;METADATA ;title{एकाक्षरकोष} ;author{पुरुषोत्तमदेव} ;bookFullName{श्रीमदमरसिंहविरचितं नामलिङ्गानुशासनम् अमरकोषः अनेकार्थध्वनिमञ्जरीद्विरूपकोषैकाक्षरकोषैश्च समुपबृंहितः रत्नप्रभाऽऽख्यसंस्कृतव्याख्यया हिन्दीटिप्पण्यादिभिश्च विभूषितः} ;bookSeriesDetails{चौखम्बा सुरभारती ग्रन्थमाला} ;editor{Dr. Brahmananda Tripathi} ;editorQualifications{साहित्यायुर्वेदाचार्यः, M.A., Ph.D, D.Sc.A.Y.} ;publisher{चौखम्बा सुरभारती प्रकाशन, के ३७/११७, गोपालमन्दिर लेन, पोस्ट बाक्स नं० १२९, वाराणसी - २२१००१} ;pressDetails{श्रीजी मुद्रणालय, वाराणसी} ;publicationYear{1982 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{EKPD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri Kailasasagarasuri Gyanmandir for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{none} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{07 January 2020} ;version0.0.2{07 January 2020} ;version0.0.3{07 January 2020} ;version0.0.4{07 January 2020} ;version0.1.0{07 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0268} अकारो वासुदेवः स्यादाकारस्तु पितामहः । पूजायामपि माङ्गल्ये आकारः परिकीर्तितः ॥ १ ॥ इकार उच्यते कामो लक्ष्मीरीकार उच्यते । उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे ॥ २ ॥ रक्षणे चापि ऊकार ऊकारो ब्रह्मणि स्मृतः । ऋकारो देवमाता स्यादृकारो दनुजप्रसूः ॥ ३ ॥ ऌकारो देवजातीनां माता सद्भिः प्रकीर्तिता । ॡकारः स्मर्यते पूर्वैर्जननी शब्दकोविदैः ॥ ४ ॥ एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः । ओकारस्तु भवेद् ब्रह्मा औकारोनन्त उच्यते ॥ ५ ॥ अं स्याच्च परमं ब्रह्म अः स्याच्चैव महेश्वरः । कः प्रजापतिरुद्दिष्टो कोऽर्कवाय्वनलेषु च ॥ ६ ॥ कश्चाऽत्मनि मयूरे च कः प्रकाश उदाहृतः । कं शिरो जलमाख्यातं कं सुखं च प्रकीर्तितम् ॥ ७ ॥ पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः । खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः ॥ ८ ॥ सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः । गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः ॥ ९ ॥ गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती । घा घण्टाऽथ समाख्याता घो घनश्च प्रकीर्तितः ॥ १० ॥ घण्टीशे हनने घर्मे घुर्घोणा घूर्ध्वनावपि । ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा ॥ ११ ॥ चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः । निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः ॥ १२ ॥ छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः । जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः ॥ १३ ॥ ;p{0269} जेता जश्च प्रकथितः सूरिभिः शब्दशासने । रवो झकारः कथितः नष्टे शञ्चोच्यते बुधैः ॥ १४ ॥ झकारश्च तथा वायौ नेपथ्ये समुदाहृतः । ञकारो गायने प्रोक्तो ञकारो झर्झरध्वनौ ॥ १५ ॥ टो धरित्र्यां च करके टो ध्वनौ च प्रकीर्तितः । ठकारो जनतायां स्यात् ठो धनौ च शठेऽपि च ॥ १६ ॥ ठो महेशः समाख्यातो ठश्च शून्ये प्रकीर्तितः । बृहद्धनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ॥ १७ ॥ डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते । ढकारः कीर्त्तिता ढक्का निर्गुणे निर्धने मतः ॥ १८ ॥ णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च । तकारः कीर्तितश्चोरे क्रोडपुच्छे प्रकीर्तितः ॥ १९ ॥ शिलोच्चये थकारः स्यात् थकारो भयरक्षणे । दकारोऽभ्रे कलत्रे च छेदे दाने च दातरि ॥ २० ॥ धं धने सधने धः स्यात् विधातरि मनावपि । धिषणा धीः समाख्याता धूश्चैव भारवित्तयोः ॥ २१ ॥ नेता तश्च समाख्यातस्तरणौ नः प्रकीर्तितः । नकारः सौगते बुद्धौ स्तुतौ नस्तु प्रकीर्तितः ॥ २२ ॥ नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः । पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥ २३ ॥ पवने पः समाख्यातः पः स्यात् पाने च पातरि । कफे वाते फकारः स्यात् तथाऽह्वाने प्रकीर्तितः ॥ २४ ॥ फूत्कारोऽपि च फः प्रोक्तस्तथा निष्कलभाषणे । बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च ॥ २५ ॥ वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रे भं बुधाः प्राहुर्भवने भः प्रकीर्तितः ॥ २६ ॥ दीप्तिर्भाः स्याच्च भूर्भूमिर्भीर्भयं कथितं बुधैः । मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता ॥ २७ ॥ मा च मातरि माने च बन्धने मः प्रकीर्तितः । यशो यः कथितः प्राज्ञैर्यो वायुरिति शब्दितः ॥ २८ ॥ ;p{0270} याने यातरि यस्त्यागे कथितः शब्दवेदिभिः । रश्च रामेऽनिले वह्नौ भूमावपि धनेऽपि च ॥ २९ ॥ इन्द्रियेन्धनरोधे च रुर्भये च प्रकीर्तितः । लो दीप्तौ द्यां लश्च भूमौ भये चाऽऽह्लादनेऽपि च ॥ ३० ॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥ मानसे वरुणे चैव वकारः सान्त्वनेऽपि च । विश्च पक्षी निगदितो गगनं परिकीर्तितम् ॥ ३२ ॥ शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥ ३३ ॥ षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥ ३४ ॥ सः कोपे वारणे सः स्यात्तथा शूलिनि कीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः ॥ ३५ ॥ हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हिः पद्यावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३६ ॥ क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने । क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥ ३७ ॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं क्रियते मया ॥ ३८ ॥ ;c{॥इत्येकाक्षरकोषः समाप्तः ॥} ;c{एकाक्षरीयकोषस्य ब्रह्मानन्दत्रिपाठिना ।} ;c{कृतः सुसङ्ग्रहः श्रेयान् प्रभवेत् पठतामयम् ॥}