामोदे सम्बन्धलेशयोः ॥ ९२ ॥ गोपो योगीश्वरे भूपे बल्लवे ग्रामयुक्तके । गुरुर्जीवे च पित्रादौ दुर्जरे महति क्षमे ॥ ९३ ॥ निषेकादिकरे गौरश्चन्द्रे पीतेरुणे सिते । कर्पूरे निर्मले गौरं किञ्जल्के श्वेतसर्षपे ॥ ९४ ॥ ;p{0015} गुणो भीमे हृषीके ज्यारज्जुशौर्यादितन्तुषु । सूदे प्रधाने सन्ध्यादौ निर्दोषे रूपसत्त्वयोः ॥ ९५ ॥ गोधा जीवविशेषे स्याद्वप्रे(C *प्र) ज्याघातवारणे । गोत्रो महीधरे गोत्रं सम्भाव्यबोधवर्त्मनोः ॥ ९६ ॥ छत्रेऽरण्येऽन्वये नाम्नि क्षेत्रे गोत्रा गवां गणे । भूमौ चाथ गिरिर्गर्भे कन्दुके पूज्यशैलयोः ॥ ९७ ॥ नेत्ररोगे तरोः सारे गाथा वाग्मेदवृत्तयोः । गुच्छः कलापे हारे स्यात्स्तम्बस्तबकयोरपि ॥ ९८ ॥ गर्भः सन्धौ बले कुक्षौ बाले पनसकण्टके । मध्ये ग्रामः पुनः शब्दात् संघे संवसथे स्वरे ॥ ९९ ॥ ग्रहस्तु ग्रहणेऽर्क्कादौ निर्बन्धेऽपि गणो बले । सैन्यान्तरे समूहे स्यात्संख्यायां प्रथमेपि च ॥ १०० ॥ गुल्मो विकारे सेनायां वृक्षघट्टविशेषयोः । गतिर्ज्ञानेपि यात्रायामुपायदृशयोः पथि ॥ १०१ ॥ ग्रस्तं ग्रासीकृते गुप्ते विलुप्तपदजल्पिते । गदा शस्त्रे गदो रोगे वासुदेवानुजे स्मृतः ॥ १०२ ॥ गुप्तिः कारागृहे गुप्तरक्षयोरन्तके यमे । गोप्यो दासीसुते गूढे गुहः स्कन्दे च गह्वरे ॥ १०३ ॥ घनः स्यात्कर्कशे मेघे विस्तारे मुस्तकाङ्गयोः । बहुले मुद्गरे मन्दे वृन्दवाद्यविशेषयोः ॥ १०४ ॥ ;p{0016} धर्मः स्यादातपे तापे ग्रीष्मोष्मस्वेदवारिषु । घोषो गोपरवाभीरपल्लीकांस्येषु घोषके ॥ १०५ ॥ घृतं क्षीराज्यदीप्तेषु घृणा दयाजुगुप्सयोः । घटा गोष्ठीघटनयोर्दन्तिसंधट्टनेपि च ॥ १०६ ॥ घटो दन्तिशिरःकूटे समाधौ कलसे लसे (?) । घोण्टा तु बदरे पूगे घृणिर्ज्वालांशुवीचिषु ॥ १०७ ॥ चण्डा धनहरीशङ्खपुष्प्योश्चण्डी शिवस्त्रियां । चण्डोऽतिकोपने तिग्मे यमदासेऽसुरान्तरे ॥ १०८ ॥ चक्रं वृन्दे जलावर्त्ते रथाङ्गे बलराष्ट्रयोः । दुष्टे दम्भान्तरे शस्त्रे चक्रः कोकविहङ्गमे ॥ १०९ ॥ चित्रा दन्त्यों सुभद्रायां नक्षत्रौषधिभेदयोः । दिव्यस्त्रीसर्पयोराखुपर्ण्यां च चित्रमद्भुते ॥ ११० ॥ कर्बूरे तिलकेपि स्यादालेख्ये नभसो(सि) रसौ । चन्द्रः सुवर्णे कर्पूरे मेचके रजनीपते ॥ १११ ॥ कम्पिल्ये सलिले काम्ये चौरोपि दस्युसुगन्धयोः । चीरं तु गोस्तने वस्त्रे चूडायां सीसपत्रके ॥ ११२ ॥ चर्चा देव्यां च चिन्तायां निन्दास्थासकयोरपि । चक्री कृष्णे रथे कोके कुलाले चक्रिषूरगे ॥ ११३ ॥ छदः पत्रे पतत्रे स्याद्ग्रन्थिपर्णतमालयोः । छिद्रं तु विवरे व्याजे व्यक्ते दूषणगर्त्तयोः ॥ ११४ ॥ ;p{0017} छन्दो वशेप्यभिप्राये छन्दः पद्येच्छयोः श्रुतौ । छाया प्रतितनावालीशोभयोरर्कयोषिति ॥ ११५ ॥ उत्कोचे नातपे कान्तौ पालनेऽपि तमस्यपि । छल्ली द्रुवल्कले पुष्पविशेषे वीरुधीष्यते ॥ ११६ ॥ सन्तानेथ छलं पत्रे स्खलिते व्याजवेषयोः । छेको मृगान्तरे दक्षे विश्वस्ते नीडजे स्मृतः ॥ ११७ ॥ ज्येष्ठः स्यादग्रजे मासे पूज्ये पूज्यतरेपि च । ज्येष्ठा तु गृहगोधायां नक्षत्रौषधिभेदयोः ॥ ११८ ॥ जडो मूर्खे हिमग्रस्ते जिष्णुः शक्रेऽर्जुने हरौ । वसुष्वपि रवौ रामे जयशीलेऽमरद्रुमे ॥ ११९ ॥ जनी वध्वां जनो लोके जगद्भेदे पृथग्जने । जटा केशविकारे स्यान्मांसीपादपमूलयोः ॥ १२० ॥ ज्योतिर्दिनाधिपे वह्नौ नक्षत्रेऽक्षिप्रकाशयोः । जातिश्छन्दसि मालत्यां सामान्ये जन्मगोत्रयोः ॥ १२१ ॥ आमलक्यामथ ज्यायान्प्रशस्येऽतिशये गुरौ । जालं दम्भे गणानायक्षारकेष्वपि जालके ॥ १२२ ॥ जालो नीपे नटे जाली पटोल्यां च जलं जडे । तोये जिह्मोऽसमे मन्दे जिह्मं तगरभूरुहे ॥ १२३ ॥ जगत्स्याज्जङ्गमे लोके जामिः स्वसृकुलस्त्रियोः । जम्भो दन्तेऽशने चांशे दैत्ये तूणे हतौ तरौ ॥ १२४ ॥ जिमस्त्वर्हति बुद्धे स्याद्देवकीनन्दने स्मरे । झूणिः पूगीफले दण्डे दुष्टदैवश्रुतावपि ॥ १२५ ॥ टङ्कोऽश्मदारणे कोपे मानभेदखनित्रयोः । कोशेऽपि टङ्कणक्षारे जङ्घा नीलकपित्थयोः ॥ १२६ ॥ ;p{0018} डिम्भः मूर्खे शिशौ डिम्बः डमरे पुप्फ(प्फु)से भये । त्राणं तु रक्षणे वीर्ये त्रायमाणौषधेपि च ॥ १२७ ॥ तर्को विचारे काङ्क्षायामूहकर्मविशेषयोः । तलश्चपेटे तालद्रौ तलं चाधःस्वभावयोः ॥ १२८ ॥ तालो गीतक्रियामाने करास्फोटद्रुभेदयोः । हस्तमानेऽपि पाताले तालं तु हरितालके ॥ १२९ ॥ तारो गाढध्वनौ मुक्ताशुद्धौ निर्मलमैौक्तिके । नेत्रमध्ये तथोद्गीते भे तारं रजते स्मृतम् ॥ १३० ॥ तारा गुरोः स्त्रियां बुद्धदेवीसुग्रीवभार्ययोः । तीर्थं तु देवतास्थाने तोयोपाध्यायसन्त्रिषु (मन्त्रिषु ?) ॥ १३१ ॥ उपाये रजसि स्त्रीणां योनौ पात्रावतारयोः । ऋषिजुष्टे मखे पुण्यक्षेत्रदर्शनयोरपि ॥ १३२ ॥ त्रपुः स्यात्सीसके वङ्गे तन्त्रं पवनसाधने । सिद्धौषधे सुखे जातौ सिद्धान्ते देशसेनयोः ॥ १३३ ॥ प्रधानेऽपि परच्छन्दे करणेऽपि परिच्छदे । वेदशाखान्तरे तन्तुशास्त्रयोरर्थसाधके ॥ १३४ ॥ तन्त्री वीणागुणे नाड्याममृतासरितोरपि । त्यागो दाने परित्यागे तीरो वङ्गे तटे शरे ॥ १३५ ॥ तुला पलशते माने सादृश्ये राशिभाण्डयोः । तमः शोके तमिस्रे च गुणभेदे विधुंतुदे ॥ १३६ ॥ तोकं पुत्रे च सन्ताने तापः सन्तापकष्टयोः । तीक्ष्णं तिग्मे विषे लोहे समुद्रलवणे युधि ॥ १३७ ॥ ;p{0019} तेजो वह्नौ बले मोक्षे नवनीतप्रभावयोः । रेतप्रकाशयोस्तीक्ष्णे तूणी नीलीनिषङ्गयोः ॥ १३८ ॥ तल्पं तु सदने देहे वस्त्रे शय्याकलत्रयोः । तनुः सूक्ष्मे कृशे देहे वामने विरलत्वचोः ॥ १३९ ॥ तिक्ता च कटुरोहिण्यां तिक्तो गन्धे रसान्तरे । त्रुटिस्तु संशये रज्जौ कालमाने लवेलयोः ॥ १४० ॥ तरो वेगे बले त्रेता युगभेदेऽनलत्रये । ततं तु विपुले वाद्ये त्रयीवेदत्रये त्रये ॥ १४१ ॥ तार्क्ष्यः खगेश्वरे सूरसूते स्यन्दनवाजिनोः । अश्वकर्णद्रुमौषध्योस्तन्द्री निद्राप्रमादयोः ॥ १४२ ॥ द्युतिः शोभाकिरणयोर्दन्तो रदनसानुनोः । द्रुतं शीघ्रे गते लीने दाढा दंष्ट्राभिलाषयोः ॥ १४३ ॥ दृढो मत्ते भृशे शक्ते दोग्धा गोपालवत्सयोः । द्रोणः कृपीपतावद्रौ संख्यायां वृद्धवायसे ॥ १४४ ॥ द्रोणी च शैलसन्धौ च नौविशेषे द्रुणः शरे । कीटे भृङ्गे द्रुणं चापे कृपाणे कच्छपान्तरे ॥ १४५ ॥ दायः पितृधने दाने यौतकादिधनेऽन्वये । दण्डी दण्डधरे भिक्षौ प्रतीहारे यमे नृपे ॥ १४६ ॥ दण्डः सैन्ये दमे माने प्रकाण्डे लकुटे यमे । मध्यर्कानुचरे दर्पे चतुर्थोपायकोणयोः ॥ १४७ ॥ दीप्तं निर्भासिते दग्धे दीक्षा यजनपूजयोः । दक्षः प्रजापतौ ताम्रचूडे रुद्रवृषे पटौ ॥ १४८ ॥ ;p{0020} दानं दन्तिमदे त्यागे खण्डनावनशुद्धिषु । दरो गर्त्ते मनागर्थे भये देवो नृपे सुरे ॥ १४९ ॥ जिगीषुबालयोर्मूर्खे मेघेऽपि व्यवहर्त्तरि । देवं जले हृषीकेऽथ दिवं घस्रे खनाकयोः ॥ १५० ॥ द्विजो दन्तेऽण्डजे विप्रे वैश्येऽपि क्षत्रिये द्रुमः । कल्पद्रुमे तरौ रत्ने दिष्टिश्चानन्दमानयोः ॥ १५१ ॥ धनुर्धनुर्द्धरे राशौ पियालद्रुमचापयोः । धाम स्थाने गृहे देहे प्रभावे जन्मतेजसोः ॥ १५२ ॥ धाना भृष्टयवेऽङ्कूरधन्याकचूर्णसक्तुषु । धेनोऽब्धौ च धुनी नद्यां धनं वित्ते च गोधने ॥ १५३ ॥ धातुः शब्दादिवर्णाद्यो रश्मभेदेऽपि तद्गुणे । कफादौ च क्षुरादौ च महाभूतेऽपि कीकसे ॥ १५४ ॥ धाराऽस्यङ्गे चमूवक्त्रराजिवाजिगतेषु च । जलादिपाते संतत्यां प्राधान्येऽथ धूरो गिरौ ॥ १५५ ॥ कूर्मे तूले धरा मेदे भुवौ गर्भाशयेऽपि च । धिष्ण्यं वह्नौ गृहे रश्मौ स्थाने मे बलशुक्रयोः ॥ १५६ ॥ धात्री धरित्र्यां धातक्यामामलक्यामूपमातरि (?) । धृतिर्धेये च सन्तोषे धारणे चाध्वरे सुखे ॥ १५७ ॥ धन्वः स्थले च कोदण्डे धन्वा तु मरुमण्डले । धन्वी धनुर्द्धरे वृक्षे च्छेके मध्यमपाण्डवे ॥ १५८ ॥ ध्रुवश्च निश्चलौत्तानपादिकीलकशम्भुषु । धुतं धूते परित्यक्ते धवो भीरौ तरौ प्रिये ॥ १५९ ॥ ;p{0021} धेनुर्गवि च हस्तिन्यां ध्वांक्षः स्याद्बककाकयोः । याचके सदने धीदा सेमुखी कन्ययोरपि ॥ १६० ॥ ध्वजश्चिह्ने पताकायां शिश्ने पूर्वदिशो गृहे । खट्वाङ्गे शौण्डिके माने धाता पालकवेधसोः ॥ १६१ ॥ निजः स्वकीये नित्येऽथ नीतिः प्राप्तौ नयेऽपि च । नाडी कुहनचर्यायां नालिका गण्डदूर्वयोः ॥ १६२ ॥ स्नायौ गुणान्तरे नाले नीडं स्थाने खगालये । न्यङ्कुर्मुनौ मृगे ताले नखः करजषण्ढयोः ॥ १६३ ॥ नागं रङ्गे तथा सीसपत्रेऽपि करणान्तरे । नागस्तु कुञ्जरे सर्पे मुस्तके नागकेसरे ॥ १६४ ॥ देहवायुविशेषे स्यात् श्रेष्ठे शब्दोत्तरस्थितः । पुंनागे जलदे नागदन्ते दुष्टाशयेऽपि च ॥ १६५ ॥ नाकः स्वर्गेऽन्तरिक्षे च नाकुः शैले मुनीश्वरे । वल्मीके विवरे नीचः पामरे वामने स्मृतः ॥ १६६ ॥ निष्को हृद्भूषणे साष्टसुवर्णशतकर्षयोः । सुवर्णे तत्पले च स्याद्दीनारस्नायोरपि ॥ १६७ ॥ नभो मासे बिसे घ्राणे प्रावृषि स्यान्नेभोऽम्बरे । नेत्रं वस्त्रे मृगे वृक्षमूलेऽक्षिणि गुणान्तरे ॥ १६८ ॥ नाभिः क्षत्रियचक्रान्तःप्राण्यङ्गेषु नृपोत्तमे । नदोऽब्धौ च ह्रदे वाहे रावे नन्दिर्गणान्तरे ॥ १६९ ॥ द्यूते चानन्दने नन्दी वटे शंकरवेत्रिणि । गर्दभाण्डेऽथ निन्दा स्यात्तथा कुत्सापवादयोः ॥ १७० ॥ ;p{0022} नन्दा तिथ्यन्तरे विन्द्यान्मणिके वाचि संपदि । नीलो वर्णे मणौ शैले कपिभिन्निधिभेदयोः ॥ १७१ ॥ नेमो गर्त्तेऽवधौ काले प्राकारे कैतवार्द्धयोः । नेमिः प्रधौ जिने वृक्षे नालं काण्डमृणालयोः ॥ १७२ ॥ नलं पद्मे नलो भूपे पितृदैवे नडे कपौ । नरः कृष्णेऽर्जुने रामे कर्पूरे पुरुषे नतः ॥ १७३ ॥ तगरे बन्धुरे भुग्ने निभो व्याजसमानयोः । नगो महीरुहे शैले नूनं तर्क्के विनिश्चिते ॥ १७४ ॥ नाम प्रकाश्ये कुत्सायां संभाव्ये स्वीकृतेऽव्ययम् । ननु प्रश्नेऽप्यनुज्ञायां संबुद्धाववधारणे ॥ १७५ ॥ पदं स्थाने क्रमे त्राणे पादचिह्नापदेशयोः । व्यवसाये विभक्त्यन्ते शब्देऽङ्के वाक्यवस्तुनोः ॥ १७६ ॥ पादो मूलेऽङ्कुरे रश्मौ पदे प्रत्यन्तपर्वते । तुर्यांशे कटके पीथो मार्त्तण्डे पीथमम्भसि ॥ १७७ ॥ पद्मः संख्यानिधिव्यूहादहिषु पद्मं तु पल्लवे । अब्जे कुञ्जरबिन्दौ च पद्मा लक्ष्मीवरस्त्रियोः ॥ १७८ ॥ प्लवः प्लक्षे प्लुतौ भेके चण्डाले कुलके कपौ । क्रमनिम्नमहीभागे भेलके जलवायसे ॥ १७९ ॥ शब्दे कारण्डवे स्नाने प्लवं मुस्तकभिद्यपि । तोये गन्धतृणे पुष्पं विमाने धनदस्य च ॥ १८० ॥ प्रसूने रजसि स्त्रीणां विकाशे नयनामये । पाशः शस्तौघयोः शब्दान्मृगादीनां च बन्धने ॥ १८१ ॥ ;p{0023} पक्षो वर्गे ग्रहे पिच्छे पार्श्वे पक्ष्मविरोधयोः । केशात्परश्चये चुल्लीरन्ध्रे साध्यसहाययोः ॥ १८२ ॥ मासार्द्धेऽथ पणो द्यूताद्युत्सृष्टव्यवहारयोः । भृतौ कार्षापणे वित्ते ग्लहे गण्डकविंशतौ ॥ १८३ ॥ मूल्ये विक्रय्यशाकादिबद्धमुष्टौ नदे क्वचित् । पाकः पक्तौ शिशौ दैत्ये प्रीतिः प्रेमप्रमोदयोः ॥ १८४ ॥ पालिः सेतौ ततौ कर्णपाल्यां कल्पितभोजने । सश्मश्रुवर्तितोत्सङ्गप्रस्थेषु स्तुतिचिह्नयोः ॥ १८५ ॥ पत्रं तु च्छदने पक्षक्षुरीभूर्जेषु वाहने । पात्रं तु भाजने योग्ये देहे कूलद्वयान्तरे ॥ १८६ ॥ पत्री श्येने खगे बाणेऽद्रौ रथे पोत्रमम्बरे । मुखाग्रे क्रोडहलयोः पीलुः पुष्पे मतङ्गजे ॥ १८७ ॥ परमाणौ तरौ काण्डे पुलस्तु पुलके पृथौ । प्रस्थो माने तटे सानौ पृथुर्विस्तीर्णभूपयोः ॥ १८८ ॥ पुरं तु मन्दिरे देहेद्रंग (?) पाटलिपुत्रयोः । पुरस्तु गुग्गुले दृष्टः पुरुर्नृपपरागयोः ॥ १८९ ॥ प्रचुरे नाकिनां लोके पारी पात्रीपरागयोः । पूरे कर्करिकायां च करीणां पदबन्धने ॥ १९० ॥ पुङ्खस्तु मङ्गलाचारे बाणाङ्गश्येनयोरपि । प्राणोऽनिले बले गन्धरसे हृदयमारुते ॥ १९१ ॥ प्राणास्तु जीविते पार्ष्णिः पादमूलोन्मदस्त्रियोः । चमूपृष्ठे च कुम्भ्यां च पुस्तं लेप्यादिकर्मणि ॥ १९२ ॥ शिल्पेऽपि पुस्तके पूर्त्तं खातादौ पूरिते पृषत् । मृगे बिन्दौ प्लुतं वाजिगतौ प्लुतस्त्रिमात्रके ॥ १९३ ॥ ;p{0024} प्रायः स्यान्मरणे तुल्ये बाहुल्येऽनशनेऽपि च । पुण्ड्रस्तु चित्रके कीटे वासन्त्यामिक्षुभिद्यपि ॥ १९४ ॥ दैत्येऽपि तिलके पुण्डरीके पुण्ड्रास्तु निर्वृति । पशुर्मृगान्तरे मेषे यागादौ प्रथमे जडे ॥ १९५ ॥ पौषो मासान्तरे पौषं करणे क्षणयुद्धयोः । पत्तिः सैन्ये गतौ पेशी फलग्रन्थ्यसिकोशयोः ॥ १९६ ॥ पूगं पूगीफले वृन्दे पयस्तु क्षीरनीरयोः । पिङ्गं तु बालके पीते पिङ्गा गोरोचनामयोः ॥ १९७ ॥ पिण्डो बोले जपापुष्पे सिल्हेऽपि कवलाङ्गयोः । पिण्डं गेहैकदेशे स्यात् संघाते जीवनायसोः ॥ १९८ ॥ पीडार्त्तौ मर्दने वृक्षभिदुत्तंसकृपासु च । पण्डः षण्ढे शठे पण्डा दृष्टा तत्त्वधियामपि ॥ १९९ ॥ पाण्डुर्नृपान्तरे वर्णे मृद्विशेषे गदान्तरे । प्रेङ्खा वाजिगते नृत्यदोलापर्यटनेषु च ॥ २०० ॥ पिच्छं वाजे कचे पिच्छः पुच्छे पिज्जं(ञ्जं?) बले स्मृतम् । पिञ्जो व्यग्रे वधे पिञ्जा हरिद्रातूयोरपि ॥ २०१ ॥ पुष्टिस्तु पोषणे वृद्धौ पट्टः पीठे चतुष्पथे । व्रणादिबन्धने पेषो पले भूपादिशासने ॥ २०२ ॥ प्रजा लोके च सन्ताने पत्तिर्गौरवपाकयोः । पल्लिर्जीवेऽगभ्रूकुट्योः पलं पिशितमानयोः ॥ २०३ ॥ पटू रोगविहीने स्यात्पटोले चतुरे स्फुटे । प्लक्षोऽश्वत्थे वटे द्वीपे गर्द्धभाण्डेऽपि पक्षके ॥ २०४ ॥ पर्व दर्शादिके ग्रन्थौ सिद्धान्तेऽवतरेऽन्तरे । विशेषे च पुराणाङ्गे प्रस्तावे मङ्गले तिथौ ॥ २०५ ॥ ;p{0025} फलं जातिफले हेतुकृते कङ्कोललाभयोः । त्रिफलाफलकैलासु फालं तु कुशिके गतौ ॥ २०६ ॥ फणा मन्थानकुण्डल्यां गोशृङ्गाहिमुखाग्रयोः । जटातृष्णामृतासु स्यात्फटा तु कपटे फणे ॥ २०७ ॥ भेकः भीरौ भरे मेघे मण्डूकद्रुमभेदयोः । भुजो बाहौ करे मूल्ये भूकः स्याच्छिद्रकालयोः ॥ २०८ ॥ भगो रूपप्रभावश्रीसौभाग्यज्ञानमुक्तिषु । यत्नेऽर्केन्दुयशःपुण्यैश्वर्येच्छावीर्ययोनिषु ॥ २०९ ॥ भङ्गस्तरङ्गे कौटिल्ये रुग्विशेषे पराजये । खण्डने मीतिविच्छित्त्योर्भानुः सूर्यदिनांशुषु ॥ २१० ॥ भृगुर्मृत्युञ्जये सानौ जमदग्निप्रतापयोः । शुक्रेऽपि भोगस्तु सुखे राज्ये वेश्याभृतावपि ॥ २११ ॥ फणेऽपि पालने वित्तेऽभ्यवहारादिदेहयोः । भाण्डं मूलवणिग्वित्ते भूषायामश्वमण्डने ॥ २१२ ॥ भ्रमो वारिभ्रमायर्त्तकुन्दयन्त्रेषु चार्जवे । भृङ्गस्तु भ्रमरे पिङ्गे भृङ्गराजे खगे त्वचि ॥ २१३ ॥ भेदो द्वैधे विशेषे स्यादुपजापविदारणे । भवो भद्रे शिवे सत्तासंसारप्राप्तिजन्मसु ॥ २१४ ॥ भावः स्वभावसत्तात्मलीलाकर्मविभूतिषु । योनौ जन्मबुधप्राणिचेष्टाभिप्रायवस्तुषु ॥ २१५ ॥ शृङ्गारादिनिदाने च शब्दावर्त्तमकारणे । भक्तिर्विभागे सेवायां भक्तमन्ने च तत्परे ॥ २१६ ॥ भद्रो रुद्रे वृषे दन्तिजातौ मेरुकदम्बके । साधौ रामचरे भद्रं करणे क्षेममर्मयोः ॥ २१७ ॥ मर्मस्वर्णौ भृते भारे भोगी दर्वीकरे नृपे । वैयावृत्त्यकरे ताले ग्रामण्यां नापिते स्मृतः ॥ २१८ ॥ ;p{0026} भूरिः स्यात्प्रचुरे भर्मे भीरुः कातरयोषयोः । भारो भरेऽपि संख्यायां भरुर्भर्मणि भर्त्तरि ॥ २१९ ॥ भीष्मस्तु भीषणे रुद्रे गङ्गापुत्रे हि रक्षसोः (सि ) । भूभृन्महीधरे शेषे धरे भूतिस्तु संपदि ॥ २२० ॥ उत्पादे सदने मांसपाकभेदे च भस्मनि । भव्यं भाविनि कल्याणे योग्ये सत्ये फलेऽस्थिनि ॥ २२१ ॥ भीमो वृकोदरे रुद्रे रौद्रे भूपे भयानके । तथाम्लवेतसे भौमो मङ्गले नरकासुरे ॥ २२२ ॥ मुष्कोऽण्डे तस्करे सङ्घे मोक्षवृक्षेऽपि मांसले । मार्गो मेऽन्वेषणे मासाध्वनोरेणमदे हरौ ॥ २२३ ॥ मोघस्तु निःफले दीने मोघा स्यात्पाटलातरौ । मघा मे कुसुमस्यापि कलिकायामुदाहृता ॥ २२४ ॥ मेघोऽब्दे मुस्तके मोचा कदल्यां शाल्मलिद्रुमे । मानो गर्वे ग्रहे मानं प्रमाणे चः पलादिषु ॥ २२५ ॥ महद्राज्येऽपि धीतत्त्वे पृथौ मुक्ता तु मौक्तिके । पुंश्चल्यामपि मुक्तिस्तु निर्वाणे मोचने स्मृता ॥ २२६ ॥ मूकोऽवाच्यसुरे दीने मुखं प्रारम्भपूज्ययोः । वदनोपाययोरग्रे मूले निःसारणेऽपि च ॥ २२७ ॥ मृगो नक्षत्रमेदे च मूगयागजमेदयोः । याञ्चायां च पशावेणे मृगी स्यान्नायिकान्तरे ॥ २२८ ॥ माया दम्भे दयाबुद्ध्योर्मयो वेसरदैत्ययोः । उष्ट्रे मायोच्युते (?) वस्त्रे मयुरश्वमुखैणयोः ॥ २२९ ॥ माता त्वमाप्रसूधेनुदुर्गाभूमातृकासु च । मल्लिस्तु करके मत्स्ये जिने जातीकपालयोः ॥ २३० ॥ मन्दो मूर्खे चरेऽभाग्ये रोगग्रस्ते शनैश्चरे । अलसे दन्तिनां जातौ मुण्डो मुण्डितशीर्षयोः ॥ २३१ ॥ ;p{0027} दैत्ये विधुंतुदे मण्डः शाके सारे च मस्तुनि । एरण्डपिच्छाभूषासु मण्डा चामलकीद्रुमे ॥ २३२ ॥ मौलिस्तु शेखरे शीर्षे शिखासंयतकोशयोः । मृतं च याचिते मृत्यौ मृदुः कोमल(अ)तीव्रयोः ॥ २३३ ॥ मधुर्मेघे जले क्षीरे दैत्ये मासवसन्तयोः । हारहू(ह?)रारसे पुष्परसे यष्टिमधूकयोः ॥ २३४ ॥ मणिर्लिङ्गाग्रभागे स्यादजाकण्ठस्तने भ्रमे । मणिके पद्मरागादौ निर्मलेऽपि भगध्वजे ॥ २३५ ॥ मरुद्वायौ सुरे मीनो राशौ मत्स्ये मदो रसे । मद्येभदानयोर्गर्वे वीर्ये कस्तूरिकामुदोः ॥ २३६ ॥ मित्रं सख्यौ च मित्रोऽर्के मरुर्देशेऽपि पर्वते । मारः स्मरे मृतौ विघ्ने मोक्षो निःश्रेयसि द्रुमे ॥ २३७ ॥ मरणे मोचने माषो धान्ये मानान्तरे शिशौ । त्वग्दोषे ज्ञातिभेदे च मेषो राश्यन्तरेऽप्यजे ॥ २३८ ॥ माला माल्ये ततौ मूलं कुञ्जान्तिकशिफामुभे । आदौ मन्थो रखौ नेत्ररोगे मथि च सक्तुषु ॥ २३९ ॥ यवो धान्येऽङ्कुरेऽङ्गुष्ठरेखामध्ये कलान्तरे । नीलोत्पलविशेषे च स्वल्पे कर्णविशेषके ॥ २४० ॥ युगं युग्मे रथाद्यङ्गे वृद्धिनामौषधेऽपि च । पञ्चशाखचतुष्के च कृतादौ दिवसान्तरे ॥ २४१ ॥ योगो युक्तौ च संगत्यां कर्मणा लब्धलाभयोः । देहदार्ढ्यप्रयोगे च विष्कम्भादौ तथात्मनि ॥ २४२ ॥ उपाये भेषजे विद्भिर्दृष्टः संनहने धने । विश्रब्धघातिनि ध्याने युक्तिर्न्याये च योजने ॥ २४३ ॥ ;p{0028} यज्ञो वैश्वानरे विष्णौ मखे चात्मनि शङ्करे । यष्टिर्दण्डे समाहारास्त्रभागीमधुयष्टिषु ॥ २४४ ॥ यूथी तु मागधीपुष्पभेदयोश्च कुरण्टके । यानं युग्ये गतौ योनिर्भगे कारणताम्रयोः ॥ २४५ ॥ यतिर्भिक्षौ विरामे च युतं युक्ते पृथग्भवे । यन्ता सूते हस्तिपके यक्षः श्रीदेऽपि गुह्यके ॥ २४६ ॥ यमोऽहिंसाषु ध्वाङ्क्षे संयमे यमजेऽन्तके । यमनेऽथ यथाशब्दोऽव्ययं तुल्ये निदर्शने ॥ २४७ ॥ राका स्पष्टरजःकन्यापौर्णमासिभिदोर्निशि । कच्छ्वां नद्यन्तरे रेको हीने शङ्काविरेकयोः ॥ २४८ ॥ रङ्कस्तु कृपणे मल्ले रेखा स्यादल्पके च्छले । उल्लेखेऽपि तथा भोगे रङ्गः संगीतयुध्भुवोः ॥ २४९ ॥ रागेऽपि रङ्गत्रपुणि रागः क्लेशादिके नृपे । मत्सरे लोहितादौ च गान्धाराद्यनुरागयोः ॥ २५० ॥ रोकं बिले चरे वेगे वारिक्रयणभेदयोः । रोकोंऽशौ च रुचिः शोभास्पृहाभिष्वङ्गदीप्तिषु ॥ २५१ ॥ राजी तु पङ्क्तौ रेखायां रुजा त्वामयभङ्गयोः । रथः पदि शरीरे स्यात्स्यन्दने वेतसद्रुमे ॥ २५२ ॥ रीढावमाननागत्योः राढा देशान्तरे युतौ । रोही रोहीतके प्लक्षे वटवृक्षेऽपि पिप्पले ॥ २५३ ॥ राधा तु वध्यामलकी विष्णुक्रान्तासु सङ्गरे । गोपीविद्युद्विशाखासु राधो वैशाष(ख)मासि च ॥ २५४ ॥ रमस्तु मन्मथे कान्ते रक्ताशोके रमा श्रियां । रुमा सुग्रीवभार्यायां लवणे लवणाकरे ॥ २५५ ॥ ;p{0029} रामो दाशरथे चारौ जामदग्न्ये हलायुधे । वृषान्तरे सिते श्यामे रामा सीतावरस्त्रियोः ॥ २५६ ॥ रसस्तु पारदे रागे शृङ्गारादौ घृतादिषु । गुणे द्रवे जले धातौ विषे वीर्ये रसा भुवि ॥ २५७ ॥ रथ्या मार्गे लताभेदे प्रतोल्यां रथसंहतौ । रक्तं तु रुधिरे रागिण्यरुणे कुङ्कुमे रहः ॥ २५८ ॥ एकान्ते मैथुने रिष्टं क्षेमाभावे शुभाशिषु । रूक्षोऽस्निग्धे कठोरे च राष्ट्रमुत्पातदेशयोः ॥ २५९ ॥ रूपं श्लोके पशौ नाटकादौ सौन्दर्यशब्दयोः । ग्रन्थावृत्तौ तथाकारे स्वभावे नाणके मृगे ॥ २६० ॥ राशिः समूहे मेषादौ रश्मिर्भासि च दोरके । रणो घोषे च सङ्ग्रामे रत्नमुत्कृष्टकाचयोः ॥ २६१ ॥ लेखस्तु दैवते लेख्ये लेखा पङ्क्तौ लिपावपि । लक्ष्मीः श्रीरिव शोभायां रमासंपत्प्रियङ्गुषु ॥ २६२ ॥ लघुर्मनोज्ञे निःसारे शीघ्रे चागुरुकृष्णयोः । लक्ष्यं तु वेध्ये संख्यायां लक्षश्छद्मनि लक्ष्मणि ॥ २६३ ॥ लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च । लोकः प्रजाविष्टपयोर्लेपो जग्धौ विलेपने ॥ २६४ ॥ लिङ्गं चिह्ने शिवस्याङ्गे सांख्योक्तविकृतावपि । मेहने चानुमानेऽथ लोलः काङ्क्षान्विते चले ॥ २६५ ॥ लिप्तं भुक्ते विलिप्ते च लाजा (जः) स्यादार्द्रतण्डुले । लाजं तूशीरके लाजा भ्रष्टध्याने स्युरक्षते ॥ २६६ ॥ ;p{0030} वर्णो विप्रादिके कीर्त्तौ द्युतौ गीतक्रमे व्रते । शुक्लादिस्तुतिवेषेषु चित्राक्षरकुथास्वपि ॥ २६७ ॥ अङ्गरागे गुणे रूपे भेदे तालान्तरे शरे । स्वर्णे वर्णं कुङ्कुमे तु स्याद्बाणो वृक्षान्तरे शरे ॥ २६८ ॥ शरस्यावयवे दैत्ये कथाकादम्बरीकृति । वाणिर्मेषे सरस्वत्यां व्यूतौ च क्रयविक्रये ॥ २६९ ॥ वेला सेवाङ्गुलिच्छेदे काले सिन्धुजलोन्नतौ । वित्तं विचारिते द्रव्ये वीर्यं तेजःप्रभावयोः ॥ २७० ॥ बले बीजे वरो वर्णे देवादेरीप्सिते वृतौ । जामातरि विटे श्रेष्ठे वरं तु वरचन्दने ॥ २७१ ॥ विधुर्नारायणे चन्द्रे वज्रं भिदुरहीरयोः । बाले वेरं शरीरे च वृन्ताके चन्दने जले ॥ २७२ ॥ वामी शृगालीवडवाकरभीरासभीषु च । वामः पयोधरे कामे प्रतिकूले महेश्वरे ॥ २७३ ॥ प्रशस्ये तालभेदे च वामा तु वरयोषिति । वारिः सरस्वतीघट्योर्दन्तिबन्धनमन्दिरे ॥ २७४ ॥ वृष्णिस्तु यादवे मेषे वाजी बाणे खगाश्वयोः । विद्धं भेद्ये च सादृश्ये वपुः शस्तशरीरयोः ॥ २७५ ॥ वाहो युग्ये वृषे मेध्ये वृषस्कन्धे तुरङ्गमे । व्यूहः सङ्घे वितर्के च चमूविन्यासवेगयोः ॥ २७६ ॥ वृषो धर्मे पशौ राशौ श्रेष्ठे शब्दोत्तरस्थितः । मूष(C षि)के वासके शृङ्ग्यां पुंविशेषेऽपि शुक्रले ॥ २७७ ॥ ;p{0031} विधिर्वेधसि कर्त्तव्ये दैवे कालप्रकारयोः । वप्रो रेणौ तटे शाले केदारे शिखरे चये ॥ २७८ ॥ वधूः पत्न्यां स्नुषानारीनवोढासारिवासु च । वर्षं संवत्सरे लोके धातुर्वर्षणयोरपि ॥ २७९ ॥ बिम्बं बिम्बीफले यन्त्रे मण्डलप्रतिबिम्बयोः । वर्त्तिर्गात्रानुलेपन्यां दशायां दीपकस्य च ॥ २८० ॥ बको रक्षोविशेषे स्याच्छिवभल्लीबकोटयोः । श्रीदे वींषा (वींखा) पुनः शूकशम्बागत्योश्च नर्त्तने ॥ २८१ ॥ बीजं रेतसि तत्त्वे स्यात्सारे चाङ्कूरकारणे । निदानाधानयोश्चापि वाजशब्दस्तु निःस्वने ॥ २८२ ॥ वेगे पक्षे मुनौ वाजं यज्ञान्ने सलिले घृते । व्रजो मार्गे कुले गोष्ठे वर्णो ताले वणिग्जने ॥ २८३ ॥ करणेऽपि च वाणिज्ये वेणुर्वंशे नृपान्तरे । वटो वृक्षे गुणे गोले साम्ये भक्ष्यवराटयोः ॥ २८४ ॥ व्यालः सर्पे खले सिंहे श्वापदे दुष्टकुञ्जरे । विश्वं कृत्स्ने जगच्छुण्ठ्योर्व्यक्तः स्यात्पण्डिते स्फुटे ॥ २८५ ॥ वसुः सूर्ये नृपे वह्नौ योक्त्रे यूथे सुरान्तरे । शुष्के द्रव्ये धने वृद्धौषधे रत्ने रुचि स्मृतः ॥ २८६ ॥ बलो हलायुधे काके रूपे दैत्यान्तरे बलं । स्थौल्ये स्थामनि सेनायां काले बोले बलाध्वनि ॥ २८७ ॥ ओषधे रत्नदीधित्योर्बिलं रन्ध्रनिकुञ्जयोः । बिलः शक्रहये बाली मेढिभूषाविशेषयोः ॥ २८८ ॥ ;p{0032} बालः केशे शिशौ वज्रे पुच्छे बालं जले स्मृतं । वङ्गे कासतृणे चाथ वेधाविधिमनीषिणोः ॥ २८९ ॥ बलिः पूजोपहारे स्याद्दण्डचामरदण्डयोः । जठरावयवे दैत्यविशेषे गन्धकौषधे ॥ २९० ॥ वेगः प्रवाहे किंपाके रये वेतसि वेतसे । वङ्गा देशविशेषे स्याद्वङ्गो वृन्ताकतूलयोः ॥ २९१ ॥ वङ्गं त्रपुणि सीसे च वृषा [ षः] स्यादाटरूपके । वृषा शक्रे हये पुंसि व्यङ्गो हीनाङ्गभेकयोः ॥ २९२ ॥ बभ्रुः पृथौ मुनौ पिङ्गे नकुलेऽग्नौ हरौ शिवे । वत्सं वक्षसि वत्सस्तु तर्णकाब्देषु नीवृति ॥ २९३ ॥ विष्टिः कर्मकरे भद्राजूमूल्यप्रेपणेषु च । व्यासः प्रपञ्चे विस्तारे सुनौ वित्तिस्तु सम्भवे ॥ २९४ ॥ लाभे ज्ञाने विचारे स्याद्वृतिर्वरणवाटयोः । वनं प्रस्रवणे गेहे प्रवासे काननेऽम्भसि ॥ २९५ ॥ वानं शुष्कफले क्षामे प्रोते गन्धे कटे गतौ । ब्रह्मा विप्रे विधौ वेदे ज्ञाने योगे तपस्यपि ॥ २९६ ॥ वीतिस्तु प्रजने दीप्तौ धावनेऽश्वे शने गतौ । वर्त्म नेत्रे छदे मार्गे वर्ष्म देहप्रमाणयोः ॥ २९७ ॥ आकारे सुन्दरे वेणी केशबन्धप्रवाहयोः । वस्नं मूल्ये धने वृन्तं स्तनास्ये पुष्पबन्धने ॥ २९८ ॥ वार्त्ता तूदन्तवार्त्ताकीकृप्यादिषु च वर्त्तने । वार्त्तं तु वृत्तिविशदे कुशला रोगफल्गुषु ॥ २९९ ॥ विदा ज्ञाने धियां बिन्दुः शून्ये पृषतविज्ञयोः । वेदिरङ्गुलिमुद्रायां बुधे भूषितभूतले ॥ ३०० ॥ ;p{0033} शुकः स्याद्व्यासजे कीरे रक्षोऽमात्ये कृतौ शुकं । ग्रन्थिपर्णे शिरीषेऽथ श्लोकः पद्ये यशस्यपि ॥ ३०१ ॥ शाकः शक्तौ नृपे द्वीपे वृक्षे हरितके स्मृतः । शूकः शलाकेऽनुक्रोशे शुङ्गाभिषवयोरपि ॥ ३०२ ॥ शोके शौकं तटे कीरगणे स्त्रीकरणान्तरे । शको देशेऽन्त्यजे भूपे शाणो माने कषेऽपि च ॥ ३०३ ॥ शङ्कुः प्रहरणे सङ्ख्यारुद्रमेण्ढ्रेषु कीलके । यादोभेदे शिफा मांसीजटामातृसरित्स्वपि ॥ ३०४ ॥ शफं खुरे वृक्षमूले शङ्खोऽस्थन्यसुरे निधौ । कम्बौ श्रीमान् धनाधीशे स्वर्णे तिलकपादपे ॥ ३०५ ॥ शुचिर्ग्रीष्मे सिते वह्नौ शृङ्गाराषाढमासयोः । शुद्धेऽनुपहते च स्यादुपधाशुद्धमन्त्रिणि ॥ ३०६ ॥ शठो धत्तूरके धूर्त्ते मध्यस्थपुरुषेऽलसे । शोणो हयान्तरे रक्ते श्योनाकनदवह्निषु ॥ ३०७ ॥ शिवं भद्रे सुखे तोये शिवो योगे श्रुतौ हरे । गुग्गुले जम्बुके कीले पुण्डरीके दुमोक्षयोः ॥ ३०८ ॥ शिवा हरीतकीफेरुपत्नीकात्यायनीषु च । आमलक्यां शृगालेऽपि शुद्धः केवलपूतयोः ॥ ३०९ ॥ शेषो नाशे बलेऽनन्ते स्वीकारेतरवस्तुनि । श्यामा गुन्द्रा सोमवल्लीनीलीकृष्णातृ[त्रि]वृत्स्वपि ॥ ३१० ॥ फलिनीसारिवन्द्यास्वप्रसूतस्त्रियां निशि । वल्गुल्यां च शरं वारि शरो विशिखमुञ्जयोः ॥ ३११ ॥ ;p{0034} शरुर्वज्रे शरे कोपे शारिस्तु द्यूतसाधने । शकुनौ गजपर्याणे शद्रिर्जिष्णुतडित्वतोः ॥ ३१२ ॥ शम्भुर्ब्रह्महरार्हत्सु शुभः योगे शुभं सुखे । शुभा हृद्यास्नुहीक्षीरीशुद्धापथ्यासु पठ्यते ॥ ३१३ ॥ श्लाघा निन्दानघोषास्त्यभिलाषमहिलास्वपि । शृङ्गं विषाणसामर्थ्यसानुषूत्कर्षचिह्नयोः ॥ ३१४ ॥ शृङ्गस्तु मस्तके कूर्चे शृङ्गी शूरे पशौ गिरौ । शृङ्गी मीनान्तरे स्वर्णे विषायामृपभौषधे ॥ ३१५ ॥ शार्ङ्गं कार्मुकमात्रेऽपि लक्ष्मीनाथशरासने । शाखी महीरुहे वेदे राजभेदे नरेऽपि च ॥ ३१६ ॥ शिखी दीपे द्रुमे बाणे वह्नौ केतुग्रहे हये । चूडावति वलीवर्दे ताम्रचूडमयूरयोः ॥ ३१७ ॥ शबिर्भूर्जे नृपे ताले शोषः शोषणयक्ष्मणोः । शाखा वृक्षभुजे बाहौ वेदाङ्गे तालभिद्यपि ॥ ३१८ ॥ पक्षान्तरेऽन्तिके चाथ शिखा चूडाग्रमात्रयोः । केकिचूडाशिफाज्वालाघृणिलाङ्गलिकासु च ॥ ३१९ ॥ शरद्वर्षात्यये वर्षे शस्तं क्षेमप्रशस्तयोः । शितिर्भूर्जे सिते नीले शितं तीक्ष्णे कृशे श्रुतम् ॥ ३२० ॥ शास्त्रे चाकर्णने शान्तो दान्ते दीर्घे रसान्तरे । शौण्डी च विकपिष्पल्योः शौण्डो मत्तप्रसिद्धयोः ॥ ३२१ ॥ शम्बस्तु मुशलाग्रस्थलोहे वज्रेऽथ धूमले । शक्तिः शस्त्रे बले वाण्यामुत्साहादावुमाश्रियोः ॥ ३२२ ॥ श्रुतिः कर्णे श्रुतौ वेदे गीतादिध्वनिवार्त्तयोः । श्येनः पक्षिभिदि श्वेते शादः कर्दमशिष्ययोः ॥ ३२३ ॥ ;p{0035} शुक्रो हुताशने मासभेदे दैत्यगुरौ सिते । शुक्रं नेत्रगदे बीजे शुभ्रं दीप्ते सितेऽभ्रके ॥ ३२४ ॥ षडः पेयान्तरे भेदे षण्डः स्याद्विड्वरे वने । षष्ठी गौरीनिषेकादिसंख्यातिथिविभक्तिषु ॥ ३२५ ॥ स्तोकस्तु चातके स्वल्पे स्तोमः स्यान्निकरे मखे । स्थाणुः कीले शिवे सूनुः सूर्ये पुत्रेऽनुजे द्रुमे ॥ ३२६ ॥ सूना वधालये जिह्वातले सूनं सुमेऽङ्कुरे । सीरः सूर्ये हले स्कन्धो विज्ञानादिषु पञ्चसु ॥ ३२७ ॥ प्रकाण्डे नृपतौ व्यूहे देहे सेवातमण्डले । सौम्यो धिष्ण्ये बुधे रम्ये सन्धा स्थितिप्रतिज्ञयोः ॥ ३२८ ॥ संविदाचारसङ्केतक्रियाकारेषु तोषणे । ज्ञाने नाम्नि प्रतिज्ञायां सङ्ग्रामालापयोरपि ॥ ३२९ ॥ सूतः प्रसूतसारथ्योः पारदे तक्ष्णि मागधे । ब्राह्मण्यां क्षत्रियाज्जाते सुतः पुत्रे नृपेऽपि च ॥ ३३० ॥ सीता सीरध्वजापत्ये सुरसिन्धुवरस्त्रियोः । सस्याधिदेवतालक्ष्म्योर्भुवि लाङ्गलपद्धतौ ॥ ३३१ ॥ सितो बद्धे कवौ शुभ्रे सातिर्दानावसानयोः । सृष्टिः खभावनिर्मित्योः स्फुटो व्यक्तप्रफुल्लयोः ॥ ३३२ ॥ सलिः सर्पविशेषे स्यात्कीले कलियुगेऽपि च । मूर्खे भङ्गे गदे सगा वर्गे निर्माणमोहयोः ॥ ३३३ ॥ उत्साहेऽनुमतौ त्यागे स्वभावे निश्चये स्मृतः । सुखा प्रचेतसः पुर्यां सुखं स्वर्गेऽपि शर्मणि ॥ ३३४ ॥ ;p{0036} सत्त्वं वित्ते क्रियाकारेऽप्यात्मभावस्वभावयोः । पिशाचादौ गुणे प्राणे प्राणिद्रव्यबलेषु च ॥ ३३५ ॥ सालो वृक्षान्तरे दुर्गे स्थूलः पीने जडे स्मृतः । सिन्धुर्देशे नदे नद्यामब्धौ दन्तिमदे मदे ॥ ३३६ ॥ सह्यः शैले नृपे सह्यं सोढव्यायोग्ययोरपि । स्वरः शब्देऽपि षड्जादौ स्वरुः कुलिशबाणयोः ॥ ३३७ ॥ सत्त्ररमाच्छादने यागे गृहे दाने वने धने । साधुस्त्वार्ये मुनौ सिद्धिर्योगे निष्पत्तिमोक्षयोः ॥ ३३८ ॥ सोमः समीरे कर्पूरे यागेऽप्सु पितृदैवते । ओषध्यां तद्रसे चन्द्रे कपौ किंपुरुषेश्वरे ॥ ३३९ ॥ दिव्यौषधे शिवे विष्णौ दिननाथे बिडौजसि । सिंहो मृगाधिपे राशौ श्रेष्ठे स्यादुत्तरस्थितः ॥ ३४० ॥ सुधा पृथ्वीस्नुहागङ्गेष्टिकामूर्वामृतेषु च । विकारे चाश्मनां सूदः सूपकारे घृतादिषु ॥ ३४१ ॥ सव्यं तु दक्षिणे वामे सङ्ख्यैकादिविचारयोः । सेव्यमुशीरे सेवार्हे स्वामी परिवृढे गुहे ॥ ३४२ ॥ स्वस्ति त्वाशिषि पुण्ये स्यादविनाशादिभव्ययोः । सती कात्यायनी साध्योः साक्षात्प्रत्यक्षतुल्ययोः ॥ ३४३ ॥ हरिर्विष्णौ यमे सिंहे तार्क्ष्ये भेके शुकेऽनिले । इन्द्रे चन्द्रे कपावंशौ वर्णाश्वाहीनभीरुषु ॥ ३४४ ॥ ;p{0037} अरुणे वरुणे वंशे पावके पारदे द्विपे । स्वर्णे लोकान्तरे शुक्रे गिरिशेऽसौ गुहे शनौ ॥ ३४५ ॥ हारो मुक्तागणे चाजौ क्षेत्रमानविशेषयोः । यष्टिकादिचये चारौ हीरो वज्रहराहिषु ॥ ३४६ ॥ हीरा पिपीलिकालक्ष्म्योर्हरो वेसररुद्रयोः । वह्नौ होरा तु राशीनामर्द्धे लग्ने श्रुतेऽपि च ॥ ३४७ ॥ होमिः क्षीरे घृते वह्नौ हार्यस्तु कलिभूरुहि । हर्त्तव्येऽथ हेला स्याद्विलासावज्ञयोरपि ॥ ३४८ ॥ हेलिः सूर्ये परिष्वङ्गे हालः स्यात्सातवाहने । हाला मद्ये हलः सीरे हली कृषकसीरिणोः ॥ ३४९ ॥ हंसो राज्ञि रवौ धर्मे विष्णौ जीवे शिवे सिते । तपस्विन्यश्वखगयोः प्राधान्ये चोत्तरस्थितः ॥ ३५० ॥ हस्तो माने भुजे केशात्कलापे धिष्ण्यशुण्डयोः । हविर्घृते च होतव्ये हिंसा चौर्यादिनाशयोः ॥ ३५१ ॥ हेतिर्ज्वालास्त्रयोरुस्रे हरिद्दिशि हयान्तरे । तृणभेदे भवेद्वर्णे हितं पथ्ये धृते गते ॥ ३५२ ॥ हनुः कपोलावयवे हरिद्रायुधभेदयोः । मरणामययोर्हारी रम्ये हारान्विते शुके ॥ ३५३ ॥ हन्त हर्षे विषादे स्याद्वाक्यारम्भानुकम्पयोः । हठोऽम्बुपर्ण्यां प्रसभे हीनो दीनेऽप्यपूरके ॥ ३५४ ॥ ;p{0038} क्षत्ता शूद्राक्षत्रियायां जाते सारथिवेधसोः । नियुक्ते दासजे द्वाःस्थे क्षीवो मत्तनृशंसयोः ॥ ३५५ ॥ क्षणः कालान्तरे मध्ये परतन्त्रत्वपर्वणे । उत्सवेऽवसरे क्ष्वेडा सिंहनादशलाकयोः ॥ ३५६ ॥ क्ष्वेडस्तु गरले वक्रे ध्वाने कर्णामयेऽपि च । क्ष्वेडं दुरासदे पुष्पे लोहितार्कफले स्मृतम् ॥ ३५७ ॥ क्षमा तु क्षान्तिमेदिन्योः क्षमः शक्ते क्षमावति । युक्ते तालभिदि क्षेमो मङ्गले लब्धरक्षणे ॥ ३५८ ॥ मोक्षे क्षारो रसे काचे गुडे च लवणादिषु । क्षुद्रा व्यङ्गानटीवेश्याचाङ्गेरीसरघासु च ॥ ३५९ ॥ क्षरं वारि क्षरो मेघे क्षुद्रशब्दस्तु निर्धने । नृशंसे कृपणे स्वल्पे निःकृष्टच्छलयोरपि ॥ ३६० ॥ क्षेत्रं देहे भगे पत्न्या केदारे भरतादिषु । क्षीरं दुग्धेऽमृते तोये क्षितिर्गेहे भुवि क्षये ॥ ३६१ ॥ श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूपाङ्कभृत् सन्प्रासूत सुतं महीपममलं सौभाग्यदेवी च यं । अस्मिन् सच्चरितेन तेन रचिते नानार्थनामालये ग्रन्थे द्व्यक्षरसंज्ञकः समभवत्काण्डस्तृतीयाग्रजः ॥ ३६२ ॥ ;c{इत्यनेकार्थतिलके द्वितीयः काण्डः ॥} ;p{0039} ;k{तृतीयः काण्डः} ;c{अथ तृतीयं काण्डम् ॥} अकाराद्यादिभिः शब्दैरस्मिन्वर्णत्रयाभिधः । तृतीयः क्रियते काण्डः क्रमात्पण्डितमण्डनम् ॥ १ ॥ अभितोऽभिमुखे शीघ्रे पार्श्वे कार्त्स्न्येऽपि चाव्ययं । अनूकमन्वये शीलेऽप्यनूको गतजन्मनि ॥ २ ॥ अशोको वञ्जुले वीतशोके कङ्केल्लिसूतयोः । अशोका कटुरोहिण्या मलीकं वितथेऽप्रिये ॥ ३ ॥ ललाटे करणेऽयोगः कर्कशोद्यमकूटयोः । वियोगे विधुरेऽपि स्यादमोघः सफले स्मृतः ॥ ४ ॥ अमोघा तु हरीतक्यां विडङ्गेऽप्यवटः बिले । कूपे खिले महारण्ये दृष्टः कुहकजीविनि ॥ ५ ॥ अनन्तं विपुले वारि व्योम्न्यनन्तो हरौ बले । शेषेऽनन्ता महीहैमवतीदूर्वामृतासु च ॥ ६ ॥ अर्बुदः पर्वते मांसे संख्यायां मांसकीलके । अक्षरं गगने वर्णे तपस्यध्वरधर्मयोः ॥ ७ ॥ निर्वाणेऽपि परब्रह्ममूलकारणयोरपि । अभयं वीरणीमूले निर्भयेऽपि मनोहरे ॥ ८ ॥ अभया तु हरीतक्यामजिरं प्राङ्गणेऽनिले । दर्दुरे विषये कायेप्यत्ययः कृच्छ्रनाशयोः ॥ ९ ॥ दोषे दण्डेऽतिक्रमे स्यादभीषुः प्रग्रहत्विषोः । अङ्कुरं रुधिरे रोम्णि नवोत्थाने तरौ जले ॥ १० ॥ ;p{0040} अरिष्टः फेनिले निम्बे लशुने काकशङ्कयोः । दैत्येऽरिष्टं शुभेऽक्षेमे सूतिकागारतक्रयोः ॥ ११ ॥ अङ्गजं रुधिरे केशेऽङ्गजो मन्मथपुत्रयोः । अञ्जनं कज्जले याने सौवीरेऽपि रसाञ्जने ॥ १२ ॥ अञ्जनो दिग्गजे शैलेऽञ्जना मारुतिमातरि । अमरस्त्वस्थिसंहारे स्नुहीवृक्षे सुरे कवौ ॥ १३ ॥ अमृतं गगने हृद्ये स्वर्णे तोये रसायने । कैवल्ये गोरसे यज्ञे शेषे माक्षीकवर्णयोः ॥ १४ ॥ सुधायाचितयोरन्नेऽमृतो धन्वन्तरौ सुरे । अमृता मागधी पथ्यागुडूच्यामलकीषु च ॥ १५ ॥ अनयः व्यसने नाशेऽशुभे देवेऽपि पामरे । अथावधिर्बिले सीमावधानसमयेषु च ॥ १६ ॥ अरुणो भास्करे रक्ते निःशब्दे कपिले बुधे । सन्ध्यारागे रवेःसूतेऽव्यक्तरागेऽपि चारुणा ॥ १७ ॥ नृ[त्रि]वृत्यतिविषाश्यामामञ्जिष्ठास्वपि दृश्यते । अम्बरं गगने वस्त्रे सुरभिद्रव्यतूलयोः ॥ १८ ॥ अर्जुनो धवले चक्षूरोगे हैहयकेकिनोः । तृणे द्रुमे चैकपुत्रे मातुर्मध्यमपाण्डवे ॥ १९ ॥ आप्लुतः स्नातके स्नातेऽप्याकल्पः कल्पवेषयोः । आतङ्को रुजि सन्तापे मुरजध्वनिशङ्कयोः ॥ २० ॥ ;p{0041} आशुगः पवने बाणे रवौ चारोह उच्यये । दैर्घ्ये माने गजारोहे स्त्रीकट्यां च समुच्चये ॥ २१ ॥ आयतिः संहतौ भावे स्वाधीनोत्तरकालयोः । आत्मभूर्मदने शम्भौ वासुदेवमहेशयोः ॥ २२ ॥ आसत्तिः संगमे लाभेऽप्याका[क?]रो निकरे मणौ । खन्यामानद्धमाख्यातं मुरजादिकनद्धयोः ॥ २३ ॥ आशयः स्यादभिप्रायेऽप्याश्रये पनसद्रुमे । आदित्यः त्रिदशे भानावाम्नायः कुलआगमे ॥ २४ ॥ आनर्त्तो नृत्यसदने समरे जनदेशयोः । आयस्तः कष्टिते क्षिप्ते तेजिते कुपिते हते ॥ २५ ॥ आक्रन्दः क्रन्दनारावे भूपे दारुणसंयुगे । आकर्षः पाशके द्यूतभिदाकर्षणयोरपि ॥ २६ ॥ आषाढो व्रतिनां दण्डे मासे मलयपर्वते । आनकः पटहे भेर्यां मृदङ्गे मेघनिःस्वने ॥ २७ ॥ इक्ष्वाकुः कटुतुम्बिन्यां भूपभेदेऽप्यथेतरः । अन्यस्मिन्पामरेऽपि स्यादिष्वासं चापधन्विनोः ॥ २८ ॥ इष्वासः विशिखक्षेपे इन्द्रियं रेतसि स्मृतं । हृषीके वेरिणं शून्योषरयोश्च निराश्रये ॥ २९ ॥ उन्माथः स्याद्वधे कूटयन्त्रे दृष्टस्य घातके । उर्वरा पृथिवी सर्वसस्याढ्यधरयोरपि ॥ ३० ॥ उत्थानमुद्गमे सैन्ये पौरुषोद्यमयोर्युधि । उदारः दक्षिणे दातर्युदरं हृदि संयुगे ॥ ३१ ॥ ;p{0042} उच्छ्रितं तून्नते ख्यातं ज्ञातमात्रप्रवृद्धयोः । उदानो जठरावर्त्ते सर्पवायुविशेषयोः ॥ ३२ ॥ उद्यानं सरणेऽरण्यविशेषेऽपि प्रयोजने । सुरवतर्त्मन्यथोत्तंसः कर्णपूरेऽपि शेखरे ॥ ३३ ॥ उत्थितं तु समुत्पन्ने सञ्जाते वृद्धिमत्यपि । उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्युदाहृतम् ॥ ३४ ॥ उदूढः पृथुलेप्यूढेऽप्युपलः प्रस्तरे मणौ । उत्कटश्चोद्भटे क्षीवेऽप्युदर्चिः पावकद्रुवोः ॥ ३५ ॥ अतियन्यनुजे वीरेऽप्युरगः पन्नगेऽर्भके । उल्लाघः निर्गदे वृक्षे निपुणे शुचिहृष्टयोः ॥ ३६ ॥ उन्मत्तः कितवोन्मादमुचुकुन्देषु पल्लवे । उत्पलं तूपलोऽद्रौ मासशून्याब्जभेदयोः ॥ ३७ ॥ उष्णीषं शेखरे शीर्षवेष्टने लक्षणान्तरे । उच्छ्वासः प्राणने गद्यबन्धमिच्छ्वासयोरपि ॥ ३८ ॥ ऊर्णायुः कम्बले मेषे श्वेतवर्णोर्णनाभयोः । ऋषभो वृषभे नाम्नः परःश्रेष्ठे जिनेश्वरे ॥ ३९ ॥ कर्णरन्ध्रे स्वरे कोलपुच्छे भेषजभिद्यपि । ऋषभी दृश्यते शुकश(शि)म्बीपुरुषाकृतियोषयोः ॥ ४० ॥ ऊशीरं चमरे दण्डशयनासनभेदयोः । कौतुकं मङ्गले कामे गीतादौ च कुतूहले ॥ ४१ ॥ प्रमोदे विषयाभोगे विवाहपटलेऽपि च । कुण्डली वरुणे व्याले मयूरे कुण्डलान्विते ॥ ४२ ॥ केसरी तुरगे सिंहे पुन्नागे नागकेसरे । करणं साधने काये कायस्थेन्द्रियकर्मसु ॥ ४३ ॥ ;p{0043} योगीनामासनादौ च गीतनाट्यविशेषयोः । बालवादौ च करणः ख्यातः शूद्राविशोः सुते ॥ ४४ ॥ कुटजस्तरुभेदे स्यादगस्त्यद्रोणयोरपि । करटः करिणां गण्डे दुर्मुखे काकवाद्ययोः ॥ ४५ ॥ मृतश्राद्धे कुसुम्भेऽथ कीलालं रुधिरे जले । क्षीरे पुष्परसे मण्डे घृतमद्यामृतेषु च ॥ ४६ ॥ कम्बलं कमले नीरे कम्बलो नागसास्नयोः । वैकक्ष्ये चेन्द्रिये कीटे कुन्तलो विषयान्तरे ॥ ४७ ॥ धम्मिल्लहलयोस्तक्ष्णि कुन्तहस्तास्त्रभेदयोः । कषायः सुरभौ रागे रसे वर्णद्रवाङ्गयोः ॥ ४८ ॥ कषायं बदरे स्निग्धे काकिणी तु वराटके । गुञ्जायां पणतुर्यांशे कल्याणं हेम्नि मङ्गले ॥ ४९ ॥ नगरे कसिपुर्वस्त्रे प्राकारे वल्भने यतौ । करीरः कलशे वृक्षविशेषे वैणवाङ्कुरे ॥ ५० ॥ कलमो लेखनीशालिभिदोरङ्कूरचौरयोः । कपिलः कुकुरे पिङ्गे पावके वासवे मुनौ ॥ ५१ ॥ कपिला रेणुकायां च गोभेदे शिंशिपाद्रुमे । वल्ल्यां च करिणीभेदे कामलो रोगकामिनोः ॥ ५२ ॥ वसन्ते मरुदेशे स्यात्कुम्भिलो मीनचोरयोः । श्लोकच्छायाहरे श्याले कुलालः कुकुरै द्रुमे ॥ ५३ ॥ कुम्भकारे तथा घूके किट्टालो लोहकुम्भयोः । कन्दलं कलहे शब्दे न्यङ्कुभेदोपरागयोः ॥ ५४ ॥ ;p{0044} कलापेऽपि नवाङ्कूरे कलङ्कोऽङ्कापवादयोः । अयोमले कुसुम्भं तु लट्वाहेश्नोः कमण्डलौ ॥ ५५ ॥ कलत्रं भूभुजां दुर्गस्थाने नीव्यङ्कभार्ययोः । कोहलस्तु मुनौ मद्ये कोमलं मृदुतोययोः ॥ ५६ ॥ कमले भेषजे पङ्के शीर्षे पद्मेऽम्बुताम्रयोः । कमलो हरिणे रोगे सुधांशौ कमला श्रियाम् ॥ ५७ ॥ कलापस्तूणके बर्हे मेखलायां च सञ्चये । कुशलं सुकृते क्षेमे पर्याप्तो कुशलोऽखले ॥ ५८ ॥ कर्कशो निर्दये तिग्मे कम्पिल्ये कासमर्दके । दृढे साहसिके खड्गे परुषे चेक्षुमत्तयोः ॥ ५९ ॥ कौशिको गुग्गुले शक्रे घूके सर्पधरे सुनौ । कोशज्ञे नकुले ताले कौशिकी सरिदन्तरे ॥ ६० ॥ कपोतः पक्षिणां भेदे पारापतविहङ्गमे । कापोतं तु कपोतानां संहतौ मञ्जनेऽञ्जने ॥ ६१ ॥ कुमारो बालके स्कन्दे युवराजेऽश्ववारके । वरणानोकहे कीरे कुमारी तटिनीभिदि ॥ ६२ ॥ जम्बूद्वीपांशपार्वत्योः केटिरुर्नकुले स्मृतः । शक्रगोपे सुनासीरे कुटा(ट्टा)रं केवले रते ॥ ६३ ॥ कनकं चम्पके स्वर्णे धत्तूरे नागकेसरे । कालीये किंशुके दृष्टं काञ्चनारेऽथ कण्टकः ॥ ६४ ॥ ;p{0045} ४५ [ 3. 75] नरके (नखे?) शाखिनामङ्गे रोमाञ्चे वेणुवैरिणोः । कुमुदं कैरवे दैत्यनागयोर्दिग्गजे कपौ ॥ ६५ ॥ कु(क)कुभो भूरुहे वीणाप्रसेवे रोगभिद्यपि । कानीनः कन्यकाजाते व्यासे चम्पापतावपि ॥ ६६ ॥ कृतान्तोऽन्तकसिद्धान्तदैवाकुशलकर्मसु । करको मेघपाषाणे पात्रभेदे कमण्डलौ ॥ ६७ ॥ दाडिमेऽपि खगे बाहौ कारकं कर्तृकर्मणोः । कटुकं कटुरोहिण्यां तिक्ते व्योषेऽथ कञ्चुकः ॥ ६८ ॥ चोले वर्द्धापके वारवाणे निर्मोकवृक्षयोः । कदम्बः शिखरे वृक्षविशेषे निकुरम्बके ॥ ६९ ॥ सर्षपे कीकसं शल्ये कारावस्थनि कीकसः । वानरे भिक्षुके कीरे कश्मलः पापपङ्कयोः ॥ ७० ॥ कटकं कङ्कणे राजधानीभद्विजभूषयोः । नितम्बे भूभृतः सैन्ययोगे बाहुविभूषणे ॥ ७१ ॥ कोट्टारो नगरे कूपे कर्णिका मध्यमाङ्गुलौ । दन्तिशुण्डामुखे बीजकोशे पङ्केरुहस्य च ॥ ७२ ॥ कुट्टिन्यां कर्णभूषायां कीटको निष्ठुरे कृमौ । कीचको रन्ध्रमद्वेणौ वृक्षदैत्यविशेषयोः ॥ ७३ ॥ कुलिकस्तु कुलश्रेष्ठे नागे योगान्तरे तरौ । कूर्चिका कुञ्चिकायां च क्षीरस्य विकृतावपि ॥ ७४ ॥ आलेख्यलेखनीसूचीकोरकेष्वथ कोरकं । कक्कोलद्रौ मृणाले स्यात्कुद्मले कुशिको मुनौ ॥ ७५ ॥ ;p{0046} सर्जे बिभीतके फाले कालिङ्गः गजसर्पयोः । क्रकचः करपत्रे स्यात्कर्कशे ग्रन्थिलद्रुमे ॥ ७६ ॥ अथो (?) कणीचिः शकटे गुञ्जावल्लीविशेषयोः । कम्बोजः करिणां भेदे शंखदेशविशेषयोः ॥ ७७ ॥ करजस्तु नखे वृक्षे कृपीटं जठरे जले । करेणुर्गजहस्तिन्योः कर्णिकारद्रुमेऽपि च ॥ ७८ ॥ कौङ्कणो विषये वृक्षे कौङ्कणं त्वायुधान्तरे । कायस्थो मारुते वर्णजीवके परमात्मनि ॥ ७९ ॥ कायस्था तु हरीतक्यां तथा चामलकीद्रुमे । कपर्दः पार्वतीनाथजटाजूटे वराटके ॥ ८० ॥ कीनाशस्तु कदर्येस्याद्राक्षसे कर्षु(र्ष)के यमे । कुसुमं तु फले पुष्पे स्त्रीरजे नेत्ररोगयोः ॥ ८१ ॥ कङ्कणं मण्डने हस्तसूत्रे च भुजभूषणे । कमठः कच्छपे भाण्डविशेषे दानवान्तरे ॥ ८२ ॥ कदली हरिणे दन्तिपताकामोचयोरपि । कान्ताराख्या वने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ ८३ ॥ कुतपः समये रूप्ये दौहित्रे सलिलेऽप्यजे । कम्बलेऽपि तिले दर्भे खड्गे पात्रे हुताशने ॥ ८४ ॥ भागिनेये घृते सूर्ये द्विजन्मन्यतिथौ गवि । कुटपः निःकुटे माने मनावप्यथ कश्यपः ॥ ८५ ॥ मुनौ मीनविशेषे स्यात्काश्यपी तटिनीभुवोः । कुकुदं तु प्रधानेंसे वृषाङ्गे राजलक्ष्मणि ॥ ८६ ॥ कबरी केशविन्यासे कबरं लवणाम्लयोः । कुलायः पक्षिणां स्थाने सदनेऽपि कुलोद्भवे ॥ ८७ ॥ ;p{0047} खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके । खर्जूरं तु फले रूप्ये खर्जूरो गृहगोधिके ॥ ८८ ॥ क्षुद्रजातौ तरोर्भेदे खनकः सन्धितस्करे । मूषके वित्ततत्त्वज्ञे खङ्गिकः यन्त्रनिःस्वने ॥ ८९ ॥ महिषीक्षीरफेने च चण्डाले लोहभिद्यपि । खपुरः मुस्तके वृक्षे लसके कुम्भपूगयोः ॥ ९० ॥ गन्धर्वः गायने चाश्वे खेचरे हरिणान्तरे । ग्रहणं स्वीकृतौ शब्दे गुणे यत्नोपरागयोः ॥ ९१ ॥ ग्रन्थिको ग्रहचारज्ञे माद्रेये गुग्गुले द्रुमे । ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णविडङ्गयोः ॥ ९२ ॥ गोलको मणिके गोले जारतः विधवासुते । गणिका यूथिकावृक्षे तर्क्कारीपण्ययोषयोः ॥ ९३ ॥ गण्डकी तटिनीभेदे गण्डकः खड्गिविघ्नयोः । विद्यावच्छेदसंख्यासु गोरङ्कुबन्दिनग्नयोः ॥ ९४ ॥ खगेऽथ गोपतिः शक्रे षण्ढे बल्लवरुद्रयोः । वरुणे सरितां नाथे दिननाथे महीपतौ ॥ ९५ ॥ गोदन्तो दंशिते नद्धे हरितालेऽथ गोस्तनी । हारहूरालतावृत्तियोजनास्वथ गोस्तनः ॥ ९६ ॥ हारेऽपि ग्रन्थिलो ग्रन्थिवृते वेणौ विकङ्कते । करीरे गौरिलो गर्वे सिद्धार्थे लोहचूर्णके ॥ ९७ ॥ गोपुरं नगरद्वारे मुस्तकद्वारयोरपि । गोपालो बल्लवे भूपे गोकिलो मुशले हले ॥ ९८ ॥ ;p{0048} गोमुखं कुटिलागारे वाद्यभाण्डेऽपि लेपने । ग्रामणीर्भोगिके श्रेष्ठे नापितेऽप्यधिपेऽपि च ॥ ९९ ॥ गोष्पदं ध्वनिते माने गवां गम्येऽपि गोचरे । गर्जितो मत्तमातङ्गे गर्जितं मेघनिःखने ॥ १०० ॥ गोकर्णोऽनामिकाङ्गुष्ठमाने सर्पे मृगे गणे । गह्वरं तु बिले दम्भे गैरिकं धातुरुक्मयोः ॥ १०१ ॥ गालवस्तु मुनौ लोध्रे गाङ्गेयः स्कन्दभीष्मयोः । गाङ्गेयं मुस्तके स्वर्णे सुन्दरेऽपि कशेरुके ॥ १०२ ॥ चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि । चन्दनी चन्द्रिकानद्योश्चन्दनो वानरे द्रुमे ॥ १०३ ॥ चूडाला चक्रलायां च चूडालश्चूडया युते । चलनोंऽह्रौ धुते कुम्पे चलनी करणान्तरे ॥ १०४ ॥ चमसः पिष्टभेदेस्याल्लट्टुके कर्पटेऽपि च । चरणं त्वदने शब्दे भ्रमणे चरणः पदे ॥ १०५ ॥ गोत्रे मूले बह्वृचादौ चामरः काशपुष्पयोः । माकन्दे केतने चापि चमरी हरिणीभिदि ॥ १०६ ॥ चमरश्चामरे दैत्ये चञ्चलोऽनिलकामिनोः । चपलः क्षणिके मीने चिकुरे चपलं पुनः ॥ १०७ ॥ विलोले पारदे शीघ्रे चपला पिप्पलीश्रियोः । ऐरावत्यां चिरण्टी तु यौवनाश्रितयोषिति ॥ १०८ ॥ सुवासिन्यां च चिपिटः पिञ्चिताततखा...योः (?) । चित्रकं श्वापदे चित्रे प्रजातौ व्यन्तरोरगे ॥ १०९ ॥ अनले तिलके चापि स्वस्तिके गदभिद्यपि । चक्राटो विषवैद्ये च दीनारे दुर्जनेऽपि च ॥ ११० ॥ ;p{0049} चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेस(C श)रे । चङ्कुरः स्यन्दने वृक्षे चत्वरं तु चतुष्पथे ॥ १११ ॥ प्राङ्गणे स्थण्डिले चाथ चिकुरः सर्पशैलयोः । वृक्षे च भ्रूलये केशे चञ्चले विहगान्तरे ॥ ११२ ॥ चन्दिरस्तु गजे चन्द्रे चन्द्रिलो नापिते शिवे । वास्तुके चाथ चात्वालो यज्ञकुण्डेऽर्भगर्भयोः ॥ ११३ ॥ छदनं तु दले पक्षे छेदनं भिदि कर्त्तने । छर्द्दनोऽलम्बुके[षे] निम्बे छर्द्दनं वमने स्मृतम् ॥ ११४ ॥ छगलाख्या पुटे मेषे नीलिकारञ्जिताम्बरे । छगली त्वौषधीभेदे छित्वरो रिपुधूर्त्तयोः ॥ ११५ ॥ जृम्भितं वर्द्धिते रोगे जृम्भणोत्फुल्योरपि । चेष्टितेऽथ जिगीषा स्याज्जयेच्छाव्यवसाययोः ॥ ११६ ॥ जयनं तुरगादीनां सन्नाहे विजये स्मृतं । जर्जरस्तु जराजर्णे कोकिले वासवध्वजे ॥ ११७ ॥ जीवकः प्राणके ज्येष्ठे क्षपणे वृद्धिजीविनि । सेवके चासने वृक्षे व्यालग्राहेऽथ जीविका ॥ ११८ ॥ वर्त्तनेऽपि च जीवन्त्यां जतुके हिङ्गुलाक्षयोः । जरणो जीरके कृष्णजीरके रुचके जले ॥ ११९ ॥ जटायुर्विहगे वृक्षे गुग्गुले जम्भलः पुनः । देवताभिदि जम्वीरे जम्बूलः क्रकचच्छदे ॥ १२० ॥ ;p{0050} जम्बूवृक्षेऽपि जम्बालं कर्द्दमे कर्द्दमान्तरे । जङ्गलं पिशिते गर्त्ते निर्जलस्थानदेशयोः ॥ १२१ ॥ जीमूतो जलदे शैले जीवनं वृत्तिजन्मनोः । संहतावुदके वृक्षे जम्बुकः फेरुपाशिनोः ॥ १२२ ॥ जगती भुवने भूमौ लोकेऽपि च्छन्दसां भिदि । जठरं तूदरे चित्ते कठिने तालभिद्यपि ॥ १२३ ॥ टगरष्टङ्कणे वृक्षे केकराख्येऽथ टङ्कणः । कोपेऽश्मदारणे टङ्के टट्टरी वक्रवाद्ययोः ॥ १२४ ॥ तरलश्चपले खड्गे हारमध्यमणौ बले । भास्वरे त्रिदिवं ख्यातमाकाशसुरलोकयोः ॥ १२५ ॥ तुषारः शीकरे शीते तरस्वी वेगवत्तरे । बलिष्ठे तिलक्रं वृक्षे चित्रके तिलकालके ॥ १२६ ॥ ललामे रुचके क्लोम्नि तैतिलं तिलपर्पटे । गण्डके करणे चाथ तलिमं कुट्टिमे स्मृतम् ॥ १२७ ॥ तल्पे विताने तलिनं स्वल्पे तल्पेऽपि निर्मले । तोदनं पीडने तोत्रे तरसं बलमांसयोः ॥ १२८ ॥ तेमनं व्यञ्जने क्लेदे तेमनी चुल्हिभिद्यपि । तरणिस्तु तरीसूर्यकुमारीतरुणांशुषु ॥ १२९ ॥ यष्ट्यब्ध्योस्तरुणो यूनि नूतनैरण्डयोः सुमे । तक्षकः पन्नगे तक्ष्णि वृक्षभेदेऽथ तण्डकः ॥ १३० ॥ खञ्जरीटे तरुस्कन्धे फेने मन्दिरदारुणि । तारको नाविके दैत्ये तारकं नेत्रतारयोः ॥ १३१ ॥ ;p{0051} नक्षत्रे च त्रिशङ्कुस्तु मार्जारे शलभे नृपे । तूलिकालेख्यलेखिन्यां तूलतल्पशलाकयोः ॥ १३२ ॥ तमालो वरुणे खड्गे पुण्ड्रतापिच्छयोरपि । तुम(मु)लं भीमसंग्रामे तुमुलस्तु बिभीतके ॥ १३३ ॥ दौर्वीणं मृष्टपत्रे स्याद्धरितालीरसे स्मृतं । द्वितीया तिथिगेहिन्योर्द्रविणं तु पराक्रमे ॥ १३४ ॥ दृश्यते द्युम्नवद्द्रव्ये पित्तलौषधसंघयोः । दारदः पारदे वत्सनागे हिङ्गुलवर्णयोः ॥ १३५ ॥ द्विजन्मा वौ रदे विप्रे द्वापरः संशये युगे । देवनं तु जिगीषायां व्यवहारविहारयोः ॥ १३६ ॥ दुर्जातं व्यसनेऽसम्यग्जातवस्तुनि पठ्यते । दीपितं भासिते दुग्धे तथा निर्भासितेऽपि च ॥ १३७ ॥ दुकूलं स्वम्बरे पट्टकूले भूर्जदलेऽपि च । दायादस्तनये ज्ञातौ दिवौकाश्चातके सुरे ॥ १३८ ॥ दारको भेदके पुत्रे दीप्यकं त्वजमोदके । यवान्यां दीपको वृत्तालंकारे पक्षिभिद्यपि ॥ १३९ ॥ दीपे दीप्तिकृति ख्यातौ द्विजातिः पक्षिविप्रयोः । दुर्मुखः करिणां भेदे मुखरे कपिवाजिनोः ॥ १४० ॥ द्रोहाटो गर्द्दभे दृष्टो बिडालप्रतिकेऽपि च । मृगलुब्धे चतुष्पद्यां दमथो दमदण्डयोः ॥ १४१ ॥ दुर्द्दरो (दर्द्दुरो) जलदे भेके शैले वाद्यस्य साधने । दण्डारो मत्तमातङ्गे कुलालारीषुयन्त्रयोः ॥ १४२ ॥ दासेरः करभे चेटे दुर्वर्णं स्वर्णरूप्ययोः । दहनश्चित्रके वह्नौ भल्लाते दुष्टचेष्टिते ॥ १४३ ॥ ;p{0052} धेनुका धेनुहस्तिन्योर्धेनुको दानवान्तरे । धेनुकं धेनुवृन्दे च नारीणां करणान्तरे ॥ १४४ ॥ धिषणस्त्रिदशाचार्ये धिषणा तु धियामपि । धरणस्तरणौ शेषे धान्ये लोके स्तने गिरौ ॥ १४५ ॥ धरणं धारणे मानविशेषे धरणी भुवि । धूसरो रासभे वर्णे धूमलः शकटाङ्गयोः ॥ १४६ ॥ धाराटश्चातके चाश्वे निर्दये निन्दकेऽपि च । धवलो वृषभे शुभ्रे कर्पूरे तरुचन्द्रयोः ॥ १४७ ॥ धर्षणं सुरते दुःखे धर्षणी पुंश्चलीरयोः । धावनं सुगतौ शौचे धनपो धनदाढ्ययोः ॥ १४८ ॥ निर्वेशस्तूपभोगे च मूर्च्छने वेतनेऽपि च । निकायो वसतौ लक्ष्ये समूहे निगमः पुरे ॥ १४९ ॥ वेदे वणिक्पथे मार्गे निसर्गो विश्वनिर्मितौ । स्वभावे निग्रहो दण्डे मर्यादायां च भर्त्सने ॥ १५० ॥ निवातस्त्वाश्रये गाढसन्नाहे पवनात्यये । निर्यूहः शेखरे द्वारि निर्यासे नागदन्तके ॥ १५१ ॥ आपीडे निःक्रमो तुल्ये धीसामर्थ्ये च निर्गमे । निःकृतस्त्वधमे विप्रलब्धे विप्रकृतेऽपि च ॥ १५२ ॥ नियमो निश्चये ज्ञाने यन्त्रणायां व्रतेऽवधौ । निर्वाणं निर्वृतौ मोक्षे विनाशे दन्तिमज्जने ॥ १५३ ॥ न्यग्रोधस्तु वटे व्यामे निपाकः स्वेदपाकयोः । असत्कर्मफले चापि नायको नेतरि स्मृतः ॥ १५४ ॥ ;p{0053} प्रधाने मणिभेदे स्यान्नालिका कालनालयोः । चुल्हीरन्ध्रे बिले वंशभाजने नर्त्तको नटे ॥ १५५ ॥ द्विरदे केलिके मत्स्ये नर्तकी नृत्यकृत्स्त्रियां । निकृतिस्तु शठे शाठ्ये निस्त्रिंशः क्रूरखड्गयोः ॥ १५६ ॥ निषधः कठिने देशे निषधे स्वरे गिरौ (?) । हस्तके करिभेदे च निवेशः पुरविवाहयोः ॥ १५७ ॥ विन्यासेऽपि वरूथिन्यां नीकाशो निश्चये समे । निर्देशः कथने वाक्ये निदेशः परिभाषणे ॥ १५८ ॥ समीपे शासने दृष्टे निर्माणं तु समञ्जसे । विधाने सारनिर्मित्योर्नन्दकः कुलपालके ॥ १५९ ॥ हर्षके चक्रिणः खड्गे निषादः श्वपचे स्वरे । नलदं वीरणीमूले मकरन्देऽपि दृश्यते ॥ १६० ॥ नरको निरये दैत्ये नालीकः शल्यबाणयोः । अज्ञेऽब्जे कमलारण्ये निर्मोकः सर्पकञ्चुके ॥ १६१ ॥ मोक्षके खेऽपि सन्नाहे निषङ्गो योगतूणयोः । नर्मठश्चूचूके षिङ्गे निशान्तं शान्तगेहयोः ॥ १६२ ॥ प्रभाते निर्वृतिः सौस्थ्ये मृत्यौ मोक्षे सुखेऽपि च । निर्ग्रन्थः श्रमणे भिक्षौ निर्द्धने कदलीद्रुमे ॥ १६३ ॥ पतङ्गं पारते दृष्टं शलभे पतङ्गः (गः?) खगे । पद्मके तरणौ सस्ये जीमूते रक्तचन्दने ॥ १६४ ॥ प्रसवः शाखिनां पुष्पे फले गर्भस्य मोचने । अपत्येऽपि तथोत्पादे प्रभावः शक्तितेजसोः ॥ १६५ ॥ ;p{0054} पर्वतः शैलदेवर्ष्योः पार्वती गिरिशस्त्रियां । जीवन्त्यां सल्लकीवल्लीविशेषाद्रौपदीषु च ॥ १६६ ॥ पुष्करं भेषजे तीर्थे पद्मदन्तिकराग्रयोः । द्वीपे तूर्यमुखे वारिव्योमखड्गफलाहिषु ॥ १६७ ॥ प्रभवः स्थानके मूले जन्महेतौ पराक्रमे । प्रज्ञानं तु धियां चिह्ने प्रकारो भेदसाम्ययोः ॥ १६८ ॥ पुलाको भक्तिसिक्थेंऽशे संक्षेपक्षुद्रधान्ययोः । पर्यङ्कः स्यात्परिकरे मञ्चके पृथुकोऽर्भके ॥ १६९ ॥ चिपिटेऽथ प्रकाशः स्यादुद्द्योते प्रकटे गदे । प्रमाणं कारणे सत्यजल्पिते मानशास्त्रयोः ॥ १७० ॥ पुङ्गवः गवि भैषज्ये श्रेष्ठे शब्दोत्तरस्थितः । पर्जन्यो वासवे पक्षिविशेषे गर्जदम्बुदे ॥ १७१ ॥ पर्याप्तं तु यथेच्छायां पूर्णे शक्तिनिषेधयोः । प्रदरो व्यूहभङ्गेषुगदभेदप्रभीतिषु ॥ १७२ ॥ पललं पिशिते पङ्के पिण्याके रक्षसि स्मृतं । परुषं कर्बुरे रूक्षे सदृशक्रूरवाक्ययोः ॥ १७३ ॥ पुद्गलः सुन्दराकारे कायात्मद्रविणेपु च । पादपो भूरुहे पादपीठे पादरथे स्मृतः ॥ १७४ ॥ प्रधानं तु महामात्रे प्रकृतावात्मपूज्ययोः । गीःपतौ पल्लवः षिङ्गविटपाञ्चललक्ष्मसु ॥ १७५ ॥ शृङ्गारे विस्तरेऽलक्तरागे किसलये बले । पुलको मणिदोषे स्यात्कृमिभिद्यश्रुसंहतौ ॥ १७६ ॥ ;p{0055} रोमाञ्चे सामयोन्यन्नपिण्डेऽश्महरितालयोः । प्रवालो वल्लकीदण्डे विद्रुमे द्रुमपल्लवे ॥ १७७ ॥ प्रबलेऽथ पलाशः स्याद्रक्षोवर्णविशेषयोः । च्छदने शाखिनां भेदे पाशे तालान्तरेऽपि च ॥ १७८ ॥ प्रघणोऽलिऽन्दके ताम्रकलशे लोहमुद्गरे । प्रासादो देवतागारे पृथिवीपालमन्दिरे ॥ १७९ ॥ प्रणयः स्यात्प्रार्थनायां प्रीतिविश्रम्भयोरपि । पुरुषः पूरुषे प्राणे पौरुषं तु पराक्रमे ॥ १८० ॥ ऊर्द्ध्वविस्तृतदोःपाणिनृमाने तेजसीष्यते । पिण्डारो महिषीपाले भिक्षुकद्रुमभेदयोः ॥ १८१ ॥ पवित्रं तु कुशे पूते प्रगाढं गाढकृच्छ्रयोः । पिचुलो निचुले नीरवायसे झाबुकद्रुमे ॥ १८२ ॥ पीतनं कुङ्कुमे पीतकाष्ठेऽपि हरितालके । पिशुनं कुङ्कुमे ख्यातं पिशुनः सूचके खले ॥ १८३ ॥ पौलस्त्यो रावणे श्रीदे पङ्कारो वारिकुब्जके । सोपाने शैवले सेतौ पटलं पिकटौघयोः ॥ १८४ ॥ तिलकच्छदिषोर्नेत्ररोगेऽध्याये परिच्छदे । पाठीनः पाठके मीनविशेषे गुग्गुलद्रुमे ॥ १८५ ॥ पाकलं कुष्ठभैषज्ये पाकलः करिणां ज्वरे । पाचलः पवने वह्नौ राधनद्रव्यपाकयोः ॥ १८६ ॥ पिङ्गलः फणिभिद्यर्कपरिपार्श्वे कपौ शनौ । कपिले पिङ्गला नाडीवेश्ययोः करिणीभिदि ॥ १८७ ॥ ;p{0056} पिण्याकः सिह्लके हिङ्गुवेरयोस्तिलचूर्णके । पिनाकः पांशुवर्षे स्यात् शर्वचापत्रिशूलयोः ॥ १८८ ॥ पेचकः करिलाङ्गूलमूलेऽघूकेऽथ पुष्पकं । कासीसे मृत्तिकाङ्गारशकटीनेत्ररोगयोः ॥ १८९ ॥ विमाने यक्षराजस्यायःकांस्येऽपि रसाञ्जने । प्लवगो वानरे भेके रेवन्ते सायकेऽपि च ॥ १९० ॥ पन्नगः पद्मको(का)ष्ठेऽहौ प्रयागो यज्ञशक्रयोः । अश्वे तीर्थेऽथ पुन्नागः पाण्डुनागे सितोत्पले ॥ १९१ ॥ द्रुमे नरे फले जात्याः पलिघः शालगोपुरे । काचस्य कलशे कुम्भे परञ्जः क्षुरिकाफले ॥ १९२ ॥ तैलयन्त्रेऽप्यसौ फेने पिच्चटं त्रपुसीसयोः । नेत्ररोगे परीष्टिः स्यात्परिचर्यापरीक्षयोः ॥ १९३ ॥ पूत्यण्डो गन्धकृत्कीटे गन्धैणेऽप्यथ पक्षिणी । पौर्णमासीपतत्पत्न्योः शाकिनीरजनीभिदोः ॥ १९४ ॥ पत्तोर्णं धौतकौशेये पत्तोर्णः शोणके स्मृतः । प्रमथा तु हरीतक्यां प्रमथः शिवसेवके ॥ १९५ ॥ फाल्गुनो मासभेदे स्यादर्जुनार्जुनवृक्षयोः । नदीजे फाल्गुनी पौर्णमासीभेदे च फेनिलम् ॥ १९६ ॥ सफेने बदरे कामफलेऽरिष्टेऽथ फालकः । चीरभेदे गतौ दिव्ये फेरवः फेररक्षसोः ॥ १९७ ॥ भूजम्बूः स्याच्च गोधूमे विकङ्कतफलेऽपि च । भूतीकं भूतृणे दृष्टं यवान्यां कट्फलौषधे ॥ १९८ ॥ ;p{0057} घनसारेऽपि भूनिम्बे भूकेशः शैवले द्रुमे । भ्रामके(को) जम्बुके दुष्टे सूर्यावर्त्ताश्मभेदयोः ॥ १९९ ॥ भावाटः कामुके साधुनिवेशे भावके स्मृतः । भारती पक्षिणीवाचो(चि) वृत्तौ वचसि भारतम् ॥ २०० ॥ पुराणद्वीपयोरङ्गे भरतो नटशास्त्रयोः । मुनौ रामानुजे भूपे क्षेत्रेऽपि शबरे जिने ॥ २०१ ॥ भ्रातृव्यो भ्रातृजे शत्रौ भुवनं विष्टपे जले । भूतात्मा विधौ देहे भ्रमरः षट्पदेऽभिके (?) ॥ २०२ ॥ करणे भ्रामरं क्षौद्रभेदे दृषदि भास्करः । वह्नौ रवौ च भार्योरुः परनारीरते मृगे ॥ २०३ ॥ मल्लिका मृत्तिकापात्रे वाद्ये (?) मीने सुमान्तरे । मोचकः कदलीशिग्रुद्रुममोक्तृविरागिषु ॥ २०४ ॥ मेचकस्तिमिरे कृष्णे श्यामले केकिचन्द्रके । मोचाटः कदलीसारे चन्दने कृष्णजीरके ॥ २०५ ॥ मालती तु स्त्रियां जातीकाकमाचीसरित्स्वपि । ज्योत्स्नानिशाविशल्यासु माकन्द्यामलकीफले ॥ २०६ ॥ माकन्दो मन्मथे चूते मुकुन्दः पारदे हरौ । निधौ तालेऽथ मेनादो मार्जारे मेषकेकिनोः ॥ २०७ ॥ मञ्जरी वल्लरीस्थूलमुक्तयोस्तिलकद्रुमे । मुदिरः कामुके मेघे महेन्द्रो वासवे गिरौ ॥ २०८ ॥ माठरो वाडवे व्यासे तिग्मरश्म्यनुगेऽपि च । मुहिरो मूढिते कामे मिहिरोऽर्क्केऽब्दबुद्धयोः ॥ २०९ ॥ ;p{0058} मुर्मुरः सूर्यतुरगे तुषाग्नौ मकरध्वजे । मण्डलं वर्तुले देशे बिम्बे द्वादशराजके ॥ २१० ॥ कुष्ठभेदे शुनि स्थाने संघाते परिघावहौ । मसूरा पण्ययोषायां व्रीहिभेदेऽथ मर्म्मरः ॥ २११ ॥ शुष्कपत्रध्वनौ वस्त्रे मर्मरी पीतदारुणि । मुद्गरः कोरके शस्त्रे ताले लोष्टादिभेदने ॥ २१२ ॥ मन्थरो विपुले मन्दे मथिकोशेऽपि सूचके । माधवो भूपतौ मासि वसन्ते गरुडध्वजे ॥ २१३ ॥ मदनो मन्मथे वृक्षे मधूच्छिष्टवसन्तयोः । मन्दरस्त्रिदिवे सीरे मन्दारे मन्दशैलयोः ॥ २१४ ॥ मन्दिरं नगरे गेहे मन्दिरो मकरालये । मन्दारः परिभद्रेऽर्क्कपर्णे देवद्रुमान्तरे ॥ २१५ ॥ यमकं च्छन्दसां भेदे यमको यमजे व्रते । याजको याज्ञिके पृथ्वीपाले दन्तिनि यापनम् ॥ २१६ ॥ निराशे कालविक्षेपे वर्त्तने चाथ योजनं । युक्तावपि चतुःक्रोश्यां परमात्मन्यपीष्यते ॥ २१७ ॥ रोहितो लोहिते मत्स्ये शक्रचापे मृगान्तरे । रोहीतकद्रुमे धीरे रुधिरं कुङ्कुमेऽसृजि ॥ २१८ ॥ मङ्गले रजनीरात्रौ हरिद्रायां च रैवतः । उज्जयन्ते सुवर्णालौ पिनाकिन्यपि वर्त्तते ॥ २१९ ॥ ;p{0059} रूपकं नाटकाद्येषु वृत्तालङ्कारधूर्त्तयोः । रोमन्थस्तु पशूद्गारे दृश्यते कीटवर्त्तने ॥ २२० ॥ रोहिणी गवि नक्षत्रे सोमवल्कोमयोर्गदे । रोदनं क्रन्दने चास्रे रोचना वरयोषिति ॥ २२१ ॥ गोपित्ते रक्तकल्हारे रेवती मातृतारयोः । सीरपाणिप्रियायां च राजीवो मृगमत्स्ययोः ॥ २२२ ॥ रजको धावके कीरे रथाङ्गश्चक्रकोकयोः । रक्ताङ्गः पृथिवीपुत्रे कम्पिल्ले विद्रुमे स्मृतः ॥ २२३ ॥ रक्ताङ्गा रक्तिकावल्यां रजतो नददन्तयोः । दुर्व्वर्णे धवले शैले शोणिते हारहस्तिनोः ॥ २२४ ॥ लूनकस्तु पशौ भिन्ने भवेदौषधभिद्यपि । लोचको मांसपिण्डे स्यात्कदलीनीलवस्त्रयोः ॥ २२५ ॥ कज्जले कर्णपूरे च ज्यायां भ्रूश्लथचर्मणि । नेत्रतारेऽपि निर्बुद्धौ महिलाभालभूषणे ॥ २२६ ॥ लक्ष्मणो राघवे श्रीदे लक्ष्मणं नामचिह्नयोः । लक्ष्मणा त्वौषधीभेदे दृश्यते सारसस्त्रियाम् ॥ २२७ ॥ लासको नर्त्तके चापि मयूरे लवणो रसे । राक्षसे लवणा भायां लोहितो मङ्गले नदे ॥ २२८ ॥ लोहितं कुङ्कुमे युद्धे गोशीर्षे रक्तचन्दने । रक्तेऽथ ललितं रम्ये हारभेदेऽपि वाञ्छिते ॥ २२९ ॥ लोमशा शाकिनीभेदे जटिलाकाकजङ्घयोः । लोमशो रोमले मेषविशेषे मुनिभिद्यपि ॥ २३० ॥ विधानं वैरिणां भेदे विधावभ्यर्चने धने । दन्तिनां कवले सन्धौ वेतनोपाययोरपि ॥ २३१ ॥ ;p{0060} व्यायतं विपुले गाढे व्यापृतेऽतिशये स्मृतं । व्रततिर्विस्तृतौ वल्ल्यां व्याघातो योगविघ्नयोः ॥ २३२ ॥ प्रहारेऽथ विनीतः स्याद्वाणिज्ये विजितेन्द्रिये । शिक्षिते कुशले चाश्वे वृश्चिको राशिकीटयोः ॥ २३३ ॥ विमानं नाकिनां याने साप्तभौमिकमन्दिरे । बाहुजः क्षत्रिये कीरे स्वयंजाततिले स्मृतः ॥ २३४ ॥ व्यलीकं पीडनेऽकार्ये व्यङ्गवैलक्ष्ययोरपि । विग्रहो विस्तरे युद्धे वाक्यखण्डनदेहयोः ॥ २३५ ॥ विविक्तं विजने पूतेऽप्यसम्बाधे विवेकिनि । विषाणं दन्तिनां दन्ते शृङ्गे कोलरदे तटे ॥ २३६ ॥ वेष्टनं मुकुटे वाटे युध्युष्णीषे च विक्रमः । क्रान्तौ शक्तौ विलोमः स्यात्प्रतीपे वरुणेऽप्यहौ ॥ २३७ ॥ वामनो भूरुहे विगो स्वर्वेऽप्याशगजान्तरे । विद्रुमः पल्लवे वृक्षे प्रवालमणिरक्तयोः ॥ २३८ ॥ वराकः संयुगे शोच्ये वर्णकः स्याद्विलेपने । चन्दने चारणे चाथ वर्त्तकोऽश्वखुरे खगे ॥ २३९ ॥ वसुको रोमके वित्ते (?) शिवमल्यर्कपर्णयोः । विवेकस्तु जलद्रोण्यां विचारैकान्तयोरपि ॥ २४० ॥ वाल्हिकस्तुरगे देशे वाल्हिकं हिङ्गुवेरयोः । वैजिकः प्रथमाङ्कूरे शिग्रुतैले च कारणे ॥ २४१ ॥ वञ्चको नकुले धूर्ते जम्बुके विशिखः शरे । वैशाखः खञ्जके मासे विशाखो याचके गुहे ॥ २४२ ॥ ;p{0061} विशिखा पदवीकुत्स्योर्विशाखा भकटिल्लयोः । व्यञ्जनं तेमने कादौ वासन्तः कोकिले विटे ॥ २४३ ॥ चूते चोष्ट्रे च वासन्ती माधवीयूथिकाभिदोः । तथैव पाटलावृक्षे विधाता कामवेधसोः ॥ २४४ ॥ वयःस्थामलकी ब्राह्मीकाकोलीशाल्मलीषु च । गुडूच्यां च तथैलायां वमथुर्वमने गदे ॥ २४५ ॥ वनश्वा गन्धमार्जारे शार्दूले विप्रतारके । विटपो बिस्तरे स्तम्बे पल्लवे खड्गिशाखयोः ॥ २४६ ॥ वृक्षेऽपि वृषभस्त्वादिजिनेन्द्रे गवि पुंगवे । वल्लूरं विपिनक्षेत्रे वाहनोषरयोः स्मृतम् ॥ २४७ ॥ कोलमांसे शुष्कफले वल्लरं क्षेत्रकुञ्जयोः । शाद्वले वृक्षमञ्जर्योर्बिडालो विहगान्तरे ॥ २४८ ॥ नेत्रगोलेऽपि मार्जारे विहायः खविहङ्गयोः । बुक्कसः श्वपचे नीचे विबुधः पण्डिते सुरे ॥ २४९ ॥ वनजं कमले दृष्टं वनजो मुस्तके गजे । वनजा मुद्गपर्ण्यां च वरिष्ठं वरताम्रयोः ॥ २५० ॥ वासरो रागभेदेऽह्नि वारुणी मदिरादिशोः । वर्द्धनं च्छेदने वृद्धौ वैकुण्ठो विष्णुशक्रयोः ॥ २५१ ॥ शुश्रूषा परिचर्यायां श्रोतुमिच्छाकथानयोः । शिशुको बालके वृक्षविशेषशिशुमारयोः ॥ २५२ ॥ ;p{0062} श्रवणं तु श्रुतौ कर्णे श्रवणस्तारकान्तरे । शिशिरं शीतले शीते तालभेदर्तुभेदयोः ॥ २५३ ॥ शम्बरं सलिले चित्रे शम्बरो मृगदैत्ययोः । मीनेऽद्रौ शबरो वारि म्लेच्छभेदमहेशयोः ॥ २५४ ॥ शम्याको याचके कीले वियाते चतुरङ्गुले । शार्ककः शर्करापिण्डे फेने क्षीरस्य शीतकः ॥ २५५ ॥ शीतकालेऽलसे सुस्थे शङ्खकाख्या शिरोरुजि । शङ्खे च वलये सीपे श्रीपर्णी तु द्रुमान्तरे ॥ २५६ ॥ श्रीपर्णं वह्निमन्थेऽब्जे शिखरं पुलके तटे । पक्वदाडिमबीजाभमाणिक्याग्रद्रुमाग्रयोः ॥ २५७ ॥ शर्करा कर्परांशेऽश्मदेशभेदसितासु च । शुषिरं विवरे वाद्ये शकुन्तो भासपक्षिणोः ॥ २५८ ॥ शृगालो जम्बुके दैत्ये शाल्मलिद्वीपवृक्षयोः । शामलः पिप्पले नीले शार्दूलः पशुभिद्यपि ॥ २५९ ॥ व्याघ्रे रक्षोविशेषे स्यात्प्राधान्ये चोत्तरस्थितः । शैलूषस्तु नटे बिल्वे शर्वरी रात्रियोषयोः ॥ २६० ॥ शकुनं विहगे ख्यातं माङ्गल्ये शुभलक्षणे । शकलं वल्कले खण्डे शिलन्ध्रो मीनवृक्षयोः ॥ २६१ ॥ शिल(ली)न्ध्रं कवके रम्भापुष्पेऽपि त्रिपुटे स्मृतम् । शिल(ली)न्ध्री पक्षिणीभेदे दृष्टा किञ्चुलके मृदि ॥ २६२ ॥ षड्ग्रन्था तु वचासट्योः षड्ग्रन्थो भूरुहान्तरे । षण्डाली सरसीतैलमानयोः कामुकस्त्रियाम् ॥ २६३ ॥ ;p{0063} समीका नीलिकावल्लयोः समीको नाकुवृक्षयोः । सुमुखः फणिनां भेदे पण्डिते गरुडात्मजे ॥ २६४ ॥ वक्रतुण्डान्तरे चाथ संहृतं मिलिते दृढे । सुषमं तु समे रम्ये सुषीमः शिशिरे तरौ ॥ २६५ ॥ सुन्दरे सुषमोत्कृष्टप्रभाकालभिदोरपि । सम्पर्कः सुरते पृक्तौ सरणिः श्रेणिमार्गयोः ॥ २६६ ॥ साधनं दापने सिद्धौ मृतदाहे गतौ धने । उपायेऽनुगमे शिश्ने सैन्ये साधकमानयोः ॥ २६७ ॥ समयोऽवसरे भाषा सम्पदोर्नियमेऽपि च । क्रियाकारेऽपि सङ्केते निर्देशे यमसंविदोः ॥ २६८ ॥ सुमनाः पण्डिते पुष्पे मालतीत्रिदिवौकसोः । सन्तानो नाकिनां वृक्षे सन्ततौ गोत्रपुत्रयोः ॥ २६९ ॥ सदनं मन्दिरे तोये स्यन्दनं प्रस्रवे जले । स्यन्दनस्तु रथे वृक्षे संव्यानं च्छादनेऽम्बरे ॥ २७० ॥ समितिः संगमे युद्धे सभायां समरेऽपि च । समाधिर्नियमध्यानमौनेषु च समर्थने ॥ २७१ ॥ संगरो गरले कष्टे क्रियाकारविनाशयोः । अङ्गीकारेऽपि संग्रामे संगरं तु शमीफले ॥ २७२ ॥ सारङ्गो हरिणे शैले कुञ्जरे चातके खगे । शबले चिञ्चिरीके च सम्भोगे रतभोगयोः ॥ २७३ ॥ ;p{0064} शुण्डायां सर्वगो रूद्रे सर्वर्गं सलिले स्मृतं । सरटस्तु शठे भूषाविशेषे कृकलासयोः ॥ २७४ ॥ सम्बाधः संकटे योनौ सुवर्णं भर्मकर्षयोः । सुवर्णा लोमखे विस्ते कृष्णागरुणि संभ्रमः ॥ २७५ ॥ संवेगयत्नयोर्भीतौ सुदामा शैलमेघयोः । संस्तरः प्रस्तरे यज्ञे सेनानीः सैन्यपे गुहे ॥ २७६ ॥ सुपर्वा त्रिदशे वंशे बाणे धूमेऽपि पर्वणि । सुकर्मा सत्क्रिये योगविशेषे सुरशिल्पिनि ॥ २७७ ॥ सावित्री देवताभेदे सावित्रः पार्वतीपतौ । सम्भारः संभृतौ वृन्दे सौवीरं काञ्जिकेऽञ्जने ॥ २७८ ॥ हारको गद्यविज्ञानभिदोः कितवचोरयोः । हसन्ती शाकिनीभेदे मल्लिकाङ्गारपात्रयोः ॥ २७९ ॥ हरेणुः कुलयोषायां रेणुकायां सतीनके । हरिणी रोचनावृत्तमृगीस्वर्णप्रभासु च ॥ २८० ॥ हायनो वत्सरव्रीहिकिरणेषु तथौषधे । हिरण्यं कनके मानभेदे धातुवराट्योः ॥ २८१ ॥ हृदयं वक्षसि स्वान्ते हरिणः पाण्डुरे मृगे । हृषितो रम्यरोमाञ्चजातहर्षेपु हायनः ॥ २८२ ॥ वत्सरव्रीहिकीलासु हिरण्यं द्रविणे क्षये । अकुप्ये कनके मानभेदे धातुवराटयोः ॥ २८३ ॥ हेरम्बो महिषे शौर्यगर्जिते गणनायके । हुडुकस्तु मदोन्मत्ते वाद्यभिज्जलपक्षिणोः ॥ २८४ ॥ ;p{0065} हारीतः पक्षिणां भेदे मुनौ छद्मनि दृश्यते । हेरुकस्तु महाकालगणबुद्धविशेषयोः ॥ २८५ ॥ क्षत्रियं द्रोहकृद्रोगे क्षेत्रोत्पन्नतृणादिषु । अन्यदेहचिकित्सार्हे क्षत्रियः पारदारिके ॥ २८६ ॥ क्षेपणी जालभेदे स्यान्नौकादण्डे शरान्तरे । क्षुरकः पादपे पत्रे क्षुवथुः क्षुतकासयोः ॥ २८७ ॥ क्षुल्लको दुःखिते स्तोके कनिष्ठे खलशंखयोः । क्षारको जालके पाशे पक्षिणां पिटके रसे ॥ २८८ ॥ क्षणदो गणके दृष्टः क्षणदं सलिले स्मृतं । क्षणदा तु विभावर्यां क्षेत्रज्ञो निपुणात्मनोः ॥ २८९ ॥ श्रीमत्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत् सन्प्रासूत सुतं महीपममलं सौभाग्यदेवी च यं । ग्रन्थे तद्रचितेऽज्ञजाड्यविपिनोदर्चिस्त्रिवर्णाभिधो भूयो भूषणतां बभार रुचिरः काण्डस्तुरीयाग्रजः ॥ २९० ॥ ;c{॥ इत्यनेकार्थतिलके तृतीयः काण्डः ॥} ;p{0066} ;k{चतुर्थः काण्डः} ;c{अथ चतुर्थं काण्डम् ।} अथ संकीर्णवर्णाख्यश्चतुर्थोऽत्र विरच्यते । काण्डोऽयममलैः शब्दैरकाराद्यादिभिः क्रमात् ॥ १ ॥ अपवर्गः क्रियाशेषे त्यागे साफल्यमोक्षयोः । अवष्टम्भस्तु संरम्भारम्भस्तम्भेषु हाटके ॥ २ ॥ अभिजातः स्थितौ प्राज्ञे न्याय्ये रूपकुलीनयोः । अभिमानध्वनिः (?) प्रीतौ गर्वेऽपि ज्ञानहिंसयोः ॥ ३ ॥ अभिषङ्गस्तथाक्रोशे शपथेऽपि पराभवे । अवदातः सिते रम्ये स्वर्णवर्णविशुद्धयोः ॥ ४ ॥ भवेदलमको भेके मधूके पद्मकेसरे । कोकिलेऽलिपको भृङ्गे पिकेऽपि तरहिण्डके ॥ ५ ॥ अङ्गारकः कुजे दृष्ट उल्मुकांशे कुरण्टके । अङ्गारकेक्षुकाण्डे स्यात्किंशुकस्य च कोरके ॥ ६ ॥ अध्यारूढं समारूढेऽप्यधिकेऽपि च वर्त्तते । अङ्गारिणी हसन्त्यां च मार्त्तण्डत्यक्तदिश्यपि ॥ ७ ॥ अङ्कपाली परिष्वङ्गे धात्रीकोट्यांर्गद्रुहि । अभिनिष्टानमिच्छन्ति विसर्जनीयवर्णयोः ॥ ८ ॥ अवग्रहणमिच्छन्ति प्रतिरोधेऽप्यनादरे । अपावृतः स्वतन्त्रे स्थात्पिहिते तालभिद्यपि ॥ ९ ॥ अतिमुक्तः कलाहीने वासन्त्यां तिनिशे स्मृतः । अवध्वस्तं परित्यक्ते निन्दिते चावचूर्णिते ॥ १० ॥ अपदेशो भवेल्लक्षे(क्ष्ये) निमित्तव्याजयोरपि । अन्तावसायी शब्दोऽयं चाण्डाले नापिते स्मृतः ॥ ११ ॥ ;p{0067} अपभ्रंशोऽवपाते स्याद्भाषाभेदापशब्दयोः । अधिवासो गृहे वासेऽप्यग्रजन्मा द्विजेऽग्रजे ॥ १२ ॥ अष्टापदं सुवर्णे चाष्टापदः स[श]रभे मतः । लूतापर्वतभिच्चन्द्रमल्लीसारीफलेषु च ॥ १३ ॥ भवेदग्निशिखाख्या च लाङ्गल्यां कुङ्कुमेऽपि च । मुनिजेऽग्निमुखे विप्रे भल्लाते चित्रके सुरे ॥ १४ ॥ दुर्जनेऽनुमतिः शिष्ये पूर्णिमाभिदनुज्ञयोः । अरुष्करं फले भल्लातकस्य व्रणकृत्यपि ॥ १५ ॥ अधिष्ठानं पुरे चक्रप्रभावाध्यासनेषु च । अनूचानो विवेकज्ञसाङ्गवेदविदोरपि ॥ १६ ॥ अम्बरीषो नृपे भ्राष्ट्रे किशोरे बुधसूर्ययोः । आम्रातेऽपि महेशेऽलंबुषस्तु छर्द्दनेऽपि च ॥ १७ ॥ अलम्बुषा पक्षिभेदे गण्डीर्यापणयोषयोः । अथाभिष्यन्द आश्रा[स्रा]वेऽतिवृद्धौ नयनामये ॥ १८ ॥ आवेशनं शिल्पिशालावेशयोर्भूतमन्दिरे । भवेदाच्छादनं वस्त्रे संपिधानेऽपवारणे ॥ १९ ॥ आक्षेपको मरुद्व्याधौ व्याधे स्यान्निन्दकेऽपि च । आकल्पकस्तमोमोहग्रन्थावु[न्थिषू]त्कलिकामुदोः ॥ २० ॥ आरोहणं समारोहे सोपानेऽपि प्ररोहणे । आथर्वणोऽप्यथर्वज्ञवाडवेऽपि पुरोधसि ॥ २१ ॥ आसुतीबलशब्दोऽयं कल्यपाले च यज्वनि । आत्माधीनः सुते श्याले प्राणाधारे विदूषके ॥ २२ ॥ ;p{0068} आशाबन्धः समाश्वासे तथा मर्कटवासके । आडम्बरस्तु संरम्भे बृंहिते तूर्यनिःस्वने ॥ २३ ॥ अथाछुरितकं हासनखघातप्रभेदयोः । आत्मयोनिः स्मरे शम्भावात्मवीरो विदूषके ॥ २४ ॥ पराक्रमवृते श्याले पुत्रे चायोधनं वधे । आजावास्कन्दनं शोषे तिरस्कारसमीकयोः ॥ २५ ॥ इक्षुगन्धा पोटगले क्रोष्टीगोक्षुरयोः क्षुरे । इष्टगन्धः सुगन्धे स्यादिष्टान्धं तु वालके ॥ २६ ॥ इन्दुलेखा विधोः खण्डे सोमवल्ल्यमृतांशुषु । ईहामृगो वृके रूपकान्तरे जन्तुभिद्यपि ॥ २७ ॥ उपकारस्तूपकृतौ विकीर्णकुसुमादिषु । मन्देऽथोपनषद्धर्मे वेदान्ते सद्रहस्ययोः ॥ २८ ॥ उपासनं शराभ्यासे शुश्रूषायां तथासने । उपह्वरं पुनः पार्श्वे रहःस्थानेऽप्युपक्रमः ॥ २९ ॥ प्रारम्भेऽपि चिकित्सायामुपधायां च विक्रमे । उपलब्धिर्भवेज्ज्ञाने तथा प्राप्तिमनीषयोः ॥ ३० ॥ उदुम्बरं भवेत्कुष्ठभेदे ताम्रेऽप्युदुम्बरः । अनोकु(क)हस्तरौ ताले देहल्यां पिण्डकेऽपि च ॥ ३१ ॥ उपतापं गदे विन्द्यादुपतप्तेऽप्यशर्मणि । उद्घाटकं घटीयन्त्रे दृश्यते चोपवारणे ॥ ३२ ॥ उपाहतोऽनलोत्पाते तथा चारोपिते स्मृतः । उदास्थितः प्रतीहारे प्रणध्यध्यक्षयोरपि ॥ ३३ ॥ उपरागपदं दृष्टं राहुग्रस्तेन्दुभास्करे (?) । विमाने दुर्जये राहावुपसर्गो गदे(द)भिदि ॥ ३४ ॥ ;p{0069} प्रादावुच्चिङ्गटो मीनभेदे कोपनपूरुषे । उद्दन्तुरो भवेत्तुङ्गे करालोत्कटदन्तयोः ॥ ३५ ॥ उपचारस्तु लञ्चायामारोपव्यवहारयोः । ऋषभध्वजशब्दोऽयं महेशजिनभेदयोः ॥ ३६ ॥ एडमूकध्वनिर्दृष्टः (?) शठे वाक्श्रुतिवर्जिते । भवेदेकपदं मार्गे तदात्वेऽप्येककुण्डलः ॥ ३७ ॥ रेवतीरमणे गौरीवरे किंपुरुषेश्वरे । ऐरावतः शक्रगजे नारङ्गे दिग्गजे द्रुमे ॥ ३८ ॥ ऐरावतं बलाराते ऋजुदीर्घशरासने । ऐरावती तडिद्भेदे सौदामिन्यां च पठ्यते ॥ ३९ ॥ ओषधीरमणो दृष्टः ऋषभौषधचन्द्रयोः । उदुम्बरो यमे रोगे फलादौ यज्ञशाखिनाम् ॥ ४० ॥ कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे । कला(ल)धौतध्वनिः (?) स्वर्णे रजते च केलध्वनौ ॥ ४१ ॥ करहाटस्तरौ देशे पद्मकन्दप्रसूनयोः । अथ कौलेयकः सारमेये चापे कुलोद्भवे ॥ ४२ ॥ कृष्णवृन्ता पुनर्माषपर्णीपाटलिवृक्षयोः । पद्मे कामगुणो रागे स्मृतः सुरतभोगयोः ॥ ४३ ॥ कशेरुकं जले कन्दे पृष्ठस्यास्थनि कथ्यते । करवीरोऽसुरे खड्गे श्मशाने हयमारके ॥ ४४ ॥ ;p{0070} अङ्गुष्ठे करवीरी तु पुत्रिण्यामदितावपि । सद्गव्यां कर्णिकारस्तु कृतमाले द्रुमोत्पले ॥ ४५ ॥ कटुकन्दः शृङ्गवेरे शोभाञ्जनरसोनयोः । कर्कोटकस्तु मालूरभुजङ्गमविशेषयोः ॥ ४६ ॥ कथाप्रसङ्ग इत्येष वातूलविषवैद्ययोः । कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके ॥ ४७ ॥ कृष्णसारः स्नुहावृक्षे शिंशिपामृगभेदयोः । कूष्माण्डकस्तु मार्जारे कूष्माण्डगणभेदयोः ॥ ४८ ॥ कलकण्ठः पिके पारापते हंसे च केकिनि । कालकण्ठः पिके खञ्जरीटे रुद्रमयूरयोः ॥ ४९ ॥ कालपृष्ठो मृगे कङ्के कर्णचापे धनुष्यपि । कर्णपूरोऽवतंसे च नीलपद्मशिरीपयोः ॥ ५० ॥ कादम्बरी पुनर्मद्ये कोकिलाशास्त्रभेदयोः । वाणीसारिकयोः कादम्बरं दधिसरे स्मृतम् ॥ ५१ ॥ सीधुमद्यभिदोः कुम्भीनसी लवणमातरि । कुम्भीनसस्त्वहौ कुम्भयोनिर्द्रोणे मुनावपि ॥ ५२ ॥ कुमुद्वती कैरविणीकुशपत्न्योः कलध्वनिः । पारापते कलायुक्ते परपुष्टे च केकिनि ॥ ५३ ॥ कुरुविन्दः पुनः पद्मरागे कल्माषमुस्तयोः । दर्पणे हिङ्गुलव्रीहिभिदोः कर्कटकस्त्वहौ ॥ ५४ ॥ बिल्वे कुचन्दनं वृक्षे पत्राङ्गे रक्तचन्दने । कृकवाकुस्ताम्रचूडे कृकलासमयूरयोः ॥ ५५ ॥ ;p{0071} अथ कौकु(क्कु)टिको दूरे रितचक्षुषि दाम्भिके । कदम्भरा तु गोलोम्यां (गोलायां) वर्षाभूगजयोषयोः ॥ ५६ ॥ कटम्भरप्रसारिण्योः काकरूको दिगम्बरे । स्त्रीजिते पेचके दम्भे भीते कोशातकः कचे ॥ ५७ ॥ घोषे कोशातकी ज्योत्स्नीपटोल्योश्च कुटंनटः । शोणके स्याद्दासपुरेऽप्यथ कार्यपुटध्वनिः ॥ ५८ ॥ उन्मत्ते क्षपणेऽनर्थकरे हस्तकभिद्यपि । कुण्डकीटस्तु दाशीशे जारतो ब्राह्मणीसुते ॥ ५९ ॥ कृष्णवर्त्मा दुराचारे वीतिहोत्रे विधुंतुदे । कामचारी पुनः कम्रे कलविङ्के चरेऽपि च ॥ ६० ॥ किष्कुपर्वा पोटगले तथेक्षुत्वचिसारयोः । कटखादक इत्येष काचकुम्भे च खादके ॥ ६१ ॥ फेरवे कोकिले कक्षावेक्षको रङ्गजीविनि । द्वारपाले कवौ षिङ्गे शुद्धान्तोद्यानपालयोः ॥ ६२ ॥ कृमिकण्टकस्तु चित्राविडङ्गोदुम्बरेषु च । कट्टिलकस्तु पर्णासे वर्षाभूकारवेल्लयोः ॥ ६३ ॥ खरालिकस्तु नाराचोपधानग्रामणीषु च । खञ्जरीटः कृपाणाङ्गव्रतचारिणि खञ्जने ॥ ६४ ॥ खण्डपर्शुः शिवे राहौ रामे चूर्णप्रलेपनि । किराते भेषजे चाथ खर्वशाखः कपौ क्षुपे ॥ ६५ ॥ गोजागरिकमुद्दिष्टं मङ्गले भक्ष्यकारके । स्याद्गाढमुष्टिः कृपणे कृपाणादिषु भण्यते ॥ ६६ ॥ ;p{0072} गन्धवाहा तु नासायां गन्धवाहोऽनिले मृगे । गोरक्षजम्बू(ः) गोधूमे गोरक्षे तन्दुलेऽपि च ॥ ६७ ॥ वृक्षे गोमेदकं रत्ने काकोले पत्रकेऽपि च । गोकुणिको वक्रनेत्रे पङ्कस्थे गव्युपेक्षके ॥ ६८ ॥ गोकण्टको गवां पद्भिर्निम्ने गोरक्षकेऽपि च । वृक्षे गन्धवती हालाकस्तूरीभूसुतीषु च ॥ ६९ ॥ गिरिसारध्वनि(?)र्लिङ्गे लोहे मलयपर्वते । ग्रामम्रद्ग(द्गु)रिका शृङ्गीयुद्धयोर्गन्धमादनः ॥ ७० ॥ गन्धके वानरे शैले भ्रमरे गन्धमादनी । सुरायामौषधीभेदे गदयित्नुः स्मरास्त्रयोः ॥ ७१ ॥ अथो (?) घनरसो वारि मोरटेऽथ धनाधनः । घातके मत्तमातङ्गे वर्षुकाब्दे निरन्तरे ॥ ७२ ॥ शक्रे घर्घर्रिका सिन्धुभेदे वादिन्नधान्ययोः । घोषवेषारिका ख्याता गणिकावल्लिभेदयोः ॥ ७३ ॥ चन्द्रहासो दशग्रीवे खड्गेऽसौ चिलमीलिका । खद्योते दृश्यते कण्ठीभेदेऽपि तडिद्भिदि ॥ ७४ ॥ चक्रवाटः क्रियारोहे पर्यन्ते च शिखाद्रुमे । चक्रवाडः चक्रवालौ समूहे पर्वतान्तरे ॥ ७५ ॥ चीर्णपर्णस्तु खर्जूरे निम्बे चूडामणिध्वनिः (?) । काकचिञ्चाफले शीर्षमणिशास्त्रविशेषयोः ॥ ७६ ॥ चन्द्रकान्तो मणौ विन्द्याच्चन्द्रकान्तं तु कैरवे । चित्रगुप्तो यमे तस्य लेष(ख)केऽथ चतुष्पथः ॥ ७७ ॥ ;p{0073} द्विजातौ चत्वरेऽपि स्याच्चक्रपादो मतङ्गजे । रथे चर्मण्वती सिन्धुविशेषे कदलीद्रुमे ॥ ७८ ॥ चतुष्पदस्तु रङ्गादौ नारीणां करणान्तरे । चिरञ्जीवी त्वजे काके चित्रभानुर्दिनेश्वरे ॥ ७९ ॥ चित्रके दहने चक्रधरः श्रीपतिसर्पयोः । चण्डालिका तु पार्वत्यां किंद(न)रौषधिभेदयोः ॥ ८० ॥ अथो (?) चित्ररथो विद्याधरे गन्धर्वसूर्ययोः । चन्द्रोदयो निशानाथोदयोल्लोचौषधेषु च ॥ ८१ ॥ छत्रभङ्गस्तु वैधव्ये स्वातन्त्र्ये नृपतिक्षये । छत्रोदयो महीपानामुदये तालभिद्यपि ॥ ८२ ॥ भवेज्जनपदो लोके विषये पुटभेदने । मार्गे जैवातृकश्चन्द्रे भैषज्यायुष्मतोः कृशे ॥ ८३ ॥ जीवितेशो धवे काले जलसूचिर्जलौकसि । शृङ्गाटकङ्कयोस्त्रोटि(ट्यां?) पाठीनशिशुमारयोः ॥ ८४ ॥ जघन्यजोऽनुजे शूद्रे जलरुण्डो भुजङ्गमे । पयोरेणौ जलावर्त्ते तथा कम्बुवराटयोः ॥ ८५ ॥ अथो (?) जलकरंकः स्याज्जलवल्लीतडित्त्वतोः । नालिकेरफले वृक्षे जीवपुष्पं फणिज्जके ॥ ८६ ॥ भूपे दमनके जीवंजीवोऽद्रौ विचकोरयोः । जर्जरीकं बहुच्छिद्रे जर्जरीको जरत्तरे ॥ ८७ ॥ तर्त्तरीकं बहित्रे स्यात्तर्त्तरीकस्तु पारगे । तन्दुरीणः कचे कीटे बर्बरे तन्दुलोदके ॥ ८८ ॥ दासेरकस्तु करभे दासीपुत्रे नियामके । देवमणिः शिवे वाजि गलावर्त्तेऽपि कौस्तुभे ॥ ८९ ॥ ;p{0074} दन्दशूकध्वनिदृष्टो दीर्घपृष्ठेऽपि रक्षसि । दुरोदरो द्यूतकरे पणे द्यूते पिपासके ॥ ९० ॥ दाक्षायणी तु पार्वत्यां रोहिण्यामुडुपूच्यते । दिवाभीतो भवेच्चौरे पेचके कुमुदाकरे ॥ ९१ ॥ देवसेना स्मृता शक्रकन्यानिर्जरसेनयोः । दिवाकीर्तिर्ध्वनि(?)र्घूके चण्डाले नापितेऽपि च ॥ ९२ ॥ देवताडोऽनले राहौ कृतान्तेऽथ दलाढकः । कुन्देऽरण्यतिले दन्तिश्रवणे नागकेसरे ॥ ९३ ॥ शिरीषे गैरिके बृक्षे फेने दन्तशवध्वनिः । नागरङ्गेऽपि जम्बीरे कपित्थे दशनच्छदः ॥ ९४ ॥ निश्वासे चुम्बने चोष्ठे द्वैमातुर इभानने । भूपे दिगम्बरो रुद्रे क्षपणे ध्वान्तनग्नयोः ॥ ९५ ॥ धनञ्जयोऽनले पार्थे ककुभे देहमारुते । नागभेदे गजे क्षत्रे धृतराष्ट्रो नृपान्तरे ॥ ९६ ॥ सर्पे खगान्तरे चापि हंसतालविशेषयोः । धुन्धुमारस्तु भेषज्ये गृहधूमे नृपान्तरे ॥ ९७ ॥ नाशीरे सीकरे मेघोपले धाराधरो घने । कृपाणे तुरगे धूलीकदम्बो नीपसङ्घयोः ॥ ९८ ॥ वर(रु)णे तिनिशे धूमकेतुरुत्पातबर्हिषोः । धराधरो हरौ शेषे पर्वतेऽथ धुरन्धरः ॥ ९९ ॥ ;p{0075} धुर्ये वनद्रुमे धर्मराजः सूर्ये युधिष्ठिरे । बुद्धे दण्डधरे धार्त्तराष्ट्रः कौरवसर्पयोः ॥ १०० ॥ निश्चारकोऽनिले स्वैरे पुरीषस्य क्षये स्मृतः । निर्ग्रन्थकः कलाहीने क्षपणेऽपि परिच्छदे ॥ १०१ ॥ नागवारिकशब्दोऽयं राजकुञ्जरहस्तिपे । गणस्थराजे गरुडे दृश्यते चित्रमेखले ॥ १०२ ॥ नारायणोऽच्युते तालभेदे नारायणी पुनः । शतावर्युमयोर्लक्ष्म्यां नदीकान्तोऽपि हिज्जले ॥ १०३ ॥ सिन्दुवारे समुद्रे स्याद्वृक्षतालविशेषयोः । नदीकान्ता महीजम्बूकाकजङ्घालतास्वपि ॥ १०४ ॥ अथ निःसरणं मोक्षे निर्याणे मरणेऽपि च । उपाये तालभेदेऽथ निर्भर्त्सनमलक्तके ॥ १०५ ॥ खलीकारे निशाचारी शिवासत्योर्निशाचरः । जम्बुके कौशिके चौरे दन्दशूकेऽपि रक्षसि ॥ १०६ ॥ नन्द्यावर्त्तं पुनर्वेश्मविशेषे नगरद्रुमे । नियामकः कर्णधारे पोतवाहे नियन्तरि ॥ १०७ ॥ नक्षत्रनेमी रेवत्यां चन्द्रे निरसनध्वनिः । निषूदने तथा निष्ठीवने निस्तरणं पुनः ॥ १०८ ॥ निस्तारे तरणे दृष्टमुपायेऽथ निरूपणं । विलोकने विचारे स्यान्निदेशेऽपि निदर्शने ॥ १०९ ॥ निराकृतिर्निराकारे वेदहीननिषेधयोः । दृष्टं निशमनं धीरैः श्रवणेऽपि निरीक्षणे ॥ ११० ॥ नीलकण्ठः पीतसारे महादेवमयूरयोः । नारकीटोऽश्मनः कीटे मित्रद्रोहे विशारदे ॥ १११ ॥ ;p{0076} नन्दिघोषः पार्थरथे बन्दिघोषे निपड्वरः । जम्बाले मन्मथे नीलाम्बरो हलिनि राक्षसे ॥ ११२ ॥ परिवापो जलस्थाने पर्युप्तौ च परिच्छदे । वपने परिवारोऽसिकोशे परिजने स्मृतः ॥ ११३ ॥ परिग्रहः स्यात्स्वीकारे शापे पत्न्यां परिच्छदे । परिबर्हः परीवारे भूपालोचितवस्तुनि ॥ ११४ ॥ अथ पुष्पलकः कीले गन्धैणे क्षपणेऽपि च । पूतिकाष्ठं च सरले देवदारुमहीरुहे ॥ ११५ ॥ पारीरणो भवेद्दण्डे कच्छपे पटशाटके । परवाणिर्बुधे दृष्टो धर्माध्यक्षेऽपि वत्सरे ॥ ११६ ॥ पुण्डरीकं सितच्छत्रे भेषजे च सितोत्पले । पुण्डरीकस्तु दिङ्गागे राजिलाहौ कमण्डलौ ॥ ११७ ॥ व्याघ्रे गणधरे दन्तिज्वरे यागे मृगाधिपे । कोशकारविशेषे स्यात्सितवर्णाम्रवृक्षयोः ॥ ११८ ॥ युग्मं ॥ प्रतिशिष्टः प्रतिक्षिप्ते प्रेषितेऽपि निराकृतौ । पुरस्कृतोऽभिशस्ते पूजिते चाग्रगामिनि ॥ ११९ ॥ पितामहः सुरज्येष्ठे पितुस्ताते प्रतिश्रयः । समित्याश्रययोर्गेहे प्रतियत्न उपग्रहे ॥ १२० ॥ संस्कारलिप्सयोः ख्यातो विद्भिः अतिभयध्वनिः । अनुग्रहे वीरवरे साध्वसे भयकारिणि ॥ १२१ ॥ पारायणं समासङ्गे कात्स्नर्ये पारगतावपि । परायणमसंगोक्तावाश्रयेऽथ परायणः ॥ १२२ ॥ ;p{0077} तत्परे स्यात्पल्लवितं लाक्षारागे सपल्लवे । तते प्रहसनं हासेऽप्याक्षेपे रूपकान्तरे ॥ १२३ ॥ पाञ्चजन्यः पोटगले शङ्खे लक्ष्मीपतेरपि । परिधायो जलस्थाने नितम्बपरिवारयोः ॥ १२४ ॥ पात्रटीरस्त्वयःकांस्ये जरत्पात्रे हुताशने । पिङ्गाणके तथा वृक्षे तोयमन्त्रविशेषयोः ॥ १२५ ॥ पद्मलाच्छनशब्दोऽजे कुबेरे केशवे रवौ । प्रचलाकः शराघाते शिखण्डेऽपि भुजङ्गमे ॥ १२६ ॥ भेके पिप्पलकं सूत्रे सीवने चूचुकेऽपि च । पञ्चनखो गजे कूर्मे परपुष्टा पणस्त्रियाम् ॥ १२७ ॥ परपुष्टः पिके पर्वरीणं तु घृतकम्बले । पर्णवृन्तरसे पर्णसिरायां पर्वणीष्यते ॥ १२८ ॥ पीलुपर्ण्योषधीभेदे बिम्बिकामूर्वयोरपि । प्रजापतिर्नृपे सूर्ये पावके त्वष्टृवेधसः ॥ १२९ ॥ जामातर्यपि दक्षादौ पञ्चगुप्तस्तु कच्छपे । चार्वाकदर्शने चाथ पारिजातः सुरद्रुमे ॥ १३० ॥ पारिभद्रोऽपि मन्दारे परिवर्त्तः पलायने । युगान्ते भ्रमणे कूर्मराजे विनिमयेऽपि च ॥ १३१ ॥ पुष्पदन्तो जिने रुद्रगणे दिक्कुञ्जरान्तरे । पुटभेदो नदीवक्त्रे पत्तनातोद्ययोरपि ॥ १३२ ॥ पिण्डीतको मरुबके तगरे मदनद्रुमे । अथ पुष्करिणी नद्यां पद्मिनी दन्तियोषयोः ॥ १३३ ॥ ;p{0078} खाते पुण्यजनः श्रीदे सज्जनेऽपि प्रकीर्णकः । विस्तारे चामरे ग्रन्थविशेषेऽपि तुरङ्गमे ॥ १३४ ॥ पृष्ठशृङ्गी पुनः षण्ढे सैरिभेऽपि वृकोदरे । पिण्डपुष्पं जपाशोकाब्जेषु पोटगलो झषे ॥ १३५ ॥ नले काशे पुरोडाशे(शो) हुतशेषे हविष्यपि । सोमे पारशवः शूद्रातनये ब्राह्मणादपि ॥ १३६ ॥ लोहे पयोधरो नालिकेरे मेघे कशेरुके । कुचेऽपि परीघातस्तु प्रहारास्त्रविशेषयोः ॥ १३७ ॥ प्लवङ्गमः कपौ भेके रविसूते पराक्रमः । प्राणमात्रे (?) समुद्योगे पीठमर्दो विनिर्गते ॥ १३८ ॥ नाट्योक्तौ नाटकासक्ते खेचरे प्रविदारणं । संग्रामे दारणे पारापतः कालरवे गिरौ ॥ १३९ ॥ फर्फरीकश्चपेटेऽपि फर्फरीकं तु मार्दवे । फलोदयः सुरागारे वृद्धौ निर्वाणलाभयोः ॥ १४० ॥ भागधेयं करे भाग्ये भागधेयस्तु गोत्रजे । भवेद्भोगवती सर्पनगरीतटिनीभिदोः ॥ १४१ ॥ भयानकध्वनिर्व्याघ्रे रसभेदे विधुंतुदे । भीमे भ्रमरको भृङ्गे गिरिके चूर्णकुन्तले ॥ १४२ ॥ भट्टारको नृपे देवे मुनौ भार्याटिको मृगे । भार्यया तेजिते चाथ भरद्वाजः खगान्तरे ॥ १४३ ॥ बृहस्पतिसुते भारद्वाजी वनपिचुद्रुमे । भारद्वाजो मुनौ द्रोणे भृङ्गराजः खगान्तरे ॥ १४४ ॥ ;p{0079} मार्कवे भस्मतूलं तु पांसुवृष्टौ हिमेऽपि च । भद्रकाली तु गन्धोलीपार्वत्योरोषधीभिदि ॥ १४५ ॥ अथो (?) माणवको हारविशेषे बटुके शिशौ । मूर्द्धाभिसिक्तो भूपाले क्षत्रिये सचिवे क्वचित् ॥ १४६ ॥ महीवीरो जिने सिंहे तार्क्ष्ये शूरे पिके पवौ । मखवह्नौ महासेनो महासैन्याधिपे गुहे ॥ १४७ ॥ महाकालो महादेवे किंपाके प्रमथान्तरे । व्यालान्तरे महामात्रो हस्त्यारोहेऽधिपाढ्ययोः ॥ १४८ ॥ मृष्टेरुको वदान्ये स्यान्मिष्टाशिन्यतिथिद्विषि । अथो मरुबकः पुष्पे मदनद्रौ फणिज्जके ॥ १४९ ॥ महाशङ्खो निधौ संख्याविशेषे मनुजास्थिनि । मल्लनागस्तु चाणक्ये त्रिदशेभे मलिम्लुचः ॥ १५० ॥ तस्करे मारुते दुष्टे मीनम्रीणस्तु खञ्जने । दर्दुराम्रे मेघनादो वरुणे रावणात्मजे ॥ १५१ ॥ स्तनितेऽथ महानादो वर्षकाब्दे शयानके । सुस्वने मुचकुन्दः स्यात् मुनौ दैत्यद्रुभेदयोः ॥ १५२ ॥ मालुधानो मातुलाहौ मालुधानी लतान्तरे । मातुलानी कलापे स्याच्छणमातुलभार्ययोः ॥ १५३ ॥ महोदयो नृपे मोक्षे मधुपर्के पुरे रवौ । मार्जालीयस्तु मार्जारे शूद्रे विग्रहशोधने ॥ १५४ ॥ महालयो बृहत्तीर्थे परमात्ममहेशयोः । महारजतं कुसुम्भे सुवर्णे मधुसूदनः ॥ १५५ ॥ नटे मधुकरे विष्णावथ मातुलपुत्रकः । धत्तूरस्य फले चापि मातुलस्य च नन्दने ॥ १५६ ॥ ;p{0080} मेघपुष्पं तु नादेये सलिलौषधिभेदयोः । महानीलो भृङ्गराजे गणिभिन्निधिभेदयोः ॥ १५७ ॥ यादसांपतिरम्भोधौ प्रतीचीदिक्पतावपि । योजनगन्धा कस्तूर्यां वैदेह्यां व्यासमातरि ॥ १५८ ॥ राजराजो निशानाथे सार्वभौमकुबेरयोः । रङ्गमाता तु कुट्टिन्यां तथा भूमिरुहामये ॥ १५९ ॥ रौहिणेयो बुधे वत्से तालाङ्के पर्वतान्तरे । राजादनः पियालुद्रौ क्षीरिकायां त्रिपत्रके ॥ १६० ॥ रन्तर्द्धिकं दिने दृष्टं सुखस्नानेष्टमङ्गले । राधरङ्क(ङ्कु)स्तु नाशीरे शीकरे जलदोपले ॥ १६१ ॥ रेरिहाणोऽम्बरे रुद्रे रागचूर्णस्तु मन्मथे । खदिरे रक्तरेणुः स्यात्पलाशे कलिकोद्गमे ॥ १६२ ॥ सिन्दूरे रतनारीचः सीत्कृते कुकुरे स्मरे । रोहिताश्वो हरिश्चन्द्रनृपजे जातोदसि ॥ १६३ ॥ लक्ष्मीपतिः लवङ्गद्रौ पूगे कृष्णे रवौ नृपे । लालाटिकः प्रभोर्भालदर्शिन्याश्लेषभिद्यपि ॥ १६४ ॥ मन्दे विरोचनो वह्नौ चन्द्रे प्रह्लादनन्दने । बहुरूपो हरौ रुद्रे घूणके सरटे स्मरे ॥ १६५ ॥ वृन्दारकः सुरे वृक्षे मनोज्ञश्रेष्ठयोरपि । वराटकः स्थूलरज्जौ पद्मबीजकपर्दयोः ॥ १६६ ॥ वाराबाणस्तु कूर्पासे कवचे वरचन्दनं । कालीये देवदारुद्रौ ब्रह्मबन्धुर्द्विजाधमे ॥ १६७ ॥ ;p{0081} विप्रस्य बान्धवो (वे) वातरूषोऽलं (?) चेन्द्रचापयोः । विश्वकर्मा मुनौ भानौ त्रिदशानां च शिल्पिनि ॥ १६८ ॥ वितुन्नकं तु धन्याके जने झाटामलौषधे । विनायको गुरौ तार्क्ष्ये हेरम्बे बुद्धविघ्नयोः ॥ १६९ ॥ वृषाकपायी श्रीस्वाहाशतावर्यद्रिजासु च । बलाहकोऽम्बुदे शैले दैत्ये नागे हयान्तरे ॥ १७० ॥ वृषाकपिर्हरे विष्णौ शक्रे सूर्ये हुताशने । विशारदः पुनः प्राज्ञे चतुरेऽथ विदूषकः ॥ १७१ ॥ निन्दकेऽपि विलक्षे स्याद्धूर्त्ते वैनाशिकः पुनः । ऊर्णनाभक्षणिकयोर्निघ्ने वैतरिणी पुनः ॥ १७२ ॥ रक्षो मातरि वाहिन्यां वर्कराटो नखव्रणे । कटाक्षे भास्वतः प्रातरुस्रे वातखुडाध्वनिः ॥ १७३ ॥ वामायां पिच्छलस्फोटे वात्यामारुतरक्तयोः । वानप्रस्थो मधूकद्रौ आश्रमे किंशुकेऽपि ॥ १७४ ॥ वर्धमानः शरावे स्यादेरण्डप्रश्नभेदयोः । विष्णौ वीरजने विष्णुपदाख्या पद्मरवाब्धिषु ॥ १७५ ॥ अथ विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च । वर्तरूको नदीभेदे काकनीले जलावटे ॥ १७६ ॥ विहेटनं तु हिंसायां मर्द्दनेऽपि विडम्बने । विष्वक्सेना फलिन्यां स्याद्विष्वक्सेनस्तु केशवे ॥ १७७ ॥ वृहन्नलः पोटगले पार्थे विचकिलः पुनः । मल्यां दमनके वातरायणः क्रकचे शरे ॥ १७८ ॥ ;p{0082} शरसंक्रमणे ताले वातूले वरवर्णिनि । हरिद्रारोचनानारीलाक्षाराकाप्रियङ्गुषु ॥ १७९ ॥ वैजयन्तो गुहे शक्रप्रासादध्वजयोरपि । वैजयन्ती पताकायां व्यवहारः स्थितौ पणे ॥ १८० ॥ शालावृकः कपौ सारमेयजम्बुकयोरपि । शिलाटकस्तिले चाट्टे शतानीको नृपे मुनौ ॥ १८१ ॥ शशिलेखा चन्द्रलेखावाकुच्यो(ः) वृत्तभिद्यपि । अथो (?) शिखरिणी वृत्तरोमालीमल्लिकासु च ॥ १८२ ॥ पेयभिद्यबलारत्ने शुभ्रधामा सुधाकरे । घनसारे चाब्धिफेने शातकुम्भोऽश्वमारके ॥ १८३ ॥ शातकुम्भं सुवर्णे स्याच्छीतभानुर्निशाकरे । चन्द्रे शिलीमुखो बाणे भ्रमरे मक्षिकान्तरे ॥ १८४ ॥ शृङ्गाटकं पथां श्लेषे तथा पानीयकण्टके । शिपिविष्टस्तु खल्वाटे दुश्चर्मणि च शङ्करे ॥ १८५ ॥ शरवाणिः पादचारे शरास्ये शरजीविनि । शतपत्रं शुकाम्भोजदार्वाघाटेषु केकिनि ॥ १८६ ॥ शृगालिका शिवायां स्याद्भयादपि पलायिते । शालंकायन ईशानप्रतीहारे मुनावपि ॥ १८७ ॥ सरस्वती नदीभेदे श्रुतदेव्यां सरित्सु च । वसुधावरवर्णिन्योर्धेनुवाणीरमास्वपि ॥ १८८ ॥ सर्वतोमुखमाकाशे सलिले सर्वतोमुखः । विधिक्षेत्रज्ञरुद्रेषु दृश्यते कीटकान्तरे ॥ १८९ ॥ ;p{0083} संप्रयोगं रते दृष्टं मन्विते कार्मणे बुधैः । समीरणो मरुबके पवने पथिकेऽपि च ॥ १९० ॥ सार्वभौमः पुरे काष्टागजे सकलभूभुजि । समुदायो रणे वृन्दे सामिधेनी समीदृचोः ॥ १९१ ॥ सम्परायो मुखे चापि संग्रामोत्तरकालयोः । स्तनयित्नुर्गदे धूमयोनौ मृत्यौ च गर्जिते ॥ १९२ ॥ सुयाम(मु)नो हरौ दुर्गे वत्सराजप्रसादयोः । सोमवल्कः पुनः शुक्लखदिरे कट्फलौषधे ॥ १९३ ॥ अथ संसरणं ख्यातमसम्बाधे चमूगतौ । संसारे संयुगारम्भे नगरस्योपनिर्गमे ॥ १९४ ॥ समुद्रारुर्झषे सेतुबन्धग्राहविशेषयोः । सालमारध्वनिवृक्षविशेषे हिङ्गुभिद्यपि ॥ १९५ ॥ सूत्रकण्ठः शुके विप्रे खञ्जरीटकपोतयोः । अथ सारसनं नीव्यां कञ्चुके स्यादुरच्छदे ॥ १९६ ॥ सामयोनिर्द्विपे दृष्टः सामजे परमेष्ठिनि । सदादानस्तु हेरम्बे गन्धद्विपसुरेभयोः ॥ १९७ ॥ सनातनः शिवे शम्भुविश्वेदेवाच्युतेषु च । शाश्वते सुप्रतीकस्तु शोभनाङ्गे च दिग्गजे ॥ १९८ ॥ समुत्थानं निदाने स्यादुद्यमोत्थानयोरपि । समापन्नं तु संप्राप्ते समाप्तौ नाशखेदयोः ॥ १९९ ॥ अथ संयमनं बन्धे व्रते संयमिनी पुरि । सौदामिनी तडिद्भेदेऽप्सरोभेदे तडित्यपि ॥ २०० ॥ ;p{0084} उक्तं संवदनं वादे समालोचे वशीकृतौ । स्थिरदंष्ट्रः स्मृतः सर्पे शूकरेऽथ सदाफलः ॥ २०१ ॥ नालिकेरीफले यज्ञद्रुमे स्कन्धफलेऽपि च । समाहारस्तु संक्षेपेऽप्येकत्रकरणे स्मृतः ॥ २०२ ॥ हरिचन्दनशब्दोऽयं कुङ्कुमे देवभूरुहे । हैमवत्यभयास्वर्णक्षीरीदुर्गावचासु च ॥ २०३ ॥ हस्तिमल्लः सुनासीर(रे) द्विरदे गणनायके । भद्रेऽपि हिमनाथस्तु चन्द्रे चन्द्रे हिमाचले ॥ २०४ ॥ हस्तिकर्णः पलाशद्रावेरण्डगणभेदयोः । हेमपुष्पमशोकद्रौ जपापुष्पेऽपि चम्पके ॥ २०५ ॥ हेमपुष्पक इत्येष चम्पके हेमपुष्पिका । यूथ्यां च हिङ्गुनिर्यासो निम्बे हिङ्गुरसे स्मृतः ॥ २०६ ॥ हरिताली नभोरेखादूर्वासिलतिकासु च । हर्षयित्नुः सुते स्वर्णे तालभेदमयूरयोः ॥ २०७ ॥ हलाहलो विषे पल्लीभुजङ्गमविशेषयोः । हिरण्यरेता ज्वलने चित्रके दिवसेश्वरे ॥ २०८ ॥ हारिकण्ठः पिके दृष्टो हारान्वितगले शुके । हरिवाहन इत्येष पाकशासनसूर्ययोः ॥ २०९ ॥ क्षीराब्धिजो निशानार्थे क्षीराब्धिजा श्रियामपि । क्षीराब्धिजं तु मुक्तायां समुद्रलवणेऽपि च ॥ २१० ॥ क्षुरमर्दक इत्येष नापिते पक्षिभिद्यपि । अथ क्षीराब्धिजापुत्रः स्मरेऽश्वे भद्रकुञ्जरे ॥ २११ ॥ ;p{0085} पाणिन्यहीन्द्रगुरुभागुरिभोजभेड- हेमामरादिसमुदीरितशास्त्रसारात् । नानार्थरत्नतिलकं स च सिद्धशब्दं- रत्नाकरः(रं) समतनोत्सुमतिर्महीपः ॥ २१२ ॥ श्रीमान्सोमभवः सलक्षसचिवो वाक्कण्ठभूषाङ्कभृत् संप्रासूत सुतं महीपममलं सौभाग्यदेवी च यं । संकीर्णाख्य इहोज्ज्वलः समुचिते विद्वद्गिरां पूर्णतां ग्रन्थे तद्रचितेऽसमे यमभजत् काण्डश्चतुर्थः परम् ॥ २१३ ॥ ;c{इत्यनेकार्थतिलके चतुर्थः काण्डः समाप्तः ॥}