अथ श्रीहर्षकृत द्विरूपादिकोशप्रारम्भः———-(उपयुक्तांशसङ्ग्रह्पुस्तकात्) श्लो ॥ तुषाराद्रिप्रतीकाशं तुलसीदामभूषणं । तुरङ्गममुखं वन्दे तुङ्गसारस्वतप्रदम् ॥ (१) उमारमणसुत्राम विरिंच्यादिसुरांचितं । समस्तविघ्नहन्तारमर्वाननमहं भजे ॥ (२) प्रबोधमाधातुमशाब्दिकानां कृपामवाप्तुं च सतां कवीनां । द्विरूपकोशो रचितो विचार्य बहुप्रबन्धस्थितशब्दभेदान् ॥ ॥ कृपामुपेत्यापि सतां कवीनां कृतो मया रूपमवाप्य शब्द ३ ॥ भेदप्रकाशोखिलवाङ्मयार्थः । ज्ञात्वा च पूर्वप्रचुरान्प्रयोगान् प्रामाणिकोदाहरणानि मत्वा । रूपादिभेदेष्वपि लक्षणेषु विचक्षणो निश्चिनुयात्सुशब्दान् ॥ (४) द्विलिङ्गताच्प्रत्ययहल्कृताम्भिदां सपञ्चकद्वित्रिचतुःप्रकारात् । भूमैकवाचित्वमपीह वाचां श्रीहर्षसूरिर्वितनोति कोशे ॥ ॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोत्र च । (क्वचिदर्थान्तरोल्लेखात्) क्वचिद्विभक्तिभेदैश्च शब्दानां रूढितः क्वचित् ॥ ५ ॥ ॥ एतत्कोशपदान्येव पौर्वापर्यविपर्ययात् । न्यस्तानि शीघ्रबोधार्थमकारादिक्रमादिह ॥ नानादेशसमानीतपुस्तकालोक ६ ॥ नादपि । सन्देहस्यानपगमाद्यथामातृकमङ्कितम् ॥ न तत्र मम दोषोस्ति तदन्विष्याखिलं पुनः । दोषज्ञैःपरिहर्तव्यो दोष इत्यर्थ्यते मुहुः ॥ द्विरूपपद्धतिर्यथा———द्विरूपकोशे अ,आ, एतदादिशब्दाः । भवेदन्धुस्तथाऽऽधुश्च स्यादहिस्त्वहिकोऽपि च । भवेदन्धं कबन्धञ्चाप्यहो आहो प्रकीर्तितः ॥ १ ॥ अरे चारेऽस्रमास्रं सात्यश्चान्तोऽश्रु चास्रुवत् । अर्द्रमार्द्रञ्चाभ्रमाभ्रमम्लश्चाम्लः प्रकीर्तितः ॥ २ ॥ अट्टश्चाट्टालकश्च स्या दळिराळिश्च कथ्यते । अवूपश्चैवपूपश्च स्यादप्पतिरपांपतिः ॥ ३ ॥ विद्यादगारमागारमपगामापगामपि । अरातिमारातिमथो गस्त्योगस्तिरेव च ॥ ४ ॥ भवेदमर्ष आमर्षोऽप्यळीकमळिकं तथा । अन्वयश्चान्ववायस्स्यादक्षतिश्चाक्षतं तथा ॥ ५ ॥ अध्युष्टं चाप्यध्युषितमभ्यूषोभ्युष एव च । अप्सरा अप्यप्सरस अगुरुश्चागरुस्तथा ॥ ६ ॥ अवाची स्यादपाचीचाप्यररं चाररी तथा । अवन्तिश्चाप्यवन्ती स्यादर्गळा चार्गळं तथा ॥ ७ ॥ भवेदश्रीलमश्लीलमञ्चलञ्चाञ्चलं समे । शुष्केऽप्यकालमाकालमन्तिकश्चान्तिकापि च ॥ ८ ॥ स्यादन्वितं तथान्वीतममिषं चामिषं तथा । अवनी चावनिः प्रोक्ताऽजगरोऽजगलो भवेत् ॥ ९ ॥ अवमानोऽपमानस्स्या दघमर्षोऽघमर्षणम् । अहङ्कारश्च हंकारोऽप्यवहेळावहेळना ॥ १० ॥ भवेदक्षौहिणी चम्वा मक्षौहिण्यपि गीयते । अकूपारश्च कूपारोऽटरुषश्चाटरूषवत् ॥ ११ ॥ अहं वीरश्च हं वीरोऽप्यवश्यायस्त्ववश्ययः । अनड्वाही चानडुही चापतीर्थं पतीर्थवत् ॥ १२ ॥ अपोगण्डस्तु पोगण्डोऽप्यपिधानं पिधानकं । अवतारश्चावतरोऽवहितं वहितं तथा ॥ १३ ॥ अन्तरिक्षं चान्तरीक्षमार्यश्चार्यः प्रकीर्तितः । आटिरात्रिर्भवेच्चाहि तुन्डिको य्पहितुण्डिकः ॥ १४ ॥ आशीराश्याजिराजी स्या दाळिश्चाळी च कथ्यते । आश्रिरश्रिर्निगदिता स्यादायस्त्वायुषा सह ॥ १५ ॥ आपश्चैवापसा तुल्याः स्यादाहतमनाहतं । आतिथ्यं चातिथेयं च स्यादावासस्त्ववासवत् ॥ १६ ॥ आवालमालवालं च स्यादालस्योलसोऽपि च । आलापस्स्या दालपनमाप्लावश्चाप्लवस्तथा ॥ १७ ॥ आमिक्षा स्यादमिक्षा चाप्यापान्यास्थानमित्यपि । अश्रयाशोऽप्याश्रयाशो भवेदान्वीषकी तथा ॥ १८ ॥ आ -इ-उ-ऋ-ए-ऐ-क आन्वीक्षकीसमाचारग्वधारागवधौ स्मृतौ । स्यातामाकारणाकाराविष्टमीष्टमपि स्मृतम् ॥ १८ ॥ इन्दिरास्यात्तथेन्दीरापीङ्गुदीचेङ्गुदोऽपि च । इषिका स्यादिषीका च स्यादीपेशा तथैव च ॥ १९ ॥ ईश्वरी चेश्वरा च स्या दुतमूतमपि स्मृतं । उक्थमुक्थ्यमपि प्रोक्तमुषाप्यूषा निगद्यते ॥ २० ॥ उल्मूकमुल्मुकं प्राहुरुषणं तूषणं तथा । उषरं स्यादूषरं च स्यादुदारोऽनुदारवत् ॥ २१ ॥ उत्तमोऽनुत्तमश्च स्या दुदग्रश्चानुदग्रवत् । भवेदुत्थानमुत्तानमुर्वशी चोर्वशी तथा ॥ २२ ॥ भवेदुल्लोच ऊल्लोच उन्नायश्चोन्नयस्तथा । उशीरोऽप्युशिरश्च स्यादुच्छ्रायोऽप्युच्छ्रयस्तथा ॥ २३ ॥ उन्दुरुश्चाप्युदीरुस्स्यादुदूखलमुलूखलं । ऊर्मिश्चोर्मी तथोरुस्स्यादूरू ऋश्यश्च ऋष्यवत् ॥ २४ ॥ ऋषिश्चापि ऋषी च स्या दृभूकऋभुकस्तथा । ऋश्यप्रोक्ता ऋष्यप्रोक्ता प्येधमाहुस्तधैधसा ॥ २५ ॥ ऐलबिलश्चैडबिड औशीरं चौशिरं तथा । कङ्गुः कङ्गूश्च कथिता कोषः कोशः कषा कशा ॥ २६ ॥ क्रिमिःकृमिस्तथा कर्षःकरिषस्स्यात्कुथःकुथा । भवेत्कक्ष्या च कक्षा च क्रोडाक्रोडं प्रकीर्तितम् ॥ २७ ॥ केळीकेळिरपि प्रोक्ता काषं काशं प्रचक्षते । भवेत्कुणिश्च कूणिश्च कारूः कारुरपि स्मृतः ॥ २८ ॥ भवेत्कलिश्च कलिका कुपःकूपः प्रकीर्तितः । क्लिष्टं क्लिशितमप्याहुः क्रीतं क्रीणं प्रकीर्तितम् ॥ २९ ॥ कहळी काहळी च स्यात्कुमुदं कुमुदोऽपि च । कवाटं च कपाटं च कुर्दनं खुर्दनं समम् ॥ ३० ॥ कलशःकलनश्चैव कृशरः कृसरोऽपि च । कर्मीणोऽपि च कर्मीरः कुबरः कूबरोऽपि च ॥ ३१ ॥ कुद्दाललश्च कुदालश्च करिण्यां कारिणीति च । कुशलं कुसलं चापि कोसलोत्तरकोसला ॥ ३२ ॥ कपोणिः कपणिश्चापि किलिञ्जश्च किलिञ्जकः । ककुदं ककुदप्याहुः कटकङ्कटकस्तथा ॥ ३३ ॥ कमलं कमलोवापि कर्षकःकृषकोऽपि च । कन्दळं कन्दळी च स्यात् कदळीकदळस्तथा ॥ ३४ ॥ कंखणश्चापि कंखाण कोंकाणश्चापि कोंकणः । किमीरोऽपि किम्मीरस्स्यात्काकणी काकणिस्तथा ॥ ३५ ॥ कन्धरा कन्धरश्च स्यात्करम्भश्च करम्भया । कुर्कुरः कुक्कुरोपि स्यात्कुसुमं सुममित्यपि ॥ ३६ ॥ कर्बुरश्चापि कर्बूरः करकः करकापि च । कराटश्च कराटिश्च किलिनी कीलिणी तथा ॥ ३७ ॥ कमनः कामनश्चापि केसरो नागकेसरः । करेटुः कर्करेटुश्च कोरकं कोरकोपिच ॥ ३८ ॥ कल्माषश्चापि कल्मासः किरीटं च किरीडवत् । किसरः केसरश्च स्यात्करटश्च कटस्तथा ॥ ३९ ॥ कृपटं च कृपीटं च करभोपि करम्भकः । कन्दरःकन्दरा च स्यात् कैकेयी केकयीति च ॥ ४० ॥ करवालः करपालः किकिदीविः किकीदिविः । कौलटेयः कौलटेरः कृष्णशारो भवेत्तथा ॥ ४१ ॥ कृष्णसारः कराटीन कलाटीनौ समौ स्मृतौ । कालनेमिः कालनेमा भवेत्कौमुदकी तथा ॥ ४२ ॥ कौमोदकी कान्यकुब्जं कन्याकुब्जमपि स्मृतं । खड्गं खड्गः खनी च स्यात्खनिः खेदश्च खेदनम् ॥ ४३ ॥ खरा स्यात्खलिका चापि खुरकः क्षुरकस्तथा । खलिनं च खलीनं च क्षुरप्रस्स्यात्क्षुरप्रकः ॥ ४४ ॥ खण्डपर्शुः खण्डपरशुः गुप्तं गोपायितं तथा । गूढं गूढो गुरुर्गुर्वी गृध्नुर्गर्धन इत्यपि ॥ ४५ ॥ गर्तो गर्तागिरागीश्च गृहाश्च गृहमुच्यते । गवी गौश्च ग्रसो ग्रासो गोदा गोदावरी तथा ॥ ४६ ॥ गन्धो गन्धाग्रहोग्राहः गुम्भो गुम्भनमुच्यते । गन्धर्वोपि च गान्धर्वो गाण्डीवं गाण्डिवं तथा ॥ ४७ ॥ गुग्गुलुर्ग्गुग्गुलोपि स्यात् गम्भीरं च गभीरवत् । गारुडो गरुडश्च स्यात् ग्रथितं ग्रन्धितं समे ॥ ४८ ॥ ग्रधनं ग्रन्धनं चापि भवेद्गोनास गोनसौ । गरळं गरमप्याहुर्गणना गणनं तथा ॥ ४९ ॥ गिरीशो गिरिशश्च स्यात् गीरितं गिळितं समे । गोधिका चापि गुधिका गीर्वाणो गीर्वणोऽपि च ॥ ५० ॥ गन्धवाहो गन्धवहो गण्डभेरुण्डवत्स्मृतः । भेरुण्डश्चाथ घटवद्घटी चापि प्रकीर्तिता ॥ ५१ ॥ घ्राणं घ्रातमपि प्रोक्तं घटी च घटिका तथा । घनो घनाघनश्चापि चञ्चुश्चुञ्चूः प्रकीर्तिता ॥ ५२ ॥ चोरश्चौरश्चटुश्चाटुः चोळश्चौळश्चमुश्चमूः । चेटिश्चेटीचरश्चारः चव्यं च चविकेत्यपि ॥ ५३ ॥ चितिश्चापि चिता चेष्टा चेष्टश्चूडा च चूडवत् । चण्डालोऽपि च चाण्डालश्चमसश्चामसस्तथा ॥ ५४ ॥ चरित्रं चरितञ्चापि चुलुकं चूलुकं तथा । चिन्तनी चिन्तनञ्चापि चमुरुश्च चमूरुवत् ॥ ५५ ॥ चेकुरः चिकुरश्चापि चपलं चापलं तथा । चटूकं चटुकं प्रोक्तं चञ्चलं चलमित्यपि ॥ ५६ ॥ पुटश्चिपुटिश्चस्स्यात् चातुर्यं चातुरीति च । चक्राङ्गी चापि वक्राङ्गी चतुरश्चातुरस्तथा ॥ ५७ ॥ चरणं चरणश्च स्याच्चिरत्नं च चिरन्तनं । चणसूत्रं भवेदेवं शणसूत्रमपि स्मृतम् ॥ ५८ ॥ छदश्च च्छदनं छन्नं छादितं स्याज्जराजराः । ज्येष्ठो ज्यैष्ठ्यो जपो जापो जोषा योषा जडं जलम् ॥ ५९ ॥ ज्योत्स्नी ज्योत्स्ना तथा प्रोक्ता जाया यायापि कीर्तिता । जिह्वा जिंहापि कथिता जृम्भा जृम्भणमित्यपि ॥ ६० ॥ जतुका स्याज्जतूकापि ज्योतिषं ज्यौतिषं तथा । जठरो जटरश्च स्यात् जटायुश्च जटायुषा ॥ ६१ ॥ जामातापि च यामाता जटीलो जटिलोपि च । जाम्बवान् जम्बवोऽपि स्यात् जम्बूको जम्बुकोऽपि च ॥ ६२ ॥ जीव सञ्जीवना चापि जरायुस्स्याज्जरायुषा । जयसंचजयश्चापि झर्झरो जर्जरस्तथा ॥ ६३ ॥ जतुकं च जतु प्रोक्तं जवनं च जवस्तथा । झल्लरीझल्लरिश्चापि डम्भो दम्भो ढुली डुली ॥ ६४ ॥ डिण्डीरो डिण्डिरोपि स्यात् ढक्की ढक्का च कथ्यते । तलस्तालः तृषा तृष्णा तालस्ताडस्तनुस्तनूः ॥ ६५ ॥ तोकं तोकस्त्वचात्वक्च तन्द्री तन्द्रा तुषस्तु सः । तप्तं च तपितं त्रातं त्राणं चापि तटी तटम् ॥ ६६ ॥ तिष्यस्त्रिष्यस्त्विषात्विट्च तारातारमपि स्मृतं । तपश्च तपसा प्रोक्ता तमश्च तमसा तथा ॥ ६७ ॥ तुंगं तु तुगमप्याहुः स्तेमस्तेमस्तटित्तडित् । तपिञ्छमपि तापिञ्छं तरुणी तलुनीति च ॥ ६८ ॥ त्रापुषं त्रापुषश्चस्स्यात् त्रिणता तृणतापि च । तारकं तारका चापि । त्र्यम्बकश्च त्रियम्बकः ॥ ६९ ॥ तमिस्रं च तमिस्रा स्यात् तिमिरं तमिरं तथा । तपनस्तापनोपि स्यात् तामसी तामसं तथा ॥ ७० ॥ तिमितं स्तिमितं चापि तिलिप्सस्स्यात् तिलित्सवत् । तरणिस्तरणी चापि तुवरस्तूवरोपि च ॥ ७१ ॥ तनूरुहं तनुरुहं तामलिप्ता भवेत्तथा । दामलिप्ता तैलपेजस्तिलपिंजोऽपि च स्मृतः ॥ ७२ ॥ दोर्दोषा द्यौर्दिवं प्रोक्तं द्वार्द्वारमपि कथ्यते । दृग्दृशा च तथा दूती दूतिर्दासश्च दाशवत् ॥ ७३ ॥ दान्तं च दमितं चापि दिष्टिर्दृष्टिरपि स्मृता । भवेद्दवश्च दावश्च । दोला डोला च कथ्यते ॥ ७४ ॥ स्याद्दारा चापि दाराश्च दूत्यं दौत्यमपि स्मृतं । द्रोणी दोणी च दासेरदासेयौ कथितौ समौ ॥ ७५ ॥ दम्पतीजम्पती चापि दूषणादूषणं तथा । द्युसदस्युर्दिविषदो द्रुहीणोद्रुहिणस्तथा ॥ ७६ ॥ दाडिमी दाडिमश्चापि दारिद्रश्च दरिद्रवत् । धूंक्षोध्वांक्षोधुतंधौतंधनीधनिक एव च ॥ ७७ ॥ धूम्रश्च धूमलश्चापि धृष्टोधृष्णुरपि स्मृतः । भवेद्धम्मिल्लधम्मेल्लौ धवित्रं स्याद्धवित्रकं ॥ ७८ ॥ धूपायितं धूपितं च नगश्च नगसा समः । नाभीनाभिर्निशानिट्च नृत्तं नृत्यं च कथ्यते ॥ ७९ ॥ नयश्च नयनं चापि नतं चानतमित्यपि । ननंदा च ननान्दा च निमेषो निमिषोपि च ॥ ८० ॥ नीलंगुरपि नीलांगुर्नारको नरकस्तथा । निशीतं निशितं चापि नटनं नाटनं तथा ॥ ८१ ॥ निलयश्चालयश्चापि निकृत्तिर्निकृतिस्तथा । नारंगमपि नार्यंगं नगरी नगरं तथा ॥ ८२ ॥ निचकी नैचकी च स्यात् निगदश्च निगादवत् । निरृतिर्नैरृतश्चापि निक्वाणो निक्वणस्तथा ॥ ८३ ॥ नेदिष्ठोऽपि च नेदीयान् निनदश्च निनादवत् । भवेन्नियंता यन्ता च निहाका निहकापि च ॥ ८४ ॥ नैवेद्यं च निवेद्यं च निकुंजः कुंज एव च । नडमीनो नलमीनो नारायणनरायणौ ॥ ८५ ॥ नीराजनं तथा नीरा जना च परिकीर्तिता । प्राग्र्यः प्राग्रसरश्चापि पंगुः पंगूश्च कथ्यते ॥ ८६ ॥ पृश्निश्च पृश्निपर्णी च प्रावृट्प्रावृषया सह । पशुश्च पर्शुका चापि प्लिहप्लीहागगदेपि च ॥ ८७ ॥ पुष्यः पौषस्तथा पूर्णं पूरितं च प्रकीर्तितं । पिष्टं च पिषितं प्रुष्टं प्लुष्टं चापि पविर्भविः ॥ ८८ ॥ प्रायश्च प्रायसा तुल्यः पर्घस्स्यात्त् परिघस्तथा । पुरश्च पुरतः प्रोक्तं पथः पंथाश्च कथ्यते ॥ ८९ ॥ भवेत्पांसुश्च पांशुश्च प्राणाः प्राणोऽपि स्मृतः । प्रत्नं प्रतनमप्याहुः प्रज्ञः प्राज्ञश्च गद्यते ॥ ९० ॥ प्रघाणः प्रघणश्चापि पतंगः पतगस्तथा । प्राचीनं प्राचीरमपि पालाशश्च पलाशवत् ॥ ९१ ॥ प्रियालस्स्यात् प्रियालश्च परेतः प्रेत उच्यते । पत्रंगमपि पत्राङ्गं परशस्स्पर्श एव च ॥ ९२ ॥ पूरुषः पूरुषश्चापि परशूःपरशुस्तथा । प्रततिर्व्रतति श्चापि प्रादेशोऽपि प्रदेशवत् । पिटकः पेटकश्चापि पललं पलमित्यपि ॥ ९३ ॥ पृथुलं पृथु चापि स्यात् प्रग्राहः प्रग्रहोऽपि च । स्यात्पलाण्डुः पलण्डु श्च प्रचेताश्च प्रचेतसः ॥ ९४ ॥ पल्यंकिका च पल्यंकः प्रक्वाणः प्रक्वणोऽपि च । प्रियाळू स्स्यात्त प्रियाळुश्च पाटली पाट्ला तथा ॥ ९५ ॥ पुळिन्दस्स्यात् पुळिन्दोऽपि पृषतः पृषदित्यपि । प्रत्यूषः प्रत्युषश्चापि परिखा परिघा समे ॥ ९६ ॥ पालना पालनं चापि पांसुला पांशुला तथा । भवेत्पतत्र पत्रं च पांडित्यं पाण्डिती तथा ॥ ९७ ॥ स्यात्पल्लवः पल्लविकः पुलकश्च पुलो भवेत् । पोतवाहः पोतवहः पुनर्वसु पुनर्वसु ॥ ९८ ॥ पारङ्गतं पारगत् पतद्ग्राहः पतद्ग्रहः । पराक्रमो विक्रमश्च प्रतीचीनं प्रतिंचनम् ॥ ९९ ॥ पारावतः पारवतः प्रतिश्रायः प्रतिश्रयः । प्रतिकारः प्रतीकारः पृषदश्वो भवेदपि ॥ १०० ॥ पृषदश्यः पुष्पवन्तौ पुष्पवद्भ्यां समौ स्मृतौ । परीसृता परिसृता भवेत्पाटच्चरस्तथा । पाटचारः परीरम्भः १०१ ॥ परिरम्भो निगद्यते । भवेत्प्रोष्ठपदाभाद्रपदा परिमळस्तथा । परीमळः परिवृतः परीवृत अपीरितः ॥ १०२ ॥ परिहासः परीहासःपारिप्लवपरिप्लवौ । प्रतिहारः प्रतीहारो भवेत्पारम्परी तथा ॥ १०३ ॥ पारम्पर्यमपि प्रोक्तं,फलं च फलितं मतं । फेला फेलिरपि प्रोक्ता फुल्लस्सम्फुल्ल इत्यपि ॥ १०४ ॥ भवेत्फालं च भालं च फलितं फालितं तथा । फेरवश्चापि फेरुश्च फल्गुनः फाल्गुनोऽपि च ॥ १०५ ॥ बुसोपिस्यात् बुषश्चापि बाहुर्बाहाबुको बकः । बुद्धं बुधितमप्याहुर्ब्रसी चापि ब्रषी तथा ॥ १०६ ॥ भवेद्ब्राह्मी ब्राह्मणी च बाणी बाणो बकोवकः । बोधी बोधिद्रुमश्चापि बर्ही बर्हण उच्यते ॥ १०७ ॥ बर्हिश्च बर्हिश्शुष्मा च विसंविसमितीरितं । ब्राह्मीको ब्राह्मिकश्चापि बन्धूरं बन्धुरं समम् ॥ १०८ ॥ बिम्बोष्ठं चापि बिम्बौष्ठं बन्धूकं बन्धुकं तथा । बिब्बोकं चापि बेब्बोकं बहुळं बहु चेत्यपि ॥ १०९ ॥ बलाका च वलाका च बिडौजाश्च बिडौजसः । बलारिश्च वलारिश्च बिडालश्च बिडारवत् ॥ ११० ॥ बान्धवं बन्धुमप्याहुः बलाहकवलाहकौ । बीजापूरो बीजपूरो भिन्नं भेदितमित्यपि ॥ १११ ॥ भूष्णुर्भविष्णुर्भूमिश्च भूमी च स्यात् भुजाभुजः । भीरुर्भीरूर्भरो भारः भाभा भूषा च भूषणा ॥ ११२ ॥ भृतिर्भृत्याभगोभागो भाषा भाषणमित्यपि । भाद्रभाद्रपदौ तुल्यौ भ्राणो भ्रूणः प्रकीर्तितः ॥ ११३ ॥ भगिनी भागिनी चापि भरता भारती तथा । भैषज्यं भेषजं चापि भूधरश्च धरोपि च ॥ ११४ ॥ भृङ्गारुश्चापि भृङ्गारो भर्त्सनं भर्त्सना तथा । भाण्डीरश्चापि भण्डीरो भवेद्भृङ्गरजस्तथा ॥ ११५ ॥ भृङ्गराजोपि कथितो मेथिर्मेथी महिर्मही । महश्च महसा प्रोक्तो मृष्टं म्लिष्टमपि स्मृतम् ॥ ११६ ॥ मणिर्मणी भवेन्माहो महश्च स्यात् मघोमखः । मुस्ता च मुस्तकं चापि मस्तो मस्तक इत्यपि ॥ ११७ ॥ मुनिश्च स्यान्मुनी चापि मृदुर्मृद्वी तथै व च । मसूरो मसुरश्च स्यात् मूसलं मुसलं तथा ॥ ११८ ॥ मद्गलो मुद्गलोपि स्यात् मद्गरो मुद्गरस्तथा । महिला च महेला च मन्दिरं मन्दिरापि च ॥ ११९ ॥ स्यान्मार्गितं च मृगितं मार्जनं च मृजा तथा । मृदुलं मृदु च प्रोक्तं मञ्जुलं मञ्जु चेत्यपि ॥ १२० ॥ मङ्गल्यमपि माङ्गल्यं मतल्लिश्च मतल्लिका । मकुरो मुकुरश्चापि मांसलो मंसलोपि च ॥ १२१ ॥ मिहीका मिहिका च स्यात् मिहिरो महिरस्तथा । मण्डूकश्चापि माण्डूको मकुळो मुकुळस्तथा ॥ १२२ ॥ मथुरा मधुरा चापि मन्थरो मन्दरस्तथा । मर्दळो मर्दळश्चैव मध्यमं मथ्यमित्युच्यते ॥ १२३ ॥ मृणळं च मृणाळी च मन्थनं मथनं समं । मंजरिर्मञ्जरी च स्यात् मघवा मघवांस्तथा ॥ १२४ ॥ मार्जालश्चापि मार्जारो मुषितं मुष्टमित्यपि । मंटपो मण्डपश्चापि मासारश्च मसारवत् ॥ १२५ ॥ मादनश्चापि मदनो मुकुंदः कुंद एव च । मलकश्चाप्यामलको मृद्वीका मृद्विकापि च ॥ १२६ ॥ मार्गशीर्षो मार्गशिरो भवेन्मातृष्वसा तथा । मातुस्स्वसा मत्तकेशी मत्तकाशिन्यपि स्मृता ॥ १२७ ॥ विद्यान्मृगशिरञ्चापि तथा मृगशिरोपि च । मणीचकं मणिचकं द्वयं कुसुमवाचकं ॥ १२८ ॥ मदावनं मदवनं प्रपूर्वं परिकीर्तितं । भवेद्युष्टं च युषितं । योत्रं योक्त्रमपीरितम् ॥ १२९ ॥ यमश्च यमळश्चापि यमो यामः प्रकीर्तितः । युक्तं युतमपि प्रोक्तं यौवनं यौवतं तथा ॥ १३० ॥ युवती युवतिश्चापि युतकं यौतकं तथा । योषितापि भवेद्योषित् योजनं योजना तथा ॥ १३१ ॥ यजनं याजनं विद्यात् यमुना जमुना तथा । यातीफलं जातिफलं यातुधानस्तथा स्मृतः ॥ १३२ ॥ जातुधानस्तथा रात्री रात्रिश्चापि निगद्यते । रोदश्च रोदनं चापि भवेद्रागोनुरागवत् ॥ १३३ ॥ भवेद्राजा च राट्चापि राजी राजिश्च कथ्यते । रेखा लेखा भवेद्रीढारुट्च तथा रुषा ॥ १३४ ॥ रिक्थमृक्थमपि प्राहुर्भवेतां रोमलोमनी । रुग्रुजे लोष्टलोष्ठू च रदश्च रदनो मतः ॥ १३५ ॥ रुचको रुचकश्चापि रजसापि रजस्समः । रजनी रजनिश्चापि रजतं रजितं तथा ॥ १३६ ॥ रोदस्यौ रोदसी चापि रोहितो लोहितस्तथा । रसना रशना चापि रचना रचनं तथा ॥ १३७ ॥ रिङ्गणं रिंखणं चापि रोहिणी कटुरोहिणी । रेखणी लेखिनी चापि रुषणं रूषणं समम् ॥ १३८ ॥ रोषिका रोशिका,रात्रिंचरो रात्रिचरस्स्मृतः । लज्जा कज्या तथा लक्ष्मिर्लक्ष्मी लक्ष्यं च लक्षवत् ॥ १३९ ॥ लक्षं सङ्ख्यार्थकं लक्षा लेख्यालेख्यमपि स्मृतं । लाजो लाजाश्च कथिताः लोप्त्रं लोत्रं च गीयते ॥ १४० ॥ लक्षणो लक्ष्मणश्चापि लकुचो लिकुचस्तथा । ललामं च ललामस्स्यात् लालनालालनं तथा ॥ १४१ ॥ लोहिनीका लोहितिका लांगलीषा तथैव च । लाङ्गलेशा च गदिता, व्याडो व्याळः प्रकीर्तितः ॥ १४२ ॥ वल्ली वल्लिर्वणिर्वाणी व्रीडा व्रीडमपि स्मृतं । वहो वहो वपिर्वापी वर्मी वर्मिक ईरितः ॥ १४३ ॥ वारो वालस्तथा वेशो वेषो वासा च वासकम् । भवेद्वृष्टिस्तथा विष्टिः वेत्रो वेत्रमपि स्मृतम् ॥ १४४ ॥ वीर्यं वीरायितं चापि विश्वा विष्वापि च स्मृता । वेश्या वेष्या च गदिता वंगाबंगः प्रकीर्तितः ॥ १४५ ॥ वज्रो वज्रमपि प्रोक्तं वीती वीतिश्च कथ्यते । वार्वारि चापि गदितं वारो वासर इत्यपि ॥ १४६ ॥ व्रतती व्रततिश्चापि विटङ्कश्च विडङ्गवत् । वैदेहिश्चापि वैदेही विपाशा च विपाट् तथा ॥ १४७ ॥ वाचालश्चापि वाचाटः वियामो वियमोपि च । विश्वसृड्विश्वसृक्च स्यात् वलभी वलभिस्तथा ॥ १४८ ॥ विफलश्चाफलश्चापि वस्नसाऽवस्नसा तथा । वास्तुकं चापि वास्तूकं वदान्योपि वदन्यवत् ॥ १४९ ॥ वालुका वालिका चापि बडिशो बलिशोपि च । वर्षाश्चापि भवेद्वर्षा विषुवं विषुवत्तथा ॥ १५० ॥ विश्रामो विश्रमश्चापि वातूलो वातुलस्तथा । विकलो विक्लबश्चापि विवश्यो विवशोपि च ॥ १५१ ॥ विवधो वीवधश्चापि विशाणं तु विषाणवत् । वासुरा वासुरीतिस्स्यात् वातको वातकीति च ॥ १५२ ॥ वारळा वरळा च स्यात् वरणो वरुणो मतः । वाल्मीकिश्चापि वाल्मीको वलटा वरटा तथा ॥ १५३ ॥ वल्मिकं चापि वल्मीकं व्यायामो व्याम उच्यते । विहारश्चापि वीहारो वहारश्चावहारवत् ॥ १५४ ॥ विद्धकर्णी विद्धपर्णी वावदूको वदस्तथा । विहायसो विहायश्च वामदेवोपि वामवत् ॥ १५५ ॥ वेणीखरा भवेद्वेणीगरावानीपकस्तथा । वनीपको वासुदेवो वासुश्चाथ विदारणम् । १५६ ॥ दारणं चापि कथितं, शापश्शपनमुच्यते । शंढष्षण्ढश्च गदितः शावस्सावोपि कीर्तितः ॥ १५७ ॥ भवेच्छान्तं च शमितं श्रमश्श्रामोपि कीर्तितः । शुष्कञ्च शुषितं चापि श्रान्तिं श्रान्तं प्रचक्षते ॥ १५८ ॥ शिखा च शिखरं शाटी शाटश्शम्भूश्च शम्भुवत् । शम्पासम्पाशितं शातं शल्कश्च शकलस्तथा ॥ १५९ ॥ शेलुश्शेलूर्भवेच्छोणा शोणी शूण्डं च शुण्डवत् । शंबं साम्बं शारसारौ भवेच्छोषश्च शोषणम् ॥ १६० ॥ शमीशमीरश्शम्बूकश्शम्बुकश्शरदा शरत् । शोण्डीरमपि शौण्डीरं श्यामाकश्श्यामकोपि च ॥ १६१ ॥ श्यामालश्श्यामलोपि स्या च्छ्वशुरस्स्वसुरस्तथा । शरारुश्चापि शारारुश्शबलं सबलं तथा ॥ १६२ ॥ शम्बरं सम्बरं चापि शष्कुलिश्शष्कुलोपि च । शतद्रुश्च शितद्रुश्च शाद्वलश्शाद्वलोपि च ॥ १६३ ॥ शालूरश्चापि सालूरः शकुनिश्शकुनस्तथा । शम्भळीशम्फळी चैव शाल्मली शाल्मलिर्भवेत् ॥ १६४ ॥ श्रवणं श्रावणं प्रोक्तं शबरश्शाबरस्तथा । ष्ठेपनंष्ठीपनं तुल्यं स्फटा चापि स्फटस्तथा ॥ १६५ ॥ सूचिस्सूचीस्रवस्स्रावः स्वनस्स्वानः स्रुतिस्सृतिः । सायं सायस्तथा सर्वश्शर्वस्सूनं प्रसूनवत् ॥ १६६ ॥ स्यालश्श्यालश्च कथितस्सूरश्शूरस्सखिस्सखा । सूरस्सूरीसालशालौ सर्पस्सार्पस्सहास्सहः ॥ १६७ ॥ सन्ध्या सन्धिस्सुखं सौख्यं स्पर्शःस्परिश इत्यपि । सुरा सुरीस्स्याच्च समस्समानस्स्तवनं स्तवः ॥ १६८ ॥ सिंहाणं चापि सिंघाणं सिन्दूरं सिन्दुरं मतं । सौदर्यस्सोदरश्च स्यात्सौहार्दं सौहृदं स्मृतम् ॥ १६९ ॥ समाख्याच समज्ञा च संकरस्साङ्करस्सङ्करस्तथा । संयामस्संयमश्चापि संहितं सहितं समे ॥ १७० ॥ सृणीका सृणिका चापि स्फटिकं स्फाटिकं तथा । सुत्रामापि च सूत्रामा सूकरश्शूकरोपि च ॥ १७१ ॥ सृगालश्च शृगालश्च साङ्कर्यं सङ्करोपि च । सततं सन्ततं चैव सेवनं सीवनं स्मृतम् ॥ १७२ ॥ स्तम्बघ्नस्तु स्तम्बघनः सवनं सावनं तथा । स्वयम्भूश्च स्वयम्भुश्च साहस्रं च सहस्रवत् ॥ १७३ ॥ सीमन्तमपि सीमन्तः साहित्यं साहिती तथा । सुमनास्स्यात्सुमनसः समीकं समिकं तथा ॥ १७४ ॥ सर्षपस्स्यात् सरिषपः सुधर्मा च सुधर्मणा । सत्राचरस्सहचरः सुवासिन्यां स्ववासिनी ॥ १७५ ॥ सुरापाणं सुरापानमथ सालावृकस्तथा । भवेच्छालावृकस्साम्परायस्स्यात्सम्परायवत् ॥ १७६ ॥ सुनासीरश्शुनासीरः स्यात्संवलनमित्यपि । तथा संवरणं प्रोक्तं हलं चापि हलस्तथा ॥ १७७ ॥ हहाहाहाहुहूर्हूहू हर्षोर्हरिष इत्यपि । हृष्टं च हृषितं चापि हेषाह्रेषाहनुर्हनूः ॥ १७८ ॥ हनूमान् हनुमांश्चापि हयनं हायनं मतं । हिण्डिरोपि च हिण्डीरः हविषा हविरुच्यते ॥ १७९ ॥ हारीतो हरितोपि स्यात् हिङ्गुलुश्चापि हिङ्गुलम् । हज्जलो हिज्जलोपि स्यात् ह्रीबेरं हरिबेरवत् ॥ १८० ॥ हलीषा च हलेशा च हञ्जीका हञ्जिकापि च । हरितश्च हरिच्चापि ह्रदिनी ह्रादिनीति च ॥ १८१ ॥ भवेत् क्ष्वेळस्तथा क्ष्वेडः क्षमःक्षामः प्रकीर्तितः । स्यात् क्षुत्क्षुतमपि प्रोक्तं क्षिरिका क्षीरिकापि च ॥ १८२ ॥ (इति द्विरूपपद्धतिस्समाप्ता) त्रिरूपकोशः अङ्कणं चाङ्गणं स्यादङ्गणा चापि कीर्तिता । अरतिश्चापि निरतिर्विरतिश्च समं त्रयम् ॥ १ ॥ अवतंसो वतंसस्स्यादुत्तंसः परिकीर्तितः । अलकं चालकःकेशैस्त्र्यलका श्रीदपत्तनम् ॥ २ ॥ अध्वनीनोऽप्यध्वगश्चाप्यध्वन्यश्च प्रकीर्तितः । भवेदाषाढ आशाढोप्यषाढक इति त्रयम् ॥ ३ ॥ आन्दोळिकास्यादंदोळोऽन्दोळिका च निगद्यते । उररीकृतमित्येतदूरीकृतमुरीकृतम् ॥ ४ ॥ (त्रिरूपकोशे क-ख-ग-च-ज-त-द-ध-प उदंस्यादुदकं चापि दकं च परिकीर्तितं । भवेदेडुकमेडूकमैडुकं न्यस्तकीकसम् ॥ ५ ॥ कटीरश्च कटी चापि कटिश्चापि निगद्यते । कबरःकबरिश्चापि कबरी चापि कथ्यते ॥ ६ ॥ कर्पटश्च पटश्चापि पटी चापि प्रकीर्तिता । काडम्बश्च कडम्बश्च कलम्बश्च प्रकीर्तिता ॥ ७ ॥ कुटीरश्च कुटी चापि कुटिश्चापि निगद्यते । केशपक्षः केशपाशः केशहस्तोऽपि च स्मृतः ॥ ८ ॥ कंचुळीकः कंचुळिकः कञ्चुलूकः प्रकीर्तितः । करजश्च करञ्जश्च करंजक इति स्मृतः ॥ ९ ॥ कविलं कपिलं चापि कापिलं च समं स्मृतम् । कुपरः कूपरश्चैव कूर्परश्चापि कीर्तितः ॥ १० ॥ खुरळी स्यात्खुरळिका खुरळश्च प्रकथ्यते । गौधारश्चापि गौधेरो गौधेय इति कथ्यते ॥ ११ ॥ गीर्पतिर्गीष्पतिश्च स्याद्गीःपतिः परिकीर्तितः । चन्द्रिका चन्दिमा चापि चान्द्रीति परिकीर्तिता ॥ १२ ॥ चिलिचीमश्चिलीचीमस्तथा चिलिचिमोऽपि च । जनुदघ्नः जानुमात्रं जानुद्वयसमित्यपि ॥ १३ ॥ तूणस्तूणी च तूणीरस्त्रयी च त्रितयं त्रयंम् । तुरगोपि तुरङ्गश्च तुरङ्गम इतीरितः ॥ १४ ॥ तादृशश्चापि तादृक्च तादृक्षश्चाप्युदाहृतः । त्रिफला तृफला चापि त्रिफलं चापि कीर्तितम् ॥ १५ ॥ द्वयी द्वयं च द्वितयं दिशा दिग्दिश इत्यपि । देवकी दैवकी चापि द्वैकी च परिकीर्तिता ॥ १६ ॥ दुरितं च दुरीतं च दुरीतिश्च निगद्यते । समा दुत्तूर धुत्तूर धूत्तूरा कितवे स्मृताः ॥ १७ ॥ धारुणिर्धारुणी चापि धरणी च प्रकीर्तिता । नवं नव्यं नवीनं च नसा नासा च नासिका ॥ १८ ॥ निडालं च निटालं च निटिलं च प्रचक्षते । निपातश्चापि पातश्च निपतः परिकीर्तितः ॥ १९ ॥ नारिकेळो नाळिकेरो नाडिकेरश्च कथ्यते । पूः पुरी च पुरं चापि पाण्डुः पाण्डुरपाण्डरौ ॥ २० ॥ पर्षश्च परिषच्चापि परीषच्चापि गद्यते । पृथिविः पृथिवी च स्यत् पृथ्वी च परिकीर्तिता ॥ २१ ॥ पादुका पादुकं पादूरिति संज्ञात्रयं स्मृतम् । पारदा पारदं चापि पारतं च प्रकथ्यते ॥ २२ ॥ प्लवगश्च प्लवङ्गश्च प्लवङ्गम इति स्मृतः । २३ ॥ (त्रिरूपकोशे प-भ-म-र-ल-व-श-स-ह ) . पल्यायणं पल्ययणं पल्याणं च निगद्यते ॥ परिवेषः परीवेषः परिवेशः प्रकीर्तितः । पुरोगमः पुरोगामी पुरोग इति कथ्यते ॥ २४ ॥ पराभवः परीभवः परीभावश्च कथ्यते । भ्रमश्चापि भ्रमिश्चापि भ्रमीति परिकीर्तिता ॥ २५ ॥ भीरुको भीलुको भीरुः भिदिरं भिदुरं भिदुः । भ्रकुंसश्च भ्रूकुंसश्च भ्रूकुंसश्चेति कथ्यते ॥ २६ ॥ भुजगश्च भुजङ्गश्च भुजङ्गम इति स्मृतः । भामिनी भामिनिश्चापि भामा च परिकीर्तिता ॥ २७ ॥ मन्थो मन्थाश्च मन्थानः मुन्मुदाप्रमुदास्समाः । मार्ताण्डश्च मृताण्डश्च मार्तण्डश्च प्रकीर्तितः ॥ २८ ॥ मधूळिका मधूळिश्च मधु चेति प्रकीर्तितम् । रती रतं च सुरतं रथिको रथिरो रथी ॥ २९ ॥ राक्षा लाक्षा च रक्षा च रभटी चार्भटी भटी । लपश्च लापनं चापि लापनश्च निगद्यते ॥ ३० ॥ वाग्वाचा च वचश्च स्यात् वृत्तिर्वार्तं च वृत्तवत् । भवेद्विघ्नं च विघ्नश्च विघ्ना परिनिगद्यते ॥ ३१ ॥ भवेद्वृद्धिश्च वृद्धी च वार्धी चेति निगद्यते । वलग्नं चावलग्नं च लग्नं च परिकीर्तितम् ॥ ३२ ॥ विरिंचिश्च विरिंचश्च विरिञ्चन इति स्मृतः । विहगश्च विहङ्गश्च विहङ्गम इतीरितः ॥ ३३ ॥ वळक्षश्च वळाक्षश्च बलक्षश्च प्रकीर्तितः । वृषभश्च वृषश्चापि ऋषभश्च प्रकीर्तितः ॥ ३४ ॥ वाणिज्यं च वणिज्यं च वणिज्या चापि कीर्तिता । शुण्डश्शुण्डा च शुण्डारश्शरदश्शारदश्शरत् ॥ ३५ ॥ शर्करास्याच्छर्करिल श्शार्करः परिकीर्तितः । शकुला शकुलश्चापि शकुली च प्रकीर्तितः ॥ ३६ ॥ शुभदन्ती शुभदती सुदती च प्रकीर्तिता । शूरकल्पश्शूरदेश्य श्शूरदेशीय इत्यपि ॥ ३७ ॥ सदृक्सदृक्षस्सदृशस्सुषीरं सुषिरं सुषिः । स्वप्नश्च स्वपनं च स्यात्स्वापश्चापि प्रकीर्तितः ॥ ३८ ॥ सलीलं सलिलं चापि सरिरं चापि कथ्यते । सिन्धुकस्सिन्धुवारश्च सिन्धुवारक इत्यपि ॥ ३९ ॥ स्फोरणं स्फोरणा स्फोरः संधासन्धानसन्धयः । भवेद्धर्म्यश्च हर्म्यञ्च तथा हर्मोऽपि च स्मृतः ॥ ४० ॥ (इति त्रिरूपपद्धतिस्समाप्ता) चतूरूपकोशः अथ चतूरूपकोशः श्रीहर्षकृतः——– चतूरूपे —अ-क-ग-च-ज-झ-त-द-ध-न-प-ब-भ अग्रमग्र्यं तथाग्रीयमग्रियं च प्रचक्षते । अङ्कूरमङ्कुरं च स्यादङ्कुरोङ्कूर इत्यपि ॥ १ ॥ अनूक्षणं नूक्षणं चाप्यनुक्षणमवक्षणम् । अच्छभल्लश्च भल्लश्च भल्लूकश्चापि भल्लुकः ॥ २ ॥ अवग्राहोऽवग्रहश्च वग्राहोवग्रहोपि च । कन्तुकं कन्दुकं चैव गन्दुकं गेन्दुकं तथा ॥ ३ ॥ कौतुकं कुतुकं च स्यात्कौतूहलकुतूहले । गुच्छोगुञ्छोगुळुच्छश्च गुळश्च परिकीर्तितः ॥ ४ ॥ गोशीर्षं गोशिरश्चैव गावं गोशीर्षिकापि च । चन्द्रमाश्चन्दिरश्चन्द्र-मसश्चन्द्रश्च कीर्तितः ॥ ५ ॥ चन्द्रभागा चान्द्रभागा चन्द्रभागी च सम्मता । चान्द्रभागी च सैवोक्ता भवेदेवं चतुर्विधम् ॥ ६ ॥ चिवरं चीवरं चीरी चवरः परिकथ्यते । जनिश्च जन्म जनुषी जननं चेति कथ्यते ॥ ७ ॥ जागरो जागरा जागर्या जागरणमित्यपि । जङ्घारिका जङ्घरिका जङ्घा जङ्घिक इत्यपि ॥ ८ ॥ जीवनीया तथा जीवा जीवन्ती जीवनीत्यपि । झारीझरीझरश्चापि झरिश्च परिकीर्तितः ॥ ९ ॥ तमश्च तमसं चापि तामसं च तमिस्समाः । तटाकस्तटकश्च स्यात्तडागस्तडगोपि च ॥ १० ॥ तुन्दी च तुन्दिलश्चापि तुन्दिरस्तुन्दिभस्समाः । द्रेक्कं द्रेक्काणदृक्काणौ भवेयुस्ते दृकाणवत् ॥ ११ ॥ दूषिकायां दूषिका च दूषीदूषश्च कथ्यते । द्रामिडो द्रमिडश्चापि द्रविडो द्राविडस्तथा ॥ १२ ॥ धनुर्धनुश्च धनुषो धनूश्चापि प्रकीर्तितः । नाळा नाळी च नाडी च नाळञ्च परिकीर्तितम् ॥ १३ ॥ निचोळश्चापि निचुळः चोळश्चोळी च कीर्तिता । नखरश्च नखश्च स्यान्नखरं च नखं तथा ॥ १४ ॥ निष्कूहो निष्कुहश्चापि निष्कूटो निष्कुटोपि च । नळिनी नळिनं चापि नळिका च नळं तथा ॥ १५ ॥ पनितं पणितं च स्यात्पनायितपणायिते । बाह्लीको बाह्लिकश्च स्याद्बाह्लीकमपि बाह्लिकम् ॥ १६ ॥ भावुकं भवुकं चापि भविकं भव्यमित्यपि । भ्रूकुटिर्भ्रुकुटिश्चापि भ्रुकुटी भ्रकुटिस्तथा ॥ १७ ॥ चतूरूपे——म-य-र-व-श-ष-ह———–यथा—- १८. मरुतश्च मरुच्चापि मरुत्वान्मारुतस्तथा । मकुटं मकुटी च स्यान्मुकुटी मुकुटस्तथा ॥ मसूरा मसुरा चापि मसूरी मसुरीति च । युगळी युगळं युग्मं युगं च परिकीर्तितम् ॥ १९ ॥ रोहिणी लोहिनी च स्याद्रोहिता लोहितापि च । विसृतं विस्तृतं चापि विततं ततमित्यपि ॥ २० ॥ विडूरजं च वैडूर्यं वैदूर्यं च विदूरजं । वाराणसी वारणसी वारणासी वराणसी ॥ २१ ॥ शललं शलली चैव शलं शैलं च लोमनि । शय्या च शयनीयञ्च शयनञ्च शयस्तथा ॥ २२ ॥ सरयूश्शरयूश्चापि सरयुश्शरयुस्तथा । हालाहलं हलहलं हलिहालं हलाहलम् ॥ २३ ॥ इति चतूरूपपद्धतिः समाप्ता—– पञ्चरूपपद्धतिः अथ पञ्चरूपपद्धतिः——– कण्डूयनं च कण्डूया कण्डूः कण्डूति कण्डुती । किसालयं किसलयं किसालं किसलं किसम् ॥ १ ॥ कुवालयं कुवलयं कुवालं कुवलं कुवम् । धनिर्धन्याकधान्याके धान्यं धान्येयकं तथा ॥ २ ॥ पत्रा पत्री पत्रिका च पत्रकं पत्रमुच्यते । मारुषो मरुषो मर्षो मारुषं मरुषं तथा ॥ ३ ॥ लोलुपो लोलुभो लोलो लम्पटो लालसोपि च । शेषश्शेषं च शिष्टञ्च शेषितश्चैव शेषिकः ॥ ४ ॥ शिवालं शैवलं शैवालं च शैवालशैवलौ । हसश्च हासिका हासो हसनं हास्यमित्यपि ॥ ५ ॥ इति पञ्चरूपपद्धतिस्समाप्ता । इत्थं सत्कविराजराजिमकुटालङ्कारहीरायित श्रीहीरात्मभवेन नैषधमहाकाव्योज्ज्वलत्कीर्तिना । उद्वृत्तप्रतिवादिमस्तकतटीविन्यस्तवामाङ्घ्रिणा श्रीहर्षेण कृतं चिरं विजयतां श्रीकोशरत्नं महत् ॥ (कोशश्चायं समाप्तः) श्रीहर्षसूरीरितनैकरूपकोशामरद्रुः कविलालनीयः । जागर्ति यस्यैष मनस्यमुष्यशब्दप्रयोगादिरनर्गळस्स्यात्