;METADATA ;title{अव्ययकोश} ;author{अज्ञात} ;bookFullName{द्वादशकोशसंग्रहः} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{बाबू वाराणसी प्रसाद} ;pressDetails{ज्ञानवापी के पूर्व फाटक पर श्रीविश्वनाथजी के पास श्री३युत महाराज शिवलाल दुबेजी के मकान मे छपी । जिनको लेना होय उन्होने इस छापेखाने के कार्य संपादक बाबू वाराणसीप्रसाद या कचौरी गली में भाई प्रतापसिंहजी के दुकान पर मिलेगी ।} ;publicationYear{1929 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{AVYK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. https://jainelibrary.org/ for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{20 May 2020} ;version0.0.2{20 May 2020} ;version0.0.3{28 May 2020} ;version0.0.4{28 May 2020} ;version0.1.0{29 May 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{गणेशाय नमः ॥} ;c{अथ अव्ययकोशप्रारम्भः ॥} गजानन नमस्तेऽस्तु कार्य(?)विघ्नहरे नमः । विश्वस्याकहरे हारे सर्वलोकशिवङ्करम् ॥ १ ॥ श्रीयुक्तं(?) परमानन्दं वन्दे स्वानन्दविग्रहम् । यस्य सान्निध्यमात्रेण चिदानंदा(?)यते वपुः ॥ २ ॥ अव्ययार्थप्रकाशं श्रीमहादेवः कृती सुधीः । सिद्धान्तकौमुदीं तत्त्वबोधिनीं सुमनोरमाम् ॥ ३ ॥ पुराणकाव्यकोशादीन् समालोच्य गुरूक्तितः । वित्पित्सूनां प्रतनुते बालानां बोधसिद्धये ॥ ४ ॥ क्व च मत्सदृशो मन्दः क्व चेयं कृतिरद्भुता । गङ्गाधरपदाम्भोजकृपया कृतये विभुः ॥ ५ ॥ स्वः स्वर्गे परलोके स्यादुच्चैर्महति सूरिभिः । नीचैर्मनाक्किंचिदीषदेतान्यल्पे मनीषिभिः ॥ ६ ॥ ऋधक्सत्ये वियोगे च शीघ्रसामीप्ययोरपि । लाघवार्थे समाख्यातं नानाऽनेकनिषेधयोः ॥ ७ ॥ जोषं मौने सुखे च स्यादाराद्दूरसमीपयोः । ऋते माकिर्मकिर्माकीमन्तरेण हि रुक्विना ॥ ८ ॥ अन्तरा च पृथक् वर्जे पादपूर्तौ तु क स्मृतम् । चिरेण चिररान्नाय चिरस्य च चिराय च ॥ ९ ॥ चि(?)रं चिराद्दीर्घकाले प्रोक्तं कं‌ वारि मूर्धनि । पुनोऽज्वधारणे धीरैर्विशेषाप्रथमार्थयोः ॥ १० ॥ अवो बहिश्च बाह्यर्थे प्रागतीतार्थकं मतम् । मध्ये समीपे समया तुल्यार्थे विप्रवत्स्मृतम् ॥ ११ ॥ कृथामु---धौ व्यर्थे निन्दाभर्त्सनयोश्च धिक् । नक्तं रात्रावुषा दोषा निशि -क्तानि सूरिभिः ॥ १२ ॥ नानोननना सम्बन्धे निषेधार्थे मनीषिभिः । प्रादुरिद्धाविरेतानि प्रकाशे नाम्नि सूरिभिः ॥ १३ ॥ अर्धे जुगुप्सिते समि प्रेत्यामुत्र भवान्तरे । स्फुटेऽवधारणे तत्त्वेऽर्चाऽद्धा प्रोक्तं मनीषिभिः ॥ १४ ॥ निषेधाशङ्कयोर्नाम नूनं तर्केऽर्थनिश्चये । सनात्सनत्सना नित्ये कदर्थे कुत्सिते कु- ॥ १५ ॥ शीघ्रार्थकालभूयस्त्वाधुनार्थप्रश्नकेषु ज्योक् । अकस्मिके विमर्शे च सहसोक्तं मनीषिभिः ॥ १६ ॥ अह्नाय द्राक् शुकं मंक्षु झटिति झागिति द्रुते । आशु सद्यः सपद्युक्तं त्वै विशेषविकर्तयोः ॥ १७ ॥ मौने तु तुष्णीं तूष्णीकं प्रोक्तं सायं निशामुखे । अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ १८ ॥ ;p{0002} उपांशु चाप्रकाशे वा उच्चारणरहस्ययोः । प्रोक्तं मिथो मिथोऽन्योन्ये सहार्थे च रहस्यपि ॥ १९ ॥ ऊर्ध्वार्थे समकाले च प्रबाहुकं प्रवाहिका । अनुकं द्वै वितर्के च त्वञ्जसा शैघ्रतत्त्वयोः ॥ २० ॥ ख्यातानेकार्थके सत्त्वा साकं सार्द्धं समं सह । अन्तिके निकषा धीरैः कूपत्प्रश्नप्रशंसयोः ॥ २१ ॥ वा विकल्पोपमापादपूरणेऽपि समुच्चये । अन्वाचये समाहार इतरेतरयोगके ॥ २२ ॥ सादृश्या नवक्लृप्त्योश्च त्ववधारणसाम्ययोः । शश्वन्नित्ये सहार्थेऽपि त्वाधिक्ये चावधारणे ॥ २३ ॥ विशेषे प्रथमार्थेऽपि न्वैरे दाने त्वनादरे । एवावधारणे साम्यार्नवक्लृप्त्योर्मनीषिभिः ॥ २४ ॥ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । इवेत्थमर्थयोः साम्यावधारणमतेऽपि च ॥ २५ ॥ अमङ्गीकार उक्तं ज्ञेरङ्गीकारे तु चाम् स्मृतम् । प्रतिषेधे विचारेऽपि नेत्समुच्चयशङ्कयोः ॥ २६ ॥ मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्याधिकारके । समुच्चये प्रतिज्ञायामथाथो च प्रकीर्तिताः ॥ २७ ॥ हुं कुत्सनायां वार्तायामलीकेऽपि किल स्मृतम् । अवर्षे नवक्लृप्तौ च गर्हायां यत्र कीर्तितम् ॥ २८ ॥ पादपूर्तावतीते स्म प्र- चानुनये त्वपि । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविवादयोः ॥ २९ ॥ निषेधवाक्यालङ्कारजिज्ञासानुनये खलु । उपक्रमे च हिंसायां कुत्सने त्वादह स्मृतम् ॥ ३० ॥ प्रातः प्रभात उपधाभेदे प्रोक्ता नतौ नमः । अन्तर्मध्ये रुषोक्तावा अहो आमन्त्रणेऽद्भुते ॥ ३१ ॥ अन्तर्द्धाने तु सनुतः क्रियामान्द्ये शनै स्मृतम् । द्यतु प्रोक्तं प्रातिलोम्ये पादपूरणहिंसयोः ॥ ३२ ॥ स्वाहा देवहविर्दाने श्रैषड्वौषड्वषट्स्वधा । अन्यार्थेऽन्यत् क्षमा क्षान्तौ शम्बट् चिताभिमुख्ययोः ॥ ३३ ॥ ग्लानौ प्रतां समानार्थे प्रशान्त्विस्तारके प्रशान् । बलात्कारे चार्यहलं विहसा विपदर्थके ॥ ३४ ॥ असूयायामुपगमे स्वच्छन्दे काममीरितम् । विशेषे प्रथमार्थे वाऽवधारणसहार्थयोः ॥ ३५ ॥ मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः । सुकं प्रकामं बलवद्विकल्पेऽतिशये समाः ॥ ३६ ॥ नित्यं त्वजस्रमनिशं सन्ततं नित्यदा समाः । सातत्यार्थे पृथिव्यां भूरं तरिक्षे भुव स्मृतम् ॥ ३७ ॥ रोदसी द्योपृथिव्यर्थे निन्दायां दुष्टु कीर्तितम् । ;p{0003} अङ्गीकारे ब्रह्मणि च मतमोतु प्रकीर्तितम् ॥ ३८ ॥ प्रशंसायां विकल्पे च सुष्ठु प्रोक्तं मनीषिभिः । न्याय्ये द्वे साम्प्रतं स्थाने नाशेऽस्तमतिनिर्भरे ॥ ३९ ॥ पूजनेऽपि सु च प्रोक्तं साक्षात्प्रत्यक्षतुल्ययोः । साचि प्रोक्तं तिर्यगर्थ उत्कर्षे वरष स्मृतम् ॥ ४० ॥ विततार्थे मृथा मिथ्या यथार्थं तु यथातथम् । हंहोऽद्भुतार्थके प्रोक्तं सादृश्ये व स्मृतं बुधैः ॥ ४१ ॥ संवद्वर्षेऽवरे त्वर्वाग्यथास्वं तु यथातथम् । निष्यमं दुष्य- गर्ह्ये त्ववश्यं निश्चये स्मृतम् ॥ ४२ ॥ आनुषक् त्वनुमानार्थे शुक्लपक्षे सुदि स्मृतम् । कृष्णपक्षे वदि प्रोक्तं प्रत्यारम्भे नह स्मृतम् ॥ ४३ ॥ पादपूर्तौ प्रसिद्धौ ह क्वचित्कामप्रवेदने । प्रतीच्यां चरमे पश्चात् निर्देशार्थे तथा हि तु ॥ ४४ ॥ अवदत्तं प्रदाने स्यात्सम्यगर्थे पशु स्मृतम् । हेतौ च --चेत् द्युद्यदि च पक्षान्तरमिनित्तयोः ॥ ४५ ॥ परिप्रश्ने वितर्के च भर्त्सने हुं प्रकीर्तितम् । चटु चाटु प्रिये वाक्ये सादृश्यार्थ इव स्मृतम् ॥ ४६ ॥ आङीषदर्शेऽभिव्याप्तौ सीमाधात्वर्थयोगयोः । मर्यादायां स्मृतं सद्भिरा तु स्मरणवाक्ययोः ॥ ४७ ॥ सम्बोधननिषेधार्थाधिक्षेपेषु मनीषिभिः । आस्तु कोपे च पीडायामिति विस्मयजुगुप्सयोः ॥ ४८ ॥ ओ प्याट् पाडङ्ग हे है भो ई औ ए ऐ उ ऊ भगोः । अये द्योस्त्विति सम्बुद्धौ लङ्घनेऽतीवनिर्भरे ॥ ४९ ॥ प्रकर्षार्थेऽपि पूजायामिति स्वित्प्रश्नतर्कयोः । चान्वाचयो समाहार इतरेतरयोगके ॥ ५० ॥ समुच्चये पादपूर्तावानन्दे विस्मये स्मृतम् । अर्धाङ्गीकारके सत्यमसा सहसमीपयोः ॥ ५१ ॥ कुत्सेषदर्थे पाके कु किं पृच्छायां जुगुप्सने । मङ्गलाशीःक्षेपपुण्ये स्वस्ति प्रोक्तं मनीषिभिः ॥ ५२ ॥ भेदेऽवधारणे पादपूरणे तु मनीषिभिः । खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत ॥ ५३ ॥ प्रश्नावधारनानुज्ञानुनयामन्त्रणेष्वपि । विरोधोक्तौ ननु प्रोक्तं वितर्कप्रश्नयोर्नु च ॥ ५४ ॥ इति हेतुप्रकरणावधारणसमाप्तिषु । प्रकर्षेऽद्भुत आनन्द आर्याबन्धे मनीषिभिः ॥ ५५ ॥ स्यात्प्रबन्धचिरातीते विकटागामिके पुरा । अत्वरिते समाख्यातं विशेषाप्रथमार्थयोः ॥ ५६ ॥ इत्थंभूताख्यानके च वीप्सालक्षणभागके । ;p{0004} अभि प्रोक्तं च विद्वद्भिर्वर्जने त्वप कीर्तितम् ॥ ५७ ॥ इत्थंभूताख्यानके च वीप्सालक्षणभागके । वर्जने च परि प्रोक्तमुप हीनेऽधिके बुधैः ॥ ५८ ॥ प्रथमे त्वरिते ख्यातं निकटागामिकेऽग्रतः । इत्थंभूताख्यानके च वीप्क्षालक्षणभागके ॥ ५९ ॥ प्रतिदाने प्रतिनिधौ प्रति प्रोक्तं मनीषिभिः । इत्थंभूताख्यानके च वीप्सालक्षणभागके ॥ ६० ॥ प्रतीच्यां चरमे हीने सादृशेऽनु मनीषिभिः । गर्हासमुच्चये प्रश्ने शङ्कासम्भावनास्वपि ॥ ६१ ॥ गर्हासमुच्चये प्रश्ने शङ्कासम्भावने सु च । विकल्प उत सङ्ख्यातमेव इत्येत्थमर्थयोः ॥ ६२ ॥ साम्येऽवधारणे प्रोक्तं मत एव मनीषिभिः । नाम प्रकाशसम्भाव्यक्रोधोपगमकुत्सने ॥ ६३ ॥ उरयूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् । समीपो भवतः शीघ्रसाकल्याभिमुखेऽभितः ॥ ६४ ॥ तिरोऽन्तर्धौ तिर्यगर्थे निर्निश्चयनिषेधयोः । यद्वा यथा तथा साम्ये धीरैर्हौ ही च विस्मये ॥ ६५ ॥ दिष्ट्या शमुपजोषं वा आनन्दे मास्म वारणे । सकृत्सहैकवारे स्यादहहाऽद्भुतखेदयोः ॥ ६६ ॥ अवधारणहेत्वोश्च पत्पूर्तौ कोविदैः स्मृतम् । यत्तद्यतस्ततो हेतावसकल्पे तु किञ्चन ॥ ६७ ॥ कदाचिज्जातु चैकार्थे हा विषादशुगार्तिषु । अनुकूल्यार्थकं प्राध्वं प्रसह्य तु प्रगृह्य तु ॥ ६८ ॥ हटार्थे च समाख्याते विशेषाप्रथमार्थयोः । अङ्गावधारणे प्रोक्तं विकल्पे किं किमु द्यु च ॥ ६९ ॥ अहोताहो किमुत प्रोक्तान्येतानि सूरिभिः । समन्ततस्तु परिभिः सर्वतो विष्वगिष्वपि ॥ ७० ॥ तदा तदानीं युगपदे कदा सर्वदा तदा । एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा ॥ ७१ ॥ उभयेद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि । ह्योऽतीतेऽनागतेऽह्निश्च परश्वस्तु परेऽहनि ॥ ७२ ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्ययादयः । अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरा परा ॥ ७३ ॥ श्रीमदव्ययकोशं हि सतां सन्तोषकारकम् । पठतामपि मन्दानां ज्ञानं भवति निश्चितम् ॥ ७४ ॥ अम्ब त्वत्पदपङ्कजयोस्त्वत्कारितोऽर्पितोऽयं ग्रन्थोऽतः । वित्पिस्तूनां भजतां ज्ञानं भूयात् प्रसादते ॥ ७५ ॥ ;c{इति अव्ययकोशः}