;METADATA ;title{द्विरूपकोष} ;author{पुरुषोत्तमदेव} ;bookFullName{श्रीमदमरसिंहविरचितं नामलिङ्गानुशासनम् अमरकोषः अनेकार्थध्वनिमञ्जरीद्विरूपकोषैकाक्षरकोषैश्च समुपबृंहितः रत्नप्रभाऽऽख्यसंस्कृतव्याख्यया हिन्दीटिप्पण्यादिभिश्च विभूषितः} ;bookSeriesDetails{चौखम्बा सुरभारती ग्रन्थमाला} ;editor{Dr. Brahmananda Tripathi} ;editorQualifications{साहित्यायुर्वेदाचार्यः, M.A., Ph.D, D.Sc.A.Y.} ;publisher{चौखम्बा सुरभारती प्रकाशन, के ३७/११७, गोपालमन्दिर लेन, पोस्ट बाक्स नं० १२९, वाराणसी - २२१००१} ;pressDetails{श्रीजी मुद्रणालय, वाराणसी} ;publicationYear{1982 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{DKPD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri Kailasasagarasuri Gyanmandir for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{none} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{07 January 2020} ;version0.0.2{07 January 2020} ;version0.0.3{07 January 2020} ;version0.0.4{07 January 2020} ;version0.1.0{07 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0271} ;c{श्रीपुरुषोत्तमदेवविरचितः द्विरूपकोषः} भवेदाषाढ आशाढो विषुवद् विषुवं तथा । मातुःष्वसा मातुःस्वसा कशायां कथितं कषा ॥ १ ॥ शम्बरं संवरं प्रोक्तं कुशलं कुसलं तथा । वासरो वाशरोऽपि स्याद् वशिष्ठोऽपि वसिष्ठकः ॥ २ ॥ मुषलो मुसलः प्रोक्तः शूकरः सूकरोऽपि च । सृगालोऽपि शृगालः स्याच्छारः सारोऽपि सम्मतः ॥ ३ ॥ कोशः कोषोऽश्रु कथितमस्रु चापि सतां मतम् । शण्डः षण्डस्तथाख्यातः सण्डोऽपि त्रिविधो मतः ॥ ४ ॥ शूरः सूरोऽपि चादित्ये विष्वग्विश्वक्स्मृतं बुधैः । किसलयं किशलयं वसूकं वसुकं तथा ॥ ५ ॥ आलौ स्यादालिरप्येवं बाह्लीको बाह्लिको मतः । गाण्डीवं गाण्डिवं प्रोक्तं पाण्डुरः पाण्डरस्तथा ॥ ६ ॥ पारावतः पारवतः कवाटं च कपाटकम् । अन्त्यश्चान्तः सुखं सौख्यं नखं च नखरं स्मृतम् ॥ ७ ॥ वाल्मीको वाल्मिकश्चैव बालुका बालिका तथा । मथुरा मधुरा प्रोक्ता कफोणिः कफणिस्तथा ॥ ।८ ॥ द्वार्द्वारमपि च प्रोक्तं सरिषपस्तु सर्षपः । धूस्तूरी धूस्तुरः प्रोक्तस्त्वन्तिकाप्यत्तिका तथा ॥ ९ ॥ जमदग्निर्जामदग्निः करञ्जश्च कलिञ्जकः । प्रतिकारः प्रतीकारो विहारादेर्द्विरूपता ॥ १० ॥ रजन्यवनिभूम्यादेर्द्वैरूप्यमपि दृश्यते । अपोगण्डस्तु पोगण्डोऽप्यपिधानं पिधानकम् ॥ ११ ॥ अवतंसो वतंसश्च वहितोऽवहितस्तथा । अर्य आर्यस्तथा प्रोक्तः खुरप्रश्च क्षुरप्रकः ॥ १२ ॥ जामातापि च यामाता जाया याया प्रकीर्तिता । योषा जोषापि च ख्याता स्ववाशिन्यां सुवासिनी ॥ १३ ॥ कङ्गुः कङ्गूर्यवागुश्च यवागूरप्युदाहृता । सुत्रामापि च सुत्त्रामा किङ्किणी किङ्कणी तथा ॥ १४ ॥ ;p{0272} जातीफलं जातिफलं पष्ठीमधु मतं तथा । तनुस्तनूर्हनुश्चैव पर्षच्च परिषत्तथा ॥ १५ ॥ अभ्रमब्भ्रमपि ख्यातं खानित्रं च खनित्रकम् । धान्याकमपि धन्याकं खड्गी खड्गो द्विधा मतः ॥ १६ ॥ विरिञ्चिश्च विरञ्चोऽपि परशुः पर्शुरेव च । पृषतः पृषदुद्दिष्टो वेश्या विष्यापि कीर्तिता ॥ १७ ॥ सुरापाणां सुरापानं भुजङ्गो भुजगो मतः । तुरङ्गस्तुरगश्चैव कबन्धं च कमन्धकम् ॥ १८ ॥ अग्रमग्र्यामपि ख्यातं शारिः सारोऽपि कथ्यते । बन्धूरं बन्धुरं चापि कन्दरं कन्दमित्यपि ॥ १९ ॥ उध्मानमपि चोद्धानमायुश्चायुरपि स्मृतम् । जम्बीरोऽपि च जम्भीरो वरुणो वारणोऽपि च ॥ २० ॥ रात्रिञ्चरो रात्रिचरः सततं सन्ततं तथा । जिह्वा जिह्वश्च कथितो जिह्वलो येन गीयते ॥ २१ ॥ रिक्थमृक्थमिति प्रोक्तं रिष्टिरृष्टिश्च सम्मतः । विश्रामो विश्रमो वापि पूरुषः पुरुषस्तथा ॥ २२ ॥ उदकं च दकं चैव कटः कटिकटीरकौ । लज्जा लज्ज्या पुनः प्रोक्ता प्रततिर्व्रततिस्तथा ॥ २३ ॥ नृत्यं नृत्तं च कथितं शय्यायां कथ्यते शयः । फलितं फालितं चैव विद्वद्भिः परिकीर्तितम् ॥ २४ ॥ गम्भीरं च गभीरं स्यात् प्रक्वाणः प्रक्वणस्तथा । प्रादेशोऽपि प्रदेशः स्यात् करजोऽपि करञ्जकः ॥ २५ ॥ लकुचो लिकुचो वापि ख्याताविज्जलहिज्जलौ । अगस्तिः स्यादगस्त्योऽपि यमश्च यमजो मतः ॥ २६ ॥ वातूलो वातुलः प्रोक्तो वृत्तश्च वर्तुलस्तथा । कटकं कण्टकं चापि तथापूर्वैश्च दृश्यते ॥ २७ ॥ कुटीरकुटिरौ ख्यातौ ननन्दा च ननान्दिका । आमिक्षायाममिक्षा स्याज्जटिलो जटुलस्तथा ॥ २८ ॥ मासि ज्येष्ठे तथा ज्येष्ठः पौषे पुष्योऽपि सम्मतः । अस्थिवानस्थिवानेव वाग्वाचा दिग्दशादयः ॥ २९ ॥ अमिषं चमिषं चाटुस्तिमस्तिमिरिव स्मृतः । चेडी चेटी च कथिता रजः ख्यातं रजं मतम् ॥ ३० ॥ ;p{0273} मह एव महः प्राहुश्चिन्तनं चिन्तना तथा । नारिकेलादिषु द्वैधमाह केलादिवर्जनम् ॥ ३१ ॥ डिम्भो डिम्भश्च विख्यातः कुवरः कुवरो मतः । अर्द्रमार्द्रं धुतं धौतं निशातं निशितं तथा ॥ ३२ ॥ घ्राणं घ्रातं पुनः प्रोक्तं गूढं गुप्तं सतां मतम् । ह्रीणं ह्रीतं च विख्यातं घुष्टं च घुषितं तथा ॥ ३३ ॥ दान्तं दमितं शान्तं शमितं घूर्णघूर्णिते । जप्तं च जपितं चैव क्लिष्टं क्लेशितमेव च ॥ ३४ ॥ तुष्टं च तुषितं विद्धं वेधितं विन्नवित्तके । ऊतं स्यूतमुतं चैव भिन्नं भेदितमेव च ॥ ३५ ॥ दितं दातं च दत्तं स्याद्धूपितं धुपितं तथा । धूपायितं च मृगितं मार्गितं पूर्णपूरिते ॥ ३६ ॥ अन्वेषितं तथान्विष्टं त्राणं त्रातं च सम्मतम् । गुप्तं गोपायितं चैव बुद्धं च बुधितं तथा ॥ ३७ ॥ पणायितं च पणितं पनितं च पनायितम् । छन्नं च छादितं चैव प्रुष्टं प्लुष्टं स्मृतं बुधैः ॥ ३८ ॥ तीर्थं तिर्थमर्घमर्घ्यं पर्व स्यात्पर्वणी तथा । गुग्गुलुर्गुग्गुलुः प्रोक्तः किकिदीविः किकीदिविः ॥ ३९ ॥ जीवं जीवो जीवजीवस्तडागस्तडगस्तथा । यती ख्यातो यतिश्च स्यादन्तरीक्षान्तरिक्षके ॥ ४० ॥ सन्निहितः सन्निहित्यां कोलः कीलापि कीर्तितः । अकुलोप्याकुलः ख्यातः पूपोऽपूपश्च सम्मतः ॥ ४१ ॥ अपपूर्वा मर्षणा च भण्यते चावमर्षणम् । अपमानोऽवमानश्च बिम्बोष्ठेऽपि द्विरूपता ॥ ४२ ॥ मृद्वङ्गापि च मृद्वङ्गी नेत्रानेत्र्यादिके तथा । मज्जा ख्यातः स्मृता मज्जा झान्तापि च विचक्षणैः ॥ ४३ ॥ स्फटा फटा च चण्डारश्चण्डालश्च प्रकीर्तितः । काव्येषु गीयते हर्षो हरिषोऽपि च कीर्त्यते ॥ ४४ ॥ मेधिमेधा शरव्ये च लक्षं लक्ष्यमुदाहृतम् । सङ्ख्या लक्षा च लक्ष्यं च करभोऽपि करम्भकः ॥ ४५ ॥ ;p{0274} मृदुर्मृद्वी गुरुर्गुर्वी तृप्ता तर्प्ता च सम्मता । म्रष्टा मृष्टा मतं तद्वत् रञ्जनं रजनं तथा ॥ ४६ ॥ नतिर्नत्यां गतिर्गत्यां भूतिर्भूत्यादिकं तथा । ख्यातौ निमेषनिमिषौ स्मृतौ भीरुकभीलुकौ ॥ ४७ ॥ उषा स्यादुषसा तद्वत्सेवनं सीवनं मतम् । तन्त्री च तन्त्रिका प्रोक्ता मृजा स्यान्मार्जनी तथा ॥ ४८ ॥ सन्ध्या सन्धा प्रतिज्ञाता भारता भरता नटाः । स्मृतौ दासेरदासेयौ पिटकः पेटकस्तथा ॥ ४९ ॥ परिस्रुता परिश्रुतः स्यादालस्योदलसोऽपि च । कमलः कामलो वापि गृध्नुर्गर्धन इत्यपि ॥ ५० ॥ भूष्णुर्भूविष्णुः क्षमिता क्षन्ता चिकणचिक्कणौ । नवं नव्यं च मृदुलं मृदु स्याद्बहुलं बहु ॥ ५१ ॥ पृथुलं पृथु विख्यातं मञ्जुलं मञ्जु चेष्यते । प्रागल्भ्यं कीर्त्यते यत्र प्रागल्भी तत्र कीर्तिता ॥ ५२ ॥ लाडनं लडनं चैव त्रिटिस्तुटिरपि स्मृता । वश्यो वशोभिकोऽभीको लुपो लोलुपलोलुभौ ॥ ५३ ॥ धृष्णुधृष्टकौ विशालं विशलं स्मर्यते बुधैः । बाहुबाहोऽर्तिरातिः स्यादूरीकृतमुरीकृतम् ॥ ५४ ॥ बह्वाम्पि पठ्यते कैश्चित्तथा बह्वम्पि चैव हि । बह्वपानि तथा भट्टिस्त्रितयं तेन सिद्ध्यति ॥ ५५ ॥ स्फूरणं स्फुरणं ख्यातिः प्रथा सापि च कथ्यते । स्तम्बघनस्तु स्तम्बघ्नो मासिश्चापि मसी स्मृता ॥ ५६ ॥ कालनेमिः कालनेमी दैत्यनाम द्विधा मतम् । कुम्भी चापि तथा कुम्भा भण्यते शब्दशासने ॥ ५७ ॥ ख्याते माङ्गल्यमाङ्गल्ये विवधो वीवधो मतः । भृङ्गरिटिर्भूरीटिः स्यात् स्तवस्तापोऽपि गीयते ॥ ५८ ॥ भृकूटं भृक्कटं प्राहुर्मन्दारो मन्दरोऽपि सः । फलं च फलनं ख्यातं नसा नासा च कीर्त्यते ॥ ५९ ॥ कृषकः कर्षको दृष्टः खलीनं खालिनं तथा । मणी इव मणीव स्याद् रोदसी रोदसा अपि ॥ ६० ॥ ;p{0275} दम्पती इव शब्देन संहतौ तेषु पक्षकः । प्रग्राहः प्रग्रहो दृष्टः पारिप्लवपरिप्लवौ ॥ ६१ ॥ उच्छ्राय उच्छ्रयः प्रोक्तो धारणं धरणं तथा । त्रिखट्वी च त्रिखट्वं च स्यादुलूखलमुदूखलम् ॥ ६२ ॥ क्षमा भूमिः क्षमा तुल्या तूली तूला मतं सताम् । मसुरोऽपि मसूरस्तु सरुः सद्योऽपि दृश्यते ॥ ६३ ॥ कापुरुषः कुपुरुषो वाचिका वाचकः क्रिया । विहङ्गमेति कथिता तथा ख्याता विहङ्गिका ॥ ६४ ॥ आपःशब्दो सकारान्तो दृश्यते शब्दशासने । चारभटश्चारुभटः खाल्विटो खल्विटो मतः ॥ ६५ ॥ खल्लीटं च तथा दृष्टं हाञ्जिरुक्ता च हाञ्जिकम् । कोटितण्डुलशब्दौ च दृष्टौ पुंक्लीबयोः पुनः ॥ ६६ ॥ कतमकतरौ प्रोक्तौ दृष्टौ भिक्षुकभिक्षकौ । कर्कटी कर्कुटी नान्ता इकारान्ता च केचन ॥ ६७ ॥ लाबूरलाबूरिर्वारुरुर्वारुश्च मतं सताम् । आननश्चाननं चैव आमेषी चाम्रपेषिका ॥ ६८ ॥ शालिश्चैव तथा शाली कलम्बुश्च कलम्बिका । नीलिका चैव नीली च कर्करुः पुंसि च स्त्रियाम् ॥ ६९ ॥ पोतिका पोतका ख्याता स्मृतौ वास्तूकवास्तुकौ । भृङ्गराजौ भृङ्गरजः समौ दाडिमदाणिमौ ॥ ७० ॥ गुत्सको गुच्छको वापि तथा चोत्सुकचोतकौ । शाटिः शाटी च विख्याता मटो मयट एव च ॥ ७१ ॥ समौ दात्यूहदात्योहौ पटवासः पटवसः । अवसत्थ आवसत्थ तद् रङ्गाद् रङ्गकौ समौ ॥ ७२ ॥ शूकपिटः शूकपटः खटकिक्कः खटक्किकम् । ख्यातौ पर्ण्याटपर्णाटौ प्रघाणः प्रघणेऽपि च ॥ ७३ ॥ भ्रुकुटिभ्रकुटौ प्रोक्तौ कलिः स्त्रीपुंसमर्थिता । क्रौञ्चापि च पुनः क्रौञ्चस्तथा च प्रतिपद्यते ॥ ७४ ॥ हलन्तो गीयते कैश्चिदजन्तोऽयं च गीयते । दुर्लभो प्रथितो लोके बीजधातुप्रमाणतः ॥ ७५ ॥ ;c{॥ इति श्रीपुरुषोत्तमदेवविरचितो द्विरूपकोषः समाप्तः ॥}