;METADATA ;title{गणितनाममाला} ;author{हरदत्त} ;bookFullName{द्वादशकोशसंग्रहः} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{बाबू वाराणसी प्रसाद} ;pressDetails{ज्ञानवापी के पूर्व फाटक पर श्रीविश्वनाथजी के पास श्री३युत महाराज शिवलाल दुबेजी के मकान मे छपी । जिनको लेना होय उन्होने इस छापेखाने के कार्य संपादक बाबू वाराणसीप्रसाद या कचौरी गली में भाई प्रतापसिंहजी के दुकान पर मिलेगी ।} ;publicationYear{1929 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{GNHD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. https://jainelibrary.org/ for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{20 May 2020} ;version0.0.2{20 May 2020} ;version0.0.3{28 May 2020} ;version0.0.4{28 May 2020} ;version0.1.0{28 May 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{श्रीगणेशाय नमः ।} गणितस्य नाममालां वक्षे गुरुप्रसादतः । बालानां हि सुबोधाय हरिदत्तो द्विजाग्रणीः ॥ १ ॥ ;k{नक्षत्रनामानि} ;c{अथ नक्षत्रनामानि ।} अश्वनी दस्रभेदास्त्र नासत्यं तुरगं हयम् । भरणी यमभं याम्यं प्रोक्तमंतकमांतकम् ॥ २ ॥ कृत्तिकाग्निभमाग्नेयं कृशानं हव्यवाहनम् । अनलं दहनर्क्षं च वह्निभं च हुताशनम् ॥ ३ ॥ रोहिणं रोहिणी ब्राह्मं प्राजापत्यं च धातृभम् । मृगशीर्षं मृगशिरं सौम्यं मृगश्च शोभनम् ॥ ४ ॥ ऐंदवं चन्द्रशशिभमिंदुं चंद्रभमुच्यते । आर्द्री शिवं शिवर्क्षं च शिवभं रौद्रमीश्वरम् ॥ ५ ॥ ईशं च शांकरं शर्वं शंकरं शशिशेखरम् । पुनर्वसु पुनःप्रोक्तमादित्यं च तथादिति ॥ ६ ॥ पुष्यं तिष्यगुरूभं च अश्लेषा सर्पदैवतम् । सार्प्पभं सर्पभं सार्प्पं मघा च पितृदैवतम् ॥ ७ ॥ पितृभं पितरं पित्रं पूर्वाफाल्गुनि भाग्यभम् । भगं भाग्यं तथा प्रोक्तोत्तराफल्गुनि चार्यभम् ॥ ८ ॥ उग्रार्यमास्ततो हस्त अर्कं चैव तथार्कभम् । करं सवित्तृ सूर्यर्क्षं चित्रा त्वाष्ट्रं चत्वष्ट्रभम् ॥ ९ ॥ सुरवार्द्धकिसंज्ञं च तथा स्वातिं च मारुतम् । अनिलं वायुनक्षत्रं विशाखेंद्राग्निदैवतम् ॥ १० ॥ शक्राग्निभद्विदैवं च मैत्रं मित्रानुराधकम् । ज्येष्ठा शाक्रं चशक्रर्क्षं पौरुहूतं तथेंद्रभम् ॥ ११ ॥ तथैव वासवर्क्षं च मूलनैष्कृति निरृति । पूर्वाषाढा तथा पूषा तोयभं च तथांबुभम् ॥ १२ ॥ ऊषा चैवोत्तराषाढा विश्वं च विश्वदैवतम् । श्रवणं वैष्णवं विष्णुर्गोविंदं हरिभं श्रुतिः ॥ १३ ॥ वासुदेवं धनिष्ठा च श्रविष्ठा वासवं वसु । शतभिषा वरुणं चैव वारुणं शततारका ॥ १४ ॥ अजमार्जपदं पूभं तथाजचरणं मतम् । तथोत्तरा भाद्रपदमाहिर्बुध्नं च भं स्मृतम् ॥ १५ ॥ रेवती पूषभं पौष्णं पूषमान्त्यं च पौष्णभम् । पूषं चैवान्त्यसंज्ञं तु कथितं शास्त्रकोविदैः ॥ १६ ॥ ;c{इति नक्षत्र नामानि ।} ;k{नक्षत्रसञ्ज्ञा} ;c{अथ नक्षत्रसञ्ज्ञा ।} धिष्ण्यं भमर्क्षनक्षत्रं तारका इति गद्यते । ;c{इति नक्षत्रसंज्ञा ।} ;k{एकाद्यङ्कानां सञ्ज्ञा} ;c{अथैकाद्यङ्कानां सञ्ज्ञा ॥} एकेंदु रजनीनाथ कुभु चन्द्रं च मेदिनी । धरारूप निशानाथ रजनीश निशाकर ॥ १७ ॥ वसुधाशर्वरीकान्तशशाङ्कावनयस्तथा । यत्र भूमींदुनामानि प्रोक्ता तत्रैकसञ्ज्ञका ॥ १८ ॥ ;p{0002} द्विनेत्रलोचनः पक्षादस्राक्षियमवाहवः । यमलाश्विभुजापाणिकरयुग्मादयो मताः ॥ २० ॥ कृशानुगुणरामाग्निपावकानलवह्नयः । हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥ चतस्रश्चतुरो वेदा सागराब्धिकृताश्चतुः । समुद्राम्भोनिधियुगा श्रुतिनीररगीश्वराः ॥ २२ ॥ शरमार्गणबाणेषुसायकानिलमारुतः । समीरणाक्षपवनाः पंचवातास्तथाशुगाः ॥ २३ ॥ षष्ठसंज्ञा षड्रत्वं गरसा प्रोक्ता मनीषिभिः । मुनिपर्वतशैलादि सप्ताचालनगा स्मृताः ॥ २४ ॥ संज्ञा हयाश्च तुरगा सप्तागमुनयोऽपि च । अष्टानीं वसुनागेभहस्तीदन्त्यष्टकुञ्जराः ॥ २५ ॥ गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा । शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥ आकाश नाम यत्रैव तत्र शून्यमुदाहृतम् । ककुपदिक्काष्ठा च दशसंज्ञा सदैव हि ॥ २७ ॥ शिवैकादश रुद्राश्च सर्वेशाभवशंकरा । यत्रेश्वरस्य नामानि तत्रैकादश कीर्तिताः ॥ २८ ॥ भास्करादित्यसूर्यार्क द्वादशं च दिवाकरः । रविः सहस्रकिरणदिनकृद्भानवो ध्रुवम् ॥ २९ ॥ बुधैर्द्वादाश विज्ञेया यत्र नाम भवेद्रविः । विश्वे त्रयोदशः प्रोक्तः इंद्रशक्रश्वतुर्दशः ॥ ३० ॥ आखण्डलः सुरपतिः सुरेशमनुवासवाः । तिथिः पंचदशः प्रोक्ता नृपभूपति षोडशः ॥ ३१ ॥ ज्ञेया षोडशसंज्ञा वै नाम स्याद्यत्र भूपतेः । अथ सप्तदशात्यष्टि तत्रैवाष्टदशा धृतेः ॥ ३२ ॥ द्वाविंशतेराकृतिश्च नखसंज्ञास्तु विंशतिः । सिद्धा जिनाश्चतुर्विंशत्तत्त्वं च पञ्चविंशतिः ॥ ३३ ॥ सप्तविंशति नक्षत्रं धिष्ण्यर्क्षोडुश्व कथ्यते । दंता रदाश्च द्वात्रिंशत्संज्ञोक्ता मुनिसंमतम् ॥ ३४ ॥ त्रिदशा देवता देवास्त्रयस्त्रिंशत्सुराबुधाः । त्रिविष्टपाश्च विबुधा संज्ञाङ्कानां सदा स्फुटा ॥ ३५ ॥ ;c{इत्यङ्कसञ्ज्ञा ॥} ;k{राशिसञ्ज्ञा} अजक्रियो मेषसंज्ञा प्रोक्ता बुधैश्च गोवृषम् । मिथुनो वैणिको युग्मो प्रोक्तो कर्कश्व कीटकः ॥ ३६ ॥ मृगारिमृगराट् सिंहो मृगेन्द्रः केसरी हरी । नारी स्त्री युवती योषित्कन्या च प्रमदाङ्गना ॥ ३७ ॥ वणिक् तुला वाणिजश्च वृश्चिकोऽलिसरीसृपः । चापो धनुश्च धनुषो कोदण्डकार्मुकोऽपि च ॥ ३८ ॥ ;p{0003} तथैव विबुधैः प्रोक्तो नक्रश्च मकरो मृगः । घटकुंभश्च कलशो मत्स्यो मीनो झषो मतः ॥ ३९ ॥ ;c{इतिराशिसञ्ज्ञा ॥} प्रथमंतनुश्च मूर्त्तिराद्यं देहशरीरकम् । द्रविणं धनं द्वितीयं च द्रव्यं चसमर्थं विधिः ॥ ४० ॥ कुटवं स्वाप्तं च मुखं विभवश्चैव वैभवम् । सहजं सहस्तृतीयं च पराक्रमं सहोदरम् ॥ ४१ ॥ विक्रमं त्रिश्च दुश्चिक्यं चतुर्थं हि बुकं जलम् । जननी मातृपातालं बन्धुतूर्यं सुखं सुहृत् ॥ ४२ ॥ रसातलांबुवेश्मोक्तं पंचमं सुतमात्मजम् । सन्तानं बुद्धिसंज्ञा च विद्या धीश्चैव नंदनम् ॥ ४३ ॥ अरिः षष्ठं विपक्षं च द्वेष्यः शत्रुश्च षट् द्विषन् । विरोधी वैरिसंज्ञं च षट्कोणं चैव सप्तकं ॥ ४४ ॥ कलत्रं सप्तमं चाथ द्यूनं च स्मरमन्मथम् । जामित्रं मदनाह्वानं कामं ततोऽष्टमं मृतिम् ॥ ४५ ॥ निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् । छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥ त्रिकोणं च तथाकाशं व्यापारं दशमं विपत् । कर्माम्बराख्यं व्योमं च गगनं पुष्करं नभः ॥ ४७ ॥ एकादशं भवं लाभं प्राप्तिमापमुदाहृतम् । अन्त्यं व्ययं द्वादशमं रिष्यं प्राहुर्मुनीश्वराः ॥ ४८ ॥ ;c{इतिद्वादशभावानां संज्ञा ॥} ;k{केन्द्रत्रिकोणपणफरआपोक्लिमसंज्ञा} अन्यच्च चतुर्थमष्ठमं प्रोक्तं चतुरस्त्रं सदैव हि । दशैकादशषष्टस्त्रिसंज्ञाश्चोपचयानि च ॥ ४९ ॥ अन्या ह्यपचयानि स्युर्गर्गाद्यैर्गदितानि वै । कण्टकं केन्द्रमित्युक्तं तथा बुधैश्चतुष्टयम् ॥ ५० ॥ द्यूनाम्बुदशमैकानि ततः पणफरं स्मृतम् । द्विपंचाष्टम लाभानां ततश्वापो क्लिमं भवेत् ॥ ५१ ॥ व्ययारिसहधर्माणां त्रिकोणनवपंचमम् । ;c{इति केन्द्रत्रिकोणपणफरआपोक्लिमसंज्ञा ॥} ;k{भुवनसञ्ज्ञा} आलयं भुवनं गेहं गृहं क्षेत्रं च मन्दिरम् ॥ ५२ ॥ स्थानं च सदनं वेश्म तथा वासं विनिर्दशेत् । ;c{इति भुवनसञ्ज्ञा ॥} आदित्यः सविता सूर्यस्तिग्मांशुर्दिनकृद्रविः ॥ ५३ ॥ सहस्रकिरणः पूषा प्रद्योतनो दिवाकरः । पतङ्गस्तपनो मित्रो मार्त्तण्डस्तरणिर्भगः ॥ ५४ ॥ विकर्त्तनः सप्तसप्तिः सप्ताश्वद्युमणिः खगः । विरोचनो दिनकरो दिनमणिस्तुरहर्पतिः ॥ ५५ ॥ दिवांपतिर्दिनेशश्व दशसप्तांशुरर्यमा । विवस्वानिनांशुमालिः प्रभाकरश्च भास्करः ॥ ५६ ॥ ;p{0004} अर्कस्त्रयी तनुर्भानुस्तिग्मांश्रुर्मिहिरो हरिः ॥ ५७ ॥ ;c{इति सूर्यनामानि ॥} ;k{चन्द्रनामानि} चन्द्रमा रजनीनाथो रोहिणीवल्लभो विभुः । दोषाकरो निशानाथो प्रालेयांशुनिशापतिः ॥ ५८ ॥ अब्जो राजा शशिश्चन्द्रो मृगाङ्करजनीकरः । रजनीशो यामिनीशः क्षपाकरो निशाकरः ॥ ५९ ॥ इंदुर्निशीथिनीनाथ क्षपेशो शर्वरीपतिः । शशाङ्कः शीतरश्मीश्च सोमो स्त्रिनयनो मतः ॥ ६० ॥ शीतकिरणो हिमरश्मिः शीतद्युतिर्हिमद्युतिः । ऋक्षराजा श्वेतरश्मिः शीतांशुर्यामिनीपतिः ॥ ६१ ॥ भेशो हिमरश्मिमालि धिष्णेशस्तारकाप्रभुः । उडुपो रोहिणीकान्तो द्विजेन्द्रो रोहिणीप्रियः ॥ ६२ ॥ ;c{इति चन्द्रनामानि ॥} ;k{भौमनामानि} मंगलोऽसृक् भूमिसुतो लोहितो भूमिनन्दनः । क्षोणिजो मेदिनीसूनुर्भूमिजो धरणीसुतः ॥ ६३ ॥ क्षितिजः पृथिवीसूनुर्मेदिनीनन्दनः कुजः । धरासुतो धरणिजो वक्रो भूमिजभूमिभूः ॥ ६४ ॥ धरात्मजो धरासूनुररक्षोणीसुतः कुभुः । उर्वीसूतोऽप्यवनिजो भूसुतः क्षितिनन्दनः ॥ ६५ ॥ ;c{इति भौमनामानि ॥} ;k{बुधनामानि} रोहिणीनन्दनः सौम्यश्चन्द्रसुतो बुधः । इंदुजो ज्ञश्च शशिजो रोहिणीजो शशाङ्कजः ॥ ६६ ॥ सोमजो वित् शशीजश्चन्द्रजो हिमरश्मिजः । शशकश्चंद्रमासूनुः कोविदो गदितो बुधैः ॥ ६७ ॥ ;c{इति बुधनामानि ॥} ;k{गुरुनामानि} सूरीर्बृहस्पतिर्जीवो धिषणो देवेन्द्रपूजितः । इन्द्रमन्त्री देवगुरुर्नाकनायकचर्चितः ॥ ६८ ॥ त्रिदशेज्यो वासवेज्यो देवेज्यः सचिवो गुरुः । वाचस्पतिश्चाङ्गिरसो वाक्पतिश्वांगिरासुतः ॥ ६९ ॥ ;c{इति गुरुनामानि ॥} ;k{शुक्रनामानि} कविर्दैत्यगुरुः शुक्रो भार्गवो भृगुनन्दनः । असुरेज्यो दानवेज्यो उशनो दैत्यपूजितः ॥ ७० ॥ सितः प्रथमदेवेज्यो पूर्वदेवगुरुर्भृगुः । आस्फुजित्रिदशारीज्यो स्मृतो देवारिपूज्य च ॥ ७१ ॥ ;c{इति शुक्रनामानि ॥} ;k{शनिनामानि} शनैश्चरो यमः शौरी शौरार्कतनयोऽर्कजः । रविजोभास्करिश्चार्कि छायासूतो रवेः सुतः ॥ ७२ ॥ पङ्गुर्मन्दो रवेः सूनुर्मार्तंडस्तनयो शनिः । सूर्यजो सूर्यतनयः छायातनयसंज्ञकः ॥ ७३ ॥ मार्तण्डजो सूर्यसुतो भानुभुर्भानुजः शनिः । सूर्यपुत्रो भानुसुतो दिनेशो नन्ददनोऽसितः ॥ ७४ ॥ ;c{इति शनिनामानि} ;p{0005} ;k{राहुकेतुनामानि} राहुर्विधुन्तुदोऽब्जारिः सिंहिकेयस्तथातमः । स्वर्भानुश्चंद्रमाशत्रुकेतवः शिखिनो मतः ॥ ७५ ॥ ;c{इति राहुकेतुनामानि ॥} ;k{ग्रहनामानि} खेचरो द्युचरो खेटो द्युचारो खेचरो ग्रहः । व्योमवर्त्मा व्योमचारी व्योमगश्च खगो द्युगः ॥ ७६ ॥ वियद्गो गगनश्चारी गगनगो नभश्चरः । तथा गगनवर्त्मा च द्युगामी च मरुत्पथी ॥ ७७ ॥ ;c{॥ इति ग्रहनामानि ॥} ;k{मासनामानि} चैत्रादि नाम मासानां बुधैः संज्ञा प्रकीर्तिता । मधुश्च माधवः श्रुक्रशुचिर्नभो नभस्यवै ॥ ७८ ॥ ईषूर्जौसहःसहस्यौ तथा तपतपस्यकौ । भाद्रपदं प्रौष्ठपदः प्रोक्तश्चाद्यैर्मुनीश्वरैः ॥ ७९ ॥ ;c{इति मासनामानि ॥} ;k{चतुर्विधमाससंज्ञा} मासो दर्शावधिश्चान्द्रसौरोऽर्कराशिचारतः । सावनो दिनत्रिंशद्भिर्नाक्षत्रश्चंद्रभास्क्रमात् ॥ ८० ॥ ;c{इति चतुर्विधमाससंज्ञा ॥} ;k{घटीपलप्रहरसंज्ञा} अक्षरैः षष्टिभिर्दीर्घैः पलमेकं बुधैः स्मृतम् । पलैश्च खरसैर्नाडीप्रमाणं भवति स्फुटम् ॥ ८१ ॥ नाडी घटी च घटिका विनाडी पलमीरितम् । दिनस्य रात्रेस्तूर्यांशौ सो यामः प्रहरोच्यते ॥ ८२ ॥ ;c{इति घटीपलप्रहरसंज्ञा ॥} ;k{दिनसंज्ञा} वासरो दिवसो घस्त्रस्तथाहो द्युर्दिनं स्मृतम् । ;c{इति दिनसंज्ञा ॥} ;k{रात्रिसंज्ञा} निशीथिनी क्षपा रात्रिः प्रोक्ता नक्तं च शर्वरी ॥ ८३ ॥ दोषा निशास्त्रियामा च रजनी यामिनी तमी । ;c{इति रात्रिसंज्ञा ॥} ;k{पूर्वाह्नपराह्नसंज्ञा} दिनार्द्धाद्गतमध्याह्नं रात्र्यर्द्धाच्च महानिशा ॥ ८४ ॥ निशीथो मध्यरात्रिश्च रात्रिशेषस्ततः परं । तथैव रात्रेः पूर्वार्द्धं सूर्यास्ताच्च गता निशा ॥ ८५ ॥ सूर्योदयाच्च मध्याह्नं यावत्पूर्वाह्नसंज्ञकम् । तथा मध्याह्नतः पश्चाद्दिनशेषे पराह्नकम् ॥ ८६ ॥ ;c{इति पूर्वाह्नपराह्नसंज्ञा ॥} ;k{पक्षसंज्ञा} दिनरात्रेरहोरात्रं प्रोच्यते षष्ठिनाडिकम् । दिनैः पंचदशमितैः पक्षैकोऽपि निगद्यते ॥ ८७ ॥ पक्षशुक्लः सितःश्वेतो वलक्षो वहुलोत्तरः । असितो बहुलः कृष्णो शुक्लेतर सितेतरः ॥ ८८ ॥ ;c{इति पक्षसंज्ञा ॥} ;k{ऋत्वयनवर्षसंज्ञा} पक्षद्वयेन मास स्यात् ऋतुर्मासद्वयेन च । ऋतुत्रयेणायनः स्यादयनद्वयेन वत्सरः ॥ ८९ ॥ वर्षाब्दहायनशरः संवत्सरः समा स्मृतः । ;c{इति ऋत्वयनवर्षसंज्ञा ॥} ;k{राश्यंशकलासंज्ञा} ऊचुस्तिथीनां नामानि बुधाः प्रतिपदादितः ॥ ९० ॥ ;p{0006} वृद्धिं सुमङ्गलप्रदातुबलाखला ततः परम् । लक्ष्मीवती यशा मित्रा वला सुमहती तथा ॥ ९१ ॥ उग्रकर्मा धर्मिणी च यशोवति जया ततः । उग्रा ततः पञ्चदशी सौम्या च पौर्णिमासिका ॥ ९२ ॥ चतुर्दशी दिवाभूता चैकादशी हरेर्दिनम् । अमावास्या नष्टकला दर्शो नष्टेन्दुरुच्यते ॥ ९३ ॥ एकादशी तिथिर्नन्दा षष्ठी च प्रतिपत्तथा । द्वितीया सप्तमी भद्रा गदिता द्वादशी बुधैः ॥ ९४ ॥ अष्टमी तृतीया तद्वत्तिथि त्रयोदशी जया । रिक्ता चतुर्थी नवमी तथा प्रोक्ता चतुर्दशी ॥ ९५ ॥ पंचमी दशमी पूर्णा पूर्णमासी तथैव च । प्रोक्ता च पूर्णिमा राका प्रतिपत्संयुता यदा ॥ ९६ ॥ पूर्णीमानुमतिस्तद्वद्यदा चतुर्दशीयुता । अमा चतुर्दशीयुक्ता सिनीवाली बुधैः स्मृता ॥ ९७ ॥ तथैव प्रतिपन्मिश्रा सामावास्या कुहूः स्मृता । नक्षत्रमृक्षभंप्रोक्तं प्रस्तावाद्राशिसंयुतम् ॥ ९८ ॥ अंशो भागो लवः प्रोक्तो लिप्ता च कलिका कला । विलिप्तिका च विकला सदा बुधैर्निगद्यते ॥ ९९ ॥ षष्ठिभिर्विकलाभिस्तु कलिकैका च कथ्यते । कलाभिः षष्ठिभिर्भागो राशिरंशैश्च खाग्निभिः ॥ १०० ॥ राशिभिर्द्विरसैश्चक्रं तथैव भगणं मतम् । ;c{इति राश्यंशकलासंज्ञा ॥} ;k{दिग्नामानि} षड्भिश्च राशिभिर्भार्द्धं चक्रार्द्धं प्रवदेति च ॥ १०१ ॥ राशेरर्द्धं भवेद्धोरा द्रेष्काणस्त्रितियांशकः । तथैवार्कांशको राशिद्वादशांशामुदाहृताः ॥ १०२ ॥ राशेस्त्रिंशन्मितोभागस्त्रिंशांशो विबुधै स्मृतः । पूर्वा प्राची तथैवैंद्री सुरेशदिशिरुच्चते ॥ १०३ ॥ आग्नेयी वह्निकोणा च तथा वानलदिग्मतः । यमदिग्दक्षिणा याम्या रक्षोदिग्नैर्ऋतिस्तथा ॥ १०४ ॥ पश्चिमा वारुणी प्रोक्ता प्रतीची स्याद्दिशा जला । वायव्याऽनिला मारुता च सौम्योदीची तथोत्तरा ॥ १०५ ॥ ईशानी शिवदिग्रौद्री शाम्भवी शङ्करस्य दिक् । ;c{इति दिग्नामानि ॥} ;k{चरस्थिरद्विस्वभावसंज्ञा} राशयश्चरसंज्ञोक्ता मृगाजतुलकर्कटा ॥ १०६ ॥ कुंभालिवृषसिंहाश्च कीर्त्तिता स्थिरराशयः । चापयुग्मझषा प्रोक्ता कन्या च द्विस्वभावका ॥ १०७ ॥ ;c{इति चरस्थिरद्विस्वभावसंज्ञा ॥} ;k{दक्षिणोत्तरायणसंज्ञा} कर्कादिराशिषट्कस्थे भास्करे दक्षिणायनम् । खौ मृगादिषड्राशौ स्थिते चैवोत्तरायणम् ॥ १०८ ॥ ;c{इति दक्षिणोत्तरायणसंज्ञा ॥} ;p{0007} ;k{उत्तरदक्षिणगोलसंज्ञा} सूर्ये स्यादुत्तरे गोलो मेषादिषड्भसंस्थिते । यामगोलो भवेदर्कस्थिते षड्भिस्तुलादिभिः ॥ १०९ ॥ ;c{इति उत्तरदक्षिणगोलसंज्ञा ॥} ;k{सङ्क्रान्तिसंज्ञा} स्थिरराशौ च सङ्क्रान्तौ भानोर्विष्णुपदाति सा । तथैव द्विस्वभावा च खडशीति मुखी भवेत् ॥ ११० ॥ भानोर्मकरसंज्ञा च प्रोक्तोत्तरभिधायनम् । क्रियस्तुला विषुवती सङ्क्रान्तिर्गदिता रवेः ॥ १११ ॥ ;c{इति सङ्क्रान्तिसंज्ञा ॥} ;k{ऋतुसंज्ञा} मीनाजसंस्थिते भानौ वसंतर्तौ उदाहृतः । ग्रीष्मश्च वृषयुग्मस्थे वर्षा कर्कहरौ स्थिते ॥ ११२ ॥ कन्यातुलस्थे तपने ज्ञेयः शरदृतुः सदा । हेमंतश्चालिचापस्थे शिशिरो मृगकुम्भयोः ॥ ११३ ॥ ;c{इति ऋतुसंज्ञा ॥} ;k{नृचतुष्पदजलकीटसरीसृपसंज्ञा} तुलामिथुनसंज्ञाश्च कोदण्डाद्यं दलं नराः । नक्रस्यान्त्यदलं मीनो घटश्चजलराशयः ॥ ११४ ॥ गोसिंहाजमृगाद्यर्द्धं धनुरन्त्यं चतुष्पदा । कीटस्तु कर्कटो राशिर्वृश्चिकोऽपि सरीसृपः ॥ ११५ ॥ ;c{॥ इति नृचतुष्पदजलकीटसरीसृपसंज्ञा ॥} ;k{नवप्रकारकसञ्ज्ञा} वृषाजचापिमिथुननक्रकर्कानिशावला । तथापि मिथुनाजश्च पृष्ठोदयाश्च राशयः ॥ ११६ ॥ ;c{पक्षांतरे ॥} पृष्ठोदया कर्किधन्वी नक्राजवृषभं स्मृतम् । अन्ये शीर्षोदया ज्ञेया मीनः स्यादुभयोदयः ॥ ११७ ॥ उक्तः स्वोच्चस्थितो दीप्तस्वस्थश्च स्वगृहो ग्रहः । उदितो मित्रगेहस्थो शांतश्च शुभवर्गगः ॥ ११८ ॥ शक्तस्फुटमयूखश्च विकलोऽस्तगतो ग्रहः । पीडितः पापसंयुक्तः खलः पापगणे स्थितः ॥ ११९ ॥ तथैव नीचो दीनस्य ग्रहो नवप्रकारकः । ;c{इति नवप्रकारकसंज्ञा ॥} ;k{स्वगृहसंज्ञा} भौमशुक्रबुधेन्द्वर्कसौम्यशुक्रारसूरयः ॥ १२० ॥ मंदार्किजीवा स्वगृहे क्रमान्मेषादि संस्थितः । ;c{इति स्वगृहसंज्ञा ॥} ;k{सूर्यादीनामुच्चसंज्ञा} अजवृषमृगावालाकर्कमीनतुलाधिपाः ॥ १२० ॥ स्थिता सूर्यादयस्तुङ्गे प्रोक्तांशैः परमोच्चकैः । ;c{इति सूर्यादीनामुच्चसंज्ञा ॥} ;k{सूर्यादीनां नीचसंज्ञा} तुलालिकर्कमीनेषु मृगकन्याक्रियेषु च ॥ १२१ ॥ प्रोक्तांशैः परमो नीचस्थिता संख्यादयः क्रमात् । ;c{इति सूर्यादीनां नीचसंज्ञा ॥} ;k{सूर्यादीनां परमनीचसंज्ञा} आसागुणाष्टविंशतितिथिभूतऋक्षमितेनख ॥ १२२ ॥ ;p{0008} भागेषु परमोच्चस्थानीचसूर्यादयोऽपि च । ;c{इति सूर्यादीनां परमनीचसंज्ञा ॥} ;k{सूर्यादीनां मूलविकोणसंज्ञा} क्रमान्मूलत्रिकोणस्था ज्ञेया सूर्यादयो ग्रहाः ॥ १२३ ॥ सिंहो वृषो मेषकन्याचापतौलिघटेष्वपि । ;c{इति सूर्यादीनां मूलविकोणसंज्ञा ॥} ;k{स्वगृहोच्चमूलत्रिकोणसंज्ञा} सिंहे नखांशाः सूर्यस्य त्रिकोणः स्वगृहस्ततः ॥ १२४ ॥ वृषे भागास्त्रयः स्वोच्चं विधोः परं त्रिकोणकम् । मेषेऽर्कांशास्त्रिकोणं च धरासूनोस्ततः स्वतः ॥ १२५ ॥ कन्यायां तिथयो भागाः स्वोच्चं पञ्च ततः परम् । त्रिकोणसंज्ञा सौम्यस्य ततः स्वगृहमुच्यते ॥ १२६ ॥ चापस्त्रिकोणपञ्चांशाः स्वक्षेत्रं चापरं गुरोः । शुक्रस्त्रिकोणतिथ्यंशास्तुलायां स्वालयं ततः ॥ १२७ ॥ नवांशाश्च त्रिकोणोक्तं ततः स्वभवने घटे । ;c{इति स्वगृहोच्चमूलत्रिकोणसंज्ञा ॥} कंडोलज्ञातिविप्रेण हरदत्तेन धीमता । नाममाला कृता श्रेष्ठा गुरोः प्रसादतो मया ॥ १२८ ॥ ;c{इति श्रीहरिदत्ताचार्येण विरचितं गणितस्य नाममाला समाप्ता ॥}