;METADATA ;title{एकाक्षरनाममाला} ;author{कालिदासव्यास} ;bookFullName{एकाक्षरकोषसंग्रहः} ;bookSeriesDetails{} ;editor{Editor of 1 to 26 koshas - Pannyas Ramnikvijay, Reeditor - Muni Rajsundarvijay} ;editorQualifications{} ;publisher{श्रुतज्ञान संस्कारपीठ, वासणवाळा कम्पाउण्ड, विश्वनंदिकर जैन देरासर के सामने, भगवान नगर का टेकरा, अरुण सोसायटी के पास, पालडी, अहमदाबाद-७, चंपकभाई: मो. 9436010323, निरंजन शाह: मो.9825860488, Website - www.rajparivarindia.com, Email - shrutgnan@yahoo.com} ;pressDetails{जय जिनेन्द्र ग्राफिक्स (नितीन शाह - जय जिनेन्द्र), ३०, स्वाती सोसायटी, सेंट झेवियर्स स्कूल रोड, नवरंगपुरा, अहमदाबाद. जय जिनेन्द्र: मो. 9825024204, कुश: मो. 9925617992} ;publicationYear{2019 A.D.} ;dataEntryBy{Mr. Manish Rajpara} ;dataEntryEmail{rajparamanish11@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{EKKD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Muni Rajsundarvijay ji for allowing us to digitize the texts. 3. Mr. Manish Rajpara for spending his valuable time to do data entry of the work. 4. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{16 March 2020} ;version0.0.2{12 April 2020} ;version0.0.3{12 April 2020} ;version0.0.4{12 April 2020} ;version0.1.0{12 April 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0060} ;c{कालिदासव्यासकृता} ;c{एकाक्षरनाममाला} नत्वा शङ्करपादपद्मयुगलं ज्ञानाय हेतोः सखे ! नानाग्रन्थविलोकिता पुनरहं ज्ञात्वा मया लिख्यते । श्रीदामोदरजागरूकवसुधान्तस्याऽऽत्मजो व्यासराट् तेनाऽयं वितनोदभूत सुवये(?) श्रीकालिदासाभिधः ॥ १ ॥ शब्दाब्धेरथ चन्द्रोऽभूत् सप्रकाशकरैर्नृणाम् । नानार्थकौमुदीं कुर्वे हृद्ध्वान्तध्वंसनाय वै ॥ २ ॥ कवीन्द्रकुमुदो गुच्छं शब्दवारिसदङ्कुरः । विरच्यतेऽत्र सत्काव्यं रम्यैकाक्षरसङ्ग्रहम् ॥ ३ ॥ विना लिङ्गविशेषेण नान्यत्र पुनरुक्तिता । नानार्थस्यार्थबाहुल्यात् स्थितिरेकत्र न क्वचित् ॥ ४ ॥ मुख्योऽत्र सङ्ग्रहः शब्दः प्रथमालङ्कृतः कृतः । परस्त्वर्थान्तरद्योतः सप्तम्यन्त इति स्थितः ॥ ५ ॥ अकाराद्यादिभिः शब्दैः क्रमादेकाक्षराभिधः । ग्रन्थेऽस्मिन् प्रथमोऽकारो विस्तरं रच्यते मया ॥ ६ ॥ ;k{स्वरवर्गः} अकारो ब्रह्म-विष्ण्वीश-कमठेष्वङ्गणे रणे । गोरथेऽन्तःपुरे हेतौ सूर्येऽद्रावम्बु-मान्ययोः ॥ ७ ॥ गरुडेऽवयवे चाथ पूजने प्रेरणेऽप्यजे । शब्देऽर्दनेऽदने चान्ने निषेधेऽनादरेऽव्यये ॥ ८ ॥ सज्जात्ये च निराकारे स्वल्पेऽर्थे ज्ञे तु पुंस्यपि । ब्राह्मणे शकले वायौ वह्नौ वा शब्द-सोमयोः ॥ ९ ॥ विरञ्चावाश्च पुंलिङ्गे त्वा वाक्ये स्मरणेऽव्यये । बन्धुवर्गे तिरस्कारे क्रियायोगेषदर्थयोः ॥ १० ॥ कोपे भावे पटे चित्रे दूराह्वाने पितामहे । मातामहे च सन्तापे मन्मथेऽथ वृथास्मृतौ ॥ ११ ॥ अभिव्यक्तावभिव्याप्तौ सीमायां दुःख-खेदयोः । इरहर्मणिरश्मौ तु संशये बाण-मान्ययोः ॥ १२ ॥ हारे करेणुकुक्ष्यन्ते निशाकरकरे स्मरे । कोपोक्तौ कामबाणे स्यात् पुंसि त्वाश्चर्य-खेदयोः ॥ १३ ॥ ईकारः कज्जले लक्ष्म्यां वाण्यां कमलकेसरे । रसनायां शक्रचापे बाणे बलिनि कन्धरे ॥ १४ ॥ पुंलिङ्गेऽव्ययमीश्चैव प्रत्यक्षे दुःखभावके । प्रकोपे सन्निधौ चौरे नवोढायां भुवि स्वरे ॥ १५ ॥ उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ । मात्रायां शेषफूत्कारे शोके सम्बुद्धिषु स्मृतः ॥ १६ ॥ रोषोक्त्या-ऽऽमन्त्रणार्थेषु मोक्ष-भावोर्द्ध्वशक्तिषु । अप्रकाशे भवेत् पुंसि षण्ढेऽव्ययमुदाहृतम् ॥ १७ ॥ ऊकारः पुरुषे चन्द्रे राजपुत्रे गलेऽसुरे । प्राङ्गणोपमयोर्नावकुम्भेऽवनिजरत्नके ॥ १८ ॥ ऊकारो बन्धने लोभे विभागे पुंसि चाव्ययम् । प्रश्ने चाङ्गीकृते पुंस्त्वे पुंसि रक्षण-सूर्ययोः ॥ १९ ॥ ऊमव्ययं स्वरे क्लीबे रोषोक्ति-प्रश्नयोरपि । ऋकारः कुञ्जरे शैले धीभेदे देवमातरि ॥ २० ॥ स्वभावे देवनद्यां च सुरायां विवरे दिवि । अव्यये पुंसि कुत्सायां पालने रक्षणे गुरौ ॥ २१ ॥ ॠकारः कुत्सिते सर्पदृष्टौ विगतसम्पदि । हिम-पद्मा-ऽदिति-स्वर्ग-धन-भूषा-भुजा-ऽम्बुषु ॥ २२ ॥ ॠरजे विकलाङ्गे स्याद भगे पंस्यव्ययेऽपि च । लृकारो दन्तिनां दन्ते करीर-कपिदन्तयोः ॥ २३ ॥ स्वर्गा-ऽदित्योर्लिप्तगात्रे गजे नप्तरि वक्षसि । लृर्दर्पे योषिति द्रव्ये पुंसि स्यादव्ययेऽपि च ॥ २४ ॥ लॄकारः कृकलासे प्लवङ्गेऽक्ष्णि मकरे सुरे । लीलागतौ लोचनास्थ्नि नागमातरि मातरि ॥ २५ ॥ स्याद्धास्याक्ष्यां नवोढायाः कञ्चुके तु लतान्तरे । एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ ॥ २६ ॥ व्योम्न्येकादशसङ्ख्यायां दिनादौ मणिकुट्टिमे । महीन्द्रे धातरि ज्ञेये साक्षीत्व्रातीषयोर्हरे (?) ॥ २७ ॥ ;p{0061} ऐकारो दिङ्मुखे पूरे हरे श्रीशिखरे त्वचि । ओकारः पद्म-कुट्य-ऽम्बु-श्रीद-मेघेन्दु-योनिषु ॥ २८ ॥ शक्तौ जने विरञ्चौ स्याद् वेदादौ प्रणवे द्विजे । अङ्गीकारे तथा ॐ स्यादोँ माङ्गल्ये विशेषणे ॥ २९ ॥ ओरूद्धर्वलिङ्ग आहूते त्वव्ययं पुंसि कथ्यते । औकारस्त्वम्बिकागारे नृपाणां जय-शूरयोः ॥ ३० ॥ विशुद्धाङ्गेन्दुकलयोरनन्ते शुद्धपुष्पके । कुलीने यज्ञपात्रेशे स्यादौ सम्बोधनेऽव्यये ॥ ३१ ॥ अं शवे बकवाक्येऽतिदीर्धेऽञ्जलि-नियोगयोः । सप्तस्वरान्तमाने च परंज्योतिषि च स्मृतः ॥ ३२ ॥ अः शिवायां सिद्धमन्त्रे प्रग्रहेऽर्के रथार्वणि । चित्रे कुर्कुटमूर्द्धेन्दुबिम्बे ब्रह्मेश-विष्णुषु ॥ ३३ ॥ ;c{इति स्वरवर्गः} ;k{व्यञ्जनवर्गः} को ब्रह्मा-ऽऽत्मा-ऽनिला-ऽर्काऽग्नि-चित्रा-ऽरि-यम-केकिषु । विष्णुवाहनशब्देऽब्धौ सितकर्णे वसौ द्युतौ ॥ ३४ ॥ कलहे को विजानीयात् प्रश्नेऽर्थेऽपि क्वचिन्मतम् । स्वर्गे चक्रे तथा मित्रे शुद्धेऽर्थे स्मर-कालयोः ॥ ३५ ॥ कं शुक्रे रुधिरे मांसे फले प्रश्ने तु कन्दुके । कं शिरो-ऽम्बु-सुखे क्लीबे निन्दायामाननेऽव्ययम् ॥ ३६ ॥ कुर्धात्र्यां कुत्सिते शब्दे पापीयसि निवारणे । ईषदर्थे कलत्रे स्याद् हीनजातौ तु कुङ्कुमे ॥ ३७ ॥ किमभ्युपगमे प्रश्ने प्रस्तावा-ऽऽश्चर्ययोरपि । पुनरर्थे च निन्दायां रजस्याक्षेप-कुत्सयोः ॥ ३८ ॥ वितर्काश्चर्ययोः क्रोधे किलार्थेऽतिशयेऽव्ययम् । ईषदर्थे भवेद् व्योम्नि किः कीटे स्यात् कियानपि ॥ ३९ ॥ कि ब्रह्मण्यामपि प्रश्ने खड्गमुष्टि-कुचाग्रयोः । विधवाभगनिर्देशे दन्तिनां रेषणेऽपि च ॥ ४० ॥ केकिनां नर्त्तने शब्दे किं शब्देऽपि विधीयते । कु कुत्सिते च पीडायां कूर्म-कुत्सनयोरपि ॥ ४१ ॥ का शोभायां कुशब्दे स्यादामिषे शकलेऽपि च । काकानामेकदेशे स्याद् रजक्यामपि कथ्यते ॥ ४२ ॥ कां युगपदि योगे च वारणेऽश्वगतावपि । कुं घटे कुङ्कुमे पाके सम्बोधने च को भवेत् ॥ ४३ ॥ पक्षिभेदे भवेत् कोपे कठोरे कोऽपि कथ्यते । कं स्तब्धनिर्जले जीवे जन्तूनां विपदि स्मृतः ॥ ४४ ॥ खमिन्द्रिये सुखे व्योम्नि नक्षत्रे क्षेत्रपालने । कृपा-फलकयोः शून्यबिन्दौ संवेश-रङ्कयोः ॥ ४५ ॥ सूर्ये वर्णे नृत्ये सत्ये वह्नौ सम्पदि संविदि । चन्द्रस्य मण्डले भूमौ बालायाः स्तनयोरपि ॥ ४६ ॥ गं गिरा-गात्र-गाथासु गीते स्याद् गश्च गातरि । गणेशेऽग्नौ च गन्धर्वे गीते स्याद् गमने तु गा ॥ ४७ ॥ गीस्तु वाण्यां सरस्वत्यां दुर्गायां ककुभि स्मृता । गौर्नाके वृषभे चन्द्रे वाग्-भू-दिग्-धेनुषु स्त्रियाम् ॥ ४८ ॥ द्वयोस्तु रश्मि-दृग्-बाण-स्वर्ग-वज्रा-ऽम्बु-लोमसु । गणेशे मूषके सौख्ये स्तुतेश्वर्यां मदे रवौ ॥ ४९ ॥ घो घने हनने रुद्रे घोषान्तर्भाव-कुम्भयोः । निदाघे घटने मेघे घण्टायां सुस्वने च घः ॥ ५० ॥ घण्टाद्य-ऽमृतयोर्ना भू-वार्त्ता-घोरेषु घस्त्रिषु । नूपुरे घं नटांह्रौ स्याद् घा किङ्किण्यां घनस्वने ॥ ५१ ॥ ङं क्लीबमञ्जने ना तु भैरवे विषये जने । चश्चकोरे समाख्यातश्चुह्ल्यां कोपे चतुष्पथे ॥ ५२ ॥ दन्तिनीदन्तवलये चकारः पुनरव्ययः । साकल्ये चान्तरे कोपे समाने कारणे वृतौ ॥ ५३ ॥ चः स्याद् वृक्षे स्वरे चौरे चकोरे चन्द्रमस्यपि । अन्योऽन्यार्थे विकल्पार्थे समासे पादपूरणे ॥ ५४ ॥ पक्षान्तरे समूहार्थे हेताववधृतावपि । अश्वालये तथा तुल्ययोगितायां च कीर्त्तितः ॥ ५५ ॥ चा स्त्री शोभा शोणिते तु चं जीवे विमले त्रिषु । छः सूर्ये छेदके चौरे तथा संवरणे भवेत् ॥ ५६ ॥ ;p{0062} छं तुच्छन्दसि तडिति क्लीबे छन्दभृतौ पुमान् । त्रिष्वयं निर्मले माने मलिने भेदकेऽपि च ॥ ५७ ॥ जो जवे विषमे मेरौ स्वर्गे पातरि मत्सरे । विष्णौ च विगते जीवे जं द्वीप-योषितोः कुचे ॥ ५८ ॥ जूर्विहायसि जवने पिशाच्यां विगतद्युतौ । जूः स्त्री वाण्यां समाख्याता स्यादम्बा-कीटयोर्भगे ॥ ५९ ॥ जीः कीर्त्यां सबले तूर्णे यवे जेतरि जीर्वचि । जा नियोगे खले जारे योगे च जनवल्लभे ॥ ६० ॥ झः स्यादङ्गे झशब्दस्तु पुमान् दातरि हंसके । प्रतापे भ्रमरे नष्टे चौरे रुचौ च मारुते ॥ ६१ ॥ झो व्यूहे विषये गर्वे लेपे मूर्ध्नि खरध्वनौ । महेश्वरे च वाञ्छायां क्लीबं तु भय-पद्मयोः ॥ ६२ ॥ ञशब्दो गायने गूढरूपके घर्घरध्वनौ । ज्ञः प्राज्ञे त्रिषु ना चन्द्रसूनावात्मनि वेधसि ॥ ६३ ॥ टः पुमान् कटके भूपे तापेऽर्ककिरणे ध्वनौ । चापध्वनौ जले वायौ विषये करके कटे ॥ ६४ ॥ करङ्के टः कुलालास्त्रे प्रहारे टं पुनर्गवि । कपाटा-ऽऽवर्त्तयोः सूनौ भू-व्यावृत्त्योस्तु टा स्त्रियाम् ॥ ६५ ॥ ठः शङ्करे बृहद्भासे बृहद्ध्वनौ जटा-ऽब्दयोः । बस्तौ स्वने घटे चित्रे वृषभध्वनि-मेघयोः ॥ ६६ ॥ ठः पुमान् वृषभे शून्ये हासे त्रासे क्षये ध्वनौ । शङ्खध्वनौ रौद्ररसे ठं क्लीबे चन्द्रमण्डले ॥ ६७ ॥ विधवायां च डाकिन्यां व्रीडावाचि तु ठा स्त्रियाम् । डो मेढ्रे वेगिते ज्ञाप्ये यामिनीपतिमण्डले ॥ ६८ ॥ डः पिशाचे भये काले रागे पान्थे ध्वनौ च ना । डं क्लीबे डामरे दुर्गे पन्थे डमरुकेऽपि च ॥ ६९ ॥ आन्दोलने तु त्रिषु च डशब्दो गायने जडे । ढक्कायां ढा स्त्रियां क्लीबे राज्ञां तूर्यमुखेऽपि ढम् ॥ ७० ॥ त्रिष्वयं निर्गुणे रूढे सौम्ये सव्या-ऽपसव्ययोः । णशब्दस्तु पुमान् मारे भैरवे कङ्कटे ध्वनौ ॥ ७१ ॥ मोचने प्रकटे बन्धे प्रस्तुते निष्फले कणे । णा स्त्रियां रजनी-शय्या-धेनु-नाशा-कृपासु च ॥ ७२ ॥ णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि । तशब्दः पुंसि संयोगे निश्चये कोल-पुच्छयोः ॥ ७३ ॥ धातुवादविधौ चौरे सत्सङ्ग्रामे तु ता स्त्रियाम् । करुणायां महालक्ष्म्यां पूजायां वारयोषिति ॥ ७४ ॥ नपुंसके तु तं तूणे कर्मार्थ-सूचकार्थयोः । तुशब्दः क्रीडने स्त्री स्यात् क्रीडके त्वभिधेयवत् ॥ ७५ ॥ तु स्यात् पूर्वनिवृत्तौ च पूर्वस्मादवधारणे । विलेखने विकल्पार्थे स्यात् पादपूरणेऽव्यये ॥ ७६ ॥ तच्छब्दः प्रकृतार्थोक्तौ त्रिषु हेतौ तथाऽव्ययम् । तृट् पिपासेहयोः स्त्री स्यात् तृष्णायां कान्ति-लिप्सयोः ॥ ७७ ॥ त्विट् प्रभायां च कुत्सायां व्यवसाये महे गिरौ । तीस्तीव्रे विषमे शोके स्यात् प्राणिनां गतावपि ॥ ७८ ॥ थः पुंसि भूधरे भारे क्षुद्रे सत्वरवाचके । थोऽव्यये कुञ्जरे काले क्लीबे भयनिवारणे ॥ ७९ ॥ वाच्यलिङ्गस्तु विमले पृथुले श्यामले कचे । स्त्रीलिङ्गे चोपचारण्यां थीस्ताडवविकारके ॥ ८० ॥ निर्भर्त्सने भये पुं स्याद् दो वधे भव-वालयोः । दः पुंसि बन्धने छेदे दो दाने दायकेऽपि च ॥ ८१ ॥ दाने दातरि दा केचिद् दा स्त्रियां दन्ति-दानयोः । विखण्डने भवेद् दुस्तु दुस्तरा-ऽरण्ययोरपि ॥ ८२ ॥ दं क्लीबे पान-वैराग्य-कलत्रेष्ववलोकने । भेद्यमूलस्त्वयं मूके दुहिते द्रावके शुचौ ॥ ८३ ॥ दर्शन-ज्ञान-नेत्रेषु वस्त्र[दृक् स्त्री]द्रष्टरि च त्रिषु । द्यं खण्डने रिपौ त्यागे गमनस्यावभर्त्सने ॥ ८४ ॥ द्युर्वह्नौ दिवसे द्यो[द्यौस्]तु नाके नभसि बन्धने । स्याद् दः प्रथमसंयोगे स्त्री दृक् स्याद् दिन-नेत्रयोः ॥ ८५ ॥ धः पुंसि धार्मिके धीरे श्वित्रा-ऽश्ववारयोर्वधे । धं क्लीबे धनदे धीरे ध्याने स्याद् धन-वेश्मनोः ॥ ८६ ॥ ;p{0063} धी पुत्र्यामौषधीमात्रे धी बुद्धौ विबुधेऽपि च । स्यात् स्त्रियां धा ध्वनौ ध्याने यादे ध्वन्वन्तरौ घटे ॥ ८७ ॥ धा विरञ्चौ च बह्वर्थे गुह्यकेशे च मर्कटे । धूश्च धूल्यां धराकम्पे रथाख्ये भार-कम्पयोः ॥ ८८ ॥ हेरम्बे नः पुमान् स्त्री ना नाभौ कल्याण-भूषयोः । वध्य-सूक्ष्मा-ऽपरिक्लिष्ट-शून्या-ऽभीष्टे पुनस्त्रिषु ॥ ८९ ॥ अस्मानस्मभ्यमस्माकं स्थाने नः परीकीर्त्तितः । निषेधेऽर्थेऽव्यये बन्धौ क्लीबे नं ज्ञान-वाद्ययोः ॥ ९० ॥ ना निःश्रुते नरे नाभौ नेतरि ज्ञान-बन्धयोः । न्वव्यये प्रतिषेधे स्यात् स्त्री नौस्तरणि-शालयोः ॥ ९१ ॥ निः साक्षेपे तु नित्यार्थे भृशार्थाशयराशिषु । कौशले बन्धने मोक्षे संशये दानकर्मणि ॥ ९२ ॥ अधोभवोपरमयोः क्रीताद्यर्थे नरे नृपे । सन्निधाने निषधे स्त्री निर्णये तु चये व्यये ॥ ९३ ॥ नी नीड-नीरयोर्नद्यां नो निषेधेऽव्यये हरौ । ननु प्रश्ने वितर्के च विकल्पेऽनुशये पुनः ॥ ९४ ॥ नुगास्येरुहये स्त्रीणां(?) न्यङ् निम्ने नीच-कार्त्स्न्ययोः । पः पुमान् पवने शैले प्रकाशे कौस्तुभे क्षणे ॥ ९५ ॥ शुभे लग्ने पयःपाने प्रौढे च वर्णके पथि । पानमात्रेऽथ पं क्लीबे हेम्नि पा पान-पात्रयोः ॥ ९६ ॥ स्त्रीलिङ्गे त्वम्बुधारायां सुधायां सम्मतौ च पाः । स्त्रीपित्रोः सुनृपे पापे श्रुते पातरि पालके ॥ ९७ ॥ वस्त्रे पार्थे प्रयत्ने च पुं च पुर-शरीरयोः । पूरणे चाथ पूः शब्दः पुरुषे परमात्मनि ॥ ९८ ॥ फो जल्पे निष्फले लोहे पुष्करे भयरक्षणे । झञ्झावाते फले फेने शस्त्राग्रे पुंसि फा स्त्रियाम् ॥ ९९ ॥ फालायां निष्ठुरोक्तौ च पिण्ड-केका-कुटीषु च । अनुस्वारे परोक्षे वा फशब्दो वाच्यलिङ्गकः ॥ १०० ॥ फूरहेः फूत्कृते शोके स्याद् वातूलकपूरयोः । बः कुम्भे वरुणे बिन्दौ विकल्पे भे गुरौ मदे ॥ १०१ ॥ विभूतिकारे कलहे पक्षिगर्भे च पर्वणि । मूर्खे बाले कचे व्योम्नि पद्मे स्याद् विगतावपि ॥ १०२ ॥ बं शम्भौ च सुवायौ च जले जगति रक्षके । शङ्वे(?)स्यादौषधीभेदे स्यादौपम्येऽव्यये पुनः ॥ १०३ ॥ भः शोभा भ्रमरे भावे शुक्रेंऽशौ जलदे पुमान् । आकाशे च मयूरे च प्रभावे सूर्य-शब्दयोः ॥ १०४ ॥ भा स्त्रियां काहला-वल्ली-शृङ्खलास्वमले त्रिषु । भा तु व्यलङ्कृते दीप्तौ स्त्रियां भाः किरणे द्युतौ ॥ १०५ ॥ क्लीबे भं गगने रात्रौ तारायां पुर-चक्रयोः । भीः स्त्री भीत्यां खगे पुंसि स्थान-भूम्योस्तु भूः स्त्रयाम् ॥ १०६ ॥ मः पुंसि बन्धने पिङ्गे पिङ्गला-ऽऽभीरवर्णयोः । मौलौ विधौ मले मूले क्लीबे मं मूलके शुभे ॥ १०७ ॥ स्यान्मेढ्राग्रमणौ जीवे हरौ मासे च मा पुमान् । माऽव्ययं प्रतिषेधे स्त्री वारणे जभने रवौ ॥ १०८ ॥ मालायां देशभेदे च रमायां स्त्री जने तु मा । मा स्त्री माने कृतौ वेलान्ते धी-स्त्री-व्यय-वस्तुषु ॥ १०९ ॥ अस्मच्छब्दे द्वितीयायां धेनौ षष्ठ्यां च मे पुनः । बन्धने मूः समाख्यातो मुकुन्दे मौन-मोक्षयोः ॥ ११० ॥ योऽस्त्र्यङ्गे निलये वायौ यमे धातरि पातरि । यशब्दः सर्वनामाख्यस्त्रिषु हेतौ यमव्ययम् ॥ १११ ॥ ग्रामे कुले वटे वाते यमम्भसि पशावपि । या स्त्रियां पान-मञ्जर्योः शोभा-लक्ष्म्योश्च प्रापणे ॥ ११२ ॥ या स्त्री ख्या तु प्रकथने ज्या मौर्वी-मातृ-भूमिषु । खट्वाङ्गे याज्ञिके यातौ यो यातरि श्रियि स्त्रियाम् ॥ ११३ ॥ द्युर्ना दिव्यह्नि वह्नौ च स्वर्व्योम्नोर्द्यौर्दिवि स्त्रियाम् । स्यः प्रहारे भवेत् काले स्यः स्पर्शे त्ववखण्डने ॥ ११४ ॥ रः पुमान् पावके कामे क्षये वज्रे शरे व्यये । रा स्त्रियां हेम्नि शालायां क्रोधेनाशु[सु]ख-ली[लि]प्सयोः ॥ ११५ ॥ राज्ये रागे नृपे रामे राढायां बल-विक्रमे । रा पूर्णे रमणे क्रूरे रिः स्वसायां[सरि] गिरावपि ॥ ११६ ॥ ;p{0064} रा[ः] पुनर्विभवे मेघे स्थानके रस्तु रक्षणे । भीतौ रजसि रङ्के च भये च पुन री भ्रमे ॥ ११७ ॥ रं क्लीबे रुधिरे मूर्ध्नि ध्याने व्योमा-ऽण्ड-कुक्षिषु । वक्त्रे भये च त्रिषु तु विरसे स्त्यान-तीक्ष्णयोः ॥ ११८ ॥ स्त्री रुर्जालेच्छयोः कान्तावूर्णायुद्धे नयध्वनौ । स्त्री कामिनी-वम्रिकयो रूः स्वर्णे कामरूपिणि ॥ ११९ ॥ श्रीर्वेषरचना-शोभा-संपत्-सरलशाखिषु । कन्यायां चारुकामिन्यां सम्पत्सु सरलद्रवे ॥ १२० ॥ वाणी-लक्ष्मी-लवङ्गेषु विषे बिल्वेऽथ च त्रिषु । जटायां द्राक् पूरणे स्त्री व्योम्नि मन्दगतौ स्त्रियाम् ॥ १२१ ॥ क्रूः क्रूरे त्वण्डजे व्याधे क्रीरग्नौ रोदने वधे । लः खण्डेऽलौ तृषादाने इन्द्रे तु चलनेऽनिले ॥ १२२ ॥ लिर्लावे लीश्च विश्लेषे कङ्कणे दृढबन्धने । लाश्चामृते दशायां च लश्चाऽलौ च बिडौजसि ॥ १२३ ॥ लाऽदने लूश्च लवने तृणेन्द्र-लवनेषु ला । वं क्लीबे शत्रुहनने वंशे च गिरिभेदके ॥ १२४ ॥ वः पुमान् गत्वरे वायौ संयमे वरुणे स्मरे । कान्तारेऽग्नौ वधे रुद्रे सान्त्वने चाव्ययः पुनः ॥ १२५ ॥ द्वितीयायाश्चतुर्थ्याश्च षष्ठ्याश्चापि बहुत्वके । विश्वासां विभक्तीनां च द्वित्वे वा(म्) कथितो बुधैः ॥ १२६ ॥ पदार्थे उपमाने च विकल्पे च समुच्चये । वि श्रेष्ठा-ऽतीतयोर्हेतौ नानार्थे पादपूरणे ॥ १२७ ॥ विर्नेत्रे व्योम्नि वारे च परमात्मनि पक्षिणि । वी विवादे च विज्ञाने वाग् भारत्यां वचस्यपि ॥ १२८ ॥ वैश्ये जने पुरीषे विट् क्रमात् पुंसि द्वयोः स्त्रियाम् । परदाररते काके प्रदेशे कुण्डले कटौ ॥ १२९ ॥ शोके स्तब्धे स्वने पुंसि शुः शूद्रे वसुधारके । शा तु शाते च शाप्तायां शाखा-मरणयोरपि ॥ १३० ॥ शा वाल्मिके शिवे कूर्मे भूपे शिश्च तनौ कृतौ । शिः स्त्रियां देवपूजायां शक्तौ शोभा-वरेण्ययोः ॥ १३१ ॥ बाणौघे हनने जीवे शी शोके च क्षये बुधे । रमायां चाथ शं क्लीबे शास्त्रे प्रेयसि मङ्गले ॥ १३२ ॥ कीर्तौ शक्रायुधे स्वर्गे शः परोक्षे त्रिलिङ्गकः । शं सत्ये शङ्करे शेषे कान्तावदनलोकने ॥ १३३ ॥ शमव्ययं सुखार्थे च शिः शम्भु-शिवकान्तयोः । शिर्बाण-हिंसा-स्वापेषु शीः शये शुर्निशाकरे ॥ १३४ ॥ षः स्वर्गे विषये श्रेष्ठे पुंसि षूः प्रसुतावपि । षः पुनः सारसे इष्टे स्तम्भ-खर्जूरयोरपि ॥ १३५ ॥ षा स्त्री रमायां षं क्लीबे गर्भमोक्षा-ऽवसानयोः । मर्षणे च त्रिलिङ्गस्तु परोक्ष-श्रेष्ठयोरयम् ॥ १३६ ॥ सः पुंसि मदने वायौ परोक्ष-सूर्ययोरपि । सनातने सत्यवति शङ्कायामव्ययस्तु सः ॥ १३७ ॥ सङ्गार्थे शोभनार्थे च प्रकृष्टार्थ-समर्थयोः । प्रथमे तदवस्थाने निवासे सफलेऽपि च ॥ १३८ ॥ स्यादलिनिकरे नीरे क्रोधे गर्भापभाषणे । स्मृतौ लक्ष्म्यां च रामायां देहकान्तौ तु सा स्त्रियाम् ॥ १३९ ॥ सं क्लीबे स्यन्दने मार्गे ज्ञाने ध्याने विचारणे । सं नक्षत्रे तु सूः शब्दे प्रेरणे गर्भमोक्षणे ॥ १४० ॥ सुशब्दः सेवने स्त्री स्याद् भृत्य-पूजनयोरपि । सत् सत्ये विदुषि श्रेष्ठे साधौ भवति च त्रिषु ॥ १४१ ॥ सन् नित्ये शोभने व्योम्नि विद्यमाने च सत्यपि । स्वादिपूजितयोश्चार्थे स्वः स्वर्ग-परलोकयोः ॥ १४२ ॥ स्वमात्मनि धने ज्ञातौ तद्ब्रह्मणि गुणत्रये । हः शङ्करे हरौ हारे हरणे पुलके भटे ॥ १४३ ॥ मानविशेषे मन्यौ च नदीतीरे भयङ्करे । हो हर्षे वायुपुत्रे स्यात् सम्बुद्धौ पादपूरणे ॥ १४४ ॥ ;p{0065} गजे प्रचेतसि स्त्री तु हा त्यागे गीत-बाणयोः । हि हेतौ पादपूर्तौ तु विशेषेऽप्यवधारणे ॥ १४५ ॥ रोषोक्ति-स्फुटयोर्हा च हास्ये विषाद-विस्मयोः[ये] । ही हेतौ वह्नि-स्वल्पे च परप्रश्न-वितर्कयोः ॥ १४६ ॥ हे हेतावपि सम्बुद्धौ हं खेदे शे[रो]षभाषणे । हं क्लीबमस्त्र-मुखयोः क्वणिते मणिरोचिषि ॥ १४७ ॥ परब्रह्मा-ऽऽमन्त्रणयोर्हाश्च प्रोन्मत्त-हास्ययोः । हूमव्ययः परिप्रश्ने वितर्के पवने तु हौ ॥ १४८ ॥ हे कुत्सायां तथा है तु हू तु सम्बोधने तु हौ । क्षो राक्षसे क्षमे क्षेत्रे क्षेत्रपाले नृपे नरे ॥ १४९ ॥ क्षः संरोधे विषौ भक्ष्ये क्षेमे दुःखप्रिये धने । क्ष्मा स्त्री माऽथाप्यनिन्दायां प्रत्यवाये च पुस्तके ॥ १५० ॥ नवोढाया भगे शूचौ क्षं क्लीबे क्षिप्र-दक्षयोः । क्षो मसृणे त्रिलिङ्गस्तु परोक्ष-क्षेत्रयोरपि ॥ १५१ ॥ क्षिः क्षये च तथा क्षिप्रे शब्दा ये द्व्यक्षरादयः । स्वरान्ता व्यञ्जनान्ताश्च ज्ञेया ग्रन्थान्तराच्च ते ॥ १५२ ॥ ;c{इति व्यञ्जनवर्गः} प्रह्लादपुरसम्भूतो दामोदरोऽभवत् पुरा । ग्रन्थकर्त्ताऽभवत् तस्मात् कालिदासाभिधः कविः ॥ १५३ ॥ ;c{॥ इति कालिदासव्यासकृता एकाक्षरनाममाला समाप्ता ॥}