;METADATA ;title{एकादिसंख्यासंज्ञाकोष} ;author{अज्ञात} ;bookFullName{एकाक्षरकोषसंग्रहः} ;bookSeriesDetails{} ;editor{Editor of 1 to 26 koshas - Pannyas Ramnikvijay, Reeditor - Muni Rajsundarvijay} ;editorQualifications{} ;publisher{श्रुतज्ञान संस्कारपीठ, वासणवाळा कम्पाउण्ड, विश्वनंदिकर जैन देरासर के सामने, भगवान नगर का टेकरा, अरुण सोसायटी के पास, पालडी, अहमदाबाद-७, चंपकभाई: मो. 9436010323, निरंजन शाह: मो.9825860488, Website - www.rajparivarindia.com, Email - shrutgnan@yahoo.com} ;pressDetails{जय जिनेन्द्र ग्राफिक्स (नितीन शाह - जय जिनेन्द्र), ३०, स्वाती सोसायटी, सेंट झेवियर्स स्कूल रोड, नवरंगपुरा, अहमदाबाद. जय जिनेन्द्र: मो. 9825024204, कुश: मो. 9925617992} ;publicationYear{2019 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{ESSK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Muni Rajsundarvijay ji for allowing us to digitize the texts. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{There are two versions of this work in this volume. The present work is the one which is published from page 196 onwards in appendix.} ;nymic{syno} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{12 April 2020} ;version0.0.2{25 May 2020} ;version0.0.3{25 May 2020} ;version0.0.4{25 May 2020} ;version0.1.0{25 May 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0200} ;c{[२] एकादिसंख्यासंज्ञाकोषः} ;k{एकसंख्यावाचकाः शब्दाः} ;c{१. एकसंख्यावाचकाः शब्दाः-} आदित्य-मेरु-चन्द्र-प्रासादा दीप-दण्ड-कलशाश्च । खड्ग-हरनेत्र-शेष-स्वर्दण्डा-ङ्गुष्ठ-हस्तिकराः ॥ १ ॥ नासावंश-विनायकदन्त-पताका मनांसि शक्रश्च । अद्वैतवदेकैका एवामी सुकविभिर्वर्ण्याः ॥ २ ॥ ;k{द्विसंख्यावाचकाः शब्दाः} ;c{२. द्विसंख्यावाचकाः शब्दाः-} भुज-दृष्टि-पाद-कर्ण-स्तनसंख्या रामलक्ष्मणौ शृङ्गम्‌ । गजदन्तौ प्रीति-रती गङ्गागौर्यौ विनायकस्कन्दौ ॥ ३ ॥ पक्ष-नदीतट-रथधुर्य-खड्गधाराश्च भरतशत्रुघ्नौ । रामसुतौ रविचन्द्रावित्येते द्वन्द्वगा वाच्याः ॥ ४ ॥ ;k{त्रिसंख्यावाचकाः शब्दाः} ;c{३. त्रिसंख्यावाचकाः शब्दाः-} भुवन-वलि-वह्नि-विद्या-सन्ध्या-गजजाति-शम्भुनेत्राणि । त्रिशिरोमौलि-दशा-क्षेत्रपाल-फण-काल-मुनि-दण्डाः ॥ ५ ॥ त्रिफला त्रिशूल-पुरुषाः पलाशदल-कालिदासकाव्यानि । वेदावस्था कम्बु-ग्रीवारेखा त्रिकूटकूटानि ॥ ६ ॥ हरहतपुर-त्रियामायामा यज्ञोपवीतसूत्राणि । जैन(?ने)रत्न-च्छत्र-प्रदक्षिणा-गुप्ति-शल्यानि ॥ ७ ॥ मुद्रा-प्रमाण-गौरव-शिवभवमार्गाः शुभेतरा लेश्याः । सर्वेऽप्यमी त्रिसंख्योपेताः काव्ये निबद्धव्याः ॥ ८ ॥ ;k{चतुःसंख्यावाचकाः शब्दाः-} ;c{४. चतुःसंख्यावाचकाः शब्दाः-} ब्रह्ममुख-वेद-हरिभुज-सुरगजरद-वर्ण-चतुरिकास्तम्भाः । सङ्घ-समुद्राशमघात(?)-गोस्तना-ऽऽश्रम-कषाय-दिशः ॥ ९ ॥ गजजाति-याम-सेनाङ्ग-दण्डहस्ता महाजने वणिजः । दशरथपुत्रोपाय-ध्यान-कथा-ऽभिनय-रीति-गोचरणाः ॥ १० ॥ माला-स्तबक-कराङ्गुलि-संज्ञा-सुरभेद-योजनक्रोशाः । एते सलोकपालाः काव्ये योज्याश्चतुःसङ्ख्याः ॥ ११ ॥ ;k{पञ्चसंख्यावाचकाः शब्दाः} ;c{५. पञ्चसंख्यावाचकाः शब्दाः-} स्मरबाण-पाण्डवेन्द्रिय-कराङ्गुली-शम्भुमुख-महायज्ञाः । विषय-व्या(क)रणाङ्ग-व्रत-वह्नि-सुपार्श्वफणिफला(णा)- श्चैव ॥ १२ ॥ परमेष्ठि-महाकाव्य-स्थानक-तनुवात-मृगशिरश्च तथा । पञ्चकुल-महाभूत-प्रणाम-पञ्चोत्तरविमानाः ॥ १३ ॥ महाव्रत-मरुद्वृक्ष-समिति-स्थानकानि च । शस्त्रश्रमस्य चैतानि बध्नीयात्‌ पञ्चसंख्यया ॥ १४ ॥ ;k{षट्संख्यावाचकाः शब्दाः} ;c{६. षट्संख्यावाचकाः शब्दाः-} रस-राग-चक्रकोणास्त्रिशिरोनेत्रा-ऽन्तराणि गुण-तर्काः । दर्शन-गृहमुख-भूषण्ड-चक्रिणः स्युरिह षट्‌ संख्याः ॥ १५ ॥ ;k{सप्तसंख्यावाचकाः शब्दाः} ;c{७. सप्तसंख्यावाचकाः शब्दाः-} द्रीप-रविवाह-पाताल-शक्रवाहमुख-दुर्गति-समुद्राः । श्रीपार्श्वचिह्नफणिफल(ण)-तत्त्व-क्षेत्रा-ऽनलज्वालाः ॥ १६ ॥ राज्याङ्ग-धान्य-भुवन-स्वर-कुलपर्वत-नयाः समं तानाः । भय-सप्तपर्णपर्णा गोदावर्यस्त्वमी सप्त ॥ १७ ॥ ;k{अष्टसंख्यावाचकाः शब्दाः} ;c{८. अष्टसंख्यावाचकाः शब्दाः-} दिग्‌-देश-कुम्भिपालाः कुलपर्वत-शम्भुमूर्त्ति-वसवश्च । योगाङ्ग-व्याकर(ण)-ब्रह्मश्रुत्यहिकुलान्यष्टौ ॥ १८ ॥ ;k{नवसंख्यावाचकाः शब्दाः} ;c{९. नवसंख्यावाचकाः शब्दाः-} भूखण्ड-कृत्तरावणमुण्ड-सुधाकुण्ड-जैनपद्मानि । ग्रैवेय-रस-व्याघ्रीस्तन-गुप्ति-निधि-ग्रहास्तु नवसंख्याः ॥ १९ ॥ ;k{दशसंख्यावाचकाः शब्दाः} ;c{१०. दशसंख्यावाचकाः शब्दाः-} रावणमुखा-ऽङ्गुली-चन्द्रवाह-यतिधर्म-शम्भुकर्ण-दिशः । अङ्गद्वारा-ऽवस्था दशाः पुनः संख्यया दशैव स्युः ॥ २० ॥ ;k{एकादशसंख्यावाचकाः शब्दाः} ;c{११. एकादशसंख्यावाचकाः शब्दाः-} रुद्राक्षास्तन्नेत्राण्यङ्गोपाङ्गानि जिनमतोक्तानि । एकादश ध्रुवं स्युस्तथा जिनोपासकप्रतिमाः ॥ २१ ॥ ;k{द्वादशसंख्यावाचकाः शब्दाः} ;c{१२. द्वादशसंख्यावाचकाः शब्दाः-} गुहनेत्र-राशि-मासाः सङ्क्रान्त्यादित्य-चक्रिराजानः । चक्रि-बृहस्पतिहस्ताः सभासदो द्वादश भवन्ति ॥ २२ ॥ ;k{त्रयोदशसंख्यावाचकाः शब्दाः} ;c{१३. त्रयोदशसंख्यावाचकाः शब्दाः-} प्रथमजिनभवा-ऽघोषा विश्वेदेवास्त्रयोदश भवन्ति । विद्यास्थान-स्वर-भुवन-रत्न-पुरुषान्वय-स्वप्नाः ॥ २३ ॥ ;c{चतुर्दशसंख्यावाचकाः शब्दाः} ;c{१४. चतुर्दशसंख्यावाचकाः शब्दाः-} जीवा-ऽजीवोपकरण-गुणमार्गल(ण)-रज्जु-सूत्र-पूर्वभिदाम्‌ । कुलकर-पिण्डप्रकृति-स्रोतस्विन्यश्चतुर्दश तु ॥ २४ ॥ ;p{0201} ;k{पञ्चदश-षोडशसंख्यावाचकाः शब्दाः} ;c{१५. पञ्चदश-षोडशसंख्यावाचकाः शब्दाः-} परमाधार्मिक-तिथयश्चन्द्रकलाः पञ्चदश भवन्तीह । शुक्रार्चिषः शशिकला विद्यादेव्यस्तु षोडश भवन्तीह ॥ २५ ॥ ;c{सप्तदशादिसंख्यावाचकाः शब्दाः} ;c{१७,१८,१९. सप्तदशादिसंख्यावाचकाः शब्दाः-} सप्तदश संयमाश्चाष्टादश विद्या-पुराणानि । द्वीपाः स्मृतयो ज्ञाताध्ययनान्येकोनविंशतिगतानि ॥ २६ ॥ ;k{विंशतिसंख्यावाचकाः शब्दाः} ;c{२०. विंशतिसंख्यावाचकाः शब्दाः-} करशाखा श्रीभर्तुर्विंशोपकाः सकलजननखा-ऽङ्गुल्यः । दशकन्धरनेत्र-भुजास्तु संख्यया विंशतिर्वाच्या ॥ २७ ॥ ;k{शतसंख्यावाचकाः शब्दाः} ;c{१००. शतसंख्यावाचकाः शब्दाङ्काः-} कमलदल-रावणाङ्गुलि-शतमखमख-जलधियोजनानि स्युः । शतपत्रीपत्राऽऽदिमजिनसुत-धृतराष्ट्रनृपतिसुताः ॥ २८ ॥ जपमाला-मणिहारस्रजो-ऽस्ररुक्‌-कीचकाः- शतप्रमिताः । अहिपतिमुख-गङ्गामुख-पङ्कजदल-करेन्द्रनेत्राणि ॥ २९ ॥ ;k{सहस्रसंख्यावाचकाः शब्दाः} ;c{१००० । सहस्रसंख्यावाचकाः शब्दाः-} विश्वामित्रश्रमवर्षा-ऽर्जुनभुज-सामवेदशाखाश्च । पुण्यनरट्ठष्ट(?दृष्ट)चन्द्राः सहस्रसंख्या अमी ज्ञेयाः ॥ ३० ॥ ;c{॥ इत्येकादिसंख्यासंज्ञाकोषः समाप्तः ॥}