;METADATA ;title{अव्ययार्णव} ;author{जयभट्टारक} ;bookFullName{Literary Gems from Sanskrit Literature (A Study of Rare Manuscripts)} ;bookSeriesDetails{} ;editor{Dr. Siddharth Yeshwant Wakankar} ;editorQualifications{Deputy Director, Oriental Institute, M.S.U., Baroda} ;publisher{Bharatiya Kala Prakashan, Delhi (India)} ;pressDetails{} ;publicationYear{} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{AVJB} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{23 July 2020} ;version0.0.2{23 July 2020} ;version0.0.3{23 July 2020} ;version0.0.4{23 July 2020} ;version0.1.0{23 July 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0130} ;c{श्रीः} ;c{अव्ययार्णवः ।} ;k{प्रथमः तरङ्गः} महेश्वरपदाम्भोजविलसद्भृङ्गमानसः । जयभट्टारकः श्रीमान् स करोत्यव्ययार्णवम् ॥ १ ॥ ये त्वव्ययपरीक्षार्थमनोवृत्तिविचित्रताः । एतत्परीक्षकास्ते स्युस्तरङ्गत्रयसंमितम् ॥ २ ॥ शब्दार्णवान्तरासक्ता येऽव्ययाः स्युर्मनोहराः । नानार्थकास्तानेवाद्य कुर्वेऽत्र बहुविस्फुटम् ॥ ३ ॥ अरं त्वग्रे च धारायां शिखायां मण्डलेऽपि च । आरं परसमूहे स्यात्परमार्थस्वरूपयोः ॥ ४ ॥ अद्यानन्दमनोभावविकाराकारवस्तुषु । प्रस्तुताधारपर्यायपराकाष्ठाशरीरिषु ॥ ५ ॥ अथानुवाकाद्यारम्भप्रश्नकार्त्स्न्यावधारणे । अहो विकार आश्चर्ये विस्मये परमाद्भुते ॥ ६ ॥ अथोऽप्यवधिवरश्रेष्ठवस्तुवैचित्र्यविस्मृते । अकं विक्षेप आश्चर्ये विकारस्वप्नयोरपि ॥ ७ ॥ अयन् समस्ते सर्वेशे साधारणविशेषयोः । आयन्नव्यथ आमं तु द्रवसारसकारसाः ॥ ८ ॥ आहा वितर्के रम्भायां संरम्भे विस्मयेऽपि च । इह प्रस्तुतभ्योज्यार्हवर्तमानेषु संमतम् ॥ ९ ॥ ;p{0131} ईहस्संरोधसौभाग्यवैरवैचित्र(त्र्य)वाचकः । इळ्लाभिप्रायसर्वज्ञबोधकारकभाजने ॥ १० ॥ इत्थं पूर्वोक्तपूजार्हचराचरविशोभने । आदि प्रकरणे मूल्ये पूर्तिहेतुप्रवृत्तिषु ॥ ११ ॥ अति प्रकृष्ण(ष्ट)चरमप्रशंसातिक्रमादिषु । उत प्रकारान्तरे च वितर्कप्रश्नयोरपि ॥ १२ ॥ समुच्चये समाहारे सामान्यज्ञानयोरपि । अतश्चित्रे च हेतौ च विकारपरिमाणयोः ॥ १३ ॥ अस्तु विस्तृतपीडार्घ्यासुमतीप्रसवादिषु । इतस्समस्ते तद्भागादिषु मुख्ये च मानसे ॥ १४ ॥ कति कासारसामन्तबहुतर्कादिकेऽपि च । विरले विशदे हेतौ मोहे मायाविकारयोः ॥ १५ ॥ कुतो वितर्के कुत्सायां प्रश्ने चित्रप्रकारयोः । विरोधे मानसे चापि चिन्तास्वारस्यपूर्तिषु ॥ १६ ॥ कथं प्रकारे प्रश्ने च सम्भ्रमे सम्भवेऽपि च । कमठे कठिने मूले चिन्ताविस्तारयोरपि ॥ १७ ॥ कमालस्ये च कण्ठे च शिरोऽम्बुयुगलादिषु । किं वितर्कानुमानार्हप्रश्नस्वामिमहात्मसु ॥ १८ ॥ कच्चित्प्रश्ने कामनादिवार्तावारिधिसानुषु । सम्भावनायां सामर्थ्ये स्वारस्यसरलादिषु ॥ १९ ॥ ततः पश्चार्धसामान्यानन्तर्ये च प्रकारके । तावच्च पादालङ्कारे विकारप्रश्नयोरपि ॥ २० ॥ तथा तु तत्प्रकारे स्यात्पश्चात्तापे परिग्रहे । समीचीने मनोहारेऽप्याश्चर्ये च विमोहने ॥ २१ ॥ तस्मादिति क्वचित्कार्यकारणादौ च कथ्यते । अन्वनुज्ञासम्यगर्थवाचालकठिनेषु च ॥ २२ ॥ पुनस्सदार्थयोस्सम्यगर्थे चापि विबोधने । विकारे विस्मृते मोहे पर्याप्तिविशदादिषु ॥ २३ ॥ मिथोऽन्योन्ये रहस्ये च विकारप्रश्नयोरपि । विरले विस्तृते चापि विलोलनविशालयोः ॥ २४ ॥ ;p{0132} शश्वत्समस्तप्रत्यक्षतुल्यवैचित्र्यवारिषु । भेदानुकम्पमोहादिविस्मयामन्त्रणेषु च ॥ २५ ॥ सहैकवारे हर्षे च सम्बुद्धौ च सहार्थके । स्वस्तिवाचनसामर्थ्यसाधारणविलोलनाः ॥ २६ ॥ पश्चात्प्रतीच्यामानन्दे चरमे गेहकालयोः । परिपाके पराधारे फालशूलादिकेऽपि च ॥ २७ ॥ सुष्ठु प्रशंसने चित्ते सौभाग्ये सरलेऽपि च । सहवासे निवासे च साधारणविलासयोः ॥ २८ ॥ बाढं चानुमतौ दार्ढ्ये दृढे हर्षविषादयोः । वाक्यारम्भेऽनुवाके च पूर्णविस्फुटयोरपि ॥ २९ ॥ गाढं मनोहरे फाले दृढे मुख्ये च भेषजे । बतानुकम्पे प्रश्ने च खेदे मन्त्रे च विस्मये ॥ ३० ॥ सन्तोषे विमुखे भेदे गेहे जनपदेऽपि च । प्रति प्रतिनिधौ मुख्ये चाभिमुख्ये मनोहरे ॥ ३१ ॥ वीप्सायां लक्षणे भागे केदारे मोहनेऽपि च । प्रीतिदाने धारणे च व्यवहारविशेषयोः ॥ ३२ ॥ यथाभिमुख्यसादृश्ये योग्ये वीप्साप्रकारयोः । वृथा निरर्थके व्याधे बोधे माधवचित्रयोः ॥ ३३ ॥ नन्वु संज्ञे विलोले च पृच्छानुनयधारणे । व्यवहारे भाषणे चानुज्ञायां च विबोधने ॥ ३४ ॥ नाना बहुविकारे स्यात्साधारणसुदुष्ययोः । मनात्(क्) स्वल्पे च निन्दायां विहारे च परिच्छदे ॥ ३५ ॥ अनुमाने च पादाङ्के पालने मीलनेऽपि च । हीने सादृश्यमूलार्थपश्चादर्थादिकेऽपि च ॥ ३६ ॥ किं नु प्रश्ने वितर्के च विकारे विशदेऽपि च । सादृश्ये सरसे सारे साधारणविशेषयोः ॥ ३७ ॥ उपहीनेऽपि चारम्भेऽप्याचार्यकरणादिके । अन्तिके वायुचलनेऽप्याचारे च तिरोहिते ॥ ३८ ॥ अपि प्रश्ने च शङ्कायां पश्चाद्भागे विहायसि । गर्हणे कामने चापि चिन्तने च समुच्चये ॥ ३९ ॥ ;p{0133} अभि सर्वत्र संख्यायां समाप्तौ साधुभाषणे । साकल्ये च विकासे च सारस्ये च सदागतौ ॥ ४० ॥ सामि त्वर्धे जुगुप्सायां विचारे हरणेऽपि च । आन्दोलने गुरुद्रोहेऽप्यतिस्वच्छे च वस्तुनि ॥ ४१ ॥ नाम प्रकाश्ये कुत्सायां सामीप्ये च तिरोहिते । सम्भाव्येऽङ्गीकृतौ हानौ धिगर्थे मरणेऽपि च ॥ ४२ ॥ किमु स्पर्शे च शाखायां भावने च परिच्छदे । सम्भावनायां मोहे च विकल्पे चापि कथ्यते ॥ ४३ ॥ कामं प्रकामे प्रश्ने चानुनये च विचारणे । अये तु भाषणे हर्षे स्मरणे क्रोधपीडयोः ॥ ४४ ॥ हन्त हर्षे च सामान्ये विक्षेपेऽपि विषादने । वाक्यारम्भे दयायां च दाने त्यागे विहायसि ॥ ४५ ॥ इत्याश्चर्ये विषादे च समाप्तौ साधनेऽपि च । सन्तोषणे साधुवादे हेतौ विशदलोलयोः ॥ ४६ ॥ गर्हा विगर्हणे चित्ते वृत्तौ बोधे च निन्दिते । समुच्चये च शङ्कायां प्रश्नसम्भावनादिषु ॥ ४७ ॥ जोषं तु तूष्णीकारे स्यात्सुखे सुखितभावयोः । मोषं विच्छेदने रिक्ते मोहेष्वाश्चर्यलीलयोः ॥ ४८ ॥ मसं तु मलिने रावे कार्ये कालप्रवासयोः । अलं गु भूषणे पूर्णे तुष्टौ निश्चयकालयोः ॥ ४९ ॥ पर्याप्तिवारणे शक्तौ कार्याकार्यविचारणे । स्वः स्वर्गे च परे लोके समाहारे च साधने ॥ ५० ॥ किल माने च कुत्सायां वार्तासम्भाव्ययोरपि । खलु स्यान्नलये वाक्यालङ्कारेऽनुनयेऽपि च ॥ ५१ ॥ जिज्ञासायां च सामर्थ्ये निषेधे च तिरोहिते । पुरस्त्वग्रे प्रधाने च प्रथमे च कृतेऽखिले ॥ ५२ ॥ प्रध्वंसने च निन्दायां वारिदे च विदारणे । पुरौ निबन्धने मान्ये पूर्वकाले च पूरिते ॥ ५३ ॥ पूरकार्थेऽपि संमोहे पूज्यालस्यतलेषु च । एवं पूर्वोक्तसामान्यवक्ष्यमाणप्रकारके ॥ ५४ ॥ ;p{0134} प्रादुर्जन्मनि सामर्थ्ये चित्ताभोगेऽपि साधने । प्रकाशने प्रकारे च सम्भाषणविरावयोः ॥ ५५ ॥ तिरोगते विकारे च विषादेऽद्भुतहर्षयोः । अन्तर्धाने तिर्यगर्थे पीडामोहभयेषु च ॥ ५६ ॥ परिस्तु परितो रावे भावे दूषणभूषयोः । लक्षणे लिङ्गने त्यागे परितापे च रोचने ॥ ५७ ॥ आरात्तु कठिने दूरे परिहारे विशोधने । समीपे साधुभावे च सारस्ये च तिरोहिते ॥ ५८ ॥ वैशोधने परीक्षायां पारायणविरोधयोः । पठने पठितो भावे पादपूरणमोक्षयोः ॥ ५९ ॥ तु दूरे मलिने भावे कुटीरे कुक्कुटेऽपि च । स्म स्मिते चरिते सौम्येऽप्यङ्गीकारे च गोहृदि ॥ ६० ॥ दिवा सूर्यप्रभायां स्यादिड मासे च चन्द्रके । पृथग्विभावने भेदे भेदिते मौनचिन्तयोः ॥ ६१ ॥ कदाचिदर्थे जातु स्यादखिले परितापने । एकवारार्चितानन्दविमलेषु च कथ्यते ॥ ६२ ॥ साकं सहार्थे साकल्ये सञ्चारे चौलकर्मणि । भृशं तु चिन्ताकुलिते चिन्तने शैत्यपैत्ययोः ॥ ६३ ॥ प्रकर्षणे च प्रहरे प्रहर्षात्यर्थयोरपि । अहोऽप्याश्चर्यकरुणाविलम्बनविषादके ॥ ६४ ॥ तर्हि प्रश्ने चोत्तरार्धे विचारे च विषादने । मुहुस्तु पुनरर्थे स्यादाधरावे विलोडने ॥ ६५ ॥ साक्षात्तुल्ये च साकल्ये प्रत्यक्षे प्रकरेऽपि च । मङ्क्षु शीघ्रे च सिन्दूरे पिप्पलाञ्जविलोडने ॥ ६६ ॥ सत्रा सहार्थे सामर्थ्ये प्रवाहे च परिच्छदे । मायायां बोधने पक्षे फालाक्षमणिकुण्डले ॥ ६७ ॥ मुधाप्यर्थे च वैराग्ये ज्ञानेऽज्ञाने च शङ्करे । किञ्चित्त्वल्पार्थ आनाये पेलवे चेति केचन ॥ ६८ ॥ तूष्णीं मौने च बोधायां संज्ञायां साहसालयोः । सद्यस्तत्कालसामीप्यविहारविमलेषु च ॥ ६९ ॥ ;p{0135} दिष्ट्या दैवे दैवभावे सम्प्राप्तौ पूरणेऽपि च । मास्म हीने परित्यागे विरोधो विकलेऽपि च ॥ ७० ॥ यद्यङ्गीकारभावार्थरोहणारोहणेषु च । दुष्टु विप्रे च पतिते मूर्खे शुनकशेफसोः ॥ ७१ ॥ प्राक्पूर्वार्धे गतार्धे च प्राबल्यशलयोरपि । मरादपि स्यात्तरले सौम्ये सौख्येऽतिभेषके ॥ ७२ ॥ यदा तु जायमाने स्याद्यज्ञकर्मविरोधयोः । यत्तु नीचेऽति चाश्चर्ये परिचारणनिन्दयोः ॥ ७३ ॥ एवमन्ये तत्र तत्र प्रसिद्धा अपि केचन । ऊह्यास्तरङ्गभावार्थमेवं प्रोक्तं मयाधुना ॥ ७४ ॥ ;c{इति श्रीमत्समस्तशब्दान्तरङ्गविद्विचित्रभाषानाथभूषणभूपालाखिलसंसेव्यमानपादारविन्दजगद्विजयप्रभावविराजितजयभट्टकविराजविरचितेऽव्ययार्णवे प्रथमस्तरङ्गः ॥} ;k{द्वितीयः तरङ्गः} समा साधारणानुज्ञतीव्रत्वरितवाचकः । अञ्जसानुमताचार्ये पूरके प्रकटादिके ॥ ७५ ॥ प्रभावे चालने माने सुभावे भावलीलयोः । पुरतस्तु पुरार्थे स्यात्पूर्वार्धे विजयेऽपि च ॥ ७६ ॥ पूर्वतस्सर्वकार्ये स्यात्पूर्वीये प्रथमेऽपि च । अमाहेत्यद्भुते खेदे विषादे च तिरोहिते ॥ ७७ ॥ परितस्सर्वतस्तिर्यगा(ग)भिशस्तौ विलोडने । साकल्ये सर्वतोभद्रे सामान्याखिलयोरपि ॥ ७८ ॥ सर्वत्र सर्वतस्सर्वसाकल्याखिलवाचकौ । अन्तरं तारतम्ये स्यादालापे विग्रहेऽपि च ॥ ७९ ॥ अभितस्सर्वतश्चित्रे गोवृन्दे निखिलेऽपि च । तीरे प्रवाहे मूल्ये च व्यवसायस्वरूपयोः ॥ ८० ॥ अखिलं तु समस्ते स्यात्केदारादौ विभावसौ । दयारसे च दाक्षिण्ये निर्यासादौ च भाषणे ॥ ८१ ॥ समस्तं तत्त्वसारादौ सर्वतस्सङ्गतेऽपि च । संवादो सरसालापे --चाह्लादमेहयोः ॥ ८२ ॥ ;p{0136} पृष्ठतः पृष्ठभागे स्याच्चरमे पतिते मृते । कारादौ कठिने माषे मूषके कुटिलाक्षणि ॥ ८३ ॥ अभीक्ष्णमनिशे सूक्ष्मे तिर्यग्जन्तौ च भेषजे । मुहुरर्धे(र्थे) प्रकर्षे च प्रहर्षे च सृतावपि ॥ ८४ ॥ पुरस्तात्प्रथमे चो(चा)ग्रे चाग्रि दुर्वृत्तनिन्द्ययोः । पुरार्थे पूर्वभागे च पूर्वदेशेऽपि विश्वपि ॥ ८५ ॥ अन्तरं मध्यमे विघ्ने पापात्मनि कुलादिके । वासुदेवे सुरौ चापि तिन्त्रिणीरस इष्यते ॥ ८६ ॥ मालिन्ये परिभाषे च पीडने पापचिन्तने । मौर्ख्ये मोहेऽपवादे च नारके जाल्पकेऽपि च ॥ ८७ ॥ प्रसह्य तु बलात्कारे काठिन्ये मुसलायुधे । चण्डाले भ्रष्टकृत्ये च पिल्लके कालजेऽपि च ॥ ८८ ॥ साम्प्रतं प्रस्तुते साम्ये शश्वदर्थेऽपि कारणे । कौटिल्ये व्यवहारे च कौलपत्येऽपि कथ्यते ॥ ८९ ॥ यथार्थं तु यथान्याय्ये यथास्वे च यथायथे । यातार्थ्ये यावके लोके वन्दारौ पृथुलेऽपि च ॥ ९० ॥ विधुरे कठिने नित्ये चालिन्यां मूलसाधने । यथायोग्ये यथार्हे च यथाकल्पन इत्यपि ॥ ९१ ॥ प्रत्यये तु प्रकरणे प्रारम्भे योगभोगयोः । एकार्थे प्रतिघाते च पौले पूज्ये च भेषजे ॥ ९२ ॥ अवश्यं निश्चये विन्ने मोहने प्रत्यगात्मनि । तिर्यग्जन्तौ श्मेधसि च योनौ च मदिरागृहे ॥ ९३ ॥ अथकिं तु प्रश्नभेदे निराशे निर्गते हते । विचारे विस्मृते भागे जलजन्तौ विशोधने ॥ ९४ ॥ अन्योन्यं मानुषे मायाचिन्तासङ्कल्पकारणे । परस्परे च धारायां विचारे च परिच्छदे ॥ ९५ ॥ पूर्वेद्युः पूर्वदिवसे गते दिने च चन्दने(न्द्रके) । पातित्ये पतिते चापि मातापितृविघातने ॥ ९६ ॥ परेद्युः परवारे स्यात्परे च परमात्मनि । मृत्युञ्जये च विकटे विराधे मलिनायसोः ॥ ९७ ॥ ;p{0137} परश्वस्तु पराराधे पादार्हे च परेऽहनि । परश्वथे च पशुके विशाले दोषसम्भृते ॥ ९८ ॥ तदानीं तु तदा काले तत्काले तादृशेऽपि च । पौलपत्ये च पाषण्डे पाण्डित्येऽपि च पायसे ॥ ९९ ॥ इदानीं प्रस्तुते मूल्ये दधित्थे रामणीयके । हङ्कृतौ हास्यबीभत्सविहारासारपूर्तिषु ॥ १०० ॥ युगपत् पृथुले चैकदा सर्वाखिलबोधिषु । साकल्ये मलिने शीते श्वेते च मरुभूमिषु ॥ १०१ ॥ अधुना वर्तमानार्थे विचारशरदभ्रयोः । विहारे प्रकृते लीने प्रकृतार्थे विचारणे ॥ १०२ ॥ साम्प्रतं प्रस्तुते मूले ध्वनौ माहिष्यवासयोः । सरसे विरसे वीर्ये स्वभावे कल्पने चले ॥ १०३ ॥ अन्ततस्सरलार्थे स्यादधुनार्थे विशोधने । अधे युक्तार्थ आनायेऽखिले चैत्ये च पूलने ॥ १०४ ॥ उपांशु तु रहस्ये स्याद्विश्राणनविशालयोः । विलोकने च सामर्थ्ये विभावादिमनोज्ञयोः ॥ १०५ ॥ ;c{इति श्रीमत्समस्तशब्दान्तरङ्गविद्विचित्रभाषानाथभूषणभूपालाखिलसंसेव्यमानपादारविन्दजगद्विजयप्रभावविराजितजयभट्टकविराजविरचितेऽव्ययार्णवे द्वितीयस्तरङ्गः ॥} ;k{तृतीयः तरङ्गः} समन्ततस्सर्वतोऽर्थे स्वाभावेऽपि दलेऽपि च । सैन्यविन्यासभेदे स्यात्सामर्थ्ये लोकसंमते ॥ १०६ ॥ अन्तरेणेति शब्दस्तु साकल्ये शमलाम्भसोः । मध्ये च मरणे भेदे निन्दायां क्रुधि च प्रिये ॥ १०७ ॥ किल धानु मरुप्रायभूमीशान्तफलादिषु । शबकानं तु शाम्बर्यां शबले शाबरेऽपि च ॥ १०८ ॥ यथायथं यथान्याय्ये यथास्वं च यथोचिते । यथोचितं यथायोग्ये मुख्ये माङ्गल्यदम्भयोः ॥ १०९ ॥ यथातथं यथार्थे स्यादाचारे संमते मरौ । मरणे धर्मशास्त्रे च न्याय्ये मोक्षे प्रयोजने ॥ ११० ॥ ;p{0138} चिकित्सायां च शान्तौ च देवे दैव्ये च दारुणे । वैद्ये वारुणमन्त्रादौ वासिष्ठे वयसीकृते ॥ १११ ॥ यथान्याय्यं यथान्याये यथार्हे काममोक्षयोः । यथार्थे याजके राज्ञभ्रष्टौ क्षेमे च मारके ॥ ११२ ॥ अनन्तरं तु शेषार्थे चिकित्सायां विशोधने । वमने वारिजानन्दे वातापिश्चेल्वलोऽपि च ॥ ११३ ॥ परम्परा तु सान्तत्येऽप्यनूचारे चिदात्मनि । पारमार्थिकमानुष्यमोहदारकवारिषु ॥ ११४ ॥ उपर्युपरि चित्ताभोगे च पाषण्डभूभृतौ । सर्वो दुर्गे च सन्ताने सन्तापे विकृतावपि ॥ ११५ ॥ परीतकं महासत्त्वे पारमार्थिकशाल्ययोः । मौने मायाविकारादिपूजादिमलिनादिके ॥ ११६ ॥ वसधारं मनोज्ञे स्याद्विचित्रे वैद्यशास्त्रयोः । कान्तिचौर्यपरीणाममहारजतकाञ्चनम् ॥ ११७ ॥ चक्कडारं महासत्त्वे सौख्ये साध्ये च भूषणे । मालिन्ये च मनोज्ञे च विहाररणयोरपि ॥ ११८ ॥ मतिकरं महाशापे कोपे चापि च तादृशे । चिक्कणे चापि शार्दूले विलोले रणमूर्धनि ॥ ११९ ॥ साधकन्दं विहारे स्याद्भ्रष्टकृत्ये च वारिणि । चूडाकर्मणि चौले च सान्नाये च सदागतौ ॥ १२० ॥ चर्वीकृतं तु सापित्ये सार्वज्ञ्ये चर्मणि स्मृतम् । चर्मकारे क्वचिज्ज्ञेयं शारीरमलकिट्टयोः ॥ १२१ ॥ उञ्चवालं विशरणे परिजाते च पादपे । मत्स्याक्ष्यां मौसले चित्ते -- चाति क्वचित्स्मृतम् ॥ १२२ ॥ गढखट्टं विलोके स्यात्सान्तत्ये संवृतावपि । गामानयेति संज्ञायां गाने गङ्गासरिज्जले ॥ १२३ ॥ शतबाडं तु शाकुन्ते चातुर्ये शङ्करेऽप्यहौ । वाचालेऽपि च वाचाटे कुत्सिते पापचिन्तके ॥ १२४ ॥ ;c{इति श्रीमत्समस्तशब्दान्तरङ्गविद्विचित्रभाषानाथभूषणभूपालाखिलसंसेव्यमानपादारविन्दजगद्विजयप्रभावविराजितजयभट्टकविराजविरचितेऽव्ययार्णवे तृतीयस्तरङ्गः समाप्तः ॥}