;METADATA ;title{एकाक्षरनाममालिका} ;author{विश्वशम्भु} ;bookFullName{एकाक्षरकोषसंग्रहः} ;bookSeriesDetails{} ;editor{Editor of 1 to 26 koshas - Pannyas Ramnikvijay, Reeditor - Muni Rajsundarvijay} ;editorQualifications{} ;publisher{श्रुतज्ञान संस्कारपीठ, वासणवाळा कम्पाउण्ड, विश्वनंदिकर जैन देरासर के सामने, भगवान नगर का टेकरा, अरुण सोसायटी के पास, पालडी, अहमदाबाद-७, चंपकभाई: मो. 9436010323, निरंजन शाह: मो.9825860488, Website - www.rajparivarindia.com, Email - shrutgnan@yahoo.com} ;pressDetails{जय जिनेन्द्र ग्राफिक्स (नितीन शाह - जय जिनेन्द्र), ३०, स्वाती सोसायटी, सेंट झेवियर्स स्कूल रोड, नवरंगपुरा, अहमदाबाद. जय जिनेन्द्र: मो. 9825024204, कुश: मो. 9925617992} ;publicationYear{2019 A.D.} ;dataEntryBy{Mr. Manish Rajpara} ;dataEntryEmail{rajparamanish11@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{EKVS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Muni Rajsundarvijay ji for allowing us to digitize the texts. 3. Mr. Manish Rajpara for spending his valuable time to do data entry of the work. 4. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{16 March 2020} ;version0.0.2{17 March 2020} ;version0.0.3{17 March 2020} ;version0.0.4{20 March 2020} ;version0.1.0{25 May 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0003} ;c{विश्वशम्भुप्रणीता} ;c{एकाक्षरनाममालिका} ध्यात्वा नत्वा निरीक्ष्यान्तःकरणे कर्मसाक्षिणम् । क्रियते नूतना नाममालैकाक्षरवाचिका ॥ १ ॥ यतयो ये परं पारं शब्दाम्भोधेर्गता मताः । एषा तेषामतो मान्या महाभावमनीषिणाम् ॥ २ ॥ स्वमेवार्थं स्वयं रान्ति यतोऽकारादयः स्वराः । स्वराभावे ककारादिव्यञ्जनं व्यर्थमेव हि ॥ ३ ॥ न क्षरत्यक्षरं तेन स्वर एव तदुच्यते । व्यञ्जनानि स्वराश्चैव वर्णशब्देन वर्णिताः ॥ ४ ॥ अः शिवे केशवे वायौ ब्रह्म-चन्द्रा-ऽग्नि-भानुषु । आः स्वयम्भूस्तथोक्ते स्यादव्ययं कोप-पीडयोः ॥ ५ ॥ एषामपत्ये कामे स्यादिः सम्बोधन-कोपयोः । इः कुत्सार्थेऽपि पापेऽपि निषेधे नयनभ्रमे ॥ ६ ॥ ई रमा-मदिरा-मोहे महानन्दे शिरोभ्रमे । स्त्रीलिङ्गोऽयमुणाद्यन्तो नातोऽस्माल्लोपनं सुपः ॥ ७ ॥ ईर्यौ योऽत्र जसा रूपं स्यादमा रूपमीं शसीः । ईशब्दो द्रव्यपर्यायेऽव्ययं वृद्धैः प्रदर्शितम् ॥ ८ ॥ उः शब्दः शङ्करे तोये तोयधौ धरणीधरे । अवसाने वितर्केऽपि वचनावसरेऽव्ययम् ॥ ९ ॥ एतदर्थे निषेधेऽपि निर्णीतो दीर्घ ऊरपि । ऊं मान्तोऽव्ययं कोपेऽपि स्वार्थेऽप्यूं च प्रकीर्त्तितः ॥ १० ॥ रक्षार्थवाचकावेतौ व्याख्यातौ लघु-दीर्घकौ । ऋशब्दः पावके सूर्ये धर्मे दाने धने पुमान् ॥ ११ ॥ आ अरौ अर एतानि अरं चारौ ॠंश्च शसि । ॠर्दीर्घो देवमाता स्याद् ऋभवस्तेन ते सुराः ॥ १२ ॥ स्त्रीलिङ्गोऽयं धने वह्नौ वासवे वरुणालये । ॠः रौ रो रूपमेतस्य सन्धिसामान्यसाधनम् ॥ १३ ॥ लृर्ह्रस्वो लघुसंवादे शक्तौ सर्वर्षिमातरि । लघ्वक्षरेऽपि लृ क्लीबे दीर्घलॄर्देवमातरि ॥ १४ ॥ वाराह्यां वर्त्तते दीर्घः सौदामिन्यामिदं द्वयम् । सर्पे मन्त्रे तथा तन्त्रे लृद्वयं लुकिते तते ॥ १५ ॥ केऽपि दीर्घं न मन्यन्तेऽनुकृतेर्मन्वतेऽपरे । कामसम्बोधने स्यादे तत एर्ब्रह्मकेवले ॥ १६ ॥ एशब्देनोदिता चण्डी गोचरे गोपतावयम् । ऐः स्वर्णेऽपि च पुंलिङ्गः शम्भु-श्रीपति-वायुषु ॥ १७ ॥ शारदायां स्वरे सूर्ये मूर्च्छायामैरपि स्मृतः । ओशब्दो रक्षणे शेषे सूत्रे पुंसि श्रुतावपि ॥ १८ ॥ औः समुद्रे जलेऽनन्ते पीडने पुंसि भाषणे । अं मान्तो ब्रह्मसंवादे परब्रह्मप्रवाचकः ॥ १९ ॥ व्यसने व्याधिते व्याधौ ज्ञान-विज्ञान-वन्दने । अः सान्तः शङ्करे सूर्ये दाना-ऽऽदान-प्रदीप्तिषु ॥ २० ॥ सत्तायां क्षेपणे खेदे तथाऽऽश्चर्ये च निन्दके । को ब्रह्मा-ऽऽत्म-प्रकाशा-ऽर्क-केकि-वायु-यमा-ऽग्निषु ॥ २१ ॥ कं मौलि-सुख-तोयेषु कः शब्दः सर्वलिङ्गकः । सर्वनामगणोक्तो यस्तस्य रूपं त्रिलिङ्गकम् ॥ २२ ॥ कुः स्त्रियां भुवि कुत्सायामव्ययं कु प्रकीर्त्तितम् । कुः काक-शब्दयोर्मान्तः कं कान्तौ कामवाचकः ॥ २३ ॥ वाच्यलिङ्गः खशब्दोऽर्के वितर्के व्योम्नि वेदने । प्रश्न-निन्दा-नृप-क्षेप-सुख-शून्येन्द्रिये दिवि ॥ २४ ॥ ;p{0004} अवसानेऽपवर्गेऽपि परब्रह्मण्यपीरितः । गस्तु गातरि गन्धर्वे शब्द-सङ्गीतयोरपि ॥ २५ ॥ गौर्गणेश-पशु-स्वर्गे वज्रा-ऽऽशा-भूदकेऽक्षिणि । वाण्यां किरण-बाणा-ऽस्रे पुंलिङ्गोऽयमुदीरितः ॥ २६ ॥ आबन्तो गाऽवनीवाची गैः पुमान् शब्द-गीतयोः । ईबन्तो गीर्गिरौ वाण्यां धातुवद् गाश्च गाथकः ॥ २७ ॥ मारणे मरणे घाते घण्टायां किङ्किणीरवे । शक्तौ सभैरवे देवे घो मन्त्रेऽन्यार्थवाचकः ॥ २८ ॥ पुण्ये प्रवाहे पाषण्डे घं च घोरे धुरो रवे । घिरिदन्तो घृते दीप्तौ घाऽऽबन्तो भूमिवाचकः ॥ २९ ॥ ङः शून्ये दानवाञ्छायां निन्दायामाधिसादरे । सौदामिन्यां नदे सर्पे सिद्धौ तल्लिङ्गवाचकः ॥ ३० ॥ चः पुंसि चेतने चन्द्रे चौरेऽहौ चारुदर्शने । इदन्तश्चिः स्त्रियां बुद्धौ ज्ञाने चारे च पावके ॥ ३१ ॥ चान्वाचय-समाहारेतरेतर-समुच्चये । समासार्थेऽव्ययं चायमाबन्तश्चा दिवि स्मृतः ॥ ३२ ॥ छः सूर्ये सोमनैर्मल्ये छेदे स्वच्छे च ज्ञातरि । छन्दोनुवर्त्तिनि प्रोक्तश्छाऽऽबन्तो निम्नगा-गिरौ ॥ ३३ ॥ छौः स्त्रियां लोहधारायां छौस्तु पुंसि परश्वधे । वानरे हरिणे छागे छिः पुंसि प्रोच्यते छले ॥ ३४ ॥ जो जेता जं च जीवेऽपि जुर्वेगे नभसि स्वके । जाया-जनन्योर्जाऽऽबन्तः शय्यायामपि जारजे ॥ ३५ ॥ स्त्रियां जूर्गतिवाची स्याज्जापे शापेऽपि जिः पुमान् । ह्रस्वो दीर्घोऽपि जृशब्दो जरायां दुर्गतावपि ॥ ३६ ॥ जी रेफान्तस्तदर्थः स्त्री जूर्जुवौ जुव इत्यपि । प्रादुर्भावे नवे जः स्यादपत्ये जं च जन्मनि ॥ ३७ ॥ झशब्दः स्वपने शून्ये तथोर्द्ध्वक्षेपणेऽपि झः । विनष्टे विवरे भृङ्गे स्त्रियां झा तडिति स्मृतः ॥ ३८ ॥ वने च भुवने झं स्यादेकान्ते सङ्गते च झम् । स्रवद्द्रव्ये भगे भोगे सविलासा सुन्दरी च झा ॥ ३९ ॥ अकस्माद्दर्शने शोके मूढास्रमोचने च झुः । ऊदन्तः स्त्रीलिङ्गो झिश्च सर्वधातुध्वनौ च झीः ॥ ४० ॥ झीर्झिरौ झिर इत्येवंरूपो हानौ जरार्थकः । ञो ज्ञाने गायने दाने घुर्घुरध्वनिते च ञम् ॥ ४१ ॥ ञोऽर्द्धेन्दुमण्डले मन्त्रे वाप्यां ञा ञिस्तु पर्वते । निषेधे चञ्चले ञुः स्यान्निर्माणे ञीरिति ध्वनिः ॥ ४२ ॥ टः स्थिरे ताडने त्रासे विश्वासेऽश्वे च पुंस्ययम् । टाऽऽबन्तो घटिकावाची पृथिव्यां टं करङ्कके ॥ ४३ ॥ भूषायां च मणौ मेण्ढ्रे टुः स्याद् भ्रष्टे टि पक्षिणि । पारस्त्रैणे टिशब्दोऽस्ति फटायां टा जटास्वपि ॥ ४४ ॥ मुद्रो-र्मि-महिलासु स्त्री टीबन्तः पटहेऽपि टम् । ठो महेशे महामन्त्रे मन्त्रि-भूपा-ऽऽधि-ताण्डवे ॥ ४५ ॥ आसने शयने शून्ये तथाऽऽकाशे जलाशये । घटे चक्रे च मुद्रायां कुण्डले भाग्यवत् कचे ॥ ४६ ॥ ठीबन्तो मत्स्यसङ्घाते ठाऽऽबन्तः कर्णकोटरे । विलये विजये देवसेवने ठुः प्रियाऽर्जिते ॥ ४७ ॥ नखोच्छूनकुचे काञ्च्यां ठुः स्त्री कृत्रिमरोदने । ठेरेदन्तो वृथाहास्ये सूर्ये तारासु ठौः स्त्रियाम् ॥ ४८ ॥ वञ्चके वेषकारे ठुष्ठं बिन्दौ जलबुद्बुदे । ठशब्देऽन्येऽपि सन्त्यर्थास्ते नोच्यन्तेऽतिविस्तृतेः ॥ ४९ ॥ डो भयङ्करनादेषु चन्द्रे चञ्चलयोषिति । जिह्वायां कुण्डलिन्यां डा चण्डिका-भूतभाषयोः ॥ ५० ॥ धातुवड्डूश्च हिंसायां वधे क्षेपे च डौर्द्वयोः । डूर्डुवौ डुव इत्येवं डौर्डावावपरस्य च ॥ ५१ ॥ ;p{0005} भ्रान्ते सर्ववधे बाले बलहीने वृथाकुले । पुंसि डुर्व्यर्थवाचाले सर्पे शापे च डूः स्त्रियाम् ॥ ५२ ॥ कालक्षेपे तथा दण्डे डीः पुंसि व्योमगामिनि । उत्पाते जरत्काये डुः फेने दानेऽल्परोदने ॥ ५३ ॥ व्रणे वा पुंसि डं प्राहुः क्षुद्रजन्तौ वृथोदिते । मुस्तापत्रे करे डी स्त्री डोरोदन्तोऽन्त्यजे नरि ॥ ५४ ॥ ढो ढक्का निर्गुणे लास्ये गोमुखे ढं नपुंसके । ढीर्ना शुनी समाख्याता पक्षिभेदे स्त्रियां ढिर्वा ॥ ५५ ॥ प्रहारे चायुधे ढः स्यात् पाते ढोऽपाठि पण्डितैः । श्वापदे दुर्जने मूढे वाद्यभेदे ढ उच्यते ॥ ५६ ॥ कर्णरोगेप्यतिस्थूले गुदवाते ध्वनौ च ढुः । प्राभृते वन्दनायां ढा ढः स्वभावे विमत्सरे ॥ ५७ ॥ णो निर्गुणे जपे योग्ये दुष्टे क्रोडे च तस्करे । पशुपुच्छे स्त्रियां णा स्त्री बृहन्माने च णुः पुमान् ॥ ५८ ॥ संप्रत्यये तथा स्वार्थे णः कोणे चैकचक्षुषि । क्षीरे रणे धने धान्ये णीः पुमान् णीर्णियौ णियः ॥ ५९ ॥ समे स्वरे चये चारे चरणे णिश्चोभयात्मकः । तः प्रेते निष्फले शाते पौनःपुन्येऽव्ययं च तुः ॥ ६० ॥ रङ्गे रागे तुलादण्डे भानौ तूर्यध्वनौ च ता । पूजायां तिः स्त्रियां तोके मनोमाने महाघने ॥ ६१ ॥ अविलम्बे जले क्लीबे तस्तन्तौ तन्तुवायके । तौश्च तौरेतदर्थेऽस्ति तैर्वसाने वयत्यपि ॥ ६२ ॥ तैस्तायौ ताय इत्येवंरूपं स्त्री-पुंसयोरपि । ह्रस्वदीर्घौ तु-तू भेदे प्रश्ने ध्यानेऽव्ययं द्वयम् ॥ ६३ ॥ थो मिथ्यावाचके श्रान्ते शोके थाऽऽरब्धवस्तुनि । निमग्ने चातिगम्भीरे थं स्तोकार्थे नपुंसकम् ॥ ६४ ॥ मरुदेशप्रदेशेऽपि थाबन्तः स्थूलयोषिति । देवकूटे कषाये स्त्री दृढे परिवृढेऽपि था ॥ ६५ ॥ थुः पुंसि पर्वते द्रोणे व्रणे थुर्निन्दिते पुमान् । निष्ठीवने बले भूते थीबन्तो भाजने भुवि ॥ ६६ ॥ दो दाने पूजने क्षीणे दानशौण्डे च पालके । देवे दीप्तौ दुराधर्षे दोर्भुजे दीर्घदेशके ॥ ६७ ॥ दयायां दमने दीने दन्दशूकेऽपि दः स्मृतः । बन्धे च बन्धने बोधे बाले बीजे बलोदिते ॥ ६८ ॥ विदोषेऽपि पुमानेष चालने चीवरे वरे । दाऽऽबन्तो दिवि गङ्गायां कुले कालकृते च दा ॥ ६९ ॥ उपदायां च नैवेद्ये निर्नाथा वनिता च दा । दैः स्त्रियां देवकन्यायां दीबन्तो देवतर्पणे ॥ ७० ॥ धो विधाता धनं धर्मे धो गुह्ये गुह्यकेश्वरे । धश्चाऽश्वाधारभूतेऽपि वह्नौ वादेऽवधायके ॥ ७१ ॥ देशभेदे भृते भीते धस्तथोपरि वर्त्तते । धं च षण्ढे च पारुष्ये धूर्वधूवद् धुरि स्मृतः ॥ ७२ ॥ भारे धौर्नौवदादिष्टा धीर्बुद्धौ धातुवत् स्त्रियाम् । ध्याने धेनौ धरायां च धैरैदन्तः पुमानयम् ॥ ७३ ॥ धृ ता(ना) पतिरपि प्रोक्तो धुश्च धूर्तोऽतिधृष्टकः । वञ्चने धं च तत्सेना धा स्त्रियां च तथाऽधिके ॥ ७४ ॥ धिः समग्रे सुधावार्द्धौ लोहे धौरपि चेष्यते । धोशब्दः के निपातेषु प्राहुः पदविचक्षणाः ॥ ७५ ॥ नो नरे च सनाथेऽपि नोऽनर्थेऽपि प्रदर्श्यते । नृशब्दोऽपि नरे नाथे ना नरौ नर इत्यपि ॥ ७६ ॥ न नो इति निपातौ द्वौ नू दीर्घोऽपि तथोदितः । पृच्छायां नु वितर्केऽपि नि-र्निशब्दौ तथाऽव्ययम् ॥ ७७ ॥ ;p{0006} नीबन्तो लक्ष्मीवाच्यः स्यान्नीर्नेतरि नियौ नियः । नुः स्तुतौ दीर्घह्रस्वः स्त्री नैर्नौश्च तरणौ स्त्रियाम् ॥ ७८ ॥ नूशब्दः पातके पुंसि वायौ क्लीबे नु वारिणि । नं ब्रह्मणि तथाऽनन्ते सानन्दे नं च नन्दने ॥ ७९ ॥ पः सूर्ये शोषणे वह्नौ पाताले वरुणेऽनिले । परित्राणे क्षमे क्षेत्रे निपाते पङ्कसङ्कुले ॥ ८० ॥ उच्चदेशे स्थले पं स्यात् पूः पवित्रे पुवौ पुवः । पूः पृथिव्यां वधूवत् स्यात् पौरपि स्त्री यथा च नौः ॥ ८१ ॥ पाबन्तः पी च पा लक्ष्मीपर्यायौ धातुवच्च पाः । पाशब्दार्थे पुमानेष षष्ठ्यां पः पोस्तथा च पाम् ॥ ८२ ॥ भानुवत् पण्डिते पुः स्यात् पटहे पुरुषोत्तमे । पिः पुंसि पीडितारावे सागरे सादरे दरे ॥ ८३ ॥ फोऽपारदर्शने देवे न्याये ज्ञाने च नीरधौ । फं चायतन-बीजे फं फले फं निष्फले ध्वनौ ॥ ८४ ॥ फाऽऽबन्तो मृग-मारीचे फा फणा फं फणे च फा । चक्रवर्त्तिनि फं क्लीबे लाभे लोभे विपर्यये ॥ ८५ ॥ मूर्त्तौ डयने फं चार्के माहेन्द्रे जालके च फम् । सगर्भा योषिता फी स्यात् फूर्वधूवद् रुषाकुले ॥ ८६ ॥ बो दन्त्यौष्ठ्यस्तथौष्ठ्योऽपि वरुणे वारुणे वरे । शोषणे पवने गन्धे वासे वृन्दे च वारिधौ ॥ ८७ ॥ वन्दने वदने वादे वेदनायां च बा स्त्रियाम् । झञ्झावाते तथा मन्त्रे सर्वमन्त्रेऽमृतात्मकः ॥ ८८ ॥ बी गतार्थे विशेषार्थे विनिपातितखादने । जनने प्रजने कान्तौ तद्रूपं बीर्बियौ बियः ॥ ८९ ॥ बीबन्तो बी नदीनाथे बाऽऽबन्तो बा च वासने । धातुवद् बा च शब्दार्थे बे बो बौ बि ङिति स्मृतः ॥ ९० ॥ भा भास्करे भास्वरेऽपि भायां भा भोगयोषिति । पितृ-भ्रातृ-पितृव्येषु भोऽतिभीते भ आकुले ॥ ९१ ॥ भं नक्षत्रे भगे भोगे भीतौ भीः स्त्री भियौ भियः । भूः पुमान् वेदनायुक्ते भूर्भूमिः स्त्री भुवौ भुवः ॥ ९२ ॥ भाऽऽबन्तो धातुवच्चापि भाषितोऽर्थे भवा-ऽऽशयोः । वधूवद् भूर्द्धने भूः स्त्री भू सत्तायां द्वयोरपि ॥ ९३ ॥ मो मन्त्रे मन्दिरे माने सूर्ये चन्द्रे शिवे विधौ । मायाविनि वृथामन्त्रे मारण-प्रतिदानयोः ॥ ९४ ॥ मं मौलौ मोघवृत्तौ मं माऽऽबन्तः स्त्री रमा-ऽर्चयोः । भुवि माने च मात्रा मा मा निपातो निषेधकः ॥ ९५ ॥ दीर्घ-ह्रस्वौ मु-मूशब्दौ बन्धनार्थे त्रिलिङ्गकौ । मेरेदन्तः प्रतिदाने हिंसायां मीर्मियौ मियः ॥ ९६ ॥ धातुवद् मा धने माने बन्धने मौर्यथाऽस्ति गौः । स्त्री-पुंसयोर्मितेर्मिः स्यात् प्रेरणे मैस्तथा रणे ॥ ९७ ॥ यः सूर्ये तारके चन्द्रे या रमा-मातृ-यातृषु । वायुवेगे जले यं स्याद् याचके योऽतिकुत्सने ॥ ९८ ॥ यो यातरि रुजां लग्ने शयने याने च वाहने । युक्तौ च या च यात्रायां यो यथार्थे स्त्रियां च या ॥ ९९ ॥ धातुवद् या च शब्दार्थो गमने निर्धनेऽशने । यमाहुर्योगयोगाढ्यं यं ससारे सरित्पतौ ॥ १०० ॥ रः सूर्येऽग्नौ धने कामे रं जले रङ्ग-वेगयोः । रा रमा रमणी बाला रं तीक्ष्णे कर्कटे दृढे ॥ १०१ ॥ रैशब्दोऽथ जले स्वर्णे राध्ये रन्ध्रे च रं स्मृतम् । रो नादे वेदने छेदे रा दाने धातुवत् स्मृतः ॥ १०२ ॥ रु-रौ शब्दौ पुमांसौ द्वौ शम्भुशब्दार्थवाचकौ । री श्रवणे रुर्भये क्लीबे री च नारी पतिव्रता ॥ १०३ ॥ मेरोः परिभ्रमे भानौ रुः पुंसि रसने स्त्रियाम् । महेन्द्रे लो मृते गत्यां ला च लक्ष्मीर्लमम्बरम् ॥ १०४ ॥ लिः पुंसि लावे शब्दे लीर्धातुवल्लवने त्रिषु । लं क्लीबे लोपनेऽपि स्यादपूर्णे लं प्रकीर्तितम् ॥ १०५ ॥ ;p{0007} ला दाने धातुवद् लं च दानाऽऽदाने ल आलये । आश्लेषे लं सुखे वादे दृश्ये लौश्चेति भाषितः ॥ १०६ ॥ लूर्धातुवच्छेदने लौः स्त्री ला लीला-विलासयोः । उपालम्भे तथा लाभे लोभेऽपि लैर्दया-ऽऽदरे ॥ १०७ ॥ शः सूर्ये शोभने शीते शं सुखे शा रमा-ऽम्बयोः । आशीर्वादे च शीबन्तः शः शशाङ्केऽच्छवारिणि ॥ १०८ ॥ रश्मौ शस्ते तथा स्वच्छे शो महेशे महार्णवे । षोऽतिरोषेऽपवर्गे षः प्रक्षरे सानु-वेधसोः ॥ १०९ ॥ नार्याश्लेषे सुखे षं स्यात् पण्डितेऽपि षमादृतम् । षडूर्मिरहिते षं स्याज्जालके भेषजे च षम् ॥ ११० ॥ सुख-दुःखे समे षौर्ना षुरनित्ये नृपोत्तमे । वृषस्यन्ती सती षा स्त्री नभो-नक्षत्रयोरपि ॥ १११ ॥ सः सोमे सोमपानेऽपि सूर्ये पक्षिणि तापसे । वृषे च सः सदानन्दे सा श्रियां सं वनं धनम् ॥ ११२ ॥ यौवनेऽपि समाख्यातं वस्तुवृन्दे समाहृतम् । पूजायां सु निपातोऽस्ति सूर्वधूवच्च मातरि ॥ ११३ ॥ सोमसूः सूः सुवौ पुंसि प्रसवार्त्ता नितम्बिनी । सं सिः पुंसि परोक्षेऽपि सा च देवी सरस्वती ॥ ११४ ॥ हं हर्षे चैव हिंसायां हीरे हारे हरौ च हः । हौस्त्यागे चरणे व्याधौ क्षः क्षं क्षेत्रे क्षये गृहे ॥ ११५ ॥ ;c{॥ इति विश्वशम्भुप्रणीता एकाक्षरनाममालिका समाप्ता [१] ॥}