;METADATA ;title{एकाक्षरशब्दमाला} ;author{हरितालराजामात्यमाधव} ;bookFullName{एकाक्षरकोषसंग्रहः} ;bookSeriesDetails{} ;editor{Editor of 1 to 26 koshas - Pannyas Ramnikvijay, Reeditor - Muni Rajsundarvijay} ;editorQualifications{} ;publisher{श्रुतज्ञान संस्कारपीठ, वासणवाळा कम्पाउण्ड, विश्वनंदिकर जैन देरासर के सामने, भगवान नगर का टेकरा, अरुण सोसायटी के पास, पालडी, अहमदाबाद-७, चंपकभाई: मो. 9436010323, निरंजन शाह: मो.9825860488, Website - www.rajparivarindia.com, Email - shrutgnan@yahoo.com} ;pressDetails{जय जिनेन्द्र ग्राफिक्स (नितीन शाह - जय जिनेन्द्र), ३०, स्वाती सोसायटी, सेंट झेवियर्स स्कूल रोड, नवरंगपुरा, अहमदाबाद. जय जिनेन्द्र: मो. 9825024204, कुश: मो. 9925617992} ;publicationYear{2019 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{EKHM} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Muni Rajsundarvijay ji for allowing us to digitize the texts. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{There are two versions of this work in this volume. The present work is the one which is published from page 196 onwards in appendix.} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{12 April 2020} ;version0.0.2{25 April 2020} ;version0.0.3{25 April 2020} ;version0.0.4{25 April 2020} ;version0.1.0{25 April 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0196} ;c{[१] हरितालराजामात्यमाधवकृता} ;c{एकाक्षरशब्दमाला} ;k{स्वराक्षरकाण्डः} वेद-विष्णु-महेशान-कमलेष्वम्बिकेज्ययोः । अन्तःपुरी-भूषणे च चरणे कारणे रणे ॥ १ ॥ अकारः कथितो धीरैरङ्किते गौरवेऽपि च । असवर्णेऽभिव्याप्ताव परितापे विदाहिनि ॥ २ ॥ ईषदर्थे विस्मये च सन्तोषा-ऽमर्षयोरपि । सुखेन आङ्‌ तथा सीम्न(म्नि) चिरविस्मृतिसंस्मृतौ ॥ ३ ॥ अल्पवस्तुनि च प्रोक्तो सलिला-ऽऽक्षेपयोरपि । इकारः कुसुमास्रे च हारे चन्द्रमसः करे ॥ ४ ॥ तथा करेणुकट्यन्ते महीभृत्कुहरेऽपि च । भुजङ्गफणङ्के च मृगे धेनौ च रूप्यके ॥ ५ ॥ उकारः सायके शर्वे वरे नीरजकेसरे । शक्रचापे हरौ पाणौ कमलारचनास्वपि ॥ ६ ॥ क्षोणीभृत्कुहरे पद्मदलेषु गदितो बुधैः । ऊकारः क्षत्रिये शम्भौ हरमौलौ हरौ शनौ ॥ ७ ॥ तपो-द्रुमाग्र-चन्द्रार्ध-गौरभूषु विलोचने । ऊकारे रजनीनाथे पुरुषे राजपुत्रके ॥ ८ ॥ गले मङ्गलकुम्भे च देवे फणिनि तक्षके । उपमाने प्राङ्गणे च क्वचिदर्थे प्रवर्द्धके ॥ ९ ॥ ऋकारस्तु रिपौ बुद्धिविशेषे कुञ्जरेऽपि च । शवे देवतटिन्यां च सुरायां देवमातरि ॥ १० ॥ विधुरे महति प्रोक्तो नामशासनकोविदैः । ॠकारश्चिकुरे सर्पमणौ विगतसम्पदि ॥ ११ ॥ भूते भुजङ्ग_स्यां(?) च तथा दनुजमातरि । भू(त)र्पणे सलिले पद्मे तुहिने तरले धने ॥ १२ ॥ ऋकारस्तु तथैवोक्तः प्राज्ञैकाक्षरकोविदैः । लृकारो लिप्तमात्रे(गात्रे) च त्रिदिवेशे वने_ते(?) ॥ १३ ॥ किटिदन्ते हस्तिदन्ते कुलीर-कपिदन्तयोः । सुपर्णमातरि प्रोक्तो रजस्यपि मनीषिभिः ॥ १४ ॥ लॄकारस्तु गिरौ देहे(वे) कृकलासेऽङ्ग-बाणयोः । मकरीवदनागारे जनन्यां नागमातरि ॥ १५ ॥ लीलागमननेत्रेषु रोचनाङ्गेषु च स्मृतौ । एकारः कथ्यते विष्टौ रजनीशाविधानयोः ॥ १६ ॥ हर्म्योदरे दीनमृगे गगने मणिकुट्टिमे । तेजस्त्रैकालिकाख्यायां संख्यायामपि दृश्यते ॥ १७ ॥ ऐकारः सङ्करे हस्ते दन्तागेष्विन्दु(द्र)वारणे । __लावर्त्तदेशेषु त्वचि स्याच्छिखरे गिरौ ॥ १८ ॥ ओकारो वर्णशीतांशुपङ्कदायाद्म(ब्ज)केषु च (?) । त्रिदिवेशे पयोवाहजीवस्वसदनेऽपि च ॥ १९ ॥ योनौ सरोजतोयार्थे कुड्ये च कथितो बुधैः । औकारः पर्वते पुत्रे प्रश्ने चौषधिमानयोः ॥ २० ॥ विशुद्धकायेऽनन्ते च कलायां रजनीपतौ । तथा सिद्धविमानार्थे कथ्यते कृतबुद्धिभिः ॥ २१ ॥ कार्ये स्याद्‌ वज्रकवचे मुनौ कम्पयुते जये । सप्तस्वरान्तमाने च सङ्गीतज्ञैरुदाहृतः ॥ २२ ॥ अं शब्दोऽञ्जलिपर्याये परस्मिन्नपि तेजसि । अः शब्दो गिरिजानाथे सिद्धमन्त्रे रमापतौ ॥ २३ ॥ दिनेशस्य निशेशस्य ग्रहोपद्रवसम्भवे । शिखायां चन्द्रबिम्बे च चरणा_धमस्तके ॥ २४ ॥ ;c{॥ इति हरितालमाधवस्य कृतौ एकाक्षरमालायां स्वराक्षरकाण्डः प्रथमः ॥} ;k{व्यञ्जनकाण्डः} कः स्याद्रुते महे बुध्ने मारुते शमने वने । सितवर्णे मयूरे च हठे चाटुनि वारिदे ॥ २५ ॥ वशे च हरिशबरे च प्रकाशे पुंसि कथ्यते । स्रीलिङ्गे च सुराणां तु कं तु स्याच्च नपुंसके ॥ २६ ॥ सलिले जलजे चैव ब्रह्मण्यपि च मस्तके । शर्वकामेऽपि किंशब्दस्त्रिषु लिङ्गेषु संस्मृतः ॥ २७ ॥ अथाऽध्याये निरुक्तेऽपि कु च प्रश्नार्थयोरपि । कुशब्दस्तूपसर्गे स्यादुर्व्यां विसहितेऽपि च ॥ २८ ॥ चक्रे च कैतवे हारे ध्वांक्षे कोपे शिखिन्यपि । कं स्यात्‌ पक्षे विशेषे च गुप्तकार्ये युधिष्ठिरे ॥ २९ ॥ त्रिलिङ्गे का-कुशब्दस्तु ध्वनिवैरूप्यसम्भवे । गायकानां कण्ठदोषे कै कं क्रें का शिखिस्वने ॥ ३० ॥ ;p{0197} क _ _ _नभेदे च शास्रभेदे च अन्नदे । क-को-कशब्दः कुमतः पंनपुं _ _ र्दहाः (?) ॥ ३१ ॥ _ _ र्थिने च तादर्थ्ये कप्रत्ययमुदाहृतम्‌ । खः पुंल्लिङ्गे कृशे _ने स्वर्ग-शून्य-दरा-ऽग्निषु ॥ ३२ ॥ कृपणे निश्चये शान्ते रथे विहगनायके । कर्मेन्द्रिये सुखे क्षत्रे क्ली[बलिङ्गे] विहायसि ॥ ३३ ॥ दन्तधावन-संवेद-पुण्यादिफलदेष्वपि । गशब्दः पुंसि गान्धारे गन्धर्वे गणनायके ॥ ३४ ॥ उपमार्थे महीपुत्रे छन्दस्सु गुरुवाचके । स्त्रियां तु सुखशै _ _ गोगत्योरपि गा स्मृता ॥ ३५ ॥ नपुंसके च गलिते नागे च परिकीर्त्तितः । गौः स्यात्‌ पुंसि निशानाथे क्रतुभेदे प्रभाकरे ॥ ३६ ॥ वृषभे मुनिभेदे च स्त्रियां तु धरणीविभौ । आशायां च सरस्वत्यां सुरभावपि कथ्यते ॥ ३७ ॥ स्त्रीपुंसयोस्तु गोशब्द इष्टि-दीधिति-रागिषु । व्योम्नि स्वर्गे खगे दण्डे गङ्गा तु सुरवाहिनी ॥ ३८ ॥ घशब्दः पुंसि वै नागे पराक्रम-निदाघयोः । घण्टा-हननयोश्चापि वैशाखे च निगद्यते ॥ ३९ ॥ घा चाऽऽर्त्तिः किङ्किणी च स्याद्‌ घं नादा-ऽमृतयोर्भवेत् । ङशब्दो निनदे पुंसि सुरभौ परिकीर्त्यते ॥ ४० ॥ ङशब्दः शरपौरार्थे त्रिषु लिङ्गेषु वर्त्तते । ज(ङ)कारः पुंसि शब्दज्ञे भैरवे देशयोजने ॥ ४१ ॥ अनुबन्धानु _ _ _ _ पुव्यसनशायिषु । पुंसि केत्वञ्जने स्याद्‌ वा त्रिलिङ्गे च भयङ्करे ॥ ४२ ॥ चः पुंलिङ्गे निशानाथे तुरुष्के तस्करे खरे । चा शोभायां स्त्रियामुक्ता रुधिरे च नपुंसके ॥ ४३ ॥ चशब्दस्त्रिषु लिङ्गेषु _ _र्थी व्ययेषु सः (?) । समुच्चया-ऽपचययोः पक्षान्तरनिरूपणे ॥ ४४ ॥ समासके समाहारे मिथोयोगेऽप्युदाहृतः । चञ्चुः स्त्रियां पक्षिमुखे चिञ्चा स्यात्‌ तिन्तिणीफले ॥ ४५ ॥ चे नदीतोयमित्यर्थ चञ्चु प्रत्ययमिष्यते । छः पुंसि छ _ _ _ छागे शक्तिधने छगे ॥ ४६ ॥ श्रुते प्रलापे मन्त्रस्य विभागे ह्यक्षरस्य च । आदानेऽपि चरित्रे च वर्तते पुं-नपुंसके ॥ ४७ ॥ सर्जा-निर्मलयोरुक्तः छकारो वाच्यलिङ्गकः । जः पुमान्‌ विजले मुक्ताविस्तारे मत्सरीजने ॥ ४८ ॥ जं तूक्तो वरशब्दे जा स्त्रियां देहविदा(वा)हिनी । योनौ समुद्रवेलायां पुंनपुंसकमम्बुदे ॥ ४९ ॥ कटीविभूषणे पत्न्यां जः स्याज्जनन-जैनयोः । झः पुंल्लिङ्गे जवे व्योम्नि विचारे च प्रकीर्त्यते ॥ ५० ॥ झा स्त्रियां तु सरस्वत्यां झा झिः स्यात्तरुसम्भवे । पुंलिङ्गे तु ञकारः स्याद्‌ ससी _ _ _ सम्भवे ॥ ५१ ॥ ञं ञूनि(रि)ति प्रतापे च हंसके भ्रमरे मदे । उपाये ञ निधाने [च] ञं तु स्याद्‌ द्युति-पद्मयोः ॥ ५२ ॥ भयङ्कराख्यशब्दे स्यात्‌ त्रिषु लिङ्गेषु कीर्त्तितः । ञकारोऽपि तथाऽनष्टे ञंञा तीव्रसमीरणे ॥ ५३ ॥ टकारः पुंसि विषये विरुद्धे गर्दभस्वने । त्रिलिङ्गे _हरिगः(?) स्यादुत्ताने मूढरूपके ॥ ५४ ॥ टशब्दः सोऽध्वगे सूनौ करटे धूम-तापयोः । आवर्त्ते भानुरद्धा (?) च कराटे टुः प्रकीर्त्यतेः ॥ ५५ ॥ टा स्त्रियामपि मृज्यायां व्याहृतौ च निगद्यते । ठशब्दः कथ्यते पुंसि बृहद्ध्वान-महीपयोः ॥ ५६ ॥ नपुंसके साहसे स्यात्‌ सम्भवे चन्द्रमण्डले । त्रिलिङ्ग्यां तु शठे शुन्ये मनोजे कठिनेऽपि च ॥ ५७ ॥ ठुकारः कथ्यते पुंसि विषये शङ्करेऽधरे । हस्त्यश्वानां निनादे च क्षये क्षौद्ररसे धने ॥ ५८ ॥ स्रियां तु वाजिशिक्षायां पीडायामपि ठा स्मृता । भवेन्नपुंसके दुर्गपथे समरुगे तथा ॥ ५९ ॥ डशब्दः पुंसि डिण्डीरे हस्ते चापि भगन्दरे । पिशाचे पथिके काले रागे च परिकीर्त्त्यते ॥ ६० ॥ डुशब्दस्तु त्रिलिङ्गे स्याद्‌ गूढे सौम्या-ऽपसद्मयोः । णशब्दः कण्ठके जारे भैरवे च भगन्दरे ॥ ६१ ॥ णा स्त्री रजन्यां जायायां वेदनायामपि स्मृता । णं संशोध्यजले ज्ञाने गमने परिकीर्त्यते ॥ ६२ ॥ णशब्दस्त्रिषु लिङ्गेषु भवेन्निश्चलवस्तुषु । तकारः पुंसि संयोगे निश्चये विस्तरे समे ॥ ६३ ॥ तु स्याद्‌? वादविधौ क्रोधे ता कृपायां स्त्रियां मता । पश्चादर्थे विवक्षायां तत्‌ शब्दस्याव्ययं भवेत्‌ ॥ ६४ ॥ ;p{0198} तद्वत्‌ समुच्चये हेतौ निश्चये चावधारणे । ततः शब्दोऽनन्तरार्थे तातस्तु जनके पुमान्‌ ॥ ६५ ॥ तन्तुः पुंसि गणे स्तोमे स्त्रियां ततिरुदाहृतः । नपुंसके तन्तुवाद्ये वीणादौ परिकीर्त्यते ॥ ६६ ॥ ततं चैव त्रिलिङ्गे स्याद्‌ विस्तृतार्थे प्रदृश्यते । थः पुमान्‌ सिंह-कल्लोल-विरामेषु महीधरे ॥ ६७ ॥ स्यादास्फालनशब्देषु जाले धातौ स्त्रियां च था । थं नपुंसकलिङ्गे तु भवेद्‌ भयनिवारणे ॥ ६८ ॥ त्रिलिङ्ग्यां तु थकारोऽसौ सिता-ऽसित-पृथुष्वपि । पुमान्‌ धातरि दः शब्दो दा स्त्रियां क्षोणि-दानयोः ॥ ६९ ॥ दं नपुंसकलिङ्गे तु भवेत्‌ पुत्र-कलत्रयोः । दाने सम्बोधने प्रान्ते वैराग्ये चावलोकने ॥ ७० ॥ त्रिलिङ्ग्यां मुषिते मूले गृहीते द्रावके शुचौ । पुं-नपुंसकयोर्बाहौ दोः स्यात्‌ स(ष)ण्डे च दोः स्त्रियाम्‌ ॥ ७१ ॥ कृच्छ्रे स्वे निन्दिते दुःखे चोपसर्गे च दुर्मतः । धः पुमान्‌ सन्निभे स्याद्‌ धं मृदुरेणु-कशेरयोः ॥ ७२ ॥ धकारः पुंसि कथितः सानौ मानविशेषके । धने धान्ये स्त्रियां धा स्याद्‌ भये धूपे च धः पुमान्‌ ॥ ७३ ॥ नकारः पुंसि हेरम्बे ना भवेत्‌ पुरुषे तथा । नकारस्तु स्त्रियां नादो संवाह्यज्ञान _ _ _ ॥ ७४ ॥ नशब्दस्त्रिषु लिङ्गेषु दन्ते चाभिन्न-सूक्ष्मयोः । प्रस्तुते चापरिश्लेषे शून्ये रिक्तेऽपि च स्मृतः ॥ ७५ ॥ ना स्त्रियां संस्तुतौ नावि नौ स्यादेवं निरूप्यते । नुन्नशब्दस्त्रिलिङ्गेषु प्रेरिते कथ्यते बुधैः ॥ ७६ ॥ अव्ययः प्रतिषेधार्थे नकारः स्थिर-निश्चये । ना तथा प्रतिषे[धे] स्यादुपसर्गे तु निः स्मृतः ॥ ७७ ॥ निश्चये च निषधार्थे नूनं स्यात्तर्कनिश्चये । नानाप्रकारे भेदे स्याद्‌ भवेन्नु त्ववधारणे ॥ ७८ ॥ पुंल्लिङ्गे चोपकारे स्याद्‌ वपने पर्वते क्षणे । पकारस्तु भवेल्लग्ने पत्रे शास्त्रा-ऽर्चयोरपि ॥ ७९ ॥ पा स्त्रियां सङ्गते वारिधार-पान-सुधास्वपि । नपुंसके पं कनके विपन्ने वाच्यलिङ्गवत्‌ ॥ ८० ॥ आप्ये चापे च दैवे स्यात्‌ स्त्रियां पूर्नगरी स्मृता । प्रपशब्दस्तपुरार्थे(?) बुधैः पुंसि निगद्यते ॥ ८१ ॥ पम्पा सरोविशेषे स्त्री पापं पुण्येतरेऽपि च । तद्वति त्रिषु लिङ्गेषु पाऽप्युक्ता शब्दशासने ॥ ८२ ॥ झञ्झावर्त्ते फकारः स्यात्‌ प्रासादे प्राङ्गणे रणे । फकारो गोश्च पूत्कारे पुं स्यादथ च फः स्त्रियाम्‌ ॥ ८३ ॥ दिक्षु प्रोक्ते कला-केश-कुटी-धनुःषु कथ्यते । विशेष्यनिघ्नः फशब्दः परोक्षेऽपि हिते तथा ॥ ८४ ॥ बः पुमान्‌ पुरुषे कुम्भे विकल्पे गगने गुरौ । कलहे खगभेदे च भेदे चाल्पे च पर्वणि ॥ ८५ ॥ विभृत्तिकार (?) बिन्दौ च हलाकृष्टविसर्जने । बाकारस्तु स्रियां वल्ली-काहली-शृङ्खलास्वपि ॥ ८६ ॥ नपुंसके बले पुं स्यादमले वाच्यलिङ्गवत्‌ । बिः पुमानण्डजे व्योम्नि बिम्बत्वेऽथ नपुंसके ॥ ८७ ॥ पलिभेदे पुष्पभेदे मण्डले पुंनपुंसकम्‌ । भकारः पुंसि जलभे(दे) छदे शम्भौ शिलीमुखे ॥ ८८ ॥ सुधीः स्त्रियां च भा दीप्तौ स्याद्‌ दाराणामलङ्कृते । नपुंसके भं नक्षत्रे गगने मन्त्र-चक्रयोः ॥ ८९ ॥ भीः स्त्रीयां साध्वसे भाश्च रश्मौ भूर्भुवि बोध्यते । भो भो सम्बोधने दृष्टो माधवे च मनीषिणि ॥ ९० ॥ पुमान्‌ भकारः श्रीकण्ठे चन्द्रे वह्नौ विभावसौ । सत्यवादे प्रकोष्टे च तन्वक्षे संयुते तथा ॥ ९१ ॥ कपिले पिङ्गले वर्णे बिम्बके भुः प्रकीर्त्यते । म स्त्रियां मञ्जुकायां च लक्ष्म्यां माने च मातरि ॥ ९२ ॥ मदिरा-मदयोः स्तेन-चेलयोरपि दृश्यते । नपुंसके जने पुं स्यादव्ययं मा निवारणे ॥ ९३ ॥ यकारः पुंसि पवने यमे धातरि यातरि । त्यागे भावे चये लिप्ये विनये कल्पपादपे ॥ ९४ ॥ या स्त्रियां यान-मञ्जर्योः शोभा-लक्ष्म्योश्च निर्मिता । नपुंसके यकारस्तु यशो-रूपकयोर्भवेत्‌ ॥ ९५ ॥ यदु पूर्वभवे_ _चाश्वमेधतुरङ्गमे । यायी गमनशीले च प्रोक्तो रूढे च मिन्त्रिणि ॥ ९६ ॥ रः स्यात्‌ पुमान्‌ शिवे वह्नौ वज्रे कामे रवौ गुरौ । अनाथे कपिले पिण्डे वीरे पाके तरीश्वरे ॥ ९७ ॥ नपुंसके रशब्दस्तु धान्य-रोमाञ्च-कुक्षिषु । रशब्दस्तु नये बुद्धे भये चैव हि रा स्त्रियाम्‌ ॥ ९८ ॥ ;p{0199} आशायां च धने व्योम्नि शालायां च गतौ तथा । उत्तमाङ्गे च वदने रुधिरे चापि कथ्यते ॥ ९९ ॥ विशेष्यनिघ्नो रः शब्दो वीरशक्त्यादितीक्ष्णयोः । नीचसम्बोधने रे स्यादव्ययं परिकीर्त्तितम्‌ ॥ १०० ॥ मुनिभेदे रुरुः पुंसि मृगभेदे च कथ्यते । लः पुंसि रस्त्रि लि स्त्रि स्याल्लं ला लेऽथ नपुंसके (?) ॥ १०१ ॥ लकारो लवने लूने वाच्यलिङ्गो भवेदसौ । मुखनिस्सृतनिष्ठ्यूते लाला लीला तु विभ्रमे ॥ १०२ ॥ लाल उत्कृष्ट-चलयोर्वाच्यलिङ्गो निगद्यते । वः पुमान्‌ स्वान्तगे वाते मरणे संयमेऽधरे ॥ १०३ ॥ प्रबोधे मदने चैव विहगे गगनेऽपि विः । शिक्षाभृद्‌-गन्ध-गतिषु वा स्त्री वं तु नपुंसके ॥ १०४ ॥ वशब्दो नयने वाहे अव्ययं स्यात्‌ समुच्चये । उपमायां विकल्पे च निश्चये च निगद्यते ॥ १०५ ॥ उपसर्गे च विश्लेषे पृथगर्थे विकारके । विलये च विशेषे च विहतौ वि भवेत्‌ तथा ॥ १०६ ॥ शकारः पुंसि गिरिशे शिष्ये स्वस्मिन्‌ तनूकृते । वल्मीके कच्छपे चैव शिकारस्तु सदाशिवे ॥ १०७ ॥ शा स्त्रियां वेदपूजायां शान्ते शोभा-वरेण्ययोः । शक्तौ भक्त्यां रमायां च शकारः शयना-ऽऽशिषोः ॥ १०८ ॥ विततावपि शूकारो हिंसायां च निगद्यते । षकारः पुंसि त्रिदिवे परोक्षे च भवेत्तथा ॥ १०९ ॥ षोऽस्त्रियां मधुरायां च षकारोऽथ नपुंसके । अवसाने गर्भमोहे सुषेणे च निरूप्यते ॥ ११० ॥ नित्राणे निवहे चैव रवे चेत्यादिषु स्मृतः । विशेष्यनिघ्नः षशब्दो श्रेष्ठार्थे समुदाहृतः ॥ १११ ॥ सकारः पुंसि साकारे गौरीपुत्रे प्रभञ्जने । धर्मे हिते च साकारो देहकान्त्यां स्त्रियां मतः ॥ ११२ ॥ सुस्तदागर्भमोक्षे च सन्धाने विनिवारणे । ज्ञाने रथपथे चैव त्रिलिङ्ग इति संस्मृतः ॥ ११३ ॥ श्रेष्ठे विकल्पे सं स्याद्धि सद्वृत्ते उपसर्जने । सीसं नपुंसकं प्रोक्तं धातुभेदे मनीषिभिः ॥ ११४ ॥ हकारः पुंसि जनने हरिण्यां हरि-सिंहयोः । ईश्वरे सावशेषे च रेणु-रोचन-वाजिषु ॥ ११५ ॥ हा स्त्रियां त्यजने गत्यां वीणायां च निगद्यते । नपुंसके हकारस्तु क्षणिते मणिरोचिषि ॥ ११६ ॥ धारणौ हीरब्रह्मण्ये शास्रे चाऽऽमन्त्रणेऽपि च । सुखे विशेषणे चेव त्रिलिङ्ग्यामपि कथ्यते ॥ ११७ ॥ उपमा-हास्ययोश्चैव हाऽव्यये कृष्ट-शोकयोः । आर्त्ति-सर्जनयोरुक्ता हे च सम्बोधने भवेत्‌ ॥ ११८ ॥ हिर्हिते च प्रसिद्धे च ह अङ्गीकरणेषु च । हाहा हूहूश्च गन्धर्वे हाहो सम्बोधनेऽव्ययम्‌ ॥ ११९ ॥ हाहा दैत्याद्भुते भेदे कथ्यते नामशासनात्‌ । क्षकारः पुंसि दुःस्वप्ने क्षेत्र-राक्षसयोस्तथा ॥ १२० ॥ क्षेमे तु विरहे रोधे विशेषे च निगद्यते । क्षा स्त्री क्षमायां निन्दायां क्षं स्याद्‌ दृश्ये नपुंसके ॥ १२१ ॥ क्षेत्रे निर्भर्त्सने चैव क्षोऽव्ययं मञ्जुवाचकः । ;c{॥ इति व्यञ्जनकाण्डः ॥} ;k{संयुक्ताक्षरकाण्डः} खशब्दोऽव्ययरूपः स्यात्‌ क्षुरलि(?) प्रश्नवाचक ॥ १२२ ॥ स्या(ख्या)तौ स्त्रियां तु स्वा(ख्या)शब्दो ग्लौः स्यात्‌ पुंसि कलानिधौ । ज्ञशब्दः सौम्यविदुषो ज्ञा स्त्री स्यादवबोधने ॥ १२३ ॥ ज्याशब्दः कार्मुकगुणे स्त्रीलिङ्गः कथितो बुधैः । त्राकारः कथितस्त्राणे स्त्रियां द्वार्द्वारि कथ्यते ॥ १२४ ॥ द्रुशब्दः कथितो धीरैः पुंल्लिङ्गो वृक्षवाचके । [सं]ख्याभेदे त्रिशब्दश्च द्विशब्दः परिकीर्त्यते ॥ १२५ ॥ द्यौः स्त्रियामम्बरे स्वर्गे धन-कान्त्योर्निगद्यते । उपसर्गे प्रकारस्तु प्रकृष्टार्थस्य वाचकः ॥ १२६ ॥ बिल्ववृक्षे विषे लक्ष्म्यां श्रीशब्दः कथ्यते स्त्रियाम्‌ । स्वशब्दः स्वात्मनि ज्ञातौ धनेऽपि च नपुंसके ॥ १२७ ॥ स्वकीये तु त्रिलिङ्गः स्यादव्ययं स्वस्त्रिविष्टपे । उषायां जन्तुभेदे च स्त्रीशब्दः कथ्यते स्त्रियाम्‌ ॥ १२८ ॥ शृशब्दः शैलकटके पुंनपुंसकयोर्भवेत् । ह्रीः स्त्रियां कथ्यते व्रीडा ह्योऽव्ययं दिवसे गते ॥ १२९ ॥ क्षाशब्दः कथ्यते प्राज्ञे स्त्रीलिङ्गे भूमिवाचके । अनुसम्बोधने धीरे जिते क्षश्च निगद्यते ॥ १३० ॥ ;c{॥ इति संयुक्ताक्षरकाण्डः ॥}