;METADATA ;title{कल्पद्रुकोशः} ;author{केशव} ;bookFullName{Kalpadrukośa of Keśava} ;bookSeriesDetails{Gaekwad's Oriental Series No. XLII} ;editor{Rāmāvatāra Śarmā} ;editorQualifications{M.A., Sāhityācāryya, Professor of Sanskrit, Patna College, Patna} ;publisher{Published on behalf of the Government of His Highness the Maharaja Gaekwad of Baroda by Benoytosh Bhattacharyya -- at the Oriental Institute, Baroda --} ;pressDetails{Printed by K. Mittra, at The Indian Press Ltd., Allahabad} ;publicationYear{1928 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{KDKS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{} ;version0.0.1{19 June 2019} ;version0.0.2{19 June 2019} ;version0.0.3{08 June 2020} ;version0.0.4{08 June 2020} ;version0.1.0{08 June 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;c{On page 149, verse numbers 145 and 146 are duplicated. They are numbered consecutively. Therefore, the next verse numbers do not match.} ;p{0001} ;c{केशवकृतः कल्पद्रुकोशः} ;k{भूमिस्कन्धः} गुरुं श्रीदक्षिणामूर्तिं विभुं विश्वेश्वरं परम् । सर्वज्ञं तमनाद्यन्तं रात्रिंदिवमुपास्महे ॥ १ ॥ कात्यवाचस्पतिव्याडिभागुर्यमरमङ्गलाः । साहसाङ्कमहेशाद्या विजयन्ते जिनान्तिमाः ॥ २ ॥ समालोक्य मतान्येषां कल्पद्रुरखिलार्थदः । क्रियते केशवेनायं नामप्रकृतिबोधनः ॥ ३ ॥ रूपोक्त्या साहचर्याद्वा विशेषविधितः क्वचित् । स्त्रीपुंक्लीबप्रकृतयो ज्ञेयास्तत्र स्त्रियां स्त्रियि ॥ ४ ॥ स्त्री पुंसि ना नरि पुमान् पुं क्लीबे षण्नपुंसकम् । युग्मे द्वयोस्त्रिप्रकृतौ त्रिषु, शेषार्थवाचकम् ॥ ५ ॥ निषेधेत्वादिमग्राहि स्वार्थानामन्तगामिनाम् । अथारम्भेथ पर्यायपरिवृत्तिप्रसङ्गतः ॥ ६ ॥ प्रत्ययार्थैः प्रकृतयस्तदुत्पत्तिप्रसङ्गतः । पर्यायिपदमारभ्य ज्ञेयं नामात्र सर्वतः ॥ ७ ॥ समस्तपदपर्यायपरिवर्त्तनमत्र तु । आलंकारिकसिद्धान्तासह्यत्वेऽपि विलोक्यताम् ॥ ८ ॥ ;p{0002} येषां नातिप्रसिद्धानां शब्दानामिह संग्रहः । तेषां महाकविग्रन्थैः संवादोऽनुविधीयताम् ॥ ९ ॥ ;v{अङ्कुरोद्गमः} विनायकः पृश्निशृङ्गो गस्त्रिधातुश्च तुन्दिलः । द्वैमातुरः स्याद्धेरम्बो विघ्नो लम्बोदरार्थकः ॥ १० ॥ एकार्थद्रदपर्याय ईशार्थो गणविघ्नयोः । मूषवाहनपर्यायो हस्तिनोर्थान्मुखार्थकः ॥ ११ ॥ अपि वल्लभपर्यायः सिन्दूरमोदकार्थयोः । वक्रपर्यायशुण्डार्थः षण्मुखार्थाग्रजार्थकः ॥ १२ ॥ वक्रार्थात्पादभुजयोः पर्यायश्च सदामदः । शिवपर्यायपुत्रार्थश्चतुःपञ्चभुजार्थकः ॥ १३ ॥ स्त्रियां गौर्धरणी धात्री भूर्धरेडावनी स्थिरा । धरित्री भूतधात्र्युर्वी क्ष्मावनिर्ज्या मही क्षमा ॥ १४ ॥ धारणी काश्यपीरा कुर्मेदिनी वसुधा पुनः । रत्नपर्यायगर्भार्थाऽचलानन्तापि च क्षितिः ॥ १५ ॥ विश्वंभराद्या जगती गोत्रा पृथ्वीरसा पुनः । क्षोणी सर्वंसहा क्षोणिः कुम्भिन्यपि च निर्ऋतिः ॥ १६ ॥ वसुन्धरा वसुमती ग्मा ज्या भूमिश्च माधवी । स्त्रियां पूषा क्रोडकान्ता पृथिवी महिरित्यपि ॥ १७ ॥ ;p{0003} सहाऽदितिर्निश्चला स्याद्बीजपर्यायसूरपि । अब्धिपर्यायवस्त्रार्था श्यामा भूतार्थमातृका ॥ १८ ॥ भूरलिङ्गं च पृथिवी भूमी स्याद्वसुधारिणी । शैलाधारा गन्धमाता सुधा विश्वा च गह्वरी ॥ १९ ॥ स्यादिला पर्वतार्थेभ्यः कीलार्था गातुरित्यपि । उर्वरा सर्वसस्याढ्या मृदा मृन्मृत्तिका समा ॥ २० ॥ मृत्स्ना मृत्सा प्रशस्ता स्यात्पुंस्युषः क्षारमृत्तिका । स्त्र्युषाप्यथ भुवः सान्तमव्ययं द्योदिवौ स्त्रियौ ॥ २१ ॥ पुंस्याकाशः क्लीबपुंसोर्विहायाः षण्नभोम्बरम् । पुष्करं व्योम गगनमनन्तं खं दिवं वियत् ॥ २२ ॥ अन्तरिक्षं चान्तरीक्षं स्याद्विष्ण्वर्थपदार्थकम् । देवपक्षीषुवाय्वर्कचन्द्रनक्षत्रयोगिनाम् ॥ २३ ॥ पर्यायान्मार्गपर्यायि दिगवस्थानमित्यपि । सुरपर्यायलोकार्थो नाकः स्वर्गः स्वरव्ययम् ॥ २४ ॥ देवपर्यायसद्मार्थं द्योदिवौ द्वे स्त्रियाविमे । त्रिदिवोऽपि च मेर्वर्थाच्छृङ्गार्थं षण्त्रिविष्टपम् ॥ २५ ॥ स्त्रियां बृहत्यौ रोदस्यौ बृहती रोदसी च ते । घृतवत्यौ च रोधस्यावपारे रोधसी अपि ॥ २६ ॥ ;p{0004} द्यावाभूमी घृतवती द्यावापृथिवी इत्यपि । दिवस्पृथिव्यौ च द्यावापृथिव्यावेकवाक्यतः ॥ २७ ॥ स्यात्स्त्रियां जगती क्लीबे जगद्विष्टपपिष्टपौ । अस्त्रियौ भुवनं क्लीबे लोकः स्यात्पुंसि चाप्यथ ॥ २८ ॥ कल्पद्रौ केशवकृते भूमिस्कन्धे शुभोत्तरे । इत्ययं प्रथमो वृत्तः कल्पद्रोरङ्कुरोद्गमः ॥ २९ ॥ ;c{इति भूर्भुवःस्वरङ्कुरोद्भेदः ।} ;v{देशप्रकाण्डः} नीवृज्जनपदो जानपदश्च विषयः पुमान् । देशः प्रदेशोस्त्री राष्ट्रं स्थितिश्चावकाशकः ॥ १ ॥ पदोपर्वतने स्थानं षण्णयं त्रिविधः क्रमात् । नानाद्रुमलतावीरुन्निर्झरप्रान्तशीतलैः ॥ २ ॥ सुमृगैः कुरराद्यैश्च पक्षिव्रातसमन्वितैः । वनैर्व्याप्तं ताम्रभुवं सस्यैर्व्रीहियवादिभिः ॥ ३ ॥ क्लीबेऽनूपं पुंसि कच्छः स्यादथास्य विपर्यये । नवैरल्पतृणैर्व्याप्ता धूसरा भूः फलाधिका ॥ ४ ॥ यत्र प्रदीप्तार्ककरैर्गावोजाभूरिदुग्धदाः । नीरुजः प्राणिनः कूपजलपाजाङ्गलः स च ॥ ५ ॥ ;p{0005} यत्र युक्तं द्वयोर्लक्ष्म गोधूमचणकावृतम् । यावनालामाषयवैर्व्याप्तं साधारणं त्रिषु ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ॥ ७ ॥ प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः । प्रत्यन्तोनार्यदेशः स्यान्मध्यं विन्ध्यहिमागयोः ॥ ८ ॥ पूर्वपाश्चात्ययोरब्ध्योर्नदी यावच्छरावती । आर्यपर्यायतः स्थानमावर्त्तमपि वाच्यवत् ॥ ९ ॥ स्त्रियामाचारवेदी स्यात्सर्वधर्मपुरस्कृतम् । गङ्गायमुनयोर्मध्यमन्तर्वेदिः शमस्थली ॥ १० ॥ ब्रह्मावर्त्तः सरस्वत्या दृषद्वत्याश्च मध्यभूः । ब्रह्मवेदिः कुरुक्षेत्रं पञ्चरामह्रदान्तरा ॥ ११ ॥ धर्मक्षेत्रं विशसनं कुरुजाङ्गलमित्यपि । पाण्डूदकृष्णतोभूमः पाण्डूदकृष्णभूमिके ॥ १२ ॥ कुमुद्वान्कुमुदप्रायो वेतस्वान्बहुवेतसः । नडकीयो नडप्रायः स्यान्नड्वान्नड्वलश्च सः ॥ १३ ॥ शाद्वलः शादहरितः सजम्बालोऽतिपङ्किलः । अपि नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः ॥ १४ ॥ ;p{0006} नदीदेवार्थयोर्मातृकार्थकः स्यादनुक्रमात् । नदीवृष्ट्यम्बुजैः सस्यैर्युक्तो द्वैमातृकश्च सः ॥ १५ ॥ ऊषरस्तूषवानूषो ह्रस्वादिरपि कीर्तितः । स्त्री शर्करा तु वा भूम्नि देशे शार्करिलस्त्रिषु ॥ १६ ॥ शार्करः शर्करावांश्च देशे चान्यत्र च त्रिषु । सिकता स्त्री बहुत्वे वा देशे सिकतिलस्त्रिषु ॥ १७ ॥ सैकतः सिकतावांश्च देशे चान्यत्र च त्रिषु । स्त्रियां वा भूम्नि सिकता वालुका वालिकापि च ॥ १८ ॥ पाण्डुभूमप्रभृतयश्चान्यलिङ्गाः स्थली न ना । सुराज्ञि देशे राजन्वान् कुराजनि तु राजवान् ॥ १९ ॥ कुमुद्वदाद्यास्त्रिष्वेत इतः पुंभूम्नि चैकवत् । स्याद्वह्लिकस्तु वह्लीको वाह्लीको वाह्लिकोपि च ॥ २० ॥ चोलश्चोडोथ यवनो जवनः पारसीककः । स च पारसिकोपि स्यात् वानायुस्तु वनावुकः ॥ २१ ॥ दरत्स्त्रियां च दरदा कन्यकुब्जः कुशस्थलम् । कन्याकुब्जः कान्यकुब्जः कोशलः कोसलोपि च ॥ २२ ॥ तीरभुक्तिस्तीरभुक्तो विदेहो मिथिलः समाः । चेदिश्चैद्यो डहालस्तु डाहालो डाहलश्च सः ॥ २३ ॥ ;p{0007} देशे तु पुंसि काशिः स्याद्वाराणसवराणसौ । शुक्तिकः सुक्तिकस्तुल्यौ समौ कौंकणकोंकणौ ॥ २४ ॥ कंपिल्लोऽपि च कांपिल्लः कांपिल्ल्योपि निगद्यते । अपि कौंपिल्लकौंपिल्ल्यौ कामरूपस्तु कामरूः॥ २५॥ श्रीहट्टो हरिकेलिः स्याच्छ्रीहटोपि क्वचिद्भवेत् । ब्राह्मं क्षात्रं च वैशेयं शौद्रं क्षेत्रं चतुर्विधम् ॥ २६ ॥ क्षेत्रं ब्राह्मं जलकुशमृगपक्षिगणावृतम् । सद्वृक्षैः फलदैर्युक्तं श्वेतमृद्वैधमित्यथ ॥ २७ ॥ क्षात्रं क्रूरमृगव्यालघोरघोषिगणावृतम् । आरक्तभूमिकं वृक्षैः कण्टकाढ्यैर्विराजितम् ॥ २८ ॥ तच्छातक्रतवं चाथ वैशेयं तु निधानवत् । सिद्धकिन्नरगन्धर्वदैवतौघविराजितम् ॥ २९ ॥ कौबेरं पीतमृत्कं तदथ शौद्रं तु कृष्णमृत् । सर्वकर्षुकलोहानां कर्षकं बहुसस्यदम् ॥ ३० ॥ क्रूराक्रूरमृगोपेतं वर्वूरखदिरावृतम् । तद्भौमं स्यादथ क्षेत्रे तत्तद्वस्तूद्भवोचिते ॥ ३१ ॥ यव्यं यवक्यं यावेयं षाष्टिकं व्रैहिकं च तत् । व्रैहेयमाणवीनं स्यादाणवं शाकशाकटम् ॥ ३२ ॥ ;p{0008} शाकशाकटिनं तिल्यं तैलीनं माष्यमित्यपि । माषीनमुम्यमौमीनमौमं मौद्गीनमित्यपि ॥ ३३ ॥ मौद्गं भङ्ग्यं च भाङ्गीनं भाङ्गं स्यात्कोद्रवीणकम् । बीजाकृतं तूप्तकृष्टं सीतं हल्यं हले कृतम् ॥ ३४ ॥ त्रिगुणाकृतं त्रिहल्यं त्रिसीत्यं द्विगुणाकृतम् । द्विहल्यं चैकहल्यादि ज्ञेयं शम्बाकृतं च तत् ॥ ३५ ॥ द्रोणकाढकवापादौ द्रौणिकाढकिकादिकम् । खारीवापे तु खारीकमस्त्रियां वप्र इत्यपि ॥ ३६ ॥ केदारश्च पुनर्वाट एषां कैदारिकं गणे । एषूद्भूतं वस्तुजातं त्रिषु स्यादकृते खिलम् ॥ ३७ ॥ तथा चाप्रहतं क्लीबे मरुर्धन्वानुभौ नरि । गोष्ठं गोस्थानकं क्लीबे गौष्ठीनं भूतपूर्वकम् ॥ ३८ ॥ तदाशितंगवीनं स्याद्गावो यत्राशिताः पुरा । कल्पद्रौ केशवकृते भूमिस्कन्धप्ररोहके । देशप्रकाण्डः प्रथमः साङ्गोयं सिद्धिमागतः ॥ ३९ ॥ ;c{इति देशप्रकाण्डः} ;v{पूःप्रकाण्डः} क्लीबेतिलम्बे स्थानीयं मुद्रङ्गो विवशः पुमान् । नमं है(८५०)र्ग्रामभिर्द्रोणमुखं कर्वटाखर्वटौ ॥ १ ॥ ;p{0009} अस्त्रियां नर्मघै(४५०)श्चापि नर्मखैः(२५०) पुरमस्त्रियाम् । तदर्द्धमस्त्रियां खेटस्तस्यार्द्धं पत्तनोऽस्त्रियाम् ॥ २ ॥ तदर्द्धं निगमः पुंसि तदर्द्धं तु निवेशनम् । स्त्रियां पुरीपूःपुरयः पुरं वा नगरं च वा ॥ ३ ॥ वा मन्दिरं पत्तनं स्यात्पट्टनं कटकोऽस्त्रियाम् । स्यादभिष्यन्दिवमनमुपपर्यायतः पुरम् ॥ ४ ॥ शाखानगरपर्यायं ग्रामः कर्षुकवासभूः । अथासंनिपर्युपेभ्यः परः स्याद्वसथः पुमान् ॥ ५ ॥ जन्यं तु ग्रामपर्यायमुखपर्यायमित्यपि । पाटकस्तु तद्बहिः स्यादाघाटस्तु घटोवधिः ॥ ६ ॥ अन्तोवसानं स्त्री सीमा मर्यादापि च सीमनि । ग्रामसीमा तूपशल्यं ना कठः कण्ठकश्च सः ॥ ७ ॥ पुंसि क्लीबे तु मालः स्याद् ग्रामग्रामान्तराटवी । पर्यन्तभूः परिसरः स्यात्कर्मान्तस्तु कर्मभूः ॥ ८ ॥ आभीरपल्ली घोषः स्याद्ध्रजोनीशोवनान्तरा । वाटोल्पके तु पल्ली स्त्री पल्लिरप्यथ न स्त्रियाम् ॥ ९ ॥ पक्वणः शबरावासे वेश्याजनसमाश्रये । वेशः पुंसि स्त्रियां वेश्याप्यथ पुंसि द्विजन्मनाम् ॥ १० ॥ ;p{0010} अग्रहारोप्यथ ग्रामेल्पके ग्रामटिका स्त्रियाम् । एको ग्रामपतिर्यत्र सभृत्यपरिचारकः ॥ ११ ॥ कुटिका सैकभोगोऽसावप्यथो विपणिः स्त्रियाम् । पण्यवीथी च वीथ्यर्था चतुर्हट्टश्च न स्त्रियाम् ॥ १२ ॥ शूद्रस्य शासनं कॢप्तकीला पट्टोलिकापि च । शासनं नैव कस्यापि पांसुकीलाथ पूर्गणः ॥ १३ ॥ गजाह्वयं हस्तिपुरं गजाह्वं गजसाह्वयम् । हस्तिनं हास्तिनपुरं हस्तिनापुरमित्यपि ॥ १४ ॥ एकचक्रं हरिगृहं शंभुपर्यायवार्त्तनिः । शाकेतं चापि साकेतमयोध्योत्तरकोशला ॥ १५ ॥ कोशलाथो कन्यकन्या-कान्येभ्यः कुब्जमित्यपि । महोदयं गाधिपुरं कौशं द्वारवतीत्यपि ॥ १६ ॥ द्वारावती द्वारकापि द्वारिका च कुशस्थली ॥ १७ ॥ वनमालिन्यथो पुष्पपुरं पाटलिपुत्रकम् । विदेहा मिथिला तुल्ये वेदिपर्यायपूरथ ॥ १८ ॥ त्रिपुरी चेदिनगरी कौशाम्बी वत्सपत्तनम् । प्राजापत्यः प्रयागः स्यादग्निहोत्रगृहार्थकम् ॥ १९ ॥ मथुरा तु मधूपघ्नं मधुरा शिवपूरथ । पुरीश्रेष्ठा तीर्थराजी जित्वरी च तपःस्थली ॥ २० ॥ ;p{0011} काशी वाराणसी काशिर्वरणासी वराणसी । महाश्मशानमानन्दवनं क्लीबेऽविमुक्तकम् ॥ २१ ॥ शिवपर्यायलिङ्गार्थमथ स्यादुज्जयन्यपि । विशालोज्जयिनी पुष्पकरण्डिन्यप्यवन्तिका ॥ २२ ॥ तदुद्यानं समाख्यातं क्लीबे पुष्पकरण्डकम् । देवीकोट्टो वाणपुरं कोटीवर्षमुमावनम् ॥ २३ ॥ स्याच्छोणितपुरं चाथ चमत्कारपुरार्थकम् । नगरं वृद्धनगरमथ सिद्धपुरं पुनः ॥ २४ ॥ सारस्वतं हैहयपूर्माहिष्मत्यपि चेष्यते । इन्दुपर्यायतः प्रस्थं योगिनीतः पुरार्थकम् ॥ २५ ॥ पुरी नलस्य निषधा गयराजर्षिपूर्गया । पितृतीर्थं राजगृहं जरासन्धपुरं हि तत् ॥ २६ ॥ चम्पा तु मालिनी कर्णलोमपादपुरीत्यपि ॥ २७ ॥ स्त्रियां क्लीबे तामलिप्तं दामलिप्तं तमालिनी । वेलाकूलं स्तम्बपुरं विष्णुपर्यायपूरपि ॥ २८ ॥ अथ वैदर्भपर्यायं कुण्डिनं कुण्डिनापुरम् । रथ्या प्रतोली विशिखा नगराभ्यन्तरायनम् ॥ २९ ॥ कोटो वप्रोऽस्त्रियां सालः प्राकारो वरणः पुमान् । अस्त्री दुर्गोक्षणं क्लीबे पुनरावेष्टकः पुमान् ॥ ३० ॥ ;p{0012} कम्पावारोपि तद्वत्स्युस्तस्य भेदा अनेकशः । प्राकाराग्रं कपिकोटक्रमेभ्यः शिरसोर्थकम् ॥ ३१ ॥ प्राकारभित्तिमूले स्यात् स्त्रियां नेमिरतः पुनः । प्राचीनं परिवारः स्याद्गमादौ प्रान्ततो वृतिः ॥ ३२ ॥ कुड्यमस्त्री स्त्रियां भित्तिः करभः पुंस्यथास्त्रियाम् । यदन्तर्न्यस्तमृतकदेहं प्रायोर्द्धकुड्यकम् ॥ ३३ ॥ एडूकमेडुकं न स्त्री स्यातामथ निवेशनम् । सदनं सादनं वेश्म भवनं मन्दिरं विटम् ॥ ३४ ॥ निशान्तं धाम शरणं कुलं गेहं निकेतनम् । अगारं चोदवसितमागारं चाधिवासनम् ॥ ३५ ॥ शिविरं विशयं पस्त्यमोको वस्त्यमिमानि षण् । शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥ गृहं निकेतं निलयमालयं पुन्नपुंसकम् । द्वयोः कुटी कुटीरो ना वेश आवसथः क्षयः ॥ ३७ ॥ अध्यानिसंभ्यो वासः स्याद्विश्रामोवसथाश्रयौ । आवसथ्योऽपि संस्त्यायो गृहाः पुंसि च भूम्न्यपि ॥ ३८ ॥ अलिन्दभेदैरेवं स्युर्गृहभेदाश्च षोडश । ध्रुवं हीनमलिन्देन धन्यं स्यात्प्रागलिन्दकम् ॥ ३९ ॥ ;p{0013} जयं स्याद्दक्षिणालिन्दमथालिन्दद्वयान्विते । पूर्वदक्षिणतो नन्दं कान्तं पश्चिमपूर्वतः ॥ ४० ॥ मनोरमं च तत्प्रत्यग्दक्षिणालिन्दमुत्तमम् । क्रूरं पूर्वोत्तरालिन्दं दक्षिणोदक् सुपक्षकम् ॥ ४१ ॥ उदक् पश्चिमगालिन्दं क्षयं चाथ त्र्यलिन्दके । उत्तरालिन्दशून्यं च सुमुखं परिकीर्तितम् ॥ ४२ ॥ पश्चिमालिन्दशून्येऽपि धनदं दक्षिणा हि च । अलिन्दहीनमानन्दं पूर्वालिन्दविवर्जितम् ॥ ४३ ॥ विपुलं सर्वतोलिन्दसंयुक्तं विजयं मतम् । हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता ॥ ४४ ॥ प्रघानः प्रघनस्तुल्यौ प्रघाणः प्रघणः स च । संजवनं संयमनं चतुःशालं स्त्रियां च षण् ॥ ४५ ॥ अस्त्रियामुटजः पर्णोटजोप्यथ नपुंसके । चैत्यमायतनं देवपर्यायेभ्यो गृहार्थकम् ॥ ४६ ॥ प्रासादः पुंस्यथाढ्यस्य गृहे हर्म्यं नपुंसकम् । हस्तिशाला तु चतुरं वाजिनां मन्दुरानना ॥ ४७ ॥ गवां संदानिनी चाथावेशनं शिल्पिनां च षण् । स्यान्मार्गे जलपानस्य प्रपा सत्री प्रतिश्रयः ॥ ४८ ॥ ;p{0014} संन्यासिनां च च्छात्राणां निलये स्यान्मठोऽस्त्रियाम् । चित्रशाला जालिनी स्यादथ तैलार्थशालिका ॥ ४९ ॥ यन्त्रसद्मार्थकं तन्तुवायशाला तु गर्त्तकी । कुशाला पक्षिशालायां शिल्पा खरकुटीत्यपि ॥ ५० ॥ उपनी नापितगृहमास्थानं गृहभद्रकम् । कुम्भकारस्य शाला तु बुधैः पाकपुटीरिता ॥ ५१ ॥ खलूरिका तु मल्लानां श्रमस्य स्थानभूरथ । आथर्वणं शान्तिगृहं शान्तीगृहकमित्यपि ॥ ५२ ॥ कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् । भाण्डागारे कोशकोषावस्त्रियां गञ्ज इत्यपि ॥ ५३ ॥ सुरागृहे स्त्रियां गञ्जा गुञ्जाथो सूतिकागृहम् । अरिष्टं सूतकगृहं वेशो वेश्यागृहे पुमान् ॥ ५४ ॥ वेश्यमप्यथ संधानी स्यात्स्त्रियां कुप्यशालिका । भौरिकी नैष्किकी टङ्कशाला लक्ष्मीगृहार्थकम् ॥ ५५ ॥ अस्त्री महानसं पाकशाला रसवती स्त्रियाम् । लेख्यस्थानं ग्रन्थकुटी कारा स्याद्वन्दिशालिका ॥ ५६ ॥ स्याद्भोगगर्भवासार्थाद्गृहपर्यायमित्यपि । पुंसि क्लीबेऽपवरकं शयनादास्पदार्थकम् ॥ ५७ ॥ ;p{0015} निशागृहं तु गोजारिः स्त्रियां गुप्तगृहं च तत् । वारित्रापि च कारावी भ्रमजङ्गमतः कुटी ॥ ५८ ॥ मूर्द्धखोलं खपरिका क्लीबे पत्रपिशाचिका । कायमानं ननोशीरसुगन्धतृणनिर्मितम् ॥ ५९ ॥ स्यादस्त्रियां वास्तुगृहं गृहपोतक इत्यपि । क्लीबे वधूटी शयनं वातायनं गवाक्षकः ॥ ६० ॥ गृहाक्षो मण्डपोऽस्त्री स्याज्जनपर्यायसंश्रयः । बहुमानुषसंकीर्णं निर्मुटं च करार्गलम् ॥ ६१ ॥ हर्म्यादि धनिनां वासः प्रासादस्तु प्रसादवत् । देवभूमीशपर्यायात्सद्मार्थोथोपकारिका ॥ ६२ ॥ उपकार्याथ सौधोऽस्त्री सद्म धामापि राजतः । चन्द्रशाला तु वलभिर्वलभी चन्द्रशालिका ॥ ६३ ॥ वडभिर्वडभी चूडा चूला च स्युस्स्त्रियामिमाः । विमानमथ तद्भेदास्तत्र विच्छन्दकोऽस्त्रियाम् ॥ ६४ ॥ विच्छर्दकोऽपि वा क्लीबे नन्दावर्त्तश्च न स्त्रियाम् । नन्द्यावर्त्तोऽपि वा क्लीबे सर्वतोभद्र इत्यपि ॥ ६५ ॥ वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ । सिंहार्थाद्द्वारपर्यायं तत्रैव स्यात्प्रवेशनम् ॥ ६६ ॥ ;p{0016} स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् । अवरोधोऽपि शुद्धान्तर्नना स्थानं च भद्रकम् ॥ ६७ ॥ जिनस्थाने चैत्यमस्त्री विहारोऽसावपाश्रयः । मत्तालम्बश्चपग्रीवो न स्त्रियां मत्तवारणम् ॥ ६८ ॥ समुद्रपर्यायगृहं जलयन्त्रनिकेतनम् । शिवस्य वृषमण्डप्यां बुधैर्गोपुटिकं स्मृतम् ॥ ६९ ॥ स्थूणास्तम्भः पुमान्नासादारु द्वारोपरि स्थितम् । क्षौमं वा पुंसि चाट्टालो गृहस्योपरिभूमिकम् ॥ ७० ॥ यद्वेश्माथावग्रहर्णा देहल्युम्बर इत्यपि । उदुम्बरश्चाथ शिली शिला चापि शिलिः पुनः ॥ ७१ ॥ अधस्ताद्दारुणि शिला सैव स्याद्द्वारपिण्डिका । प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकः ॥ ७२ ॥ वलीकमस्त्रियां क्लीबे नीब्रं नीध्रं च नीद्रकम् । पटलान्तेथ तत्प्रान्त इन्द्रकोशस्तमङ्गकः ॥ ७३ ॥ पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् । गोपानसी स्यादाधारच्छादने वक्रदारुणि ॥ ७४ ॥ प्रासादमण्डपे चूडा दन्तास्ते नागदन्तकाः । मत्तवारणमिच्छन्ति प्रग्रीवं पुंनपुंसकम् ॥ ७५ ॥ ;p{0017} स्त्रियां कपोतपाली स्याद्विटङ्कं पुंनपुंसकम् । स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका ॥ ७६ ॥ वातर्द्दिश्चापि वातर्द्दी विज्ञेयाः स्युः स्त्रियामिमाः । तोरणोऽस्त्री बहिर्द्वारं पुरद्वारं तु गोपुरम् ॥ ७७ ॥ तिर्यगायतवंशादि श्लक्ष्णेषीकादिनिर्मिते । द्वाराघावरणे जालमालाभिव्यञ्जके बहिः ॥ ७८ ॥ तोरणोपरि मङ्गल्यं दाम वन्दनमालिका । वर्द्धमानं तु तद्द्वारं येन वध्योपनीयते ॥ ७९ ॥ अमार्गे रचितं द्वारमपद्वारं च मोरिका । अथ हस्तिनखः कूटं पूर्द्वारोपरिकूटकम् ॥ ८० ॥ स्त्रियां द्वाः स्यात्कपाटं च कवाटं च कुवाटकम् । त्रिष्वेते चाररिरपि ननाऽररमथ त्रिषु ॥ ८१ ॥ स्यादर्गलं तु परिघः पुमान्स्यादथ सूचिका । अल्पिका चेदर्गलिका कूचिका कुञ्चिकापि च ॥ ८२ ॥ पुंस्यङ्कुशो निकुञ्चः स्याद्वारणी स्यात्स्त्रियामथ । अर्गल्यादेरधिष्ठाने शृङ्खला वल्गनी स्त्रियौ ॥ ८३ ॥ द्वारयन्त्रं तु तालं स्यादस्योद्घाटनयन्त्रकम् । प्रतिताल्यपि ताली स्याद्बहुभेदान्यमून्यपि ॥ ८४ ॥ ;p{0018} आरोहणं स्यात्सोपानं पाषाणेष्ट्यादिनिर्मिते । काष्ठादिनिर्मिता सा स्यान्निःश्रेणिरधिरोहिणी ॥ ८५ ॥ निःश्रयण्यपि निःश्रेणी ऊहनी तु समूहिनी । समूहनिर्बहुकरा शोधनी व्यवहारिका ॥ ८६ ॥ संमार्जनी वर्द्धनी स्यात्सैवोक्ता तृणकूचिका । पुंविमार्गः सुहरिणी सैवार्द्धेन्दुसमाल्पिका ॥ ८७ ॥ क्लीबे सुहरणं तत्स्यात्सा समा काष्ठकीलकैः । खचिता पझटी ज्ञेया यष्ट्याढ्याथ निघर्षणम् ॥ ८८ ॥ संस्थानं चाथावकरः संकरः क्षिप्तके मुखम् । स्यान्निःसरणमाघाटो मर्यादाप्यवहारकः ॥ ८९ ॥ पत्तनादिपरिच्छेदे संनिवेशो निकर्षणम् । प्रतिहारः प्रतीहारो वातमञ्चक इत्यपि ॥ ९० ॥ इन्द्रकोशस्तदुपरि दारु तिर्यक् स्थितं हि यत् । उत्तरङ्गोथ काष्ठादिनिर्मिता शालभञ्जिका ॥ ९१ ॥ पाञ्चालिका पुत्रिका स्यादथ लेपमयी तु या । संपादिता शिल्पिवरैः सा स्यादञ्जलिकारिका ॥ ९२ ॥ मार्गोऽध्वा निगमः पन्था विवधः पुंसि बीवधः । अपि द्वयोः स्यात्पदवी सरणिः सरणी सृतिः ॥ ९३ ॥ ;p{0019} पदविः स्त्री पुंसि वाटः पथः पेंडः पुमानयम् । वर्त्तन्येकपदी पद्या वर्त्तनिः पद्धतिः स्त्रियाम् ॥ ९४ ॥ अयनं वर्त्तनं वर्त्म क्लीबे स्याच्छरणिर्द्वयोः । अथाचारो वहो माथोऽपथं क्लीबेऽपथोऽपि वा ॥ ९५ ॥ व्यध्वो दुरध्वो विपथः कदध्वा कापथोऽस्त्रियः । हस्त्यश्वरथपादातगमनोऽध्वा तु संकुलः ॥ ९६ ॥ द्विमार्गो द्विपथं चारपथोऽथ त्रिपथे त्रिकम् । चतुष्पथे चतुष्कं स्यात्संस्थानं बहुमार्गके ॥ ९७ ॥ चत्वरं चाथ शृङ्गाटं त्रिमार्ग्या यत्र संगमः । प्रान्तरं दूरशून्योध्वाप्यथ वर्त्मनि दुर्गमे ॥ ९८ ॥ कान्तारमस्त्रियां च स्याद्दुर्गमार्गोऽपि दुर्गमः । संधिला तु सुरङ्गा स्याद्गूढमार्गो भुवोन्तरा ॥ ९९ ॥ घण्टापथः संसरणं श्रीपथः स्यान्महापथः । राजपर्यायमार्गार्थः स पुरस्योपनिष्करम् ॥ १०० ॥ उपनिष्क्रमणं पर्व मध्यमाङ्गुलिमध्यमम् । स्यादङ्गुलं तैर्द्वादशभिर्वितस्तिस्तद्युगेन च ॥ १०१ ॥ हस्तो हस्तैश्चतुर्भिः स्याद्धनुर्दण्डश्च तैः पुनः । द्विसहस्रमितैः क्रोशः क्रोशाभ्यां गोरुतं पुनः ॥ १०२ ॥ ;p{0020} गव्यूतं च स्त्रियां गव्या द्वयोर्गव्यूतिरित्यपि । कल्पद्रौ केशवकृते भूमिस्कन्धे गुणाद्भुते । पूःप्रकाण्डो द्वितीयोऽयं साङ्गः प्रत्यक्षतां गतः ॥ १०३ ॥ ;c{इति पूःप्रकाण्डः ।} ;v{नरादिप्रकाण्डः} भूपर्यायस्पृशो मर्त्त्या मानवा मनुजा विशः । मनुष्याः पृतना मर्ताः क्षितयो मानुषा अपि ॥ १ ॥ अण्डीरा जगतः पञ्चजनाश्चर्षणयः पुनः । मन्तवो भूतलस्थाना द्विपदाश्चेतना जनाः ॥ २ ॥ मनूंषि मनुषा जानपदा जनपदाः प्रजाः । स्त्री भूम्न्येऽधतवश्चैषां विशेषाः पुरुषा नराः ॥ ३ ॥ नरः पुमांसः पुरुषा अस्त्रियां तु नपुंसकम् । पुंसि क्लीबे पण्डषण्डषाण्डाः पाण्डः पुनः स्त्रियाम् ॥ ४ ॥ तृतीयप्रकृतिश्चाथ नारी योषा च योषिता । प्रतीपदर्शिनी योषिद्वनिता महिलापि च ॥ ५ ॥ रामाऽबला महेला स्त्री सीमन्तिन्यपि मेहली । मेहला मेहिला चापि महिली महिलापि च ॥ ६ ॥ जोषिज्जोषा महेली च यामिर्यामी च जादिमे । स्त्रीपर्यायजनार्थो ना मण्डयन्तश्च सुन्दरी ॥ ७ ॥ ;p{0021} रमणी कामिनी कान्ता कोपना मत्तकाशिनी । अङ्गना ललना भीरुर्भामिनी युवतिश्चरी ॥ ८ ॥ नितम्बिनी च प्रमदा वामा तदनुवासिता । वरारोहा सुंदराङ्गी रत्नभूतोत्तमा च सा ॥ ९ ॥ सुखोष्णशीता तुहिनग्रीष्मयोर्वरवर्णिनी । स्वगुणेनोपमानेन मनोज्ञादिपदेन च ॥ १० ॥ विशेषिताङ्गकर्मा स्त्री यथा तरललोचना । मत्तेभगमना चापि स्यान्मृगाक्ष्यलसेक्षणा ॥ ११ ॥ वामाक्षी सुस्मितास्याः स्वं मानलीलास्मितादयः । लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ॥ १२ ॥ मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां स्वाभाविका दश ॥ १३ ॥ प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः । दीप्तिश्चायत्नजा भावहावहेलास्त्रयोङ्गजाः ॥ १४ ॥ सारङ्गगद्गदासास्याद्यात्यर्थं मधुरस्वरा । अथ साध्वी सुशीला स्यादेकपत्नी पतिव्रता ॥ १५ ॥ सत्पथाथ कुलस्त्री स्यान्मालिका पालिका कुलात् । सुकुला पतिंवरा तु खरुर्वर्या स्वयंवरा ॥ १६ ॥ ;p{0022} कन्या कुमारी कन्याका कन्यिका बालिका च सा । स्याद्गौरी चाप्यथ पुनर्नग्निकाऽनागतार्त्तवा ॥ १७ ॥ कुमारी पुंप्रसङ्गोत्थरजा गुप्तरजस्वला । राका नवफलार्था साप्यचिरोढा वधूर्नवा ॥ १८ ॥ सार्वाक् प्रसूतितः श्यामा दिक्करी नवयौवना । वयः संधिमती चाथ दृष्टपुष्पा तु धेनुका ॥ १९ ॥ यदृतुप्रथमस्नाने मङ्गल्यं ध्रियतेऽम्बरम् । स आनन्दपटस्तत्र मैथुनं नवरङ्गकम् ॥ २० ॥ अथ यूनी तु युवती तरुणी तलुनीति च । युवतिर्यौवनाढ्या च कलावत्यथ कामुकी ॥ २१ ॥ वृषस्यन्ती कामुकाथ प्रज्ञा प्राज्ञी च धीमती । कात्यायन्यर्द्धवृद्धा स्याद्विश्वस्ताविधवे समे ॥ २२ ॥ काषायवसना रण्डा विशस्ता मुण्डमुण्डिता । वृद्धा पलिक्नी पलिता वशा वश्या च जर्जरा ॥ २३ ॥ स्यात्सध्रीची वयस्यालिः सखी च सहचारिणी । सदाचारा कर्मकरा प्रेष्यान्तःपुरचारिणी ॥ २४ ॥ सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । सरस्वती च वलजा रोचना हारिणीति च ॥ २५ ॥ ;p{0023} स्यात्संदेशहरा दूती घटका वाक्यहारिणी । भिक्षुकी श्रमणा मुण्डा विवृक्ता दुर्भगा च सा ॥ २६ ॥ गतार्त्तवा निःकला स्याद्विन्दुर्नश्यत्प्रसूतिका । अवीरा निःपतिसुता स्यादशिश्वी शिशुं विना ॥ २७ ॥ जीवतोका जीवसूः स्यात्कृमिला तु बहुप्रसूः । सप्तपुत्रप्रसूर्या स्त्री सैवोक्ता सुतवस्करा ॥ २८ ॥ स्यात्पत्नीमातृपर्याया वीरात्तद्गुणसंयुता । प्रजावती जाततोका प्रजाता च प्रसूतिका ॥ २९ ॥ संकेतं याति पत्यर्था सा तु प्रोक्ताभिसारिका । या संकेतगृहं याता पतिं तत्र न विन्दति ॥ ३० ॥ सोक्ताद्रिका विदेशस्थे पत्यौ प्रोषितभर्तृका । स्यात्प्रोष्यत्पतिका पत्यौ विदेशगमनोत्सुके ॥ ३१ ॥ अन्योपभुक्तपतिका खण्डितेति निगद्यते । अश्लीलदृढरूपा सा या लावण्यविवर्जिता ॥ ३२ ॥ श्लाघ्यावयवसंस्थाना रूपसौन्दर्यवत्यपि । जीवत्पतिर्जीवपत्नी पतिवत्नी सभर्त्तृका ॥ ३३ ॥ पतित्यक्ता सुकुलजा सा स्यात्पतिवतीति च । कुलकूणी तु कुलटा पांसुला घर्षिणीत्वरी ॥ ३४ ॥ ;p{0024} बन्धकी लाञ्छवी खण्डशीला मदननालिका । धर्षणिर्वर्षणिश्चापि लाञ्छिका चर्षणीति च ॥ ३५ ॥ चर्षणिर्वर्षणी रण्डा पांशुलापि निगद्यते । दुःशृङ्गी पुंश्चली बन्धुरा स्वैरिण्यसतीत्यथ ॥ ३६ ॥ वारपण्यपणादीनामर्थेभ्यो योषिदर्थकाः । कञ्जिनी लञ्जिका वेश्या बन्दी शूला च झर्झरा ॥ ३७ ॥ रूपाजीवा वारवाणिः कामलेखावगालिका । क्षुद्राजिना कालकूची कुट्टकी सम्भली समे ॥ ३८ ॥ सनाली कुञ्चिका भोज्या चोटा कुहककारिका । चेटी दासी कुम्भदासी नागरैः सत्कृता तु या ॥ ३९ ॥ मलिष्ठा मलिना म्लाना ऋतुपुष्पार्थतोवती । पर्यायाः पांशुलोदक्यात्रेय्यविश्च रजस्वला ॥ ४० ॥ स्त्रीपर्यायेभ्यो धर्मिणी स्यात्सैवोक्ता व्युषिताप्यथ । हीना पितृभ्यां छेमुण्डा रोषमूका खलुङ्गिका ॥ ४१ ॥ वन्ध्या तु केशिनी शून्या मोघपुष्पा वृथार्त्तवा । भोण्डा वृषत्करिः सा स्याल्लोकाचारं न या चरेत् ॥ ४२ ॥ उच्चभाला मरुण्डा स्यात्षण् रजः पुष्पमार्त्तवम् । स्त्रीधर्मो ना रजोऽपि स्यादथ जाया कुटुम्बिनी ॥ ४३ ॥ ;p{0025} भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम् । पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्र्यपि । अन्या पाणिगृहीता स्यात् द्वितीया सहधर्मिणी ॥ ४४ ॥ गुर्विण्यापन्नसत्त्वा स्यादन्तर्वत्न्युदरिण्यपि । अस्त्रियां दोहदं क्लीबे दौहृदं लालसा स्त्रियाम् ॥ ४५ ॥ श्रद्धालुर्दोहदवती स्त्रियां गर्भाशयस्तु ना । जरायुर्ना चास्त्रियां द्वे कललोल्वेऽपरामरे ॥ ४६ ॥ स्त्रियां क्लीबे जरायुः स्यात्सान्तमेवाथ वै पुनः । गर्भस्यैवाष्टमो मासो देवमासोऽप्यथ स्त्रियाम् ॥ ४७ ॥ कुमारभृत्या सा बाल तन्त्रं गर्भिण्यवेक्षणम् । क्लीबे विजननं गर्भो गरभोचूड इत्यपि ॥ ४८ ॥ प्रसवोऽपि प्रसूति स्त्री नग्निका कोटवीत्यपि । धात्री स्यादुपमात्रर्था भर्त्तुः पत्न्यः परस्परम् ॥ ४९ ॥ एकपत्न्यः सपत्न्यः स्युर्गणिकादेर्गणे तु षण् । गाणिक्यं यौवतं पौंस्नं स्त्रैणं गार्भिण्यमित्यपि ॥ ५० ॥ पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिनी । ज्येष्ठायामप्यनूढायामूढा या स्यात्कनीयसी ॥ ५१ ॥ ;p{0026} दिधीषुर्दिधिषुर्ज्येष्ठा स्यादग्रेदिधिषुः पुनः । पुंस्येतासां धवा एते दीर्घान्ताः स्युः पुनश्च षट् ॥ ५२ ॥ धीपर्यायमतो प्रज्ञा प्राज्ञा प्राज्ञी ततः पुनः । शूद्रस्य भार्या शूद्री स्याच्छूद्रा तज्जातिरङ्गना ॥ ५३ ॥ आभीरी तु महाशूद्री जातिपुंयोगयोः समा । आर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि ॥ ५४ ॥ उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः । आचार्याणी तु पुंयोगे स्यादार्यी क्षत्रियीति च ॥ ५५ ॥ उपाध्यायान्युपाध्यायी सश्मश्रुर्नरमालिनी । नरपालिनी सा च स्यान्नरनारीविलक्षणा ॥ ५६ ॥ पोटा तु सैव पोढा तु वोढा कुहककारिका । कानीनः स्यात्तु कन्याजे सुभगायाः सुते त्रिषु ॥ ५७ ॥ सौभागिनेयः स्यात्परस्त्रैणेयश्च परस्त्रियाः । भार्योरूरन्यभार्यायां पुत्रस्योत्पत्तिकारिणि ॥ ५८ ॥ भार्याजितः काकरूकः स्त्रीजितः स्त्रीवशोऽपि च । अथ धामिश्च धामी च जामिश्चैव सहोदरा ॥ ५९ ॥ सोदरा भगिनी भग्नी स्वसा जामिश्च सा पुनः । ज्येष्ठा चाथ कनिष्ठा स्यादम्बिका तत्तनूद्भवे ॥ ६० ॥ ;p{0027} जामेयो भागिनेयः स्यात्स्वस्रीयः कुतपो द्वयोः । स कष्टभागिनेयो यः सपत्नीतनयः स्वसुः ॥ ६१ ॥ नप्ता पौत्रः पुत्रपुत्रपर्यायस्तस्य चात्मजः । प्रतिनप्ता प्रपौत्रः स्यात्षष्ठस्तु स्यात्परंपरः ॥ ६२ ॥ पत्युः स्वसा ननन्दा स्यान्ननान्दा नन्दिनीति च । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ६३ ॥ दम्पत्योर्भ्रातृवर्गस्य भार्यास्तुल्याः परस्परम् । यातरश्चाथ दंपत्योः पितरौ श्वाशुरौ च तौ ॥ ६४ ॥ जरन्तकः शतानीकस्ते श्वश्र्वौ मातरौ तयोः । स्त्रीभ्राता देवरः शालः संयुक्तो वारकीति च ॥ ६५ ॥ वार्गरोथ कुली श्वश्रूर्ज्येष्ठा स्त्रीभगिनी च सा । कनीयसी तु शाली स्यात्सैवोक्ता केलिकूचिका ॥ ६६ ॥ तद्भर्त्तरि तु शाल्यूढा शाल्यूढोऽपि सखाप्यथ । भर्त्तुर्भर्ता लघुर्देवा देवरो दिविरोग्रजे ॥ ६७ ॥ भावुकः श्वशुरो ज्येष्ठो जामाता जन्य इत्यपि । पुत्र्यर्थेभ्यः पतिरथ दुहित्रर्थात्सुतार्थकः ॥ ६८ ॥ दौहित्रः समदूर्नप्ता द्वितीयकुलधारकः । षाण्मातुरः स्यात्षण्मातृजातेऽपि स्यादथोत्तरे ॥ ६९ ॥ ;p{0028} एवं द्वैमातुरेऽपि स्याद्व्याप्यस्तु पितुरग्रजे । तत्कनिष्ठे तु कर्कः स्यात्तौ तु स्यातां पितृव्यकौ ॥ ७० ॥ मातुर्भ्राता मातुलः स्यान्मामको मातृकेशरः । सकष्टमातुलो मातुः सपत्न्यास्तु सहोदरे ॥ ७१ ॥ पितृष्वसुस्तुक्पर्यायः पैतृष्वस्रेय इत्यपि । मातृष्वसुः सुते मातृष्वस्रेयो मातुलात्मजे ॥ ७२ ॥ मातुलेयोऽथ सापत्नो वैमात्रेयो विमातृजः । मातुः सपत्नीतनयेऽथासतीजे तु बन्धुलः ॥ ७३ ॥ अथ बान्धकिनेयः स्याद्भिक्षुकी त्वसती यदि । विद्धप्रजननः स स्याद्यः स्वयं चण्डिलो भवेत् ॥ ७४ ॥ दासीसुते तु दासीरदासेयौ कुलटात्मजे । कौलटेरः कौलटेयः कौलटिनेय इत्यपि ॥ ७५ ॥ काणीपुत्रस्तु काणेयो नाटेयस्तु नटीसुते । द्वितीयस्य पितुर्योन्नं भुक्त्वा परिणतो द्विजः ॥ ७६ ॥ अवटेट इति ख्यातो ज्येष्ठाजो ज्यैष्ठिनेयकः । मुञ्जकेशो गुडाकेश उभौ वर्वरकेशिनि ॥ ७७ ॥ खलतिः खल्लतिर्बभ्रुर्ल्लल्लीरश्चैन्द्रलुप्तिकः । शिपिविष्टोऽपि खल्वाटः खल्लकश्चन्द्रिकान्वितः ॥ ७८ ॥ ;p{0029} चण्डो द्विनग्नोऽथ पुनश्चण्डिकोऽप्यथ संततिः । स्त्रियां सूनुः पुमान्पुत्र आत्मजस्तनयोऽपि च ॥ ७९ ॥ आत्मनीनः सुतोऽपि स्यादुद्वहो नन्दनोऽपि च । दायादः पिण्डदश्च स्यादङ्गभूर्यस्तु पञ्चमः ॥ ८० ॥ परंपरः पल्ययनः षष्ठस्त्वपि परंपरः । पुत्रपौत्रान्पश्यति यः पुत्रपौत्रीण एष च ॥ ८१ ॥ परंपरीणो यः षष्ठं पञ्चमं चापि पश्यति । परोवरीणोऽनुभवन्परानप्यवरानपि ॥ ८२ ॥ बीजी तु सप्तमः पूर्वं पुमान्याभिरथाप्यमी । पुत्रादयः स्त्रियामाहुर्दुहिताथ प्रजास्त्रियाम् ॥ ८३ ॥ क्लीबे बीजं स्यादपत्यं तोकं तुगपि चास्त्रियाम् । त्रिष्वालघ्वौरसौ रस्यौ धर्मपत्नीसमुद्भवे ॥ ८४ ॥ मृते जारोद्भवो गोलः कुण्डो जारोद्भवोऽमृते । दत्तको दत्रिमः पुत्रः पौत्रिकेयोऽभिसंधितः ॥ ८५ ॥ समानोदर्यसोदर्यसगर्भ्यसहजाः समाः । सहोदरः सोदरोऽपि तस्मिञ्ज्येष्ठे तु पूर्वजः ॥ ८६ ॥ ज्यायानप्यग्रजोऽग्र्यः स्यादग्रीयोऽथ जघन्यजः । कनिष्ठश्च यविष्ठश्च कनीयाननुजो लघुः ॥ ८७ ॥ ;p{0030} यौवनं न स्त्रियां क्लीबे तारुण्यं यौवनी स्त्रियाम् । वृद्धर्त्वं स्थाविरं क्लीबे वार्द्धकं वृद्धसंघके । वलितः पलितोऽपि स्यात्त्रिष्वथो पलितं तु षण् ॥ ८८ ॥ पलितं जरसा शौक्ल्यं केशादिषु वली स्त्रियाम् । त्वचोर्थादूर्मिपर्यायास्त्वक्तरङ्गः पुमानयम् ॥ ८९ ॥ अस्थ्नस्त्वक्स्नायुशैथिल्यमथोत्तानशयास्त्रिषु । पाकोऽर्भकः शिशुः शावः पृथुको डिम्भ इत्यपि ॥ ९० ॥ स्यात्पोतो हितपर्यायो गर्भोऽपि गरभः पुनः । बालो वटुर्माणवकः क्षीरकण्ठः स्तनंधयः ॥ ९१ ॥ स्यादुत्तानशयश्चापि दारकोऽप्यथ तद्भिदः । जातमात्रो जातकः स्यादेकादशदिनावधि ॥ ९२ ॥ ततः षण्मासपर्यन्तं शिशुः संवत्सरावधि । पृथुकोथा त्रिवर्षात्तु वटुरब्दाच्च सप्तमात् ॥ ९३ ॥ सुकुमारो माणवकः पौगण्डस्तु दशावधि । कैशोर आपञ्चदशाद्युवा तु त्रिंशदब्दकः ॥ ९४ ॥ आपञ्चाशदब्दं मध्यो वृद्धोऽशीत्यवधिस्ततः । आसन्नास्तमयस्तत्र वर्षीयानुपधूपितः ॥ ९५ ॥ ;p{0031} तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥ झर्झरोऽपि च यामः स्याद्वर्षीयान्दशमीत्यपि । पितामहाः पितुर्वंश्या मातुर्मातामहाश्च ते ॥ ९७ ॥ सर्वेऽमी पितरः पूर्वे पूर्वजा अथ बान्धवाः । सगोत्रः स्वजनो ज्ञातिः सगन्धो बन्धुरित्यपि ॥ ९८ ॥ सपिण्डश्चापि दायादः सनाभिः स्वेऽप्यथ स्त्रियाम् । जातिता बन्धुता पुंसि ज्ञातिभावो नपुंसकम् ॥ ९९ ॥ ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता । जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥ १०० ॥ पितुः पर्यायशब्देभ्यः पित्रर्थः स्यात्पितामहः । पितामहस्य च पिता प्रपितामह इत्यपि ॥ १०१ ॥ मातुर्मातामहाद्येवं जननी तु प्रसूः शिफा । अम्बा जनित्र्यम्बिका स्यादक्का मधुमती च सा ॥ १०२ ॥ जनयित्र्यपि माताथ पितुर्माता पितामही । मातुर्मातामहीत्याद्या उन्नेयास्ताः क्रमादथ ॥ १०३ ॥ एकयोक्त्या प्रसू मातापितरौ पितरौ च तौ । स्यातां जनयितारौ तौ मातरपितरावपि ॥ १०४ ॥ ;p{0032} एकशेषाद्भ्रातरौ तौ भगिनीभ्रातरावुभौ । पुत्रीपुत्रावुभौ पुत्रावथ भार्यापती च तौ ॥ १०५ ॥ दम्पती जम्पती जायापती अथ पुनश्च तौ । श्वश्रू च श्वशुरौ श्वश्रू त्रिष्वितो मातृशासितात् ॥ १०६ ॥ अमांसो दुर्बलः शातश्छातः क्षामः शितः कृशः । क्षीणस्तनुश्च तलिनस्तुन्दी तुन्दोऽपि चण्डिलः ॥ १०७ ॥ मुन्दिलस्तुन्दिकश्चापि बृहत्कुक्षिश्च तुण्डिनः । पिचण्डिलश्चोदरिलो बलवान्मांसलोंऽसलः ॥ १०८ ॥ निदिग्धः स्यादुपचितो नःक्षुद्रः क्षुद्रनासिकः । अवटीटोवनाटश्चावभ्रटो नतनासिके ॥ १०९ ॥ खरणाः स्यात्खरणस उन्नसस्तूग्रनासिकः । खुरणाः स्यात्खुरणसो गन्धोपादानवर्जिते ॥ ११० ॥ विग्रो विघ्रश्च विनसः पीनसी गतना विखुः । विक्लिधो घ्राणदुर्गन्धिरथ काणस्तु काननः ॥ १११ ॥ श्राणः स्यादेकपर्यायनेत्रार्थोऽप्यथ वक्रदृक् । टेरो वलीरो वलिरः केकरः केदरोऽपि च ॥ ११२ ॥ पृश्निः पृष्णिश्चाल्पतनौ कुब्जो न्युब्जोऽप्यथो गडुः । गडुलश्चाथ कुकरे कुणिः कूणिरतः पुनः ॥ ११३ ॥ ;p{0033} बाहुकण्ठो दोर्गडुः स्यात्खर्वो ह्रस्वश्च वामनः । विखर्वः खट्टनः खर्वशाखो वधिर एडकः ॥ ११४ ॥ कर्णपर्यायशून्यार्थः कल्लो वर्कर इत्यथ । अन्धः स्यादेडमूकोऽपि दृक्पर्यायविनार्थकः ॥ ११५ ॥ विकलाङ्गस्तु पोगण्डः खोडखोरौ तु खञ्जके । ऊर्ध्वज्ञश्चापि चोर्ध्वज्ञुरूर्ध्वजानुक इत्यपि ॥ ११६ ॥ प्रज्ञुस्तु प्रज्ञो विरलजानुः संयुतजानुकः । संज्ञुः संज्ञोऽप्यथोदग्रदन्तो दन्तुर इत्यपि ॥ ११७ ॥ एडमूको नेडमूकः कलमूकोप्यवाक्श्रुतौ । जडकाण्डो नेडमूको मूके स्यादथ काहलः ॥ ११८ ॥ लोहलोस्फुटवाचि स्याज्जडे नामविवर्जितः । मूर्खो मन्दोऽपि तुन्दस्य पर्यायपरिमार्जकः ॥ ११९ ॥ अज्ञो जडो मातृमुखो यथाजातोऽपि बालिशः । जाल्मो विपर्णो देवानां पर्यायेभ्यः प्रियार्थकः ॥ १२० ॥ अनद्धापुरुषो माषो जडकाण्डोऽप्यनेडकः । शीतोलसोप्यनुष्णः स्यादनेडो मातृशासितः ॥ १२१ ॥ नासान्तराशब्दवृत्तिर्गुक्कणो निह्मणोऽपि च । अथापि स्यात्प्रलम्बाण्डो मुष्करः पुंसि मुण्डितः ॥ १२२ ॥ ;p{0034} व्युप्तकेशस्त्रिष्वथ स्याद्भर्ता वरयिता वरः । धर्मकीलो रतगुरुः प्राणनाथः पतिः प्रियः ॥ १२३ ॥ रमोभरुश्च यामाता जामाता रमणो धवः । कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४ ॥ पापार्थात्पतिपर्याय उपात्पत्यर्थ इत्यपि । भ्रातृपर्यायपुत्रार्थो भ्रातृव्यः स्वरितोऽह्ययम् ॥ १२५ ॥ भ्रातृव्योऽपि श्लिकुतमस्तस्य पुत्रः कुलर्द्धिकः । न द्वयोर्युगलं युग्मं द्वन्द्वं युगलमित्यपि ॥ १२६ ॥ जटुकः कालकश्चापि पिप्लुश्च तिल इत्यपि । क्षेत्रं कलेवरं क्लीबे पिण्डोऽस्त्री विग्रहः पुमान् ॥ १२७ ॥ क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् । पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥ व्याधिपर्यायस्थानार्थं स्त्रियां मूर्तिस्तनुस्तनूः । पुरी पूरस्त्रियां पुंसि पञ्जरो घन इत्यपि ॥ १२९ ॥ अङ्गं क्लीबे तनुः सान्तं गात्रं पञ्जरमस्त्रियाम् । स्कन्धश्च संचरो न स्त्री शरीरं कायमस्त्रियाम् ॥ १३० ॥ देहोऽस्त्री स्थानकं बेरं पुंस्यात्मा चाथ न द्वयोः । गात्राङ्गे पुंस्यवयवः प्रतीकोपघनोऽपि च ॥ १३१ ॥ ;p{0035} उत्तमाङ्गं शिरः शीर्षं कं शिरं मस्तकोऽस्त्रियाम् । मूर्द्धा पुंसि च मुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ॥ १३२ ॥ द्वयोर्मौलिः कपालं षण् केशपर्यायभूरपि । शिरसोरुड्रुहभवपर्यायाश्चिकुराः कचाः ॥ १३३ ॥ द्वयोर्वाला वेल्लिताग्राः केशकन्तारकुन्तलाः । हस्तः पक्षः कलापश्च भार उच्चय इत्यपि ॥ १३४ ॥ केशपर्यायतश्चैते केशभूयस्त्ववाचकाः । अलकोऽस्त्री कर्करालः खंखणश्चूर्णकुन्तलः ॥ १३५ ॥ भाले भ्रमरकोऽस्त्री स्यात् कुरुलो भ्रमरालकः । धम्मिल्लः संयताः केशाः केशवेशे कवर्यपि ॥ १३६ ॥ कर्वर्यथ स्त्रियां वेणिर्वेणी च विशदे कचे । शीर्षण्यश्च शिरस्यश्च प्रलोभ्योऽपि त्रयस्त्रिषु ॥ १३७ ॥ केशेषूपरि मालस्य वर्त्म सीमन्तकः पुमान् । चूडा केशी केशपाशी शिखा पुंसि शिखण्डकः ॥ १३८ ॥ सबालानां काकपक्षः शिखण्डिकशिखाण्डकौ । सटा जटा प्ता व्रतिनो लग्नास्ते ये परस्परम् ॥ १३९ ॥ वक्त्रास्ये वदनं तुण्डमाननं लपनं पुनः । वेरं घनोत्तरं स्नेहरसनं मुखमस्त्रियाम् ॥ १४० ॥ ;p{0036} दन्तपर्यायसद्मार्थमथ स्याद्भालमस्त्रियाम् । महाशंखश्च शंखश्च कपालोप्यस्त्रियाममी ॥ १४१ ॥ स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् । पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥ शब्दाधिष्ठानपर्यायो ध्वनिपर्यायतो ग्रहः । श्रोत्रं स्यादपि च क्लीबे श्रोतः श्रवसमित्यपि ॥ १४३ ॥ पुंसि कर्णो महानादो वेष्टेस्य कर्णशष्कुली । तयोः प्रान्तस्तु धारा स्त्री तन्मूले शिलकं च षण् ॥ १४४ ॥ पालिः स्त्री कर्णलतिका शंखोऽस्त्री भ्रूश्रवोन्तरा । विलोचनं चक्षुरक्षि लोचनं नयनाम्बके ॥ १४५ ॥ ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः । अस्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६ ॥ दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् । तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥ वामं सौम्यं तदितरत्सौरं स्यादथ वीक्षणम् । निशामनं निभालनं निध्यानमवलोकनम् ॥ १४८ ॥ दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् । उपाङ्गदर्शनं काक्षः कटाक्षोऽक्षि विकूणितम् ॥ १४९ ॥ ;p{0037} नेत्रार्थादम्बुपर्यायं बाष्पास्रावश्रु रोदनम् । नालोतम स्त्रियामक्ष्णोरूर्ध्वं ये रोमपद्धती ॥ १५० ॥ भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूर्पके । नेत्ररोमणि पक्ष्मास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥ मुद्रणेथोद्घाटने स्यादुन्मेषश्चोन्मिषश्च सः । घोणा विकूणिका नस्या नासिका सिङ्घिनी च सा ॥ १५२ ॥ गन्धनाडी गन्धवहा गन्धज्ञा गन्धनालिका । विकूणिका नभाः क्लीबे घ्राणं नो नर्कनर्कुटे ॥ १५३ ॥ नासा नक्का नसापि स्यात्तज्जे नासिक्यमित्यपि । ओष्ठोऽधरश्च दन्तार्थाद्वस्त्रच्छदनयोरपि ॥ १५४ ॥ पर्यायो वाचः पर्यायाद्दलपर्याय इत्यपि । तयोः प्रान्ते सृक्कसृकिसृक्काणि सृक्कणीति च ॥ १५५ ॥ तयोरधोसिकं तस्मादधस्तु चिबुकं चिबुः । सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपोलकः ॥ १५६ ॥ हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः । कूर्चमस्त्री पुमान्घोट आस्यलोम च भासुरी ॥ १५७ ॥ दाढिका दंष्ट्रिका दाढा द्राढास्ताश्चर्वणार्थकाः । दन्ता वक्त्रखुरा जम्भा हालवो रदना द्विजाः ॥ १५८ ॥ ;p{0038} दतो रदा भक्षमल्लाः खरवोदंशका रथाः । पुंसि क्लीबे च दशनाश्चत्वारस्तेषु मध्यगाः ॥ १५९ ॥ राजदन्तौ श्रेणिकौ द्वावधश्चोपरितः स्थितौ । स्त्रियां क्लीबे च रसना रसाला रसना रसा ॥ १६० ॥ रसिकापि च लोलार्था जिह्वाप्यमृतवर्षिणी । रसमाता च काकुत्स्त्री तालु क्लीबे च काकुदम् ॥ १६१ ॥ अपि वक्त्रदलं चाथ घण्टिका गलशुण्डिका । सुधास्रवा लम्बिका स्यादन्याधो मूलजिह्विका ॥ १६२ ॥ प्रत्युपाभ्यां जिह्विका स्याच्छिरोधिरपि कन्धरा । ग्रीवापि धमनिः सा तु त्रिरेखालङ्कृता यदि ॥ १६३ ॥ कम्बुपर्यायग्रीवार्था स्त्रियां घाटा कृकाटिका । अवटुश्चावटोऽपि स्यादस्त्रियां च कृकः पुमान् ॥ १६४ ॥ वीतनौ कृकपार्श्वस्थौ धमनी ग्रीवयोः पुरः । नीलः पुमांस्तयोः पश्चात् स्त्रियां मन्या कदम्बिका ॥ १६५ ॥ अस्त्री निगरणः कण्ठो गलः स्यादथ तन्मणिः । अस्त्रियां काकलं चाथ क्लीबे भुजशिरः पुमान् ॥ १६६ ॥ स्कन्धोंसोस्त्री पुमान्स्कन्धो बाह्वर्थाच्छिखरं तयोः । संधीउरोंसगे स्यातां जत्रुणी तदधः स्त्रियाम् ॥ १६७ ॥ ;p{0039} कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् । विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥ १६८ ॥ दोरस्त्रियां स्त्रियां दोषा भुजापि स्याद्भुजः पुमान् । प्रवेष्टो नाकुलिर्बाहुर्बाहा बाहू स्त्रियां पुमान् ॥ १६९ ॥ कपोणिः कपणिः पुंसि कफणी कफणिः स्त्रियौ । कफोणिश्च कफाणिश्च द्वावेतौ पुंस्यपि स्त्रियाम् ॥ १७० ॥ कूर्परं तदधः पुंसि प्रगण्डस्तदधः पुमान् । मणिबन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥ १७१ ॥ मणिबन्धादाकनिष्ठं करस्य करभो बहिः । पञ्चशाखः शयः पाणिः करो हस्तः शलः करिः ॥ १७२ ॥ अङ्गुलिः करशाखा स्यादङ्गुलीयाङ्गुलीत्यपि । अङ्गुरिः करवीरो नाप्यङ्गुष्ठोऽङ्गुल इत्यपि ॥ १७३ ॥ प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा । आनामिका स्यात्सावित्री कनिष्ठा तु कनीनिका ॥ १७४ ॥ तन्मध्यसंधिर्ग्रन्थिः स्त्री क्लीबे पर्व परुः पुनः । यदङ्गुष्ठाङ्गुलीमध्ये तत्स्यात्क्षिप्रं पुनस्ततः ॥ १७५ ॥ तले धनादिसूचिन्यो रेखाः पर्यायगोचराः । करस्याधः प्रपाणिर्ना तस्याधस्तु तलं च षण् ॥ १७६ ॥ ;p{0040} स्यात्पाण्यङ्गुलिपर्यायजार्थः कामाङ्कुशोऽपि च । महाराजः कररुहः करकण्टपुनर्नवौ ॥ १७७ ॥ कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु । संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्ना मुचुटिः स्त्रियाम् ॥ १७८ ॥ काहिर्ना मुस्तुसंग्राहौ खटकस्त्वर्धमुष्टिकः । प्रसृतिः कुब्जिते पाणौ चुलका कुञ्चिते पुमान् ॥ १७९ ॥ अथ सिंहतलः स स्यात्तत्र हस्तेऽर्धमुष्टिते । पुंस्यञ्जलिस्तु प्रसृती युतेऽङ्गुष्ठे तते पुनः ॥ १८० ॥ प्रदेशिन्या प्रदेशोपि प्रादेशश्च नराविमौ । मध्यमावितते तालः सपादैकादशाङ्गुलः ॥ १८१ ॥ अनामयापि गोकर्णः सपादद्वादशाङ्गुलः । कनिष्ठया ततेऽङ्गुष्ठे वितस्तिर्द्वादशाङ्गुलः ॥ १८२ ॥ पुंसि स्त्रियां किष्कुरपि वितस्तिश्च पुनः स्त्रियाम् । तर्जन्यनामिके श्लिष्टे मध्यमा पृष्ठगा तयोः ॥ १८३ ॥ करिहस्तोथ कटिका छोटिका द्वे इमे समे । तर्जन्यङ्गुष्ठयोगोत्थे शब्दे स्यातामथो पुनः ॥ १८४ ॥ विसृताङ्गुलिके हस्ते चपेटः स्यादपि द्वयोः । प्रतलश्च प्रहस्तश्च तालिका ताल इत्यपि ॥ १८५ ॥ ;p{0041} हस्ते स्यान्मुष्टितेरत्निर्द्वयोरथ कनिष्ठया । रहिते स्यादरत्निस्तु ननाव्यामस्तु पुंस्ययम् ॥ १८६ ॥ वियामो हस्तचापार्थो हस्तबाह्वोर्यदन्तरम् । तिर्यक् स्यादथ पुरुषप्रमाणो पौरुषं त्रिषु ॥ १८७ ॥ तलाद्यावत्परीमाणे दघ्नद्वयसरूपकौ । जलादीनां जानु जङ्घा कण्ठादौ तद्वति त्रिषु ॥ १८८ ॥ घटप्रस्थादिमाने तु मात्रं स्या तद्वति त्रिषु । अष्टौ तु मुष्ट्यः कुञ्चिर्न द्वयोः किंविरित्यपि ॥ १८९ ॥ द्विगुणं पुष्कलं चैतद्द्विगुणं पूर्णपात्रकम् । द्रवद्रव्यस्य प्रसृतिश्चुलुकं षण् चुलुः पुमान् ॥ १९० ॥ उरोहृद्धृदयक्रोडे न ना स्कन्धो भुजान्तरम् । गुणाधिष्ठानमसहमपि मर्मवरं त्रसम् ॥ १९१ ॥ क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि । क्लीबे पृष्ठं च पृष्ठिश्च पृष्ठी च द्वे इमे स्त्रियौ ॥ १९२ ॥ वक्षःपर्यायरुहरुड्जार्थौ कूचौ कुचावपि । धरणौ तावुरसिजावुरोजावपि च स्तनौ ॥ १९३ ॥ पयोधरौ पयोध्रौ च मेचकं पिप्पलं च षण् । स्तनार्थाच्च मुखं वृन्तं क्लीबे स्तनशिखा स्त्रियाम् ॥ १९४ ॥ ;p{0042} नरि वा चूचुकं चाथो तुन्दिस्तुन्दा पिचण्डकः । स्त्रियां कुक्षी द्वयोः कुक्षिः पिचिण्डो जठरोऽस्त्रियाम् ॥ १९५ ॥ उदरं चापि तुन्दश्च मलुकश्च पुमानयम् । त्रिषु लोमलताधारः कुक्षी उदरपार्श्वगे ॥ १९६ ॥ नाभिर्द्वयोः स्त्रियां नाभी तुन्तोदिर्दीदिडिः पुमान् । दरोऽपि स्याच्छिरामूलं देहवृन्तार्थमित्यपि ॥ १९७ ॥ अपि स्यादुदरावर्तं स्यादथो नाभिकूपिका । गर्भडो नाभिगुडको नाभिस्थानान्तरागतः ॥ १९८ ॥ जन्तोरामाशयः पुंसि पुंसि क्लीबेऽपि मध्यमम् । क्लीबे वलग्नं चाथ स्यात्पृष्ठग्रन्थौ गुडः पुमान् ॥ १९९ ॥ स्यात्कटिप्रान्तपर्यायः पृष्ठवंशाधरे त्रिकम् । नाभेरधो मूत्रपुटं बस्तिर्मूत्राशयः पुमान् ॥ २०० ॥ वातपर्यायशीर्षार्थः स च पक्काशयोन्तरा । गर्भस्थानं तु तत्स्त्रीणामथ काञ्चीपदं तु षण् ॥ २०१ ॥ कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् । ककुद्मतो द्वयोः श्रोणिः स्त्रियौ श्रोणिकटी कटः ॥ २०२ ॥ अधो नितम्बः स्त्रीकट्याः पुमान्स च कटीरकः । तदग्राधः पुनः क्लीबे जघनं चाथ कूपकौ ॥ २०३ ॥ ;p{0043} नाषण् ककुन्दरे फुल्ललिङ्गे ते चरतावुके । कुकंदरेप्यथ भगो द्वयोर्योनिश्च योन्यपि ॥ २०४ ॥ अधस्तादव्ययं चापि क्लीबे रतगृहार्थकम् । कलत्रं स्मरपर्यायगृहं गुह्यं वराङ्गकम् ॥ २०५ ॥ अस्त्रियां जन्मसंसारपुष्पापत्यार्थतः पथः । स्मरकूपोधरः संधिरवाच्यविषयार्थकः ॥ २०६ ॥ अधोऽव्ययं च कुहरं द्वयोः स्त्रीप्रकृतिर्बुलिः । च्युतिर्वुरिः स्यादथ च तनीयस्तत्र मध्यगः ॥ २०७ ॥ स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलमस्त्रियाम् । शेवशेपौ ध्वजोपस्थौ भगमेढ्रौ च मेहनः ॥ २०८ ॥ पुंसि लोलः स्मरस्तम्भः कन्दर्पः शङ्कुरित्यपि । स्त्रियां कामलता क्लीबे शेफः शेपश्च न स्त्रियाम् ॥ २०९ ॥ शिश्नः क्लीबे व्यञ्जनं स्यान्नरपर्यायलक्ष्म च । अजः प्रजननं गुह्यं मोहनं पुंस्युपस्थकः ॥ २१० ॥ अथाण्डकोशः कोशाण्डः पेलः कोशक इत्यपि । अण्डोऽस्त्री वृषणो मुष्कस्तदधः सीवनी स्त्रियाम् ॥ २११ ॥ सावीसूत्रं पुनः क्लीबे भगः पुंसि पुरीषणः । उच्चारः षणधो मर्म पायुः पुंसि च्युतिः स्त्रियाम् ॥ २१२ ॥ ;p{0044} शकृद्द्वारं गुदोऽस्त्री स्फिक् न स्त्रियामासनं च षण् । अपानं ना कटिप्रोथः स्त्रियामपि चुलिश्च्युतिः ॥ २१३ ॥ ऊर्वोः संधिर्वक्षणः स्यान्मध्यं वंक्षणमुष्कयोः । विटपं च महावीथ्यस्त्रियामूरुस्तु सक्थि षण् ॥ २१४ ॥ अस्त्र्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु । पश्चाद्भागे मन्दिरः स्यात्प्रत्यग्रं तदधः पुनः ॥ २१५ ॥ कपोली तदधो भागो जङ्घा प्रत्यग्रयोः पुरः । जङ्घापिण्डी पिचण्डी च जाघनी कुल्फगुल्फकौ ॥ २१६ ॥ द्वयोरधस्ताद्घुटयोः पार्ष्णी पार्ष्णिरपि स्त्रियाम् । द्वयोर्घुटो घुण्टिकोथ पदोऽस्त्री चरणोऽपि पात् ॥ २१७ ॥ पुमान्पादोङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः । तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २१८ ॥ अथ तत्रापि च क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः । कूर्चमस्त्री तदुपरि स्कन्धोंह्रिशिर इत्यपि ॥ २१९ ॥ तलं तु तलहृदयं मध्यं पादतलस्य यत् । पादन्यासः पदं क्लीबे क्रमः क्रमणमित्यपि ॥ २२० ॥ रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः । सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥ ;p{0045} रसिका स्वेदमाता स्यात् षड्रसात्रेप्यसृग्धरा । स्यात्त्वचा हारतेजोत्थाप्यस्रमाता वपुःस्रवः ॥ २२२ ॥ पुंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् । आसुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥ २२३ ॥ स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते । कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥ तेजस्त्वक् क्षतजन्मार्थं काश्यपं मांसजो रसः । मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥ २२५ ॥ पललं जंगलं कीरं लेपनं मारदं पलम् । अस्रपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥ २२६ ॥ वासिष्ठं रक्ततेजोजं कीनं मेदस्कृदित्यथ । पृक्का तु तल्लता पेशी हृदयं सुरसं च हृत् ॥ २२७ ॥ वुक्कस्त्रिषु यकृत् क्लोम ताड्यं क्लपुषमित्यपि । वल्लूरं त्रिषु षण्मुष्कमांसं सरसमुत्तमम् ॥ २२८ ॥ गौतमं मांसतेजोजं हृन्मेदः स्त्री वसा वपा । मांसपर्यायतः स्नेहपर्यायमथ गोदकम् ॥ २२९ ॥ अस्त्रीशिरोर्थतः स्नेहो मस्तिक्को मस्तुलुङ्गकः । मेदोजमस्थि कुल्यं स्याद्भारद्वाजं च देहतः ॥ २३० ॥ ;p{0046} अष्ठीलं धारकं मांसपित्तं श्वदयितं पुनः । कर्करो न पुमान्मज्जाऽप्यस्थिसारः षणस्थिजम् ॥ २३१ ॥ वाजं तेजः स्त्रियां शुक्रवर्द्धिनी कौशिकीत्यपि । शुक्रमानन्दजं पुंस्त्वं तेजोवीर्यं च पौरुषम् ॥ २३२ ॥ स्याद्बीजमिन्द्रियं रेतो रोहणं किट्टर्जितम् । पुमानन्नविकारः स्यादपि मज्जारसोरसः ॥ २३३ ॥ शिरसोस्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् । पृष्ठास्थनि कसेरुस्यात्स्त्रियां क्लीबे सुखंखणः ॥ २३४ ॥ खट्वाङ्गोपि कसेरुर्ना पर्शूपरशुवक्रयः । अस्थ्यादौ विषमो देशः स्थपुटं वपुषि स्मृतम् ॥ २३५ ॥ पुनरप्यथ पार्श्वास्थि स्यात् स्त्रियां पार्श्विका पुनः । कङ्कालस्त्वस्त्रियामस्थिपञ्जरोऽपि द्वयोरथ ॥ २३६ ॥ जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा । स्याच्छिरा धमनिर्नाडी नाडिः षण् सन्धिबन्धनम् ॥ २३७ ॥ महास्नायुः कण्डरा स्त्री तिस्रस्तासूत्तमा इमाः । इडा वामे तनोर्मध्ये सुषुम्ना पिङ्गला परे ॥ २३८ ॥ इत्यादिकाः शिराभेदा विज्ञेया योगशास्त्रतः । त्वक्त्वचाऽसृग्धरा कृत्तिश्छादिनीरोमभूरपि ॥ २३९ ॥ ;p{0047} क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः । रक्ताधारोऽप्यथमलः किट्टेऽस्त्र्यथ तनूरुहम् ॥ २४० ॥ रोम लोमाङ्गजं त्वग्जं त्वचः पर्यायतो मलः । वालपुत्रः परित्राणमन्तरा नासिकोष्ठयोः ॥ २४१ ॥ यत्तन्मुख्यं कर्णमूलात्कर्णमूलावधिस्थितम् । नरचिह्नं द्वयोः श्मश्रु शुण्ठं कक्षाश्रितं च यत् ॥ २४२ ॥ दूषीका दूषिका नेत्रभवे नेत्रोद्भवे तु षण् । कुलुकं पुष्पिकापि स्यात्पिञ्जूषः कर्णयोः पुमान् ॥ २४३ ॥ सिंहाणमस्त्री नासोत्थे तत्र स्वेदनरेचने । कुरुण्डवृद्धा सृणिका सृणीका नाभिजे कुणः ॥ २४४ ॥ लिङ्गजे पुष्पिकाथ स्यान्मुखार्थादासवार्थका । सृणिका स्यन्दिनी लाला सृणीका कालकूचिका ॥ २४५ ॥ घर्मस्तु स्वेदप्रस्वेदौ त्वक्पर्यायजलार्थकम् । मूत्रं देहासवः पुंसि वस्तिपर्यायतो मलः ॥ २४६ ॥ प्रस्रावः प्रस्रवोऽपि स्याद्विड्विष्ठे च स्त्रियामुभे । शकृत् क्लीबे मलोप्यस्त्री पुंस्युच्चारोऽप्यवस्करः ॥ २४७ ॥ क्लीबे गूथं पुनर्वर्चः पुरीषं शमलोऽस्त्रियाम् । पर्दनं गुदजे शब्दे तत्र कुस्मितमित्यपि ॥ २४८ ॥ ;p{0048} पुंस्याकल्पो वेषवेशावपि भूषणमस्त्रियाम् । स्यान्नेपथ्यमपि क्लीबे प्रतिकर्म प्रसाधनम् ॥ २४९ ॥ अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् । कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥ २५० ॥ आपीडः पुंसि मौलिः स्याद्वेष्टनं षणतः पुनः । मणौ तत्रैव खचिते पुंसि चूडार्थतो मणिः ॥ २५१ ॥ अपि क्लीबे शिरोरत्नं तरलो हारमध्यगः । मूर्ध्नि माल्यं तु षण् दाम शीर्षकं शिरसः स्रजि ॥ २५२ ॥ स्रक् स्त्रियां मालिका माला गर्भकः केशमध्यगम् । प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललाम तत् ॥ २५३ ॥ तिर्यग्वक्षसि वैकक्षं प्रालम्बमृजु तत्समम् । श्रन्थनं ग्रन्थनं पुंसि प्रारम्भो रचना स्त्रियाम् ॥ २५४ ॥ परिपूर्णत्वमाभोगः कर्णपूरस्तु न स्त्रियाम् । स्त्रियां पत्राल्लताभङ्गिः पाश्यापि स्याल्ललाटिका ॥ २५५ ॥ पारिपाश्या पारितथ्या कर्णिका कर्णभूषणम् । कर्णादर्शः कर्णवेष्टस्ताटङ्कः पुंसि कुण्डलम् ॥ २५६ ॥ अस्त्रियां ताडपत्रं स्त्री कर्णान्दुः कर्णवालिका । उत्क्षिप्तिका च कर्णान्दूरथ कण्ठविभूषणम् ॥ २५७ ॥ ;p{0049} क्लीबे ग्रैवेयकं चापि लम्बमाना ललन्तिका । प्रालम्बिका कृता हेम्नोरःसूत्रिका तु मौक्तिकैः ॥ २५८ ॥ कलापः पुंसि मुक्तार्थाद्धारः प्रालम्ब इत्यपि । स्त्र्यावली स्रग्लता यष्टिः सूत्रं प्रतिसरस्त्रिषु ॥ २५९ ॥ देवच्छन्दः शतं साग्रमिन्द्रच्छन्दः सहस्रकम् । तदर्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ २६० ॥ अर्द्धं रश्मिकलापोस्य दशभिश्चार्द्धमाणवः । द्विर्द्वादशोर्द्धगुच्छः स्यात्पञ्चहारफलं लता ॥ २६१ ॥ अर्द्धहारश्चतुःषष्टिर्गुच्छमाणवमन्दिराः । अपि गोस्तनगोपुच्छावर्द्धमर्द्धं यथोत्तरम् ॥ २६२ ॥ इति हारा यष्टिभेदैरेकावल्येकयष्टिका । कण्ठिकाप्यथ नक्षत्रमाला तत्संख्यमौक्तिकैः ॥ २६३ ॥ क्लीबेऽङ्गदं तु केयूरं बाहुपर्यायभूषणम् । आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥ २६४ ॥ कङ्कणं न स्त्रियां तद्वदंगुलीयकमूर्मिका । साक्षराङ्गुलिमुद्रा स्यात् करारोहः पुमानथ ॥ २६५ ॥ क्लीबे सारसनं काञ्ची सैव स्यात्कटिमेखला । संसप्तकी च रसना कटिपर्यायनाटिका ॥ २६६ ॥ ;p{0050} स्त्री मेखला च रसना काञ्चिः कक्ष्या च कक्षया । पुंस्कट्यां शृङ्खलं तु स्यात्त्रिषु पादाङ्गुलस्य षण् ॥ २६७ ॥ स्यात्पादकटकं चास्त्री तुलाकोटिरपि द्वयोः । मञ्जीरोऽस्त्री नूपुरोऽपि तुलाकोट्यपि च स्त्रियाम् ॥ २६८ ॥ हंसकश्चाथ घर्घर्यां कङ्कणी क्षुद्रघण्ट्यपि । पादशीली प्रतिसरा किङ्किणी क्षुद्रघण्टिका ॥ २६९ ॥ पादतः कीलिका नाली मालिका चाङ्गलीयकम् । अडिनी सिञ्जिनी तुल्ये वृश्चिक्यपि वृश्चिका ॥ २७० ॥ पटः सिचय आच्छादचीवराः पुंसि न स्त्रियाम् । चेलमाच्छादनं वासो वसनं चापि न स्त्रियाम् ॥ २७१ ॥ तद्वल्कलतृणकृमिफलरोमार्थसंभवम् । क्षुमाभङ्गाशणादित्वक्संजातं वाल्कमित्यपि ॥ २७२ ॥ कर्पासार्कादितूलोत्थं फालं स्याद्बादरे पुनः । आर्कं तौलं च रौमं तु स्याच्छशैडादिरोमजम् ॥ २७३ ॥ तदौर्णमथ कौशेयं जीविनिर्जीवकोशजम् । विविधं चापि तत्सूत्रं पट्टं हीरं च कोमलम् ॥ २७४ ॥ अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि । क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५ ॥ ;p{0051} शाणी गोणी स्त्रियां तासां विकृतिः पुंसि कार्गलः । कागलोप्यक्षराधारः पुस्तकप्रकृतिः पुनः ॥ २७६ ॥ अक्षरात्कोशपर्यायस्तद्वद्भूर्जस्य वल्कले । ताडपत्रे तत्र पत्रं न ना भङ्गोद्भवान्यपि ॥ २७७ ॥ कार्पासं सर्वकार्यार्थं बादरं तदथ स्त्रियाम् । ऊर्णा मेषादिलोम्नि स्यात्क्लीबे और्णं तदुद्भवे ॥ २७८ ॥ आविकौ रभ्रकौ चैव पुमानूर्णायुरित्यपि । आयल्लको रल्लकः स्याद्द्वयोः कम्बल इत्यपि ॥ २७९ ॥ मरूद्भवायां शुम्बा स्याल्लुम्बा पञ्चनदोद्भवा । पुंसि पर्वतसंजातपर्यायो रत्नकम्बलः ॥ २८० ॥ काश्मीरी तु महोर्णा स्यात् प्रावारीत्यपि पामरी । यक्षिका भोट इत्याद्यास्तत्तद्विषयनामकाः ॥ २८१ ॥ म्लेच्छदेशोद्भवाः केपि परुत्कालोद्भवा अपि । अनेके राजभोग्यास्ते त्रिषु सर्वे यथार्थतः ॥ २८२ ॥ अथ साधारणं मापं क्षौमं स्यात्प्रावृतं त्रिषु । दुकूलं च दुगूलं स्यात्कौशेयं कृमिकोशजम् ॥ २८३ ॥ राङ्कवं मृगरोमोत्थं स्त्रियां भूम्नि दशा अपि । वस्त्रान्ते च स्त्रियां वर्त्तिर्वस्तिश्चापि च पल्लवः ॥ २८४ ॥ ;p{0052} वस्त्रव्यस्यः पुमानस्त्री प्रार्थ्यश्चञ्चल इत्यपि । अष्टहस्तपरिमाणं परिधानक्षमं महत् ॥ २८५ ॥ सदशं क्षालितं शिष्टैस्तद्धौत्रं पोत्रमप्यणु । स्नानेङ्गप्रोञ्छने पोत्रमंगोछोंगोछनं च षण् ॥ २८६ ॥ तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् । नवं वासोऽनाहतं स्यादहतं तन्त्रकं पुनः ॥ २८७ ॥ निःप्रवणं निःप्रवाणिस्तद्वस्तु सकलं त्रिषु । पटच्चरो जीर्णवस्त्रं संव्यानं तूत्तरीयकम् ॥ २८८ ॥ प्रच्छादनं प्रावरणं वराशिः स्थूलशाटकः । वैकक्ष उत्तरासङ्गः प्रावारो बृहती स्त्रियाम् ॥ २८९ ॥ परिधानं परीधानमन्तरीयमधोंशुकम् । अपि स्यादुपसंव्यानं तथापि वसनं पुनः ॥ २९० ॥ तद्ग्रन्थिस्तु स्त्रियां नीविर्नीवी नोच्चय इत्यपि । अर्द्धोरुकं चलनकं स्याच्चण्डातकमंशुकम् ॥ २९१ ॥ सभर्तृकाणामन्यासां चलनीति निगद्यते । शाटीचोट्यौ स्त्रियां पुंसि कूर्पासश्चोलको द्वयोः ॥ २९२ ॥ अस्त्रियां कञ्चुकोऽपि स्यात्त्रिषु स्यादपि कञ्चुली । अङ्गिका कटिबन्धे तु परेः प्रात्स्यात्करः पुमान् ॥ २९३ ॥ ;p{0053} पल्लवादियुतः सोऽपि पटः प्रच्छादनी द्वयोः । द्विवस्त्रा द्विपटी तद्वद्धिमवातसहेंशुके ॥ २९४ ॥ नीसारोथ निचोलस्तु निचुल्यश्चोत्तरच्छदः । अपि स्यात्प्रच्छदपटः क्लीबे निचुलकं पुनः ॥ २९५ ॥ कञ्चुकं वारवाणो ना यामस्तूलयुतोप्यथ । द्वयोः कच्छाटिका कच्छपटः कौपीनमित्यपि ॥ २९६ ॥ कक्षा स्त्री कर्पटः पुंसि परिधाने परोञ्चलः । उत्सवादौ सुहृद्भिर्यद्बलादाकृष्य गृह्यते ॥ २९७ ॥ वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् । तदेवाप्रपदीनं स्याद्व्याप्नोत्याप्रपदं हि यत् ॥ २९८ ॥ चीवरं भिक्षुसङ्घाटी समौ नक्तककर्पटौ । ऊर्मिका स्यात् स्त्रियां वस्त्रभङ्गशब्देऽस्य मर्मरः ॥ २९९ ॥ प्रतिसीरा जवनिका तिरसः करिकारिणी । अपटी स्यात्पुमान् काण्डपटोथोल्लोच इत्यपि ॥ ३०० ॥ चन्द्रोदयश्च कटको वितानं पुंनपुंसकम् । क्लीबे स्थुलं पट्टमयं दूष्यं यद्वस्त्रवेश्म च ॥ ३०१ ॥ पटवासः खरगृहं केणिकं पटकुट्यपि । स्याद्गुणलयनिकार्या रज्जुवंशादि संभवे ॥ ३०२ ॥ ;p{0054} अथ रोगे गदो व्याधिरुपतापः क्षयोऽपि च । क्रमः क्रामो विकारः स्यान्मृत्युपर्यायसेवकः ॥ ३०३ ॥ स्त्री ग्लानिरर्त्तिरार्त्तिः स्याद्रुग्रुजा षणपाटवम् । भयं मान्द्यं च पुंसि स्यादामयोथ महागदः ॥ ३०४ ॥ ज्वरः स्यात्संज्वरो रोगपुष्ट आतङ्ककस्त्रिपात् । भस्मबाणस्त्रिशीर्षार्थ एक दंष्ट्रार्थ इत्यपि ॥ ३०५ ॥ अथ ज्वरो मनुष्येषु करिजातिषु पाकलः । अभितापस्तुरङ्गेषु पोरको रासभेषु सः ॥ ३०६ ॥ उष्ट्रेष्वलसकः सस्याद् गोषु स्यादैश्वरो ज्वरः । सर्पेष्वाक्षिक इत्याख्यो हारिद्रो महिषेष्वयम् ॥ ३०७ ॥ मृगेषु मृगरोगः स्यात्प्रलेपोऽजाविकेष्वयम् । अचमानः पक्षिषु स्यान्मत्स्येष्विन्द्रमदश्चसः ॥ ३०८ ॥ गुल्मेषु ग्रन्थिकः सस्यात् स च पुष्पेषु पर्वतः । ओषधीषु ज्योतिरयं रूपको नलिनीषु च ॥ ३०९ ॥ धान्येषु पूर्णको लोलः कोद्रवेषु च पर्वतः । पुष्पेष्वप्सु च नीली स्याद्धरायामूषराभिधः ॥ ३१० ॥ अन्नगन्धिरतीसारोऽतिसार उदरामयः । मलवेगोथ स्त्रियां स्याद्ग्रहणी संग्रहण्यपि ॥ ३११ ॥ ;p{0055} अपि प्रवाहिका चाथाजीर्णाद्यन्नाद्यपक्वता । तद्विकारे विषूचिः स्त्री दुर्नामानो गुदाङ्कुराः ॥ ३१२ ॥ पापरोगो मयूरी स्त्री रक्तपर्यायतो वटी । क्लीबेऽर्शांसि गुदात्कीलाः कृमयः कोष्ठजाः पुनः ॥ ३१३ ॥ अङ्गजा विविधास्ते स्युर्यूकाद्याः स्युर्वमिस्त्रियाम् । वान्तिः स्त्रियां स्याद्वमथुः प्रच्छर्दिश्छर्दिरित्यपि ॥ ३१४ ॥ छर्दिर्वामी च वमनं छर्दनं स्यान्नपुंसकम् । अथ पाण्डुर्विरूपः स्यात्सचिवामय इत्यपि ॥ ३१५ ॥ कामला स्त्री तत्प्रभेदे क्लीबं तु स्याद्धलीमकम् । रक्तपीतं पीतरक्तं वातादिद्वन्द्वदोषजम् ॥ ३१६ ॥ उन्नेयमथ काशः स्यात् क्षुतं क्लीबे क्षवः पुमान् । स्त्रियां क्षुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः ॥ ३१७ ॥ पीनसोथ क्षयो राजयक्ष्मा रोगार्थराडपि । यक्ष्म जक्ष्मश्च यक्ष्मश्च शोषो बहुविधा अमी ॥ ३१८ ॥ अथाप्यग्निविकारोथारुचिः स्त्री स्यादरोचकम् । अश्रद्धानभिलाषोथ पिपासा तृट् तृषापि च ॥ ३१९ ॥ तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखरक्षयः । खरसादश्च मूर्त्सायां निद्रा स्त्री शयनं च षण् ॥ ३२० ॥ ;p{0056} स्वप्नः स्वापश्च संवेशस्तन्द्री तन्द्रा प्रमीलिका । अपि स्याद्विषया ज्ञानं प्रलयः प्रमिलापि च ॥ ३२१ ॥ ग्लानिर्ग्लाः स्यादथ मदः स्त्रियामुद्रिक्तचित्तता । मदात्ययो मदातङ्कः पानस्यार्थादजीर्णकम् ॥ ३२२ ॥ पानाद्विभ्रमपर्यायः पानाद्घातस्तथा परः । संतापः संज्वरस्तापः प्लोषो दाहोऽपि चोमकः ॥ ३२३ ॥ अन्तर्दाहः कोष्ठतापे मुखताल्वोष्ठचक्षुषि । तापे ना दवथुः पादपाण्यङ्गुलितलादिके ॥ ३२४ ॥ यः संतापः शिखापित्तः प्रलयस्तु प्रलीनता । स च स्यादिन्द्रियस्वापश्चेष्टनाशोप्यथापि च ॥ ३२५ ॥ उन्मादो मतिविभ्रंश उन्मनायितमित्यपि । आवेशो भूतसंचारो भूतक्रान्ते ग्रहागमः ॥ ३२६ ॥ अपस्मारोङ्गविकृतिर्लालीधो भूतविक्रिया । तैमित्यं जडता जाड्यं शीतलत्वमपाटवम् ॥ ३२७ ॥ आमवातः संधिशूलमथ शूलं तु वातजे । तोदे यदन्नपाके स्यात्तच्छूलं परिणामकम् ॥ ३२८ ॥ स्यादुद्गार उदावर्त आनाहो मलरोधनम् । विबन्धोपि च विष्टम्भः प्रत्यानाह उरोग्रहः ॥ ३२९ ॥ ;p{0057} हृद्रोगो हृद्गते शूलेऽथोदराण्युदरामये । जलोदरोथ जृम्भा स्याज्जम्भिका जृम्भणं च षण् ॥ ३३० ॥ मान्द्यालस्ये मन्दता स्यात् कार्यप्रद्वेष इत्यपि । आमो मलस्य वैषम्याद्रक्तार्तिः शोणितामयः ॥ ३३१ ॥ गुल्मस्तु जाठरो ग्रन्थिः पृष्ठग्रन्थिर्गडुर्भटः । मूत्राघातो मूत्रवर्त्मरोधेथ मूत्रकृच्छके ॥ ३३२ ॥ कृच्छं स्त्रियामश्मरी स्यात् प्रमेहो मेह इत्यपि । मूत्रदोषः सोमरोगः प्रमेहपिटकाः पुनः ॥ ३३३ ॥ मेदोदोषोपि शोथोऽस्त्री शोफः स्यात् श्वयथुः पुमान् । अन्त्रवृद्धिर्गण्डमाला अर्बुदं स्यात्ततः पुनः ॥ ३३४ ॥ अस्त्रियां पादवल्मीकं श्लीपदं पादगण्डिरः । विद्रधी विद्रधिः स्त्री स्याद्धृद्गन्थिर्हृद्व्रणश्च सः ॥ ३३५ ॥ व्रणो भगप्रदेशोत्थः स च पुंसि भगंदरः । सद्योव्रणः कोष्ठभेदः पुंसि नाडीव्रणेऽपि च ॥ ३३६ ॥ लिङ्गोपदंशा लिङ्गार्शांस्यथ कुष्ठभिदाः क्रमात् । कुष्ठं श्वित्रमुभे क्लीबे कोठो दुश्चर्मकं पुनः ॥ ३३७ ॥ कापालिकौदुम्बरे च मण्डलं त्रिषु चर्चिका । तद्वत्त्वक्पलिकं च स्यात्पादस्फोटो विपादिका ॥ ३३८ ॥ ;p{0058} धौतकुष्ठं टिट्टिभं स्त्री दुद्रुरलसमित्यपि । दद्रुर्दद्रुश्चापि दर्दूः कोठो नाकण्डुरित्यपि ॥ ३३९ ॥ कच्छूः कण्डूश्च कण्डूतिः खर्जूः कण्डूयनं च षण् । पीतस्फोटे पाम पामा सूक्ष्मस्फोटे विचर्चिका ॥ ३४० ॥ क्षुद्रस्फोटे चञ्चिका स्यान्मसूराभा मसूरिका । संचारिसुण्डिका स्फोटे पिटकोविटकस्त्रिषु ॥ ३४१ ॥ विस्फोटः स्फोटकश्चेन्द्रलुप्तः केशघ्न इत्यपि । महाकुष्ठे चर्मदलं पुण्डरीकं शतारुकम् ॥ ३४२ ॥ काकनं पित्तकुष्ठं च कुष्ठान्यष्टादशैव हि । अथ षष्टिमिताः क्षुद्रुरोगाः पनसिकादिकाः ॥ ३४३ ॥ मसूरिकान्तास्तेषु स्याज्ज्वालागर्दभकार्थकः । अम्लपित्तं विसर्पाह्व उदर्दो वातशोणितम् ॥ ३४४ ॥ इत्थं भूयो रोगभेदा अथ वातोद्भवा गदाः । आक्षेपकं हनूस्तम्भ इत्याद्या अथ पित्तजाः ॥ ३४५ ॥ धूमोद्गारादयस्ते स्युश्चत्वारिंशदथापरे । कफजा अतिनिद्राद्या विंशतिस्तेप्यथापरे ॥ ३४६ ॥ रक्तोद्भवा गौरवाद्यास्ते दशाथ मुखोद्भवाः । ते चतुःसप्ततिमितास्तेषु दन्तोद्भवा दश ॥ ३४७ ॥ ;p{0059} एकादशौष्ठजा दन्तमूलरोगास्त्रयोदश । अष्टौ तालुगदा जिह्वाभवाः षड् गलजा गदाः ॥ ३४८ ॥ अष्टादशाष्टावपरे मुखमध्यभवा अथ । अष्टादश स्युः कर्णोत्थाः सप्तपाली समुद्भवाः ॥ ३४९ ॥ कर्णमूलोद्भवाः पञ्चदशाष्टौ नासिकोद्भवाः । शिरोरोगा दशैव स्युस्ते खलत्यादयोप्यथ ॥ ३५० ॥ नवैव स्युः कपालोत्थास्तेषु स्यादिन्द्रलुप्तकम् । तथा पलितमित्याद्या अथ नेत्रसमुद्भवाः ॥ ३५१ ॥ चतुर्नवतिसंख्याकाः पुंस्त्वदोषास्तु पञ्चधा । कुम्भीक इषको सेक्यः सुगन्धी षण्ड इत्यमी ॥ ३५२ ॥ अथाप्यष्टौ शुक्रदोषा अथ स्त्रीदेहजागदः । तेष्वष्टावार्त्तवोत्थास्तु तत्र पूयाभमार्त्तवम् ॥ ३५३ ॥ कुणपं ग्रन्थिलं क्षीणमलतुल्यादिकं च तत् । प्रदरोऽस्त्री चतुर्धा स्यादथ योनिसमुद्भवाः ॥ ३५४ ॥ चतुर्विंशतिराख्याताः शुक्रावामिनिकादयः । योनिकन्दश्चतुर्धा स्यादष्टधा गर्भजो गदः ॥ ३५५ ॥ पञ्चधा स्तनजा रोगा बालरोगस्त्रिधा मतः । अदक्षपुरुषाज्जातः सपत्नीविहितोऽपरः ॥ ३५६ ॥ ;p{0060} दैवाज्जातस्तत्र दन्तभेदाख्या विविधा गदाः । अथ रुग्णोऽमितो म्लानो व्याधितो विकृतो पटुः ॥ ३५७ ॥ अभ्यान्तः सामयो मन्द आतुरो ग्लास्नुरित्यपि । तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ॥ ३५८ ॥ यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः । त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥ ३५९ ॥ औषधं चागदं जायुः पुंस्यथापि च निग्रहः । उपचारश्चोपशमश्चिकित्सा रुक् प्रतिक्रिया ॥ ३६० ॥ उपचर्याथात्मनीनमायुष्यं च हितं च तत् । पथ्यं स्यादप्यथारोग्यं वार्त्तं पाटवलाघवे ॥ ३६१ ॥ अनामयमथोल्लाघः पटुः कल्पो निरामयः । अग्लास्नुरगदो नीरुगनातङ्को लघुः पुनः ॥ ३६२ ॥ वार्त्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक् ॥ ३६३ ॥ स्रष्टा विद्वान्विधिरथ विषवैद्यस्तु जाङ्गली । कथाप्रसङ्गः क्लिन्नाक्षे चुल्लश्चिल्लश्च पिल्लकः ॥ ३६४ ॥ वाच्यलिङ्गा अथो पथ्यं पादाहारः स्त्रियां मृजा । स्यान्मार्ष्टिर्मार्जनी क्लीबे स्यादुद्वर्त्तनमित्यपि ॥ ३६५ ॥ ;p{0061} परिकर्माङ्गसंस्कार आचामः स्नानमाप्लवः । स्त्र्याप्लुतिः स्यादाचमनमभिषेकोऽवगाहनम् ॥ ३६६ ॥ अवगाहोऽपि चर्चा तु चार्चिक्यं स्थासकोऽपि च । प्रबोधश्चानुबोधश्च स्याल्लेखेङ्गुलिपत्रयोः ॥ ३६७ ॥ यत्तु सर्वौषधिस्नानं तन्मङ्गल्यमलौकिकम् । दिष्टं तु मृत्तिकास्नानमभिषेकस्तु मन्त्रवत् ॥ ३६८ ॥ क्लीबे तमालपत्रं स्याच्चित्रकं तिलकोऽस्त्रियाम् । पुनर्विशेषकं क्लीबे शीतलं भोगिवल्लभम् ॥ ३६९ ॥ गोशीर्षं चापि मङ्गल्यं तिलपर्णं महार्हकम् । सुगन्धं चावनं चास्त्री शीतगन्धोऽपि चन्दनः ॥ ३७० ॥ गन्धाढ्यो गन्धसारोऽपि श्रीखण्डो मलयोद्भवः । सर्पावासश्च पाटीरो वेधकः पुंसि रौहिणः ॥ ३७१ ॥ गन्धराजोऽपि भद्रश्रीः स्वयं शुष्के तु सुक्कडिः । वेरं षणार्द्रच्छिन्ने स्याद्द्विधा काष्ठं तु चान्दनम् ॥ ३७२ ॥ वेंटा मलयपादाः स्युस्तज्जं वेटं परे जगुः । निम्बबिल्वहरिद्रादि तत्संगत्या भवन्ति ते ॥ ३७३ ॥ नातिपीतं तु कैरातं कवरं चन्दनं च् तत् । गन्धकाष्ठं शैलगन्धं किराताभिधवल्लभम् ॥ ३७४ ॥ ;p{0062} तत्स्याद्बहलगन्धं च पित्तगन्धं तु पीतकम् । कालेयवर्वरं पीतचन्दनं माधवप्रियम् ॥ ३७५ ॥ अथ रक्तार्कक्षुद्रेभ्यश्चन्दनं रक्तसारकम् । कुचन्दनं हिमं चाय? वर्वरं श्वेतवर्वरम् ॥ ३७६ ॥ वर्वरोत्थं लोहितं तु सुरार्हं नन्दनोद्भवम् । हरिगन्धं महागन्धमिन्द्रपर्यायचन्दनम् ॥ ३७७ ॥ स्यादस्त्रियां दिव्यमथ काश्मीरं पिशुनं वरम् । शठं वरेण्यं घुसृणमरुणं वह्निशेखरम् ॥ ३७८ ॥ गौरं कालेयकं कान्तं जागुडं केशरोऽस्त्रियाम् । कुङ्कुमं चापि वाह्लीकं पीतं काश्मीरसंभवम् ॥ ३७९ ॥ असृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् । संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥ ३८० ॥ घोरं चाथ तृणोत्थं तु तृणार्थात्कुङ्कुमार्थकम् । तृणपुष्पार्थकं चाथ श्यामा गन्धमृगाण्डजा ॥ ३८१ ॥ कस्तूरी मृगनाभिः स्यान्मदनी गन्धवेलिका । मार्जारी सुभगा वेधमुख्या स्याद्बहुगन्धदा ॥ ३८२ ॥ श्यामला ललिता गन्धधूलिरामोदिनीत्यपि । मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥ ३८३ ॥ ;p{0063} कपिला पिङ्गला कृष्णा त्रिविधातस्तु पञ्चधा । चूर्णीकृता तु खरिका तिलाभा तिलकापरा ॥ ३८४ ॥ कुलत्थिका कुलत्थाभा तस्याः स्थूला तु पिण्डका । ततः स्थूला नापिकाथ कर्पूरो हिमवालुकः ॥ ३८५ ॥ स्याद्वेणुघनपर्यायसारपर्याय इत्यपि । अपि स्याच्चन्द्रपर्यायो हिमाङ्कः शाम्भवः पुनः ॥ ३८६ ॥ गोशीर्षस्तैलपर्णः स्यात्ताराभ्रः कुमुदः शिला । मिहकाप्यथ तद्भेदाः पोताभो भीमसेनकः ॥ ३८७ ॥ अपि स्याच्छंकरावासः पांसुः शीतकरः पुनः । पिञ्जोब्जसारः सारोपि जूटिका वालुकः पुनः ॥ ३८८ ॥ हिमयुक्तः शीतलोपि पञ्चिकश्चैवमादयः । चीनकश्चीनकर्पूरः कृत्रिमो धवलः पटुः ॥ ३८९ ॥ दीपकर्पूरजोपि स्यात्स च कर्पूरनामकः । पीता तु गौतमी गव्या वन्दनीया च काञ्चनी ॥ ३९० ॥ मेध्या मनोरमा श्यामा रामा गौरी च रोचना । गोरोचना च मङ्गल्याथ जवादिः स्त्रियामियम् ॥ ३९१ ॥ गन्धपर्यायराजार्थो मृगार्थाद्घर्मजोऽपि च । अस्त्रियां कर्दमः स्निग्धः कृत्रिमोऽपि ततः पुनः ॥ ३९२ ॥ ;p{0064} समूहगन्धो गन्धाढ्यः सुगन्धतैल इत्यपि । कटुमोदोथ स्तूणीकः स्तूणीकान्तः कुठेरकः ॥ ३९३ ॥ स्तूणिकः पीतकः कान्तो नन्दीकलप इत्यपि । जातिपत्री जातिकोशी सुमनापि च पत्रिका ॥ ३९४ ॥ जातीफलं जातिसस्यं शालूकं सुमनः फलम् । मजुसारं जातिसारं पुटं द्वेष्यं तु कोलकम् ॥ ३९५ ॥ कङ्कोलकं कृतफलं मरिचं कटुकं फलम् । कट्फलं स्थूलमरिचं माधवोचितमित्यपि ॥ ३९६ ॥ कर्पूरागरुकस्तूरी कक्कोलैर्यक्षकर्दमः । गात्रानुलेपनी वर्त्तिर्वर्णकं तु विलेपनम् ॥ ३९७ ॥ चूर्णानि वासयोगाः स्युर्वासितं भावितं त्रिषु । प्रियंगुः फलिनी श्यामा प्रियवल्ली फलप्रिया ॥ ३९८ ॥ गौरी गोविन्दिनी वृन्ता करभा कङ्कुकङ्गनी । लङ्गुरा गौरवल्ली च सुभगा पर्णभेदिनी ॥ ३९९ ॥ शुभा पीता च मङ्गल्या श्रेयस्यथ सुधूपकः । श्रीवासः श्रीरसो वेष्टो धूपाङ्गस्तिलपर्णिकः ॥ ४०० ॥ वेष्टसारो रमावेष्टः क्षीरशीर्षक इत्यपि । उशीरं तु मृणालं स्याज्जलवासो हरिप्रियः ॥ ४०१ ॥ ;p{0065} अभयं वीरणं वीरं समगन्धिकमित्यपि । रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥ ४०२ ॥ शुभ्रं सुगन्धिकं चापि कलकं चाथ शेखरम् । स्त्रियां लवङ्गकलिका दिव्यं क्लीबे न च स्त्रियाम् ॥ ४०३ ॥ लवङ्गं देवपर्यायपुष्पपर्यायकं फलम् । लक्ष्मीपर्यायपुष्पार्थं भृङ्गारं वान्तसम्भवम् ॥ ४०४ ॥ रुचिरं स्यादथ स्वादुः सुधूमो गरुसारकः । गन्धधूमभवोथास्त्री कृष्णादगरुकाष्ठके ॥ ४०५ ॥ अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः । धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥ ४०६ ॥ अलारोऽनार्यको लोहः स च वर्णप्रसादनः । काष्ठागुरुः कृमिजग्धश्चाथ स्याद्दहनागुरुः ॥ ४०७ ॥ दाहागुरुर्दाहकाष्ठं पुरं धूपाङ्गदः पुनः । वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥ ४०८ ॥ गन्धार्थमङ्गलाच्चाथ तुरुष्को यवनः कपिः । पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः ॥ ४०९ ॥ शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः ॥ ४१० ॥ ;p{0066} म्लेच्छद्विष्टो भवानीष्टो जटालः कौशिकः पुरः । निशाटको भूतहरः कालनिर्यासशावरौ ॥ ४११ ॥ मरुदेश्यो रूक्षगन्धा वातघ्नो महिषाक्षकः । देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥ ४१२ ॥ गन्धराजः स्वर्णवर्णः सुवर्णकणगुग्गुलुः । पलंकषश्च सुरभिर्वंशपीतोथ भूमिजः ॥ ४१३ ॥ महिषासुरमज्जोत्थो दुर्गापर्यायवल्लभः । आशापुरोद्भवो दुर्गाह्लादो भूतघ्न इत्यपि ॥ ४१४ ॥ मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः । रालः सर्जरसः शालः कालः कनकलोद्भवः ॥ ४१५ ॥ बहुरूपः कललजः सुरभिर्यक्षधूपकः । देवेष्टः शीतलोऽपि स्यादथ पालीन्दभीषणौ ॥ ४१६ ॥ सौराष्ट्रः शिखरी कन्दुः कन्दूरकसुकन्दकौ । बहुगन्धो गोपुरगस्तीक्ष्णः शंखः खरः शकः ॥ ४१७ ॥ रुप्योऽपि बदरीपत्रः श्ललः कोशीहनुः स्त्रियाम् । शिपिः शुक्तिर्नागहनुः पुनः पर्णविलासिनी ॥ ४१८ ॥ संधिनालो नखार्थः स्यादथ व्यालनखः पुनः । व्यालायुधो व्याघ्रनखः कूटस्थश्चक्रनायकः ॥ ४१९ ॥ ;p{0067} चक्री चक्रनखश्चापि कालः पुंस्यथ षण्पुनः । संस्कारो गन्धमाल्याद्यैर्यत्स्यात्तदधिवासनम् ॥ ४२० ॥ तल्पमस्त्री तु तलिनं क्लीबे स्याच्छयनं पुनः । शयनीयं स्त्रियां शय्या खट्वा स्यान्मञ्चकोऽस्त्रियाम् ॥ ४२१ ॥ द्वयोर्मञ्चश्च पर्यङ्कपल्यङ्कौ पुंसि चास्तरः । क्लीबे चास्तरणं तत्राच्छादने कशिपुः पुनः ॥ ४२२ ॥ अस्त्रियां कसिपुश्चाथ स्यादुच्छीर्षकमस्त्रियाम् । उपधानं चोपबर्हश्चाथ पर्यस्तिका स्त्रियाम् ॥ ४२३ ॥ अवसक्थिनिका खट्वा निषद्या खट्विका समे । स्याद्वेत्रासनमासन्दी प्रतिग्राहपतद्ग्रहौ ॥ ४२४ ॥ अस्त्रियां पालकं क्लीबे विष्टरासनके उभे । स्त्रियां क्लीबे तु पीठं स्यादौशीरं शयनासने ॥ ४२५ ॥ द्वे एकोक्त्याथात्मदर्श आदर्शः पीतचम्पकम् । दर्पणो मुकुरश्चाथ प्रदीपः कज्जलध्वजः ॥ ४२६ ॥ दोषापर्यायतिलको गृहपर्यायतो मणिः । स्नेहार्थाशनपर्यायो दशार्थादिन्धनार्थकः ॥ ४२७ ॥ दीपिका दीपमल्ली स्यादथ निर्मन्थनं च षण् । नीराजनं दीपपात्रैर्दीपस्थानं स्त्रियां पुनः ॥ ४२८ ॥ ;p{0068} पूषिः स्यादथ दीपाधो दण्डे सति शिखा मरुः । दीपार्थाद्वृक्षपर्यायः कौमुदी तरुरित्यपि ॥ ४२९ ॥ अथ स्यात्कज्जलं क्लीबे दीपोच्छिष्टं तथाञ्जनम् । पुंसि स्यात्पक्षकोऽस्त्री स्याद्व्यजनं तालवृन्तकम् ॥ ४३० ॥ उत्क्षेपो बर्हिपिच्छोत्थे चामरे तु प्रकीर्णकः । अस्त्री त्रिषु विचित्रं स्यान्मृगादित्वक्समुद्भवे ॥ ४३१ ॥ आलावर्तं जलक्लिन्नवस्त्रेण रचितेऽपि च । त्रिषु स्यात्कङ्कतः केशमार्जनश्च प्रसाधनः ॥ ४३२ ॥ गिरियको गिरिगुडो बालक्रीडनको गुडः । गिरिपर्यायवचनः समौ कन्दुकगन्दुकौ ॥ ४३३ ॥ निश्चुङ्कतं दन्तशानं पिष्टान्तो धूलिगुच्छकः । कल्पद्रौ केशवकृते फलिते नामलुम्बकैः ॥ ४३४ ॥ तार्तीयो नरकाण्डोऽयं भूस्कन्धे सिद्धिमागतः ॥ ४३५ ॥ ;c{इति नरादिप्रकाण्डः ।} ;v{ऋषिगोत्रब्रह्मप्रकाण्डः} जमदग्निभरद्वाजविश्वामित्रात्रिगौतमाः । वसिष्ठकश्यपागस्त्या ऋषयो गोत्रकारकाः ॥ १ ॥ गोत्राणां तु सहस्राणि प्रयुतान्यर्बुदानि च । ऊनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ २ ॥ ;p{0069} व्रियमाणातया वापि सत्तया वानुवर्तनम् । एकस्य दृश्यते यत्र तद् गोत्रं तस्य कथ्यते ॥ ३ ॥ कुलं तु गोत्रं जननं क्लीबे स्त्री सन्ततिः पुमान् । वंशोन्ववायः सन्तानोऽन्वयो वर्णचतुष्टयी ॥ ४ ॥ ब्राह्मणक्षत्रविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । स्यादामुष्यायणोऽमुष्यपुत्रश्च ब्राह्मणायनः ॥ ५ ॥ प्रख्यातनप्तृकश्चापि बीज्यः कुल्यः कुलोद्भवः । महाकुलः सभ्य आर्यः कुलीनः कुलसंमतः ॥ ६ ॥ गर्भाधानं पुंसवनं गर्भरक्षणमित्यपि । सीमन्तोन्नयनं जातकर्म मेधाजनिस्तथा ॥ ७ ॥ उत्थानं नामकरणमन्नप्राशनमित्युत । चूडाकर्मोपनयनं व्रतादेशनमेव च ॥ ८ ॥ समावर्तनमुद्वाहस्तत्रैवाग्नेः प्रधारणम् । एभिः स्मार्त्तैश्च संस्कारैः संस्कृतो ब्राह्मणो मतः ॥ ९ ॥ भूमिपर्यायदेवार्थो माठरः कठवाडवौ । सूत्रकण्ठो वेदगर्भः सावित्रोऽपि त्रयी तनुः ॥ १० ॥ स्यान्मुखद्व्यग्रपर्यायजन्मपर्याय इत्ययम् । वर्णज्येष्ठः शमीगर्भो ब्रह्म षट्कर्मकृत्पुनः ॥ ११ ॥ ;p{0070} ब्रह्मचारी गृही वानप्रस्थो भिक्षुक इत्यपि । अथ तत्र ब्रह्मचारी वर्णी मुख्याश्रमी वटुः ॥ १२ ॥ उपनीतो माणवको मेखली वाजिनी पुनः । तथा गुरुकुलावासी स च स्याद्विविधः क्रमात् ॥ १३ ॥ यावज्जीवं व्रतपरो नैष्ठिको गृहसंमुखः । उपकुर्वाण इति चाथो वटूकरणं तु षण् ॥ १४ ॥ नयनं नायनं नाय उपादथ द्विजायनम् । स्यात्सूत्रं ब्रह्मयज्ञाभ्यां पवित्रमुपवीतकम् ॥ १५ ॥ देवपर्यायलक्ष्माथ स्त्रियां मौञ्जी तु मेखला । ज्योर्णासूत्री कठक्षत्रविशामेषां ह्यनुक्रमात् ॥ १६ ॥ ऐणेयं रौरवं गव्यमजिनानि तथा पुनः । पालाशो वाथवा वैल्वो नैयग्रोधस्ततोऽपरः ॥ १७ ॥ औदुम्बरः स आषाढो वर्णः सोपि च वैणवः । रम्भाभङ्गो गृहस्थानां व्रते स्याद्व्रतिनामपि ॥ १८ ॥ आमन्त्रितादिमध्यान्तभवतीशब्दसंयुताम् । भिक्षां देहीत्यथ स्कन्धाद्वामात्कट्यवधिस्थिते ॥ १९ ॥ हृत्पृष्ठवंशगे यज्ञोपवीती स्यादतः पुमान् । सव्यश्चाप्यपसव्यस्तु प्राचीनावीत इत्यपि ॥ २० ॥ ;p{0071} कण्ठलम्बिनि नीवीती प्रवीती पृष्ठलम्बिनि । अथाञ्जलिर्वेदपाठे पुंसि ब्रह्माञ्जलिः पुनः ॥ २१ ॥ ब्रह्मारण्यं पाठभूमिः साङ्गवाक्ये परायणम् । परायणं च साकल्यमथापि ब्रह्मबिन्दवः ॥ २२ ॥ वेदाध्ययनकाले ये विप्रुषो मुखनिःसृताः । स्वाध्यायस्तु जपः पाठो धर्मभाणक इत्यपि ॥ २३ ॥ वेदमाता तु गायत्री सावित्री त्रिपदा च सा । वैश्वामित्री व्याहृतयो महाव्याहृतयः स्त्रियाम् ॥ २४ ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् । पर्युपाभ्यां समुपाभ्यामन्वाभ्यामासनं च षण् ॥ २५ ॥ उपस्पर्शस्त्वाचमनमाचामोथाप्यभाषणम् । वाचोयमश्च यमनं मौनं स्यादप्यथ स्त्रियौ ॥ २६ ॥ आनुपूर्व्यावृता चाथ पर्यायोऽनुक्रमोऽपि च । परिपाटी स्त्रियां चाथ पर्यायः स्यादुपात्ययः ॥ २७ ॥ अतिपातोऽथ नियमस्त्वस्त्रियां व्रतमित्यपि । पुण्यकं तूपवासाद्यमुपवस्तमुपोषणम् ॥ २८ ॥ औपवस्तं तूपवस्तमस्त्रियामुपवासकः । उपोषितं चोपवस्ताऽनशनानशनं पुनः ॥ २९ ॥ ;p{0072} रोगक्रोधभयैर्यत्तदन्नत्यागाच्च लङ्घनम् । द्व्यन्तरे द्व्यन्तरे भुक्तं तत्तु षष्ठात्मकालकम् ॥ ३० ॥ अर्द्धाशनं चार्द्धशनं विज्ञेयं चार्द्धभोजने । नित्यकर्मसमाहारनैष्ठुर्ये चैकचित्तता ॥ ३१ ॥ मणिबन्धात्पुरो ब्राह्मं मानुषं करभान्तरा । अङ्गुल्यग्रेषु दैवं स्यात्तर्जनीमध्यमान्तरा ॥ ३२ ॥ देव्यामध्यानामिकयोर्मूलमाग्नेयमित्यपि । अङ्गुष्ठतर्जनीमूले पित्र्यं तीर्थानि वै करे ॥ ३३ ॥ उपाकर्मोपाकरणे स्यात्स्त्रियामप्युपाकृतिः । सर्वैनसामपभ्रंशि जप्यमस्त्र्यघमर्षणम् ॥ ३४ ॥ वाच्यलिङ्गं तद्वति षण् चरितं शीलमस्त्रियाम् । ब्रह्मासनं ध्यानयोगासने कल्पो विधिः क्रमः ॥ ३५ ॥ मुख्यः स्यात्प्रथमः कल्पो ह्यनुकल्पस्ततोऽधमः । नमस्काराभिवादौ च पादग्रहणमित्यपि ॥ ३६ ॥ अथ यस्तूपकुर्वाणः स्नाती स्नातः स आप्लुतः । समावृत्तो गृहमुखो लब्धानुज्ञो गुरोः कुलात् ॥ ३७ ॥ व्रती यावद्विवाहं स्यादुद्व्योर्वाहः परिग्रहः । पाणिपर्यायग्रहणं पीडापर्यायकं पुनः ॥ ३८ ॥ ;p{0073} परिणायः परिणयो वाधुक्यं दारकर्म च । तस्मिन्काले गृहीतोग्निरावसथ्य उपासनः ॥ ३९ ॥ नवोढावस्त्रं वाधूयं षणानन्दपटस्त्रिषु । परिगृह्य व्रती स्नातो गृहान्मेध्याश्रमी स्थितः ॥ ४० ॥ संस्कारकर्ता स गुरुः श्रोत्रियच्छान्दसौ समौ । श्रोत्रं क्लीब उपाध्यायोऽध्यापको ब्राह्मणायनः ॥ ४१ ॥ यजनं याजनं पाठोऽध्यापनं च प्रतिग्रहः । दानं चेति च षड्यत्र सा स्यादाजीविका स्त्रियाम् ॥ ४२ ॥ वार्त्ता वृत्तिः पुनः क्लीबे वर्त्तनं जीवनं पुनः । पुंस्याजीवोऽपि यद्भेद्यगाम्येषां त्रिष्वितः पुनः ॥ ४३ ॥ शौनामृते मृतं तद्वदृतं चाप्यमृतं क्रमात् । सेवाकृषिर्याचितं चायाचितं तु शिलोञ्छके ॥ ४४ ॥ प्रतिग्रहश्च साधुभ्यः क्रमादेषां च लक्षणम् । त्यक्तस्वस्वामिकक्रय्यकणावचय आपणात् ॥ ४५ ॥ उञ्छोऽस्त्रियां तथा क्षेत्रात् कणिशावचयः पुनः । स्यादस्त्रियां शिलः शैलः क्लीबे याचितमित्यपि ॥ ४६ ॥ अनूचानः प्रवचने सांगे धीती गुरोश्च यः । विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥ ४७ ॥ ;p{0074} धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः । धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥ ४८ ॥ मेधः कालाक्षरी विप्रो मतिमाञ्शिक्षिताक्षरः । वृद्धो विदो विदानश्च प्रेक्षाकार्यपि शास्त्रवित् ॥ ४९ ॥ दूरदृग्विदथः सूरी प्रज्ञालः प्रज्ञिलः पुनः । स्याद्दीर्घदूरयोर्दर्शी कृतकर्मा विशारदः ॥ ५० ॥ वैज्ञानिकः कृतमुखो मेधावी विदुरित्यपि । कुशाग्रीयमतिर्दक्षो विज्ञो विज्ञातशिक्षितौ ॥ ५१ ॥ छेको विदग्धो विदुरो निष्णातः कृतधीरपि । निर्द्दिष्टो निपुणो बोद्धा सुमतिः कुशलोऽपि च ॥ ५२ ॥ प्रेक्षावान्विबुधश्चोग्रः प्रौढः प्राज्ञो विदन्नथ । छात्रान्तेवासिनौ शिष्ये शैक्षः प्राथमकल्पिकः ॥ ५३ ॥ नवीनशिष्यपर्यायस्त्रिष्वेते विद्वदादिमाः । गुणनं शीलनं घोषः स्वाध्यायो धर्मभाणकः ॥ ५४ ॥ पाठोऽपि च जपोऽभ्यासो वेदेंगादौ पुनः पुनः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ५५ ॥ सतीर्थाश्चैकगुरवस्ते सहाध्यायिनस्त्रिषु । शेषमक्षरमादाय प्रतिश्लोकं क्रमेण तु ॥ ५६ ॥ ;p{0075} अन्योन्यं श्लोकपठनं प्रतिमाला स्त्रियां च सा । यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ ५७ ॥ विष्णुपर्यायवचनो मन्युस्तोमश्च संस्तरः । प्रयाग आहवश्चैव मिष्टश्चाभिषवो हवः ॥ ५८ ॥ इज्या स्त्रियां पुंसि मेनो धर्मो ना सत्रमस्त्रियाम् । बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५९ ॥ इष्टिः संस्था पुमान्मेधः सवनं षण् भिदस्य च । राजसूयं वाजपेयं पुंसि क्लीबेऽथ तस्य च ॥ ६० ॥ आरम्भस्यैव नियमे दीक्षा तु व्रतसंयमः । ऋग्विद्धोता यजुर्वित्स्यादध्वर्युः सामगः पुनः ॥ ६१ ॥ उद्गाता स्यात्सप्तपञ्चचतुर्भिस्तद्गुणाः क्रमात् । यष्टा तु यजमानः स्यादादेष्टा त्वध्वरे व्रती ॥ ६२ ॥ इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् । अप्यासुतीवलोप्यग्निं चितवानग्निचित् पुमान् ॥ ६३ ॥ सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः । सौमिकी दीक्षिणीयेष्टिः सोमस्याभिषवे कृते ॥ ६४ ॥ स्त्री सुत्या सवनं क्लीबे स्यात्पुंस्यभिषवः पुनः । आतिथ्याद्या इष्टयः स्युर्यज्ञान्तोऽवभृथः पुमान् ॥ ६५ ॥ ;p{0076} योभिमन्त्र्य निहन्येत स स्यात्पशुरुपाकृतः । परंपराकं शसनं प्रोक्षणं च मखे वधः ॥ ६६ ॥ प्रमीत उपसंपन्न प्रोक्षितौ वाच्यलिङ्गकाः । स्युरथापि च सांनाय्यं हविष्यं होत्रकं हविः ॥ ६७ ॥ अग्नौ हुतं त्रिषु द्रव्ये त्यक्तं चापि वषट्कृतम् । पारंपर्योपदेशे स्यादैतिह्यमिति हाव्ययम् ॥ ६८ ॥ आद्यं ज्ञानमुपज्ञा स्त्री ज्ञात्वारम्भ उपक्रमः । दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः क्रमात् ॥ ६९ ॥ स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना । गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥ आस्थानी सदसी क्लीबे स्त्रियां च समितिः स्त्रियाम् । सभासदः सभास्ताराः सदस्या विधिदर्शिनः ॥ ७१ ॥ सामाजिकाः प्राश्निकाश्च सभ्याः पारिषदा अपि । परिषद्वलाः परिषदाः पर्षद्याः परिषद्वलाः ॥ ७२ ॥ परिषद्याः पार्षदाश्च पार्षद्याः पर्षदा अपि । तेऽपि स्युः पारिषदकः अथ स्युः प्राग्घविर्गृहात् ॥ ७३ ॥ प्राग्वंशः स्याद्यत्र तत्र सम्यग्यात्रा दिवौकसाम् । देवद्रोणी च सैवोक्ता कुंवासुगहना वृतिः ॥ ७४ ॥ ;p{0077} वेदिः परिष्कृता भूमिश्चतुष्कं च चतुष्किका । स्त्रियामपि च वेदी स्यात्स्थण्डिलं चत्वरं समे ॥ ७५ ॥ यज्ञार्थात्स्तम्भपर्यायो यूपोऽस्त्री स्यादथास्त्रियाम् । चषालो यूपकटके यूपकर्णे घृतावनिः ॥ ७६ ॥ यूपाग्रभागे तर्माऽस्त्री मन्थने धोरणिर्द्वयोः । अरणी च स्त्रियां तत्र चात्र मन्थप्रमन्थकाः ॥ ७७ ॥ भेदाः स्युरस्या अङ्गानां प्रणीतस्तु सुसंस्कृतः । महावीरः समूह्यः स्यात्परिचाय्योपचाय्यकौ ॥ ७८ ॥ प्रयोजकोप्यथानाय्यो गार्हपत्यात्प्रणीयते । यः स्यात्सदक्षिणाग्निर्हि स्थानभेदात्तु ते त्रयः ॥ ७९ ॥ दक्षिणाग्निर्गार्हपत्याहवनीयाश्च तेऽर्द्धकाः । पञ्च सभ्यावसथ्याभ्यां पूर्णाधानं तदुच्यते ॥ ८० ॥ अग्नित्रयं त्रयी त्रेता होमभस्म तु वैष्टुभम् । रक्षा भूतिर्विभूति स्त्री क्लीबे भसितभस्मके ॥ ८१ ॥ उच्छिष्टमग्निपर्य्यायात् क्षारो ना शोषकं त्रिषु । भाले तिर्यग्गतास्तिस्रो भस्मरेखास्त्रिपुण्ड्रकम् ॥ ८२ ॥ होमधूमस्तु निगणो हवनी होमकुण्डकम् । कालीमसी ध्रुवा धूम्रा लोहिता च स्फुलिङ्गिनी ॥ ८३ ॥ ;p{0078} तथा विश्वरुचिश्चैव सप्तविश्वा हविर्भुजः । अथ स्युर्यज्ञपात्राणि स्रुवः पुंसि च वा स्त्रियाम् ॥ ८४ ॥ स्त्रियां स्रुः स्रूरथापि स्यादुपभृत्स्यात्स्त्रियां जुहूः । जुहुः पुमान् स्रुक् स्त्रियां स्यादधरोत्तरणे क्रमात् ॥ ८५ ॥ ध्रुवा सा यज्ञकर्मार्थं यस्यामाज्यं निधीयते । अमिक्षा तु स्मृतामीक्षा क्षीरेण समितं दधि ॥ ८६ ॥ क्षीरं शरः पयस्या स्यान्मस्तुन्यपि तु वाजिनम् । इष्टं तुकार्त्तवं कर्म वापीकूपादिपूर्तकम् ॥ ८७ ॥ इष्टापूर्तं तदेकोक्त्या हव्यपाके चरुः पुमान् । परमान्नं पायसोऽस्त्री स्यात् क्षीरेय्यपि वाच्यवत् ॥ ८८ ॥ ऋक् सामिधेनी धाय्या सा या स्यादग्निसमिन्धने । गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरित्यपि ॥ ८९ ॥ त्रिष्टुप् च जगती चातिजगत्यपि च शक्करी । अष्टिर्धृतिर्द्वितीयाः स्युरतिपूर्वा तथा कृतिः ॥ ९० ॥ सा तु प्राविसमत्युद्भ्यः स्युश्छन्दांस्येकविंशतिः । स्त्रियां पङ्क्तिः सैव विराट् त्रिष्टुप् तृष्टुबुभे समे ॥ ९१ ॥ वृत्तं समं चार्धसमं विषमं त्रिविधं च तत् । गणबद्धमिदं छन्द आर्याद्यं मात्रिकं च तत् ॥ ९२ ॥ ;p{0079} हव्यं कव्यं देवपितृदेयमन्नादिकं क्रमात् । आज्ये तु दधिसंपृक्ते पृषदाज्यं पृषन्तकः ॥ ९३ ॥ दध्ना तु मधुसंपृक्तं मधुपर्कोऽस्त्रियामथ । हवित्री स्त्री होमकुण्डं बर्हिर्मुष्टिस्तु विष्टरः ॥ ९४ ॥ अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके । राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ९५ ॥ अग्निहोत्र्यग्निचित्साग्निराहिताग्निरथापि च । अग्न्याधानमग्निहोत्रमग्निरक्षणमित्यपि ॥ ९६ ॥ घर्माग्निस्तु महाज्वालो महावीरः प्रवर्गवत् । वेदपाठश्च होमश्चातिथ्यर्चा पितृतर्पणम् ॥ ९७ ॥ भूतादिभ्योन्नादिदेये स्त्रीपुंसोर्वलिरित्यपि । ब्रह्मदेवनरपितृभूतयज्ञा अमी क्रमात् ॥ ९८ ॥ चत्वारस्ते पाकयज्ञा ब्रह्मयज्ञोऽत्र पञ्चमः । त्यागो विहापितं दानमुत्सर्जनविसर्जने ॥ ९९ ॥ विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् । प्रादेशनं निर्वपणमपवर्जनमंहतिः ॥ १०० ॥ प्रदेशनं विश्रणनमतिसर्जनमित्यपि । विसर्जनं च पुंसि स्यादुत्सर्गः स्पर्श इत्यथ ॥ १०१ ॥ ;p{0080} तुला हिरण्यगर्भश्च ब्रह्माण्डं कल्पपादयः । गोसहस्रं स्वर्णकामधेनुः स्वर्णाश्व एव च ॥ १०२ ॥ हेमहस्तिरथः पञ्चलाङ्गलं स्वर्णमेदिनी । विश्वचक्रं कल्पलता सप्तसागरकं तथा ॥ १०३ ॥ रत्नं धेनुर्महाभूतघटः षोडश उच्यते । महादानानि चान्यानि दश स्युः कनकं हयः ॥ १०४ ॥ तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि । कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥ १०५ ॥ हिंसाकर्माभिचारः स्याद्यज्ञार्हं कर्म यज्ञिकम् । मृतार्थं यदहर्दानमूर्ध्वदैहिकमित्यपि ॥ १०६ ॥ एकादश द्वादशाहकृत्ये तु स्यात् क्रिया स्त्रियाम् । अपि नूतनपर्यायश्राद्धं कारटमस्त्रियाम् ॥ १०७ ॥ पितृपङ्क्तिविधानं स्यात्सपिण्डीकरणं च षण् । पितृदाने निवापः स्यान्निर्वापः श्राद्धमित्यपि ॥ १०८ ॥ स्वधाऽव्ययानव्ययं स्यात्पितृदानविधावथ । देवदानेऽपि स्वाहैवमथ श्राद्धादिकं च यत् ॥ १०९ ॥ पितृयज्ञो मासि मासि तदनुश्राद्धमस्त्रियाम् । अन्वाहार्यमष्टमेऽह्नो मुहूर्त्तः कुतपोऽस्त्रियाम् ॥ ११० ॥ ;p{0081} पर्येषणा परीष्टिः स्यादन्वेषणा गवेषणा । याचनाध्येषणा याञ्चा परीष्टिरपि चार्थना ॥ १११ ॥ अर्घार्हं यत्तदर्घ्यं स्यात्पाद्यं पादार्हवारिणि । आतिथ्यं स्यादातिथेयं तत्र साध्वातिथेयकम् ॥ ११२ ॥ प्राघूर्णकः प्राघुणकः प्राघुणो गाथ इत्ययम् । गृहागतः स्यादतिथिर्द्वयोर्देशिक इत्यपि ॥ ११३ ॥ आगन्तुको नास्त्र्यतिथिः समीची वन्दना स्त्रियौ । स तु त्रिषूपसंग्राह्यो योभिवाद्यो यथाविधि ॥ ११४ ॥ पादपर्यायग्रहणमुपसंग्रह इत्यपि । पूजा नमस्यापचितिः सपर्याप्यर्हणा स्त्रियाम् ॥ ११५ ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । अन्वासनाप्युपास्तिः स्त्री क्लीबे शुश्रूषणं पुनः ॥ ११६ ॥ कौशली कुशलप्रश्ने ब्रज्याटाट्या सरापि च । साचेर्या मार्गपर्यायस्थितिः पर्यटनं समे ॥ ११७ ॥ नियोगः केतनं श्राद्धे देवार्चादौ तु पञ्चधा । गन्धपुष्पे धूपदीपौ नैवेद्यमिति सत्क्रिया ॥ ११८ ॥ अर्घपाद्याचमस्नानमधुपर्काधिकैश्च तैः । दशधाथो षोडशधा सासनस्वागताम्बरैः ॥ ११९ ॥ ;p{0082} भूषाचन्दनसंमिश्रैः सोत्तराचमनीयकैः । ध्यानादिकक्रिया तीर्था निदिध्या सा तु सास्थिरा ॥ १२० ॥ निदिध्यासनमप्येतन्मननं त्वात्मचिन्तनम् । ऋषयो मन्त्रद्रष्टार ऋषयः संशितव्रताः ॥ १२१ ॥ शापास्त्राः सत्यवचसो व्यासाद्यास्ते महर्षयः । देवर्षयः कचाद्याः स्युर्भल्लाद्यास्तु महर्षयः ॥ १२२ ॥ ऋतुपर्णादयो राजर्षयः काण्डर्षयस्त्वमी । जैमिन्याद्या नारदस्तु कपिवक्त्रो विधातृभूः ॥ १२३ ॥ स्याद्ब्रह्मादेवपर्यायपिशुनः कलिकारकः । देवब्रह्मा देवलः स्याद्दुर्वासास्तु कुशारणिः ॥ १२४ ॥ प्राचेतसस्तु वाल्मीकिः कविज्येष्ठो वशः कविः । कुशी च मैत्रावरुणो वाल्मीको वल्मिकोऽपि च ॥ १२५ ॥ वल्मीकी वाल्मिकी चाथ स स्यात्पाराशरी पुनः । कृष्णद्वैपायनो वेदव्यासः स्यात्सत्त्वभारतः ॥ १२६ ॥ व्यासः कृष्णः सात्यवतः कानीनो बादरायणः । पाराशरो माठरोऽपि पाराशर्यस्ततः पुनः ॥ १२७ ॥ द्वैपायनोथास्य माता वासवी सत्यवत्यपि । योजनागन्धपर्याया मत्स्योत्था गन्धकाल्यपि ॥ १२८ ॥ ;p{0083} वासवी मत्स्यगन्धापि दाशेयी शन्तनुप्रिया । माता विचित्रवीर्यस्य पुनश्चित्राङ्गदस्य च ॥ १२९ ॥ वसिष्ठोऽरुन्धतीनाथपर्याय्यापव इत्यपि । स मैत्रावरुणोऽपि स्यादक्षमाला त्वरुन्धती ॥ १३० ॥ त्रिशङ्कुयाजी गाधेयो विश्वामित्रश्च कौशिकः । वैश्वामित्रो याज्ञवल्क्यो योगेशो ब्रह्मरात्रिकः ॥ १३१ ॥ दधीचिश्च दधीचोऽपि वदान्यश्रेष्ठ इत्युत । यायावरो जरत्कारुर्देवी च मनसा प्रिया ॥ १३२ ॥ जरत्कारुस्तयोः पुत्र आस्तीकश्चास्तिकोऽपि च । गौतमस्तु शतानन्दो मातुरीयस्तु पाणिनिः ॥ १३३ ॥ शालातुरीयो दाक्षेयः शालंकिः पाणिनाहिकौ । शिवपर्यायभक्तोऽथ गोनर्दीयः पतञ्जलिः ॥ १३४ ॥ कात्यायनो वररुचिः कायोऽपि च पुनर्वसुः । मेधापर्यायजिच्चाथ व्याडिर्विन्ध्यनिवास्यपि ॥ १३५ ॥ नन्दिनीपुत्रपर्यायः कणादः काश्यपोऽपि च । स्फोटायनस्तु कक्षीवान्पालकाप्ये करेणुभूः ॥ १३६ ॥ रुचिरातनयार्थः स्याद्गुणवत्यपि पालकी । वात्स्यायनो महानागः कौटिल्यश्चणकात्मजः ॥ १३७ ॥ ;p{0084} द्राविलः पक्षिलः स्वामी विष्णुगुप्तोङ्गलोपि च । धन्वन्तरिर्दिवोदासः काशिराजः सुधोद्भवः ॥ १३८ ॥ ब्रह्मीभूतो द्वैतवादी शंकराचार्य इत्यपि । उपवर्षो हलभूतिः कृतकोटिरयान्वितः ॥ १३९ ॥ चूर्णकृद्भाष्यकारः स्याद् हरिर्भर्तृहरिः समौ । रघुकारः कालिदासो मेधारुद्रस्तु कोटिकृत् ॥ १४० ॥ गुणाढ्योप्यथ बाणः स्याद्वक्रगद्यनिबन्धकृत् । भारविः शत्रुलुम्पः स्याद्भवभूतिस्तु विश्रुतः ॥ १४१ ॥ भूमिपर्यायगर्भार्थोप्यथ वैयासकिः पुनः । वेदान्ती ब्रह्मवादी स्यादथ मीमांसकः स च ॥ १४२ ॥ जैमिनीयोप्यथौलूक्यः स च वैशेषिकोप्यथ । शम्बुकश्चापि शम्बूक उभौ शूद्रसुतौ समौ ॥ १४३ ॥ सौगतः शून्यवादी स्याद्वादिकोऽद्वयवाद्यपि । अर्हतोप्याक्षपादः स्याद्योगो नैयायिकोऽपि च ॥ १४४ ॥ पातञ्जलो यौगिकः स्यात्कापिलः सांख्य इत्यपि । लौकायतिकचार्वाकबार्हस्पत्याश्च नास्तिकाः ॥ १४५ ॥ पाश्चार्थिकः पाशुपतः शैवश्चापि महाऽव्रतः । कापालिकोऽथ वामी स्याद्वामिकोऽथापि लौकिकः ॥ १४६ ॥ ;p{0085} आम्नायी सामयी माध्वो वैष्णवः पञ्चरात्रिकः । रक्ताम्बरो भदन्तोऽपि शाक्यभिक्षुश्च वन्दकः ॥ १४७ ॥ श्वेताम्बरः श्वेतभिक्षुः क्षपणस्तु दिगम्बरः । नग्नाढश्रमणाह्लीकनिर्ग्रन्था जीवजीवकाः ॥ १४८ ॥ चेलुकश्चीवरी भिक्षुर्महोपासकमेलिकौ । वन्यश्चैत्यः श्रामणेरः स च प्रव्रजितः पुनः ॥ १४९ ॥ तच्छिष्याः श्रावकाः खङ्गाः सुदन्ता एकचारिणः । बुद्धाः स्वयंभुवस्तेषां भेदाः खरतरादयः ॥ १५० ॥ धर्मध्वजी लिङ्गवृत्तिः पाखण्डः सर्वलिङ्गिनि । उरःकटः पञ्चवटो जोटिङ्गश्च महाव्रती ॥ १५१ ॥ कुहना लोभान्मिथ्येर्या सा स्यादपथकल्पना । क्षतव्रतोवकीर्णी स्याद्व्रात्यः संस्कारवर्जितः ॥ १५२ ॥ जटालजटिलौ तुल्यावथ कर्पटिकार्पटी । अलाभात्तु स्त्रियस्त्यागस्तदश्वब्रह्मचर्यकम् ॥ १५३ ॥ यद्रतं यमिनां गुप्तं खञ्जरीटरतं हि तत् । शिश्विदानः कृष्णकर्मा ब्रह्मबन्धुर्द्विजाधमः ॥ १५४ ॥ नष्टाग्निर्वीरहा जातिमात्रजीवी द्विजब्रुवः । अजपस्त्वसदध्येता वेदहीनो निराकृतिः ॥ १५५ ॥ ;p{0086} वान्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् । उच्छिष्टभोजनो देवनैवेद्यकृतभोजनः ॥ १५६ ॥ शाखारण्डः स्वशाखीयकर्मलुप्तोऽन्यकर्मकृत् । शाखाहण्डोप्यन्यशाखापाठके स्वीयवर्जके ॥ १५७ ॥ कनिष्ठस्तु कृताधानो न ज्येष्ठे ह्यग्निहोत्रिणि । पर्याधाता कनिष्ठः स्याज्ज्येष्ठः पर्याहितः स च ॥ १५८ ॥ कनिष्ठः सोमयाजी चेन्न ज्येष्ठः सोमयागकृत् । परियष्टा कनिष्ठः स्यात्परीष्टो ज्येष्ठ इत्यपि ॥ १५९ ॥ विवाहरहिते ज्येष्ठे कनिष्ठो दारसंग्रही । परिवेत्ता परिवेदी परिवित्तिस्तु पूर्वजः ॥ १६० ॥ परिवित्ता सुतस्तस्य सा स्त्री तु परिवेदिनी । पूर्वोढा त्वधिविन्ना स्यात् पश्चादूढाधिवेदिका ॥ १६१ ॥ शस्त्राजीवः काण्डपृष्ठो गुरुहा नरकीलकः । मलोदेवादिपूजायामश्चाद्धोऽथ मलिम्लुचः ॥ १६२ ॥ पञ्चयज्ञपरिभ्रष्टो निषिद्धैकरुचिः खरुः । सुप्ते यस्मिन्नुदेत्यर्कोत्यस्तमेति क्रमेण तौ ॥ १६३ ॥ अभ्युदिताभिनिर्मुक्तौ वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद्याञ्चापरो वीरोपजीवकः ॥ १६४ ॥ ;p{0087} वीरविप्लावको जुह्वद्धनैः शूद्रोपपादितैः । वैडालव्रतिकः सर्वाभिसंधी छद्मतापसः ॥ १६५ ॥ त्रिणाचिकेतस्त्रिर्योग्निं चितवांस्त्रिमधुश्च यः । कर्मविद्यायोनिशुद्धा यस्य तूभयपक्षजाः ॥ १६६ ॥ बहुदक्षिणयज्वानः सज्ञेयस्त्रिसुपर्णकः । वैखानसस्तु स्याद्वानप्रस्थो वन्यान्नभोजनः ॥ १६७ ॥ वन्यैर्गृहस्थधर्माथ तपस्या नियमस्थितिः । व्रतादानं परिव्रज्या संन्यासोप्यथ योगभित् ॥ १६८ ॥ अहिंसासूनृतास्तेयब्रह्माकिंचनता यमाः । नियमाः शौचसंतोषौ स्वाध्यायतपसी अपि ॥ १६९ ॥ देवताप्रणिधानं च करणं पुनरासनम् । प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥ १७० ॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । धारणा स्त्री क्वचिद्धेये चित्तस्य स्थिरबन्धनम् ॥ १७१ ॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः । समाधि स्त्री तदेवार्थमात्राभासनरूपकम् ॥ १७२ ॥ एवं योगो यमाद्यङ्गैरष्टभिः संमतोऽष्टधा । एषामभ्यासतो योगी भिक्षुः सांन्यासिको यतिः ॥ १७३ ॥ ;p{0088} परिव्राडपि कर्मन्दी तापसो मस्करी यती । पाराशरी रक्तवस्त्रपर्यायः परिकाङ्क्ष्यपि ॥ १७४ ॥ वाचंयमो मुनिरपि द्वयोरेव मुनी स्त्रियाम् । स्यात्परिव्राजकश्चाथ शेते यः स्थण्डिले व्रतात् ॥ १७५ ॥ स्थाण्डिल्यः स्थण्डिलेशायी स्थण्डिलेशय इत्यपि । तपःक्लेशसहोदान्तः क्षान्तः शान्तो जितेन्द्रियः ॥ १७६ ॥ तपस्या तु तपो जप्यं जाप्यं जापो जपः पुनः । कमण्डलुश्चैत्यमुखः करकः कुण्डिकः स्त्रियाम् ॥ १७७ ॥ यत्यासने ब्रुसीब्रुष्यौ वृषी वृषिः स्त्रियामिमाः । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकः ॥ १७८ ॥ बलतुर्याश्चतुर्भद्रमथ देवत्वमित्यपि । देवसायुज्यमपि च देवभूयादिकं पुनः ॥ १७९ ॥ प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि । ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्गकौ ॥ १८० ॥ क्लीबे कैवल्यनिर्वाणश्रेयो निःश्रेयसामृते । संन्यासवत्यनशनव्रते प्रायस्तु न स्त्रियाम् ॥ १८१ ॥ कल्पद्रौ केशवकृते फलिते नामसंचयैः । भूस्कन्धे ब्रह्मकाण्डोऽयं तुर्यः सिद्धिमुपागतः ॥ १८२ ॥ ;c{इत्यृषिगोत्रब्रह्मप्रकाण्डः ।} ;p{0089} ;v{क्षत्रियप्रकाण्डः} राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट् । राड्राजा स्यादपि क्षत्रं राज्ञि भूपार्थपार्थिवौ ॥ १ ॥ भूपर्यायपतिक्षिद्भृत् पार्थवो भूपुरन्दरः । भूमिप्रजामनुष्याणां पर्यायेभ्यो धनस्य च ॥ २ ॥ नेतृपेशपतीनां च पालार्थानां च वाचकः । मूर्द्धाभिषिक्तः पृथिवी-शक्रपर्याय इत्यपि ॥ ३ ॥ मण्डलेश्वरपर्यायः सामन्तोथाप्यधीश्वरः । प्रणताशेषसामन्तश्चक्रवर्ती भयापहः ॥ ४ ॥ एकजन्मा सार्वभौ मोप्यतोऽन्ये मध्यमवर्त्तिनः । सत्वप्रतिरथो यस्य नास्ति प्रतिरथो युधि ॥ ५ ॥ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ६ ॥ राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् । महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥ ७ ॥ स च ग्रन्थिहरोऽमात्यः स्यात्प्रधानं च न स्त्रियः । अमात्याः कर्मसचिवास्तत्तत्कर्माधिकारिणः ॥ ८ ॥ पुरोहितः पुरोधाः स्यात्स्थेयोऽथ द्वारपालके । दौवारिकः प्रतीहारो द्वाःस्थितो वेत्रधारकः ॥ ९ ॥ ;p{0090} दर्शको दर्शितद्वाः स्याद् द्वाःस्थो द्वास्स्थितदर्शकः । स च द्वाःस्थितदर्शी स्यात् प्रतिहार उदास्थितः ॥ १० ॥ उपस्थितः प्रतीहारी प्रतिहार्यपि वा पुनः । व्यवहारद्रष्टरि स्यात्प्राड्विवाकोऽक्षदर्शकः ॥ ११ ॥ अथापि स्यादनीकस्थो रक्षिवर्गो थकोट्टपः । अध्यक्षोधिकृतस्तस्य नरे दौःसाधिकोऽपि च ॥ १२ ॥ गर्वाटो वर्त्तको दण्डधार्यथ स्थायुकोऽपि च । राज्ञा योधिकृतः स स्याद्गोपो ग्रामेषु भूरिषु ॥ १३ ॥ स्वर्णाध्यक्षो भौरिकः स्यात् हेरिकोऽप्यथ नैष्किकः । रौप्याध्यक्षष्टङ्कशाली टङ्कपर्यायतः पतिः ॥ १४ ॥ क्षुद्रोपकरणानां चोपाध्यक्षः परिकर्मिकः । पुराध्यक्षे दण्डपतिः पौरिको दण्डपाशिकः ॥ १५ ॥ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः । धर्माध्यक्षो धार्मिकः स्याद्धर्माधिकरणीत्यपि ॥ १६ ॥ हयाध्यक्षो हायिकः स्यात्पाकाध्यक्षस्तु पाकिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ १७ ॥ स्यातामन्तःपुराध्यक्षेऽन्तर्वेशिकावरोधिकौ । कुब्जो वर्षवरः षण्ढः (षाढः) सौविदल्लश्च कञ्चुकी ॥ १८ ॥ ;p{0091} स्थापत्यः सौविदोऽथ स्याद्भृत्यो भृतक इत्यपि । सेवकोर्थानुजीवी स्याद्वैर्यरिर्द्वेषणो द्विषत् ॥ १९ ॥ दुर्हृद्दस्युः सपत्नो द्विड् विपक्षः शात्रवोऽहितः । परौचाभेर्मातियाती परेः पन्थिकपन्थिनौ ॥ २० ॥ प्रतेरनीकपक्षाख्यौ जिघांसुद्वेषिशत्रवः । अरात्यारात्यसहनपर्यवस्थात्रमित्रकाः ॥ २१ ॥ विद्विषश्च द्विषुर्विद्विट् विद्वेषी द्विषतो द्विषः । अभिघाती चाभिमतिः सापत्नोऽपि सपत्नवत् ॥ २२ ॥ वैरानुबन्धी योन्यार्थमुपनाहः स उच्यते । वयस्यः स्निग्धः सवयाः स्नेह्यः पांशुलकः सखा ॥ २३ ॥ सुहृन्मित्रमपि क्लीबे सख्यं साप्तपदीनकम् । आदिराजः पृथुर्वैन्यो मांधाता युवनाश्वजः ॥ २४ ॥ कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा बौध ऐल उर्वशीरमणोऽपि च ॥ २५ ॥ उदुसन्तावायुरायुः पुत्रेस्याथ पुरुः पुरू । शतधन्वा शतधनुः क्षत्रभेदेप्यथो नलः ॥ २६ ॥ ;p{0092} बाहुको नैषधः पुण्यश्लोकोऽश्वज्ञोऽस्य च प्रिया । दमयन्ती तु वैदर्भी भैमी स्यादथ नाहुषः ॥ २७ ॥ ययातिरर्जुनः कार्तवीर्यो हैहय इत्यपि । कार्त्तिवीर्यः कार्त्तवीर्यार्जुनो माहिष्मतीपतिः ॥ २८ ॥ सहस्रबाहुपर्यायो दौष्यन्तिर्भरतोऽपि च । सर्वंदमः सर्वदमः स्यात्सर्वदमनोऽपि सः ॥ २९ ॥ शाकुन्तलेयः खट्वाङ्गो दिलीपोप्यथ शान्तनुः । शन्तनुश्च महाभीष्मः प्रतीपोऽथ परावसुः ॥ ३० ॥ गङ्गापर्यायपुत्रार्थो गाङ्गेयो गाङ्ग इत्यपि । गाङ्गायनिः शान्तनवो भीष्मो देवव्रतोपि च ॥ ३१ ॥ रक्षःपर्यायदन्तार्थः स्यादिच्छामरणार्थकः । प्रज्ञापर्यायनेत्रार्थो धृतराष्ट्रोऽम्बिकासुतः ॥ ३२ ॥ वैचित्रवीर्यः पाण्डुः स्याद्धृतराष्ट्रानुजोऽपि च । अम्बालिकेयः पत्न्यस्य कुन्ती कुन्ता च सात्वती ॥ ३३ ॥ पृथान्या शल्यभगिनी माद्री शल्यस्तु मद्रपः । दुर्योधनस्तु कुरुराड् गान्धारेयः सुयोधनः ॥ ३४ ॥ शताग्रजोऽस्यावरजास्ते स्युर्दुःशासनादयः । शकुनिः सौबलोऽपि स्याद्गान्धारोऽप्यक्षकोविदः ॥ ३५ ॥ ;p{0093} दुर्द्यूतवेदी कर्णस्तु चम्पाधिपतिरङ्गराट् । राधार्कपर्यायसुतो वसुषेणश्च सूतजः ॥ ३६ ॥ कालपृष्ठं जयो धन्वा स्यैषा दुष्टचतुष्टयी । सुयोधनादिका सौयोधनिर्लक्ष्मण इत्यपि ॥ ३७ ॥ अजातशत्रुपर्यायः शल्यारिश्च युधिष्ठिरः । कर्णानुजोजमीढः स्याद्धर्मराजस्तपःसुतः ॥ ३८ ॥ वृकोदरो भीमसेनो वायुपुत्रः करव्रणः । वीररेणुर्नागबलो वल्लवो गुणकारकः ॥ ३९ ॥ भीमो हिडिम्बकिर्मीरबककीचकसूदनः । सौवलीतनयार्थारिः पाकपर्यायकारकः ॥ ४० ॥ अर्जुनः फाल्गुनः पार्थः सव्यसाची धनञ्जयः । राधावेधी किरीट्यैन्द्रिः श्वेताश्वः फाल्गुनो नरः ॥ ४१ ॥ बृहन्नडो गुडाकेशः सुभद्रेशश्च कर्णजित् । हनूमत्कपिपर्यायध्वजपर्याय इत्यपि ॥ ४२ ॥ बीभत्सुर्विजयो जिष्णुर्गाण्डिवी कालखञ्जहा । बीभत्सश्चित्रयोधी च धन्वी योगी च तद्रथे ॥ ४३ ॥ नन्दिघोषो धनुरपि गाण्डीवो गाण्डिवोऽस्त्रियाम् । गाञ्जीवो गाञ्जिवोऽप्यस्त्री नकुलस्त्वश्वशास्त्रवित् ॥ ४४ ॥ ;p{0094} तन्तिपालः शाकुनस्तु गोवित्स्याद्ग्रन्थिकः पुनः । सहदेवोऽपि चरमावेतौ माद्रीसुतावुभौ ॥ ४५ ॥ युधिष्ठिराद्यास्तेऽपि स्युर्ज्येष्ठाः कुन्तीसुतास्त्रयः । पञ्चामी धर्मवाय्विन्द्रनासत्यानां सुताः क्रमात् ॥ ४६ ॥ तेऽपि स्युः पाण्डुपुत्रार्थास्तापसा अथ यज्ञजा । पाञ्चाली द्रौपदी कृष्णा पार्वती नित्ययौवना ॥ ४७ ॥ याज्ञसेनी वेदिजन्मपर्याया पाण्डुशर्मिला । सैरन्ध्री पञ्चसूः पञ्चवल्लभा पञ्चमीति च ॥ ४८ ॥ स्यात्पतिः श्वशुरो ज्येष्ठः कनीयान्देवरः पतिः । त्रितयं त्रिषु मध्येषु कृष्णासम्बन्ध ईदृशः ॥ ४९ ॥ सौभद्रेयोऽभिमन्युः स्यादार्जुनिस्तस्य चात्मजः । परीक्षितः परीक्षित्स्यादुत्तरातनयार्थकः ॥ ५० ॥ पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि । यजमानः सर्पसत्रे स च जन्मेजयोप्यथ ॥ ५१ ॥ द्रुपदो यज्ञसेनः स्यात् पृषतः कम्पिलापतिः । धृष्टद्युम्नो द्रोणरिपुरपि याजाभिचारजः ॥ ५२ ॥ द्रौपदः पार्षतः सेनापतिश्चाथ शिखण्डिनि । भीष्मारिः स्त्रीरूपकोऽपि स्थूणपुंस्त्वप्रधारकः ॥ ५३ ॥ ;p{0095} घटपर्यायजन्मार्थो भारद्वाजः कृपीपतिः । द्रोणः शन्तनुजामाता गुरुराचार्य इत्यपि ॥ ५४ ॥ द्रौणायनिः कृपीपुत्रो द्रौणिर्द्रोणायनोऽपि च । अश्वत्थामापि गौरः स्यात्कृपाचार्यस्तु गौतमः ॥ ५५ ॥ शैनेयः सात्यकिस्तुल्यौ सात्वतोऽपि च माधवः । सत्राजितश्च सत्रजित् सत्यभामापितर्यथ ॥ ५६ ॥ रुक्मिणीजनकेऽपि स्याद्भीष्मो भीष्मक इत्यपि । दमघोषश्चेदिपतिः शिशुपालश्च चेदिराट् ॥ ५७ ॥ श्रौतश्रवेयः कंसः स्यादुग्रसेनसुतोऽपि च । बार्हद्रथिर्जरासन्धो मागधो मगधेश्वरः ॥ ५८ ॥ द्वैमातुरो राजगृहस्वामी कर्णसखोऽपि च । इन्द्रपर्यायजो बाली बालिर्दुन्दुभिदर्पहा ॥ ५९ ॥ सूर्यपर्यायपुत्रार्थः सुग्रीवो वानरेश्वरः । मारुतिः केसरिसुतो हनूमान्हनुमानपि ॥ ६० ॥ रामदूतो योगचरः स च स्याद्वज्रकङ्कटः । लङ्कारिराञ्जनेयः स्यादर्जुनार्थाद्ध्वजार्थकः ॥ ६१ ॥ सुबाहुजस्तु सगरो दैलीपिः स्याद्भगीरथः । विक्रमादित्यपर्यायो महेन्द्रादित्यसम्भवः ॥ ६२ ॥ ;p{0096} असौ विषमशीलोऽपि साहसाङ्कः शकोत्तरः । भम्भसारः श्रेणिकः स्याद्धालस्तु शालिवाहनः ॥ ६३ ॥ सर्वे पृथुप्रभृतयो मताः सौखरयो नृपाः । यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ॥ ६४ ॥ वार्त्तायनिः प्रवृत्तिश्च चरश्चारोऽपि वार्त्तिकः । प्रतिष्कशोवसर्पः स्यात् प्रविकाशोऽप्यमी त्रिषु ॥ ६५ ॥ सांवत्सरो ज्यौतिषिको दैवज्ञो देवलेखकः । कार्त्तान्तिकश्च मौहूर्ती ज्ञानी प्रश्नार्थवाद्यपि ॥ ६६ ॥ अथ स्यात्पुष्पशकटी दैवप्रश्न उपश्रुतिः । तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥ ६७ ॥ लिपिङ्करो लिपिकरो मसिपण्यश्च लेखकः । लिविङ्करो लिविकरो लेखकारक इत्ययम् ॥ ६८ ॥ स्यादक्षराच्चणश्चञ्चुः किरिका मसिधानिका । वर्णकूची च मेलान्धुः स्यान्मसीजलमित्यपि ॥ ६९ ॥ मेलामसिर्द्वयोः पत्राञ्जनं स्याच्च मसी स्त्रियाम् । स्त्रियां स्यात्कलमः पुंसि लेखनी चापि न स्त्रियाम् ॥ ७० ॥ वर्णतूल्यथ लेखः स्याद्वर्णदूतार्थकोऽपि च । स्यात्स्वस्तिमुखपर्यायो वाचः पर्यायहारकः ॥ ७१ ॥ ;p{0097} तस्यैव मुद्रणं मुद्रा स्त्रियां प्रत्ययकारिणी । तेषां निबन्धनार्थं तु काचस्थानं च न द्वयोः ॥ ७२ ॥ अपि स्यात्कलमस्थानपर्याया मसिधानिका । उत्तमर्णाधमर्णादिव्यवहारार्थपत्रके ॥ ७३ ॥ द्रव्याङ्गबन्धनं तत्स्यात्तेषां भेदा अनेकशः । लिखिताक्षरविन्यासे लिपिर्लिविरुभे स्त्रियौ ॥ ७४ ॥ लिपी लिवी च तुल्ये स्तो लिखनीयं तु लेखितम् । लेखनीयं च लिखितं लिख्यं लेख्यममूनि च ॥ ७५ ॥ त्रिषु द्रव्येऽथ लिखनं लेखनं लेख इत्यपि । पुस्तकं त्रिषु पुस्तं स्त्री क्लीबे तु शरयन्त्रकम् ॥ ७६ ॥ पुस्तकस्थापनस्थाने प्रोथवैदेशिकौ समौ । स्यात्संदेशहरो दूतो दौत्यं भावे च कर्मणि ॥ ७७ ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । यातुर्गन्तुरथो हारिः पथिकानां च संहतौ ॥ ७८ ॥ स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । सप्तैवाङ्गान्यमूनि स्युरथ पौरास्तु पुंस्यमी ॥ ७९ ॥ श्रेणिः स्त्रियां च प्रकृतिर्द्वे इमे चाथ षड्गुणाः । सन्धिर्ना विग्रहो यानमासनं द्वैध आश्रयः ॥ ८० ॥ ;p{0098} अथ स्युः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ ८१ ॥ स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् । सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ ८२ ॥ दमः पुंस्यस्त्रियां दण्डस्तद्वत्साहसमस्त्रियाम् । साम सान्त्वमुभे क्लीबे लञ्चाकौशलिके स्त्रियाम् ॥ ८३ ॥ पुंस्युत्कोच उपाचारोदाहार आमिषं द्वयोः । ग्राह्यं प्रदानमयनमुपादानं च ढौकनम् ॥ ८४ ॥ उपायनमुपग्राह्यं प्राभृतं च प्रदेशनम् । उपदा स्त्र्युपहारे ना यौतकादेस्तु देयके ॥ ८५ ॥ दायो ना हरणं क्लीबे पुंसि भेदोपजापकौ । त्रिवर्गेण भिया वापि परीक्षा सोपधा स्त्रियाम् ॥ ८६ ॥ मायोपेक्षेन्द्रजालानि क्षुद्रा भेदा अमी त्रयः । तत्र चास्त्र्यषडक्षीणं यत्तृतीयाद्यगोचरम् ॥ ८७ ॥ विकाशोऽपि च वीकाशोऽवकाशश्च प्रकाशवत् । विविक्तविजनच्छन्ननिःशलाकाप्रकाशकाः ॥ ८८ ॥ त्रिष्वस्त्र्युपह्वरं क्लीबे रहस्यं च जनान्तिकम् । एकान्तं केवलं छन्नमुपांशुरहसी उभे ॥ ८९ ॥ ;p{0099} क्लीबाव्ययेथ मन्त्रः स्याद्रहस्यालोचने पुनः । स्याद्विश्वासस्तु विश्रम्भोऽभ्रेषोऽभ्रंशो यथोचितात् ॥ ९० ॥ कल्पादेशनवान्याया देशरूपं समञ्जसम् । युक्तमौपयिकं न्याय्यमभिरूपं च साम्प्रतम् ॥ ९१ ॥ उचितं भजमानं च प्राप्तं चाथ समर्थनम् । संप्रधारणानुवादो निर्देशोपि निदेशकः ॥ ९२ ॥ आदेशोप्यथ वै शास्तिः शास्ती स्यातां स्त्रियाविमे । आज्ञा शिष्टिः स्त्रियौ क्लीबे शासनं चावधारणा ॥ ९३ ॥ संस्था स्थितिश्च मर्यादा सीमा मन्तुस्तु पुंस्ययम् । अपराधोप्यलीको स्त्री स्यात् क्लीबे विप्रियागसी ॥ ९४ ॥ शत्रुर्जिगीषोः पुरतः स्वदेशानन्तरो नृपः । तस्याप्यनन्तरो मित्रमुदासीनस्ततः परः ॥ ९५ ॥ पार्ष्णिग्राहः पृष्ठवासी तस्याक्रन्दो निरन्तरः । ततः परस्तादासारोऽवनतोस्यापि पृष्ठगः ॥ ९६ ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । सपञ्चमस्तकः षष्ठ उदासीनस्ततः पृथक् ॥ ९७ ॥ विजिगीषुः सप्तमः स्यात्पञ्चत्वस्तादयो मताः । अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ॥ ९८ ॥ ;p{0100} तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः । उशना मण्डलमिदं प्राह द्वादशराजकम् ॥ ९९ ॥ विजिगीषुररिर्मित्रं पार्ष्णिग्राहश्च मध्यमः । उदासीनात्पुलोमेन्द्रौ षट्कं मण्डलमूचतुः ॥ १०० ॥ चत्वारः पार्थिवा मौलास्तिर्यक् पश्चात्पुरः स्थिताः । मूलप्रकृतयः शत्रुमित्रे सहजकृत्रिमे ॥ १०१ ॥ सहजं स्वकुलोत्पन्नं कृत्रिमं कार्ययोगतः । मयास्योपकृतं पूर्वमयं चोपकरिष्यति ॥ १०२ ॥ इति यः क्रियते सन्धिः प्रतीकारः पुमानयम् । द्विपाद्यो द्विगुणो दण्डो भागधेयोऽस्त्रियां बलिः ॥ १०३ ॥ कारः करो नाथोद्दानं बन्धनं शुल्कमस्त्रियाम् । घट्टादिदेये द्रव्ये स्यादथापि द्विविधं भयम् ॥ १०४ ॥ अदृष्टं तोयवह्न्यादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्वचक्रप्रभवं भयम् ॥ १०५ ॥ सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकार एष पञ्चाङ्गको नयः ॥ १०६ ॥ कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् । खन्याकरबलादानं शून्यानां च निवेशनम् ॥ १०७ ॥ ;p{0101} अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः । वृद्धिस्तु वर्द्धनं चैवं साम्यं स्यात्सोप्यं त्रिकः ॥ १०८ ॥ उदयश्च त्रिवर्गश्च शान्ति स्त्री स्याद्दमो नरि । मन्त्री पुरोधाः सेनानीर्द्वास्थोन्तर्वेशिकस्तथा ॥ १०९ ॥ युवराजः प्रशास्ता च समाहर्त्तोपदेशकः । कर्मान्तिकः सन्निधाता रूपाद्यधिकृतस्तथा ॥ ११० ॥ मन्त्रपारिषदः पौरव्यावहारिकनायकौ । आटविको दुर्गपालो दण्डेश इति षट् त्रिकाः ॥ १११ ॥ तीर्थानि शत्रुपक्षे स्युर्येषु चारः प्रयुज्यते । समाहर्तृप्रशास्तारौ नायकं चापवर्त्त्य तु ॥ ११२ ॥ महिषी मुख्यमन्त्री च वैद्यश्चेति पठन्ति ये । तेषामिमे त्रयः स्वीयाश्चाराणां स्युरगोचराः ॥ ११३ ॥ अतः स्वपक्षे तीर्थानि भवन्ति दश पञ्च च । चरन्ति पुरुषाः शत्रुपक्षे चेति चरास्त्रयः ॥ ११४ ॥ प्राज्ञा दर्शननास्तिक्यप्रमादालसताक्रुधः । असत्यं दीर्घसूत्रत्वमेकेन बहुभिः सह ॥ ११५ ॥ प्रकाशे च त्रयो मन्त्रा मन्त्रितत्याग एव च । अघसंग इति ज्ञेया दोषा द्वादश भूपतेः ॥ ११६ ॥ ;p{0102} कामक्रोधौ लोभहर्षौ मानश्चापि मदः पुनः । अन्तर्गतोऽरिषड्वर्गः प्राणस्य क्षुत्तृषे पुनः ॥ ११७ ॥ शोकमोहौ तु मनसो जरामृत्यू च वर्ष्मणः । षडूर्मयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥ ११८ ॥ आखुस्वपरचक्राणि सप्तैता ईतयः पुमान् । भृत्यैर्मित्रैश्च मन्त्रैश्च बलं त्रिविधमुच्यते ॥ ११९ ॥ हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् । षडङ्गं भारिकस्वाभ्यां वारदैशिकयोद्धृभिः ॥ १२० ॥ सकर्मकारैरष्टाङ्गं प्रतप्तस्तु प्रतापवान् । सौम्योधिगम्योऽथ शुचिरुपधातीतकः समौ ॥ १२१ ॥ पौराद्यनुग्रहे युक्तो वृत्तिर्व्यावृत्तिरन्यतः । पक्षे पक्षे तुलामानं भाण्डार्घप्रत्यवेक्षणम् ॥ १२२ ॥ संमाननं च मान्यानां लब्धप्रशमनानि षट् । प्रतिभोगप्रातिभोगौ शाकादेरुपढौकनम् ॥ १२३ ॥ शूद्रकन्याकरो यः स्यात्स च गौरीवराढकम् । राधाचक्रं तु तद्यन्त्रे चले यन्मील्यलोचनम् ॥ १२४ ॥ प्रतिबिम्बेक्षणवशादूर्ध्वं वेध्यमधोमुखम् । तद्वेधनादिकं कर्म वीर्यशुल्कमिति स्मृतम् ॥ १२५ ॥ ;p{0103} अधिकारः प्रक्रिया स्त्री द्वयोश्चमरचामरे । लोमगुच्छः पुमान् क्लीबे चारतूलमथ त्रिषु ॥ १२६ ॥ छत्रं तु नृपचिह्नार्थं राजशृङ्गार्थकं च षण् । हैमदण्डं चातपत्रमुत्कूटं चोष्णवारणम् ॥ १२७ ॥ चक्रपर्यायतोङ्गार्थं भृङ्गालुः कनकालुका । निवेशः शिविरं क्लीबं सज्जनं तूपरक्षणे ॥ १२८ ॥ रथो गजोऽश्वः पादातः सेनाङ्गं स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ १२९ ॥ वङ्कुरो मूलविभुजो यह्वोप्यस्त्री विमानकः । सक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥ १३० ॥ योग्या स्त्रियां वैनयिकोऽध्वरथः पारियानिकः । कर्णीरथः प्रवहणं डयनं हयनं समे ॥ १३१ ॥ शकटोऽस्त्रीत्वनः क्लीबे शकटिः शकटी स्त्रियौ । त्रिषु काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे ॥ १३२ ॥ सपाण्डुकलीयो यः संवीतः पाण्डुकम्बलैः । स तु ज्ञेयश्च वैय्याघ्रो यो वृतो व्याघ्रचर्मणा ॥ १३३ ॥ एवं द्वीप्यादिचर्मादिसंवीते द्वैप इत्यपि । रथार्थात्पादपर्यायमङ्गपर्यायमस्त्रियाम् ॥ १३४ ॥ ;p{0104} चक्रं पुमानरिर्द्धारानेमी स्त्री नेमिरित्यपि । प्रधिरस्त्री द्वयोराणिः स्त्रियामाणीति चाप्यणी ॥ १३५ ॥ रथाग्रकीलकेनाभिर्नाभी चक्रस्य पिण्डिका । स्त्रियामथो ना कुवरः कूवरो ना युगन्धरः ॥ १३६ ॥ अस्त्रियामप्यथ युगमस्त्री यानमुखं पुनः । ईषान्तबन्धनं चापि धूर्द्धूर्वी च स्त्रियावुभे ॥ १३७ ॥ युगान्तकीले शम्या स्त्री तत्स्थाने गर्त्तमद्वयोः । अनुकर्षो दार्वधस्थमासङ्गस्तु युगान्तरम् ॥ १३८ ॥ रथगुप्तिर्वरूथाऽस्त्री स्यू रथाङ्गा न्युपस्कराः । नियन्ता प्राजिता यन्ता सूतः सव्येष्ठृसारथी ॥ १३९ ॥ दक्षिणेस्थप्रचेतारौ क्षत्ता रथकुटुम्बिकः । रथिनः स्यन्दनारोहा रथिका रथिरा अपि ॥ १४० ॥ रथव्रजे स्त्रियां रथ्या रथकट्याप्यथ स्त्रियाम् । द्वयोः प्रेङ्खा तु दोला स्त्री यानं वा पुंसि न स्त्रियाम् ॥ १४१ ॥ विमानेऽथ वराङ्गः स्याद्वारणो मृग इत्यपि । हस्ती दन्तावलो दन्ती सिन्धुरो दीर्घमारुतः ॥ १४२ ॥ मातङ्गो राजिलः पीलुर्जलकान्तो महामृगः । मतङ्गः सामजः कुम्भी कुञ्जरोऽनेकपो द्विपः ॥ १४३ ॥ ;p{0105} निर्लूनः करटी नाग इभः स्तम्बेरमो गजः । करी मतङ्गजः पद्मी शूर्पकर्णो लतारतः ॥ १४४ ॥ पिण्डपादः पुष्करी स्याच्छुण्डारी कज इत्यपि । विलोमरसनार्थः स्याद्द्वेर्दन्तार्थविषाणकः ॥ १४५ ॥ द्वयोः करेणुर्वेतण्डः पेचकी पुष्करी जटी । जलाकाङ्क्षो महाकायोऽप्रस्वेदः सूचिकाधरः ॥ १४६ ॥ शुण्डालः पिचिलश्चापि ध्वजोऽस्त्री चासुरः कपिः । गम्भीरवेदी च करी करिणी धेनुका वशा ॥ १४७ ॥ करेणुश्च करेणूश्च रेणुका च करेणुका । कणेरुश्च गणेरुश्च स्त्रियामथ च तद्भिदः ॥ १४८ ॥ पञ्चवर्षो गजो बालः पोतस्तु दशवार्षिकः । विक्को दिक्कोपि विंशाब्दस्त्रिंशाब्दः कलभोऽस्त्रियाम् ॥ १४९ ॥ षष्टिवर्षो युवार्थः स्याच्छुण्डारोऽपि मतः स च । स्यादशीतेस्तु वृद्धोऽथ यद्गन्धाघ्राणतोऽपरे ॥ १५० ॥ न तिष्ठन्ति गजाः सस्याद्गन्धहस्ती ततः पुनः । चतुर्विधा गजा भद्रो मन्द्रो मिश्रो मृगोऽपि च ॥ १५१ ॥ एषामाकरजा भेदा विज्ञेया बहवो बुधैः । गङ्गासागरहिमाद्रिप्रयागाणां च मध्यतः ॥ १५२ ॥ ;p{0106} च्यवनं (स्यात्) मध्यमं तल्लोहिताब्धेश्च पश्चिमे । त्रिपुर्यां कोसलादौ च चेदिका रूषकं वरम् ॥ १५३ ॥ श्रीक्षेत्रं गौडबङ्गालमाङ्गिरेयं तु मध्यमम् । विन्ध्याद्रिवेङ्कटाद्रेश्च कलिङ्गद्रविडावपि ॥ १५४ ॥ वनं कालीयकं नाम समुद्रावधिमध्यमम् । श्रीशैले देवशैले च मलये पर्वते वनम् ॥ १५५ ॥ दाशार्णकं वनं तत्स्याद्वरं सह्याद्रिमूलतः । भृगुकच्छावधि वनमपरान्तं च मध्यमम् ॥ १५६ ॥ द्वारवत्यां च सौराष्ट्रे कलिङ्गवनमुत्तमम् । कालंजरे कुरुक्षेत्रे सिन्धुसागरसंगमे ॥ १५७ ॥ वनं पाञ्चनदं नाम मध्यमं परिकीर्तितम् । कालेप्यजातदन्तो यः स्वल्पाङ्गः स च मत्कुणः ॥ १५८ ॥ यूथपर्यायनाथार्थः प्रभिन्ने मत्तगर्जितौ । मदोत्कटो मदकलः समावुद्वान्तविर्मदौ ॥ १५९ ॥ कल्पितः सज्जितस्तिर्यग्घाती परिणतश्च सः । व्यालोत्रऽ?दुष्टे गम्भीरवेदी त्ववमताङ्कुशः ॥ १६० ॥ दण्डाराराललुषभा यत्रारोहति पार्थिवः । राजवाह्यस्तूपवाह्यः सान्नाह्यः समरोचितः ॥ १६१ ॥ ;p{0107} ईषार्थदन्तपर्याय उग्रपर्यायदन्तके । स्त्रियां समूहे घटना घटा यूथं नपुंसकम् ॥ १६२ ॥ मदो दानं प्रवृत्तिश्च वमथुः करसीकरः । करिनासा तु हस्तार्थः शुण्डा शुण्डार इत्ययम् ॥ १६३ ॥ अस्याग्रं पुष्करं क्लीबेऽङ्गुलं स्यात्तस्य कर्णिका । विषाणावस्त्रियां पुंसि दन्तौ ना स्कन्ध आसनम् ॥ १६४ ॥ कर्णमूलं चूडिका स्यादीषीका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं गण्डस्तु करठः कठः ॥ १६५ ॥ कटकोप्यथ कुम्भ्यक्षिकूटे स्यादिषीकेषिका । अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥ १६६ ॥ कुम्भौ तु शिरसः पिण्डौ तयोर्मध्ये पिचुः पुमान् । घातकुम्भस्तयोः सन्धिरारक्षस्तु ततोऽप्यधः ॥ १६७ ॥ वाहित्थं तदधोदेशः प्रतिमानमथास्त्रियाम् । गात्रं तु करिणः पूर्वजङ्घाद्यवयवे न ना ॥ १६८ ॥ अपरावरे तु पश्चाज्जङ्घाद्यवयवे न ना । आरालं पुच्छमूलस्योपान्ते स्यात्पेचकः पुमान् ॥ १६९ ॥ पार्श्वतः पक्षभागः स्यात्पद्मार्थं बिन्दुजालकम् । मदयोगविधानं तु व्यस्तारमथ तल्पनम् ॥ १७० ॥ ;p{0108} पृष्ठवंशस्य यन्मांसं स्यादथो दन्तमांसके । क्लीबे प्रवेष्टकं तत्स्यादथ तद्बन्धनेऽपि च ॥ १७१ ॥ अन्दुकः पुंसि निगडो न स्त्रियां शृङ्खलं त्रिषु । पादपाशश्च हिञ्जीरो न स्त्रियां गजबन्धभूः ॥ १७२ ॥ वारिर्वारी च प्राची च प्रारब्धिश्च स्त्रियामिमाः । गात्रबन्धे तु त्रिपदी चैकस्मिन्नपरेऽपि च ॥ १७३ ॥ तोत्रं वेण्डकमालानं निर्वाणं वैणुकं पुनः । नालिकाकर्णवेधिन्यामथ स्यादङ्कुशोऽस्त्रियाम् ॥ १७४ ॥ द्वयोः सृणिः शृणिरपि स्त्रियां स्यातां सृणी शृणी । अस्त्र्यष्ठत्वं कुशाग्रं घातमङ्कुशवारणम् ॥ १७५ ॥ निषादिनां पादकर्म यातं वीतं नपुंसकम् । कक्ष्या दूष्या वरत्रा स्यादूषा चूष्या कुथस्त्रिषु ॥ १७६ ॥ प्रवेणिः स्त्री प्रवेणी च परिस्तोमः पुमानयम् । वर्णः षणास्तरणं स्यात् कण्ठबन्धः कलापकः ॥ १७७ ॥ पित्तज्वरः पाकलोस्य कूटपूर्वस्त्रिदोषजः । नासापूर्वस्थूलहस्तं दन्तमूले करीरिका ॥ १७८ ॥ शङ्खः कूटो दन्तमध्यं प्रोहश्चरणपर्वणि । अपस्कारः प्रजङ्घाग्रे नाली नात्रापरे न ना ॥ १७९ ॥ ;p{0109} अष्ठीवतोरधिष्ठाने सन्दानं पुंनपुंसकम् । विधानं गजभक्ष्ये स्यात् क्लीबे चैव विधा स्त्रियाम् ॥ १८० ॥ मेण्ठो मेठो निषादी स्यात् सादिः सादी निषाद्यपि । दृश्यते पाण्डुरो यस्तु केशे रोम्णि च वालधौ ॥ १८१ ॥ कर्णे च नेत्रयोश्चैव स स्यादैरावतान्वयः । अध्वक्षमः सारसदृक् क्षमी बुद्धिविशारदः ॥ १८२ ॥ अजरोमा स्थूलशीर्षः पुण्डरीकान्वयो गजः । स्तब्धकर्णः सुदेहश्च कृष्णवर्णः कृशोदरः ॥ १८३ ॥ स्थूलविन्दुर्धनुर्वंशः पुष्पदन्तान्वयो गजः । अग्निवर्णः सुवर्णाक्षो वेगवाञ्जललम्पटः ॥ १८४ ॥ आयतो विस्तृतोत्यर्थं वामनान्वयजः करी । प्रचण्डकुसुमच्छायः कपोतनयनः क्षमः ॥ १८५ ॥ मेधावी तनुरोमा च सुप्रतीकान्वयोद्भवः । स्निग्धवालधिदन्तो यः श्वेतविन्दुकरान्वितः ॥ १८६ ॥ पेचकेल्पः स्थूलकलः सार्वभौमान्वयो गजः । रौद्रो लघुशिरा ह्रस्वश्वेतविन्दुसमन्वितः ॥ १८७ ॥ पाटलापुष्पनयनः स भवेदञ्जनान्वयः । कुम्भस्थूलतनुः स्निग्धलोललोहितलोचनः ॥ १८८ ॥ ;p{0110} कृष्णो विस्तीर्णहस्ताग्रः कुञ्जरः कुमुदान्वयः । घोटोश्वस्तुरगो वीती किण्वी क्रान्तस्तुरङ्गमः ॥ १८९ ॥ वाजी वाहस्तुरङ्गोर्वा गन्धर्वः सैन्धवो हयः । प्रकीर्णः क्रमणः प्रोथी कुरटः सिंहविक्रमः ॥ १९० ॥ स्यान्मुद्गमाषपर्यायाशनार्थश्चामरी च वाट् । श्र्यर्थात्पुत्रार्थकः पीतिः केसरी हंस इत्यपि ॥ १९१ ॥ मरुद्रथो वासुदेवस्तार्क्ष्यो वातायनो हरिः । शालिहोत्रश्चैकशफो दधिक्रा एतशोप्यरुट् ॥ १९२ ॥ व्रध्नः पतङ्गो हेषी स्यात्सुपर्णः श्येन इत्यपि । वीतिः सप्तिर्दधिक्रावा वातस्कन्धार्थ इत्यपि ॥ १९३ ॥ स्थौर्यः पैद्वोऽव्यथिश्चापि त्रिविधाः स्युरमी पुनः । श्रेष्ठमध्याधमाः सर्वे देशदेशसमुद्भवाः ॥ १९४ ॥ अब्धिवाहीककम्बोजपारसीकवनायुजाः । सौराष्ट्रकोङ्कणोद्भूता आजानेयास्त उत्तमाः ॥ १९५ ॥ तुरस्कारट्टकीरोरटक्कसिन्धुस्थलोद्भवाः । मध्यमाः प्राग्दक्षिणदिक्सम्भवाः शाम्भला अपि ॥ १९६ ॥ सारस्वता अर्जलाश्च तङ्गणा अधमा अमी । वर्णैः शुक्लादिभिर्वर्णा ब्राह्मणाद्या यथाक्रमम् ॥ १९७ ॥ मिश्रैर्मिश्रा विनीतस्तु साधुवाही जवाधिके । जवनोथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १९८ ॥ ;p{0111} किशोरोऽल्पवयस्कोऽश्वो रथ्यो वोढा रथस्य यः । पृष्ठ्यः स्थूरी प्रसूरेषां वाम्यश्वा वडवार्वती ॥ १९९ ॥ गणे तु वाडवं तासां दुर्विनीतस्तु सूकलः । कश्यः कशार्हो हृद्वक्रावर्त्ती श्रीवृक्षकी हयः ॥ २०० ॥ पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः । पुच्छोरःखुरपुच्छास्यैः सितैः स्यादष्टमङ्गलः ॥ २०१ ॥ सिते तु कर्ककेकाहौ खांगाहः श्वेतपिङ्गले । पीयूषवर्णः सेराहः पीते तु हरिमो हयः ॥ २०२ ॥ कृष्णवर्णस्तु खुङ्गाहः कियाहो लोहितो हयः । आनीलो नीलकेपि स्यान्निर्यूहः कपिलो हयः ॥ २०३ ॥ वोल्लारश्चायमेव स्यात्पाण्डुकेशरवालधिः । उराहस्तु मनाक्पाण्डुः कृष्णवर्णो भवेद्यदि ॥ २०४ ॥ सुरूहको गर्दभाभोवोरुखानस्तु पाटलः । कुलाहस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनि ॥ २०५ ॥ उकनाहः पीतरक्तच्छायः स एव तु क्वचित् । कृष्णरक्तच्छविः प्रोक्तः शोणः कोकनदच्छविः ॥ २०६ ॥ हरितः पीतहरितच्छायः स्यात्स च हालकः । पुंगलः सितकाचाभो हलाहश्चित्रितो हयः ॥ २०७ ॥ ;p{0112} प्रोथोऽस्त्री नासिकाश्वस्य कश्यं मध्यमथापि च । शफोऽस्त्रियां खुरः पुंसि पुटो विङ्खोथ वालधिः ॥ २०८ ॥ अस्त्री पुच्छस्तु लाङ्गूलं क्लीबे लाङ्गुलमित्यपि । स्त्रियां क्लीबे च लङ्गूलं पुच्छमस्त्री लजः पुमान् ॥ २०९ ॥ स्यात्पिच्छोपि च तत्रैव वालहस्तर्थकः पुमान् । ललाम च ललामं च लूमवालस्ततः पुनः ॥ २१० ॥ अपावृत्तपरावृत्तलुठितानि च वेल्लिते । न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११ ॥ निगालस्तु गलोद्देशे हेषा ह्रेषाश्वनिःस्वने । त्रिष्वाश्वीयं यदश्वेन दिनेनैकेन गम्यते ॥ २१२ ॥ ऊर्ध्वस्थितिस्त्रियामस्य स्यात्पुला च पुलायिता । प्रक्षरः प्रखरोपि स्यात्संनाहोपजनं परः ॥ २१३ ॥ खलिनोस्त्री खलीनोपि कवियं षण् कविः कवी । पञ्चाङ्गी कर्षणी चापि मुखपर्याययन्त्रणा ॥ २१४ ॥ नेत्रपट्टे मक्षिकात्रं कवराक्षमथापि च । भूषणे मुखपट्टः स्यात्तलिका तलसारणम् ॥ २१५ ॥ दामाजनं पादपाशश्चर्मदण्डे कशा स्त्रियाम् । पल्याणमपि पर्याणं बन्धे कक्ष्यास्य कक्षया ॥ २१६ ॥ ;p{0113} पदस्थाने पादिके च पादाधारावथापि च । पुच्छाटिका पुच्छबन्धे खुरत्राणं खुरोपरि ॥ २१७ ॥ बन्धने स्यात् खुराधस्ताल्लौहे त्राणे तु नालकः । तलत्रं स्याद्द्वयोरश्मिः क्लीबे प्रवपणं स्त्रियाम् ॥ २१८ ॥ कुशावक्षेपणी वल्गा क्लीबे धोरितवल्गिते । स्त्रियां प्लुतिरिमे क्लीबे तेजितोत्तेरिते पुनः ॥ २१९ ॥ गतयः पञ्च धाराः स्युस्तुरगाणां क्रमादिमाः । तत्र धौरितकं धौर्यं धोरणं धोरितं च यत् ॥ २२० ॥ बभ्रुके शिखिकं क्रोडगतिवद्वल्गिते पुनः । अग्रच्छायसमुल्लासात् कुञ्चिताग्रं नतत्रिकम् ॥ २२१ ॥ प्लुतिस्तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥ २२२ ॥ उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥ २२३ ॥ अस्त्रियां वाहनं पत्रं यानं युग्यं च धोरणम् । परंपरावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ २२४ ॥ अश्वारोहा अश्ववाहाः सादिनोऽथ निषङ्गिणः । भटा योधाश्च योद्धारः सेनारक्षाश्च ते पुनः ॥ २२५ ॥ ;p{0114} सेनान्तः परिधिः पुंसि स्यादारभट इत्यपि । ये सेनासमवेताः स्युः सैन्यास्ते सैनिका अपि ॥ २२६ ॥ ये सहस्रेण बलिनः साहस्रास्ते सहस्रिणः । अथ च स्यात्कञ्चुकोऽस्त्री कवचो जगरः पुमान् ॥ २२७ ॥ वारवाणोऽपि च क्लीबे तनुत्रं वर्म दंशनम् । सकञ्चुकैर्मध्यधार्ये क्लीबे सारसनं पुनः ॥ २२८ ॥ शीर्षकं तु शिरस्त्राणं शीर्षण्यं च शिरस्त्रकम् । नागोदरमुरस्त्राणं जङ्घात्राणं तु मत्कुणम् ॥ २२९ ॥ नाहुलं च तदेव स्यान्नालिका चाङ्गरक्षिणी । त्रिष्वितो ध्वजिनीपूर्वा आमुक्तः प्रतिमुक्तवत् ॥ २३० ॥ संनद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः । अपिनद्धः पिनद्धश्च दंशितश्चाप्यमी त्रिषु ॥ २३१ ॥ दंशिताद्याश्चापि सत्त्वेप्यथ स्याद्धर्मतागणे । अपि कावचिकं चाथ पद्गपत्तिपदातयः ॥ २३२ ॥ पदातिकः पदगमः पदगः पदिकोपि च । पादातिगश्च पादातः पादातिकपदाजयौ ॥ २३३ ॥ पादात्पदाजिपापिक्यः शररातिरतः पुनः । पदाजिरथ पादातं पत्तिपर्यायसंहतिः ॥ २३४ ॥ ;p{0115} शस्त्राजीव आयुधिककाण्डपृष्ठायुधीयकाः । काण्डपृष्ठसहाये तु प्रतिष्कशप्रतिष्कषौ ॥ २३५ ॥ यो बहून्योधयेदेकः स महातिरथः पुनः । दूरापाती दूरवेधी लघुहस्तार्थ इत्यपि ॥ २३६ ॥ कृतहस्तः सुप्रयुक्तो विशिखः शीघ्रवेध्यपि । कृतपुङ्खोथापराद्धपृषत्को लक्ष्यतश्च्युतः ॥ २३७ ॥ धनुर्निषङ्गपर्यायमत्वर्थप्रत्ययी पुनः । धनुर्धरोथ काण्डीरः काण्डवाञ्छक्तिहेतिकः ॥ २३८ ॥ शाक्तीक एवं याष्टीकः पारश्वधिक इत्यपि । नैस्त्रिंशकोऽसिहेतिः स्यात्प्रासिकः कौन्तिकोऽपि च ॥ २३९ ॥ चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः । अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥ २४० ॥ अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च । पुरोगमः पुरोगामी स चैवाग्राग्रतः सरः ॥ २४१ ॥ मन्थरो वेगगमनो जङ्घालस्त्वतिवेगिनि । जाङ्घिको जङ्घाकरिकस्तरस्वी त्वरितो जवी ॥ २४२ ॥ जवनः प्रजवो वेगी जङ्घिलो जाङ्घ इत्यपि । अन्वत्यन्तंभृशंकाममेभ्यो गामी क्रमादयम् ॥ २४३ ॥ ;p{0116} अत्यन्तीनोऽनुकामीनः कामङ्गामीन इत्ययम् । स्यादुरस्वानुरसिले जेयो जेतव्यमात्रके ॥ २४४ ॥ जेतुं शक्यस्तु जय्यः स्याज्जेतुं शत्रुं प्रयाति यः । अभ्यमित्रोभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ २४५ ॥ ऊर्जस्व्यूर्जस्वलोत्यन्तबलपर्यायवत्यपि । विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६ ॥ संयुगे सर्वतः साधुः सांयुगीनः स्मृतश्च सः । रथस्वामी तु रथिको रथिनो रथिरो रथी ॥ २४७ ॥ अथ सेना तु पृतना वाहिनी वाहना चमूः । वरूथिनी च ध्वजिनी बलं सैन्यं च गुल्मिनी ॥ २४८ ॥ अस्त्रियां कटकं चक्रमनीकं च चमुस्त्रियाम् । गलोर्गलः कुटः कोटः कोटो दुर्गश्च पुंस्यमी ॥ २४९ ॥ पत्तिरेकरथैकेभा त्र्यश्वा स्यात्पञ्चपद्गमा । इतः स्युस्त्रिगुणैरङ्कैर्यथोत्तरमनुक्रमात् ॥ २५० ॥ क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् । वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥ अपीयं दशभिर्निघ्ना सेनार्थाक्षौहिणीति सा । खनन्दजिनचन्द्राश्वगुणभूमिमिता (१३७१२४९०) रथाः ॥ २५२ ॥ ;p{0117} गजाश्च खाश्ववेदाश्वरविचन्द्राब्धिभिः (४११२७४७०) क्रमात् । सादिनः खशराब्ध्यक्षितर्केषु वसुषण् (८५६२४५०) मिताः ॥ २५३ ॥ पत्तयो यत्र सा प्रोक्ता महाक्षौहिणिका बुधैः । व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि ॥ २५४ ॥ प्रत्यासारो द्वयोः पार्ष्णिः सैन्यपृष्ठं प्रतिग्रहः । प्रतिग्रहोऽपि पुंसि स्यात्पार्ष्णी प्रत्यासरोऽपि च ॥ २५५ ॥ मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः । पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकीर्तितः ॥ २५६ ॥ सम्पत्तिः सम्पदा संपल्लक्ष्मीः श्रीर्विपदा विपत् । विपत्तिरापद्दुःखार्था न द्वयोरायुधं पुनः ॥ २५७ ॥ अस्त्रं शस्त्रं प्रहरणं हेतिर्वा नाथ तत्त्रिधा । पाणियन्त्रादिना मुक्तं तच्च शक्तिशरादिकम् ॥ २५८ ॥ अमुक्तं शस्त्रिकादि स्याद्यष्ट्याद्यं तु द्वयात्मकम् । अवलम्बः पुमान्दण्डो यष्टिश्च तरणिर्द्वयोः ॥ २५९ ॥ मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् । शरासनं च कोदण्डं सरासनममूनि षण् ॥ २६० ॥ स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् । तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥ २६१ ॥ ;p{0118} द्रुणासेष्वासगुणतः पुं क्लीबे स्त्रव्यधं पुनः । प्रतिकायः पुमानस्याग्रगते कोटिरित्यपि ॥ २६२ ॥ अटनी धनुषो मध्ये लस्तको ना गुणालयः । मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः ॥ २६३ ॥ पतञ्जिका गुणा सिञ्जा क्लीबे वाणासनं गुणः । गोधा स्त्रियां तलं क्लीबे सैव स्याद्बाहुपट्टिका ॥ २६४ ॥ क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् । शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥ २६५ ॥ खलूरिका तु तद्भूभिरवष्टम्भश्च सौष्ठवम् । युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ॥ २६६ ॥ सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः । कलम्बो मार्गणो रोपः पत्री स्यात्खग आशुगः ॥ २६७ ॥ स्याद्गार्द्ध्रकङ्कयोः पत्रो वाजः प्रदर इत्यपि । स्थूलदण्डो विपाटः स्यादस्त्रार्थात्कण्टकार्थकः ॥ २६८ ॥ विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः खरुः । सरः शरुर्मर्मभेदी वीरशङ्कुश्च लक्षहा ॥ २६९ ॥ कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः । प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण् सायकः पुमान् ॥ २७० ॥ ;p{0119} स्त्रियां भल्लिश्च भल्ली च भल्लोऽपि स्यात्पुमानयम् । सर्वलोहे लोहतालः प्रसरः काण्डगोचरः ॥ २७१ ॥ निरस्तः प्रहिते वाणे तीरी विजुलसायके । नालीका नलिकाक्षेप्याः कर्णिनो रुरुशीर्षकाः ॥ २७२ ॥ स्त्रियां पुंसि विषाक्ते तु दिग्धो लिप्तोऽक्त इत्यपि । हस्तावापो हस्तमुष्टिग्राह्यवाणगणे पुमान् ॥ २७३ ॥ शरमुष्टिः पुच्छशीर्ष द्विफली पुंसि पुङ्खकः । बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २७४ ॥ खुरप्रोपि क्षुरप्रः स्यादर्द्धेन्दुप्रमुखा भिदाः । अप्यञ्जलिक इत्याद्या वाजः पक्षश्च पिच्छकः ॥ २७५ ॥ प्रत्यालीढं तथालीढं विशाखं मण्डलं पुनः । वैकृतं दर्दुरं चैव दश स्थानानि धन्विनाम् ॥ २७६ ॥ शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता । अयःशङ्कुरसंछिन्ना शतघ्न्येव महाफला ॥ २७७ ॥ भुशुण्डी स्याद्दारुमयी वृत्तायःकीलसंचिता । अपि गोलासनं क्लीबे बद्धोल्का नालिका स्त्रियाम् ॥ २७८ ॥ उत्सृष्टा गोलकाः पुंसि कणयो लोहयन्त्रके । शरपर्यायाश्रयधिर्द्वयोः स्यादिषुधी स्त्रियाम् ॥ २७९ ॥ ;p{0120} तूणी तूणा च तूणीर उपासङ्गो निषङ्गकः । चन्द्रहासस्त्वसिः पुंसि प्रवालः सायकोऽपि च ॥ २८० ॥ रिष्टिरृष्टिर्द्वयोः खड्गः पुंसि कौक्षेयकोऽपि च । भद्रासनो मण्डलाग्रः करवालः कृपाणवत् ॥ २८१ ॥ तरवारिर्द्वयोश्चापि निस्त्रिंशः करपालकः । क्लीबे शस्त्रं विशसनो धर्मपालः प्रजाकरः ॥ २८२ ॥ तीक्ष्णधारोधरो देवो व्यवहारो दुरासहः । प्रसङ्गी रुद्रतनयः शस्त्रो विजय इत्यपि ॥ २८३ ॥ शिवंकरो मनुज्येष्ठः कराली च विशाग्रजः । गाढमुष्टिस्तीव्रमार्गः पुष्करी कोशवानपि ॥ २८४ ॥ धाराधरो लोहसर्पो जयश्रीर्जगतोऽपि च । धर्मप्रचारो धाराङ्गः स्याद्धाराविष इत्यपि ॥ २८५ ॥ पञ्चाशताङ्गुलैर्मुख्यः पञ्चविंशतिको परः । अनयोर्मध्यमानेन मध्यमः खड्ग उच्यते ॥ २८६ ॥ अव्रणो योगरोपेतस्तिर्यग्भेदविवर्जितः । व्रणयुक्तोऽपि निस्त्रिंशो बिल्वकुण्डलपञ्जरैः ॥ २८७ ॥ वर्द्धमानध्वजच्छत्रस्वस्तिकैश्च व्रणैः शुभः । मानहीनो विभिन्नश्च कुञ्चितो ध्वनिवर्जितः ॥ २८८ ॥ ;p{0121} नेत्रचित्तविरोधी च वर्जनीयो दुरासहः । असिर्मरकतश्यामो योगरैः परिवर्जितः ॥ २८९ ॥ बाणबाहुवनच्छेदी वाणो यः शार्ङ्गिणा धृतः । कृपाणः शाद्वलश्यामस्तबकी दीर्घयोगरः ॥ २९० ॥ अच्छेद्यो रोहिणीवाहः पौलस्त्येन धृतः पुरा । कुटिलैर्योगरैर्युक्तो वरकेसरसंनिभैः ॥ २९१ ॥ मत्कुणः करवालोऽयं लोहवर्णेन वर्ण्यते । गोजिह्वापल्लवप्रख्यो योगरो यत्र दृश्यते ॥ २९२ ॥ असिर्निरवहो नाम द्विषच्छेदकरः परः । तरुणीकेशसंकाशः सूक्ष्मपाण्डुरयोगरः ॥ २९३ ॥ सान्द्राङ्गः करवालोऽयं भद्रकालीकरस्थितः । राजजम्बूफलश्यामो वक्रपाण्डुरयोगरः ॥ २९४ ॥ स्निग्धच्छायवपुः खड्गो वङ्गिवालोऽभिधीयते । असिः प्रत्यग्रजीमूतसकलश्यामलच्छविः ॥ २९५ ॥ पाठीनत्वक्समाकारयोगरो य सुवालकः । केकिचन्द्रकसङ्काशैर्योगरैर्निविडैः श्रितः ॥ २९६ ॥ केवेल्लक इति ख्यातः खड्गः खड्गभृतां मतः । तमालव्यालरोलम्बनिकुरम्बसमच्छविः ॥ २९७ ॥ ;p{0122} कौक्षेयकः स भीताक्षः पुरुषाकारयोगरः । एरण्डबीजसंकाशयोगरस्तार पट्टकः ॥ २९८ ॥ रामारोमावलीश्यामो न नमेन्नामितोप्यसिः । नववारिधरश्यामः पिङ्गाकुञ्चितयोगरः ॥ २९९ ॥ खड्गः षडालको नाम विषवज्रभयापहः । स्वर्णचूर्णनिभैः सूक्ष्मैर्योगरैः स्वर्णपञ्जरः ॥ ३०० ॥ मुक्ताचूर्णसमाकारैः ख्यातस्तित्तिरवल्लरः । योगरैः कज्जलप्रख्यैः खड्गः स्यात् कालवल्लरः ॥ ३०१ ॥ वियच्छ्यामवपुःसारः स्वल्पपाण्डरयोगरः । सरोजिनीदलच्छायः कोङ्गिः खड्गोऽभिधीयते ॥ ३०२ ॥ कदली शृङ्खली चापि यस्मिन्दृश्येत चान्तरा । वर्णयोगरभेदेन नामान्येषां भवन्ति हि ॥ ३०३ ॥ कटीतलो न्युब्जखड्ग एकधार इली स्त्रियाम् । इलालिः करपालिः स्यादिलीलिरपि वा पुनः ॥ ३०४ ॥ करवाल्यथ मुष्टी स्त्री द्वयोर्मुष्टिर्ग्रहस्थले । त्सरुश्च पुंसि ग्राहोऽपि प्रत्याकारस्तु पुंसि च ॥ ३०५ ॥ दन्तेन निर्मितस्तत्र दन्तपालिरसेस्तु यत् । तिर्यग्भागद्वयं मुष्टावधोग्रान्तं नपुंसकम् ॥ ३०६ ॥ ;p{0123} भवेद्गृञ्जनकं तस्मादधस्ताद्धण्डिका स्त्रियाम् । अत्रिका तदधस्तिर्यग्भागद्वितयमस्य तु ॥ ३०७ ॥ मध्यभागस्ताडिका स्त्री शूकभागोग्रमप्यसेः । योगरस्तु गुणोत्कर्षे खड्गाद्यश्चास्य कीर्त्तितः ॥ ३०८ ॥ परिवारः परीवारः कोशः कोषो नपुंसकम् । खड्गपर्यायसद्मार्थपिधानार्थकमित्यपि ॥ ३०९ ॥ प्रत्यग्रकोशः स्याद्घातोः खड्गाग्राघातवारणे । खड्गस्य कटिबन्धार्था वेधा स्त्री मेखलापटः ॥ ३१० ॥ फलकोऽस्त्री फलं फाण्टं खेटं क्लीबे स्फुटं पुनः । अद्भुतावरणे चर्मदके संग्राहकोस्य तु ॥ ३११ ॥ मुष्टावथ कृपाणी तु षुरी शस्त्री क्षुरीति च । स्यातामसेर्द्धेनुपुत्र्यौ सैव स्यात्कोशशायिका ॥ ३१२ ॥ पत्रतो धेनुकाथ स्यात्पत्रपालस्तु सायता । भिन्दिपाले सृगः पुंसि कुट्टन्ती कुलमातृका ॥ ३१३ ॥ अपि पत्रलता सा स्याद्दण्डोऽस्त्री लगुडः पुमान् । यष्टिर्द्वयोः स्त्रियां यष्टी काण्डोऽप्यस्त्री ततः पुनः ॥ ३१४ ॥ ;p{0124} शक्ती स्त्रियां तथा शक्तिरमृतापि महाफला । कासूःखुरोत्तमस्तु स्यात्पट्टिशः पटिसोऽपि च ॥ ३१५ ॥ पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः । कुलाग्रका तु चिरिका फलपत्राग्रके हुलम् ॥ ३१६ ॥ वराहकर्णोन्वर्थः स्याद्दुःस्फोटस्तीक्ष्णधारकः । आराकरो लोहदण्डश्चक्रं तु वलयाकृति ॥ ३१७ ॥ क्लीबे सुसंचितमपि मुद्गरो द्रुघणो घनः । द्रुघनोऽपि च कुन्ते तु प्रासः प्राशः शलोऽपि च ॥ ३१८ ॥ शल्यमस्त्री पुंसि शङ्कुस्तत्र दीर्घायुधं पुनः । द्वयोः कुठारः परशुः पर्शुः परश्वधोऽपि च ॥ ३१९ ॥ परस्वधश्च स्वधितिष्टङ्कोपि पर्श्वधः कुठः । सर्वला शर्वलापि स्त्री सर्वली शर्वलीत्यपि ॥ ३२० ॥ अस्त्रियां तोमरोथ स्यात्परिघः परिपालनः । सर्वलोहमयं त्र्यग्रं त्रिशूलं तु त्रिशीर्षकम् ॥ ३२१ ॥ धनुः खड्गो गदाचक्रवज्रखट्वाङ्गतोमराः । यमदंष्ट्रा क्षुरीमूलं कर्तरी मुद्गरो हलम् ॥ ३२२ ॥ पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः । भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३२३ ॥ ;p{0125} दुःस्फोटमक्षिकाडाहडभसाः करपत्रकः । हुलिः कुठारः परिघः कुन्तिः शक्तिश्च कर्तरी ॥ ३२४ ॥ यष्टिः शस्त्राणि षट्त्रिंशदमून्यायोधजीविनाम् । घाण्टिको घण्टिकः कोणः स्यादश्रोऽस्रश्च पुंस्यमी ॥ ३२५ ॥ सर्वाभिसारः सर्वाभीसारोभी राजनात्परः । स च स्यात्सर्वसंनाहोऽभिसारोभिसरोऽपि च ॥ ३२६ ॥ दशम्यां यो विधिर्भूपे स च लोहाभिसारकः । यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ ३२७ ॥ यात्रा व्रज्याभिनिर्याणं प्रयाणं गमनं गमः । प्रस्थानं च प्रसरणं ननासारः प्रचक्रकम् ॥ ३२८ ॥ अभिक्रमे रणे यानमभीतस्य रिपुं प्रति । अभ्यमित्र्योऽभ्यमित्रीयोऽभ्यमित्रीणोभ्यरिं व्रजन् ॥ ३२९ ॥ स्यात्सुहृद्बलमासारः प्रचक्रं चलितं बलम् । प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ॥ ३३० ॥ वैतालिका बोधकराः प्रातर्गेयाः स्तुतिव्रताः । आर्थिकाः सौखसुप्त्यर्था घाण्टिकाश्चाक्रिकाः समाः ॥ ३३१ ॥ मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः । वैतालिकाद्या नग्नाः स्युर्नग्नाचार्यस्तु हिण्डकः ॥ ३३२ ॥ ;p{0126} भोगावली वन्दिपाठो वसुकीटस्तु याचकः । संसप्तकास्तु समये समरादनिवर्त्तिनः ॥ ३३३ ॥ संशप्तका अथ रजः क्षोदः सान्ते उभे च षण् । रेणुस्त्रिषु रजः क्लीबे धूलिर्धूली स्त्रियामुभे ॥ ३३४ ॥ पुंसि पांसुश्च पांशुश्च वातकेतुः क्षितेः कणः । अस्त्री तूस्तमपि क्षोदश्चूर्णः सर्वत्र चूर्णिते ॥ ३३५ ॥ सम्भारः पिञ्जलस्तु स्यात्समुत्पिञ्जो भृशाकुले । महासमरतूर्येऽस्त्री पटहाडम्बरौ समौ ॥ ३३६ ॥ ध्वजोऽस्त्री केतनं चापि क्लीबे केतुः पुमान् स्त्रियाम् । वैजयन्ती जयन्ती च पताका व्योममञ्जरी ॥ ३३७ ॥ कन्दल्यपि स्यात्कदली ककुत्स्त्री ककुदोऽस्त्रियाम् । विहिते पत्रवस्त्रादौ मीने चीनोऽस्त्रियामयम् ॥ ३३८ ॥ एषां वस्त्रे कोणभेदात् पताकाध्वजकेतवः । अस्योच्चूडावचूडाख्यावूर्ध्वाधोमुखकूर्चके ॥ ३३९ ॥ अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् । एवं चाहंप्रथमिका तथाहंश्रेष्ठिकापि च ॥ ३४० ॥ दर्पादात्मनि या श्लाघा साहंपुरुषिका स्त्रियाम् । परस्परं योहंकारः सोहमहमिका स्त्रियाम् ॥ ३४१ ॥ ;p{0127} दण्डैर्दण्डैर्यद्भटानां वृत्तं युद्धमनुत्तमम् । दण्डादण्डि तदेवं स्यात्केशाकेशि नखानखि ॥ ३४२ ॥ मुष्टिभिर्मुष्टिभिर्युद्धं यद्वृत्तं मुष्टीमुष्टि तत् । शक्त्यृष्टिमुष्टियुक्तीनां गालिबाहूरुजानुनाम् ॥ ३४३ ॥ उन्नेयमेवं क्रमशो वृत्ते भाविनि वारणे । पराक्रमातिशायित्वहेतवे क्रियते भटैः ॥ ३४४ ॥ पानं यत्तद्वीरपाणमोजः पुंसि सहोऽस्त्रियाम् । सान्तमोजः सहः क्लीबे क्लीबे सुष्मं च शुष्म च ॥ ३४५ ॥ मृधमास्कन्दनं संख्यं समीकं साम्परायिकम् । जन्यं पुमान् सम्प्रहारो नदनुः कलहो रणः ॥ ३४६ ॥ समाघातोभिसंपातः संस्कारो दुर्दरः कलिः । अत्यामर्दश्च संमर्दो विमर्दः संयुगोऽस्त्रियाम् ॥ ३४७ ॥ द्वयोराजिश्च समितिः संयद्राढिः समित्पुनः । अस्त्रियां समरं चापि जन्यमाहरणं मृधम् ॥ ३४८ ॥ द्वन्द्वमास्कन्दनं पुंसि संगरश्च समाह्वयः । युदाहवश्च संघातः समुदायोऽपि विग्रहः ॥ ३४९ ॥ प्रघातोभ्यागमश्चापि नन्दनुः संप्रहारकः । समर्यो भर आक्रन्दः पृतनाज्यौ स्त्रियां पुनः ॥ ३५० ॥ ;p{0128} नियुद्धं बाहुयुद्धे स्यात्तस्य भेदा अमी मताः । मिथः करग्रहे योद्ध्रोः प्रसृष्टा स्यात्स्त्रियामियम् ॥ ३५१ ॥ द्विगुणीकृतदोर्मध्ये ग्रीवाकर्षोपि कण्टकः । अवधूतं तु पादेन प्रेरणं यच्च वक्षसः ॥ ३५२ ॥ शलाकयाङ्गुलीच्छिन्ना नखयष्टिर्हि सा मता । पद्भ्यां पदोर्यद्धरणं पादबन्धः स उच्यते ॥ ३५३ ॥ दोर्द्वयाकर्षणं कीलः प्रकोष्ठहननं तु यत् । स वज्रपातोऽथ पुनस्तुमुलं संकुलं रणम् ॥ ३५४ ॥ क्ष्वेडा स्त्री सिंहनादो ना क्ष्वेडितं पुंनपुंसकम् । नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् ॥ ३५५ ॥ उत्पिञ्जलः काहलश्च हल्लोलस्तत्र लोलता । तत्राव्यक्तो रवो रोलो हलः कोलाहलः पुनः ॥ ३५६ ॥ प्रविदारश्च संग्रामो विदारः प्रविदारणम् । संस्फेटश्चापि संपानोऽनीकः संफेट इत्यपि ॥ ३५७ ॥ संपरावः समुदयः संस्फोटः कलहोऽस्त्रियाम् । स्त्रियामाजी च समितिः स्यात् क्लीबे सांपरायिकम् ॥ ३५८ ॥ आयोधनं च प्रधनं युद्धं संयत् स्त्रियां नरि । क्रन्दनं रोदनं रावो वृंहितं करिगर्जितम् ॥ ३५९ ॥ ;p{0129} विस्फारो धनुषः स्वाने विष्फारोऽपि निगद्यते । प्रसभं तु बलात्कारे छलितं तु छलं च षण् ॥ ३६० ॥ अजन्यमस्त्री चोत्पात उपसर्गोऽथ कश्मलम् । मूर्छा मोहोथ विजयोऽभ्यवस्कन्दनमित्यपि ॥ ३६१ ॥ जयोभ्यासादनं च स्यादप्यथो वैरशोधनम् । वैरशुद्धिः प्रतीकारः प्रतिकारस्ततः पुनः ॥ ३६२ ॥ विसंप्रोद्भ्यो द्रवद्रावौ वैरनिर्यातनं च षण् । स्त्री शृगाल्यपयानं षण् पलायनमपक्रमः ॥ ३६३ ॥ पराजयो रणे भङ्गो हारिर्हारी स्त्रियामिमे । कक्षास्पर्द्धा प्रतिस्पर्द्धा डम्बरे डिम्बविप्लवौ ॥ ३६४ ॥ परापर्यभितो भूतो गतो भग्नः पलायितः । पराजितेऽपि नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ३६५ ॥ कांदिशीको भयत्रस्तोऽप्यथ भेलस्तु कातरः । पलङ्कटश्च हरिणपर्यायहृदयार्थकः ॥ ३६६ ॥ अधीरः कातरो भीरुर्भीलुश्चकित इत्यपि । दरितश्चकिलो भीतस्त्रस्तस्त्रसित इत्यथ ॥ ३६७ ॥ जिताहवो जितकाशी पराभूते पराजितः । विजितो निर्जितश्चाथ प्रस्कन्नपतितौ त्रिषु ॥ ३६८ ॥ ;p{0130} कर्त्तप्रमाथ सन्तापनिवापच्छेदसंज्ञयाः । कदव्यापादनिर्ग्रन्थनिस्तर्हविशसा अपि ॥ ३६९ ॥ वर्द्धप्रमापप्रमथप्रवासप्रशमक्षणाः । पुत्रश्च कल्पनिर्यातनिषूदप्रमथास्ततः ॥ ३७० ॥ अपासोद्वासनिर्वापा नमेभ्यः क्राथमारकौ । हिंसानिशुम्भः संज्ञप्तिरालम्भः परिवर्जनम् ॥ ३७१ ॥ विसारश्चापि विसरनिकारनिवहा अपि । तद्वन्निस्तर्हनिर्वापविकारेभ्यो णमित्यपि ॥ ३७२ ॥ वधोविनिभ्यां वापः स्याद्विसरः प्रतिघातनम् । निवाहोऽपि स्त्रियां मारिः सर्वगो मरको स्त्रियाम् ॥ ३७३ ॥ अपि स्यात्तद्वत्प्रलयो दिष्टान्तोऽप्यत्ययोऽपि च । नाशः स्त्रियां पञ्चता स्यान्निधनं षण् द्वयोः पुनः ॥ ३७४ ॥ बहुभिः प्रबले शत्रौ प्रमत्ते सति हिंसनम् । धाटी तु धातकं डाकश्चौराणामभिसारके ॥ ३७५ ॥ स्त्रियां लुण्ठा च लुण्ठिश्च लूषिर्लूषी च लुण्ठनम् । भूमिपर्यायलाभार्थः सौप्तिकं रात्रिमारणम् ॥ ३७६ ॥ ;p{0131} विशरणं मारणं हिंसा दिष्टान्तः प्रलयो वधः । स्यादाक्रन्दः पिञ्जरम्भौ प्रतिघः परिघः पुनः ॥ ३७७ ॥ परिसमाविसंभ्योऽपि घातो घातस्ततः पुनः । संग्रामभयदा भूमिर्वीराशंसनमित्यपि ॥ ३७८ ॥ उत्क्रान्त्यवस्थो मठर उपधूपित इत्यपि । म्रियमाणस्य यः श्वासः स हराहर उच्यते ॥ ३७९ ॥ परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । अपि प्रमीतस्त्रिष्वेते चित्यचैत्ये तु न द्वयोः ॥ ३८० ॥ चितिः खाटिश्चिता चित्या स्त्रियां ना चूडकः कटः । शिरोहीने कबन्धोऽस्त्री रुण्डो देहे क्रियान्विते ॥ ३८१ ॥ स्यात् श्मशानं पितृवनं वीरभूः करवीरकम् । अन्तपर्यायशय्यार्थपर्यायं च शतानकम् ॥ ३८२ ॥ रुद्रपर्याय आक्रीडे संस्क्रियासत्क्रिये समे । शवपर्यायवेश्मार्थं दाहतः सरसोऽर्थकः ॥ ३८३ ॥ स्त्रियां स्यादुपकार्याथ कुणपः क्षितिवर्द्धनः । पञ्चावस्थः कटस्थालं शवोऽस्त्री प्रग्रहोऽपि च ॥ ३८४ ॥ उपग्रहः करमरी ग्राहो वन्दी च बन्धने । प्राणोऽसुरसवः प्राणाः पुंसि भूम्न्येकभाषणे ॥ ३८५ ॥ ;p{0132} पुरुषायुषकं यावदायुः स्याद्द्विगुणं ततः । द्व्यायुषं त्रिगुणं तद्वत्त्र्यायुषं च तिरायुषम् ॥ ३८६ ॥ जीवोऽसुधारणं चाथ क्लीबे द्वे आयुरायुषी । पुंसि जीवितकालः स्याज्जीवातुर्जीवनौषधम् ॥ ३८७ ॥ कल्पद्रौ केशवकृते फलिते नामभिः किल । भूमिस्कन्धे क्षत्रकाण्डः पञ्चमः सिद्धिमागतः ॥ ३८८ ॥ ;c{इति क्षत्रियप्रकाण्डः ।} ;v{वैश्यादिप्रकाण्डः} विशो भूमिस्पृशो वैश्या ऊरुपर्यायजार्थकाः । अर्या उरव्या गोरक्षाकृषिवाणिज्यजीविनः ॥ १ ॥ स्त्रियां कृषिः स्याद्वाणिज्या न ना सत्यानृतं पुनः । तृष्णा धनपिशाची स्याद्वार उद्धारमस्त्रियाम् ॥ २ ॥ ऋणं प्रमात्यं क्लीबेथ कुसीदं वृद्धिजीविका । कुमुदो वाच्यलिङ्गः स्यात् कुमुदं च नपुंसकम् ॥ ३ ॥ ;p{0133} फलाम्लिकार्थप्रयोगे याच्ञाप्राप्तं तु याचितम् । यत्प्राप्तं नित्यमादापमित्यकं तदितस्त्रिषु ॥ ४ ॥ आवप्रादुत्तमर्णस्तु प्रयोक्ताथ ग्रहीतरि । अधमर्णः कुसीदी तु वृद्ध्याजीवश्च वार्द्धुषः ॥ ५ ॥ कुसीदको वृद्धिपरः स्याद्द्वैगुणिक इत्यपि । मूल्यं क्लीबेऽस्त्रियां वस्नः पुमानर्घं क्रयोऽपि च ॥ ६ ॥ अवक्रयो भाटकोऽस्त्री द्रव्यवृद्धौ कला स्त्रियाम् । मध्यस्थः प्राश्निकः साक्षी स्थेयोऽथो कूटसाक्षिणि ॥ ७ ॥ मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः । कर्षकः कार्षकः क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ ॥ कृषीवलः कुटुम्बी स्याद्धली कृषिक इत्यपि । लोष्टमस्त्र्यस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥ ९ ॥ महादलिश्च दलनिर्द्वे द्वयोर्दलनी स्त्रियाम् । स्यात्प्रतोदः प्रवयणं प्राजनं तोत्रतोदने ॥ १० ॥ भूदारणं खनित्रं स्यादवदारणमित्यपि । कुद्दालोप्यथ रम्भस्तु दण्डो दरकरोऽपि च ॥ ११ ॥ घासच्छेदी खुरप्रः स्यात्स्त्रियां दातिस्तु न द्वयोः । दात्रं लवित्रं तन्मुष्टौ वण्ठो मत्यं समीकृतौ ॥ १२ ॥ ;p{0134} स्याद्योक्त्रं योत्रमाबन्धो हल्यं त्रिषु हलिः स्त्रियाम् । अपि नित्या निरीपं च कालोऽस्त्री कूटकं कृषः ॥ १३ ॥ कृषिको ना फलं क्लीबे न स्त्रियां हललाङ्गले । सीरो हालश्च भूम्यर्थदारणोऽथ स्त्रियामिमे ॥ १४ ॥ ईशेपे सीरदण्डो ना सीता शीतास्य पद्धतौ । सीरपर्यायपद्यर्थानिरीशं कूटकं च षण् ॥ १५ ॥ कुशी कोशी लोहफले तदाधारे तु चर्वढम् । अस्त्री श्रेणिः खलो धान्यपीडने पशुसन्ततेः ॥ १६ ॥ खलमध्यगते कीले मेढिर्मेथिरुभे स्त्रियौ । अथ स्याद्द्विविधं धान्यं शूकशिम्बिसमुद्भवम् ॥ १७ ॥ तत्र शूकेषु प्रथमे शालयः पुंस्यमी पुनः । रक्तशालिर्महाशालिः कलमः शकुनाहृतः ॥ १८ ॥ दीर्घशूको रोध्रशूकस्तूर्णकः शङ्खमौक्तिकौ । लाङ्गलः कर्दमो लोहवालो महिषमस्तकः ॥ १९ ॥ पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ । शारामुखः शीतभीरुस्तपनीयः सुगन्धिकः ॥ २० ॥ पुष्पाण्डको दीर्घतालो महादूषकदूषकौ । पतङ्गकः काञ्चनको हायनोप्यथ षष्टिकाः ॥ २१ ॥ ;p{0135} गौरो महान् कुरवकः प्रमोदोसनपुष्पकः । कुमुदः कालकः पीतः केदारस्तूर्णकाङ्गुभौ ॥ २२ ॥ प्रायः स्युर्व्रीहयो व्रीहिर्महान्कृष्णो जतूद्भवः । सारामुखस्त्वरितको लावाक्षश्चीनशूकरौ ॥ २३ ॥ पारावतः कुक्कुटाण्डो जालशालजदर्दुराः । कुरुविन्दो नन्दिमुखो हालो वरकराधनौ ॥ २४ ॥ रक्तशूको रक्तशालिर्महतः शालितण्डुलौ । कलामाः कलमा भूम्नि नाकलम्बिश्च गारुडः ॥ २५ ॥ शकुनाहृतपर्यायो राजहंसार्थ इत्यपि । दीर्घशूको लम्बशूके रोध्रशूकस्तु तत्समे ॥ २६ ॥ शूकेथ तूर्णकः शीघ्रपाकेथाश्वयुजश्च सः । शङ्खशूकः शङ्खसमे मुक्तासदृशतण्डुले ॥ २७ ॥ मौक्तिकोथो तैलिकः स्यात्तैलासी चाथ लाङ्घलः । सीराकृष्टक्षितिभवः कर्दमः कर्दमोद्भवः ॥ २८ ॥ लोहतालेतिकठिनतण्डुलः पुण्ड्रकः पुनः । पुण्डरीकनिभः पाण्डुः पाण्डुरोप्यथ गौरकः ॥ २९ ॥ हरिद्राभः प्रमोदस्तु प्रह्लादश्चाथ सारिवः । सारिवाभः पुण्डरीकपृष्ठः श्वेतोत्पलोप्यथ ॥ ३० ॥ ;p{0136} सुरामुखः कृष्णमुखतण्डुलोथ सुगन्धिकः । गन्धशालिरथोशीतभीरुः शीतविनाश्यपि ॥ ३१ ॥ तपनीयोऽथ पुष्पाण्डः स च कोमलतण्डुलः । स्यान्महामदकारी तु महरूषक इत्यपि ॥ ३२ ॥ दीर्घनालो लम्बनाले मदकारी तु रूषकः । स्वर्णशालिः काञ्चनः स्यात्पतङ्गः कुङ्कुमाकृतिः ॥ ३३ ॥ हायनः कुशवाकः स्याद्घटप्रच्छोथ षष्टिकाः । षष्टिरात्रेण ये क्षेत्रे परिपक्वा भवन्ति ते ॥ ३४ ॥ एवमेव व्रीहयोऽपि समुन्नेया यथाक्रमम् । श्यामाकः श्यामकोऽपि स्यादविपर्यायतः प्रियः ॥ ३५ ॥ स्त्रीबीजः सुकुमारश्च तृणबीजोत्तमश्च सः । राजधान्यं पुनः क्लीबे क्षेत्रजो वनजश्च सः ॥ ३६ ॥ द्विविधो हस्तिश्यामोऽथ प्रियङ्गुः पीततण्डुलः । रागी च कङ्गुः कणिशो लाञ्छनो बहुकाणिशः ॥ ३७ ॥ स्यात् स्त्रियां कङ्गुनी कृष्णा मधुका शौकिका च सा । रक्ता पीता तुशुमटी सैव स्यादथ चीनकः ॥ ३८ ॥ स्त्रियां स्यान्माधवी सैव काकपर्यायकङ्गुनी । कोरदूषः कोद्रवः स्यादुद्दालो वनकोद्रवे ॥ ३९ ॥ ;p{0137} मदनाङ्गो देशदेशसम्भवो भिन्नजातिकः । श्यामाकः कोद्रवः कङ्गुर्नीवारो मकरः कुली ॥ ४० ॥ तृणधान्यान्यमून्येके सरागीण्यथ कञ्चुकी । धान्यराजस्तीक्ष्णशूको हयपर्यायवल्लभः ॥ ४१ ॥ यवो मेध्यान्नपर्यायो हविष्यः शितशूककः । दिव्योक्षतस्तीक्ष्णशूकः पवित्रस्त्यक्तुरित्यपि ॥ ४२ ॥ स्तोकः स्तोक्यश्च हरिते द्विविधोऽपि प्रकीर्तितः । शूकमुण्डोऽशूकमुण्डो गोधूमः स च वंशजः ॥ ४३ ॥ वंशधान्यं वंशबीजो यवपर्यायसम्भवः । गोधूमः सुमनोपूपः क्षीरी निस्तुष इत्यपि ॥ ४४ ॥ रसालश्चाथ तद्भेदाः स्त्रियां नान्दीमुखीत्यपि । मधूली हंसवाजीककाष्ठकाद्याश्च तद्विधाः ॥ ४५ ॥ बृहन्तो लघवश्चाथ यावनालः स्त्रियां पुमान् । दीर्घनालो यवनलः शिखरीवृन्ततण्डुलः ॥ ४६ ॥ क्षेत्रेक्षुरिक्षुपर्यायपत्रो दीर्घशरश्च सः । योनली बीजपुष्पी च जूर्णा जूर्णिश्च जारिणी ॥ ४७ ॥ जारिर्जरिर्देवधान्यं धवलेतरतण्डुलः । नक्षत्रकूरस्तारः स्याद्वृत्तो मौक्तिकतण्डुलः ॥ ४८ ॥ ;p{0138} रक्तकुस्तुम्बरो रक्ते तूवरो वर इत्यपि । बृहती काण्डकणिशा श्वेतरक्तविभेदतः ॥ ४९ ॥ राजपर्यायजूर्णाह्वा वाजरिश्चाथ वर्चटः । मञ्चूको मकरो मल्लः क्षुडोस्मिन्मणिकी स्त्रियाम् ॥ ५० ॥ अस्त्री कणिशकिंसारु सस्यशूकं नपुंसकम् । अथ स्याच्छिम्बिजं मुद्गः सूपमुख्यो रसोत्तमः ॥ ५१ ॥ भुक्तिप्रदो हयानन्दो भूफलस्तत्र चासिते । वासन्तेऽपि च लोभ्यः स्यात्सुराष्ट्रोत्थोथ पीतके ॥ ५२ ॥ प्रवेलशारदजया नीले हरितशाखिकौ । वसुर्वनाखुः खण्डीरो हरिमन्थश्च धूसरः ॥ ५३ ॥ वनजे तु कुलीनः स्यादुरकेऽपि निगूढकः । माषो बली बीजवरः कामार्थश्च पुरीषिणः ॥ ५४ ॥ वृषाकरो धान्यवीरः कुरुविन्दोऽपि मांसलः । पित्र्यो बलाढ्यः काचराजपदात् माषो परो लघुः ॥ ५५ ॥ चणस्तु हरिमन्थः स्यात्कञ्चुकी कृष्णकञ्चुकः । बालभोज्यो वाजिभक्ष्यः सुगन्धस्त्रिविधश्च सः ॥ ५६ ॥ धूसरः श्वेतकृष्णश्च मकुष्टस्तु मयुष्टकः । कृमीलको वनमुद्गो वल्लीमुद्गोऽमृतोऽपि च ॥ ५७ ॥ ;p{0139} सूरो मसूरो मङ्गल्यो रक्तपर्यायदालिकः । पृथुकल्याणगुडतो बीजः कृष्णे वसन्तकः ॥ ५८ ॥ कलायो मण्डचणको हरेणुश्च द्वयोः पुनः । सतीनकः सतीलेऽपि कलापश्चापि पुंस्ययम् ॥ ५९ ॥ शमनो नालकः कण्ठी द्वयोर्लङ्का तु रूक्षणा । कराला त्रिपुरापि स्यात् काण्डिका चात्मिका च सा ॥ ६० ॥ आढकी तुवरी वर्णकरा वीरभुजा च सा । वृत्तबीजा पीतपुष्पा वंशपर्यायसम्भवा ॥ ६१ ॥ नान्दीमुखो राजमाषश्चवलो वर्वरो स्त्रियाम् । पावकश्चापि कुल्माषः श्वेतवर्णोऽपरा स्त्रियाम्॥ ६२ ॥ श्वेतवृन्ता कृष्णवृन्ता श्वेतादिवर्णभेदतः । कुलत्थिका रक्तवृन्ता कृष्णवृन्तः कुलत्थकः ॥ ६३ ॥ क्षवः क्षुधाधिजननो मधुरः सुकुमारकः । वृत्तबीजो दीर्घशिम्बी चपलोप्यथ नेः परः ॥ ६४ ॥ पावः स्याच्छितिशिम्बिश्च वल्ली बहुविधश्च सः । माध्वीकः श्वेतनिष्पावः स्यात्स्त्रियां मधुशर्करा ॥ ६५ ॥ ;p{0140} पलंकषा स्थूलशिम्बी वृत्ता मधुसिता सिता । नन्दिजः कटुनिष्पावः कर्बुरो वनसम्भवे ॥ ६६ ॥ काकाण्डोथ तिलो हव्यो देवर्षिपितृवल्लभः । होमधान्यं पवित्रं स्यात् पापघ्नः पितृतर्पणः ॥ ६७ ॥ पूतधान्यं जर्तिलस्तु वनजे स तु निष्फलः । तिलात्पेजश्च पिञ्जश्च स तु ज्ञेयश्चतुर्विधः ॥ ६८ ॥ गोमूत्रसन्निभः कृष्णः श्वेतः कर्वुर इत्यपि । वज्रपर्यायपुष्पार्थं स्यात्तत्र तिलपुष्पके ॥ ६९ ॥ अतसी पिच्छला देवी मदगन्धा मदोत्कटा । उमा क्षुमा हैमवती सुतीक्ष्णा नीलपुष्प्यपि ॥ ७० ॥ अकसी त्वासुरी राजी तीक्ष्णगन्धा मधूलिका । पुंसि क्षवः क्षुतो रक्तसर्षपो राजसर्षपः ॥ ७१ ॥ पुंसि क्षुधान्नभिजनः क्षुताभिजननः स च । राजिका कृष्णिका चाथ सिद्धः सिद्धप्रयोजनः ॥ ७२ ॥ सर्षपः साधनो भूतनाशनः सितसर्षपः । कटुतैलः सरिषपो गौरः सिद्धार्थ इत्यपि ॥ ७३ ॥ मङ्गल्योऽपि च केशारिरथ स्यात्तिलकल्कके । पललं तिलचूर्णे तु पिष्टकं तिलकिट्टके ॥ ७४ ॥ ;p{0141} पिण्याकः पुंस्यथ खलिर्निस्नेहस्तिलकल्कजः । कणिशं धान्यकोशोना स्त्रियां स्यात् सस्यमञ्जरी ॥ ७५ ॥ सस्यार्थाच्छीर्षपर्यायं न स्त्रियां शूकमित्यपि । श्लक्ष्णतीक्ष्णाग्रके चाथ शाल्याद्या निस्तुषीकृताः ॥ ७६ ॥ त्रिःकृत्वः कण्डिताः शुद्धास्ताण्डुला अथ पुंस्यमी । बहुत्वे शालयो भ्रष्टा लाजा अथ तथा यवाः ॥ ७७ ॥ धाना आर्द्रा व्रीहयस्तु भ्रष्टा अत्यन्तकण्डिताः । पृथुकश्चिपिटास्ते स्युर्गोधूमाः स्युस्तथाविधाः ॥ ७८ ॥ लुम्बिका तुलुका भ्रष्टाः शिम्बिधान्यस्य शिम्बयः । अर्द्धस्विन्नास्तु कुल्माशाः कण्डनादिक्रियां विना ॥ ७९ ॥ शिविः शिंवी सिविः सिंवी सिवा सिंवा शिमिस्त्रियः । धान्यान्माता च कोशोऽथ समूहे धान्यसम्भवे ॥ ८० ॥ अपि स्तम्बकरिर्गुच्छो वालस्त्रिष्वपि चास्त्रियाम् । काण्डेऽफले पलालोऽस्त्री पलोथापि कडङ्गरे ॥ ८१ ॥ वुसं क्लीबे वुसेरुः स्यादस्त्रियामथ पुष्कसः । पुंसि स्यादथ धान्यत्वक् तुषः पुंस्यथ च स्त्रियाम् ॥ ८२ ॥ दालिर्दाली चणादीनां स्फोरो नरि यवोद्भवे । पिष्टे सक्तुः पूर्णकः स्यादापूपः परकोऽस्त्रियाम् ॥ ८३ ॥ ;p{0142} विकसो वापि गोधूमसम्भवे समिता स्त्रियाम् । स्फोटे गोधूमजे स्थूली कणिका यावनालजे ॥ ८४ ॥ चणोत्थे वेसवारो ना पिष्टं माषभवे न ना । सर्वं स्याच्चाक्रिकं चूर्णं शिलापिष्टे तु पिष्टिका ॥ ८५ ॥ त्रिष्वम्बुना विना पक्वो भ्रष्टः पुंसि भरूजकः । भरुजः क्लेदितभ्रष्ट उद्दूषः परिवाट्टिका ॥ ८६ ॥ खदिका स्त्र्यथ धानानां श्लक्ष्णचूर्णेषु सक्तवः । तत्र मन्थो घृतमधुद्राक्षेक्षुरसमिश्रितः ॥ ८७ ॥ तस्मिञ्जलविमिश्रे तु चिक्कणो मसृणोऽपि च । दध्ना संमिश्रितं तत्र करम्भः स्यादतः परम् ॥ ८८ ॥ शिम्बिधान्यं जलक्लिन्नं साङ्कुरं मणिरूढकम् । त्रिषु रिद्धं त्वावसितमृद्धं वृद्धं समृद्धकम् ॥ ८९ ॥ प्रणीतमुपसम्पन्नं प्रशस्तं च सुसंस्कृतम् । धान्ये बृहति संपन्नमयोग्रं मुसलोऽस्त्रियाम् ॥ ९० ॥ मुशलोप्यथ कण्डन्यामुदुलूभ्यां खलस्त्रिषु । स्यात् क्लीबे पवनं शूर्पं सूर्पं प्रस्फोटनं पुनः ॥ ९१ ॥ त्रिषु वस्तुनि तत्पूते शोधितं निर्वुसीकृतम् । फुल्लफालस्तु तद्वाते स्त्रियां क्लीबे तु चालनी ॥ ९२ ॥ ;p{0143} अस्त्रियां तितउ क्लीबे परीपवनमित्यपि । स्यात्तद्वत्पारिपवनं पावीरश्चापि पुंस्ययम् ॥ ९३ ॥ प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ । स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥ ९४ ॥ कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः । स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥ ९५ ॥ सूपकारो वल्लवः स्यात्सूदोप्यारालिकः पुनः । गुण औदनिकोथ स्याद्भक्षपर्यायकारके ॥ ९६ ॥ आपूपिकः कान्दविकः क्लीबेश्मन्तकमित्यपि । उदोध्यानं च धानं च हानं षण् चुल्ल्यपि स्त्रियाम् ॥ ९७ ॥ तथा चुल्लिरपि ज्ञेया तद्वत्साधिश्रयण्यपि । अन्तिकाथ हसन्ती तु हसन्यङ्गारधानिका ॥ ९८ ॥ अङ्गारात्पात्री शकटी क्लीबेऽलातं तथोल्मुकम् । तत्सामिज्वलिते काष्ठे सधूमेथ विधूमके ॥ ९९ ॥ अङ्गारेङ्गालौ निर्वाणे कोकिलो लाहकोऽपि च । भ्राष्ट्राम्बरीषौ द्वावस्त्री स्त्रियां कन्दुःस्थितो नले ॥ १०० ॥ घृतादिना क्लेदिनि स्यात्कटाहस्त्रिष्वलिञ्जरः । अस्त्रियां पिठरं कुण्डं क्लीब आस्थाल्युखे स्त्रियौ ॥ १०१ ॥ ;p{0144} चरुः पुमान्स्त्रियां नन्दानन्दिरालूर्गलन्तिका । वर्द्धनी करकः पुंसि घटोऽस्त्री कलशो द्वयोः ॥ १०२ ॥ कुम्भश्च कलसोऽपि स्यात्करीरोऽपि कुटोऽस्त्रियाम् । निपोप्यथ स्त्रियां पारी दोहनी रोहणीति च ॥ १०३ ॥ तुम्बा निलिम्पा क्लीबे स्यान्निपानमपि वा स्त्रियाम् । अलिञ्जरो मणिश्चापि न द्वयोः स्यादुदञ्चनम् ॥ १०४ ॥ करङ्को नारिकेलस्य कटाहः कुठरो द्वयोः । वर्द्धमानः शरावेऽस्त्री पुमाञ्शालाजिरोप्यथ ॥ १०५ ॥ ऋजीषं स्यादृचीषं च क्लीबे स्यात्पिष्टपाककृत् । कंसोऽस्त्री चषकः पानभाजनेपि स्त्रियां च षण् ॥ १०६ ॥ स्थालं पात्रममत्रं स्यात् क्लीबेथापि स्त्रियां करिः । दर्विर्दर्वी कंविरपि दारुहस्तः कडच्छकः ॥ १०७ ॥ तर्दूः स्त्रियां काष्ठलोही शतर्द्धी स्यादथापरा । स्यात्पल्लिका कुन्तलिका दध्यादिच्छेदिनी तु या ॥ १०८ ॥ अथ स्त्रियां कुतूः कृत्तेः स्नेहपर्यायभाजनम् । सैवाल्पा कुतुपः पुंसि कॢप्ताऽसंस्कृतचर्मणा ॥ १०९ ॥ संस्कृतेन दृतिः पुंसि खल्लो स्त्र्यालूश्च चर्मणा । करपात्री चाथ मेथा मन्थः स्यान्मन्थदण्डकः ॥ ११० ॥ ;p{0145} क्षुब्धस्तदर्गले तु स्यात्कुठरोप्यथ मर्कटी । स्त्रियां प्रत्यर्गले नेत्रं क्लीबे व्यावर्तनं च तत् ॥ १११ ॥ मूलकन्दकरीराग्रफलकाण्डविरूढकैः । त्वक्पत्रकवकैरेवं शाको दशविधः स्मृतः ॥ ११२ ॥ स्वदनं व्यञ्जनं क्लीबे तेमनं स्यादजामिकृत् । मूलकोऽस्त्री नीलकण्ठो मृत्क्षारः कन्दमूलकः ॥ ११३ ॥ हस्तिदन्तः शङ्खमूलो हरित्पर्णः सितोऽपि च । रुचिरोथ स्थूलमूलः स च चाणक्यमूलकः ॥ ११४ ॥ विष्णुगुप्तो महाकन्दो वालेयो मरुसम्भवः । शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥ ११५ ॥ यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्त्तुलः । शिखाकन्दः पिण्डमूलो गजाण्डः पिण्डकः पुनः ॥ ११६ ॥ अथ षण् गर्जरं पीतमूलं स्यात्पीतकन्दकम् । सुमूलं स्वादुकन्दं च नारङ्गमथ शिग्रुकः ॥ ११७ ॥ हरिच्छाकः शाकपत्रः सुपत्रश्चोपदंशकः । बहुमूलो दशमूलः कामलच्छद इत्यपि ॥ ११८ ॥ तीक्ष्णमूलो नीलशिग्रौ तीक्ष्णगन्धो जनप्रियः । शोभाञ्जनस्तत्र कृष्णे रुचिराञ्जन इत्यपि ॥ ११९ ॥ ;p{0146} मुखामोदः श्वेतशिग्रौ मुखभङ्गश्च रोचनः । सुमूलः श्वेतमरिचस्तीक्ष्णः स्यादथ रक्तके ॥ १२० ॥ मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः । अपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥ तृणकेतुर्यवफलो वंशः कर्मार इत्यपि । शतपर्वा दृढग्रन्थिर्मसूरोप्याढकीफलः ॥ १२२ ॥ सारशून्यो मस्करः स्यात्त्वक्सारोऽपि धनुर्द्रुमः । त्वचिसारोऽपि तद्वत्स्यात् तेजनो रम्भ इत्यपि ॥ १२३ ॥ सच्छिद्राः कीचकास्ते स्युर्ये स्वनन्त्यनिलेरिताः । भोरटं पूरणं वंशात्तन्मूलेथ तदङ्कुरे ॥ १२४ ॥ अस्त्री करीरो वंशाग्रं तद् ग्रन्थौ तु द्वयोः परुः । पर्वा स्त्री काण्डसन्धिर्ना परुः पारु त्वगस्य तु ॥ १२५ ॥ तमालः पुंसि चाथ स्यान्मृदुपर्वा तु वेत्रकः । योगिदण्डः सुदण्डोऽथ माकन्दी बहुमूलिका ॥ १२६ ॥ मोदनी गन्धमूली स्याद्राका विशदमूलिका । सौली वनहरिद्रायां वनारिष्टाथ पेडका ॥ १२७ ॥ वन्यार्द्रकाथो रसोने लशुनो रशुनोऽस्त्रियाम् । उग्रगन्धो म्लेच्छकन्दो भूतघ्नः षण्महौषधम् ॥ १२८ ॥ ;p{0147} तत्र रक्ते दीर्घपत्रो यवनेष्टश्च गृञ्जनः । स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥ १२९ ॥ मुखाद्दूषणगन्धाह्वः शूद्रपर्यायतः प्रियः । स्त्रियामुल्ली कृमिहरो बहुपत्रो विरोचनः ॥ १३० ॥ विश्रगन्धः स च श्वेतः पीतो राजपलाण्डुकः । यवनेष्टो दीर्घपत्रो राजपर्यायतः प्रियः ॥ १३१ ॥ कण्डूरः सूरणः कन्दो मुकन्दः स्थूलकन्दकः । दुर्नामारिर्वृत्तकन्दो वातारिः स्कन्दवर्धनः ॥ १३२ ॥ रुव्यकन्दस्तीव्रकन्दः शूरकन्दः सितोपरः । स च वन्योप्यतोन्यः स्यादकण्डूरोऽपि पूर्ववत् ॥ १३३ ॥ अम्लिका स्वल्पविटपा सुकुमाराम्लनामिका । अर्शोहिताम्लिकाकन्दः फलकन्दोऽपि चेष्यते ॥ १३४ ॥ मुखालुर्मण्डपारोही दीर्घकन्दः सुकन्दकः । स्यात्स्वादुस्थूलवत्सेभ्यः कन्दः स्यादथ रोमशः ॥ १३५ ॥ पिण्डालुर्ग्रन्थिलः पिण्डकन्दस्ताम्बूलपत्रकः । लोमशः पित्तकोपि स्यान्नानाकन्दोऽथ लोहिते ॥ १३६ ॥ रक्तपिण्डो लोहितालुः कासकन्दस्तु कन्दिलः । विशालपत्र आलुः स्यात्कासालुः स्यादथापि च ॥ १३७ ॥ ;p{0148} कर्कोटिका तु कूष्माण्डी कुम्भाण्डी स्याद्बृहद्वला । मृदङ्गकुम्भपुष्पेभ्यः फला स्यात्सुफलापि च ॥ १३८ ॥ गोरक्षतुम्बी गोरक्षी नाधाला दुर्घटाह्वया । क्षीरतुम्बी दीर्घफला परीवृत्तफला च सा ॥ १३९ ॥ महाफला दुग्धबीजा दन्तबीजा पयस्विनी । अलावुः स्यान्महावल्ली श्रमघ्नी सापि चेत्कटुः ॥ १४० ॥ स्त्रीक्ष्वाकुः क्षत्रियवरा दीर्घवीजाथ भूद्भवा । वल्मीकोत्था भूमितुम्बी शक्रचापोद्भवा च सा ॥ १४१ ॥ नागतुम्बी दिव्यतुम्बी देव्यथ श्यामबीजिनी । स्याच्चित्तमांसमधुरवृत्तेभ्यः फलिनी च सा ॥ १४२ ॥ घृणायाश्चित्रवल्ली स्यात् कलिङ्गी रक्तबीजका । चीनाकी चीनकी चीना तिन्दुकी तिन्दिसी च सा ॥ १४३ ॥ कोशातकी स्वादुफला जालिनी कर्कशच्छदा । कर्कोटकी पीतपुष्पा स्याद्दीर्घधारयोः फला ॥ १४४ ॥ धामार्गवः पुमान् पोषानको बहुविधा च सा । अन्या हस्तिबृहद्ग्राम्य0कोशातक्यथ मण्डपी ॥ १४५ ॥ पटोली दीर्घमधुरशिखिस्वादुभ्य एव सा । स्यात्पटोलं राजफलं तन्मूलं रम्यकं पुनः ॥ १४६ ॥ ;p{0149} द्विविधा फलभेदेन काकाण्डी कोलपालिका । पर्यङ्कपालिका खट्वा खट्वाङ्गी दधिपुष्प्यपि ॥ १४७ ॥ असिपर्यायशिम्ब्यर्था सुशिम्बी स्थलशिम्बिका । कारवल्ली तु कटुका चीरीपत्रा कठिल्लका ॥ १४८ ॥ सितपुष्टाम्बुसूक्ष्माभ्यां वल्ली कण्टफलाप्यथ । कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ॥ १४९ ॥ वोधना बन्ध्यकर्कोटी देवी कण्टफलाप्यथ । व्याघ्री कण्टलता व्याली मांसी चाखुनखी मृगी ॥ १५० ॥ मार्जारिण्यथ विम्बी तु तुण्डी रक्तफला च सा । अधरोष्ठफला पीलुपर्णी सा रुचिरात्फला ॥ १५१ ॥ कटुस्वादुफला द्वेधा ग्रामतः पविका तु सा । मण्डपी कलिका शिम्बी कलिनी नखपूर्विका ॥ १५२ ॥ निःपावी स्याद्गुच्छफला फलिनी चिपिटा च सा । विशालाप्यथ वार्त्ताकी वृन्ताकी कण्टपत्रिका ॥ १५३ ॥ कटालुर्मांसलफला शाकश्रेष्ठा च कट्फला । महोटिका च निद्रालुर्वृन्ताकी महती च सा ॥ १५४ ॥ चित्रफला कण्टकिनी जनप्रियफला पुनः । रक्तनीलमिश्रवर्णश्वेतेभ्यः फलसंज्ञका ॥ १५५ ॥ ;p{0150} वातिङ्गणोपि वार्त्ताकी वार्त्ताको वातिगोऽपि च । वार्तापि हिङ्गुली भाण्टी वृन्ताको वातिकश्च सः ॥ १५६ ॥ वार्त्ताकुश्च द्वयोश्चैव भतकी बङ्गकी च षण् । डङ्गरिः स्त्री गण्डरिः स्याद्दीर्घेर्वारुश्च गण्डरी ॥ १५७ ॥ गजदन्तफला नागशुण्ड्यथो वृत्तकर्कटी । सा खरत्वक्फला तिक्तषड्रेखाङ्कितसत्फला ॥ १५८ ॥ मधुपाकफलाथ स्यादथच्छर्दालुकर्कटी । पीनसा स्यात्कटुदला त्रपुस्या संनिका पुनः ॥ १५९ ॥ अपि लोमशकाण्डा स्याद्धस्तिपर्णी च मूत्रला । कन्दालुस्त्रपुषी पीतपुष्पी बहुफलापि च ॥ १६० ॥ सैव कोशफलापि स्यादथेर्वारुस्तु कर्कटी । उर्वारुरपि चेर्वारुर्व्यालपुत्री च रोमशा ॥ १६१ ॥ स्थूलतोयहस्तिदन्तपर्यायेभ्यः फला च सा । शारदी वामुकी स्निग्धफला बहुफला च सा ॥ १६२ ॥ क्षेत्रकर्कटिका चैव मधुरार्थात्फलार्थका । सुचित्रा चिर्भिटी चित्रफलाथ क्षेत्रचिर्भिटी ॥ १६३ ॥ पथ्या पाण्डुफला चिर्भिटिका रोचनतः फला । मध्यपीतफला सैव चिक्कणान्तः फलद्रवा ॥ १६४ ॥ ;p{0151} कर्कट्यथ मृगाक्षी तु श्वेतपुष्पा मृगादिनी । मृगेर्वारुश्चित्रवल्ली कट्फला लघुचिर्भिटी ॥ १६५ ॥ कपिलाक्षी बहुफला मृगचिर्भिटिका च सा । मृगेक्षणा चित्रफला देवी पथ्या मरूद्भवा ॥ १६६ ॥ स्याच्चीर्णमर्कटी त्वन्या राजकर्कटिका पुनः । श्रीफली पूजितः पत्रफला बहुफला च सा ॥ १६७ ॥ सुषवीकारवीक्षुद्रकारवीकन्दतो लता । अथापरे पत्रशाका वास्तूको वास्तुकोऽस्त्रियाम् ॥ १६८ ॥ चक्रवर्त्ती राजशाकः शाकराजः पुनः स्त्रियाम् । दलाम्लं चुक्रवास्तूकं लिकुचं स्यादथ स्त्रियाम् ॥ १६९ ॥ दलाग्रलोहिता चिल्ली मृदुक्षारचिरार्थतः । पत्रा स्त्रियां वास्तुकी सा श्वचिल्ल्यथ सुपत्रिका ॥ १७० ॥ क्षुरपत्री पलाक्या स्यात्पालक्या ग्राम्यवल्लभा । मधुरा स्नेहपत्रार्था राजार्थाद्गिरिशाकिनी ॥ १७१ ॥ पालक्या नागपालक्या मदशाकस्तु मोहिनी । उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ॥ १७२ ॥ विशाला मूलयोती तुवरिः शाकटपोतिका । क्षुद्रवल्ली कलंडुस्तु घोली स्यात्कम्बलालुका ॥ १७३ ॥ ;p{0152} जीवन्ती स्त्री रक्तनालस्ताम्रपत्रः सनालकः । शाकवीरो जीवशाको मेषोऽथ षण् सुगन्धिकम् ॥ १७४ ॥ गौरं स्वर्णं गन्धशाकं कटुशृङ्गाटमित्यपि । भूवारिजं वर्णशाकः शिग्रुपत्राणि जीवनी ॥ १७५ ॥ तर्कारी वसुकः पद्मा वर्षाभूश्चैव फञ्जिका । तण्डुलीयकचाङ्गेरीकुसुम्भराजिसर्षपाः ॥ १७६ ॥ कुडञ्जा तिन्दुकः फेडा त्रिपुटाद्याः क्रमादमी । पत्रशाका अङ्कुरितं शिम्बिधान्यं विरूढकम् ॥ १७७ ॥ भूमिस्फोटस्तु कवकं छत्राकं स्याच्छिलीन्ध्रकम् । सैन्धवोऽस्त्री शीतशिवं नादेयः सितसिन्धुजम् ॥ १७८ ॥ पटूत्तमं वरं शुद्धं धौतेयं च शिलात्मजम् । विमलं मणिमन्थं स्याच्छिवं भाष्यं पचा स्त्रियाम् ॥ १७९ ॥ सौवर्चलं हृद्यगन्धं रुचिकं तिलकं पुनः । जरणं कृष्णलवणमक्ष्यं कोद्रविकं पुनः ॥ १८० ॥ रुच्यं स्यादथ नीलं षण् काचकौचोद्भवं पुनः । गालक्यजं हृद्यगन्धं कुरुविन्दमथो विडम् ॥ १८१ ॥ खण्डं द्राविडकं क्षारं कृतकं धूर्तमासुरम् । सुपाक्यमथ शुभ्रं तु महारम्भं च संवरम् ॥ १८२ ॥ ;p{0153} पृथ्वीजं गण्डलवणमथान्यल्लवणाब्धिजम् । शिवं वशिरमक्षीवं सामुद्रमथ वार्मयम् ॥ १८३ ॥ द्रौणेयं वारिजं चापि त्रिकूटलवणं पुनः । अथोषरं सार्वगणं संसर्गलवणार्थकम् ॥ १८४ ॥ स्यान्मिश्रं बहुलवणमथौर्वसहमैरिणम् । वसुपांशु च वसुकं पांशवं रोमकं पुनः ॥ १८५ ॥ उद्भवं चोषरमथ स्त्रियां शुण्ठी महौषधम् । कटूषणं कटुग्रन्थि नागरं विश्वभेषजम् ॥ १८६ ॥ कटुभङ्गं विश्वमथ शृङ्गवेरार्द्रके पुनः । सौपर्णं गुल्ममूलं स्यात्कफारिकन्दरं वरम् ॥ १८७ ॥ सैकतेष्टमनूपोत्थं महीजमथ कोलकम् । मरीचं मरिचं चापि मिरीचं मिरिचं पुनः ॥ १८८ ॥ यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् । वल्लीजमूषणं वीरं पलितं कटुकं च तत् ॥ १८९ ॥ कृष्णं मृष्टं सर्वहितं कफवैर्यथ तत्सिते । वश्यंकरं च बहुलं वालकं चन्द्रकं च तत् ॥ १९० ॥ धान्याकं धान्यकं धान्यं धान्येयं धनिकं समम् । उरूवरुर्ना वरी स्त्री छत्रधान्यं वितुन्नकम् ॥ १९१ ॥ ;p{0154} पुंसि क्लीबे शालियोग्यः सुगन्धिः सूक्ष्मपत्रकः । जनप्रियो बीजधान्यं धान्यं बीजश्च वेधकम् ॥ १९२ ॥ मागधो जरणो दीप्यो जीर्णो जीरकजीरणौ । बह्निसस्योप्यजाजी स्त्री श्वेतायाम् तत्र वै कणा ॥ १९३ ॥ कणजीरो दीर्घकणा सुगन्धा तु सितेतरा । बहुगन्धा कालमेषी शाली काश्मीरजीरका ॥ १९४ ॥ भेदिनीवान्तिशोधिन्यौ वर्षाकाल्यथ जीरिणी । स्यात्स्थूलजीरके कृष्णे दीप्या काल्युपकुञ्चिका ॥ १९५ ॥ पृथ्वी स्थूलकणा चापि मनोज्ञा पृथुरित्यथ । मेथिनी दीपनी मेथी बहुपत्रा च बेधिनी ॥ १९६ ॥ वल्लरी चन्द्रिका गन्धफला मन्था च कौरवी । पीतबीजा मिश्रपुष्पा कञ्चुकाप्यथ दीर्घका ॥ १९७ ॥ पृथ्वीका कवरी हिङ्गुपत्री चापि तथा पृथुः । दार्वीपत्नी दारुपत्नी विल्की वाष्प्यथ रामढम् ॥ १९८ ॥ आरूढगन्धं जरणं भेदनं सूपदीपनम् । सहस्रवेधिरक्षोघ्नं सूपाङ्गं जन्तुनाशनम् ॥ १९९ ॥ ;p{0155} उग्रवीर्यं च वाह्लीकं हिङ्गुदीप्ता स्त्रियां पुनः । भूतारिरुग्रगन्धा स्यादथ स्यात् हिङ्गुनाडिका ॥ २०० ॥ पलाशा जन्तुका वंशपत्री रामठिका च सा । स्यात्पिङ्गाह्वा सुवीर्याथ शतवेधि तु काञ्जिकम् ॥ २०१ ॥ स्त्रियां क्लीबे काञ्जिका स्त्री न स्त्रियामम्लसारकः । अवन्तिसोमोभिषुतो धान्याम्लश्चारनालकः ॥ २०२ ॥ कुल्माषाभिषवोपि स्यादुन्नाहं कुण्डगोलिकम् । रक्षोघ्नमपि कुल्माषं गृहाम्लं स्यान्महारसम् ॥ २०३ ॥ कुञ्जनं कुलजं सिद्धसलिलं धातुनाशनम् । आरनालं च धान्याम्लं यवजं तु यवोदकम् ॥ २०४ ॥ गोधूमजं तु सौवीरं तुषोत्थं तु तुषोदकम् । द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्यकम् ॥ २०५ ॥ चुक्रं शुक्रं तदेव स्यात्कणा मधुसमन्वितम् । मधुचुक्रं न स्त्रियां स्यात्त्रिषु तद्वति वस्तुनि ॥ २०६ ॥ जम्बीररसधान्याम्लावामासं क्षौद्रभाण्डगौ । धान्याम्लसंज्ञमेवं स्यादथ वेध्याम्लवेतसः ॥ २०७ ॥ अम्लो रसाम्लो राजाम्लः शतवेध्यम्लनायकः । अम्लसारो रक्तसारो भीमः स्याद्वीरवेतसः ॥ २०८ ॥ ;p{0156} गुल्मकेतुश्चापि भेदी वेधि स्याच्छङ्खमांसयोः । हरिद्रा रञ्जनी स्वर्णर्णा वर्णवती वरा ॥ २०९ ॥ दीर्घरागा वर्णधात्री जनेष्टा वर्णिनी च सा । पवित्रा हरिता पीता वराङ्गी शोभना शिफा ॥ २१० ॥ गौरी विषघ्नी मङ्गल्या निशार्था च विलासिनी । शोभा जयन्ती लक्ष्मीः स्यान्मङ्गला सुभगाह्वया ॥ २११ ॥ भद्रा दारुहरिद्रान्या स्थिररागा पचंपचा । कटंकटेरी पर्जन्या दार्वी कामवती च सा ॥ २१२ ॥ क्लीबे कालेयकं पीतदारुकालीयपीतके । रसस्य समलस्येक्षोस्त्रिद्येकांशमलामलाः ॥ २१३ ॥ विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः । शिशुप्रियोरुणः खण्डो रसजः फाणितं तु षण् ॥ २१४ ॥ अपि क्षुद्रगुडोथ स्याद्गुडः स्वादुश्च मोदकी । मधुरो रसपाकोत्थक्वाथोथ क्षुद्रशर्करा ॥ २१५ ॥ मत्स्यण्ड्यपि च मत्स्याण्डी मधुरा पिण्डशर्करा । सा खण्डशर्करा चैव गुडपर्यायसम्भवा ॥ २१६ ॥ मधुपर्यायधूल्यर्था शर्कराह्वाथ खण्डके । तवराजः खण्डसारः खण्डजः खण्डमोदकः ॥ २१७ ॥ ;p{0157} स सुधामोदकोऽथ स्यात्तवराजसमुद्भवे । खण्डे खण्डोद्भवोद्भूतः सुधामोदकतश्च सः ॥ २१८ ॥ ससिद्धमोदकोऽपि स्यात्स चैवामृतसारजः । वर्त्तिकाशश्चिवटकाः शर्करालिङ्गकादयः ॥ २१९ ॥ विकाराः खण्डजाश्चाथ सिकता तु सितोपला । अहिच्छत्रो पलाकास्याद्विकारा इक्षुजा अमी ॥ २२० ॥ यावनालरसोत्थोन्यो नारिकेलीरसोद्भवः । खर्जूरीरसजस्तालीरसजोऽपि गुडो भवेत् ॥ २२१ ॥ शर्करा चापि सा तु स्यान्मधुजा मधुशर्करा । शीता जात्या माधवी स्यात्सोक्ता माक्षीकशर्करा ॥ २२२ ॥ यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । स्यात्क्षुद्रशर्करा क्षुद्रा गुडजा जलबिन्दुजा ॥ २२३ ॥ हैयङ्गवीनं सरजं क्षीरोत्थं दधिसंभवम् । मन्थजं नवनीतं स्यात्सारोत्थाभ्यञ्जनं घृतम् ॥ २२४ ॥ सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः । अमृताह्वं जीवनीयं पवित्रं नवनीतजम् ॥ २२५ ॥ हौम्यं होमोत्तमार्थं स्यादस्याघाराभिघारणौ । मले घृतस्य विलयोथास्त्री क्षीरं तु जीवनम् ॥ २२६ ॥ ;p{0158} दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि । पयोमृतं तन्नारीणां दुग्धे स्तन्यमतः परम् ॥ २२७ ॥ अविरिशमविरीशमविसोढमवेः पयः । सृतक्षीरोपरिभवा घना सन्तानिका स्त्रियाम् ॥ २२८ ॥ सद्यः प्रसूतायाः क्षीरं पीयूषोऽभिनवं पयः । पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥ २२९ ॥ आसप्ताहादथ दधि मङ्गल्यं क्षीरसम्भवम् । विरलं तज्जलं मस्तु क्लीबेथो कट्वरः सरः ॥ २३० ॥ दध्युत्तरो दधिस्नेहो दध्यग्रमथ कूचिका । दध्ना तक्रेण च क्षीरे पक्वे स्याद्दधितक्रयोः ॥ २३१ ॥ उत्तराथ क्षीरशरा शर्करा सहिता स्त्रियाम् । सुबद्धं घनवस्त्रेण दधिभावविवर्जितम् ॥ २३२ ॥ पिण्डीभूतं यद्दधि स्याद्दधिपिण्डः स उच्यते । एवं तक्रे तक्रपिण्डो दधिदुग्धविमिश्रितम् ॥ २३३ ॥ चतुर्जातसिताशुण्ठीमरिचैलासमन्वितम् । दृढेन शुभ्रवस्त्रेण गालितं केसरान्वितम् ॥ २३४ ॥ मार्जिता सा रसाला स्याच्छिखरिण्यथ गोरसः । सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥ २३५ ॥ ;p{0159} पादाम्बुतक्रमर्द्धाम्बूदश्विद्द्व्यांशाम्भसा युतम् । कालसेयं द्वयं सार्द्धजलदण्डाहतं क्रमात् ॥ २३६ ॥ अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते । अर्शोघ्नं सारणं श्वेतं कवचं चाथ मन्थरः ॥ २३७ ॥ दधिचारोऽपि वैशाखस्तक्राटः करघर्षणः । मन्थो मन्थनमन्थानखजाः पुंसि नपुंसके ॥ २३८ ॥ मन्थदण्डोऽथ तद्रज्जौ नेत्रं क्लीबे ततः पुनः । स्त्रियां भिस्सान्नमन्धः षण् जीवनं स्यात्प्रसाधनम् ॥ २३९ ॥ कीलालमायुरशनमन्नाद्यं भोज्यमित्यपि । वाजः परिस्रुतमपि दीदिविश्चास्त्रियां पुनः ॥ २४० ॥ अस्त्रियामोदनः कूरो भक्तो दग्धे तु भिःसटा । दग्धिका चाथ मण्डोऽस्त्री भक्तमण्डे स्रवः पुमान् ॥ २४१ ॥ स्राम आचमनिः स्राममसाराः प्रस्नवः पुनः । युक्त्या संसाधिते सूदैः शिम्ब्यन्ने प्रहितोऽस्त्रियाम् ॥ २४२ ॥ दालिः स्त्रियां पुंसि सूपो दाली स्याल्लवणान्विते । शूकशिंविभवैर्द्धान्यैः संमिश्रो मिश्रितौदनः ॥ २४३ ॥ खिच्ची खिच्चे उभे स्त्रीत्वे सुसिद्धा षड्गुणाम्भसि । स्त्रियां यवागूर्विरलद्रवाथ कृशरोऽस्त्रियाम् ॥ २४४ ॥ ;p{0160} तिलतण्डुलमाषाणां या सा संयोगसम्भवा । भूतौदनो दधिनिशा सक्तुलाजतिलान्वितः ॥ २४५ ॥ बाह्योदनो यावकः स्याद्यवैः स्विन्नैश्च निस्तुषैः । दलितैर्यवगोधूमैः स्थूला सा समिता स्त्रियाम् ॥ २४६ ॥ वाटः पुमांस्तत्र गुडसंमिश्रे कृसरः पुमान् । तृसरस्तण्डुलैः सिद्धैः सगुडैः सोप्यथापरः ॥ २४७ ॥ तप्ते घृते विनिक्षिप्य समितां भर्जितां मनाक् । ततस्तत्र विनिक्षिप्य खण्डं तेन समं पचेत् ॥ २४८ ॥ कृसरं तं कसारं च कंसारमिति केचन । षोडशांशमिते दुग्धे तण्डुलानां पले शनैः ॥ २४९ ॥ सम्यक् संसाधिते क्लीबे परमान्नं ततस्त्रियाम् । क्षीरेयी पायसः पुंसि क्लीबे दुग्धार्थतश्चरु ॥ २५० ॥ विलेपी घनसिक्या स्त्री स्विन्ना तोये चतुर्गुणा । पेया सिक्थयुता पथ्या चतुर्दशगुणेऽम्भसि ॥ २५१ ॥ अष्टादशगुणे तोये श्रितो यूषस्तु शिम्बिजैः । एवं मांसरसो मांसैर्मासयूषस्तु सस्मृतः ॥ २५२ ॥ सस्यात्कृताख्यो लवणकटुस्नेहादिनायुतः । अकृतः स्यात्तद्रहितोप्यथ काम्बलिकः खलः ॥ २५३ ॥ ;p{0161} फलमूलसमांशो यः कट्वम्लो विमलो रसः । घृतेन मर्दितां तोयैः समितां मृदु मर्दयेत् ॥ २५४ ॥ मातुलुङ्गत्वचा खण्डपक्वमार्द्रकपूरितम् । विधाय पूपकं वृत्तं गन्धाढ्यं केसरान्वितम् ॥ २५५ ॥ पक्त्वा सर्पिषि खण्डेवगाहितो मधुशीर्षकः । समितां मधुदुग्धेन मोदयित्वा सुशोभनाम् ॥ २५६ ॥ पचेद्घृतोत्तरे खण्डे न्यसेत्पक्वे नवे घटे । ततो मरिचपक्वैलाखण्डचूर्णावचूर्णितम् ॥ २५७ ॥ कुर्यात् कर्पूरसंयुक्तं संयावमथ शष्कुली । शालूकमध्यसंयुक्तैः शालिकोद्रवतण्डुलैः ॥ २५८ ॥ संपिष्टैस्तिलसंयुक्तैः लोहभ्रष्टैस्ततः परम् । स्थाली खर्परसच्छिद्रखर्परायसखर्परैः ॥ २५९ ॥ अङ्गारैरपि पिष्टान्नपाकः स्यादथ भास्करी । चन्द्रिका रोटिकावृत्ता पिष्टखर्परसम्भवा ॥ २६० ॥ महान्तो विस्तृताः सूक्ष्माः कर्परादिषु पाचिताः । स्युर्मण्डका मण्डलिनः स्थूलाः पूपलिका स्त्रियाम् ॥ २६१ ॥ अथाङ्गारेषु संपक्वः सूक्ष्मः सोङ्गारमण्डकः । अङ्गारकर्कटी स्थूलाऽथाप्यपक्वे तु पोलिका ॥ २६२ ॥ ;p{0162} पिष्टवर्तिस्तु चमसी सूचिका सेविका पुनः । पक्वेऽपूपः पिष्टकः स्यात्पूपिका पूलिका स्त्रियाम् ॥ २६३ ॥ पूपली चर्पटा पोली पूलिकावद्विपाचिते । पूपो घृतप्लुते पिष्टे समिता गुडवारिणा ॥ २६४ ॥ घृते वाप्यथवा तैले चक्राकारा सुपिष्टिका । भर्जिता वटको नास्या दवसेकिम इत्यपि ॥ २६५ ॥ मिश्रा मण्डलिका पक्वा सम्यगायसखर्परे । घृतप्लुते पूरकः स्यादेवं मुद्गादिपिष्टजः ॥ २६६ ॥ माषादि पिष्टका सिद्धः सूर्णकः पुंनपुंसकः । पिट्यां तु स्वेदपक्वायां मिण्डूरं स्याद्द्वयोरथ ॥ २६७ ॥ भ्रष्टा तुल्ये घृते तप्ते समिता तुल्यशर्करे । अत्युष्णैरम्बुभिः पक्वा त्रिसरा लप्सिका च सा ॥ २६८ ॥ घृताक्तसमिता पूपं घृते तप्ते मनाक् शृतम् । लघुदीप्ता खरतरा घृतपक्वादधिष्टरः ॥ २६९ ॥ चणचूर्णाष्टांशयुता सा पूरी तण्डुलोद्भवैः । पिष्टैर्घृतघनीभूतैर्गोलके समिताभवे ॥ २७० ॥ वेष्टिते स्थूलपूपाभे घृतपक्वे तु खाद्यकः । चन्द्रबिम्बाकृति तद्वत्फेणिकं तु फणिज्जकम् ॥ २७१ ॥ ;p{0163} अशोकवर्त्तिकापि स्यादथ पिष्टभवा भिदः । चणकप्रभवा पिष्टी पिष्टिका माषसम्भवा ॥ २७२ ॥ यवानीहिङ्गुलवणैः संयुक्ता गर्भसंस्थिता । पूरिकेव विधातव्या शमिका वेठिका तु सा ॥ २७३ ॥ कचूटिकाथ समिता घृताक्ता द्राक्षया युता । एलालवङ्गकर्पूरमरिचैः परिवारिताम् ॥ २७४ ॥ क्षिप्त्वा तु समितां लम्बपुटे वेष्ट्य घृते पचेत् । ततः खण्डे न्यसेत् पक्वे गुह्यकः सोपि चास्त्रियाम् ॥ २७५ ॥ सुशुद्धसमिताप्रस्थं विमर्द्य पयसा सह । यावत्तदम्लतां याति तावत्स्थाप्यं घटान्तरा ॥ २७६ ॥ सच्छिद्रोदञ्चने न्यस्तं तप्ते घृतकटाहके । परिभ्राम्य परिभ्राम्य पातयेत् कुण्डलाकृतिम् ॥ २७७ ॥ परिपक्वां सितालेहनिर्वापितकदुष्णकाम् । सा कङ्कणी कुण्डली स्यान्मोदको गोलकः पुनः ॥ २७८ ॥ लड्डुकोपि च तद्भेयाः समितां परिशोधिताम् । घृते विपक्वामापाकं शीतलां सुसितान्विताम् ॥ २७९ ॥ सघृतां गोलकीभूतां सघृष्टश्चमसीभवः । घृतेन मर्दितां तोयैः सम्बद्धां विपचेद्घृते ॥ २८० ॥ ;p{0164} यथाकथंचित्समितां सुपक्वां परिचूर्णयेत् । सिताघृताभ्यां संयुक्ते दलजो दलमोदकः ॥ २८१ ॥ घृतमर्दिततोयार्द्रसमितां चमसीघृते । पक्वां घृते सिता मिश्रा चमसी संभवाभिधाम् ॥ २८२ ॥ अपूपचूर्णे सगुडे चूरीमोदक इत्ययम् । पिष्टे घृतगुडोन्मिश्रे लोपकोथ पुनर्घृते ॥ २८३ ॥ गुडेनैकरसीभूते समितां तत्र पाचयेत् । गुडपर्पटकः स स्यात्पिष्टीं माषादिसम्भवाम् ॥ २८४ ॥ घृतपक्वां शर्कराढ्यां स तु माषादिमोदकः । जलेनालोडितं शालिपिष्टं खण्डविमिश्रितम् ॥ २८५ ॥ धारापूपकवत् पाच्यं वर्वरं चाथ चिक्कणम् । मसृणं कर्कशं स्निग्धं पिच्छिलं विजिलं पुनः ॥ २८६ ॥ विज्जलं स्याद्विजिविलमथ संमृष्टशोधिते । भावितं वासितं चापि धूपिते वस्तुनि त्रिषु ॥ २८७ ॥ मसृणाद्यं तथोदश्विदौदश्वित्कमतोपि च । उदश्वितं स्याद्वटके त्ववसेकिममस्त्रियाम् ॥ २८८ ॥ निक्वाथो रसकस्तुल्यावथ स्याद्वेसवारकः । शुण्ठीमरिचवैदेहीधान्यकाजाजिदाडिमः ॥ २८९ ॥ ;p{0165} हिङ्गुसामुद्रसंयुक्त इत्येकोथापरः पुनः । स्विन्नमुद्गादिजः कल्कः सोन्यः स्याद्वेसवारकः ॥ २९० ॥ मांसं निरस्थि सुस्विन्नं पुनर्दृषदि चूर्णितम् । पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम् ॥ २९१ ॥ ऐकध्यं पाचितं सम्यग्वेसवारोथ सौरकः । सौरावो मांसजरसः पक्वः सद्रवचन्दनः ॥ २९२ ॥ स वेसवारसंयुक्तः खानिष्को मांसजो रसः । वल्लूरं परिशुष्कं स्याच्छुष्के मांसप्रदिग्धकम् ॥ २९३ ॥ सस्नेहोथाग्निना भ्रष्टे पुनर्भूतिर्भटित्रकम् । तथा भरुटकं चाथ शूल्यं शूलाकृतं च तत् ॥ २९४ ॥ पैठरं पिठरे पक्वमौष्यं स्यादुषया शृतम् । लवणोदकसंसिद्धस्वल्पमांसादिसंस्कृतः ॥ २९५ ॥ बहुद्रवः स च रसो दकलावणिकस्त्रिषु । दाधिकं चापि सार्पिष्कं सौपिकं तैलिकं क्रमात् ॥ २९६ ॥ दधिसर्पिःसूपतिलसंस्कृते वस्तुनि त्रिषु । रागश्च खाडवो भिन्न एकोक्त्या राग खाडवः ॥ २९७ ॥ सितारुचकसिन्धूत्थैः सवृक्षाम्लपरूषकैः । जम्बूफलरसैर्युक्तो रागो राजिकया युतः ॥ २९८ ॥ ;p{0166} फलैरीषत्स्वादुरसैः कपित्थाद्यैः समन्वितः । स्वादुप्रायोम्ललवणः सराग इति केचन ॥ २९९ ॥ स्पष्टाम्ललवणः स्पष्टः कषायलवणोषणम् । अतिक्तः खाण्डवः कौलः कपित्थाद्युपबृंहितः ॥ ३०० ॥ सट्टकः सोमजोपि स्यात्प्रमोदो वर्द्धमानकः । विस्यन्दनोपि च स्त्री स्यात्पानकः पञ्चसारकः ॥ ३०१ ॥ वाटिकापर्पटाद्याः स्युः कर्चर्याद्याः प्रभक्षकाः । अशनाया बुभुक्षा क्षुत् क्षुधा स्याद्रुचिरित्यपि ॥ ३०२ ॥ अस्त्रियां रोचकश्चापि तत्र लेपस्तु भोजनम् । जेमनं स्वादनं जग्धिर्वल्लनं चापि जक्षणम् ॥ ३०३ ॥ स्वजनं भक्षणं भुक्तिरशनं विघसो घसिः । प्रत्यवसानमाहारः क्षुधापर्यायनाशनम् ॥ ३०४ ॥ लेहोदनं च तद्वत्स्यादभ्यवहार इत्यपि । आदष्काणोप्यवष्काणो निष्काणश्चाथ चर्वणम् ॥ ३०५ ॥ वस्तुनश्चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् । दद्वयापारयुतं चोष्यं तद्धीनं पेयकं त्रिषु ॥ ३०६ ॥ ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः । क्लीबे स्याद्गिरणं गीर्णिगीर्णी तुल्ये गिरिर्गिटी ॥ ३०७ ॥ ;p{0167} पृथगुक्त्यैकयोक्त्या च कशिपुः स्यान्न च स्त्रियाम् । भुक्त्याच्छादनयोरेवमथान्नेच्छाविवर्जिते ॥ ३०८ ॥ तृप्तस्तु सुहिता घस्ताशितास्तृप्तिस्तु तर्पणम् । स्वादाघ्राणं च सौहित्यमथ पिण्डोलिका स्त्रियाम् ॥ ३०९ ॥ फेला फेली भुक्तशेषे विघसोनर्यथेन्दुकः । सजग्धिश्च ससग्धिश्च तुल्यानां सहभोजने ॥ ३१० ॥ सधर्मिणां तु संभूय भोजनं गणचक्रकम् । तुल्यपाने सपीतिः स्त्री तर्षे तातृट् तृषे स्त्रियौ ॥ ३११ ॥ तृष्णोदन्या पिपासा स्यादम्बुपर्यायतः स्पृहा । वैकालिकं रात्रिभोज्ये स्वल्पके न द्वयोरथ ॥ ३१२ ॥ भुक्तस्योपरि यद्भुक्तं तदध्यशनमित्यपि । श्रीरामणं कल्यवर्त्तः प्रातर्भोज्येल्पके पुमान् ॥ ३१३ ॥ गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः । व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथाम्लकः ॥ ३१४ ॥ खट्वरः पावनः खट्टो दन्तपर्यायतः शठः । अम्लः समुखगः स्रावं स्वेदनं च विबोधनम् ॥ ३१५ ॥ दन्तानां हर्षणं दाहं विधत्ते मुखकण्ठयोः । स च जम्बीरनिम्ब्वादावथ सर्वरसः पटुः ॥ ३१६ ॥ ;p{0168} क्षारोपि लवणः सोपि प्रलिम्पन्विदहन्मुखम् । विष्यन्दयन्लाघवयन् क्लेदयन्सैन्धवादिषु ॥ ३१७ ॥ संदृश्यतेथ कटुको मुखपर्यायभेद्यपि । संवेजयद्यो रसनां निपाते तुदतीव च ॥ ३१८ ॥ विदहन्मुखनासाक्षि संस्रावी मरिचादिषु । दृश्यतेथापि तिक्तस्तु मुखपर्यायभेद्यपि ॥ ३१९ ॥ प्रतिहन्ति निपाते यो रसनं स्वदते न च । स चायं मुखवैशद्यशोषप्रह्लादकारकः ॥ ३२० ॥ बिम्बादौ दृश्यते सोथ तूवरो रसनाशठः । तुवरोपि कषायः स्यादस्त्रियां स्यात्स चोत्तरः ॥ ३२१ ॥ वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः । बध्नातीव च यः कण्ठं स दृश्यस्तिन्दुकादिषु ॥ ३२२ ॥ अमीषां त्रिषु वस्तूनि भेदा एषामनुक्रमात् । मधुराम्लक्षारकटुतिक्ता एकैकमूनिताः ॥ ३२३ ॥ द्विकाः पञ्चदशैव स्युर्दशषट्त्र्येकसंमिताः । मधुरोम्लश्च लवणः कटुकश्चेति ते त्रिकाः ॥ ३२४ ॥ विंशतिर्मधुराम्लाह्वलवणेभ्यः कटुः पुनः । तिक्तः कषायो गुल्याम्ललवणेभ्यः प्रयोजितः ॥ ३२५ ॥ ;p{0169} तिक्तः कषायो मधुरकटुतिक्तेभ्य इत्ययम् । कषायो गुल्यलवणकटुकेभ्यश्च तिक्तकः ॥ ३२६ ॥ कषायो गुल्यलवणतिक्तेभ्योऽपि कषायकः । गुल्यक्षारकटुभ्योऽपि कषायश्च ततः पुनः ॥ ३२७ ॥ अम्लक्षारकटुभ्यः स्यात्तिक्तस्तुवरकस्ततः । स्यादम्लक्षारतिक्तेभ्यः कषायोम्लकटूत्तरः ॥ ३२८ ॥ तिक्तः कषायो लवणकटुतिक्तकषायकः । स्यात् क्षारकटुतिक्तेभ्यः कषायः स्युश्चतुष्ककाः ॥ ३२९ ॥ एते पञ्चदशैव स्युरतः षट्पञ्चकाः परे । मधुराम्लक्षारकटुतिक्तास्तिक्तकषायकौ ॥ ३३० ॥ मधुराम्लक्षारतिक्तकषाया मधुरः पटुः । कटुतिक्तकषायोऽपि मध्वम्लकटुतिक्तकः ॥ ३३१ ॥ कषायोथाम्ललवणमधुतिक्तेभ्य इत्ययम् । षट्क एको रसाः षट् ते पुंस्येते स्युस्त्रिषष्टिकाः ॥ ३३२ ॥ रसभेदा दोषभेदा उन्नेया एवमेव तु । उद्वेगः क्रमुकः पूगश्चिक्का स्त्री चिक्कणी न ना ॥ ३३३ ॥ स्यात्खेचरी तु मधुरा क्लीबे गौल्वं तु तैल्वलम् । गुहागरगथो घोण्टा कठिनाप्यथ वैटिलम् ॥ ३३४ ॥ ;p{0170} पूगीफलं वल्लगुणं होसं पत्तनजं च तत् । नागपर्यायवल्ल्यर्था ताम्बूली भक्षपत्रिका ॥ ३३५ ॥ सैव सप्तशिरा पर्णलता स्यादथ तद्भिदः । श्रीवाटी चाम्लवाटी च पत्रसी च गुहागरी ॥ ३३६ ॥ अम्लसारा मालवोत्था मागधी होसणीति च । स्यादन्द्रपुष्कलीचाथ चूर्णमम्लं सुधार्थकम् ॥ ३३७ ॥ कुटार्जुनकरञ्जार्कशिलास्फटिकशुक्तिजम् । स्यात्खादिरस्तु खदिरसारः क्षोदोऽपि रङ्गदः॥ ३३८ ॥ अथ क्वाथस्तु खदिररसोरङ्गः कषायकः । वाच्यलिङ्गस्तु सुरभि रामोदी मुखवासनः ॥ ३३९ ॥ शुभवासनश्चापि पुनर्गुरुवासन इत्यपि । ताम्बूलं मिलितैरेभिर्वीटकं त्रिष्वथापरम् ॥ ३४० ॥ फलकन्दकरीरादिलवणेन विमिश्रितम् । हरिद्राराजिका कल्ककटुतैलसमन्वितम् ॥ ३४१ ॥ तत्संधितं तु सन्धानमास्थानं वस्तुनि त्रिषु । शलाटुभिः फलैः शुष्कैर्मिश्रितैर्मधुरादिभिः ॥ ३४२ ॥ प्रयुक्तं स्यादिदमपि सन्धानमुपदंशकम् । कटुबीजा च वैदेही कोला दन्तफलोषणा ॥ ३४३ ॥ ;p{0171} कृष्णोपकुल्या कारञ्जी स्पृतिः स्यान्मागधी कणा । पिप्पली पिप्पलिस्तुल्ये ऊषणा चपलापि च ॥ ३४४ ॥ शौण्डी च तैजसी स्थूलसूक्ष्मभेदादियं द्विधा । गजार्थात् पिप्पली छिद्रपिप्पली श्रेयसी च सा ॥ ३४५ ॥ दीर्घग्रन्थिर्वर्तुली च क्लीबे चव्यफलं पुनः । सैंहली सर्पदण्डी च लम्बतन्ता च पार्वती ॥ ३४६ ॥ प्रलम्बबीजा सर्पाङ्गी तीवनेत्रा च जीवला । उत्कटा कुरवीचापि क्षुद्रसूक्ष्मवनार्थतः ॥ ३४७ ॥ पिप्पल्यर्था तदुत्थाथ मूलं तु चटिका शिरः । ग्रन्थिकं पिप्पलीमूलं कटुमूलं च शोषजम् ॥ ३४८ ॥ कोलमूलं कटुग्रन्थिः सर्वग्रन्थिः कटूषणम् । सुगन्धिकं च पत्राढ्यं विरूषं ग्रन्थिलं पुनः ॥ ३४९ ॥ दीप्योऽस्त्रियां दीपकोऽपि यवसाग्रो यवाग्रजः । यवजः पुंसि वातारिर्भूकदम्बश्च शूलहा ॥ ३५० ॥ स्त्र्युग्रगन्धा दीपनी च यवानी चाथ चव्यकम् । कोलं स्त्रियां कटिकणा चविका गन्धनाकुली ॥ ३५१ ॥ वल्ली च कोलवल्ली स्याद्वशिरः कृकरः पुमान् । तीक्ष्णोथ पालका पाठी ज्योतिष्कः शूरदारुणौ ॥ ३५२ ॥ ;p{0172} अग्निव्याघ्राभिधश्चापि चित्रकः शंवरः कुटः । कृष्णे व्यालः कालमूलो मार्जारोप्यतिदीप्यकः ॥ ३५३ ॥ रक्ते रुद्रो गुणाढ्यः स्यान्महाङ्गश्चाथ गह्वरा । कपाली कैरवी मोघा कृमिघ्नी चित्रतण्डुला ॥ ३५४ ॥ वातारिस्तण्डुली चापि सैवोक्ता मृगगामिनी । तण्डुलीया विडङ्गापि त्रिष्वथोग्रा तु मङ्गला ॥ ३५५ ॥ यचोग्रगन्धा गोलोमी जटिला लोमशा च सा । रक्षोघ्नी विजया भद्राथ श्वेता विजया च सा ॥ ३५६ ॥ तीक्ष्णगन्धा हैमवती मङ्गला दीर्घपत्रका । षड्ग्रन्थापि च मेध्याथ कुलञ्जस्तु कुलञ्जनः ॥ ३५७ ॥ गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा । निःकुटी निःकुटिरपि द्राविड्यल्पा त्रुटी त्रुटिः ॥ ३५८ ॥ कपोतपर्णी बहलगन्धा चैवोपकुञ्चिका । कायस्था चन्द्रिका चापि गोरङ्गी महती तु सा ॥ ३५९ ॥ कपिस्था गोपुरा कान्ता घृताची गर्भसम्भवा । सुरभित्वग्दिव्यगन्धा महैला त्रिदिवोद्भवा ॥ ३६० ॥ रुद्रैला त्रिपुटा पृथ्वी कल्पाप्यैन्द्री कुमारिका । खरीका त्वजमोदापि वार्कटी हस्तिकारवी ॥ ३६१ ॥ ;p{0173} गन्धपत्री गन्धदला मयूरी वह्निदीपिका । शिखिमोदा प्रमोदाढ्या ब्रह्मकोशा च मोदिनी ॥ ३६२ ॥ फलमुख्या गन्धरता विशाला चाथ नन्दिनी । रेणुका कपिला कान्ता महिला राजपुत्र्यपि ॥ ३६३ ॥ हरेणुकायां दुष्पुत्रा द्विजा रेणुर्हिमा धवा । धर्मिणी कपिला नृत्ता शान्ता हैमवती ह्युमा ॥ ३६४ ॥ अस्त्री रक्तापहं बोलं सौरलं रक्तगन्धिकम् । रसगन्धं महागन्धं सुरसं पिण्डिकं विषम् ॥ ३६५ ॥ निर्लोहं वर्वरं मुण्डं विश्वं गन्धरसं पुनः । विश्वगन्धं व्रणारिः स्यात् स्मृत्याह्वमथ दुर्लभः ॥ ३६६ ॥ कर्चूरो द्राविडः काशो जटालो गन्धमूलकः । वेधमुख्यो गन्धसारस्तवक्षीरं तु तालजम् ॥ ३६७ ॥ गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् । वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥ ३६८ ॥ तालीसपत्रं तालीसमन्नाद्यं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं तमाह्वयम् ॥ ३६९ ॥ तालं नीलाम्बरं नीलं तुङ्गा तु वंशरोचना । क्षीरी वांशी च शुभ्रापि वनेन्दुर्वंशशर्करा ॥ ३७० ॥ ;p{0174} मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्ल्यपि । मङ्गला विकसा पद्मा रोहिणी कालमेषिका ॥ ३७१ ॥ भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा । मण्डूकपर्णी विजया रागाढ्या रक्तयष्टिका ॥ ३७२ ॥ ज्वरहन्त्र्यरुणा छत्रा भण्डीरी वस्त्रभूषणा । रागाङ्गी चाभिमण्डीरलता नागकुमार्यपि ॥ ३७३ ॥ सिंहली योजनी कौन्ती चोलो ना स चतुर्विधः । लाक्षा खदिरिका रक्ता रङ्गमाता पलङ्कषा ॥ ३७४ ॥ जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः । दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥ ३७५ ॥ पित्तघ्नी स्याद्द्रवरसा लक्तको मुद्रिणी च सा । निर्भर्त्सनो जतुरसो जननी जनकार्यपि ॥ ३७६ ॥ चक्रवर्त्तिनी सङ्घर्षा लोध्रो रोध्रश्च शांवरः । हेतुपुष्पः काण्डचीलस्तिलको हस्तिलोध्रकः ॥ ३७७ ॥ तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः । कटुकः पट्टिकारोध्रः पट्टी लाक्षाप्रसादनः ॥ ३७८ ॥ वल्कलोध्रो बृहद्वक्रः शीर्णवल्कोक्षिभेषजम् । मालवो जीर्णबुध्नोऽपि वह्निपुष्पी तु धातकी ॥ ३७९ ॥ ;p{0175} अग्निज्वाला मद्यपुष्पा कुञ्जरा मद्यवासिनी । धाविन्यपि सुभिक्षा स्याद्बहुपुष्पा च पार्वती ॥ ३८० ॥ गुच्छसंघादिपुष्पान्ता कुमुदा कुञ्जराप्यथ । स्यात्समुद्रार्थोत्तरगफलपर्याय्यथो वृकी ॥ ३८१ ॥ श्रेयसी स्वापनी पाठा प्राचीना पापचेलिका । अम्बष्ठा पथिका तिक्ता बृहत्तिक्ता च दीपनी ॥ ३८२ ॥ एकाष्ठीला विद्धकर्णी कुचेली शिशिरा वरा । वरतिक्ता वृत्तपर्णी चूषा देवी च मालवी ॥ ३८३ ॥ कटुका जननी तिक्ता रोहिणी शकुलादनी । मत्स्यपित्ता च चक्राङ्गी शतपर्वा वसादनी ॥ ३८४ ॥ तत्र कृष्णा काण्डरुहाप्यरिष्टा कटुरोहिणी । आमघ्न्यरिष्टा केदारकटुः कट्वञ्जनी कटुः ॥ ३८५ ॥ अशोकरोहिणी चापि महौषध्यथ भङ्गुरा । विरूपातिविषा श्वेतकन्दा विश्वा महौषधी ॥ ३८६ ॥ विषरूपा श्यामकन्दा शृङ्गी श्वेतवचारुणा । उपात्प्रप्रत्योर्विषाथ सुगन्धिर्ग्रन्थिला हिमा ॥ ३८७ ॥ कुरुविन्दी भद्रमुस्ता वाराही क्रोडवल्लभा । गुन्द्रा कसेरुर्भद्रापि मेधाह्वा स्यात् द्वयोरपि ॥ ३८८ ॥ ;p{0176} गाङ्गेया वनजा राजकसेरुः कच्छजापि सा । अन्या नागरमुस्ता स्यात्सैव प्रोक्ता घनार्थका ॥ ३८९ ॥ नगरोत्था च चक्राङ्गा पिण्डमुस्ता कलापिनी । नादेयी शिशिरापि स्याच्चूडाला वासकेसरा ॥ ३९० ॥ ध्वाङ्क्ष्युच्चटा कचरुहा मधुकं तु मधुस्रवा । मधुवल्ली मधूकं षण् यष्ट्याह्वं यष्टिकामधु ॥ ३९१ ॥ अथान्यत् क्लितनीयं स्यात् क्लीतनं मधुवल्ल्यपि । शोषापहा मधुरसा सातिसौम्या मधूल्यपि ॥ ३९२ ॥ भार्गी गर्दभवल्ली स्यात् फञ्जिकाङ्गारवल्लरी । सुरूपा भ्रमरेष्टापि शक्रमाताथ मूलके ॥ ३९३ ॥ वीरं पुष्करमूलं स्यात् पौष्करं पद्मपत्रकम् । सारिपक्षं ब्रह्मतीर्थं शृङ्गी तु वनमूर्द्धजा ॥ ३९४ ॥ कुलीरशृङ्गी चक्राङ्गी घोषा चण्डा कलिङ्गका । महाघोषा चेन्दुखण्डा कर्कराह्वा लताङ्ग्यपि ॥ ३९५ ॥ निकुम्भी तु श्योनघण्टा नागस्फोता च रेचनी । भद्रारूक्षा पवित्रा स्यादनुकूला विशोधनी ॥ ३९६ ॥ एरण्डफलपत्रापि विशल्या तरुणीत्यपि । उदुम्बरदला कुम्भी साथ केशरुहापरा ॥ ३९७ ॥ ;p{0177} भिषग्भद्रावर्त्तका च भद्रा दन्ती जयावहा । क्षराङ्गी सारकस्त्वस्त्री जयपालोऽपि रेचकः ॥ ३९८ ॥ दन्तीबीजं मलद्रावि तिन्तिडीफलमित्यपि । कुम्भी घण्टाभवं बीजमथ मालविका त्रिवृत् ॥ ३९९ ॥ श्यामार्द्धचन्द्रा विदला कालिङ्गी कालमेष्यपि । मसूरा सुषणी काली त्रिवेला स्यादथापरा ॥ ४०० ॥ कालिन्दी त्रिपुटा काकनासिका ताम्रपुष्प्यपि । अमृताथ त्वचं भृङ्गं वल्कं वल्कलमित्यपि ॥ ४०१ ॥ कलशं सिंहलं वन्यं वराङ्गी मुखशोधनम् । बहुगन्धं च सुरसमुत्कटं रामवल्लभम् ॥ ४०२ ॥ तदेवोक्तं विज्जलं स्याल्लटवर्णं नवप्रियम् । गन्धवल्कं तापसं तु सुरगन्धं च गोपनम् ॥ ४०३ ॥ सुकुमारं च पत्राह्वमंशुकाह्वं च पत्रकम् । तमालपत्रमथ च किञ्जल्कं कनकाह्वयम् ॥ ४०४ ॥ चाम्पेयं नागपर्यायकेसरे नागनामकम् । स्यान्निर्विषात्यपविषा विषहन्त्री विषादिनी ॥ ४०५ ॥ महौषधं विषं चोग्रं वत्सनाभः पुमानयम् । नागपर्यायकश्चाथ षड्ग्रन्थाम्लनिशा वधूः ॥ ४०६ ॥ ;p{0178} सुगन्धमूला च सठी गन्धारी पृथुपर्ण्यपि । समुद्रा तृणपूर्वापि हिमजा गन्धतो वधूः ॥ ४०७ ॥ समुद्रार्थोत्तरं फेनमथ फेनं निफेनकम् । फेनं च खस्खसरसो लोहद्रावी तु टङ्कणः ॥ ४०८ ॥ रसाधिको रसघ्नश्च रङ्गक्षारोऽपि रङ्गदः । सुभगष्टङ्कणक्षारो मलिनो धातुवल्लभः ॥ ४०९ ॥ वर्त्तुलः कणकः क्षारश्चाथन्यच्छ्वेतटङ्कणम् । मालतीतीरसम्भूतं शिवो द्रावकरश्च सः ॥ ४१० ॥ स्यात्कुरण्डो ग्रन्थिफलो विटपो वस्त्रभूषणः । हिमावली च हृद्धात्री कुष्ठघ्नो रागकुष्ठकः ॥ ४११ ॥ ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः । स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥ ४१२ ॥ जलजं लवणक्षारमथ पाक्यो यवाग्रजः । यवसारो यताह्वः स्याद्यवशूकोऽथ षण् सरम् ॥ ४१३ ॥ वज्रक्षारं च धूमोत्थं क्षारश्चेष्टं विदारकम् । वज्रकं स्यादथ पुनर्मलारिः क्षारमेलकः ॥ ४१४ ॥ सर्वक्षारो बहुक्षारो महाक्षारोऽथ मायिका । मायाफलं मायिफलमपिच्छिद्राफलं पुनः ॥ ४१५ ॥ ;p{0179} पानीयालुरनूपालुर्नीलालुः शुक्लकन्दकः । शुभालुर्महिषीकन्दः सर्पाख्यो वनवास्यपि ॥ ४१६ ॥ विषकन्दोथातिहस्तिस्थूलेभ्यः कन्दपत्रकाः । बृहत्त्वग्दीर्घपत्रोऽथ कृमिघ्नो वस्त्रपञ्जरः ॥ ४१७ ॥ कोलकन्दश्च पेटालुः सुपुटः पेटकन्दकः । पिञ्जरोप्यथ वाराही ब्रह्मपुत्री च यष्टिका ॥ ४१८ ॥ विष्वक्सेनप्रिया चापि त्रिनेत्राथ हरिप्रियः। विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः ॥ ४१९ ॥ जलवासी बृहत्कन्दो दीर्घपत्रोऽथ धारणी । चिरपत्री धारणीया कन्दालुश्च सुकन्दकः ॥ ४२० ॥ वनकन्दश्च कन्दाढ्यो दण्डकन्दोथ नाकुली । सर्पगन्धी रक्तपत्री सुगन्धा स्वरसेश्वरी ॥ ४२१ ॥ संमादन्यपरा तु स्यात्सुवहा गन्धनाकुली । महासुगन्धा सर्पाक्षी फणिभुग्विषमर्दिनी ॥ ४२२ ॥ नकुलाढ्या पङ्क्तिमालावारिभ्यः कन्द इत्ययम् । ग्रन्थिपर्णा कन्दलता त्रिशिखाथ विदारिका ॥ ४२३ ॥ शीतशुक्ला स्वादुकन्दा गजेष्टा वाजिवल्लभा । शृगाली वृष्यगन्धा च विडाली वृष्यवल्ल्यपि ॥ ४२४ ॥ ;p{0180} भूकूष्माण्डी कन्दफला सैव स्वादुलतापरा । क्षीरात्कन्दो विदारी स्यादिक्षोर्गन्धा च वल्लरी ॥ ४२५ ॥ पयस्विनी मलघ्नस्तु वनवासी च विजुलः । अपि स्याच्छाल्मलीकन्दश्चाथ चाण्डालकन्दकः ॥ ४२६ ॥ एकद्वित्रिचतुःपञ्चपत्रः सोक्तश्च पञ्चधा । तैलकन्दो द्रावकन्दस्तिलाङ्कितदलश्च सः ॥ ४२७ ॥ करवीराख्यकन्दः स्यात्स चोक्तस्तिलचित्रकः । त्रिपर्णिका बृहत्पत्रा छिन्नग्रन्थिनिका च सा ॥ ४२८ ॥ कन्दालुः कन्दबहुला साम्लवल्ली विषापहा । लक्ष्मणा पुत्रकन्दा स्यात् पुत्रदा मानिनी च सा ॥ ४२९ ॥ नागाह्वा फलिनी मज्जा चासृग्विन्दुच्छदाप्यथ । कामं प्रकामं पर्याप्तं निकामेष्टे यथेप्सितम् ॥ ४३० ॥ रासस्तु गोदुहां क्रीडा गीतिः पारावती स्त्रियाम् । गोपगोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ४३१ ॥ गोदुहोऽप्यथ तद्भेदा गोजाव्युष्ट्रादिपालनात् । गोमहिष्यादिकं पादबन्धनं पदबन्धनम् ॥ ४३२ ॥ गोविन्दो गोष्वधिकृते महिषस्तु रजस्वलः । स्याद्धंसकालीतनयो दंशपर्यायभीरुकः ॥ ४३३ ॥ ;p{0181} महो जरन्तो रक्ताक्षो धीरस्कन्धश्च सैरिभः । यमार्थवाहनार्थोऽपि कृष्णशृङ्गश्च कासरः ॥ ४३४ ॥ श्चङ्कः स्कन्धश्च हेरम्बो हाहः स्याद्गद्गदस्वरः । अश्वपर्यायशत्र्वर्थो लालिकोऽथ वनोद्भवः ॥ ४३५ ॥ गवलो महिषी तु स्याद्धंसकाली तु सैरिभी । कलुषा मन्दगमना महाक्षीरा पयस्विनी ॥ ४३६ ॥ जायमानविषाणाग्रे कटाहस्तच्छिशुर्द्वयोः । गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥ ४३७ ॥ अस्त्री त्रिष्वाशितं गव्यं गावो यत्राशिताः पुरा । गवीनं चाथ वृषभः शाक्करो गोवृषो वृषः ॥ ४३८ ॥ गौरनड्वान् सौरभेयः ककुद्मान् पुंगवो वृषा । उक्षा भद्रो वलीवर्दः शष्करिर्गन्धमैथुनः ॥ ४३९ ॥ मदकोहलगोभर्त्त्रर्षभाः शाङ्कर इट्चरः । शृङ्गी च शृङ्गिणोऽपि स्याद्वहतिर्वहतुः समौ ॥ ४४० ॥ अथ स्याद्गोपतिः शण्डः शण्ठः षण्डश्च षण्ढवत् । महान्महोक्षश्चोक्षतरश्चाथापि स्याज्जरद्गवे ॥ ४४१ ॥ वृद्धोक्षश्चापि जातोक्षः संजातोक्षश्च नूतने । गव्या गोत्रा च धेनूनां संहतौ धैनुकं पुनः ॥ ४४२ ॥ ;p{0182} उक्ष्णां स्यादौक्षकं चाथ वत्सानां वात्सकं पुनः । सद्योजातस्तर्णकः स्याद्दोग्धा वत्सः शकृत्करिः ॥ ४४३ ॥ आटीकनं क्रमस्तेषां दम्यो वत्सतरः पुनः । आर्षभ्यः षण्डतायोग्यः कूटो भग्नविषाणकः ॥ ४४४ ॥ खण्डार्द्धशृङ्गो वण्डस्तु च्छिन्नपुच्छार्थकस्त्रिषु । कालेप्यजातशृङ्गस्तु मुण्डस्तुवरतूवरौ ॥ ४४५ ॥ भुग्नशृङ्गस्तु मीठः स्यात्स्कन्धशृङ्गस्तु दोलितः । मृगशृङ्गे तु हरिणः कूटाद्याः स्युरमी त्रिषु ॥ ४४६ ॥ स्त्रियां ककुत्त्वंसकूटं ककुदं पुनरस्त्रियाम् । स्कन्धप्रदेशे वाहः स्यात्सास्ना तु गलकम्बलः ॥ ४४७ ॥ कण्ठला जालगोणी स्यात्स्त्रियां रेभा तु रेभणम् । पुंसि प्रोथो नासिकाग्रं शफं क्लीबे खुरः पुमान् ॥ ४४८ ॥ शृङ्गमस्त्री विषाणं च स्यात्क्लीबे कूचिका स्त्रियाम् । नसिप्रोतस्तु नस्योतो न स्यितो न स्तितः समाः ॥ ४४९ ॥ अथ स्यान्नासिकारज्जुः स्त्रियां नस्ता नसोतिनी । पृष्ठवाड्युगपार्श्वस्थयुग्यप्रासङ्ग्यशाकटाः ॥ ४५० ॥ हालिकः सैरिको रथ्यस्तत्तद्वोढरि धूर्वहः । धुर्यो धुरीणो धौरेयो धूर्द्धरश्च धुरन्धरः ॥ ४५१ ॥ ;p{0183} तुल्यावेकधुरीणौ द्वौ स्यातामेकधुरावहौ । स तु सर्वधुरीणः स्याद्यस्तु सर्वधुरावहः ॥ ४५२ ॥ गलिर्दुष्टवृषः स स्याद्यः समर्थोऽप्यधूर्वहः । स्थौरी पृष्ठी पृष्ठवाट् स्यात् स्कान्धिकः स्कन्धवाहिकः ॥ ४५३ ॥ षोडन् द्विदन् क्रमात् षड् द्विजातदन्ते वृषेऽथ च । उस्रा स्त्रियां मही माता सुरभी सुरभिर्गवी ॥ ४५४ ॥ अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी । अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥ ४५५ ॥ शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् । कर्वुरा पाटला श्वेता शवली च निलिम्पिका ॥ ४५६ ॥ तुध्रेत्याद्यभिधास्ताः स्युराक्रान्ता वृषभेण या । संधिनी चाप्यथ स्त्री स्याद्वेहद्गर्भोपघातिनी ॥ ४५७ ॥ वृषोपगा स्रवद्गर्भा वतोका सन्धिनी वशा । प्रजनोपसरौ कालः प्रस्रवासन्नकालके ॥ ४५८ ॥ काल्योपसर्या तत्कालयुताथो बालगर्भिणी । स्यात्पलिक्नी तु प्रष्ठौह्यामेकाब्दा त्वेकहायनी ॥ ४५९ ॥ एवं द्वित्रिचतुर्भ्यः स्याद्वर्षपर्यायवाचिका । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥ ४६० ॥ ;p{0184} गृष्टिः सकृत्प्रसूता स्याद्धेनुः स्त्री स्यान्नवप्रसूः । चिरप्रसूर्वष्कयणी वस्कयण्यथ नैचिकम् ॥ ४६१ ॥ निचिकं च शिरस्तस्या बहुसूः स्यात्परेष्टुका । दुःखदोह्या तु करटा दुर्दोह्या चाथ सुव्रता ॥ ४६२ ॥ सैवोक्ता सुखसन्दोह्या पीनोध्नी पीवरस्तनी । स्याद्बहुद्रोणपर्यायक्षीरपर्यायिनीत्यपि ॥ ४६३ ॥ वञ्जुली चाथ धेनुष्या द्यूतादिबन्धने स्थिता । पीतदुग्धा चाथ समां समां यातु विजायते ॥ ४६४ ॥ समांसमीनाथापीनमूधः क्लीबे तु पुंसि वा । स्यादस्त्रियां गोमयं तु पवित्रमुपलेपनम् ॥ ४६५ ॥ शुष्के तत्र करीषोऽस्त्री त्रिषु गव्यं गवामिदम् । शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥ ४६६ ॥ क्लीबे दामं स्त्रियां रञ्जुर्दामन्युष्ट्रः क्रमेलकः । वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥ ४६७ ॥ तालुनाशश्च लम्बौष्ठोऽध्वगो भोलिर्मरुप्रियः । शलो महाङ्गश्च मयो दुर्गपर्यायलङ्घनः ॥ ४६८ ॥ द्विककुत्करभस्तु स्याद्व्यब्द उष्ट्रः शिशुश्च सः । करभाः स्युः शृङ्खलकादारवैः पादबन्धनैः ॥ ४६९ ॥ ;p{0185} अजा संजा सर्वभक्षा चुलुम्पा च गलस्तनी । छागी चाथ पशुश्छागो लम्बकर्णश्च वर्करः ॥ ४७० ॥ शिवादेवप्रियो वस्तः स्तुभः स्याच्छगलोप्यजः । वुष्कोल्पायुश्छागलोऽपि मेनादः पर्णभोजनः ॥ ४७१ ॥ स्थागः परिक्रमसहो जावालस्त्वजजीवनः । मेध्यो मेको महागन्धो भकरश्च पयस्वलः ॥ ४७२ ॥ मेषो रभ्रोरणोर्णायुर्मेढो वृष्णिर्हुडुर्हरः । उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥ ४७३ ॥ पुच्छपर्यायमांसार्थः स्याद्देशान्तरसंभवे । कुररी स्याज्जालकिनी मेषी वेण्यविलारुजा ॥ ४७४ ॥ अविः स्त्री शिशुवाह्यः स्यादिडिश्चाथ कदम्बके । उष्ट्रच्छागोरभ्रकाणामौष्ट्रकं छागकाजके ॥ ४७५ ॥ उरभ्रकं चाथ खरः शुद्धजङ्घश्च धूसरः । शङ्कुकर्णः स्मरस्मर्यश्चक्रीवान् रासभोऽपि च ॥ ४७६ ॥ ग्राम्याश्वश्चिरमेही स्याद्वालेयो रेणुरूषितः । गर्दभः स्यादेकशफः क्रायिकः क्रयिकः क्रयी ॥ ४७७ ॥ एते स्युर्वेः सार्थवाहः स्याद्वैदेशिक इत्यपि । पण्याजीवश्चापणिके व्यापारी निगमोऽपि सः ॥ ४७८ ॥ ;p{0186} स्यान्नागरो नैगमोऽपि वाणिजोऽपि वणिक् पणिः । नीवी परिपणं चापि भाण्डं नीविरपि स्त्रियाम् ॥ ४७९ ॥ अपि मूलधनं चाथ तत्र लाभोऽधिकं धनात् । वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नोप्यवक्रयः ॥ ४८० ॥ वणिक् स्त्रियां वाणिजकं वाणिज्यं स्याच्च तत्र तु । वास्नोप्यथ स्यान्नैमेयः स्यात् क्लीबे परिवर्त्तनम् ॥ ४८१ ॥ परिवर्त्तः परीवर्त्तः परीवर्तनमित्यपि । प्रतिदानं परिदानं दीर्घमध्ये उभे अपि ॥ ४८२ ॥ प्रतिहारः परावर्तो विन्योर्मेयमयावथ । स्यान्निक्षेपस्तूपनिधिर्न्यासश्चाथ तदर्पणम् ॥ ४८३ ॥ प्रतिदानं प्रतीदानं परिदानमतः परम् । परीदानमथ क्रय्यं त्रिषु पण्ये प्रसारितम् ॥ ४८४ ॥ क्रेतव्यमात्रे स्यात् क्रेयं विक्रेयं पणितव्यके । पण्यं चाथ स्त्रियां सत्याकृतिः सत्यापना न ना ॥ ४८५ ॥ सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः । प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः ॥ ४८६ ॥ विपणश्चाथ संख्याः स्युर्गणेयं गण्यमित्यपि । संख्येय एक एकत्वे द्वित्वे तु द्वावुभावपि ॥ ४८७ ॥ ;p{0187} त्र्यादयोष्टादशान्ताः स्युर्वाच्यप्रकृतयः पुनः । एकोनविंशतिस्त्रिंशदित्याद्याः स्युस्त्रिलिङ्गकाः ॥ ४८८ ॥ अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः । ऊनविंशत्यादिकाः स्युः सर्वाः संख्येयसंख्ययोः ॥ ४८९ ॥ विंशत्याद्याः सदैकत्वे स्त्रियां संख्येयसंख्ययोः । संख्यात्वे द्विबहुत्वे स्युस्तासुचा नवतेस्त्रियः ॥ ४९० ॥ ह्रस्वान्ता अपि दीर्घान्ताः स्युरेते विंशतिः पुनः । षष्टिश्च सप्ततिस्तद्वदशीतिर्नवतिः पुनः ॥ ४९१ ॥ एकोनविंशतिश्चैवमेवमेकान्नविंशतिः । एकाद्नविंशतिश्चैवमेकान्नत्रिंशदादयः॥ ४९२॥ द्वाविंशतिर्द्विविंशतिः सप्ताविंशतिरित्यपि । सप्तविंशतिरित्येवं द्वाषष्टिश्च द्विषष्टिभिः ॥ ४९३ ॥ द्वासप्ततिर्द्विसप्ततिरित्याद्यूह्या यथाक्रमम् । द्वौ त्रयो वेत्येवमाद्या द्वित्रास्त्रिचतुरा अपि ॥ ४९४ ॥ त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः । भूचन्द्रभुजनेत्राग्निगुणवेदयुगा अपि ॥ ४९५ ॥ भूतेन्द्रियर्तुतर्कर्षिवाजीभवसवो ग्रहाः । नन्दादिशश्च पङ्क्तिश्च संख्या संज्ञा ह्यनुक्रमात् ॥ ४९६ ॥ यथोत्तरं दशगुणमेकं दशशतं पुनः । सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥ ४९७ ॥ ;p{0188} अब्जं खर्वं निखर्वं च महाब्जं शङ्खवारिधी । अन्त्यं मध्यं परार्द्धं च परार्द्धद्विगुणं परम् ॥ ४९८ ॥ एतदायुः परंधातुः शतवर्षमितं हि तत् । शतं क्लीबे पुंसि वा स्यात् क्लीबे साहस्रमित्यपि ॥ ४९९ ॥ सहस्रमयुतं लक्षा स्त्रियां क्लीबे क्वचिन्मतम् । स्त्रियां क्लीबे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥ ५०० ॥ अस्त्र्यर्बुदं शङ्कुरस्त्री क्लीबे वा पद्ममस्त्रियाम् । पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ५०१ ॥ चमत्कारावहा लोके कलाः स्युश्चतुरुत्तराः । षष्टिर्गीतं वाद्यनृत्ये नाट्यमालेख्यमेव च ॥ ५०२ ॥ तिलकं पुष्परचना पुष्पास्तरणमेव च । रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥ ५०३ ॥ शय्याम्बुवाद्यमस्तम्भश्चित्रोपायाश्च माल्यकम् । केसरापीडनेपथ्ये कर्णभूषासुगन्धकौ ॥ ५०४ ॥ भूषणं चेन्द्रजालं च सुकुमारेण केनचित् । कृता उपाया रूपादौ हस्तलाघवमित्यपि ॥ ५०५ ॥ चित्रशाकं च पूपादि पानकादि च सूचिका । पुत्तलीचालनं वीणा प्रहेलीज्ञानमेव च ॥ ५०६ ॥ ;p{0189} सर्वप्रतिकृतिकृतिरन्यदुर्वचलेखनम् । पुस्तस्य वाचनं शीघ्रं नाटिकाख्यायिकासु धीः ॥ ५०७ ॥ समस्यापूरणं वाणवेत्रादिपट्टिकाकृतिः । तर्कुसाध्यं सूत्रकर्म तक्षणं वास्तुकर्म च ॥ ५०८ ॥ रत्नज्ञानं धातुवादो मण्यादेरपि रञ्जनम् । तदाकारपरिज्ञानं वृक्षायुर्वेद एव च ॥ ५०९ ॥ मेषादियुत्सारिकादिलापमुल्लापनं तथा । वेणीमुष्टिज्ञता म्लेच्छशास्त्रभाषासु नैपुणम् ॥ ५१० ॥ पुष्पस्य शकटीज्ञानं यन्त्रं तद्धारणम् तथा । अभेद्यस्यापि हीरादेर्भेदसंपादनादिकम् ॥ ५११ ॥ मनः समस्यारचनं छलं कोषाद्यभिज्ञता । वस्त्रान्यथाकृतिर्द्यूतमाकर्षः शिशुचेष्टितम् ॥ ५१२ ॥ विघ्नज्ञानं जयज्ञानं वैतालिककवित्वधीः । तुलाद्यैः पौतवं मानम् द्रुवयं कुडवादिभिः ॥ ५१३ ॥ पाय्यं हस्तादिभिरथ जालान्तरगते रवेः । किरणेन्तर्गतं सूक्ष्मं रजसः कणमुत्तमम् ॥ ५१४ ॥ त्रिंशांशस्तस्य विज्ञेयः परमाणुर्द्वयोरयम् । तत्त्रयन्त्रसरेणुः स्यात्तद्द्वयं वंशिका स्त्रियाम् ॥ ५१५ ॥ ;p{0190} षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका । ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥ ५१६ ॥ द्वाभ्यां यवाभ्यां गुञ्जा स्यात्पञ्च ता माषमाषकौ । स एव हेमधान्यो ना तैश्चतुर्भिस्तु शाणकः ॥ ५१७ ॥ टङ्कोऽस्त्री धरणं शाणद्वयं कोलस्तु दंक्षमः । क्षुद्रमोवटकः कोलौ कर्षः पुंसि नपुंसके ॥ ५१८ ॥ अस्त्री हेम्नः सुवर्णं तच्चतुर्भिस्तैः पलं तु षण् । द्वयोर्मुष्टिः स्त्रियां मुष्टी सृपाटं पुंसि वा स्त्रियाम् ॥ ५१९ ॥ तद्वदन्येऽपि विज्ञेयास्तत्र पाणितलं पिचुः । किंचित्पाणिः पाणिमानी करमध्यं च तिन्दुकम् ॥ ५२० ॥ नाक्षो हंसपदं वर्णं विडालपदमित्यपि । उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥ ५२१ ॥ प्रथमं न स्त्रियां पुंसि तृतीयं स्त्री चतुर्दशम् । चतुष्टयं तु कर्षाणां पलमित्यभिधीयते ॥ ५२२ ॥ सुवर्णाक्षे स्वर्णविस्तं कुरुविस्तं तु तत्पले । तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥ ५२३ ॥ आचितः पुंसि वा क्लीबे द्वयं वा दशभारिकम् । मानभेदे भरः पुंसि सहस्रद्वितयैः पलैः ॥ ५२४ ॥ ;p{0191} स एव शाकटो भारः शतमानं तु पुंसि वा । दशभिर्द्धरणैस्तुल्यमथ कार्षापणः पुनः ॥ ५२५ ॥ अपि स्यात्कार्षिकस्तत्र कार्षिके ताम्रिके पणः । पणैश्चतुर्भिः कुडवस्तावद्भिः कुडवैरपि ॥ ५२६ ॥ प्रस्थौ स्त्रियामाढकः स्यात् त्रिषु द्रोणोऽस्त्रियां पुनः । खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२७ ॥ कलशी दशभिर्मुण्डः परीमाणमिदं स्मृतम् । काकिणिः काकिणी तुल्ये काकिनिः काकिनी समे ॥ ५२८ ॥ काकणिः काकणी तद्वत्काकनिः काकनीत्यथ । उड्री मण्डः स्त्रियां तूर्या सैवोक्ता दशमानिका ॥ ५२९ ॥ देशे देशे स्वस्वराज्ये राजभिर्मानकल्पनात् । विशिष्टमविशिष्टं वा ज्ञेयं तत्र तदुक्तिभिः ॥ ५३० ॥ परिमाणप्रमाणज्ञैस्तुलादण्डो द्वयोर्धटः । कण्टकी पुंसि तत्रत्यतौल्यभेदास्तु देशजाः ॥ ५३१ ॥ सेरादिका ये मणान्तास्ते म्लेच्छपरिकल्पिताः । स्वर्णं सुवर्णं कनकं पुरटं निष्कहाटके ॥ ५३२ ॥ चन्द्रमष्टापदं जाम्बूनदमेते नवास्त्रियाम् । तपनीयं शातकुम्भं च द्वयोर्हिमहेमनी ॥ ५३३ ॥ ;p{0192} गैरिकं वसु कल्याणं रजतं भर्म कर्वुरम् । चामीकरं जातरूपं चाम्पेयं वित्तमर्जुनम् ॥ ५३४ ॥ कार्त्तस्वरं लोहवरं महारजतगारुडे । अग्निपर्यायबीजार्थं शुक्रं जीवनमोजसम् ॥ ५३५ ॥ नारं दाक्षायणं श्रीमत्कुम्भै वेणुतटीभवम् । द्रव्यं च स्वापतेयं च रिक्थमृक्थं धनं मघम् ॥ ५३६ ॥ काञ्चनं हिरणं भर्म गाङ्गेयं शतकुम्भजम् । तपनीयं शातकौम्भमभ्रं कर्बूरमित्यपि ॥ ५३७ ॥ जाम्बूनदं चोरुसारं रुक्मं कार्त्तस्वरं पुनः । द्रविणं वरिवः श्वात्रं हिरण्यं रक्तमित्यपि ॥ ५३८ ॥ द्युम्नं स्त्रियौ रा रयी ना कोशोर्थो विभवोऽपि च । शोभोजनं वैणवं च दीप्तं दीप्तकमुज्ज्वलम् ॥ ५३९ ॥ कान्तिस्वरं जाम्बवं स्यात्कलधौतमपि द्वयोः । तद्भूमिजं रसोत्थं च बहुलोहोद्भवं त्रिधा ॥ ५४० ॥ अलंकारसुवर्णं स्याच्छृङ्गी शृङ्गिः स्त्रियामुभे । कोषोस्त्रियामथापि स्याद्धेमरूप्ये कृताकृते ॥ ५४१ ॥ कुप्यं षण् तद्वयादन्यदाहतानाहते समे । तारहेम्नी तु संश्लिष्टे घनगोलकमस्त्रियाम् ॥ ५४२ ॥ ;p{0193} दुर्वर्णं पुंसि वा रूप्यं रूपं रौप्यं यवीयसम् । तारं लोहं वसुश्रेष्ठं रजतं रुचिरं पुनः ॥ ५४३ ॥ कलधौतं रूपसाध्ये श्वेतस्येन्दोर्हिमस्य च । कुमुदस्य च हंसस्य पर्यायि ब्रह्मवर्द्धनम् ॥ ५४४ ॥ सूर्यपर्यायिगात्रार्थं ताम्रं शुल्बमुदुम्बरम् । मर्कटम्लेच्छवक्त्रार्थं वरिष्ठं च कनीयसम् ॥ ५४५ ॥ उदुम्बरं च तद्वत्स्यादौदुम्बरमुदुम्बरम् । नेपालिकं त्र्यम्बकं स्याद्रक्तपर्यायिवर्णकम् ॥ ५४६ ॥ वङ्गं स्यादस्त्रियां रङ्गं पूतिगन्धं हिमस्रवम् । त्रपु क्लीबे पुंसि वा स्यात्त्रपुषं चीनचिप्पटे ॥ ५४७ ॥ नागार्थकं स्यादात्यूषं कुरूप्यं मुखभूषणम् । मधुरश्वेतरूप्यार्थं मृद्वङ्गं गुरुपत्रकम् ॥ ५४८ ॥ मालीनकं सिंहलकं कास्तीरं घनजीवने । अस्त्रियां त्रापुसं चाथ शीसकोऽस्त्री दृगौषधम् ॥ ५४९ ॥ गजं गण्डूपदभवं नागं वम्रे च न स्त्रियाम् । योगीष्टं यवनेष्टं स्यात् कुवङ्गं परिपिष्टकम् ॥ ५५० ॥ वप्रं नीरः सुवर्णारिः सीरपत्रकमित्यपि । मृदुकृष्णायसं पक्ष्यं बन्धकं तारशुद्धिकृत् ॥ ५५१ ॥ ;p{0194} शिरावृत्तं च वङ्गारि वप्रं चापि महाबलम् । कांस्यं सौराष्ट्रकं घोषं कंसीयं ब्रह्मवर्द्धनम् ॥ ५५२ ॥ वह्निदीप्त्यर्थलोहार्थं घोरपुष्पं पवित्रकम् । रवणं लोहजं वङ्गं शुल्बजं च प्रकाशकम् ॥ ५५३ ॥ घण्टाशब्दं विद्युदर्थात्प्रियाहूमसुराह्वयम् । कंसोऽस्त्रियां च ताम्रार्द्धमारमस्त्री तु पित्तलम् ॥ ५५४ ॥ पीतलोहितपर्यायि क्षुद्रस्वर्णार्थसिंहले । रीतिः स्त्रियां रिरी रीरी न स्त्रियामारकूटकम् ॥ ५५५ ॥ अथान्या राजरीतिस्तु ब्राह्मी राज्ञी महेश्वरी । काका तुण्डी च कपिला पिङ्गला लोहसंकरम् ॥ ५५६ ॥ वर्त्तलोहं नीललोहं वर्त्तकं नालिका स्त्रियाम् । कान्तायसमयस्कान्तं कान्तं कृष्णोत्तरं च तत् ॥ ५५७ ॥ महालोहं तच्चतुर्द्धा भ्रामकं चुम्बकं पुनः । मुण्डं कृष्णायसं चेति लोहसारं तथाश्मजम् ॥ ५५८ ॥ अश्मलोहोऽस्त्रियां सारं न स्त्रियां कृमिलोहकम् । तीक्ष्णं शस्त्रायसं कालपिण्डं पिण्डायसं शठम् ॥ ५५९ ॥ आयसं निशितं तीव्रं लोहं खरं? च मुण्डनम् । अयश्चीनोद्भवं धीनं धीवरं कृष्णमामिषम् ॥ ५६० ॥ ;p{0195} आयः कालायसे चास्य विकारे तु कुशी स्त्रियाम् । सिंहाणधूर्तमण्डूरसारणान्यस्य किट्टके ॥ ५६१ ॥ मनःशिला तु कुनटी मनोज्ञा नागजिह्विका । नेपाली रसभेत्ता च मनोगुप्ता च रोचनी ॥ ५६२ ॥ करवीरापि कल्याणी शिलारोगः शिलाऽपि सा । सिन्दूरोऽस्त्री रागरेणुर्द्वयोर्वीररजश्च षण् ॥ ५६३ ॥ नागार्थाद्गर्मपर्यायि रक्तार्थं मङ्गलार्थकम् । गणेशार्थाद्भूषणार्थं संध्यापर्यायि रागि च ॥ ५६४ ॥ सौभाग्यमपि शृङ्गारमथ हिङ्गुलमस्त्रियाम् । सुरङ्गं कर्बुरं रक्तं हिङ्गुलं चूर्णपारदम् ॥ ५६५ ॥ रञ्जनं दरदं म्लेच्छं चित्राङ्गं चापि रञ्जकम् । बर्बरं सुगरं चाथ गैरिकं गिरिमृद्भवम् ॥ ५६६ ॥ गवेधुकं पुंसि रक्तधातुरन्यत्सुरक्तकम् । सुवर्णगैरिकस्वर्णबभ्रुभ्यो धातुरित्यपि ॥ ५६७ ॥ सन्ध्याह्वमथ सौराष्ट्री सुजाता सुरमृत्तिका । स्तुत्याकाक्षी तु मृद्वी स्यान्मृत्सा संघोपि मृत्तलम् ॥ ५६८ ॥ विडालोऽस्त्री चित्रगन्धो हरितालोऽपि तालकः । चित्राङ्गं पिञ्जरं क्लीबे गौरं च नटमण्डनम् ॥ ५६९ ॥ ;p{0196} पीतं काञ्चनकं गौरीललितं कनकद्रवः । शिलार्थाज्जन्तुपर्यायमश्मोत्थं गिरिसम्भवम् ॥ ५७० ॥ गन्धको गन्धपाषाणो गन्धमादनमस्त्रियाम् । पूतिगन्धोऽदिव्यगधः सुगन्धः क्रूरगन्धकः ॥ ५७१ ॥ वटसौगन्धिकः कुष्ठकीटयोररिरित्यपि । गन्धाद्रसोऽयं श्वेतादिवर्णभेदाच्चतुर्विधः ॥ ५७२ ॥ काशीसं धातुकाशीसं केशरं हंसलोमशम् । शोधनं पांशुकाशीसं शुभ्रमन्यन्मलीमसम् ॥ ५७३ ॥ वत्सकं वत्सकाशीसमथ माक्षीकपीतके । पीतमाक्षिकमापीतं माक्षीकं धातुमाक्षिकम् ॥ ५७४ ॥ ताप्यं हेमाह्वयं तारमाक्षिकं स्यादथाञ्जनम् । नादेयं यामुनं कृष्णं चक्षुष्यं वारिसम्भवम् ॥ ५७५ ॥ कापोतं दृक्प्रदं स्रोतोञ्जनं नीलाञ्जनं पुनः । सौवीरमथ चक्षुष्या दृक्प्रसादा मलापहा ॥ ५७६ ॥ कुलाल्यपि कुलत्थाथ कौसुम्भं कुसुमाञ्जनम् । रीतिकं रीतिकुसुमं पौष्करं पुष्पतोञ्जनम् ॥ ५७७ ॥ पुष्पकेतुः पुमांश्चाथ रसोद्भूतं रसाञ्जनम् । वीर्याञ्जनं तार्क्ष्यशैलं रसगर्भं रसायनम् ॥ ५७८ ॥ ;p{0197} कृतकं बालभैषज्यं दार्वीक्वाथ समुद्भवम् । रसनाभामिसारौ द्वावस्त्रियां रसराट् पुमान् ॥ ५७९ ॥ रीत्यां तु धम्यमानायां यत् किट्टं तद्रसाञ्जनम् । तदभावेऽपि कर्त्तव्यं दार्वीक्वाथसमुद्भवम् ॥ ५८० ॥ वल्मीकसारं सौवीरसारं स्रोतोञ्जनं पुनः । कपोतसारं जलजमथ कम्पिल्लकः पुमान् ॥ ५८१ ॥ लोहिताङ्गो रेचनः स्याद्रञ्जनो रक्तचूर्णकः । तुत्थं नीलाञ्जनं नीलं साम्लगर्तामृतोद्भवम् ॥ ५८२ ॥ मयूरतुत्थं नीलाश्म मथान्यद्रयकं पुनः । खर्परी खर्परीतुत्थं चक्षुष्यं रसकं पुनः ॥ ५८३ ॥ अमृतोत्थं च सूतस्तु पारदः पारतो रसः । रसराजो महातेजा रससिंहो महारसः ॥ ५८४ ॥ सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः । शिवाह्वः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥ ५८५ ॥ देवः स्कन्दाङ्गजः स्कन्दो देहतो मृत्युनाशनः । रसधातुर्हरतेजो यशोदः खेचरः पुनः ॥ ५८६ ॥ व्योमार्थाह्वं तु गौरीजमभ्रकं बहुपत्रकम् । शृङ्गं स्यादथ वर्णैश्च शुक्लाद्यैस्तच्चतुर्विधम् ॥ ५८७ ॥ ;p{0198} स्फटी तु स्फटिकी श्वेता रङ्गाङ्गा रङ्गदा पुनः । अपि रङ्गदृढा चाथ खटिनी खटिका खटी ॥ ५८८ ॥ सितधातुर्धवलमृदथ क्षीरी तु दीप्तिकः । वज्रभोपि च गोमेदसंनिभः सौध इत्यपि ॥ ५८९ ॥ स्याद्दुग्धी दुग्धपाषाणोप्यथ कर्पूरनामतः । मण्यन्तः स च कर्पूरमणिः स्यादेवमेव तु ॥ ५९० ॥ आखुनाम पुरः कार्यमतः पाषाण इत्यपि । स च स्यादाखुपाषाणो लोहसंकरकारकः ॥ ५९१ ॥ कङ्कुष्ठं विमलं स्वच्छं तारहेमाभमित्यथ । माणिक्यं शोणरत्नं च तरुणीरत्नमित्यपि ॥ ५९२ ॥ शृङ्गारि रक्तमाणिक्यं रागहृद्रत्नमित्यपि । तत्र रक्ते पद्मरागोऽरुणे सौगन्धिकोऽस्त्रियाम् ॥ ५९३ ॥ कुरुविन्दस्तु पीते स्यादतिरक्तेथ नीलके । गन्धिनीलं चाथमुक्ता स्त्रियां सौम्यापि मुक्तिका ॥ ५९४ ॥ तारोऽस्त्रियां शुक्तिमणिः स्यात् पुंसि च रसोपलः । क्लीबे मुक्ताफलं स्वच्छं बिन्दुरत्नं च मौक्तिकम् ॥ ५९५ ॥ शौक्तिकेयं शीतलं स्यादम्भः सारं च नीरजम् । अपि स्याच्चन्द्ररत्नं च लक्षहैमवतं शुभम् ॥ ५९६ ॥ ;p{0199} शशिप्रियं बिन्दुफलं नक्षत्रं शौक्तिकं च तत् । शंखवंशाब्दशुक्तीनामुदरेभ्यश्च योनयः ॥ ५९७ ॥ शिरोम्भःकरिकोलाहिमकरेभ्यो भवन्त्युत । भौमरत्नं प्रवालोऽस्त्री विद्रुमो नाब्धिवल्लभः ॥ ५९८ ॥ रक्ताङ्कुरोङ्गारमणिः शोणाङ्गश्च लतामणिः । रौहिणेयो मरकतश्चाश्मगर्भो हरिन्मणिः ॥ ५९९ ॥ गारुत्मतो गरारातिर्गरुडोद्गीर्ण इत्यपि । पुष्परागः पीतरत्नं पीताश्मा पीत इत्यपि ॥ ६०० ॥ बुधरत्नं बालवायो रत्नमुख्यस्तु हीरकः । अस्त्रियां वज्रपर्यायनामाभेद्यो शिरोऽपि च ॥ ६०१ ॥ सूचीमुखश्च षट्कोणो दृढरत्नं वरारकः । श्वेतादिवर्णैर्विप्राद्या वर्णाः स्युः क्रमशोस्य तु ॥ ६०२ ॥ पुमान्नीलं सौरिरत्नं नीलाश्मा नीलरत्नकः । स्वर्भानवस्तु गोमेदः सचोत्तममणिः पुनः ॥ ६०३ ॥ वैदूर्यं केतुरत्नं स्यात् प्रावृषं वालवायजम् । माणिक्यमभ्रलोहं च पिचं चापि विदूरजम् ॥ ६०४ ॥ अभ्रलोहश्चाङ्कुरेऽथ गोमेदो वालवायजः । बृहस्पतिमणिश्चाथ स्फटिकस्तु सितोपलः ॥ ६०५ ॥ ;p{0200} अपि स्यान्निर्मलमणिः स्वच्छोथ तपनोपलः । सूर्यकान्तस्तापनः स्यादपि दीप्तोपलश्च सः ॥ ६०६ ॥ अग्निगर्भोऽथ वैक्रान्तो विक्रान्तो नीचवज्रकः । गोनासो गोनसः क्षुद्रवज्रोऽथो संस्रवोपलः ॥ ६०७ ॥ इन्दुकान्तः सिताश्मा स्यादथावर्त्तमणिः पुनः । राजावर्त्तस्तथावर्त्तः पेरोजो हरिताश्मके ॥ ६०८ ॥ पद्मरागः शौक्तिकेयं विद्रुमो गरुडोद्भवः । पुष्परागो वज्रमभि नीलो गोमेदको वृषः ॥ ६०९ ॥ विदूरजोऽपि रव्यादि ग्रहाणां मणयः क्रमात् । अथ लोहितको वज्रस्तथा नीलमहोपलः ॥ ६१० ॥ मुक्ता मरकताद्यानि महारत्नानि सर्वतः । विदूरजः प्रबालोऽपि गोमेदः पुष्परागकः ॥ ६११ ॥ इत्यादीन्युपरत्नानि प्रवदन्ति मनीषिणः । मधूली स्त्री मधु क्लीबे पवित्रं पितृदैवतम् ॥ ६१२ ॥ पुष्पपर्यायासवार्थस्तद्भेदाः स्युः क्रमादमी । माक्षीकं माक्षिकं तत्स्यात्तैलाभमथ भ्रामरम् ॥ ६१३ ॥ विहितं भ्रमरैः स्वल्पैः श्वेतं स्यात्क्षौद्रकं तु तत् । वर्णेन कपिलं चाथ पीताभिः परिनिर्मितम् ॥ ६१४ ॥ ;p{0201} पैतिकं घृतवर्णं तदपरं पुत्तिकाकृतम् । पौत्तिकं स्यात् सारघं तु छात्रं तदपि पिङ्गलम् ॥ ६१५ ॥ यदार्घ्यमपि पिङ्गं स्यादावन्त्यमपरे जगुः । क्षवकं चाथ मधुकवृक्षपुष्परसैश्चितम् ॥ ६१६ ॥ जरत्कार्वाश्रमभवं जगुरन्ये मधूत्तमम् । कुद्दालं स्वर्णसदृशं प्रायो वल्मीकमध्यगम् ॥ ६१७ ॥ तच्च भूकृत्तिकन्दालं पत्रोपरिभवं तु यत् । जलप्रसरणं तैलं चिक्कणं वह्निवल्लभम् ॥ ६१८ ॥ दीपाहारः पुमान् स्नेहश्चाथ तद्योनयः क्रमात् । तिलसर्षपकौसुम्भ क्षुमा खस्खस तूवरी ॥ ६१९ ॥ राजिकैरण्डनिर्गुण्डी करजेङ्गुदचित्रिका । निम्बाक्षशिग्रुकोशाम्राभयाङ्कुल्लमधूलिकाः ॥ ६२० ॥ राजादनं नारिकेलः कर्पूरं त्रपुसं तथा । ईर्वारुरपि कर्कारुः कूष्माण्डालाबु चेत्यपि ॥ ६२१ ॥ ज्योतिष्मती तिलादीनां स्वस्वपर्यायजं क्रमात् । तिलजं सर्षपोद्भूतं तैलं च सार्षपं क्रमात् ॥ ६२२ ॥ उन्नेयमेवं धीमद्भिर्मधूच्छिष्टं तु मादनम् । मधुजं विघसं सिक्थं द्रवकं मक्षिकाश्रयः ॥ ६२३ ॥ ;p{0202} मधुशेषं पीतरागं मधूत्थं मक्षिकामलः । अपि स्निग्धं मधुलको मधुशेषोऽपि न स्त्रियाम् ॥ ६२४ ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । षष्ठः प्रकाण्डो वैश्याख्यः सम्यक् सिद्धिमुपागतः ॥ ६२५ ॥ ;c{इति वैश्यप्रकाण्डः ।} ;v{शूद्रादिप्रकाण्डः} शून्यस्कन्धातकौ शूद्रे यज्रो दासो महत्तरः । ग्रामकूटोऽवरवर्णो वृषलश्च जघन्यजः ॥ १ ॥ आचण्डालं तु संकीर्णा अनुलोमविलोमजाः । त्रिष्वङ्कपाशन्यायेन नखस्था अनुलोमजाः ॥ २ ॥ विलोमजास्तु तावन्त ऐक्येन नवयास्तु ते । ब्रह्माज्ञया कर्मकरा विहिता विश्वकर्मणा ॥ ३ ॥ एषां परस्परोत्पत्त्या बहुभिर्भूरियं वृता । अनूढायां ब्राह्मणस्य क्षत्रियोदरसम्भवः ॥ ४ ॥ पुत्रो मूर्द्धावसिक्ताख्योम्बष्ठो वैश्योदरोद्भवः । शूद्रोदर्यः पारशवः क्षत्रियस्य विशोदरात् ॥ ५ ॥ महिष्यः स्यात्तु शूद्रायामुग्रपुत्रस्ततः परम् । वैश्यात् शूद्रोदराज्जातः करणश्चानुलोमजाः ॥ ६ ॥ षडेते षड् विलोमोत्थाः क्षत्रियाद्ब्राह्मणीभवः । सूतो वैश्याद्ब्राह्मणीजः स्याद्वैदेहिक इत्यपि ॥ ७ ॥ ;p{0203} मागधः क्षत्रियायां स्याच्छूद्राद्वैश्यातनूभवः । आयोगवः क्षत्रियायां क्षत्ताथ ब्राह्मणीभवः ॥ ८ ॥ चण्डालोऽपि च चाण्डालोऽधमः सर्वाधमेषु सः । माहिष्यात्करणीजातो रथकार इतीह दिक् ॥ ९ ॥ अथ पारशवो भिल्लो निषादः पर्वताश्रयः । त्रिष्वितः पुष्करान्ताः स्युः शिल्पी कारुश्च कारुकः ॥ १० ॥ स्त्रियां प्रकृतिः श्रेणिस्तु द्वयोः स्थाने सजातिभिः । कुलकश्च कुलश्रेष्ठी कुलबीजः कुलोद्भवः ॥ ११ ॥ स च स्यात्कुलमित्रो ना मालाकारस्तु मालिकः । आरामिकः पुष्पलावः कुम्भकारश्च मृत्करः ॥ १२ ॥ दण्डभृच्चक्रजीवोऽपि कुलालोप्यथ लेपकः । पुलगण्डः सुधाजीवी तन्तुवायः कुविन्दकः ॥ १३ ॥ कुपिन्दो वायोथ पुनस्तुन्नवायस्तु सौचिकः । रङ्गाजीवः कृणुश्चित्रकारश्चित्रकरोऽपि च ॥ १४ ॥ शस्त्रमार्जः शस्त्रमार्गः शाणजीवोऽसिधावकः । भ्रमासक्तोऽथ पादूकृच्चर्मकारश्च चर्मरुः ॥ १५ ॥ कुरटो लोहकारस्तु व्योकारोप्यथ मुष्टिकः । स्वर्णपर्यायतः कारस्तालो गोजिक इत्यपि ॥ १६ ॥ ;p{0204} नाडिंधमः कलादः स्याच्छौल्बिकस्ताम्रकुट्टकः । कायस्थः कूटकृत्पञ्जीकरः करण इत्यपि ॥ १७ ॥ स्याच्छांखिकः काम्बविकस्तेली धूसरचाक्रिकौ । तिलादिपर्यायतुदः स्नेहकारक इत्यपि ॥ १८ ॥ मणिकारो नैकटिको रथकारस्तु वर्द्धकिः । काष्ठतट् स्थपतिस्त्वष्टा तक्षाथ ग्रामगृह्यके ॥ १९ ॥ ग्रामतक्षोऽथ स्वच्छन्दे कौटतक्षोऽथ नापितः । वात्सीपुत्रो दिवाकीर्त्तिर्मुण्डकोन्तावसाय्यपि ॥ २० ॥ तण्डिवाहो ग्रामणीर्वाश्चौरिको भाण्डिकः पुनः । नखकुट्टः क्षुरी मुण्डी चण्डिलः क्षुरमर्द्यथ ॥ २१ ॥ निर्णेजकः कर्मकीलो रजकः पवनिश्च सः । पवनो वस्त्रपावोऽथ शुण्डारः शुण्डिशौण्डिकौ ॥ २२ ॥ मण्डहारः कल्पपालो मानपर्यायतो वणिक् । अजाजीवस्तु जाबालो देवाजीवस्तु देवलः ॥ २३ ॥ अधमद्विजपर्यायो मायिकः प्रतिहारकः । प्रतीहारः कामलोऽपि कर्मार प्रतिहारकः ॥ २४ ॥ कारावी जङ्गमकुटी सा स्याद्भ्रमकुटीत्यपि । वारित्रा खर्परी मूर्द्धखोलं पत्रपिशाचिका ॥ २५ ॥ ;p{0205} मायाकारः शाम्बरी स्यान्मायी च शाम्बरीत्यपि । शैलालयस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥ २६ ॥ भरताश्च नटाश्चापि चारणाश्च कुशीलवाः । मार्दङ्गिका मौरजिकाः पाणिघाः पाणिवादकाः ॥ २७ ॥ स्याद्वेणुध्मा वैणविको वीणावादी तु वैणिकः । जीवान्तकः शाकुनिको वागुरी जालिकः समौ ॥ २८ ॥ वैतंसिको हिंसकः स्यान्मांसिको मांसविक्रयी । भृतिभुग् भृतिकः कर्मकरो वैतनिकश्च सः ॥ २९ ॥ वार्त्तावहो वैवधिको भारवाहस्तु भारिकः । भारवाडथ नीचस्तु विवर्णः पामरेतरौ ॥ ३० ॥ प्राकृतोऽपसदो जाल्मो निहीनश्च पृथग्जनः । क्षुल्लकप्रैष्यदासेयदासदासेरचेटकाः ॥ ३१ ॥ नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः । पराचितपरिस्कन्नपरजातपरैधिताः ॥ ३२ ॥ भृत्यः कडारो मन्दस्तु तुन्दोनुष्णोलसोपि च । आलस्यः स्यात्परिमृजः शीतो दक्षस्तु पेलवः ॥ ३३ ॥ सूत्थान उष्णश्चतुरः पेशलः पेसलः पटुः । चण्डालोऽपि च चाण्डालः श्वपाचः श्वपचः श्वपक् ॥ ३४ ॥ ;p{0206} अन्तेवासी दिवाकीर्तिर्मातङ्गोपि च पुल्कसः । जनंगमः पुल्कशोऽपि निषादश्च निषत्प्लवः ॥ ३५ ॥ पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः । माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥ ३६ ॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । कौलेयकः सारमेयः शुनको रात्रिजागरः ॥ ३७ ॥ शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः । व्रणोर्वुको स्थिभुक्कीषो रसनालिड्रतव्रणः ॥ ३८ ॥ वान्ताशी दीर्घसुरतः शयालुररतत्रपः । कुर्कुरः शुनकोऽपि स्याद्भषोपि च शुनिः शुनः ॥ ३९ ॥ मुहुःक्रोधी रसायायी शिवारिः सूचको रुरुः । वनन्तपः स्वजातिद्विड् दीर्घनादश्च मण्डलः ॥ ४० ॥ कृतज्ञः स्यात्पुरोगामी स्यादिन्द्रमहकामुकः । कपिलो भषको यक्षो ग्रामार्थेभ्यो मृगार्थकः ॥ ४१ ॥ श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि । विश्वकद्रुस्तु मृगयापर्यायकुशलार्थकः ॥ ४२ ॥ तत्र रोगिण्यलर्कः स्याद्विविधा देशदेशजाः । शुन्यं शुनीरं द्वे तुल्ये स्त्रियां शुन्या समूहके ॥ ४३ ॥ ;p{0207} एषां माता तु सरमा तज्जातिः स्त्री शुनिः शुनी । भषी श्वानी कुक्कुरी च कुर्क्कुरी भषणीत्यपि ॥ ४४ ॥ श्वसंकोचे तु शौनः स्याच्छौवनोऽन्यत्र कथ्यते । स्याच्छुनः सविधं यत्तत्स्थलं ह्युपशुनं पुनः ॥ ४५ ॥ आच्छोटनं न ना क्लीबे मृगव्यं मृगया स्त्रियाम् । पापर्द्धिः पुंसि चाखेटो लुब्धैर्यो दक्षिणे हतः ॥ ४६ ॥ दक्षिणेर्मा दक्षिणारुर्लुब्धपर्याययोगवान् । चोरः पटच्चरो दक्षश्चौरः पाटच्चरः परः ॥ ४७ ॥ मोषकस्तस्करः स्तेन ऐकागारिककुम्भिलौ । पुंसि क्लीबे स्तेनमपि खनिकाखनिकौ समौ ॥ ४८ ॥ रात्रिंचरो रात्रिचरप्रतिरोधिमलिम्लुचाः । शङ्किताक्षर आस्कन्दी वन्दीकारस्तु माचलः ॥ ४९ ॥ कुजम्भिलः सुरङ्गार्हे चिल्लभो हठमोषके । काव्यचोरे चन्द्ररेणुः स्त्रीचोरे रतहिण्डकः ॥ ५० ॥ सन्धिः सुरङ्गा खानिः स्त्री सन्धिवेलाथ तद्भिदः । श्रीवत्सगोमुखाद्याः स्युः क्लीबे स्तैन्यं तु चौरिका ॥ ५१ ॥ चुरा चौरी च चौर्यं षण् स्तेयं लोप्त्रं तु तद्धनम् । कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः ॥ ५२ ॥ ;p{0208} करण्टको धौर्त्यमार्गस्तेयशास्त्रप्रवर्तकः । भ्राता शशोस्य भृत्यस्तु विपुलश्चाचलस्तथा ॥ ५३ ॥ वीतंसो स्त्री पक्षिमृगबन्धोपकरणे पुमान् । उन्माथः कूटयन्त्रं स्याद्वागुरा च द्वयोः स्त्रियाम् ॥ ५४ ॥ मृगाणां बन्धनी रज्जुः शुल्वोऽस्त्री नाव राटकः । रज्जुः स्त्रियां त्रिषु वटी वरत्रा गुणदोरकौ ॥ ५५ ॥ स्त्रियां तन्त्री घटीयन्त्रं स्यादुद्घाटनमित्यपि । कूपाज्जलोद्वाहनं स्यादरघट्टः पुमानयम् ॥ ५६ ॥ करणी लेपनी वेमा वायदण्डश्च पुंस्युभौ । सूत्राणि तन्तवः पुंसि वाणिर्व्यूतिरुभे स्त्रियौ ॥ ५७ ॥ वानी च वानं क्लीबे स्यात्तूलिस्तूली तुरिस्तुरी । स्त्रियः स्युस्तन्त्रकाष्ठेऽपि स्त्रियां सूची तु सेवनी ॥ ५८ ॥ वायदण्डे पुंसि वेमो न वा वेमाथ तत्र तु । तन्त्रवायशलाकायां प्रवाणं च प्रवाण्यपि ॥ ५९ ॥ सेवनं सीवनं स्यूतिस्त्रिषु स्यूतप्रसेवकौ । त्रसरः सूत्रवेष्टे स्याच्चूची सूत्रं तु पिप्पलम् ॥ ६० ॥ पाञ्चालिका पुत्रिका या वस्त्रदन्तादिनिर्मिता । सालभञ्जी लेप्यमयी या सैवाञ्जलिकारिका ॥ ६१ ॥ ;p{0209} स्त्रियः पादूस्तु पन्नध्री मोची प्राणहिता पुनः । उपानत्पादुका पादात्सैवं वीथी रथी हिता ॥ ६२ ॥ विरजा रक्षिणी तद्वदायता पादुरित्यपि । स्त्रियां क्लीबे पादपीठपर्यायमथ तद्भिदः ॥ ६३ ॥ चर्मवल्कलवस्त्रत्वक्तृणकाष्ठादिनिर्मिताः । नध्री वध्री वरत्री स्यादुपनीनो पदायता ॥ ६४ ॥ नद्ध्री वद्ध्री वरत्राथ प्रतिष्कषप्रतिष्कशौ । कशाश्वादेस्ताडनी स्यादथारा चर्मवेधिका ॥ ६५ ॥ स्यात्संदंशः कङ्कमुखं यन्त्रं कुन्दं भ्रमुः पुमान् । तैजसावर्त्तनी मूषा मूषिका मूष इत्यपि ॥ ६६ ॥ स्त्रियामावर्त्तनी चाथ भस्त्राका भस्त्रिका पुनः । प्रसेविका सेविका च चर्मणो वारिपूरणी ॥ ६७ ॥ आस्फोटनी वेधनिका कृपाणी कर्त्तरी समे । दक्षिणोत्तरधारस्तु काष्ठपर्यायतक्षकः ॥ ६८ ॥ वंशोथ वेधनी तु स्याच्छेदन्यथ शरारिका । रन्ध्रकारिण्यथ पुनरारिका करपत्रिका ॥ ६९ ॥ स्यादीषीका तूलिकापि शाणस्तु निकषः कषः । पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥ ७० ॥ ;p{0210} तूलस्फोटनधन्वर्थं पिञ्जनी तूलशोधिनी । पिचुः पुंस्यस्त्रियां तूलं वादरं तन्तुकारणम् ॥ ७१ ॥ कपाललासिका तूललासिका पितिकापि च । तर्कुः स्त्रियां पुनः क्लीबं तद्वत् कर्त्तनसाधनम् ॥ ७२ ॥ वर्त्तनी तूलपीठी च तर्कुशाणस्तु जामिकः । त्रिषु द्वारायणं सूत्रपर्णं यत्तेन वेष्ट्यते ॥ ७३ ॥ निर्वेष्टनं नाडिनीरमेकाष्ठी तूलशर्करा । नाराच्येषणिकाथ स्यात् संपुटस्तु समुद्गकः ॥ ७४ ॥ त्रिषु पेटा पेटिका स्त्री पेटिकः पेटकोऽस्त्रियाम् । स्यान्मञ्जूषा मञ्जुषिका पेडा पेडिरुभे समे ॥ ७५ ॥ मञ्जूषापि स्त्रियां चाथ द्वयोर्विवधवीवधौ । पर्याहारो भरो भारोप्यथापि स्याद्विहङ्गमा ॥ ७६ ॥ विहङ्गिका भारयष्टिस्तदालम्बिनि जालके । शिक्यं क्लीबे पुंसि काचष्टङ्कोऽस्त्री ग्रावदारणः ॥ ७७ ॥ वासी तु तक्षणी पत्रदारकः क्रकचोस्त्रियाम् । करपत्रं पुनः क्लीबे शिल्पं कर्मकलादिकम् ॥ ७८ ॥ स्यादयः प्रतिमा सूर्मी शूर्मी स्वर्णविनिर्मिता । हरिताथ प्रतिच्छाया प्रतिमा प्रतियातना ॥ ७९ ॥ ;p{0211} उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् । प्रतिबिम्बं प्रतिमानमुपमानं नपुंसकम् ॥ ८० ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् । साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥ ८१ ॥ निभसंकाशनीकाशप्रतीकाशोपमादयः । कर्मण्या तु विधा भृत्या भृतिः स्त्री कर्मवेतनम् ॥ ८२ ॥ भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि । स्त्रियां कुटी तु तरला परिस्रुन्मादिनीवती ॥ ८३ ॥ गन्धोत्तमेरा मदिरा मदिष्ठा वारुणी हला । प्रसन्ना मदना हाला काचमाची परिस्रुता ॥ ८४ ॥ वाल्कली कपिशा वीरा काहला कालवाब्धिजा । शुण्डा दैत्या देवसृष्टा माधवी मद्यमस्त्रियाम् ॥ ८५ ॥ कत्तोयं हारहूरं च कापिशायनमित्यपि । चषको रसकः सीधुरस्त्रियां कापिशं च षण् ॥ ८६ ॥ हालाहलोऽस्त्रियां चापि माधवी माधवोपि च । मदो मध्वासवस्तुल्यौ मधु माध्वीक इत्ययम् ॥ ८७ ॥ कपिनाशनमाध्वीके स्यादिरा गन्धमादनी । आसवोलिः पुमान् क्लीबे कल्पमासुतिकृन्मधु ॥ ८८ ॥ ;p{0212} अरिष्टं कश्यं तत्रैव शालिपिष्टकृता सुरा । मैरेयमस्त्रियां क्लीबे माध्वं माधूकमस्त्रियाम् ॥ ८९ ॥ मधूकपुष्परसजा माध्वी साथ गुडोद्भवा । गौडी न ना शर्करोत्थं शार्करं स्यात्तदैक्षवम् ॥ ९० ॥ मृद्वीभवं स्यान्मार्द्वीकं तत्फालमक्षवल्कजम् । आक्षं सर्वे सीधवः स्युः शीतोष्णादिविभेदतः ॥ ९१ ॥ पक्वापक्वविभेदेन चतुर्द्धा तद्भिदा अथ । कादम्बरी नारिकेलतालखर्जूरसम्भवा ॥ ९२ ॥ एवं बहुविधं मद्यं देशदेशसमुद्भवम् । कैलातादि समुन्नेयमथ भक्षणचक्षणे ॥ ९३ ॥ उपदंशोवदंशः स्यान्मद्यपायनमित्यपि । शुण्डापानं मदस्थानं मधुवारा अनुक्रमाः ॥ ९४ ॥ जाङ्गलो जगलः पङ्के मद्यसन्धानमासुतिः । आसवो भिषवोऽपि स्यात् किण्वं तु मद्यबीजकम् ॥ ९५ ॥ नग्नहुर्नग्नहूः पुंसि सुरामण्डाग्रभागके । क्वापि कारोत्तरः कारोत्तमः स्यात्पुनरित्यपि ॥ ९६ ॥ स्त्रीप्रसन्ना षणापानं पानगोष्ठी स्त्रियामियम् । स्युर्गल्वर्कश्च रसकश्चषकश्चास्त्रियामिमे ॥ ९७ ॥ ;p{0213} पानार्थात्पात्रपर्यायमनुतर्षोनुतर्षणम् । वेश्यापतिः पल्लवका भुजङ्गश्च विटश्च सः ॥ ९८ ॥ उपप्लुतस्तु व्यसनी पञ्चभद्रोप्यवप्लुतः । धूर्तोक्षदेवी कितवो द्यूतकृत् कृष्णकोहलः ॥ ९९ ॥ तथैव द्यूतकारश्च दुरोदरदरोदरौ । अक्षधूर्तो देवसभ्यः सभिकः साभिकोऽपि च ॥ १०० ॥ लग्नकः प्रतिभूर्द्यूतकारकस्तृणमत्कुणः । द्यूतोस्त्रियामक्षवती दरोदरदुरोदरे ॥ १०१ ॥ द्यूतबीजं वटी वा ना हिरण्यं च वराटकः । द्वयोर्वराटो वटकः कपर्दः श्वेतकोऽपि च ॥ १०२ ॥ श्वेता कपर्दिका श्वेती चूर्णिः षण् कितवं पणः । परिणायस्तु सारीणां समन्तान्नयने स्त्रियाम् ॥ १०३ ॥ शारिर्द्वयोः स्त्रियां शारी शारोना पाशकः पुनः । अक्षविन्दुत्रिकद्वन्द्वे दुन्दुभी दुन्दुभिः स्त्रियौ ॥ १०४ ॥ अपि स्यात्फलकः पुंसि ततः क्लीबे तु पुंसि वा । अष्टापदं सारिफलं पणद्यूतं समाह्वयः ॥ १०५ ॥ कृतं द्वापरमित्याद्यास्तद्भेदाः स्युरनेककाः । स्याच्चञ्चुरी तिन्तिडी च पञ्चमीसारि शृङ्खला ॥ १०६ ॥ ;p{0214} अष्टनागं नयवटी नयः स्याज्जतुपुत्रकः । अग्लहं चतुरङ्गं स्यान्नयपर्यायतो बलम् ॥ १०७ ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । प्रकाण्डः सप्तमः शूद्रसंज्ञः सिद्धिमुपागतः ॥ १०८ ॥ ;c{इति शूद्रादिप्रकाण्डः ।} ;v{विशेष्यनिघ्नकाण्डः} स्त्रादाराद्यं यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दा विज्ञेयास्तस्य भेदकाः ॥ १ ॥ क्षेमंकरोरिष्टतातिः शिवतातिः शिवंकरः । पुण्यवान् सुकृती धन्यो महेच्छस्तु महाशयः ॥ २ ॥ उदात्त उद्भटोदीर्णमहात्मानो महायशाः । महामनाः कृतार्थस्तु महोत्साहो महोद्यमः ॥ ३ ॥ तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः । निष्णातश्चतुरो विज्ञः प्रवीणो निपुणः पटुः ॥ ४ ॥ छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च । तद्वत्स्यात्कृतकर्मापि छेको दक्षो लघुक्रियः ॥ ५ ॥ विद्रपी तु सहृदयो हृदयालुः कृतीत्यपि । तथा सहृदयोपि स्यादथ वैज्ञानिकः पुनः ॥ ६ ॥ ;p{0215} सैवोक्तः कर्महस्तोपि कुशलश्च कृताननः । पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ ७ ॥ दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि । स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥ ८ ॥ वदान्यो दानशीलः स्यादुदारश्चानुदारवत् । त्यागी च स्थूललक्षोपि वरदस्तु समर्द्धकः ॥ ९ ॥ संयद्वरोप्यभयदे पिङ्गलस्तु बहुश्रुतः । व्रतानुष्ठानसमये कान्तया कामितोपि सन् ॥ १० ॥ तदानुकूल्यं न चरेदसिधाराव्रती च सः । सदा लक्षणसम्पन्नः पुमान् भालाङ्क उच्यते ॥ ११ ॥ मनस्वी बहुविघ्नेपि कार्ये सुस्थिरमानसः । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ १२ ॥ व्युत्पन्नः प्रहतः क्षुण्णः कारणी तु परीक्षकः । तारतम्यविचारज्ञः श्लिकुतः संशयावहः ॥ १३ ॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः । दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ १४ ॥ उत्सुकोत्कण्ठितौ चाथ सरलोदारदक्षिणाः । अपि स्यात्सुकलोर्थस्य दानभोगसमन्विते ॥ १५ ॥ ;p{0216} दोषैकदृक् पुरोभागी साधुसभ्यार्यसज्जनाः । तत्परे प्रसितासक्ता विष्टार्थोद्युक्त उत्सुकः ॥ १६ ॥ प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः । गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ॥ १७ ॥ आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता । भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥ नेताधिपः परिवृढोऽधिकर्द्धिस्तु समृद्धकः । डिङ्गरः किङ्करो भृत्यो दासः प्रेष्यः पराचितः ॥ १९ ॥ परिकर्मी परिस्कन्दनियोज्यपरिचारकाः । भुजिष्योऽभ्यागारिकस्तु कुटुम्बव्यापृतः स यः ॥ २० ॥ पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननो हि सः । निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा ॥ २१ ॥ सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः । वीक्षापन्नो विलक्षेथाधृष्टे शालीनशारदौ ॥ २२ ॥ लक्ष्मीवांल्लक्ष्मणः श्रीमांल्लक्ष्मणो लक्षणोपि च । अथ स्निग्धो वत्सलोऽथ दयालुरपि सूरतः ॥ २३ ॥ स्यात् कृपालुः कारुणिकः स्वतन्त्रस्तु निरङ्कुशः । अपावृतो यथाकामी स्वच्छन्दो निरवग्रहः ॥ २४ ॥ ;p{0217} स्वैर्यधीनस्तु परवान्नाथवान्निघ्नगृह्यकौ । अस्वच्छन्दः पराधीनः परतन्त्रो वशोऽपि च ॥ २५ ॥ आयत्तश्चाथ खलपूः स स्याद्बहुकरोऽपि च । चिरक्रियो दीर्घसूत्रो जाल्मोऽसमीक्ष्यकारिणि ॥ २६ ॥ सेवाहीनः श्लिकुतमस्थूत्कृतः कुष्ठपीडितः । कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकः ॥ २७ ॥ तीक्ष्णोपायेन यो जीवेत्स आयःशूलिकः पुनः । क्रियासु मन्दः कुण्ठः स्यात् क्रियावान् कर्मसूद्यतः ॥ २८ ॥ कर्मक्षमोलङ्कर्मीणः कर्मशूरस्तु कर्मठः । सकार्मः कर्मशीलो यः कर्मकारस्तु तत्क्रियः ॥ २९ ॥ कर्मण्यभुक् कर्मकरः कर्मकारस्तु निर्भृतिः । भृतिको भृतिभुक्कर्मकरो वैतनिकोऽपि सः ॥ ३० ॥ अपस्नातो मृतस्नान आमिषाशी तु शौष्कलः । शौष्कलः शष्कुलः शास्ता देशकोऽथ बुभुक्षितः ॥ ३१ ॥ अप्सातः क्षुधितश्चाथ जिघत्सुरशनायितः । परान्नः परपिण्डाद आशितो घस्मरोद्मरः ॥ ३२ ॥ भक्षकः स्यादथ पुनर्विजिगीषाविवर्जिते । आद्यूनः स्यादौदरिकोऽप्यथ स्वोदरपूरके ॥ ३३ ॥ ;p{0218} कुक्षिंभरिः स्यादुदरंभरिरात्मंभरिः पुनः । सर्वान्नीनस्तु सर्वान्नभोजिपर्याय इत्यपि ॥ ३४ ॥ तथोदरपिशाचः स्यात्तर्षितश्च पिपासितः । पिपासुस्तर्षितस्तृष्णक् पिपासस्तृषितोऽपि च ॥ ३५ ॥ लालसो लोलुपो लिप्सुर्लम्पटश्चाभिलाषुकः । लुब्धो गृध्नुर्गर्द्धनः स्यात्मायी कुरकजालिकौ ॥ ३६ ॥ दण्डाजिनी व्यंसकोथाविनीतः स्यात्समुद्धतः । उन्मदस्तून्मदिष्णुः स्यात्कामुके कमितानुकः ॥ ३७ ॥ कम्रः कामयिताभीकः कामनः कमनोभिकः । कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥ मत्ते शौण्डोत्कटक्षीबाः पञ्चभद्रः परिप्लुते । व्यसनी निर्लक्षणस्तु पाण्डुरपृष्ठ इत्यपि ॥ ३९ ॥ अथ श्लिकुतमो बालः पितृहीनो विनायकः । गेहेनर्दी गृहेशूरः पिण्डीशूरोऽथ दुष्टधीः ॥ ४० ॥ विवशोऽनिष्टबुद्धिः स्यादीर्ष्यालुः कुहनः पुनः । स्यादस्थिरे संकुसुको द्वेष्टात्वनुपदीत्यपि ॥ ४१ ॥ व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च । नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥ ४२ ॥ ;p{0219} कुसुम्भरागोऽतोन्यः स्याद्धरिद्राराग इत्यपि । सुनिश्चितः संशितः स्यात्पुत्रान्नादः कुटीचकः ॥ ४३ ॥ विदग्धो नागसंचारजीवी च शरणार्थकः । अभ्यापन्नश्च तद्वत्स्याद्वीक्षापन्नो विलक्षितः ॥ ४४ ॥ आसीन उपविष्टः स्यादूर्ध्वस्थोर्ध्वदमौ समौ । उत्पश्य उन्मुखे गृह्यः पक्ष्ये न्युब्जस्त्वधोमुखे ॥ ४५ ॥ प्रेतवाहित आविष्टः शान्तो दान्तोऽथ दातरि । दाको दारुश्च मुदिरो वचने स्थित आश्रवः ॥ ४६ ॥ वश्यः प्रणेयो निभृतो विनीतः प्रश्रितः समाः । विधेयो विनयग्राही प्रगल्भः प्रतिभान्विते ॥ ४७ ॥ प्रौढोथ सूक्ष्मदर्शी तु कुशाग्रीयमतिश्च सः । प्रत्युत्पन्नमतिस्तत्कालधीर्मेधाविमेधिरौ ॥ ४८ ॥ धृष्टे धृष्णो वियातश्च धृष्णक् स्यादस्तिमान्धनी । स्यादधृष्टे तु शालीनः शारदोऽथातिकुत्सिते ॥ ४९ ॥ कट्वरश्चाथ षट्प्रज्ञः कामकेलिर्विदूषकः । पिङ्गः पाठविकः पट्टो व्यलीको धूर्त इत्यपि ॥ ५० ॥ पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः । प्रघटाविच्छास्त्रगण्डः प्रपञ्चलविपश्चितौ ॥ ५१ ॥ ;p{0220} समावथो विप्रलब्धो वञ्चितो विकृतोऽपि च । ग्रामेयकस्तु ग्रामीणो ग्राम्यो ग्रामचरोप्यथ ॥ ५२ ॥ दुर्विगाह्यं दुःप्रधृष्यं विषमं स्थपुटं पुनः । अगम्यमनवस्थं स्यात्समे बहलपीवरे ॥ ५३ ॥ प्रेषितस्तु विसृष्टः स्यात्प्रहितः परिसृष्टकः । उल्वणस्तूत्करोद्गाढ उद्धतश्चाथ दैष्टिकः ॥ ५४ ॥ स्याद्दैवतत्परोऽजिह्मः प्रगुणः प्राञ्जलोप्यृजुः । सरलः प्रोष्यः पथिकः समीचीनः समञ्जसः ॥ ५५ ॥ खट्वारूढोऽविनीतः स्यान्मसारमसृणौ समौ । अग्र्योग्रगण्यो ग्रामण्यः श्रेष्ठः शाल्युत्तमः पुनः ॥ ५६ ॥ क्लीबेऽव्ययं प्रधानं स्यादुपाग्रं प्रमुखं पुनः । उत्तमानुत्तमे तुल्ये स्यात्प्रवेकोऽपि राजघः ॥ ५७ ॥ स्थगस्तीक्ष्णोप्यथाशंसुराशंसितरि पातुके । पतयालुः संशयालुः स्यात्संशयितरीत्यपि ॥ ५८ ॥ श्रद्धालुः श्रद्धया युक्ते ग्रहयालुर्ग्रहीतरि । हृदयालुः सहृदये वन्दारुरभिवादके ॥ ५९ ॥ लज्जाशीलोपत्रपिष्णुः स्याद्वर्द्धिष्णुस्तु वर्द्धनः । उत्पतिष्णुस्तूत्पतितोऽलङ्करिष्णुस्तु मण्डनः ॥ ६० ॥ ;p{0221} भूष्णुर्भविष्णुर्भविता वर्त्तिष्णुर्वृष्णुवर्त्तनौ । निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥ ६१ ॥ क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ । शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥ ६२ ॥ क्रोधनः कुहनेर्ष्यालू चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता वासदायी तु शङ्कुरः ॥ ६३ ॥ शरणार्थ्यभिपन्नः स्यात्सान्द्रः स्निग्धश्च मेदुरः । ज्ञाता तु विदुरो विन्दुर्वेदिताथ नमस्यितः ॥ ६४ ॥ अपाचितो नमसितोऽचित आचित इत्यपि । विसृत्वरो विसृमरो विकासी तु विकस्वरः ॥ ६५ ॥ विसारी तु प्रसारी स्याद्घूर्णितः प्रचलायितः । स्वप्नक् शयालुर्निद्रालुर्निद्राणशयितौ पुनः ॥ ६६ ॥ सुप्तः श्लथस्तु शिथिलः प्रतीकप्रतिकौ समौ । प्रतिकूलेऽथापि पुनः पराचीनः पराङ्मुखः ॥ ६७ ॥ प्रतीपोथाप्यवाचीनोऽधोमुखेप्यथ सम्मुखे । सम्मुखीनोथ देवद्र्यङ् देवानञ्चति यः पुनः ॥ ६८ ॥ सहाञ्चति स सध्र्यङ् यो विष्वद्र्यङ् विष्वगञ्चति । यस्तिरोञ्चति तिर्यङ् स सम्यङ् यः सममञ्चति ॥ ६९ ॥ ;p{0222} प्रथमामुख्यवचने किमः कद्र्यङ् भवेदिति । सहिष्णुः सहनः क्षन्ता तितिक्षुर्दमिता दमी ॥ ७० ॥ वदो वदावदो वक्ता वाचोयुक्तिपटुः पुनः । वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥ ७१ ॥ जञ्जपूकस्तु जल्पाको वाचालस्तु विगर्ह्यवाक् । वाचाटः कुरवेऽबद्धमुखे मुखरदुर्मुखौ ॥ ७२ ॥ सूचकोथापि शक्रे तु सुमुखस्तु प्रियंवदः । श्लक्ष्णः प्रगल्भवचनः कुवादः कुवचोऽपि च ॥ ७३ ॥ कद्वदो गर्ह्यवाग्दुर्वाग्यद्वदोनुत्तरेपि च । अथानेडो वर्कटः स्यादधरो हीनवादिनि ॥ ७४ ॥ एडो मूकः कडोऽवाचि स्यादसौम्यस्वरेऽस्वरः । रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥ ७५ ॥ डमरोड्डमरौ तुल्यौ क्रीडासंरम्भनिर्भरे । शास्त्रेष्वधीती मन्त्रेषु नाधीती श्लिकुतोऽप्यथ ॥ ७६ ॥ एडमूकोऽनेडमूको वक्तुं श्रोतुमसज्जिते । तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥ ७७ ॥ देशिके शासकः शास्ता धार्मिको धर्मिकः समौ । निःकाशितोऽपकृष्टोपध्वस्ते न्यक्कृतधिक्कृतौ ॥ ७८ ॥ ;p{0223} आत्तगन्धोभिभूतोरित्याजिताहंकृतिश्च सः । दण्डितो दापितश्चापि साधितोऽथ निराकृतः ॥ ७९ ॥ प्रत्याख्यातः प्रतिक्षिप्तः पत्यादिष्टोपविद्धवत् । निरस्तश्चाप्यधिक्षिप्तस्तुल्यौ विक्लवविह्वलौ ॥ ८० ॥ प्रतिबद्धः प्रतिहतो हतश्चापि मनोहतः । नद्धे बद्धो निगडितः संयतः कीलितः सितः ॥ ८१ ॥ आलानितो यन्त्रितोऽपि स्यात्संदानित इत्यपि । स्थिरेऽसंकसुकश्चाथ विहस्तव्याकुलौ समौ ॥ ८२ ॥ व्यग्रोऽथापि पुनः स स्यात्समुत्पिञ्जश्च पिञ्जलः । भृशाकुलोत्पिञ्जलौ च क्षारिताक्षारितौ पुनः ॥ ८३ ॥ अभिशस्तेऽथोपरक्तो व्यसनार्तो वधोद्यते । संनद्ध आततायी स्यात् कशार्हः कश्य इत्यथ ॥ ८४ ॥ आपन्न आपत्प्राप्तोथ प्रत्याख्याते पुनः पुनः । प्रतिशिष्टो नारकीटः स्वदत्ताशाविहन्तरि ॥ ८५ ॥ द्वेष्यस्त्वक्षिगतो वध्यः शीर्षच्छेद्यो विषेण यः । वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥ ८६ ॥ शिश्विदानः कृष्णकर्मा निकृतस्त्वनृजुः शठः । दोषैकदृक् पुरोभागी द्विजिह्वो मत्सरी खलः ॥ ८७ ॥ ;p{0224} कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ । पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥ स्याद्धूर्तो वञ्चकः पापः क्षुद्रो वञ्चूक इत्यपि । कीनाशश्च कदर्यः स्यात्किंपचानो मितम्पचः ॥ ८९ ॥ दृढमुष्टिर्बद्धकरो निस्वो दुस्थश्च दुर्विधः । दुस्थितो दुर्गतो दीनो दरिद्रोऽकिंचनोऽपि च ॥ ९० ॥ यद्भविष्यो दैवपरस्तर्कुकस्तुवनीयकः । स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥ ९१ ॥ शुभंयुः स्यादहंकारिण्यहंयुर्मित्रवत्सले । मित्रंयुरथ शंवः स्याच्छंयुरात्मसुखार्थिनि ॥ ९२ ॥ स तु पञ्चजनीनः स्याद्भाण्डादिनिरतो हि यः । अनुग्रे सोम्यसौम्यौ द्वौ दीर्घे व्यायत आयतः ॥ ९३ ॥ हर्षणो हर्षुकस्तुल्यौ श्वेतविन्दुयुते द्वयम् । स्यात्पृषत् पृषतस्तद्वत् कान्दिशीको भयद्रुते ॥ ९४ ॥ स च कान्दिशिकोऽपि स्याद्विलीने विद्रुतो द्रुतः । प्रतिवेशी प्रतीवेशी स्यादासन्ननिवासिनि ॥ ९५ ॥ ब्रह्मण्यो ब्राह्मणहितो व्रतदम्भस्त्वकल्कनः । वैरङ्गिको विरागार्हश्चक्षणः कलिलक्षितः ॥ ९६ ॥ ;p{0225} स्याच्चक्षुष्यस्तु सुभगः स्यात्प्रणाय्यस्त्वसंमतः । स्वस्थानस्थः परान्द्वेष्टि यः सगोष्ठश्च उच्यते ॥ ९७ ॥ दिव्योपपादुका देवा नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ९८ ॥ उद्भिज्जास्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् । मनःपर्यायतो हारि हरं ज्ञं रममित्यपि ॥ ९९ ॥ सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् । अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥ १०० ॥ वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् । रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वञ्जुलम् ॥ १०१ ॥ अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् । अभीष्टं वल्लगहृद्यमथासेचनकं हि तत् ॥ १०२ ॥ निकृष्टे प्रतिकृष्टार्वरेफयाप्यावमाधमाः । रोपरेपारमा रेवो निकृष्टः संडमस्त्रियाम् ॥ १०३ ॥ कुपूयकुत्सितावद्यखेटगर्ह्याणका अपि । स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥ १०४ ॥ स्यान्म्लानं कच्चलं तु स्यान्मलदूषितमित्यथ । निर्णिक्तं विमलं वीध्रं पूतं मेध्यं पवित्रकम् ॥ १०५ ॥ ;p{0226} समूढं शोधितं मृष्टं निःशोध्यमनवस्करम् । शून्यं तु वशिकं तुच्छमिरिणं शुन्यमीरिणम् ॥ १०६ ॥ पुंसि क्लीबे नितानं स्यान्मसारं फल्ग्वथापि च । अग्रं प्राग्रं प्राग्रहरमाग्र्यमग्रीयमग्रियम् ॥ १०७ ॥ मुख्यं वर्यं वरेण्यं च प्रबर्हं च प्रबर्हणम् । परार्ध्यानवरार्ध्यौ द्वे पूरणः पूरकः समौ ॥ १०८ ॥ विनाकृतं विरहितं व्यवच्छिन्नं विशेषितम् । भिन्नं स्यादथ निर्व्यूहे मुक्तं यो वातिशोभनः ॥ १०९ ॥ पुष्कलः सत्तमश्चापि श्रेयान् श्रेष्ठो महत्तमः । स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ ११० ॥ सिंहशार्दूलवृषभपुण्डरीकवृषा अपि । वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥ १११ ॥ श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके । क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥ ११२ ॥ सर्व एते प्रशस्तार्थाः स्युरुत्तरपदे स्थिताः । क्लीबेऽप्रधाने तु प्राग्र्यमुपसर्जनमित्यपि ॥ ११३ ॥ विशंकटं पृथु महद्विशाला च विसंकटा । स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥ ११४ ॥ ;p{0227} विसंकटो विशालो द्वे वद्रं वड्रं बृहत्पृथु । पीनं तु पीवरं पीवा बहूरु विपुलं पुनः ॥ ११५ ॥ पीवपीवरभूरिष्ठपुष्टे स्थूलानि भूरि च । स्तोकं पत्रमुत्तमल्पं क्षुल्लकं खुल्लकं पुनः ॥ ११६ ॥ सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः । लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥ ११७ ॥ स्वल्पमल्पं कणीकं च कणिका च कणिः कणी । कणीयोल्पीयमल्पिष्ठमणीयो बहुलं बहु ॥ ११८ ॥ प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः । भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥ ११९ ॥ निविरीशं च भूयिष्ठं पिण्डितं गुणितं हतम् । करम्बितं तु खचितं विरलं शिथिलं श्लथम् ॥ १२० ॥ गणनीयं गणेयं च संख्यातं गणितं पुनः । सर्वविश्वसमाशेषसमस्तनिखिलानि च ॥ १२१ ॥ अनूनाखण्डसम्पूर्णसमग्रसकलानि च । निःशेषाखिलकृत्स्नानि घनं सान्द्रं निरन्तरम् ॥ १२२ ॥ समीपनिकटासन्नसनीडसविधानि च । संनिकृष्टसमर्यादसवेशान्यभितोऽव्ययम् ॥ १२३ ॥ स्याच्चोपकण्ठमभ्यर्णं सदेशाभ्यग्रके पुनः । अभ्यासमभ्याशमपि संसक्ते त्वपदान्तरम् ॥ १२४ ॥ ;p{0228} नेदिष्ठमन्तिकतमं चाव्यवहितमित्यपि । सुदूरेप्यायतं दीर्घं वृत्ते निस्तलवर्त्तुले ॥ १२५ ॥ विषमोन्नतं स्थपुटं बन्धुरं तून्नताननम् । उच्चे प्रांशून्नतं तुङ्गमुदग्रमपि वाच्यवत् ॥ १२६ ॥ स्यादुच्चैरुच्चकैर्नीचैर्नीचकैर्न्यक् च नीचकः । वामनो ह्रस्वखर्वौ चावागग्रेऽवनतानते ॥ १२७ ॥ प्रेङ्खोलितस्तरलितो ललितः प्रेङ्खितः पुनः । अरालं वृजिनं जिह्ममूर्मिमन्नतमित्यपि ॥ १२८ ॥ स्यादावनतमाविद्धं नम्रं बन्धूरबन्धुरे । वक्रं वेकं च कुटिलं भुग्नं वेल्लितमित्यपि ॥ १२९ ॥ वक्रं चाथ प्राञ्जलं स्यात्सरलं पगुणं पुनः । अजिह्ममाकुलं दु स्याद्व्यस्ते प्रगुणमित्यपि ॥ १३० ॥ अनाकुलं शाश्वतस्तु ध्रुवो नित्यः सनातनः । सदातनश्च स्थास्नुस्तु स्थेयान् स्थिरतरोऽपि च ॥ १३१ ॥ एकरूपतया कालव्यापी कूटस्थ उच्यते । स्थावरं स्थावरादन्यच्चरिष्णु जङ्गमञ्चरम् ॥ १३२ ॥ चराचरं त्रसं द्रङ्गं कम्प्रं चरनकम्पने । चटुलं चपलं लोलं चञ्चलं च चलाचलम् ॥ १३३ ॥ ;p{0229} चलं स्यात्तरलं चाथ पारिप्लवपरिप्लवे । अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ १३४ ॥ क्रूरं करेरं जठरं जरठं दृढनिष्ठुरे । मूर्त्तं निवातं निःसन्धि निर्भरं प्रौढमेधितम् ॥ १३५ ॥ प्रवृद्धं प्रतनं प्रत्नं पुराणं च पुरातनम् । प्राणं चिरन्तनं चापि स्त्रीपुराणा पुराण्यपि ॥ १३६ ॥ नवीनो नूतनो नव्यः प्रत्यग्रो नूतनो नवः । अथ स्यात्सुकुमारं तु कोमलं मृदुलं मृदु ॥ १३७ ॥ क्लीबेऽव्ययं त्वनुपदं वाच्यलिङ्गमिदं त्रयम् । अन्वगन्वक्षमनुगमनध्यक्षमतीन्द्रियम् ॥ १३८ ॥ प्रत्यक्षं स्यादैन्द्रियकमेकाग्रस्त्वेकतानकः । एकायनोनन्यवृत्तिः पुंस्यादिः पूर्व आदिमः ॥ १३९ ॥ पौरस्त्यः प्रथमोन्तोऽस्त्री जघन्यश्चरमोन्तिमः । पाश्चात्यः पश्चिमोऽन्त्यश्च स्फुटं स्पष्टं निरर्थकम् ॥ १४० ॥ प्रव्यक्तमुल्वणं मोघं मध्यसीयं दिने पुनः । अग्र्यं स्यादग्रिमं साधारणं सामान्यमित्यपि ॥ १४१ ॥ सर्वैर्गुणैरविकलं वस्तु सस्यकमुच्यते । एकाकी त्वेककश्चैकोऽथान्योन्यतर इत्यपि ॥ १४२ ॥ ;p{0230} इतरस्त्वस्त्वदेकः स्यादन्यार्थेऽन्यतरत्पुनः । द्वन्द्वभिन्नेप्यथोच्चण्डमुत्तालमविलालितम् ॥ १४३ ॥ निरर्गलमबाधं स्यात्प्रसव्यं प्रतिकूलकम् । अपसव्यमपष्ठु स्यादपष्ठुलमपि क्वचित् ॥ १४४ ॥ अपसव्यं शरीरस्य दक्षिणं चाथ संकटम् । संबाधः पुंसि कलिलं गहनं चापि संकुले ॥ १४५ ॥ संकीर्णाकीर्णके चाथ तते विसृतविस्तृते । अन्तर्गतं विस्मृतं स्यात् प्राप्तं प्रणिहितं च तत् ॥ १४६ ॥ वेल्लितप्रेङ्खिताधूतविधुतानि प्रकम्पितम् । आधुतं चाथ निष्ठ्यूतं नुत्तं नुन्नं तथास्तवत् ॥ १४७ ॥ ईरितः क्षिप्त आविद्धः स्यात्परीष्टं तु वेष्टितम् । परिविष्टं परिक्षिप्तं निवृत्तं परिखादिना ॥ १४८ ॥ वेष्टिते मुष्टितं तु स्यान्मुषितं च बलोद्धते । अच्छिन्नमुद्धतं तु स्यादवबर्हितमित्यपि ॥ १४९ ॥ उत्पाटितं प्रवृद्धे तु प्रसृतं शाततेजिते । न्यस्तं निसृष्टं निर्दिष्टं पूजितोपचिते समे ॥ १५० ॥ गूढं गुप्तं गुण्ठितं च मूषितं चाप्यथ द्रुतम् । उदीर्णं स्यादथोद्गीर्ण उद्यते काचितं पुनः ॥ १५१ ॥ ;p{0231} शिक्यिते लज्जिते ह्रीतो ह्रीणो रोमाञ्चितस्त्वसौ । हृष्टरोमाथ पष्कः स्याद्विनाशोन्मुख इत्यपि ॥ १५२ ॥ व्यावृत्तस्तु वृतो वृत्तः संयोजित उपाहितः । स्यान्मारितः संगमितः संस्थितो मृत इत्यपि ॥ १५३ ॥ प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् । संगूढस्तु संकलितोवगीतः ख्यातोवगर्हणः ॥ १५४ ॥ अथापि चैवं सर्वस्तु विश्वः समसिमावपि । इदं प्रत्यक्षनिर्देश्यमेतन्नेदिष्ठवर्त्ति तत् ॥ १५५ ॥ विप्रकृष्टं च तददः परोक्षे तत्त्यदित्यपि । तदर्थप्रतियोगी यः स्वात्माहं त्वं परात्मनि ॥ १५६ ॥ पूज्ये भवान् किं जिज्ञास्ये कतरस्त्वन्तरे द्वयोः । कतमो भूयसामित्थं ज्ञेया अन्यतरादयः ॥ १५७ ॥ प्रत्यनन्तरपार्श्वस्थानन्तरं चापदान्तरम् । स्याद्विविधो बहुविधो नानारूपः पृथग्विधः ॥ १५८ ॥ अधरीणो धिक्कृतः स्यादवध्वस्तोवचूर्णितः । अनायासकृतं फाण्टमबद्धोच्छृङ्खले समे ॥ १५९ ॥ स्यादसंबद्धमुद्दामं निष्पक्वं क्वथितं समे । क्षीराज्यपयसां पाके श्रितं निर्वाणमित्यपि ॥ १६० ॥ ;p{0232} मुनिवह्न्यादिके चाथ निर्वातो विगतानिले । गूतं गूनं हत्तं हन्नं मूत्रिते मीढमित्यपि ॥ १६१ ॥ पुष्टे तु पुषितं सान्त्वे क्षान्त उद्भ्रान्त उद्धते । दान्तस्तु दमिते शान्तः शमिते प्राथितेर्दितः ॥ १६२ ॥ ज्ञप्तस्तु ज्ञापितेच्छन्नश्छादिते पूजितेऽर्चितः । पूरिते भरितः पूर्णः क्लिष्टस्तु क्लेशिते पुनः ॥ १६३ ॥ सितस्त्ववसिते दग्धे प्रुष्टः प्लुष्टस्तथोषितः । वेधितश्छेदितो विद्धे विन्नो वित्तो विचारितः ॥ १६४ ॥ निष्प्रभे विगतारोकस्तक्षुप्रक्षू तनूकृते । सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १६५ ॥ ऊतं स्यूतमुतं तद्वत्प्रोतं स्यात्रं तु संतते । नमस्यितं नमसितं तथा स्यादपचायितम् ॥ १६६ ॥ अचितोपचिते चाथ वरिवस्यितमित्यपि । वरिवसितोपचरिते स्यादुपासितमित्यपि ॥ १६७ ॥ संतापितस्तु संतप्तो दूनो धूपायितोऽपि च । धूपितोथ प्रमुदितः प्रह्लन्नस्तृप्त इत्यपि ॥ १६८ ॥ प्रोतो हृष्टश्च मत्तोथ दातं छिन्नं दितं छितम् । वृक्तं छातं च लूनं च कृत्तमप्यथ विच्युतम् ॥ १६९ ॥ ;p{0233} स्रस्तं ध्वस्तं स्कन्नभृष्टे गलितं निचिताचिते । अपवाहितं स्थगितं पिहितान्तर्हिते समे ॥ १७० ॥ लब्धमासादितं प्राप्तं भूतं विन्नं च भावितम् । अन्वेषितं तु मृगितं मार्गितं च गवेषितम् ॥ १७१ ॥ असंयुक्ते त्वमिलितमन्तर्गडु निरर्थके । सान्द्रमार्द्रं तथा क्लिन्नं तिमितं स्तिमितं समम् ॥ १७२ ॥ समुन्नमुत्तं त्रातं तु गुप्तं गोपायितं पुनः । अवितं रक्षितं त्राणमथावगणितं पुनः ॥ १७३ ॥ अवज्ञातं चावमतं परिभूतेऽवमानितम् । उत्सृष्टं विधुतं धूतं त्यक्तं हीनं समुज्झितम् ॥ १७४ ॥ अवकीर्णमधःक्षिप्ते न्यञ्चितं स्यादुदञ्चितम् । ऊर्ध्वक्षिप्तेऽथ क्षुरितं रचितं दत्तमर्पिते ॥ १७५ ॥ कृष्टं स्यादर्च्चितं श्यानं शीनं चापि सितेऽन्विते । अन्वीतं स्यादथाख्यातं जल्पितं लपितं पुनः ॥ १७६ ॥ भाषिताभिहिते चोक्तमुदितं चाथ बुद्धिते । बुद्धं च मनितं चाथ विदितं प्रतिपन्नकम् ॥ १७७ ॥ अवगतं चाथसितमूरीकृतमुरीकृतम् । अङ्गीकृतं प्रतिज्ञातमाश्रुतं चोररीकृतम् ॥ १७८ ॥ ;p{0234} स्यात्संगीर्णं त्वविदितं संश्रुतं च समाहितम् । उपश्रुतं चोपगतं प्रकाशे प्रकटं पुनः ॥ १७९ ॥ विशदं चाथ शस्तं स्यादीडितं च पणायितम् । पनायितं च पणितं पनितं प्रणुतं पुनः ॥ १८० ॥ स्तुतं स्यादीडितं गीर्णं वर्णितं चाप्यभिष्टुतम् । भक्षितं चर्वितं भुक्तमाशितं ग्रस्तखादिते ॥ १८१ ॥ गिलितं प्रत्यवसितं लिप्तं प्सातं तथा पुनः । जग्धं चैवाभ्यवहृतमन्नं क्षेपिष्ठ इत्यपि ॥ १८२ ॥ प्रेष्ठो वरिष्ठः क्षोदिष्ठो वंहिष्ठश्च स्थविष्ठकः । स्फेष्ठो द्राधिष्ठसाधिष्ठौ गरिष्ठोऽपि तथा पुनः ॥ १८३ ॥ ह्रसिष्ठश्च वसिष्ठश्च प्रकर्षार्था अमी पुनः । पीवरोऽभीप्सितः क्षुद्रः पृथुः क्षिप्रो बहुस्तथा ॥ १८४ ॥ वृन्दारको वामनस्तु गुरुर्वड्रो गुरुस्तथा । बाढश्च व्यायतश्चैतेऽतिशयार्थाः स्मृता इति ॥ १८५ ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । विशेष्यायत्तकाण्डोऽयमष्टमः पूर्णतामगात् ॥ १८६ ॥ ;c{इति विशेष्यनिघ्नकाण्डः ।} ;v{सङ्कीर्णकाण्डः} प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् । विधिर्विधानं कर्मास्त्री क्रिया कृत्या विधा कृतिः ॥ १ ॥ ;p{0235} अपि तत्कर्मसातत्ये स्युरेवमपरस्पराः । साकल्यं साङ्गवचने पारायणपरायणे ॥ २ ॥ अतिवेगेन वेदादेः सम्यक् पारस्य दर्शने । तुरायणं तत्र स्यात्त्वरयाऽत्वरयापि वा ॥ ३ ॥ तदेव पारणं क्लीबे स्युरेते पुरतः स्त्रियाम् । यदृच्छा स्वैरिता हेतुशून्या त्वस्या विलक्षणम् ॥ ४ ॥ शमथस्तु शमः शान्तिः प्रशान्तिः प्रशमः पुनः । उपशान्तिश्चोपशमो दान्तिस्तु दमथो दमः ॥ ५ ॥ अवदानं कर्मवृत्तं काम्यदानं प्रवारणम् । वशक्रिया संवननं स्यात्संवदनमित्यपि ॥ ६ ॥ विधूननं विधुवनं मूलैः कर्म तु कार्मणम् । पर्याप्तिः स्त्री परित्राणं तर्पणं प्रीणनावने ॥ ७ ॥ स्याद्धस्तवारणं चाथ स्यूतिः सेवनसीवने । स्त्रियां भिदानो विवरः स्फुटनं तु नपुंसकम् ॥ ८ ॥ परिवारः परीवारः स्वीये परिजने मतः । परिवापः परीवापः स्थाप्ये बीजे परिच्छदे ॥ ९ ॥ परिहारः परीहारोऽधीकारोऽप्यधिकारवत् । प्रस्रावस्तु स्रवः स्रावोऽनुहारोऽप्यनुकारवत् ॥ १० ॥ ;p{0236} ------------- प्रेषणे स्यान्मदे मादोऽथ धारणम् । धरणेथ भरो भारः प्रणयः सान्त्वनाऽपि च ॥ ११ ॥ तथा चानुनयोऽथ स्यान्मृगया मृगणा मृगः । स्यान्मार्गणा मृगो घातेऽप्याघातश्च विघातकः ॥ १२ ॥ अभिषङ्गस्त्वभीषङ्गः स्यादाक्रोशनमित्यपि । संमूर्छनमभिव्याप्तिः संवेदो वेदना न ना ॥ १३ ॥ व्याप्यं तु साधनं कर्म करणं साधकोत्तरम् । स्तनाभोगस्तनभरश्चाजर्यं संगते युतम् ॥ १४ ॥ अपि स्याल्लहुडस्वल्पे सोमालं कुसुमाकरे । पुंस्यखट्टिः स्त्रियां खाटी खाटिर्गरणगूरणे ॥ १५ ॥ स्नपनं स्नापनं तुल्ये परभागः स्वसम्पदि । गुणोत्कर्षोऽपि भङ्गिस्तु वाक्कृतावप्लुते प्लवः ॥ १६ ॥ स्त्रियां श्लिषाङ्कपालिः स्यादङ्कपाल्युपगूहनम् । क्लीबे परीरम्भणं च स्यादालिङ्गनमित्यपि ॥ १७ ॥ आश्लेषश्च परीरम्भः संश्लेषः परिरम्भणम् । समुद्रपर्यायगृहं जलयन्त्रगृहे पुनः ॥ १८ ॥ क्रीडाक्रीडकयोर्देवसेवायां सेवकेन यः । स दायो दानं दुर्जातं दुःसमं चासमञ्जसम् ॥ १९ ॥ ;p{0237} विषाक्तबाणनिहतौ कलञ्जौ मृगपक्षिणौ । याञ्चा तु याचना भिक्षाऽभ्येषणाऽप्यर्दनाऽपि च ॥ २० ॥ अर्दनी चार्दनिरपि स्त्रियः स्युः प्रार्थनार्थना । अभ्यर्थना भिक्षणा च मार्गणामूः स्त्रियश्च षण् ॥ २१ ॥ अथाप्यानन्दनं चाप्रच्छनं चापि सभाजनम् । ग्रन्थनं ग्रथनं गुम्फः प्रतिपत्तिः प्रगल्भता ॥ २२ ॥ प्रभुता प्रभवन्ती स्यात्संदर्भो रचना न ना । दवथुः परितापः स्याद्दाक्षिण्यमनुकूलता ॥ २३ ॥ प्रणिपातस्त्वनुनयः प्रणतिः सान्त्वनं पुनः । अपि ग्लानिस्तु क्लमथुरनुतापो विसूरणम् ॥ २४ ॥ कल्पानुताप्यकौ मान्द्यमालस्य चयने चयः । वर्द्धना वञ्चनाऽपि स्याद्विचेष्टा विक्रमे समे ॥ २५ ॥ अथावृतं त्वाशयः स्यादपज्ञानमपात्ययः । निभालनं निशमनं द्योतनं चावलोकनम् ॥ २६ ॥ निशामनं शिते शातं निशितं तेजितं समम् । स्यादाशंसनमाघोषो विगानं वचनीयता ॥ २७ ॥ स्याद्वितर्को विकल्पोऽपि ह्यत्याधानमतिक्रमः । वीप्सा क्रमोऽथ प्लवनं प्लवोऽथाप्यवसन्नता ॥ २८ ॥ ;p{0238} सादः खेदश्च निर्वेदः उपादानं च संग्रहः । क्रीडावियोगौ हानं च परित्यागोऽप्यथापि च ॥ २९ ॥ भणितं स्यादाच्छुरितं गोमुखं तूपलेपनम् । वर्द्धापनार्थं यत्पूर्णपात्रं पूर्णानकं च तत् ॥ ३० ॥ लेशस्तूपपदं गन्धोऽनुबन्धेषत्करावपि । गालिर्गाली स्त्रियौ क्लीबे विकल्पेऽप्यवमर्षणा ॥ ३१ ॥ स्यादाक्रोशनमाक्रोशः शपनं शमनं शमः । वप्रस्तु धूलिकेदारः प्सा वीतिर्भक्षणं च सा ॥ ३२ ॥ मैत्रेयिका मित्रयुद्धं प्रत्ययाः सहकारिणः । अथ हेतुरुपादानं व्याप्यं लिङ्गं च साधनम् ॥ ३३ ॥ अनुमा त्वनुमानं स्यात्पुंसि चानुमितिः स्त्रियाम् । प्रत्यक्षोपाक्षमध्यक्षं प्रमाणं प्रमितिः प्रमा ॥ ३४ ॥ आप्तः प्राप्तः प्रणिहिते दोहनं तूपयाचितम् । भ्रमो ना विस्मृतिश्च स्त्री धन्धो धान्ध्यमपाटवम् ॥ ३५ ॥ ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः । रामेण रावणवधो रामायणमथोच्चयः ॥ ३६ ॥ वस्त्रग्रन्थिश्च नीवी स्यात्कौमुदी कार्तिकोत्सवः । आवेशारम्भसंरम्भाः प्रियवाक् चटुचाटुनी ॥ ३७ ॥ ;p{0239} प्रतिरूपं प्रतिच्छेदः सवेशनरतिक्रिये । शालीनीकरणन्यग्भावने गन्धनसूचने ॥ ३८ ॥ भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च । वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥ ३९ ॥ संप्रदायोऽथ विश्रम्भो विश्वासोऽथ क्षये क्षिया । ग्रहे ग्राहो वशः कान्तौ रक्षा त्राणे रणः क्वणे ॥ ४० ॥ व्यधा वेधे पचा पाके विपाकः पचनं पुनः । विश्रामविश्रमौ तुल्यौ हवो हूतौ वरो वृतौ ॥ ४१ ॥ ओषः प्लोषे नयो नाये ज्यानिर्जीर्णिर्भ्रमो द्वयोः । स्त्रियौ भ्रमिर्भ्रमी च द्वे स्फातिर्वृद्धौ च भक्षणे ॥ ४२ ॥ वृत्तेऽनुवृत्तमावृत्तं प्रीणने तर्पणेऽवनम् । बोधे बोधिः प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्तुतिः स्तवे ॥ ४३ ॥ विधा समृद्धौ स्फुरणं स्फुलनं स्फुरितेऽपि च । उत्कर्षोऽतिशये संधिः श्लेषे विषय आशये ॥ ४४ ॥ क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे । उन्नाय उन्नये श्रायः श्रयणे जयने जयः ॥ ४५ ॥ निगादो निगदे मादो मद उद्वेग उद्भ्रमे । विमर्दनं परिमलेऽभ्युपपत्तिरनुग्रहे ॥ ४६ ॥ ;p{0240} फालिः फाली स्त्रियां छेदे खण्डोऽस्त्री रदनं रदः । विधूननं विधुवनं धुवनं च विधूवने ॥ ४७ ॥ संक्षेपे च समाहारः संग्राहः संग्रहः समौ । आप्तिर्व्याप्तिश्च संप्राप्तिः पर्याप्तिः प्राप्तिरित्यपि ॥ ४८ ॥ कामः काम्ये ग्रहे ग्राहो ग्लपनं ग्लापनं समम् । असद्ग्राहे संसरणं संसारः संसृतिः स्त्रियाम् ॥ ४९ ॥ तुल्यान्यशौचमाशुच्यमाशौचं चाथ पैशुनम् । पैशुन्यमथ नैपुण्यं नैपुणं चाथ चापलम् ॥ ५० ॥ चापल्यमथ सौहार्दं सौहृदप्यं च सौहृदम् । इत्यादयः क्रियाशब्दा ऊह्या धातुजलक्षणैः ॥ ५१ ॥ अभियोगस्त्वभिषहो निग्रहस्त्वननुग्रहः । मुष्टिबन्धस्तु संग्राहो डिम्बो डिम्बिरविप्लवौ ॥ ५२ ॥ बन्धनं प्रसितिश्चारः स्पृष्टिः स्पशोपतप्तता । विकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ ५३ ॥ परिणामो विकारः स्याद्विकृतिर्विक्रिया समे । अपहारस्त्वपचर्या समाहारः समुच्चयः ॥ ५४ ॥ प्रत्याहार उपादानं विहारस्तु परिक्रमः । अभिहारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ॥ ५५ ॥ ;p{0241} अनुहारोऽनुकारः स्यात्सादृश्येऽथार्थवर्त्तनम् । व्ययः संकटसंबाधौ परिपाट्यानुपूर्व्यपि ॥ ५६ ॥ निर्बन्धाऽभिनिवेशः स्यात्प्रवेशोन्तर्विगाहनम् । स्यात्प्रवृत्तिस्तु प्रवाहः प्रवहो गमनं बहिः ॥ ५७ ॥ वियामो विगमे दिग्धं प्लुते चीर्णं तु शीलितम् । श्वभ्रोऽवपातो ज्ञानं तु समज्ञा स्यान्मुदागमः ॥ ५८ ॥ हृल्लेखस्तर्क उत्सिक्त उद्धतो राजमल्लकः । प्रमुखं तु तदात्वं स्यात्सहायाः सहभाविनः ॥ ५९ ॥ षोढा षड्ढा च षड्धा स्यात् प्रकारवचने पुनः । द्वैविध्यं द्विविधं यामो यमसंयामसंयमाः ॥ ६० ॥ व्यायामोऽपि वियामश्च वियमो यमकः पुनः । हिंसाकर्माभिचारः स्याज्जागर्या जागरा समे ॥ ६१ ॥ विघ्नोऽन्तरायः प्रत्यूह उपघ्नस्त्वन्तिकाश्रये । स्यातां निवेशनिर्वेशावुपभोगः परिक्रिया ॥ ६२ ॥ परिसर्पोऽथ विधुरं परिश्लेषेऽप्यथाश्रयः । छन्दाशयौ समसनं संक्षेपणमथापि च ॥ ६३ ॥ परिसर्या परीसारः स्यादास्या त्वासना स्थितिः । विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥ ६४ ॥ ;p{0242} स्यान्मर्दनं संवहनं विनाशः स्याददर्शनम् । संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥ ६५ ॥ लवो निलावो लवने निः पावः पवनं पवः । स्यात्प्रस्तावस्त्ववसरः प्रश्रयप्रणयौ समौ ॥ ६६ ॥ धीशक्तिर्विक्रमो दुर्गसंचरः संक्रमोऽस्त्रियाम् । प्रत्युत्क्रमः प्रयोगार्थः स्यात्प्रक्रम उपक्रमः ॥ ६७ ॥ स्यात्प्रत्यादानमुद्घात आरम्भः संभ्रमस्त्वरा । अनुक्रमः क्रमोऽथ स्यात् क्रान्तोऽधिक्रम आक्रमे ॥ ६८ ॥ आरोहणं प्रतिक्रमो व्युत्क्रमस्तु क्रमोत्क्रमः । हीनातिरिक्तता वाक्यहीने नीवाक इत्यपि ॥ ६९ ॥ निवाकश्च प्रवाकश्च संनिधिः संनिकर्षणम् । प्रतिबन्धः प्रतिष्टम्भोऽवनायस्तु निपातनम् ॥ ७० ॥ स्याच्चावनयनं चोपलम्भस्त्वनुभवोऽपि च । विप्रलम्भो विप्रयोगः समालम्भो विलेपने ॥ ७१ ॥ विश्रावस्तु प्रतिख्यातिर्विलम्भस्त्वतिसर्जनम् । निपाठो निपठः पाठेऽवेक्षा तु प्रतिजागरः ॥ ७२ ॥ तेम तेमः समुदने स्यादादीनव आस्रवः । केशेऽथ मेलके मेलः संगमोऽथावलोकनम् ॥ ७३ ॥ ;p{0243} निर्वर्णनं स्यान्निध्यानमीक्षणं दर्शनं समम् । प्रत्याख्याने निरसनं प्रत्यादेशो निराकृतिः ॥ ७४ ॥ उपशायो विशायश्च शयनार्थाभिधायिनौ । आर्त्तनं च ऋतीया च घृणीया च घृणार्थके ॥ ७५ ॥ व्यत्यासस्तु विपर्यासो व्यत्ययश्च विपर्ययः । पर्यायातिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ७६ ॥ प्रेषणं यत्समाहृत्य तत्तु स्यात्प्रतिशासनम् । ससंस्तावस्तु विज्ञेयः स्तुतिभूमिर्द्विजन्मनाम् ॥ ७७ ॥ काष्ठे निधाय यत्काष्ठं तक्ष्यतेऽधः स उद्घनः । स्तम्बघ्नस्तु स्तम्बघनो येन स्तम्बो निहन्यते ॥ ७८ ॥ आविधो विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ७९ ॥ निगारोद्गारनिक्षावा उद्ग्राहो गरणादिषु । उपरामे त्ववाविभ्यो रतिर्नाशस्त्वभावके ॥ ८० ॥ संमूर्च्छनं त्वभिव्याप्तिरवेक्षा प्रतिजागरः । जीवकस्तु प्रयासः स्यात्परिणामस्तु विक्रिया ॥ ८१ ॥ नियोगो विधिसंप्रेषो विनियोगः फलार्पणम् । स्याद्विश्वासस्तु संरम्भः क्लीबे निष्ठेवनं पुनः ॥ ८२ ॥ ;p{0244} निष्ठीवनं च निष्ठेवो निष्ठ्यूतिश्च स्त्रियामियम् । जूतिः स्याज्जवनेऽथापि तद्वदेवावसानके ॥ ८३ ॥ सातिर्जूतिर्ज्वरेऽथैवमुदजः प्रेरणं पशोः । अकरणिस्त्वजीवनिश्चाभवनिरजननिः ॥ ८४ ॥ शब्दा इत्यादयः प्रायो विज्ञेयाः क्षेपणार्थकाः । गोत्रान्तेभ्यस्तस्य वृन्दमेवमौपगवादिकम् ॥ ८५ ॥ आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । मानवानां तु मानव्यं सहायानां सहायता ॥ ८६ ॥ हल्या हलानां ब्राह्मण्यं ब्राह्मणानामथापि च । वाडवानां तु वाडव्यं पर्शूनां पार्श्वमित्यपि ॥ ८७ ॥ पृष्ठानामपि पृष्ठ्यं स्यात्खलानां खलिनी स्त्रियाम् । खल्या मानुष्यकं नॄणां ग्रामता जनतापि च ॥ ८८ ॥ धूम्या पाश्या तथा गण्या गव्या साहस्रमित्यपि । कारीषं वार्मणं चाथाथर्वर्णं चापि वार्द्धकम् ॥ ८९ ॥ चर्चुराकं धनुकृता ववहारो वहारणम् । युद्धस्य वारणे स्यात्तु श्च्योतः प्राघार इत्ययम् ॥ ९० ॥ आज्यादिक्षरणे यत्तु कुङ्कुमादिविमर्दनम् । तस्मिन्परिमलः स्यात्तु प्राद्वदीकरणग्रहिः ॥ ९१ ॥ ;p{0245} आङो हठे परेस्तु स्यात्प्रत्युद्गमनकर्मणि । प्रतेस्तु स्वीकृतौ सोभेरभियोगे समस्तु सः ॥ ९२ ॥ संचये चाहिताधाने तद्विरुद्धे तु नेः परः । उदस्तु पिच्युपन्यासे ग्रहणे तु प्रतीच्छतिः ॥ ९३ ॥ स्पशश्चारक्रियायां तु शमति स्वेच्छया गते । अवाद्वलानत उदस्तुङ्गत्वे विकृतौ परेः ॥ ९४ ॥ प्रात्करोतिर्भेदसाम्ये आहाङस्त्वाकृतिं पुनः । अपाद्विरोधं भूषा तु समोऽनोस्तु समानताम् ॥ ९५ ॥ अधेः प्रधानतां नेस्तु जैह्म्यं हृस्तु समुच्चये । समाङ्भ्यां संयमे प्रत्याङ्पूर्वोऽवः पदसंचरे ॥ ९६ ॥ क्रीडावाङः परो भक्षानीत्योः स्यात्प्रलये समः । प्राप्तावङ्वेदनोः साम्येऽवान्निवृत्तौ परेस्तु सः ॥ ९७ ॥ त्यागेऽवढौकने तूषात्संमुखग्रहणे त्वभेः । चौर्येऽपि निर उद्धारे शवस्योद्वहनेऽपि च ॥ ९८ ॥ विडुत्सर्गे च शपथेऽथोद ऊर्ध्वीकृतावपि । प्रवहस्तु बहिर्यात्रा प्रवाहोम्ब्वादिसंततिः ॥ ९९ ॥ उपोढो निकटप्राप्तेऽथापोढः परिवर्जिते । समूढः स्यादुपचिते निर्व्यूढस्तु समापिते ॥ १०० ॥ ;p{0246} निरूढस्तु भवेत्ख्यातेऽध्यूढोऽधिष्ठित उच्यते । द्विरागमस्तु वध्वा यः स आवाहोऽथ संनिधौ ॥ १०१ ॥ आवाहनं स्यादावाहेऽथोपात्परिणये यमिः । आङो दैर्घ्ये नेः स्तनिः स्यात् कुन्थनेभिनिरुत्तरः ॥ १०२ ॥ सोऽत्यन्तशब्दे सत्तिः प्रात् प्रीतावाङस्तु संनिधौ । वेर्दुःख आसने नेः स्यात्सेवने चोपपूर्वकः ॥ १०३ ॥ अभेः षञ्जिः पराभूतौ क्रोधे च चरतिस्त्वभेः । परो निष्ठाध्यवसितौ पर्युपाभ्यां तु सेवने ॥ १०४ ॥ अपराधे त्वपादाङोऽनुत्थानेऽनुगमे त्वनोः । प्रतिसंभ्यां तु संहारे प्रत्यूहे विघ्नगण्डकौ ॥ १०५ ॥ भोगे निरो विशिर्नेस्तु विवाहशयने समः । आसने स उपात्स्यातां द्वौ परिच्छदवेष्टने ॥ १०६ ॥ परिक्रिया परीसर्पो विधुरम् विकले त्रिषु । आकूतच्छन्दसी छन्दभावौ यत्तूपमन्त्रणम् ॥ १०७ ॥ रहस्तूपच्छन्दनं तत् संक्षेपे तु समस्यतिः । वेर्विस्मृतेऽभिराधानेऽभेरभ्यासे भ्रमे त्वधेः ॥ १०८ ॥ तुर्याश्रमे संनिपरः स विरोधे तु तिष्ठतिः । पर्यवात्प्रत्यवाच्चाङो यत्ने प्रात्तु गतौ नितः ॥ १०९ ॥ ;p{0247} निश्चयेऽनोस्त्वाचरण उत्पूर्वस्तूर्ध्वकर्मणि । विष्वग्गतौ परीसारः परिसर्या प्रसर्पणम् ॥ ११० ॥ वरादौ वा कुलादौ वा गुप्तिरेष्टव्यकर्मभिः । सैव गुप्तमणिर्गुप्तिकेलिश्च स्यान्निलायनम् ॥ १११ ॥ सर्पणे तु व्रणादीनां प्रसरोऽथ प्रयामकः । नीवाकश्च महार्घस्य धान्यादेरादरे नहि ॥ ११२ ॥ ऊहापोहादिके बुद्धिशक्तौ निष्क्रम उच्यते । अवनायः खलीकारोप्यधोनयनकर्मणि ॥ ११३ ॥ उपपूर्वो लभिर्धातुरनुभूतार्थवाचकः । विलेपने कुङ्कुमाद्यैः समालम्भोथ विप्रतः ॥ ११४ ॥ लभिर्वियोगे वेर्दान आङस्तु स्पर्शने वधे । कूणनं तु भवेत्किञ्चित्संकोचे प्रतिबिम्बने ॥ ११५ ॥ फलनं मार्गणान्वीक्षा संवीक्षावचयोऽपि च । समः संग्रहणे चिञ् स्यादुपाद्वृद्धौ क्षये त्वपात् ॥ ११६ ॥ शीलने तु परेर्ज्ञाने तिरोऽप्याभण्डने क्षणे । अपात्तु ध्यायतिः शापे आङस्तूत्कण्ठितस्मृतौ ॥ ११७ ॥ क्रमात्प्रहरिकादेर्यच्छयनं तत्र पुंस्ययम् । उपशायो विशायश्च स्यातामुपशयस्तु यः ॥ ११८ ॥ ;p{0248} वस्तुना येन रोगस्योपचयोऽथ कृतीचयः । समावीज्या च हृणिया हृणीयाऽथ क्रतौ पुमान् ॥ ११९ ॥ संस्तावः स्तुतिभूस्तुल्यायामविस्तारके निघः । विस्मितो भवतीत्यर्थे भवेत् कुहकुहायते ॥ १२० ॥ भावप्रधाना ये प्रायः पर्यायेषु च नोचिताः । तेत्र यत्कीर्त्तिताः शेषं ज्ञेयं शिष्टप्रयोगतः ॥ १२१ ॥ कल्पद्रौ केशवकृते नामप्रकृतिबोधने । संकीर्णो नवमः काण्डो यातः संपूर्णतामयम् ॥ १२२ ॥ ;c{इति संकीर्णकाण्डः ।} ;v{वनौषधिप्रकाण्डः} अरण्यमस्त्री कान्तारं षण्डो वाप्यटवी स्त्रियाम् । क्लीबे चेल्कं वनं सत्रं गहनं विपिनं तलम् ॥ १ ॥ समञ्जं हिङ्गुलं वार्क्षं कक्षं काननयित्यपि । दवदावावुभौ पुंसि प्रस्तारोऽपि झषोऽपि च ॥ २ ॥ तृणाटव्यां महारण्ये त्वरण्यानी स्त्रियामियम् । पुंस्यारामश्चोपवनं पुरप्रान्तस्थितं वनम् ॥ ३ ॥ गृहारामो निष्कुटः स्याद्वाह्यारामस्तु पौरकः । प्रधानगणिकादीनामारामे पुष्पवृक्षयोः ॥ ४ ॥ ;p{0249} पर्यायाद्वाटिकार्था च क्षुद्रारामे प्रसाटिका । पुमानाक्रीड उद्यानं राज्ञः साधारणे वने ॥ ५ ॥ स्यादेतदेव प्रमदवनं च प्रमदावनम् । यदन्तःपुरलोकानां क्रीडायोग्यमनाकुलम् ॥ ६ ॥ नृपाज्ञया यदच्छेद्यं तन्मल्लवनमुच्यते । वीथ्यालिरावलिः श्रेणी लेखा रिञ्छोलिरावली ॥ ७ ॥ आली च पालिरालिश्च शरणी सरणी द्वयोः । शरणिः सरणिः श्रेणिः स्त्रियां राजिस्तु राज्यपि ॥ ८ ॥ रेखा लेखा च पङ्क्तिश्च सर्वथा या निरन्तरा । तत्र पङ्क्तिः सान्तराला राजिर्हीनान्तरालका ॥ ९ ॥ वन्या वनसमूहे स्यादङ्कुरोङ्कूरमस्त्रियाम् । प्ररोहोऽभिनवोद्भेदे तत्र पर्वसमुद्भवे ॥ १० ॥ अस्त्री निकुञ्जकुञ्जौ द्वे लतादिपिहितोदरे । वृक्षस्तु विटपी स्कन्धी सीमाको हरितच्छदः ॥ ११ ॥ वह्निपर्यायजन्मार्थो जन्तुरारोहकस्तरुः । कारस्कर उरुर्द्वीपः पादपो विष्टर स्थिरः ॥ १२ ॥ ;p{0250} अनोकहोऽगः शिखरी शाखी शालः पलाश्यपि । द्रुर्द्रुमोऽद्रिः कुटो नागो नन्द्यावर्त्तो हरिद्वसुः ॥ १३ ॥ महीपर्यायरुहजपर्यायस्तरुरागमः । कराली पुष्पफलद ऊर्णो रूक्षः पुलाक्यपि ॥ १४ ॥ नगोऽगमः कुठिर्गच्छः कुठारुरपि विष्टरः । वानस्पत्यः फलैः पुष्पादपुष्पात्तैर्वनस्पतिः ॥ १५ ॥ निर्लुटोऽथाप्यबन्ध्यः स्यात्स च वृक्षः फलेग्रहिः । फलग्रह्यपि स ज्ञेयो ह्यमोघफल इत्यपि ॥ १६ ॥ फलिते फलिनोपि स्यात्फलपर्यायवान् फली । नञर्थात्फलपर्यायोऽवकेशी बन्ध्य इत्यपि ॥ १७ ॥ फलपुष्पैर्विरहित एते वन्ध्यादयस्त्रिषु । स्थाणुरस्त्री ध्रुवः शङ्कुर्ह्रस्वशाखार्थकः क्षुपः ॥ १८ ॥ क्षुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिर्लता । वल्ली च वल्लिर्व्रतती स्त्रियां वीरुत् प्रतानिनी ॥ १९ ॥ गुल्मिनी चोलपो वेली वेल्लिर्वेल्ली च वीरुधा । व्रततिर्विरुधा चापि गुल्मिनी च विरुत् स्त्रियः ॥ २० ॥ नगाद्यारोह उच्छ्राय उत्सेधोऽप्युच्छ्रयश्च सः । स्कन्धकाण्डप्रकाण्डाश्च मूलाच्छाखावधिस्तरोः ॥ २१ ॥ ;p{0251} समे शाखालते स्कन्धशाखाशाले शिफाजटे । अर्वाग्भागोऽस्य बुध्नः स्यान्नितम्बः स पृथुः पुनः ॥ २२ ॥ पादपर्यायिमूलं स्यान्नेत्रं च चरणोऽस्त्रियाम् । अग्रं क्लीबे शिरः पुंसि मज्जा सारश्च पुंस्युभौ ॥ २३ ॥ क्वचिन्मज्जा स्त्रियां त्वक् स्त्री त्वचा वल्कलमस्त्रियाम् । चोलकं च स्त्रियां छल्लिश्छल्ली च वल्कलं च षण् ॥ २४ ॥ शल्कं चोचमथ स्त्री स्याद्दारु सामान्यकाष्ठके । रूक्षे कलिञ्जमिध्मं स्यादेध एधः समित्स्त्रियाम् ॥ २५ ॥ समिन्धनेन्धने च द्वे निःकुहः कोटरोऽस्त्रियाम् । पत्रं पलाशं पात्रं स्याद्दलं पर्णं छदः पुमान् ॥ २६ ॥ स्यादथच्छदनं छादमस्त्रियां बर्हमित्यथ । चमरिर्मञ्जरीवाना मञ्जी मञ्जिश्च मञ्जरिः ॥ २७ ॥ वल्लरी वल्लरिश्चापि वल्लरं मञ्जरं त्रिषु । पल्लवोऽस्त्री किसलयं किसलं विसलं पुनः ॥ २८ ॥ चलः पुमान्प्रवालोऽस्त्री कोशीशुङ्गे उभे स्त्रियौ । स्त्रियां माटिस्तु पर्णानामन्तरा व्यापिका शिरा ॥ २९ ॥ विस्तारविटपावस्त्री कलिकोत्कलिके स्त्रियौ । कलिः कली उभे तद्वत् क्षारको जालिजालके ॥ ३० ॥ ;p{0252} गुच्छो गुलुच्छो लुच्छः स्याद्गुच्छकः स्तबकोऽपि च । गुलुच्छो ग्लुच्छको गुच्छः कुद्मलो मुकुलो न ना ॥ ३१ ॥ मकुले पुंसि वा क्लीबे बहुत्वे सुमनः स्त्रियाम् । स्यात् क्लीबे सुमनं पुष्पं प्रसूनं कुसुमोऽस्त्रियाम् ॥ ३२ ॥ प्रसवे च सुमं सूनं कुद्मलो मुकुलोऽस्त्रियाम् । स्फुटः स्मेरो विकसितः स्मितः फुल्लो विजृम्भितः ॥ ३३ ॥ वीकाशश्च विकाशश्च वीकासोऽपि विकासवत् । प्रफुल्लोन्मुद्रितोदीर्णा उदोभिदुरमीलितौ ॥ ३४ ॥ बुद्धो भिन्नश्च मिषितः श्वसितो जृम्भवत्यपि । विकस्वरश्च व्याकोशो विकचो हसितार्थकः ॥ ३५ ॥ दलोच्छ्वसप्रवालोन्मिषाङ्कुरेभ्य इतच् क्रमात् । पल्लवाच्चाथ निद्राणो मुद्रितो मीलितोऽपि च ॥ ३६ ॥ फुल्लार्थाद्विपरीतार्थोऽलसः संकुचिताऽपि च । तान्तः सनिद्रो मिलितस्त्रिष्वेते स्युः स्फुटादयः ॥ ३७ ॥ मकरन्दः पुष्परसो मरन्दो मधु न द्वयोः । परागः पुष्पपर्यायरजःपर्याय इत्यपि ॥ ३८ ॥ मधूली स्त्रीष्टगन्धि स्यात्सुगन्धिः सौरभोऽपि च । सौरभ्यः सुरभिः पुंसि घ्राणतर्पण इत्यपि ॥ ३९ ॥ ;p{0253} विमर्दोत्थे परिमल आमोदो हृदयंगमे । मुखवासन आमोदी दुर्गन्धः पूतिगन्धकः ॥ ४० ॥ विशी स्यादामगन्धिः षण् विस्रं वा स्यादथ त्रिषु । वृक्षादीनां फले शस्यं तत्रापक्वे शलाटु च ॥ ४१ ॥ शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके । स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥ व्रततिर्व्रतती वल्ली स्यात् क्लीब उलपं पुनः । वीरुदेषातिविस्तीर्णा तालक्रमुककेतकी ॥ ४३ ॥ नारिकेरी च खर्जूरी तृणवृक्षाः स्युरित्यमी । द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् ॥ ४४ ॥ आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदादि च । बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५ ॥ पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले । कुमार्याद्याश्च भङ्गाद्याः पत्रेऽपि स्युस्ततः पुनः ॥ ४६ ॥ विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबे च पाटला । आम्रश्चूतो महाकालो माकन्दः षट्पदातिथिः ॥ ४७ ॥ कामाङ्गो मधुदूतः स्यात्सहकारोऽति सौरभः । रसालः स्त्रीप्रियश्चापि साहारपिकवल्लभौ ॥ ४८ ॥ ;p{0254} पुरुकालो वसन्तद्रुः स च पञ्चविधः स्मृतः । कोशाम्रस्तु घनस्कन्धो वनाम्रो जन्तुपादपः ॥ ४९ ॥ क्षुद्राम्रोऽपि च रक्ताम्रो लाक्षा वृक्षश्च रक्तकः । बहुपूर्वस्तु मध्वाम्रः शीतलाम्रो मुनिश्च सः ॥ ५० ॥ मदनेच्छाफलश्चक्रतलाम्रोऽपि वनेज्यकः । अथ कामशरः कामवल्लभो माधवद्रुमः ॥ ५१ ॥ अम्लफलः सीधुरसो मोदः स्यान्मन्मथालयः । मध्वासवः सुमनसः पिकरागो नृपप्रियः ॥ ५२ ॥ प्रियाम्बुरथ राजाम्रो राजपर्यायतः फलः । स्मराम्रो मधुरोऽथ स्यान्महाराजफलस्तु सः ॥ ५३ ॥ कामायुधो राजपुत्रः कङ्कः कामफलोऽपि च । आम्रः स्थूलान्महाराजात् कपित्थार्थोऽपि नीलतः ॥ ५४ ॥ तत्पर्यायफलार्थं स्यात्पुण्डरीकं च तत्समम् । स्त्रियां जम्बूर्महास्कन्धा राजार्हाऽऽमोदमोदिनी ॥ ५५ ॥ शुकप्रिया राजफला श्यामला सुरभिच्छदा । अथान्या स्याद्राजजम्बूः स्वर्णमाता महाफला ॥ ५६ ॥ पिकप्रिया महाजम्बूर्महानीलाऽप्यथापरा । काकादिष्टफला जम्बूर्भृङ्गेष्टा स्याद्वनप्रिया ॥ ५७ ॥ ;p{0255} नादेयी भूमिजम्बूस्तु भृङ्गेष्टा सूक्ष्मसत्यका । पिकभक्ष्या काकजम्बूरथ पूतफलः पुनः ॥ ५८ ॥ पनसः कण्टकिफलः फलिनः फलवृक्षकः । महावृक्षः फलासारः कम्पलः कण्टकीफलः ॥ ५९ ॥ चम्पालुरथ त भङ्गि पुस्नं पुंसि नपुंसके । निरष्ठीला तु कदली सुकुमारा सकृत्फला ॥ ६० ॥ मोचा गुच्छफला रम्भा सुफला गुच्छदन्तिका । उरुस्तम्भा भानुफला वनलक्ष्मीर्विषाणिनी ॥ ६१ ॥ रसा नृपेष्टा निःसारा बालेष्टाप्यथ काष्ठिका । सुकाष्ठा च शिलाकाष्ठवनेभ्यः कदलीति च ॥ ६२ ॥ फलाप्यथ सुरभिका सुभगा च सुरप्रिया । गौरी हेमफलांश्वद्रिवनहाटकचम्पकाः ॥ ६३ ॥ एषां पर्यायशब्देभ्यो रम्भापर्यायवाचिका । कुमारिका वृन्तपुष्पा सत्पुष्पं तु शिलीन्ध्रकम् ॥ ६४ ॥ अथापि स्यान्नारिकेरो नारीकेरश्च लाङ्गली । नाडीकेरो नाडिकेरो नाडिकेलश्च वा स्त्रियाम् ॥ ६५ ॥ नारीकेलो नारिकेलो नालीकेलः शिरःफलः । सदाफलो रसफलो मत्कुणश्च छटाफलः ॥ ६६ ॥ ;p{0256} तृणराजः स्कन्धतरुर्दाक्षिणात्योऽपि लाङ्गली । फलस्त्रिनेत्रदृढयोरथान्यो मधुनः फलः ॥ ६७ ॥ मधूत्तरो नालिकेरो बद्धकूर्चफलश्च सः । ह्रस्वमृद्वोश्चापि फलः करकोऽस्य फलास्थनि ॥ ६८ ॥ तन्मज्जा खपुरं क्लीबे कूर्परं गरिका स्त्रियाम् । वारः खट्टः खरस्कन्धो ललनो बहुवल्कलः ॥ ६९ ॥ भक्ष्यबीजः स्नेहबीजो वनद्रुस्तापसप्रियः । धनुःपटः पियालश्च पटोऽपि च धनुर्द्धनू ॥ ७० ॥ प्रियालः स्यादुपवटश्चाथ भल्लातकी त्रिषु । पर्यायोऽग्न्यर्कयोश्चापि वातारिः स्यादरुःकरः ॥ ७१ ॥ तैलस्फोटपृथग्भ्यः स्याद्बीजः कृमिहरश्च सः । स्याद्धनुर्बीजवीरेभ्यो वृक्षोऽथ क्षीरिका स्त्रियाम् ॥ ७२ ॥ क्षीरवृक्षो राजफलो निम्बबीजो नृपद्रुमः । क्षीरशुक्लो दृढस्कन्धः श्रीफलो माधवोद्भवः ॥ ७३ ॥ राजादनफलो राजादनं राजातनोऽस्त्रियाम् । अस्त्रियां द्वौ फलाध्यक्षाध्यक्षौ च क्षीर्ययं पुमान् ॥ ७४ ॥ फलाध्यक्षो मधुफलः क्षीरगुच्छफलोऽपि सः । रसबीजः शुकेष्टश्च त्रिषु दाडिम्बदाडिमौ ॥ ७५ ॥ ;p{0257} मधुबीजो रक्तबीजो दालिमः फलखाडवः । करकः सुफलो दन्तबीजः कुचफलोऽपि च सः ॥ ७६ ॥ मणिबीजो रक्तफलो रोचनः शुकवल्लभः । नीलपत्रो वृत्तफलः सुनीलो रक्तपुष्पकः ॥ ७७ ॥ अथ तिन्दुः कृष्णसारः कालस्कन्धोऽतिमुक्तकः । स्यन्दनार्थादाह्वयार्थः स्फूर्जनोऽपि च रामणः ॥ ७८ ॥ काकपर्यायतिन्दुः स्यात् काकाण्डः काकबीजकः । अक्षोडस्तु फलस्नेहः कन्दरालफलोऽपि च ॥ ७९ ॥ गुडाशयः पर्वतीय आखोरोऽपि बृहच्छदः । वीरेष्टो मधुमत्तः स्याद्विरेचनफलस्तु सः ॥ ८० ॥ पीलुः शीतसहस्रांशः शाखी गुडफलश्च सः । महाफलो महाराजमधुभ्यः पीलुरित्यपि ॥ ८१ ॥ मधुपीलुर्महावृक्षोऽथ पारेवतमस्त्रियाम् । आरेवतो रेवतश्च रैवतोऽपि सुधाफलः ॥ ८२ ॥ मधुसस्योऽप्युलूती स्त्री तद्भेदाः स्युरनेकशः । महापारेवतं स्वर्णपारेवतमतः परम् ॥ ८३ ॥ सास्राणिजं खारिकं च रक्तरैवतकं पुनः । बृहत्पारेवतं द्वीपखर्जूरी द्वीपजादयः ॥ ८४ ॥ ;p{0258} हयप्रिया तु निःश्रेणी यवनेष्टा दुरारुहा । खरस्कन्धा तु दुर्धर्षा काषायी खर्जुरी द्वयोः ॥ ८५ ॥ निःश्रेणिरपि खर्जूरी माध्वी तु मधुकर्कटी । मधुरा मधुखर्जूरी कोलपर्यायकर्कटी ॥ ८६ ॥ कर्करोऽप्यथ भूखर्जूर्यवरा तु मधुस्रवा । दीप्या च पिण्डखर्जूरी फलपुष्पा श्वभक्षका ॥ ८७ ॥ स्वादुपिण्डाथ चान्या तु मुनिखर्जूरिका च सा । सैव स्याद्राजखर्जूरी राजपिण्डा नृपप्रिया ॥ ८८ ॥ मधुवृक्षस्तु मधुलो मधुष्ठीलो मधुस्रवः । मधूको मधुकोऽपि स्यान्मधु क्लीबे मधुः पुमान् ॥ ८९ ॥ गुडपुष्पो रोध्रपुष्पो वनप्रस्थश्च माधवः । मधुपुष्पस्तु मङ्गल्यो जलजाते मधूलकः ॥ ९० ॥ क्षुद्राप्रियो दीर्घपत्रः पतङ्गो वारवल्लभः । चौरिकाक्षोऽप्यथ भवं भविष्यं भव्यभावने ॥ ९१ ॥ अपि पिच्छिलबीजं स्यात्तच्च लोमफलं पुनः । स्ताद्वक्त्रशोधनं चाथ वीरं वाराहकारुके ॥ ९२ ॥ वीरसेनमथ द्राक्षा कृष्णापि तापसप्रिया । प्रियाला स्याच्चारुगुच्छाऽमृतेभ्योपि फला पुनः ॥ ९३ ॥ ;p{0259} रसालाख्याऽमरा मृद्वी गोस्तनी च हिमोत्तरा । फलाभद्रा च कपिला मधुवल्ली मधूल्यपि ॥ ९४ ॥ शतवीर्या हैमवती काश्मीरी पथिका च सा । सुधारसा दार्घमधुसुभ्यः सस्यार्थका च सा ॥ ९५ ॥ हरिता हारहूराथ सुवृत्ता बीजवर्जिता । अथ कर्मारकः कर्मरकः पीतफलश्च सः ॥ ९६ ॥ धाराफलो मुद्गरकः परुषं तु परूषकम् । नीलमण्डलमल्पास्थि गिरिपीलु परावतम् ॥ ९७ ॥ परुर्नीलफलं चाथ चलपत्रश्च यज्ञियः । शुचिबोधिक्षीरचैत्यश्राभ्यो द्व्यर्थो गजाशनः ॥ ९८ ॥ अश्वत्थो विष्णुसद्मार्थः पवित्रं गुह्यपत्रकः । मङ्गल्यः श्यामलो विप्रः सत्यः सेव्यः शुभप्रदः ॥ ९९ ॥ यक्षोदुम्बरमेतस्य फलेऽश्वत्थी वनोद्भवा । अश्वत्थसंनिभा क्षुद्रा पवित्रा लघुपत्र्यथ ॥ १०० ॥ वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः । विटपी मण्डपी शृङ्गी यक्षावासश्च रोहिणः ॥ १०१ ॥ महाच्छायः स्कन्धरुहः क्षीरी रक्तफलः पुनः । कौबेरो बहुपान्नीलः शिफारुट् च वनस्पतिः ॥ १०२ ॥ ;p{0260} नदीयज्ञार्थयोर्वृक्षः सिद्धार्थोऽपि वटी स्त्रियाम् । अमरा शृङ्गिनी क्षीरकाष्ठाप्यथ कपीतनः ॥ १०३ ॥ प्लक्षः प्लवङ्गः प्लवगो गर्दभाण्डः कमण्डलुः । महाबलोऽवरोहद्रुः क्षीरी शृङ्गी सुपार्श्वकः ॥ १०४ ॥ दृढप्ररोहः पुण्ड्रस्तु भिदुरो ह्रस्वपर्णकः । महावरोहोऽपि जटी मङ्गलच्छाय इत्यपि ॥ १०५ ॥ स्यात्पर्कपर्वयोष्टिष्टी मशकी तु सदाफलः । उदुम्बरः पुष्पशून्यो यज्ञियः सुप्रतिष्ठितः ॥ १०६ ॥ कालस्कन्धः शीतवल्कः क्षीरवृक्षः पवित्रकः । हेमदुग्धः काण्डफलः सौम्यः क्षीरी च काञ्चनः ॥ १०७ ॥ वसुद्रुमो हरिद्राक्षः सौम्यो जन्तुफलश्च सः । सचक्षुः शीतवृक्षोथ लघुपत्रफला स्त्रियाम् ॥ १०८ ॥ लघोरुदुम्बरार्था च क्षुद्रोदुम्बरिकाऽपि सा । काष्ठोदुम्बरिका चाथ करपत्रच्छदाऽपरा ॥ १०९ ॥ खरपत्रापि माकण्ठी वान्तिसस्या बृहच्छदा । अथार्यराजपुण्ड्रेभ्य उदुम्बरफलार्थका ॥ ११० ॥ कृष्णोदुम्बरिका काकोदुम्बरी जघनेफला । अजाजी फल्गुनी फल्गुर्मलयूश्चित्रभेषजम् ॥ १११ ॥ ;p{0261} स्याद्द्वयोर्बदरी कोला कर्कन्धूरपि च स्त्रियाम् । कर्कन्धुश्चापि कर्कान्धूर्न क्लीबे कुवली त्रिषु ॥ ११२ ॥ कोलः कोलिश्च कोली च बदरं क्वापि पुंसि च । दृढबीजा वृत्तफला फेनिला फलशैशिरा ॥ ११३ ॥ सुवीराऽपि च सौवीरा बालेष्टा सुफला च सा । राजपर्यायबदरी वल्लभा स्तनबीजिका ॥ ११४ ॥ पृथुकोलाथ भूसूक्ष्मलघुवल्लीभ्य एव सा । बदरी स्याद्बहुफला बदराद्वल्लरी फला ॥ ११५ ॥ सूक्ष्मात्पत्रफलार्था स्याद्दुःस्पर्शा बहुकण्टका । शिखिप्रियाचणार्थात्स्याद्वदर्यथ सुकेसरः ॥ ११६ ॥ बीजपूरो बीजपूर्णः पूर्णबीजश्च पूरकः । मातुलुङ्गः केसरान्तो रुचको दन्तुरच्छदः ॥ ११७ ॥ सुपूरको बीजफलो जन्तुघ्नोऽथ वनोद्भवा । गन्धाढ्या देवदूती च स्यादत्यम्लरसा च सा ॥ ११८ ॥ मधुनः कर्कटी वल्ली बीजपूरार्थका च सा । महाफला वर्द्धमाना राचनी तु शिवाऽमृता ॥ ११९ ॥ धात्रा वयस्थामलकी त्रिषु तिष्यफलाऽमला । एमलापि च कायस्था श्रीफला वृत्तसस्यका ॥ १२० ॥ ;p{0262} वृष्या शान्ता क्षुद्रधात्री क्षुद्रजात्यथ चुक्रिका । चिञ्च्वाम्लिका शाकचुक्रा चुक्राम्ला तिन्तिडी च सा ॥ १२१ ॥ चुक्रं षण् चुक्रिका चुक्रा शुक्ला च शुक्लिका स्त्रियः । अम्लाऽम्लीका तिन्तिडी च तेंतिली तिन्तिलीति सा ॥ १२२ ॥ आम्रातकः पीतनकः कपिचूडः कपिप्रियः । शृङ्गीफलो रसाढ्यश्च तनुक्षीरोऽथ गोक्षुरः ॥ १२३ ॥ नारङ्गो नागरङ्गोऽपि गन्धाढ्यो गन्धपत्रकः । योगारङ्गो योगरङ्गो वरिष्ठश्च सुरङ्गकः ॥ १२४ ॥ ऐरावतः सुगन्धोऽथ वह्निदीप्तश्च रोचनः । निन्दकश्चाम्लजम्बीरो वह्निबीजश्च शोधनः ॥ १२५ ॥ अम्लसारो दन्तघातो जन्तुमार्यथ तत्र तु । अतिसूक्ष्मत्वचिफले महानिम्बूर्महाफला ॥ १२६ ॥ जम्बीरो जम्भलो जम्भी जम्भो दन्तशठो जतुः । स्याद्गम्भीरोऽपि जम्भीरस्तद्वज्जम्बीर इत्यपि ॥ १२७ ॥ मुखशोधी रोचनको जाड्यारिर्मधुरोऽपरः । मधुजम्भो रसद्रावी पित्तद्रावी विराभिधः ॥ १२८ ॥ चिरपाकी तु मालूरः कपित्थोऽपि दधित्थकः । ग्राहिग्रन्थिगन्धकुचवृत्तेभ्यः कठिनादपि ॥ १२९ ॥ ;p{0263} फलार्थः स्याद्दन्तशठः कपीष्टः करभप्रियः । मङ्गल्योऽपि स्त्रियां नीलमल्लिकाप्यथ तुम्बुरुः ॥ १३० ॥ वनजः सौरजः सौरः सानुजस्तीक्ष्णवल्कलः । द्विजक्षीणफलस्तीक्ष्णपत्रोऽपि च महामुनिः ॥ १३१ ॥ सुगन्धिः स्यात्स्फुटफलो रुद्राक्षस्तु शिवप्रियः । पावनोक्षश्च सर्पाक्षो नमेरुर्भूतनाशनः ॥ १३२ ॥ विल्वो द्वयोर्हृद्यगन्धः शाण्डिल्यः श्रीफलः पुनः । शल्वः शलाटुः शैलूषः शैवपत्रः शिवेष्टकः ॥ १३३ ॥ कर्कटाह्वो गन्धपत्रः पत्रश्रेष्ठस्त्रिपत्रकः । दुरारोहो गन्धफलस्त्रिशिखश्च शिवद्रुमः ॥ १३४ ॥ त्रिशाखपत्रोऽपि सदाफलः सत्यफलश्च सः । तूदस्तूलो ब्रह्मकाष्ठं ब्राह्मणेष्टश्च यापकः ॥ १३५ ॥ सोः पुष्परूपो नीलद्रुरथ सिञ्चन्तिका स्त्रियाम् । सल्लकी शल्लकी सल्ली सुगन्धा सुरभिस्रवा ॥ १३६ ॥ शल्लकी ह्रादिनी ह्रादा ह्लादिनी सुरभी रसा । गजभक्षा मुखामोदा सुश्रीका जलतिक्तिका ॥ १३७ ॥ ह्रस्वादङ्कुरका चस्रफला छिन्नरुहा च सा । अपि गन्धफला चाथ कतकोम्बुप्रसादनः ॥ १३८ ॥ ;p{0264} रुच्यस्तिक्तफलो गुच्छाफलः कतफलश्च सः । छेदनीयोऽथ कर्काह्वा क्षुद्रधात्री च कर्कटः ॥ १३९ ॥ मृगलण्डो गणेरुः स्यात्तोदनः क्रुन्दनोऽप्यथ । श्लेष्मातको बाहुवारः पिच्छिलो द्विजकूपितः ॥ १४० ॥ शेलुः शीतफलः सेतुरुद्दालः कर्वुदारुकः । भूतद्रुमो गन्धपुष्पः क्षुद्रश्लेष्मातकोऽपरः ॥ १४१ ॥ लघुशेलुः सूत्सफलो भूकर्चूरपि दारकः । सुप्युको मोक्षकः सारवृक्षोऽपि च विषापहः ॥ १४२ ॥ पाटली वनवासी च जटालोऽपि सुतीक्ष्णकः । मेहनो गोलिकोऽथ स्यात्करमर्दस्तु चीकलः ॥ १४३ ॥ कृष्णोऽविघ्नः कराम्लः स्यात्सुषेणो मुनिरित्यपि । फलस्तीक्ष्णादि संयुक्तः फलान्तस्तबकादिकः ॥ १४४ ॥ कायस्था श्रेयसी दिव्या जीवन्यपि हरीतकी । त्रिषु नामस्थानजातिभेदाद्गुणभिदः क्रमात् ॥ १४५ ॥ जीवन्ती विजया रोहिण्यमृता पूतनाऽभया । रसा तद्वच्छेतकिनीत्येषा सप्तविधा मता ॥ १४६ ॥ ;p{0265} जीवन्ती स्वर्णवर्णा सा सर्वदेशसमुद्भवा । गुणे सार्वपथीनाथ विजया लघुवृत्तका ॥ १४७ ॥ सा विन्ध्याद्रिसमुद्भूता सर्वदोषविनाशिनी । तृतीया रोहिणी वृत्ता प्रातिष्ठानी क्षते हिता ॥ १४८ ॥ अमृता मांसला स्थूला चम्पोत्था सा विरेचनी । पञ्चमी पूतना स्वल्पत्वचा सिन्धुसमुद्भवा ॥ १४९ ॥ लेपे हिताथाभया तु नेत्ररोगविनाशिनी । सौराष्ट्री पञ्चकोणाथ पुनः श्वेतकिनी च सा ॥ १५० ॥ अम्ला हिमाद्रिसंभूता सर्वरोगविनाशिनी । यावद्धस्ते कृता तावद्विरेचनकरी नृणाम् ॥ १५१ ॥ विभीतकस्तैलफलो भूतावासः कलिद्रुमः । संवर्तकश्च वासन्ती विषघ्नोऽपि विभीदकः ॥ १५२ ॥ वहेडुको हार्यफलः पुनः कर्षफलश्च सः । निम्बः प्रभद्रः कीरेष्टोऽरिष्टोऽरिष्टफलोऽपि च ॥ १५३ ॥ पिचुमन्दः पारिभद्रो नेता काकफलश्च सः । यवनेष्टः पीतसारः सर्वतोभद्र इत्यपि ॥ १५४ ॥ वरतिक्तः पिचुमर्दः शीतो ज्येष्ठामलः पुनः । छर्दनो हिङ्गुनिर्यासो महानिम्बस्तु कार्मुकः ॥ १५५ ॥ ;p{0266} मदोद्रेकः केशमुष्टिः काकाण्डोऽपि यमद्रुमः । अपि स्याद्रम्यकक्षीरो महातिक्तोऽथ रामणः ॥ १५६ ॥ रमणो वकपर्यायनिम्बः कैडर्य इत्यपि । गिरिनिम्बः शुक्रसारो भूनिम्बस्तु किरातकः ॥ १५७ ॥ कैरातोऽनार्यतिक्तः स्यात्तिक्तको रामसेनकः । अकाण्डतिक्तो हैमः स्यादथ नेपालनिम्बकः ॥ १५८ ॥ तृणनिम्बो ज्वरान्तः स्यान्नाडीतिक्तोऽर्धतिक्तकः । निद्रारिः संनिपातारिः कृष्णगर्भस्तु कट्फलः ॥ १५९ ॥ सोमवल्को रञ्जनकः स्त्री कुम्भी लघुकाश्मरी । भद्रावती महाकुम्भी श्रीपर्णी कुमुदा च सा ॥ १६० ॥ भद्रोग्रगन्धा सैवान्याऽप्यग्निमन्थः पुमानयम् । अरण्यकेतुस्तर्कारी कर्णिका विजया जया ॥ १६१ ॥ नादेय्यनन्तापि च सा वैजयन्त्यथ तत्र तु । क्षुद्राग्निमन्थस्तपनस्त्र्यरणिर्गणिकारिका ॥ १६२ ॥ तेजोबृक्षस्तनुत्वक् स्यात् स्योनाकस्तु कटंभरः । मयूरजङ्गः कट्वङ्गः शुकनासः कुटंनटः ॥ १६३ ॥ प्रियजीवोऽपि रलुकः कुनटस्तु विरोचनः । भ्रमरेष्टो बर्हिजङ्घो वातारिः स्यान्मुनिद्रुमः ॥ १६४ ॥ ;p{0267} मण्डूकः फल्गुवृन्ताको निःसारः पूतिपत्रकः । पीतवृक्षो भूतिसारः टेटू वासन्तशोणकौ ॥ १६५ ॥ मण्डूकपर्णी पीताङ्गोऽप्यजशृङ्गी तु वार्त्तिका । मेषशृङ्गी सर्पदंष्ट्रा कृष्णवृन्ता तु काश्मरी ॥ १६६ ॥ श्रीपर्णी सर्वतोभद्रा हीरा भद्रा च कट्फला । भद्रपर्णी सीधुपर्णी कम्भारी कुमुदा पुनः ॥ १६७ ॥ काश्मरी कश्मरी च स्त्री कश्मर्यं पुंनपुंसकम् । विदारिणी गोपभद्रा गम्भारी मधुपर्ण्यपि ॥ १६८ ॥ रोहिणी क्षीरिणी श्वेता बहुभद्रा च मेदिनी । कृष्णस्थूलत्वचा गृष्टिः सुफला मधुमत्यपि ॥ १६९ ॥ स्यान्महाकुमुदा चाथ कुद्दालो युगपत्रकः । श्लक्ष्णत्वक् मालुपत्रः स्यादम्बुराश्मान्तकेन्द्रकौ ॥ १७० ॥ कृतमालो राजतरुः प्रग्रहः कर्णिकारकः । परिव्याधो व्याधिरिपुः सुफलोऽथ ज्वरान्तकः ॥ १७१ ॥ आरेचनो दीर्घफलः स्वर्णदः स्वर्णपुष्पकः । आरग्वधो व्याधिघातो दद्रूकुष्ठहरश्च सः ॥ १७२ ॥ स्यादारगवधश्चापि शंपाकश्चतुरङ्गुलः । संपाकोऽपि च शम्याका सुवर्णांशुः पुमान्स्त्रियाम् ॥ १७३ ॥ ;p{0268} विषघ्नी नेत्ररोगघ्नी वृश्चिकाली विषाणिनी । अलिपर्णी भूरिदुग्धा कलिका देवलाङ्गली ॥ १७४ ॥ सुरपुष्पा गमावर्त्ता दक्षिणावर्त्तकी पुनः । सुवर्णदा युग्मफला करभी कर्कशा मशा ॥ १७५ ॥ क्षीरशृङ्ग्यथ कोटी स्त्री सैवोक्ता गिरिमल्लिका । कुटजः कौटजो वत्सः कलिङ्गः शक्रपादपः ॥ १७६ ॥ अपि कोटी यवफलः संग्राही पाण्डुरद्रुमः । प्रावृष्यो मल्लिकापुष्पो महागन्धः फलेऽस्य तु ॥ १७७ ॥ स्यात्स्त्रियामिन्द्रयवमस्त्री भद्रयवं पुनः । कलिङ्गं च स्त्रियां क्लीबे कौटजं कुटजं च षण् ॥ १७८ ॥ इन्द्राह्वः स्यादिन्द्रफलो वत्सकोऽथ शिरीषकः । सुलोमशो बहुमृदुमधुवृत्तार्थतः सुमः ॥ १७९ ॥ भण्डिरश्चापि भण्ण्डीरो भण्डिलोऽपि च कथ्यते । शुकेष्टो भण्डिकोऽपि स्याद्विषघ्नश्च कपीतनः ॥ १८० ॥ उद्दालकः श्यामलः स्यात्कलिङ्गः शङ्खिनीफलः । रक्तमूलस्तु वदरः स्यादक्षो देवसर्षपः ॥ १८१ ॥ कुरराङ्घ्रिः सूक्ष्मदलः करञ्जस्तु करञ्जकः । चिरबिल्वो नक्तमालः पूतीकः पूतिकश्च सः ॥ १८२ ॥ ;p{0269} पूतीकरञ्जः कलिकृत् पूतीकरज इत्यपि । तथैव पूतिकरजोऽथान्यो घृतकरञ्जकः ॥ १८३ ॥ घृतपर्णः स्निग्धपर्णस्तपस्वी विषनाशनः । महाकरञ्जः षड्ग्रन्थो हस्तिरोहण इत्यपि ॥ १८४ ॥ हस्ती करञ्जः शार्ङ्गेष्ठा विषघ्नी मदहस्तिनी । अङ्गारवल्ली काकघ्नी मधुमत्ता वसादिनी ॥ १८५ ॥ कलाण्ड्यप्यथ गुच्छार्थात्करञ्जः पुष्प इत्यपि । स्निग्धपत्रो नदी गुच्छी सा नन्दी दन्तधावनः ॥ १८६ ॥ अङ्कोल्लोऽङ्कोठको रेची गूढपत्रो निकोचकः । गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥ १८७ ॥ पीतस्ताम्रफलो दीर्घकालः स्याल्लम्बकर्णकः । गुणाढ्यः कोलको गन्धपुष्पो रावत इत्यथ ॥ १८८ ॥ नखवृक्षो नखालुः स्यान्नराह्वः शोकनाशनः । अथ सर्जरसः सर्जः कलः कलयजोद्भवः ॥ १८९ ॥ वल्लीवृक्षो वीरपर्णः शालः स्यादजकर्णकः । कषायो ललनो गन्धवृक्षो रालोऽथ वंशकः ॥ १९० ॥ सिद्धिदः सालनिर्यासो यक्षधूपोऽग्निवल्लभः । दिव्यसारः सुरेष्टः स्याच्छूरोऽथ जरणद्रुमः ॥ १९१ ॥ ;p{0270} दीर्घपर्णः कौशिकोऽपि वन्यः स्यादश्वकर्णकः । सस्यसंवरणस्तार्क्ष्यप्रसवोऽप्यतलः पुनः ॥ १९२ ॥ तालो ध्वजद्रुमः पत्री दीर्घस्कन्धो दृढच्छदः । तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ १९३ ॥ तरुराजो दीर्घपत्रो गुच्छपत्रश्चिरायुकः । गजभक्षश्चासवदः श्रीतालस्तु मृदुच्छदः ॥ १९४ ॥ मृदुतालो लेखदलो लेखार्हो याम्यसम्भवः । स्याच्छिरालविशालाभ्यां पत्रोऽप्यथ बृहच्छदः ॥ १९५ ॥ हिन्तालः स्थूलतालः स्याद्वल्कपत्रो विभीषणः । गर्भषावी नीलतालो द्विधाङ्घ्रिर्बहुकण्टकः ॥ १९६ ॥ स्थिरपत्रो द्विधा लेख्यः सितपत्रोऽम्लसारकः । बृहत्तालोऽथ माडः स्याद्दीर्घो मद्यद्रुमश्च सः ॥ १९७ ॥ वितानको मोहकरस्तलोऽपि च मदोत्तरः । तापिच्छस्तु तमालः स्यात्कालस्कन्धो महाबलः ॥ १९८ ॥ नीलध्वजः कृष्णतालः कदम्बो ललनाप्रियः । स्यात्सीधुवृत्तयोः पुष्पः सुरभिः कर्णपूरकः ॥ १९९ ॥ कादम्बर्यो मदाढ्योऽथ पुलकी मृगवल्लभः । मेघाङ्गनाप्रियो नीपोऽपि च धाराकदम्बकः ॥ २०० ॥ ;p{0271} प्रावृष्यः प्रावृषेण्यः स्यादथ धूलीकदम्बकः । बलभद्राभिधो भृङ्गप्रियः क्रमुकपुष्पकः ॥ २०१ ॥ स्याद्वसन्तपरागाभ्यां पुष्पः स्यादथ भूमिजः । भूवल्लभो भूकदम्बो लघुपुष्पो व्रणापहः ॥ २०२ ॥ वृत्तपुष्पो विषघ्नोऽथ वानीरो जलवेतसः । शाखालश्चाथ कुम्भीरः पर्पटद्रुमरोमशौ ॥ २०३ ॥ समालविटपी चाथ दीर्घपत्रस्तु वञ्जुलः । वेतसो मञ्जरीनम्रो निचुलो गन्धपुष्पकः ॥ २०४ ॥ सुशोणः कलनश्चाथ धवस्तु मधुरत्वचः । शुकवृक्षो दृढतरुः कषायो गौर इत्यथ ॥ २०५ ॥ धन्वनो रक्तकुसुमो धनुर्वृक्षो महानलः । रुजापहः पिच्छलको रूक्षः स्वादुफलोऽप्यथ ॥ २०६ ॥ भूर्जो वल्कद्रुमो भूतध्रुक् सुचर्मापि चित्रलः । भूर्यरक्षाबिन्दुमृदुपर्यायेभ्यच्छरो भुजः ॥ २०७ ॥ तिनिशः स्यन्दनश्चक्री रथाङ्गः स्यन्दनद्रुमः । अपि स्त्रीपुंसयोर्नेमिर्नेमी चापि स्त्रियामिमे ॥ २०८ ॥ भस्मगर्भो जलधरः शम्बरस्तु शिवप्रियः । अर्जुनाह्वो नदीसर्जो वीरद्रुः ककुभोऽप्यथ ॥ २०९ ॥ ;p{0272} हरिद्रुः पीतदारुः स्यात्सुपुष्पश्च सुराह्वयः । पीतकोऽथ स्त्रियां दग्धा दग्धिका कर्कशच्छदा ॥ २१० ॥ स्थलेरुहा दग्धरुहा रोमशा भस्मरोहिणी । सुदग्धिकाऽथ शाखोटः खरपत्रो गृहद्रुमः ॥ २११ ॥ घूकावासो भूतवृक्षः स्थिरसारोऽतिपत्रकः । श्रेष्ठकाष्ठशाखपत्रो दीर्घपत्रोऽथ शिंशपा ॥ २१२ ॥ महाश्यामा कृष्णसारा तीक्ष्णसाराऽपि धूम्रिका । कपिलाऽथ श्वेतपत्रा सितपर्यायशिंशपा ॥ २१३ ॥ स्मरिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा । अरुणस्तु महासर्जोऽशन आसनसौरिणौ ॥ २१४ ॥ प्रियको वृक्षबीजः स्यात्प्रियसालश्च नीलकः । श्वेतवृक्षस्तु वरुणस्तिक्तशाकः कुमारकः ॥ २१५ ॥ साधुवृक्षः पवित्रस्तु गर्भदः सिद्धिदः पुनः । कुठजीवश्चाथ पुनः करहाटः क्षुरः शरः ॥ २१६ ॥ स्यान्महाश्वेतयोः पिण्डीतकश्चाथ विषद्रुमः । कारस्करश्च किंपाको विषतिन्दुः कुपाककः ॥ २१७ ॥ कालकूटो रम्यफलोऽथ स्त्रियां स्याद्विषान्तिका । कटभी नालिका शौण्डी पाटली गिरिकर्णिका ॥ २१८ ॥ ;p{0273} शिरीषपत्रा किणीही कालिन्दी विषपादिका । महाश्वेताऽथ क्षवकः क्षतकः क्रूर इत्यपि ॥ २१९ ॥ तीक्ष्णो भूताङ्कुशो राजोद्वेजनो भूतनाशनः । लकुचो लिकुचः सालः काषायी दृढवल्कलः ॥ २२० ॥ स्थूलस्कन्धो डहुडुहू लकुचोऽथ विकङ्कतः । स्याद्व्याघ्रकण्टयोः पादो ग्रन्थिलः स्वादुकण्टकः ॥ २२१ ॥ गोपघण्टो बहुफलः स्रुचावृक्षः स्रुवद्रुमः । वैकङ्कतः कण्टकारी वैकतो ग्रन्थिलः समाः ॥ २२२ ॥ स्यात् पिण्डरोहणः पूतः किंकिणीरवकस्तु सः । हयपर्यायवैर्यर्थः कटवीरो हरप्रियः ॥ २२३ ॥ प्रतिहासः श्वेतकुन्दगौरीभ्यः पुष्प इत्यपि । स्यात्स्निग्धदिव्ययोस्तद्वद्रोधकस्तत्र रक्तके ॥ २२४ ॥ गणेशचण्डीकुसुमो भूतमारी रविप्रियः । क्रूरोऽथ पीतप्रसवो गन्धपुष्पोऽथ कृष्णके ॥ २२५ ॥ कृष्णपुष्पोऽथ धत्तूर उन्मत्तः कितवः शठः । धुस्तुरोऽपि च धूस्तूरो धुत्तुरो धूत्तुरश्च सः ॥ २२६ ॥ ;p{0274} धूर्तः स्वर्णाभिधानोऽपि मादनः शिवशेखरः । कृष्णपुष्पः शिवस्निग्धः सचिवो विषनाशनः ॥ २२७ ॥ खर्जूघ्नः कालहा पुष्पः खरकण्टफलोऽपि सः । मोहनो मातुलः श्यामः शैवः कलभमत्तकौ ॥ २२८ ॥ क्रूरोऽथ राजधत्तूरो राजस्वर्णो महाशिवः । भ्रान्तो निःश्रेणिकापुष्पस्तत्फले मातुलात्मजः ॥ २२९ ॥ स्यादस्त्रियामथ पुनः करकस्तु युगच्छदः । स्यान्महापीतकान्तेभ्यः पुष्पोऽपि कनकान्तकः ॥ २३० ॥ कोविदारः काञ्चनारः कुद्दालोऽथार्कसंज्ञकः । क्षीरच्छदः क्षीरकाण्डः खर्जूघ्नः शिवपुष्पकः ॥ २३१ ॥ जृम्भणो विष्टरः क्षीरी प्रतापोऽपि विकीरणः । आस्फोटकः सदापुष्पः फलः स्याच्छुकतूलयोः ॥ २३२ ॥ तत्र शुक्ले शूकरार्कः प्रतापो वृत्तमल्लिकः । राजार्कस्तु सदापुष्पो वसुकोऽत्यर्क इत्यपि ॥ २३३ ॥ काष्ठीलोऽपि च मन्दारः श्वेते पृथ्वीक इत्यपि । रुचूको रुचुकोऽपि स्याद्दीर्घपुष्पार्थकोऽप्यथ ॥ २३४ ॥ ;p{0275} नमेरुः सुरपुन्नागः सुरेष्टः सुरपर्णिका । सुरतुङ्गः पलाशस्तु किंशुको वक्रपुष्पकः ॥ २३५ ॥ स्यात्पर्णोपज्ञको वातपोथः पीतद्रुमोऽपि सः । ब्रह्मवृक्षोऽथ तद्भेदे हस्तिकर्णः सुकण्टकी ॥ २३६ ॥ श्वेतस्कन्धः पारिभद्रः सपलाशो भवेद्द्विधा । वल्लीवृक्षविभेदेन स्त्रियां किंशुलकेति च ॥ २३७ ॥ तद्वनेऽप्यथ पुंनागः पाटलो रक्तपुष्पकः । पुरुषाह्वोऽपि तुङ्गोऽथ तिलकाह्वस्तु रेचकः ॥ २३८ ॥ वसन्तसुन्दरोऽरिष्टो बालभूषणमित्यपि । मृतजीवस्थिरपुष्पो रुहः स्याच्छिन्नदग्धयोः ॥ २३९ ॥ तरुणीकटाक्षकामोऽथाप्यगस्त्यस्तु मुनिद्रुमः । व्रणारिः शीघ्रपुष्पः स्याद्वक्रपुष्पः सुरप्रियः ॥ २४० ॥ दीर्घसस्यः पाटला तु पाटलिर्विषवल्लभा । स्थिरगन्धा तालवृन्ती रक्तपुष्पाम्बुवास्यपि ॥ २४१ ॥ वासन्त्यमोघा कुम्भीकाऽप्यथाशोकस्तु वञ्जुलः । मधुपुष्पः केलिकः स्याद्रक्तपर्यायपल्लवः ॥ २४२ ॥ दोहदी सुभगश्चित्रो विचित्रः कर्णपूरकः । स्याद्धेमपिण्डयोः पुष्पो नटः कामाधिवासकः ॥ २४३ ॥ ;p{0276} कङ्केल्लिरपि कङ्केली स्थिरपुष्पस्तु चम्पकः । अतिगन्धः स्वर्णपुष्पो हेमाह्वः सुकुमारकः ॥ २४४ ॥ वनदीपस्तत्कलिका स्त्रियाम् स्याद्गन्धमोदिनी । बहुमोदा गन्धफली वनजे क्षुद्रचम्पकः ॥ २४५ ॥ स्यान्नागचम्पकश्चाथ बकुलस्तु विशारदः । मधुपुष्पः सीधुगन्धः स्थिरपुष्पक इत्यपि ॥ २४६ ॥ सुरभिर्भ्रमरानन्दो मद्यामोदश्च शारदी । करकः केसरो धन्वी मन्दमन्दनो गूढपुष्पकः ॥ २४७ ॥ योषास्यमधुरोऽपि स्याद्वीरपुष्पोहलश्च सः । खरपत्रा तु शेकाली शारदी पुष्पवर्षिणी ॥ २४८ ॥ केतकी तीक्ष्णपुष्पी स्याद्विफला धूलिपुष्पिका । स्यान्मेध्या कण्टकदला शिवद्विष्टा नृपप्रिया ॥ २४९ ॥ स्थिरगन्धा दीर्घपत्रा क्रकचा गन्धपुष्पिका । स्यादिन्दुकलिकाऽथान्या कनकप्रसवा च सा ॥ २५० ॥ हैमी कनकपुष्पाऽत्र कामखड्गदला पुनः । विष्टारुहा छत्ररुहा सुवर्णादपि केतकी ॥ २५१ ॥ सिन्दूरवीरयोः पुष्पा सुमना तु सुरप्रिया । सन्ध्यापुष्पा राजपुष्पा मनोज्ञा तिलभाविनी ॥ २५२ ॥ ;p{0277} केतकी मालती जाती गन्धा सुदृढयोरपि । जनेष्टा सुकुमाराऽथ मुद्गरो विटवल्लभः ॥ २५३ ॥ गन्धसारः सकृत्पर्णः कर्दमी वृत्तपुष्पकः । अतिगन्धो गन्धराजो जनष्टो भृङ्गवल्लभः ॥ २५४ ॥ गेयप्रियः सुवृत्ता तु सुमनाः शिववल्लभा । सुशीता शतपत्री च सौरभ्याख्या द्विधा च सा ॥ २५५ ॥ श्वेतारुणैः सुकुसुमैर्भद्रवल्ली तु मल्लिका । शीता भीरुप्रिया सौम्या गौरी च वनचन्द्रिका ॥ २५६ ॥ नारीष्टा गिरिजामल्ली चन्द्रिका मोदिनी मुनिः । दमयन्ती सिताथान्या मदनी तु कुमारिका ॥ २५७ ॥ मल्लिका वटपत्रा च सुगन्धा वृत्तमल्लिका । वृत्तपुष्पा च मुक्ताभा श्रीवल्ली सुलभप्रिया ॥ २५८ ॥ वार्षिका त्रिपुटा व्यस्रा सुरूपा मुक्तबन्धका । सैवोक्ता षट्पदानन्दाऽनेकनिर्देशगोचरा ॥ २५९ ॥ विशेषात्फलपुष्पैश्च दीर्घसूक्ष्मैः सुवर्त्तुलैः । कस्तूरीमल्लिका सा तु कस्तूरीवासना च या ॥ २६० ॥ प्रातर्विकस्वराऽप्येकाऽप्यन्या सायं विकस्वरा । सास्फोता वनमल्ल्याख्या वासन्ती मधुदूतिका ॥ २६१ ॥ ;p{0278} प्रहसन्ती महाजाती मध्वाढ्या चाथ यूथिका । माधवी गणिकाम्बष्ठा मोदिनी बालपुष्पिका ॥ २६२ ॥ भृङ्गानन्दापि गन्धाढ्या सुगन्धा तु मनोहरा । युवतीष्टा सुवर्णाह्वा शिखण्डी नागपुष्पिका ॥ २६३ ॥ हरिता व्यक्तगन्धा च पीतयूथ्यथ कुंजकः । महासहो वृत्तपुष्पः कण्टकाढ्योऽतिकेसरः ॥ २६४ ॥ विकुलः संकुलः खर्वोऽथार्घार्हो हरिवल्लभः । मुचुकुन्दश्च सुदलो बहुपुष्पः सुपुष्पकः ॥ २६५ ॥ लक्ष्मणो रक्तप्रसवः करुणी ग्रीष्मपुष्प्यपि । रक्तपुष्पा सारुणी स्याच्चन्द्रवल्ली तु माधवी ॥ २६६ ॥ भृङ्गप्रिया भद्रलता भूमिमण्डलभूषणा । सुगन्धा गणिकारी तु काञ्चनी गन्धपुष्प्यपि ॥ २६७ ॥ अलिमोदा च वासन्ती सास्यान्मदनमोदिनी । मुचुकुन्दस्तु कुन्दोऽपि महागन्धो मनोहरः ॥ २६८ ॥ मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि । अट्टहासो मनोज्ञः स्याद्वनहासोऽथ शाम्भवः ॥ २६९ ॥ शिवादापीड आह्लादो मल्ल्यङ्केष्टश्च सुव्रतः । बकः पाशुपतश्चापि वसुकः क्रमपूरकः ॥ २७० ॥ ;p{0279} केविका कविका केवा भृङ्गारी नृपवल्लरी । भृङ्गमारी महागन्धा राजकन्याऽर्कवल्लभः ॥ २७१ ॥ बन्धूको बन्धुजीवोऽपि पुष्पो रक्तोष्ठयोरपि । बन्धुश्च बन्धुकः पुंसि बन्धुरो वन्धुलो द्वयोः ॥ २७२ ॥ मध्यंदिनस्त्रिसन्धिस्तु संधीवेली सदाफलः । स सन्धिकुसुमोऽथ स्याद्रक्तपुष्पा जवा जया ॥ २७३ ॥ ओड्रका प्रातिका सूर्यप्रिया चापि यवा पुनः । अस्यास्तु कुसुमे वज्रपुष्पं स्याद्भमरी त्वपि ॥ २७४ ॥ भ्रमरारिर्मासपुष्पी कुष्ठारिस्तरणी तु सा । सहाकुमारी गन्धाढ्या सुदला चारुकेसरा ॥ २७५ ॥ बहुपत्रा रामभृङ्गप्रियाऽप्यथ महासहा । महती राजतरुणी सुपुष्पोऽप्यमिलातकः ॥ २७६ ॥ सुवर्णपुष्पकोऽम्लातोऽथान्यो रक्तामिलातकः । प्रसवः स्यात् कुरवको रक्तात्सभसलोत्सवः ॥ २७७ ॥ मधूत्सवप्रसवोऽपि रामालिङ्गनकामुकः । सुभगो रामप्रसवः सपीतः किङ्किरातकः ॥ २७८ ॥ कुरण्टकश्च फलकः पीताम्लानश्च पीतनः । कुसुमः स्यात्कुरवकः सादासी नीलपुष्पिका ॥ २७९ ॥ ;p{0280} नीलाम्लानश्छादकः स्याद्बाला चार्त्तगला च सा । भिण्टी कण्टकुरण्टः स्यात्पीता सैंहचरी च सा ॥ २८० ॥ सैव शोणा कुरवकः कण्टकिन्यथ रक्तका । उष्ट्रभाण्डी रक्तवर्णलोहितेभ्यश्च पुष्पिका ॥ २८१ ॥ अस्त्रियां तगरो वक्रो विनम्रः कुञ्चितो नतः । स्याच्छदो नहुषो दण्डहर्षो हर्षण इत्यपि ॥ २८२ ॥ कालानुसारकं राजहर्षणं पार्थिवं पुनः । पिण्डीतगरकं क्षेत्रं दीनं जिह्वं मुनिस्तु ना ॥ २८३ ॥ गन्धोत्कटोऽपि दमनो दान्तो जटिलदण्डिनौ । पाण्डुरागो ब्रह्मजटा विनीतो देवशेखरः ॥ २८४ ॥ पत्री पत्रविवेकोऽपि पुण्डरीकोऽपि पत्रकः । तद्वत्तपस्विस्थूलाभ्यां वन्ये तु मदनार्थकः ॥ २८५ ॥ वनादिनामपर्यायोऽप्यथ त्रिदशमञ्जरी । तुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा ॥ २८६ ॥ सुरेज्या सुरसा श्यामा कायस्था सुरदुन्दुभिः । बहुनो मञ्जरी पत्रा भूतघ्नी स्थूलपत्र्यपि ॥ २८७ ॥ ;p{0281} गौरी स्याद्द्विविधा कृष्णासिताभेदात्फणिज्जकः । खरपत्रो मरुवको गन्धपत्रः समीरणः ॥ २८८ ॥ बहुवीर्यः शीतलकः सुराह्वो मरिचोऽपि च । जम्बीरः प्रस्थकुसुमो द्विविधोऽयमथार्जके ॥ २८९ ॥ क्षुद्रात्पर्णश्च तुलसी कुठेरोऽपि कडिञ्जरः । पुखार्जकश्चोग्रगन्धः सुमुखस्तु सितार्जके ॥ २९० ॥ पत्रो वटपुटाभ्यां स्याद्वैकुण्ठो भूरिगन्धकः । कृष्णार्जकः कालुमालो मालूकः कृष्णमालुकः ॥ २९१ ॥ दोषक्लेशी विषघ्नः स्यात्सुगन्धिर्वनवर्वरी । प्रसन्नकः सूक्ष्मपत्रो निद्रालुः शोफहार्यपि ॥ २९२ ॥ सुमुखो गङ्गपत्री तु गङ्गापत्री सुरङ्गका । पाची मरकतः पत्री मल्ला हरितपत्रिका ॥ २९३ ॥ अरिष्टा सुरभिश्चाथ बालकोऽस्त्री तु शीतलम् । पर्यायः केशजलयोर्ह्रीवेरं हिरिवेरकम् ॥ २९४ ॥ वरहिष्ठं च बर्हिष्ठमुदीच्यमपि कथ्यते । स्यात्तिक्तं वारिपर्यायं वर्वरः सुमुखः पुनः ॥ २९५ ॥ ;p{0282} गरघ्नो गन्धपत्रः स्यात्पूतगन्धः सुरार्हकः । कृष्णवर्वरकः स्वास्यः सुपर्णं देवपर्णकम् ॥ २९६ ॥ स्याद्देवार्हं चीरमा च सूक्ष्मगन्धेभ्य इत्यपि । पर्णं चाथ महानन्दा गन्धाढ्या रामशीतला ॥ २९७ ॥ रामाऽथ शाल्मली चापि स्त्रियां शाल्मलिरित्यपि । चिरजीवी पिच्छलः स्याच्छाल्मलिन्यपि पूरणी ॥ २९८ ॥ रक्तोत्पलस्तूलवृक्षो रम्यपुष्पः कटुद्रुमः । मोतोऽप्यथ श्रवः शृङ्गो रसो मोचा ततः पुनः ॥ २९९ ॥ अपि पिच्छलसारः स्याल्मलीवेष्ट इत्ययम् । तत्तूल इन्द्रवाताभ्यां तूलं क्लीबे मरुद्ध्वजम् ॥ ३०० ॥ ग्रीष्महासं वंशकफं वृद्धसूत्रकमित्यपि । रोहीतको रोहितको रोही प्लीहनिबर्हणः ॥ ३०१ ॥ सदाप्रसूनो दाडिम्बपुष्पः स्यात्कूटशाल्मली । कुशाल्मली बृहद्वल्कः स्याद्विरेचन इत्ययम् ॥ ३०२ ॥ सितपुष्पोऽप्येकवीरो महावीरः सुवीरकः । रोहितेयो रौहतः स्यात्तद्वद्रौहित इत्यपि ॥ ३०३ ॥ ;p{0283} एकादिवीरपर्यायः स्यादथो रक्तकेसरः । पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः ॥ ३०४ ॥ कृमिघ्नो रक्तकुसुमो बहुपुष्पोऽथ कण्टकी । खदिरो रक्तसारश्च खाद्यः पत्री क्षितिः स्त्रियाम् ॥ ३०५ ॥ वक्राङ्गो बालतनयो मुशल्योऽपि मुसल्यवत् । गायत्र्यपि च पुंसि स्यात्सारद्रुर्दन्तधावनः ॥ ३०६ ॥ बालपत्रोऽपि कुष्ठारिर्मेध्योऽथ कदरोऽपरः । श्वेतसारः कार्मुकः स्यात्सोमसारः पथिद्रुमः ॥ ३०७ ॥ सोमवल्को नेमिवृक्षः कुब्जकण्टक इत्यपि । रक्तसारः सुसारः स्याद्रक्ते विट्खदिरस्तु सः ॥ ३०८ ॥ मरुजः सारखदिरः कालस्कन्धोऽपि गोरटः । बहुसारः पत्रतरुरम्भोजारिररिः स्त्रियाम् ॥ ३०९ ॥ इरिमो वीरमेदश्चाप्यसिमेदश्च मेदकः । दाना संदानिका चापि सैवोक्ता खदिरच्छटा ॥ ३१० ॥ शमी तु केशदमनी शान्ता तुङ्गा शुभङ्करी । हविर्गन्धा शिवेशाना सुरभिः पापनाशनी ॥ ३११ ॥ मङ्गलापि तपस्वीष्टा मेध्या दुरितपावनी । सुभद्रा शङ्कुकलिका भद्रासक्तुफली शिवा ॥ ३१२ ॥ ;p{0284} सक्तुफलाऽपि विजया शान्ता चाप्यपराजिता । शुभाऽप्यथ शमीरः स्याच्छम्यारुरपि पुंस्युभौ ॥ ३१३ ॥ अथ वर्वुरकर्वूरौ कण्टालुर्दीर्घकण्टकः । पंक्तिबीजो गुग्गुलाक्षो गोशृङ्गस्तीक्ष्णकण्टकः ॥ ३१४ ॥ कफान्तकोऽजभद्रः स्याद् दृढबीजोऽप्यथापरः । शुकशाकः स्थूलकण्टश्छत्राको जालवर्वुरः ॥ ३१५ ॥ रन्धकण्टस्तनुच्छायोऽथारिमेदोऽरिमेदकः । गोधास्कन्धोऽपीरिमेदः पूतिमेदोऽहिमारकः ॥ ३१६ ॥ पलाण्डुस्तु कटुः पञ्चवर्द्धनः पञ्चरक्षकः । हस्ताञ्जनविधौ शस्तो जीर्णज्वरहरश्च सः ॥ ३१७ ॥ पञ्चकश्चाथ शूलारिर्गौरवो विषकण्टकः । तीक्ष्णकण्टः क्रोष्टुफलोऽतिगन्धस्तापसद्रुमः ॥ ३१८ ॥ पूतिगन्धस्तैलफलस्तनुपत्रोऽनिलान्तकः । पुंस्त्रियोरिङ्गुदी पुंसीङ्गुदपत्रो मुनिद्रुमः ॥ ३१९ ॥ ग्रन्थिलः कृकरो गूढपत्रः स्यात्कररः पुनः । करीरोऽपि च कारीरो निःपत्रस्तीक्ष्णकण्टकः ॥ ३२० ॥ सुधा स्नुही स्नुक्स्त्रियः स्युः क्षीरी निस्त्रिंशपत्रकः । शाखापत्रो महावृक्षः सेहुण्डो वज्रकण्टकः ॥ ३२१ ॥ ;p{0285} बहुशाखः क्षीरकाण्डो गण्डीरो दण्डवृक्षकः । हुण्डो वनारिर्नेत्रारिर्भद्रो व्याघ्रनखः पुनः ॥ ३२२ ॥ वज्री समन्तदुग्धाऽन्या स्नुहा वज्रा गुडा गुला । स्नुहिः सिहुण्डो वज्रद्रुर्धारापूर्वा स्नुही पुवा ॥ ३२३ ॥ त्रिधाराऽप्यथ कन्थारी कन्थरी तीक्ष्णकण्टका । तीक्ष्णगन्धा दुःप्रवेशा दुर्द्धर्षा कन्थकाऽप्यथ ॥ ३२४ ॥ रुवुर्वातारिस्तरुणश्चित्रो गन्धर्वहस्तकः । व्याघ्रपुच्छो वर्द्धमानः श्वेतैरण्डोऽपमण्डकः ॥ ३२५ ॥ पञ्चाङ्गुलो दीर्घदण्डेरुवूकौ रुबुको वकः । वर्द्धमानस्तत्र रक्ते स्याद्व्याघ्रो हस्तिकर्णकः ॥ ३२६ ॥ उरुवुश्चोरुवूकोऽपि चञ्चुरुत्तानपर्णकः । करपर्णः पञ्चनखस्तलुः स्निग्धोऽपि मस्करः ॥ ३२७ ॥ एरण्डो मण्ड आमण्डोप्यमण्डश्च व्यडम्बनः । व्यडम्बकश्चित्रचञ्चुरादण्डस्त्रिपुरः स च ॥ ३२८ ॥ ह्रस्वैरण्डश्चित्रदण्डः स्थूलदण्डोऽपरोऽप्यथ । घोटा बदरिका घोटी गोलिका शत्रुकण्टकः ॥ ३२९ ॥ कण्टकी चतुरङ्गाह्वाऽप्यथ वल्लीकरञ्जकः । दुःस्पर्शोऽपि कुबेराक्षः स्यात्कण्टफल इत्यथ ॥ ३३० ॥ ;p{0286} कारी कार्याऽपि गिरिजाऽप्यतिपत्र्यपरा पुनः । कण्टकार्यथ राटस्तु तर्दनो वस्तिरोधनः ॥ ३३१ ॥ ग्रन्थिधारा गोलघटाफलः पिण्डीतकः पुनः । तगरः शल्यकैडर्यो मदनः करहाटकः ॥ ३३२ ॥ कण्डालोऽपि विषान्मुष्टिफलो हर्षोऽप्यथापरः । महापिण्डीतकः स्निग्धपिण्डीतकवराहकौ ॥ ३३३ ॥ कटुपर्णोऽथ कृच्छ्रारिः क्षुधाकुशल इत्यपि । पील्वन्तरो वीरवृक्षो दीर्घमूलोऽथ तारटी ॥ ३३४ ॥ खर्बूरा तरटी तीव्रा रक्तबीजाऽथ शीतला । श्रीवल्ली शिववल्ली च कण्टवल्ली दुरारुहा ॥ ३३५ ॥ अम्ला कटुफला स्वच्छा सैवाप्यन्या निकुञ्चिका । स्यादम्लकुञ्चिका कुञ्जवल्लयाऽथ नृपप्रियः ॥ ३३६ ॥ रामवर्णोऽपर्वदण्डो दीर्घोऽप्यथ नदीभवः । यावनालो दृढत्वक् स्यात्खरपत्रो नदी स च ॥ ३३७ ॥ शरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः । इक्षुरिक्षुरिकापत्रो विशिखोऽथ महाशरः ॥ ३३८ ॥ ;p{0287} बहुमूलः स्थूलशरो दीर्घमूलोऽथ रञ्जनः । मुञ्जो मुञ्जतृणाह्वः स्याद्ब्राह्मणस्ते जनाह्वयः ॥ ३३९ ॥ वानीरको मुञ्जनको दूरमूलो धृषत्तृणः । बहुप्रजो दृढमूलः शत्रुभङ्गोऽथ काशकः ॥ ३४० ॥ काण्डेक्षुर्वायसेक्षुः स्यादिक्षुकाण्डोऽपि चेक्षुरः । कासेन्दुरिक्ष्वरिर्दर्भपत्रः शारद इत्यपि ॥ ३४१ ॥ नादेयो लेखिनीकाण्डः कच्छालंकारकः पुनः । सितपुष्पोऽप्यथाश्वालो नीरजः शर इत्यपि ॥ ३४२ ॥ गुण्डा शिरिशिरा श्वेता स्यात्तदर्थस्तु वज्रकः । पूतो ह्रस्वः कुशो ब्रह्मपवित्रो यज्ञभूषणः ॥ ३४३ ॥ स्यात्सूच्यग्रः पुण्यतृणस्तीक्ष्णो याज्ञिकपत्रकः । अन्यस्तु शरपत्रः स्यात् हरिद्दर्भः पृथुच्छदः ॥ ३४४ ॥ दीर्घपत्रः सूक्ष्मपत्रः पवित्रं चाथ वल्वजा । अस्त्रियां हठपत्री स्यात्तृणेक्षुश्च तृणत्वचः ॥ ३४५ ॥ मौञ्जीपत्रो दृढतृणः पानीयाख्या दृढक्षुरा । कत्तृणं रोहिषतृणं पूतीकं यवदग्धकम् ॥ ३४६ ॥ ;p{0288} श्यामकं चामकं चाम्यं दृढकाण्डं दृढच्छदम् । द्राघिष्ठं दीर्घतालं च तिक्तसारं तु कुत्सितम् ॥ ३४७ ॥ नलो नालो नडः कुक्षिरन्ध्रकः कीचकः पुनः । वंशान्तरोपि धमनः शून्यमध्यो विभीषणः ॥ ३४८ ॥ छिद्रांशोऽपि मृदोर्वंशात् पत्रः स्यान्नालवंशकः । अपि पोटगलो वन्ये देवनालो महानडः ॥ ३४९ ॥ नलोत्तमः स्थूलनडः स्थूलदण्डः सुनालकः । सुरद्रुमोऽथ हरिता नीलदूर्वा च शाम्भवी ॥ ३५० ॥ श्यामा शीता शतग्रन्थिर्मङ्गला सुभगा जया । शतमूला तूष्णवल्ली पूतिहन्त्री महौषधी ॥ ३५१ ॥ अमृता विजया पूता शिवेष्टा च शिताऽप्यथ । श्वेतदूर्वा सिता चण्डा गोलोमी सुरवल्लभा ॥ ३५२ ॥ दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा । गौरा विघ्नेशानकान्ताऽमृता स्वच्छेक्षुपर्विका ॥ ३५३ ॥ स्यात्प्रचण्डा श्वेतकाण्डा वीर्या काण्डा सहस्रतः । मालावल्ल्यतिग्रन्थिभ्यो दूर्वा स्याद्ग्रन्थिमूलिका ॥ ३५४ ॥ ग्रन्थिला वल्लिनी मूलग्रन्थिः स्यात्पर्ववल्ल्यपि । रोहत्पर्वाथ गण्डाली गण्डदूर्वा च वारुणी ॥ ३५५ ॥ ;p{0289} मत्स्याक्षी श्यामलग्रन्थिर्ग्रन्थिला ग्रन्थिपर्णिका । सूचीपत्रा श्यामकाण्डा कलायाऽप्यथ कुन्दुरुः ॥ ३५६ ॥ कन्दुरुर्दीर्घपत्रश्च रसालोऽपि खरच्छदः । सुतृणः क्षेत्रसम्भूता झिण्टी स्यान्मृगवल्लभः ॥ ३५७ ॥ भूतृणो रोहितो भूतिर्भूतीकश्च कुटुम्बकः । मालातृणः श्रमालंबा गुच्छलस्त्वतिगन्धकः ॥ ३५८ ॥ अतिच्छत्रो गुह्यबीजः सुगन्धिः पुंस्त्वविग्रहः । व्यङ्गरोधश्च बधिरोऽप्यन्यो भूतृण इत्यपि ॥ ३५९ ॥ सुरसः सुरभिग्रन्थिः स च स्यान्मुखवासनः । सुगन्धिरूषरो भूरिपत्रोऽपि च तृणोत्तमः ॥ ३६० ॥ इक्षुदर्भा सुदर्भा चाप्यश्वालुस्तृणपत्रिका । गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ॥ ३६१ ॥ शिल्पिका शिल्पिनी शीता क्षेत्रज्ञा च मृदुच्छदा । निश्रेणिका श्रेणिका च नीरसा वनवल्लरी ॥ ३६२ ॥ अस्त्री शष्पं बालतृणां यवसं तृणमर्जुनम् । तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः ॥ ३६३ ॥ गर्भोटिका तु जठरी सुनीला च जलाश्रया । मृदुग्रन्थिस्तु मर्जुरः सुतृणो मृदुपत्रकः ॥ ३६४ ॥ ;p{0290} धेनुदुग्धप्रदश्चापि तृणाढ्यं तु मृगप्रियम् । पत्राढ्यं पर्वततृणं वंशपत्री तु जीरिका ॥ ३६५ ॥ जीर्णपत्र्यथ मन्थानो हरितो दृढमूलकः । पल्लीवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः ॥ ३६६ ॥ अम्लकाण्डं पटुतृणं तृणाम्लं लवणात्तृणम् । कनिष्ठिकं तु शूकाढ्यं शूकं शूकतृणार्थकम् ॥ ३६७ ॥ पण्यगन्धोऽस्त्रियां पत्रा कङ्गुणी पण्यदा च सा । दीर्घकाण्डः काण्डगुण्डच्छत्रगुंछस्त्रिकोणकः ॥ ३६८ ॥ नीलपत्रस्त्रिधारः स्याद्वृत्तगुण्डो जलाश्रयः । गुण्डोऽथ गुण्डकन्दः स्यात्स्त्रियां पुंसि कसेरुकः ॥ ३६९ ॥ इक्षुमुस्ता सूकरेष्टा सुगन्धा गन्धकन्दला । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा ॥ ३७० ॥ गुण्डासिनी तु गुण्डाला चिपिटा गुंछमूलिका । तृणपर्णी जलावासा पृथुला नवविष्टरा ॥ ३७१ ॥ जलस्रवा मृदुलता पिच्छिला महिषी प्रिया । अशाखा शूलपत्री च स्याच्छली धूम्रमूलिका ॥ ३७२ ॥ पिरिपेल्लं प्लवं वन्यं शतपुष्पं पुटंनटम् । गोनर्दं गोपुटं दासपुटं स्याज्जीर्णबुध्नकम् ॥ ३७३ ॥ ;p{0291} हिङ्गुलस्तु नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कामुकश्चाथ चण्डिका ॥ ३७४ ॥ छिन्नोद्भवाऽमृतलता गडूची मधुपर्णिका । ज्वरारिरमरा श्यामा विशल्यापि रसायनी ॥ ३७५ ॥ वत्सादनी कुण्डलिनी वयस्थाऽमृतसम्भवा । भिषक्प्रिया सुरकृता जावन्ती सोमवल्ल्यपि ॥ ३७६ ॥ नागपुत्र्यथ कन्दोत्थाऽमृता पिण्डगडूचिका । बहुछिन्ना बहुरुहा पिण्डालुः कन्दरोहिणी ॥ ३७७ ॥ मूर्वाऽमर्यमरा दिव्यलता तिक्ता मधूलिका । मधुश्रेणी भिन्नदशा त्रिपर्णी मधुमत्यपि ॥ ३७८ ॥ देवी मधुमती देवश्रेणी सैव सुखोषिता । पृथक्पर्णी च गोकर्णी लघुपर्ण्यपि मोरटा ॥ ३७९ ॥ तेजस्विनी मधुदला दहना गोपवल्लिका । पीलुपर्णी स्निग्धपर्णी रक्तला च मधुस्रवा ॥ ३८० ॥ ज्वलिन्यथ पटोलः स्याज्ज्वलनः कर्कशच्छदः । राजनामा कटुफलः पाण्डुः पाण्डुफलश्च सः ॥ ३८१ ॥ पञ्चराजीफलो नागफलोऽमृतफलश्च सः । कुष्ठकण्ड्वोररिर्बीजगर्भः स्यात्कासमर्दनः ॥ ३८२ ॥ ;p{0292} ज्योत्स्नाऽथ मधुरा काकी काकोली वायसूलिका । धाङ्क्षोली मेदुरा धीरा वीरा क्षीरापि शुक्लका ॥ ३८३ ॥ स्वादुमांसी वयस्था तु विषाणी च पयस्विनी । काकोली मधुरा शुक्ला क्षीरशुक्लापि जीवनः ॥ ३८४ ॥ माषपर्णी तु काम्भोजी कृष्णदन्ता महासहा । माषा हंसार्द्रमांसेभ्यो मङ्गल्या हयपुच्छ्यपि ॥ ३८५ ॥ वज्रमूली शालिपर्णी कल्याणी पाण्डुरा घना । आत्मोद्भवा बहुफली स्वयंभूश्च विसारिणी ॥ ३८६ ॥ सुलभा मुद्गपर्णी तु शिम्बी मार्जारगन्धिका । शूर्पपर्णी क्षुद्रसहा काकमुद्गा वनोद्भवा ॥ ३८७ ॥ कुरङ्गिका काशिलाऽथ काञ्जिका शशिबिम्बिका । जीवन्ती जीवनी जीवा जीवनीयाऽपि जीवना ॥ ३८८ ॥ जीवपुष्टा जीवदात्री जीवभद्रा सुपुङ्गला । शाकश्रेष्ठा च शृङ्गाटी भद्रा माङ्गल्यदा च सा ॥ ३८९ ॥ क्षुद्रजीवाऽथ मधुरा जीवपुष्टा यशस्करी । प्रियंकरी पुत्रभद्रा बृहज्जीवन्तिकाऽप्यथ ॥ ३९० ॥ सुजीवन्ती स्वर्णजीवी स्वर्णपर्णी हिमाश्रया । स्याद्धेमा हेमजीवन्ती तृणग्रन्थिः सुपर्ण्यथ ॥ ३९१ ॥ ;p{0293} शिववल्ली तु शिवजा लिङ्गिनी शिववल्लिका । बहुपुत्री चित्रफला चण्डाऽयस्तम्भिनीश्वरी ॥ ३९२ ॥ लैङ्गी स्वयंभूश्चण्डाली कृतच्छिद्रा चुजालिनी । मृदङ्गवल्लिनी क्ष्वेडा सैवोक्ता कृतवेधना ॥ ३९३ ॥ सैषा सुतिक्तघण्टाली कोशातक्यथ मर्कटी । शूकशिम्बिः शूकशिम्बी शूकशिम्बा च वानरी ॥ ३९४ ॥ शूकसिम्बिः शूकसिम्बी शूकसिम्बा जडाऽजहा । शुकशिम्बिः शुकशिम्बी शुकशिम्बा ततः पुनः ॥ ३९५ ॥ शुकसिम्बिः शुकसिम्बी शुकसिम्बा पुनश्च सा । शूकपिण्डिः शूकपिण्डी शूकपिण्डा ततः परा ॥ ३९६ ॥ शुकपिण्डिः शुकपिण्डी शुकपिण्डा च सा भवेत् । आत्मगुप्ता कपेः कच्छूः कच्छुः स्याद्दुरभिग्रहा ॥ ३९७ ॥ कपिरोमलता गुप्ता दुःस्पर्शा कच्छुराऽजया । प्रावृषेण्या च सैव स्याच्छुन्दरी गुरुरार्षभी ॥ ३९८ ॥ लाङ्गली कुण्डली चण्डी केशरोमा महर्षभी । तीक्ष्णी वराही रोमालुः स्याच्छिम्बी वनसूकरी ॥ ३९९ ॥ रोमवल्ली तिक्तबीजा कटुतुम्बी बृहत्फला । राजपुत्री कटुफला तिक्तबीजा च तुम्ब्यथ ॥ ४०० ॥ ;p{0294} स्यादाकाशार्थवल्ल्यर्था दुःस्पर्शाऽथ गरा गरी । वेणीरुहा कोशफला घोरा रोमशपत्रिका ॥ ४०१ ॥ कदम्बा कर्कटी देवदाली स्यात्सारमूषिका । दाली तुरङ्गी तर्कारी विषघ्नी वृत्तकोशका ॥ ४०२ ॥ वन्ध्यकर्कोटकी वन्ध्या मनोज्ञा कन्दवल्लरी । पन्था दिव्या पत्रदात्री भूतहन्त्रीश्वरी च सा ॥ ४०३ ॥ सुगन्धा सर्पदमनी श्रीकन्दा च कुमारिका । विषकण्टकिनी तिक्ता तिक्ततुण्ड्यथ शंवरी ॥ ४०४ ॥ चित्रा द्रवन्ती कृशिरा सुकर्णी बहुकर्णिका । न्यग्रोधिकाऽऽखुकर्णी स्याच्चण्डा भूमिचरी वृषा ॥ ४०५ ॥ ऐन्द्रेन्द्रवारुण्यरुणा विषघ्नी कणकर्णिका । मृगादिनी क्षुद्ररुहा हेमपुष्पीन्द्रचिर्भिटा ॥ ४०६ ॥ सूर्याऽमरा पीतपुष्पी सुपर्णी चेन्द्रवल्लरी । रक्तेर्वारुर्विषलता वारुणी बालकप्रिया ॥ ४०७ ॥ गवाक्षी सुफला माता तारिका विषवल्लरी । वृषलाक्षी क्षुद्रफला विषघ्नी चामृताऽप्यथ ॥ ४०८ ॥ महेन्द्रवारुणी चित्रवल्ली सौम्या महाफला । विशाला त्रपुसा दीर्घवल्ली स्यात्त्रपुसीत्यपि ॥ ४०९ ॥ ;p{0295} यवतिक्ता महातिक्ता दृढपादा च सर्पिणी । नाकुली नेत्रमीनाऽपि शंखिनी पत्रतण्डुली ॥ ४१० ॥ तिक्ता माहेश्वरी यावी शाखिन्यथ घनेश्वरी । रौद्री जटा रुद्रजटा सुगन्धा सुहवा पुनः ॥ ४११ ॥ रुद्रा सौम्या रुद्रलता महाराजजटा च सा । पत्रवल्ली जटावल्ली रुद्राणी नेत्रपुष्करा ॥ ४१२ ॥ सुगन्धपत्रा सुरभिः सुभद्रा च सुपिङ्गला । ज्योतिष्मती स्वर्णलता सरस्वत्यनलप्रभा ॥ ४१३ ॥ दुर्वरा कटभी ज्योतिर्लता दीप्ता मतिप्रदा । मेध्याऽमृताऽथ लवणा काकाण्डी वायसादिनी ॥ ४१४ ॥ तेजोवती बहुरसा कङ्गुणी कनकप्रभा । सुवर्णनकुली तीक्ष्णसुवेगा वायसीति च ॥ ४१५ ॥ तेजस्विनी शैलसुता सुतैला च यशस्विनी । अग्निदीप्ता सुरफला सौम्या लवणकिंशुका ॥ ४१६ ॥ श्रीलता गीर्लता तीव्राग्निगर्भा चाग्नितः फला । पारावतपदी ब्राह्मी मेध्या मेधाविनीत्यपि ॥ ४१७ ॥ पीता धीरा पीततैला सितपुष्पी तु गर्दभी । दधिपुष्पाऽद्रिकर्णी च कटभी विषहन्त्र्यपि ॥ ४१८ ॥ ;p{0296} श्वेताऽपराजिता श्वेता नीलपुष्पी गवादिनी । महानीला नीलगिरिकर्णी स्यान्नीलसंध्यका ॥ ४१९ ॥ व्यक्तगन्धा मोरटस्तु कर्णपुष्पो मधुस्रवः । धनमूलः पीलुपत्रः पुरुषः क्षीरमोरटः ॥ ४२० ॥ दीर्घमूलोऽप्यथ द्रोणी करम्भा पुष्पमञ्जरी । इन्दीवरा युग्मफला दीर्घवृन्तोत्तमारणी ॥ ४२१ ॥ नलिका वृत्तवल्ली तु वस्तमेषान्त्रिका च सा । वृषगन्धाऽथ यज्ञार्हा यज्ञश्रेष्ठा धनुर्लता ॥ ४२२ ॥ स्त्री सोमयज्ञगुल्मेभ्यो वल्ली सैव द्विजप्रिया । सोमक्षीरा महागुल्मा सोमपर्याय इत्ययम् ॥ ४२३ ॥ पुंसि स्यात्सप्रतिपदमारभ्यापूर्णमासकम् । प्रत्यहं यत्र पुष्पाणामुदयस्तत्क्षयः पुनः ॥ ४२४ ॥ आदर्शमथ तद्भेदा अंशुमान् रजतप्रभः । कल्याणकारकन्दोन्य आज्यगन्धश्च कन्दवान् ॥ ४२५ ॥ चन्द्रमाः कनकाभासः सर्वदा स जलेचरः । चित्रितः पाण्डुरश्चापि सर्पनिर्मोकसंनिभौ ॥ ४२६ ॥ वृक्षाग्रालम्बितावेतौ मुञ्जवांल्लशुनच्छदः । तार्क्ष्याहितोऽपि श्वेताक्षो गायत्रस्त्रैष्टुभः पुनः ॥ ४२७ ॥ ;p{0297} स्यात्पाङ्क्तः शाक्वरोऽथ स्यात्सौम्या महिषवल्लरी । प्रतिसोमा पत्रवल्ली काण्डशाखान्त्रवल्लिका ॥ ४२८ ॥ अन्या वत्सादनी सोमवल्ली विक्रान्तमेचका । पातालगारुडी तार्क्षी दीर्घकाण्डा महाबला ॥ ४२९ ॥ दीर्घवल्ली दृढलता वन्या गोपालकर्कटी । क्षुद्रेर्वारुर्वायसी तु काकाक्षी काकनासिका ॥ ४३० ॥ काकप्राणा काकतुण्डी सुरङ्गी च सुनासिका । काकाक्षा तस्करस्नायुरथ काकादनी पुनः ॥ ४३१ ॥ वक्रशल्या काकपीलुर्दुर्मोहा काकशिम्बिका । रक्तला वायसी काकरञ्जी स्याद्वायसादनी ॥ ४३२ ॥ रक्ता तु रक्तिका गुञ्जा शिखण्डी भिल्लभूषणा । सौम्या चूडामणिः कृष्णचूडिका कृष्णलाऽरुणा ॥ ४३३ ॥ शीतपाक्युच्चष्टाऽथान्या श्वेतगुञ्जार्थका च सा । अम्भोज्यजान्त्री त्वावेगी गुञ्जका दीर्घवालुकः ॥ ४३४ ॥ वृद्धः कोटरपुष्पोऽथ द्वितीयो जीर्णदारुकः । सुपुष्पिका जीर्णफली सूक्ष्मपत्राऽजराप्यथ ॥ ४३५ ॥ कैवर्त्तिका सुरङ्गा च लतावल्ली द्रुमारुहा । रङ्गिणी वस्त्ररङ्गा च सुभगाऽथ सुलोमका ॥ ४३६ ॥ ;p{0298} ताली तमाली ताम्रा च सूक्ष्मवल्ली पटुस्तु सः । नासासंवेदनः काण्डकटुः काण्डीर इत्यपि ॥ ४३७ ॥ करवल्ली तोयवल्ली सुकाण्डश्चाथ जन्तुका । बहुपुत्रा जन्तुकारी जननी चक्रवर्त्तिनी ॥ ४३८ ॥ तिर्यक्फला राजवृक्षा निशान्धा च सुपुष्पिका । कपिकच्छुकरोमापि जनेष्टा सूक्ष्मवल्ल्यपि ॥ ४३९ ॥ रञ्जनी चमरी कृष्णवल्ली दीर्घफला च सा । विदूलिका कृष्णरुहा ग्रन्थिवल्ली सुवल्ल्यपि ॥ ४४० ॥ तरुवल्ल्यथ कण्डूरा वयस्थाऽरण्यवासिनी । अत्यम्लपर्णी तीक्ष्णा च वल्ली सूरणवल्ल्यपि ॥ ४४१ ॥ शङ्खपुष्पी तु शङ्खाह्वा सुपुष्पा कम्बुमालिनी । पीतपुष्पा तु भूलग्ना मेध्या मलविनाशिनी ॥ ४४२ ॥ आवर्तकी तिन्दुकिनी विभाण्डा च विषाणिका । चर्मरङ्गा मनोज्ञाऽथ कर्णस्फोटार्द्धचन्द्रिका ॥ ४४३ ॥ चित्रपर्णी स्फोटलता त्रिपुरा चन्द्रिकाऽप्यथ । महावल्ली काष्ठवल्ली कट्वी कटुकवल्लिका ॥ ४४४ ॥ कटुश्चापि सुवल्ली च सुकाष्ठा पशुमेहनी । तोयवल्ली वृक्षरुहा घनवल्ल्यमृतस्रवा ॥ ४४५ ॥ ;p{0299} श्वेतपुष्पी पुत्रदात्री बृत्तपत्रा सुवल्लरी । गन्धालुर्भ्रमरी वेशा जाता वातारिकाऽप्यथ ॥ ४४६ ॥ पत्रवल्ली दीर्घवल्ली खरपर्णी विषादिनी । अम्लातकी सुपर्णी च पलाशी काञ्जिका च सा ॥ ४४७ ॥ अम्लपत्री रसाम्ला स्यादथ स्युः क्षुपजातयः । अहिच्छत्रा मिसिर्योषा शताह्वा पोतिकाशिका ॥ ४४८ ॥ स्ववाग्वज्रभूरिवनशतेभ्यः पुष्पिका पुनः । संघातशतसूक्ष्मेभ्यः पत्री छत्रा च कारवी ॥ ४४९ ॥ सुगन्धा माधवी चाथ सुपुष्पा सुरसाऽपि च । सुरसा तालपर्णी च निःश्रेया वनजाऽपि सा ॥ ४५० ॥ अवाक्पुष्पा शीतशिवा शालिनी मधुराऽप्यथ । शालिपर्णी तु सुदला दीर्घमूला सुपर्णिका ॥ ४५१ ॥ विदारिगन्धा सुमतिर्दीर्घपत्री गुहा ध्रुवा । कुमुदा पिच्छिरा सौभ्या नद्याम्रस्तूपदंशकः ॥ ४५२ ॥ समष्ठीलः कोशफलः कोशाम्रश्चाम्रगन्धकृत् । गण्डीरश्चाथ बृहती वार्त्ताकी स्थूलकण्डका ॥ ४५३ ॥ महती सिंहिकाऽक्रान्ता सुण्डाकी राष्ट्रिका कुली । कण्टाली कट्फला कण्टतनुः कण्टालुरित्यपि ॥ ४५४ ॥ ;p{0300} डोलरी वनवृन्ताकी बहुपुत्री महोटिका । अथान्या बृहती पुत्रप्रदा बहुफला च सा ॥ ४५५ ॥ रुषाङ्गा जविका पीततण्डुला धवलाऽपरा । सा तु श्वेतबृहत्यर्थाऽथाप्यन्या कण्टकारिका ॥ ४५६ ॥ क्षुद्रकण्टा कण्टकिनी दुःस्पर्शा द्राविणी पुनः । क्षुद्रा व्याघ्री क्षुद्रफला निदिग्ध्यथ सितोत्तरा ॥ ४५७ ॥ कण्टारिका क्षेत्रदूती लक्ष्मणा कपटेश्वरी । स्यान्निःस्नेहफला रास्ना नाकुली च प्रियंकरी ॥ ४५८ ॥ गर्दभी चन्द्रिका रामा क्लिन्ना सैव महौषधी । सा चोक्ता कटुवार्त्ताकी पृश्निपर्णी तु मेखला ॥ ४५९ ॥ शृगालविन्ना कलशी धावनी च महागुहा । लाङ्गूलिका सिंहपुच्छी पृथक्पर्णी शृगालिका ॥ ४६० ॥ दीर्घपर्णी चित्रपर्णी श्वपुच्छा चाथ गोक्षुरः । महाङ्गः कण्टकी बालदंष्ट्रः स्याद्भद्रकण्टकः ॥ ४६१ ॥ दुश्चंक्रमः श्वदंष्ट्रः स्याद्गोकण्टोऽपि क्षुराङ्गकः । त्रिकण्टकस्तु क्षुरकः षडङ्गो बहुकण्टकः ॥ ४६२ ॥ पलंकषः कण्टफलो वनशृङ्गाटकः करी । क्षुद्रक्षुरश्वेक्षुगन्धः स्वादुकण्टो यवासकः ॥ ४६३ ॥ ;p{0301} यासोऽनन्तो बालपत्रः समुद्रान्तो मरूद्भवः । त्रिकण्टकः सूक्ष्मपत्रो विषघ्नो विषकण्टकः ॥ ४६४ ॥ सुदूरमूलः कटुकश्चाल्पको बहुकण्टकः । क्षुद्रेङ्गुदी तीक्ष्णगन्धो गन्धार्यधिककण्टकः ॥ ४६५ ॥ वृषोऽटरूषः सिंहास्यो वासकोऽथाटरूषकः । शितपर्णी वाजिदन्ता भिषङ्माता वसादिनी ॥ ४६६ ॥ वाशाका वाशिका वाशा वाशका वाशकः पुमान् । वासाका वासिका वाजी वासको वाजिदन्तकः ॥ ४६७ ॥ अटरूषोऽप्यटरुषस्तद्वच्चाटरुरित्यपि । वासापि सिंहीपर्याया सूच्याख्यस्तु शितावरः ॥ ४६८ ॥ सूचिपत्रः शीतवरः स्वस्तिकः पुरुटः शिखी । मेधाकृद्ग्राहकः सूची कुक्कुटः सुनिषण्णकः ॥ ४६९ ॥ बभ्रुः श्रीवारको धन्वयवासस्तु दुरालभा । ताम्रमूला दुरालम्भा विरूपा दुरवग्रहा ॥ ४७० ॥ प्रबोधिनी सूक्ष्मदला धन्वी पुंस्यपि कच्छुरा । विशारदा तूष्ट्रभक्षाऽजभक्षा मरुसंभवा ॥ ४७१ ॥ वल्ली कण्टारिका क्षुद्रफला क्षुद्रदुरालभा । बहुकण्टाग्निधमनी राजमाता धमन्यपि ॥ ४७२ ॥ ;p{0302} वाकुची सुप्रभा सोमराजी शीता शितावरी । सुवल्ल्यवल्गुजा राजी चन्द्ररेखा सुवल्लिका ॥ ४७३ ॥ सोमवल्ली काकमेषी काम्भोजी पूतिगन्धका । कालमेषी कालमेशी वागुची कालमोचिका ॥ ४७४ ॥ चन्द्राह्वाऽजा कृष्णफला शणपुष्पी तु लोमशा । बृहत्पुष्पी स्थूलफला शणिका शणघण्टिका ॥ ४७५ ॥ पीतपुष्पी माल्यपुष्पी सूक्ष्मपुष्पी तु षष्टिका । सूक्ष्मपर्णी क्षुद्रशाणपुष्प्यथ श्वेतपुष्पिका ॥ ४७६ ॥ महासिता वृत्तपर्णी शरार्थेभ्यस्तु पुङ्खिका । सैव श्वेता द्वितीयाऽथ कण्टालुः कण्टपुङ्खका ॥ ४७७ ॥ कटुतिक्तस्तु चमनो माल्यपुष्पो निशाचरः । स्याद्दीर्घात्पल्लवः शाखस्त्वक्सारः शाण इत्यथ ॥ ४७८ ॥ अम्बष्ठाम्बालिका वाला शरालाम्बाम्बिका पुनः । स्यान्मयूरी गन्धफला दृढवल्का च पाशिका ॥ ४७९ ॥ मुखमाची चित्रपुष्पी छिन्नपत्र्यथ शोधनी । नीला नीला तालपत्री राज्ञी काली महाफला ॥ ४८० ॥ नीलिनी नीलपुष्पी च श्राफलाग्न्येलमोचिका । कृष्णला रजनी भद्रा भारवाही महाबला ॥ ४८१ ॥ ;p{0303} क्लीतनी चारटी श्यामा गन्धात्पुष्पा च पुष्यपि । स्थिररङ्गाञ्जनकोशी राजनील्यपरा पुनः ॥ ४८२ ॥ केशार्ही श्रीफली तुत्था महानीली खरच्छदा । गोजिह्वाऽधोमुखात्पुष्पी भूतोत्मादहरीत्यथ ॥ ४८३ ॥ अपामार्गः शैखरिकः काण्डकण्ठो मयूरकः । करमण्डलिको झण्टश्चमत्कारश्च कण्टकी ॥ ४८४ ॥ खरमञ्जर्यधःशल्यः किणही पङ्क्तिकण्टकः । प्रत्यक्पुष्पो दुर्ग्रहः स्यात्कुब्जो मर्कटपिप्पली ॥ ४८५ ॥ धामार्गवोऽपि क्षवको मालाकण्टोऽपि मर्कटी । रक्ते तत्राघट्टकः स्यात् क्षुद्रापामार्ग इत्यपि ॥ ४८६ ॥ रक्तबिन्दुर्दुग्धिनिका स्वल्पपत्राऽथ भद्रिका । बला समङ्गौदनिका मोटा भद्रौदनीति च ॥ ४८७ ॥ कल्याणिनी भद्रबला पाटी चाथ महाबला । पृक्का रुहा व्यालजिह्वा बल्या शीता बला च सा ॥ ४८८ ॥ स्यान्महाज्येष्ठदेवेभ्यो बला मृगरसा मृगा । सहदेवी पीतपुष्पी देवार्हा गन्धवल्लरी ॥ ४८९ ॥ कण्टभरा केशरुहा वर्षपुष्पा मृगादिनी । स्यात्कोशवर्द्धिनी चाथ शीता तु वृष्यगन्धिनी ॥ ४९० ॥ ;p{0304} शीतपुष्पाऽथ खर्वा स्यात्खरगन्धा चतुःफला । भद्रादनी विश्वदेवा देवदण्डा गवेधुका ॥ ४९१ ॥ घाटा नागबलाऽभीष्टा महतः स्युः परा इमाः । शाखा पत्रा फला गन्धा महाराष्ट्री तु शारदी ॥ ४९२ ॥ मत्स्यादनी मत्स्यगन्धा प्राणदा तोयवल्लरी । अग्निज्वाला चित्रपत्री लाङ्गली जलपिप्पली ॥ ४९३ ॥ वाराहकर्णी तुरगी कञ्चुकाऽश्वावरोहिका । अश्वगन्धाऽथ वनजा गन्धपत्री हयप्रिया ॥ ४९४ ॥ वाजिनी पुष्टिदा पुष्टा श्यामला कामरूपिणी । पलाशपर्णी बलदा वातघ्नी धीवरापि च ॥ ४९५ ॥ कालप्रियकरी वन्या वराहपत्रिका च सा । हपुषा विपुषा विस्रा विगन्धाऽथापराजिता ॥ ४९६ ॥ कच्छूप्लीहविषध्वाङ्क्षनाशिनी स्वल्पतः फला । शतावरी शतपदी पीवरी दीवरी वरी ॥ ४९७ ॥ वृष्या दिव्या द्वीपिशत्रुर्द्वीपिका वरकण्टकी । नारायणी सूक्ष्मपत्रा शतह्वा सुरसापि च ॥ ४९८ ॥ ;p{0305} महाशतसहस्रेभ्यः सोश्च वीर्योर्ध्वकण्टका । फणिज्जिका स्वादुरसा सुपत्राऽथैलवालुकम् ॥ ४९९ ॥ हरिवालुकमेलाह्वं मालुकं वालुकं दृढम् । एल्वालुकं कपित्थं च दुर्वर्णं प्रसरं पुनः ॥ ५०० ॥ सुगन्धकं शुल्वगन्धि स्यादेलागन्धमित्यथ । कलिकाली लाङ्गलिनी हलिनी गर्भपातिनी ॥ ५०१ ॥ दीप्ता विशल्याग्निमुखी हली नक्तेन्दुपुष्पिका । स्याद्द्वयोस्तेरणस्तेरः कुनीली रागदोऽप्यथ ॥ ५०२ ॥ जया जयन्ती हरिता विक्रान्ता विजया बला । माटा पराजिता सूक्ष्ममूला स्यादथ सुन्दरी ॥ ५०३ ॥ काकमाची सर्वतिक्ता बहुकट्गुच्छतः फला । रसायनी काकमाता स्वादुपाका विराविणी ॥ ५०४ ॥ बरा कुष्ठघ्नी मत्स्याक्षा स्याच्छ्रवन्ती तु मूषिका । न्यग्रोधी च श्रुतश्रेणी चित्रा मूषकमार्यपि ॥ ५०५ ॥ प्रत्यक्श्रेणी शंवरी स्यादानन्दा विजया जया । वीरपुत्राऽथ भृङ्गाह्वो मार्कवः केशरञ्जनः ॥ ५०६ ॥ ;p{0306} पितृप्रियो भृङ्गराजोऽङ्गारकः केशवर्द्धनः । अन्यो नीलो नीलपुष्पः श्यामलश्चाथ लोमशः ॥ ५०७ ॥ काकजङ्घा नदीकान्ता दासी काकाह्वया पुनः । पारावतपदी चाथ चञ्चुश्चञ्चूश्च विंजुला ॥ ५०८ ॥ चित्रपुत्री च कलभी सुशाखः क्षेत्रसम्भवः । चंचुरश्चंचुपत्रोऽथ विषारिर्दीर्घपत्रिका ॥ ५०९ ॥ दिव्यगन्धा महासुभ्यां बृहतश्चंचुरित्यथ । त्वक्सारभेदिनी क्षुद्रचंचुः शुनकचञ्चुका ॥ ५१० ॥ सिन्दुवारः श्वेतपुष्पः सिन्दूकः स्थिरसाधनः । स्त्रीपुंसोः सुरसो नेता सिद्धोन्या नीलसिन्दुका ॥ ५११ ॥ सिन्दुकच्छपिका भूतकेशी द्रोणी च नीलिका । निर्गुण्डिरपि निर्गुण्डी द्रोणी ना सिन्दुवारितः ॥ ५१२ ॥ शिफालिकाऽपि शुक्लाङ्गी सुवहा चापराजिता । वातारिर्विजया भूतकेशस्य क्षेत्रसम्भवः ॥ ५१३ ॥ द्वयोर्भिण्डश्चतुष्पत्र आम्लपत्रश्चतुष्पदः । करपर्णो वृत्तबीजः शुशाखश्चाथ पुत्रदा ॥ ५१४ ॥ गर्भदात्री प्राणिमाता तक्राह्वा तक्रभक्षका । पञ्चाङ्गलाशिकाभा स्यात्स्वर्णुली हेमपुष्पिका ॥ ५१५ ॥ ;p{0307} अब्दमाता खस्खसस्तु सुबीजः सूक्ष्मतण्डुलः । सूक्ष्मबीजोऽथ मतिदा बल्या पङ्गुल्यहारिणी ॥ ५१६ ॥ दृषत्पत्री गुच्छपुष्पी शिग्रुड्यथ वनोद्भवः । कुसुम्भो वह्निसंभूतस्त्रिष्वाहुल्योऽर्वुदश्च सः ॥ ५१७ ॥ शिम्बीफलो दन्तकाष्ठो नृपमाङ्गल्यकः पुनः । शरत्पुष्पस्तरवटो हलराख्यः सुपुष्पकः ॥ ५१८ ॥ भूम्याहुल्यां कुष्ठका स्यान्मार्कण्डीयं महौषधम् । कासमर्दोऽरिमर्दः स्यात्कालः कनक इत्यथ ॥ ५१९ ॥ सुपत्रो रक्तविटपः कुष्ठारिः स्याद्रविप्रियः । आदित्यपत्रांशुपतिरथ पिञ्छोलिपिण्डिके ॥ ५२० ॥ श्वेताम्लिकाथ नीलाम्ली श्यामाम्ली दीर्घशाखिका । नीलपिंछोलिका ब्राह्मी सैव पूतिमयूरिका ॥ ५२१ ॥ अग्रब्रह्माजविभ्यः स्याद्गन्धापि खरपुष्पिका । अर्कभक्ता तु वरदा सूर्यकान्ता सुवर्चला ॥ ५२२ ॥ मण्डूकपर्णी मण्डूकी विक्रान्ता सुरसम्भवा । सौरीसुतेजार्कहिता डोडिर्डेडी क्षुपात्पुनः ॥ ५२३ ॥ विषकेशरणेभ्यः सोर्मुष्टिरन्या तु जीवनी । शाकश्रेष्ठा दीर्घपत्रा सूक्ष्मपत्रा सुकालुका ॥ ५२४ ॥ ;p{0308} जीवन्ती बहुवल्ली स्यादथ नीलसिताञ्जनी । अञ्जनी रेचनी काली कृष्णाभाऽप्यथ सारिणी ॥ ५२५ ॥ कर्पासी वदरी वर्च्या समुद्रान्ता मरूद्भवा । तुला पिचुर्गुडोऽपि स्याद्वादरस्तुण्डकेरिका ॥ ५२६ ॥ वनजाऽरण्यकार्पासी भारद्वाज्यथ शृङ्खली । वज्रास्थिशृङ्खला वज्रकण्टकः कोकिलाक्षकः ॥ ५२७ ॥ इक्षुरिक्षुरको वज्रपिच्छिला कापिशेक्षणः । इक्षुगन्धा सप्तला स्यात्फेनादीप्ता विषाणिका ॥ ५२८ ॥ स्वर्णपुष्पी पत्रघना बहुफेनाऽपि सारिवा । विमला बिन्दुला कामवृद्धिस्तु मदनायुधः ॥ ५२९ ॥ जीवो जितेन्द्रियः कामी दद्रुघ्नस्तु प्रपुन्नटः । चक्रमर्दः प्रपुन्नाटः पुन्नाटः शुकनासिकः ॥ ५३० ॥ दृढबीजस्तरवटः खर्जूघ्नोऽण्डगजश्च सः । स्यामेघगजचक्राणां नामा चक्रगजः पुनः ॥ ५३१ ॥ व्यावर्तकश्चैडगजो झिञ्झिरीटा तु झिञ्झिरा । पीतपुष्पा कण्टफला वृत्ताश्रयफला च सा ॥ ५३२ ॥ ;p{0309} हुडरोमाऽप्यथ क्षुद्रक्षुपास्तत्राथ पर्पटः । तृष्णारिश्चरको रेणुः कल्पाङ्गो वरकोरकः ॥ ५३३ ॥ शीतः शीतप्रियः पांशुः सुतिक्तो बहुकण्टकः । कृशशाखो रक्तपुष्पः पित्तारिः कवचः पुनः ॥ ५३४ ॥ जीवको जीवनो जीव्यः शृङ्गाख्यः प्राणदः प्रियः । चिरञ्जीवी च मधुरो मङ्गल्यः कूर्चशीर्षकः ॥ ५३५ ॥ ह्रस्वाङ्गो जीवदो वृद्धिप्रदो धीरस्तु दुर्द्धरः । गोपर्यायपतिः कामी गोरक्षो गोपतिश्च सः ॥ ५३६ ॥ ऋक्षः प्रियोऽथ श्रमणा भिक्षुः श्रवणशीर्षकः । शुण्डिनी श्रावणी चाथ महामुण्डी तु लोचनी ॥ ५३७ ॥ कदम्बपुष्पा विकचा क्रोडघोरा पलंकषः । स्यान्महाश्रावणी मुण्डा भूनदीभ्यां कदम्बका ॥ ५३८ ॥ मुण्डा छिन्ना ग्रन्थिनिका माता लोभन्यलंबुषा । स्थविराऽथ मणिच्छिद्रा शल्यपर्ण्यपि जीवनी ॥ ५३९ ॥ मेदावती मेदसारा मेदिनी मधुरा वरा । स्निग्धा मेदोद्भवा साध्वी शल्यदा बहुरन्धिका ॥ ५४० ॥ जीवनी तु महामेदा देवेष्टा पांशुरागिणी । वसुच्छिद्रा देवगन्धा दिव्या देवमणिश्च सा ॥ ५४१ ॥ ;p{0310} सुरमेदा महाच्छिद्रा वृद्धार्हाऽप्यथ बुद्धिदा । सिद्धा योग्या जीवदात्री लोककान्ता रथाङ्ग्यपि ॥ ५४२ ॥ जीवश्रेष्ठा यशस्या स्त्री चेतनीया सुखं च मुत् । संपञ्जनेष्टा भूत्यर्था भूतिश्चापि प्रसारिणी ॥ ५४३ ॥ नारुपर्णी राजबला सारिणी प्रसरा सरा । प्रतानकी भद्रपर्णी स्याद्बल्या राजपर्ण्यथ ॥ ५४४ ॥ धूम्रपत्रा तु धूम्राह्वा सुलभा गृध्रपत्रका । द्वयोः पाषाणभेदः स्यात् श्वेतः शैलसमुद्भवः ॥ ५४५ ॥ इरावती तु खट्वाङ्गा गोधा गोधावतीत्यथ । श्वेतान्या सा शिलाचक्रा शिलात्वक् सप्तनासिका ॥ ५४६ ॥ शिलाजा वल्कलाभाऽथ क्षुद्रपाषाणभेदकः । रश्मिकेतुश्चतुःपत्री पार्वती कन्दरोद्भवा ॥ ५४७ ॥ नागभूरथ भृङ्गेष्टा गृहकन्या स्थलेरुहा । कुमार्यर्था दीर्घपत्रा बहुपत्राऽमराऽजरा ॥ ५४८ ॥ कण्टकप्रावृता वीरा ब्रह्मघ्नी विपुला श्रवा । कपिला तरुणी रामा मृद्वी स्यादम्बुधिस्रवा ॥ ५४९ ॥ बर्हिचूडा तु शिखिनी शिखालुः सुशिखाऽप्यथ । क्षीरिणी काञ्चनक्षीरी कर्षिणी पटुपर्ण्यपि ॥ ५५० ॥ ;p{0311} दुग्धा हैमवती हैमी हेमदुग्धा हिमावती । हिमाद्रिजा यवोद्भूता स्वर्णक्षीरी तु रुक्मिणी ॥ ५५१ ॥ स्वर्गाह्वाथ त्रायमाणा कृतत्राणापि पालिनी । मङ्गल्यार्हा देवबला त्रायन्ती वार्षिकी च सा ॥ ५५२ ॥ सुकामा बलभद्राथ स्रवत्तोयाऽमृतस्रवा । रामाम्बिका महास्तम्बी रुदन्ती शणपत्रिका ॥ ५५३ ॥ संजीविन्यथ मत्स्याक्षी सौम्या ब्राह्मी सुवर्चला । महौषधी सुरश्रेष्ठा सुरेष्टा सुरसा पुनः ॥ ५५४ ॥ मण्डूकजननी मेध्या वीरा दिव्याऽपरा च सा । सूक्ष्मपत्रा लघुब्राह्मी जलजाऽप्यथ कामिनी ॥ ५५५ ॥ शिखरी पादपरुहा द्रुपदी गन्धमादिनी । वृक्षादनी केशरूपा श्यामा स्त्रीपुंसयोः पुनः ॥ ५५६ ॥ वन्दाकः कामवृक्षोऽथ कुलत्था दृक्प्रसादनी । कुताली लोचनहिता सैवारण्यकुलत्थिका ॥ ५५७ ॥ तण्डुलीयस्तु भण्डीरो बहुवीर्यो घनस्वनः । सुशाको ग्रन्थिलश्चाथ क्षुद्रघोली खरच्छदा ॥ ५५८ ॥ ;p{0312} विवल्लिका रक्तदला शुण्डी तु हस्तिशुण्डिका । धूसर्यथ पयस्या तु क्षीरिणी जलकामुका ॥ ५५९ ॥ कुटुम्बिनी वक्रशल्या दुराधर्षा जलेरुहा । बिरौटी शीतला चाथ चारिटी स्थलपद्मिनी ॥ ५६० ॥ सुगन्धमूलाम्बुरुहा पुष्करा पद्मचारिणी । लक्ष्मीः प्रेष्ठा पद्मवती रम्या स्थलरुहा पुनः ॥ ५६१ ॥ सुपुष्करा चातिचरा रक्तपुष्पा तु जाम्बती । जम्बूर्जाम्बवती वृक्का दुर्द्धर्षा दुःसहा च सा ॥ ५६२ ॥ मलघ्नी नागदमनी नागिनी तु विशोधिनी । नागस्फोता विशालाक्षी नागच्छत्रा विचक्षणा ॥ ५६३ ॥ श्वेतात्सर्पमधुभ्यश्च पुष्पा स्याच्छलदन्तिका । नागदन्ती स्वादुकाऽथ विष्णुक्रान्ताऽपराजिता ॥ ५६४ ॥ नीलक्रान्ता नीलपुष्पा विक्रान्ताप्यथ पुंस्ययम् । कुणंजरः कुणंजीवः कुणंज्योऽरण्यवास्तुकः ॥ ५६५ ॥ अथ ताल्युच्चटा वृष्या विषघ्नी बहुपत्रिका । बहुवीर्याहिभयदाऽजरा भूम्यामली पुनः ॥ ५६६ ॥ ;p{0313} वितुन्ना चारटी वीरा दृढपादी हिमालया । विश्वपर्ण्यथ गोरक्षी पञ्चपर्णी विचित्रला ॥ ५६७ ॥ (सा) स्यात्सुदीर्घसर्पेभ्यो दण्डी गन्धाधिकाऽप्यथ । प्रसारिणी क्रोष्टुपुच्छी गोलोमीजा च धूमिका ॥ ५६८ ॥ दुग्धपेजी पयःफेनी फेनदुग्धा पयस्विनी । भूतारी प्राणकेतुघ्नी गोजापर्ण्यथ चुक्रिका ॥ ५६९ ॥ चुकाम्लिका च चाङ्गेरी शाखाम्लाऽप्यम्लपत्रिका । शमीपत्रा रक्तपादी स्पृक्का खदिरपुत्र्यपि ॥ ५७० ॥ संकोचनी नमस्कारी समङ्गा च प्रसारिणी । स्पर्शलज्जाऽपि लज्जालुः स्याल्लज्जा लज्जरीत्यपि ॥ ५७१ ॥ गण्डमाला सप्तपर्णी कन्दर्यञ्जलिकारिका । स्यादस्रशोधिनी चापि स्वगुप्ताऽथ बृहद्दला ॥ ५७२ ॥ अल्पक्षुपाऽन्याऽप्यपरा त्रिपर्णी हंसपादिका । संचारिणी च पदिका प्रह्लादी कीलपादिका ॥ ५७३ ॥ गोधापदी हयार्थात्तु कातराथ पुनर्नवा । स्त्रियां पुंसि कठिल्लः स्याद्विशाखः शिखिवाटिका ॥ ५७४ ॥ दीर्घपत्रा च वर्षाभूः पृथ्वी रक्ताऽपरा पुनः । वर्षाभूः पत्रिका काण्डा रक्तान्मण्डलपत्रिका ॥ ५७५ ॥ ;p{0314} वैशाख्यथ च नीलाऽन्या शैवस्तु शिवशेखरः । शिवमल्ली शिवतमः सुरेष्टो वसुकः पुनः ॥ ५७६ ॥ अपि पाशुपतश्चाथ व्यालीपर्यायवाचिका । वृश्चिका त्वलिपत्री स्यान्नखपर्णी च पिच्छिला ॥ ५७७ ॥ ताली कुम्भा पाटली स्याद्ध्रुवः स्याद्रक्तपुष्पिका । स्यात्पाण्डुरफली पाण्डुर्धूसरा वृत्तबीजका ॥ ५७८ ॥ श्वेता तुम्बुरिकापत्री पर्वमूलाऽप्यविप्रिया । अजदण्डी ब्रह्मदण्डी कण्टपत्रफलाऽप्यथ ॥ ५७९ ॥ द्रवन्ती शम्बरी चित्रा न्यग्रोधी शणमूलिका । प्रत्यक्श्रेणी विषा चण्डा पुत्रश्रेण्याखुपर्ण्यपि ॥ ५८० ॥ प्रतिपर्णशिफा चापि सहस्रादपि मूलिका । द्रोणपुष्पी दीर्घदला कुम्भयोनिः कुरुम्बिका ॥ ५८१ ॥ चित्रक्षुपः सुपुष्पा स्यात्सैवोक्ता चित्रपत्रिका । अथाप्यन्या महाद्रोणा देवी देवकुरुम्बका ॥ ५८२ ॥ दिव्यपुष्पी च काञ्जिः स्यादथ हुण्डुः पुमान्स्त्रियाम् । गोरक्षदुग्धा गोरक्षी ताम्रदुग्धा रसायनी ॥ ५८३ ॥ अपि स्याद्बहुपत्री च मृतसंजीवनी शुनी । इक्षुर्मधुगुडतृणोऽसिपत्रः कुसुमाकरः ॥ ५८४ ॥ ;p{0315} वृष्यो वंशोऽपि कान्तारः स च पञ्चविधः सितः । कठिनश्वेतकाष्ठेभ्य इक्षुः काण्डाच्च पत्रकः ॥ ५८५ ॥ स्याद्दीर्घवंशसूत्रीभ्यो नीलपेरुश्च पुण्ड्रके । इक्षुवाही रसालः स्यादिक्षुवार्द्धिरथापरः ॥ ५८६ ॥ करङ्केक्षुरिक्षुयोनी रसालो रसदायकः । कोकिलेक्षुस्तु कृष्णेक्षुरिक्षुरोऽप्यथ रक्तके ॥ ५८७ ॥ शतपरुः सूक्ष्मपत्र उत्कटा मधुरा द्वयोः । ह्रस्वमूलाऽथ तन्मूले मोरटश्चेक्षुलोचनम् ॥ ५८८ ॥ अथ चैता महौषध्यः सर्वा एव रसायनाः । मण्डलैः कपिलैश्चित्रा सर्पाभा पञ्चवर्णिनी ॥ ५८९ ॥ पञ्चरत्निप्रमाणा तु विज्ञेयाऽजगरी बुधैः । निष्पत्रा कनकाभासा मूले द्व्यङ्गुलसंमिता ॥ ५९० ॥ स्वल्पाकारा लोहिताङ्गा श्वेतकापोतिकोच्यते । द्विपर्णिनीमूलभवामरुणां कृष्णपिङ्गलाम् ॥ ५९१ ॥ द्विरत्निमात्रां जानीयाद्गोनसीं गोनसाकृतिम् । सक्षारां रोमशां मृद्वी रसेनेक्षुरसोपमाम् ॥ ५९२ ॥ एवंरूपरसां चापि कृष्णकापोतिमादिशेत् । कृष्णसर्पस्य रूपेण वाराही कन्दसम्भवाम् ॥ ५९३ ॥ ;p{0316} एकपर्णां महावीर्यां भिन्नाञ्जनचयोपमाम् । छत्रातिच्छत्रके विद्याद्रक्षोघ्ने कन्दसम्भवे ॥ ५९४ ॥ जरामृत्युनिवारिण्यौ श्वेतकापोतिसम्भवे । कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ॥ ५९५ ॥ कन्दजा काञ्चनक्षीरी कन्या नाम महौषधिः । करेणुः सुबहुक्षीरा कन्देन गजरूपिणी ॥ ५९६ ॥ हस्तिकर्णपलाशस्य तुल्यपर्णा द्विपर्णिनी । अजास्तनाभकन्दा तु सक्षीरा क्षुपरूपिणी ॥ ५९७ ॥ अजा महौषधी ज्ञेया शंखकुन्देन्दुपाण्डरा । विचित्रकुसुमां श्वेतां काकादन्या समक्षुपाम् ॥ ५९८ ॥ तक्रकामोषधां विद्याज्जरामृत्युविनाशिनीम् । शूलिभिः पञ्चभिः पत्रैः संयुक्ता शुक्लकोमलैः ॥ ५९९ ॥ आदित्यपार्णनी ज्ञेया सदादित्यानुवर्त्तिनी । कनकाभा जलान्तेषु सर्वतः परिसर्पति ॥ ६०० ॥ सक्षीरा पद्मिनीप्रख्या देवी ब्रह्मसुवर्चला । अरत्निमात्रक्षुपका पत्रैर्द्व्यङ्गुलसंमितैः ॥ ६०१ ॥ पुष्पैर्नीलोत्पलाकारैः फलैश्चाञ्जनसप्रभैः । श्राविणी महती ज्ञेया कनकाभा पयस्विनी ॥ ६०२ ॥ ;p{0317} श्राविणी पाण्डुराभासा महाश्राविणिलक्षणा । गोलोमी चाजलोमी च लोमशे कन्दसम्भवे ॥ ६०३ ॥ हंसपादीव विच्छिन्नैः पत्रैर्मूलसमुद्भवैः । अथवा शंखपुष्प्या तु समाना सर्परूपतः ॥ ६०४ ॥ वेगेन महता विद्यात्सर्पनिर्मोकसन्निभा । एषा हैमवती नाम जायते साम्बुदक्षये ॥ ६०५ ॥ सप्तादौ सर्परूपिण्यो बाह्यौषध्यः प्रकीर्तिताः । तासामुद्धरणं कार्यं मन्त्रेणानेन सर्वदा ॥ ६०६ ॥ महेन्द्रराजकृष्णानां ब्राह्मणानां गवामपि । तपसा तेजसा चैव प्रशाम्यध्वं शिवाय च ॥ ६०७ ॥ मन्त्रेणानेन मतिमान्सर्वमप्यौषधं जपेत् । कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । वनौषधिप्रकाण्डोऽयं दशमः सिद्धिमागतः ॥ ६०८ ॥ ;v{सरभादिप्रकाण्डः} अथ प्रसह्यास्तत्रादौ सरभस्तु महामृगः । उत्पादको महास्कन्धः सिंहशत्रुर्महामनाः ॥ १ ॥ लण्डिलश्चोर्ध्वनयनो रामोष्टापद इत्यपि । महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥ २ ॥ ;p{0318} वनपर्वतयोरर्थान्निवासार्थोऽष्टपादपि । उष्ट्राकृतिश्चाथ सिंहः पञ्चास्यः केसरी हरी ॥ ३ ॥ हर्यक्षः केशरी मानी नखी मृगपतिर्हरिः । कण्ठीरवः पञ्चशिखः शैलाटो भीमविक्रमः ॥ ४ ॥ पलंकषो महानादः पारीन्द्रो नखरायुधः । अगौकाश्च नगौकाश्च केसरी करिमाचलः ॥ ५ ॥ गन्धोष्णीषो व्यादितास्यो वनराजो गणेश्वरः । हस्तिपर्यायशत्र्वर्थो नभःक्रान्तः सकृत्प्रजः ॥ ६ ॥ रक्तजिह्वो महावीरो दशमीस्थः सुगन्धिकः । तथैव श्वेतपिङ्गश्च श्वापदो गर्जितासहः ॥ ७ ॥ द्विपः पञ्चशिखश्चाथ नादेऽप्यस्य मरुत्प्लवः । टक्कारोऽपि च चुत्कार स्त्रियां क्ष्वेडाऽथ भीरुकः ॥ ८ ॥ व्याघ्रः पञ्चनखो व्याडः शार्दूलोऽपि गुहाशयः । तीक्ष्णदंष्ट्रः पुण्डरीको द्वीपी द्वीपिल इत्यपि ॥ ९ ॥ चित्रकश्चित्रकायः स्यादुपव्याघ्रो मृगान्तकः । व्याघ्र्यां चित्रेण संजातः कलव्याघ्रोऽथ भल्लुकः ॥ १० ॥ दुर्घोषो भल्लुको भल्लो भालुकः पृष्ठदृष्टिकः । द्राघिष्ठायुर्दीर्घकेशो भाल्लूको भल्लकोऽपि च ॥ ११ ॥ ;p{0319} भल्लो भाल्लश्च भालूक ऋक्षोऽप्यथ मृगादनः । तरुक्षुश्च तरक्षः स्याद्घोरदर्शन इत्यपि ॥ १२ ॥ शृगालो वञ्चकः क्रोष्टा सृगालो मृगधूर्त्तकः । गोमायुर्भूरिमायः स्यात्फेरवो घोरवासनः ॥ १३ ॥ पारूरवः पेरवोऽपि पेरुः फेरुश्च जम्बुकः । जम्बूको वनमत्तः स्याल्लोपाशो वनकुक्कुरः ॥ १४ ॥ शालावृकः शिवालुः स्यात्फेरण्डो व्याघ्रनामकः । स्त्रियां शिवा दीप्तजिह्वा फेरवा घोरवाशिनी ॥ १५ ॥ लोपाश्युल्कामुखी गण्डिः साल्पा खोल्का किखिः पुनः । भोवाकी पूतिकेश्याह्वा नखिनो लग्नमैथुनाः ॥ १६ ॥ तेऽपि स्युः श्वापदाः सर्वे कोकस्त्वीहामृगो वृकः । स्याद्गोवत्सहुडच्छागनाशनोऽपि जलाश्रयः ॥ १७ ॥ वनार्थभषणार्थोऽथ पुनः स्याद्दीप्तलोचनः । स च स्यान्मूषकारातिर्मायावी रात्रिचार्यपि ॥ १८ ॥ जाहकः कुन्दमो ह्रीकुर्विडालो वृषदंशकः । मार्जार ओतुस्तद्भेदा देशभेदादथापरः ॥ १९ ॥ वनेचरो लम्बमुखो वृक्षावासोऽथ लोमशः । सुगन्धिमूत्रः पूतीकस्तपनो मारजातकः ॥ २० ॥ ;p{0320} गन्धपर्यायमार्जारः खट्टाशोऽथ विलम्बिताः । गज उक्तो गणोत्साहो वज्रचर्मा च गण्डकः ॥ २१ ॥ खड्गो वाध्रीणसः क्रोडी मालशृङ्गो वलीत्यपि । खड्गी शूरोऽप्यथोष्ट्रोग्रे प्रोक्तो गौर्महिषोऽपि च ॥ २२ ॥ वनगौर्वलभद्रोऽपि स्यान्महागव इत्यपि । तथैव स्याद्भिल्लगवी तस्य स्त्री चमरस्तु सः ॥ २३ ॥ व्यजनी वन्यगौर्वालधिप्रियोऽप्यथ तत्स्त्रियाम् । गिरिप्रिया तु चमरी दीर्घबालाऽथ शूकरः ॥ २४ ॥ सूकरो रोमशो दंष्ट्री बहुसत्त्वः किरिः किटिः । रदपोत्रायुधः कोलः शूरो बहुतरस्वरः ॥ २५ ॥ वली दन्तायुधः क्रोडः स्तब्धरोमा जलप्रियः । वराहः सूरिको घृष्टिः सूचीरोमा बहुप्रजः ॥ २६ ॥ घोणान्तभेदनो घोणी कुमुखो वज्रवल्कलः । लाङ्गलास्यो दीर्घरतो मुस्तान्नः स्थूलनासिकः ॥ २७ ॥ अदन्तो वक्रदंष्ट्रः स्यादाखनिर्ग्रामसूकरः । ग्रामीणो विड्वराहोऽपि विष्ठालुर्दारुकश्च सः ॥ २८ ॥ अथ द्रुतास्तत्र हयः प्रोक्तः स्यादथ वेसरः । सकृद्गर्भोऽश्वावरजः सन्तुष्टो मिश्रजः क्षमी ॥ २९ ॥ ;p{0321} ध्वजोऽतिभारगो मिश्रशब्दोऽप्यथ महामृगाः । वराहमहिषन्यङ्कुरुरुरोहितवारणाः ॥ ३० ॥ समरश्चमरः खड्गो महिषो हरिणस्तु सः । चारुनेत्रस्ताम्रमृगः सारङ्गः प्रियकः पुनः ॥ ३१ ॥ वातायुः कृष्णसारस्तु कलमः कृष्ण इत्यपि । एणोऽप्यथ पुनर्न्यङ्कुर्वङ्कुणो मृगसंनिभः ॥ ३२ ॥ देहेन बहुशृङ्गाग्रो मेघान्ते त्यजति स्वयम् । शृङ्गं रौति रुरुस्तेन सोम्भस्तटचरः सदा ॥ ३३ ॥ तेनासौ शम्बरादन्योऽथो रामः पुरुषप्रभः । विकटोग्रबद्धशृङ्गो महाशृङ्गो वनप्रियः ॥ ३४ ॥ भारशृङ्गोऽपि बिन्द्वङ्गः शम्बरोऽथ महाजवः । वातप्रमीर्वातमृगो जङ्घालो जाङ्घिकश्च सः ॥ ३५ ॥ कालपुच्छश्च सीत्कारश्छिंकारो जवनः पुनः । अपि स्याद्वेगिहरिणः शिखिरूपोऽथ चित्रलः ॥ ३६ ॥ शृङ्गः शाखी च सारङ्गः कुकुवागथ रोहितः । वर्णाभ्यां ताम्रकृष्णाभ्यां युक्तः स चतुरोऽप्यथ ॥ ३७ ॥ अधोनिःक्रान्तदशनः करालो भषणाकृतिः । रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामृगः ॥ ३८ ॥ ;p{0322} श्वदंष्ट्रस्तु चतुर्दंष्ट्रो दंष्ट्राकर्कटकोऽप्यथ । रङ्कुः शबलपृष्ठः स्यात् ढुण्डिवारोऽथ यो मृगः ॥ ३९ ॥ गोतुल्यश्चाथ गवयः ककुत्सास्नाविवर्जितः । गोमृगेन्द्रोऽप्यथो मत्स्यवर्णोऽसौ चमराकृतिः ॥ ४० ॥ वेगवान्सृमरोऽथ स्यादुरणो रूपकोप्यथ । वरपोतः श्रेष्ठशावोऽप्यथ स्यात् कृतमालकः ॥ ४१ ॥ संघातचार्यथ तनुश्चारोः कः स्यात्स्त्रियां पुमान् । स्वल्पा शशाभा गोधाह्वा मातृकापि पृथूदरा ॥ ४२ ॥ अन्यागोधाण्डजा ज्ञेया शशकस्तु विलेशयः । लम्बकर्णः श्रुतगतिः शूलिको लोमकर्णकः ॥ ४३ ॥ रुरुचीनैणहरिणपृषताः शंवरः पुनः । सृमरश्च चमूरुश्चेत्येते स्युरजिनाकराः ॥ ४४ ॥ प्लवप्लवंगप्लवगप्लवंगमनगाटनाः । स्याद्वृक्षशाखापर्णानां पर्यायेभ्यो मृगार्थकः ॥ ४५ ॥ उत्तालो वानरः कीशो मर्कटोऽपि बलीमुखः । हरिः किखिः कपिः शोणो दधिर्वनगृहार्थकः ॥ ४६ ॥ मर्कः कुषाकुः पिङ्गाक्षः पिङ्गो ममर इत्यपि । मन्दुराभूषणोऽपि स्यात्तद्भेदाः स्वल्पपुच्छकः ॥ ४७ ॥ ;p{0323} स च स्याद्रक्तगौरास्यः श्वेतः कृष्णमुखोपरः । गोलाङ्गूलः श्यामपादकरः श्वेतोऽपि सर्वतः ॥ ४८ ॥ सर्वतः कृष्णवर्णोऽपि पिशङ्गो नीलकर्वुरौ । गुदस्थलं कपीनां यत्तत्कप्यासमितीरितम् ॥ ४९ ॥ इति भेदा वानराणामथ पर्णमृगा अमी । मुद्गादा मूषकाः पूतिघसाः पादपशायकाः ॥ ५० ॥ प्रघसा वानराद्यास्तेऽप्यथापि स्युर्विलेशयाः । स्याच्छल्यकः शल्यमृगो वज्रशल्की विलेशयः ॥ ५१ ॥ स्त्रियां श्वाविच्छली चाथतल्लोम्नि शलली त्रिषु । शलं क्लीबेऽथ चमरपुच्छो जवितकौङ्कडौ ॥ ५२ ॥ कोकोवाचो धूम्रकः स्याल्लोमशोऽपि विलेशयः । नकुलः सूचिवदनः सर्पादी लोहिताननः ॥ ५३ ॥ वभ्रुर्वन्ये पुनर्ग्राम्ये चिक्कः स्यादथ मूषकः । वृषो दृशोऽप्याखनिको मूषो मूषीकका द्वयोः ॥ ५४ ॥ विलकारी धान्यभक्ष आखुर्मूडदरो नखी । बहुप्रजोऽपि खनक उन्दुरुर्मूषिका द्वयोः ॥ ५५ ॥ निलेशयो वज्रदन्तो गर्ताटवृषकाण्डकाः । आख आखानिकोऽखः स्यात् क्रमुः कर्चश्च भिंबकः ॥ ५६ ॥ ;p{0324} महामूषस्तु मूषी स्यान्महाङ्गो भित्तिपातनः । विघ्नेशाश्वः शस्यमारी भूकलो गिरिसम्भवः ॥ ५७ ॥ अनेकवर्णो वनजो गिरिका बालमूषिका । स्यात्स्वल्पा लम्बतुण्डा तु शुण्डिनी शुण्डिमूषिका ॥ ५८ ॥ सुगन्धिमूषिका छुच्छूर्गन्धाढ्या प्रतिमूषिका । छुच्छुन्दरी राजपुत्री पुच्छलोमा तु वृत्तिकः ॥ ५९ ॥ वृक्षोन्दरस्त्रिरेखः स्यान्निहाका तु द्विजिह्विका । दारुमुख्याह्वया गोधा गोधिकाऽण्डसमुद्भवा ॥ ६० ॥ त्रिविधा सा स्थूलमध्यसूक्ष्माङ्गा स्यात्तदङ्गजे । कृष्णसर्पात्समुत्पन्ने तत्रैव च चतुष्पदे ॥ ६१ ॥ गौधेरोऽपि च गौधारो येन दष्टो न जीवति । तृणाञ्चनः क्रकचपात् कृकलासो हलाहलः ॥ ६२ ॥ वृतिस्थः सरटश्चित्रकोलश्चापि द्रुमाश्रयः । अपि स्यात्कण्टकगृहः प्रतिसूर्यः शयानकः ॥ ६३ ॥ दुरारोहो मरुभवे संडाको वनसम्भवे । सुकंपनोऽतिनीलोऽथाञ्जनिकाऽप्यञ्जनाधिका ॥ ६४ ॥ हालिनी तत्र स्थूलायां ब्राह्मणी रक्तपुच्छिका । जाहको गात्रसंकोची सर्पारिः कामरूप्यपि ॥ ६५ ॥ ;p{0325} सूचीरोमा पीलुवासो बहुरूपश्च मण्डली । विरूपी चार्थपल्ली तु मुशली गृहगोधिका ॥ ६६ ॥ माणिक्या भित्तिका ज्येष्ठा गृहोली च विसंवरा । द्वयोः कुड्याच्च मत्स्यार्था गृहगोधा गृहान्तिका ॥ ६७ ॥ मुशली मुषली चाथ तन्तुवायस्तु वायकः । ऊर्णनाभश्चोर्णनाभिर्लूता मर्कटकः कृमिः ॥ ६८ ॥ अष्टापदो मर्कटी च जाली तज्जालके पुमान् । आशाबन्धस्तद्विभेदास्तेषां भेदाश्च भूरिशः ॥ ६९ ॥ विषस्वेदा मर्कटी स्यादजीलाका हलाहलः । वक्रकीटास्तत्प्रभेदा बहवोप्यथ वृश्चिकः ॥ ७० ॥ द्रोणोऽलिर्ब्रश्चनः शूककीट आलिरली पुमान् । आली द्रुणोऽथ तत्पुच्छकण्टकेऽलमनव्ययम् ॥ ७१ ॥ कारस्कराटिका कर्णजलौका शतपाद्यपि । कर्णाज्जलौकः शतपाद्भीरुः शतपदी स्त्रियाम् ॥ ७२ ॥ नीलङ्गुरपि नीलाङ्गुश्चित्राङ्गी कृमिवत्कृमिः । वम्र्युपाज्जिह्विका दीका दिका गेही च सीमिका ॥ ७३ ॥ कम्बलाशिन्यपि चटिरुपपाद्युपदी दिविः । वल्मीककारिकोद्गेही देवप्राप्तवरा च सा ॥ ७४ ॥ ;p{0326} पिपीलिका तु हीनाङ्गी बलिष्ठा सिङ्घिनी च सा । अपि योजनगन्धज्ञा तद्भेदाः स्युरनेकशः ॥ ७५ ॥ कृष्णादिवर्णभेदाच्च गतिभेदादथापराः । घृतेड्यः पिङ्गकपिशास्ताः शुभाशुभसूचकाः ॥ ७६ ॥ उदङ्घाः कपिजङ्घाकास्ताः स्युस्तैलपिपालिकाः । शिथिल्यो घृतमल्ल्यस्तु वृक्षपत्रपुटाश्रयाः ॥ ७७ ॥ पिशङ्गरक्तकृष्णाङ्ग्यस्ताः सर्वा मधुरप्रियाः । महाङ्गास्तेऽपि पुंसि स्युर्मत्कुणो मञ्चकाश्रयः ॥ ७८ ॥ उद्दंशकश्चोत्कुणः स्याद्रक्ताङ्गो रक्तपाऽप्यपि । उकात्कुणश्चाथ पुनश्चञ्चुलश्चञ्चलः प्लवः ॥ ७९ ॥ अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः । पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥ ८० ॥ वृक्षपर्यायसद्मार्थो नभसोर्थाद्गमार्थकः । पतङ्गः पित्सन् शकुनिः शकुनो विर्विहङ्गमः ॥ ८१ ॥ पुगः शकुन्तः कण्ठाग्निरण्डजो रसनारदः । लोमकी कीकसमुखो नाडीचरण इत्यपि ॥ ८२ ॥ विकिरो विष्किरः पत्रिर्नगौकाश्च नगौकसा । शरडश्च सरण्डापि पतगश्च वयो द्वयोः ॥ ८३ ॥ ;p{0327} स्यात् पत्राङ्गी पिपतिषन् नभसंगम इत्यपि । पतत् वाजी विहायाः स्याच्छकुन्तिस्ते चतुर्विधाः ॥ ८४ ॥ तत्रादौ प्रतुदा गृध्रस्तार्क्ष्यश्चिल्लो विजृम्भणः । आतायी शबली दूरदर्शी स्याद्भुजगान्तकः ॥ ८५ ॥ शाल्मलीस्थो वज्रतुण्डो गरुत्मान् खगराट् पुनः । सुमुखः शोभनास्यः स्यान्मणितुण्डस्तरक्षकः ॥ ८६ ॥ अपि संघातचारी स्यात् मेरुतुण्डो महाखगः । श्येनस्तरस्वी दाक्षाय्यो दूरदर्शी शशादनः ॥ ८७ ॥ कामान्धस्तीव्रसन्तापः क्रव्यादस्तार्क्ष्यनायकः । वेगी खगान्तकः क्रूर एतद्भेदा अनेकशः ॥ ८८ ॥ क्षेमङ्करीप्रभृतयः पुनर्गोष्ठचरादयः । पक्षिशक्रश्च भासश्च गुह्यो विसर इत्यपि ॥ ८९ ॥ शालियाजा वडाश्चैव लङ्गवः प्राञ्जिका अणिः । रङ्गणाश्चैव संवाणा गृध्रा अपि च वेसराः ॥ ९० ॥ अचण्डिकाः कंविकाश्च द्रोणकाश्चावहावकाः । पापर्द्धिरसिकैर्ज्ञेया गन्धमादनसम्भवाः ॥ ९१ ॥ नीलच्छदस्तु करणो लम्बपर्णो रणप्रियः । रणमत्तः पिच्छबाणः स्थूलनीडो भयङ्करः ॥ ९२ ॥ ;p{0328} लोहपृष्ठस्तु कृकरः संदंशवदनः खरः । रणालंकरणः क्रूरः कॄकरश्चामिषप्रियः ॥ ९३ ॥ उपचक्रः श्वभ्रतनुः कृशचञ्चुर्मदान्वितः । कङ्कोऽथ वायसोऽरिष्टः कांरवो गूढमैथुनः ॥ ९४ ॥ आत्मघोषो महालोलश्चिरायुर्मुखरः खरः । नाडीजङ्घः काशिकारिः सत्यवाङ्नगरीवकः ॥ ९५ ॥ सकृत्प्रजोऽपकृष्टः स्याद्वलिपुष्टो निमित्तकृत् । लुण्ठाको वलिभुक्काणः परमृत्युश्च शक्रजः ॥ ९६ ॥ ध्वाङ्क्षो रतजरः सूत्री करटः काकमौकुली । चलाचलोऽपि धूर्तः स्याच्छ्रावकोऽथ पलप्रियः ॥ ९७ ॥ अरण्यवायसो द्रोणः काकोलो घनवागपि । द्रोणकाको महाप्राणः स प्रोक्तः क्रूरवागपि ॥ ९८ ॥ उलूकः पेचको घूकस्तामसो घोरदर्शनः । घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥ ९९ ॥ नक्तंचरोऽपि काकारिर्दिवान्धः कुधिरित्यपि । नखादी चाथ मांसेष्टा दिवास्वापी निशाचरी ॥ १०० ॥ दिवान्धा वक्त्रविष्ठा स्याद्वल्गुनी मातृवाहिनी । अपादा पक्षनखराऽधोमुख्यर्धजरत्यपि ॥ १०१ ॥ ;p{0329} स्वैरिणी चाथ सैवाल्पा जतुकी गृहमोचिका । भाङ्कारी चर्मचटिका सैवोक्ता विषसृक्किका ॥ १०२ ॥ अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः । गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥ भुजङ्गभोजी पत्राड्यः शुक्लापाङ्गः शिखण्ड्यपि । चित्रपिच्छः कलापी च मेघमत्तः शिखी ध्वजी ॥ १०४ ॥ प्रचलाकी बर्हिणोऽपि बर्ही तिलशिखीति च । मेघनादानुलासी स्याच्चित्रमेखल इत्यपि ॥ १०५ ॥ कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् । शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥ प्रचलाकः शिखा चूडा मेचकः पुंसि तद्ध्वनौ । केकाथापस्वरः क्रौञ्चः क्रुङ् स्यात्पङ्क्तिचरः पुनः ॥ १०७ ॥ शरत्पक्षी वक्रचञ्चू रक्तको रात्रिजागरः । शेवलादः पुण्डरीकनयनो लोहिता तु या ॥ १०८ ॥ रोहिणी स्याल्लोहिताङ्गाऽप्यथोत्क्रोशः स्त्रियां पुमान् । कुररः खरशब्दः स्यान्नीलक्रौञ्चोऽतिजागरः ॥ १०९ ॥ दीर्घग्रीवश्च नीलाङ्गो वकस्तु शुक्लवायसः । वकोटस्तापसः कङ्कस्तीर्थजङ्घो निशान्तकः ॥ ११० ॥ ;p{0330} तीर्थसेवी मृषाध्यायी मीनघाती शिखी पुनः । कङ्केरुर्निश्चलाङ्गः स्याद्वाकश्चन्द्रबिहङ्गमः ॥ १११ ॥ स्त्रीदत्तवलिभुक् चाथ वलाका विषकण्ठिका । शरारिरारिराटिश्च शरार्यार्यातिरित्यपि ॥ ११२ ॥ शरालिश्च शराली च पुरुषत्वे स्त्रियामिमे । वलाहका वकेरुः स्त्री मेघानन्दा जलाश्रया ॥ ११३ ॥ धर्मान्तकामुकी श्वेताऽथोत्क्रोशो मत्स्यनाशनः । कोयष्टिष्टिट्टिभष्टिष्टिः कुररो जलकुक्कुटी ॥ ११४ ॥ कारण्डवः काकवक्त्रो दीर्घाङ्घ्रिः कृष्णवर्णका । प्लवो महाप्रमाणः स्यात्प्रसेवकगजश्च सः ॥ ११५ ॥ मृणालकण्डः काकस्तु वलाकः स्यादथापरः । आटीभेदे तु पत्राटी स्यान्नान्दीमुख इत्यपि ॥ ११६ ॥ कुलवारी लघुश्चित्रवर्णश्चित्राङ्गदोऽप्यथ । मद्गुस्तु जलकाकः स्यादथान्या जलकुक्कुटी ॥ ११७ ॥ कृष्णवर्णाथ काचाक्षो मल्लिकाक्षः कपर्दिका । आकाशे सुचिरं भ्रान्त्वा जले पतति लोष्टवत् ॥ ११८ ॥ शुक्लाक्षः शुक्लशवलोप्यारी त्वारामुखी पुनः । चक्रः कोकश्चक्रवाको निट्पर्यायवियोग्यपि ॥ ११९ ॥ ;p{0331} भूरिप्रेमा द्वन्द्वचारी रथाङ्गो राविषोऽपि च । कामी सहायो गोनर्दः कान्तोऽथ मणितारकः ॥ १२० ॥ अथ हंसस्तु चक्राङ्कश्चक्राङ्गो वरटश्च सः । श्वेतपक्षो मानसौका मोक्तिकाशन इत्यपि ॥ १२१ ॥ राजहंसः सितो रक्तैरक्षिचञ्चुपदैः पुनः । मलिकाक्षो मल्लिकाक्षो मल्लिको पिचधूसरैः ॥ १२२ ॥ सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः । कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥ १२३ ॥ अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ । लक्ष्मणो रसिकः कामी काकुवाक्कामिवल्लभः ॥ १२४ ॥ नीलकण्ठः पुष्कराह्वो लक्ष्मणा लक्षणापि च । लक्षणी लक्ष्मणी च स्याद्गन्धोली वरटा द्वयोः ॥ १२५ ॥ तद्वद्धंसी च चक्राङ्गी चक्राङ्की मृदुगामिनी । गन्धोलिरपि गन्धाली वराला वारलापि च ॥ १२६ ॥ वरला वारटी चापि वरटी च स्त्रियामिमाः । ये प्लवा एव ते सर्वे विज्ञेयाः क्षुद्रसारसाः ॥ १२७ ॥ ते श्वेतचित्रधूम्राद्यनामान्त्याः स्युरनेकशः । सरावान् पद्मनेत्रश्च पद्मकन्दाद इत्यपि ॥ १२८ ॥ ;p{0332} श्वेतोदरः श्यामपृष्ठः कोनीलो जलवर्त्रिका । पुष्कराच्छायिका पद्मशायिन्यथ च विष्किराः ॥ १२९ ॥ ताम्रचूडो विवृत्ताक्षः कुक्कुटश्चरणायुधः । कालज्ञः कृकवाकुः स्यान्नियोद्धा नखरायुधः ॥ १३० ॥ बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः । कामकाकुरवो झिल्लीकण्ठोऽपि गुणलोचनः ॥ १३१ ॥ वतः पतः परापारापारेभ्यश्चातिमानवान् । स्यान्मदनमोहनवाग्विलासी रक्तनेत्रवान् ॥ १३२ ॥ कण्ठारवो गृहार्थेभ्यः कपोतोऽप्यथ कामुकः । अंह्रिपिच्छः कलरवो वग्देशी छुल्छुलारवः ॥ १३३ ॥ कोकथुस्तु वनोद्भूते धूसरो धूम्रलोचनः । भीषणोऽग्निसहायः स्याद्दहनो गृहनाशनः ॥ १३४ ॥ भेदा एषां बहुविधा गृह्याणां वनचारिणाम् । पुंस्कोकिलः कलरवः पिको मदनपाठकः ॥ १३५ ॥ वसन्तदूतो वासन्तः कोकिलो मधुगायनः । कुहूरवः परभृतः सुधाकण्ठो वनप्रियः ॥ १३६ ॥ घोषयित्नुः कामतालो मदोल्लापी रतोद्वहः । सुतर्दनोऽपि ताम्राक्षः कलकण्ठा कुनालिकः ॥ १३७ ॥ ;p{0333} मत्तः कालोऽपि कामान्धो गन्धर्वश्चास्य तु प्रिया । कोकिला मधुरालापा कामगा वनभूषणा ॥ १३८ ॥ अन्यपुष्टाऽप्येवमेवमुन्नेया अथ कीरके । शुको मेधातिथिर्मञ्जुपाठकः प्रियदर्शनः ॥ १३९ ॥ मेधावी रक्तचञ्च्वर्थः श्रीमान्वाग्मी फलाशनः । नृपप्रियो राजशुकः शतपत्रश्चमर्यपि ॥ १४० ॥ काष्ठपर्णशुकास्ते स्युर्गुरुमध्याल्पविग्रहाः । रक्तकृष्णोत्तमाङ्गास्ते रक्तपीतादिचञ्चवः ॥ १४१ ॥ नीलपीतश्यामरक्तचित्रवर्णा अनेकशः । सारिका मधुरालापा दूती मेधाविनीति सा ॥ १४२ ॥ गोराटी गोरिका मूली शरभी गोकिराटिका । हहोलिका चित्रपादा चित्राङ्गी कलहप्रिया ॥ १४३ ॥ पीतपादा वङ्गकुला हट्टली प्रियवादिनी । जीवंजीवस्तु रक्ताक्षश्चकोरो विषसूचकः ॥ १४४ ॥ कौमुदीजीवनो जीवजीवकश्चन्द्रिकाशनः । कौमुदीजीवनोऽङ्गारभक्षोऽप्यथ च चातकः ॥ १४५ ॥ घनारवश्च वापीहः सारङ्गो मेघजीवनः । वर्षप्रियस्त्रिशंखः स्यात्स्तोको बभ्रुर्हरीतकः ॥ १४६ ॥ ;p{0334} कपिञ्जलोऽपि हारीतस्तञ्जलो जिनपत्रिका । जतूका जतुकापि स्यात्परोष्णी तैलपाऽप्यथ ॥ १४७ ॥ गोप्रेरको भृङ्गराजो द्विपुच्छाग्रो वनप्रियः । सुचूडशीर्षो वाचालः सत्यवाक् स्यादथापरः ॥ १४८ ॥ भृङ्गः कलिङ्गो धूम्याटोऽप्यथ स्याद्दारुणोऽस्त्रियाम् । काष्ठकूटः कर्वुराङ्गो दार्वाघाटोऽथ खञ्जनः ॥ १४९ ॥ खञ्जरीटः कणाटीनो मुनिपुत्रश्च तातलः । काकच्छदः कणाटीरः शिखादृश्यस्त्रिशङ्कुकः ॥ १५० ॥ शेवधिस्थानसुरतो भद्रार्थः खण्डलेखकः । व्याघ्राटस्तु भरद्वाजो दीदिविस्तु किकीविकः ॥ १५१ ॥ किकीदिविः स्वर्णचूडो नन्दिवर्द्धन इत्यपि । विशोकः स्वस्तिकश्चाषश्चित्रवाजोऽपराजितः ॥ १५२ ॥ मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः । कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १५३ ॥ कुलिङ्गश्चटका तत्स्त्री पुमपत्ये तु तद्भवे । चाटकैरस्त्र्यपत्ये तु चटकाऽप्यथ वर्त्तिका ॥ १५४ ॥ गाञ्जीकायो वर्त्तकोऽपि वर्त्ती कुब्जस्तु धूसरः । अरण्यचटको भूमीशयस्तु स्वल्पसंचरः ॥ १५५ ॥ ;p{0335} भोरिटः श्यामचटकः शैशिरः कणभक्षकः । गृहकर्त्तृक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ १५६ ॥ नीलग्रीवो रक्तशिराः शुक्लपक्षो वनेचरः । कुरुबाहुः कुरुकुरुः स च वाध्रीणसोऽथ च ॥ १५७ ॥ स स्यात्कृष्णोदरशिरा वर्णतः कृष्णकर्बुरः । पन्थालकः पुंसि भवेत् स्त्रियां स्याद्यवगण्डिका ॥ १५८ ॥ सारङ्गश्चटकाकारः कृशकण्ठोऽथ हंसका । हुंकारकारका पाण्डुरोदरापि गुरूडुका ॥ १५९ ॥ नीलच्छविः कृष्णगलः स ग्रामचटकाकृतिः । ककुभः ककुभाकारः स्थलजो रक्तपर्णकः ॥ १६० ॥ चटहा चटघातिन्यां चिरीटी तु चिरण्टिका । फाशब्दकारी फाकारो दुन्दुभिर्दुन्दुभिध्वनिः ॥ १६१ ॥ गोपपुत्रस्तु लोपाको दात्यूहः कालकण्ठकः । अत्यूहोऽपि च दात्यौहो मासज्ञोऽपि च सः स्मृतः ॥ १६२ ॥ क्रतुयष्टिस्तु यज्ञार्हो गिरिशा गिरिशाविका । गोक्षेडः स्यात्तु खदिरवर्णपक्षोऽप्यथापरः ॥ १६३ ॥ डिण्डिमाणो डिण्डिमवच्छब्दोऽथ मञ्जुलीयकः । मञ्जुनादोऽथ त्रपुषो रञ्जकस्तु प्रियात्मजः ॥ १६४ ॥ ;p{0336} सूचीचञ्चुः पीतशीर्षः सुगृहश्चाथ सर्षपा । खण्डालिका हालिपुत्रा तुच्छिका स्फोटिकाऽप्यथ ॥ १६५ ॥ कुमारी पोतकी श्यामा ब्रह्मपुत्री धनुर्धरी । पाण्डवी पुत्रिका मोहा चटिका विष्णुलिङ्ग्यपि ॥ १६६ ॥ दुर्गोमाऽप्यथ गोवत्सा पुच्छाधोरक्तवर्णका । पर्यंटिका कर्णिकिका रलालट्वापरा च सा ॥ १६७ ॥ पुच्छाधःपीतवर्णाऽथ फेञ्चः पोटियकः पुनः । श्रीकर्णो नीलचटक इत्याद्या अथ तित्तिरिः ॥ १६८ ॥ तित्तिरस्तैत्तिरोऽपि स्याद्याजुषश्चापि कञ्जुलः । लघुमांसोऽथ गौरो यः स कपिञ्जल ईरितः ॥ १६९ ॥ यस्तु स्यात्पाण्डुकपिलः स कुतित्तिर इत्युत । चित्रवर्णस्तु ककुभो वर्त्तीरोऽल्पकपिञ्जलः ॥ १७० ॥ वर्त्तिका वर्त्तकावर्तो वर्त्तकोऽपि च शब्दितः । तस्मिंल्लघुतरे पुंसि लवी लावो लवः पुनः ॥ १७१ ॥ तत्ररक्ते रक्तवर्त्मा वागुदस्तु गणाधिपः । करढो व्याधनः कर्चूर्नरः कूणिः कुमारकः ॥ १७२ ॥ वर्त्तिका शाकुनेयस्तु क्षुडो वृक्षाश्रयी पुनः । भयंकरो विशालाक्षो बृहद्रावी ततः पुनः ॥ १७३ ॥ ;p{0337} डुण्डुलः पिङ्गलोऽथ स्युः कीटास्तत्र तमोमणिः । प्रभाकीटः कीटमणिः खद्योतो द्योत इत्यपि ॥ १७४ ॥ ज्योतिषोपीङ्गिणो माली वीजः स्यादुपसूर्यगः । पतङ्गः शलभोऽपि स्याद्धान्तचित्रो निमेषरुक् ॥ १७५ ॥ तैलकीटस्तु षड्बिन्दुस्तैलिनी द्रुनाशिनी । शक्रगोपस्तु वैराटिर्वर्षाभूस्तिन्तिभोग्निकः ॥ १७६ ॥ रक्तवर्णश्चाग्निरजो भ्रमरस्तु शिलीमुखः । रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥ १७७ ॥ पुष्पंधयः कलालापो द्विरेफो मधुलोलुपः । इन्दिन्दिरोऽलिर्झङ्कारी भसलो भ्रमरोऽपि च ॥ १७८ ॥ अली च चञ्चरीकः स्यात्पर्यायान्मधुपुष्पयोः । लिट्पः कीटः पालिपालौ पालितः सूदनः पुनः ॥ १७९ ॥ भृङ्गराजश्चालिमको मधुलेही मधुव्रतः । वेणुपर्यायवासी स्याद् भ्रमरी कोशकारिका ॥ १८० ॥ पेशस्करी कीटयोनिर्मक्षिका कीटसम्भवा । कीटमाता वान्तिकरा वर्वणा नीलमक्षिका ॥ १८१ ॥ भम्भरीली कर्वुराङ्गा जीवत्कृमिपुरीषका । पायला त्वमृतोत्पन्ना वमनी सरघा सरट् ॥ १८२ ॥ ;p{0338} मध्वर्थमक्षिकाऽपि स्यात्तद्भेदाः क्षुद्रवर्वणा । गान्धारी वरदा क्षुद्रा क्रूरा सा स्वल्पपिङ्गला ॥ १८३ ॥ अथ स्युः पुत्तिकाः कृष्णवर्णा मशकसन्निभाः । वृक्षकोटरगाः स्थूलपिण्डिका अथ पातकाः ॥ १८४ ॥ बृहत्यो मक्षिकाः पीता भ्रमर्योऽल्पा इतोऽप्यथ । तीक्ष्णास्या मक्षिकाः पीतवर्णा अर्घा अथापराः ॥ १८५ ॥ वर्णतः पीतकपिला गन्धोली वरटा द्वयोः । अथ दालाः पीतवर्णास्ताश्च वृक्षदलाश्रयाः ॥ १८६ ॥ दंशो दुष्टमुखः क्रूरो रुरुत्वक्सम्भवः स च । दंशी तज्जातिरल्पा सा क्षुद्रिका वनमक्षिका ॥ १८७ ॥ मशको वज्रतुण्डः स्यात्सूच्यास्यः सूक्ष्ममक्षिकः । नीलाभः स्याद्रणरणो धूमलो रात्रिजागरः ॥ १८८ ॥ झिल्ली चिल्ली चिरी चीरी झिल्लिकाचिल्लिके समे । चीरिका चीरुकी चीरुर्झिरुका झीरुकापि च ॥ १८९ ॥ झिरी झीरी चाथ जर्त्ती पुनश्चर्मचटी च सा । जिनपत्रा तु जतुका जतूकाऽप्यथ पूर्णिका ॥ १९० ॥ नासाच्छिन्दी च वरटी परोष्णी तैलपायिका । स्याद्वरोल्यथ पत्राण्डसम्भवा तु बकेरुका ॥ १९१ ॥ ;p{0339} गोमक्षिकाऽथ यूका स्यात्षट्पदी स्वेदसम्भवा । उकण्योकोदनी वालकीट ओकोरणीति च ॥ १९२ ॥ गोपालिका केशटीका पक्ष्मजा पक्ष्मषट्पदी । श्वेतयूकाऽङ्गवस्त्रोत्था पशुयूका पशूद्भवा ॥ १९३ ॥ महिषस्था महद्यूका लिक्षा यूकाण्डमित्यथ । गर्दभी तु गोमयोत्था महाभीरुरितीरिता ॥ १९४ ॥ विलोमगतिरित्याद्या विज्ञेयाः कीटजातयः । तृणादिना स्वकौशल्याच्छाखिशाखासु निर्मिते ॥ १९५ ॥ स्थानेऽथवा कोटरादौ भृग्वादीनां दरादिषु । शाखान्ते वा लम्बमाने कुलायस्तु पुमानयम् ॥ १९६ ॥ त्रिषु नीडं पक्षिगृहं स्यात् क्लीबेऽथाण्डमस्त्रियाम् । कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम् ॥ १९७ ॥ स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी सृपाटिका । स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥ १९८ ॥ वाजः पक्षः पतत्रं स्यात्पिच्छं पत्रं तनूरुहम् । गरुत्स्यादथ संप्रोद्भ्यो डीनान्येषां गतिक्रिया ॥ १९९ ॥ समूहविसरव्यूहसन्दोहनिवहप्रजाः । स्तोमौघवारसंघातनिकरव्रातसंचयाः ॥ २०० ॥ ;p{0340} निचयः प्रचयश्चैव प्रकरश्चाकरः पुनः । समुदायः समुदयः समवायो गणश्च यः ॥ २०१ ॥ जातं चापि च जालं च पेटकं काण्डमस्त्रियाम् । पटली संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ २०२ ॥ राशिर्द्वयोः स्त्रियां राशी पुञ्जी पुञ्जश्च पुञ्जकः । पुंसि क्लीबे च कूटं स्यादुत्करोऽपि च पुंस्ययम् ॥ २०३ ॥ पशूनां समजोन्येषां समाजः स्यात्सधर्मिणाम् । ये विश्वस्ताः पक्षिमृगास्ते छेका गृह्यकास्त्रिषु ॥ २०४ ॥ पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः । कापोतशौकमायूरतैत्तिरादीनि तद्गणे ॥ २०५ ॥ स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् । स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥ २०६ ॥ यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् । कल्पद्रौ केशवकृते फलिते नामसत्फलैः । एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः ॥ २०७ ॥ ;v{पर्वतादिप्रकाण्डः} गिरिर्गोत्रोऽचलः शैलः स्थावरो धातुभृद्धरः । कुकीलः सानुमान्व्यंशो जीमूतः पृथुशेखरः ॥ १ ॥ ;p{0341} कटक्यहार्यः शिखरी नगो दन्ती शिलोच्चयः । ऐरावतोऽगो भाकूटः कुट्टारो दर्दुरः स्थिरः ॥ २ ॥ गोत्रोऽद्रिः पर्वतः प्रस्थशृङ्गवृक्षेभ्य एव वान् । भूपर्यायधरो भूध्रः स च स्यात्कन्दराकरः ॥ ३ ॥ अथाकराकरोऽथ स्यात्सुमेरुः कर्णिकाचलः । स्वःस्वर्गिस्वर्णपर्यायगिरिपर्याय इत्यपि ॥ ४ ॥ मेरुः स्यादुत्तराद्रिस्तु गिरिपर्यायराडपि । हिमपर्यायतः प्रस्थालयवान्मेनकापतिः ॥ ५ ॥ कुबेरगिरिपर्यायो भवानीगुरुरित्यपि । हिरण्यनाभमैनाकसुनाभानां तथा गुरुः ॥ ६ ॥ श्वेताद्रिरथ नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ७ ॥ शीतं गुणे तद्वदर्थं सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ ८ ॥ रात्रिंदिवं हिमाधिक्यं यत्तत्तु हिमहर्दिवम् । उज्झटिर्धूममहिषी रतान्धा च कुहेलिका ॥ ९ ॥ धूमिका स्यान्नभोरेणुपर्यायार्थात्कुहीति च । रजताद्रिस्तु कैलाशोऽष्टापदः स्फटिकाचलः ॥ १० ॥ ;p{0342} शिवपर्यायवासार्थः कैलासो हिमवद्धसः । क्रौञ्चः क्रोञ्चो गुहहतः पुंसि क्लीबे युगन्धर ॥ ११ ॥ अपि किष्किन्धकिष्किन्ध्यौ वानराणां गिरौ द्वयम् । दक्षिणाचल आषाढो माल्यवान्मलयोऽस्त्रियाम् ॥ १२ ॥ रौहिणश्चन्दगिरिर्विन्ध्यस्तु जलवालुकः । वेङ्कटाद्रिः केसरी स्यात्सिंहः केशववल्लभः ॥ १३ ॥ सह्याचलस्तु मूर्द्धाद्रिस्त्रिकूटस्त्रिककुच्च सः । रेवोद्भवे तूपविन्ध्यमेकलामरकण्टकाः ॥ १४ ॥ सुवेलः स्यात्त्रिमुकुट इन्द्रकीलस्तु मन्दरः । उज्जयन्तो रैवतः स्यात्सुदारुः पारियात्रकः ॥ १५ ॥ वारिपात्रोऽथास्त्रियां स्याद्गन्धमादनमित्यपि । ऋश्यमूको रिश्यमूको मूर्द्धन्यमध्यगान्तकाः ॥ १६ ॥ लोकालोकश्चक्रवालश्चित्रकूटादयः परे । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ १७ ॥ मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् । द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥ पुमान्स्नुः स्यादथ गुहा दरी स्त्री कन्दरस्त्रिषु । दरिर्विलं देवखातमखातं गह्वरी स्त्रियाम् ॥ १९ ॥ ;p{0343} शिलोच्चयगतास्ते स्युः पादाः प्रत्यन्तपर्वताः । प्राग्भारा दन्तकास्तिर्यगद्रेर्याता बहिश्च ये ॥ २० ॥ अधिरूढाऽधित्यकाऽद्रेरासन्ना भूरुपत्यका । गिरेः पतत्प्रवाहे स्याज्झरी झरिरुभे स्त्रियौ ॥ २१ ॥ द्वयोर्झरो निर्झरो ना स्फटिकः स्फाटिकः पुमान् । नर्यश्मा प्रस्तरो ग्रावा पाषाणश्चोपलोऽस्त्रियाम् ॥ २२ ॥ स्त्रियां धृषद्धृशच्चापि दृशद्दृषच्छिलापि च । खनिः खानिः खनी खानी स्यात्स्त्रियामाकरश्च ना ॥ २३ ॥ गुञ्जा स्त्रियां सुवर्णादिजन्मभूर्द्धातुकः पुमान् । शुक्लधातौ पाकशुक्ला कठिनी खटिनी खटी ॥ २४ ॥ गैरिकं रक्तधातुः स्याद् गिरिज्वरसमुद्भवम् । गिरिनद्धं गिरिणद्धं गिरिसंबद्धमित्यपि ॥ २५ ॥ वनादि मृगपक्ष्यादि धात्वादि सकलं त्रिषु । कल्पद्रौ केशवकृते फलिते नाम सत्फलैः ॥ २६ ॥ सिद्धिं गतः प्रकाण्डोऽयं द्वादशः पर्वतादिमः ॥ २७ ॥ ;v{समुद्रादिप्रकाण्डः} समुद्रः सागरः सिन्धुस्तरिषस्तारिषोऽर्णवः । लौहित्यस्तरणिर्धेनः पारावारो महाशयः ॥ १ ॥ ;p{0344} तरीषो नभसः पेरुरुदन्वान्पृथिवीप्लवः । गङ्गाधरो महाकच्छो मितद्रुर्दारदश्च सः ॥ २ ॥ दैत्यदानवशैलानां पर्यायेभ्यो गृहार्थकः । तिम्यूर्म्यर्थपदान्माली कोशार्थोऽपि पलंकषः ॥ ३ ॥ जलपर्यायराशिर्धिर्निधिर्नदनदीपतिः । पारावारोप्यकूपारो महीप्रावरणार्थकः ॥ ४ ॥ विततश्चन्द्रपर्यायजनको यादसां पतिः । रत्नाकरोऽपि जलदस्तद्भेदा लवणादयः ॥ ५ ॥ अपि ते स्युः सुरासर्पिर्दधिक्षीरपयोमयाः । स्वस्वापिधानपर्यायात्सिन्धुपर्यायवाचकः ॥ ६ ॥ स्त्रियां तृप्तिरिरापः स्त्री भूम्नि पुंसि रसो द्वयोः । गौः क्लीबे प्राणदं क्षीरं वाश्चापि सलिलं जलम् ॥ ७ ॥ कृपीटं कमलं सारं क्षीरं विषमिदं घृतम् । कबन्धमुदकं पाथः कीलालं पुष्करं सरम् ॥ ८ ॥ वनं पवित्रममृतं कंवलं कं कुलीनसम् । पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥ ९ ॥ जीवनं भुवनं यादः पावनं क्षणदं दकम् । अम्ब्वम्भः शंवरं तोयं कोमलं धरुणं सुखम् ॥ १० ॥ ;p{0345} घनपर्यायतः पुष्पं नीरमर्णश्च वारुणम् । निम्नगं दहनारिः स्यात्सरिलं कर्वुरं मधु ॥ ११ ॥ दैव्यं सलं विषं यादः पर्यायेभ्यो गृहार्थकम् । ऋतमापो बन्धकं षण् न ना वारि कमव्ययम् ॥ १२ ॥ काण्डोऽस्त्रियां घनरसो नरा नारा अपि स्त्रियाम् । भूम्नि गावः स्त्रियां भूम्नि गौः स्त्रियामपि सर्वतः ॥ १३ ॥ इरा जडं जीवनीयं चलोदे संवरं कुशम् । शिवं शवं शरं क्लीबे वा स्त्रियां स्यादुडूरुडुः ॥ १४ ॥ सरः पुंस्यथ सामुद्रं मृगादिवृष्टिजे जले । आश्विने जलदैर्मुक्तमम्बु स्वातिविशाखयोः ॥ १५ ॥ तत्र गाङ्गं दिव्यमपि धारं स्यादन्तरिक्षजम् । पार्थिवं पृथिवीजातं तत्कौपं च खनित्रिमम् ॥ १६ ॥ औद्भिदं तु झरोद्भूतं स्वयं जातमथ त्रिषु । स्यादाप्यमम्मयाद्यूह्यं वीचिर्वीची स्त्रियां पुमान् ॥ १७ ॥ ऊर्मिर्द्वयोस्तरङ्गो ना भङ्गो भङ्गि स्त्रियामियम् । भङ्गी च लहरी वीचा लहरिश्चोर्म्यपि स्त्रियाम् ॥ १८ ॥ त्रिष्वर्गलं महत्सु द्वौ कल्लोलोल्लकावुभौ । पुटे भेदो वङ्कचक्रे भ्रमश्च जलनिर्गमः ॥ १९ ॥ ;p{0346} तटं त्रिषु प्रतीरं च तीरं रोधश्च रोधसम् । स्यादथास्त्री परं पारं पारेपारमवारकम् ॥ २० ॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ २१ ॥ अम्मुक्तमस्त्री पुलिनं सैकतं सिकतामयम् । मर्यादा तटभूमिः स्त्री वेला स्याद्वृद्धिरम्भसः ॥ २२ ॥ डिण्डीरोब्धिकफः फेनो वुद्वुदस्थासकौ समौ । निषद्वरोऽस्त्री जम्बालं तस्मिंस्तु कलिलो घने ॥ २३ ॥ अपि तु स्यात्पत्रयुक्ते पङ्कः कर्वटिकोऽस्त्रियाम् । दमः कर्दमशादौ च कूपकास्तु विदारकाः ॥ २४ ॥ परिवाहः परीवाहो जलोच्छ्वासेऽथ निम्नके । गभीरमतलस्पर्शं गम्भारं चाप्यमी त्रिषु ॥ २५ ॥ स्थाघमस्थाघं चागाधं मस्तारं त्रिष्वमूनि च । तद्वस्तुन्यप्यथोत्तानमगाधार्थविपर्यये ॥ २६ ॥ अनच्छं त्वप्रसन्नं स्यात्कच्चरं मलिनं पुनः । किट्टमं पुष्पितं सेव्यं शालूकं किट्टिमं चलम् ॥ २७ ॥ दोहलं कलुषं चान्धमाविलं तद्विपर्यये । निर्मलं च त्रिषूत्तानात्पुंस्यगाधजले ह्रदः ॥ २८ ॥ ;p{0347} स चाप्यप्रवहार्थः स्याद् भिद्यउद्ध्यो द्रहोऽपि च । वहः सरस्वान्प्रवहः प्रवाहो रोध इत्यपि ॥ २९ ॥ तरङ्गिणी सागरगा तटिनी चञ्चला धुनी । स्रोतस्विनी द्वीपवती तलोदा ह्रदिनी नदी ॥ ३० ॥ स्रवन्ती निम्नगा स्रोत्या सिन्धुः सस्नुत्सरस्वती । ऋषिकुल्यापगा माता धेना कूलंकषा शिफा ॥ ३१ ॥ अपगार्णा निर्झरिणी रोधश्चक्रा च पार्वती । रोधस्वती समुद्रस्त्री ह्रादिनी च वहा धुनिः ॥ ३२ ॥ हिरण्यवर्णा कर्षूः स्यात्सरिज्जम्बालिनीत्यपि । इरावती रोधवक्रा रुजानाथ त्रिमार्गगा ॥ ३३ ॥ देवनद्याश्च पर्याया शिवपर्यायशेखरा । स्यात्पदी विष्णुपर्यायात्त्रिस्रोता भीष्मसूस्त्रियाम् ॥ ३४ ॥ सिद्धनद्याश्च पर्याया धर्मद्रव्यपि गान्दिनी । गङ्गा त्रिपथगाऽपि स्यात्सुरालम्बगमा पुनः ॥ ३५ ॥ हिमाद्रिपर्यायसुता स्वर्गपर्यायवाप्यपि । जह्नोर्भगीरथस्यापि प्रजार्था च कुमारसूः ॥ ३६ ॥ यमुनायम्यर्कसुता कालिन्दी च यमस्वसा । एवं तापी तु तपनी शनिपर्यायतोऽनुजा ॥ ३७ ॥ ;p{0348} रेवा तु नर्मदा सोमोद्भवा स्यान्मेकलाद्रिजा । स्यात्पूर्वगङ्गापर्याया मुरला च मुरंदला ॥ ३८ ॥ स्यादर्द्धगङ्गा काबेरी वासिष्ठी गोमती पुनः । गोदा गोदावरी भीमोत्पलाऽपि त्र्यम्बकोद्भवा ॥ ३९ ॥ गोला ब्रह्माण्डसम्भूता गौतम्यथ च बाहुदा । करतोया सदानीरा सैव स्यात्सैतवाहिनी ॥ ४० ॥ सैतवाहन्यथ शताद्द्रुर्द्रूरपि शितादमू । द्रिद्री शुतु परा एताः स्त्रियामथ विपाट् स्त्रियाम् ॥ ४१ ॥ विपाशाथ हिरण्यात्स्याद्बाहुर्वाहश्च शोणकः । काञ्चनाक्षी विशाला च चक्षुः सिन्धुः सरस्वती ॥ ४२ ॥ वेदाग्रजा ब्रह्मसुता प्लक्षजाता च वाक्प्रदा । चन्द्रभागा चान्द्रभागी चन्द्रिका चान्द्रभागगा ॥ ४३ ॥ रथेष्ठा च रथस्था च सरयुः सरयूरपि । अमोघातनये ब्रह्मपुत्रो लोहित्यलोहितौ ॥ ४४ ॥ पयोष्ण्यजा भारती स्याद्विशाला मुकुलाप्यथ । ओघनादा सुवेषा च सुप्रभा मानसी ह्रदा ॥ ४५ ॥ अच्छोदा च पुनः शिप्रा गण्डकी विमलोदका । देवव्रता तथैवान्या वितस्तेरावती शिवा ॥ ४६ ॥ ;p{0349} विभागा देविका रेभा धनपापा च मद्रिणी । कौशिकीक्षुमती केशा देवमाता कुमुद्वती ॥ ४७ ॥ देवस्मृतिश्च पार्णाशा पीता चर्मण्वती कषूः । कुन्त्यवन्ती वेणुमती विदर्भा सुरसा कुहूः ॥ ४८ ॥ पलाशिनी नन्दना च धूमा मन्दाकिनी दया । चित्रोपला चित्रवर्णा सिन्धु रेखारिका तथा ॥ ४९ ॥ दशार्णा पिप्पली श्येनी मञ्जुलावा पिशाचिका । कुलामती शुक्तिमती सिनीवाली तथाऽपरा ॥ ५० ॥ वीणा वैतरणी भीमा निर्विन्ध्या तृपिका सिता । कृष्णवेणा कृष्णगङ्गा कृष्णा कृष्णसमुद्भवा ॥ ५१ ॥ भयंकरा कृष्णवर्णाथापरा निषधावती । तुङ्गभद्रा भीमरथी घट्टगा सा मलापहा ॥ ५२ ॥ कृतमाला ताम्रपर्णी पुष्यभद्रोत्पलावती । क्षमा जम्बूर्वेत्रवती सुभद्रा मन्दवाहिनी ॥ ५३ ॥ इत्याद्याः स्युः पुनर्नद्यो घर्घराद्याः परे नदाः । सारिणिः कृत्रिमा कुल्या सरित्स्यादथ च त्रिषु ॥ ५४ ॥ प्रणाली जलपर्यायपदवी सिन्धुसंगमे । संभेदोऽथ स्त्रियां भूम्नि सिकता अपि वालुकाः ॥ ५५ ॥ ;p{0350} पृषन्ति विन्दु पृषतः पुमांसो विप्रुषः स्त्रियाम् । तीर्थोऽस्त्रियां पुंसि घट्टः स्नानपानावतारके ॥ ५६ ॥ पुंसि पानीयवृद्धिः स्यात्प्लवः पूरोऽपि चाप्यथ । देविकासरयूद्भूते त्रिषु दाबिकसारवौ ॥ ५७ ॥ नावा तार्यं तु नाव्यं स्यान्नौतार्ये वस्तुनि त्रिषु । स्त्रियां पुंसि तरण्डा तु तरणी तरणिस्तरिः ॥ ५८ ॥ द्वयोर्वारिरथः पुंसि तरान्धुस्तरणस्तरी । पोतो नौर्वार्वटः क्लीबे वहिनं वहनं पुनः ॥ ५९ ॥ तरीः प्लवो भिलो नौका न स्त्रियामुडुपोलुपौ । आकर्षोऽपि च कर्षुः स्यात्पुनः क्लीबे सुखायनम् ॥ ६० ॥ तुलाधटः पत्रवालो द्वयोः पादालकोऽपि च । पोलिन्दस्त्वन्तरादण्डो मङ्गोऽस्त्री मङ्गिनी स्त्रियाम् ॥ ६१ ॥ नौकादण्डः क्षेपणी स्त्री क्षेपणिः क्षिपणिः स्त्रियाम् । क्षिपण्यपि तथैवस्यादरित्रे केनिपातनम् ॥ ६२ ॥ कोटिपात्रं स्त्र्यभ्रिरभ्री काष्ठकुद्दालकः पुमान् । सेचनं सेकपात्रं स्याद् गुणवृक्षस्तु कूपकः ॥ ६३ ॥ गुणः पुंसि स्त्रियां रज्जुर्वरत्रा रश्मिरित्यपि । वातप्रतिच्छदो वाताधारो वातमहापटः ॥ ६४ ॥ ;p{0351} सांयात्रिकः पोतवणिग्यानपात्रं वहित्रकम् । वोहित्थं वहनं पोतः पोतवाहो नियामकः ॥ ६५ ॥ निर्यामकः क्षेपकस्तु कर्णधारोऽपि नाविकः । पोतधारः पोतधरो यानादौ नौः समुद्रिया ॥ ६६ ॥ सामुद्रिको मनुष्यः स्यात्सामुद्रं तद्भवे त्रिषु । आतरस्तरपण्यं स्यादातारस्तरणं तरः ॥ ६७ ॥ संतारः संतरस्तारोऽप्यथ दुस्तारदुस्तरौ । काष्ठाम्बुवाहिनी द्रोणी द्रोणिर्द्रुणिरपि द्रुणी ॥ ६८ ॥ क्लीबेऽर्द्धनावं नौकार्द्धेऽतीतनौकेऽतिनु त्रिषु । मत्स्यपर्यायजीव्यर्थः कैवर्त्तो दाशधीवरौ ॥ ६९ ॥ दासेरकोऽथ जालं स्यादानायः पुंसि कोटिका । शणसूत्रं पवित्रं स्यात् क्लीबे मत्स्यादिबन्धनम् ॥ ७० ॥ कुपिनी च स्त्रियां क्लीबे वडिशं मत्स्यवेधनम् । वडिशावलिशे द्वे स्त्री वलिशं विलिशं पुनः ॥ ७१ ॥ मत्स्याधानी कुवेणी स्यात्कुवेणिः कुविणाऽपि च । एषां तु पञ्जराखेटे पलावश्च प्लवोऽपि च ॥ ७२ ॥ पृथुरोमा झषो मीन आत्माश्यनिमिषोऽण्डजः । कण्टकी शम्बरो मूको वल्कवान् शकली द्वयोः ॥ ७३ ॥ ;p{0352} विसारो मत्सो मत्स्योऽपि वैसारिणजलेशयौ । मछः शल्क्यथ तद्भेदा एककण्टकमञ्जरी ॥ ७४ ॥ सहस्रदंष्ट्रः पाठीनोऽप्यवदालक इत्यपि । महामत्स्यो रूप्यवर्णो दीर्घः स्यादथ लोहितः ॥ ७५ ॥ कृष्णशल्की श्वेतकुक्षिस्तालाङ्गो मत्स्यराडपि । वृत्तवज्रोऽप्यथ पुनर्गर्गरः पीतवर्णकः ॥ ७६ ॥ पिच्छलाङ्गः पृष्ठरेखाबहलः स च शल्ककः । अथ भीरुः पृष्ठगलपुच्छेषु द्विद्विपक्षकः ॥ ७७ ॥ अशल्को वृत्ततुण्डोऽथ पालको वृत्तवक्त्रकः । नातिस्थूलो विशल्काङ्गः श्मश्रुलो दन्तवानपि ॥ ७८ ॥ सन्ध्ययोरात्रिशेषे च प्रचारी चाश्ववर्वरः । कुक्षौ पृष्ठे च कण्टालोऽप्यथान्यश्छगलः पुनः ॥ ७९ ॥ गले द्विकण्टकः श्वेतः पृष्ठेकण्टः सुविग्रहः । समानदीर्घवृत्तः स्यान्निःशल्कोऽप्यथ रोहितः ॥ ८० ॥ रक्तमत्स्यो लोहितः स्याद्रोहिः सालो गडो गलः । छालोऽथ नडजे मत्स्ये चिलिचीमश्चिलीचिमः ॥ ८१ ॥ खलेहः खलिशश्चापि नलमीनः खलेशयः । क्षीरजालोऽतिरक्ताङ्गो नातिदीर्घो न चाल्पकः ॥ ८२ ॥ ;p{0353} नातिस्थूलः स गोमेदोऽप्यथ स्यान्महिषः पुनः । स्थूलाङ्गो महिषाकारः स्थूलशल्कः स तालुनि ॥ ८३ ॥ वितस्तिमात्रः स्वल्पाङ्गः स्थूलशल्कस्तथापरः । कर्णवेशोऽतिकृष्णाङ्गो वृत्ताल्पस्थूलचर्म्यपि ॥ ८४ ॥ चन्द्रिका सर्पतुल्याथ तिमिर्योजनविस्तरः । तिमिंगिलो महामीनस्तिमिंगिलगिलस्तु सः ॥ ८५ ॥ तद्गिलश्चाथ कुलिशः कण्टकाष्ठील इत्यपि । वज्राभश्चाथ राजीवः कृशो दीर्घाकृतिश्च सः ॥ ८६ ॥ सस्याजीवस्तु रेखाङ्कः पाटलः पाटलानिभः । निरुलो जलपीने स्यात्सुरुलो लोष्ठिताङ्गके ॥ ८७ ॥ स्यान्नन्दी वारला सैव समुद्राद्भङ्गिकाऽप्यथ । सकण्टकश्चन्द्रिकः स्यात्पार्श्वे वर्त्तुल इत्यथ ॥ ८८ ॥ फलकी स्याच्चित्रफलो वागुसो वागुजारतः । कुवरी कङ्कपृष्ठी स्याद्वाजग्रीवो मदार्मदः ॥ ८९ ॥ स्याद्द्वयोः शकरी प्रोष्ठी श्वेतकालो जलव्यधे । कङ्कत्रोटोऽथ झल्लीशो गाङ्गेयः शवराधिपः ॥ ९० ॥ जलतालोऽपि च ज्ञेयः परिकर्पूर इत्यथ । जलेचरः खशेरोथ जलचञ्चल इत्यपि ॥ ९१ ॥ ;p{0354} स चलत्पूर्णिमा चाथ गङ्गाटेयो जलानिलः । जलवृश्चिक इञ्चाकाऽप्यथ स्याल्लघुगर्गरः ॥ ९२ ॥ त्रिकण्टकोऽथ शालः स्याद् गन्धाहिः कूचिका द्वयोः । स स्याच्छकुलगण्डोऽथ ब्राह्मी चम्पकपादुकः ॥ ९३ ॥ पुंस्त्रियोर्मद्गुरः शृङ्गी दुर्नामा दीर्घकोश्यपि । उलुप्युलूपी चुलुकी चुलुम्पी चुलपीत्यपि ॥ ९४ ॥ स तु राजीवसंज्ञः स्याद्यस्त्रिरेखासमन्वितः । शिलीन्ध्रः कचघो रामो दण्डारिः पाकमत्स्यकः ॥ ९५ ॥ संकोचिका पक्षिमत्स्यो विषपुच्छोऽप्यमीनरः । जात्या मत्स्या द्विधा ज्ञेयाश्चर्मजाः शल्कजा इति ॥ ९६ ॥ प्रत्येकं ते द्विधा प्रोक्ताः स्थूलसूक्ष्मप्रभेदतः । द्रुमचर्मपिनद्धाङ्गाश्चर्मजाः शल्कवर्जिताः ॥ ९७ ॥ शल्कशुक्तिपिनद्धा ये शल्कजास्ते प्रकीर्त्तिताः । केचित्समुद्रसंभूताः केचिन्नद्युद्भवा इति ॥ ९८ ॥ सारश्च शृङ्गसारश्च वञ्चिलो वालकस्तथा । कण्टकारः संकुचकश्चर्मजाः सागरोद्भवाः ॥ ९९ ॥ कावाकः खिरिडिश्चैव पाठीनः सिंहतुण्डकः । एते मत्स्या महाकायाश्चर्मजा निम्नगोद्भवाः ॥ १०० ॥ ;p{0355} पाटलः पिच्छकस्त्वेकस्तथान्यो दन्तपाटलः । मध्यकायाविमौ मत्स्यौ नदीजौ चर्मसम्भवौ ॥ १०१ ॥ घाघेरो गोजलश्चैव निद्रुवश्च तथाऽपरः । मत्स्यः कटरथश्चेति स्वल्पकाया नदीभवाः ॥ १०२ ॥ पडिमानो महाकायः शल्कजः सागरोद्भवः । पल्लाकस्तोमकश्चेति स्वल्पकायौ समुद्रजौ ॥ १०३ ॥ महाशीलः कल्हवश्च ताडको बडिशस्तथा । परगिश्च महाकायाः शल्कजाः सरिदुद्भवाः ॥ १०४ ॥ रोहितः स्वर्णमीनश्च तथा खण्डलियोपरः । मध्यकायाः सशल्कास्ते बलवन्तो नदीचराः ॥ १०५ ॥ मरलिस्तुम्बरोर्वौचशल्कजा मध्यविग्रहाः । कोलत्थश्च महानद्याः संगतस्य महीभृतः ॥ १०६ ॥ षट्सप्तयोजनं यावन्नदीमायान्ति सागरात् । नद्यां कर्दमहीनायां सशिलायां भवन्ति ते ॥ १०७ ॥ कोवाकाद्या महाकायाः सशल्का मत्स्यजातयः । शिलासंकटके स्थाने गम्भीरे करकादयः ॥ १०८ ॥ वालुका बहुले तोये गम्भीरे रोहितादयः । सपङ्के च सुविस्तीर्णे प्रवाहरहिते ह्रदे ॥ १०९ ॥ ;p{0356} पाठीनप्रमुखा मत्स्या निवसन्ति सकच्छपाः । पाषाणप्रान्तविवरे नाभिदघ्नोदके तथा ॥ ११० ॥ घाघरस्तुवरो वामी निवसन्ति निजेच्छया । नागस्तन्तु स बध्नाति प्राणिनं जलमध्यगम् ॥ १११ ॥ मत्स्याः स्त्रीजातयः सर्वे गर्जद्गर्भा हि ते स्मृताः । सर्वेषामुदरेऽण्डानां संघातो दृश्यते यतः ॥ ११२ ॥ शिशुकस्तु वसाढ्यः स्याज्जलात्सूकरमर्कटौ । शिशुमारोऽप्यथ पुनर्जलौका तु जलोरगी ॥ ११३ ॥ जलोका जालिका वेणी जलालोका जलाटनी । जलौकसः स्त्रियां भूम्नि सैवोक्ता जलजन्तुका ॥ ११४ ॥ जलायुका जलूकाथ शल्कं वल्कं च वल्कलम् । मत्स्यस्य शकलेमी स्युरित्यपादा जलेचराः ॥ ११५ ॥ शिशुमारो महाङ्गः स्यात्स्वल्पाङ्गश्चुलकी च सा । नक्रस्त्वम्बुकिराटः स्यात्स च वाडवहारकः ॥ ११६ ॥ अम्बुनः कण्टकभटौ वज्राकारशरीर्यपि । एतस्य भेदे कुम्भीरो मकरस्तु झषाशना ॥ ११७ ॥ ह्रदग्रहोऽसिदंष्ट्रः स्यान्मरोलिर्जलरूपकः । जलात्प्लवाखुनकुलविडालशुनका अपि ॥ ११८ ॥ ;p{0357} कच्छपः कमठः कूर्मः क्रोडाङ्घ्रिः पञ्चगुप्तकः । मण्डूको दर्दुरो भेको वर्षाभूर्दर्दुरः प्लवः ॥ ११९ ॥ वर्षानन्दो गाढवर्चाः शालूरः कोक इत्यपि । प्लवंगमश्च शालूरः सालुश्चापि प्रवंगमः ॥ १२० ॥ व्यङ्गः प्लवः शिली भेकी वर्षाभ्वी च डुलिर्डुली । हरिनेत्रः कुलीरः स्यात् कलीरः कर्ककर्कटौ ॥ १२१ ॥ बहिःकुटीचरस्तिर्यग्यानः स्यादथ घुर्घुरी । मृत्किरा वारिपर्यायकृमिः स्त्री जलमक्षिका ॥ १२२ ॥ इत्येते पादिनोऽथ स्युः कोशिनः शुक्तिका स्त्रियाम् । मुक्तार्थान्मातृपर्याया महाशुक्तिश्च मौक्तिकात् ॥ १२३ ॥ शुक्त्यर्थाऽपि च मुक्तायाः स्फोटोऽथ कृमिसूरपि । क्षुद्रशुक्तिश्च पुटिका जलार्थाच्छुक्तिरित्यपि ॥ १२४ ॥ शम्बुकोऽपि च शम्बूकः शाम्बूकः शम्बुको दरः । शङ्खोऽर्णवभवः कम्बुरस्त्रियां पावनध्वनिः ॥ १२५ ॥ अन्तर्वक्त्रो महानादस्त्रिरेखोऽपि च सुस्वरः । हरिप्रियोऽपि धवलोऽप्यथ स्यात्क्षुल्लकोऽपरः ॥ १२६ ॥ क्षुद्रशङ्खः शङ्खनकः शम्बूकोऽन्यो जलोद्भवः । कृमिशङ्खश्च जलजजन्तुः कृमिजलोद्भवः ॥ १२७ ॥ ;p{0358} महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः । चराचरचरो वर्यो बालक्रीडनकश्च सः ॥ १२८ ॥ हिरण्यः श्वेत इति च बहवोऽन्ये चलेचराः । पुंस्येवान्धुः प्रही कूप उदपानं तु पुंसि वा ॥ १२९ ॥ कारोत्तरश्च वीनाही प्रहिः स्यादन्धकूपके । कर्करान्धुर्जलाष्ठावी कूपिका तु जलाम्बिका ॥ १३० ॥ उद्घाटको घटीयन्त्रं स्यादावर्त्तोऽरघट्टकः । अस्त्री निपानमाहाव उपकूपजलाशये ॥ १३१ ॥ नेमिर्नेमी त्रिका तन्त्री वीनाहोऽस्त्र्यास्यबन्धने । नान्दीपुटो नान्दीमुखो गर्त्तः खातोऽपि केवटः ॥ १३२ ॥ अवघट्टावटौ तुल्यावथ पुष्करिणीत्यपि । दीर्घी स्त्री यष्टिका वापी वापिश्चापि स्त्रियामुभे ॥ १३३ ॥ मीनगोध्यपि वेशन्तः स्वल्पे सरसि पल्वलः । अस्त्र्याखातं देवखातमखातं पुंनपुंसकम् ॥ १३४ ॥ स्यादस्त्रियां तलं तल्लं तटाकोऽस्त्री तडागवत् । पद्माकरः पुमान् क्लीबे सरसं च सरः पुनः ॥ १३५ ॥ कासारस्तत्र महति सरसी स्यात् स्त्रियामियम् । खेयं तु परिखाधारः खानिका जलधारणम् ॥ १३६ ॥ ;p{0359} स्यादालवालमावालमावापोऽस्त्री द्विजप्रिया । केदारः स्यात् कर्दमिलः स चोक्तः पांशुमर्दनः ॥ १३७ ॥ कुशेशयं गन्धसोमं कुड्मलं पुष्करं नलम् । महोत्पलं तामरसं राजीवं श्रीकरं पुनः ॥ १३८ ॥ स्यात्सरःसरसीपङ्कपर्यायेभ्यो रुहार्थकम् । एभ्यो जन्मार्थकं चापि जलार्थादपि जार्थकम् ॥ १३९ ॥ विसपर्यायपुष्पार्थं कृष्णपर्यायकन्दकम् । लक्ष्मीपर्यायसद्मार्थं कन्दोट्टं दिनहासि तत् ॥ १४० ॥ शतात्सहस्रात्पत्रार्थं कमलं कुमुदं तु तत् । कुमुच्च शारदं पुण्डरीकं कैरवमित्यपि ॥ १४१ ॥ रक्ते तु स्यात् कुवलयं कुवेलं कुवलं कुवम् । स्यादुत्पलं कोकनदमरविन्दमथापरम् ॥ १४२ ॥ इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि । कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥ १४३ ॥ स्यात्पद्मं किंचिदारक्तमीषन्नीलं तथोत्पलम् । एषां तु वल्ली नलिनी विसिनी पुटकिन्यपि ॥ १४४ ॥ नालीकिनी नलिनिनी कमलिन्यपि पद्मिनी । एषां बीजं तु गालोड्यं पद्मार्थादक्ष इत्यपि ॥ १४५ ॥ ;p{0360} स्त्रियां क्रौञ्चादनी क्रौञ्चा श्यामा पद्मार्थकर्कटी । नालोऽस्त्रियां स्त्रियां क्लीबे मृणालं तु मृणालिका ॥ १४६ ॥ षण् बिसं बिसतन्तुर्ना पद्मिन्यर्थाद्रुहं च तत् । शालूकमेषां कन्दः स्यात् पद्ममूलं कटः पुमान् ॥ १४७ ॥ जलालूकं सूरणो ना करहाटः शिफा स्त्रियाम् । अनुष्णमुत्पलं क्लीबे नलपर्यायनामकम् ॥ १४८ ॥ रात्रिपर्यायपुष्पार्थं शीतलार्थाज्जलार्थकम् । हिमपर्यायपद्मार्थमथ स्यात् कुम्भिका पुनः ॥ १४९ ॥ पृश्निका पर्णिका वारिपर्यायेभ्यः परा स्त्रियाम् । मूलिका पर्णिका चाथास्त्रियां शैवालशेवले ॥ १५० ॥ शेवालश्चापि शेपालः शीपालः शैवलोऽस्त्रियाम् । शैवलं शीवलं तुल्यं वारिचामरमित्यपि ॥ १५१ ॥ नाली नाला नालमपि नालः केसरकेसरौ । पुंसि क्लीबेऽथ नालीकं नालिकं नलिनं नलम् ॥ १५२ ॥ विसंडकं तु लविलं शृङ्गाटो वारिकुब्जकः । अस्त्रियां शण्डषण्डौ द्वावब्जादीनां कदम्बके ॥ १५३ ॥ शिफा स्त्रियां कन्दमस्त्री शिफाकन्दोऽपि वा स्त्रियाम् । विसं त्रिषु मृणालो ना कोरकः पुन्नपुंसकः ॥ १५४ ॥ ;p{0361} संवर्त्तिका तु संवर्त्तिः संवर्ती नवपत्र्यपि । तत्कर्णिकामध्यगतबीजकोशो वराटकः ॥ १५५ ॥ कल्पद्रौ केशवकृते फलिते नामसत्फलैः । त्रयोदशः प्रकाण्डोऽयमब्ध्याद्यः सिद्धिमागतः ॥ १५६ ॥ ;c{इति पूरणप्रमुखकाण्डपूरणम्} ;v{पातालादिप्रकाण्डः} अधोभुवनपातालवलिसद्मार्थकानि तु । वडवामुखपर्यायं रसापर्यायतस्तलम् ॥ १ ॥ नागपर्यायलोकार्थं स्यादधोऽव्ययमित्यपि । रोकं विरोकं छिद्रं च रन्ध्रं श्वभ्रं च पुंसि वा ॥ २ ॥ स्वभ्रं दरं च वा पुंसि सुषी सुषिरुभे स्त्रियौ । अतलं वितलं चैव सुतलं च तलातलम् ॥ ३ ॥ महारसाभ्यां च तलं पातालं स्युरमूनि षण् । तत्र स्युस्त्रिषु सत्त्वेऽमी स्यात्क्लीबे तमसं तमः ॥ ४ ॥ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं पुनः । निशापर्यायचर्मार्थं भूच्छायं च रजोबलम् ॥ ५ ॥ दिक्कण्टको वियद्भूतिः खत्वग्वृत्रोप्यदर्शनः । निशापर्यायरागार्थो दिनपर्यायकेसरः ॥ ६ ॥ ;p{0362} खपर्यायपरागार्थो वियद्भूतिर्दिगम्बरः । क्लीबे दिनार्थाद्दण्डार्थं नीलपङ्कार्थमित्यपि ॥ ७ ॥ अन्धं तमोऽन्धतमसमन्धातमसमित्यपि । क्षीणं तमोवतमसं विष्वक् संतमसं च तत् ॥ ८ ॥ भुवि श्वभ्रे द्वयोर्गर्त्ताऽवटिः स्यादवटोऽवटु । कालेया दनुजा दैत्या ये चाप्यन्ये सुरद्विषः ॥ ९ ॥ सर्पा नागाश्च ते सर्वे सर्वपातालवासिनः । सुरपर्यायनज्पूर्वा दित्यपत्यार्थवाचकाः ॥ १० ॥ ते पूर्वदेवपर्याया इन्द्रपर्यायवैरिणः । कश्यपापत्यपर्यायाः पातालार्थाद्गृहार्थकाः ॥ ११ ॥ यज्ञपर्यायशत्र्वर्थाः क्षण् दृष्टिमुषोऽपि च । तुल्या एतैश्च कालेया दानवा वेदविद्विषः ॥ १२ ॥ अव्रतास्तामसतपःशीलधर्मार्थवैरिणः । आदिदैत्यो हिरण्याक्षो ज्येष्ठः कश्यपसूनुषु ॥ १३ ॥ दैत्यार्थादिन्द्रपर्यायः पूर्वदेवार्थ इत्यपि । हिरण्यकशिपुर्दैत्यौ हिरण्याक्षानुजार्थकः ॥ १४ ॥ कयाधूरस्य पत्नी स्यात्प्रह्लादाद्याः सुताश्च ते । कायाधवश्च प्रह्लादो ह्रादः संह्रादसंज्ञकः ॥ १५ ॥ ;p{0363} अनुह्लादश्च ते ह्लादास्तत्पुत्रैरिदमावृतम् । विरोचनस्तु प्राह्लादिर्बलिर्वैरोचनोऽपि च ॥ १६ ॥ वैरोचनिश्च दीर्घायुर्दाता बाणस्तु तत्सुतः । शैवोऽथ वृषपर्वा तु वृषपर्वोऽथ शम्बरः ॥ १७ ॥ संवरोऽप्यथ मायावी स्यान्मयः कालनेमिनि । कालनेमिरितीत्याद्या दैत्यकालेयदानवाः ॥ १८ ॥ रक्तबीजप्रभृतयो वैप्रचित्ता अथापरे । निवातकवचाद्याः स्युः कालेया असुराश्च ते ॥ १९ ॥ एकयोक्त्या पुनर्दैत्या महिषाद्यास्तथैव च । अनन्ताः सर्व एवैते सर्वे देवविरोधिनः ॥ २० ॥ कल्पद्रौ केशवकृते फलिते नामलुंवकैः । सिद्धिं गतः प्रकाण्डोऽयं पातालाह्वश्चतुर्दशः ॥ २१ ॥ ;v{सर्पादिप्रकाण्डः} सर्पो दर्वीकरश्चक्री कुण्डल्याशीविषश्च सः । वायुपर्यायभक्षार्थो लेलिहानो विषायुधः ॥ १ ॥ चक्षुःपर्यायकर्णार्थो विलार्थाच्छयनार्थकः । अपि व्याह्लो दर्विकरो दर्वीधृद्दर्विभृत्फटी ॥ २ ॥ ;p{0364} फणाधरः फणधरः फणावान्फणवानपि । बिलवासी बिलेवासी गूढपादो बिलेक्षयः ॥ ३ ॥ चक्री बिलशयश्चापि कुण्डली व्यालभोगिनौ । पृदाकुः कञ्चुकी व्याडः कुम्भीनससरीसृपौ ॥ ४ ॥ काकोदरो दन्दशूको विषार्थाद्ध्रो धरोऽपि च । भुजं भुजो रोरंजिह्मपत्रेभ्यो गो गमः फणी ॥ ५ ॥ द्वे दीर्घाद्रसनार्थः स्याल्लेलिहानश्च पुष्करः । गूढपाद्दीर्घपृष्ठोऽहिर्द्वयोर्हीरश्च कद्रुजः ॥ ६ ॥ शेषस्तु नागपर्यायराजार्थोऽनन्त इत्यपि । विष्णुपर्यायशय्यार्थः सहस्रफणभूधरौ ॥ ७ ॥ सितपङ्कजचिह्नः स्यादालुको गौर इत्यपि । ज्येष्ठः कद्रुतनूजानां सर्पराजस्तु वासुकिः ॥ ८ ॥ श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः । स्वस्तिकाङ्कशिराश्चाथ महापद्मोऽतिशुक्लकैः ॥ ९ ॥ दशभिर्बिन्दुभिर्युक्तशिराः पीतसितां गले । दधच्छङ्खेन्दुसदृशा ज्वालाधूमसमश्च सः ॥ १० ॥ कालीयः कालियस्तुल्यौ कृष्णपादार्थचिह्निते । अर्द्धेन्दुमौलिः कुलिकोऽथापरे कम्बलः पुनः ॥ ११ ॥ ;p{0365} बलाहकश्चाश्वतर इत्याद्यास्तत्कुलाधिपाः । तत्तल्लक्षणसंयुक्तास्तत्तत्कुलसमुद्भवाः ॥ १२ ॥ राजसर्पो भुजङ्गार्थो भोगी स्यादथ वाहसः । चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥ १३ ॥ स्त्रियां दृन्भूर्मार्गभित्स्याद्वलूतोथ तिलिंसकः । गोनासो गोनसोऽपि स्याद् घोणसोऽथालगर्दकः ॥ १४ ॥ जलपर्यायसर्पार्थः समो राजिलडुंडुभौ । मातुलानो मातुलाहिर्द्विमुखः पुंस्यहीरणिः ॥ १५ ॥ अहीरणी चाथ पुनर्भाण्डपुष्टस्तु कोकिलः । कन्दलान्तोऽथाश्वलाला स्त्रियां स ब्रह्मजिह्मगः ॥ १६ ॥ निर्मोकरहिते तत्र निर्मुक्तो मुक्तकञ्चुकः । कुक्कुटादिः कुक्कुटाभो वर्णेन च रवेण च ॥ १७ ॥ नागाः सर्वे काद्रवेयाः सपादा अपदाश्च ते । सकर्णाः कर्णरहिता मुखबालधराः परे ॥ १८ ॥ इत्यादयो बहुविधा व्यालाः पातालभूचराः । सर्पी तु सर्पिणी चाथ स्यादाहेयं त्रिषूत च ॥ १९ ॥ विषास्थ्यादि स्यादथ च फटायां तु फणा द्वयोः । स्फुटा स्फटा दर्विदर्व्यौ भोगस्त्रिष्वथ वर्ष्मणि ॥ २० ॥ ;p{0366} भोगस्त्रिष्वहिकोशस्तु निर्मोकः कञ्चुकोऽस्त्रियाम् । गरोऽस्त्री गरलः क्ष्वेडो गरलं विषमस्त्रियाम् ॥ २१ ॥ अस्त्रियां विषभेदे तु हालाहलहलाहले । हलाहलं हालहालं शौक्लिकेयं च न स्त्रियाम् ॥ २२ ॥ सौक्तिकेयोऽथ सौराष्ट्रिकः स्यात्सारोष्ट्रिकोऽपि च । वत्सनाभश्च काकोलः कालकूटः प्रदीपनः ॥ २३ ॥ ब्रह्मपुत्रो दारकश्च पुंसि क्लीबे मता अमी । अहिच्छत्रो मेषशृङ्गः कुलिको मधुसिक्थकः ॥ २४ ॥ इन्द्रो लाङ्गुलिको विष्णुलिङ्गपिङ्गलगोतमाः । मुस्तको दालवाद्याः स्युरथान्ये जङ्गमाः पुनः ॥ २५ ॥ स्युर्दृग्दंष्ट्राविषानागाः पुच्छलोममहाविषाः । वृश्चिकाद्याः पुनर्लोमविषा व्याघ्रादयः पुनः ॥ २६ ॥ लालाविषाश्च लूताद्या त्रापा नखविषाः पुनः । कालान्तराधिकविषा मूषकाद्यास्ततः परे ॥ २७ ॥ दूषीविषं कृत्रिमं स्यादवार्यमौषधं विना । आशीराशिस्तालुदंष्ट्रा जिह्वयोरन्तरालगा ॥ २८ ॥ कथाप्रसङ्गस्तु विषाद्वैद्यो गारुडिकश्च सः । जाङ्गल्यथाहि तुण्डस्तु व्यालग्राह्याहितुण्डिकः ॥ २९ ॥ ;p{0367} पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः । कल्पद्रौ केशवकृते फलिते नामसत्फलैः ॥ ३० ॥ ;c{सर्पादिमः पञ्चदशः प्रकाण्डः सिद्धिमागतः ।} ;v{नारकादिप्रकाण्डः} नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् । तद्भेदा स्तपनावीचिमहारौरवरौरवाः ॥ १ ॥ स्त्रियामवाची तद्भेदेऽप्यथ संहार इत्ययम् । संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥ २ ॥ अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः । अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥ स्यात्पीडनं विडहनं पीडा पीडिश्च पीड्यपि । अतिरार्त्तिर्व्यथा पीडा बाधौ पुंसि स्त्रियामुभौ ॥ ४ ॥ विष्टिराजूः कारणा तु यातना तीव्रवेदना । याचनाथामनस्यं स्यादामानस्य प्रसूतिजम् ॥ ५ ॥ भीलमाभीलमपि चामीषां वस्तुनि च त्रिषु । महापापकृतः प्रेताः परेता अतिवाहिकाः ॥ ६ ॥ ;p{0368} दुर्भोगभोगिनः क्लिष्टा भोगपर्याप्तजीविनः । कल्पद्रौ केशवकृते फलिते नामसफलैः ॥ ७ ॥ ;c{नारकाद्यः प्रकाण्डोऽयं षोडशः सिद्धिमागतः ।} ;v{जिनप्रकाण्डः} जिनोऽकनिष्ठगो बुद्धः सर्वदर्शी महाबलः । सम्बुद्धः करुणाकूर्चो मारजिल्लोकजिच्च सः ॥ १ ॥ दशार्हः श्रीघनस्तापी बहुक्षमगुणाकरौ । त्रिमूर्तिर्दशभूमीशः खशयो वृद्धवाद्यपि ॥ २ ॥ महामुखो विश्वबोधो महाबोधिरहंमुनिः । द्वादशाक्षो वीतरागः श्वेतकेतुर्महामुनिः ॥ ३ ॥ धर्मचक्रो धर्मराजः सर्वज्ञः सुगतः स्ववित् । वागाशनिः कृशधनः पञ्चज्ञानस्तथागतः ॥ ४ ॥ समन्तभद्रो भगवान् धर्मकालः सुभाषितः । षडभिज्ञो दशबलो व्योमाभस्तीर्थकृन्मुनिः ॥ ५ ॥ सर्वार्थसिद्धः संगुप्तो गौतमः कलिशासनः । शौद्धोदनिः शाक्यमुनिः सिद्धः शास्ता विनायकः ॥ ६ ॥ ;p{0369} अर्कबन्धुर्धर्मधातुर्जितारिः केवली वितः । महाश्रमणश्च पुनर्मुनीन्द्रोऽर्हन्समोऽपि च ॥ ७ ॥ मायादेवीसुतश्चक्री धरेयोपि च बाहुलः । क्षीणाष्टकर्मा देवाधिदेवः श्रोमो जिनेश्वरः ॥ ८ ॥ तीर्थंकरस्तीर्थकरस्तापी पारगतश्च सः । परमेष्ठा वीतरागः स्वयंभूः पुरुषोत्तमः ॥ ९ ॥ कल्पद्रौ केशवकृते फलिते नामसत्फलैः । जिनप्रकाण्डः संपूर्णो जातः सप्तदशः शुभः ॥ १० ॥ कल्पद्रौ केशवकृते फलिते नामसत्फलैः । प्रकाण्डैः सप्तदशभिर्भूमिस्कन्ध उपस्थितः ॥ ११ ॥ ;k{भुवःस्कन्धः} ;v{साधारणप्रकाण्डः} सुपर्वाणो देवयवः शान्ता वृन्दारकाः सुराः । स्वप्नमृत्युजराव्याधिपर्यायपरिवर्जिताः ॥ १ ॥ सुबलाः पूजिता देवास्त्रिदशाश्च चिरायुषः । बर्हिःपर्यायवदनपर्याया ऋभवश्च ते ॥ २ ॥ स्वाहायज्ञसुधानां च पर्यायेभ्योऽशनार्थकाः । मृत्युपर्यायनञ्पूर्वा दिविद्युनभसः सदाः ॥ ३ ॥ ;p{0370} लेखा निलिम्पा गीर्वाणाः स्वर्गिणो मरुतो दितेः । अपत्यप्रत्ययार्थाः स्युस्तस्याः पुत्रार्थवाचकाः ॥ ४ ॥ दैत्यदानवकालेयवैरिपर्यायवाचकाः । त्रिदिवार्थात्स्युरीशाना वयुनाः कामरूपिणः ॥ ५ ॥ वा पुंसि दैवतान्येवं दृग्विषा देवता स्त्रियाम् । अपि ते स्युः सुमनस आजानाः कर्मजाश्च ते ॥ ६ ॥ ऋनामा त्वदितिर्देवपर्यायजननीत्यपि । आदित्या विश्ववसवस्तुषितानिलभास्वरः ॥ ७ ॥ महाराजिकसाध्याश्च रुद्रा एषां गणाः क्रमात् । धाता मित्रोर्यमा पूषा शक्रोंशो वरुणो भगः ॥ ८ ॥ त्वष्टा विवस्वान्सविता द्वादशो विष्णुरित्यथ । क्रतुर्दक्षो वसुः कालकामौ च धृतिमानपि ॥ ९ ॥ मनुजो रोचमानश्च स्यात्पुरूरव आर्द्धवः । दशकोऽयं गणोऽथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥ धरः प्रभासः सोमश्च प्रत्यूषश्च वृकोष्टकः । भुवनो भावनो दक्षः सुजन्यः सुजनः क्रतुः ॥ ११ ॥ सुवर्णवर्णः प्रसुतो व्यसुतश्चाव्ययो दश । एकद्वित्रिचतुःपञ्चज्योतिर्द्वित्रीन्द्र इत्यपि ॥ १२ ॥ ;p{0371} तताभिख्यः प्रतिसकृन्मितश्च संमितोऽमितः । ऋतजित्सत्यजिन्मित्रः श्येनजित्पुरुजिदृतः ॥ १३ ॥ अतिमित्रः सुषेणश्च ऋतधामा पराजितः । वरुणो विधृतो धाता महातेजा विधारणः ॥ १४ ॥ ध्रुवो मिताशनः शक्तिः क्रीडनोऽन्यादृशो मुनिः । एतादृगीदृक् शरभो धातुरूपो विराड्गयः ॥ १५ ॥ अनाधृष्यो वपुर्वामः कामो भीमः सहो द्युतिः । क्षिपो विमुक्त एकान्नपञ्चाशो गणआनिलः ॥ १६ ॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च वहः परः । एषां तु सप्तसप्तानां सप्तकः सप्तको वहात् ॥ १७ ॥ आत्मा ह्याशुमतो दक्षो जुषः प्राणस्तथैव च । हविष्ठश्च गविष्ठश्च नवको भास्वरो गणः ॥ १८ ॥ प्रद्युम्नो विद्युतः श्वेतो वज्रपक्षो बलाहकः । शतजिह्वो हिरण्याक्षः कुमुदो विजयाकृतिः ॥ १९ ॥ सुगन्धिः पूर्णिमासश्च पौर्णमासो यमोऽपि च । वलाकश्च सुवीरश्च महाराजिकसंज्ञकः ॥ २० ॥ गणः पञ्चदशोऽथापि नरो नारायणस्ततः । हंसो नयश्च प्राणश्च मनोग्रहजगद्धितौ ॥ २१ ॥ ;p{0372} हयो वातश्च साध्यानां नवको गण ईरितः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ २२ ॥ कपर्दी भुवनाधीशो भगः स्थाणुर्वृषाकपिः । गिरिशो वीरभद्रोऽयं रुद्रैकादशको गणः ॥ २३ ॥ विद्याधराप्सरोयक्षरक्षोगंधर्वकिंनराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ २४ ॥ विद्याधरास्तु विद्याध्राः कामरूपाः कलाविदः । जीमूतवाहनाद्यास्ते गन्धर्वेभ्योऽवराः स्मृताः ॥ २५ ॥ अथाकृत्यः शोभयन्त्य ऊर्ज्यो विकुरयो रुचः । आप्नुवत्योऽमृतरुचो वेगवत्यश्च भीरवः ॥ २६ ॥ रोचयन्त्यो बभ्रवश्च भुवश्चेत्यप्सरोगणाः । स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ॥ २७ ॥ स्पर्शानन्दा रतिमदा अपि स्युः सुदयात्मजाः । उरुवाशिन्युर्वशी स्यादूर्वश्युरुवशी क्वचित् ॥ २८ ॥ अनुत्तमा सुरूपा च सुकेशी च मनोवती । मेनका सहजन्या च पर्णाशा पुञ्जिकस्थला ॥ २९ ॥ क्रतुस्थला घृताची च विश्वाची पूर्ववित्तिका । पञ्चचूडा सामवती चित्रलेखा च सुप्रभा ॥ ३० ॥ ;p{0373} मिश्रकेशी सुगन्धिश्च विद्युत्स्पर्शा तिलोत्तमा । अदृश्या लक्ष्मणा क्षेमाप्यसिता रुचिका तथा ॥ ३१ ॥ सुव्रता च सुबाहुश्च सुबोधा सुवपुस्तथा । पुण्डरीकानुदारा च सुदारा सुरसा तथा ॥ ३२ ॥ हेमा सरस्वती कामा कमलाऽपि च सूनृता । सुमुखा हंसपादा च वासोरी रतिलालसा ॥ ३३ ॥ इत्याद्यप्सरसो यक्षा मेघवर्णः क्षमाकरः । यमो दण्डरथो भीमः पद्मचन्द्रश्च मौलिमान् ॥ ३४ ॥ प्रद्योतो भूतिमान्भव्यः केतुमानथ राक्षसाः । हेत्यश्चैव प्रहेत्यश्च सलिलेन्द्रसुकेशिनौ ॥ ३५ ॥ नैकषेयो यज्ञहा स्यात्सूर्यो विद्युद्रुधस्तथा । रसनो व्याल इति चाथापि गान्धर्वको गणः ॥ ३६ ॥ चित्राङ्गदश्चित्ररथश्चित्रसेनोऽङ्गिराः कलिः । ऊर्णायुरग्रजः सोम उग्रसेनो हहा हुहुः ॥ ३७ ॥ हाहा हूहूः पुनरपि केषांचन मतेऽव्ययौ । केचिद्धोहाहुहू मित्रौ हहाहूहू पुनश्च तौ ॥ ३८ ॥ विश्वावसुः सूर्यवर्चा नदीचित्रश्च ताम्रकः । दुराधिश्च शुचिर्हंसस्तृप्तिः पर्जन्य इत्यपि ॥ ३९ ॥ ;p{0374} वृषपर्वा नारदश्च पर्वतश्च नरश्च ते । समा गन्धर्वगान्धर्वदिव्यगायनगातवः ॥ ४० ॥ अथ किंपुरुषास्ते स्युः किंचित्पुरुषलक्षणाः । छागाश्चैडकपर्यायमुखपर्यायशब्दिताः ॥ ४१ ॥ सूच्यास्या वानरास्याश्च पिशाचा नामतो गणाः । दुःपूरणा विषादाश्च ज्वलनाः कुम्भमात्रकाः ॥ ४२ ॥ अङ्गारकाः प्रतुण्डाश्च उपवीरा उलूखलाः । अकर्णाश्चक्रखण्डाश्च पांसवः पात्रपाणयः ॥ ४३ ॥ स्कन्दनाश्च वितुण्डाश्च विपुलाश्चाथ गुह्यकाः । महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ ॥ ४४ ॥ मुकुन्दकुन्दनीलाश्च खर्वः सिद्धास्त्वतः पुरः । सर्वानुभूतिर्गणिमान्मणिभद्रश्च नन्दनः ॥ ४५ ॥ सुसिद्धः सुमनाः शङ्खः कण्डूतिर्वसुमानपि । पिङ्गाक्षश्चतुरश्चाथ भूतानां तु गणाः पुनः ॥ ४६ ॥ विपरीतकरा दान्ताः सर्वज्ञाः सर्वदर्शिनः । नानाप्रकारवदना नानाबाहुशिरोधराः ॥ ४७ ॥ चतुष्पथपथाट्टालशून्यालयकृताश्रयाः । ककुभा तु ककुप्काष्ठा दिग्दिशा हरिता हरित् ॥ ४८ ॥ ;p{0375} सूर्यपर्यायोदयार्था प्राची पूर्वा च मङ्गला । दक्षिणावाच्यपाची च पश्चिमा तु प्रतीच्यपि ॥ ४९ ॥ सूर्यार्थादस्तपर्यायाऽथोदीची त्वपराजिता । इन्द्राग्नियमरक्षोम्बुवायुश्रीदपिनाकिनाम् ॥ ५० ॥ पर्यायतोऽपि तस्येदमीबन्ताः स्युः क्रमादिमाः । ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः ॥ ५१ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुः कपिला पिङ्गलानुपमा क्रमात् ॥ ५२ ॥ ताम्रपर्णी शुभ्रदन्ती वामना चाञ्जनावती । रविः शुक्रो मही सूनुः स्वर्भानुर्भानुजो विधुः ॥ ५३ ॥ बुधो बृहस्पतिश्चेति क्रमाद्दिक्पतयो ग्रहाः । क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ५४ ॥ विदिशाऽपदिशा काष्ठा चोपदिक् स्यादतः पुनः । अभ्यन्तरं त्वन्तरालं द्वयोर्मध्यगतं च यत् ॥ ५५ ॥ दिगैक्ये चक्रवालं तु चक्रवाडं च मण्डलम् । यथापरेतरा पूर्वा तथा पूर्वेतरापरा ॥ ५६ ॥ यथोत्तरेतरापाची तथाऽपाचीतरोत्तरा । अपाग्भवमवाचीनमुदीचीनमुदग्भवम् ॥ ५७ ॥ ;p{0376} प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं पुनः । सार्वदिक्कं तु दिश्यं स्यादमूनि त्रिषु तद्वति ॥ ५८ ॥ यामार्द्धैरष्टभिः सूर्यमीशान्यादिदिशः क्रमात् । आप्रातः प्रातरारभ्य भुनक्त्यङ्गारिणी च सा ॥ ५९ ॥ भुक्तोज्झिता भुज्यमाना ज्वलिता चोपधूपिता । एताः सोपद्रवास्तिस्रः पञ्चान्या निरुपद्रवाः ॥ ६० ॥ आदित्या वसवो रुद्रा अत्र वैवस्वतेऽन्तरे । गणास्त्रयश्च देवानां शुचिरिन्द्र इति क्रमः ॥ ६१ ॥ आजानाः कर्मजनुषः सर्वे देवगणा इति । कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके । साधारणः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥ ६२ ॥ ;c{इति अष्टादशप्रकाण्डः ।} ;v{भूस्थदेवप्रकाण्डः} धनंजयोऽग्निर्ज्वलनो वीतिहोत्रोऽञ्चतिः शिवः । जुहुराणः शुष्म घासिर्हव्यवाड् दमुना वसुः ॥ १ ॥ सप्तार्चिः पावनो वह्निर्विश्वप्सा वायुवाहनः । कृपीटयोनिः कुतपो रक्तवर्णस्तनूनपात् ॥ २ ॥ ;p{0377} छागार्थवाहनार्थः स्याज्जातवेदा उषर्बुधः । दूतो वैश्वानरो मन्त्रो दीधितिः स्वर्णसप्तयोः ॥ ३ ॥ बर्हिः शुष्मा कृष्णवर्त्त्मा स्वाहापतिविरोचनौ । आश्रयाशो बृहद्भानुः शिखावान्भूनिकेतनः ॥ ४ ॥ हिरण्यरेताः कपिलो नाचिकेतो विभावसुः । समित्पीथः शुचिपतिस्तमोवैर्याशुशुक्षणिः ॥ ५ ॥ क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् । अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥ बर्हिः शुष्म उदर्चिः स्याद्बहुलो हव्यवाहनः । अग्निहोत्रोऽग्निशुष्मा च बभ्रुः शुक्रश्च पावकः ॥ ७ ॥ आश्रयाशोऽप्याशयाशो हव्याशः शुचिराशिरः । शोचिष्केशः शर्मागर्भो विश्वप्सश्च समन्तभुक् ॥ ८ ॥ पर्परीको रोहिदश्वो वसुर्वायुसखो हरः । उषर्भुद्बहलो हव्यः कृशानुर्जागृविर्यसुः ॥ ९ ॥ धूमध्वजश्छागरथो हुतार्थादशनार्थकः । बलिदीप्तश्चोर्ध्वगतिर्दमूनाश्च विभावसुः ॥ १० ॥ द्युः कः कर्कश्च दस्मश्च शोणो धिष्ण्यश्च भास्करः । तुत्थः श्रेष्ठश्च यज्ञश्च तमोहा हौमिरेधतुः ॥ ११ ॥ ;p{0378} स्याद्भुवन्युश्च धमनश्छिदिरः सुशिरोऽपि च । रीपिङ्गलश्चक्रवाडोऽदेवताडो वृषाकपिः ॥ १२ ॥ अग्निहोत्रो महावीरः पशुपर्यायतः पतिः । जलेन्धनोऽब्धिकुक्ष्यग्निरौर्वश्च वडवानलः ॥ १३ ॥ संवर्त्तको वाडवः स्याद्वडवामुख इत्यपि । वनवह्निर्दवो दावः स्कन्धाग्निः स्थूलकाष्ठधक् ॥ १४ ॥ छगणस्तु करीषोत्थश्छागलोऽथ तुषोद्भवे । कुकूलः कूकलोऽपि स्यान्मुर्मुरोऽथ चितागते ॥ १५ ॥ क्रव्यादोऽथ तृणोद्भूते स्यात्तरत्सम इत्यपि । ज्वलतः प्रोद्गतकणे स्यातां सुक्षरकुष्करे ॥ १६ ॥ त्रिषु स्फुलिङ्गो धूमस्तु वह्न्यर्थेभ्यो ध्वजार्थकः । भम्भोऽम्भःसूर्मरुद्वाहः खतमालोऽस्त्रियां स्तरी ॥ १७ ॥ जीमूतवाही धूम्रो ना करमालः सुगन्धिनि । अगर्वादिभवो धूपो घ्राणादीन्द्रियतर्पणः ॥ १८ ॥ धूमधारा धूमलता लंधूमो धूमजे मले । यत्तृणादौ स्थिते तत्र धूमाङ्गोऽथ कला दश ॥ १९ ॥ धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ २० ॥ ;p{0379} अग्नेःप्रिया स्वधा स्वाहा स्तव्यग्नाय्यस्य रोहितः । अश्वा विधूमे ज्वलिते काष्ठांशेऽङ्गार इत्यपि ॥ २१ ॥ इङ्गालोऽप्यथ निर्वाणे कोकिलः सरसेऽरसे । स्त्रियां रक्षा विभूतिः स्यात् क्लीबे भसितभस्मनी ॥ २२ ॥ अग्न्युच्छिष्टं पुमान्क्षारः सामिज्वलितदारुणि । अलातमुल्मुकं तुल्ये स्त्र्यर्चयो हेतयः शिखाः ॥ २३ ॥ अर्ची तद्वत्स्त्रियां क्लीबेऽप्यर्चि ज्वाला स्त्रियां पुमान् । स्त्रियां महत्यां तस्यां तु झलक्का च भभक्कया ॥ २४ ॥ यालातसम्भवा सोल्काऽथाग्नेः स्वेच्छोद्भवाः कणाः । त्रिषु स्युरथ संतापः संज्वरोऽथ जलादिकात् ॥ २५ ॥ प्रतप्तादुद्भवे पुंसि बाष्प ऊष्मश्च पुंस्ययम् । कल्पद्रौ केशवकृते भुवस्कन्धे द्वितीयके । भूस्थदेवप्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥ २६ ॥ ;v{नभःस्थदेवप्रकाण्डः} स्पर्शनः कः समीरो यः स्पर्शनो मारुतो नभः । वायुस्ततो मातरिश्वा हरिरात्मा वहश्च वाः ॥ १ ॥ ;p{0380} सृदाकुः पञ्चलक्ष्मा च विश्वप्सा अजिरः पुनः । धारावलीरौ खश्वासः क्षिपणुश्च जगद्बलः ॥ २ ॥ धूलिध्वजो बलदेवो महाबलमलिम्लुचौ । चञ्चलश्चपलः प्राणः संहर्षः प्रवहो वहः ॥ ३ ॥ पृषदश्वो गन्धवहो जगत्प्राणः समीरणः । सदागतिर्गन्धवाहो निःपावश्चाशुगोऽनिलः ॥ ४ ॥ शुचिर्नभस्वत्पवनपवमानप्रभञ्जनाः । वाहो मरुल्लोहघनः पश्चिमोत्तरदिक्पतिः ॥ ५ ॥ श्वसनः श्वसिनो वातिश्चलश्चापि जगत् जगत् । महतः पृषताश्वोपि शरयुर्मेघकारकः ॥ ६ ॥ शीतलो जलकान्तारो मेघारिः सृमरोऽपि च । पृश्न्याकुलश्च वातूलो वातगुल्मः प्रकम्पनः ॥ ७ ॥ अपि वातो महावायुर्निदाघसमयानिले । चारार्थाद्वायुपर्यायो झञ्झा प्रावृड्भवेऽनिले ॥ ८ ॥ दाक्षिणात्यस्तु वासन्तः स चोक्तः मलयोत्तरः । आः सङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥ ९ ॥ वातोद्भवं तु वातूलं त्रिषु द्रव्ये गतेऽपरे । प्राणादयो दशाङ्गस्थास्तत्तत्स्थानसमाश्रयाः ॥ १० ॥ ;p{0381} प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः । अपानः पृष्ठपृष्ठान्तपार्श्वमन्यागतिस्ततः ॥ ११ ॥ समानः संधिहृन्नाभीपूदानो हृच्छिरोऽन्तरा । सर्वत्वग्वृत्तिको व्यानो नाग आकुञ्चनक्रियः ॥ १२ ॥ प्रसारणक्रियः कूर्मो वल्गनार्थो धनञ्जयः । कृकरो धावने दक्षो न मुञ्चति मृतं वपुः ॥ १३ ॥ वहः स्यात्प्रोत्संविपरापरिभ्यश्च परो वहः । एते वायुगणाः सप्त सप्तस्कन्धसमाश्रयाः ॥ १४ ॥ अन्तरिक्षस्य तत्रस्थाः पान्ति लोकांश्चतुर्विधान् । एवमेकान्नपञ्चाशत्तरसी तु रयः स्यदः ॥ १५ ॥ जवोऽथ शीघ्रं त्वरिं लघु क्लीबेऽरमव्ययम् । क्षिप्रं द्रुतं सत्वरं च चपलं तूर्णमाशु च ॥ १६ ॥ सततेऽनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रमव्ययं स्याद्भरः पुमान् ॥ १७ ॥ अतेर्बलार्थमात्राः स्युर्भृशमुद्गाढनिर्भरे । तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ॥ १८ ॥ क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां भेद्यगामि यत् । इन्द्रो वृद्धश्रवा जिष्णुर्मेघार्थाद्वाहनार्थकः ॥ १९ ॥ ;p{0382} ऐरावतोऽद्रिपर्यायभिन्मरुत्वांस्तुलोपि च । अर्की विडौजा मघवा बैकुण्ठाण्डीरकौटिराः ॥ २० ॥ वृत्रो घनाघनः शक्रः सुनासीरः पुरंदरः । पुरुहूतः प्रयागश्च वासवो हरिवाहनः ॥ २१ ॥ देवपर्यायतः श्रेष्ठपर्याय ऋषभध्वजः । धाराङ्कुरो दुश्च्यवनः कौशिकश्चन्दिरस्तपः ॥ २२ ॥ पुलोमपाकनमुचिबलवृत्रनिषूदनः । वास्तोः सुराणां प्राच्याश्च लोकानां च दिवः पतिः ॥ २३ ॥ शच्या अपि च जम्भारिपर्यायो माहिरो हरिः । स्वराट् संक्रन्दनोऽनुग्रधन्वा पर्थज्ञ इत्ययम् ॥ २४ ॥ पामनेमिर्विडौजोऽपि वज्रपाण्यर्थ इत्यपि । पूतक्रतुर्महेन्द्रश्च दल्मी वाणस्तुलोऽपि च ॥ २५ ॥ देवत्रिलोकीपर्यायराजार्थो मघवानपि । प्राचीनबर्हिः सुत्रामा सूत्रामापि वृषः पुनः ॥ २६ ॥ शतक्रतोश्च पर्यायः सहस्रान्नयनस्य च । स्यादृभुक्षास्तुराषाट् च तप आतङ्करावणौ ॥ २७ ॥ किणालातश्च हरिमान्वियुतो वज्रदक्षिणः । देवदुन्दुभिपर्जन्यौ बाहुजज्ञोऽस्य तु प्रिया ॥ २८ ॥ ;p{0383} पूतक्रतायी च शची स्यादिन्द्राणी शतावरी । पुलोमतनयार्थापि गन्धोली जयवाहिनी ॥ २९ ॥ सहस्रपूर्णचन्द्राढ्या चारुरावा शची शचिः । सचिः स्यात्तविषी चापि ताविषी तनयोऽस्य तु ॥ ३० ॥ जयो जयन्तो जयतो यागसन्तान इत्यपि । देवसेना तस्य सुता जयन्ती च गुहप्रिया ॥ ३१ ॥ हयंकषो मातलिः स्यादिन्द्रपर्यायसारथिः । वृषणाश्वावस्य हरी हय उच्चैःश्रवा बिलः ॥ ३२ ॥ अप्युच्चैःश्रवसः सस्यात्सप्तवक्त्रार्थ इत्यपि । मयूररोमसदृशाः सहस्रं हरयो हरेः ॥ ३३ ॥ विश्वौकसारा वृषभाऽमरा सुदर्शना न ना । अमरावत्यपि पुरी वनं तु मिश्रका स्त्रियाम् ॥ ३४ ॥ षण् वृषण्वसु पारुष्यं नन्दनं कन्दसारकम् । ऐरावणोऽस्त्रियामैरावतश्चापि सदामदः ॥ ३५ ॥ अभ्रपर्यायमातङ्गो भद्ररेणुः पुमानयम् । चतुर्दन्तो हस्तिमल्लः सूर्यपर्यायसोदरः ॥ ३६ ॥ स्यात्सुदामा श्वेतगजोऽभ्रमुप्राणेश्वरार्थकः । द्वाःस्थस्तु देवनन्दी स्यात्सरो नन्दीसरोऽस्य च ॥ ३७ ॥ ;p{0384} वैजयन्तौ तु प्रासादध्वजौ वज्रोऽस्त्रियां पुनः । गिरिकण्टकपर्यायः शतकोटिश्च गौः पुमान् ॥ ३८ ॥ शंवसंवौ स्वरुः सान्तं स्यात् स्त्रियामशनी शरुः । पृदाकुर्ना ह्रादिनी स्त्री पविः पुंस्यविरित्यपि ॥ ३९ ॥ भिन्द्रो भिदिर्भिदूर्जम्भ इन्द्रार्थादायुधार्थकम् । शतधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् ॥ ४० ॥ अस्त्रियां कुलिशं शम्बो दम्भोलिरशनिर्द्वयोः । भेदिरं भेदिरशनी चाशनोऽपि पुमानयम् ॥ ४१ ॥ एकं वज्राशनिरपि केषांचन मते द्वयोः । स्वरुर्दृग्भूर्विमानोऽस्त्री व्योमार्थाद्वाहनार्थकम् ॥ ४२ ॥ देववाहनपर्यायं मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ४३ ॥ पञ्चैते देववृक्षार्था नासत्यावश्विनौ यमौ । आश्विनौ वाडवेयौ तौ स्वर्वैद्यावश्विनीसुतौ ॥ ४४ ॥ तौ दस्रावपि नासत्यौ दस्रो नासत्य इत्यपि । नासत्यदस्रावेकोक्त्या तौ च रासभवाहनौ ॥ ४५ ॥ गन्दान्तकौ यज्ञवहौ विश्वपर्यायकृत्तु सः । अपि त्वष्टा विश्वकर्मा सुरपर्यायवर्द्धकिः ॥ ४६ ॥ ;p{0385} अथ स्याच्छ्राद्धदेवार्थो यमः कालोऽन्तको हरिः । कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥ ४७ ॥ दक्षिणाशापितृप्रेतधूमोर्णानां यमस्य च । धर्मजावितयोरीशपर्यायः समवर्त्त्यपि ॥ ४८ ॥ दण्डाद्यामधारधरश्चित्रगुप्तश्च पार्परः । अर्कपर्यायपुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४९ ॥ कालिन्दी सोदरः कर्मकर औदुम्बरश्च सः । विश्वप्साः शमनो धर्मो यमनो दण्ड इत्यपि ॥ ५० ॥ महासत्यः पुराणान्तः कालकूटः पुनश्च सः । अस्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥ ५१ ॥ दासौ चण्डमहाचण्डौ चित्रगुप्तोऽस्य लेखकः । वैध्यतस्तु प्रतीहारः कालीची तु विचारभूः ॥ ५२ ॥ पञ्चिका दुर्गसन्धानी पितरस्तु पितामहाः । स्वधाकव्यभुजश्चन्द्रगोलस्थाः पूर्वजा अपि ॥ ५३ ॥ न्यस्तशस्त्रा देवपूज्या एतेषां सप्तको गणः । प्रभाकरा बर्हिषदोऽग्निष्वात्ताः कव्यभोजनाः ॥ ५४ ॥ उपहूता आज्यपाश्च सुकालिन इति क्रमात् । अमूर्त्ताश्च समूर्ताश्च राक्षसस्तु खसात्मजः ॥ ५५ ॥ ;p{0386} सन्ध्याबलो यातुधानो हनूषः शमनीषदः । उद्वरस्तब्धसंभारपलप्रियकखासुताः ॥ ५६ ॥ रात्र्यर्थाद्बलपर्यायस्त्रिशिराश्च प्रवाहिकः । रात्रिंचरो रात्रिचरः कर्बुरो निकषात्मजः ॥ ५७ ॥ कर्बूरः स्यात्पुण्यजनः क्रव्यात् क्षश्चापि नैरृतः । विखुरः कोणपः शङ्कुरासरो रतविष्वणः ॥ ५८ ॥ कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् । क्लीबे भूतं च रक्षश्च पुं वा नैरृतनिरृती ॥ ५९ ॥ पिशिताशनपैशाचौ पलादश्च पलादनः । आशार आशिरोऽपि स्यादाशिरः कुणपोऽश्रपः ॥ ६० ॥ अस्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः । क्रव्याच्चापि पिशाचश्च कापिशेयोऽस्य मातरि ॥ ६१ ॥ निकषा नैकषेयी स्यात् स्त्रियः स्त्रीप्रत्ययार्थकाः । धनदानुजपर्यायो रावणो राक्षसेश्वरः ॥ ६२ ॥ कैकसेयो वैश्रवणः पौलस्त्यः शंकराश्रयः । दशभ्यश्च शिरःकण्ठमुखपर्याय इत्यपि ॥ ६३ ॥ लङ्कायाः पतिपर्यायो देवपर्यायवैर्यपि । मर्त्यार्थारिः कुम्भकर्णविभीषणाग्रजार्थकः ॥ ६४ ॥ ;p{0387} मन्दोदरी प्रिया त्वस्य मयपुत्री मनस्विनी । इन्द्रजिन्मेघनादः स्याद्रावणिश्चाक्षपूर्वजः ॥ ६५ ॥ अमात्याः स्युः प्रहस्ताद्याः पुरी लङ्काऽस्य भग्न्यपि । शूर्पणखा शूर्पणखी तालव्यादिरियं मता ॥ ६६ ॥ मारीचो मातुलोऽस्य स्याच्चन्द्रहासोऽसिरस्य च । वरुणो जलकान्तारो मेघनादः पुरंजनः ॥ ६७ ॥ अब्धिपर्यायसद्मार्थः प्रचेता वश्च कुण्डली । अब्यादःपश्चिमदिशापतिपर्यायपाशिनौ ॥ ६८ ॥ सुखाशोऽपि विलोमः स्याज्जम्बूको जम्बुकोऽपि च । अप्युद्दामः संवृतः स्याद्दुन्दुभिस्तस्य तु प्रिया ॥ ६९ ॥ गौरीतल्ली काहली स्यादथ श्रीदः सितोदरः । कुह एलविलो यक्षो नृधर्मा गुह्यकेश्वरः ॥ ७० ॥ शम्भुपर्यायमित्रार्थः पौलस्त्यो नरवाहनः । एकपिङ्गो वैश्रवणः कुबेरो धनदश्च सः ॥ ७१ ॥ पिशाचकी राजराजो धनयक्षनिधीश्वरः । इच्छावसूरत्नकरः सत्यसंगर इत्यपि ॥ ७२ ॥ वक्रनेत्रो रत्नगर्भो वसुश्चापि बको द्रुमः । एककुण्डलपर्यायः सोमः पद्मार्थलाञ्छनः ॥ ७३ ॥ ;p{0388} धनकेलिः सुप्रसन्नो महासूचः प्रमोदितः । श्रेष्ठोऽथाप्यस्य तनयो नलकूवर इत्यपि ॥ ७४ ॥ द्वितीयस्तु मणिग्रीवो विमानं पुष्पकं पुनः । पुष्यमस्यैव नगरी वसुसारा वसुप्रभा ॥ ७५ ॥ वस्वौकसाराऽप्यलका वनं चैत्ररथं पुनः । मायुराजः सारथिः स्यात् कैलासः स्थानमप्यथ ॥ ७६ ॥ अथ यक्षो गुह्यकः स्याद्वरपर्यायवास्यपि । स च पुण्यजनो राजा किंनरश्च मयुः पुमान् ॥ ७७ ॥ तुरङ्गार्थमुखार्थोऽथ निधिः स्त्री सेवधिः पुमान् । शेवधिश्च कुनाभिश्च स्याद्वर्णकविरप्यथ ॥ ७८ ॥ ईशः शम्भुः पशुपतिरट्टहासो बकः शिवः । अजो मः प्रहसः शूली भोगः संजश्च शङ्करः ॥ ७९ ॥ व्योमपर्यायकेशार्थः पशुपर्यायतः पतिः । घस्रो जयन्तो गिरिशो मृडो भीष्मो महेश्वरः ॥ ८० ॥ ईश्वरो हः शर्वगुह्यौ चन्द्रपर्यायशेखरः । स्यान्नीलात्कालतः कण्ठपर्यायस्त्र्यम्बकार्थकः ॥ ८१ ॥ उर्गुरुः खण्डपरशुर्भूतेशः प्रमथाधिपः । झोटिङ्गः शिशिरो बभ्रुः कटमर्दश्च रेवतः ॥ ८२ ॥ ;p{0389} मृत्युञ्जयः कृत्तिवासा भालार्थाल्लाञ्छनार्थकः । भालदृग्गोपतिर्हीरः पिङ्गदृग्वर्वढोऽव्ययः ॥ ८३ ॥ पिनाकी च कटाटङ्को जटाटीनो महानटः । अद्रिधन्वा कपर्द्युग्रस्तमोहा नन्दिवर्धनः ॥ ८४ ॥ केदारश्चन्दिलो भीमो भैरवो गजदैत्यभित् । शितिकण्ठो गुडाकेशः श्रीकण्ठः पांशुचन्दनः ॥ ८५ ॥ कटप्रूर्मिहिराणः स्याच्छिपिविष्टः कपालभृत् । वामदेवो जगद्योनिरुड्डीशो धूर्जटिर्हरः ॥ ८६ ॥ महादेवः कङ्कटीकः कूटकृच्चाब्दवाहनः । बहुरूपो देवमणिर्दिगम्बरवृषाकपी ॥ ८७ ॥ कृशानुरेतः पर्यायाः स्मरपर्यायशासनः । हिरण्यवह्न्योः पर्यायरेताः स्यान्नीललोहितः ॥ ८८ ॥ भवो बुद्धः कृतकरोऽक्षत उत्सर्वतोमुखः । सुप्रसादो महाकालः स्थाणू रुद्रश्च भौतिकः ॥ ८९ ॥ कालञ्जर उमार्थेभ्यः पत्यर्थस्त्रिपुरान्तकः । नरास्थिमाल्यम्बरीषः कोपवाद्यपराजितः ॥ ९० ॥ गङ्गाधरोऽन्धकमखपर्यायरिपुवाचकः । वृषपर्यायकेत्वर्थो वाहनार्थः खरुर्वरः ॥ ९१ ॥ ;p{0390} शवरो मन्दरमणिर्विशालाक्षोऽग्निलोचनः । स्यात्सिताङ्गश्च समहा महाङ्गीनो महाम्बुकः ॥ ९२ ॥ उन्मत्तवेशो वरदो भूमिकायो दशोत्तमः । धूर्त्तकूटो महानादः सुभगोण्डैकलोचनः ॥ ९३ ॥ स्त्रीदेहार्द्धोऽहिपर्यङ्को जटापर्यायवानपि । कोलो नरार्थादाधारो जयन्तश्चापराजितः ॥ ९४ ॥ दिशां प्रियतमो वृद्धो योगी धूम उलन्दकः । समुद्राद्वाहनार्थश्च सन्ध्यापर्यायनाट्यपि ॥ ९५ ॥ अहिर्बुध्न्यो रेरिहाणो हिबुध्नः कपिशोऽञ्जनः । भद्राक ऊर्ध्वरेताः स्याद्भगाली च कपाल्यपि ॥ ९६ ॥ श्मशानसद्मा गोपालः सर्वज्ञश्च विषान्तकः । महेशः खण्डपरशुः शिपिविष्टश्च सर्वगः ॥ ९७ ॥ भर्गो भर्ग्यः खण्डपर्शुर्भरुः शङ्कुर्हरिः पुनः । शंभूः सर्वोऽपि वामः स्याद्गिरिशो नटराडपि ॥ ९८ ॥ नाट्यप्रियोऽस्थिपर्यायधन्वर्थोऽपि ध्रुवः स च । एकदृक्स्यात्पञ्चमुखपर्यायोऽपि महाव्रती ॥ ९९ ॥ कङ्कटीको गुह्यगुरुरर्द्धकालो दिशांप्रियः । बहुरूपः सुप्रसादो नवशक्तिश्च कूटकृत् ॥ १०० ॥ ;p{0391} स्यादष्टमूर्त्तिपर्याय एकलिङ्गं च न द्वयोः । कपर्दोऽस्य जटाजूटोऽस्त्रियां खट्वाङ्ग इत्यपि ॥ १०१ ॥ शूलोऽस्त्रियां पिनाकोऽपि त्रिशूलं त्रिशिखं च षण् । अजगावं चाजगवमजकावं तदिष्यते ॥ १०२ ॥ तदेवाजकवं प्रेतमञ्जरी स्त्री त्रिशूलकम् । शवपांशुलकं चाथ कावं गावं कवं गवम् ॥ १०३ ॥ अजाद्धनुः स्यादप्येवं पिनाकोऽस्त्री ततोऽप्यथ । प्रमथाः स्युः पारिषदाः पार्षदाः स्युर्गणाश्च ते ॥ १०४ ॥ ब्राह्मी माहेश्वरी चैन्द्रा कौमारी वैष्णवी तथा । वाराही चण्डी चामुण्डा मातरोऽष्टावतः पराः ॥ १०५ ॥ विभूतिर्भूतिरैश्वर्यमणिमा महिमा पुनः । गरिमा लघिमा प्राप्तिः प्राकाम्यं चेशिताऽष्टधा ॥ १०६ ॥ भृङ्गिरीटिर्भृङ्गिरिटिर्भृङ्गी नाड्यस्थिविग्रहः । भृङ्गिरीटः शलोऽपि स्याद्गणानामग्रणीश्च सः ॥ १०७ ॥ वृषश्चापि शलो दक्षो महाभैरवभैरवौ । महाकालः पुनर्वाणो लूनबाहुर्वृषाणकः ॥ १०८ ॥ वीरभद्रस्तु हीराजो हेलकस्तु कृतालकः । अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः ॥ १०९ ॥ ;p{0392} यजनो मज्जनश्चापि छागमेषौ महाघसः । महाकपाल आलातः सन्तापनविलापनौ ॥ ११० ॥ महाकपोलः पैलोऽजः श्वेतकर्णः खरस्तथा । उल्कामाली महालम्भः श्वेतपादः खरांशुकः ॥ १११ ॥ गोपालो ग्रामणीर्मायुर्घण्टाकर्णकरन्धमौ । कपाली कृतकी लिम्पः स्थूणः कर्णविकर्णकौ ॥ ११२ ॥ स्थूलकर्णो महाशीर्षो हस्तिकर्णः प्रतर्दनः । व्यालजिह्वो धर्मधनः संहारः क्षेमकोऽपरः ॥ ११३ ॥ भीमको ग्रामकः स्विन्नो धीलण्डो मकराननः । पिशिताशी महाकुण्डो नखारिरहिलोचनः ॥ ११४ ॥ क्षणकुन्थोऽप्रजातारिर्बकारिश्च शिवङ्करः । विप्लावो लोमवेतालस्तामसः सुमहाकपिः ॥ ११५ ॥ उत्तुङ्गो हेमजम्बूकः कण्डानककलानकौ । चर्मग्रीवो जलोन्मादो ज्वालावक्त्रो विहुण्डनः ॥ ११६ ॥ हृदयो वर्त्तुलः पाण्डुर्भुडिरित्येवमादयः । नन्दिस्तु नन्दी शालङ्कायनिस्ताण्डवनालिकः ॥ ११७ ॥ तण्डुर्नन्दीश्वरः केलिकिलः कूष्माण्डको गणः । मञ्जुवक्त्रो मञ्जुघोषो मञ्जुश्रीर्ज्ञानदर्पणः ॥ ११८ ॥ ;p{0393} स्थिरचक्रो वज्रधरः कुमारोऽष्टारचक्रवान् । नीलोपली महारञ्जी प्रज्ञाकायश्च वादिराट् ॥ ११९ ॥ धियां पतिश्च खड्गी च नीलशार्दूलवाहनः । दण्डी बालव्रतः पञ्चवीरो वागीश्वरः शिखी ॥ १२० ॥ सिंहपर्यायकेलिः स्यादथ स्याच्छशिशेखरः । हेरम्बो देहको वत्सो निकुम्भी वक्रसञ्चरः ॥ १२१ ॥ देवो वज्रकपाली च वज्रटी चाथ गौर्यपि । उमा कात्यायनी गोला सिनीवाली दृषद्वती ॥ १२२ ॥ गौरा कालञ्जरी चण्डा चण्डाका चण्डकापि च । सिंहार्थाद्वाहनार्था स्यात्काली हिण्डीश्वरीश्वरा ॥ १२३ ॥ हिमाद्रिदक्षनन्दानां पर्यायेभ्यः सुतार्थका । चण्डिश्च बाभ्रवी माता चर्या शिखरवासिनी ॥ १२४ ॥ गौतमी सौः कृष्णपिङ्गा मारी च गणनायिका । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १२५ ॥ एका वरालिकानंशा शिवदूती यमस्वसा । अपर्णा रोहिणी दुर्गा मृडानी चण्डिकाऽम्बिका ॥ १२६ ॥ कोटव्यदितिकैटभ्यः कैटभा यादवी च सा । शृङ्गा टेका शची देवी महादेवी कुमारिका ॥ १२७ ॥ ;p{0394} शूलभृत् कर्बुरी भ्रामर्यनन्ता विजयाऽपि च । जयन्ती मालिनी तुङ्गी दुर्वाराजवरा च सा ॥ १२८ ॥ कालञ्जरी भद्रकाली नारायण्यपराजिता । वृषाकपायी षष्ठी स्यात्तामस्यपि च लम्बिका ॥ १२९ ॥ स्याद्बर्हिध्वजपर्याया बाभ्रवी नकुली तथा । निशुम्भशुम्भमहिषमथनी भूतनायिका ॥ १३० ॥ नन्दिनी कौशिकी कृष्णा भ्रामरी रेवती वरा । कालरात्रिर्महामाया विशालाक्ष्येकपाटला ॥ १३१ ॥ महाविद्या सिनीवाली परमब्रह्मचारिणी । गण्डिनी योगिनी भीमाऽमोघा विन्ध्यनिवासिनी ॥ १३२ ॥ वरदा वदरीवासा प्रगल्भा कृष्णपिङ्गला । कृष्णेन्द्रयोश्च पर्यायभगिन्यर्था च जाङ्गली ॥ १३३ ॥ हिमा बहुभुजा स्कन्दमाता च श्रीर्धनाञ्जनी । सावित्री मन्दरावासा कर्वरी च महाजया ॥ १३४ ॥ कोटिः कलापिनी गङ्गी रक्तदन्ता च वारुणी । हासानन्ता च कूष्माण्डी मानस्तोका किरात्यपि ॥ १३५ ॥ मलयाद्रिनिवासार्था जयन्ती गोकुलोद्भवा । अष्टादशभुजा पोत्री नीलवस्त्रोग्रवारिणी ॥ १३६ ॥ ;p{0395} कुण्डा नारायणी शैला शाकम्भर्यतुलप्रभा । सुनन्दा विकला लम्बा विकराला करालिका ॥ १३७ ॥ नन्दयन्ती शतमुखी रौद्री नन्दा निरञ्जना । बलदेवस्वसा पुण्या महारौद्रा महानिशा ॥ १३८ ॥ कुण्डा कालङ्गमीहा च दर्दुरी कुलदेवता । कालपर्यायदमनी पुनः शिखरवासिनी ॥ १३९ ॥ जया च विजया सख्यौ मनस्तालस्तु वाहनम् । सिंहोऽस्याः कर्णमोटी तु चर्ममुण्डा च चर्चिका ॥ १४० ॥ चामुण्डा च महागन्धा भैरवी च कपालिनी । मार्जारकर्णिका देव्योऽनन्ताः सर्वाधिपा इमाः ॥ १४१ ॥ बालचर्यो महासेनः पर्यायः शरजन्मनः । षडाननार्थः सेनानीर्गुहः शिख्यर्थवाहनः ॥ १४२ ॥ गौरीगङ्गाकृत्तिकाग्निपर्यायेभ्यः सुतार्थकः । द्वादशाक्षो जयन्तोऽपि महातेजाश्च शक्तिभृत् ॥ १४३ ॥ क्रौञ्चतारकवैर्यर्थो देवसेनापतिश्च सः । कामजित्कामदः कान्तः स्कन्दः शीघ्रः शुचिः शिशुः ॥ १४४ ॥ मयूरकेतुः स्वाहेयो भूतेशो महिषार्दनः । षष्ठीप्रियो रेवतीजः पवित्रो मातृवत्सलः ॥ १४५ ॥ ;p{0396} विश्वामित्रप्रियश्चण्डो दीप्तः शरवणोद्भवः । वासुदेवप्रियश्चापि स च द्वादशबाहुकः ॥ १४६ ॥ प्रियाऽस्य देवसेना स्याच्छस्त्रं शक्तिश्च वाहनम् । मयूरस्तनयौ शाखविशाखावथ तद्गणाः ॥ १४७ ॥ बालग्रहाः पूतनाद्या अथ मेघो बलाहकः । जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥ दर्दुरः खतमालः स्यान्नभःपर्यायहस्त्यपि । व्योमधूमो वायुदारुर्मदपीलुर्मदाम्बरः ॥ १४९ ॥ अन्नं क्लीबे क्षरः कोशो भेको देवो घनोऽपि च । धाराधरो धूमयोनिस्तडित्वानपि वारिदः ॥ १५० ॥ जीमूतः शम्बरो वातरथोऽपि स्याद्वराहकः । गडेरोऽब्दो गदयित्नुर्नभसोऽर्थाद्ध्वजार्थकः ॥ १५१ ॥ मुदिरः स्त्री वारिमसिर्नभ्राडब्दे तु वर्षुके । शब्दान्विते च पर्जन्यपर्यन्यौ वर्षुके घने ॥ १५२ ॥ घनाघनो वर्षमस्त्री स्त्री वृष्टिर्वर्षणं च षण् । वर्षं तस्य प्रतीघाते वग्राहावग्रहौ तडित् ॥ १५३ ॥ शम्पा सौदामिनी विद्युच्चञ्चला च शतह्रदा । सौदामनी च सौदाम्नी ह्रादिनी चाशनिर्द्वयोः ॥ १५४ ॥ ;p{0397} क्षणस्याणोश्च पर्यायाद्भापर्याया हरिस्वसा । चपलार्था च चिलिचिम्यशन्यैरावती समे ॥ १५५ ॥ स्फूर्जथुश्चापि विस्फूर्जथुश्च विस्फुर्जथुः समाः । आकालिकी च क्षणिका सैवोक्ता जलवालिका ॥ १५६ ॥ तच्चाञ्चल्ये चाकचिक्यं क्लीबे स्यादथ तद्धतौ । स्फूर्जथुर्वज्रपर्यायाद्घोषपर्यायको नरि ॥ १५७ ॥ अम्भोबीजस्य पर्यायः स्याद्द्वयोः करकः करः । क्लीबे बीजोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥ अम्ब्वर्थाद्घनपर्यायो मेघपर्यायतः कफः । तोयपर्यायडिम्भो ना स्त्रियां मेघास्थिपुञ्जिका ॥ १५९ ॥ मेघास्थि वर्षणं तु स्याद्गोघृतं च परामृतम् । कादम्बिनी मेघमाला सर्वं मेघभवं त्रिषु ॥ १६० ॥ अभ्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण् । रसितं मेघपर्यायाज्ज्योतिषोऽर्थ इरंमदः ॥ १६१ ॥ आयुधं त्विन्द्रपर्यायाद्धनुरैरावतं पुनः । तदेव स्याद्वातरुषं वायुपर्यायतः फलम् ॥ १६२ ॥ वल्मीकपर्यायभवं भिन्नं वा ऋजुरोहितम् । दीर्घर्जु चाप्यथासारो धारासम्पात इत्यपि ॥ १६३ ॥ ;p{0398} वायूद्धताम्बुलेशाः स्युः सीकराः शीकरा अपि । सीभरः शीभरास्ते स्युरथ स्यादपवारणम् ॥ १६४ ॥ अन्तर्द्धा व्यवधा स्त्रीत्वेऽप्यन्तर्द्धिर्व्यवधिः पुमान् । अन्तर्द्धानतिरोधाने च्छदनाच्छादने अपि ॥ १६५ ॥ अपिधानपिधाने च व्यवधानं ततोऽप्यथ । अभ्रादिधूममहिषीसंवृतेऽहनि दुर्दिनम् ॥ १६६ ॥ चन्द्रमाश्चन्दिरः सोमः क्लेदुः पैद्वश्च पक्षजः । सृप्रः पर्वविपद्गौरः परिज्ञश्च विरोचनः ॥ १६७ ॥ तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसो हरिः । ग्रहनेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥ १६८ ॥ ऋक्षपर्यायनेम्यर्थश्चित्राटीरो विभावसुः । दशश्वेताश्वपर्यायः सुधापर्यायसूरपि ॥ १६९ ॥ स्तृर्दक्षजारोहिणीनिडोषधीनां द्विजन्मनाम् । कुमुदिन्याश्च कौमुद्या ग्रहाणां चार्थतः पतिः ॥ १७० ॥ कलाशशैणच्छायानां पर्यायेभ्यो भृदर्थकः । जैवातृकोऽब्ज इन्दुर्ग्लौर्विधुश्चन्द्रोऽत्रिनेत्रभूः ॥ १७१ ॥ नभःपर्यायचमसो निशापर्यायतो मणिः । स्याच्छीतकरपर्यायो निशापर्यायतः करः ॥ १७२ ॥ ;p{0399} हिमश्वेतद्युतिः शम्भुपर्यायेभ्यः शिरोमणिः । छायामृगसुधार्थेभ्यः पिद्मुः सिन्धुः सुधाऽर्थतः ॥ १७३ ॥ तन्वर्थो यजतः सप्रो जरणो द्रुस्तपः पुनः । कुमुदार्थाच्च बन्ध्वर्थो राजराजः सुधांशुकः ॥ १७४ ॥ कृत्तिकासंभवार्थः स्यात्तापसः शपितोऽपि च । क्रुष्टो मा विक्लिदः स्यन्दः सिन्धूत्थो बुध एकभूः ॥ १७५ ॥ परिच्छो वयुनाः स्नेहूः पुंसि नेमिः स्त्रियां पुनः । समुद्रार्थान्नवनीतं तारापीडोऽथ तत्कलाः ॥ १७६ ॥ अमृता मानदा विश्वा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ १७७ ॥ पूर्णा पूर्णामृता चेति षोडश स्युरथास्त्रियाम् । बिम्बः खण्डं च वा पुंसि पुंस्यर्द्धोऽर्द्धं समेंशके ॥ १७८ ॥ स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु । कलङ्कोऽस्त्री लाञ्छनं च चिह्नं लक्ष्म च लक्ष्मणम् ॥ १७९ ॥ अङ्कः पुंस्यथ कान्तिः स्यात् कान्त्यपि स्यात् द्युतिश्छविः । अभिख्या परमा शोभा सुषमापि द्युतीच्छवी ॥ १८० ॥ ;p{0400} विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि । नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥ वा पुंसि ऋक्षं भं ज्योतिः स्तृ दिवाभीतमित्यपि । रात्रिदृश्यं च भासन्तमथ चन्द्रमसः स्त्रियः ॥ १८२ ॥ एकोक्त्या दक्षपुत्र्यस्ताः क्रमात्स्युरथ न द्वयोः । स्त्रियामश्विन्यश्विकिनी क्लीबे चाश्वयुगित्यपि ॥ १८३ ॥ दस्रपर्यायदेवत्यं वालिनी भरणी स्त्रियौ । भरणिर्यमपर्यायदेवत्यमथ कृत्तिकाः ॥ १८४ ॥ स्त्रियां भूम्न्येव बहुला अग्न्यर्थाद्देवतं च तत् । प्रजापत्यर्थदेवत्यं रोहिण्यथ मृगः पुमान् ॥ १८५ ॥ मार्गो मृगशिरः षण् स्त्री मृगशीर्षं च षण् स्त्रियाम् । चन्द्रपर्यायदेवत्यमिल्वलास्त्विल्वका अपि ॥ १८६ ॥ इन्धकास्तच्छिरस्था यास्तारकाः पञ्च ता अथ । आर्द्रा स्त्री रुद्रपर्यायदेवत्यमथ पुंसि च ॥ १८७ ॥ द्वित्वे पुनर्वसू चापि देवत्यमदितेरथ । द्वयोस्तिष्यश्च पुष्यश्च गुर्वर्थाद्देवतार्थकम् ॥ १८८ ॥ आश्लेषा सर्पदेवत्यमथ भूम्नि स्त्रियां पुनः । स्यान्मघाः पितृदेवत्यमथ द्वित्वे स्त्रियामिमे ॥ १८९ ॥ ;p{0401} ते स्यातां पूर्वफल्गुन्यौ भगदैवतमित्यपि । तथैवोत्तरफल्गुन्यावार्यम्णं स्यादथ स्त्रियाम् ॥ १९० ॥ हस्तः सवितृदैवत्यं चित्रा पुंस्यपि च स्त्रियाम् । त्वष्टृपर्यायदैवत्यमथ स्वातिस्तु पुंस्त्रियोः ॥ १९१ ॥ स्वाती स्त्रियां च वाय्वर्थाद्देवत्यमथ च स्त्रियाम् । विशाखेन्द्राग्निपर्यायदेवत्यं चाप्यथ स्त्रियाम् ॥ १९२ ॥ अनुराधा तु मित्रार्थाद्देवत्यमप्यथास्त्रियाम् । मूलं स्याद्रक्षःपर्यायदेवत्यमप्यथ स्त्रियाम् ॥ १९३ ॥ पूर्वाषाढाम्बुपर्यायाद्देवत्यमथ च स्त्रियाम् । स्यादेवमुत्तराषाढा वैश्वदेवमथ त्रिषु ॥ १९४ ॥ श्रवणं विष्णुपर्यायाद्देवत्यं स्यादथ स्त्रियाम् । धनिष्ठा च श्रविष्ठा च वसुपर्यायदैवतम् ॥ १९५ ॥ अथ स्त्रियां शतभिषा पुंसि च स्याच्छताद्भिषक् । शततारा स्त्रियां क्लीबे देवत्यं वरुणार्थतः ॥ १९६ ॥ अजैकपाददेवत्यं पूर्वभद्रपदा स्त्रियाम् । अथाहिर्बुध्न्यदेवत्यं स्त्रियां प्रोष्ठपदाऽपि च ॥ १९७ ॥ तथोत्तरा भाद्रपदा रेवती तु स्त्रियां पुनः । पौष्णं स्यादथ ऋक्षाणि तेषामन्तो न कर्हिचित् ॥ १९८ ॥ ;p{0402} भूपर्यायसुतार्थस्तु वक्र आरोऽपि मङ्गलः । रक्तार्थादङ्गपर्यायः शिवपर्यायवीर्यजः ॥ १९९ ॥ अङ्गारः स्यादषाढाभूः खपर्यायोल्मुकार्थकः । नवार्चिरथ पञ्चार्चिर्धनिष्ठाभूः प्रहर्षुलः ॥ २०० ॥ रोहिणीचन्द्रपर्यायपुत्रार्थः स्याददृक्पथः । श्यामपर्यायगात्रार्थो वयुनश्चन्दिरो बुधः ॥ २०१ ॥ ज्ञः परिज्मैकदेहार्थः स च सूर्यसहाचरः । स्यन्दः स्वःसिन्धुसिन्धूत्थः क्लेदुः खचमसोऽपि च ॥ २०२ ॥ नेम्यर्थोऽप्यरुणोऽथ स्यात्प्रचख्या तु महामतिः । बृहस्पतिः साद्धिषणो गुरुः संवर्त्तपूर्वजः ॥ २०३ ॥ पाखण्डकर्त्ता गोविन्दो द्वादशार्चिश्च दीदिविः । वाग्म्याङ्गिरसपारुष्याश्चक्षाश्चित्रशिखण्डजः ॥ २०४ ॥ जीवो गीष्पतिपर्यायो गीष्पर्यायरथार्थकः । देवार्थाद्गुरुपर्याय उतथ्यस्यानुजार्थकः ॥ २०५ ॥ प्राक्फाल्गुनेयः प्रख्यावाक् नन्दिघोषस्तु तद्रथे । शुक्रस्तु भार्गवः काव्यः कविः शुक्लो मघाभवः ॥ २०६ ॥ आस्फुजिद्भागवान्धिष्ण्य एकार्थान्नयनार्थकः । दैत्यादिगुरुपर्यायो दिनदृश्यः सितो भगः ॥ २०७ ॥ ;p{0403} इनो भृगुः षोडशार्चिः शतपर्वेश इत्यपि । शनैश्चरस्तु लौहित्यः सप्तार्चिः क्रूरदृक्पथः ॥ २०८ ॥ नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः । सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥ दैत्यग्रहः शीर्षदेहः सूर्याचन्द्रमसोररिः । तमोऽस्त्री ग्रहकल्लोलो भरणीभूर्विधुंतुदः ॥ २१० ॥ अभ्रार्थाच्च पिशाचार्थः स्वर्भानुः स्यादथो शिखी । आश्लेषाभूर्वारुणः स्यादहिः केतुश्च तद्गणाः ॥ २११ ॥ बहवो विविधाकारा धूमकेतुपुरःसराः । गुरोःपुत्रः कचः शंयुः स्याद्भरद्वाज इत्यपि ॥ २१२ ॥ वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ । मारीचोऽप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥ २१३ ॥ भार्गवो जमदग्निः स्याद्यमदग्निरपि स्मृतः । राहूगणो गौतमः स्याद्गोतमोऽप्यथ गाधिजः ॥ २१४ ॥ विश्वामित्रः कौशिकः स्यादेते वैवस्वतेऽन्तरे । एकयोक्त्यर्षयः सर्वे तेऽपि चित्रशिखण्डिनः ॥ २१५ ॥ ध्रुवो नक्षत्रनेमिः स्यादुत्तानचरणात्मजः । ज्योतीरथो ग्रहाधारः सुनीतितनयार्थकः ॥ २१६ ॥ ;p{0404} पितृदेवनभोमार्गपर्यायश्च नभः सरित् । भचक्रमध्यसूत्रं तन्मूलान्मृगशिरावधि ॥ २१७ ॥ ग्रहपर्यायनेमिः स्यादथागस्त्यो घटोद्भवः । दण्डयामश्च दीक्षाग्निरगस्तिश्चाग्निमारुतः ॥ २१८ ॥ दक्षिणर्षिर्वारुणिः स्यात्सत्याग्निर्मान्य इत्यपि । मानसूनुश्च तपनो मैत्रावरुणिरित्यपि ॥ २१९ ॥ और्वशेयोऽश्विवातापील्वलारिर्विन्ध्यकूटकः । नहुषेन्द्रत्वशत्र्वर्था मैत्रावरुण इत्यपि ॥ २२० ॥ प्रियास्य वरदा लोपामुद्रा (कौषीतकी तथा) । (वरप्रदाऽपि सैवोक्ता) वैदर्भ्यथ च तत्सुतौ ॥ २२१ ॥ दृढच्युदिध्मवाहश्चाथैकयोक्त्येन्दुभास्करौ । पुष्पवन्तावदन्तौ च मतुबन्तौ च तावथ ॥ २२२ ॥ उपाद्रागः प्लवो रक्तो द्रवः सर्गस्तथाऽऽहितः । उपरागः स्त्रियामीतिर्ग्रहो ना ग्रहणं च षण् ॥ २२३ ॥ अग्न्युत्पातोऽपि चोत्पातो रिष्टं चारिष्टमित्यपि । पुंसि क्लीबेऽप्यजन्यं स्यात् क्लीबे भं लग्नमित्यपि ॥ २२४ ॥ ग्रहावर्त्तद्वादशोंशो राशिः पुंस्यथ ते क्रमात् । मेषो वृषश्च मिथुनं क्लीबे कन्यातुले स्त्रियौ ॥ २२५ ॥ ;p{0405} वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनकौ । ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥ २२६ ॥ मासांस्त्रयोदश गुरुः शनिस्त्रिंशत्ततस्तमः । अष्टादश तथा केतुः प्रायो भौमस्त्रयस्ततः ॥ २२७ ॥ मासान्सप्तदशेज्योथ सहस्रं द्विशतोत्तरम् । सप्तर्षयस्तथागस्त्यो भुनक्त्यब्दान्ध्रुवोऽपि तु ॥ २२८ ॥ सर्वदा सकलान् राशीन् भचक्रस्योपरिस्थितः । कल्पद्रौ केशवकृते भुवः स्कन्धे द्वितीयके । नभःस्थदेवकाण्डोऽयं तृतीयः सिद्धिमागतः ॥ २२९ ॥ ;v{कालप्रकाण्डः} कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः । आमतिः समयः पीयुरथ वास्रस्तु वासरः ॥ १ ॥ घस्रो घ्रंसो घृणिर्द्यौः स्याद्दिवसश्च तिथिर्द्वयोः । कर्मवाटी तिथी द्वे स्त्री क्लीबेऽहर्दिनमस्त्रियाम् ॥ २ ॥ दिवाव्ययं याममालो व्युष्टांशश्चाथ पञ्च ताः । नन्दा भद्रा जया रिक्ता पूर्णाः सप्तापि ताः क्रमात् ॥ ३ ॥ ;p{0406} रव्याद्यास्ताः पञ्चदश स्युरथ प्रतिपत् स्त्रियाम् । पक्षतिर्मासपक्षाद्याग्नेयी वा ब्राह्मणो परा ॥ ४ ॥ गिरिजा गणपः सर्पाः स्कन्दः सूर्यः शिवः शिवा । यमो विष्णुर्हरः कामः शर्वश्चन्द्रः पितामहाः ॥ ५ ॥ पूर्णिमामेति गदिते दिवसाः स्युश्चतुर्विधाः । घटीषष्टिमितोऽर्कस्य राशिभोगस्य चापि यः ॥ ६ ॥ त्रिंशांशस्तिथ्यवच्छन्नो यावदृक्षं च सावनः । सौरो दैवस्तथैवार्क्षश्चाथ योगाः क्रमादमी ॥ ७ ॥ विष्कम्भः प्रीतिरायुष्मान्सौभाग्यश्चापि शोभनः । अतिगण्डः सुकर्मा च धृतिः शूलं ततः पुनः ॥ ८ ॥ गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः । वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥ सिद्धः साध्यः शुभः शुक्लो ब्रह्मेन्द्रश्चापि वैधृतिः । तत्रातिगञ्जो गञ्जोऽपि द्वितीयश्चाष्टमः स्त्रियाम् ॥ १० ॥ एकादशः षोडशान्त्यावस्त्रियां नवमोऽपि च । तद्वत्पञ्चदशोऽन्ये नर्योगाः स्युः करणानि च ॥ ११ ॥ शुक्लप्रतिपदः पूर्वार्द्धान्त्यार्द्धस्य प्रभेदतः । किंस्तुघ्नं च ववं चापि बालवं कौलवं च षण् ॥ १२ ॥ ;p{0407} तैतलं गरं वणिजं भद्रा विष्टिरुभे स्त्रियौ । पञ्चम्यास्तु ववादि स्युर्यावत् कृष्णचतुर्दशी ॥ १३ ॥ तस्याः परेऽर्द्धे शकुनिः पूर्वेऽर्द्धे चतुरंह्रिकम् । अमोत्तरार्द्धे नागाख्यममून्येकादशैव हि ॥ १४ ॥ करणानीति तिथयश्चतुरङ्गा प्रगेव्ययम् । प्रातश्च काल्यं कल्यं षण् दिवसार्थान्मुखार्थकम् ॥ १५ ॥ व्युष्टं विभातं प्रत्यूषः स्त्रियां प्रत्युषमित्यपि । गोसर्गश्चाथ मध्याह्नो दिनार्थान्मध्यमित्यपि ॥ १६ ॥ मध्यं दिनमथोत्सूरोऽपराह्णः पुंनपुंसकम् । दिवसार्थावसानस्य पर्यायं सायमव्ययम् ॥ १७ ॥ सायोऽपि स्यात्स्त्रियां सन्ध्या पितृपर्यायसूर्रुमा । निण्मुखं च प्रदोषः स्यात्सन्धा सन्धिश्च पुंस्ययम् ॥ १८ ॥ सन्ध्यानां त्रितये चापि वैणवं च त्रिसन्ध्यकम् । पुंसि त्रिसन्धिश्चाथ स्याच्चतुर्थ्यां प्रहरावधि ॥ १९ ॥ आसार्द्धयामं सप्तम्यां त्रयोदश्यां ततः पुनः । आयामयुगमेवं स्यात् प्रदोषोऽध्यायविघ्नकृत् ॥ २० ॥ षष्टिदीर्घाक्षरोच्चारा मेरुका घटिका घटी । नाडी च नाडिका यामनाडी स्याद्यामघोषिणी ॥ २१ ॥ ;p{0408} विकालिका मानरन्ध्रात्ताम्रिकाऽप्यथ तद्द्वयम् । अह्नः पञ्चदशोंशोऽस्त्री मुहूर्त्तस्ते क्रमादथ ॥ २२ ॥ आद्यो रौद्रोऽथ द्वितीयोऽहिः सितोऽथाज इत्यपि । मैत्रोऽथारभटश्चापि पितरः सारटोऽप्यथ ॥ २३ ॥ सावित्रो वासवश्चाथ वैराजश्च जयन्तकः । आप्योऽथ विश्वो गान्धर्वो वेधास्तु कुतपोऽभिजित् ॥ २४ ॥ विधिस्तु रौहिणो विन्दोऽथोबलश्च विरेचनः । एकादशस्तु विजयः पुरुहूतोऽथ नैरृतः ॥ २५ ॥ वह्निश्चाथ महेन्द्रस्तु रक्षश्चाथ जलेश्वरः । चतुर्दशः पञ्चदशो भटस्तु स्यात्तथा भगः ॥ २६ ॥ स्यादेवं पञ्चदशधा दिवसः पञ्चधा पुनः । प्रातः संगवमध्याह्नाः पराह्णाः सायमित्यथ ॥ २७ ॥ पूर्वाह्णः प्रहरः सार्द्धो मध्याह्नस्तु तदुत्तरः । प्रहरोऽथापराह्णस्तु घटिकानां चतुष्टयम् ॥ २८ ॥ सायाह्नः प्रहरश्चैवं चतुर्द्धाऽथ त्रिधा पुनः । पूर्वाह्णश्चापि मध्याह्नोऽपराह्णश्चेत्यथ द्विधा ॥ २९ ॥ पूर्वाह्णश्चापराह्णश्च रात्रेस्तावन्त एव हि । आद्यो रौद्राऽथ गन्धर्वोऽजैकपादथ भास्करः ॥ ३० ॥ ;p{0409} अहिर्बुध्न्योऽथ पूषाऽपि कुबेरोऽथ सदागतिः । दस्रादथ यमोऽग्निश्च विधाता त्वष्टमस्ततः ॥ ३१ ॥ सौम्योऽदितिस्तु ब्राह्मोऽथ वाक्पतिर्द्वादशो रविः । त्रयोदशोऽप्यथापि स्युस्त्वष्टृब्रह्मसमीरणाः ॥ ३२ ॥ स्यान्नैरृतः पञ्चदशः स्याच्चतुर्भिस्तु तैः पुनः । प्रहरश्च यमो यामो घटीपर्यायमालकः ॥ ३३ ॥ अथ क्षपा तु रजनिः क्षणदा क्षणिनी निशा । अव्ययानव्ययं दोषा वसती वसतिः समौ ॥ ३४ ॥ रात्रिस्त्रियामा स्याद्घोरा श्यामा तुङ्गी निषद्वरी । याम्या च रक्षोजनना रजनी चक्रभेदिनी ॥ ३५ ॥ उमा हतार्चिः पैशाची शर्वरी नक्तमव्ययम् । क्षपा तमस्विनी तुङ्गा तमिर्वासरकन्यका ॥ ३६ ॥ तमी तमा हिमा चैव वासतेयी विभावरी । निशीथिनी निशीथ्या निट् शताक्षी वासुरा निशा ॥ ३७ ॥ यामिनी स्यात्तमिस्रापि तमस्यतितमोयुता । ज्योत्स्ना तु चन्द्रिकायुक्ता बहुनिड्गणरात्रकम् ॥ ३८ ॥ पक्षिणी पक्षतुल्याभ्यां दिनाभ्यां वेष्टिता निशा । गर्भकं रजनीद्वन्द्ववेष्टितं यदहर्भवेत् ॥ ३९ ॥ ;p{0410} अर्द्धरात्रो निशीथश्च शिवावसर इत्यपि । निःसंपातो महानिट् चाथोच्चन्द्रापररात्रकौ ॥ ४० ॥ अपि पश्चिमरात्रोऽथ श्वनिशं श्वनिशा च सा । यस्यां मत्ता निशि श्वानो भूतःकृष्णचतुर्दशी ॥ ४१ ॥ भूतेष्टा चाथ तद्भूतपञ्चदश्योर्यदन्तरम् । पर्वमूलं च प्रतिपत्पञ्चदश्योर्यदन्तरम् ॥ ४२ ॥ स पर्वसन्धिरथ च पूर्णमासी तु पूर्णिमा । पूर्णमा पौर्णमासी च कलाहीने विधौ च सा ॥ ४३ ॥ विज्ञेयानुमतिस्तत्र पूर्णे राका निशाकरे । सरस्वती शारदी तु द्यूतपर्यायपूर्णिमा ॥ ४४ ॥ शक्रोत्सवो ध्वजोत्थानं क्लीबे कोजागरः पुमान् । स्यादस्त्री कौमुदीचारः शरत्पर्वाथ होलिका ॥ ४५ ॥ होलाकापि च होली च वासन्ती कूर्दना स्त्रियः । मधूत्सवः कामिमहो रजःपर्यायतो महः ॥ ४६ ॥ पुष्ययुक्ता पूर्णमासी मासे पौषी च सा पुनः । मृगशीर्षयुता मार्गशीर्षे स्यादाग्रहायणी ॥ ४७ ॥ अमावास्यामाऽमावस्याऽमामासी चाप्यमावसी । सूर्येन्दुसंगमो दर्शस्तत्र नष्टेन्दुमण्डला ॥ ४८ ॥ ;p{0411} कुहुः कुहूश्च गुङ्गुश्च गुङ्गूर्नष्टाब्जमण्डला । सिनीवाल्यथ दीपाली यक्षनिड्वलिपर्व च ॥ ४९ ॥ स्यादस्त्रियामहोरात्रमथ नक्तंदिवं पुनः । नक्तं दिवं चाहर्दिवं नैरन्तर्येऽव्ययं पुनः ॥ ५० ॥ निमेषनिमिषौ तुल्यौ व्यापारे नेत्रपक्ष्मणोः । अष्टादश निमेषास्तु काष्ठास्त्रिंशत्तु ताः कलाः ॥ ५१ ॥ तास्तु त्रिंशत् क्षणस्ते तु मुहूर्त्तो द्वादशापि च । ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च ॥ ५२ ॥ स च स्याद्द्विविधः शुक्लकृष्णपर्यायभेदभाक् । पितॄणां दिनरात्र्योश्च पर्यायौ तावनुक्रमात् ॥ ५३ ॥ मासस्तु दिनमालोमा वर्षार्थात्कोश इत्यपि । अंशः श्रामश्चतुर्द्धासः सावनस्तु दिनैर्नगैः ॥ ५४ ॥ चान्द्रः स्यात्पूर्णिमाऽमान्तः सौरस्तु रविसंक्रमात् । आसङ्क्रान्त्यथ सर्वर्क्षभोगादिन्दोः स भोद्भवः ॥ ५५ ॥ मार्गशीर्षो मार्गशिरो वर्षाद्यः स्यात्सहाः सहः । आग्रहायणिको मार्गः स च स्यादाग्रहायणः ॥ ५६ ॥ तिष्यश्चापि च पुष्योऽपि पौषस्तैषः सहस्यवत् । अस्त्री माघे तपाश्चापि तपस्यस्तपसस्तपः ॥ ५७ ॥ ;p{0412} फाल्गुनाडः फाल्गुनिकः फल्गुनः फाल्गुनोऽपि च । स्याच्चैत्रावरजो मोहनिकोऽथ स्यान्मधुः पुमान् ॥ ५८ ॥ चैत्रश्च चैत्रिकोऽथ द्वौ वैशाखे राधमाधवौ । उत्सरः स्यादथ ज्येष्ठे ज्यैष्ठश्च खरकोमलः ॥ ५९ ॥ आषाढपूर्वजो ज्येष्ठामूलीयः शुक्रमस्त्रियाम् । श्रावणानुज आषाढ आशाढोऽषाढ इत्यपि ॥ ६० ॥ शुचिर्नभस्तु नभसो नभाः श्रावणिकश्च सः । भाद्रो भाद्रपदः प्रौष्ठपदोऽपि च नभस्यकः ॥ ६१ ॥ अथाश्वयुक् चाश्वयुज आश्विनेऽप्यथ कौमुदः । इष ऊर्जः कार्त्तिकिको बाहुलः कार्त्तिकः सरी ॥ ६२ ॥ अधिमासोंहस्पतिः स्याद् द्वात्रिंशद्दिनमालकैः । दिनैः षोडशभिर्यानैश्चतुर्नाडीसमन्वितैः ॥ ६३ ॥ प्रवृत्तिरस्य प्रायेण क्वचिन्न्यूनाधिकैरपि । सोऽसंक्रान्तो द्विसंक्रान्तः कालेन बहुना स च ॥ ६४ ॥ जायते सक्षयस्तौ द्वौ गर्हितौ शुभकर्मणि । यत्र क्षयो भवेन्मासस्तत्र द्वावधिमासकौ ॥ ६५ ॥ मासत्रये कार्त्तिकादौ क्षयो नान्येषु माःसु च । द्वाभ्यां सौरादिमासाभ्यामृतुः समयवाचकः ॥ ६६ ॥ ;p{0413} हिमागमस्तु हेमन्तः प्रालेयो रौद्रहेमनौ । अस्त्रियां शिशिरः सैषो वसन्तः पिकबान्धवः ॥ ६७ ॥ पुष्पपर्यायकालार्थः सुरभिश्च पलाङ्गकः । उष्णस्तूष्मायणोऽपि स्यान्निदाघस्तप ऊष्मकः ॥ ६८ ॥ ग्रीष्म ऊष्मागमस्त्र्यूष्मा स्यादुष्णोपगमः पुनः । घनार्थादत्ययः पुंसि स्त्रियां स्याच्छरदा शरत् ॥ ६९ ॥ भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे । अतः प्रावृट् च वर्षाश्च द्वावृतू परिकल्पितौ ॥ ७० ॥ तस्या एवोत्तरे कूले हिमवद्विन्ध्यसंकुले । भूयः शीतमतस्तत्र हेमन्तशिशिरावुभौ ॥ ७१ ॥ शिशिराद्यैश्च ऋतुभिरयनं स्यात्स्त्रिभिश्च षण् । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ ७२ ॥ ससंपरीदेदनुभ्यो युगांशो हायनोऽस्त्रियाम् । ऋतुवृत्तिर्मासमालः कालग्रन्थिः शरत्स्त्रियाम् ॥ ७३ ॥ शरदापि स्त्रियां भूम्नि समा वत्सः पुमानयम् । पुंसि वा वरिषं वर्षं स्त्रियां भूम्नि समा अपि ॥ ७४ ॥ संपत्संवदव्यये द्वे मकरः कर्कटोऽयने । तुलामेषौ तु विषुवत् विशुवद् द्वे नपुंसके ॥ ७५ ॥ ;p{0414} विषुणो विषुवान् पुंसि विषुवोऽस्त्र्यव्यये उभे । विश्वग्विष्वक् च विषुवत्केषांचनमतेव्ययम् ॥ ७६ ॥ विष्णुपद्यः सिंहवृषकुम्भा वृश्चिक इत्यपि । षडशीतिमुखाः कन्याधनुर्मीनयुगानि च ॥ ७७ ॥ अथ भेदा वत्सराणामतुलैः (३६०) सावनो भवेत् । दिवसैर्मातुलैः (३६५) सौरश्चान्द्रः स्याद्विमलै(३५४)र्दिनैः ॥ ७८ ॥ आर्क्षो वराङ्गै(३२४)र्गौरोपि पतङ्गैः (३६१) पञ्चधेति च । कृतं सत्ययुगं क्लीबे त्रेताग्नेयी स्त्रियामुभे ॥ ७९ ॥ द्वापरो यज्ञियः पुंसि क्लीबे कर्मयुगं कलिः । तिष्यो झर्झरकोऽथैषां वर्षसंख्या क्रमादिमाः ॥ ८० ॥ हठसर्पैः (१७२८०००) तद्वरकै (१२८६०००) र्भतुच्छैः (७६४०००) खलवैः (४३२०००) क्रमात् । सर्वैस्त्रिनान्तैर्वर्षैः स्यान्नॄणां पूर्णचतुर्युगी ॥ ८१ ॥ तेषां तावच्छती सन्ध्या सन्ध्यांशश्च यथाक्रमात् । अष्टाविंशी प्रयात्येषा तस्याः स्यात्साम्प्रतं कलिः ॥ ८२ ॥ तद्गताब्दाः कुतिथिभाः (४७६१) संवर्त्तः पलयः क्षयः । परिवर्तः परीवर्तः संहारः कल्प इत्यपि ॥ ८३ ॥ ;p{0415} जहानकः समसुप्तिः संहारो युगकल्पयोः । दैनंदिनो लोकशेषः परान्तः सर्वनाशनः ॥ ८४ ॥ दैनन्दिनः प्राकृतश्च स च स्याद्द्विविधोऽथ च । किल्विषं कल्मषं किण्वं कल्कः पङ्कश्च न स्त्रियाम् ॥ ८५ ॥ पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् । क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥ ८६ ॥ मोदो मोदः समाप्रेभ्यो मदः संमद इत्यपि । नन्द्यानन्दथुरानन्दिर्नन्दिरानन्द एव च ॥ ८७ ॥ क्लीबाव्ययं तु कं जोषमुपजोषमथो सुखम् । कमव्ययं च खं शर्म सौख्यं श्वःश्रेयसं पुनः ॥ ८८ ॥ शातं सातमथो भद्रं भगं मद्रं च भावुकम् । भविकं मङ्गलं वा ना भव्यं द्रव्यं शिवं शुभम् ॥ ८९ ॥ शस्तं प्रशस्तं कुशलं कुषलं क्षेममस्त्रियाम् । श्रेयः श्वःश्रेयसं रिष्टं निःश्रेयसमरिष्टवत् ॥ ९० ॥ शमव्ययं भवः पुंसि द्रव्ये पापादिकं त्रिषु । काले शुभोत्तरे तु स्यात् स्त्रियामायतिरित्यपि ॥ ९१ ॥ तज्जं फलमुदर्को ना क्लीबे सांदृष्टिकं हि तत् । तात्कालिकं तदात्वं स्यादयः शुभावहो विधिः ॥ ९२ ॥ ;p{0416} हेतुर्ना कारणं बीजं क्लीबे करणमित्यपि । क्लीब आद्यं कारणं तु निदानं मूलवस्तु तत् ॥ ९३ ॥ क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः । अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥ ब्रह्मास्त्रियां कः स एष पुमर्थः प्रकृतिः स्त्रियाम् । स्वः षण् प्रधानमव्यक्तमक्षरं बहुधातुकम् ॥ ९५ ॥ क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् । रजस् क्लीबे तमः पुंसि तमस् क्लीबेऽथ जन्म षण् ॥ ९६ ॥ जननं च प्रजननं जननिश्च जनिः स्त्रियौ । उद्भवः सम्भवो भावो भवो जन्युश्च पुंस्यमी ॥ ९७ ॥ जनी जनू जनुश्चास्त्री जीवो जन्यश्च पुंस्ययम् । करणं खं पदं पुंसि हर्षि वैकारिकेन्द्रिये ॥ ९८ ॥ अक्षं च नियतं चाथ भूतानि तनवः पुनः । घोरा विकारा भूतानि विशेषा विग्रहा अपि ॥ ९९ ॥ प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः । व्यष्टिर्जातिः स्त्रियां जातं क्लीबेऽथ व्यक्तिरित्यपि ॥ १०० ॥ स्त्रियां समष्टिः पृथगात्मत्वे.......................... । .................. चित्तं तु हृदयं च हृत् ॥ १०१ ॥ ;p{0417} चेतः स्वान्तं मानसं च मनः क्लीबेऽन्तरिन्द्रियम् । कल्पद्रौ केशवकृते भुवः स्कन्धे द्वितीयके । कालाभिधः प्रकाण्डोऽयं साङ्गः सिद्धिमुपागतः ॥ १०२ ॥ ;v{नाट्यप्रकाण्डः} षड्जर्षभौ च गान्धारो मध्यमः पञ्चमोऽपि च । धैवतश्च निषादश्च सप्त कण्ठादिजाः स्वराः ॥ १ ॥ कण्ठोरस्तालुरसनानासाशीर्षसमुद्भवाः । आस्यात् षड्जोऽपरे कण्ठादृषभो हृदधोभवः ॥ २ ॥ नासिकोत्थश्च गान्धारो मध्यमो नाभिसंभवः । उरसः शिरसः कण्ठात्पञ्चमस्य च सम्भवः ॥ ३ ॥ धैवतोऽपि ललाटोऽत्थो निषादः सर्वसंधिजः । स्युर्मन्द्रमध्यताराख्या ग्रामाः स्थानस्थितिप्रदाः ॥ ४ ॥ त्रयः स्वरेषु प्रत्येकं स्युस्ते तेष्वपि मूर्च्छनाः । सप्तस्वरेषु नन्दत्सु स्वस्वस्थानस्थितेषु च ॥ ५ ॥ प्रत्येकमूर्छनैकैका ग्रामेष्वेषु प्रजायते । बोधा लला समाधानी पूरणी चापराजिता ॥ ६ ॥ विगलिप्ता संयमिनी मृद्वी च भ्रामिताक्षरा । द्राविता मङ्गला रामा सुखकृज्जयशेखरा ॥ ७ ॥ ;p{0418} रमणी शोभिता नादा तथा सिभरिजा मता । नादानूकासिका चण्डा इत्येता एकविंशतिः ॥ ८ ॥ ताना एकोनपञ्चाशत्तन्नतेन्नकतुन्नकाः । विज्ञेयाः क्रमशः सर्वे सप्त सप्त स्वरे स्वरे ॥ ९ ॥ नादान्ता निष्कला गूढा सकला मधुरा पुनः । कामाङ्गा मदिरा श्यामा तारा चन्द्रानना शुभा ॥ १० ॥ असंपूर्णा वरा पूर्णा रेजिका वालिकापरा । प्रसन्नवदना वामा बाला मधुरता तथा ॥ ११ ॥ द्वाविंशतिस्तु श्रुतय एता ज्ञेयाः स्वरानुगाः । श्रुतिभिः कियतीभिश्च संयुक्तास्ते स्वराः क्रमात् ॥ १२ ॥ चतुःश्रुतिस्त्रिश्रुतिश्च द्विश्रुतिश्च स्वरा मताः । श्रुतिभिर्मूर्छनाभिश्च ग्रामैस्तानैश्च संहिताः ॥ १३ ॥ समागताः स्वरास्तैस्तु रागा भाषादयः कृताः । श्रीरागश्च वसन्तश्च भैरवः पञ्चमोऽपि च ॥ १४ ॥ मेघरागः षष्ठ इह ज्ञेयो नट्टनरायणः । षट् षड् भार्याः क्रमादेषामासां नामान्यनुक्रमात् ॥ १५ ॥ गौडी कोलाहला चापि गान्धारी द्रविडी तथा । पञ्चमी देवगान्धारी षष्ठी देवलकौशिकी ॥ १६ ॥ ;p{0419} श्रीरागस्य भवन्त्येता वासन्त्यः स्युरतः पराः । आन्दोली कैशिकी चैव तथा प्रथममञ्जरी ॥ १७ ॥ गुडेगिरी देवशाखा रामा स्यादथ भैरवी । विलाडली गुर्जरी च कर्णाटी चापि रक्तिका ॥ १८ ॥ हंसाऽथ त्रिगुणा स्तम्भतीर्थी चाभीरिका पुनः । ककुभा च वराडी च सामेरी चाप्यमूरपि ॥ १९ ॥ मतान्तरे मेघरागभार्याः स्युरथ चापराः । बंगाला मधुरा चैव कामोदा चोक्षसारिका ॥ २० ॥ देवगिरी देवपाला स्युरेताः पञ्चमाश्रयाः । मतान्तरेऽपि पुनस्तोटिकापि च मोटिका ॥ २१ ॥ नदडुम्बी च मल्हारी सिन्धुमल्हारिकाऽप्यथ । देवशाखा मालवश्रीर्द्धनाश्रार्दीपकादयः ॥ २२ ॥ स्वचतुर्जातिसंयुक्ता रागाङ्गानि भवन्त्यमी । बृहती च पुलंध्री च सैरन्ध्री ललितादयः ॥ २३ ॥ भाषान्तरामिधा भीमपलाशी प्रमुखा अथ । वैराटिका वृद्धहंसा तथा सौराष्ट्रिकादयः ॥ २४ ॥ शोकप्रकाशकाश्चान्ये क्रियाङ्गेषु प्रकीर्तिताः । केदारकर्णौ स्थानाख्या तथा मालवकादयः ॥ २५ ॥ ;p{0420} कर्णाटबंगालमुखाः सर्वे गौडा उपाङ्गकाः । ज्ञेया रागेषु रागाङ्गाः क्रियाऽङ्गोपाङ्गकावपि ॥ २६ ॥ तथा भाषासु भाषाङ्गास्तेऽपि स्युः स्वस्वदेशजाः । समाश्चतुर्विधा देश्यशुद्धगन्धालिछाइलाः ॥ २७ ॥ नुडवः खाडवः पूर्णोऽपूर्णश्चेत्यथ च ध्रुवाः । मठश्च प्रतिमंट्टश्च तृतीयस्त्वपि सारकः ॥ २८ ॥ अडुतालस्ततो रास एकताली क्रमादिमे । जयन्तः शेखरोत्साहौ तद्वन्मधुरनिर्मलौ ॥ २९ ॥ कुतलः कमलश्चारो नन्दनश्चन्द्रमाः खरः । कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥ ३० ॥ तिलको ललितश्चामी ध्रुवाः स्युरिह षोडश । उद्गाहे स्यात्पदद्वन्द्वं मध्ये कार्यं पदद्वयम् ॥ ३१ ॥ आभोगे पदयुग्मं स्यात् खण्डानीत्थं ध्रुवस्य च । षट्पदस्तूत्तमः प्रोक्तो मध्यमः पञ्चभिः परैः ॥ ३२ ॥ कनिष्ठश्च चतुर्भिः स्यादेवं ते त्रिविधा ध्रुवाः । उद्गाहे खण्डकद्वन्द्वं युक्तिद्वयविनिर्मितम् ॥ ३३ ॥ अन्यानि तु पदानि स्युः सर्वाणि नियमादृते । एकादशाक्षरात्खण्डादेकैकाक्षरवर्द्धितैः ॥ ३४ ॥ ;p{0421} खण्डैर्ध्रुवा भवन्त्येवं षड्विंशत्यादितः क्रमात् । कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥ ३५ ॥ वल्लभो मङ्गलश्चापि षडुक्ता मण्डका अथ । अमरो मन्दिरश्चापि विचारः कुन्दसंज्ञकः ॥ ३६ ॥ चतुर्विधोऽथ षोढा स्यादथ निःसारकाभिधः । सुनरोऽपि विशालः स्यान्नन्दो वैकुण्ठवाञ्छितौ ॥ ३७ ॥ विजयोऽथाडुतालस्तु षोढा स्याच्चमरामरौ । अथ षोढा रासकः स्यात्कम्बुजो मुदिराम्बुजौ ॥ ३८ ॥ विनोदश्चन्द्रसरसोऽथैकताली त्रिधा मता । रामा तारा चन्द्रिका च द्रुतमध्यविलम्बिताः ॥ ३९ ॥ एकमात्रिकतालेन सूडाद्याः स्युरनेकधा । नाट्यं तौर्यत्रिकं गीतं नृत्तं वाद्यं त्रयं च तत् ॥ ४० ॥ संगीतं प्रेक्षणार्थेऽस्मिञ्शास्त्रोक्ते नाट्यधर्मिका । गीतं गानं च गान्धर्वे गेयं स्त्री गीतिरित्यपि ॥ ४१ ॥ व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् । समं सुरक्तं सुश्लक्ष्णं विक्रुष्टं मधुरं तथा ॥ ४२ ॥ दशैते स्युर्गुणागीते तत्र व्यक्तं स्फुटैः स्वरैः । पूर्णं पूर्णीकममकं प्रसन्नं प्रकटार्थकम् ॥ ४३ ॥ ;p{0422} सुकुमारं कण्ठभवं त्रिस्थानोत्थमलङ्कृतम् । समवर्णलयस्थानं सममित्यभिधीयते ॥ ४४ ॥ सुरक्तं वल्लकीवंशकण्ठध्वन्यं सुतालुकम् । नीचोच्चस्थानमध्यादौ शुक्लले श्लक्ष्णमुच्यते ॥ ४५ ॥ उच्चैरुच्चारणादुक्तं विक्रुष्टं भरतादिभिः । मधुरं धुर्यलावण्यपूर्णं जनमनोहरम् ॥ ४६ ॥ दुष्टं लोकेन शास्त्रेण श्रुतिकालविरोधि च । पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम् ॥ ४७ ॥ ग्रामसंदिग्धमित्येवं दशधा गीतदुष्टता । नर्त्तनं नटनं नाट्यं नृत्यं नृत्तं च ताण्डवम् ॥ ४८ ॥ पुंसि क्लीबे पुंसि नाटो लासो लास्यं नपुंसकम् । अथ हल्लीसकं स्त्रीणां यत्तमण्डलनर्त्तनम् ॥ ४९ ॥ पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका । स्थाने नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ॥ ५० ॥ पुंसि प्राङ्नाट्यकं क्लीबे क्रियासूचकमस्त्रियाम् । अङ्गहारोऽङ्गहारिश्च व्यञ्जकाभिनयौ समौ ॥ ५१ ॥ स चतुर्विध आहार्यो रचितो भूषणादिभिः । वचसाङ्गेन सत्त्वेन वाचिकाङ्गिकसात्त्विकाः ॥ ५२ ॥ ;p{0423} त्रिष्वेते नाटकं भाणो डिमः प्रहसनं पुनः । व्यायोगश्च प्रकरणं वीथी समवकारकः ॥ ५३ ॥ ईहामृगोऽङ्क इत्येते भेदा नाटकजा दश । स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥ ५४ ॥ तदुद्भवं प्राकृतं तन्मागधी सूरसेन्यपि । अपभ्रंशो भूतभाषा भाषाः षडथ वृत्तयः ॥ ५५ ॥ भारती सात्त्विकी कैशिक्यारभट्योऽत्र नाटके । चतस्रोऽथापि कन्दर्पध्वजपर्यायमित्यपि ॥ ५६ ॥ वाद्यं वादित्रमातोद्यं तूर्यं तूरमथो ततम् । वीणाप्रभृतिकं वाद्यं कांस्यतालादिकं घनम् ॥ ५७ ॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकम् । अवनद्धं तदेव स्यात्पिनद्धमपिनद्धवत् ॥ ५८ ॥ वीणा स्त्रियां घोषवती विपञ्ची कण्ठकूणिका । वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ॥ ५९ ॥ शिवस्य वीणा कोलम्बी सरस्वत्यास्तु कच्छपी । महती नारदस्येशगणानां तु प्रभावती ॥ ६० ॥ विश्वावसोस्तु बृहती तुंवरोस्तु कलावती । चण्डालानां तु कण्डोली कोलम्बोऽस्याः कलेवरे ॥ ६१ ॥ ;p{0424} निबन्धनं तूपनाहः प्रवालो दण्डमस्त्रियाम् । प्रसेवकस्तु ककुभः कलिका कूणिका स्त्रियौ ॥ ६२ ॥ मूलं वंशशलाका स्यात्समन्वितलये तु ना । एककालश्चैकतालो मृदङ्गो मुरजः पुमान् ॥ ६३ ॥ आलिङ्ग्य ऊर्ध्वकः पुंसि स्यादालिङ्गी स्त्रियामपि । हरीतक्याकृतिश्चाङ्क्या स्यादालिङ्ग्या यवाकृतिः ॥ ६४ ॥ गोपुच्छाकृतिरूर्ध्वाख्यः प्रोक्तः सर्वत्र टोककः । स्याद्यशःपटहो ढक्का भंभा भेरी स्त्रियां पुमान् ॥ ६५ ॥ आनकश्चापि भेरिः स्त्री दुन्दुभिश्चानकः पुमान् । प्रणवः पणवस्तुल्यौ पटहोऽस्त्र्यथ मर्दलः ॥ ६६ ॥ तूरं तूर्यं च विजयः कबर्दिः करतालिका । काहला ध्वनितालोऽस्त्री डमरुः सूत्रकोणकः ॥ ६७ ॥ भयकृत्प्रेतपटहो मृत्युदण्डकरश्च सः । भक्ततूर्यं नृपाभीलं मल्लतूर्यं महास्वनः ॥ ६८ ॥ उगण्डः प्रतिपत्तूर्यं मद्गुः षण् जलवाद्यकम् । नृत्ये तूर्ध्वाकृते पादे दण्डपादाख्यतण्डवम् ॥ ६९ ॥ विवाहादौ मङ्गले यद्वाद्यं सा प्रियवाहिका । मृदङ्गमुखपिष्टस्य लेपे भौमक इत्यपि ॥ ७० ॥ ;p{0425} घण्टामध्यगतं लोहं शङ्कुः पुंसि ललिः स्त्रियाम् । काहला धूर्त्तपुष्पाभा सच्छिद्रा पत्रकाहला ॥ ७१ ॥ पिच्छोला स्वरनौकार्था झल्लरी झल्लरिः स्त्रियौ । झर्झरश्चाथ वेणुस्तु वंशो विवरनालिका ॥ ७२ ॥ मुरली मुखवाद्ये तु वक्त्रतालः पुमानयम् । भ्रुभ्रुभ्रभृभ्यः कुंसः स्यान्नटे स्त्रीवेषधारिणि ॥ ७३ ॥ वेश्याचार्यः पीठमर्दः सूत्रधारस्तु सूचकः । स्याद्वीजदर्शकश्चापि सर्वार्थस्य प्रकाशकः ॥ ७४ ॥ नान्दी तु पाठको नान्द्याः पार्श्वस्थः पारिपार्श्वकः । नटोऽस्त्रियां सर्ववेशी लयालम्भोऽथ नर्त्तकी ॥ ७५ ॥ लासिकाथो वारवाणिः प्रगातैकनटौ समौ । कथकोऽथासहायः स्यात्तालावचरको नटः ॥ ७६ ॥ पात्राणि नाट्येऽधिकृतास्तत्र द्वेषस्तु भूमिका । शैलूषो भरतः सर्ववेशी भरतपुत्रकः ॥ ७७ ॥ नटः कृशाश्वी शैलाली चारणस्तु कुशीलवः । केवलः प्लवकश्चाथ भेडश्चाटवटः समौ ॥ ७८ ॥ वासन्तिकः केलिकिलो वैहासिकविदूषकौ । प्रहासी प्रीतिदश्चाथ षिङ्गः पल्लविको विटः ॥ ७९ ॥ ;p{0426} क्रोशध्वनिः क्रोशतालो वीक्षापन्नः सविस्मयः । स्वदोषाच्छादनं म्रक्षोऽस्त्रियां स्यान्मूलकारिका ॥ ८० ॥ ग्रामीणतोषकं नृत्यं वरमन्वीति कथ्यते । गणिकानुचरैरज्जुकेति वाच्या नृपेण च ॥ ८१ ॥ राष्ट्रियो नृपतेः श्यालोऽनूढाभ्राता ह्यपण्डितः । वर्करः परिहासः स्यादुत्प्रासस्तूपहासगीः ॥ ८२ ॥ वार्द्धापिकोत्साहिका च क्लीबे वर्द्धापनं हि तत् । नाट्योक्तौ महिषो मार्ष आर्यो विद्वांश्च भावुकः ॥ ८३ ॥ राजा भट्टारको देवः कुमारो भर्तृदारकः । भर्तृदारिका तत्सुता स्याज्ज्येष्ठा भग्न्यन्तिकापि च ॥ ८४ ॥ आर्त्तिका चान्तिकान्ताम्बा स्यादन्तिश्चाप्यतः पुनः । देवो देवी भृत्यजनैर्वाच्योऽयमृषिभिर्द्विजैः ॥ ८५ ॥ वयस्य राजन्निति वा स च वाच्यो विदूषकैः । कृताभिषेका महिषी देव्यश्चान्या नृपस्त्रियः ॥ ८६ ॥ भोगिनी त्वपरैरन्या क्षुल्लैर्गोस्वामिनीति सा । हण्डे हण्डा द्वयं नीचे हञ्जा हञ्जे च चेटिकाम् ॥ ८७ ॥ प्रति प्रति सखीं चापि हलाऽमून्यव्ययानि च । भर्ताऽऽर्यपुत्रोऽथापि स्युर्भदन्ताः सौगतादयः ॥ ८८ ॥ ;p{0427} अथ तत्रभवानत्रभवांश्च भगवानपि । आर्यमिश्रागौरविताः पूज्ये योज्या अमी त्रिषु ॥ ८९ ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । रौद्रबीभत्सवात्सल्यशान्ता नाट्ये रसा दश ॥ ९० ॥ एते ज्ञेया अथ पुनः शृङ्गारोऽस्त्र्युज्ज्वलः शुचिः । कैशिकः श्यामपर्यायः स च ज्ञेयश्चतुर्विधः ॥ ९१ ॥ संयोगो विप्रयोगश्च मिश्रः सामान्य इत्यपि । स्थायिसात्त्विकसंचारिभावा अत्र त्रयस्त्रिधा ॥ ९२ ॥ रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः क्रमादमी ॥ ९३ ॥ रागानुरागौ द्वौ तुल्यौ रतिश्चानुरतिः समे । हसस्तु हासः शूकश्च घर्घरश्च स्त्रियां हसिः ॥ ९४ ॥ हास्यं षणथ तद्भेदास्तत्रादृष्टरदे स्मितम् । चक्रौष्ठिका तु ना हासः किञ्चिद्दृष्टरदाङ्कुरे ॥ ९५ ॥ किञ्चिच्छ्रुते विहसितमट्टहासो महीयसि । अनुस्यूतेऽट्टट्टहासोऽट्टाट्टहासोऽतिहासकः ॥ ९६ ॥ अपहासोऽकारणजे हसनं स्फुरदोष्ठके । सोत्प्रासे ह्याच्छुरितकं क्लिष्टे तूदरपीडनम् ॥ ९७ ॥ ;p{0428} छलं मिषं च वैदग्धी भङ्गी चेभनिमीलिका । शोकः खेदः शोचनं षण् शुक् स्त्रियामथ रुट् स्त्रियाम् ॥ ९८ ॥ रुषा क्रुधा क्रुच्च मन्युः क्रोधः कोपोऽप्यमर्षवत् । रोषश्च प्रतिघो भामोऽथ स्त्रियां कियदेतिका ॥ ९९ ॥ प्रौढिः प्रगल्भतायोग उद्योगश्च समावुभौ । उत्साह उद्यमोऽस्त्री स्यादध्यवसाय इत्यपि ॥ १०० ॥ पुंस्यूर्जोतिशये तत्र न ना वीर्यमथ स्त्रियाम् । भिया भीर्भीतिराशङ्का क्लीबे प्रतिभयं भयम् ॥ १०१ ॥ दरोऽस्त्रियां साध्वसं च दार उत्त्रास इत्यपि । त्रासातङ्कौ च भयनं क्लीबे चाथ भयानकम् ॥ १०२ ॥ भयङ्करं प्रतिभयं भयं भीष्मं भयावहम् । भीषणं भैरवं घोरमाभीलं डमरं पुनः ॥ १०३ ॥ बीभत्समपि बीभत्सु विकृतं वैकृतं पुनः । वैकृत्यं भासुरं चोग्रमेतान्यष्टादश त्रिषु ॥ १०४ ॥ अनुकम्पा तु करुणा दया चापि कृपा घृणा । स्त्रियां स्युः पुंस्यनुक्रोशः कारुण्यं न स्त्रियामथ ॥ १०५ ॥ स्त्रियां जुगुप्सा कुलेच्छा विस्मयः पुंस्यथापि च । आश्चर्यमद्भुतं चोद्यं चित्रं पुंल्लकमित्यपि ॥ १०६ ॥ ;p{0429} मोहावीक्षं च षडमी त्रिषु स्युरथ पुंस्यमी । शमः शान्तिः स्त्रियां पुंसि शमथोपशमावपि ॥ १०७ ॥ स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥ स्तम्भो जाड्यं स्वेदघर्मौ निदघः पुलकोऽस्त्रियाम् । कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥ १०९ ॥ उद्धर्षणोल्लुकसने रोमहर्षणमित्यपि । शिखरं पुंसि च क्लीबे पुलश्चाप्यथ कल्लता ॥ ११० ॥ स्वरभङ्गोऽथ कम्पस्तु वेपथुः पुंसि न द्वयोः । वैवर्ण्यं कालिमा चाथ नेत्रार्थाच्चाम्बुरोदने ॥ १११ ॥ अस्रं चास्त्र्यस्रुबाष्पाश्रूण्यथ स्यात्प्रलयः पुमान् । नष्टचेतस्त्वमथ च स्त्रियां चिन्ता तु चिन्तिया ॥ ११२ ॥ आध्या हम्मी हम्मिरपि स्याज्जृम्भी जृम्भिरित्यथ । स्यात्तन्तिश्चिन्तनं क्लीबेऽथोत्साहोऽध्यवसायकः ॥ ११३ ॥ अतिशक्तियुते तत्र वीर्यं वीर्या ततः पुनः । हेवाकोऽध्यवसायित्वं जृम्भस्तु त्रिषु जृम्भणम् ॥ ११४ ॥ आध्या ध्यानं पुंसि वा स्यादुत्कण्ठोत्कलिके स्त्रियौ । हृल्लेखा स्याद्रणरणस्तद्वदायल्लकः पुनः ॥ ११५ ॥ ;p{0430} औत्सुक्यं स्यात्पुनः क्लीब औत्कण्ठ्यमपि वा पुनः । परिहासः केलिमुखः केलिर्देवननर्मणी ॥ ११६ ॥ ताम्बूलमालिकोद्वाहे वरयात्रा तु दौन्दुभी । गोपाली वरकेशान्तिर्यात्रा वरनिमन्त्रणा ॥ ११७ ॥ स्यादिन्द्राणीमहो हेलिरुलूलुर्मङ्गलध्वनिः । अथ स्वस्त्ययनं पूर्णकलशो मङ्गलादिकम् ॥ ११८ ॥ शान्तिकं मङ्गलस्नानं बालपल्लववारिणा । हस्तलेपे तु करणं हस्तबन्धे तु पीडनम् ॥ ११९ ॥ तच्छेदे समयभ्रंशो धूलिपृक्ते तु वार्त्तिकम् । आटोपटोपटंकारावेशा आरभटिः स्त्रियाम् ॥ १२० ॥ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यं पुंस्युपाधिर्मिषं छलम् ॥ १२१ ॥ अस्त्री दम्भः कल्ककूर्चौ प्रमादोऽनवधानता । कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ॥ १२२ ॥ बालाकुचोत्सेधदत्तनखे पुंसि वराटकः । स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ १२३ ॥ हेला लीलेत्यमी भावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ १२४ ॥ ;p{0431} व्याजापदेशौ लक्षं षण् भङ्गिर्भङ्गी निमीलिका । पदं लक्ष्यं कुर्दनं तु क्रीडा खेला च कूर्दनम् ॥ १२५ ॥ क्रन्दितं रुदितं क्रुष्टं स्वास्थ्यं क्लीबे धृतिः स्त्रियाम् । सन्तोषः पुंसि धैर्यं षण् स्यातां रिङ्गणरिङ्खणे ॥ १२६ ॥ स्खलनं विप्रलम्भस्तु विसंवाद उभौ समौ । निद्रा स्त्रियां षण् शयनं संवेशः संलयः समौ ॥ १२७ ॥ स्वापोऽपि सुप्तं क्लीबेऽपि सुस्वापः सुखसुप्तिका । इन्द्रियाणां तु संमोहे तन्द्रा नान्दीमुखीत्यपि ॥ १२८ ॥ प्रमीला तन्द्रिका तन्द्री तन्द्रिश्चापि प्रमीलनम् । अथ स्याद्दहरस्थस्य मनसः स्मरणभ्रमः ॥ १२९ ॥ पुंसि स्वप्नः श्वासहेती रागसंगौ च गृध्नुता । अहंकारोऽभिमानोऽस्त्री मानो गर्वश्च गर्वरः ॥ १३० ॥ चित्तोन्नतिरथावज्ञा हेला चैवावमानना । अवहेला परीभावोऽवमानश्च पराभवः ॥ १३१ ॥ परीभवः परिभवः परिभावोऽवहेलनम् । अनादरोऽवहेलं चाप्यवमानोऽवमाननम् ॥ १३२ ॥ तिरस्क्रिया तिरस्कारो न्यक्कारो निकृतिः स्त्रियाम् । निकारः सूक्षणं क्षेपो रीढा सूर्क्षणसूर्क्षणे ॥ १३३ ॥ ;p{0432} शालिर्द्वयोरभिभवोऽभिभूतिश्च शला स्त्रियाम् । अवज्ञानं च नीकारो व्रीडा व्रीडोऽप्यपत्रपा ॥ १३४ ॥ मन्दाक्षमपि मन्दाक्ष्यं लज्या लज्जा त्रपाह्रियौ । व्रीडनं चाप्यथासूयेर्ष्यान्वीर्या क्षान्तिरित्यपि ॥ १३५ ॥ स च विप्रतियारोऽथ चरितं शीलमस्त्रियाम् । चारित्रं शुभ्रचरिते स्नेहस्तु प्रणयः पुमान् ॥ १३६ ॥ प्रेमास्त्रियां प्रियत्वं षण् हार्दं स्यादथ दोहदः । पुंसि क्लीबे स्पृहा लिप्सा वाञ्छा तृष्णा तृषा रुचिः ॥ १३७ ॥ कान्तिरिच्छा रुगाकाङ्क्षा तृषस्तर्षो मनोरथः । अनुतर्षोऽभिलाषश्च काम ईहारुची स्त्रियौ ॥ १३८ ॥ अत्यर्थं लालसः सोऽस्त्री पुंस्याधिस्तु मनोव्यथा । आधी स्यादवहित्था तु स्यादाकारस्य गोपनम् ॥ १३९ ॥ अवहित्थमपि क्लीबेऽथ स्वभावस्तु पुंस्ययम् । निसर्गश्च पुनः क्लीबे स्वरूपं रूपमित्यपि ॥ १४० ॥ कम्पितं कम्पनं कम्पो वेपथुः स्वादथ क्षणः । महोत्सवोद्धवाः पुंसि महः सान्तं नपुंसकम् ॥ १४१ ॥ मनीषा धिषणा श्रीश्चिच्चेतना शेमुषी चिदा । प्रज्ञा संज्ञा चितिर्द्धामा विज्ञानं ज्ञानमित्यपि ॥ १४२ ॥ ;p{0433} काव्या संविज्ज्ञप्तिरात्मा पुंसि धीर्धारणावती । मतिरप्राप्तविषया बुद्धिः संप्रतिदर्शिनी ॥ १४३ ॥ अतीतानुस्मृतिर्मेधा प्रज्ञा कालत्रयस्मृतिः । प्रतिभा नूतनोल्लेखवती पण्डा तु शास्त्रगा ॥ १४४ ॥ शिल्पादिगा तु विज्ञानं क्लीबे ज्ञानं तु मोक्षगा । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ १४५ ॥ ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः । चित्ताभोगस्तु मनसिकारः स च मनस्करः ॥ १४६ ॥ मानसं कर्मसकल्पश्चर्चा संख्या विचारणा । वितर्कोऽपि द्वयोरूहः कल्पोऽध्याहरणं च षण् ॥ १४७ ॥ अध्यूहनं विचारश्चाध्याहारश्चापि निश्चयः । चर्चा विचारणा संख्या गुञ्जा स्यादथ संशयः ॥ १४८ ॥ स्यात्स्त्रियां विचिकित्साऽपि सन्देहद्वापरौ समौ । राद्धसिद्धकृतेभ्योऽन्तः समौ निश्चयनिर्णयौ ॥ १४९ ॥ आगमः समयस्तुल्यावाप्तोक्तिरपि च स्त्रियाम् । कृतान्ता पुंस्यथ गिरा चोद्यगीर्भणितिः स्त्रियाम् ॥ १५० ॥ पूर्वपक्षो भ्रमो मिथ्यामतिर्भ्रान्तिरपि स्त्रियाम् । मिथ्यादृष्टिस्तु नास्तिक्यं व्यापादो द्रोहचिन्तनम् ॥ १५१ ॥ ;p{0434} अथ मोहः पुनः क्लीबे स्यादज्ञानमपि स्त्रियाम् । अहंमतिरविद्याऽथ नियमाश्रवसंश्रवाः ॥ १५२ ॥ संविदागूः प्रतिज्ञानं समाधिस्तु प्रतिश्रवः । अङ्गीकारोऽभ्युपगमोऽप्यथ मोक्षोऽपुनर्भवः ॥ १५३ ॥ महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि । सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥ निर्वाणमपि कैवल्यमक्षरं च महासुखम् । अथ स्युः पञ्च भूतानि व्योमेराग्न्यम्बुभूमयः ॥ १५५ ॥ शब्दस्पर्शरूपरसगन्धा भूतगणाः क्रमात् । विषयाः स्युरमी ह्येषामिन्द्रियार्थश्च गोचरः ॥ १५६ ॥ हृषीकं त्वक्षं विषयस्रोतः करणमिन्द्रियम् । खं च श्रोत्रं त्वचा चक्षुर्जिह्वा नासा च पञ्चमी ॥ १५७ ॥ पायूपस्थं हस्तपादं वाक् चैव दशमी पुनः । ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पाय्वादिकानि च ॥ १५८ ॥ विसर्गानन्दग्रहणगतिवाक्यार्थकानि च । मन एकादशं बुद्धिरहंकारस्त्रयोदशः ॥ १५९ ॥ शुक्लः शुभ्रः शुचिः श्वेतो विशदः शितिपाण्डुरौ । अमलो धवलः शुक्रो बलक्षो रजतः पुनः ॥ १६० ॥ ;p{0435} वदात उज्ज्वलः श्येतः श्येनः स्याच्छुभ्रमव्ययम् । अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥ १६१ ॥ हरिणः पाण्डुरः पाण्डुः पाण्डरश्चाथ धूसरः । ईषत्पाण्डुः श्यामलस्तु कृष्णो नीलोऽसितोऽपि च ॥ १६२ ॥ शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके । कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥ १६३ ॥ गौरो हरिद्रासदृशः सितरञ्जन इत्यपि । सितरूपस्तालकाभः पलाशो हरितो हरित् ॥ १६४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । मञ्जिष्ठो बालसन्ध्याभोऽव्यक्तरागोऽरुणोऽपि च ॥ १६५ ॥ श्यावस्तु कपिशश्चाथ श्वेतरक्तस्तु पाटलः । धूम्रस्तु धूमलः कृष्णलोहितः कपिशो हरिः ॥ १६६ ॥ बभ्रुः पिशङ्गः कपिलः कापिलः पीतलोहितः । कडारः कपिशः पिङ्गः कद्रुश्चित्रस्तु कर्बुरः ॥ १६७ ॥ एतकल्माषशबलकिर्मीराश्चित्रलः पुनः । गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १६८ ॥ कल्पद्रौ केशवकृते भुवः स्कन्धो द्वितीयकः । सत्रा नाट्यप्रकाण्डेन सफलः सिद्धिमागतः ॥ १६९ ॥ ;p{0436} ;k{स्वर्गस्कन्धः} ;v{सूर्यादिप्रकाण्डः} सूरः सूर्योरुणः पूषा गभस्तिः सविता रविः । व्रध्नो विस्तरणिर्मित्रश्चार्यमेनो दिनप्रणीः ॥ १ ॥ मिहिरोऽर्कोंशुमानद्रिर्हरिर्हेलिर्विरोचनः । गौर्द्यौर्भगः पुनस्त्वष्टा ग्रहमुट् किरणः खगः ॥ २ ॥ तापनस्तपनो विष्णुः कर्मसाक्षी विकर्त्तनः । मार्त्तण्डो मिहिरो भानुर्हंसो वेदोदयः पुनः ॥ ३ ॥ घृणिः पीथः प्रतिदिवाऽहर्नटो धरुणोऽपि च । खद्योतो वरुणः शूरो विश्वप्साः पद्मलाञ्छनः ॥ ४ ॥ काश्यपिः काश्यपेयश्च काश्यपश्च गभस्तिमान् । चित्रभानुर्भानुमांश्च ज्योतिष्मज्ज्योतिषौ भगः ॥ ५ ॥ विवस्वांस्तरलो भास्वानम्बरीषः प्रजापतिः । मन्थः किशोरः कुतपो वासन्तः पुष्करः कपिः ॥ ६ ॥ प्रद्योतनो विश्वकर्मा दृग्भूर्भातुः सदागतिः । सहस्रात्करपादांशुश्चित्रार्थार्चिः सुरः पपीः ॥ ७ ॥ करो दिनप्रभार्थेभ्यो दिनार्थेभ्यो वसुर्मणिः । पुष्टश्चापि जगद्दीपः सप्ताश्वार्थश्च भारविः ॥ ८ ॥ पतङ्गो देवसैन्यार्थो द्वादशाङ्गस्त्रयीतनुः । कालोष्णेभ्यो भृत्कृदर्थो जगन्नेत्रार्थ इत्यपि ॥ ९ ॥ ;p{0437} बहुरूपो दृशानः खो भानेभ्यः कोशवाचकः । ग्रहाब्जिनीधाम दिनत्विट्पतिर्भानुकेसरः ॥ १० ॥ वीतिहोत्रः कोकलोकाब्जिनी बन्ध्वर्थ इत्यपि । सुग्रीवमनुकर्णानां यमयम्योः शनेः पिता ॥ ११ ॥ सरण्यूच्छाययोर्भर्ता संवत्सरपथार्थकः । जलचौरः खलतिको ब्रह्मा ज्योतिश्च न द्वयोः ॥ १२ ॥ माठरः पिङ्गलो दण्डः सूर्यस्य परिपार्श्वगाः । अस्य सूतोरुणोनूरुः काश्यपिर्गरुडाग्रजः ॥ १३ ॥ अश्मनो रमणस्तार्क्ष्यो वैनतेयो जटायुसूः । गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥ १४ ॥ अभीशुः किरणोभीषुर्भानुरुस्रश्च दीधितिः । रश्मिर्मयूख उद्योतः केतुश्चोपधृतिर्वसुः ॥ १५ ॥ आलोकश्च विरोकश्च प्रकाशोंऽशुः स्त्रियां द्युतिः । द्युत्त्विट् प्रभा रुचिर्दीप्तिर्विभा रुक् च त्विषिश्छविः ॥ १६ ॥ त्विषी रुची मरीची स्त्री द्युती स्यादातपोऽस्त्रियाम् । धृष्णिर्भोमश्च भासश्च द्योतो भाभे च भास् द्वयोः ॥ १७ ॥ गभस्तिश्च गभस्ती च पुंस्त्रियोः परिकीर्तिते । क्लीबे तेजो महर्वर्चो ज्योतिर्धाम वपुः पुनः ॥ १८ ॥ ;p{0438} रोचिः शोचिः पुनश्चार्चिर्न ना पृश्निः शुचिश्च सा । गौर्मरीचिर्नोमनिधिर्मृगतृष्णा मरीचिका ॥ १९ ॥ परिधिः परिवेशश्च परिवेषश्च पुंस्ययम् । परीवेशः परीवेषः परीवेशनमण्डले ॥ २० ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वदुपार्कं मंडलं त्रिषु ॥ २१ ॥ त्वाष्ट्री सरण्यूर्योग्या स्यात् सरण्युर्द्युमयीति च । वैवस्वतयमयमीपर्यायजननीति च ॥ २२ ॥ एतत्पर्यायतश्छाया सवर्णा प्रतिरूपिणी । सावर्णिमन्दतपतीविष्टिपर्यायसूरपि ॥ २३ ॥ एते भार्ये रवेरश्वाः सप्तच्छन्दांसि यानि ते । जयो जयन्तो विजयो जयत्सेनो जयद्वलः ॥ २४ ॥ मनोजवो जितक्रोधो हंसश्रेणियुजः कलाः । तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः ॥ २५ ॥ सुषुम्णा भोगदा विश्वा बोधिनी धारणी क्षमा । कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके । सूर्यादिमः प्रकाण्डोऽयं प्रथमः सिद्धिमागतः ॥ २६ ॥ ;p{0439} ;v{ब्रह्मप्रकाण्डः} धाता सुरासुरगुरुपर्यायः प्रपितामहः । चतुराननपर्यायो विरिञ्चिर्द्रुहिणो विधिः ॥ १ ॥ स्रष्टा प्रजापतिर्वेधा विधाता कमलासनः । स्वभूः कञ्जोऽब्जपर्याययोन्यर्थः सर्वतोमुखः ॥ २ ॥ विरञ्चो विश्वसृड् ब्रह्मा स्त्रियां संजश्चिरन्तनः । अष्टश्रवाः शतधृतिः पद्मपर्यायलाञ्छनः ॥ ३ ॥ सनाद्धंसरथो विश्वसृगर्थः कमनोऽपि च । पुराणगीर्वेदगर्भो धरुजो द्रुघणः पुनः ॥ ४ ॥ अजो जन्युः सामयोनिः शम्भुनाभिज आपचः । विश्वरेताः सदानन्दो भूतात्मा सनदव्ययम् ॥ ५ ॥ वेदीशो मृगयुः प्राण आ विरञ्च्यो विरञ्चनः । भवान्तकृदजो हंसपर्यायाद्वाहनार्थकः ॥ ६ ॥ कुशकेतुर्भाववृत्तो नाभिर्ना शाश्वतः कविः । पुराणगीतः स्थविरः प्रपूज्यः कस्ततः पुनः ॥ ७ ॥ आत्मस्वयंस्वपद्मानां पर्यायेभ्यो भुवोर्थकः । उर्वेधाश्चापि कंजारस्तत्पुत्रा मानसा इमे ॥ ८ ॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर्दक्षः प्रचेताश्च वसिष्ठो नारदस्तथा ॥ ९ ॥ ;p{0440} सनकाद्या अपि च ते योगिनो बालरूपिणः । मारीचः कश्यपस्त्र्यक्षोऽथास्य पत्न्यस्त्रयोदश ॥ १० ॥ अदितिश्च दितिश्चापि दनुः कालादनायुषा । सिंहिका च मुनिः क्रोधा वरिष्ठा सुरभिर्वशा ॥ ११ ॥ कद्रूश्च विनता चैता दाक्षायण्योऽथ तत्प्रजाः । दैत्या देवाः खगा नागा गावोऽश्वाद्या अनेकशः ॥ १२ ॥ सोमो दत्तश्च दुर्वासा आत्रेयाश्च ततः परः । बृहस्पत्यभ्युचथ्याद्या अङ्गिरस्तनया अथ ॥ १३ ॥ पौलस्त्यो विश्रवास्तस्य रावणाद्यास्त आसुराः । क्रतोर्यज्ञाश्च कर्माणि मृकण्डो भार्गवः कविः ॥ १४ ॥ वासिष्ठः शक्तिरथ च मनुः स्वयंभुवः सुतः । ब्रह्मणस्तस्य राज्यस्य कालं स्यात्तदनन्तरम् ॥ १५ ॥ महिषी शतरूपाऽस्य तद्भवाः सर्वमानवाः । पलं दीर्घैः षष्टिवर्णैस्तावद्भिस्तैर्घटी मता ॥ १६ ॥ तावतीभिरहोरात्रं घटीभिर्मानुषं पुनः । तावद्भिस्तैरृतुस्तैस्तु षड्भिः संवत्सरस्ततः ॥ १७ ॥ दश सप्त दश द्वे च अष्टौ चत्वारि पञ्च च । लक्षायुतानि चत्वारि तदेकस्थं चतुर्युगी ॥ १८ ॥ ;p{0441} तैरेकसप्ततिमितैर्भवेन्मन्वन्तरं पुनः । चतुर्दश ब्राह्ममहस्तावता रात्रिरिष्यते ॥ १९ ॥ एवं त्रिंशद्दिनो मासस्तेऽपि द्वादश हायनम् । तेषां शत ब्राह्मणः स्यादायुर्नास्त्यत्र संशयः ॥ २० ॥ चतुर्दश स्युर्मनवो दिवसेऽस्मिन्विधेर्मताः । स्वायंभुवः स्वारोचिष उत्तमस्तामसस्ततः ॥ २१ ॥ रैवतश्चाक्षुषो वैवस्वतः सावर्णिकः परः । दक्षब्रह्मधर्मरुद्ररुचिभूतिसुताः क्रमात् ॥ २२ ॥ अथेन्द्राः स्युर्विपश्चिच्च सुशान्तिश्च शिविर्विभुः । मनोजवः पुरंदरो वलिरद्भुत इत्यपि ॥ २३ ॥ शान्तिर्वृष ऋतधामा तथा दिवस्पतिः शुचिः । अस्य प्रिया तु सावित्री दुहिता तु सरस्वती ॥ २४ ॥ अपि स्याद्गीर्गिरा वाक् च स्त्रियां लापः पुमानयम् । स्याद्वादरेला धिषणा गौर्जूः श्रीः पद्मलाञ्छना ॥ २५ ॥ लिड्गीर्भाषा वाणिगाथे जिह्वा वाणी द्वयोः पुमान् । घोषः स्वरः स्वनोऽपि स्याद्गणो धेनाऽपि कारिका ॥ २६ ॥ तारा महाश्रीरोंकारा वसुधारा धनप्रदा । सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २७ ॥ ;p{0442} तारिणी विजयाऽनन्ता शिवा लोकेश्वरात्मजा । प्रज्ञा पारमिता बुद्धमाता स्वाहा मनोरमा ॥ २८ ॥ शंखिनी श्रीर्महातारा लोचना च त्रिलोचना । सैषा चतुर्विधा वाणी परा पश्यन्तिका पुनः ॥ २९ ॥ मध्यमा नाभिकण्ठे च मूर्द्धस्थाने स्थिताः क्रमात् । गुप्तस्थानस्थितास्तिस्रश्चतुर्थी किल वैखरी ॥ ३० ॥ देवादीनां मनुष्याणां वर्णव्यापारकारिका । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ ३१ ॥ तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता । श्रुतिस्त्रयी स्त्रियां वेद आम्नाय ऋषिरित्यपि ॥ ३२ ॥ निगमश्च पुनः क्लीबे छन्दो ब्रह्माथ बह्वृचः । ऋग्वेदः पुंस्यथ क्लीबे यजुः सामापि न द्वयोः ॥ ३३ ॥ स्वरपत्तनमुक्थं तदृक् सामयजुषी त्रयी । तदुद्धृतिरथर्वा स्यादथैषां चरणक्रमः ॥ ३४ ॥ एकविंशत्येकशतचतुःपञ्चेति ताः क्रमात् । शिक्षा ज्योतिर्निरुक्तं च कल्पो व्याकरणं तथा ॥ ३५ ॥ छन्दो नासा दृक् श्रुतिश्च हस्तौ वदनमित्यपि । पादौ श्रुतेस्तदर्थानि शाखाभेदः पुनश्च षण् ॥ ३६ ॥ ;p{0443} चरणञ्चाथ मीमांसा धर्मशास्त्रं विचारणा । वेदान्तोऽस्त्री ब्रह्मविद्या स्त्रियामुपनिषत्पुनः ॥ ३७ ॥ आन्वीक्षिकी तर्कविद्या न्यायः स्यादर्थशास्त्रयोः । पुराणमष्टादशधा तदेवं पञ्चलक्षणम् ॥ ३८ ॥ सृष्टिप्रलयवंशाश्च वंशानुचरितानि च । मन्वन्तराणीत्यथ च धर्मशास्त्रं स्मृतिः स्त्रियाम् ॥ ३९ ॥ अष्टादशविवादानामनुशासनमित्यपि । सांख्यं शांख्यं कापिलं स्यादथापि चरकोऽस्त्रियाम् ॥ ४० ॥ व्याहार उक्तिर्लपितं भाषितं वचनं वचः । अपभ्रंशोऽपशब्दः स्यान्म्लेच्छभाषा तु भाषितम् ॥ ४१ ॥ म्लेच्छो ना म्लेच्छितं क्लीबे शास्त्रे शब्दस्तु वाचकः । वाय्वग्निभूजलाकाशा ह्रस्वा दीर्घाश्च संधिजाः ॥ ४२ ॥ विन्द्वन्ताः पञ्च पञ्चापि ह्रस्वदीर्घप्लुताः क्रमात् । ऌवर्जास्त उदात्तानुदात्तस्वरितभेदतः ॥ ४३ ॥ त्रिविधा अनुदात्तस्तु निघातो नीच इत्यपि । उच्चैरुदात्तः स्वरितः समवृत्तिरथो हलः ॥ ४४ ॥ स्पर्शाः काद्या मावसाना व्यापका यादिहान्तगाः । द्व्यधिका विंशतिरचो दीर्घाभावाल्ऌसंज्ञके ॥ ४५ ॥ ;p{0444} ह्रस्वाभावात्तथैवैचां चत्वारोऽन्ये यमा इति । कुं खुं गुं घुममीषां च समावेशः क्रमाद्यथा ॥ ४६ ॥ पदेऽनन्त्यस्तु प्रथमोऽन्योऽन्त्यः स्यात्परतो यदि । यथासंख्यो यमावेशस्तयोर्मध्ये मतान्तरम् ॥ ४७ ॥ क्लीबेऽक्षरं तु वर्णोर्णो ग्रन्थो द्वात्रिंशदक्षरी । अपि प्रबन्धः सन्दर्भः सूत्रं सूचनकारि यत् ॥ ४८ ॥ भाष्यं सूत्रप्रयुक्तार्थकठिनांशप्रकाशकम् । उक्तानुक्तदुरूहार्थचिन्ताकारि तु वार्त्तिकम् ॥ ४९ ॥ टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका । निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ॥ ५० ॥ चूर्णी चूर्णिरुभेतुल्ये पद्धती पद्धतिः समे । इत्येवं परिशिष्टादि पथाऽनेन समुन्नयेत् ॥ ५१ ॥ पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपश्च समाधानं व्याख्यानं वर्णनं समे ॥ ५२ ॥ कारिका तु स्वल्पवृत्ता बह्वर्थस्य प्रकाशिका । कलिन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥ ५३ ॥ इतिहासः पुरावृत्तमाख्यानं भारतादिकम् । सर्गबन्धो महाकाव्यं तत्स्यादेभिर्गुणैर्युतम् ॥ ५४ ॥ ;p{0445} समस्तैर्वर्णनीयैः स्याद् भूपामात्यपुरोहिताः । राजवध्वश्च तत्पुत्राः सैन्यपः सैन्यनिर्गमः ॥ ५५ ॥ विषयो नगरं ग्रामः सरित्स्रोतस्विनी वनम् । आश्रमो वाटिका मन्त्र ऋतुः समय इत्यपि ॥ ५६ ॥ हस्त्यश्वरथचन्द्रार्कास्तोदया विरहो रतम् । स्वयंवरस्तथा युद्धं पुष्पावचय इत्यपि ॥ ५७ ॥ एतैरन्यैश्च संयुक्तं महारूपकनाटके । अथ वाङ्मयभेदाः स्युश्चम्पूः खण्डकथा कथा ॥ ५८ ॥ प्रबन्धकल्पना सा स्यात् प्रवह्लिका प्रहेलिका । प्रहेलिः प्रश्नदूती च रथ्या वादस्तु वादलः ॥ ५९ ॥ समस्या तु समासार्था समाहारस्तु संग्रहः । आख्यायिकोपरिकथोपलब्धार्थाऽपि चेष्यते ॥ ६० ॥ आख्यायिकापरिच्छेदे त्वाश्वासोच्छ्वासकौ समौ । संदानमनिरुद्धं च प्रकीर्णं गुच्छकादिकम् ॥ ६१ ॥ सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः । उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥ स्थानं प्रकरणं पर्वाह्निकं तु शीघ्रपाठतः । अवान्तरप्रकरणं विश्रामो ग्रन्थसंधयः ॥ ६३ ॥ ;p{0446} अथाधिकरणं तद्यदेकन्यायोपपादनम् । प्रज्ञप्तिः परिभाषा स्याच्छैली संकेत इत्यपि ॥ ६४ ॥ प्रतिवाणिरभिप्रायः समुदाचार इत्यपि । प्रतिवचनं संगरिका प्रतिरूपकथाऽपि च ॥ ६५ ॥ स्यात्स्वाच्छन्द्यानुमननं प्राकाम्यं चावसर्गकः । ऐतिह्यं ना द्वयोर्वार्ता किंवदन्ती पुरातनी ॥ ६६ ॥ जनश्रुतिः किंवदन्तिर्वार्त्तोदन्तः पुमानयम् । वृत्तान्तोऽपि प्रवृत्तिः स्त्री नामधेयं च नाम च ॥ ६७ ॥ गोत्रं स्त्रियामभिख्याख्या संज्ञाह्वा ना समाह्वयः । लक्षणं लक्ष्मणं क्लीबेऽभिधानमभिधा स्त्रियाम् ॥ ६८ ॥ अथाभिमन्त्रणं हूतिः स्त्रियामाकारणं न ना । सम्बोधनमामन्त्रणमाह्वानं चाहवः पुमान् ॥ ६९ ॥ आकारणं द्वयोर्हूतिः स्त्रियां सा बहुभिः कृता । संहूतिश्च प्रहूतिः स्यादाहूतिरथ वाङ्मुखम् ॥ ७० ॥ उपन्यास उपोद्घात उदाहारः शपः पुमान् । शपथः शपनं क्लीबे प्रतिवाक्योत्तरे समे ॥ ७१ ॥ कथंकथिकता तु स्यात् पृच्छा प्रश्नोऽनुयोजनम् । अनुयोगोऽप्यथो दैवप्रश्नः स्त्री स्यादुपश्रुतिः ॥ ७२ ॥ ;p{0447} चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् । सत्यं तथ्यं समीचीनमृतं सत्यं यथातथम् ॥ ७३ ॥ यथास्थितं च सद्भूतेऽलीके तु वितथानृते । अथ क्लिष्टं संकुलं च परस्परपराहते ॥ ७४ ॥ अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् । परुषं निष्ठुरं रूक्षं विक्रुष्टं क्लिष्टमस्फुटम् ॥ ७५ ॥ लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् । अम्बूकृतं सनिष्ठीवं निरस्तं त्वरितोदिदम् ॥ ७६ ॥ आम्रेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् । सोल्लुण्ठनं तु सोत्प्रासं मणितं रतकूजितम् ॥ ७७ ॥ सुरते कर्णमूले च व्यब्धदेशीयभाषया । दम्पत्योर्जल्पितं मन्दं मन्मनं तं विदुर्बुधाः ॥ ७८ ॥ चाटुपूर्वाणि सर्वाणि त्रिष्वमूनि च तद्वति । पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् ॥ ७९ ॥ मिथ्याभियोगोऽभ्याख्यानं ग्राम्यमश्लीलमित्यपि । उच्चैर्घुष्टं घोषणा स्त्री सङ्गतं हृदयङ्गमम् ॥ ८० ॥ परुषं निष्ठुरं रूक्षं विक्रुष्टं चाप्यथ स्तुतिः । वर्णनेडा प्रशंसा स्यान्नुतिः श्लाघा स्तवो नवः ॥ ८१ ॥ ;p{0448} क्लीबे स्तोत्रं चार्थवादः सा तु मिथ्याविकत्थनम् । जनप्रवादः कौलीनं वगानं वचनीयता ॥ ८२ ॥ स्यादवर्ण उपक्रोशो वादो निःपर्यवात्परः । गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ ८३ ॥ आक्रोशाभीषङ्गाक्षेपाः शापः साक्षारणा रते । विरुद्धशंसनं गालिराशीर्मङ्गलशंसने ॥ ८४ ॥ श्लोकः पुंसि यशः क्लीबे अभिख्या स्यात्समज्ञया । यशः क्लीबे स्त्रियां कीर्तिः समाख्याता समाज्ञया ॥ ८५ ॥ समाख्या कीर्त्तनाऽपि स्यात्समाज्याऽपि समज्यया । त्रिषूत्तरे स्युर्वाग्भेदा रुशती त्वशुभा च वाक् ॥ ८६ ॥ उषती चाप्यथ पुनः कल्पा काल्पा शुभात्मिका । सैव ज्ञेया चर्चरी च वर्त्तरी च समे इमे ॥ ८७ ॥ यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् । आपृच्छालापसंभाषोऽनुलापः स्यान्मुहुर्वचः ॥ ८८ ॥ अनर्थकं तु प्रलापो न ना तु परिदेवना । उल्लापः स्यात् काकुवागन्योक्तिः संलापसंकथे ॥ ८९ ॥ समासप्रायवचनमपि स्याद्दण्डकोऽस्त्रियाम् । विप्रलापो विरोधोक्तावपलापस्तु निह्नवः ॥ ९० ॥ ;p{0449} अपह्नुतिर्निह्नुतिश्च निह्नुती स्यादपह्नुती । सुप्रलापः सुवचनं संदेशगिरि वाचिकम् ॥ ९१ ॥ आज्ञा शिष्टिर्निराङ्विभ्यो देशो नियोगः शासनम् । अनुवादोऽप्यथाहूय प्रेषणं प्रतियातनम् ॥ ९२ ॥ संवित्संधास्थाभ्युपायः संप्रत्याङ्भ्यः परः श्रवः । अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ ९३ ॥ वाक्क्रोधगर्भा वैद्योता स्नेहगर्भा तु माल्लुका । निर्वेदगर्भा निःसंगा दैन्यगर्भा तु नश्वरी ॥ ९४ ॥ कुटिनारी तु या कूटवाग्वैदर्भं च तन्मतम् । वर्करस्तु स एवोक्तो यदि द्व्यर्थैः पदैः कथा ॥ ९५ ॥ हूत्कार आर्तशब्दः स्यादोवल्लिर्व्याघ्रगर्जने । मुखघण्टा हुलहुली गल्लवाद्यमथ श्रमात् ॥ ९६ ॥ सुखनिद्रादिशब्दो यस्तत्र नन्दीमुखी स्त्रियाम् । घुरिका श्वासहेतिश्च घोरिका टरटोऽपि च ॥ ९७ ॥ अङ्गुष्ठतर्जनीशब्दः स्त्रियां सा छोटिका मता । अङ्गुष्ठमध्यमाशब्दो मदस्फुटिरुदीरिता ॥ ९८ ॥ स एव हस्तचटकारोप इत्यभिधीयते । कोयष्टिकादेः स्तभनं रोलोऽस्पष्टरवे पुमान् ॥ ९९ ॥ ;p{0450} निःसाणोऽनेकवाद्यानामेकदा यो रणे ध्वनिः । भेरीशतसहस्राणि तथा दशशतानि च ॥ १०० ॥ युगपद्यत्र वाद्यन्ते कोणाघातः स उच्यते । शब्दो निनादो निर्घोषो निह्रादो निःस्वनः स्वनः ॥ १०१ ॥ स्वानो ध्वानः स्वरो ह्रादो निस्वानो रव इत्यपि । नादो घोषः क्वणः क्वाणो निक्वाणो निक्वणः क्वणः ॥ १०२ ॥ समाविभ्यः परो रावस्तथैव च पुनः स्त्रियौ । ध्वनिः स्वनिरपि क्लीबे फणनं चाथ रोदनम् ॥ १०३ ॥ क्रन्दितं रुदितं क्रुष्टं तदपुष्टं तु गह्वरः । शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् ॥ १०४ ॥ पर्दनं गुदजे शब्दे कर्दनं कुक्षिसम्भवे । कोलाहलः कलरवः संकुलो व्याकुलो रवः ॥ १०५ ॥ मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् । हेषा ह्रेषा तुरङ्गाणां गजानां गर्जबृंहिते ॥ १०६ ॥ कूजितं स्याद्विहङ्गानां तिरश्चां वासितं रुतम् । वृषस्य रेषणं रेषा वुक्कनं भषणं शुनः ॥ १०७ ॥ पीडितानां तु कणितं प्रक्वाणः प्रक्वणोऽपि च । वीणायाः क्वणिते च स्यान्मर्दलस्य तु गुन्दलः ॥ १०८ ॥ ;p{0451} क्षीजनं कीचकानां च भेरीशब्दस्तु दर्दुरः । स्यात्प्रतेर्ध्वनिपर्यायः प्रतिच्छन्दः प्रतिष्कशः ॥ १०९ ॥ कल्पद्रौ केशवकृते स्वर्गस्कन्धे तृतीयके । ब्रह्मप्रकाण्डः प्रथमः साङ्गः सिद्धिमुपागतः ॥ ११० ॥ ;v{यज्ञादिप्रकाण्डः} यज्ञो नारायणः कुन्दो वैकुण्ठो विष्टरश्रवाः । पीताम्बरो हृषीकेशः केशवो माधवः स्वभूः ॥ १ ॥ दैत्यदानवपर्यायशत्रुपर्याय इत्यपि । बभ्रुश्चतुर्भुजः कृष्णो वासुभद्रो विरञ्चनः ॥ २ ॥ केशटः शंभुरो जह्नुः पद्मनाभिर्वृषाकपिः । विरञ्चिः कपिलो विष्णुर्विश्वक्सेनोऽपराजितः ॥ ३ ॥ बहुरूपो जगन्नाथः श्रीदत्तः प्रपितामहः । शार्ङ्ग्यच्युतो मधुरिपुः पद्मनाभो जनार्दनः ॥ ४ ॥ विष्वक्सेनः शतावर्तश्चक्री श्रीवत्सलाञ्छनः । अधोक्षजोऽव्ययो वेधाः पुराणपुरुषः कविः ॥ ५ ॥ श्रीवासो यज्ञपुरुषः सुषेणः पुरुषोत्तमः । विश्वंभरो विधुर्हंसस्तमोहा विषयी हरिः ॥ ६ ॥ ;p{0452} जलशायी विश्वरूपो मुकुन्दः शिवकीर्तनः । मञ्जुकेशः कौस्तुभोराः सोमगर्भो धराधरः ॥ ७ ॥ कामो मासो मलः कोको लक्ष्मीनाथः सुयामुनः । सहस्रपारः षड्विन्दुरनन्तो नलिनेशयः ॥ ८ ॥ शशबिन्दुरृतधामा नरकारिर्नरायणः । श्रीनिवासोऽजितो वासुः श्रीकरोऽजः पुनर्वसुः ॥ ९ ॥ आत्मयोनिरथैतस्यावताराः स्युर्महात्मनः । पर्यायो मत्स्यकमठकोलकेसरिणामपि ॥ १० ॥ पुंसो नरस्य पर्यायदेहपर्याय इत्यपि । आदित्यः काश्यपो विष्णुरिन्द्रार्थावरजार्थकः ॥ ११ ॥ त्रिविक्रम उपेन्द्रार्थो वामनोऽथ भृगूद्वहः । रैणुकेयः स एव स्याज्जामदग्न्यः कुठार्यपि ॥ १२ ॥ न्यक्षः परशुरामोऽपि रामः शंकरशैक्षकः । क्षत्रियारिः पर्शुरामो रामस्तु रघुनन्दनः ॥ १३ ॥ सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः । कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥ १४ ॥ कोशलेशो रामभद्रो रामचन्द्रोऽब्धिसेतुकृत् । कुम्भकर्णदशग्रीवदूषणादिकरक्षसाम् ॥ १५ ॥ ;p{0453} नियन्ता राघवः कौसल्यायनिः शान्तानुजश्च सः । मैथिली जानकी सीता वैदेही भूसुतापि च ॥ १६ ॥ शीता योजनगन्धाऽस्य पत्नी दशरथः पिता । स च दाशरथोऽपि स्याच्चत्वारो भ्रातरोऽस्य तु ॥ १७ ॥ भरतः स च कैकेयः कैकेयी केकयी च सूः । अस्याथ लक्ष्मणोऽपि स्याल्लक्षणस्तदनूद्भवः ॥ १८ ॥ शत्रुघ्नः सोऽपि सौमित्रिः सौमित्रेयावुभावपि । क्रमादेषां तु तनया रामस्य तु कुशो लवः ॥ १९ ॥ भिन्नवाक्यादेकयोक्त्या तौ विज्ञेयौ कुशीलवौ । वाल्मीकिशिष्यौ भरतपुत्रौ तक्षकपुष्करौ ॥ २० ॥ लक्ष्मणस्याङ्गदश्चित्रकेतुः शत्रुघ्नजावमू । सुबाहुः सूरसेनश्च कौशल्या राममातरि ॥ २१ ॥ कौसल्याप्यथ कृष्णस्तु वासुदेवो गदाग्रजः । अपि दामोदरः शौरिः शौरी सौरिश्च यादवः ॥ २२ ॥ यादवेन्द्रो दैवकेयो गोविन्दः पाण्डवायनः । बलानुजो गोकुलेशो दाशार्हः स्मरदेहकृत् ॥ २३ ॥ भौमी जाम्बती भामा सत्या भद्रा च लक्ष्मणा । कालिन्दीमित्रविन्दादिपतिपर्याय इत्यपि ॥ २४ ॥ ;p{0454} वनमाल्यर्जुनार्थेभ्यः सखा सारथिरित्यपि । अरिष्टकेशियवनकंसचाणूरमर्दनः ॥ २५ ॥ वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः । भूकश्यपः क्षित्यदितिर्देवकी दैवकी च सूः ॥ २६ ॥ अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः । शुकपिच्छस्वर्णमेघपाण्डुवर्णाः क्रमादमी ॥ २७ ॥ शैव्यस्तु दक्षिणे वामे सुग्रीव उभयोरपि । पृष्ठवाहावुभावास्तां मेघपुष्पबलाहकौ ॥ २८ ॥ ध्वजो भुजङ्गहा मन्त्री पवनव्याधिरुद्धवः । सैन्यमेतस्य दाशार्हा दासार्हा यादवाश्च ते ॥ २९ ॥ गदोऽनुजः पाञ्चजन्यो दक्षिर्णावर्त्त इत्यपि । शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥ ३० ॥ सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः । अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥ एकानंशास्वसाथ स्याद्दारुकश्चास्य सारथिः । श्रीवत्सोऽङ्कोऽस्य गरुडो वाहनं मथुरा पुरी ॥ ३२ ॥ द्वारकाऽप्यथ वैदर्भी रुक्मिण्यपि च कामसूः । भैमी सत्या सत्यभामा बलदेवो हलायुधः ॥ ३३ ॥ ;p{0455} कृष्णाग्रजो बलभद्रो बलो रामः सितासितः । प्रलम्बरुक्मिद्विविदहन्ता कामार्थपालकः ॥ ३४ ॥ नीलार्थादम्बरार्थोऽपि तालाङ्को मुसली हली । यमुनार्थात्कर्षणार्थः संवर्त्तक्येककुण्डलः ॥ ३५ ॥ संवर्त्तको रेवतीशः सुरापर्यायवल्लभः । रौहिणेयश्चैकचरः सात्वतो हलमस्य तु ॥ ३६ ॥ संवर्त्तकाख्यं मुशलं सौनन्दं च सुतः शठः । मदनो मन्मथो मारः प्रद्युम्नो दर्पकः स्मरः ॥ ३७ ॥ कामो विधाता कन्दर्प आमोजो विषयी पुनः । सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥ ३८ ॥ मीनपुष्पार्थयोः केतूरमिलः कमनो रमः । रत्यर्थात्पतिपर्याय आत्मभूर्मकराङ्ककः ॥ ३९ ॥ मनोलक्ष्म्यङ्गशृङ्गारकृष्णार्थेभ्यो जनुश्च सः । मनःशयो जराभीतपर्यायः कन्तुरित्यपि ॥ ४० ॥ पुष्पपर्यायवाणार्थः संसारगुरुवाचकः । चन्द्रपर्यायसचिवो मधुपर्यायसारथिः ॥ ४१ ॥ भीरुपर्यायसैन्यास्त्रसहायार्थोऽपि कञ्जसूः । मुर्मुरो रणरणको रूपास्त्रः कनकः पुनः ॥ ४२ ॥ ;p{0456} मधुपर्यायपुष्टार्थः स्वरोचिश्चास्य तु प्रिया । केलती से रागलता सेवा केलिकला रतिः ॥ ४३ ॥ पुत्रोऽनिरुद्ध ऋष्याङ्क उषेशो ब्रह्मसूरपि । वाणारिरस्य पत्नी स्यादुषाप्यूषाऽथ मार्गणाः ॥ ४४ ॥ अरविन्दमशोकाख्यं चूतं च नवमल्लिका । नीलोत्पलं तथा चान्ये प्राहुरुन्मादनः पुनः ॥ ४५ ॥ सन्तापनः शोषणश्च मारणश्चापि मोहनः । पञ्चकामस्य पुत्र्यौ द्वे प्रीतितृष्णे ततो मदः ॥ ४६ ॥ मोहः क्रोधो लोभदम्भा एतस्य परिचारकाः । अरुणार्थादवरजो विनतातनयार्थकः ॥ ४७ ॥ सौपर्णेयः स्वर्णकायः कामायुर्वज्रजित् पुनः । शाल्मली तृक्षपुत्रार्थो गरुत्मान् गरुडः पुनः ॥ ४८ ॥ पक्षिपर्यायराडर्थो मायुः पुष्कर इत्यपि । शिलापर्यायवासार्थः सुधापर्यायहारकः ॥ ४९ ॥ कश्यपापत्यपर्याय उलूतीशो रसायनः । स्वर्णपक्षः सुमुखसूर्महावीरः खगार्थकः ॥ ५० ॥ नागपर्यायाशनार्थशत्रुपर्यायवाचकः । विमानरथकेत्वर्थो विष्णुपर्यायतोऽस्य तु ॥ ५१ ॥ ;p{0457} प्रियोन्नतिरुलूती स्यात्पुत्रस्तु सुमुखोऽथ च । इन्दिरा चञ्चलार्था स्यान्मा रमा कमलापि च ॥ ५२ ॥ पद्मार्थगृहपर्याया हरिपर्यायतः प्रिया । भृगुक्षीराब्धिपर्यायपुत्री नारायणीति च ॥ ५३ ॥ कन्दर्पलोकपर्यायमात्रर्था पद्मलाञ्छना । लक्ष्मीर्वृषाकपायी श्रीर्मङ्गला मङ्गलार्थका ॥ ५४ ॥ बिल्वद्रुगृहपर्याया करीषिण्यपि पिल्पिला । अश्वार्थान्मातृपर्याया पिङ्गला पद्ममालिनी ॥ ५५ ॥ (इति द्युस्थानदेवमणिप्रकाण्डः पञ्चविंशः ।) कल्पद्रौ केशवकृते स्कन्धे तार्तीयसंज्ञिते । यज्ञादिमः प्रकाण्डोऽयं द्वितीयः सिद्धिमागतः ॥ ५६ ॥ ;v{अव्ययप्रकाण्डः} द्वितीयादिविभक्त्येकवचनप्रतिरूपकम् । चिराख्यं चिररात्राख्यं चिरार्थप्रतिपादकम् ॥ १ ॥ पुनः पुनः पुनरपि मुहुरेवं मुहुर्मुहुः । शश्वच्छाश्वदभीक्ष्णं तु वारं वारार्थवाचकम् ॥ २ ॥ ;p{0458} तरसा सपदि क्षिप्रं त्वह्नाय झटिति द्रुतम् । तूर्णं द्रागञ्जसा मक्षु स्राक् शीघ्रं लघु चित् चन ॥ ३ ॥ असाकल्ये समं सत्रा साकं सार्द्धं सहार्थकम् । स्यात्प्राध्वमानुकूल्येथ व्यर्थार्थे तु मुधा वृथा ॥ ४ ॥ यत्तद्यतस्ततो हेतौ बलवत्सुष्ठु किं पुनः । इवाति सु स्युराधिक्ये कदाचिज्जातु जातुचित् ॥ ५ ॥ उताहो किं किमूताहो विकल्पे किमुतापि च । मिताक्षरग्रन्थजाते तु हि च स्म ह वै किमीम् ॥ ६ ॥ इच्चापि पादपूर्त्यै स्युर्विना साङ्केतिकात्पुनः । अमिताक्षरजाते च वावोह यदपि क्वचित् ॥ ७ ॥ वाक्यस्य पूरणार्थास्ते पूजायामति सु द्वयम् । मौने तूष्णीं च तूष्णीकं सप्तम्यर्थे दिवाव्ययम् ॥ ८ ॥ दिवसार्थोऽपि तद्वत्स्यान्नक्तं दोषा तथैव च । रात्र्यर्थवाचकं चाथ समया निकषा हिरुक् ॥ ९ ॥ सामीप्येऽथान्तरे साचि तिर्यगर्थे विवादिते । सहसाऽथाङ्ग हे है भोः प्याट् पाडथ पुरोग्रतः ॥ १० ॥ पुरस्तात्पुरतोऽथ स्यात् श्रौषड् वौषड् वषट् पुनः । देवताभ्यो हविर्दाने स्वाहापि स्यादथ स्वधा ॥ ११ ॥ ;p{0459} कव्यदाने पितॄणां च स्वधा स्यादप्यथो मनाक् । इषदीषत् किञ्चिदपि स्वल्पेथो कद्यथा तथा ॥ १२ ॥ वैवं साम्येऽथ प्रसह्य हठादथ भवान्तरे । प्रेत्यामुत्राथ मध्यार्थेऽप्यन्तरा चान्तरेण च ॥ १३ ॥ अप्यन्तरे च दिष्ट्या स्यादानन्द उपजोषकम् । स्थाने युक्तं साम्प्रतं स्यात्सद्यः सपदि तत्क्षणे ॥ १४ ॥ हठे प्रसह्य प्रसभं स्यादभीक्ष्णमनारतम् । शश्वच्चाथाप्य मा नो ना मा स्मालं न हि वारणे ॥ १५ ॥ पक्षान्तरे तु यदि चेदद्धा तत्त्वेञ्जसापि च । प्राकाश्ये प्रादुराविः स्याद्विरोधोक्तौ ननु स्मृतम् ॥ १६ ॥ अङ्गीकारे तु परमं प्रमाणं वाढमेव च । अवश्यं परितो विष्वक् सर्वतोऽपि समन्ततः ॥ १७ ॥ अकामानुमतौ काममसूयोपगमेऽस्तु च । निःसमं दुःषमं गर्ह्ये कच्चित्कामप्रवेदने ॥ १८ ॥ मृषा मिथ्या च वितथे यथास्वं तु यथायथम् । यथातथमथापि स्यात्प्रागतीतार्थवाचकम् ॥ १९ ॥ संवद्वर्षेऽवरे त्वर्वागेवं चैवावधारणे । अथावश्यं निश्चिते स्यान्नूनं निरपि चैव ते ॥ २० ॥ ;p{0460} आमेवं स्वयमात्मत्वे महत्युच्चैरथाल्पके । नीचैरथ स्यादैश्वर्ये तूपर्यध्यथ भूम्नि तु ॥ २१ ॥ प्रायः शनैरद्रुते स्यात् स्मातीते स्तमदर्शने । सना नित्ये बहिर्बाह्येऽथास्ति सत्त्वे रुषोदिते ॥ २२ ॥ उः स्यादुं तु परिप्रश्ने तर्के हुं स्यान्नमो नतौ । उषा रात्रौ तदन्ते स्यादथाप्यनुनये त्वपि ॥ २३ ॥ अथ स्याद्दुष्ठु निन्दायां सुष्ठु चापि प्रशंसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ २४ ॥ परुत्परार्यैषमोब्दे पूर्वे पूर्वतरे यति । अद्यात्राह्न्यथ पूर्वेह्नीत्यादौ पूर्वोत्तरापरात् ॥ २५ ॥ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः । अपरेद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २६ ॥ ह्योऽतीतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २७ ॥ एतर्हि संप्रतीदानीमधुनाऽपि च साम्प्रतम् । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २८ ॥ कल्पद्रौ केशवकृते स्कन्धे तार्तीयके शुभे । अव्ययानां प्रकाण्डोऽयं सम्यक् सिद्धिमुपागतः ॥ २९ ॥ ;p{0461} ;v{स्त्र्यादिलिङ्गप्रकाण्डः} अथ स्त्री योनिमत्सेनावीचीवम्रीतडिन्निशाम् । वल्लीशस्त्रीदयाजिह्वाऽवटुतन्द्रानदीदिशाम् ॥ १ ॥ वीणाग्रीवा शिंशिपाद्याचीरी ज्योत्स्ना तिथीत्विषाम् । अङ्गुलीकलशीकङ्गुहिङ्गपत्रीसुरानसाम् ॥ २ ॥ क्रपिरास्नाशिराकालाशंवा कृष्णोष्णिकाश्रियाम् । रोचनासरघाधाय्यासृक्कापण्यातसीभुवाम् ॥ ३ ॥ मांसीहरिद्रालूदूर्वावलाकाकृष्णलागिराम् । यत्तु प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरत्रावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ ५ ॥ लिन्मिष्टनिण्यणि स्त्र्युक्ताः क्वचित्तिङल्पह्रस्वकम् । विंशत्याद्याशताद्द्वन्द्वे साचैक्ये द्वंद्वनेपशो ॥ ६ ॥ लता गीतिस्रुचो भेदे ध्रुवाविटः प्रजाविशोः । घटीभबन्धयोर्वारी दुन्दुभावक्षविन्दुषु ॥ ७ ॥ क्ष्वेडा वंशशलाकायां वाद्यभेदे तथा ध्वनौ । गृह्या शाखापुरे प्रान्तेऽन्तिका कीला रताहते ॥ ८ ॥ महत्यर्थे त्वरण्यानी हिमानी यवनान्यपि । लिप्यां दोषे यवानी स्याद्रज्जौ रश्मिः सुरागृहे ॥ ९ ॥ ;p{0462} फलपाकगृहे गञ्जाप्यथाहंपूर्विकादिकाः । मघा अप्कृत्तिका वर्षाः स्युर्बहुत्वे निरन्तराः ॥ १० ॥ वा बहुत्वे त्वप्सरसः सिकताः सुमनः समाः । गायत्र्युष्णिक्प्रभृतयश्छन्दोभेदास्तथाष्टकाः ॥ ११ ॥ स्यादल्लूकेष्टकेषीकोल्कोर्मिका कुञ्जिकेन्धिका । कनीनिका च कलिका कणिकापि च कूचिका ॥ १२ ॥ कूर्चिका कोशिका केका कोणिका च कृपाटिका । स्यात्पक्षिका कञ्चुलिका ततोऽपि च गवेधुका ॥ १३ ॥ जलौका झिरुका टीका त्रिकादूषा कृपा समा । धूका च ध्रुवकानीका पादुका च पताकया ॥ १४ ॥ स्यात्पाचिका पूपलिका पञ्चिकाऽपि च पिण्डिका । पर्यस्तिका बृहतिका मानिका मिहिका तथा ॥ १५ ॥ मक्षिका चापि मूका स्याद्वाका तद्वद्विपादिका । धालुका शिविकान्यूका शम्बूकाऽपि च सर्जिका ॥ १६ ॥ संवर्त्तिका हसनिका स्रविका च हसन्तिका । परिखोखा शिखा शाखा विशिखा च सुरङ्गया ॥ १७ ॥ भङ्गा जङ्घा च सरघा वचा चिञ्चा यदृच्छया । कच्छा पिच्छा भुजा पिञ्जा स्यात्तुल्या प्रजया स्वजा ॥ १८ ॥ ;p{0463} झञ्झा यात्रा घटा घोटा घण्टा घाटा छटा जटा । स्यात्पोटा भिस्सटोर्णा च करुणाघोणया घृणा ॥ १९ ॥ तूणा तृष्णा दक्षिणाऽपि धिषणा वीणया समा । हृणा स्थूणामृताऽनन्ता गीता चिन्ता चिता समा ॥ २० ॥ त्रिवृता तृणता त्रेता मार्जिता सह मुक्तया । लूता लता च लिखिता वार्ता सीता सिता तथा ॥ २१ ॥ गाथा कन्था कुथा तद्वद् गदा स्यादजमोदया । मर्यादा चानुराधेक्षुगन्धा गोधा च राधया ॥ २२ ॥ तुल्या सुधा स्वधा धाना रास्ना सूना कृपाऽपि च । झञ्झा पंपा प्रपा तद्वद्वपा शंपा शिफाऽथ च ॥ २३ ॥ कवा भम्भा समा रम्भा सभा हंभा ततोऽप्युमा । अमामा प्रतिमा यामा रमा वामेत्यया समा ॥ २४ ॥ उपकार्या तथा कुल्या कक्ष्या चित्या च छायया । इष्मा नस्या च पर्याद्या पर्यागया च मायया ॥ २५ ॥ मङ्गल्या रथ्यया तुल्या शस्या सन्ध्यार्द्रया समा । कजेराकृसरेर्वारुः क्षुद्रा गोत्री च कन्धरा ॥ २६ ॥ धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया । प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥ ;p{0464} सुरापात्री वरत्रा च वागुराऽपि शिरोधरा । स्रग्धरा शर्करा होरा शिराहारोपलेलया ॥ २८ ॥ कला कुदाला गोला च ज्वाला दोला मनःशिला । लाला वेलावला शाला शिला शाकुलया समा ॥ २९ ॥ मेला माला मेखला स्याद्रसाला लालया समा । सुवर्चला सिध्मलाऽपि हेलया सर्वला समा ॥ ३० ॥ खट्वा ग्रीवा तथा दूर्वा लट्वा सारिवया शिवा । कशा शिवा कुशोशापि दशेषामिक्षया समा ॥ ३१ ॥ स्याद्राक्षा काङ्क्षया कक्षा मूषा मञ्जूषया समा । लाक्षा लिक्षा च शेमूषा स्नसा स्याद्वस्नया समा ॥ ३२ ॥ वाहा स्वाहा गुहा भङ्गी वसतिर्विपणी द्युतिः । पेश्यायनी त्रोटिनाभ्यौ नालिर्वासिश्च वर्वरिः ॥ ३३ ॥ वालिः कालिर्भल्लिपल्ली व्रतती भृकुटिर्वमिः । सारिर्भाटी सठिर्वर्त्तिः खाटिः शुण्ठी कृमिः कृषिः ॥ ३४ ॥ स्याद्वितर्दिस्तिरीतिश्च दर्विर्नी विश्छविर्लविः । राजिर्जाती रुचिः श्रेणी सूचिः साची खलिः खनिः ॥ ३५ ॥ खानिः खारी कालिरूली वापी धूली लिपिर्लिविः । हिण्डी स्थाली सुटिर्वेदी कुक्कुटिः काकलिः किकिः ॥ ३६ ॥ ;p{0465} छेदिर्नान्दी शुक्तिशुक्ती कविर्नाडिः किखिर्द्युतिः । अतिः सादिर्वटिः कोटिर्विष्टिर्गृष्टिर्दरिर्युजिः ॥ ३७ ॥ वल्लरी काकिनी वीथी परिपाट्या रविः क्षुरिः । मज्जरिर्लहरिर्भेरी राटिराठिर्भुशुण्ड्यपि ॥ ३८ ॥ भाटी पिण्डिः शरारिश्च गानिः कानिः फलिर्जनिः । वारिर्हानिः प्रधिः कंविः चुल्हिश्चण्डिस्तरिः शनिः ॥ ३९ ॥ मरिर्मारी रतिः शाणी शान्तिर्मेन्यश्रिरोषधी । विद्रधिर्झल्लरिः सारिः शिरोधिः कवरी कविः ॥ ४० ॥ ह्रादिनी स्वेदिनी कीर्त्तिरपदी हरणी स्थगी । कर्त्तरील्पश्मरी तद्वत्प्रतोल्यक्षवती ब्रुसी ॥ ४१ ॥ काण्डी करीरी खण्डाली कृपाणी कदली घटी । कर्परी घर्घरी गोणी हसन्ती गृध्रसी मसी ॥ ४२ ॥ खल्ली पलाली पन्नध्री तिलपर्ण्येषणी द्रुणी । गन्धोली मातली नध्री केवली काकली खटी ॥ ४३ ॥ गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी । कस्तूरी सिञ्जिनी मौर्वी क्षैरेय्यपि च देहली ॥ ४४ ॥ ;p{0466} शष्कुली च चमूर्दद्रूः कर्णान्दूरक्तुरित्यपि । कच्छूस्तनूर्गीः प्रियङ्गुश्चञ्चुस्तापुर्जुहूस्ततः ॥ ४५ ॥ सीमन् शरद् दृशदृक् दृशस्रक् त्वक् स्फिग्द्वार्धुरौ च नौः । द्यौर्दिव् प्रावृट् त्विट्तृषौ दिगेषेति प्रकृतिः स्त्रियः ॥ ४६ ॥ पुंलिङ्गमृतुहस्तौष्ठकोष्ठाधूनां नखस्य च । कपोलकेशदिवसरसानां स्तनगुच्छयोः ॥ ४७ ॥ निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः । रथाशनिश्वेतकण्टकफासीनामरेरपि ॥ ४८ ॥ वोलप्रवालमुरजद्विपानामभ्रपङ्कयोः । सेवध्यम्बुधिमन्थानां विषयस्याशुगस्य च ॥ ४९ ॥ शोणमासद्रुमादीनां धान्याग्न्यध्वरदेहिनाम् । महतां सभिदां नाम मानहायनयोरपि ॥ ५० ॥ तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः । सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥ ५१ ॥ अपाङ्गमङ्गवेगानां वर्गस्यार्घाघयोरपि । गञ्चपुच्छगच्छपिच्छकलिञ्जपुञ्जयोरपि ॥ ५२ ॥ ;p{0467} मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः । कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥ ५३ ॥ कूष्माण्डगण्डलगुडकरण्डानां ततः पुनः । वरुडस्य पिचण्डस्य भ्रूणस्य च गुणस्य च ॥ ५४ ॥ नाडीव्रणोत्पातपोतव्रातानां पृषतस्य च । कुन्तालक्तकपिष्ठातार्षानां जनपदस्य च ॥ ५५ ॥ कपर्दगदयोस्तद्वदगदस्य गदस्य च । वुद्वुदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥ ५६ ॥ अनातोद्येऽपि च घनः शब्दे ध्वानस्वनौ ततः । जताह्रामिजनानां च देवनेन समं पुनः ॥ ५७ ॥ स्यात्परिधानतस्यापि कलापसूपयोरपि । स्तूपापूपशोफशेफनितम्बस्तम्बयोरपि ॥ ५८ ॥ स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः । सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥ पुण्ड्रकल्लोलतल्लानां गलहिङ्गुलयोरपि । खलोल्लोलपोटगलरुण्डोलानां .......... ॥ ६० ॥ ;p{0468} ....................... कालपुद्गलयोरपि । गोलाजगलवालानां तद्वत्कामलतालयोः ॥ ६१ ॥ कुद्दालस्य निचोलस्य वारुलपत्रवालयोः । स्याद्बाहुलदेवलयोर्जटिलस्य शिवस्य च ॥ ६२ ॥ आदीनवावयवयोर्दावमाधवयोरपि । पणवध्रुवहावानां पुरोडाशांशयोरपि ॥ ६३ ॥ उडीशकुशकोटीशकुल्माषाणां वृषस्य (च) । यज्ञनिर्यूहकलहनिःकुहाहसनस्ततः ॥ ६४ ॥ नरासिराशिवमतिदुन्दुभीनामृषेरपि । वृष्णिपाण्यञ्जलिज्ञातिगिरीणां कलिना सह ॥ ६५ ॥ अविराजिध्वनिशिशुकर्षूजायुयुजामपि । हाहाहूहू नग्नहूनां गमत्पां दश्मनामपि ॥ ६६ ॥ स्थेमोष्मपक्ष्मणामात्मपाप्मनोर्मातरिश्वनः । कठणथपभोपान्ता यद्यदन्ता अमी पुनः ॥ ६७ ॥ मभयरषसोपान्ता गोत्राख्याचरणाह्वयाः । नाम्न्यकर्त्तरिभावे च द्व्यजजघ्न्यङ्णघाथुचः ॥ ६८ ॥ ;p{0469} स्युः कर्त्तरीमनिज्भावे को घोः किः प्रादितोऽन्यतः । द्वन्द्वेऽश्ववडवावश्ववडवं तत्समाहृते ॥ ६९ ॥ बर्होछदे बर्हिरग्नौ ब्रीहिभेदे तु हायनः । मस्तुः सक्तौ वर्हिवव्रे स्यादच्छः स्फटिकेऽपि च ॥ ७० ॥ नीलो मणौ रवौ मित्रस्तलस्तालचपेटयोः । कोणेऽश्रिश्चषकोऽशोको नाभिः क्षत्रियवेधसोः ॥ ७१ ॥ इति पुंसः प्रकृतयः स्युरेतेऽथ नपुंसकम् । तलस्तु तालसंयुक्तो रुजुपान्तं ततः पुनः ॥ ७२ ॥ वेधआदीन्विना सान्तं द्विस्वरं मन्नकर्त्तरि । धनरत्ननभोऽन्नानां मनसो घुसृणस्य च ॥ ७३ ॥ शुभावद्यहृषीकाणां शुक्लस्य जलपुष्पयोः । दलांशुकमनोदारुविलपिच्छधनुर्युधाम् ॥ ७४ ॥ सुखदुःखत्वचरुचहलताल्वस्थिहिङ्गुनाम् । भेषजागुरुसृक्काणामपि तुत्थकुसुम्भयोः ॥ ७५ ॥ शिलाभवान्तिकदृशां सिध्मवल्कलयोरपि । यकृन्मरिचनलदसौवीराणां तथाऽसृजः ॥ ७६ ॥ क्लोमधौतेयकद्वारफेनानां लवणस्य च । प्रसूनव्यजनस्थानद्रवन्नामानि यानि च ॥ ७७ ॥ ;p{0470} पुरसद्माङ्गयोः शीर्षछत्रयोः पुण्डरीकके । मधुद्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥ ७८ ॥ अपूर्वदैवकार्यादौ युगं दृष्टं तथा कटु । असेद्वृद्धः स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ७९ ॥ धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥ खलं भुवि तथा लक्षं वेध्येऽहःसुदिनैकतः । भूमौ संख्यात एकार्थे पथः संख्याव्ययोत्तरः ॥ ८१ ॥ द्वन्द्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणे । कृत्याः क्तान्ताः खलनिजभाव आत्वदिः समूहजः ॥ ८२ ॥ गायत्र्याद्यरारस्वार्थे व्यक्तमथानञ् कर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शाला विना सभा ॥ ८३ ॥ राजवर्जितराजार्थराक्षसादेः पराऽपि च । आदा उपक्रमो यज्ञे कन्थोशीनरनामनि ॥ ८४ ॥ सेनाशाला सुराछायानिशंचोर्णा शशात्परा । भाभूणो गृहतः स्थूणा संख्याऽदन्ता शतादिका ॥ ८५ ॥ शालूकपुष्पकानूकमौक्तिकानां त्रिकस्य च । छात्राकशल्कचिबुककुतुकानां ततोऽपि च ॥ ८६ ॥ ;p{0471} माक्षिकालीकधान्याकतोकानां सौप्तिकस्य च । तित्तिडीकक्लीतकयोः कञ्चुकोलुकयोरपि ॥ ८७ ॥ माध्वीकनिम्बकल्कानां कवकालिकयोस्तथा । स्यान्नाटकभाणकयोस्तोटकाह्निकयोरपि ॥ ८८ ॥ हलीमकरूपकयोः खण्डकस्य ततः पुनः । स्याज्जालकवेणुकयोर्वैटिकान्वितयोरपि ॥ ८९ ॥ वास्तुकोपसूर्यकयोः कारकनिःशलाकयोः । प्रकीर्णकशीर्षकयोः कुहकमधुपर्कयोः ॥ ९० ॥ तद्वच्चित्तकरुचककुलकानां स्फिगस्य च । स्वलिङ्गाङ्गप्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥ ९१ ॥ बीजारिष्टघुटेष्टानां ललाटव्युष्टयोरपि । कृपाटपिष्टशृङ्गाटकरोटानां .............. ॥ ९२ ॥ ................................. तथा मोरटघृष्टयोः । .............. गोष्ठाण्डतुण्डानां प्रवणस्येरिणस्य च ॥ ९३ ॥ पिङ्गाणतीक्ष्णद्रविणपुराणानामृणस्य च । घ्राणपर्याणहरिणलवणानां शणस्य च ॥ ९४ ॥ परायणोऽल्पशरणकार्मणानां ततः पुनः । क्षुस्यधोरणभूतानां निशान्ताश्मन्तयोरपि ॥ ९५ ॥ ;p{0472} स्याद्वीतवृन्ततूस्तानां तुत्थवाहित्थयोरपि । गोधाछोदकुसीदानां कुसिदास्यदयोरपि ॥ ९६ ॥ वृन्दतुन्दपदानां च निम्नस्य शिल्पतल्पयोः । पुष्पान्तरीपकूर्माणां त्रिविष्टपपरीपयोः ॥ ९७ ॥ रूपस्य निकुरम्बस्य तद्वच्छुल्वकुटुम्बयोः । स्यात्तलभप्रसभयोस्तथैव युग्मतोक्मयोः ॥ ९८ ॥ सूक्ष्मस्य किलिमस्यापि तथैव तलिमेर्मयोः । तिग्माध्यात्मशुष्मधाम्नां शयनीयत्रिसन्ध्ययोः ॥ ९९ ॥ सायेन्द्रियकिशलयखेयद्रुवययोरपि । भयद्वापरयोः क्षेत्रसत्रयोरजिरस्य च ॥ १०० ॥ शृङ्गवेराम्रतीराणां पुष्करागारयोरपि । नागरोत्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥ ककुन्दरप्रान्तरयोः स्यादौशीरकुटीरयोः । अपि सिन्दूरमण्डूरशिविराणामरस्य च ॥ १०२ ॥ चामरक्रूरदूराणां स्यात्कलेवरवेरयोः । खुरोलूखलपातालयौतवानां दिवस्य च ॥ १०३ ॥ सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः । तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४ ॥ ;p{0473} शीर्षमन्दाक्षपीयूषकिल्विषाणां ततः परम् । तर्षजीषऋषाणां च काशीसस्य तथैव च ॥ १०५ ॥ ... काशीसवत्सानां तथैव साध्वसस्य च । महानससाहसयोः प्रियालोरपि सच्छ्रितः ॥ १०६ ॥ तुम्बरुस्वादुयातूनां मालुताल्वोरनन्तरम् । कसेरोश्च शलालोश्च ललामजगतोरपि ॥ १०७ ॥ भसत्संपत्ककुत्पर्वमहद्वृषत्पुरीतताम् । स्याद्रोम्णोऽह्न इतीहोक्ताः क्लीबप्रकृतयोऽथ तु ॥ १०८ ॥ पुंसि स्त्रियां च शङ्कुः स्यादङ्कस्थाने चतुर्दशे । निरये दुर्गतिः कक्षो दोर्मूले गर्त्त आकरे ॥ १०९ ॥ स्याद्वाणपिप्पलौ वृक्षे नाभिर्वृन्ते तु वर्ष्मणः । बलिरर्थविशेषेऽपि प्रधिर्नेमौ कुटो गृहे ॥ ११० ॥ श्रोण्यौषध्योः कटो मोहे भ्रमः कुम्भो घटेऽपि च । वृन्दागोलकयोः पिण्डः स्फुलिङ्गलेशयोः कणः ॥ १११ ॥ भकनीनिकयोस्तारो वराटो रज्जुशस्त्रयोः । भेऽश्लेषहस्तश्रवणाः मेरुजम्ब्वां सुदर्शनः ॥ ११२ ॥ यष्ट्यर्कांशुसमुद्रेषु तरणिर्भूपदेयके । भागधेयः करेणुस्तु करिणीकरिणोरपि ॥ ११३ ॥ ;p{0474} लाजावस्त्रदशाभूम्नी दायाः प्रत्ययभेदतः । अल्पाख्यापत्यवचनतद्धितस्तिन्दुकस्य तु ॥ ११४ ॥ चर्मप्रसेवकस्य स्याद्घुटिकस्य ततोऽपि च । शुण्डिकस्य सल्लंकस्य शल्यकस्याप्यनन्तरम् ॥ ११५ ॥ वृश्चिकस्य चुलुकस्य स्याद्धुडुक्कतुरष्कयोः । पिपीलकस्य शुङ्गौघलम्बानां भुजशाटयोः ॥ ११६ ॥ सृपाटसटकीटानां स्यात्किराटचपेटयोः । किटस्फटघटानां च तथा वर्वटकैटयोः ॥ ११७ ॥ फडचुडगुडानां च तथैव फणशाणयोः । वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥ ११८ ॥ विधकूपकलम्बानां जित्यस्य सहवध्रया । सहचरमुद्गरयोर्हीरस्य कृशरस्य च ॥ ११९ ॥ नालिकेरस्य शारस्य बहुकरकुठारयोः । स्यान्मसूरशफरयोर्वल्लरस्य ततः पुनः ॥ १२० ॥ कीलरालपटोलानां तथा कम्बलभल्लयोः । दंशगण्डूषरभसलालसानां ततोऽपि च ॥ १२१ ॥ विघसस्य वृत्तिकुटिवितस्तीनां कुटेरपि । ऊमीशमीमेथिमेधिमसीनां पाटलेरपि ॥ १२२ ॥ ;p{0475} मषीषुधृत्यहिजटिजाटलीनां सृणेरपि । मरीच्यशनिमौलीनां हलीकेल्योर्मणेरपि ॥ १२३ ॥ ईर्वार्ववटुसिन्धूनां मनोर्भृत्योरुरोरपि । लव्यणिश्रेणिपर्णीनां गव्यूती रश्मिवाचिनाम् ॥ १२४ ॥ पालिश्रोण्यरणीनां च विष्टिमुष्ट्योर्मुनेरपि । स्वातिशाल्मलियोनीनामाणिवस्त्योस्ततोऽपि च ॥ १२५ ॥ कर्कन्ध्वाखूहनूनां च कन्दुना सहगामिनाम् । इति स्त्रीपुंसप्रकृतिरथ स्त्रीक्लीबयोर्नखम् ॥ १२६ ॥ शुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि । षष्ठेऽङ्कस्थानके कल्पं क्रोडोऽङ्के तिन्दुकं फले ॥ १२७ ॥ यवाक्यं तरलं पुष्पे पाटलं तरलं च ये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥ अर्द्धपूर्वपदोनावाद्यनकर्त्तनटौ क्वचित् । चौराद्यमनोज्ञाद्यकञ् कथानककशेतके ॥ १२९ ॥ वक्रोष्ठिकवंशिकयोस्तथैव कचकुल्वयोः । पीठभक्तावहित्थानां सहैवाच्छोटनेन च ॥ १३० ॥ रशनारसनाभ्यां च शंवतुंव महोदयैः । मृगव्यकांस्यवीर्याणां वाष्पवाणिज्ययोरपि ॥ १३१ ॥ ;p{0476} स्याद्गात्रापरनासीरमन्दिराणां ततः परम् । मयूरकादम्बरयोः शस्त्रस्य नगरस्य च ॥ १३२ ॥ सक्षीरस्य तमिस्रस्य स्थालीकाहलयोरपि । कदलीयुगलीजालस्थलानां पित्तलस्य च ॥ १३३ ॥ गोलावडिशयोश्छर्दिजम्ब्वलावूषसामपि । गुणदामार्चिसदसां सरसां चोडुना सह ॥ १३४ ॥ तयडा मयडा तद्वदिति स्त्रीक्लीबयोरथ । पुंक्लीबयोरब्जसंख्ये तद्वत्पद्मोऽब्जसंख्ययोः ॥ १३५ ॥ कंसोऽपुंसि कुशो बर्हौ बालो ह्रीवेरकेशयोः । द्वापरः संशये छेदे पिप्पलो विटपोऽतरोः ॥ १३६ ॥ अब्दो वर्षे दरस्त्रासे कुकूलस्तु तुषानले । स्याज्जन्यस्तु परीवादे पर्यङ्के तल्प इत्यपि ॥ १३७ ॥ उष्णे धर्मस्तपो माघे हृदि वस्तो वरो भवेत् । तुल्ये गोले च भक्ष्ये च वर्णः शुक्लादिकेषु च ॥ १३८ ॥ अकारादौ संपरायो रणे लोणे तु सैन्धवः । भूतः प्रेते तमो राहौ शुक्रः स्यादग्निमासयोः ॥ १३९ ॥ स्वदायोकस्वरे कृच्छ्रं व्रते तु स्याच्छदे दलः । कर्पूरस्वर्णयोश्चन्द्रः स्यादृक्षश्चन्द्रयोषिति ॥ १४० ॥ ;p{0477} धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः । पाताले वाडवो वध्रः सीस आमलकः फले ॥ १४१ ॥ पिरजङ्गलसस्वातिपिटकामांसजन्तुषु । मधुपिण्डौ सुरातन्वौ नामसेवालमध्ययोः ॥ १४२ ॥ एकाद्रात्रः समाहारे तथा सूतकुकूलकौ । वलीकवैनीतकयोस्तद्वद्भ्रमरकस्य च ॥ १४३ ॥ वल्कवल्मीकमरककल्कानां पुलकस्य च । करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥ स्यान्मणिकस्तबकयोर्वितङ्कैडूकयोस्ततः । तटाकचूचकाभ्यां च तडाकेन सहैव च ॥ १४५ ॥ वालंकालकतङ्कानां निष्कतालकयोरपि । स्यान्मूलकफलकयोस्तिलकान्दुकयोस्ततः ॥ १४६ ॥ कोरकालीककरकपानकानां समन्ततः । विशेषकस्य चषककण्ठाकाभ्यां ततोऽपि च ॥ १४७ ॥ स्याच्छाटककुन्दुकयोर्नाकमञ्चकयोरपि । विटङ्कशाकयोः सत्रा मेचकेन ततोऽपि च ॥ १४८ ॥ पुस्तकेन पिभाकेन तथैव मुस्तकेन च । मस्तकस्य वर्णकस्य मुक्कमूषिकयोरपि ॥ १४९ ॥ ;p{0478} स्यान्मस्तिकमोदकयोस्तथा तरण्डकस्य च । स्याच्चण्डातकपिण्याकातङ्करोचककञ्चुकैः ॥ १५० ॥ समं चेरकशूकाभ्यां शङ्खस्य मखपुंसयोः । मुखस्य चाधिकाङ्गस्य संयुगस्य भगस्य च ॥ १५१ ॥ स्यात्पद्मरागायुगरुद्योगशृङ्गारयोस्ततः । टङ्गस्य च निदाघस्य कूर्चक्रकचयोरनु ॥ १५२ ॥ कवचार्द्धर्चयोः पुच्छकच्छाच्छानां व्रजस्य च । निकुञ्जोटजकुञ्जानां तथैवापुञ्जभूर्जयोः ॥ १५३ ॥ स्याद्धजमलयजयोः कालकूटारकूटयोः । स्यात्कवटकपटयोः खेटकर्पटयोस्ततः ॥ १५४ ॥ पिष्टलोष्टतुराणां च सहैव निकटेन च । मुण्डमण्डाण्डचूडानां दृढस्य श्रवणस्य च ॥ १५५ ॥ कार्षापणपक्वणयोर्वारवाणापराह्णयोः । वाणस्य कङ्कणद्रोणसुवर्णानां तृणस्य च ॥ १५६ ॥ दूषणस्वर्णवृषणव्रणानां भूषणस्य च । भाणत्रवरचूणानां किणतोरणयोरपि ॥ १५७ ॥ निकेतपूर्त्तयोस्तद्वद्युतप्रयुतयोरपि । पारताक्षतयोरैरावतक्ष्वेडितयोस्ततः ॥ १५८ ॥ ;p{0479} हस्तोपवीतपलितवृन्तानां दैवतस्य च । लोहितव्रतबुद्धानां वसन्तध्वान्तयोरपि ॥ १५९ ॥ मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च । द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६० ॥ गूथयूथमोथतीर्थपुलिन्दानां ततः पुनः । ककुदाम्बुदयोः कुन्दपदयोः ककुदस्य च ॥ १६१ ॥ पट्टदोहदयोर्नादमुदयोः छादकुन्दयोः । कुमुदायुधोत्सेधानां कवन्धश्रामयोरपि ॥ १६२ ॥ अन्धसौधौषधानां च राजादनवितानयोः । शिश्नचन्दनमौनानां गन्धमादनपीनयोः ॥ १६३ ॥ यौवनालग्ननलिनप्रस्फोटनपिधानयोः । पुलिनाशनयोस्तद्वदुदपानसमानयोः ॥ १६४ ॥ केतनासनयोर्वर्द्धमानस्य च दिनस्य च । ओदनस्थानयोस्तद्वच्छतमानविमानयोः ॥ १६५ ॥ हायनस्तेनमानानां तथैव धनमानयोः । मानताडनयोरस्तोद्यानयोर्निधनस्य च ॥ १६६ ॥ निपानवातायनयोरभिधानखलीनयोः । भुवनस्य रसोनस्य खलिनस्य ततोऽपि च ॥ १६७ ॥ ;p{0480} भवनस्यानुमानस्य लशुनस्य ततः पुनः । गृञ्जनस्यापि शयनद्वीपयोः कुतपस्य च ॥ १६८ ॥ चापावायस्तूपसूर्यकुणपानां तिपस्य च । विटपोडुपशष्पाणां मण्डपद्वीपयोरपि ॥ १६९ ॥ वष्पविष्टपयोश्चापि तथैव शफबिम्बयोः । डिंभजम्भकुसुम्भानां निभस्य कलभस्य च ॥ १७० ॥ ककुभस्यार्मघस्रामसंक्रमाणां हिमस्य च । कामहेमललामानामुद्यामोद्यमयोरपि ॥ १७१ ॥ संगमक्षामयोर्यूपतूर्ययोः समयस्य च । कम्बलिबाह्यमैरेयजन्यानां प्रचयस्य च ॥ १७२ ॥ हिरण्यारण्यसख्यानां राजसूयकषाययोः । स्याद्वाजपेयमलयशल्यानां वलयस्य च ॥ १७३ ॥ गोमयाव्ययकुल्यानां परिहार्यस्य चैव हि । कचियक्षत्रशिखरावराणां कूवरस्य च ॥ १७४ ॥ पारावारातिखरयोस्तद्वद्वस्त्रोपवस्त्रयोः । कूटालिंजरवेराणां मेढ्रहिञ्जीरयोरपि ॥ १७५ ॥ संसारतीरनीहारसूत्राणां तुवरस्य च । सहस्रवक्त्रनेत्राणां पत्रशृङ्गारयोस्तथा ॥ १७६ ॥ ;p{0481} केदारान्तरपद्राणां कर्णपूरपवित्रयोः । सीरान्धकारसमरवप्राणां विशरस्य च ॥ १७७ ॥ चक्रचुक्रकुलीराणां तुषाराङ्गारयोरपि । शिशिराडम्बरक्षीरकोटराणां ततोऽपि च ॥ १७८ ॥ ......... गह्वराणां तिमिरभ्राष्ट्रयोस्तथा । राष्ट्रकुञ्जरतक्राणां वारकर्पूरयोरपि ॥ १७९ ॥ जीरपञ्जरमञ्जीरजठराणां ततः परम् । युगन्धरनूपुरयोर्दुरोदरकुटीरयोः ॥ १८० ॥ अपि वासरकासारविहाराणां तथापि च । स्यात्कान्तारतोमरयोर्वप्रकेसरयोस्ततः ॥ १८१ ॥ करीरवज्रयोस्तद्वच्छेखरस्य पलस्य च । भालालवालभूलानां खलपल्वलयोरपि ॥ १८२ ॥ पलालमूलमुकुलचषालानां नानस्य च । विशालतैलतूलानां स्यात्कुद्मलतमालयोः ॥ १८३ ॥ कपालशैलकवलप्रवालानां चलस्य च । शवलोत्पलयोः शीलोपलयोर्मुसलस्य च ॥ १८४ ॥ मलशालातुलननकमलानां हलस्य च । कङ्कालहालाहलयोः सौवर्चलमधूलयोः ॥ १८५ ॥ ;p{0482} स्याद्धलाहलजम्बालवल्कलानां ततः पुनः । सहेन्द्रनीलगरललाङ्गूलैः खण्डलस्य च ॥ १८६ ॥ गाण्डीवगाण्डिवोल्वानां पार्श्वत्रिदिवयोरपि । भावारावपारशवशरावाणां शवस्य च ॥ १८७ ॥ क्लीबप्राग्रीवनिष्ठेवताण्डवानामथापि च । दैवपूर्वपल्लवानां लल्वकर्शांशयोरपि ॥ १८८ ॥ कुलिशाकाशकोशानां तथा कणिशकाशयोः । पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥ शेषरोहिषमाषाणां प्रत्यूषामिषयोरपि । पेषकोषकरीषाणां तथैव यूषकर्षयोः ॥ १९० ॥ वर्षावतंसमासानां विसविष्कसयोरपि । रसकर्पासपनसमासानां दिवसस्य च ॥ १९१ ॥ निर्यासांसोपवासानां मांसवीतंसयोरपि । चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥ तनूरुहस्नेहदोहलोहपुण्याहयोरपि । पटहस्याररिचटुकमण्डल्वणुलानुभिः ॥ १९३ ॥ कशिपुस्थाण्डजन्तूनां जीवातोश्च पलाण्डुना । सिन्धुदोस्तितऊनां च कम्बुना सह सक्तुभिः ॥ १९४ ॥ ;p{0483} कर्माष्ठीवद्गुरुदन्तोममहिम्नां नाम पक्ष्मणोः । धनुषः स्यादिति क्लीबपुंसयोः प्रकृतिस्थिताः ॥ १९५ ॥ स्वतस्थिलिञ्जेः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः शिम्बा खड्गपिधानयोः ॥ १९६ ॥ जीवः प्राणेषु केदारे वलजः पवने खलः । बहुलं वृत्तनक्षत्रपुराद्याभरणाभिधाः ॥ १९७ ॥ भल्लातकामलकयोस्तारकाठकयोरपि । हरीतकपिटकयोस्तद्वद्विभीतकस्य च ॥ १९८ ॥ विलिङ्गस्य स्फुलिङ्गस्य कपाटस्य पुटस्य च । वटवाटपुटानां च तटस्य शकटस्य च ॥ १९९ ॥ पटपेटकटानां च तथैव मठकुण्डयोः । नीडस्य च विषाणस्य तूणकङ्कतयोरपि ॥ २०० ॥ मुस्ताकुथेङ्गुदानां च जृम्भदाडिमयोरपि । पुरोदरप्रतिसरविवराणामतः पुनः ॥ २०१ ॥ पात्रकन्दरवल्लूरछत्राणां नखरस्य च । प्राणालनालकुवलमृणालानामथापि च ॥ २०२ ॥ स्याच्छृङ्खलमण्डलयोः पटलार्गलयोरपि । पूलकन्दलयोरित्थमवहेलस्य तत्पुनः ॥ २०३ ॥ ;p{0484} कलशस्य कटाहस्य रश्मिषष्ट्योरितीहदिक् । परलिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ २०४ ॥ अर्थान्ताः प्राद्यलंप्राप्ताः पदपूर्वाः परोपगाः । तद्धितार्थो द्विगुः संख्या सर्वनामतदन्तकाः ॥ २०५ ॥ प्रकृते लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित् । हरीतक्यादिप्रकृतिर्नलिङ्गमतिवर्त्तते ॥ २०६ ॥ वचनं खलतिकादिर्बह्वर्थोत्पत्तिपूर्वकम् । स्त्रीपुंनपुंसकानां तु सहोक्तौ परलिङ्गता ॥ २०७ ॥ कृतः कर्त्तर्यसंज्ञायां कृत्याः कर्त्तरि कर्मणि । अणाद्यन्तास्ते न रक्ताद्यर्थे नानार्थभेदकाः ॥ २०८ ॥ षट्सञ्ज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् । परं विधेये शेषे तु ज्ञेयं शिष्टप्रयोगतः ॥ २०९ ॥ कल्पद्रौ केशवकृते फलिते नाम सत्फलैः । स्त्र्यादीनामिति लिङ्गानां प्रकाण्डः सिद्धिमागतः ॥ २१० ॥ ;v{उपसंहारः} इति ह शब्दकल्पद्रुध्यसिकेशवनिर्मितः । भूर्भुवःस्वस्त्रिभिः काण्डैः संप्राप्तः सिद्धिमुत्तमाम् ॥ १ ॥ भ्रान्तेः पुरुषधर्मत्वं पांशुमत्वं क्षितेरिव । तच्छोध्यं लेखलेपाद्यैः स्वागारमिव पण्डितैः ॥ २ ॥ श्रमेणानेन मे देवो दक्षिणामूर्त्तिरीश्वरः । विबुधैः सकलैः सा(र्धं प्रीयतां भगवानजः?) ॥ ३ ॥ ;c{इति केशवकृतः कल्पद्रुकोशः समाप्तः ।}