;METADATA ;title{कोषकल्पतरु} ;author{विश्वनाथ} ;bookFullName{Kośakalpataru of Viśvanātha} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography 14-1, 19} ;editor{Madhukar Mangesh Patkar, K. V. Krishnamurthy Sarma} ;editorQualifications{Madhukar Mangesh Patkar, B.A., LL.B., Ph.D., Secretary Deccan College Sanskrit Dictionary Deptt. Poona; K. V. Krishnamurthy Sarma, Vyākaraṇa-Vidvān, Shastri, Deccan College Sanskrit Dictionary Deptt., Poona} ;publisher{Dr. H. D. Sankalia, for the Deccan College Post-Graduate and Research Institute, Poona 6} ;pressDetails{Printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay 2} ;publicationYear{Fascicule I in 1957 A.D. and Fascicule II in 1966 A.D.} ;dataEntryBy{Part 1 by Dr. Dhaval Patel, Part 2 by Mr. Pradeep Rastogi} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{KKTV} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Mr. Pradeep Rastogi for spending his valuable time to do data entry of the work. 4. Dr. Dhaval Patel for spending time to type and proofread the data. 5. Mr. Nagabhushana Rao of https://andhrabharati.com/ for providing an alternate digitized version of the text, which greatly helped the proof reading process.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{1. This text has a lot of numbering errors in verse numbers. We have not tried to correct them. they are left as they are in the printed text.} ;nymic{mixed} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{never} ;version0.0.1{13 June 2020} ;version0.0.2{11 December 2020} ;version0.0.3{11 December 2020} ;version0.0.4{12 December 2020} ;version0.1.0{12 December 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{[1b] ॥ श्रीमन्मङ्गलमूर्त्तिर्जयति ॥} ;c{॥ श्रीगुरवे नारायणाय श्रीरुक्मिणीजानये नमः ॥ श्री ॥} ;c{कोषकल्पतरुः} ;k{स्वर्गकाण्डः} ;v{परमात्मवर्गः} श्रीपीताम्बरमालम्बे निरालम्बावलम्बदम् । अजिष्णुमतयः शब्दब्रह्मरूपं वदन्ति यम् ॥ १ ॥ श्रीनारायणनामानमानम्य पितरं चिरम् । कोषकल्पतरुं कुर्मः शर्मणे कविसंसदः ॥ २ ॥ ;l{0005} रूपभेदात्साहचर्यात्समासाद्विधितस्तथा । समुल्लसल्लिङ्गभेदैः श्लेषादौ संशयच्छिदे ॥ ३ ॥ स्वरव्यञ्जनवैचित्र्यात्पृथक्पृथगुदाहृतैः । नामभिर्विलसद्वर्गशाखासर्गनिरर्गलः ॥ ५ ॥ अशेषकोषकृद्ग्रन्थशिष्टनामफलोचितः । ;l{0010} कोषकल्पतरुस्तोषं कवीनामेष धास्यति ॥ ६ ॥ शास्त्रानुशिष्टकविभाषितदृष्टमृष्ट- नानानवीनतरनामफलानि चिन्वन् । श्रीविश्वनाथकृतकोषसुकल्पवृक्षा- न्न क्षोभमेति सुकविर्नवभव्यकाव्ये ॥ ७ ॥ ;l{0015} रूढयौगिकमिश्रत्वैस्त्रिधा नामा[2a]नि निर्द्दिशेत् । अव्युत्पन्नानि रूढानि यथा स्याद्गोमतल्लिका ॥ ८ ॥ संबन्धगुणकर्माद्यैर्व्युत्पत्त्या यौगिकानि च । परिवृत्तिसहान्येतान्युर्व्वीशो भूपतिर्यथा ॥ ९ ॥ न सहन्ते परावृत्तिमिश्राणि न उदाहृतिः । ;l{0020} प्राक्पदं वडवाग्न्यादौ वार्निध्यादौ तथोत्तरम् ॥ १० ॥ परिवृत्तिं न सहते गीर्वाणादौ पदद्वयम् । तस्मात्कविपथं ज्ञात्वा नामानि परिवर्त्तयेत् ॥ ११ ॥ ;p{0002} त्रितये त्रिषु सर्वस्मिन्निति लिङ्गत्रयात्मकम् । द्वि द्वंद्वशब्दोपादाने पुंस्त्रीलिङ्गं समुन्नयेत् ॥ १२ ॥ ;l{0025} पुंलिङ्गमादि पुंशब्दैः स्त्रीलिङ्गं वनितार्थकैः । क्लीबं चरमषण्ढाद्यैः शिष्टं लिङ्गं निषेधनात् ॥ १३ ॥ काव्यादावप्रयोगेऽपि पुंस्त्वादेर्दैवतादिषु । वदन्ति तद्विना काव्यं साधुतेत्यनुशासनम् ॥ १४ ॥ परात्मा भगवान् हंसः पुरुषः स्यादजोऽव्ययः । ;l{0030} स्यादौपनिषदस्तत्त्वं ब्रह्माऽद्वैतं तद[2b]क्षरम् ॥ १५ ॥ ओमव्ययं तथाथ स्यान्मायाऽजा प्रकृतिः प्रसूः । प्रधानं बीजमव्यक्तमीशोऽसौ मायया वृतः ॥ १६ ॥ अविद्यासंवृते स्वात्मा क्षेत्रज्ञः पुरुषोऽतसः । इन्द्रश्च चेतनोऽध्यात्मं त्वव्ययं क्लीबमत्र तु ॥ १७ ॥ ;l{0035} भवे त्रिष्वाध्यात्मिकं स्यादात्मनीनं तु यद्धितम् । स्यादात्मनेऽथ क्षेत्रज्ञभिन्नोऽक्षेत्रज्ञ उच्यते ॥ १८ ॥ जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् । क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥ तमं तमः प्रमोहीति त्रयो मायोदिता गुणाः । ;l{0040} निमित्तं कारणं बीजमुपादानं निबन्धनम् ॥ २० ॥ हेतुर्नाऽथ द्वयोर्योनिर्निदानं त्वादिकारणम् । जन्यं कार्यं जन्म-जनुर्-जननान्युद्भवो भवः ॥ २१ ॥ ;p{0003} जनितासंभवौ जन्यौ तस्योत्पत्तिः जनिर्जनी । आजन्ममव्ययं क्लीबे जन्माभिव्यापिनीह तु ॥ २२ ॥ ;l{0045} आजन्मिकं भवेऽथान्तर्जन्मिकं मध्यजन्म[3a]जम् । संसारोऽस्त्री गर्भवासोद्भवः संसरणं तथा ॥ २३ ॥ पुंसि भूम्यसवो नित्यं प्राणा वातहृतौ पुनः । जीवो जिगत्नुः स्त्री जीवा जीवः प्राणनजीवने ॥ २४ ॥ श्वसितं श्वसनं श्वासस्सोऽन्तर्वदन आहरः । ;l{0050} अनोच्छ्वासौ बहिर्वक्त्रौ निःश्वासः पान एतनः ॥ २५ ॥ आयुः पुमानुकारान्तः सकारान्तं नपुंसकम् । पुंसि जीवितकालश्च पूर्णं तत्पुरुषायुषम् ॥ २६ ॥ आयुर्द्वयसमाहारे द्व्यायुषं त्र्यायुषं पुनः । आयुस्त्रयसमाहारेऽथायुष्यं तत्प्रयोजनम् ॥ २७ ॥ ;l{0055} आयुर्वृद्धिकरो यज्ञ आयुष्टोमः प्रकीर्तितः । आयुष्मान् जीवथो जैवातृकः स्याच्चिरजीवनः । जीवनीयं जीवहितं प्राणदं च रसायनम् । जीव्यं त्रिष्वथ जीवातुरस्त्रियां जीवनौषधम् ॥ २८ ॥ जातिर्जातं च सामान्यं व्यक्तिः स्त्री पृथगात्मता । ;l{0060} जीवात्मनो मनोग्राहिधर्माधर्मादयो गुणाः ॥ २९ ॥ चित्तेऽन्तः[3b]करणं मनोऽपि हृदयं हृच्चेतसी मानसम् स्वान्तं गूढपथोच्चलेऽलिगु तथाऽतश्चान्तरस्थोऽव्यये । ;p{0004} संकल्पो नरि मानमानसकृती चित्तस्थिरत्वं समा- धानं स्यादवधानवन्नरि मनस्कारो हृतं भोगवत् ॥ ३० ॥ ;l{0065} प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा । अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥ छन्दसा निर्मितं यत्स्यात् तच्छन्दस्यं विशेष्यवत् । मनोवाचोः पुनर्द्वंद्वे प्रोक्तं वाङ्मनसे इति ॥ ३२ ॥ मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथा ;l{0070} दुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् । मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम् निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥ मुमुक्षुः स्यान्मोक्षकामोऽपवृक्तस्तु स मुक्तिभाक् । वैरङ्गिको विरागार्हो योगो मोक्षस्य साधनम् । ;l{0075} ब्रह्मभूयं ब्रह्मभावो ब्रह्मसायुज्यमित्यपि ॥ ३४ ॥ [4a] चतुर्वर्गो मोक्षधर्मकामार्थैस्तैस्त्वमोक्षकैः । त्रिवर्गोऽथ चतुर्भद्रं तुर्यमत्र बलं यदि ॥ ३५ ॥ श्रायसं श्रेयसि भवं विशेष्यवदुदीरितम् । श्रेयः पुण्ये सूत्ततमं गोधर्मो न स्त्री पुंसि वृषः स्यात् । ;l{0080} धर्म्यं धर्मादनपेतं यच्चरति तु धर्मं धार्मिकमाहुः ॥ ३५ ॥ मङ्गलधर्मा मङ्गलधर्मोपेतो धर्मी धर्मयुतः स्यात् । धार्मिणमन्त्ये धर्मिसमूहे धार्मिक्यं स्याद्धार्मिकतायाम् ॥ ३६ ॥ ;p{0005} दुरितमशुभमंहः किल्बिषं पापमङ्घः कुकृत-कलुष-किण्वान्यत्र कृष्णैनसी स्तः । ;l{0085} अपि वृजिनतमोघं कल्मषं न्यङ्ककण्वा- णकमपि मलपङ्कौ पातकं कल्कमस्त्री ॥ ३७ ॥ पाप्म यज्ञाङ्गकौपीनं नृशंसं शमलाचमे तद्वति त्रिष्वप्यधर्म । अधर्मं यश्च चरति कथ्यतेऽसावधार्मिकः ॥ ३८ ॥ ;l{0090} कुल्मलं कश्मलं पाप्मा कष्टायमानो यः पापं कर्त्तुमुत्सहते स्वयम् ॥ ३९ ॥ कष्टायमानो गहनाय[4b]मानः सत्रायमाणो दुरितं चिकीर्षुः । कक्षायमाणश्च विशेष्यलिङ्गाः कृच्छ्रायमाणेन समार्थकाः स्युः ॥ ४० ॥ विधिर्विपाकोऽपि च तत्र चित्रा- ;l{0095} टीरः स्त्रियां स्यात्त्रिपतिर्नृकर्म । अदृष्टदिष्टे अपि भागधेय- भाग्ये च दैवं भवितव्यता च ॥ ४१ ॥ दैवं भवाद्येषु फलं तु दैवं सांदृष्टिकं तत्क्षणजं प्रदिष्टम् । ;l{0100} पुमानुदर्क्कः फलमुत्तरं स्याद् दिष्टं मतिर्यस्य स दैष्टिकः स्यात् ॥ ४१ ॥ व्युष्टिः फलं तदादौ तु सहसोपनते त्रिषु । भवेदजाकृपाणीयं काकतालीयमित्यपि ॥ ४२ ॥ ;p{0006} ऋद्धिः संपत् संपदास्त्राब्धिभूति- ;l{0105} र्भूतिर्लक्ष्मीर्वृद्धिसंपत्तिनन्दाः । पुंलिङ्गोऽयं स्याद्विधिर्यः शुभार्थो- ऽथापत्तिः स्यादापदापद्विपत्तिः ॥ ४३ ॥ आनन्द आनन्दथु-हर्ष-तोषाः आमोद-मोदौ प्रमद-प्रमोदौ । ;l{0110} स्युः संमदाह्लादमनःप्रसादाः मुत्प्रीतिवन्निर्वृतिरेवमेव ॥ ४४ ॥ रिष्टं हितं शर्म सुखं प्रियं च जोषं च कं शं मतमव्ययाह्वम् । त्रिष्वानु[5a]कूल्येन सुखादिकारी ;l{0115} प्रियाकरोऽसौ च सुखाकरश्च ॥ ४५ ॥ सुखप्रियाद्यास्तद्वत्सु कथिता मेघलिङ्गकाः । सुखायमानो यः स्वस्य भवेत्सुखनिवेदकः ॥ ४६ ॥ क्षेमंकरः क्षेमकरः क्षेमकारः प्रियंकरः । प्रियकारो मद्रकारो मद्रंकर इमे त्रिषु ॥ ४७ ॥ ;l{0120} क्लीबे दुःखमकं कलाकल अमानस्याऽऽमनस्ये तथा- ऽऽभीलं स्याद्गहनं प्रगाधमुदितं कष्टं च कृच्छ्रं समम् । तृप्रः सूतिजकक्षसत्रमसुखं पुंस्याधिरर्त्तिः स्त्रियाम् आबाधाऽपि च वेदना निगदिता पीडा च बाधा व्यथा ॥ ४८ ॥ प्रसूतिकालजा सा स्यादाविरावीः स्त्रियामुभे । ;l{0125} दुःखादयोऽपि तद्वत्सु कथिता मेघलिङ्गकाः ॥ ५० ॥ ;p{0007} कल्याणं कुशलं कल्याणं गोजागरिकं भाविकं च शुभम् । मद्रं भद्रं भन्दभन्दाके श्रेयो निःश्रेयसमपि भव्यम् ॥ ५१ ॥ कल्याणिनेयः कल्याण्यः अपत्ये भवति द्वयोः । सौनृतेयः सूनृताया भावे कल्याणको भ[5b]वेत् ॥ ५२ ॥ ;l{0130} मङ्गलसाधुनि मङ्गल्यं स्यान्माङ्गल्यं च स्याच्चरमे भावे । सौवस्तिकमुक्तं स्वस्ति-हित-प्रभृतावर्थे लिङ्गत्रितये ॥ ५३ ॥ क्लीबे तु भद्रंकरणं कृतिर्भद्रस्य या भवेत् ॥ ५४ ॥ कम्बः कम्भः कंय-कन्ति-कन्तु-कन्ताः सकंयवः ॥ ५५ ॥ शुभं घुशं च शंयवः ;l{0135} सशं भशं तशं तवः । सशं यशं तयो ह्यमी सुखिन्युदीरितास्त्रिषु ॥ ५६ ॥ प्रकाण्डमस्त्री नरि तल्लजोघौ मतल्लिका स्त्री च मचर्चिका च । ;l{0140} एते समासान्तगताः प्रशस्ता- वेकोऽपि चोद्यः सुदिनं वसु स्यात् ॥ ५७ ॥ ;c{॥ इति परमात्मवर्गः ॥ श्री ॥ श्री ॥} ;v{स्वर्गवर्गः} स्वर्गोर्गौस्तविषवरो हताविषोर्ध्व- लोकाः स्युः सुरनिलयः सुपर्वलोकः । ;l{0145} पुंसि स्याद्रमति भुतिर्युतोऽप्यृभुक्षो नाकोऽस्त्री त्रिदिवयुतो दिवा सह द्यौः ॥ १ ॥ स्त्रीलिङ्गाऽथ दिवसुखत्रिविष्टपानि क्लीबे स्वर्वदिह स्वरव्ययोऽस्ति । स्वर्ग्यं स्वः फलमथ तद्भवे च दिव्यम् ;l{0150} सौवर्ग्गं भवति [6a] सौवमन्यलिङ्गम् ॥ २ ॥ ;p{0008} दिवं प्रति प्रतिदिवं समीपेऽनुदिवं तथा । यथादिवं दिवस्तुल्ये दिविष्ठः स्वर्गसंस्थितः ॥ ३ ॥ देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाः गीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः । ;l{0155} आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाः स्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥ त्रिदशादितेयविबुधान्धसः सदिवोकसो मरभिदो दिवौकसः । नरि दैवतं क्वचन देवता स्त्रियाम् ;l{0160} आधिदैवजे परवदाधिदैविकम् ॥ ५ ॥ देवापत्ये दैवदैव्यौ देव्या दैवी स्त्रियामुभे । भवेत्सुमनसो गोत्रापत्ये सौमनसायनिः ॥ ६ ॥ सौपर्वं देवकीयं स्यादिदमर्थे सुपर्वणाम् । वृन्दिष्ठश्चापि वृन्दीया नाधिक्ये वाच्यलिङ्गता ॥ ७ ॥ ;l{0165} वृन्दारकाणां भावे तु वृन्दिमा स्यान्नृलिङ्गकः । देवासुरं देवदैत्यविरोधे स्यान्नपुंसकम् ॥ ८ ॥ देववर्गीय[6b]वद्देववर्गीणो देववर्ग्यकः । देवान्देवेषु चेत्यर्थे देवत्रादिकमव्ययम् । एवं बहुत्राऽशेषा स्त्री निर्माल्यं स्याद्दिविस्पृशाम् ॥ ९ ॥ ;l{0170} पिता तार्क्ष्यः कश्यपश्च मारीचिरदितीपतिः । बहुदन्त्यदितिश्च स्याद्विकुण्ठा च तथादिती ॥ १० ॥ ;p{0009} सूर्या विश्वे वसवस्तुषिता आभास्वरा हरा मरुतः । स-महाराजिकसाध्या गणदेवाः साधिकारकथिताः ॥ ११ ॥ विद्याधराः किंपुरुषाः पिशाचा ;l{0175} रक्षांसि यक्षाः सुरगाथकाश्च । कद्रूसुता गुह्यकसिद्धभूताः कान्ता दिवो दैवतयोनयः स्युः ॥ १२ ॥ विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित- श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः । ;l{0180} वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरो गोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥ विष्वक्सेन-पुराणपूरुष-जगन्नाथाऽजयेन्द्रानुजो- पेन्द्राऽधोक्षज-नन्दनन्दन-हृषीकेशा[7a] भरुः केशिहृत् । षड्बिन्दुः शतबिन्दु-मैन्ददमनौ शार्ङ्गी बलिध्वंसनश्- ;l{0185} चक्री कौस्तुभभूषणो नरकभित् कंसान्तकः साल्वहृत् ॥ १४ ॥ गदाग्रज-गदाधराऽज-विधुपुण्डरीकेक्षणा नरायण-चतुर्भुजाम्बुनिधिशायि-नारायणाः । त्रिविक्रम-सनातनौ स्मरकृदेधनू विट्ठलो मुकुन्द-वनमालिनौ कमलनाभ-दामोदरौ ॥ १५ ॥ ;l{0190} पृश्निगर्भ-शतधाम-बभ्रवो दैवकेय-यदुनाथ-वेधसः । वासुदेव-जलशायि-वासवः कैटभारि-मधुवैरि-जिष्णवः ॥ १६ ॥ पाञ्चजन्यधर-विष्टरश्रवो- ;l{0195} विश्वरूप-यमलार्जुनान्तकः । राहुभेदि-शिशुपालहृद्धय- ग्रीवहृच्छकटहृद्बलानुजाः ॥ १७ ॥ ;p{0010} शम्भु-वृषाकपि-शौरि-व्रजनाथाः पूतनारि-दाशार्हौ । पाण्डवपाता-पोता धृत्वा बाणान्तकः शतावर्त्तः ॥ १८ ॥ ;l{0200} कुमोदकः स्वर्णबिन्दुः सोमसिन्धुः पुनर्वसुः । जह्नुर्भूमिधरो धेनुकारिश्चाणूरमर्दनः ॥ १९ ॥ अपराजितगोपेन्द्रमायकोकाम्बुजेशयाः । कालीयदमनस्तद्वन्मुञ्जकेशी सु[7b]यामुनः ॥ २० ॥ वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः । ;l{0205} भूकश्यपोऽथ देवक्या वैकुण्ठा दैवकीत्यपि ॥ २१ ॥ स्यमन्तको हस्तमणिः कौस्तुभोऽस्योरसि स्थितः । आपादलम्बिनी माला वनमाला गले स्थिता ॥ २२ ॥ चक्रं सुदर्शनोऽस्त्री स्यान्नन्दयन्तस्तु नन्दकः । अस्यासिरथ शारङ्गं शार्ङ्गं च धनुरीरितम् ॥ २३ ॥ ;l{0210} शङ्खो हरेः पाञ्चजन्यो गदा कौमोदकी तथा । श्रीवत्सोऽङ्को भृगुपदं पुरं वैकुण्ठमुच्यते ॥ २४ ॥ सौपर्णेय-सुपर्ण-सर्पभुगहिद्विट्-तार्क्ष्य-वज्रानन- स्वर्गङ्गामृतहारि-काश्यपि-गरुत्मत्-सूरसूतानुजाः ॥ २५ ॥ तद्वच्छाल्मलि-वज्रजेतृगरुडा वीन्द्रः शिलौका विराट् ;l{0215} कामायुर्हरिवाह उन्नतिपतिः स्याद्वैनतेयस्तथा ॥ २६ ॥ हरिप्रियाऽम्भोनिधिजा....श्रीः लक्ष्मीन्दिरा पङ्कजमन्दिरा श्रीः । लक्ष्मीश्च लक्षी तरला रमानाम् आलोकमाता कमलाह्वया सा ॥ २७ ॥ ;l{0220} इन्द्री वृषाकपायी ई श्रायं [8a] श्रीदैवते त्रिषु । वैदर्भी रुक्मिणी कृष्णभार्या प्रद्युम्नसूरपि ॥ २८ ॥ सत्या तु सत्यभामाऽन्या मुरली तु पुरंदरा ॥ २९ ॥ ;p{0011} कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि- प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः । ;l{0225} पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि- मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥ मधुसारथि-र्मधुसखो मधुदीपो मदनः स्मरो मनसिजः कमनश्च । विषमाशुगः कुसुमकेतन-कन्तू- ;l{0230} रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥ इध्मः संकल्पजोऽनङ्गो-रागरज्जुरनन्यजः । कलाकेलिर्जराभीर्वङ्गजौ शृङ्गारजो गवः ॥ ३२ ॥ उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ ३३ ॥ ;l{0235} केलिर्नीचरतिः प्रीतिरेव स्यात्सम्बरो रिपुः । शूर्पकः सूर्पकश्चान्यो नन्दनो रिश्यकेतनः ॥ ३४ ॥ ऋष्यकेतु-र्विश्वकेतुरनिरुद्ध उषापतिः । आयायनो ब्रह्मसूः स्यादूषा तूषा च [8b] बाणजा ॥ ३५ ॥ मत्स्यादयस्तु हर्य्यंशा आदिमीनस्तु शङ्खहृत् । ;l{0240} वेदोद्धारकरश्चैव परिवर्त्तस्तु कूर्मराट् ॥ ३६ ॥ स्थिरदंष्ट्रो हिरण्याक्षच्छेदी श्वेतवराहकः । हिरण्यकशिपुच्छेदी प्रह्लादाह्लादकारकः ॥ ३७ ॥ नरसिंहः स्तम्भजन्मा वामनो बलिराज्यहृत् । उरुक्रमो भार्गवे तु रैणुकेयकुठारिणौ ॥ ३८ ॥ ;l{0245} जामदग्न्यः क्षत्रकालः शम्भुशिष्योऽर्जुनान्तकः । तक्षः परशुरामश्च रामः स्यात्पर्शुरामवत् ॥ ३९ ॥ कौसल्यासुत-रामचन्द्र-रघुपाऽहिल्याघहृन्मैथिली- नाथा दाशरथिर्दशास्यदमनो वाल्यन्तको राघवः । ;p{0012} रक्षोरिर्भरताग्रजोऽथ भरतः स्यात्केकयीनन्दनः ;l{0250} सौमित्रिस्त्विह लक्ष्मणो निगदितस्त्रैमातुरो लक्षणः ॥ ४० ॥ शत्रुघ्नो लवणारिः स्याच्चत्वारश्चारवा अमी । तातो दशरथः पङ्क्तिरथ इन्दुमतीसुतः ॥ ४१ ॥ कौशल्या रामजननी कैकेयी केकयी तथा । [9a]पार्थिवा पार्थिवी सीता शीता जनकनन्दिनी । ;l{0255} वैदेही मैथिला च स्यादस्याः पुत्रः कुशो लवः ॥ ४२ ॥ कुशीलवावेकदोक्त्या तावथोत्तरकोशला । अयोध्या रामनगरी साकेतं च नपुंसके ॥ ४३ ॥ बलि-बल-बलभद्र-कामपाल- प्रियमधु-सात्वत-राम-रेवतीशाः । ;l{0260} मधुमथन-पुरोज-नीलवासो- मुसलि-हलायुध-सीरपाण्यनन्ताः ॥ ४४ ॥ तालाङ्क-संकर्षण-रौहिणेयाः सौनन्दि-रुक्मिघ्न-कदम्बराश्च । प्रलम्बनाशी यमुनीविभेदी ;l{0265} सितासितैकश्रुतिभूषणौ च ॥ ४५ ॥ मुसलं त्वस्य सौनन्दं हलं संवर्त्तकं स्मृतम् । बुद्धोऽर्हन् सुगतोऽर्हन्तो मारजिल्लोकजिज्जिनः ॥ ४६ ॥ बोधिसत्त्वो महाबोधिर्धर्मराजस्त्रिकालवित् । पञ्चज्ञानो दशबलः षडभिज्ञस्तथागतः ॥ ४७ ॥ ;l{0270} समन्तभद्रः शास्तार्य्यो दशार्हो दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो दशमादमिताननः ॥ ४८ ॥ द्वादशाक्षो दयाकूरर्च्चस्त्रिकायः श्रीघनाकयौ । मुनिर्मुनीन्द्रः संगुप्तो धर्मधातुर्विनायकः ॥ ४९ ॥ ;p{0013} अद्वै[9b]तवादी भगवान् खजिद्विज्ञानमातृकः । ;l{0275} तायी गुणाकरो विश्वबोधः स्यात्कलिशासनः ॥ ५० ॥ जितारिश्चार्कबन्धुस्तु शाक्यसिंहोऽपि धीप्रजः । शौद्धोदनिः शाक्यमुनिः शाक्यो राहुलसूरपि ॥ ५१ ॥ मायासुतो देवदत्तो गोतमान्वयसंभवः । सर्वार्थसिद्धो वन्द्यस्तु श्रमणो भिक्षुरुच्यते ॥ ५२ ॥ ;l{0280} साधन्तश्च भदन्तश्च भग्नाटश्च दिगम्बरः । आजीवो मलधारी च निर्ग्रन्थः क्षपणस्तथा ॥ ५३ ॥ स एव जीवको जैनः श्रामणेयस्तु चेलुकः । खिङ्खरः स स्वनामष्टीः पैशुन्यं भैक्षजीविका ॥ ५४ ॥ स्यादार्हतो वादवादी शून्यवादी तु सौगतः । ;l{0285} बार्हस्पत्यः पुनर्लौकायतिको वेदनिन्दकः ॥ ५५ ॥ अर्हतो भाव आर्हत्यमार्हन्ती तु स्त्रियां भवेत् । कुण्डकीटस्तु चार्वाकवचनाभीज्ञपूरुषः । कल्की यवनसंहर्त्तेत्यवतारा हरेर्दश ॥ ५६ ॥ ;l{0290} ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाः शुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः । लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्- चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥ कमनः स्थविरः पितामहो ;l{0295} द्रुहिणोऽष्टश्रवणः पुराणगः । द्रुघणो भवहृद्विरञ्चनः स विरिञ्चः श्रुतिगर्भ-वेधसौ ॥ ५७ ॥ ;p{0014} परमेष्ठि-शतानन्द-विश्वसृड्विश्वरेतसः । सात्विको लाभभूरिष्णुर्धरुणः प्रपितामहः ॥ ५८ ॥ ;l{0300} प्रजापतिर्जगत्कर्त्ता धिषणश्चिषुणः सनात् । अजातौ त्वथ कुब्रह्मा कुब्रह्मः कुत्सिते विधौ ॥ ५९ ॥ महाब्रह्मो महाब्रह्मा देशनाम पुनर्यदि । सुराष्ट्रब्रह्मसौवीरब्रह्मौ स्यातां तदेति दिक् ॥ ६० ॥ कायं कदेवताकं स्यात्प्राजापत्यं भवादिषु । ;l{0305} स्वायंभुवं च दक्षस्तु मारिषेयश्च वैधसः ॥ ६१ ॥ मनोवती समाधातुः स्त्री सावित्री सरस्वती । सनत्कुमारस्तु सनात्कुमारश्च विधातृजः ॥ ६२ ॥ कृते स्तो ब्रह्मरुद्राभ्यां नाम्नि ब्राह्मक-रौद्रके । अजगोत्रापत्यमाज्यो द्वयोराजं भवेत्त्रिषु ॥ ६३ ॥ ;l{0310} [10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व- श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः । कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशा भूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥ पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो- ;l{0315} ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः । रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा- देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥ मृत्युंजयः पिङ्गजटोऽट्टहासी कैलासवासी च तथास्थिधन्वा । ;l{0320} कालान्तकः स्याद्भुजगेन्द्रभूषो महामहाभैरव उर्वृषाङ्कः ॥ ६६ ॥ ;p{0015} हिण्डीश-खट्वाङ्गधरोर्ध्वलिङ्गाः पिङ्गाक्ष-पूषारि-विषान्तकाः स्युः । विरूपदृग्धीरहिरण्यरेतः- ;l{0325} कृशानुरेतः-प्रियताण्डवाश्च ॥ ६७ ॥ भवः संभवः कृत्तिवासाः पिनाकी महाकाल-कालंजरौ वाहिर्बुध्न्यौ । पुरारि-र्गजाराति-भीष्मैकपादः कटाटङ्कवद्-रेरिहा-[11a]णोऽस्थिभूषः ॥ ६८ ॥ ;l{0330} महानरो महाव्रती गणेशनीललोहितौ । पयोदवाहनो वृषाकपिश्च खण्डपर्शुवत् ॥ ६९ ॥ शैवं पाशुपतं रौद्रं तद्भवादौ विशेष्यवत् । शतं रुद्रा देवन्तीति तस्य तच्छतरुद्रियम् ॥ ७० ॥ शतरुद्रीयमप्यस्य धनुष्यजगवं विदुः । ;l{0335} अजकावं चाजगवं तथाजकवमीरितम् ॥ ७२ ॥ अजीतकं च युग्यं च पिनाको न स्त्रियां भवेत् । कपर्द्दस्तु जटाजूटः खट्वाङ्गोऽस्त्री सुखं गुणाः ॥ ७३ ॥ शूलं तु त्रिशिखं पारिषद्याः स्युः प्रमथा गणाः । कुष्माण्डकः केलिकिलो नन्दितं.... ॥ ७४ ॥ ;l{0340} भृङ्गी भृङ्गिरीटि-र्भृङ्गरीटी नाडी शरीरकः । अस्थिकायोऽथ कैलासः सिताद्री रजताचलः ॥ ७५ ॥ वाराणसी वारणसी वाणारस्यपि काशिका । अविमुक्तं शिवपुरं दिवोदासपुरं च तत् ॥ ७७ ॥ महाश्मशानमानन्दवनं वाराणसेयवत् । ;l{0345} त्रिषु शैवपुरं तत्र ब्राह्म्याद्या[ः] सप्तमातरः ॥ ७८ ॥ ऐश्वर्यं भगमस्त्री स्याद्विभूतिरणिमादिका । लिङ्गं तु तस्य मूर्त्तिर्या पा[11b]षाणादिविनिर्मिता ॥ ८० ॥ ;p{0016} गौर्यामार्याम्बिकोमा-महिषविमथनी स्याद्भवानी मृडानी रुद्राणी मातृमाता भवति भगवती विष्णुमाया शिवा च । ;l{0350} दुर्गा शर्वाण्यपर्णा गणपतिजननी चण्डिका सिंहयाना मेनापुत्रीश्वरी चाऽसुररिपुभगिनी पार्वतीशेश्वरा च ॥ ८१ ॥ शिवशक्तिर्हैमवती मैनाकभगिनी सती । काली काला शिवा शैली दाक्षी कालजरा तथा ॥ ८२ ॥ दाक्षायणी हरिवृषा महादेवी कुमारिका । ;l{0355} हिण्डी वृषाकपायी स्यान्मङ्गला सर्वमङ्गला ॥ ८३ ॥ कात्यायनी शुम्भहन्त्री शक्तिः कुण्डलिनी च सा । कूष्माण्डी भूतनाथा च त्र्यम्बका च जयन्त्यपि ॥ ८४ ॥ अस्याः सिंहो मनस्तालः सख्यौ तु विजयाजये । चामुण्डा चर्चिका चर्ममुण्डा मार्ज्जारकर्णिका । ;l{0360} कर्णमोटी महामुण्डा भैरवी तु कपालिनी ॥ ८६ ॥ हेरम्ब-लम्बोदर-पर्शुपाणि- द्वैमातुरेभानन-विघ्नराजाः । शैवैकदन्ताखुग-वक्त्रशुण्ड- चण्डीसुताः पुत्र-विनायकश्च ॥ ८७ ॥ ;l{0365} मङ्गलमूर्त्ति-[12a]र्गणराट् सिद्धीशो बुद्धिदाता च । अङ्कुशधारी धूम्रध्वज-ढुण्ढीशौ सदादानः ॥ ८८ ॥ यद्दैवतं गणपतिस्तत्र गाणपतं त्रिषु । गाणपत्यं तु तत्स्वार्थ एवं क्षैत्रपतादयः ॥ ८९ ॥ स्कन्द-द्वादशदृग्-विशाख-शिवज-क्रौञ्चारि-षाण्मातुराः ;l{0370} स्वामी षा-षडाननौ शरभवः सेनापतिः शक्तिभृत् । सेनानी[ः] शिखिवाहनः शिखिभवः स्यात्कार्त्तिकेयो महा- सेनस्तारकजित्कुमार-गिरिजाभू-बाहुलेया गुहः ॥ ९० ॥ ;p{0017} महातेजा ब्रह्मचारी गाङ्गेयः क्रौञ्चदारणः । सैनापत्यं तु तद्भावे [स्कान्दः] स्कन्दसमेऽन्यवत् ॥ ९२ ॥ ;l{0375} इन्द्रे शक्र-शचीश-देवऋषभ-स्वाराट्-स्वराधीश्वरा जम्भाराति-पुलोमजिन्-नमुचिभित्-सुत्राम-गोत्रारयः । सुत्रामा बलभित् सहस्रनयनो वास्तोष्पतिर्वासवः स्युर्मेघंकर-मेघवाहन-हरि-प्राचीश-संक्रन्दनाः ॥ ९३ ॥ ऋजीको वृषा वृत्रहा स्यात्तुराषाण्- ;l{0380} मरुत्वान्-ऋभुक्षा विडौजा बिडौजाः । सुनासीर-जिष्णू शुनाशीर-वि[12b]ष्ण्व- ग्रजौ वज्रभृत्स्यात्तपस्तक्षकश्च ॥ ९४ ॥ मघवा मघवान्पुरंदरः पृतनाषाट्-पुरुहूत-कौशिकाः । ;l{0385} विजयन्तक-पाकशासनौ सह वृद्धश्रवसा दिवस्पतिश्च ॥ ९५ ॥ पुरुदंसा शतमन्युः शतमख-पूतक्रतू च दुश्च्यवनः । प्राचीनबर्हिराखण्डल-पर्ज्जन्याश्च बाहुदन्तेयः ॥ ९६ ॥ वरक्रतुश्चोग्रधन्वा हर्यश्वो हरिवानपि । ;l{0390} विभ्राट् स्त्री वल्मिरैन्द्रं तु सुनासीरीयमित्यपि ॥ ९७ ॥ सुनासीर्यं मरुत्वत्यं वास्तोष्पत्यं च तादृशम् । मरुत्वतीयं वास्तोष्पतीयं सौत्रामणं तथा ॥ ९८ ॥ महेन्द्रदेवताके स्यान्माहेन्द्रं च महेन्द्रियम् । महेन्द्रीयं माघवतं तथा माघवनं विदुः ॥ ९९ ॥ ;p{0018} ;l{0395} वार्त्त्रघ्नं स्याद्वार्त्त्रहणं वृत्रहा यस्य देवता । देवराजकृते दैवराजकं नाम चेद्भवेत् ॥ १०० ॥ अर्थेषु शैषिके तु स्यात्त्रितये दैवराजिकः । स्याद्दैवराजिका दैवराजिकीति स्त्रियां द्वयम् ॥ १०१ ॥ पूतक्रतायी त्विह चारुधारे- ;l{0400} न्द्राणी शची स्याज्जयवाहिनी च । पुलोमजा सैव [13a] शतावरी स्याद् अस्यात्मजः स्याज्जयदन्त ऐन्द्रिः ॥ १०२ ॥ पुमाञ्जयन्तश्च सुतानुताविषी स्याद्देवसेना तविषी जयन्ती । ;l{0405} कसोदरैरावण-मल्लनागास्- तथाऽभ्रनागोऽभ्रमुवल्लभश्च ॥ १०३ ॥ चतुर्दन्तः श्वेतगजः सुदामैरावतः पुमान् । प्रासादो वैजयन्तः स्याज्जम्भाद्यास्तपविद्विषः ॥ १०४ ॥ अश्वोरसं सप्तमुखो बिल उच्चैःश्रवा हयः । ;l{0410} सारथिर्मातलिर्ग्रीष्महासो वंशकफो ध्वजः । मरुध्वजश्चेन्द्रतूलं जर्जरं वृद्धसूत्रकम् ॥ १०५ ॥ इन्द्रायुधं मणिधनुर्दल्मिस्तत्त्वृजुरोहितम् । दीर्घिकैरावतं पूस्तु पूषभासाऽमरावती ॥ १०६ ॥ ;p{0019} सरो नन्दीसरस्तस्य देवनन्दी तु वेत्रभृत् । ;l{0415} न स्त्रियां वज्रकुलिशौ वज्राशन्यशनी द्वयोः ॥ १०७ ॥ भेदिर्भिदिश्च जसुरि-शम्ब-दम्भोलयः पविः । स्तः स्वरु-स्वरुषौ लम्ब-व्याधाम-शतकोटयः ॥ १०८ ॥ भिदुरं चरमे भिद्रं गौः पेषिर्ह्रादिनी च सा । भिदुर्ना कुलिशेन स्यान्निवृत्ते कौलिशायनिः ॥ १०९ ॥ ;l{0420} वाज्रे[13b]यश्चाथ कुलिशतुल्ये कौलिशिकं त्रिषु । स्फूर्जथुर्वज्रनिष्पेषो वज्रार्च्चिरतिभीः स्त्रियाम् ॥ ११० ॥ विमानोऽस्त्री व्योमयानं तत्र देवरथो भवेत् । चरन्ति ये विमानेन त्रिषु वैमानिका अमी ॥ १११ ॥ देवद्रोणी देवयात्रा वैभ्राजं नन्दनं वनम् ॥ ११२ ॥ ;l{0425} मन्दाकिनी सोमधारा स्वर्णदी सुरदीर्घिका । रन्तुः कपिलधारा जूः सीतासीता च सा मता ॥ ११३ ॥ पेयूषोऽस्त्री च पीयूषममृतं स्यात्सुधा बुधा । विश्वकर्मा सुकर्माऽथ त्वष्टा च सुरवर्द्धकिः ॥ ११४ ॥ महीमस्तको रत्नसानुः सुराद्रिः ;l{0430} सुवर्णाचलः कर्णिकाभूधरश्च । द्युशैलः सुमेरुस्तथैवात्र मेरुः सुधर्मा मघा चेन्द्रसंसत्प्रदिष्टा ॥ ११५ ॥ मेरोः कदम्बो भद्रः स्याज्जम्ब्वां द्वंद्वे सुदर्शनः । मेरौ जम्बूनदी प्रोक्ता देवालंकारफेनसूः ॥ ११६ ॥ ;l{0435} देवब्रह्मा नारदः स्यात्पिशुनः कलहप्रियः । देवलो वैष्णवश्रेष्ठो नारदाद्याः सुरर्षयः ॥ ११७ ॥ ;p{0020} स्वर्वैद्यावश्विनौ दस्रावाश्विनेयौ समुद्रजौ । नासत्यौ वडवापुत्रौ ना[14a]सिक्यौ रविजौ यमौ ॥ ११८ ॥ कल्पवृक्षश्च संतानो मन्दारः पारिजातकः । ;l{0440} हरिचन्दनमस्त्री स्यात्पञ्चैते सुरपादपाः ॥ ११९ ॥ स्त्री कामधुक्कामदुघा स्वर्गव्युत्तानचारिणी । हुहूर्हूहूर्हहाहाहाहहःप्रभृतयस्तथा ॥ १२० ॥ तुम्बर्वाद्याश्च गन्धर्व्वा गान्धर्वाः सुरगाथकाः । गातवश्वाथ बहुषु प्रायशोऽप्सरसः स्त्रियाम् ॥ १२१ ॥ ;l{0445} वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिः शोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः । सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि- स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥ विश्वप्सा नरि पावको हुतवहो हव्याशनो हव्यवाट् ;l{0450} स्युः पीतूशिगुषर्बुधा दमुनसा तुल्यो दमूना भुजिः । बर्हिःशुष्मणि बर्हिरुत्थ-धुवनौ ज्योतिश्च बर्हिः पुमान् शुष्मा धूमपताक-तुत्थ-तिमिरघ्नाः कृष्णवर्त्मोषपः ॥ १२४ ॥ आशुशुक्षणि-हिरण्यरेतसौ स्युर्जिगृध्न-वसु-जातवेदसः । ;l{0455} प्लुक्षि-घासि बहुलास्त[14b]नूनपाज्- जागृविश्छगलगस्तनूनपाः ॥ १२५ ॥ इषिरस्तिथशुष्णौ च राजन्यो जुहुराणवत् । वाशिर्दक्षिणपूर्वेशः शमीगर्भो धनंजयः ॥ १२६ ॥ कृपीटयोनि-र्विश्वप्सू रोहिताश्वो विरोचनः । ;l{0460} विभावसु-बृहद्भानु-मन्त्रजिह्वा वृषाकपिः ॥ १२७ ॥ ;p{0021} शुष्माप्पित्ते वाडवौर्वौ सिन्ध्वग्नि-र्वडवामुखः । संवर्त्तकोऽथ दह्रः स्याद्दवो दावो च संग्गिलः ॥ १२८ ॥ कर्षू-छागण-कारीषा मेघज्योतिरिरंमदः । स्कन्धाग्निः स्थूलकाष्ठाग्निः कुकूलोऽस्त्री तुषानलः ॥ १२९ ॥ ;l{0465} मुर्म्मुरः स्यादथालातोल्मुके अङ्गारमस्त्रियाम् । त्रिषु स्फुलिङ्गश्च कणः संकरोऽग्निचटध्वनिः ॥ १३० ॥ शिखा-हेत्यर्चयो ज्वालकीलौ द्वंद्वेऽर्चिरादियुक् । झाला झलक्का चण्डार्च्चिरुल्काऽलातभवेर्चिषि ॥ १३१ ॥ तेजोवती सभा वह्नेस्तर्क्कुः पुंस्यग्निभाजनम् । ;l{0470} हिरण्या कनका रक्ता सुप्रभा वा च कृष्णिका ॥ १३२ ॥ बहुरूपातिरक्तेति जिह्वाः सप्त हविर्भुजः । स्वाहा स्त्रियामव्ययं चाप्यग्नायी वह्निवल्लभा ॥ १३३ ॥ संतापः[15a] संज्वरो दाहो पुंस्यूष्मा बाष्पमस्त्रियाम् । धूमोऽम्भःसूर्वायुवाहोऽग्निवाहोऽग्निध्वजः स्तरीः ॥ १३४ ॥ ;l{0475} खतमालोऽब्दवाही च धूम्या स्त्री धूमसंहतिः । रक्षा भूतिश्च भसितं पर्वटं भस्म चार्वटम् । गृहधूमो धुन्धुमारस्त्रिष्वाग्नेयं भवादिषु ॥ १३५ ॥ अग्नौ स्थितः स्यादग्निस्थो बर्हिष्ठो बर्हिषि स्थितः ॥ १३६ ॥ अग्नेः सोमस्य च द्वंद्वेऽग्नीषोमौ परिकीर्त्तितौ । ;l{0480} तथाग्नीवरुणावग्नाविष्णू अग्नामरुत्समौ ॥ १३७ ॥ ;p{0022} आग्नावैष्णवमेवं स्यादग्नीषोमीयमित्यपि । अग्नीषोम्यं तद्वदग्नीवारुणं दैवतादिषु ॥ १३८ ॥ अग्नामरुद्देवताकमाग्निमारुतमुच्यते । कृशानुशब्दवत्सूक्तं स्यात्कृशानवकं तथा ॥ १३९ ॥ ;l{0485} धौमीयं धूमनिर्वृत्तं धूमदेशे तु धौम्यकम् । पुमपत्ये द्वयोर्धौम्यः स्त्रियां धौमी तथा त्रिषु ॥ १४१ ॥ भास्वनो पुंस्यपत्ये स्यात्भासावयन्यथा भवेत् । भास्वायना बहुत्वे स्युरग्न्युत्पाद उपाहितम् ॥ १४२ ॥ कीनाशः शमनो यमः पितृपतिः कालः कृतान्तोऽन्तकः ;l{0490} धूमोर्णारम[15b]णो विशीर्णचरणो वैवस्वतो धर्मराट् । कालिन्दीसहजो दिनेशतनुजो मृत्युर्हरिः प्रेतराट् स्यात्सांज्ञायनिरन्तकृच्च समवर्त्ती दक्षिणाशापतिः ॥ १४३ ॥ श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः । यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥ ;l{0495} धूमोर्णा स्त्री संयमनी पूर्द्वाःस्थो वेधकोऽस्य च । दासौ चण्डमहाचण्डौ कायस्थश्चित्रगुप्तकः ॥ १४५ ॥ जातुधानो यातुधानो राक्षसो नरविष्वणः । हनूषः कौणपश्चातुर्द्दशोऽन्त्ये यातुरक्षसी । कापिशेयः पीडकः स्याद्याम्या यमभवा त्रिषु ॥ १४६ ॥ ;l{0500} क्रव्यात्कर्बुर-कर्बरौ कुणपभुग्रात्रिंचरो रात्र्यटो दर्वो रात्रिमटोऽस्त्रपोऽश्रप इह स्यादाशिरश्चाशरः । शङ्कुः पुण्यजनो नृचक्षसि मतौ क्रव्याद-कर्बूरकौ प्रोक्ता नैर्ऋत-नैकषेय-रघुपद्वेष्या भवेदूर्दरः (?) ॥ १४७ ॥ ;p{0023} पौलस्त्यो दशकन्धरो दशमुखो लङ्केश्वरो रावणो ;l{0505} रक्षोराडनरण्यजिद् रघुपतिद्वेषी जटाय्वन्तकः ॥ १४८ ॥ लङ्का तस्य पुरी सुवर्णनगरी [16a] मन्दोदरी सुन्दरी पुत्रे रावणि-लक्ष्मणारि-बलभिज्जिन्-मेघनादा अपि ॥ १४९ ॥ माताऽस्य केकसी कुम्भकर्णस्तस्य सहोदरः । राक्षसासुरयोर्वैरे क्लीबे रक्षोसुरं भवेत् ॥ १५० ॥ ;l{0510} यादःपति-र्वारिपतिः प्रचेताः पाश्यम्बुकान्तार-परंजनाः स्युः । प्रत्यक्पतिर्वो वरुणोऽर्णवौका आभोग एतस्य तथातपत्रम् ॥ १५१ ॥ भार्यास्य वरुणानी स्यात्सभा कृष्णाञ्जना मता । ;l{0515} पाशोऽस्य नागपाशः स्यात्पुरी श्रद्धावती सुखा ॥ १५२ ॥ मरुन्-मरुत-मारुत-श्वसन-गन्धवाहानिलाः समीर-समिराशुग-क्षिपणवोऽङ्कतीश्चाञ्चतिः । समीरण-सदागती वहति-शुक्षि-वाताहतिर्- नभस्वति महाबलः पवन-धूक-वीकाभृमिः ॥ १५३ ॥ ;l{0520} गन्धवहः पवमानः पृषदश्व-वहन्त-मातरिश्वानः । वायु-प्रभञ्जन-जगत्प्राण-नभःश्वास-सर्पकान्त-सृकाः ॥ १५४ ॥ सृदाकुराध्यश्च शुनश्चलः शारो धवाणकः । प्रकम्पनः कम्पलक्ष्मा स्पर्शनो दैत्यनिर्जरः ॥ १५५ ॥ लघट् क्षित्वा-जगच्चा[16b]थ झञ्झासौ चण्डवृष्टिकः । ;l{0525} स्यात्करीषंकषा वात्या पवाका व्राजिरित्यपि ॥ १५६ ॥ वायोरिदं वायवीयं वायव्यं वायुदैवतम् ॥ १५८ ॥ ;p{0024} प्राणापान-समानोदान-व्यानाः शरीरगा मरुतः । हृदये पायौ नाभौ कण्ठे सर्वे च विष्ठिताः क्रमशः ॥ १५९ ॥ जिगत्नुः प्राणवायुः स्यान्मर्क्कः सर्वशरीरगः । ;l{0530} भूवायुरावहः प्रोक्तो बहिर्द्वादशयोजनैः ॥ १६० ॥ संचरन्नयमम्भोदविद्युदाधारको मतः । तदूर्ध्वं प्रवहस्तत्र नक्षत्रग्रहसंस्थितिः ॥ १६१ ॥ तदूर्ध्वमुद्वहस्तस्मात्संवहः सुवहस्ततः । तस्मात्परिवहोऽत्रैव सुरस्रोतस्विनीस्थितिः ॥ १६२ ॥ ;l{0535} परावहस्ततोऽप्यूर्ध्वं सप्तवाह्याः समीरणाः । तुरो जवो रयो वेगः प्रसरः स्यद-वाजवत् ॥ १६३ ॥ क्लीबे तु रंहस्तरसी अथ शीघ्रं लघु द्रुतम् । त्वरितं सत्वरमरं तूर्णमाश्वविलम्बितम् ॥ १६४ ॥ पुलाकश्चपलं क्षिप्रं झम्पासंपातपाटवम् । ;l{0540} अजस्रं नित्यमनिशमश्रान्तं सततं तथा ॥ १६५ ॥ संसक्त-सततासक्ताविरतानारतानि च । तथा[17a]ऽनवरतं क्लीबेऽथात्यर्थे स्याद्भृशं दृढम् ॥ १६६ ॥ अतिमर्यादमुद्गाढं गाढं बाढं च निर्भरम् । नितान्तैकान्ततीव्राणि निःसीममतिमात्रवत् ॥ १६७ ॥ प्रकाममतिकामं च निकामं चातिवेलवत् । ;l{0545} अतिरेकभरोत्कर्षातिशया अतिशायने ॥ १६८ ॥ क्षेपिष्ठः क्षेपीयान् क्षिप्रोत्कर्षे विशेष्यलिङ्गः स्यात् । साधिष्ठः साधीयान् बाढोत्कर्षेऽथ साधिमा भावे ॥ श्रीदो वैश्रवणो धनेश-धनदाविच्छावसुर्यक्षराट् ;l{0550} पौलस्त्यस्त्रिशिराः कुहो हरसखो यक्षोऽवलक्षोदरः । रक्षोराण्-नरवाहनो निधिपतिः कैलासगः किंनर- स्वामिन्यैलबिलः पिशाचकि-बक-श्रेष्ठैकपिङ्गा अपि ॥ १६९ ॥ ;p{0025} रत्नकरो नरधर्मा नाडीजङ्घश्च गुह्यकाधीशः । गदितश्च राजराजः किं च कुबेरस्तथोत्तराशेशः ॥ १७० ॥ ;l{0555} पुष्पकमस्य विमानं तनयौ नलकूबरो मणिग्रीवः । केलिवनं चैत्ररथं धानपतं तद्भवेऽन्यस्मिन् ॥ १७१ ॥ पुरी वस्वौकसाराऽस्य तस्यामेवालका प्रभा । यक्षो बकः [17b] पुण्यजनः पिशाचो भूतमस्त्रियाम् । ...............गुह्यकस्तु वटान[श्र]यः ॥ १७२ ॥ ;l{0560} विद्याधरः कामरूपः कटप्रूः स्थिरयौवनः ॥ १७३ ॥ स्यात्किंनरः किंपुरुषो हयास्यो मयुश्च किंनार इहोपदिष्टः । क्लीबे निधानं नरि शेवधिः स्यान्- निधिः कुनाभिश्च नवास्य भेदाः ॥ १७४ ॥ ;l{0565} महापद्मश्च पद्मश्च शङ्खो मकर-कच्छपौ । मुकुन्द-कुन्द-नीलाश्च खर्व्वश्च निधयो नव ॥ १७५ ॥ ;c{इति स्वर्गवर्गः ॥ १ ॥} ;v{व्योमवर्गः} व्योमाम्बरं पुष्करमन्तरिक्ष- मत्रान्तरिक्षे सरकोऽस्त्रियां खम् । अनन्तमाष्ट्रं गगनं वियच्च ;l{0570} नभो नभाकं नभसो नभश्च ॥ १ ॥ ;p{0026} अवपुर्वृजनं दिवं मुरा- रिपदं देवपथो घनाश्रयः । भपथो द्युरिसाव्ययं [?] भुवर्- नरि चाकाशविहायसी उभे ॥ २ ॥ ;l{0575} मातृ[ता]शब्दगुणः क्लीबं द्यौदिवौ स्त्रियौ । त्रिषु तारकितं व्योम यदि संतततारकम् ॥ ३ ॥ देवपथप्रतिकृतौ [?] पुंसि देवपथो भवेत् । यदभ्रमिव तत्राभ्र्यमभ्रियं त्वभ्रसंभवम् ॥ ४ ॥ उदवाह-बलाहक-मेघ-घन- ;l{0580} स्तनयि[18a]त्नु-सरण्यु-नभःकरिणः । नुदनुर्मुदिरो वनजो गगन- ध्वज-वारिध्वजाम्बुद-वारिमुचः ॥ ५ ॥ जीमूतोऽभ्रचरो गडेर-सरटौ धाराधरः कंधरो । नभ्राडभ्र-तमाल-सानुग-नभो-धूमाश्च धूमोद्भवः ॥ ६ ॥ ;l{0585} पर्जन्यो गडयन्तकः सलिलभृत्तद्वत्तडित्वान्मरुद्- दारुः पुंसि पयोधसाभ्रमयुगे स्त्रीपुंसयोर्वार्मसि[ः] ॥ ७ ॥ घनाघनो वर्षुकोऽसावुदमेघोऽथ[?] मेघ्यं मेघभवे । कादम्बिनी मेघमाला स्यात्काली कालिका च सा ॥ ८ ॥ पुष्करावर्त्त-शङ्खाङ्ग-कालकान्ति-जलप्लवाः । ;l{0590} ताडित्वनं मुचां वंशे मेघध्वान्ते तु दुर्दिनम् ॥ ९ ॥ वार्द्दलं च द्वयोर्गर्जः परिघोषो घनध्वनिः । स्तनितं रसितं क्लीबे समे गर्जितगर्जने ॥ १० ॥ ;p{0027} शम्पा सम्पा विद्युदम्भोदवल्ली सौदाम्नी सौदामिनी ह्रादिनी च । ;l{0595} सौदामन्याकालिकाकालिकी स्यात् सर्जूर्वीणा च छटाभा तडिच्च ॥ ११ ॥ क्षणप्रभा च क्षणिका चञ्चला च शतह्रदा । ऐरावत्यशनिर्द्वंद्वे वृष्टिः स्त्री वर्षमस्त्रि[18b]याम् ॥ १२ ॥ वर्षप्रमाणे सति गोःपदादि- ;l{0600} पूर्त्त्याऽव्ययं गोःपदपूरमत्र । स्याद्गोःपदप्रं च तडागपूरं तथा तडागप्रमनव्ययं च ॥ १३ ॥ ............... नल्लः पुंसि तदन्तरम् । रंहसा प्रोच्चलद्वारिनिःस्वने घर्घरो नरि । ;l{0605} आसारो घनधारः स्याद्वर्षो वर्षोपले पुनः । पयोघनो रोधरङ्कुस्तोयडिम्भो घनोपलः ॥ १४ ॥ मेघास्थि बीजोऽब्धिकफः करका स्यात्त्रिलिङ्गका । पृष्वा तु स्यात्स्त्रियां धाराङ्कुर-शीकर-सीकराः । वातास्तमप्यथावर्षेऽवग्राहोऽवग्रहमथ । ;l{0610} अन्तर्द्धिर्व्यवधिः पुंसि स्त्र्यन्तर्धा व्यवधाऽपिधा ॥ १५ ॥ अपिधानं पिधानोऽस्त्री तिरोधानापवारणे । स्थगनं व्यवधानं च छादनं स्त्री तिरोहितिः ॥ १६ ॥ स्त्री दिग्दिशा ककुप्काष्ठा हरिदाशाथ सा यदि । तत्क्षणं रविणा मुक्ता भवेदङ्गारिणी तदा ॥ १७ ॥ ;l{0615} आसन्नगमना भानोः सा भवेच्च प्रधूमिता । रविणाधिष्ठिता दग्धा दिश्यं तु त्रिषु दिग्भवे । ;p{0028} दिशोऽपत्ये[19a] तु दैशेयोऽन्यदाशान्या भवेत्ककुप् । क्लीबाव्ययं त्वपदिशं विदिक्प्रदिगिमे समे । अन्तरालं विचालं च स्त्रियामभ्यन्तरान्तरे । ;l{0620} त्रिषु मध्ये चक्रवालं मण्डलं च त्रिलिङ्गकम् ॥ २० ॥ इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः । धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥ ऐन्द्री प्राची पूर्वा दक्षिणपूर्वा तथाग्नेयी । याम्या त्वगस्तिपूताऽपाची स्याद्दक्षिणाऽवाची ॥ २२ ॥ ;l{0625} स्यान्नैर्ऋती दक्षिणपश्चिमाह्वा स्यात्पश्चिमा या वारुणी शिहयेत् [?] प्रतीची । सामीरणी तूत्तरपश्चिमा स्यात् कौबेर्युदीची च तथोत्तरा स्यात् ॥ २३ ॥ प्रागुत्तरा दिगैशानी प्राच्यं प्राग्दिग्भवं त्रिषु । ;l{0630} अपाच्यं दाक्षिणात्यं स्यात्प्रतीच्यं पाश्चिमं समम् ॥ २४ ॥ उदीच्यं स्यादुदग्ग्रस्तं प्राचिका प्राग्दिगर्विका [?] । ऊर्ध्वाधरे दिशौ क्वापि ब्रह्मविष्ण्वधिदैवते ॥ २५ ॥ पीलुमूलेनैकदिग्यात्राव्ययं पीलुमूलतः । ऐरावतः पुण्डरीको वामनः कुमु[19b]दोऽञ्जनः । ;l{0635} पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ २६ ॥ ;p{0029} अभ्रमुः कपिला तद्वदङ्गदा पिङ्गला क्रमात् । तथाऽञ्जनावती ताम्रकर्णी स्याच्छुभ्रदन्तिका । तथैवानुपमा प्रोक्ता क्रमाद्दिग्गजयोषितः । रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः । ;l{0640} बुधो बृहस्पतिश्चेति क्रमादेते दिशां ग्रहाः ॥ २७ ॥ सूर्यः स्यादरुणः सहस्रकिरणो भास्वान्विवस्वान्रविर्- भातुर्भानु-दिवाकरौ दिनमणिः प्रद्योतनो भास्करः । आदित्यः सविताऽर्यमा यमपिता पीतुः पतंगः खगः पारुः पेरुरिनो हरिश्च तपनोऽर्क्कस्तापनः स्वर्मणिः ॥ २८ ॥ ;l{0645} सप्ताश्वो मिहिरश्च शूर-महिरौ पीथो द्युवा दर्शतः भासन्तः सहुरिर्भुवन्यु-तपुषौ पूषा च दोषान्तकृत् । हंसो हेलिरहर्पतिर्ग्रहपतिः स्याद्भापतिर्गोपतिः । स्यूनोऽन्नः किरणोंऽशुमान्कमलिनीकान्तो भगोऽहस्करः ॥ २९ ॥ ब्रध्नोंऽशुर्दिवसप्रणीश्च तरणिर्मार्तण्ड-चण्डद्युती ;l{0650} मार्ताण्डोऽरुण[20a]सारथिर्दिनकरो मित्रो रथाङ्गप्रियः । अञ्जिष्ठोऽव्यथिषः-सरोरुहसुहृत्पृष्वस्त्रयीमूर्त्तिमान् ज्योतिर्वत्सरमूर्तिरम्बुजकरः सूरोऽप्यरूषः शुचिः ॥ ३० ॥ स्युर्द्वादशात्मनि विकर्तन-चित्रभानु- त्वष्टृ-प्रभाकर-विभाकर-पर्प्परीकाः । ;l{0655} सीरो विभावसु-विरोचन-कर्मसाक्षि- वास्यन्धकाररिपवो यमुनापिता च ॥ ३१ ॥ नासत्यतात-हरिदश्व-सहस्रपादः ;p{0030} संज्ञेश-कर्णजनकौ कराः कुषाकुः । किं चैकचक्ररथ-वासवबान्धवौ तत् ;l{0660} छायापसूर्मुरहयावपि लोकनेत्रम् ॥ ३२ ॥ पपीर्जिष्णुर्जगत्साक्षी गभस्तिर्गगनध्वजः । मन्देहारिर्दृशान[?]श्च कञ्जारो गगनाध्वगः ॥ ३३ ॥ प्रत्यूषाण्डः खतिलको जगद्दीपोऽम्बुतस्करः । वेदोदयः सहस्राङ्को रात्रिहृत्त्रिदशावृतः । ;l{0665} संवत्सररथः कालभृत्स्वा लोकप्रकाशनः । सूर्यस्य स्त्री देवता चेत्सूर्या सूरीतरा भवेत् । त्रिष्वतः सूर्यदेवत्यादित्या सौरी च ऋङ्मुखा ॥ ३४ ॥ ब्राध्नापत्यो ब्रध्नगोत्रापत्ये ब्राध्नायना[20b]जसि । आर्क्कायनिस्तु निर्वृत्ते भानवीयं तु तस्य यत् । ;l{0670} स्यान्माठर्यो माठरोऽथ दण्ड-पिङ्गल-माठराः ॥ ३७ ॥ स्युः पारिपार्श्वका भानोः संज्ञा छाया च तत्स्त्रियौ । परिवेषस्तु परिधिः परिवेशश्च मण्डलम् ॥ ३८ ॥ उपसूर्यकमप्यन्त्ये रेवन्तस्त्वर्क्कनन्दनः । प्लवगो हयवाहः स्यादरुणस्त्वर्कसारथिः ॥ ३९ ॥ ;l{0675} काश्यपिः प्लवगो वैनतेयो गरुडपूर्वजः । हम्रो[?]नूरुश्च सूर्येन्द्वोर्ग्रासे स्वर्भानुकेतुतः ॥ ४० ॥ उपप्लवो ग्रहश्चोपरागो ग्रहणमित्यपि । उत्पातस्तूपसर्गोपद्रवाविति स्त्रियां न तु ॥ ४१ ॥ ;p{0031} अजन्यमुपलिङ्गं चारिष्टमौत्पातिकं भवेत् । ;l{0680} पुष्पवन्तौ पुष्पदन्तौ पुष्पदन्ताभिधावपि ॥ ४२ ॥ एकयोक्त्या मतावत्र सूर्याचन्द्रमसावुभौ । सूर्यादौ संमुखे तीव्रे स्याल्ललाटंतपोऽन्यवत् ॥ ४३ ॥ कर-किरण-मयूखाभीषु-रश्म्यंशु-गावः शुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः । ;l{0685} उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः *****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥ छवि-द्युति-द्युद्रुचि-रुक्-त्विषि-त्विट् प्रभा-विभा-भायुजि दीप्तिरेव । ज्योतिर्विषो [?] धाम-महो-महार्च्चिर्- ;l{0690} वर्च्चांसि रोचिश्चरमे च शोचिः ॥ ४५ ॥ उद्यो[द्द्यो]तः प्रद्योतः प्रकाश आलोक आतपो घर्मः । भर्गस्तेजो द्योत्रं छाया स्यादातपाभावः ॥ ४६ ॥ स्याच्छारदः शारदिक आतपो यः शरद्भवः । तिग्मं तीक्ष्णं रौद्र-तीव्रे चण्डमुष्णद्रवाङ्कः [?] ॥ ४७ ॥ ;l{0695} उष्णंकरणमुष्णस्य करणे स्यान्नपुंसकम् । कोष्णं कवोष्णं मन्दोष्णं कदुष्णं च बहूष्णवत् ॥ ४८ ॥ उष्णकल्पं चोष्णदेश्यमुष्णदेशीयमित्यपि । तिग्मादि त्रिषु तद्वत्सु मृगतृष्णा मरीचिका ॥ ४९ ॥ शुक्रः सितो दैत्यगुरुर्मघाभूः ;l{0700} काव्यः कविः स्यादुशनाश्च धिष्ण्यः । स्यात्षोडशार्च्चिर्भृगु-भार्गवौ च तथाऽऽस्फुजिच्छुक्रभवं तु शौक्रि ॥ ४७ ॥ ;p{0032} शुक्रायास्तु स्त्र्यपत्ये स्याच्छौक्रेयी पुरुषे पुनः । शौक्रेयोऽथ द्वयोः शौक्रिर्यून्यपत्ये हि शुक्रजे ॥ ४८ ॥ ;l{0705} आषाढीयो मङ्गलो लोहिताङ्गो भौमो वक्रोऽङ्गारकः स्यान्नवार्च्चिः । आरो[21b]ऽषाढः पिप्पलादस्तुतश्च क्रूराक्षः स्याल्लोहितः खोल्मुकश्च ॥ ५० ॥ राहौ स्युर्ग्रहकल्लोल-सैंहिकेय-विधुंतुदाः । ;l{0710} अगु-स्वर्भानु-भरण-भारणाभ्रपिशाचकाः ॥ ५१ ॥ छायाङ्गोऽपि तमो मुण्डः कृष्णवर्त्मा तमोऽस्त्रियाम् । केतुः शिखी च विशिरा उत्प्लवो विकचोऽहिकः ॥ ५२ ॥ अश्लेषाभूः कबन्धः स्यादार्द्रालुब्धक अङ्घ्रिजः । छायापथो देवपथोऽपत्ये दैवपथायनिः ॥ ५३ ॥ ;l{0715} मन्दश्-छायातनयः पातंगि-क्रूरदृक्-शनयः । असित-शनैश्चर-नीलाम्बर-यम-सप्तार्च्चिषः कोणः ॥ ५४ ॥ रेवतः स्याद्रैवतिकः पङ्गुः क्रोडश्च कोलवत् । श्रुतश्रवोनुजो गृध्ररथः केकरलोचनः ॥ ५५ ॥ चन्द्रश्चन्दश्चन्दिरश्चद्रमाः स ;l{0720} इन्दुः सिन्धूत्थः सुधांशुः सुधासूः । तारापीडस्तारकेशो द्विजेशः । राजा सोमः पक्षजन्मा परिज्मा ॥ ५६ ॥ क्लेदा स्नेहात्रेयकोऽत्र्यक्षिजो ग्लौः तुङ्गीशः सोमैणलक्ष्मा शशाङ्कः । ;l{0725} श्वेताश्वोऽब्जः पर्वकृच्छर्वरीकृत् । विक्रस्रश्च कौमुदीशो विकुस्रः ॥ ५७ ॥ सुधानिधि-कलानिधी [22a] सवन ओषधीशो विधुः वलक्षगु-निशामणी तपस-रोहिणीवल्लभौ । ;p{0033} हिमद्युति-तमोनुदौ कुमुदिनीपतिः पारदो ;l{0730} हरिः कुमुदबान्धवो दशहयश्च जैवातृकः ॥ ५८ ॥ छायाङ्क-रत्नकर-दर्शविपच्छुभाङ्ग- लक्ष्मीसगर्भ्य-खिदिरामति-सारसोर्णाः । राकापतिर्ग्रहपतिस्तिजिलश्च सृप्रो गौरो नभश्चमस एणविशेषकश्च ॥ ५९ ॥ ;l{0735} तिथिप्रणीश्च पाथोब्धिनवनीतमिहामृतम् । प्रतिपच्चन्द्रमा मासप्रमितः परिकीर्त्तितः ॥ ६० ॥ सौमी स्यात्सोमदेवत्या सौम्या सोमीयमन्यवत् । चन्द्रातपश्चन्द्रगोली चन्द्रिका कौमुदी तथा । ज्योत्स्ना च षोडशोऽस्यांशः कलाऽसौ षोडशी ध्रुवा ॥ ६१ ॥ ;l{0740} अमा महाकला बिम्बस्त्वस्त्री स्यान्मण्डलं त्रिषु । नेमो ना खण्ड-शकल-खण्डलानि न योषिति । अर्द्धस्त्रिषु समेंऽशेऽर्द्धं भित्तं शल्कं दलं समम् । स्त्री फालिरर्द्धा तज्जादावथार्द्धपरिमाणके । अर्द्धिकः स्त्री त्वार्द्धिकास्या भवेच्चान्द्रार्द्धिकाह्नि च ॥ ६३ ॥ ;l{0745} भवेच्चन्द्रार्कं कुर्द्धकं सूर्यार्द्धकं तारार्द्धकं त[22b]था । पूर्वार्द्धं पूर्वमर्द्धं स्यात्पश्चार्द्धं त्वपरं हि तत् । पौर्वार्द्धिकं च पू[पौ?]र्वार्द्धं भवेत्पूर्वार्द्धसंभवम् ॥ ६५ ॥ पौर्वार्द्धिकस्तु पौर्वार्द्धो भवेद्ग्रामैकदेशके त्रिषु देशैकदेशेऽपि स्त्रियां पौर्वार्द्धिकी भवेत् ॥ ६६ ॥ ;l{0750} अंशः स्याद्वण्टको भागः पादस्तु स तुरीयकः । लक्षणं लक्ष्मणं लक्ष्म लाञ्छनं केतनोऽस्त्रियाम् ॥ ६५ ॥ ;p{0034} अभिज्ञानं चिह्नमङ्कः कलङ्कोऽथ प्रसन्नता । प्रसत्तिः स्त्री प्रसादो नाऽथो शोभा लवणा छविः ॥ ६६ ॥ आभाऽभिख्या विभूषा श्री-र्लक्ष्मी-कान्ति-द्युति-त्विषः । ;l{0755} राढा छाया विभ्रमो ना सुषमा परमा छविः ॥ ६७ ॥ वश्यायः स्यादवश्यायो नीहारोऽस्त्री तुषारकः । वियद्बाष्पेन्द्राग्निधूमौ निशास्वेद-निशाद्रवौ ॥ ६८ ॥ अवश्या मिहिका च स्त्री प्रालेयं तुहिनं हिमम् । **न स्त्री हिमानी तु धूमिका तु कुहेलिका ॥ ६९ ॥ ;l{0760} धूमरी धूममहिषी कुहरिर्दिग्वगुण्ठनम् । शिशिरं शीतलं शीतं सुशीतमहिमास्त्रियाम् ॥ तुषारं च जडं क्लीबे गुणे तद्वति भेद्यवत् । अस्ति यत्र[23a] हिमं तत्र हिमं हिम्यं भवेत्त्रिषु ॥ ७१ ॥ च्व्यर्थे क्त्वान्तकृञो योगे स्याच्छीतंकृत्य तत्र च । ;l{0765} शीतंकृत्वाऽप्यव्यये द्वे पद्धिमं पादयोर्हिमम् ॥ ७२ ॥ ध्रुव औत्तानपादिः स्याद्ग्रहाधारः सुनीतिजः । ज्योतीरथ्योऽप्यथागस्त्योऽगस्तिर्वातापिसूदनः ॥ ७२ ॥ आग्निमारुत आग्नेय और्वशेयो घटोद्भवः । भवेदुदयनो मैत्रावरुणिः सिन्धुपो मुनिः ॥ ७३ ॥ ;l{0770} द्वयोरगस्तयोऽगस्त्यगोत्रापत्येषु कीर्त्तिताः । निवृत्तेऽगस्तिनाऽऽगस्त्यमागस्तीयास्तु तस्य ये ॥ ७४ ॥ लोपामुद्रा तु वरदा सा स्त्री कौपा[शा?]तकी मता । मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ ७५ ॥ ;p{0035} वसिष्ठ एते स्युः सप्तर्षयश्चित्रशिखण्डिनः ॥ ७६ ॥ ;l{0775} वसिष्ठो गोभिनन्दी स्यादक्षमाला त्वरुन्धती ॥ ७७ ॥ भं नक्षत्रं धिष्ण्यमृक्षं तारावत्तारका त्रिषु । न पुंस्युडु ग्रहोऽथ स्यात्तज्जे नाक्षत्रभे त्रिषु ॥ ७८-७९ ॥ दाक्षायण्यश्चन्द्रकान्तास्तारा अश्वयुगादयः । अश्विन्यश्वकिनी दास्री वालिनी अश्वयुक्[23b] समाः ॥ ८० ॥ ;l{0780} त्रिषु जाते प्रत्ययान्ता वक्ष्यमाणास्तथा लुकि । अथाऽश्वयुक्चाश्वयुजोऽश्विनीजातस्तथाश्विनः । याम्या तु भरणी त्रय्यां तज्जे भरण-भारणौ ॥ ८१ ॥ कृत्तिका बहुला भूम्नि तज्जे बहुल-कार्त्तिकौ । ब्राह्मा[ह्मी] तु रोहिणी तत्र जाते रौहिण-रोहिणौ ॥ ८२ ॥ ;l{0785} रोहिणी त्वत्र जातायां सौम्यं तु मृगशीर्षकम् । न पुंसि स्यान्मृगशिरः स्त्रियां स्यादाग्रहायणी ॥ ८३ ॥ मृगो मार्गोऽथैतदूर्ध्वं ताराः सौम्येन्वकेल्वलाः । जातेऽत्र मार्गशिरसस्तथा मृगशिरा अपि ॥ ८४ ॥ आर्द्रा स्यात्कालिनी रौद्री तज्ज आर्द्रक उच्यते । ;l{0790} पुनर्वसौ यामकौ च सौरौ जातः पुनर्वसुः ॥ ८५ ॥ द्वयोः पुष्यस्तिष्यसिद्धौ[ध्यौ] बार्हस्पत्योऽप्यथात्रजे । तिष्यः पौषोऽथ तिष्यस्य पुनर्वस्वोश्च भूम्न्यपि ॥ ८६ ॥ इतरेतरयोगे स्यान्नित्यं द्विवचनान्तता । द्वंद्वे पुनः स्यादश्लेषा सार्थाऽश्लेषस्तु तज्जनिः ॥ ८७ ॥ ;l{0795} मघा पित्र्या भूम्नि जाते माघः स्यान्मघ इत्यपि । फल्गुनी भगदेवत्या पूर्वा तज्जस्तु फल्गुनः ॥ ८८ ॥ ;p{0036} तत्र जा[24a]ता यदि स्त्री स्यात्फल्गुनी सा निगद्यते । उत्तरा स्यादार्यमणी तज्जाते त्वौत्तरोत्तरौ ॥ ८९ ॥ रविदेवो द्वयोर्हस्तस्तज्जे हस्तोऽथ नृस्त्रियोः । ;l{0800} चित्रा त्वाष्ट्र्यथ तज्जा स्त्री चित्रा चैत्रो परो द्वयोः ॥ ९० ॥ स्वातिः स्वाती वायवी च सौवातः स्वातिरत्रजः । राधे विशाखे ऐन्द्राग्न्यौ विशाखस्तज्ज ईरितः ॥ ९१ ॥ मैत्री स्यादनुराधायामनुराधस्तु तज्जनिः । ऐन्द्री ज्येष्ठाऽथ तज्जातो ज्यैष्ठो ज्येष्ठश्च गद्यते ॥ ९२ ॥ ;l{0805} कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्कुरः । आश्रयो मूलमस्त्री स्यान्नैर्ऋत्यं मूलकोऽत्रजः । पूर्वाषाढाम्बुदेवत्या स्यादषाढाऽत्रजाङ्गना ॥ ९३ ॥ आषाढीयोऽपरोऽषाढो वैश्वदेवी मतोत्तरा । अभिजिद्विधिदेवत्यस्तज्ज आभिजितोऽभिजित् ॥ ९४ ॥ ;l{0810} अभिजिद्देवता यस्य स्यात्स आभिजितश्चरुः । भवेदाभिजितस्तद्वन्मुहूर्त्तोऽभिजिता युतः ॥ ९५ ॥ स उत्तराया अन्त्योऽङ्घ्रिः श्रवणस्यादिमोऽभिजित् । स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुति[24b]कर्णयोः ॥ ;c{इति रभसः ।} * * * श्रवणो द्वंद्वः श्रवणः श्रावणोऽत्रजः ॥ ९५ ॥ ;l{0815} श्रविष्ठा वसुदेवत्या धनिष्ठा वात्रजः पुनः । श्राविष्ठीयः श्रविष्ठश्च धानिष्ठोऽपि धनिष्ठवत् ॥ ९६ ॥ ;p{0037} स्याद्वारुणी शतभिषक्तस्यां शतभिषा शतः । अथो शतभिषग्जातः स स शातभिषो भवेत् । तथा शतभिषक्तस्मिन्स्याच्छातभिषजोऽपि सः ॥ ९७ ॥ ;l{0820} पूर्वोत्तरा भद्रपदा द्वय्यः प्रोष्ठपदा इमाः । अजैकपादहिर्बुध्नदेवतास्तत्रजः पुनः ॥ ९८ ॥ भवेद्भाद्रपदः प्रौष्ठपादः प्रौष्ठपदोऽपि च । रेवती पूषदेवी भनेमिस्तज्जा तु रेवती ॥ ९९ ॥ ध्रुवाणि भानि रोहिणी तथोत्तरात्रयं जगुः । ;l{0825} मृदूनि रेवती मृगः स मैत्रचित्रया युतः ॥ १०० ॥ क्षिप्राणि तान्यश्वकिनी च हस्तः पुष्योऽभिजिद्याथ मघा त्रिपूर्वा । याम्या तथोग्राप्यथ मूलमार्द्रा ज्येष्ठा हि दैवी च सुदारुणानि ॥ १०१ ॥ ;l{0830} स्वातिः श्रविष्ठा श्रवणः पुनर्वसू यादःपतेर्भं च चराणि निर्दिशेत् । मिश्राणि राधा बहुलेति सप्तधा भेदा उडूनां कथिता बु[25a]धोत्तमैः ॥ १०२ ॥ श्राविष्ठीय इलेशो ज्ञो रौहिणेयः प्रहर्षणः । ;l{0835} पञ्चार्चिर्बुध एकाङ्गश्चान्द्रिश्चान्द्रमसायनिः ॥ १०३ ॥ वाचस्पतिः सुरगुरुर्गुरुरङ्गिरोजो जीवो बृहस्पतिरुतथ्यकनिष्ठ इज्यः । स द्वादशार्चिरपि चित्रशिखण्डिजन्मा स्याद्दीदिविर्धिषण-गीर्पति-फल्गुनीजाः ॥ १०४ ॥ ;l{0840} प्र[च?]क्षाः प्रचक्षा वाग्वाग्मी [गी]रथश्च महामतिः । ;p{0038} रविरिन्दुः कुजः सौम्यो वागीश उशनाः शनिः । राहुः केतुश्चेति नव ग्रहाः खेटाश्च कीर्त्तिताः ॥ १०५ ॥ मेषादयो द्वादश राशयो भ- क्षेत्राभिधाना उदयस्तु तेषाम् । ;l{0845} लग्नोऽस्त्रियामर्द्धकमस्य होरा द्रेक्काणको लग्नतृतीयभागः ॥ १०६ ॥ मेषः क्रियोऽथ वृषभस्तावुरिनामाथ जितुमकं मिथुनम् । कर्क-कुलीरौ लेयः सिंहः कन्या तु पार्थो[थो]नः ॥ १०७ ॥ जूकस्तुलाथ कौर्पी वृश्चिकनामाऽश्वितौ क्षिकौ धनुषि । ;l{0850} आकोकेरो मकरो मृगोऽथ हृद्द्रुग्घटोऽथ मीनोऽन्त्यः ॥ १०८ ॥ मेषः कर्कटकस्तुला च मकरश्चत्वार एते चलाः गौः सिंहो [25b]लिघटौ स्थिराश्च मिथुनं कन्या धनुर्मीनकाः । एते स्युर्विनिसर्गका अथ पुमानोको हि राशिस्थलं संक्रान्तिर्भवति स्त्रियां रविगता चेदस्त्रियां संक्रमः ॥ १०९ ॥ ;l{0855} स्थिरभे विष्णुपदी स्यात्षडशीतिमुखं द्विशीलेषु । मेषे तुलासु विषुवद्विषुवं त्वस्त्री पुमांस्तु विषुणोत्र ॥ ११० ॥ कर्के दक्षिणमयनं मकरे तूत्तरमथांशकैः प्राक्चेत् । संक्रमणं तरणेः स्याच्चलसंक्रम ईरितस्तर्हि ॥ १११ ॥ संक्रान्तिध्रुवतारकेषु गदिता मन्दाथ मन्दाकिनी ;l{0860} मृद्वीषूडुषु राक्षसी तु कथिता क्रूरेषु घोराः पुनः । स्यादुग्रेषु महोदरीषु चरभे ध्वाङ्क्षी त्वसौ क्षिप्रभे मिश्रेषूडुषु मिश्रितेषु गदितास्ताः सप्तभेदा बुधैः ॥ ११२ ॥ ;c{इति व्योमवर्गः ।} ;p{0039} ;v{कालवर्गः} कालोऽमतिश्चायतिरप्यनेहा स वत्सरात्मा समयो भवन्तः । ;l{0865} पारुश्च पीयुर्जहकोऽपि जिव्रि- र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥ स्यात्कालकालः किल नित्य एष ईशात्मकोऽसाविति कालविज्ञाः । यावत्परार्द्धं स निमेष[26a]तोऽन्य- ;l{0870} स्तं वानुमिन्वन्ति दिनेशगत्या ॥ २ ॥ भूतो व्यतीतः स इहाव्ययं प्राक् पुमान्भवन्तिः स च वर्त्तमानः । तत्कालके त्वेकपदं तदात्वं भावी च भूष्णुर्गदिताऽयतिः स्त्री ॥ ३ ॥ ;l{0875} तात्कालिका तु तत्कालजाता तात्कालिकी त्रिषु । समयाकरणं कालयापनं न नरीरितम् । स्यात्कालिकं सामयिकं भवादौ काल्यं प्रकृष्टे त्विह कालिकं स्यात् । काल्यं तथा सामयिकं च तद्वत् ;l{0880} संप्राप्तकाले त्रिषु कालिकादि ॥ ४ ॥ स्याद्द्वादशारं किल कालचक्र- माधारषट्कं त्ववसर्पिणी स्त्री । उत्सर्पिणी स्यात्षडरा परे च बौद्धादिशास्त्रेष्वनयोः प्रचारः ॥ ५ ॥ ;p{0040} ;l{0885} लघ्वक्षरोच्चारणतुल्यमात्रः कालो निमेषो निमिषोऽपि पुंसि । द्वयोस्तुटिस्तौ दशभिस्तु ताभिः प्राणोऽथ षड्भिः किल तैर्विनाडी ॥ ६ ॥ पलं च न स्त्री गुरुवर्णषष्ट्या ;l{0890} षष्ट्या पलैः स्याद्घटिकात्र नाडी । साधारणी स्त्री तु न दण्डमाहुर्- मुहूर्तमेतद्द्वितयेन न स्त्री ॥ ७ ॥ पुंसि क्षणोऽश्वत्थ इह स्त्रि[26b]यां न सूर्यादिकानां भणितं मुनीनाम् । ;l{0895} काष्ठाः किलाष्टादशकैनिमेषैस्- तत्त्रिंशतः स्त्री गदिता कला* ॥ ८ ॥ त्रिंशत्कलाकः कथितः क्षणो ना ते षट् घटीत्युक्तिरहो परेषाम् । स्याद् घाटिकं नाडिकमन्त्यलिङ्गं ;l{0900} यन्त्रं घटाज्ञानकरं भवेद्यत् ॥ ९ ॥ घटिंधमस्त्रिषु भवेद्घटिकायन्त्रवादकः । अहोरात्रः पुंसि भवेद् द्युनिशं तु नपुंसके । अहोरात्रो मुहूर्तानां त्रिंशता परिकीर्त्तितः ॥ १० ॥ रौद्राभ्युदयिकौ श्वेतसर्पौ मित्राह्वमैत्रकौ । ;l{0905} पितृचारभटौ भानुवसू तौयाह्वविश्वकौ ॥ ११ ॥ ;p{0041} गान्धर्ववैश्वदेवौ च वेधाः कुतपमस्त्रियाम् । रौहिणो विधिरैन्द्रस्तु तिलको विभवः पुनः ॥ १२ ॥ ऐन्द्राग्नो निर्ऋतिर्नक्तंचरी वरुणसम्बरौ । अर्यमा विजयो योनिर्भग एते दिने क्षणाः ॥ १३ ॥ ;l{0910} शांकरश्चाजपादश्च तथाऽहिर्बुध्नमैत्रकौ । आश्विनो याम्य आग्नेयो वैधात्रश्चान्द्र एव च ॥ १४ ॥ आदितेयोऽथ जैवश्च वैष्णवः सौर एव च । [27a]ब्राह्मो नाभस्वतश्चेति मुहूर्त्ताः क्रमशो निशि ॥ १५ ॥ द्युर्वासकः[रः?] प्रतिदिवा नरि दण्डयाम- ;l{0915} सूर्याङ्क-घस्र-घसरा अपि वास्र-वारौ । *************** *** रोऽपि दिवसोऽह्नि दिवाव्यये स्तः ॥ १६ ॥ ओजस्यमोजसीनं च यदोजोयुगहर्भवेत् ॥ १६ ॥ अध्युष्ण्य(?)हर्दिवं क्लीबे पुण्याहं पुण्यवद्दिनम् । ;l{0920} सुदिनाहं प्रशस्तं तत्पुंस्येकाहोऽहरेककः ॥ १७ ॥ द्वयोरह्नोः समाहारे द्व्यह एवं त्र्यहादयः । द्वयोरह्नोर्भवो द्व्यह्नो द्व्यह्ना स्त्रीति विशेष्यवत् ॥ १८ ॥ द्व्यहीनो द्व्यहनिवृत्तो द्वैयह्निक इह त्रिषु । ;p{0042} सर्वाह्नः सर्वदिवसः संख्याताह्नो मितं दिनम् ॥ १९ ॥ ;l{0925} नक्तंदिवं तथा रात्रिंदिवं क्लीबे रतद्द्वि(र्द्धि)कम् । अहश्च दिनं तु न स्त्री स्याद्वासरे समार्थकम् ॥ २० ॥ सुप्रातं सुप्रभातेऽह्नि निवृत्तेऽह्नाऽह्निकं त्रिषु । आह्नं क्लीबेऽहर्गणः स्यादहोरूपं वरं दिनम् ॥ २१ ॥ क्लीबेऽव्ययं प्रत्यहं स्यादन्वहं तद्दिनं तथा । ;l{0930} त्रिषु प्रात्यहिकं दैनंदिनं चात्रसमुद्भवम् । रवीन्दु-मङ्गल-बुध-गुरु-भार्गव-सौरयः ॥ २२ ॥ सप्त वाराधिपास्तेषां नाम्ना रव्यादिवा[27b]सराः । स्याद्भवे संधिवेलायां सांधिवेलं त्रिलिङ्गकम् । प्रत्यूष-गोस-गोसर्गाः कल्यं काल्यमहर्मुखम् ॥ २३ ॥ ;l{0935} उषः-प्रत्युषसी व्युष्टं प्रभातं च विभातवत् । प्रगं क्लीबेऽव्ययं प्रातः प्रगे प्राभातिकं त्रिषु ॥ २४ ॥ प्रातस्तनं चौषसिकं काल्यिकं च प्रगेतनम् । उषस्यं स्यादुषोदैव्यं वैयुष्टं व्युष्टदानकम् । प्रातस्तन्म(?)श्चतस्रः स्याद्घटिका अरुणोदयः ॥ २५ ॥ ;l{0940} संध्या संधा च संधिर्ना सैव प्रोक्ता पितृप्रसूः । पुंसि प्राह्णश्च पूर्वाह्णो दिवामध्यं नपुंसके ॥ २६ ॥ माध्यंदिनावर्तने च मध्याह्नो अपराह्नकः । सायो विकालः सायाह्नमुत्सूरः सबलिस्तथा ॥ २७ ॥ सायमव्ययमस्मिंस्तु भवे सायंतनं त्रिषु । ;l{0945} आद्यन्तरं तेष्वह्नो वा त्रिसंध्या स्त्र्युपवैणवम् ॥ २८ ॥ ;p{0043} पूर्वाह्णतः संगवः स्यान्मुहूर्तत्रितयात्मकः । स एव मित्रदेवत्य इति श्रुतिविदो बुधाः ॥ २९ ॥ पूर्वाह्णिकं तु पूर्वाह्णेतनं प्राह्णेतनं भवे । प्राह्णः सोढो यस्य भवेत्स्यात्प्राह्णेतन एव सः ॥ ३० ॥ ;l{0950} पू[28a]र्वाह्णो यस्य सोढोऽस्ति स पूर्वाह्णतनस्त्रिषु । पूर्वाह्णकस्तत्र जातेऽथापराह्णेतनं तथा ॥ ३१ ॥ आपराह्णिकमेतद्भु जातार्थे त्वपराह्णकम् । अश्विन्यादियुते कालविशेषे सति भेद्यगः ॥ ३३ ॥ आश्विनो दिवसो रात्रिस्त्वाश्विनी दिनमाश्विनम् । ;l{0955} अथ कालाविशेषे स्यादघा(?)श्विन्यावमू त्रये ॥ ३३ ॥ अश्विन्यादि द्वंद्वभाजि विशेषे सति वाऽसति । अश्विनीभरणीयं स्यात्कृत्तिकारोहिणीयवत् ॥ ३४ ॥ राजनी(?) स्यात्तिष्यपुनर्वसवीयं न्यु(?)दाहृतिः । गताहः कल्यमन्त्ये ह्यः पूर्वेद्युर्मतमव्ययम् ॥ ३५ ॥ ;l{0960} तद्भु ह्यस्त्यं ह्यस्तनं च श्वस्त्रस्तरे(?)द्युसमेऽव्ययम् । शौवस्तिकं श्वस्तनवं श्वस्त्यं चैतद्भवे त्रिषु ॥ ३६ ॥ अपरस्मिन्नह्नि भवेदपरेद्युरथाधरे । दिनेऽधरेद्युरन्यस्मिन्नन्येद्युरितरं दिनम् ॥ ३७ ॥ इतरेद्युश्चाऽन्यतरेद्युस्तदन्यतरद्भवेत् । ;l{0965} उभयद्युस्तूभयेद्युरपरं तच्च परेद्यवि ॥ ३८ ॥ ;p{0044} पूर्वेद्युः स्यात्पूर्वदिनमुत्तरेद्युस्तदुत्तरम् । अस्मिन्दिनेऽद्याव्ययं स्यात्तद्भवेऽद्यतनं त्रिषु । [28b]निशीथिनी निषद्वरी विभावरी च *र्वरी । तमस्विनी च यामिनी स तन्यतुस्तमा तमी ॥ ३९ ॥ ;l{0970} निशान्धिका च सर्वरी तमीश्च शर्वरीनिशौ । उषा क्षपा च वाशुरा हिमांशुकामिनी तथा ॥ ४० ॥ श्यामा त्रियामा क्षणदा च रात्रिः स्याद्वासतेयी वसतिश्च तुङ्गी । उषा च दोषा रजनी च भौती ;l{0975} नक्तं तु दोषाऽव्ययमत्र रात्रौ ॥ ४१ ॥ ज्यौत्स्नी ज्योतिष्मती च स्याद्रात्रिश्चन्द्रिकया युता । तामसी तु तमिस्रा सायं धं(?)तमसंयुता ॥ ४२ ॥ यक्षरात्रिस्तु दीपाली रत्नाली दीपशृङ्खला । मृगनेत्रा पुष्यनेत्रा या मृगादिभनेत्रका ॥ ४३ ॥ ;l{0980} पक्षिणी स्त्री वर्तमाना * * हर्मध्यगा निशा । रात्रिद्वयस्य मध्यस्थं दिनमुक्तं च पक्षिणी । गणरात्रं निशावृन्दं गर्भकं रजनीद्वयम् ॥ ४४ ॥ रात्रकं पञ्चरात्रं स्यात्त्रिरात्रं रजनीत्रयम् । हिडिः स्त्रियां रजन्यां यत्क्रियते रक्षणं शिशोः । ;l{0985} प्रदोषो रजनीवक्त्रं निशीथस्त्वर्धरात्रकः । स्यात्सर्वावसरः पुंसि स्त्रियामत्र महानिशा ॥ ४५ ॥ ;p{0045} उच्चन्द्रोऽपररात्रः[29a] स्यादथ त्रिषु निशा भवेत् । स्यान्नैशिकं तथा नैशं तत्र दोषातनं भवेत् ॥ ४६ ॥ प्रादोषिकं तु प्रादोषं जाते त्वस्मिन्प्रदोषकम् ॥ ४७ ॥ ;l{0990} सायंप्रातिकमुद्दिष्टं सायंप्रातःसमुद्भवम् । द्वैरात्रिक-द्विरात्रीणौ निवृत्तौ यौ द्विरात्रतः ॥ ४८ ॥ त्रैरात्रिकस्त्रिरात्रीणः सरात्रिस्तुल्यरात्रिकः । कल्याणीपञ्चमा रात्र्यः कल्याणी यासु पञ्चमी ॥ ४९ ॥ द्वौ याम-प्रहरौ पुंसि यामिकं तद्भवे त्रिषु ॥ ४९ ॥ ;l{0995} द्वयोस्तिथिः कर्मवाटी तैथ्यं तु तिथिजे त्रिषु । उदयादौदयं शुद्धा षष्टिनाडीमिता तिथीः(थिः?) । विद्धा सायोदये पूर्वतिथ्या षड्दण्डमानया ॥ ५० ॥ संयुतास्तमये तद्वत्परतिथ्या युताऽथ वा । सायाह्नव्यापिनी या स्यात्संमुखा सा निगद्यते ॥ ५१ ॥ ;l{1000} नवाहः पुंसि वृद्धिः स्त्री प्रतिपत्पक्षतिर्भवेत् । वत्सरादिश्चैत्रशुक्ला साऽथ कार्त्तिकशुक्लगा । असौ बलिदिनं नावरात्रिकी त्विषशुक्लगा । सुमङ्गलपदा ब्राह्मी द्वितीया युग्मनामिका ॥ ५२ ॥ बला तृ[29b]तीया गौरी च चतुर्थी तु खलागणः । ;l{1005} पञ्चमी नागदेवी स्यात्तस्यां लक्ष्मीवती स्त्रियाम् ॥ ५४ ॥ स्कान्दी षष्ठी चातियशा मित्रा सौरी च सप्तमी । अष्टमी स्याच्च माहेशी भवेत्सासुर्महाबला ॥ ५५ ॥ नभःकृष्णाष्टमी * * * * कृष्णदिनं च सा । ;p{0046} रोहिणीसंयुता त्वेषा जयन्तीति निगद्यते । ;l{1010} महाष्टमीत्याश्विनस्य शुक्लपक्षगताष्टमी ॥ ५६ ॥ उग्रकर्मा तु नवमी दौर्गी च दशमी पुनः । धर्मिणी यमदेवत्या वैश्वी त्वेकादशी हरः । क्लीबे हरिदिनं नन्दा दशम्याः साऽरुणोदये ॥ ५७ ॥ सूर्योदये वा संयुक्ता विद्धा शुद्धाऽन्यथा भवेत् ॥ ५८ ॥ ;l{1015} बोधिन्यूर्जस्य शुक्ले सा शयन्याषाढशुक्लगा । वृद्धौ यशोवती द्वादशी स्यात्तस्यां हरितिथिर्मता ॥ ५९ ॥ एकादश्या त्रयोदश्या त्रिस्पृशा त्रिस्पृगन्विता । नन्दा परदिने वृद्धा भवेदुन्मीलिनीति सा ॥ ६० ॥ वृद्धौ वञ्जुलिनी पक्षवर्द्धिनी पर्ववृद्धियुक् । ;l{1020} पुष्ययुक्ता ज[30a]याऽथ स्याद्विजया श्रवणान्विता ॥ ६१ ॥ रोहिणीयुक् तु पापघ्नी जयन्ती स पुनर्वसुः । एकादशी द्वादशी च वैष्णवश्चापि तत्र चेत् । तद्विष्णुशृङ्खलं चाथ जयाऽऽनङ्गी त्रयोदशी ॥ ६२ ॥ उग्रा चतुर्दशी शैवी भौत्यमा*च पूर्णिमा । ;l{1025} पक्षान्तौ पञ्चदशौ तु स्त्रियौ सोमाधिदैवते ॥ ६३ ॥ ;p{0047} यज्ञकालौ पर्वणी तु क्लीबे अथ यदन्तरम् । चतुर्दशीपञ्चदश्योः पर्वमूलं तदस्त्रियाम् ॥ ६४ ॥ संधिः पर्व च पक्षत्या पञ्चदश्योः समागमः । अमावसी त्वमावासी स्यादमाऽमामसी तथा ॥ ६५ ॥ ;l{1030} अमावा(मा)स्यप्यमावास्याऽमावस्या दर्श आदिमे । सूर्येन्दुसंगमोऽप्यस्मिन्सा नष्टेन्दुकला कुहूः ॥ ६६ ॥ कुहुरिन्दुरिपुश्चोक्ता सिनीवाली तु सेन्दुका । अश्वत्था पूर्णिमा पूर्णमासा राका तु सा विधौ ॥ ६७ ॥ संपूर्णेऽथ कलाहीने भवेदनुमतिः स्त्रियाम् । ;l{1035} अथोपपौर्णमासं स्यात्तद्वच्चोपाग्रहायणम् । तथोपपौ[30b]र्णमासि स्यात्क्लीबे चोपाग्रहायणि । गुडापूपात्रादिमती सा गुडापूपिका भवेत् । कुल्माषाऽत्र तु कौल्माषी तथा वटकिनी भवेत् । अमावास्योऽप्यमावस्यस्तथामावास्यकस्त्रिषु ॥ ६८ ॥ ;l{1040} अमावस्यक एवं स्यादमाव(म)स्योऽप्यमाजनिः । अमावस्यश्च तत्रोक्त अमावास्या स्त्रियां भवेत् ॥ ६९ ॥ चित्रायुक्ता पौर्णमासी चैत्री ज्यैष्ठ्येवमादयः ॥ ७० ॥ श्रावणी श्रवणा च स्याद्दाण्डपाता तु फाल्गुनी । हुताशन्युत्सवः पुंसि होलाका तु हुताशनी । ;l{1045} स्याद्वसन्तोत्सवश्चैत्री कौमुदी कार्त्तिकी मता ॥ ७१ ॥ अश्वयुज्यामुप्तधान्ये स्यादाश्वयुजकं त्रिषु । प्रतिपत्प्रभृतीनां स्यात्तिथीनां पञ्चके क्रमात् । नन्दा भद्रा जया रिक्ता पूर्णाग्रेऽप्येवमुन्नयेत् ॥ ७२ ॥ नेष्टामध्येष्टदास्तिस्रस्तिथयः शुक्लपक्षगाः । ;l{1050} प्रतिपत्प्रमुखा इष्टमध्यनेष्टाश्च कृष्णगाः ॥ ७३ ॥ ;p{0048} युग्मास्ताः पक्षरन्ध्रः स्याद्द्वितीयां दशमीं विना । स्युर्विष्कंभादयो [31a] योगास्तिथ्यर्द्धं करणं भवेत् ॥ ७४ ॥ विष्टिस्तु भद्रा कल्याणी पञ्चाङ्गं धर्मलोचनम् । तिथि-वासर-नक्षत्र-योग-तिथ्यर्द्धपञ्चके ॥ ७५ ॥ ;l{1055} अहोरात्राः पञ्चदश पक्षः पक्षो(क्षं?) नपुंसकम् । सुद्यव्ययं सिते पक्षे कृष्णे तु बहुलो वदि ॥ ७६ ॥ मासोऽस्त्री नरि माः श्रामो वर्षांशः स्यादहर्गणः । दर्शावधिः स चान्द्रः स्यात्सौरः स्यात्संक्रमावधिः ॥ ७७ ॥ त्रिंशद्दिनः सावनः स्यान्नाक्षत्रो भगणक्रमात् । ;l{1060} असंक्रमोऽधिमासोऽसौ पापः षण्ढो मलिम्लुचः ॥ ७८ ॥ संसर्पः क्षयमासाद्यः प्राच्यः संक्रान्तिवर्जितः । क्षयमासो द्विसंक्रान्तिमासोऽहस्पतिरप्यसौ ॥ ७९ ॥ कार्त्तिकादित्रये स स्यात्तत्राब्दे द्वौ मलिम्लुचे । मासस्य पूरणे मासतमः स्याद्भेद्यलिङ्गकः । ;l{1065} अर्धमासतमश्चैव संवत्सरतमस्तथा । माघ्यादयो यत्र भवन्ति पूर्णिमा माघादिमासाः क्रमशः स्मृता अमी । माघ्ये तपा अस्त्र्यथ फाल्गुनः स्यात् स फल्गुनः फाल्गुनिकस्तपस्यः ॥ ८० ॥ ;l{1070} [31b]फाल्गुनाडश्च(श्चि)त्रिकस्तु चैत्रः पुष्पाकरो मधुः । राधमाधववैशाखा ज्येष्ठामूलीयकः पुनः ॥ ८१ ॥ ज्यैष्ठः शुक्रोऽप्यथ शुचिः पुंस्यषाढक इत्यपि । आषाढेऽथ श्रावणिकः श्रावणोऽत्र नभाः पुमान् ॥ ८२ ॥ ;p{0049} स्यान्नभस्यः प्रौष्ठपदो भाद्रो भाद्रपदः समः । ;l{1075} स्यादिषोऽश्वयुजोऽप्याश्वयुजोऽप्याश्विन इत्यपि ॥ ८३ ॥ स्यात्कार्त्तिकः कार्त्तिकिकः कौमुदो बाहुलोर्जकौ । सहः सहा मार्गशीर्षो मार्गः स्यादाग्रहायणः ॥ ८४ ॥ आग्रहायणिकश्चाथ तैषः पौषः सहस्यवत् । ऋतुस्तु प्रुष्वो मासाभ्यामृतव्यमृतुदैवतम् । ;l{1080} वसन्तश्चैत्रराधाभ्यामित्याद्या ऋतवोऽपरे ॥ ८५ ॥ उत्तरस्यां गतौ भानोस्त्रिभिस्तैः शिशिरादिभिः । उत्तरायणमादानं दक्षिणा तु रवेर्गतिः ॥ ८६ ॥ वर्गादिभिस्त्रिभिः पुंसि विसर्गो दक्षिणायनम् । कुसुमसम * * * कामबन्धुः क्षिपण्युः ;l{1085} सुरभिरिह वसन्तो * ष्मपुष्पाकरौ च । ऋतुपतिरबलाङ्गः स्यात्तु वास[32a]न्तमेतद्- भवमिह पुनरुप्तं तच्च वासन्तकं च ॥ ८८ ॥ एवं स्यात्पूर्ववासन्तं तत्पूर्वावयवोद्भवम् । भवेत्तु पौर्ववासन्तं यद्धि पूर्ववसन्तजम् ॥ ८९ ॥ ;p{0050} ;l{1090} वसन्ताधिकृतग्रन्थाध्येता वासन्तिकस्त्रिषु । हैमन्तिकः शैशिरिक एवं शारदिकोऽपि च ॥ ८९ ॥ ग्रीष्मो निदाघो दीर्घाहा ऊष्मा स्यादूष्म ऊष्मकः । उष्णोपगम उष्णश्च घर्मा पुंसि तपश्च सः ॥ ८९ ॥ त्रिषु ग्रैष्मं ग्रीष्मभवे तत्रोप्ते ग्रैष्मकं तथा । ;l{1095} कदम्बपुष्पी दीर्घाह्नी प्रावृट् स्त्री प्रावृषा तथा ॥ ९० ॥ वर्षा च वरिषा भूम्नि प्रावृषेण्यस्तु तद्भवे ॥ ९१ ॥ प्रावृड्जातं प्रावृषिकं साधु वर्षासु वार्षिकम् । कादम्बपुष्पिकं मैघागमिकं मैघकालिकम् । पुंसि मेघात्ययः स्त्री तु शरदा शरदा सह ॥ ९२ ॥ ;l{1100} शरद्युप्ताः पच्यमानाः पुष्यन्तो वापि शारदाः । स्याच्छारदः शारदिको यः शरत्कालजो गदः ॥ ९३ ॥ तज्जमन्यच्छारदं स्यात्प्रावृषेण्यादयस्त्रिषु । भवेच्छारदिकं श्राद्धं य[32b]च्छरत्कालसंभवम् ॥ ९४ ॥ हेमन्तः प्रसलो हेमा रौद्रोऽथैतद्भवे त्रिषु । ;l{1105} स्याद्धैमनं च हैमन्तमुप्तेऽप्येवं द्विरूपता ॥ ९५ ॥ शिशिरः स्यात्तपाः पुंसि शैषः शैशिरमत्रजम् ॥ ९६ ॥ संवत्सरो वत्सर-काल-पर्व- युगांशकाः शारदमासमासौ । अब्दोऽत्र वर्षं च न हायनः स्त्री ;l{1100} समाः स्त्रियां भूम्नि च वा शरदः स्त्री ॥ ९७ ॥ संवदव्ययमस्मिंस्तु पूर्वे पूर्वतरे य(स)ति । परुत्परार्यैषमः स्युः परुत्नं तद्भवे त्रिषु । परारित्नं चैषमस्त्यमैषमस्तनमित्यपि ॥ ९८ ॥ पञ्चषष्ट्युत्तरशतत्रया३६५हैः सौरवत्सरः । ;l{1115} एकषष्ट्युत्तरशतत्रयाहै३६१रेष धे(धै)षणः ॥ ९९ ॥ ;p{0051} शतत्रयात्षष्ट्यधिकाद्दिनानामेष सावनः । चतुःपञ्चाशदधिकत्रिशत्याह्नां स ऐन्दवः ॥ ९९ ॥ नाक्षर(त्र?)स्तु चतुर्विंशत्यधिकाहशतत्रयात् । चान्द्रास्तु वत्सराः षष्टिः प्रभवादिकनामभिः ॥ १०० ॥ ;l{1120} चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे । संपरीदान्विदित्येतच्छब्दपूर्वा हि वत्स[33a]राः ॥ १०१ ॥ अनुवत्सरतुल्यार्थ इन्दुवत्सर उच्यते । त्रिषु द्विसंवत्सरेणानिर्वृत्ताद्यर्थपञ्चके ॥ १०२ ॥ स्याद्द्विसंवत्सरीणो* द्विसांवत्सरिकस्तथा । ;l{1125} एवं त्रिसंवत्सरीणस्त्रिसांवत्सरिकादयः ॥ १०३ ॥ द्विवार्षिक-द्विवर्षीण-द्विवर्षाः स्युरचेतने । चेतने तु विशेष्ये स्याद्द्विवर्षो बालकादिकः ॥ १०४ ॥ समामभीष्टे भूते वा भृते भाविनि वा भवेत् । समीनो द्विसमीनस्तु स्याद्द्वैसमिक इत्यपि ॥ १०५ ॥ ;l{1130} द्विषाष्टिकस्तु द्वे षष्टी भूते भाविनि वा भवेत् । द्विसाप्ततिक एवं स्याद्द्विपञ्चाशत्क इत्यपि ॥ १०६ ॥ एवं द्विचात्वारिंशत्को भवेद् द्व्याशितिकस्तथा । शुक्लपक्षो नृणां पैत्री रात्री कृष्णस्तु तद्दिनम् । स्याद्दक्षिणायनं दैवी तद्दिनं तूत्तरायणम् ॥ १०७ ॥ ;l{1135} सत्यं कृतयुगं दिव्यवत्सराणां भवेदिदम् । चतुःसहस्राणि चतुःशत्या संध्यास्य संमता ॥ १०८ ॥ तावानेव च संध्यांश इतरेषु त्रिषु क्रमात् । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १०९ ॥ ;p{0052} [33b]त्रेता स्त्री द्वापरः पुंसि कलिस्तिष्यश्चतुर्युगी । ;l{1140} मनुष्याणां सुराणां तु तयैकं युगमुच्यते ॥ ११० ॥ दैवे युगसहस्रे द्वे ब्राह्मोऽहोरात्र इष्यते । स्थितिकालो ब्रह्मदिनं कल्पः पुंसि च संमतः ॥ १११ ॥ कल्पान्त-प्रलय-जगद्विनाश-कल्पाः संहार-क्षय-समसुप्तयो जिहानः । ;l{1145} संवर्त्तोऽपि च परिवर्त्तको युगान्तः स्त्रीलिङ्गा भवति महानिशाकरात्रिः ॥ ११२ ॥ दिव्यैकसप्ततियुगैः स्यान्मन्वन्तरमन्तिमे । तैश्चतुर्दशभिः काहस्तावद्भिर्ब्रह्मणो निशाः ॥ ११३ ॥ दैवज्ञो गणकस्तथा समयविन्मौहूर्त्त-मौहूर्त्तिकौ ;l{1150} ज्ञानी ज्यौतिषिको निमित्तविदसौ सांवत्सरो हौरिकः । स्तः कार्त्तान्तिक-पिण्डिलावथ भवेद्वैप्रश्निकः प्रश्नविद् आदेश्यैक्षणिको भवेत्पुनरयं सैद्धान्तिकस्तान्त्रिकः ॥ ११४ ॥ त्रयीलोचनं ज्योतिषं ज्यौतिषं स्यात् त्रिकस्कन्धशास्त्रं भवेद्धर्मदीपः । ;l{1155} मतं जातकं जन्मकालप्रवृत्तम् अवस्था स्त्रियां कालिकः स्याद्विशेषः ॥ ११५ ॥ ;c{[34a] ॥ इति कालवर्गः ।} ;v{धीवर्गः} बुद्धिः श्रद्धा प्रतिपदपि चिच्चेतना चोपलब्धिर्- ज्ञप्तिः प्रज्ञा भवति धिषणा शेमुषी धीर्मनीषा । ;p{0053} प्रेक्षा दृष्टिर्मतिरपि धरा वेदना विच्च संवित् ;l{1160} प्रज्ञानं तु स्फुरति चरमेऽथाऽव्ययं स्याद्विषा च ॥ १ ॥ कुशाग्रीयातितीक्ष्णा सा मेधा स्याद्धारणावती । तत्त्वाभ्यासभवा पण्डा प्रतिभा स्फूर्त्तिशालिनी ॥ २ ॥ धर्मचर्च्चा पुंस्युपाधिर्वितर्क्कः पुनरुन्नयः । विद्या ज्ञानं मतं मोक्षे विज्ञानं शिल्पशास्त्रयोः । ;l{1165} मतस्य साधनं मत्यं भेद्यलिङ्गमुदीरयेत् । परामर्षो विमर्षः स्याद्विचारोऽपि विचारणम् । संख्यानं च स्त्रियो गुञ्जा-चर्च्चा-संख्या-विचारणाः । उत्प्रेक्षा स्त्री पुमानूहस्तर्क्कोऽध्याहार ऊहनम् । संवेदानुभवौ तस्मिन्नुपलम्भश्च भेदना ॥ ४ ॥ ;l{1170} उपज्ञा ज्ञानमाद्यं स्याद्वासना-भावने स्त्रियौ । अनुभूताविस्मृतिः स्यात्संस्कारो नाथ निर्णयः ॥ ५ ॥ निश्चयो नरि निर्द्धारो नीकाशः संप्रधारणा । ना[34b]द्ये समर्थनाऽथ स्यात्परभागो गुणावधिः ॥ ६ ॥ विचिकित्सा द्वापरोऽस्त्री रेक-संदेह-संशयाः । ;l{1175} विकल्पो विशयः शङ्का वितर्क्को युतकं नयुक् ॥ ७ ॥ संशयालुः सांशयिकस्तथा संशयितान्यवत् । विवेचनं विवेकोऽथ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ८ ॥ मिथ्यादृष्टिर्नास्तिकताऽथाऽविद्याऽहंमतिः स्त्रियाम् । अज्ञानं चाथ ममता ममबुद्धिः सुतादिषु ॥ ९ ॥ ;p{0054} ;l{1180} वितण्डा पक्षहीना धीर्व्यापादो द्रोहचिन्तनम् । विमतिः प्रतिकूला धीरनुकूला तु संमतिः । विमतित्वं तु वैमत्यं वैमतं च नपुंसके । स्त्रियां विमतिता भावे पुमान्विमतिमा मतः । एवं पञ्चैव रूपाणि संमतेर्भाव ईरयेत् । ;l{1185} अङ्गीकारः संश्रवः स्यादस्तुंकारः प्रतिश्रवः ॥ १० ॥ आश्रवश्चाभ्युपगमोऽभ्युपायो नियमोऽपि सः । संगरो ना प्रतिज्ञाऽऽगूः संवित्संधा-तुरः (गुवः?) स्त्रियः ॥ ११ ॥ शुश्रूषा स्त्री श्रवणं क्लीबे ग्रहणं धारणमूहोऽपोहः । अर्थज्ञानं सत्त्वज्ञानं बुद्धेरन्ते गदिता हि गुणाः । ;l{1190} धीमा[35a]न्धीरो मनीषी बुध-विबुध-सुधी-सद्-विदद्-वादि-वेदि- प्रज्ञ-प्राज्ञ-प्रबुद्धाः कवितृ-कवयितृ-प्राप्तरूपाभिरूपाः । ज्ञो मेधावी सुमेधाः कवि-कृतिविदथ व्यक्त-दोषज्ञ-विद्वत्- संख्यावल्लब्धवर्णाः सुधिषण-मतिमत्-सूरिणः कृष्टि-सूरी ॥ ११ ॥ दूरदर्शी दीर्घदर्शी विचक्षण-विपश्चितौ । ;l{1195} बुधानः कोविदो वृद्धः पण्डितः स्याद्विशारदः ॥ १४ ॥ भावे विशारदत्वं स्याद्वैशारद्यं नपुंसके । स्याद्विशारदिमा पुंसि स्याद्विशारदता स्त्रियाम् । त्रिषु पण्डितमानी स्यात्पण्डितंमन्य इत्यपि । अन्तर्वाणिः शास्त्रवित्स न्यायवेत्ता तु तार्क्किकः । ;l{1200} आन्वीक्षिकाऽक्षपादौ च भवेन्नैयायिकोऽपि सः ॥ १५ ॥ वैशेषिकः स्यादौलूक्यः कापिले सांख्यतात्त्विकौ । यौगः पातञ्जलोऽथ स्याद्भाट्टो मीमांसकोऽपि च ॥ १६ ॥ ;p{1205} वेदान्ती ब्रह्मवादी स्यात्पाणिनीयस्तु शाब्दिकः । (अ?)ब्दकस्त्रैमुनश्चायं स्याद्वैयाकरणस्तथा ॥ १७ ॥ ;l{0925} वैयाकरणरू[35b]पः स्यात्प्रशस्तः शाब्दिको हि यः । पाणिनीयखसूचिस्तु यः पृष्टोऽप्रभुरुत्तरे । भवेच्छाब्दिकपाशोऽसौ निन्द्यः शाब्दिककश्च सः । वार्त्तिको वृत्तिवित्प्रोक्त न्यासिको न्यासवित्तथा । पौराणिकः पुराणज्ञस्तद्वत्स्यादैतिहासिकः ॥ १८ ॥ ;l{1210} एवं वासवदत्ताविद्भवेद्वासवदत्तिकः । यावक्रीतिक एवं स्यान्माहावार्त्तिक इत्यपि ॥ १९ ॥ तार्क्किकाद्यास्तदध्येतर्यपि धीमन्मुखास्त्रिषु ॥ २० ॥ अष्टका पाणिनीयैव जानीयात्स्त्रीविशेषणे । मेधायै हितमर्हं च मेध्यं त्रिषु समुन्नयेत् ॥ २१ ॥ ;l{1215} भावे पाण्डित्यमन्त्ये स्यात्तस्मिन्पण्डितिमा पुमान् । मैधावकं तु मेधाविभावे प्रोक्तं नपुंसके ॥ २२ ॥ कविः सरससंदर्भकरो वाणीप्रजापतिः । परच्छायापहारी स भवेद्वर्णविलोडकः ॥ २३ ॥ इन्द्रियमक्षं करणं विषयि स्रोतो हृषीक-देवे खम् । ;l{1220} स्युर्गोचरास्तु विषयास्तथेन्द्रियार्था अमी तु रूपाद्याः ॥ २३ ॥ ऐन्द्रियकं वैषयिकं त्रि[36a]तये प्रत्यक्षमध्यक्षम् । साक्षादव्ययमस्मिन्नतीन्द्रियं स्यात्परोक्षं च ॥ २४ ॥ चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् । पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥ ;p{0056} ;l{1225} रूपे चाक्षुषमब्ज इत्यनुभवेर्वर्योपि(?) वर्णो स्त्रियां श्वेतादित्रिषु तद्युतेष्वथ सितः शुक्लोऽवदातः शुचिः । श्येनः शुभ्र-वलक्ष-शुद्ध-धवलाः श्वेतश्च गौरोऽर्जुनः स्यादस्मिन्खरु-पाण्डरौ च विशदः शौक्लं तु भावेऽन्तिमे ॥ २६ ॥ शुक्लत्वमपि तत्र स्त्री शुक्लता शुक्लिमा पुमान् । ;l{1230} वर्णार्थेभ्यो विजानीयादेवंरूपं चतुष्टयम् । संमता हरिण-पाण्डु-पाण्डुराः केतकीकुसुमधूलिवर्णके । धूसरो बकुलपुष्पसंनिभः स्यात्कपोतसदृशः कपोतकः ॥ २७ ॥ ;l{1235} पीत-पीतल-सितानुरञ्जना गौर एष कलरूक्य(?) ईरितः । पिञ्जरो भवति पीतलोहितः संमतः स च कुसुम्भसंनिभः ॥ २९ ॥ पालाशो हरित-हरित्-पलाश-पीत- ;l{1240} नीलाः स्युः स च हरितालसंनिभोऽपि । श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाः नीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥ मयूरकण्ठसंनिभं वदन्ति मेचकं परे स कृष्णनीलवर्णवानुमाप्रसूनसंनिभः ॥ ३१ ॥ ;l{1245} लोहितो रोहितो रक्तो माञ्जिष्ठोऽसौ तु पाटलः । श्वेतसंवलितो रक्तः शोणः कोकनदोपमः ॥ ३२ ॥ ;p{0057} लोहितीयल्लोहितायमानश्च्व्यर्थे विशेष्यवत् । लोहिनीयंल्लोहिनीयमानः स्याल्लोहिनीपदात् ॥ ३३ ॥ अरुणो बालसंध्याभो भवेदसितलोहितः । ;l{1250} श्यावस्तु कृष्णपीतः स्यात्कपिशोऽपि निगद्यते ॥ ३३ ॥ धूमल-धूम्रौ श्यामलके तृणवह्निरुचिर्भवति कडारः । कपिवर्णसमो लोहितपीतः कपिलो गोभूषणनामायम् ॥ ३४ ॥ हरित्पीतरक्तैर्युतः स्यात्पिशङ्गो भवेदेष गोरोचनातुल्यवर्णः । ;l{1255} कदुः कद्रु-बभ्रू हरिः पिङ्गलः स्यात् प्रदीपार्च्चिषा तुल्यवर्णश्च पिङ्गः ॥ ३५ ॥ कडारः कपिलः पिङ्गः पिशङ्ग-कदु-कद्रवः । बभ्रुर्हरिः[31] पिङ्गलश्च तुल्यार्था इति केचन ॥ ३६ ॥ चित्रल एतः शबलः कर्बुर-किर्मीर-कल्माषाः । ;l{1260} स्यात्सारङ्गश्चित्रः शार-करम्बौ तथा कबरः ॥ ३९ ॥ श्येता श्येनी हरिणी हरिता कपिला तुलिता भवति पिशङ्गी । एता त्वेनी शबली चित्रा सा कल्माषी किल सारङ्गी ॥ ४० ॥ ;l{1265} काली स्यादसिताऽन्या तु कालानील्यौषधौ गवि । ध्वंसवल्लोहितगुणयुक्ते लोहितको रुषा ॥ ४१ ॥ स्त्रियां लोहितका लोहिनिका चण्डी मुखच्छविः । तथा लोहिनिका लोहितका शाटी हि लाक्षिकी ॥ ४२ ॥ अनित्यकालिमोपेते कालकं चितयाननम् (?) । ;l{1270} नील्यादिकालरक्तः स्यात्पटादिः कालकस्त्रिषु ॥ ४३ ॥ ;p{0058} त्रिषु स्युस्तेन रक्तार्थे काषायी लाक्षिकी तथा । स्याच्छाकली शाकलिकी नीली रौचनिकी भवेत् ॥ ४४ ॥ स्यात्कार्द्दमी कार्द्दमिकी हारिद्री पीतका तथा । स्यान्माहारजनीत्येवं जानीयात्स्त्रीविशेषणे ॥ ४५ ॥ ;l{1275} न स्त्री रसः पुंसि तु रासनः[37b] स्या- दास्वादसंज्ञोऽथ मनाक्तथान्ते । स्फुटोऽस्फुटश्चानुरसः प्रदिष्टः षोढा मतोऽसौ मधुरादिभेदात् ॥ ४६ ॥ स्वादुर्गुल्यो मधुरो मधु(धू)ल-कोमलवद्रसज्येष्ठः । ;l{1280} अम्लोम्ब्लो दन्तशठोऽक्षिभ्रुवकोचीच(?)पाचनाह्वः स्यात् ॥ ४७ ॥ लवणः स्यात्सर्वरसः * * पटुरथास्य मृट् (?) । कटूषण-कटोलाश्च मुखभेदी तु तिक्तकः । तीक्ष्णः क्षारश्च सकटु लवणात्मक उच्यते । तुबरस्तूबरश्चास्त्री कषायस्तद्वति त्रिषु ॥ ४९ ॥ ;l{1285} स्वादुंकृत्येत्येतदर्थं स्वादुंकारमिहाव्ययम् । स्वादुंकृत्वाव्ययं स्वादुंकृत्या ह्न्ये(प्ये?)कार्थ ईरितम् ॥ ५० ॥ स्वादिमा ना स्वादुता स्त्री स्वादुत्वं तु नपुंसके । मधुरत्वं च माधुर्यं भावे मधुरिमा नरि ॥ ५१ ॥ अव्ययं लवणंकारं क्त्वार्थे तद्वत्समुन्नयेत् । ;l{1290} लवणस्यंस्त्रिषु भवेल्लवणे लालसायुते ॥ ५२ ॥ लालसा लवणस्य स्याल्लवणस्या स्त्रियामियम् । स्त्रीविशेष्ये तु लवणी यवागूरिति निर्दिशेत् ॥ ५३ ॥ स्वाद्वी स्वादुः[38a] कटुः कट्वी पटुः पट्वीति संग्रहः । लावण्यं पाटवं क्लीबे पटिमा स्यान्नृलिङ्गकः ॥ ५४ ॥ ;p{0059} ;l{1295} ब्राह्मी भाषा ब्राह्मणी गौर्गिरा गीर्- वाणी वाचा वाक्सरस्वत्यपीडा । भारत्युक्ता शारदा शब्ददेवी भेद्याधीनं वाङ्मयं तद्विकारे ॥ ५५ ॥ वाचोयुक्तिः स्त्रियां सम्यग्गिरां गुम्फनमीरितम् । ;l{1300} व्याहारो लपितं वचोऽपि वचनं स्यादीरितं भाषितं स्त्री तूक्तिर्गदिताथ साऽऽगम * * सिद्धान्तराद्धान्तकौ । शब्दस्तु श्रुतिशास्त्रसाधुरितरो म्लेच्छोऽपशब्दो भवेत् सोऽपभ्रंश उदीर्यतेऽयमभिधावृत्त्यार्थसूर्वाचकः ॥ ५६ ॥ लाक्षणिको लक्षणया गमकोऽर्थः स्यादथ के * प्यार्याः । ;l{1305} आहुर्व्यञ्जकसंज्ञं व्यञ्जनया कथकमर्थस्य ॥ ५७ ॥ शब्दव्यापृतिरुक्ता वृत्तिः * * थ विग्रहः । वृत्त्यर्थबोधकं वाक्यं वणु(?)पुल्लिङ्गं प्रकीर्तितम् । पदमन्ते * सुप्तिङ्युक्तं तत्तु समर्थं रहिताकाङ्क्षम् । वाक्यं तादृक्पदसंघातः * * * * * * * * * * ॥ ५८ ॥ ;l{1310} पदं प्रसिद्धं रूढं स्या[38b]द्योग्यं यौगिकमीरितम् । शक्तं समर्थं क्लिष्टं तु बह्वर्थप्रतिपादकम् ॥ ५९ ॥ महावाक्यं तत्त्वमसीत्यादि मोक्षैकसाधनम् । अर्थोऽभिधेयः स त्रेधा वाच्यो वाचकबोधितः ॥ ५९ ॥ ;p{0060} लक्ष्यो लक्षणया गम्यो व्यङ्ग्यो व्यञ्जनया स्फुटः ॥ ६० ॥ ;l{1315} त्रिष्वार्थिकं तथार्थ्यं च भवेदर्थान्वितं हि यत् । * * * * * * * * वर्णोऽस्त्र्यक्षरमन्तिमे । अचः स्वरा व्यञ्जनं हल् वर्गाः स्पर्शास्तथोहितः ॥ ६१ ॥ यणन्तःस्थः शलूष्मा स्यान्मातृका वर्णसंहतिः । न(ञ)मः स्युरानुनासिक्या अथ ःकःपौ विसर्गयुक् ॥ ६२ ॥ ;l{1320} अयोगवाहा एते स्युरनुनासिकसंयुताः । त्रिष्टा(ष्वा?)क्षर्यं च वश्यं च विकारे स्वर्यमित्यपि ॥ ६३ ॥ अभिनिष्टानविसर्गौ विसर्जनीयस्य(श्च?) पुंसि स्युः । सौपस्तैरः(ङः) कार्तः सूत्रकृद्व्याख्यानके त्रितये ॥ ६४ ॥ वैसर्गिको विसर्गाय प्रभवे भेद्यलिङ्गकः । ;l{1325} सर्गाय प्रभवत्यर्थे सार्गिकोऽप्येवमीरितः ॥ ६५ ॥ ओंकारो वेदादिः प्रणवो वेदस्त्वृषिर्निगमः । आम्नाय-स्वाध्यायागमाः श्रुतिः[39a] छन्दः ॥ ६७ ॥ ऋगृचाव(?)स्त्रियौ क्लीबे यजुः साम तु निर्ऋथः । त्रयी स्त्रियां त्रिवेदीरि(?)त्रय्युद्धारस्त्वथर्वणि ॥ ६५ ॥ ;l{1330} विधानमृग्यजुःसाम्नां त्रयीधर्मोऽस्त्रियां भवेत् । क्रियासु विनियुक्तो यो वेदो मन्त्रः स उच्यते ॥ ६३ ॥ वशीकरणमन्त्रो यः स हृद्य इति कीर्त्तितः । ऋचोर्द्वयोः प्रगथने प्रगाथो नरि कीर्त्तितः । आयुर्वेदो धनुर्वेदो गान्धर्वश्चोपवेदकाः । ;l{1335} शाखा स्त्री चरणस्त्वस्त्री सूक्तं स्यादेकदेवतम् । ;p{0061} साम्नः षट्प्रणवा न्यूङ्खौ भङ्गस्त्वृग्भेदनं मतः । अध्यायश्चानुवाकश्च ऋग्यजुःसंग्रहे मतौ । पदप्रकृतिका तु स्यात्संहिताऽथ पदं भवेत् ॥ ६४ ॥ सुप्तिङन्तपृथक्कारो विच्छेदः स्यादवग्रहः । ;l{1340} भे(?)गवत्पदसंघाटः पदसंघात इत्यपि । पदसंहतिकृत्तद्वद्वर्णसंघाट ईरितः । प्रागग्रिमपदत्यागग्रहापाठे क्रमो नरि ॥ ६५ ॥ जटादयः पदावृत्तिभेदा अन्तः पुनः श्रुतेः । स्त्रियामुपनिषद्वेदो रहस्यं तत्र चान्तिमे [39b] ॥ ६६ ॥ ;l{1345} सामभागविशेषः स्यादुक्थमुद्गीथ आदिमे । पृष्ठं स्तोत्रविशेषः स्याद्विरिब्धस्तु स्वरः स्मृतः । निघातस्त्वनुदात्तः स्यात्समाहारः समश्रुतिः ॥ ६७ ॥ तत्तद्द्वंद्वे तु ऋक्सामे तद्वदृग्यजुषं भवेत् । अर्द्धर्च्चोऽस्त्री स्यादृचोऽर्द्धं बह्वृचोऽध्येतरि त्रिषु ॥ ६८ ॥ ;l{1350} अनृचस्तु नऋक्पाठीतरद्बह्वृगनृग्भवेत् । प्रतिसामं भवेत्सामाभिमुखं क्लीबमव्ययम् ॥ ६९ ॥ साम्नोऽन्तिकेऽनुसामं स्यादवसामं त्वसामनि । ;p{0062} ऋगेकपदसंयुक्ता भवेदेकपदा हि सा ॥ ७० ॥ द्विपदा त्रिपदेत्यादि विशेष्यायां भवेदृचि । ;l{1355} पादं पादमृचः पाठे पच्छ इत्यव्ययं भवेत् ॥ ७१ ॥ स्यात्सामन्यः साम्नि साधुराथर्वणस्त्वथर्वणि । स्यात्साम यज्ञायज्ञा(ज्ञि?)यं यज्ञायज्ञपदाङ्कितम् ॥ ७२ ॥ भवेद्वाशिष्ठकोऽध्यायो भवो व्याख्यानमस्य यत् । स्याद्दीर्घजीवतो दीर्घजीवतीयोऽनुवाच(क?)कः ॥ ७३ ॥ ;l{1360} इषेत्वको गोषदक इषेत्वादि[40a]पदान्वितः । एतायामोपि च तौ यामीयोऽध्यायस्तथा मतः । औक्तः प्रोक्तः प्रगाथः स्यादुक्तादिच्छन्द आदिमः ॥ ७४ ॥ अथ क्लीबे समूहे स्याच्छान्दोग्याथर्वणादयः ॥ ७५ ॥ बाह्वृच्यं तद्वदौक्थिक्यं तद्धर्माम्नाययोरपि । ;l{1365} पृष्ठ्यं पृष्ठसमूहे स्याद्भवे मान्त्रं तथा व्रजे ॥ ७२ ॥ त्रिषु तत्र भवे तस्य व्याख्याने वैदिकार्चिकौ । स्यात्पुरोडाशिकः पौरोडाशिकश्च समार्थकः । सौवरस्तु स्वरव्याख्यामधिकृत्य कृतो हि यः । ऐष्टिकं पाशुकं च स्यात्पौरश्चरणिकं तथा । ;l{1370} छन्दस्यश्छान्दसः पादव्याख्यानः क्रामिकादयः ॥ ७३ ॥ एवमार्गयनब्राह्मणिकान्समुदी(र)येत् । स्यादौपनिषदीस्तद्वदथ जीवति यस्तया । भवेदौपनिषत्कोसावसाध्येतरि तद्विन्दा(?) ॥ ७४ ॥ ;p{0063} छान्दस-श्रोत्रियौ तुल्यौ तद्भावे श्रौत्रमन्तिमे । ;l{1375} श्रोत्रियत्वं श्रोत्रियता स्याच्छ्रोत्रियकमन्तिमे ॥ ७५ ॥ तस्मिंश्छान्दसकं च [40b] स्यादथ सांहितिको भवेत् । पादिकः पदिकस्तुल्यो क्रामि(क)क्रमकौ समौ । पदकक्रमकं क्लीबे द्वंद्वे बह्वृचयाजुषम् । बह्वृचार्यो याजुषः स्यात्सामकः सामगः समौ ॥ ७६ ॥ ;l{1380} स्यादाथर्वणिकोऽथ स्याद् द्विवेदोऽथ त्रिवेदवत् । सार्ववैद्यः सर्ववेदश्चातुर्वैद्यश्च तादृशः ॥ ७७ ॥ सार्ववेदी सर्ववेदा चातुर्वेदी द्विजावली । स्यादाथर्वणिको विप्रः स्त्री त्वाथर्वणिकी भवेत् ॥ ७८ ॥ शतपथिकः शतपथिकी स्त्री चेत्यष्टिपथिकस्तु तद्वत्स्यात् । ;l{1385} उक्थग्रन्थमधीते वेत्ति च यो वा स औक्थिको ज्ञेयः ॥ ७९ ॥ ब्राह्मणोऽनुब्राह्मणी स्यादनुब्राह्मणिनी द्विजा । एवं भवेदैतरेयी काश्यपी कौशिकी तथा । भवेद्वाजसनेयीति याज्ञवल्क्यसमार्थकः । एवमाश्मरथाद्याः स्युस्तत्कल्पाध्येतृवेदिनोः ॥ ८१ ॥ ;l{1390} शिक्षा कल्पश्छन्दो व्याकरणं ज्योतिषं निरुक्तं च । [41a] वेदाङ्गान्यथ शिक्षां पठन्विदन्भवति शिक्षकस्त्रितये ॥ ८२ ॥ त्रिषु तदधीते वेदेत्यर्थे त्रैविद्य-धार्मविद्याद्याः । सांग्रहसूत्रिक-पाराशरकल्पिक-काल्पसूत्राश्च ॥ ८३ ॥ ;p{0064} कल्पः प्रोक्तस्तनयः स्यादैतरेयी सभाल्लवी । ;l{1395} पैगीशाद्यायती शौनकीयः कातीय इत्यपि ॥ ८४ ॥ आरभ्यैकाक्षरं पादमेकैकाक्षरवर्धनात् । आषड्विंशत्यक्षरं स्युरुक्ताद्याश्छन्दसां भिदः । गायत्राद्या यद्विशेषास्तद्विष्टारमुदीरितम् ॥ ८५ ॥ उक्ता स्त्री क्लीबमौक्तं स्यादत्युक्तात्युक्तमन्तिमे । ;l{1400} मध्या माध्यं प्रतिष्ठा तु प्रातिष्ठं च नपुंसके ॥ ८६ ॥ सौप्रतिष्ठं सुप्रतिष्ठा भवेद्गायत्रमन्तिमे । गायत्री स्त्री भवेत्तूष्णि[गुष्णि]कं च नपुंसके ॥ ८७ ॥ आनुष्टुभमनुष्टुप् स्त्री बृहती बार्हतं मतम् । पङ्क्तिः पाङ्क्तं च तुल्यार्थं त्रिष्टुप् स्त्री त्रैष्टुभं तथा ॥ ८८ ॥ ;l{1405} जगती जागतमतिजगती त्वातिजाग[41b]तम् । शक्वरी शाक्वरं चातिशक्वरी त्वातिशाक्वरम् ॥ ८९ ॥ अष्टतिस्त्वाष्टतं क्लीबेऽथाष्टिराष्टं धृतिः पुनः । धार्तं भवेत्त्वतिधृतिः क्लीबे त्वातिधृतं मतम् ॥ ९० ॥ कार्तं कृतिः प्राकृतं तु प्रकृतिः स्यादथाकृतिः । ;l{1410} आकृतं वैकृतं तु स्याद्वि[कृतिः संकृ]तौ पुनः ॥ ९१ ॥ सांकृतं स्यादातिकृतमतिकृत्यामथौत्कृतम् । उत्कृतिश्चाथ षड्विंशत्यक्षराधिकपादकाः ॥ ९२ ॥ स्त्रीलिङ्गो ना दण्डकाः स्युः स्त्रियो गाथा इतोऽपराः । क्रमः पदादिसंयोगः पदविच्छेदनं यतिः ॥ ९३ ॥ ;p{0065} ;l{1415} ओजं स्याद्विषमं स्थानं युक्समं समुदीर्यते । प्रस्तारः स्यात्कलान्यासः छन्दो वृत्तं नपुंसके ॥ ९४ ॥ शब्दशास्त्रं व्याकरणं तदैन्द्रादिभिदाष्टधा । सूत्रं स्तवनकृत्क्लीबेऽथ प्रोक्ते तेन भेद्यवत् ॥ ९५ ॥ भवेदापिशलं काशकृत्स्नमित्येवमादिकम् । ;l{1420} माहेश्वराणि तानि स्युर्यान्याद्यानि चतुर्दश ॥ ९६ ॥ * * * * * * * * पाणिनीयं तथाष्टकम् । [42a] त्रिमुन्येतद्व्याकरणं दाक्षीपुत्रस्तु पाणिनिः । शालातुरीयो दाक्षेयोऽप्यथोक्तानुक्तपूरकम् ॥ ९७ ॥ वार्त्तिकं तत्र कातीयं कात्योक्तेऽथ पुनर्वसुः । ;l{1425} कात्यः कात्यायनो मेधाजित्स्याद्वररुचिश्च सः ॥ ९८ ॥ चूर्णिः स्त्रियां भवेद्भाष्यं सूत्राभिप्रायवर्णकम् । शारीरकीयं तच्छारीरकं शंकरभाषितम् । पातञ्जलं फाणिपतं तत्पतञ्जलिभाषितम् ॥ ९९ ॥ आवान्तरप्रकरणे विश्रामे शीघ्रपाठतः । ;l{1430} तदेकाहविनिर्वृत्तविचारं मतमाह्निकम् ॥ १०० ॥ यत्र व्याकरणस्य स्यात्फलाफलविचारणम् । तत्राह्निके पस्पशा स्त्री गोनर्दीयः पतञ्जलिः ॥ १ ॥ भवेद्वाक्यपदीयं तु भाष्यव्याख्यानसंयुतम् । षष्टिश्रावी भर्तृहरिर्वृत्तिः सूत्रार्थबोधिका ॥ २ ॥ ;l{1435} सा काशिका काशिभवा कारिका त्वर्थभूयसी । भवेत्कक्षपुरः पुंसि निबन्धे सारसंग्रहे । नपुंसि टिप्पणं टीका क्लीबे विवरणं मतम् [42b] ॥ ३ ॥ ;p{0066} स्यात्षात्वणत्विकस्तस्य व्याख्यानभवयोस्त्रिषु । पदव्युत्पादनग्रन्थो निरुक्तं न द्वयोर्भवेत् । ;l{1440} पदभङ्गः पञ्जिका स्त्री न्यासस्तस्या भवेत्पुमान् ॥ ४ ॥ अस्त्री कोषो निघण्टुः स्यात्सर्वविद्या कलिन्दिका । प्रस्तावः स्यात्प्रकरणं संग्रहस्तु समाहृतिः ॥ ५ ॥ शास्त्रे दर्शनमप्यथाधिकरणं न्यायो नयः संमतो मीमांसा तु विचारणा विधिरिहाप्राप्तार्थसंप्रापणम् । ;l{1445} आन्वीक्षिक्युदितात्र तार्क्किकनयः सर्गादिभिः पञ्चभिः संयुक्तं किल पञ्चलक्षणमिति प्रोक्तं पुराणं च तत् ॥ ६ ॥ धर्मशास्त्रं स्मृतिर्धर्मसंहिता च स्त्रियावु(मु)भौ । पञ्चाङ्गवाक्यं ग्रन्थः स्याच्छम्बुर्ना ग्रन्थविस्तरम् । काव्यं कावा(?)च कविता रसवत्पदबन्धनम् ॥ १० ॥ ;l{1450} तदुत्तमं ध्वनिः पुंसि भवेद्व्यङ्गे(ङ्ग्ये)तिशायिनि । गुणीभूते मध्यममं स्याच्चित्रं स्याद्व्यङ्गवर्जितम् ॥ ११ ॥ तद्दृश्यमभिनेयं यच्छ्रव्यं तु श्रवणार्थकम् । वृत्तबन्धः पद्यमन्त्ये श्लोकः पुंस्यत्र[43a] संमतः ॥ १२ ॥ ;p{0067} मुक्तकमेकश्लोकं द्विश्लोकं युग्मकं गदितम् । ;l{1455} संदानितं विशेषकमुदिते त्रिश्लोकसंबन्धम् ॥ १३ ॥ श्लोकचतुष्टयकलितं कलापकं पञ्चतः कुलकम् । काव्ये त्वधिकृत्य कृते तदिति किरातार्जुनीयमित्यादि ॥ १४ ॥ फक्किका चूर्णिका गद्यं चम्पूः स्त्री तद्विमिश्रिता ॥ १५ ॥ अवान्तरकथापूर्तौ सर्गोऽध्यायः समार्थकौ । ;l{1460} आख्यानसंज्ञकास्ते स्युर्महाकाव्यगता यदि ॥ १६ ॥ प्राकृतैर्निर्मिते काव्ये सर्गा आश्वाससंज्ञकाः । अपभ्रंशनिबद्धे तु सर्गाः काण्डवकाभिधाः ॥ १७ ॥ सर्गबन्धो महाकाव्यं संध्यङ्गादिसमन्वितम् । खण्डकाव्यं भवेत्काव्यमेकदेशानुसारि यत् ॥ १८ ॥ ;l{1465} प्रवह्लिका प्रहेलिकानुयोगदूतिका तथा । विपादिका च सा भवेद्दुरूहकानुयोजनम् ॥ १९ ॥ समासार्था समस्या स्यात्कविशक्तिपरीक्षिणी । पदसंघटना रीतिर्वैदर्भी मधुराक्षरा ॥ २० ॥ ओ[43b]जःप्रकाशिवर्णाढ्या गौडी साडम्बरा भवेत् । ;l{1470} तत्संकीर्णा तु पाञ्चाली लाटी सार्थविशेषणा ॥ २१ ॥ उत्साहवर्धनं त्वोजो माधुर्यं मानसद्रवः । काव्यात्मा तु प्रसादः स्याच्छ्रुत्यैवार्थप्रकाशकः ॥ २२ ॥ अन्त्यमक्षरमादाय प्रतिश्लोकं क्रमेण यः । यथान्यः पठ्यते श्लोकः प्रतिमालेति सा मता ॥ २३ ॥ ;l{1475} जनश्रुतिः किंवदन्ती निन्द्या त्वेषाभिशंसनम् । लोकापवादः कौलीनं विगानं वचनीयता ॥ २४ ॥ वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स पुरातनम् । ;p{0068} इति हाव्ययमैतिह्यं वर्णौकोऽस्त्री तु पुस्तकम् । उत्थानं पुस्तमस्त्रीयाथादर्शः प्रतिपुस्तकम् ॥ २५ ॥ ;l{1480} लेखकोऽक्षरचणोऽक्षरचञ्चुर्वार्णिको * * * * क्षरजीवः । गान्धिको लिपिकरो लिपिशिल्पी स्यादसौ लिपिकरो लिपिवृत्तिः ॥ २६ ॥ लिपिर्लिबिः स्त्रियौ लेखे यवनानी पुनर्भवेत् । लिपिर्या यवनानां स्यादथ वाचिकहारकः । वर्णदूतः स्वस्तिमु[44a]खश्चीरकोऽधिक्रिया युतः । ;l{1485} अभिलाषयुतो यूनोरसौ कामार्त्तिवेदकः ॥ २७ ॥ अनङ्गलेखोऽथ मसी निशिश्च मिथुनमसि(?) । मलिनाम्बुः काञ्चनिका मेला धातुपलः पुमान् ॥ २८ ॥ क्लीबे पत्राञ्जनं च स्यान्मेलान्धुर्मषिकूपिका । स्याद्वार्गनं चाथ मेलानन्दो मसिमणिर्द्वयोः ॥ २९ ॥ ;l{1490} कलमो लेखनी वर्णतूलिका वर्ण(र्णि?)का स्त्रियः । तूलिका कूचिका चित्रलेखनी च स्त्रियो मताः । चरमे चित्रमालेख्यं लिषिः स्त्री चित्रलेखनम् । लेखीलको लेखहारो चित्रयन्त्रेषु संचकः । लेखबर्हं लेखपत्रं वाचनं तु प्रहेलनम् ॥ ३१ ॥ ;l{1495} आख्याभिक्षा(ख्या?)भिधा संज्ञाह्वा गोत्रं नाम चास्त्रियाम् । शर्माह्वया नामधेयमभिधानं च न स्त्रियाम् ॥ ३२ ॥ संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणं गदितम् । आकारणा तु हूतिः संहूतिः सा कृता बहुभिः ॥ ३२ ॥ व्यवहारस्तु विवादः स्थेयं तु स्थानमेतस्य । ;l{1500} वाङ्मुखमत्यादानं (?) स्यादुद्ग्रा[44b]हो स्वप(?)न्यासः ॥ ३३ ॥ ;p{0069} उपोद्घात उदाहारः प्रकृतौपयिकं वचः । समयः शपथः पुंसि शपनं तु नपुंसके ॥ ३४ ॥ कथंकथिकता पृच्छा ज्ञीप्सा प्रश्नोऽनुयोगवत् । तत्रोपालम्भसहिते भवेत्पर्यनुयोजनम् ॥ ३६ ॥ ;l{1505} विना तु पात्रं यः प्रश्नो नभोदर्शनपूर्वकम् । आकाशभाषितं तत्स्याद्दैवप्रश्न उपश्रुतिः । उत्तरं प्रतिवचः प्रतिवाक्यमस्त्रियां तु चटुलं चटु चाटु । चाटुकं च हृदयंगमहृद्ये सूनृतं त्रिषु त(भ)वेत्प्रियसत्ये ॥ ३८ ॥ मिथ्याभियोगस्तु मृषाविवादोऽभ्याख्यानमन्त्येऽथ मृषाभिशस्तिः । ;l{1510} मनोभिशापोऽथ भवेत्प्रणादः शब्देऽनुरागप्रभवेऽत्र पुंसि ॥ ३९ ॥ श्लोको वर्णो ना यशोऽन्ते समाज्ञा- भिक्षा(ख्या) कीर्तिः सा समज्ञा प्रशस्तिः । श्लाघा क्रीडा स्त्री स्तुतिः स्यान्नुतिश्च स्तोत्रं नूतिः स्त्री स्तवश्चार्थवादः ॥ ४० ॥ ;l{1515} विकल्प(त्थ?)नं मृषाश्लाघा निन्दा कुत्सा च धिक्कृतिः । जुगुप्सा गर्ह[45a]णा क्षेपोऽपवादोऽवर्ण इत्यपि ॥ ४१ ॥ निर्वादश्च परीवाद उपक्रोशोऽथ भर्त्सनम् । अपकारवचोऽथ स्यात्पारुष्यं दुष्टभाषणम् ॥ ४२ ॥ शाप आक्रोश आक्षेपोऽभिषङ्गः क्षारणा त्वसौ । ;l{1520} आक्षारणा दूषणा च क्षारणं मैथुनं प्रति ॥ ४३ ॥ आक्रोशे स्यादकरणिः स्त्रियामजननिस्तथा । हू(?)त्कारस्तारशब्दः स्यात्त्राणार्थो महतां पुरः ॥ ४४ ॥ पृष्ठमांसादनं क्लीबे परोक्षे दोषकीर्तनम् । ;p{0070} मन्मनं मन्दवचनं दंपत्योः केलिकालजम् ॥ ४५ ॥ ;l{1525} उच्चैर्घुष्टं घोषणाम्रेडितं तु द्विस्त्रिः प्रोक्तं काकु वाक्ये न पुंसि । उल्लापने स्याद्गह्वरो पुष्टशब्दो वारं वारं भाषणे चानुलापः ॥ ४५ ॥ व्यलीकाविष्कृतिरुपालम्भः स तु सगर्हणः । ;l{1530} परिभाषणमालापस्त्वापृच्छाऽऽभाषणं तथा ॥ ४६ ॥ आशीः स्त्री मङ्गलाशंसानिष्टाशंसा तु गालिका । नमोवाको नमःशब्दः संनतिस्तत्र च स्त्रियाम् ॥ ४७ ॥ वचोऽनर्थकं स्यात्प्रलापो विरुद्धं त्विदं विप्रलापः [45b] शुभं सुप्रलापः । ;l{1535} वचः सोपहासं भवेच्चर्चरी स्त्री तथा चर्भटी चर्चरं चर्चरीकम् ॥ ४८ ॥ स्याद्विलापो विलपनं न नरः परिदेवनम् । संलापः संकथा स्त्री स्यादन्योन्यपरिभाषणम् ॥ ४९ ॥ विभाषा तु स्त्रियामुक्ता विकल्पवस(च?)नार्थकाः । ;l{1540} अपलापो निह्नवः स्यात्संदेशोक्तिस्तु वाचिकम् । प्रसिद्धिशब्दे टंकारो म्लेच्छितं पारभाषिके ॥ ५० ॥ चित्रोक्तिः पुष्पशकटी ब्रह्मवादः श्रुतिध्वनिः । काकुर्द्वयोः शिरःकम्पपूर्वा या विकृतिध्वनिः । अहेतुर्व्योमशब्दः स्यान्निर्घाते व्योममुद्गरः । ;p{0071} ;l{1545} स्त्रियामुद्धूतकलिका भवेदुत्कण्ठवाचिकम् ॥ ५१ ॥ विशेष्यलिङ्गास्तु परे शुभा वाक्- कल्पा च कल्या रुशती त्वभव्या । तथा रुशन्ती मधुरं तु भूयः सान्त्वं वचोऽवाच्यमनक्षरं स्यात् ॥ ५१ ॥ ;l{1550} विक्रुष्टं किल निष्ठुरं च परुषं रूक्षं तथाश्लीलकं ग्राम्यं ग्रस्तमिदं विलुप्तपदकं म्लिष्टं पुनश्चास्फुटम् । क्षिप्रोक्तं तु निरस्तमाहतमिदं मिथ्यार्थकं स्यादथा- वध्य(द्यं?)व्यर्थ[46a]मबद्धकं तु विफलं चोच्चावचं तद्भवेत् ॥ ५२ ॥ परस्परपराहतं भवति संकुलं क्लिष्टकं ;l{1555} व्यलीकमनृतप्रियं तुमुलमाकुलं संमतम् । अलीकमनृतं तथा वितथमत्र मिथ्या मृषा मृषोद्यमयथातथं न विकृतयथास्त्रियां(?) टट्टरी ॥ ५३ ॥ अयाथातथ्यमायाथातथ्यं भावे नपुंसके । अम्बूकृतं सनिष्ठीवं गद्गदं श्लिष्टवर्णकम् ॥ ५४ ॥ ;l{1560} सत्यं तथ्यं भूतं सम्यगृतं स्यात्समीचीनम् । सदथाव्ययं यथार्थं यथातथं स्याद्यथास्थितं च मतम् ॥ ५५ ॥ शब्दो निनादो निनदो नदोऽपि नादो ध्वनि-ध्वान-रवारवाः स्युः । आराव-संराव-विराव-घोष- ;l{1565} निर्घोष-निःस्वान-रण-स्तनाश्च ॥ ५६ ॥ ह्रादः स्वरो निःस्वनवत्कृतः स्यान् ;p{0072} निह्रादि-मायू अपि रुत्पुनः स्त्री । सीत्कार एष प्रमदाजनस्य दन्तक्षताद्यैरुदितः प्रदिष्टः ॥ ५७ ॥ ;l{1570} रतिभवो रणितं मणितं समे वसनपर्णभवः स च मर्मरः । पिकभवः स कुहू रुतमन्तिमे पतगजे त्विह कूजि[46b]तकूजने ॥ ५८ ॥ भूषणजन्मनि शिञ्जितमन्त्ये ;l{1575} शिञ्जा गुञ्जा गुञ्जितमलिजे । वाशित-विरुते स्तश्च तिरश्चां क्रन्दनकणिते पीडाभाजाम् ॥ ५९ ॥ शर्द्धनं पर्द्दनं पायुजे कर्द्दनं कुक्षिजे सूतिजे कुन्थनं कुन्थितम् । ;l{1580} क्षीजनं वेणुजे भेरिजे दर्दुरो दर्दुरोत्थे रवो हंभ-रंभे गवाम् ॥ ६० ॥ रेषा रेषणमेष वृकोत्थः कुक्कुरजे स्तो बुक्क[न]भषणे । विस्फारः स्याद्धनुषो नादो ;l{1585} मौर्वीनिनदष्टंकारः स्यात् । समरेषु पराक्रम्य शूराणां हर्षजे ध्वनौ । घु(बु)क्कारः सिंहनादः स्यात्क्ष्वेडा क्ष्वेडितमन्तिमे ॥ ६१ ॥ मर्द्दलशब्दो गुन्दल उक्तः प्रक्वाणस्तु प्रक्वद(ण) उदितः । ;l{1590} संक्वाणः*संक्वणयुक्तो वीणाशब्देऽन्येऽपि तथेह ॥ ६२ ॥ ;p{0073} क्वणः क्वाणो निक्वणश्च निक्वाणः क्वणनं तथा । वीणान्यवाद्यजे शब्दे प्रतिश्रुत्स्त्री प्रतिध्वनिः । समन्ततस्तु संरावे क्लीबे सांराविणं भवेत् । ;l{1595} कोलाहलः कलकलोऽत्र च डिम्बमस्त्री भेरी[47a]सहस्रशतके पटहायुते च । अभ्याहते युगपदारव एष कोणा- घातः पुमान्विशिखपक्षरवस्त्रिसूत्कः (?) ॥ १६४ ॥ स्पार्शनः स्पर्शनः स्पर्शस्त्वङ्मयः स चतुर्विधः । ;l{1600} उष्णः शीतः कठोरश्च मृदुस्तद्वत्त्वमी त्रिषु ॥ १६५ ॥ क्रूरः खरः कठोरः कर्क्कशमस्त्री कठो जरठः । कक्खट-खक्खट-परुषा निष्ठुर-कठिनौ च कर्करोऽप्यत्र ॥ १६६ ॥ मृदु मृदुलं सुकुमारं कोमल-सोमाल-पेलवान्याहुः । म्रदिमा पुंसि मृदुत्वं मार्द्दवमन्त्ये स्त्रियां तु मृदुता स्यात् ॥ १६७ ॥ ;l{1605} स्याद्विकाशो व्यजस्तालवृन्तं व्यजनमाम्बरम् । आलावर्तं तज्जलार्द्रं जलार्द्रा सा तु वारिमुक् ॥ १६८ ॥ ऊर्ध्वाधो मत उत्क्षेपो विस्तृतो वीजने ततः ॥ १६९ ॥ धुवित्रं च धवित्रं च व्यजनं मृगचर्मणः । मयूरपिच्छजं बार्हं व्यजने वीजनं न ना ॥ १७० ॥ ;p{0074} ;l{1610} गन्धस्तु स्यान्नासाबन्धुरथायं मनोहरा(रो?) जगतः । समर्द्दस्तु परिमलः स बकुलसुमनः[47b] समान इत्यन्ये ॥ १७१ ॥ गच्छति दूरं किल यो गन्धः स समाकर्षी नरि निर्हारी । आमोदः स्यादतिनिर्हारी ;l{1615} कस्तूरीवत्किल यो गन्धः ॥ १७२ ॥ कर्पूरस्य समानः स्यादामोदी मुखवासनः । इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ १७३ ॥ दुर्गन्धः पूतिगन्धिः स्यात्पूतिरप्यत्र संमतः । आमगन्धि भवेद्विस्रं दन्तोष्ठ्याद्यपि संमतम् ॥ १७४ ॥ ;l{1620} गन्धेनोद्गतमुद्गन्धि त्रये सुरभिगन्ध्यपि । उपमाने पद्मगन्धि स्तोकार्थे घृतगन्धि च ॥ १७५ ॥ सौगन्ध्यं सौरभ्यं सौरभमपि तस्य भावेऽन्त्ये । गन्धद्रव्यक्रेतरि गान्धिक-सौगन्धिकौ त्रितये ॥ १७६ ॥ उशीरिको नलदिकस्तद्वत्किसरिको मतः । ;{1625} तत्तत्क्रेता स्त्री तथा चेदुशीरिक्यादिका हि सा ॥ १७७ ॥ ;c{॥ इति धीवर्गः ॥} ;v{नाट्यवर्गः} नाट्यं तौर्यत्रिकं तच्च गीतवादित्रनर्तनैः । संगीतं प्रेक्षणीयं तच्छास्त्रोक्तं नाट्यधर्मिका(कैः?) ॥ १ ॥ गीतिर्गीतं गानं गेयं गान्धर्वमप्यस्मिन् । अग्रस्थिततन्त्रीकं गेयपदं शुष्क[48a]गानं यत् ॥ २ ॥ ;p{0075} ;l{1630} प्राकृतसंस्कृतयुक्तं कामाद्युत्तापनैर्गीतम् । स्थितपाठ्यं तदवाद्यं विज्ञैरासीननामकं गदितम् ॥ ३ ॥ स्यात्पुष्पगण्डिका स्त्री स्त्रीपुंसव्यत्ययाद्भुतं गानम् । प्रच्छन्दस्त्वपराधे पत्युः सासूयमङ्गनागीतिः ॥ ४ ॥ भ्रष्टनिकेतः प्राकृतवाण्या व्यक्तं गायति वीणायुक्तः । ;l{1635} यत्तत्सैन्धवमुदितं रसवद्भावसमेतं चोत्तमसंज्ञम् ॥ ६ ॥ रसवत्पदसंदर्भश्लोकबन्धं सहावकम् । विलासान्वितगीतार्थमुक्तप्रत्युक्त उच्यते ॥ ७ ॥ त्रिगूढकं तु तद्भवेद्भ्रकुंसगीतिमञ्जुलं द्विगूढमेतदीरितं चतुःस्वरैः पदैर्युतम् ॥ ८ ॥ ;l{1640} पारापती स्त्रियां गोधुगीतिर्गातरि गाथकः । कर्णाटो गायनो गेष्णुर्गान्धर्वो गातुरित्यपि ॥ ९ ॥ हारिकण्ठत्रिषु भवेत्स्वरो यस्य मनोहरः । वीणाकण्ठोत्थिताः सप्त स्वराः षड्जादयो नरि । षड्जो मयूरशब्दाभ ऋषभो वृषशब्दवत् ॥ १० ॥ ;l{1645} गान्धारोऽजाविशब्दाभो मध्यमः क्रौञ्चशब्दवत् । पञ्चमः पिकशब्दाभो धैवतोऽश्वध्व[48b]निप्रभः । निषादो निषदोऽपि स्याद्गजशब्दितसंनिभः । कलः स मधुराव्यक्तेस्त्रिषु सूक्ष्मस्तु काकलिः ॥ ११ ॥ काकली च स्त्रियौ मंज्ञो(द्रो?) गम्भीरोऽसावुरोभवः । ;l{1650} उच्चैस्तरः स तारः स्याच्छिरोभूर्द्वाविमौ त्रिषु ॥ १२ ॥ ग्रामः स्यात्स्वरसंदोह आरोहस्त्ववरोहणम् । ;p{0076} क्रमात्स्वराणां सप्तानां मूर्छना प्रोच्यते बुधैः ॥ १३ ॥ तानः स्यान्मूर्छनाभेदे रागः कामगुणः समौ । रागालापनमालप्तिर्गमकः स्वरकम्पनम् ॥ १४ ॥ ;l{1655} प्लुतमाना प्लाविता स्यान्नमितो नमितस्वरः । ध्रुवाद्यो द्वयो गीति भघः(?)पाटो वाद्योद्भवो ध्वनिः ॥ १५ ॥ एकतालो गीतवाद्यनृत्यसाम्यसमन्वितः । वाद्यं वादित्रमातोद्यं कटम्बश्च स्वरध्वजः ॥ १३ ॥ दर्दरीकं तुरत्यूर्यः(?)धूमलाभ्ये(?)स्त्रियां तथा । ;l{1660} वीणादिकं ततमथो मुरजप्रकार- मानद्धमेतदवनद्धमपि प्रदिष्टम् । वंश्यादिकं तु सुषिरं सुशिरं च कांस्य- तालादिकं घनमितीह चतुर्विधं तत् ॥ १४ ॥ वीणा भवेद्घोषवती च वल्लकी ;l{1665} स्त्रियां विपञ्ची किल कं[49a]ठकूणिका । सा सप्ततन्त्रीः परिवादिनी तथा नालम्बिका सा गदिता पिनाकिनः ॥ १५ ॥ सरस्वत्याः कच्छपी सा महती नारदस्य च । प्रभावती गणानां स्यात्तुम्बरोस्तु कलावती ॥ १६ ॥ ;l{1670} विश्वावसोः स्याद्बृहती सूत्रवीणा तु लावुकी । चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा ॥ १७ ॥ ततभेदाः कैंनदी(री) स्याच्चित्रार्थालापिनीमुखाः । ;p{0077} वीणायास्तु गुणस्तन्त्रीः स्त्रियां कोलम्बकस्तु ना ॥ १८ ॥ कायो स्यात् शारिका कोणोऽस्त्रियां वीणादिवादनम् । ;l{1675} न स्त्री प्रवालो दण्डोऽस्या उपनाहो निबन्धनम् ॥ १९ ॥ प्रसेवकः स्यात्ककुभो मूले वंशशलाकिका । कलिका कूणिका चाथ मृदङ्गो मुरजः समौ ॥ २० ॥ हरीतक्याकृतिः सोऽङ्क्यो यवमध्यस्तथोर्द्ध्वकः । अर्धकाभोगिकालिङ्ग्या आनकः पटहोऽस्त्रियौ ॥ २१ ॥ ;l{1680} ढक्का कुहकगुञ्जा च यशःपटह इत्यपि । क्रोशध्वनिश्च निःस्वानो लम्पापटह इत्यपि । प्रतिप[49b]त्पटहः क्रोकाना(?) लोटगुञ्जा तु सोल्पकः । आनको दुन्दुभिः पुंसि भेरिर्भम्भा*हावुभौ ॥ २३ ॥ काहला काहलं शब्दमाला दीर्घरवाथ सा । ;l{1685} क्रीडनार्थं पत्रकृता वालाद्यैश्चण्डकाहला । पिच्छला स्यादथ द्वंद्वे हुडुक्कस्तालमर्द्दलः ॥ २५ ॥ सूत्रकोणो डमरुको मड्डुः पणीय(?)वाद्यकम् । डिण्डिमः क्षुद्रपटहो गोमुखो गोमुखाकृतिः ॥ २६ ॥ पणवो मध्यतन्त्रीको झर्झरोऽस्त्री च झल्लरी । ;p{0078} ;l{1690} मुखघण्टा कुलकुटी किङ्किणी क्षुद्रघण्टिका । किङ्किणीका प्रतिसरा घर्घरीका तु पादगा ॥ २७ ॥ पाठिका स्यान्मधुकरी पाठो वंशश्च कीर्त्यते । द्रगण(ड)स्तूर्यगण्डः स्याद्वंशी तु मुरली स्त्रियौ । स्यात्पुष्करं वाद्यमुखं टट्टरी पटहध्वनि । ;l{1695} वीणया तूपगायेद्यस्त्रिष्वसावुपवीणयन् । वीणावादो वैणिकः स्यान्नाडिध्व(?)स्ताडवादकः ॥ २८ ॥ वेणुध्मः स्याद्वैणविको भेरिको भेरिवादकः । मार्दङ्गिको मौरजिकस्तद्वत्पाणविकादयः ॥ २९ ॥ पाणिंधमः पाणिघः स्या[50a]त्पाणिवादसमार्थकः । ;l{1700} मुष्टिंधमो मुष्टिवादोऽथो माडुकिक-माडुकौ ॥ ३० ॥ स्याज्झार्झरो झार्झरिकस्त्रिषु स्युर्वैणिकादयः । कालस्य क्रियया मानं तालोऽथ करनिर्मितः ॥ ३१ ॥ करताली करर्द्धिः स्त्री तालमध्ये तु कुक्कुटी । स्त्रियां गुणनिका च स्यात्ताण्डवं तु न योषिति । ;l{1705} नृत्यं नृत्तं नर्तनं च नाट्यं नटनं लास्ययुक् ॥ ३२ ॥ नारीणां मण्डली नृत्यं क्लीबं हल्लीस(श?)कं मतम् । ग्रामीणतोषकं नृत्यं तरामञ्जी भवेत्स्त्रियाम् ॥ ३३ ॥ पानगोष्ठ्यां तूच्चतालं रणे वीरजयन्तिका । नर्तको लासको लिष्वो लष्वोऽपि स्यान्नृतूरपि ॥ ३४ ॥ ;l{1710} लीलावसर एकोऽसौ नर्तकी लासिकाङ्गना । ;p{0079} स्त्रीनर्तकः प्राकषिकोऽथासौ स्त्रीवेषधारकः ॥ ३५ ॥ भ्रकुंसश्च भ्रुकुंसश्च भ्र(भ्रू)कुंसश्च भृकुंसवत् । सूत्रधारः सूचकः स्यात्स्थापकोऽप्ययमुच्यते ॥ ३६ ॥ पारिपार्श्विक उद्दिष्टः सूत्रधारस्य पार्श्वगः । ;l{1715} नन्दी[50b] नान्दीकरो नान्दिवादी नान्दीकरी वधूः ॥ ३७ ॥ अस्त्री नटः कृशाश्वी शैलाली सर्ववेशि-रसिकौ च । भरतोघः(?) शैलूषो रङ्गाजीवोऽङ्गनाजीवी ॥ ३८ ॥ धर्मीसुतो भौमिकः स्याद्भ*तोऽथ महानटः । कटप्रूः पुंस्यथ स्तोत्रकारे चारण-वर्णकौ ॥ ३९ ॥ ;l{1720} कुशीलवोऽथ वेश्यानामाचार्यः पीठमर्द्दकः । नर्मदः केलिसचिवः पीठमर्दोऽपि संमतः । वासन्तिकः केलिकलो विदूषको वैहासिकः प्रतिबुधः प्रहासः । भवेद्विटः पल्लविकोऽपि षिद्ग- ;l{1725} कोष्ठ(?)क्षुद्रा नटी तत्र च कारिका स्यात् ॥ ४० ॥ नेपथ्यं रङ्गभूमिः स्यादानर्तो वेषधारणम् । भूमिका वर्णका द्वंद्वे पात्राण्यत्राधिकारिणः ॥ ४१ ॥ नाट्योक्तिषु स्याद्बहुधा प्रकाशं श्रव्यं वचोऽथ स्वगतं तदन्यत् । ;l{1730} रहस्यमाप्ते परिवृत्य मन्यां यदुच्यते स्यादपवारितं तत् ॥ ४२ ॥ ;p{0080} मध्ये कथापवार्यान्यांस्त्रिपताकेन पाणिना । क्लीबे जनान्तिकं तत्स्यान्निःशलाकोऽस्त्रियामपि ॥ ४३ ॥ तत्रभ[51a]वत्तत्र भवन्भगवन्नेवं च संबोध्याः । ;l{1735} तत्तन्नाम्नश्च परैः पादाद्यैर्यजनीया ये ॥ ४४ ॥ राजा भट्टारको देवः स स्वामी मन्त्रिभाषिते । अधमोक्तौ स भट्टः स्यादथ वैहासिकोक्तिषु ॥ ४५ ॥ संबोधनं वयस्येति भूपे भावेति पण्डिते । देवी कृताभिषेकान्या भट्टिनी भोगिनी च सा ॥ ४६ ॥ ;l{1740} युवराजो राजपुत्रः कुमारो भर्तृदारकः । राज्ञः श्यालो राष्ट्रियः स्यात्तत्सुता भर्तृदारिका ॥ ४७ ॥ सौम्यो भद्रमुखश्च स्मा(स्या?)दधमोक्तौ नृपात्मजः ॥ ४७ ॥ विदूषकोक्तौ राजी(?) च भवति गदितोऽस्त्रियाम् । द्विजभार्या भट्टिनी स्यादार्या गोस्वामिनी च सा । ;l{1745} आर्यपुत्रस्तथार्यः स्यात्स्त्रीणामामन्त्रणे पतिः ॥ ४५ ॥ आवुकः स्यात्पितावुत्तो भावुको भगिनीपतिः । ज्यायानार्यः प्रसूरम्बाथान्तिका चान्तिका स्वसा ॥ ५० ॥ बाला वासूः स्त्रियां शिष्टे त्वार्य-मारिष-मार्षकाः । अज्जुकानुचरैर्वेश्या वाच्या राज्ञानुनामतः ॥ ५१ ॥ ;l{1750} सेनान्तं नाम[51b] वेश्यानां दत्तान्तं वणिजामिदम् । हण्डे हञ्जे अव्यये द्वे नीचां चेटीं प्रति क्रमात् ॥ ५२ ॥ वृद्धस्तातोऽथ वत्सः स्यात्पुत्रकश्च कनीयसि । आयुष्मन्निति संबोध्यो रथी सूतेन सर्वदा ॥ ५३ ॥ ;p{0081} सखीसंबोधने तु स्याद्धला स्त्री च हलाव्ययम् । अवध्य इति फूत्कृत्य शब्देऽब्रह्मण्यमन्तिमे ॥ ५४ ॥ ;l{1755} सुगृहीतं क्लीबमामेत्यव्ययं स्वीकृतौ भवेत् । असूचितप्रवेशे स्यादपटीक्षेप इत्यपि ॥ ५५ ॥ दृश्यं तु काव्यं किल रूपकं स्यान् नाकेतर(?)स्तत्तु दशप्रकारम् । अष्टादशोक्तान्युपरूपकाणि ;l{1760} स्युः प्रायशो नाटकलक्षणानि ॥ ५६ ॥ दिव्यादिव्यनृपर्षिनायकवरप्रख्यातवृत्तान्वितं पञ्चाद्यादशनिर्मिताङ्करचनं शृङ्गारवीराधिकम् । निष्ठोक्ताद्भुतपञ्चसंधिसरसं गोपुच्छतुल्याङ्गकं भूयो भूतिगुणौचितीप्रचुरितं दृश्योत्तमं नाटकम् ॥ ५७ ॥ ;l{1765} एतदेव यदा सर्वैः पताकास्थानकैर्युतम् । अङ्कैश्च दशभिर्भव्यं महानाटकमुच्यते ॥ ५८ ॥ धीरप्रशान्तसु[52a]कृतादिमतिद्विजाति- सन्मन्त्रवाणिजनवीनकथाविधानम् । ;l{1770} शृङ्गारमुख्यमिह नाटकलक्ष्मशालि तद्वर्णितं प्रकरणं शरणं रसानाम् ॥ ५८ ॥ आकाशोक्त्या वर्णितामन्त्रणोक्ति- प्रत्युक्त्याढ्यो भारतीवृत्तिशाली । एकाङ्कः स्याद्वीरशृङ्गारभाजा ;l{1775} भाणो युक्तो नायकेनैककेन ॥ ५९ ॥ नेता धीरोद्धतक्ष्मापतिरपि दिविजो हास्यशृङ्गारशान्ता यत्र स्युर्नाङ्गिनोऽमी सुबहुतरनरः स्वल्पनारीजनश्च । एकेनाङ्केन युक्तो विरहितसुदतीहेतुयुद्धप्रयोगो व्यायोगोऽयं विमर्शं न कलयति तथा कैशिकीं गर्भसंधिम् ॥ ६० ॥ ;l{1780} वीरो यत्र प्रधानं सुरदितिजगतं वृत्तमङ्कत्रयं स्यात् आद्येऽङ्के द्वौ च संधी पृथगितरकयोर्निर्विमर्शः स एकः । ;p{0082} नेतारो द्वादश स्युर्विविधनिजफला नात्र बिन्दुप्रवेशो कैशिक्यो नोद्यतार्थो भवति समवकाराह्वयोऽनल्परूपः ॥ ६१ ॥ इन्द्रजालरणरोषमायिकोद्भ्रान्तचेष्टितबहूपरागकः । ;l{1785} रौद्रमुख्यचतुरङ्कसं[52b]युतः कैशिकीप्रभृतिवर्जितो डिमः ॥ ६२ ॥ एकोऽङ्कश्चतुरङ्कको भवति वा धीरोद्धतो नायको मुख्यः स्यात्करुणो रसः क्वचिदहो शृङ्गार आभासतः । यस्मिन्निर्वहणं मुखं प्रतिमुखं मिश्रं च वृत्तं भवेत् स्यादीहामृग एष केऽपि विबुधा उत्सृष्टिकाङ्कं विदुः ॥ ६३ ॥ ;l{1790} आकाशभाषिताद्यैरुक्तिप्रत्युक्तिभिश्चित्रा । वीथ्येकनायकाङ्का साङ्गा शृङ्गारभूयिष्ठा ॥ ६४ ॥ यद्भाणवद्रचितसंधि तदङ्गशोभं हास्यप्रधानमपि लास्यविराजदङ्गम् । विष्कम्भकादिरहितं कविकल्पवृन्दं ;l{1795} तत्प्रोच्यते प्रहसनं बहुनायकं च ॥ ६५ ॥ नाटिका तु कविक्लृप्तचरित्रा सानुरागनृपवंश्यनायिका । किं च धीरललितोत्तमनेत्री ज्यायसी वशगतद्वययोगा ॥ ६६ ॥ सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं भूरिशृङ्गारं प्रत्यङ्कं सविदूषकम् ॥ ६७ ॥ ;l{1800} शृङ्गारहासबहुला किल कैशिकीयुग् गर्भावमर्शरहिताप्यनुदात्तवृत्ता । [53a]यस्यां नराश्च दश वा नव वा स्त्रियः स्युः षट् पञ्च वा विलसदङ्कवरा च गोष्ठी ॥ ६८ ॥ नाटिकालक्षणोपेतं प्राकृतप्रायमद्भुतम् । ;l{1805} निर्विष्कम्भं जवनिकानामाङ्कं षट्टकं भवेत् ॥ ६९ ॥ एकाङ्कके हास्यरसप्रधाने यस्मिन्नुदात्तः खलु नायकः स्यात् । ;p{0083} स्यान्नायिका वासकसज्जिका च तन्नाट्यवासं प्रवदन्ति सन्तः ॥ ७० ॥ ;l{1810} प्रस्थानमङ्कद्वयसंयुतं स्यात् नेतात्र दासो रमणी च दासी । स्यात्कैशिकी यत्र विलासभूमा स्यात्संहृतोऽर्थोऽत्र सुरादिपानात् ॥ ७१ ॥ शृङ्गारहासकरुणग्रथितार्थवृत्तं ;l{1815} दिव्याश्रयं बहुरणं सदुदात्तवीरम् । शिल्पाङ्गगीतिमसवर्णवधूचतुष्क- मुल्लाप्यमेतदुदितं त्रिभिरङ्ककैः स्यात् ॥ ७२ ॥ त्रिसंध्यारभटीहीनमेकाङ्कं हास्यसंकुलम् । उदात्तनायिकाशालि काव्यं स्याद्भग्नतालकम् ॥ ७३ ॥ ;l{1820} गर्भावमर्शरहितमेकाङ्कं हीननायकम् । असूत्रधारविष्कम्भं प्रेङ्खणं सर्ववृत्तियुक् ॥ ७४ ॥ [53b] भाषाविभाषायुतमेककाङ्क- मसूत्रधारं हृतवीथिरीति । संश्लिष्टनान्दीसहितं कलायुक् ;l{1825} स्याद्वा(द्रा?)सकं मन्दमतिप्रधानम् ॥ ७५ ॥ पाखण्डनायकं यत्त्रिभिश्चतुर्भिर्युतं चाङ्कैः । शृङ्गारशोकरहितं छलभूयिष्ठं च संलापम् ॥ ७६ ॥ श्रीगदितं तद्गदितं प्रख्यातोदात्तवृत्तं यत् । युक्तं गर्भविमर्शैः श्रीशब्दाढ्यं सभारतीवृत्ति ॥ ७७ ॥ ;l{1830} चतुरङ्कं चतुर्वृत्ति हास्यशान्तविवर्जितम् । सप्तविंशत्यङ्गयुतं विप्रनेतृ च शिल्पकम् ॥ ७८ ॥ शृङ्गारबहुलैकाङ्का हीना गर्भविमर्शतः । हीननेत्री सनृत्याङ्गा स्वल्पवृत्ता विलासिका ॥ ७९ ॥ ;p{0084} तिस्रः पञ्च तथा च षड्दशवरा नाडीर्दधानैः क्रमाद् ;l{1835} वेदाङ्कैः सहिता विटादिललिता सद्भारती कैशिकी । गर्भं नैव दधाति नागरयुता न्यूनेन नेत्रा युता शृङ्गारप्रचुरैर्युताखिलरसैर्दुर्मल्लिका सा मता ॥ ८१ ॥ नाटिकैव प्रकरणी सार्थवाहादिनायका । कैशिकीभारतीवृत्तियुतैकाङ्का सु[54a]नायका ॥ ८२ ॥ ;l{1840} भाणिका श्लक्ष्णनेपथ्यतुल्यवंशोत्थनायिका । हल्लीशः पुनरेकाङ्कः सप्तादिस्त्रीजनैर्युतः ॥ ८३ ॥ उदात्तनायकः संधिद्वययुक्कैशिकीयुतः । बहुतानलयस्थानं शृङ्गारैकप्रधानकः ॥ ८४ ॥ अष्टौ द्वादश षोडश क्वचन वा चत्वारि वा प्रायशो ;l{1845} बिभ्राणा सुपदानि चन्द्रकमलक्षेमाभिधाभाञ्जि या । विघ्नौघक्षतिकृद्विवक्षितकथासंसूचिकाशीर्नति- प्राया स्यादिह पूर्वरङ्ग उदितो नान्दी च नान्दिः स्त्रियाम् ॥ ८५ ॥ श्लेषादिभिः प्रस्तुतार्थसूचनं मुखमुच्यते । प्रस्तुतेष्वभिनेयेषु प्रशंसा स्यात्प्ररोचना ॥ ८६ ॥ ;l{1850} स्याद्यत्र सूत्रधारादेः संलापः प्रकृतोचितः । प्रस्तावना चामुखं च सा पुनः पञ्चधोदिता ॥ ८७ ॥ पदानि त्वगतार्थानि तदर्थगतये नराः । योजयन्ति पदैरन्यैः स उद्घात्यक उच्यते ॥ ८८ ॥ सूत्रधारस्य वाक्यं वा वाक्यार्थो वापि कारणम् । ;l{1855} भवेत्पात्रप्रवेशस्य कथोद्घातः स उच्यते[54b] ॥ ८९ ॥ यदि प्रयोग एकस्मिन्प्रयोगोऽन्यः प्रयुज्यते । तेन पात्रप्रवेशश्चेत्प्रयोगातिशयो हि सः ॥ ९० ॥ कालप्रवृत्तिमाश्रित्य सूत्रधृग्यत्र वर्तयेत् । तदाश्रयस्य कार्यस्य प्रवेशः स प्रवर्तकः ॥ ९१ ॥ ;p{0085} ;l{1860} यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते । प्रयोगे खलु तज्ज्ञेयं नाम्नावलगितं बुधैः ॥ ९२ ॥ आवर्षं द्व्यहतो निबद्धचरितः संलग्नबिन्दुः क्वचिन् नातिश्लोकयुतो रसादिबहुलश्चासन्नसन्नायकः । अन्ते निर्गतपात्रकस्त्रिचतुरैः पात्रैर्युतो बीजवान् ;l{1865} साक्षाद्युद्धवधादिभिर्विरहितः स्पष्टोक्तिरङ्को मतः ॥ ९३ ॥ अङ्कोदरप्रविष्टो यो रङ्गद्वारा मुखादिमान् । अङ्कोऽपरः स गर्भाङ्कः स बीजः फलवानपि ॥ ९४ ॥ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षिप्तार्थश्च विष्कम्भः स भवेदङ्कपूर्वगः ॥ ९५ ॥ ;l{1870} मध्येन मध्यमाभ्यां वा पात्राभ्यां स प्रयोजितः । शुद्धः स्यात्स तु संकीर्णो नीचमध्यमकल्पितः ॥ ९६ ॥ अङ्कद्वयस्य मध्यस्थो विष्क[55a]म्भोदितलक्षणः । अनुदात्तोदितैर्नीचपात्रैर्युक्तः प्रवेशकः ॥ ९७ ॥ अन्तर्जवनिकासंस्थैः सूचनार्थस्य चूलिका । ;l{1875} अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ॥ ९८ ॥ यत्राङ्कोऽवतरत्येषोऽङ्कावतार इति स्मृतः । यत्र स्यादङ्क एकस्मिन्नङ्कानां सूचनाखिला ॥ ९९ ॥ बीजार्थख्यापनं तत्स्यात्तथाङ्कमुखमित्यपि । विष्कम्भप्रमुखाः पञ्च ह्यर्थोपक्षेपकाभिधाः ॥ १०० ॥ ;l{1880} यथार्थे चिन्तितेऽन्यस्मिंस्तल्लिङ्गोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताका साभिधीयते ॥ १०१ ॥ वृत्तं वस्तु प्रसङ्गस्थं तन्नेतुः प्रकरी स्त्रियाम् । अपेक्षितं तु साध्यं तन्निष्पन्नं कार्यमुच्यते ॥ १०२ ॥ एकप्रयोजनो येन कथांशानामवान्तरे । ;l{1885} प्रयोजनैर्भवेद्योगः स संधिः परिकीर्तितः ॥ १०३ ॥ ;p{0086} यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । प्रारम्भेण समायुक्ता मुखसंधिः स उच्यते ॥ १०४ ॥ फलप्रधानोपायस्य मुखसंधिनिवेशिनः । लक्ष्यालक्ष्य इवोद्भेदो यत्र प्रतिमुखं मतम् ॥ १०५ ॥ ;l{1890} [55b] प्रागुद्भिन्नस्य यः किंचित्समुद्भेदो हि गर्भकः । यत्र मुख्यफलापाय उद्भिन्नो गर्भतोऽधिकः ॥ १०६ ॥ शापाद्यैः सान्तरायः स्यात्स विमर्श इति स्मृतः । बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ॥ १०७ ॥ ऐकार्थ्यमुपनीयन्ते निष्ठा निर्वहणं च तत् । ;l{1895} समापनं च संहारोऽथोपक्षेपोऽर्थसंभवः ॥ १०८ ॥ समुत्पन्नार्थबाहुल्यं भवेत्परिकरः पुमान् । परिन्यासोऽर्थनिष्कारो गुणाख्यानं विलोभनम् ॥ १०९ ॥ या श्लक्ष्णनेपथ्यविशेषचित्रा स्त्रीसंकुला प्रोज्ज्वलगीतनृत्या । ;l{1900} शृङ्गारसारा प्रचुरोपचारा स्यात्कैशिकी चारुविलासयुक्ता ॥ ११० ॥ शौर्यदयार्जवयुक्ता बहुसत्त्वा स्तोकशृङ्गारा । हृतशोका धृतहर्षाद्भुतयुक्ता सात्वती वृत्तिः ॥ १११ ॥ वधबन्धादिनिबद्धा क्रोधोद्भ्रान्तादिचेष्टिता या च । ;l{1905} उद्धतवर्णनिबन्धा प्रचण्डवीरा मतारभटी ॥ ११२ ॥ बन्धुरसंस्कृतयुक्ता मधुरसुधाधौ[त]वर्णार्था । औचित्यचातुरीणां पात्रं सर्वत्र भारती वृत्तिः ॥ ११३ ॥ संस्कृता सौर[56a]सेनी च पैशाची मागधी तथा । राक्षसी दैशिकी चेति भाषाभेदाः षडीरिताः ॥ ११४ ॥ ;l{1910} अङ्गहारोऽङ्गविक्षेपोऽङ्गाहारिस्तु स्त्रियां भवेत् । प्रसह्योर्ध्वीकृतः पादो दण्डपादोऽभिधीयते ॥ ११५ ॥ ;p{0087} व्यञ्जकः स्यादभिनयो वाङ्निर्वृत्तः स वाचिकः । आङ्गिकस्त्वङ्गनिर्वृत्तः सत्त्वोत्थः सात्त्विको भवेत् ॥ ११६ ॥ आरोप्यः पुनराहार्यो वाचिकाद्या विशेष्यगाः । ;l{1915} प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि ॥ ११७ ॥ कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः । अयं तु त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ ११८ ॥ पताकस्य यदाङ्गुष्ठो भवेदुच्चैः स्वदेशजः । अर्द्धचन्द्राकृतिर्यस्मादर्धचन्द्रः स कथ्यते ॥ ११९ ॥ ;l{1920} त्रिपताकस्य हस्तस्य मध्यमा दृष्टदेशगा । तर्जनी स्यात्तदा हस्तः कर्तरीमुख उच्यते ॥ १२० ॥ तर्जन्यादिष्वङ्गुलीषु प्राच्याः प्राच्याः पराः पराः । दूरस्था वा मनावे(ग्व?)क्रा धनुर्वक्रा तु तर्जनी ॥ १२१ ॥ तन्मूले कुञ्चिताङ्गुष्ठो यत्रारालः स उच्यते । ;l{1925} तलमध्य[56b]स्थितानि स्युरङ्गुल्यग्राणि यत्र च ॥ १२२ ॥ निःपीड्य तिष्ठत्यङ्गुष्ठो मध्यमां मुष्टिकाभिधः । अयमूर्ध्वीकृताङ्गुष्ठः शिखरो जायते करः ॥ १२३ ॥ यदाङ्गुलाग्रलग्नाग्रा तर्जनी स कपित्थकः । यद्यनामाकनीयस्यावुत्क्षिप्ते कुटिलीकृते ॥ १२४ ॥ ;l{1930} विरली च कपित्थस्य स भवेत्कटकामुकः । यदा त्वरालहस्तस्य वक्रे तर्जन्यनामिके ॥ १२५ ॥ शुकतुण्डस्तदा हस्तो जायते शुकतुण्डवत् । एवमन्येऽपि भेदाश्च ज्ञेयाः सूचीमुखादयः ॥ १२६ ॥ विभावो रसहेतुः स्यादनुभावस्तु तद्भवः ॥ १२७ ॥ ;l{1935} रसोत्पत्तौ सहाया ये भावास्ते व्यभिचारिणः । काव्ये नाट्ये विभावाद्यैर्व्यक्तः स्थायी रसः स्मृतः ॥ १२८ ॥ ;p{0088} रत्यादयः स्थायिनः स्यू रसास्वादस्तु चर्वणा । शृङ्गोऽस्त्रीमन्मथोद्भेदो रतिस्त्वनुरतिः स्त्रियौ ॥ ११८ ॥ अनुरागोऽपि रागोऽथ भावो मानसविक्रिया । ;l{1940} ईषद्व्यक्ता रतिर्हावो हेला व्यक्ततरा रतिः ॥ ११९ ॥ शृङ्गार-हास्य-करुणा भयानको रौद्र-वीर-बीभत्साः । शान्ता[57a]द्भुताविति रसा दशमो वात्सल्यनामापि ॥ १२० ॥ शृङ्गारोऽस्त्री रसज्यायाञ्शुचिरुज्ज्वल इत्यपि । समौ संयोग-संभोगौ यूनोः पूर्णे मनोरथे ॥ १२१ ॥ ;l{1945} विप्रलम्भो विप्रयोगो वियोगो विरहस्तथा । हासो हसो हासिका स्त्री हसनं हास्यघर्घरे ॥ १२२ ॥ स्मितं त्वदृष्टदन्तं तत्तत्तु वक्रोष्ठिकं नरि । दृश्यदन्तं तु हसितं मध्यं विहसितं भवेत् ॥ १२३ ॥ स्यादाच्छुरितकं चावच्छुरितं पररोषकृत् । ;l{1950} अट्टहासो महाहासोऽतिहासस्तु समं ततः ॥ १२४ ॥ अपहासोऽकारणजः स्मेरस्तच्छीलवांस्त्रिषु । मिथोहासो व्यावहासी स्त्रियां विनिमयाद्धसेः ॥ १२५ ॥ हासिका क्रमतो हासः शोक-खेदौ च शोचनम् । शुक् स्त्रियामथ दैन्यं स्यात्कार्पण्यं दीनता खिदा ॥ १२६ ॥ ;l{1955} कृपानुकम्पा करुणा घृणा च दयया सह । शूकोऽस्त्री ना न्वनुक्रोशः कारुण्यं च दरस्त्रिषु ॥ १२७ ॥ ;p{0089} आतङ्कोऽस्त्री पुमांस्त्रासो भयं साध्वसमन्तिमे । आशङ्का-भी-भीति-भियाः[57b] स्त्रियोऽथाग्न्यादिजन्म तत् ॥ १२८ ॥ अदृष्टमथ दृष्टं स्याद्भयं स्वपरचक्रजम् । ;l{1960} भूभृतां स्यादहिभयं स्वपक्षप्रभवं भयम् ॥ १२९ ॥ अत्याहितं महाभीतिरथ पुंसि रसार्थकाः । भीषणो भैरवो भीमो भीष्मो घोरो भयंकरः ॥ १३० ॥ भयानकः प्रतिभयो दारुणश्च भयावहः । आभीरश्चाथ रौद्रः स्यादुग्रस्तद्वत्स्वमी त्रिषु ॥ १३१ ॥ ;l{1965} उग्रा रौद्री भैरवीति विशेष्यं यदि कामिनी । रोषामर्ष-क्रोध-कोप-प्रतिघाः क्रुध्-क्रुधा-रुषाः ॥ १३२ ॥ रुट् स्त्री मन्युर्भाम-खष्पौ वीरस्तूत्साहवर्धनः । उत्साह ऊर्ज उद्योग उद्यमश्चाभियोगवत् ॥ १३३ ॥ सर्गोर्थ(था?)ध्यवसायः स्यात्सूत्रतन्तुः प्रगल्भता । ;l{1970} समर्थता शूरता च प्रौढिः स्त्री कियदेतिका ॥ १३४ ॥ न पुंसि वीर्यं शौण्डीर्यमवज्ञा चातिशक्तिता । बीभत्सो विकृतः पुंसि वैकृतस्त्रिष्वथार्त्तनम् ॥ १३५ ॥ घृणा जुगुप्सा वीज्या स्यादृतीया च हृणीयमा(?) । ऋतिर्ह्रणीयाथ शमः शमथोपशमावपि । ;l{1975} तृष्णा[58a]क्षयः स्त्रियां शीतिर्विस्मयश्चित्रमद्भुतम् ॥ १३६ ॥ चौद्यमाश्चर्य-वीक्षे च चित्राद्या भेद्यलिङ्गकाः । ऋतिंकरस्त्रिषु भवेज्जुगुप्साकृत्समार्थकाः । ;p{0090} डम्बरः स्याच्चमत्कारः प्रश्रयः प्रेम न स्त्रियाम् ॥ १३७ ॥ प्रियता प्रणयः स्नेहो विद्वेषस्तु विरोधवत् । ;l{1980} वैरं चाथ भवेद्वाम्यं प्रातिकूल्यं प्रतीपता ॥ १३८ ॥ उपनाहो वैरबन्धः कातिर्वक्त्रानुकूलता । आनुकूल्यं तु दाक्षिण्यमथ विप्रतिसारवत् । विप्रतीसार उद्दिष्टोऽनुतापानुशयौ तथा ॥ १३९ ॥ पश्चात्तापोऽप्यथावज्ञा रीढा लीढावमानना ॥ १४० ॥ ;l{1985} हेला त्रिष्ववहेलं स्यादसूर्क्षणमसूक्षणम् । अनादरोऽथाभिभव-परिभाव-पराभवाः ॥ १४१ ॥ तिरस्कारः परिभवो न्यक्कारश्च निकारवत् । अत्याकारोऽपि धिक्कारः प्रतिध्वंसोऽवधीरणम् ॥ १४२ ॥ पुंसि मर्षः क्षमा क्षान्तिस्तितिक्षा च सहिष्णुता । ;l{1990} सहनं चाप्यभिध्यानमभिध्यान्यस्वदुःस्पृहा ॥ १४३ ॥ असूयाभ्यवसूया च मत्सरो दोषरोपणम् । ई[58b]र्ष्या त्वीर्क्ष्या तथेरस्या परोत्कर्षासहिष्णुता । स्पर्धा स्त्री पुंसि संघर्षो द्रोहस्तु स्यादपक्रिया ॥ १४४ ॥ निकारो विप्रकारः स्यात्खलीकारोऽपि संमतः । ;l{1995} दर्पोऽवलेपोऽहंकारोऽभिमानो गर्व-गर्वरौ । अहंता ममता मानोऽस्त्री स्मयो मानसोन्नतिः । मानग्रन्थिर्भवेन्मन्तुः स स्थिरस्तु ग्रहो मतः । अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् । अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥ १४६ ॥ ;l{2000} अहमहमिका तु गर्वो मिथोऽथ विद्यापदीष्यादेः(?) । ;p{0091} अवहेलनमात्मीयं निर्वेदो निर्विदा खेदः ॥ १४७ ॥ क्लमथस्तु क्लमो ग्लानिः क्लमि(?)र्म्लानिर्बलक्षतिः । शङ्कानिष्टोन्नयोऽथ स्यान्मदो मुन्मोहसंगमः ॥ १४८ ॥ श्रमः परिश्रमः क्लेशः खेद आदीनवास्रवौ । ;l{2005} व्यायामश्च प्रयासः स्यादायासः स्त्यानमन्तिमे ॥ १४९ ॥ कौसीद्यं मिद्धमालस्यं चिन्तश्चिन्ता च चिन्तिया । स्त्रियां स्मृतिः पंसनं(?) स्याद्ध्यानं [न] नरि चिन्तना ॥ १५० ॥ आध्यानं तूत्कण्ठापूर्वकचिन्ता द्वये तु चो[59a]त्कण्ठा । उत्कलिका रतिरायल्लकं तथा पुंसि रणरणक उक्तः ॥ १५१ ॥ ;l{2010} औत्सुक्यं हृल्लेखो रुहिरुहिका मुण्मूसो(?)धिकस्तथा शूका । मोहो मूर्च्छा कश्मलमौढ्ये च शेश्च मूर्च्छायः ॥ १५३ ॥ तोषस्तु धैर्यं स्वास्थ्यं च स्वस्थता च धृतिश्चतुप्रा(?) । हृदयं लिखति कर्मण यग् हृदयस्य हृल्लेखेति हृत् । द्वयोर्व्रीडस्त्रपा लज्जा ह्री ह्रीका ह्रीकया युता । ;l{2015} नटाम्बि(न्ति)का च मन्दाक्षं तदन्यस्मादपत्रपा ॥ १५३ ॥ चापलं त्वनवस्थानं हर्षश्चेतःप्रसन्नता । संवेगः संभ्रमावेगावाटोपो रभसस्तथा । संरम्भोऽपि स्त्रियां तूर्त्ति-तूस्त्वरा-त्वरि-तूर्णयः ॥ १५४ ॥ जडता जडिम-स्तम्भौ मौर्ख्यं स्त्री तु विषादिता । ;l{2020} विषादः खेद-सादौ चावसादोऽप्यथ संलयः ॥ १५५ ॥ ;p{0092} संवेशः स्याच्छयः स्वप्नः स्वापः शयनमस्त्रियाम् । निद्रा सुप्तिरथावेशोऽपस्मारः सहसा भयम् ॥ १५६ ॥ कालेशयनमाख्यातमासीनप्रचलायितम् । तन्द्रिर्नन्दीमुखी तन्द्रा श्वासहेतिः प्रमीलिका । ;l{2025} चक्रावर्तो भ्रमो भ्रान्ति[59b]र्भ्रमिर्घूर्णिश्च घूर्णनम् । साधिका स्त्री सुषुप्तिः स्यात्सुप्तं स्वप्नेऽपि या मतिः ॥ १५७ ॥ बोधः प्रबोधो जागर्या जागरो न नपुंसके ॥ १५८ ॥ अमार्षोऽभिनिवेशोऽथाकारगुप्तिश्च संविधा । अवहित्थं न पुंसि स्यादत्युग्रत्वं तु चण्डता ॥ १५९ ॥ ;l{2030} भ्रूभङ्गोऽचक्षुरन्त्ये स्याद्भ्रकुटिर्भ्रुकुटिः कुदृक् । भ्रूकुटिर्भृकुटी स्त्री स्याददृष्टिरपदृष्टिवत् ॥ १६० ॥ आधिः पुंसि मनस्तापोऽथोन्मादश्चित्तविभ्रमः । मरणं चेतनानाशो मूर्च्छाभेदो बुधैर्मतः ॥ १६१ ॥ निर्वेदाद्यास्त्रयस्त्रिंशदुद्दिष्टा व्यभिचारिणः । ;l{2035} कटाक्षाद्यास्तु शृङ्गारस्यानुभावाः शरीरजाः ॥ १६२ ॥ निर्वर्णनं स्यान्निध्यानं दर्शनं च निभालनम् । निशामनं निशमनं वीक्षणं च निरूपणम् ॥ १६३ ॥ आलोकनं द्योतनं च दृष्टिदर्क(र्दृक्च?) स्त्रियामुभे । काक्षः कटाक्षोऽपाङ्गेक्षा वर्कराटोऽक्षिकूणितम् ॥ १६४ ॥ ;l{2040} उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् । ;p{0093} आघूर्णमानमध्या या क्षामान्ताञ्चिततारका । दृष्टिर्विकसितापाङ्गा [60a]मदिरा साभिधीयते । निक्षणं चुम्बनं चुम्बो मेलके सङ्ग-संगमौ ॥ १६६ ॥ श्लेषः परिष्वङ्गरहोपगूहोऽ- ;l{2045} प्यमी परीरम्भयुताः पुमांसः । क्रोडीकृतिस्तत्सद(दृ?)गङ्कपाली मा(आ?)लिङ्गनं नार्युपगूहनं च ॥ १६७ ॥ यद्योषितः संमुखमागतायाः परापदेशाद्व्रजतो नरस्य । ;l{2050} गात्रेण गात्रं घटते तदेनद् आलिङ्गनं स्पृष्टकमाहुरार्याः । बाहुभ्यां कण्ठमालिङ्ग्य कामिनी कान्त उत्थिते । अङ्कमारोहते यच्च वृक्षारूढं तदुच्यते ॥ १६९ ॥ उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि । ;l{2055} तल्लतावेष्टितं ज्ञेयं कामानुभववेदिभिः । अर्धेन्दुस्तु नखाङ्कश्चोत्पलपत्रं नखक्षतम् । तत्स्त्रीकुचे बर्कराटः शृङ्गारप्रणवोऽधरे । मणिमाला च खण्डाभ्रं नारीणां दशनक्षतम् । अथ स्याद्दशनोच्छिष्टं यूनोरधरचुम्बने । ;l{2060} स्याद्ग्राम्यधर्मो मदनोत्सवश्च [60b]व्यवाय-संभोगक-संप्रयोगाः । कुरीर-संवेशन-मोहनानि महासुखं स्यात्सुरतं रतं च ॥ १६९ ॥ ;p{0094} निधुवनं च रहो रहमन्तिमे ;l{2065} निगदिते च कुटारक-मैथुने । मदनकेलि-रती च पशुक्रिया- थ विपरीतरते पुरुषायितम् ॥ १७० ॥ रजन्यां यद्रतं गोप्यं तत्खञ्जनरतं भवेत् । निर्वेश-प्रगमौ भाटिभीटिः कीला रताहतिः । ;l{2070} अङ्गजाः स्युरलंकाराः स्त्रीणां भावादयस्त्रयः ॥ १७१ ॥ शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता । औदार्यं धैर्यमित्यासामलंकाराः प्रयत्नजाः ॥ १७२ ॥ लीला विलासो विच्छित्तिर्बिब्बोकः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ १७३ ॥ ;l{2075} विकृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । चकितं हसितं केलिरित्यष्टादश शीलजाः ॥ १७४ ॥ स्नानं वसनं तिलको लेपो हारोऽञ्जनं काञ्ची । नासामौक्तिककुण्डलनूपुरकुचकञ्चुकीमालाः ॥ १७५ ॥ कबरीबन्धो वलयं ताम्बूलं चातुरी चेति । ;l{2080} [61a]षोडश योषाभूषा औपाधिक्यो बुधैः कथिताः ॥ १७६ ॥ रूपयौवनलालित्यैः शोभा स्यादङ्गभूषणम् । रूपं क्लीबे च लावण्यं सौन्दर्यं च समं त्रयम् । कामेनाप्यायिता कान्तिः सैव दीप्तिस्ततोऽधिका ॥ १७७ ॥ ;p{0095} सर्वावस्थासु सौन्दर्य माधुर्यं परिकीर्तितम् । ;l{2085} केलिकर्मणि वैयात्यं प्रागल्भ्यं समुदीरितम् ॥ १७८ ॥ सापराधेऽपि कान्ते स्यादौदार्यं विनयः सदा । धैर्यं स्थैर्यं मनोवृत्तेरथ श्लिष्टोक्तिचेष्टितैः ॥ १७९ ॥ प्रियस्यानुकृतिर्लीला क्रीडा खेला च खेलनम् । देवनं नर्मकेलिस्तु द्वयोः पुंसि तु बर्करः ॥ १८० ॥ ;l{2090} परिहासः परीहासो द्रवश्च सदृशार्थकाः । विलासो वल्लभालोके सात्त्विकानां समुद्भवः ॥ १८१ ॥ स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १८२ ॥ हर्षाद्रुदितगीतादिव्यामिश्रं किलकिञ्चितम् । ;l{2095} क्रन्दितं रुदितं क्रुष्टं परिदेवनमित्यपि ॥ १८३ ॥ आक्रन्दश्चाथ तं धावन्भवेदाक्रन्दिकस्त्रिषु । [61b]स्त्री विशेष्या यदि भवेदसावाक्रन्दिकी मता । तद्भावभाविते चित्ते वल्लभस्य कथादिषु । जृम्भणं कर्णकण्डूयेत्यादि मोट्टायितं भवेत् ॥ १८४ ॥ ;l{2100} पुंसि वक्रविकासः स्याज्जृम्भस्तु त्रिषु जृम्भणम् । केशस्तनाधरादीनां ग्रहे हर्षेऽपि संभ्रमात् ॥ १८५ ॥ नेति नेति शिरःपाणिधूतिः कुट्टमितं मतम् । त्वरया हर्षरागादेर्दयितागमनादिषु ॥ १८६ ॥ अस्थाने भूषणादीनां विन्यासो विभ्रमो भवेत् । ;l{2105} सुकुमारतयाङ्गानां विन्यासो ललितं मतम् ॥ १८७ ॥ मादो मदो विकारो यो यौवनाद्यवलेपजः । ;p{0096} वक्तव्यकालेऽप्यवचो लीलया विकृतं भवेत् ॥ १८८ ॥ नयनं प्रियविश्लेषे स्मरावेगोत्थचेष्टितम् । अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ॥ १८९ ॥ ;l{2110} वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्वदर्शिभिः । भूषाणामर्घरचना वृथा विष्वगवेक्षणम् ॥ १९० ॥ रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके । सा कर्णाकर्णिका प्रोक्ता रहस्योक्तिर्मिथःश्रुतौ ॥ १९१ ॥ रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् । ;l{2115} कौतूहलं कौतुकं च कुतुकं च विनोदकः ॥ १९२ ॥ हसितं तु[62a] वृथाहासो यौवनोद्भेदसंभवः । विलासे सह कान्तेन क्रीडायां केलिरुच्यते ॥ १९३ ॥ देवनं कूर्द्दनं खेला खेलो विहृतिरित्यपि । क्रीडा च ललनं चाथ तस्यां प्रहरणं यदा । ;l{2120} दण्डा हि(दि?)स्यात्तदा दाण्डा मौष्टा याष्टैवमुन्नयेत् । आवीनकं तर्णकानां स्थालीषु क्रीडनं मतम् । रासो रासे रसो गो(?)धुग्जनस्य क्रीडनं मतम् । विप्रलम्भो विसंवादोऽभ्युपपत्तिरनुग्रहः ॥ १९४ ॥ पुंस्याचारश्चरित्रं स्याच्चारित्रं चरणं तथा । ;l{2125} चरितं वृत्तमस्त्री तत्रिष्वा(?)शीलोऽस्त्रियां शुचि ॥ १९५ ॥ ;p{0097} भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः । आजानलक्षणानूकरूपतत्त्वानि शीलकम् । संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥ माया स्त्री कुसृतिस्तथा च निकृतिर्व्याजोऽपदेशोपधी ;l{2130} दम्भः कैतवपक्ष(त्र?)शाठ्यकुहकं दण्डाजिनं स्यान्मिषम् । * * * * * * * * * * * * * छद्म स्याच्छलमस्त्रियां तु कपटं कूटं च संश्चन्निभम् ॥ १९७ ॥ वञ्चनमतिसंधानं प्रतारणा स्त्री व्यलीकमस्त्री न(?) । माया तु शाम्बरी[62b] स्यात्कुसृतिर्जालं तथा कुहकम् ॥ १९८ ॥ ;l{2135} चिन्ताभिलाष[ः] स्मरणं प्रशंसा प्रलाप उद्वेजनमामयश्च । जडत्वमुन्मादयुगन्तकालो- ऽवस्था दशैता विरहातुराणाम् ॥ १९९ ॥ तर्षोऽभिलाषोऽपि मनोरथोऽस्त्री ;l{2140} कामो वशः स्त्री तु तृषा तृडाशा । काङ्क्षा स्पृहेहापि च कान्तिरिच्छा- ऽऽशंसा च वाञ्छा कविरन्न(?)लिप्सा ॥ २०० ॥ प्रेप्सा च तृष्णापि च दोहदोऽस्त्री स्याल्लालसात्यर्थमसौ न षण्ढे । ;l{2145} लोभस्तु गर्द्धामिथुना(?) धनाया- ऽथोद्वेग उक्तो विषयेष्वनिच्छा ॥ २०१ ॥ इच्छान्नस्याशनाया स्त्री जिघत्सा क्षुत्क्षुधा रुचिः । उदन्या स्त्री पिपासा च तृषा-तृष्णा-तृषोऽम्बुन[ः] ॥ २०२ ॥ रोचको अथ तर्षः स्याद्वित्सा स्त्री चोपलासिका(?) । ;l{2150} एवं स्त्रियस्तत्तदिच्छासूक्ताः पिपठिषादयः । यदृच्छा स्वैरिता स्वेच्छा तथा स्वाधीनता स्त्रियः ॥ २०३ ॥ स्तम्भः स्वेदः स्वरभ्रंशो रोमाञ्चोऽपि विवर्णता । बाष्पश्च कम्पः प्रलय इत्यष्टौ सात्त्विका मताः ॥ २०४ ॥ ;p{0098} विष्टम्भः प्रतिबन्धो नरि प्रतिष्टम्भ ईरितो जडिमा । ;l{2155} स्वेदः सिप्रोऽङ्गरसो निदाघ-घर्मौ स्वजोपि घर्मान्त्ये[63a] ॥ २०५ ॥ स्वरभेदः स्वरसादो स्वरभङ्गः स्यात्स्वरध्वंसः । कण्टक-पुलकावस्त्री रोमाञ्चो रोमहर्षश्च ॥ २०६ ॥ रोमविकारो रोमाङ्कुरं रोमोद्भेद ईरितोऽपि पुलः । उद्धर्षणमुल्लसनं त्वक्पुष्पं च त्वदङ्कुरोऽस्त्री स्यात् ॥ २०७ ॥ ;l{2160} विवर्णता तु कालिका दृगम्बुबाष्पमस्त्रियाम् । तथैव लोतमस्रु चाश्रु मुस्रमश्र-रोदने ॥ २०८ ॥ कम्पो वेपथुरत्र कम्पनमथो दर्दूः स शीताधिका मूर्छा स्त्री प्रलयो विचेष्टनमथोद्धर्षोद्धवौ च क्षणः । पुंसि स्यान्मह उत्सवोऽथ चरमे सान्तं महः संमतं ;l{2165} प्रोक्तः खण्डरसश्च चित्ररसयुक्सर्वेऽपि यस्मिन्रसाः ॥ २०९ ॥ ;c{इति नाट्यवर्गः ।} ;v{वारिवर्गः} स्त्रियामापो वारो बहुषु सलिलं वारि सरिलं जलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः । कबन्धं कं पाथं घृतममृतमर्णो जनहितं कृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥ ;l{2170} सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि । ;p{0099} पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥ वार्जीवनं जीवनीयं दगर्णे(?) सर्वतोमुखम् । गवं(?)सरः कर्बुरं च पवित्रं पूतमङ्कुरः । कम्बलं तामरं कृत्स्नं क्षणदं स्यन्दनं मधु । ;l{2175} क्षरं कंत्वलिगं * * न स्त्री कोडं(?)रसं विषम् ॥ ३ ॥ कमलं क्षीरं भुवनोस्वीस्यं(?)घनरसं कुशम् । यादो वासो(?)वर्णसिर्ना नोडुः पुंसि स्त्रियां त्विरा ॥ ४ ॥ तीर्थं त्वर्दवज्जलं(?)काजलं स्यात्काम्भः कोदकमित्यपि । * * * * * * * * त्वर्थं त्रिष्वत्र देयके । ;l{2180} अपां विकार आप्यं स्यादापमप्सव्यमम्मयम् ॥ ५ ॥ स्त्रियामाप्याम्मयी चापि स्यादापोविकृतौ पुनः । आपोमयं चापसं च स्त्रियामापोमयीति दिक् ॥ ६ ॥ अभिवृष्टं नवं दृष्टं तद्दिव्यं स्याद्दिवश्च्युतम् । धारं धाराप्रवृष्टं यत्कारं स्यात्करकोद्भवम् ॥ ७ ॥ ;l{2185} तुषारजं तु तौषारं हैमं स्याद्धिमसंभवम् । गाङ्गं गङ्गाप्रवाहोत्थं सामुद्रं तु समुद्रियम् ॥ ८ ॥ दिवा सूर्यकरैस्तप्तं रात्र्यां चन्द्रकरैर्हिमम् । अगस्त्योदयनिर्दोषं हंसोदकमिति स्मृतम् ॥ ९ ॥ भौमं भूमिभवं चौण्ट्यं स्व[64a]यंशीर्णशिलाभवम् । ;l{2190} औद्भिदं भूमिमुद्भिद्य जातं कौपं तु कूपजम् ॥ १० ॥ नादेयं स्यान्नदीजन्म ताडागाद्येवमुन्नयेत् । उदकार्ह उदक्यः स्यात्तद्वानुदकलो भवेत् ॥ ११ ॥ भवेदुदकिलश्चाथ पयसी देशनामनि । अतलस्पृशि रन्ध्रे स्यादगाधं चाप्यगाधकम् ॥ १२ ॥ ;p{0100} ;l{2195} भवेदस्थाघमस्थागमस्ताघं च समार्थकम् । निम्नं गभीरं गम्भीरमुत्तानं तु ततोऽन्यथा ॥ १३ ॥ प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् । पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् । ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः । ;l{2200} देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् । पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचः पारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् । गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता- कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥ ;l{2205} रत्नाकरः सिन्धु-महासरौ[64b] च तरन्त-मीरौ मकरालयश्च । महाशय-श्रीगुरु-सागराश्च मितद्रु-दभ्रार्णव-पाथिषः स्युः ॥ १६ ॥ स्रोतःपतिस्तविष-ताविष-धेन-यादः- पत्यूर्मितात-वरुणालय-मीनकोषाः । वार्धिः कृपीटमणि-कुस्तुभकाविरावान् ;l{2210} क्लीबेऽत्र शैलशिबिरं च महासरश्च ॥ १७ ॥ लवणोदः क्षीरोदो दध्युद आज्योद-मद्योदौ । इक्षूदो मधुरोदः सप्त विभेदाः समुद्रस्य ॥ १८ ॥ तरङ्ग-भङ्गौ नरि पुंसि चोर्मिर्वीचिर्लहर्युत्कलिकाम्बुवल्ली । ;p{0101} कल्लोल उल्लोल इमासु तुङ्गास्ववर्तकोऽम्भोभ्रम-वारिगुल्मौ ॥ १९ ॥ ;l{2215} जलरुण्डो जलावर्तस्तालूरो वोलकोऽप्यसौ । जलस्फोटो बुद्बुदः स्यात्स्थासकौगंतु(?)इत्यपि ॥ २० ॥ अथ फेनायमानः स्यात्फेनमुद्वमति त्रिषु । फेनिलः फेनलः फेनी फेनवांस्तद्युतो भवेत् । पुमांसौ बिन्दु-पृषतौ विप्रुट् स्त्री तद्द्वयोः पृषत् ॥ २१ ॥ ;l{2220} चक्रमस्त्री चक्रमन्त्ये पुटभेदो नरीरितः । ऊर्ध्वं निःसरणेऽधस्तोऽपांभ्रमो जल[65a]निर्गमः ॥ २२ ॥ जलाञ्चलं तु मन्दाकं स्रोतं स्रोतोऽपि चान्तिमे । उत्सः स्रवः प्रस्रवणं निर्झरस्तु झरो नरि ॥ २३ ॥ झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः । ;l{2225} ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥ समुद्रपूरे वेला स्यात्सा मर्यादापि वारिधेः । वेलावनं समुद्रस्य समीपस्थितकाननम् ॥ २५ ॥ कूलदेशस्तु मर्यादा प्रपातो रोध आदिमे । कूलं तीरं प्रतीरं च कच्छं रोधस्तु यत्त्रिषु ॥ २६ ॥ ;l{2230} पारं परमवासान्तं(?) क्लीबे स्यादवारं च स्त्रियौ(?) । ;p{0102} प्राक्तारं पूर्वतीरं स्यादवाक्तारं तु दक्षिणम् ॥ २७ ॥ प्रत्यक्तारं प्रतीचीनमुदक्तारं तदुत्तरम् । पारीणः स्यात्पारभवोऽवारीणोऽवारसंभवः ॥ २८ ॥ भवेदवारपारीणोऽवारपारभवो हि यः । ;l{2235} भवेदवारपारीणोऽवारपारं हि गामिनि ॥ २९ ॥ पारीणश्चाप्यवारीणः पारावारीण इत्यपि । पारगस्तर्तरीकश्च पारीणाद्या विशेष्यगाः ॥ ३० ॥ स्यात्पारावारयोर्मध्ये पात्रं भाण्डं समार्थकम् । नदी पा[65b]त्रे भङ्गुरे स्याद्वङ्कः पुंसि नपुंसके । ;l{2240} द्वीपोऽस्त्रियामन्तरीपं तटं पानीयमध्यगम् ॥ ३१ ॥ त्रिषु द्वैप्यं यदन्वम्भोनिधिद्वीपसमुद्भवम् । स्त्रियां द्वैप्या द्वैपमन्यदान्तरीपं तु तद्भवम् ॥ ३२ ॥ पुलीनोऽस्त्री तोयभवं सैकतं सिकतामयम् । स्यात्पादचत्वरः शुद्रिवालुका शर्करोपमा ॥ ३२ ॥ ;l{2245} सिकता[ः] प्रायशो भूम्नि स्त्रियां ता यदि पादयोः । वेधिन्यः स्युस्तदा पद्यास्तथा दृश्यपदा अपि ॥ ३३ ॥ शर्कराभिस्तु निर्वृत्ति शर्करा स्त्री परे त्रिषु । शर्करीयं शार्करिकं स्तः शर्करिक-शार्करे ॥ ३४ ॥ भवेच्छार्करकं वाथ देशे तद्वति योषितौ । ;l{2250} शर्करा-सिकते शर्करिलः सिकतिलस्त्रिषु ॥ ३५ ॥ देशे तद्वत्यदेशे तु शर्करालोऽपि शार्करः । दूर्वाञ्चिततटी भूमिः पांशुचामर उच्यते ॥ ३६ ॥ पङ्काम्बुकल्कौ न स्त्रीत्वे जम्बालः कृमिवल्लभः । निषद्वरः कर्द्दमश्च शादश्चावकि[की]लो दमः ॥ ३७ ॥ ;p{0103} ;l{2255} अकालजलकेशः स्यात्पङ्कारो जलनीलिका । हठपर्णी च कावारं जलशूक-जलाञ्चलम् ॥ ३८ ॥ शैवालमस्त्री शेवालं शैवलः शीवलं [66a] समम् । जलज्वरोऽस्त्री शेपालं जलचामरमीरितम् । परिवाहः परीवाहो जलोच्छ्वासो जलाशयः ॥ ३९ ॥ ;l{2260} परिधायो जलाधारो द्रहोऽगाधजलो ह्रदः । अविदासी ह्रदः स स्याज्जलं यत्र न शुष्यति । अन्धुः पुंस्यास्यवीनाही कारेलुश्च प्रहिर्द्रुहिः ॥ ४० ॥ उदपानं पुंसि वा स्याद्द्वंद्वे कूपो जलाम्बिका । सप्रप्यान(?)स्तथापीनो भेद्यवद्वृद्धिमान्यदि । ;l{2265} कोट्टारश्चारघट्टश्च महाकूपोऽथ कूपकः ॥ ४१ ॥ उत्सो विदारकश्चुण्डि-चुर्यौ विवर-चूतकौ । अन्धकूपः खटः पुंसि स तृणादिभिरावृतः । कूपो दैर्घवरत्रः स्यान्निर्वृत्तो दीर्घवर्ध्रय(?) ॥ ४२ ॥ निवृत्तो दत्तगुप्ताभ्यां दात्तो गौप्तः क्रमान्मतः । ;l{2270} आहावः स्यान्निपानं च पूपान्तिकजलस्थलम् ॥ ४३ ॥ नेमिस्त्रिका दारुयन्त्रमथास्य मुखबन्धनम् । नान्दीमुखो नन्दिमुखः स्यान्नान्दीपट इत्यपि ॥ ४४ ॥ वीनाहः स्यान्नन्दिपटो विनाहोऽप्यत्र कीर्तितः । उद्घाटनं घटीयन्त्रं पादावर्तोऽरघट्टकः ॥ ४५ ॥ ;l{2275} महत्तरो ग्रामकूपो वापी वा[66b]पिश्च दीर्घिका । ;p{0104} चवोलः(?) प्रतिकूपस्तु जलाष्ठीलाम्बुकूपिका ॥ ४६ ॥ स्त्रियां पुष्करिणी तल्लो बिल्लं खातं तलोऽस्त्रियाम् । कुण्डं देवजलाधारे न स्त्री स्याद्देवखातकः ॥ ४७ ॥ अखातश्च तडागोऽस्त्री तटाकः कूलमन्तिमे । ;l{2280} पद्माकरश्चाथ पुंसि कासारः स्यात्तुलाङ्गकः ॥ ४८ ॥ सरं सरश्च क्लीबे द्वे सरसी तु महत्सरः । वेशन्त-पल्वलावस्त्री तल्लः स्वल्पसरोर्थकः ॥ ४९ ॥ जातौ मण्डूकसरसं नाम्नाम्बुसरसं मतम् । परिखा खातिका खेयं खातं यत्परितः पुरम् । ;l{2285} पारिखेयी तु परिखा हिता भूम्यादिका त्रिषु ॥ ५० ॥ तोयेन सहिते शैलबिलटङ्को(?) नृषण्डयोः । आधारोऽम्भो बन्धनं स्यात्त्वालिः पालिश्च पिण्डिलः । पुंसि सेतुर्वरण्डः स्यात्समुद्रारुश्च संवरः ॥ ५१ ॥ आवालमालवालोऽस्त्री पुंसि त्वावाप उच्यते । ;l{2290} द्वयोः प्रणाल्यम्बुपथो घट्टः स्यात्तीर्थमस्त्रियाम् ॥ ५२ ॥ सिन्धुः स्त्री ह्रदिनी धुनी च तटिनी जम्बालिनी वाहिनी कर्षूर्निर्झरिणी समुद्रगृहिणी शैवालिनी वार्वहा । स्रो[67a]तस्वत्यपगा नदी जलधिगा स्यान्निम्नगाप्यापगा कुल्या द्वीपवती सरिद्गिरिभवा धेना च कूलंकषा ॥ ५३ ॥ ;l{2295} तरङ्गिणी स्वर्णवर्णा रोधोवक्रा सरस्वती । ;p{0105} स्रवन्ती च तलोदा स्याद्वहा स्रोतस्तु न स्त्रियाम् ॥ ५४ ॥ गिरेर्नदी गिरिणदी तथा गिरिनदी मता । क्लीबाव्ययं चोपनदं तथोपनदि च स्मृतम् । सप्तगोदावरं सप्तगङ्गं द्वियमुनं तथा । ;l{2300} देशे तून्मत्तगङ्गं स्यात्तथा लोहितगङ्गकम् । पारेगङ्गं तु गङ्गायाः पारे पूर्ववदीरितम् । वहो नदो भिद्य उद्ध्यः सरस्वत्सम(प्त?)सिन्धवः । हिरण्यबाहुः शोणः स्यात्स्वर्णवाहोऽप्यसौ भवेत् ॥ ५५ ॥ शणीरः पुंसि शोणस्य मध्यस्थं पुलिनं भवेत् । ;1{2305} गङ्गा विष्णुपदी तथा सुरनदी सिद्धापगा स्वर्णदी स्वर्वापी सुरदीर्घिका मकरगा नद्युत्तमा जाह्नवी । त्रिस्रोता हरशेखरा त्रिपथगा भागीरथी भीष्मसूः प्रोक्ता हैमवती कुमारजननी धर्मद्रवा स्यात्सिता ॥ ५६ ॥ मन्दाकिनी शंतनुकामिनी च व्योमापगा सा गदितर्षिकुल्या । ;l{2310} [67b] शोणोदकान्तःसलिला तथैव सरस्वती धातृसुता मता सा ॥ ५७ ॥ कालिन्दी रवितनया यमुना च यमस्वसाप्यसिता । तिसृणामासां सङ्गे त्रिवेणिरुक्ता मुनिप्रवरैः ॥ ५८ ॥ तीर्थराजः प्रयागोऽथ श्यामोऽक्षय्यो वटोऽत्रगः । पूर्वगङ्गेन्दुजा रेवा नर्मदा मेकलाद्रिजा ॥ ५९ ॥ गोदा गोदावरी गोला गौतमी चाभिधीयते । ;l{2315} तपना तपती तापी सैत्या(षा?) स्यात्तपनात्मजा ॥ ६० ॥ पूर्णा पयोष्णी शिप्रा तु क्षिप्रा मालवमालिनी । शतद्रुर्ना शुतुद्रिश्च विपाशा तु विपाट् स्त्रियाम् । ;p{0106} वैपाशायन्य-वैपाशौ वैपाशेयो विपाट्सुत(तः) ॥ ६१ ॥ ;l{2320} करतोया सदानीरा वितस्ता स्त्री वितस्तिका । चान्द्रभागी चान्द्रभागा चन्द्रभागा च चन्द्रिका ॥ ६२ ॥ सरयूः सरयुश्च स्त्री सारवं तद्भवे त्रिषु । दाविकं देविकाजातं कावेरी त्वर्द्धजाह्नवी ॥ ६३ ॥ बाहुदा बाहुदी च स्यादार्जुनी सैतवाहिनी । ;l{2325} मौक्तिकाम्बा ताम्रपर्णी विष्णुखानिस्तु गण्डकी ॥ ६४ ॥ स्यात्कौशिकी [68a] मालिनी च वाशिष्ठी गोमती भवेत् । चर्मण्वती वेत्रवती वेणिका देविका मही ॥ ६५ ॥ भीमा कृष्णा तुङ्गभद्रा दुग्धिनी च शरावती । इरावती कर्मनाशा प्रणीताद्याश्च निम्नगाः ॥ ६६ ॥ ;l{2330} अल्पा नदी सारणी स्यात्कुल्यानीका प्रजालिका । समौ संभेद-संवेधौ सरितोः संगमे मिथः ॥ ६७ ॥ आदायः संनिपातः स्यात्ताम्रपर्णीसमुद्रयोः । जानुदघ्नी जानुमात्री स्याज्जानुद्वयसी तथा ॥ ६८ ॥ जान्वादिकप्रमाणायां नद्यामन्यत्र भेद्यवत् । ;l{2335} नाव्यं तु त्रिषु नौतार्ये नाव्या स्यात्स्त्री विकोषणे ॥ ६९ ॥ तरीस्तरन्ती तरणिस्तरी नौर् वेडा च मङ्गिन्यपि तारणिश्च । न स्त्री तरण्डोऽप्युडुपश्च पादा- लिन्दी स्त्रियां पुंसि तु कोल-भेलौ ॥ ७० ॥ ;p{0107} ;l{2340} अम्भोरथेऽसौ प्लव आलु चान्तिमे द्रोणिर्द्रुणिः काष्ठकृताम्बुवाहिनी । स्यात्क्षेपणिः स्त्री क्षिपणिश्च मङ्गिनी- दण्डोऽथ मङ्गस्तरिमस्तकोऽस्त्रियाम् ॥ ७१ ॥ पोलिन्दा मध्यदण्डाः स्युः कूपको[68b] गुणवृक्षकः । ;l{2345} कर्ण-नौरथ-केपाता अरित्रं कोटिपात्रकम् ॥ ७२ ॥ काष्ठकुद्दालकोऽभ्रिः स्त्री बारुण्डो स्त्री च सेचनम् । सेकपात्रमथावाप आतरोऽनुतरं तथा ॥ ७३ ॥ तरपण्यं तारकस्तु कर्णधारश्च नाविकः । * * * * * * * * वोहित्थं वहनं तथा । तस्मिन्प्रवहणं तर्त्तरीकमप्यन्तिमे मतम् । ;l{2350} पोतवाहः पोतवहो नियामश्च नियामकः ॥ ७५ ॥ अर्धनावं त्वर्धनावी नावार्धे न नृलिङ्गके । द्विनावं च त्रिनावं च पञ्चनावं समाहृतौ ॥ ७६ ॥ त्रिष्वतीतनु यन्नावमतिक्रान्तं भवेदिह । ;l{2355} द्विनावरूप्यो यो द्वाभ्यां नौभ्यामभ्यागतो भवेत् ॥ ७७ ॥ नावा तरन्नाविकः स्यान्नाविका स्त्री च तादृशी । बाहुका घटिकश्चैवंमता गौपुच्छिकादयः ॥ ७८ ॥ स्त्री गौपुच्छिक्यौडुपिकी तथा माङ्गिनिकीति च । तरिषस्तु तरीता स्यात्तरकश्च तरश्च सः । ;p{0108} ;l{2360} पञ्चनौः पञ्चभिर्नौभिः क्रीतः क्लीबे तु पञ्चनु ॥ ७९ ॥ कैवर्तो जालिकश्छोटी धीवरो दाश-दाशकौ । न पुंसि जाली त्वानायः [69a] शणसूत्रं पवित्रकम् । संकोचोऽस्त्री मत्स्यबन्धः कुवेणी मत्स्यतूलिका । मत्स्याधानी मत्स्यपात्री तथा मत्स्यकरण्डिका ॥ ८१ ॥ ;l{2365} बडिशं बलिशं क्लीबेऽथाल्पेऽस्मिन्बडिशी स्त्रियाम् । पलावः पञ्जरः खेटो मात्स्यिको मैनिकस्त्रिषु ॥ ८२ ॥ मत्स्यो मच्छो झषो मीनोऽण्डज आम्भसिकस्तिमिः ॥ ८० ॥ विसारः शकली शल्की पृथुरोमाप्सुजेल्वलौ । वैसारिणः संघचारी कण्टकी स्वकुल*[क्ष]यः ॥ ८१ ॥ ;l{2370} स्थिरजिह्वश्चानिमिष आत्माश्यप्सुचरस्तथा । स्याद्दण्डपालः शकुलः गडकः शकुलार्भकः ॥ ८३ ॥ रोहितो मत्स्यराजः स्यान्मद्गुरो राजशृङ्गकः । शृङ्गी तस्य प्रियोऽथ स्यात्पाठीनश्चित्रलोचनः ॥ ८४ ॥ सहस्रदण्डो बादालस्तथा रूप्योदरः स्मृतः । ;l{2375} उलूपी पुंसि शिशुकः प्रोष्ट(ष्ठ?)स्तु शफरो द्वयोः ॥ ८५ ॥ स्याच्छ्वेतकोलकश्चाथ नडमीनश्चिलीचिमः । चिलीचिमीर्बृहन्मीनोऽम्भोधिजस्तिमिरित्यपि ॥ ८६ ॥ तिमिंगिलस्त[69b]द्गिलः स्यात्तिमिंगिलगिलस्तथा । ;p{0109} राघवः स्यान्महामीनो राजी राजीव इत्यपि ॥ ८७ ॥ ;l{2380} शालः शालो महामत्स्या नन्द्यावर्तादयः परे । क्षुद्राण्डमत्स्यवृन्दं तु पोताधानं जलाण्डकम् ॥ ८८ ॥ क्रूरं जलचरं सत्त्वं यादोऽन्त्ये मालवः पुमान् । यादोज्वरस्त्विन्द्रमदः शुण्डा तु जलहस्तिनी । कुम्भी कुम्भीर आलास्यो नक्रः स्याज्जलशूकरः । ;l{2385} महामुखो गोमुखश्च शङ्खास्यस्तालुजिह्वकः ॥ ८८ ॥ शिशुमारो जलकपिः पलाङ्गश्चासिपुच्छकः । महावसोष्णवीर्यौ च स्यादुद्रोऽम्बुबिडालकः ॥ ९० ॥ जलप्लवोऽम्बुनकुलो नीराखुश्च वसी पुमान् । अवहारो नक्रराजो ग्राहो जलविराटकः ॥ ९१ ॥ ;l{2390} जलाटकस्तन्तुनागो नाग-तन्तुणकावपि । पञ्चग्राहर्ष्य-मकर-यादोभेदास्तु भूरिशः ॥ ९२ ॥ कर्कटो जलबिल्वः स्यात्पिङ्गचक्षुर्द्विधागतिः । तिर्यग्यानः कुलीरश्च कुरुचिल्लोऽपि शेगवः ॥ ९३ ॥ षोडशाङ्घ्रिश्चाथ कूर्मः क्रोड[70a]पादश्चतुर्गतिः । ;l{2395} पञ्चाङ्गगुप्तो दौलेयो गुह्यः पारीरणस्तथा ॥ ९४ ॥ कमको(ठो?)ऽस्त्री कच्छपः स्याद्धालाङ्गो नरि जीवयः (?) । दुलिर्दुली कच्छपी च कर्कटी माघमा भवेत् ॥ ९५ ॥ गण्डूपदः किंचुलको गर्गः कुसूर्महीलता । गण्डूपदी शिली चाथ निहाका गोधिकापि च ॥ ९६ ॥ ;p{0110} ;l{2400} लत्तिकापि स्त्रियां नित्यं प्रायो भूम्नि जलौकसः । जलायुका जलौका च जलुका च जलाटनी ॥ ९७ ॥ रक्तपाम्भःसर्पिणी स्याज्जलूकाव्रणवेधिनी । मुक्तास्फोटोऽब्धिमण्डूकी शुक्तिरब्जोऽम्बुपोदरः ॥ ९८ ॥ त्रिरेखः षोडशावर्तः शङ्ख-कम्बू तु ना(नृ?)स्त्रियौ । ;l{2405} दक्षिणावर्त्तशङ्खोऽस्त्री तस्मिन्वार्द्दरमन्तिमे ॥ ९९ ॥ क्षुद्रशङ्खः शङ्खनको नरि स्यात्क्षुल्लकोऽप्यसौ । शम्बूका शम्बुका द्वंद्वे जलडिम्बश्च वण्ठरः ॥ १०० ॥ जलशुक्तिर्घोङ्घपङ्कमण्डकौ श्वेतकस्तु ना । कपर्दश्च हिरण्यः स्यात्पणास्थिक-वराटकौ ॥ १ ॥ ;l{2410} वराटिका वटी [70b] सोऽल्पः काकिणी ताश्च विंशतिः । दुर्नामा दीर्घकोशी स्यात्पङ्कशुक्तिः सितालिका । चिकिटः स्यान्महाशल्क इम्बिका जलवृश्चिकः ॥ २ ॥ वर्षाभूः पुंसि मण्डूको हरिर्भेकः प्लवंगमः । प्लव-शालूर-सालूराजिह्व-प्लवग-दर्दुराः ॥ २ ॥ ;l{2415} व्यङ्गको नर्दकश्चाथ वर्षाभूः प्लवगी प्लवी । वर्षाभ्वी वाथ मण्डूकापत्ये माण्डूकिरीरितः ॥ ४ ॥ माण्डूकेयश्च माण्डूको मण्डूकापत्यमङ्गना । माण्डूकायन्युच्यते सा स्थलजास्तु नरादयः ॥ ५ ॥ ते जले जलपूर्वाः स्युर्मत्स्याः संमूर्छनोद्भवाः ॥ ६ ॥ ;p{0111} ;l{2420} पुटकिनी नलिनी च मृणालिनी भवति पङ्कजिनी वसुपर्णिका । बिसवती बिसनाभिरिमाः स्त्रियः कुमुदिनी कथिता च कुमुद्वती ॥ ७ ॥ राजीवं कमलं नलं शतदलं पङ्केरुहं पङ्कजं ;l{2425} पाथोजं सरसीरुहं सरसिजं नालीकमम्भोरुहम् । अम्भोजन्म कुशेशयं च जलजं कंजं करुट् पुष्करं श्रीपर्णं च सहस्रपत्रम[71a]रविन्दाह्वं कचारं तथा ॥ ८ ॥ स्त्री नोत्पलं तामरसं च सारसं बिसप्रसूनं सरसीरुहं च । प्रोक्तं तु पद्मं नलिनं च न स्त्रियां ;l{2430} श्रीवासमत्राम्बुजमस्त्रियां च ॥ ९ ॥ स्त्री नोत्पलं कुवलयं कुवलं कुवं च श्वेतं तु कैरवमिदं [कुमुदं] कुमुच्च । ;l{2435} स्याद्गन्धकान्तमपि गर्दभ-गन्धसोमे इन्दीवरं त्वसितमुत्पलमामनन्ति ॥ १० ॥ सौगन्धिक-कह्लारे हल्लकमपि रक्तसंध्यकं तुल्यम् । स्त्री कर्णिका न तु पुमान्नाजा(न्नब्ज?)नालं सरोजस्य ॥ ११ ॥ ;p{0112} त्रय्यां मृणालं बिस-तन्तुले नभः क्लीबे लिशं चाथ गणेम्बुजादिनः । ;l{2440} षण्डश्च शण्डो गदितौ किलास्त्रियां कन्दः शिफा स्त्री करहाट-कर्दटौ ॥ १२ ॥ अट्टो(?)निशाहसोऽप्यत्र शालूकं तूत्पलादिनः । निर्वृत्तादौ कौमुदिकं तथा कुमुदिकं त्रिषु । सूक्ष्मकन्दः कन्दलः स्यात्त्रिलिङ्ग्यां समुदीरितः ॥ ;l{2445} वराटको बीजकोशः कर्णिका केसरः पुनः । न स्त्री केशर-किञ्जल्कौ दलं संवर्तिका नवम् । पद्माक्षं पद्मबीजं स्यात्का[71b]लोड्यं(?) पद्मकर्कटी । जलालुकं पद्ममूलं शृङ्गाटं जलकण्टकः ॥ १३ ॥ पद्मचारिण्यतिचरा पद्मा पद्मावती च सा । ;l(2450} चारटी गन्धमूला च लक्ष्मीः श्रेष्ठा सुपुष्कला ॥ १३ ॥ त्रिकस्त्रिकोणस्त्रिकटो वारिपर्णी तु कुम्भिका । वृकधूमो ढण्ठणश्च हठः पानीयपादपः । वारासनं वाःसदनं पर्णसिर्जलमन्दिरम् । समुद्रगृहमित्याहुर्जलयन्त्रनिकेतनम् ॥ १४ ॥ ;l(2455} धारायन्त्रं प्रणालीभिर्यत्र वारि प्रणीयते । करपत्रं जलक्रीडा व्यात्युक्षी करपत्रिका ॥ १५ ॥ इत्थं परात्म-स्वर्व्योम-काल-धी-नाट्य-वारिभिः । वर्षैः सप्तभिराम्नातः स्वःकाण्डः साङ्ग आदिमः ॥ १६ ॥ ;c{इति श्रीविश्वनाथविरचिते कोषकल्पतरौ स्वर्गकाण्डः } ;l{2460} ;c{प्रथमः समाप्तः ॥ १ ॥ श्री ॥} ;p{0113} ;k{भूकाण्डः} ;c{श्रीमन्मङ्गलमूर्तिर्जयति ।} मही महीयसी यस्य सर्वबीजा तनुस्तनूः । शंभोर्नमांस्यहं [तस्मै] कुर्वे सर्वैनसां छिदे ॥ १ ॥ पृथ्वी-पुर-धरारण्यौषधि-सिंह-नर-द्विजैः । क्षत्र-विड्-वृषलैः साङ्गैर्वर्गैर्भूकाण्ड उच्यते ॥ २ ॥ ;l{2465} भूः पृथ्वी पृथिवी रसा च पृथवी धात्री धरित्री धरा भूमिर्भूर्णिरिला भुरिग्वसुमती क्षोणी क्षितिः क्ष्मा क्षमा । गौर्गोत्रा जगती स्थिरा कुरवनिर्विश्वाथ विश्वंभरा- ऽनन्ता ज्या च वसुंधरा च वसुधा सर्वंसहा मेदिनी ॥ ३ ॥ उर्वीराम्बुधिमेखला च विपुला स्याद्रत्नगर्भाचला ;l{2470} मह्यम्भोनिधिनेमिरब्धिवसना रत्नप्रसूर्बीजसूः । गन्धाम्बा धरयित्रिका च धरणिः स्याद्भूतधात्री धरा- धारा तत्र च काश्यपी च बलजा दक्षा न ना रोदसी ॥ ४ ॥ भरिमा सहुरिश्च स्त्री रोदसी भूरिहाव्ययम् । द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ४ ॥ ;l{2475} दिवस्पृ[2a]थिव्यौ स्तो द्यावाक्षमे क्लीबे तु रोदसी । उर्वरा सर्वसस्योर्वी सोन्नता मालमन्तिमे ॥ ५ ॥ प्रवणः क्रमनिम्ना भूर्निपत्या सातिपिच्छला । पट्टस्तु शासनं राजदत्ता भौमं तु भूभवे ॥ ६ ॥ मृन्मृत्तिका विकारेऽस्या मार्त्तिको भेद्यलिङ्गकः । ;l{2480} मृत्सा मृत्स्ना प्रशस्ता सा क्षारा तूषा द्वयोरुषः ॥ ७ ॥ उषवानूषवांस्त्रय्यामूषरश्चोषरेरिणौ । स्थलं स्थला कृत्रिमं तत्स्थली तु स्यादकृत्रिमम् ॥ ८ ॥ कृष्णभूमः पाण्डुभूम उदग्भूमो द्विभूमकः । कृष्णादिभूमिके देशे कृष्णभूमादयस्त्रिषु ॥ ९ ॥ ;p{0114} ;l{2485} मरुर्धन्वा जाङ्गलोऽथ जगती वैष्ट्रकं जगत् । भुवनं विष्टपं चास्त्री पिष्टपं विश्वमन्तिमे ॥ १० ॥ लोकोऽथ लोकधातुः स्याज्जम्बूद्वीपं तु न स्त्रियाम् । इलावृतं तु फलभूर्मर्तो भूर्लोक उच्यते ॥ ११ ॥ भुवर्लोकः स्व(सुव)र्लोको महर्लोकादयोऽपरे । ;l{2490} [2b] लोकोऽयं भारतं वर्षमस्त्रियां वर्समित्यपि ॥ १२ ॥ पुंसि स्याद्विषयो देशो निर्गश्चक्रं च मण्डलम् । उपवर्तनमन्त्येऽथ नीवृत्स्त्री राष्ट्रमस्त्रियाम् ॥ १३ ॥ पुमाञ्जनपदश्चाथ वृत्तिर्जानपदी भवेत् । जाता जनपदे याथ नदीं यावच्छरावतीम् ॥ १४ ॥ ;l{2495} देशः प्राग्दक्षिणः प्राच्यः स्यादथोदीच्यपश्चिमः । उदीच्यः स्यादथ म्लेच्छदेशः प्रत्यन्त उच्यते ॥ १५ ॥ हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ १६ ॥ राष्ट्रियस्त्रिषु राष्ट्रे यः कृतक्रीतादिको भवेत् । ;l{2500} दैशिकः स्याद्वैषयिको देश्य-माण्डलिकावपि ॥ १७ ॥ षष्ट्यादियोजनोन्मानो देशो देशान्तरं भवेत् । आर्यावर्तः पुण्यभूमिर्जन्मभूमिश्च सा भवेत् ॥ १८ ॥ आचारवेदिरप्युक्ता मध्यं विन्ध्यहि[3a]मागयोः । गङ्गायमुनयोर्मध्यमन्तर्वेदिः समस्थली ॥ १९ ॥ ;l{2505} ब्रह्मावर्तः सरस्वत्या दृषद्वत्याश्च मध्यतः । धर्मक्षेत्रं कुरुक्षेत्रं पञ्चरामह्रदान्तरम् ॥ २० ॥ क्लीबे विनशनं तस्मिन्ब्रह्मवेदिः स्त्रियां भवेत् । त्रिषु शैबः शिबीनां यो देशोऽस्त्यत्यन्तशीलितः ॥ २१ ॥ ;p{0115} राजन(न्य)कस्तु राजन्यदेशो वैराटकीस्तथा । ;l{2510} एवं शैलूषको दैवयाजकः पौत्रकोऽपि च ॥ २२ ॥ स्याद्भौरिकिविधं भौलिकिविधं च नपुंसके । स्यादैषुकारिभक्तं * * * * * * * * * । * * * * * * * * * * * * पि नड्वलः ॥ २४ ॥ एवं वेतसकीयः स्याद्वेतस्वान्बहुवेतसः । ;l{2515} कुमुद्वान्कुमुदावासो महिष्मान्महिषाश्रयः ॥ २५ ॥ शाद्वलः शादहरितः पङ्किलः पङ्कसंयुतः । उत्करीयस्तूत्करवान्पलाशीयः पलाशवान् ॥ २६ ॥ तृणादिभिस्तु निर्वृत्तस्तृणशः पर्णशस्त[3b]था । अश्मरस्त्वश्मवान्देशो गुडरः खण्डरस्तथा ॥ २७ ॥ ;l{2520} क्रुञ्चायाः क्रुञ्चकीयोऽसौ तक्ष्णः स्यात्तक्षकीच[य]कः । औदुम्बरो बाल्बजश्च पार्वतस्तत्तदन्वितः ॥ २८ ॥ प्रागद्यः स प्रगदिनी कौविदार्यस्तु तद्युतः । स्यान्नदीमातृको देशो यः स्यान्नद्यम्बुपालितः ॥ २९ ॥ वृष्ट्यम्बुपालितो देशः प्रोच्यते देवमातृकः । ;l{2525} मधुमान्मधुसंपन्न आसन्दीवांस्तु तद्युतः ॥ ३० ॥ सौराज्ययुक्तु राजन्वान्राजवांस्तु ततोऽपरः ॥ ३१ ॥ प्राग्ज्योतिषाः कामरूपा अङ्गार्श्वयो(श्चम्पो)पलक्षिताः । वङ्गाः स्युर्हरिकेलीयास्त्रैपुरा डाहलाः स्मृताः ॥ ३२ ॥ डाहालाश्च डहालास्ते कौङ्कणाः कुङ्कणा अपि । ;l{2530} आङ्गका वाङ्गकाश्च स्युस्त्रिषु तद्भक्तयो हि ये ॥ ३३ ॥ अवन्तयो मालवाः स्युर्मागधाः कीकटाभिधाः । आवन्त्यः स्यादवन्तीशस्त्रि[4a]ष्ववन्ती तदीश्वराः ॥ ३४ ॥ ;p{0116} देशाश्चैद्याश्चेदयः स्युर्मरवस्तु दशेरुकाः । साल्वाः स्युः कारकुक्षीयाः साल्वकस्तद्भवो नरः ॥ ३५ ॥ ;l{2535} पदातिस्त्वेष साल्वः स्याद्यवागूर्गौश्च साल्वका । साल्वि[स्तु?] साल्वराजः स्याद्बहुत्वे साल्वयो मताः ॥ ३६ ॥ जालंधरास्त्रिगर्ताः स्युस्तद्भूस्त्रैगर्तकस्त्रिषु । कश्मीराः स्युर्माधुमतास्ताजीकास्ताजिकाभिधाः ॥ ३७ ॥ बाह्लीका बाह्लिकाः सारस्वतास्तु स्युर्विकर्णिकाः । ;l{2540} वाहीका ड(ट)क्कसंज्ञाः स्युः कारूषाः स्युर्बृहद्गृहाः ॥ ३८ ॥ खशास्तुरुष्का हूणाः स्यू रोमकाः साखयश्च ते । वनायवः पारसीका अरब्बाश्च समार्थकाः ॥ ३९ ॥ प्रोक्ता मुरण्डा लम्पाकाः सौवीराः स्युः कुसालकाः । आनर्तास्तु सुराष्ट्राः स्युस्तीरभुक्तिस्तु निच्छविः ॥ ४० ॥ ;l{2545} प्रभासं सोमतीर्थं स्याद्दशार्हाः सा[4b]त्वताश्च ते । यदवः कुकराः प्रोक्ता दशार्णा अपि तत्समाः ॥ ४१ ॥ उशीनराः क्षीरपाणा राढाः सूला(सुह्माः) प्रकीर्तिताः । स्यात्सौह्मनागरः सुह्मनगरे त्रितये भवः । पञ्चापाः स्युः पञ्चनदाः सिन्धवः सिन्धुलक्षिताः ॥ ४२ ॥ ;l{2550} सिन्धुकः सैन्धवश्च स्यात्सिन्धुजन्मादिषु (त्रिषु) । प्रत्यग्रथास्त्वहिच्छत्राः केरलौड्रौत्कलाः समाः ॥ ४३ ॥ कुन्तला उपहाराः स्युरान्ध्रास्तेलङ्गनामकाः । देशभेदास्तु पञ्चाला मत्स्या मद्राश्च गुर्जराः ॥ ४४ ॥ काम्बोजा दरदाश्चोलाः शकाश्चीनाश्च पुण्ड्रकाः । ;l{2555} कर्णाटा द्रविडा लाटाः कुरु-कोशल-काशयः ॥ ४५ ॥ ;p{0117} दशार्णाश्च महाराष्ट्रा विदर्भाद्या अपीतरे । काम्बोजराजः कम्बोजः पञ्चालाद्यास्तदीश्वराः ॥ ४६ ॥ कौरव्यः कुरुदेशेशः कुरूः स्त्री चेत्तदीश्वरा । नैषध्यो नि[5a]षघेशः स्यान्नैषध्योऽन्यः प्रकीर्तितः ॥ ४७ ॥ ;l{2560} स्यात्सुपाञ्चालकस्तद्भूः सर्वपाञ्चालकोऽपि च । अर्धपाञ्चालकस्तद्वत्पौर्वमद्र इमे त्रिषु ॥ ४८ ॥ कुरुपाञ्चालसंभूतः कौरुपाञ्चाल ईरितः । कुरुजङ्गलजे कौरुजाङ्गलः कुरुजङ्गलः । कच्छोऽस्त्री सजले तस्मिंस्त्रिष्वनूपं च लञ्जकः ॥ ४९ ॥ ;l{2565} आनूपं काच्छकं तज्जे विशेष्यवदुदीरितम् । कटः परिसरः पुंसि तस्मिन्पर्यन्तभूमिका ॥ ५० ॥ कर्मान्तः कर्मभूमिः स्याद्यज्ञवाटस्तु यज्ञकः । वास्तुरस्त्री वेश्मभूमिर्गोष्ठं गोस्थानमीरितम् ॥ ५१ ॥ गोगोष्ठं चाथ तद्भूतपूर्वं गौष्ठीनमन्तिमे । ;l{2570} त्रिष्वाशितंगवीनं तद्गावो यत्राशिताः पुरा ॥ ५२ ॥ गोस्थानजः स्याद्गोस्थानो गोशालोऽप्येवमन्यवत् । वम्रीकूटं शक्रमूर्ध कृमिपर्वतवाचकः ॥ ५३ ॥ स्यमीकः स्यमिको वामलू[5b]रो वल्मीकमस्त्रियाम् । पाणिंधमोऽन्यवत्पन्था योऽन्धकारादिसंवृतः ॥ ५४ ॥ ;{2575} पन्थाः पत्सल-चारौ निगमो मार्गः पथोध्व-पद्वाजाः । पद्या-पद्धति-पदवी-सृति-वर्तन्येकपद्यश्च ॥ ५५ ॥ सरणिर्वर्त्मनि-वीथ्यौ शरणिः स्त्री चायनं वर्त्म । अतिपन्थाश्च सुपन्थाः सत्पथ एते पुमांसः स्युः ॥ ५६ ॥ ;p{0118} प्राध्वः स्यात्प्रहतः पन्थाः कान्तारोऽस्त्री स दुर्गमः । ;l{2580} प्रान्तरं दूरशून्योऽन्त्येऽथा[पन्था] अपथं भवेत् ॥ ५७ ॥ कदध्वा तु दुरध्वो व्यध्वोऽस्त्री विपथ-कापथौ । आरण्यकस्तु स भवेत्पन्था योऽरण्यसंभवः ॥ ५८ ॥ स्यात्प्रातिपथिकी प्रातिपथिकापैति तत्सृतिः । सुरङ्गा सन्धिला गूढमार्गो यः स्याद्भुवोऽन्तरे ॥ ५९ ॥ ;l{2585} द्विपथं स्याच्चारपथस्त्रिपथं त्रिकमित्यपि । शृङ्गाटकं स्यात्संस्थानं चतुष्कं [च] चतुष्पथम् ॥ ६० ॥ चत्वरं च द्विपाध्वा तु मार्गो यः स्यादसंकुलः । घण्टापथो राजमार्गः श्रीपथश्चोप[6a]निष्क्रमः ॥ ६१ ॥ महापथः संसरणं तत्पुरस्योपनिष्करम् । ;l{2590} चतुर्विंशत्यङ्गुलः स्याद्धस्तः किष्कुर्द्वयोर्भवेत् ॥ ६२ ॥ दण्डोऽस्त्रियां चतुर्हस्तो धनुरत्र न योषिति । हस्तषोडशकोन्माने दण्डे काण्डं न योषिति । धनुषां तु सहस्रे द्वे क्रोशः क्रोशद्वयं पुनः ॥ ६३ ॥ गव्यूतं गोकृतं गव्या गव्यूतिर्मिथुने तथा । ;l{2595} योजनं मार्गधेनुः स्त्री भवेत्क्रोशचतुष्टयम् ॥ ६४ ॥ नल्वोऽस्त्रियां किष्कुचतुःशती हस्तशती च सः । पुंस्येकाहगमोऽध्वा स्याद्य एकाहेन गम्यते ॥ ६५ ॥ त्रिष्वाश्वीनो हयस्यासौ पथ्यं नापेतमध्वनः । तत्स्यादौत्तरपथिकं यदुत्तरपथाहृतम् ॥ ६६ ॥ ;l{2600} यौजनीको योजनगो यौजनशतिकस्तु तच्छतं गच्छन् । गच्छेत्क्रोशशतं यः स क्रौशशतिक उदीर्यते सद्भिः ॥ ६७ ॥ ;p{0119} पान्थोऽध्वगोऽत्कः पथिकोऽध्वनीनो- ऽध्वन्यः प्रवासागमथश्च गन्तुः । स्याद्दैशिकोऽयं पथि[6b]लोऽपि गातुर् ;l{2605} गोतुश्च पान्था पथिकी तथा स्त्री ॥ ६८ ॥ दूरेत्य आगतो दूरादौत्तराहस्तथोत्तरात् । हारिः स्त्रियां पान्थराजिः पाथेयं शम्बलोऽस्त्रियाम् ॥ ६९ ॥ त्रिषु सर्वपथव्यापी भवेत्सर्वपथीनकः । पथिकः स्यात्पथिबुद्धिः पथिका योषिदीदृशी ॥ ७० ॥ ;l{2610} पन्थकः पथि जातो यः पथिका तादृगङ्गना । अत्यन्तीनोऽत्यन्तगामी मन्दगामी तु मन्थरः ॥ ७१ ॥ जाङ्घिको जवनो जङ्घाकरिको धावको जवी । जङ्घालस्त्वरितो वेगी तरस्वी जव इत्यपि ॥ ७२ ॥ स्यात्संदेशहरो दूतो दूत्यं तद्भाव-कर्मणोः । ;l{2615} दूतः स्रौघ्नः स्रुघ्नगामी पन्था वा यदि तादृशः ॥ ७३ ॥ ;c{॥ इति पृथ्वीवर्गः ॥} ;v{पुरवर्गः} पुरं त्रिलिङ्ग्यां नगरी न पुंसि द्रङ्गो नृलिङ्गो निगमः स्त्रियां पूः । निवेशनं पत्तन-पट्टने च स्थानीयमुक्तं पुटभेदनं च ॥ १ ॥ ;l{2620} मात्रंशमथ यन्मूलनगरोपान्तगं पुरम् । तदभिष्यन्दिर[7a]मणं शाखानगरमित्यपि ॥ २ ॥ भवेदुपपुरं गृह्या नौभिर्गम्यं च पत्तनम् । नौभिर्गम्यं पट्टनं स्यात्खेटोऽर्धपुरमस्त्रियाम् ॥ ३ ॥ अतिपूः शोभनपुरं पुरतुल्यं यथापुरम् । ;l{2625} आयथापुरमेतस्य भावेऽयाथापुरं तथा ॥ ४ ॥ ;p{0120} द्विजानां पूर्द्विजपुरं वेशो वेशाजनाश्रयः । कोट्टो दुर्गं राजधानी स्कन्धावारश्च सा भवेत् ॥ ५ ॥ मथुरा स्यान्मधूपघ्नी मधुरा द्वारका पुनः । कुशस्थली द्वारवती भवेद्विष्णुपदी च सा ॥ ६ ॥ ;l{2630} विशालावन्त्युज्जयिनी सेयं पुष्पकरण्डिनी । एतस्या निकटोद्यानं भवेत्पुष्पकरण्डकम् ॥ ७ ॥ माया तु स्याद्धरिद्वारं कान्तिः काञ्चिरुभे स्त्रियौ । विदेहा मिथिला चाथ गजाह्वं हस्तिनापुरम् ॥ ८ ॥ हास्तिनं च गया तु स्त्री गयपूरथ पुंसि ना । ;l{2635} कन्याकुब्जं कन्यकुब्जं कौशं द्वंद्वे महोदयम् ॥ ९ ॥ कुशस्थलं गाधिपुरं [7b] कौशाम्बी वत्सपत्तनम् । चम्पा तु मालिनी लोमपादपूः कर्णपत्तनम् ॥ १० ॥ त्रिपुरी चेदिनगरी विदर्भा कुण्डिनं भवेत् । निषधा स्यान्नलपुरी दामलिप्तं तमालिनी ॥ ११ ॥ ;l{2640} तामलिप्तं तामलिप्ती स्तम्बपूर्विष्णुमन्दिरम् । एकचक्रं चाथ पुष्पपुरं पाटलिपुत्रकम् ॥ १२ ॥ तद्भवस्तु त्रिलिङ्ग्यां स्यात्पूर्वपाटलिपुत्रकः । कोटिवर्षं बाणपुरं स्याच्छोणितपुरं च तत् ॥ १३ ॥ देवीकोटमुमारण्यमिन्द्रप्रस्थं तु दिल्लिका । ;l{2645} माहिष्मती हैहयपूर्वह्निप्राकारिणी च सा ॥ १४ ॥ माहिष्मतेयस्तज्जः स्यात्कौण्डिनेयस्तथा त्रिषु । सौवास्तवं सुवास्तोर्यददूरे नगरं भवेत् ॥ १५ ॥ वैदिशं वार्णशं चैवं विदिशादेरदूरजम् । दत्तामित्रेण निर्वृत्ता दात्तामित्री पुरी त्रिषु ॥ १६ ॥ ;p{0121} ;l{2650} वैधूमाग्नी विधूमाग्निनिर्वृत्ता नगरी भवेत् । सांकाश्यकस्तु सांकाश्ये भवः काम्पिल्य[8a]कस्त्रिषु ॥ १७ ॥ पूर्वैषुकामशम्युक्ता तद्भवस्त्री त्रिलिङ्गके । स्यान्नागरेयकः पौरो नागरो नगरोद्भवः ॥ १८ ॥ संकुत्सितः प्रवीणो वा भवेन्नागरकस्त्रिषु । ;l{2655} स्यात्पौर्वनगरेयश्च यः पूर्वनगरीभवः ॥ १९ ॥ तथैव नान्दीपुरक एकचक्रिक इत्यपि । कास्तीरं तु द्वयोनं स्यादीषत्तीरयुतं पुरम् ॥ २० ॥ पुरभेदा अजस्तुन्दं वत्सगुल्मं तथा परे । मुखं निःसरणं तुल्ये पुरोटिः पुरसंस्कृतिः ॥ २१ ॥ ;l{2660} खगं साल्वपुरं सौभमथ तन्मायया कृतम् । गन्धर्वनगरं प्रोक्तमथ पांसुकुलं भवेत् ॥ २२ ॥ रथ्या प्रतोली विशिखा निषद्या हट्ट आपणः । क्रयारोहो महाघोषं जन्यं ग्राममुखं च तत् ॥ २३ ॥ अट्टोऽस्त्री निगमो द्वंद्वे विपणिः स्याद्वणिक्पथः । ;l{2665} क्रयस्थली पण्यवीथी वासनी विपणिर्द्वयोः । बहुमानवसंकीर्णं निर्मुटं च कचङ्गनम् ॥ २४ ॥ वीथी गृह[8b]तटी हट्टी पलिघः शालगोपुरम् । शालः सालश्च वरणः प्राकारोऽथाश्मपीठभूः ॥ २५ ॥ वप्रः पुमान्वप्रमस्त्री नेमं * * * * * * । ;l{2670} प्राकारीया इष्टकाद्या याः प्राकारहितास्त्रिषु ॥ २६ ॥ कषीशीर्षं(?) तु तस्याग्रं प्राचीनं वाटिका वृतिः । आवेष्टकोऽन्त्ये प्राचीरं कुड्यं भित्तिश्च भित्तिका ॥ २७ ॥ ;p{0122} भवेदेडूकमेडोकं तदन्तर्न्यस्तकीकसम् । कन्था तु मृन्मयी भित्तिः प्राग्भारोऽस्यावतारभूः ॥ २८ ॥ ;l{2675} स्यादिष्टकचिता या स्यादिष्टकाभिश्चिता त्रिषु । एवं पक्वेष्टकचिताथाश्रयो वृषयः पुमान् ॥ २९ ॥ ओकः पदास्पदे स्थानमस्त्र्युपघ्नोऽन्तिकाश्रयः । भीरुष्ठानं तु गदितं चकितस्याश्रयो हि यः ॥ ३० ॥ अधस्पदं पदं वाधः शिरसस्तच्छिरस्पदम् । ;l{2680} त्रिषु स्यात्प्रतिवेशी स्वगृहोपान्तगृहाधिपः ॥ ३१ ॥ वासो निवासो निलयो निवेशः क्षयो निकाय्यावसथाश्रयाश्च । प्राणन्त(?) आवास इहा[9a]लयः स्यात् संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥ ;l{2685} कुटिर्द्वयोः पुंसि न मन्दिरा स्यात् स्त्रियां न गेहं भवनं च वास्तु । स्थानं च धानं वसतिश्च शाला सभा निशान्तं च निकेतनं च ॥ ३३ ॥ आगारं स्यादुदवसितमगारं गृहं चोक्तमोको ;l{2690} वस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् । धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्-- वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥ त्रिष्वावसथिको ह्यावसतिकान्तिकवासिनि । स्त्रियां त्वावसथक्युक्ता गोमुखं कुटिलं गृहम् ॥ ३५ ॥ ;l{2695} अल्पकुट्यां कुटीरोऽस्त्री खाटिस्तल्पगृहे स्त्रियाम् । जलवाट् जङ्गमकुटी कावारी मूर्धकर्पटी ॥ ३६ ॥ चतुःशालं चतुःशाली क्लीबे संजवनं भवेत् । वयुनं स्यादायतनं देवलो देवतागृहम् ॥ ३७ ॥ ;p{0123} देवक्षितीशयोर्गेहे प्रासादः पुंसि संमतः । ;l{2700} सौधोऽस्त्री[9b] भूभुजां गेहे हर्म्यं धनवतामिदम् ॥ ३८ ॥ बुद्धादेस्तु विहारोऽस्त्री चैत्यं गन्धकुटी स्त्रियाम् । आवसथ्यं क्लीबमावसथः पुंसि मठस्त्रिषु ॥ ३९ ॥ शिष्यवेश्मन्यथास्त्री स्यादुटजः पर्णशालिका । तृण्यागेहं कायमानं छप्परं मयटस्तथा ॥ ४० ॥ खसृमः स्यात्कटकुटिः सौधाग्रं चन्द्रशालिका । ;l{2705} आश्रमोऽस्त्री मुनिस्थानं सिद्धौकः क्षेत्रमस्त्रियाम् ॥ ४१ ॥ होत्रीयं स्याद्धविर्धानी प्राग्वंशः प्राकृतो गृहम् । आथर्वणं शान्तिगृहं कोशोऽस्त्री भाण्डमन्दिरम् ॥ ३० ॥ अपवरको गर्भगृहं भोगावासोऽपि शय्यौकः । ;l{2710} इन्द्रकमास्थानगृहं संधानी कुप्यशाला स्यात् ॥ ३१ ॥ अरिष्टं सूतिकागारं गञ्जा स्त्री मदिरागृहम् । तैलशाला यन्त्रगृहं चित्रशाला तु जालिनी ॥ ३२ ॥ तन्तुशाला गर्त्तिका स्यात्सत्त्रशाला प्रतिश्रयः । आवेशनं शिल्पिशाला कर्मशा[10a]ला च सा भवेत् ॥ ३३ ॥ ;l{2715} अन्वासनं चाथ कुम्भशाला पाकपुटी भवेत् । संदानिनी तु गोशाला वाजिशाला तु मन्दुरा ॥ ३४ ॥ गोशालः खरशालश्च तत्तच्छालाभवे त्रिषु । वत्सशालो वात्सशालो वाजिस्थानश्च तद्भवः । स्यात्पौर्वशाला पूर्वस्यां शालायां हि भवा त्रिषु । ;l{2720} पूर्वशाला प्रिया यस्य पूर्वशालाप्रियश्च सः । चतुरं हस्तिशाला स्यादुष्ट्रगोष्ठं मयस्थलम् । वापशाला खरकुटी भवेन्नापितशालिका ॥ ३५ ॥ ;p{0124} प्रपा पानीयशाला स्याच्छ्रीग्रहः शकुनिप्रपा । स्त्र्य * * * * शुद्धान्तोऽस्त्री क्लीबे त्ववरोधनम् ॥ ३६ ॥ ;l{2725} अन्तःपुरं च राज्ञां यत्स्त्रीजनस्य निकेतनम् । अट्टोऽस्त्र्यट्टालको द्वंद्वे क्षौमं कथितमस्त्रियाम् ॥ ३७ ॥ अन्नकोष्ठः कुशूलः स्याद्वलतो(?)ऽथोपकारिका । उपकार्याथ वलभी गृहोपरि कुटी मता । पूर्वेषां वसतिस्थानं भवेदभिजनः पुमा[10b]न् । ;l{2730} आत्मना वसतिस्थानं निवासः परिकीर्त्यते । मण्डपोऽस्त्री जनस्थानमथ वातायनोऽस्त्रियाम् ॥ ३९ ॥ गवाक्षो जालकं जालीः सिंहद्वारं प्रवेशनम् । तोरणोऽस्त्री बहिर्द्वारं तदूर्ध्वं मङ्गलस्रजि ॥ ४० ॥ स्त्रियां वन्दनमाला स्याद्द्वारं बलजमन्तिमे । ;l{2735} प्रतिहारः स्त्रियां च द्वाः पक्षद्वारं तु पक्षकः ॥ ४१ ॥ प्रच्छन्नमन्तर्द्वारं च तस्मिन्खिडकिका स्त्रियाम् । बलजं गोपुरं कूटोऽस्त्री पुरद्वारि संमतः ॥ ४२ ॥ तत्स्रुघ्नाद्यभिनिष्पन्नं स्रौघ्नं माथुरमन्यवत् । द्वारपिण्डी तु वारुण्डी * * * * * * * * । ;l{2740} द्वाराधोदारुणि शिला शिली नासा त्विहोर्ध्वगा ॥ ४३ ॥ उत्तरङ्गं मतं तिर्यग्द्वारस्योपरि दारु यत् ॥ ४३ ॥ शालारं स्याद्धस्तिनखः पुरद्वारावरोहणः ॥ ४४ ॥ स्तूपोऽस्त्रियां मृदां कूटोऽलिन्दस्त्वालिन्दकोऽस्त्रियौ । प्रघाण-प्रघणौ पुंसि बहिर्द्वार-प्रकोष्ठके ॥ ४५ ॥ ;l{2745} स्त्रियां कक्षा प्रको[11a]ष्ठः स्यात्कलाची च निगद्यते । गृहावग्रहणी देहल्युम्बरोदुम्बराम्बराः ॥ ४६ ॥ ;p{0125} अङ्गनं प्राङ्गनं क्लीबेऽजिरं चत्वरमङ्गणम् । छदौ छदिश्छादिषौ स्त्री कुलालं पटलं त्रिषु ॥ ४७ ॥ परवालं(?) चाथ न स्त्री वलीको नीध्रमन्तिमे । ;l{2750} छदिप्रान्तेऽथ वलभी स्त्रियां स्याच्छदिराश्रयः ॥ ४८ ॥ छादिषेयं त्रिषु भवेद्यद्धितं छदिषे भवेत् । गोपानसी तु वलभी छादनं वक्रदारु यत् । कपोतपालिकायां तु विटङ्को न स्त्रियां भवेत् ॥ ४९ ॥ चत्वरं स्थण्डिलं क्लीबे स्त्री वितर्दिश्च वेदिका । ;l{2755} वरण्डोऽस्त्र्यन्तरावेदिर्भूया * * परिष्कृता ॥ ५० ॥ द्विस्तावा सा द्वित्रिगुणा त्रिस्तावाथ तमङ्गकः । इन्द्रकोशः शेखरोऽस्त्री निर्यूहो निर्गतं बहिः ॥ ५१ ॥ स्थूणा तु धारणं स्तम्भः स्थूणं चापि नपुंसकम् । गृहे स्थूणं क्लीबमेव शालभञ्जी तु पुत्रिका ॥ ५२ ॥ ;l{2760} पाञ्चाली या पुत्तलिका व[11b]स्त्रदन्तादिनिर्मिता । दारुगर्भा दारुपुत्री कुरण्टी च निगद्यते । किर्महेय्य(?)कृता लेप्यरचिताञ्जलिकारिका ॥ ५ ॥ कपाटी च कवाटी च त्रिषु स्यादररी न ना । अरिः स्त्रियामथैतस्य विष्कम्भिन्यर्गलस्त्रिषु ॥ ५५ ॥ ;l{2765} आर्घटः परिघोऽल्पोऽसौ भवेदर्गलिका स्त्रियाम् । सूचिः साधारणी तु स्यात्कुचिः कुञ्ची च कुञ्चिका ॥ ५६ ॥ तालकं द्वारयन्त्रं स्यात्प्रतिताली तु तालिका । तद्यन्त्रेत्येतु(?)सोपानमारोहणवदीरितम् । निःश्रेणिः स्त्र्यधिरोहिण्यां संनिवेशो निकर्षणः ॥ ५८ ॥ ;l{2770} स्वस्तिकः सर्वतोभद्रो रुचको वर्धमानकः । ;p{0126} नन्द्यावर्तादयोऽन्ये च भेदा वैच्छन्दका मताः ॥ ५९ ॥ संमार्जनी शोधनी स्याद्वर्धनी च समूहनी । भवेद्बहुकरीक्षिप्ते संकरोऽवकरस्तथा ॥ ६० ॥ अवस्करोऽवस्करजे स्यादवस्करकस्त्रिषु । ;l{2775} संवसथः परिवसथः प्र[12a]तिवसथो पवसथौनिवसथश्च । * * * * * * * * * * * * ग्रामः ॥ ५७ ॥ ग्रामार्धं पाटकः पुंसि * * * * * * * * । द्विशतग्राममध्ये यो महाग्रामो मनोहरः । स कर्वटः खर्वटोऽस्त्री भवेद्द्रोणमुखं पुनः ॥ ६२ ॥ ;l{2780} चतुःशतग्राममध्ये महीयान्ग्राम उच्यते । ग्रामेवासो ग्रामवासो ग्रामेवास्यादयस्तथा । दर्दुरो ग्रामजालं स्याद्गोमुखं तु विलेपनम् ॥ ६३ ॥ प्रकरी चत्वरमही ग्रामेया त्रिषु तद्धिता । ग्रामेयकस्तु कथितो ग्रामीणो ग्राम्य इत्यपि । ;l{2785} दाक्षीग्रामीय उदितो यो दाक्षीग्रामसंभवः । एकग्रामीयमेवं स्यात्समूहे ग्रामता स्त्रियाम् । ग्रामान्त उपशल्यं स्यादत्र सीमेयनादिते (?) । अवधिर्घट आघाटः सीमा स्त्री सीम पुं सिमः ॥ ६४ ॥ स्थितिः स्त्र्यन्तोऽवसानं च मर्यादाथ तयोज्झिते । ;l{2790} निःसीममपसीमं च क्लीबाव्ययमुदीरितः ॥ ६५ ॥ अल्पग्रामस्तु पल्ली स्याद्भवेद्ग्रामटिका च सा । [12b]पक्कणः शबरावासो घोष आभीरपल्लिका ॥ ६६ ॥ वेदानामेष वैदः स्याद्गार्गो दाक्षश्च तादृशः ॥ ;c{ । इति पुरवर्गः ।} ;p{0127} ;v{शैलवर्गः} ;c{शैलवर्गः} शिलोच्चयो * * भूभृद्धर-भूधर-पर्वताः । ;l{2795} कुध्रः कुव्रीलः(?) कुट्टारो नगो ग्रावाचलो गिरिः ॥ १ ॥ शिखरी सानुमानद्रिरहार्यः कन्दराकरः । वातंधमोऽपि जीमूतो दन्ती गोत्राग-कूटिनः ॥ २ ॥ अविर्बलाहकोऽथोपगिरं स्यादुपगिर्यपि । उदयः पूर्वशैलः स्यादस्ताद्रिश्चाञ्जनागिरिः । ;l{2800} उदगद्रिश्चाद्रिराजो मेनकेशो हिमालयः ॥ ३ ॥ हिमवांश्च हिमप्रस्थो भवानीजनकस्तथा । हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजाः ॥ ४ ॥ मेनका तस्य कान्ताथ क्रौञ्चः क्रुञ्चोऽपि कौञ्चवत् । मलयोऽस्त्री दक्षिणाद्रिराषाढे जकुटोऽस्त्रियाम् ॥ ५ ॥ ;l{2805} माल्यवान्स्यात्प्रस्रवणो विन्ध्यः स्याज्जलवालकः । इन्द्रकीलो मन्दरः स्यान्मन्थाना[13a]द्रिरपि स्मृतः ॥ ६ ॥ शत्रुंजयस्तु विमलशैलो रैवतकः पुनः । उज्जयन्तः सुदारुस्तु पारियात्रक उच्यते ॥ ७ ॥ सुवेलस्तु त्रिमुकुटस्त्रिकूटस्त्रिककुच्च सः । ;l{2810} रौहणो मणिगर्भः स्याच्छ्रीशैलः स्कन्दपर्वतः । गोवर्धनो हरिच्छत्रं महेन्द्रस्त्विन्द्रपर्वतः । लोकालोकश्चक्रवालश्चक्रवाडोऽपि कथ्यते ॥ ८ ॥ शैलभेदास्तु निषधो गन्धमादनमस्त्रियाम् । ऋक्षः सह्यश्चित्रकूटो भाकूटोऽन्ये च भूरिशः ॥ ९ ॥ ;l{2815} हिमवान्हेमकूटश्च निषधो मेरुरेव च । चैत्रः शृङ्गी च कर्णी च सप्तैते वर्षपर्वताः ॥ १० ॥ ;p{0128} महेन्द्र-शुक्ति-मलय-पारियात्रक-ऋक्षकाः । सह्यो विन्ध्य इमे सप्त कुलशैलाः प्रकीर्तिताः ॥ ११ ॥ पर्वतीयं पार्वतं च त्रिषु पर्वतजं फलम् । ;l{2820} पर्वतीयो नरस्तादृक् नैषधं त्विदमादिशः ॥ १२ ॥ शैलाग्रं शृङ्ग-शिखर-कूटानि त्री[13b]णि न स्त्रियाम् । कूटनिः(?) स्त्री नितम्बोऽद्रेर्मेखला कटकोऽस्त्रियाम् ॥ १३ ॥ भृगुः प्रपातोऽप्यतटः स्त्रियां दरदपि स्मृता । बहिर्निर्गतदेशस्तु प्राग्भारो दन्तको गिरेः । ;l{2825} द्रोणिस्तु शैलयोः संधिः पादाः प्रत्यन्तभूधराः ॥ १४ ॥ दरी गुहा कन्दरी च कन्दरास्त्रिषु कन्दरः । कटीरं गह्वरं त्वस्त्री स्नुः प्रस्थः सानुरस्त्रियौ ॥ १५ ॥ अधित्यका तूर्ध्वभूमिरासन्ना भूरुपत्यका । स्थूलोच्चयो गण्डशैलश्च्युतः स्थूलोपलो गिरेः ॥ १६ ॥ ;l{2830} पाषाणः प्रस्तरो ग्रावा काठोऽश्मास्त्र्युपलः शिला । शिलेयं स्याच्च शैलेयं शिलावत्त्रिषु यद्धनम् । शिला दृषत्स्त्रियः पट्टः पेषणाश्मा दधद्(?) स्त्रियाम् ॥ १७ ॥ घर्घनालः शिलापुत्रो गृहाश्मा गृहकच्छपः । घरट्टः पेषयन्त्रं स्याद्रुचकं गन्धपेषणी । ;l{2835} भैषज्यपेषणी खल्वो नारकीटोऽश्मकीटकः ॥ १८ ॥ अमृताश्मो भवेज्जातौ पिण्डा[14a]श्मो नाम्नि च स्मृतः । आश्ममश्ममयं च स्याद्विकारोऽथाश्मनं परम् ॥ १८ ॥ उद्देशो गण्डकूपोऽद्रेः खनिः खानिः स्त्रियामुभे । आकरो ना द्वयोर्गञ्जा चाथाकरिक-खानिकौ । ;p{0129} ;l{2840} त्रिष्वाकरे नियुक्तौ यौ रुमा स्त्री लवणाकरः ॥ १९ ॥ रुमण्वाल्लँवणाद्रिः स्यात्कबरं लवणं रुम । तीक्ष्णं क्षारं च न द्वंद्वे पटु वारिरसं तथा ॥ २० ॥ सैन्धवोर्मा( ना? ) माणिमन्थं माणिबन्धं यदुत्तमम् । वरं शीतशिवं चाथ रोमकं स्याद्रुमाभवम् ॥ २१ ॥ ;l{2845} वसूकं वसुकं चाथ बिडं पाक्यं च कृत्रिमम् । सौवर्चलं हृद्यगन्धं रुचकं चाक्षमित्यपि ॥ २२ ॥ तद्दुर्गन्धं शूलहृत्स्यान्नीलकं यदि मेचकम् । तीक्ष्णं सामुद्रमक्षीबं वशिरः कटकोऽस्त्रियाम् ॥ २३ ॥ यवक्षारस्तु पाक्यः स्याद्यावशूको यवाग्रजः । ;l{2850} यवनालज उक्तोऽथ स्वर्जिः स्रुग्घ्नी सुवर्चिका ॥ २४ ॥ स्वर्जिका सर्जिकाक्षारः कापोतः सु[14b]खवर्चकः । योगवाही टङ्कणस्तु मालतीतीरसंभवः ॥ २५ ॥ रसशोधी पाचनको लोहश्लेषणकोऽपि सः । चूर्णोऽस्त्रियां सुधा तु स्त्री क्षारे ताम्बूलपौगिके । ;l{2855} औद्भिदं पांसुजं शाकंभरं तत्स्थानसंभवम् ॥ २६ ॥ धूर्तं तु खण्डलवणं संसृष्टे लवणस्त्रिषु । सैन्धवं रुचकं पाक्यं सामुद्रं चौद्भिदं तथा । स्यात्पञ्चलवणं पांसूत्थेन षड्‍लवणं भवेत् ॥28 ॥ सौभाञ्जनपलाकास्तु क्रिलापामार्गमुज्झुकैः (?) । ;l{2860} यवजस्वर्जिकायुक्तैः क्षाराष्टकमुदाहृतम् । त्रिषु लावणिकः प्रोक्तो यः स्याल्लवणविक्रयी । धातुः पुमान्गैरिकोऽस्त्री रक्तग्रावा गवेरुकम् ॥ २७ ॥ गिरिमृच्चवनीरक्तं(?) मृदु स्यात्स्वर्णगैरिकम् । शुक्लधातुः पाकशुक्ला कठिनी खटिनी खटी ॥ ५२ ॥ ;p{0130} ;l{2865} सितरङ्गा मको(क्को)लो ना गौरग्रावा सितोपलः । काक्षी काच्छी सती मृत्स्ना सौराष्ट्री पार्वती तथा । तुबरी पर्पटकं कंसोद्भवाढक्यौ मृतालिका ॥ २९ ॥ [15a]कालिका वाथ कासीसं धातुकासीस-खेचरे । स्याद्धातुशेखरं पुष्पकासीसं त्वक्षिभेषजम् ॥ ३० ॥ ;l{2870} लोमशं कंसकं च स्यात्कुनटी तु मनःशिला । मनोगुप्ता नागमाता गोला दिव्यौषधिः शिला ॥ ३१ ॥ नागजिह्वा च नेपाली करवीरा च रोचना । रसनेत्री च पाली च मनोह्वा नागरक्तकम् ॥ ३३ ॥ सिन्दूरं चीनपिष्टं च नागरेणुश्च नागजम् । ;l{2875} शृङ्गारभूषणं नागगर्भं श्रीमदपि स्मृतम् ॥ रक्तचूर्णं च गन्धारं रक्तवालुकमित्यपि । वसन्तमण्डनं चाथ हिङ्गुलिर्हिङ्गुलोऽस्त्रियाम् ॥ ३३ ॥ दारदो हंसपादः स्यात्कुरुबिन्दोऽपि रक्तकः । मणिरागकरो म्लेच्छो नरि स्याद्रक्तपारदः । ;l{2880} अर्बुदोत्थं सीससत्त्वं तथा चोदारसङ्गकम् । हरितालमलं तालमालं न स्त्री बिडालकम् ॥ ३४ ॥ वङ्गारिर्लोमहृद्विस्रद्गन्धि स्याद्वंशपत्रकम् । गोदन्तं पीतनं च स्यात्खर्जूरं पिञ्जरं समम् ॥ ३५ ॥ पीतनं पिञ्ज[15b]नं क्लीबे भवेत्तन्नटमण्डनम् । ;l{2885} तुत्थं तुत्थाञ्जनं शस्यं शिखिग्रीवं मयूरकम् ॥ ३६ ॥ मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् । भवेत्कर्परिकासङ्गममृतासङ्गमञ्जनम् ॥ ३७ ॥ रसगर्भं तार्क्ष्यशैलं तार्क्ष्यजं तार्क्ष्यमित्यपि । रसाञ्जनं तुत्थदार्वी रसक्वाथसमुद्भवः ॥ ३८ ॥ ;l{2890} स्रोतोञ्जनं तु कापोतं स्रोतोजं च नदीभवम् । सौवीरं यामुनं कृष्णं रीतिपुष्पं तु पौष्पकम् ॥ ३९ ॥ पुष्पाञ्जनं च गदितं पुष्पकेतनमित्यपि । ;p{0131} क्षारः काचः सितस्त्वेष देवलः परिकीर्तितः ॥ ४० ॥ चक्षुष्या तु कुलाली स्यात्तथारण्यकुलत्थिका ॥ ४१ ॥ ;l{2895} गन्धाश्मा गन्धको लेलीतको लेली च गन्धिकः ॥ ४४ ॥ सौगन्धिकः शुल्बवैरी पामारिः कुष्ठहृद्बलिः । वैगन्धिकः कीरपुच्छोऽस्त्रियां वलिवसा च सा ॥ ४१ ॥ मानिनीपुष्पमप्यत्र ताप्यं स्त्री तु न माक्षिकः । कदम्बश्चक्रनामा च तारारिरजनाम[16a]कः । ;l{2900} नदीभवश्च तापीयः कामारिर्विटमाक्षिकः । आवर्तश्चाम्बुधातुश्च शुक्लोऽसौ तारमाक्षिकः । कङ्कुष्ठं काक(ल)कुष्ठं च विडङ्गं रङ्गनायकम् ॥ ४२ ॥ रेचनं पुलकं ह्रासं शोधनं काकवालुकम् । वलि-गैरिक-कासीस(?)काङ्क्षी-तालशिलाञ्जनम् ॥ ४३ ॥ ;l{2905} कङ्कुष्ठं चेत्युपरसाः प्रोक्ताः पारदकर्मणि । अस्त्री स्यादश्मनिर्यासः शिलाजत्वर्थ्यमश्मजम् ॥ ४४ ॥ गैरेयं गिरिजं चेन्द्रजतु स्याज्जतुपार्वतम् । धातुजं च शिलाह्वं च शिलानिष्यन्दजं च तत् ॥ ४५ ॥ अभ्रं स्यादभ्रकं व्योमाभिधं विमलमद्रिजम् । ;l{2910} गिरिजामलमच्छं तदमलं गिरिजं समे ॥ ४६ ॥ कृष्णाभ्रकप्रभेदौ स्तो भेकं दार्दुरमित्यपि । धान्याभ्रं शोधितं तत्स्याच्छृङ्गाराभ्रं तु योगिकम् ॥ ४७ ॥ रसो रसेन्द्रः सूतश्च पारदः पारतोऽस्त्रियाम् । हरबीजं च चपलः स्वामी स्नेहनिधिश्चलः ॥ ४७ ॥ ;l{2915} सर्वं तु तै[16b]जसं लोहं तान्यष्टौ हेमरूप्यकम् । ताम्रं रीतिः सीस-कांस्ये त्रपु पारशवं तथा ॥ ४८ ॥ चाम्पेयं हाटकं भर्म भूरि चामीकरं वसु । कल्याणं कनकं रुक्मं रिक्थं काञ्चन-कर्बुरे ॥ ४९ ॥ ;p{0132} कार्तस्वरं शातकुम्भं भूत्तमं भूषणोत्तमम् । ;l{2920} गारुडं गैरिकं पारग्गाङ्गेयं पुरटार्जुने ॥ ५० ॥ पिञ्जरं पीतकं जातरूपं लक्ष्मीनिकेतनम् । तपनीयाग्निवक्राग्निबीज-हेम-सुलोहकम् ॥ ५१ ॥ स्यान्महारजतं जाम्बूनदं च कलधौतकम् । चारुरत्नं च पिङ्गाशं हरिणं काचिघः पुमान् । ;l{2925} हारिद्रं स्त्री तु सुरभि डूर्वर्णिः(?)सानसिश्च राः ॥ ५२ ॥ हिरण्यमस्त्रियां हेमं निष्कमष्टापदं गमत् । स्वर्णं सुवर्णं रजतं कुमारं त्विदमुत्तमम् ॥ ५३ ॥ अलंकारसुवर्णं तु शृङ्गीकनकमायुधम् । शृङ्गी स्त्रियां चाथ हेमविकारे स्याद्धिरण्मयम् ॥ ५५ ॥ ;l{2930} त्रिषु प्रतिकृतिस्त्वस्य हरिणी च हिरण्मयी । वर्णावलीपरीक्षार्थं स्था[17a]पितेऽस्याल्पभागकः । अकुप्यं च हिरण्यं च कोषः कोशोऽस्त्रियामुभौ ॥ ५५ ॥ कृतेऽकृते हेम्नि रूप्ये कुप्यं त्वाभ्यां परं हि यत् । आहतं तद्द्वयं रूप्यमथ स्याद्रजतोऽस्त्रियाम् ॥ ५६ ॥ ;l{2935} रूप्यं च कलधौतं च तारं श्वेतं हिमांशु च । खर्जुरं च भवेद्धंसाह्वयं च कुमुदाह्वयम् ॥ ५७ ॥ हेम्नि रूप्ये च संश्लिष्टे न स्त्रियां घनगोलकः । ताम्रं शुल्वं म्लेच्छमुखमौदुम्बरमुदुम्बरम् ॥ ५८ ॥ द्व्यष्टं वरिष्ठं सूर्याङ्गं रक्तकं मुनिपित्तलम् । ;l{2940} मर्कटास्यं शाबराख्यं सूर्याह्वं ब्रह्मवर्धनम् ॥ ५९ ॥ हेम्नि तारे च ताम्रे च संसृष्टे स्यात्त्रिलोहकम् । रिरी रीरी च रीतिः स्त्री पीतलोहं सुलोहकम् ॥ ६० ॥ ;l{2945} सुवर्णकं कीशलोहमारः स्त्री पित्तला न ना । सिंहलं चारकूटोऽस्त्री राजरीतिर्महेश्वरी ॥ ६१ ॥ ;l{2945} ब्राह्मी स्यात्कपिला राज्ञी ब्रह्मरीतिरथानरि । कांस्यं विद्युत्प्रियं पञ्चलोहं घोषं प्रकाशकम् ॥ ६२ ॥ ;l{0133} घण्टाशब्दं[17b]वङ्गशुल्वभवं रवण-लोहजे । कंसं कंसास्थि वाथास्मिन्सौराष्ट्रं पञ्चलोहकम् ॥ ६३ ॥ वर्त्तलोहं वर्त्तकं स्यादथ नागं सुवर्णकम् । ;l{2950} गण्डूपदभवं वप्रं वर्ध्रं योगेष्ट-सीसके ॥ ६४ ॥ यवनेष्टं सुवर्णारि सीसपत्रं वरिष्ट(ष्ठ ?)कम् । सिन्दूरं तच्चीनपिष्टं सिन्दूरतिलकोऽस्त्रियाम् ॥ ६५ ॥ वङ्ग रङ्गः स्वर्णभवं पिच्चटं नागजीवनम् । मृद्वङ्गं तमरं चक्रसंज्ञं कास्तीरकं त्रपु ॥ ६६ ॥ ;l{2955} सिंहलं गुरुपत्रं स्यादालीनं नागसंभवम् । त्रिषु त्रपुविकारे स्यात्त्रापुषं वाङ्गमित्यपि ॥ ६७ ॥ लोहोऽस्त्री गिरिसारं स्याच्छिलासारमयो घनम् । शस्त्रं पिण्डं पारशवं तीक्ष्णं कालायसं तथा ॥ ६८ ॥ पिण्डाश्ममश्मसारं च कृष्णं वीरं च पीवरम् । ;l{2960} अयं च काठवीरं च स्थुलायाः श्राणमन्तिमे ॥ ६९ ॥ गौरीः स्त्री लोहचूर्णं स्यादथ शिङ्घाणमस्त्रियाम् । धूर्त-मण्डूर-सरण-किट्टालानि च तन्मले ॥ ७० ॥ द्वयोर्मणि[18a]श्चारुशिला रत्नं वसु तु न द्वयोः । सम्यकस्त्वाकरे शुद्धो मण्यादिर्भेद्यलिङ्गकः । ;l{2965} हीरकः शिखरी पुंसि दधीच्यस्थि वरारकम् ॥ ७१ ॥ सूचीमुखं रत्नमुख्यं वज्राह्वं चाथ सुन्दरम् । गोमेदकं पीतमणिस्तथा तृणचरं मतम् ॥ ७२ ॥ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । इन्द्रनीलो मसारः स्यान्नीलको मन्दरश्च सः ॥ ७३ ॥ ;l{2970} कुरुविन्दो लोहितकः शोणोऽस्त्री पद्मरागकः । श्रीपुष्पं च सुरक्तं च माणिक्यं हंसपादकम् ॥ ७४ ॥ शिखरोऽस्त्री तस्य खण्डं वैडूर्यं वालवायजम् । ;p{0134} प्रवालोऽस्त्री विद्रुमो ना रक्ताङ्गो हेमकन्दलः ॥ ७५ ॥ लतामणी रक्तकन्दोऽथार्काश्मा दहनोपलः । ;l{2975} सूर्यकान्तः सूर्यमणिश्चन्द्रकान्तो विधूपलः ॥ ७६ ॥ चान्द्रश्चन्द्रमणिः स्वच्छो गल्वर्कः स्फटिकोऽस्त्रियाम् । अयस्कान्तविशेषाः स्युश्चुम्बकभ्रामकादयः ॥ ७७ ॥ मुक्ता स्त्री मौक्तिकं मुक्ताफलं * * * शुक्तिजे । [18b]रसोपलमथाहेयं तत्सर्पस्य फणाभवम् ॥ ७८ ॥ ;l{2980} जीमूत-करि-मत्स्याहि-वंश-शङ्ख-वराहजाः । शुक्त्युद्भवाश्च विज्ञेया अष्टौ मौक्तिकजातयः ॥ ७९ ॥ विराटजो राजपट्टो राजावर्तश्च कथ्यते । चिन्तामणिः काममणिर्वैक्रान्तोऽसितहीरकः ॥ ८० ॥ ;c{ । इति शैलवर्गः ।} ;v{वनौषधिवर्गः} अरण्यमस्त्री विपिनं कान्तारं समजं त्रसम् । ;l{2985} गहनं गुहिनं वार्क्षं सत्रं षण्डं च काननम् ॥ १ ॥ वनं कुब्रं च नीध्रं च गोत्रं च दुमलं च तत् । ततं [लं] तल्कं दवो दावो झषः कक्षोऽटवी स्त्रियाम् । प्रस्तारस्तु तृणाटव्यामरण्यानी महावनम् ॥ २ ॥ ;l{2990} वनी तदल्पं वन्या तु वनानां संहतिः स्त्रियाम् । आरामः स्यादुपवनं वेलं चापवनं च तत् ॥ ३ ॥ गृहारामा निष्कुटाः स्युः पल्याटा अथ पौरकाः । बहिर्गृहाच्छून्यवाटी भृष्टीः क्षुद्रप्रसीदिका । आक्रीडोऽस्त्री तथोद्यानं राज्ञां[19a]साधारणं वनम् ॥ ४ ॥ ;p{0135} उद्यानपालकस्तु स्यात्कक्षावेक्षकनामकः । ;l{2995} प्रमदवनं प्रमदानां प्रमदावनमप्यदो महीपानाम् । स्याद्वृक्षवाटिका तन् मन्त्र्यादीनां प्रसूनवाटी च ॥ ५ ॥ न पुंसि दण्डका जम्बूमार्गं सैन्धव-नैमिषे ॥ ६ ॥ ;l{3000} त्रिपुष्करं चार्बुदोऽस्त्री हिमवान्कुरुजाङ्गलम् । उत्पलावर्तकं चेति नवारणी प्रकीर्तिता ॥ ७ ॥ स्यात्कोटरावणं नाम्नि कोटराणां हि यद्वनम् । क्रीडोद्यानं केलिवनं पुरगाणां तु यद्वनम् । पुरगावणमेतत्स्यादग्रस्थेऽग्रेवणं वने । ;l{3005} सारिकावणमेवं स्यादथानाम्न्यप्यमी परे ॥ ९ ॥ प्रवणं निर्वणं चान्तर्वणं शरवणादि च ॥ ८ ॥ दूर्वावणं तु दूर्वाणां स्याद्दूर्वावनमित्यपि ॥ १० ॥ देवदारुवनं तु स्याद्वनं यद्दैवदारवम् । स्यादीरिकावनाद्येवं वन्यं त्रिषु वनोद्भवम् ॥ ११ ॥ ;l{3010} वीथिर्माला च विञ्जोलिर्धोरण्यावलि-वीचयः । [19b]द्वयोः श्रेणिः पङ्क्ति-तति * * रेखालि-राजयः ॥ १२ ॥ कुडङ्गो वृक्षवल्लीनां वनं स्यादथ वल्लरम् । झाटो गञ्जः कुञ्जमस्त्री निकुञ्जं च लतावृतम् ॥ १३ ॥ द्रुर्हरिद्रुर्द्रुमः शाखी शिखरी विटपी कुठः । ;l{3015} कारस्करो विष्टरोऽद्रिर्नगोऽगः पुष्पदोऽगमः ॥ १४ ॥ फलदो भूरुहो भूजस्तरु-जर्ण-पलाशिनः । सालः स्थिरः पुलाकी च रुह्वानोकह-पादपौ ॥ १५ ॥ ;p{0136} वनस्पतिर्वृक्ष-गच्छ-नन्द्यावर्त-करालिकाः । पुष्पतः फलवान्वानस्पत्योऽपुष्पो वनस्पतिः ॥ १६ ॥ ;l{3020} छायातरुः स्थिरच्छायो ह्रस्वशाखाशिफः क्षुपः । स्थाणुरस्त्री ध्रुवः शङ्कुः शाखापत्रविवर्जितः ॥ १७ ॥ औषधिस्त्वौषधिः स्त्री स्यात्फलपाकावसानिकाः ॥ १७ ॥ फलेग्रहिः फलावन्ध्योऽप्यवकेशी तु सोऽफलः । पुष्पितः स्यात्कुसुमितः फलवान्फलिनः फली ॥ १८ ॥ ;l{3025} फुल्ल-प्रफुल्ल-संफुल्ल-प्र[20a]फुल्लोत्फुल्ल-जृम्भिताः । प्रबुद्धोन्मीलितो जृम्भ-व्योकोच-विकच-स्फुटाः ॥ १९ ॥ स्मेरः स्मितो विकसितो दलितः स्फुटितोऽपि च । विकास्युन्मिषितोन्निद्र-विनिद्राण-विकस्वराः ॥ २० ॥ उल्लीलः स्यादुच्छ्वसित-हसितोन्मिषिता अपि । ;l{3030} मि(मी?)लितः स्यात्संकुचितः फलेग्रह्यादयस्त्रिषु ॥ २१ ॥ व्रततिः प्रततिर्वल्लिर्लता वल्लरिरित्यपि । वीरुत्प्रतानिनी गुल्मिन्युलपः पुनपुंसकम् ॥ २२ ॥ उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतः । कणीचिः स्त्री पुष्पितास्या ग्रन्थिकस्तु लताज्वरः । ;l{3035} प्ररोहोऽस्त्री त्वङ्कुरः स्यादङ्कूरः कन्दलस्त्रिषु ॥ २३ ॥ पूर्वोऽर्थो बलिशं(?)स्युस्तु शिखा-शाखा-लताः स्त्रियः । अस्त्री स्याद्विटपश्चाथ शाख्यं शाखेव यत्त्रिषु । वातावर्जितशाखायां भवेद्योषिद्वकेरुका । शाला साला स्कन्धशाखाथाशाखं मूलतस्तरोः ॥ २४ ॥ ;l{3040} प्रकाण्डोऽस्त्री पुंसि गण्डिः[20b]स्कन्धस्त्वस्य शिरो भवेत् । प्रघाणो मस्तकोऽस्त्री * शिफायां तु जटा झटा । जटिः स्त्रियां नृलिङ्गे तु मूलेरो विनिगद्यते ॥ २५ ॥ ;p{0136} शाखा शिफावरोहो ना मूलात्त्वग्रं गता लता । लतोद्गमोऽथाप्रकाण्डे गुल्मोऽस्त्री विटपोऽपि च ॥ २६ ॥ ;l{3045} स्तम्बोऽप्यथ शिरोऽग्रं स्यात्तस्मिञ्छिखरमस्त्रियाम् । बुध्नोऽङ्घ्रिनामा मूलोऽस्त्रीत्वचा-त्वक्-त्वचयः स्त्रियः ॥ २१ ॥ छल्ली त्वचश्चोचमन्त्ये न स्त्रियां वल्क-वल्कलौ । मज्जायां सारमज्जानौ विस्तारो विटपोऽस्त्रियाम् ॥ २८ ॥ दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः । ;l{3050} उत्सेधोऽस्त्री समुच्छ्राय उदयस्तूच्छ्रयः * * । अल्पारोहपरीणाहा वृक्षाद्याः स्युर्निघा इति । दारु न स्त्री काष्ठमन्त्ये दलिरु(कं?) चाथ दीप्तिकृत् ॥ ३० ॥ एध इन्धनमग्ने(?)स्तदेधः पुंसीध्ममस्त्रियाम् । समित्स्त्री समिधायां स्यान्निष्कुहः कोटरोऽस्त्रियाम् ॥ ३१ ॥ ;l{3055} मिथुने वल्लरिर्मञ्जा चमरा[21a]मञ्जरा न ना । पत्रबर्हिश्छदा न स्त्री पर्णं पत्रं दलं तथा ॥ ३२ ॥ पलाशं छदनं पर्फरीकं कि[स]लयं नवे । किसलं पल्लवस्त्वस्त्री प्रवालस्त्वचिरोद्गतः ॥ ३३ ॥ स्याल्लतायावकं चाथ तच्चेदङ्गुलिसंनिभम् । ;l{3060} स्यादाङ्गुलिकनामा स्यात्कोशी शृङ्गो नरस्त्रियोः । मर्गटो ना स्त्रियां माढिः पर्वरीणं च तच्छिरा ॥ ३४ ॥ दौर्वीणं मृष्टपर्णं स्याज्जीर्णं त्वेतत्कशंवर(?) । कण्टक-द्रुणखौ न स्त्री दलसूचिश्च वङ्किलः ॥ ३५ ॥ शिताग्रोऽप्यथ वृन्तं स्यात्क्लीबे प्रसवबन्धनम् । ;l{3065} कलिका जालकं क्लीबे क्षारकः कोरकोऽस्त्रियौ ॥ ३६ ॥ मुकुलो मकुलश्च स्यात्कुट्मलः कुड्मलोऽस्त्रियः । ;p{0138} गुच्छो गुञ्छो गुत्स[क]श्च गुलुच्छो ग्लप्स इत्यपि । स्तबकोऽस्त्री स्त्रियां लुम्बिः कोषविद्भिर्निगद्यते । स्त्रियः सुमनसः प्रायो भूम्नि स्युः प्रसवः पुमान् ॥ ३७ ॥ ;l{3070} पुष्पं प्रसूनं सूनं च सुमं कुसुममस्त्रियाम् । मणीचकं चाथ पुंसि परागः पुष्पजं रजः । [21b] ॥ ३८ ॥ मकरन्दो मरन्दश्च तद्रसो मधुरस्त्रियाम् । आरण्याः स्युः सुमनसो या अरण्येसमुद्भवाः । फलं परीरं किंपाकं शस्यं सस्यमथ त्रिषु । ;l{3075} व्युष्टं पर्युषितं शुष्कं त्ववानं वानमित्यपि । गौणं धारु(?)स्तु पुंस्त्वे स्यादथापक्वं शलाटु तत् ॥ ४० ॥ पेशी कर्कटकी च स्त्री पक्वं तत्तु पचेलिमम् । निर्यासोऽस्त्री वृक्षरसो बीजं त्वङ्कुरकारणम् । परु-ग्रन्थी ग्रन्थव(गु ?)ल्माः स्तः पर्व-परुषी समे । ;l{3980} * * * * * * * * बीजकोशी शमी शिमिः । शिम्बिः शिम्बा चाथ सर्वं मूले पुष्पे फले भवेत् ॥ ४१ ॥ द्वयहीनं यथैरण्डमशोकं चाम्रमित्यपि । जात्यादयः स्वलिङ्गाः स्युः पुष्पे जाती च मल्लिका ॥ ४२ ॥ मूले पुष्पे विदार्याद्याः पुष्पे क्लीबेऽपि पाटला । ;l{3085} साल्वं मूले फले तु स्युर्हरीतक्यादयः स्त्रियाम् ॥ ४३ ॥ स्वलिङ्गाः सूरणाद्याः स्युः कन्दे जम्ब्वास्तु जाम्बवम् । जम्बु क्लीबे स्त्रियां जम्बूः फलं जम्बूस्तु तज्जय(?) ॥ ४४ ॥ प्लाक्षं शैग्रव[22a]माश्वत्थं नैयग्रोधं च बार्हतम् । वैणवं चैङ्गुदं च स्यात्फलं प्लक्षादिसंभवम् ॥ ४५ ॥ ;l{3090} अन्यत्रैते स्वलिङ्गाः स्युः फलपाकशुक(?)पुनः । ;p{0139} फले प्रकृतिलिङ्गाः स्युर्यथा माषा यवास्तिलाः ॥ ४६ ॥ पञ्चाङ्गं तु तरोर्मूलवल्कपुष्पफलच्छदैः । पुष्पज्वरस्तु पर्वा स्याज्ज्यौतिष्कस्त्वौषधिज्वरः । दशाङ्गं रसनिर्याससारकण्टकवृन्तकैः । ;l{3095} अश्वत्थः पिप्पलो बोधिश्चलपत्रो गजाशनः । मङ्गल्यः केशवावासः श्रीवृक्षः क्षीरपादपः ॥ ४७ ॥ कपीतनो गर्दभाण्डः कपिकृ(चू?)तः कमण्डलुः । कन्दरालः सुपार्श्वश्च प्लवः पूगोऽपि मौग्धिगः ॥ ४८ ॥ तरुप्ररोहः प्लवगः सुशीतकवचोऽस्त्रियाम् । ;l{3100} कपिया(वा?)सः फलीशश्च विलम्बः सुप्रतिष्ठितः ॥ ४९ ॥ अन्यस्थाली डुमः पिष्टक्षीरी कुञ्जरपादपः । स्यात्प्ररोही जयतरुर्नदीवृक्षो वनस्पतिः ॥ ५० ॥ प्लक्षः कपीतनः शुङ्गी जटी द्वंद्वे तु पर्क्कटी । य[22b]क्षवृक्षः सुपार्श्वश्च पिप्परिः पिप्पलश्छदः ॥ ४८ ॥ ;l{3105} वटोऽस्त्रियां रक्तफलो न्यग्रोधो यक्षवासकः । बहुपादो ध्रुवः शुङ्गी सिद्धार्थः स्कन्धसंभवः ॥ ४९ ॥ नदीवृक्षः प्ररोही च पादरोही वनस्पतिः । अग्रशुङ्गी मरीची च दान्तो वैश्रवणालयः ॥ ५० ॥ उदुम्बरः क्षीरवृक्षो मशकी हेमदुग्धकः । ;l{3110} सदाफलः कृमिफलो यज्ञाङ्गः शीतवल्कलः ॥ ५१ ॥ सुप्रतिष्ठो यज्ञयोग्यः कालस्कन्ध उदुम्बरः । अपुष्पः फलसंबद्धः सुचक्षुश्च वसुद्रुमः ॥ ५२ ॥ उदुम्बरममं(यं?)त्वौदुम्बरं तद्विकृतौ त्रिषु । वेतसो वुगुले(?)शीतो वञ्जुलो व्योमपुष्पकः । ;l{3115} वानीरो गन्धपुष्पश्च सुषेणः कलनो रथः ॥ ५२ ॥ विदुलो मञ्जरीनम्रो नादेयी त्वम्बुवेतसः । परिव्याधस्तोयकामो जलौकःसंवृतोऽम्बुजः ॥ ५४ ॥ निकुञ्जकश्च विदुलो नदीकूलप्रियोऽपि सः । स्रोतोजो मेघद्यु(पु?)ष्पश्च नीले त्विज्जल-हिज्जलौ ॥ ५५ ॥ ;p{0140} ;l{3120} हिङ्गुलश्चेञ्जलो[23a]गुच्छफलः स्यात्कक्षपोलिका । क्षीरिणः पिप्पल-प्लक्ष-वरोदुम्बर-वेतसाः ॥ ५६ ॥ आम्रो रसालो माकन्दः पिकानन्दी स्मरालयः । कामद्रुश्चैत्रवृक्षश्च प्रियङ्गो मदिरासखः ॥ ५७ ॥ मङ्गलद्रुर्मञ्जरी च शिलीष्टो भृङ्गवल्लभः । ;l{3125} मनोभिनन्दनः पुष्पोत्सवश्चामरपुष्पकः ॥ ५८ ॥ वसन्तदूतश्चूतश्च श्यामतैलोऽङ्गनाप्रियः । मदिरास[ख]श्च सुफलो हेमपिङ्गः सुमृष्टकः ॥ ५९ ॥ सहारः सहकारश्च स भवेदतिसौरभः । पान्थामोदी चाथ वार्वरीटोऽस्यास्थ्यङ्कुरो मतः । ;l{3130} स्यात्क्षुद्रमौकुलिर्जन्तुवृक्षो लीक्षातरुस्तथा ॥ ६० ॥ घनस्कन्धश्च कोशाम्रो रक्तकः क्षुद्रचूतकः । अतिमिष्टस्तु राजाम्र आम्रातः स्मरभावनः ॥ ६२ ॥ वर्षपाकी तनुक्षीरः शुङ्गी स्यादम्लवाटकः । फलीशको दुःफलः स्यात्स्त्री तु जम्बूश्च जम्बुवत् ॥ ६३ ॥ ;l{3135} महाफला महास्कन्धा सौरभी सुफला तथा । कुमारी गन्धप[23b]त्रा च नीलपत्रासितच्छदा ॥ ६४ ॥ काकजम्बू मेघवर्णा नादेयी भ्रमरप्रिया । शतपत्रा भूमिजम्बू कुफला वैदिशोऽल्पकः ॥ ६५ ॥ वैदला सा च वैदेशी चाथ राजादनोऽस्त्रियाम् । ;l{3140} तद्वद्राजातनश्चारः संनकद्रुर्धनुःपटः ॥ ६६ ॥ पिसालश्च प्रियालश्च पटो द्राक्षाफलो धनुः । शालः शाखामृगास्वाद्यत्वक्स्त्री तापसवल्लभः ॥ ६७ ॥ खरस्कन्धश्चाम्लफलो राजाह्वो फलनो वरः । पलाशः किंशुकः किर्मी ब्रह्मवृक्षस्त्रिपर्णकः । ;l{3145} त्रिवृन्तः कटुपर्णश्च वातपोथः समिद्वरः । क्षारश्रेष्ठो रक्तपुष्पो यज्ञियश्च गणेरुकः ॥ ७१ ॥ लाक्षावृक्षश्च कनकः स्यात्सुभीरव(क?) इत्यपि । ;p{0141} बीजस्नेहो रङ्गपुष्पः पृथुशिम्बो वमीतरुः । अङ्गारितं नूलाम्लिंत कलींनवनिर्गतो (corrupt) । ;l{3150} बन्धः पलाशपत्राणां मूर्ध्नि पत्रपलाशिका । पालाशकं [24a]भेद्यवत्स्यान्निर्वृत्तं यत्पलाशतः । एलाफलः पान्थभोग्यो मधुकश्च मधुद्रुमः । गुडपुष्पो मधुष्ठीलो वानप्रस्थो मधुस्रवः ॥ ७५ ॥ लोध्रपुष्पो माधवश्च मधुपुष्पो मृगप्रियः । ;l{3155} मध्वङ्गस्तीक्ष्णसारश्च भोग्यो मधुकलो मधुः ॥ ७६ ॥ सोऽम्भोजो दीर्घपत्रः स्याद्ध्रस्वपुष्पफलस्तथा । गौरवृक्षस्तीरवृक्षो गिरिकाख्यो मधूलकः ॥ ७७ ॥ घोण्टाकोली च गोकण्टी बदरी युग्मकण्टिका । गोपघोण्टा च घुण्टा च राष्ट्रवृद्धिकरी तथा ॥ ७८ ॥ ;l{3160} स्निग्धच्छदाजाप्रिया च गृध्रनख्यल्पिका द्वयोः । कर्कन्धूः स्यात्फेनिलम्बं बदरी कुवलं त्रिषु ॥ ७९ ॥ सर्वावस्था युटा(?)स्वादु महत्सौवीरकं भवेत् । हस्तकोली सिञ्चनिका कर्कन्धूर्याममीयसी ॥ ८० ॥ सौवीरं बदरं कोलं फलं तासां च बेरटम् । ;l{3165} कर्कन्धूनां तु पाके स्यात्कर्कन्धुकुणमन्तिमे ॥ ८१ ॥ बदरकुणं कुवल[24b]कुणे तेषां पाके समुद्दिष्टम् । बदराण्युञ्छति योऽसौ बादरिकः स्याद्विशेष्यलिङ्गस्थः ॥ ८२ ॥ ककुभोऽर्जुनसंज्ञः स्याद्वीरो वीरतरुस्तथा । वैरान्तको नदीसर्जो मधुगन्धि प्रसूनकः ॥ ८३ ॥ आशाफलश्चित्रयोधी धूर्तवृक्षेन्द्रवृक्षकौ । ;l{3170} कुणिः कच्छस्तुणिस्तुन्नः कुपाणिश्च कुवेरकः ॥ ८४ ॥ ;p{0142} स्यादापीतः कान्तलको नन्दी नन्दीतरुस्तथा । लोध्रो रोध्रस्तिल्वकः स्यान्मार्जनः कालहीनकः ॥ ८५ ॥ चिल्लस्तिलस्तिरीटो ना सितलोध्रस्तु शाबरः । ;l{3175} गालवो नेत्रभैषज्यं शीतपुष्पो व्रणौषधम् ॥ ८६ ॥ उत्सादनो घनत्वक्च शशोडती(?) सारभेषजे । क्रमुकः पट्टिकाख्योऽन्यः पट्टीत्यच(?)बृहच्छदः ॥ ८७ ॥ लाक्षाप्रसादनः पट्टी जीर्णबुध्नो घनत्वचः । कट्फलः कत्फलः सोमवल्कः कारञ्जनस्तथा ॥ ८८ ॥ ;l{3180} महावल्कः स्त्रियां कुम्भी महाकुम्भी प्रचेतसा । म[[25a]हाकषायोग्रगन्धा भद्रा भद्रवती तथा ॥ ८९ ॥ श्रीपर्णिका कुमुदिका कैदर्यं मतमस्त्रियाम् । स्त्रीपुंसयोस्तिन्दुकः स्यात्कालस्कन्धोऽसिमत्सरुः ॥ ९० ॥ स्फूर्जकः स्फूर्जनी स्फूर्या विरला स्फुरणी च सा । ;l{3185} जलोद्भवो दीर्घपत्रः काकेन्दुः काकतिन्दुकः ॥ ९१ ॥ कुलकः काकपीलुश्च कुपीलुर्विषतिन्दुकः । क्लीतकं मधुकं यष्टीमधुकं मधुयष्टिका ॥ ९२ ॥ मधुस्रवा लक्ष्यणं च यष्ट्याह्वं मधुनाम च । जलोद्भवा क्लीतनिका मधुपर्णी मधूलिका ॥ ९३ ॥ ;l{3190} पीलुः स्रंसी गुडफलः सहस्राङ्गी हिमासहः । उष्ट्रप्रियस्तीक्ष्णतरुर्धारी सिन-विरेचनौ ॥ ९४ ॥ श्यामो भुजो दीपनोऽथ पाके पीलुकुणं भवेत् । सोऽद्रिजोऽक्षोट आक्षोटः स्वादुमज्जा पृथुच्छदः ॥ ९५ ॥ पर्वतीयः कन्दरालः कर्परालो गुडाशयः । ;l{3195} फलस्नेहो वृन्तफलः कीरेष्टोऽथ[25b]शुकप्रियः ॥ ९६ ॥ फलश्रीः पुंसि राजन्यो दृढस्कन्धो नृपाभिधः । क्षीरी मृत्प्रियकश्च स्यात्प्रियालोकः फलाधिपः ॥ ९७ ॥ ;p{0143} क्षीरिणी क्षीरिका स्वादुफला मृदुफलापि च । परूषकः परुषकः परुः क्लीबेऽसितच्छदः ॥ ९८ ॥ ;l{3200} पारावतो मृदुफलो चत्वनच्छद इत्यपि । अल्पास्थि-कण्टकिफल-दग्धवृद्धि-परूंषि च ॥ ९९ ॥ तूदस्तुदश्च नूतश्च क्रमुको ब्रह्मचार्यपि । ब्रह्मनिष्ठश्च यूपश्च ब्रह्मण्यो ब्रह्मपादपः ॥ १०० ॥ तूलं तूली चाथ पालेवतं पारेवतं तथा । ;l{3205} महापालेवतं रक्तमाणावं रैवतं च तत् ॥ १०१ ॥ आरेवतं पाण्डुपुष्पं तिन्दुकाकृतिः प्रोच्यते । सुगन्धिपुष्पः स्वाद्वम्लपक्वसस्यो महोन्नतिः ॥ १०२ ॥ मधूकपत्रसदृशो भवेद्राजकदम्बकः । फलं राजकदम्बस्य नीपराजकदम्बकम् ॥ १०३ ॥ ;l{3210} भीषणः स्यादार्तगलो बहुकण्ठो रुजाकरः । जालीवृक्षो दुःप्रधर्षः [26a] स्वादुतिक्तफलोऽर्गटः ॥ १०४ ॥ पनसः पणसश्चास्त्री मुरजफलोऽसौ महासर्जः । ............आयतफलः सकण्टकौ चास्मिन् ॥ २ ॥ लकुचो लिकुचः क्षुद्रपनसो ग्रन्थिमत्फलः । पीतनो सौ**साक्षौ गर्भस्त्वेतस्य कण्टका । ;l{3215} लिङ्गत्रये दाडिमः स्यात्सारश्च करकोऽस्त्रियाम् ॥ ३ ॥ रक्तबीजो रक्तपुष्पः कुट्टिमः फलखाडवः । शुकप्रियो दन्तबीजो हिण्डीरो दालिमी त्रिषु ॥ ४ ॥ विदलं दाडिमकणः शिखरं संपचेलिमः । ;{3220} कपित्थस्तु कपि(गि?)त्थः स्याद्दधित्थो रदहर्षणः ॥ ५ ॥ दध्याह्वः स्याद्दधिफलोऽक्षिस्पन्दः सुरभिच्छदः । चक्रास्थिः स्याद्दन्तशठः सितपुष्पः कपिप्रियः ॥ ६ ॥ जम्बीरश्च ग्राहिफलो मन्मथश्चिरपाक्यपि । ;p{0144} हृद्यगन्धः स्वादुफलः सितक्षीरो जलेन्द्रकः ॥ ७ ॥ ;l{3225} जम्बीरो जम्भलो जम्भोऽस्त्रियां जम्भील इत्यपि । द्विजकेतुश्चारुफलः करणो दन्तहर्षणः ॥ ८ ॥ अस्त्रियां रोच[26b]कश्चाथ वेतसाम्लोऽम्लवेतसः । अम्लो रसाम्लः शाखाम्लो मांसारिर्वरवेतसः ॥ ९ ॥ भीमः सहस्रवेधी स्याच्छतवेधी च वेधकः । ;l{3230} रक्तस्रावो द्रावकश्च न स्त्री चुक्रीमथापरः (?) ॥ १० ॥ कपोताण्डोपमफलः साराम्लश्च परावतः । महापारावतश्चाथ निम्बूकं निम्बुकं समे ॥ ११ ॥ रसालं राजनिम्बूकं चौरनिम्बूकमल्पकम् । आरुकं वीरसेनं स्याद्वीरकं वीरनुत्तथा ॥ १२ ॥ ;l{3235} भवं भव्यं भविष्यं च भावनं तच्चतुर्विधम् । कमरङ्गं कर्णफलं भावनं मुखशोधनम् । रोमान्तकं रोमफलं भव्यं पिच्छिलबीजकम् ॥ १३ ॥ ऐरावतो नागरङ्गो नारङ्गो वदनप्रियः । योगसारस्त्वक्सुगन्धः सुधा तक्राधिवासकः ॥ १४ ॥ ;l{3240} मातुलिङ्गो मातुलुङ्गो लुङ्गोऽपि फलपूरकम् । बीजपूरः सुपूरश्च बीजाह्वः केसराम्लकः ॥ १५ ॥ बृहत्फलश्च रुचकः केसरी स तु शैलजः । दैवदूती सुगन्धाढ्या मातुलुङ्गा वनीयकः ॥ १६ ॥ अ[27a]त्यम्ला पीतपुष्पा च स्मृता सा च महाफला । ;l{3245} तित्तिडीका तित्तिडी च तिन्तिडी च कपिप्रिया ॥ १७ ॥ अम्लिका चाम्लिका चिञ्चा चुक्रिकाथ सिताम्लिका । असौ सुतित्तिडी प्रोक्ता शुक्लिका च निगद्यते ॥ १८ ॥ जम्बीरो वेतसाम्लश्च नारङ्गो बीजपूरकः । तित्तिडीका च पञ्चाम्लं जानीयाद्रसकर्मणि ॥ १९ ॥ ;p{0145} ;l{3250} फणिज्जकः फणी प्रस्थपुष्पः मरुवको मरुत् । समीरणो मरुतको भवेन्मरिचकोऽपि सः ॥ २० ॥ खरपत्रस्तीक्ष्णपत्रो जम्बीरो बीजपुष्पकः । तित्तिडीकस्तु वृक्षाम्लः शाकाम्लो रक्तपूरकः । अम्लवृक्षोऽम्लपूरः स्यादथ स्यात्करमर्दकः ॥ २० ॥ ;l{3255} कृष्णपाकम(फ?)लाविग्न-सुषेण-स्थलकर्पटाः । वनशूद्रः(?)क्षीरफेनः कराम्लश्चाम्लपुष्पकः ॥ २१ ॥ करीरो ना मृदुफलः क्रकरः क्रकचोऽस्त्रियाम् । शाकपुष्पो गूढपत्रस्तीक्ष्णसारो हुताशनः ॥ २२ ॥ सुफलः कटुतिक्तः [27b]स्यात्तीक्ष्णकण्टक इत्यपि । ;l{3260} गाङ्गेरुकं कर्कटकं तोदनं मृगलेण्डिकम् ॥ २३ ॥ क्रन्दनं चारुष्करस्तु तपनोऽग्निमुखो द्वयोः । अरुष्को वीरवृक्षः स्याद्रक्षोघ्नो रञ्जनो धनुः ॥ २४ ॥ दहनाह्वः शोथकरो भल्ली भल्लातकस्त्रिषु । पत्रैस्तु केसराकारैः कलायसदृशैः फलैः ॥ २५ ॥ ;l{3265} पश्चिमार्णवतीरोत्थो वृक्षस्तुबरको मतः । वातामं च बदामं च स्निग्धमज्जफलं च तत् ॥ २६ ॥ लोचनाभं च वातारिरङ्कोटस्तु निकोचकः । अकोल्लको गन्धपुष्पो रेची स्यात्पीतसारकः ॥ २७ ॥ गुप्तस्नेहस्ताम्रफलो दीर्घकीलोऽरिकिल्लका । ;l{3270} तस्मिंस्तु वामनेग्राही हुण्डी कोलम्बवर्णकः ॥ २८ ॥ कठोरमल्लिका चाथ पिस्तं स्याच्च मकूलकम् । कदली कन्दली काली रसा हस्तिबुसा तथा । चर्मण्वती भानुफला रम्भा मोचा च कृष्णला । वृन्तपुष्पा च निःसारा तृणसारा महाच्छदा । ;l{3275} काष्टाला वारणबि[28a]सा ग्रन्थिनी गजदन्तिका । ;p{0146} सुकुमारा मृत्युफला कथिता दत्तविग्रहा । मोचं फलेऽस्याः पुष्पं तु शिलीध्रं कन्दलं त्रिषु । तालस्तलो ना श्रीबीजो ध्वजद्रुः स महाफलः ॥ २९ ॥ दुरारोहो दीर्घदण्डो दीर्घस्कन्धो महातरुः । ;l{3280} तृणराजो लेख्यपत्रो द्रमेशः पांशुताडकः ॥ ३० ॥ नारीकेलो नारिकेलो नारिकेलिपुटोदकः । नारिकेरो द्वयोः पुंसि लाङ्गली कूर्चशेखरः ॥ ३१ ॥ तुङ्गः स्कन्धफलश्चोचो जीववृक्षो महाशिराः । तृणराजो दृढफलो दृढबीजो महाफलः ॥ ३२ ॥ ;l{3285} दृढवृक्षो द्व्यक्षफलो लतावृक्षः शिरीफलः । नारिकेलासवोऽम्भोऽस्य चोचं त्वम्बुकरङ्ककम् ॥ ३३ ॥ खर्जुरः पुंसि खर्जूः स्त्री निःश्रेणिर्दृढकण्टका । सिंहिश्रेणी खरस्कन्धा कषायमधुराग्रजा ॥ ३४ ॥ दुःप्रधर्षा दुरारोहा भूमिखर्जूरिका पुनः । ;l{3290} स्यात्कोकपर्कटी कोका स्वाद्वी तु[28b] स्वादुमस्तका ॥ ३५ ॥ मधुक्षीरा पिण्डखर्जूः सुफला च सुकण्टका । हिरण्यपुष्पी पूगस्तु क्रमुकः केम्बुको हुणिः ॥ ३६ ॥ गुवाकश्च गुवाकुः स्यात्खपुरः फलपुष्पकः । घोटा(ण्टा?) चाथ फलं तस्या उद्वेगं चिक्क-चिक्कणे ॥ ३७ ॥ ;l{3295} स्रंसिचिक्का स्त्रियां पूगकोशः खोलक उच्यते । तालाद्याः पञ्च हिन्तालस्ताल्यां नाडी च केतकी ॥ ३८ ॥ तृणद्रुमाः स्युरेतेऽष्टौ काकोदुम्बरिका पुनः । मलपूर्मलयूः फलद्रूः(?)फल्गुनी जघनं फलाः ॥ ३९ ॥ अराजिः फल्गुवाटी च सफला मञ्जरी च सा । ;l{3300} भवेद्धनफलश्चित्रभेषजा फलभारिका ॥ ४० ॥ अञ्जीरं मञ्जुलं च स्यात्काकोदुम्बरिकाफलम् । ;p{0147} वरुणो वरणो रोधस्तरुः सेतुस्तमालकः ॥ ४१ ॥ श्वेतपुष्पः साधुवृक्षस्तिक्तशाकः कुमारकः । पाश्चात्त्य उरुमानोऽसावथ श्लेष्मातको हिमः ॥ ४२ ॥ ;l{3305} वसन्तकुसुमो लेखशाटः स्या[29a]द्बहुवारकः । शैलूष-पिच्छिलोद्दाल-मुक्त-मुक्तफला अपि ॥ ४३ ॥ द्विजनिन्द्यः कर्बुदारः कफेलूर्नरि शापितः । भूतवृक्षो द्विलिङ्गानुशमी सक्तुफला शिवा ॥ ४४ ॥ लक्ष्मीस्तुङ्गापि मङ्गल्या स्निग्धपिच्छिलपत्रिका । ;l{3310} स्यान्मर्कटीफला चेयं बहला केशहृत्फला ॥ ४५ ॥ भूमीशमी शमीरोऽस्त्री शंकराह्वोऽप्यथ त्रिषु । शामिलिः स्रुग्विकारोऽस्यास्तत्फलं संगरं शमी ॥ ४६ ॥ गुन्द्रा गोविन्दिनी गौरी गौः प्रियङ्गुश्च विन्दिनी । गन्धप्रियङ्गुः फलिनी फली च प्रियकश्च सः ॥ ४७ ॥ ;l{3315} वृत्ता श्यामा गन्धकान्ता कान्ताह्वा कामिनी प्रिया । कारम्भा कङ्गुनी विष्वक्सेना गन्धफलीति च ॥ ४८ ॥ पृथ्वी पुष्करपर्णी च कोलाङ्गी वर्णभेदिनी । अश्मन्तकोऽश्मयोनिः स्याद्युग्मपत्रोऽम्लपत्रकः । श्लक्ष्णत्वङ्मालुकापर्णाः कुशली पापनाशकः ॥ ४७ ॥ ;l{3320} कोविदारस्ताम्रपर्णो महाय(?)चलप[29b]त्रकः । कूद्दालश्चापि कुद्दालः क्षीरद्रुः कुण्डली कुली ॥ ४८ ॥ उद्दालः स्याच्चमरकः कुण्डलः स्वल्पकेसरः । वरलब्धः काञ्चनको भ्रमरेष्टो मनोहरः । काञ्चनारिश्चमरिक आस्फोतस्तुल्यकेसरः ॥ ४९ ॥ ;l{3325} रक्तपुष्पः श्वेतपाकशत्रुः स्यात्काञ्चनारकः । सप्तपर्णस्त्वयुक्पर्णः शुक्तिपर्णः सुपर्णकः ॥ ५० ॥ बहुत्वक्शाल्मलीपर्णस्त्रिपर्णो गुच्छपुष्पकः । ;p{0148} शारदः शारदी चाथ राजवृक्षः सुवर्णकः ॥ ५१ ॥ आरग्वधश्चार्ग्वधश्च प्रग्रहः कृतमालकः । ;l{3330} आरोग्यशिम्बि-शम्याक-संपाकाश्चतुरङ्गुलः ॥ ५२ ॥ कर्णिकारो दीर्घफलो व्याध्यन्तक-द्रुमोत्पलौ । आरेवतो रेवतश्च कर्णी च स्वर्णपुष्पकः ॥ ५३ ॥ कुण्डली च करिव्याधः स्वर्णद्रुः कल्पपादपः । स्वर्णशेफालिकाथ स्यात्पारिभद्रः प्रभद्रकः ॥ ५४ ॥ ;l{3335} रक्तपुष्पो निम्बतरुः कण्टकी पारिजातकः । मन्दारुरपि मन्दारः कण्टकी शुकं(?)इत्यपि ॥ ५५ ॥ [30a]निम्बो नियमनोऽरिष्टो यवनेष्टोऽपि कुष्ठहा । सुभद्रः सर्वतोभद्रः पारिभद्रः प्रभद्रकः ॥ ५६ ॥ कृमिघ्नो हिङ्गुनिर्यासोऽस्त्री सुतिक्तक-मालकौ । ;l{3340} पिचुमर्दश्छर्दनश्च पिचुमन्दः शुकप्रियः ॥ ५७ ॥ देवदत्तः शीर्णपर्णः प्रियशालो रविप्रियः । वरत्वचोऽप्यथ द्रेक्का तस्यां रमण-रामणौ ॥ ५८ ॥ कैडर्यश्च महानिम्बः शाकसारोऽपि रम्यकः । पञ्चनिम्बं तु निम्बस्य पञ्चाङ्गं समुदीरितम् । ;l{3345} किराततिक्तो भूनिम्बो नार्यतिक्तश्च तिक्तकः । रामसेनः किरातश्च नेपालोत्थस्तु हैमकः । कैरातः काण्डतिक्तश्च नाडीतिक्तोऽर्धतिक्तकः । मदना वामनो राठो गाल-गालव-पिण्डिनः ॥ ६० ॥ तस्करः करहाटश्च श्वसनो विषपुष्पकः । ;l{3350} पिण्डीतकः शल्यकश्च पिण्डपुष्पश्च पर्वरुः ॥ ६१ ॥ मातुलो बीजपुष्पश्च पुमान्मरुबकः फलम् । श्वेतस्त्वेष करञ्जः स्याच्चर्मकारतरुश्च सः ॥ ६२ ॥ तीक्ष्ण[30b]कीलः श्वेतवर्मपादपश्च प्रकीर्तितः । कृष्णोऽन्यो गंच(?)पिण्डीतो महापिण्डीतको महान् ॥ ६३ ॥ ;p{0149} ;l{3355} पीतकः पीतपिण्डीतः सूक्ष्मपिण्डीतकोऽपि सः । श्लक्ष्णपिण्डीतकः पर्णपिण्डीतो वस्तिशोधनः ॥ ६४ ॥ करञ्जः करजो नक्तमालः स्याच्चिरिबिल्वकः । मञ्जरीकुसुमो रक्तमालोऽथ धूतपूर्णकः ॥ ६५ ॥ प्रकीर्यः स्निग्धगु(च्छोऽसौ)सोमवल्कः सगौरकः । ;l{3360} पूतीकरञ्जः पूतीकः सुमनाः कलिमारकः ॥ ६६ ॥ कलिङ्गश्चोदकीर्या सुंतुं(?)षड्ग्रन्थो हस्तिचारणी । वल्लीकरञ्जशार्ङ्गेष्टा(?) कासघ्नी करभण्डिका । कैडर्यश्च सुमन्तश्च मातृनन्दन एव च । दन्तधावनकोऽङ्गारवल्लरी मर्कटी तथा ॥ ६८ ॥ ;l{3365} उत्तुण्डकी काकतिक्ता सुरद्रुस्तु सुगर्भकः ॥ ६८ ॥ तिनिशः स्यन्दनो नेमिर्नरि पाषाणगर्भकः । वित्तकृत्सर्वसारश्च चक्रसंवरणस्तथा ॥ ६९ ॥ आरण्यस्तु रथद्रुः स्या[31a]दतिमुक्तश्च वञ्जुलः । शोभाञ्जनः कृष्णगन्धस्तीक्ष्णगन्धो बहुच्छदः ॥ ७० ॥ सौभाञ्जनोऽस्त्रियां शिग्ररक्षिबो मोचकस्तथा । ;l{3370} विद्रधिद्विट् सालनोऽर्होऽप्यवदंशो घनच्छदः ॥ ७१ ॥ हलपत्रो वक्त्रभङ्गः स्त्रियां मूलकपर्ण्यपि । रक्तोऽसौ मधुशिग्रुः [स्या]न्मधुरो मधुशृङ्गकः ॥ ७२ ॥ स्वादुगन्धिर्गञ्जनकः सुगन्धश्च सभञ्जनः । ;l{3375} सिंहकेशी सुरङ्गी स्यादथ श्वेतोऽतितीक्ष्णकः ॥ ७३ ॥ मुखभञ्जो विमुचति(?) चौरः श्वेतमरीचकः । तद्बीजं श्वेतमरिचं शिग्रुतैलं तु बैजकम् ॥ ७४ ॥ भूमीसहो द्वारदारु वरदारु खरच्छदः । स्थिरकच्छो महापत्रः शाकः सुरभिसारकः ॥ ७५ ॥ ;l{3380} शालः सालः शङ्कुतरुः कार्श्योऽल्पस्तु लतातरुः । अजकर्णो बस्तकर्णः सर्जको रञ्जनद्रुमः ॥ ७५ ॥ ;p{0150} कुशिकः स्यात्स्नेहकरोऽश्वकर्णस्त्वेष शैलजः । सस्यसंवरणः शूरश्चीरिपत्रो गुरुच्छदः । [31b]तार्क्ष्यहृद्दीर्घपत्रः स्यात्पीतसालस्तु बीजकः । ;l{3385} जीवकः प्रियकः काम्यो भवेद्बन्धूकपुष्पकः ॥ ७७ ॥ असनश्चासनश्च स्यादथान्यः कृष्णसर्जकः । सुगन्धिर्नीलनिर्यासः पुष्पवृक्षोऽलकप्रियः ॥ ७८ ॥ शौरिः कार्श्यो महासर्जः कृष्णद्रुस्तिलकद्रुमः । शिंशपा तु महाश्यामा कृष्णसारा युगच्छदा ॥ ७९ ॥ ;l{3390} पिच्छिला गुरुसारा चागुरुर्मण्डलपत्रिका । कुशिंशपान्या कपिला भस्मगर्भावसादिनी ॥ ८० ॥ शिंशपाया विकारे स्याच्छांशपं भेद्यलिङ्गकम् । शिरीषः शुकवृक्षः स्यान्मृदुपुष्पश्च भण्डिलः । श्यामवल्कलभण्डीको भण्डीरः शङ्खिनीफलः ॥ ८१ ॥ ;l{3395} प्लवगः कलमो विप्रोऽथान्यो देवशिरीषकः । चक्रेन्द्रको बदरकोऽप्यथ न स्त्री तमालकः । समौ तपिच्छ-तापिच्छौ कालस्कन्धश्च कीर्तितः ॥ ८२ ॥ महाकालस्तु किंपाको बर्बरीकोपकालकौ । खदिरो रक्तसारः स्यात्कु[32a]ष्ठघ्नो दन्तधावनः ॥ ८३ ॥ ;l{3400} कण्टकी बालपत्रश्च जिह्वाशल्यक्षतक्षमः । यूपद्रुमो याज्ञिकश्च गायत्री तत्र च स्त्रियाम् ॥ ८४ ॥ गोराटः श्यामसारश्च शल्यको बहुशल्यकः । स सितः सोमवल्कः स्यात्कन्दरः श्वेतसारकः । पथिद्रुमोऽथासितेऽत्र नेमिद्रुः कुकुकण्टकः ॥ ८५ ॥ ;l{3405} कालस्कन्धश्च काम्बोजी महासारोऽपि कार्मुकः । अथेरिमश्चारिमेद इरिमेदोऽहिमारकः ॥ ८६ ॥ गोधास्कन्धो विट्खदिरो रिमः पूत्यहिमेदकः । त्वक्सारः कृष्णवृक्षश्च गोधावल्ली सुमेदकः ॥ ८७ ॥ ;p{0151} गोधनः कट्फलोऽथ स्यादारीः खदिरवल्लरी । ;l{3410} धवो दृढः स्थिरो गौरः शाकटाक्षो भरोद्वहः ॥ ८८ ॥ धुरंधरो नन्दिनको गोत्रवृक्षस्तु धन्वनः । गोत्रपुष्पो धनुर्वृक्षोऽधमर्णश्च रुजाहरः ॥ ८९ ॥ महाबलः सारवृक्षः पिच्छलश्च सुतेजनः । रक्तस्वादुफलश्चाथ बब्बूलो बब्बुलस्तथा ॥ ९० ॥ ;l{3415} द्रोणीमुखः[32b] सूचिपुष्पो भवेच्चक्रकचक्षदः (?) । कुक्कुटः कर्णमेयः स्यात्तस्मिन्नाभाट(?)च संमता । विकङ्कतः सुवतरुर्ग्रन्थिलः स्वादुकण्टकः ॥ ९१ ॥ गोपकण्टः श्वानपादो व्याघ्रपादश्च किङ्किणी । यज्ञवृक्षोऽग्निवृक्षश्च पृथुबीजः सुधातरुः ॥ ९२ ॥ ;l{3420} ऐरावणो मृदुफलः काकपादश्च कण्टकी । स्यात्पिण्डरोहणस्त्रय्यां त्विङ्गुदी तापसद्रुमः ॥ ९३ ॥ भल्लकोऽङ्गारवृक्षश्च तिक्ताह्वो वृद्धकण्टकः । स्यात्पूतिपर्णिकः स्नेहमज्जापि व्यावहारिकः ॥ ९४ ॥ बिन्दुकश्चाथ सरलः पीतद्रुः पूतिदारु च । ;l{3425} उच्छितं स्याद्दीपतरुश्चण्डा स्त्री स्निग्धदारु च ॥ ९५ ॥ मारीचपत्रकश्चाथ हारिद्रः पीतवृक्षकः । कदम्बपुष्पकः श्रीमान्हरिद्रक-मरूद्भवौ ॥ ९६ ॥ दार्वी पचंपचा गौरी पर्जन्या पर्जनी च सा । कटंकटेरी हेमाभा तथा दारुहरिद्रिका ॥ ९७ ॥ ;l{3430} कालीयकश्च[33a]न स्त्री स्यात्पीतदारु च पीतनम् । न स्त्रियां देवदारुः स्यात्सुरदारु च दारु च । भद्रदारु स्नेहविद्धं किलिमं च सुराह्वयम् ॥ ९७ ॥ पारिभद्रः पीतदारु पूतिदारु सुदारु च । कर्पटं च महादारु सुमङ्गल्येन्द्रदारुणी ॥ ९८ ॥ ;l{3435} ब्रीडा तारा गन्धवधूर्वातघ्ना भूतनाशनी । नपुंसि तरुणी चाथ द्वंद्वे रालोऽग्निवल्लभः ॥ 99 ॥ ;p{0152} दीपवृक्षः सर्ज-सर्जरस-सर्वरसा गलः । बहुरूपो यक्षधूपः स्निग्धदारुश्च शीतलः ॥ २०० ॥ शक्रद्रुरसनिर्यासः श्रीकरो देवधूपकः । ;l{3440} कान्तः कलकलश्चाथ श्रीवेष्टः सल्लकीद्रवः ॥ १ ॥ रक्तशीर्षः पायसश्च श्र्यङ्कः क्षीरश्रवस्तथा । श्रीवासोऽपि चदच्याह्वो(?) वृकधूपक इत्यपि ॥ २ ॥ रसाङ्गस्तिलपर्णी स्यात्कुम्भोलूखलकं पुनः । कौशिकः कालनिर्यासः पुरो गुग्गुलु-गुग्गलौ ॥ ३ ॥ ;l{3445} नक्तंचरः शिवो दुर्गो देवधूप-ज[33b]टायुषौ । सर्वंसह-मरुद्भाव-महिषाक्ष-जटायवः ॥ ४ ॥ खलको वायुसारोऽपि यातुकन्दः पलंकषः । उलूखलं च कुम्भः स्यात्तन्निर्यासमिदं पुनः ॥ ५ ॥ हिरण्यः कुमुदः पद्मो महिषाक्षो महासितिः । ;l{3450} स्वनामवर्णाः सर्वे स्युः सल्लकी तु महेरणा ॥ ५ ॥ कङ्कारी गन्धवीरा च वल्लकी व्रणरोपणी । सुस्रवा सुरभिर्मोचा ह्लादिनी च ह्लदा रसा ॥ ६ ॥ गलरक्षा कुन्दुरुकी भक्ततिक्ताथ कुन्दुरुः । मुकुन्द-कुन्दौ पालिन्दः सुगन्धो भीषणो बली ॥ ७ ॥ ;l{3455} नागः श्रीवल्लभः स्वक्षो मेचकः खद्युरो मुनिः । चन्दनोऽस्त्री मलयजं भद्रश्रीर्गन्धसारकः । जाकुटश्च पटीरश्च श्रीखण्डो रोहिणद्रुमः ॥ ८ ॥ हिमं महार्हं मलयं श्वेतं स्याच्चन्द्रकान्तकः । हरिचन्दनमस्त्री स्याद्गोशीर्षं तैलपर्णिकः ॥ ९ ॥ ;l{3460} मल्लेष्टं पीतकाष्ठं च कालीयं हरिवल्लभम् । कालसारं तु कालेयं कालीयं वंशिकं तथा ॥ १० ॥ जोगं कालानुसार्यं च वनच[34a]न्दनमस्त्रियाम् । नातिशीततमं श्वेतं कैरातं च शिलोद्भवम् । ;p{0153} बर्बरोत्थं श्वेतवर्णं निर्गन्धबर्बराह्वयम् । ;l{3465} रक्तचन्दनमस्त्री स्याद्रक्तसारं च लोहितम् ॥ ११ ॥ कुचन्दनं रञ्जनं च हरिचन्दनमस्त्रियाम् । ज्योतिष्टोमं किरातं च ज्योतिरक्तारुणद्रुमौ ॥ १२ ॥ स्यात्क्षुद्रचन्दनं शैलभवेऽन्यत्तु कुचन्दनम् । पत्राङ्गं स्याच्च पत्रङ्गं रक्तकाष्टं सुरङ्गकम् ॥ १३ ॥ पत्तूरं पत्ररागं च पट्टरञ्जनमेव च । ;l{3470} भार्यावृक्षोऽयमन्यश्च कटुका शणपुष्पिका ॥ १४ ॥ अगुर्वगरु चायुस्कं राजार्हं जोङ्गकं तथा । कृमिजं कृमिजग्धं स्यादनार्यमसिते त्विह ॥ १५ ॥ कृष्णागरुर्लघ्वगरु कृष्णशीर्षं च वंशिकम् । ;l{3475} कृष्णशृङ्गं नरेन्द्रार्हं लोहाह्वं काकतुण्डकम् ॥ १६ ॥ मल्लिगन्धि तु मङ्गल्यमस्त्री भूर्जः स्थिरच्छदः । चित्रपत्रो मृदुत्वक्को भूजो भूतहरः शिवः ॥ १७ ॥ लेख्यपत्रो बहुपुटश्चर्मी कालः पृथुत्वचः । [34b]शाल्मलिस्तु द्वयोर्मोचा पिच्छिला स्थिरजीविता ॥ १८ ॥ कुक्कुटी च स्थूलफला रक्तपुष्पा च पूरणी । ;l{3480} कण्टकाख्या रक्तफला मानद्रुर्मातुलद्रुमः ॥ १९ ॥ कुशाल्मलिः शाल्मलिको रोचनः कूटशाल्मलिः । शाल्मलीवेष्टकः पिच्छा शाल्मलो वेष्टकस्तथा ॥ २० ॥ मोचस्रावो मोचरसो मोचनिर्यास-मोचकौ । ;l{3485} रोही रोहितको रक्तो रक्तघ्नो रक्तपुष्पकः ॥ २१ ॥ रोहिणो रोचनः प्लीहशत्रुर्दाडिमपुष्पकः । लोहितो रोपणः कूटशाल्मलिः पारिजातकः ॥ २२ ॥ अरिष्टो रक्तबीजश्च पीतफेनश्च फेनिलः । रक्ताफलः सुमङ्गल्यो गर्भपात्यर्थसाधनः ॥ २३ ॥ ;p{0154} ;l{3490} कृष्णबीजः शीतफेनोऽप्यथ वारिप्रसादनम् । छेदनीयं भूतफलं कन्तं(तं) कतकमक्षिदम् ॥ २४ ॥ द्रविडं चंघूलं(?)कार्क्षमथो कुटज-कूटजौ । कलिङ्गो मल्लिकापुष्प इन्द्रवृक्षश्च वत्सकः ॥ २५ ॥ काही च गिरि[35a]मल्ली स्त्री कुटजी त्वेष तुच्छकः । ;l{3495} वरतिक्तः शक्रनामा वृक्षकः पाण्डुपादपः ॥ २६ ॥ मल्लिका नीलयष्टिः स्याद्बीजे त्वस्येन्द्रबीजकम् । भवेद्भद्रयवः पुंसि फलं त्विन्द्रयवो भवेत् ॥ २७ ॥ कलिङ्गकः शक्रनामा स्यादथो मोक्ष-मुष्ककौ । गोलीढो गोलिहो मुष्टिर्मुञ्चकः सूर्यकस्तथा ॥ २८ ॥ ;l{3500} क्षारश्रेष्ठः क्षारवृक्षः पाटलः क्षुद्रपाटलः । खरशाखी स्त्रियां घण्टा द्विधासौ शुक्लकृष्णतः ॥ २९ ॥ वेल्लंतरो वीरतरुर्दीर्घमूलोऽश्मकृच्छ्रहा । क्षुरधारो वधाकारो दीर्घपत्रो महानिलः ॥ ३० ॥ अश्वक्षुरः श्वेतपुष्पी श्वेता च श्वेतनासिका । ;l{3505} विषघ्नी गिरिकर्णी च कटभी किणिही तथा ॥ ३१ ॥ आस्फोता दधिपुष्पी खट्वाथाद्य(?)पराजिता । गर्दभी जनिका सूर्या श्वेतपाटलिपिण्डका ॥ ३२ ॥ विष्णुक्रान्ता गवाक्षोऽथ नीलपुष्पा गवादनी । महाश्वेताऽव्यक्तगन्धा वज्रस्तु स्यान्महातरुः ॥ ३३ ॥ ;l{3510} समौ सीहुण्ड-सेहुण्डौ गण्डीरः ख[35b]ङ्गपत्रकः । बहुस्रावो बहुक्षीरो वज्रतुण्डक इत्यपि ॥ ३४ ॥ समन्तदुग्धा स्नुक् स्नुह्यः स्नुहा चैव विषाणिका । सुधा गुडा चाथ वज्रवल्ली स्याद्धस्तिशुण्डिका ॥ ३५ ॥ वनालिकास्थिसंहारो वज्रह्वा चामरा च सा । ;l{3515} स्नुह्यपामार्गहलिनी धवार्कतिलमुष्ककैः । ;p{0155} कुटजेन च संयुक्तैः स्नुह्यष्टकमुदाहृतम् । एरण्डो यक्षहस्तः स्याद्रुबुर्गन्धवैहस्तकः ॥ ३६ ॥ पञ्चाङ्गुलो वर्धमानो डिम्बो वातारिरप्यसौ । सितस्तूत्तानपत्रोऽयं गन्धर्वो दीर्घदण्डकः ॥ ३७ ॥ ;l{3520} तरुणो रुचकश्चञ्चू रक्तस्तु गजकर्णकः । व्याघ्रो व्याघ्रतलो व्याघ्रपुच्छो लोहितशीर्षकः ॥ ३८ ॥ मण्ड आमण्ड आदण्डो व्याडम्बश्च व्यडम्बरः । रूबूको रुबुकश्चोरुबूकः स्यात्त्रिपुटीद(फ)लः ॥ ३९ ॥ भवेदुरुबुको रक्तपत्रो रक्तजटोऽपि सः । ;l{3525} कासमर्द्दस्तु काशारिः कर्कशश्चारिमर्द्दकः ॥ ४१ ॥ कालंकृततरुस्तूक्तः स प्रोक्तः कासमर्द्दनः । शुषा तु का[36a]समर्दी स्यात्समौ पिचुल-कावुकौ । तुम्बुरुः सौरसः सौरो वनजस्तीक्ष्णपत्रकः । तीक्ष्णव(क)ल्कस्तीक्ष्णफलः शोधनश्च महामुनिः । ;l{3530} हरीतकी त्रिष्वमृता जया च विजयाऽभया ॥ ४० ॥ पथ्याऽव्यथा च कायस्था वयःस्था प्राणदा शिवा । प्रपथ्या पूतना हेमवती स्याद्रोहिणी च सा ॥ ४१ ॥ चेतकी स्याद्विलवणा भिषङ्माता च रोगहृत् । शक्रभक्ष्याथ तद्भेदाः सप्तायुर्वेद ईरिताः ॥ ४२ ॥ सा स्थूलवृत्ता विजया सुवृत्ता रोहिणी मता । ;l{3535} पूतनास्थिमती सूक्ष्मा स्थूलमांसा तु साऽमृता ॥ ४३ ॥ अस्रा तु चेतकी ज्ञेया पञ्चास्रा त्वभया भवेत् । सुवर्णवर्णा जवनी कथिता सा भिषग्वरैः ॥ ४४ ॥ तिष्या तिष्यफला धात्री वयस्था चामृतोद्भवा । ;l{3540} शिवा वृष्यफला वृष्या दिव्या सीधुफलापि सा ॥ ४५ ॥ सुधाफला कर्षफला जातीफलरसापि सा । आमला त्रिष्वामलकी मण्डा स्यादथ तत्फले [36b] ॥ ४६ ॥ ;p{0156} माकन्दी स्त्री श्रीफलं च कोमलं न स्त्रि (?) चामलम् । बदरामलकं रक्तं प्राचीनामलकं हि यत् ॥ ४७ ॥ ;l{3545} शृङ्गी धात्री चामलकी शुक्तिः शुष्कामलक्यपि । सर्वोषधिकसंमिश्राः संशुष्कामलकत्वचः ॥ ४८ ॥ सुगन्धामलक ह्येते (?) भवेत्पारावती पुनः । ज्योत्स्ना मुक्ताफलं राजामलकी लवली च सा ॥ ४९ ॥ शिवा बहुसुता च स्याद्दृढपादा हिमालया । ;l{3550} भूधात्री च जटामाला विषघ्नी च वितुन्नकः ॥ ५१ ॥ बिभीतकस्त्रिषु पुमानक्षस्तुषफलः कलिः । संवर्तकः पिशाचद्रुर्मधुजीवो विभेदकः ॥ ५२ ॥ भूतावासश्च शाखोठो भवेत्कर्षफलोऽपि सः । एतस्य फलमक्षोऽथ पथ्याधात्रीबिभीतकैः ॥ ५३ ॥ ;l{3555} क्रमवृद्धैः फलश्रेष्ठा ** ह्वा च फलोत्तमा । त्रिफला तृफला च स्यात्तृपला च फलत्रयम् ॥ ५४ ॥ त्रिवर्णकं चाथ बिल्वो मालूरश्च महाफलः । श्रीनामा श्रीफलो हृद्यगन्धो गन्धफलस्तथा ॥ ५५ ॥ शाण्डि[37a]ल्यश्च शलाटुश्च शैलूषः पूतिमारुतः । ;l{3560} शचीको ग्रन्थिलः सत्यधर्मा स्यान्नीलकण्टकः ॥ ५६ ॥ महाकपित्थस्तीक्ष्णाक्ष्यो वातसारो वरारुहः । मङ्गल्यः स्यात्पीतफलः सर्वरूपश्च कङ्कटः (कण्टक ?) ॥ ५७ ॥ सदाफलः कृष्णमुखो गन्धगर्भ(ः) सरस्वती । नीलवल्ली नीलमल्ली रुच्यः स्याद्गोहरीतकी ॥ ५८ ॥ ;l{3565} स्याद्विल्वकर्कटी बिल्वकर्कटी पेशीबाले फलेऽस्य च । बैल्वं तैलं फलं वास्य विकारे भेद्यलिङ्गकम् ॥ ५९ ॥ श्रीपर्णी सर्वतोभद्रा गम्भारी काश्मरी हिरा । काश्मीरी मधुपर्णी च हीरा भद्रा विदारिका ॥ ६० ॥ गोपभद्रा भद्रपर्णी क्षीरिणी रोहिणी पुरा । ;l{3570} कृष्णवृन्ता च गृष्टिः स्यात्कम्भारी सफला च सा ॥ ६१ ॥ ;p{0157} काश्मर्यो मिथुनेऽथ स्यादरणिर्नाऽग्निमन्थकः । मन्थानो वह्निमथनो मन्थतेजोद्रुकेतवः ॥ ६२ ॥ तनुत्वचा च तर्कारी नादेयी वैजयन्तिका । कणिका पानकाह्वा च श्रीपर्णं चाऽ[37b]सिता पुनः ॥ ६३ ॥ ;l{3575} द्वयोर्जया जयन्ती स्त्री विजया च जयावहा । वसन्तदूतिका कामदूतिका कालवृन्तिका ॥ ६४ ॥ कुम्भीका ताम्रकुसुमाऽमोघा कालाम्बुवासिनी । काचस्थाली तथास्थाली पाटला पाटलिर्द्वयोः ॥ ६५ ॥ श्वेताह्वा श्वेतकुम्भीका कुवेराक्षी फलेरुहा । ;l{3580} स्यात्काष्ठपाटलाऽथ स्यादिटुकष्टिन्दु-भल्लुकौ ॥ ६६ ॥ मयूरजङ्घोऽरलुकः कट्वङ्गश्च कटंभरः । शुकन्या(ना)सो दीर्घवृन्तः फल्गुवृन्तः कुटंन्नटः ॥ ६७ ॥ मण्डूकपर्णः पत्रोर्णः स्योनाकः शोणको नटः । भल्लूक-भल्ल-ऋक्षाश्च भूतद्रुः पृथुशिम्बिकः ॥ ६८ ॥ ;l{3585} प्रियजीवोऽभ्यङ्गवृक्षोऽप्यथ विल्वादिपञ्चकम् । स्यान्महापञ्चमूलाह्वमथ पुष्पद्रुमाः परे ॥ ६९ ॥ पुंनागः पुरुषाह्वः स्यात्केसरो रक्तकेसरः । पद्मकेसरकस्तुङ्गः सुरेष्टः सुरपर्णिकः ॥ ७० ॥ चाम्पेयः कनकाह्वः स्यान्नागाह्वो नागकेसरः । ;l{3590} मेरुजो हेमपुष्पः स्यात्केसरः[38a] सर्ववल्लभः । प्रोक्तः करिकुसुम्भाह्वो नागकेसरचूर्णकः ॥ ७१ ॥ चाम्पेयश्चम्पको हेमपुष्पको रम्य-चाम्पकौ । चञ्चरीकातिथिः स्वर्णसंज्ञः स्याद्वरलब्धकः ॥ ७२ ॥ तत्कली स्याद्गन्धफला बहुलस्तु बकूलकः । ;l{3595} बाकूलकः सीधुगन्धो गूढपुष्पश्च शारदः ॥ ७३ ॥ शिबी केसरकः सिंहः केसरो मेघदोहदः । अशोको नरि कङ्केली रक्तमञ्जरिको नटः ॥ ७४ ॥ ;l{0158} शोकनाशो विचित्रश्च कामुकः कर्णपूरकः । हेमपुष्पः पिण्डपुष्पो गन्धपुष्पोऽपि वञ्जुलः ॥ ७५ ॥ ;l{3600} कीताद्रुर्दोहदो रक्तो गौराङ्गश्चित्रगुच्छकः । मुचुकुन्दः क्षत्रवृक्षः श्रीतरुः प्रतिविष्णुकः ॥ ७६ ॥ धुको बको रुद्रनामा वसुको रुद्रकेसरः । कपिमालः किण्वमूलः सुव्रतः स्थूलपुष्पकः ॥ ७७ ॥ शिवमल्ली चाथ कुम्भयोनिर्मधुरशिग्रुकः । ;l{3605} यतिर्मुनिद्रुमो वङ्गसेनश्चातुर्थिकापहः ॥ ७८ ॥ कदम्ब[38b]स्तु कलम्बः स्यात्प्रावृषेण्यो हलिप्रियः ॥ ७६ ॥ पुलकी कुत्सिताम्बश्च प्रियकः पर्वताधिपः । कादम्बर्यश्च सूराक्षोऽप्यथ नीपो वसन्तजः ॥ ७७ ॥ धूलीकदम्बको वृत्तपुष्पो हारिद्र इत्यपि । ;l{3610} सुवासो गदितो धाराकदम्बोऽस्य तु केसरः ॥ ७८ ॥ पार्परं करुणस्तु स्यात्कृ(?)स्ताहः कण्टकद्रुमः । बृहत्पुष्प *[श्च] नीचश्च मल्लिकापुष्प-कुब्जकौ ॥ ७९ ॥ स्याद्भद्रतरुणी चाथ समौ बन्धू [क]-बन्धुकौ । रक्तकः शारदो बन्धुजीवो माध्यं तु न द्वयोः ॥ ८१ ॥ ;l{3615} करवीरः शतप्रासः प्रतीहासोऽश्वमारकः । मीनकाक्षः शातकुम्भः स बीजकुसुमोद्भवः ॥ ८२ ॥ रक्तपुष्पस्तु लगुडश्चण्डातो गुल्मकस्तथा । गणेरुका स्वर्णपुष्पी गणेरुर्गणकारिका । कर्णाङ्कश्च करेणुश्च कोको वर्णमनोहरः । ;l{3620} द्रुमोत्पलः कर्णिकारः परिव्याधः ससौरभः ॥ ८३ ॥ सिन्दुकः स्याच्छीतसहः सि[39a]न्दुवारश्च सिद्धकः । श्वेतपुष्पेन्द्रसुरसौ तिलपुष्पक इत्यपि ॥ ८४ ॥ निर्गुण्डी द्राणिका चाथ नीलिका नीलमञ्जरी । शेफालिका च सुवहा निर्गुण्डी वनजा च सा ॥ ८५ ॥ ;p{0159} कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः । भूपदी श्वेतसुरसा सुगन्धा तत(?)वेशिका । तिलकश्छत्रकुसुमः क्षुरकः खुरकोऽपि सः । मुचिलिन्दो विचित्रश्च स्त्रीनिरीक्षणदोहदः ॥ ८६ ॥ लक्ष्मीवान्पूर्णको रेची मुखसंहननो विटः । ;l{3630} अम्लानस्त्वमिलातः स्याद्वर्णपुष्पो महासहा ॥ ८७ ॥ परिम्लानश्चोरटोऽथ रक्तः कुरवकश्च सः । पीतपुष्पः किंकिरातः किंकिरीटश्च पीतकः ॥ ८८ ॥ पीतभद्रो हेमगौरो विप्रलोभ्यलितोषदः । कुरण्टकः कुरण्ठश्च नीलस्त्वार्तगलश्च सः ॥ ८९ ॥ ;l{3635} राजसैरेयकः केशरञ्जकः शाणकस्तथा । झिण्टी दासी द्वयोर्बाणा भवेदोदनपा[39b]क्यपि । सैर्यको युग्भवन कुरण्टकभेदाः सहचरः । (corrupt) ******** सैरेयश्च सहाचरः ॥ ९० ॥ अर्जको मृदुपुष्पश्च तत्र झिण्टी स्त्रियां भवेत् । ;l{3640} अरुणोऽसौ कुरुवकः पीत्तस्त्वेष कुरण्टकः ॥ ९१ ॥ द्वयोः सहचरी चाथ नील आर्त्तगलो भवेत् । जपा जवा ओड्रपुष्पं वज्रपुष्पं तिलस्य तत् ॥ ९२ ॥ मल्लिका शीतभीरुश्च मदयन्ती प्रमोदिनी । मदनीया गवाक्षी च भूपद्यष्टपुटी तथा ॥ ९३ ॥ भद्रवल्ली चन्द्रवल्ली सुगन्धा माधवी च सा । ;l{3645} मुकुटस्तृणशूल्यं वा अस्ना त्वेषा च वार्षिकी ॥ ९४ ॥ त्रिपुटा च सुरूपा च स्याद्वर्षा मुक्तबन्धना । वनोद्भवा तु सास्फोटा सैव स्याद्गिरिमल्लिका ॥ ९५ ॥ मागधी गणिकाम्बष्ठा यूथिका बलि(बाल?)पुष्पिका । गुणोज्ज्व(?)ला पुण्यगन्धा हसन्ती च शिखण्डिनी ॥ ९६ ॥ ;l{3650} शङ्खपुष्पी श्वेतयूथी पीतासौ हेमपुष्पिका । ;p{0160} हरिणी पीतिका चाथ वारमोटातिशोणका ॥ ९७ ॥ अति[40a]मुक्तो मुद्गु(द्ग?)रः स्यान्मण्डको भ्रमरोत्सवः । पुण्ड्रकः स्याद्विचकिलः सुगन्धश्चापि कामुकः ॥ ९८ ॥ ;l{3655} स्याद्वेलाकेतकी सा च वासन्ती माधवी लता । मालती सुमना जाती राजपुत्री प्रियंवदा ॥ ९९ ॥ मनोज्ञा हृद्यगन्धा च चेतकी तैलभाविनी । प्रहसन्ती रात्रिपुष्पी कुन्दाह्वा मरुबान्धवी । सुवसन्ता शीतवासा सरणी दन्तनिर्मला । ;l{3660} सप्तला तु सुगन्धा स्याद्गैष्मिका नवमालिनी ॥ ३०० ॥ नेपाली शिग्रुगन्धा चाम्लायिनी वटपत्रिका । मोदिनी सुकुमारा च कान्ता च शिखरिण्यपि ॥ १ ॥ सिन्दूरी तु त्रिसंध्या स्याद्रक्तपुष्पा सुकोमला । तरणी रामतरणी कर्णिका चारुकेसरा ॥ २ ॥ ;l{3665} कूर्पिका च सुगन्धाढ्या कुमारी कुञ्जवल्लिका । बृहत्पुष्पा सहा भृङ्गसंगता कण्टकावृता ॥ ३ ॥ महाकु*[मा]रिका चाथ जलजा जलकुब्जिका । केतकी जम्बुकाह्वः स्यात्सूचीपुष्पो हलानकः [40b] ॥ ४ ॥ करशून्यं करतृणं सुगन्धं क्रकचच्छदः । ;l{3670} स्यात्स्वर्णकेतकी राजकेतकी कुसुमोत्तमा ॥ ५ ॥ दलामलो दमनको दान्तः स्यात्पाण्डुरागकः । गन्धोत्कटं पुण्डरीकं मुनिर्ब्रह्मजटा तथा ॥ ६ ॥ भवेन्मरुवको बीजपुष्पः खुरबुकः सुखः । रूपिकार्कः क्षीरपर्णो गणरूपो विकीरणः ॥ ७ ॥ ;l{3675} आस्फोतश्च सदापुष्पः खरवङ्कफलस्तथा । राजार्कस्त्वेष रक्तः स्यात्तत्फलं क्ष्वेडमुच्यते ॥ ८ ॥ सितस्त्वलर्को मन्दारो वसुकश्च प्रतापसः । विकीर्णकः सदापुष्पः क्षतक्षीरो गणप्रियः ॥ ९ ॥ ;p{0161} धूर्त्तो धत्तूर उन्मत्तो देविता तरलः शठः । ;l{3680} घाण्टिकः कनकाह्वश्च काहलापुष्प-मातुलौ ॥ १० ॥ धुर्त्तरो मदनस्तूरी फलं मातुलपुत्रकः । शङ्खिनी चोरपुष्पी स्याद्बहुफेना सुकेशिनी ॥ ११ ॥ यशस्करी वेत्रमूला ग्रन्थिका चन्द्रनन्दिनी । चौरी निशाचरी चण्डा नाकुली च विसर्पिणी [41a] ॥ १२ ॥ ;l{3685} दृढपादाथ महती भवेत्सा कम्बुपुष्पिका । शिवब्रध्ना कम्बुलता शङ्खिनी * [क]म्बुमालिका ॥ १३ ॥ मङ्गल्यपुष्पी मङ्गल्या क्षीरपुष्पी मनोरमा । रक्तपुष्पा सुभद्रासौ सर्पाक्षी सूक्ष्मपत्रिका ॥ १४ ॥ विष्णुक्रान्ता नीलपुष्पा सफला चापराजिता । ;l{3690} मत्स्याक्षबीजोऽर्कसुतो विषबीजो विषोदरः ॥ १५ ॥ मण्डूकपर्णी मण्डूकी रविवल्ली वरौषधी । सुवर्चलार्कभक्ता च वरदा मूलपर्ण्यपि ॥ १६ ॥ अर्ककान्ता सत्यनामा सूर्यावर्त्ता सुनागरिका । अर्क*[पु]ष्पी तु सा पृथ्वी पार्था ब्रह्मसुवर्चला ॥ १७ ॥ कपोतवक्रा ब्राह्मी तु ब्रह्मसोमा सरस्वती । ;l{3695} मेध्या सत्यवती दिव्या वयःस्था सोमवल्ल्यपि ॥ १८ ॥ कपोतवङ्का मण्डूकी ब्राह्मणी दर्दुरच्छदा । मण्डूकपर्णी मत्स्याक्षी लावण्या च महौषधी । हिलमोची शङ्खधरा जलब्रह्मी झषाण्डिका ॥ १९ ॥ हयुषा विद्युषा विस्रा मत्स्यगन्धा वि[41b]षापहा । ;l{3700} तथाश्वत्थफला ध्वाङ्क्षनाशिका कच्छुनाशिनी ॥ २० ॥ श्रावणी श्रवणा मुण्डी भिक्षुकी श्रुतिशीर्षिका । अलम्बुसा श्रीमती च महामुण्डी तु मुण्डिनी ॥ २१ ॥ कदम्बपुष्पी गोशाला भवेद्ग्रन्थिनिकारुणा । वृद्धः कुलहलो बोटो भूकदम्बस्तपोधनः ॥ २२ ॥ ;l{3705} अन्यो देवकदम्बः स्यात्त्र्यहा द्रोणाथ कुम्भिका । ;l{0162} द्रोणपुष्पा कुम्भयोनिर्द्रोणा सैव कुरंबकः ॥ २३ ॥ स्यात्कौण्डिन्य * * * * छिन्ना छिन्नरुहामृता ॥ २३ ॥ वत्सादनी गुडूची च जीवन्ती सोमवल्ल्यपि । ;l{3710} चन्द्रहासा लता सोमा वयःस्था चक्रलक्षणा ॥ २४ ॥ तन्त्रिकामृतवल्ली च विशल्या मधुपर्ण्यपि । छिन्नोद्भवा वरा च स्यात्कुण्डली मण्डली तथा ॥ २५ ॥ पिण्डामृता त्वतिच्छिन्ना शच्याभा कन्दरोहिणी । अटरूषा त्वाटरूषः सिंहास्यो वाजिदन्तकः ॥ २६ ॥ ;l{3715} वाशको मातृका वाशा सिंहिका सिंहपर्ण्यपि । शीतवल्ली भिषङ्मा[42a]ता वृषः स्त्रीपुंसयोरपि ॥ २७ ॥ मेदोगला विरजनी मृगदन्ती खरस्वरा । अलम्बुसा गन्धवती मदयन्ती खरत्वचा ॥ २८ ॥ वार्त्ताकी बृहती सिंही भण्टाकी स्थूलकण्टिका । ;l[3720} कुली कण्टकिनी क्रान्ता राष्ट्रिका दुःप्रधर्षिणी ॥ २८ ॥ महोटिका च भण्टाकी बहुपत्रा विधानिका । क्षुद्रा तु कण्टकी व्याघ्री कण्टाली कण्टकारिका ॥ २९ ॥ प्रचोदनी धावनी च दुःस्पर्शा राष्ट्रिका स्पृशी । निदिग्धिका च बृहती कासघ्नी दुःप्रधर्षिणी ॥ ३० ॥ ;l{3725} श्वेतसिंही तु चन्द्राह्वा लक्ष्मणा चन्द्रपुष्पिका । विन्ना स्नेहफला रामा पुत्रदात्री प्रियंकरी ॥ ३१ ॥ स्यात्पुत्रिणी जयन्ती च रक्तबिन्दुच्छदा च सा । नागिनी मूलिनी नागाप्यथ सर्वानुकारिणी । शालिपर्णी दीर्घपर्णी कुमुदा शोथनाशिनी ॥ ३२ ॥ ;l{3730} विदारिगन्धांशुमती त्रिपर्ण्यतिगुहा स्थिरा । अंशुपर्णी पीतनी च तन्त्रीः सैव ध्रुवाभिधा ॥ ३३ ॥ दीर्घमूला पर्णिनी च[42b] महाक्लीतनिकापि सा । पृश्निपर्णी पृथक्पर्णी क्रोष्टुविन्ना च पर्णिनी ॥ ३५ ॥ ;p{0163} लाङ्गूली धृतिका दीर्घा क्लीतनी क्रोष्टुमेखला । ;l{3735} गोकण्टको गोक्षुरको भूक्षुरो व्यालदंष्ट्रकः ॥ ३६ ॥ त्रिकटश्च त्रिकण्टश्च वनशृङ्गाटकस्त्रिकः । भक्षटः स्थलशृङ्गाटः श्वदंष्ट्रः स्वादुकण्टकः ॥ ३७ ॥ क्षुरः पलंकषा च स्याच्छ्वदंष्ट्रा चेक्षुगन्धिका । पञ्चमूलं लघुबृहत्पादपो लक्ष्मणा विना (?) ॥ ३८ ॥ ;l{3740} दशमूलं लघुबृहत्पञ्चमूलद्वयेन च । वायसोली तु काकोली काका स्यात्स्वादुमांसिका ॥ ३८ ॥ वयःस्था मेदुरा वीरा धीरा स्वा * * * [दुरसा]पि सा । क्षीरिणी क्षीरकाकोली क्षीरशुक्ला विषाणिका ॥ ३९ ॥ क्षीरा विकारिका चोक्ता वयःस्था जीववल्ल्यपि । ;l{3745} मेदा मेदोभवा विद्या तथा पुरुषदन्तिका ॥ ४० ॥ अल्पपर्णी धरा श्यामा मधुरा जीवनी च सा । महामेदा देवमेदा महापुरुषदन्तिका ॥ ४१ ॥ मणिच्छिद्रा देवमणि[43a]र्मधुरा वसुरन्ध्रिका । माषपर्णी सूर्यपर्णी पाण्डुरा हयपुच्छिका ॥ ४२ ॥ ;l{3750} हंसमाषा स्वादुमाषा मांसमाषा महा * *[सहा] । काम्बोजिका सिंहवृत्ता मुद्गला च पिशाचिका ॥ ४३ ॥ अपुष्पी शालिपर्णी च कृष्णवृन्ताथ सापरा । कुरङ्गिका मुद्गपर्णी शिम्बिपर्णी च शिम्बिका ॥ ४४ ॥ काकमुद्गा क्षुद्रसहा महामार्जारगन्धिका । ;l{3755} रिङ्गिणी वनजा सिंही मृगगन्धापि सा भवेत् ॥ ४५ ॥ जीवको जीवदः क्षोदी मङ्गल्यो मधुरप्रियः । कूर्चकः कूर्चशीर्षश्च शृङ्गकश्चिरजीव्यपि ॥ ४६ ॥ ह्रस्वाङ्गः प्राणदः श्रेयान्दीर्घायुः स्वरदः शमी । ऋषभो वृषभः शृङ्गी ककुद्मान्पृषतीपतिः ॥ ४७ ॥ ;p{0164} ;l{3760} धूर्धरो मातृको द्राक्षो बन्धुरो वृषलीपतिः । रसोनपत्रसदृशौ दीर्घकन्दौ ससौरभौ ॥ ४८ ॥ जीवकर्षभकावेतौ हिमाद्रिशिखरोद्भवौ । जीवन्ती जीवनी जीवा जीवनीया यशस्करी ॥ ४९ ॥ जीवभद्रा पुत्रभद्रा म[43b]ङ्गल्या च मधुश्रवा । ;l{3765} शाकश्रेष्ठा जीवपृष्ठा देवपुष्पी सुखाकरी ॥ ५० ॥ * * * * * * * * * धुरा शृङ्गरीटिका । ऋद्धिः सिद्धिस्तुष्टिराशीश्चेतना च यशस्विनी ॥ ५१ ॥ आश्वासनी महामूर्धा श्रावणी शोधना प्रिया । लक्ष्मीर्योग्यं च सुसुखं मङ्गलं युगनामकम् ॥ ५२ ॥ ;l{3770} सर्वलोकप्रिया वृद्धिर्गर्भदाप्यृद्धिनामिका । जीवनीयो गणः सोऽयं भवेन्मधुकसंयुतः ॥ ५३ ॥ अष्टवर्गो विनाजीवा यष्टीभ्यां समुदीरितः । बला भद्रौदनी वाटी समङ्गा शीतकूर्चिका ॥ ५४ ॥ ऋष्या क्रूरा शीतपाका विज्जला खरयष्टिका । ;l{3775} प्रभार्या पवनघ्नी च सहा वाट्यालकोऽपि च ॥ ५५ ॥ वाट्यायनी वर्षपुष्पी वाट्या वीर्या बृहद्बला । गन्धवल्ली महागन्धा मङ्गल्यार्थप्रसादिनी ॥ ५६ ॥ भारद्वाजी सुकर्णा च शीतपूरा महाबला । ऋक्षगन्धा पीतपुष्पी रिष्यप्रोक्ता महासहा ॥ ५७ ॥ ;l{3780} गाङ्गेरुकी नागबला खरगन्धनिका(भा) झषा । विश्वदेवापरा[44a]रिष्टा घण्टा ह्रस्वगवेधुका ॥ ५८ ॥ शणपुष्पी सैव घण्टारवा स्याच्छणघण्टिका । शणघण्टश्चाथ दण्डोत्पला तु सहदेवकः ॥ ५९ ॥ वर्षपुष्पा च मङ्गल्या माता गोरक्षतन्दुला । अर्थप्रसाधनी च स्यात्सरणी तु प्रसारिणी ॥ ६० ॥ ;l{3785} सरा च सरणा राजबला भद्रबला च सा । ;p{0165} कटंभरा भद्रपर्णी भद्रकाली प्रतानिका ॥ ६१ ॥ चारुपर्णी सुप्रसराप्यथ द्वंद्वे पुनर्नवा ॥ ६० ॥ स्त्रियौ पुनर्भू-वर्षाभ्वौ ह्रस्वमण्डलपत्रिका । ;l{3790} विशाखो रक्तवृन्तः स्याद्रक्तपुष्पक एव च ॥ ६१ ॥ शिवाटिका क्षुद्रपत्रा वृश्चीवोऽथ कटिल्लकः । वर्षकेतुः क्रूरकः स्याद्दीर्घरक्तच्छदश्च सः ॥ ६२ ॥ स्यात्प्रावृषायणी श्वेता त्वियं शोफहरी तथा । महापुनर्नवा चाथ बलैरण्डपुनर्नवैः ॥ ६३ ॥ ;l{3795} मध्यमं पञ्चमूलं स्याच्छूर्पपर्णीद्वयेन च । पुत्रजीवो यष्टिपुष्पः कूटो मन्त्रार्थसिद्धिकृत् । शतमू[44b]ली शतपदी बहुपुत्रा शतावरी ॥ ६४ ॥ ऋष्यप्रोक्ता द्वीपिशत्रुर्द्वीपिकाधरकण्टकाः (कौ ?) । भीरुर्नारायणी नाराजिह्वा सूक्ष्मदला च सा ॥ ६५ ॥ ;l{3800} अभीरुस्तु महत्येषा पीवरीन्दीवरी वरी । सहस्रवीर्या केशी च महापुरुषदन्तिका ॥ ६६ ॥ सहस्रवीर्या-तुङ्गिन्यौ स्थिरपत्राप्यहेतुका । शतावरी च जीवन्ती काफोल्यौ जीवकर्षभौ ॥ ६७ ॥ जीवनाख्यं पञ्चमूलं चित्रकस्त्वग्निनामकः । ;l{3805} पाठी पाली च पाठीनो दारुणः पाचकोऽरुणः ॥ ६८ ॥ ज्योतिर्ज्वालः शठो व्यालो वल्ली(?)वह्निः कुटः शिखी । चव्यं त्रिषु स्याच्चवनं चविका कोलवल्लरी ॥ ६९ ॥ तुबरो वशिरस्तीक्ष्णस्तथा कुक्कुटमस्तकः । मूलं तु ग्रन्थिकं ग्रन्थिः षड्ग्रन्थिचटिकाशिरः ॥ ७० ॥ कणामूलं च पत्राङ्गं विरूपं मागधं तथा । ;l{3810} पिप्पली मागधी कृष्णा वैदेही चपला कटुः ॥ ७१ ॥ कणोपकुल्या कोला च शौण्डी[45a] स्यात्तीक्ष्णतन्दुला । ऊषणाप्युषणा शौण्डी सा भवेत्कृष्णतन्दुला ॥ ७२ ॥ ;p{0166} वशिरः श्रेयसी हस्तिपिप्पली कन्ववल्लरी । ;l{3815} कोलवल्ली गजाह्वा च चविकाफलमित्यपि ॥ ७३ ॥ तोयपिप्पलिका त्वन्या लाङ्गली शकुलादनी । गण्डूपदी शारदी च मत्स्यगन्धा च कञ्चटम् ॥ ७४ ॥ मरिचं यवनेष्टं स्यादुषणं तीक्ष्णमूषणम् । शिरोवृत्तं सुवृत्तं च कृष्णं कोलं च वेल्लजम् ॥ ७५ ॥ ;l{3820} स्याद्धार्मपत्तनं चाथ शुण्ठी विश्वं नपुंसि च । विश्वौषधं नागरं च शृङ्गवेरं कटूत्कटम् ॥ ७६ ॥ राहुच्छत्रं च भद्रं च कटु चार्द्रकमित्यपि । कटुकन्दं शृङ्गवेरं कटुभद्रं तु आर्द्रकम् । पिप्पलीविश्वमरिचैस्त्रिकटु स्यात्कटुत्रयम् । ;l{3825} व्योषं त्र्यूषणमेतत्तु सग्रन्थि चतुरूषणम् । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । पञ्चकोलं समरिचं त्वेतदुक्तं षडूषणम् ॥ ७९ ॥ भृङ्गं वराङ्गं सु[45b]रसं वरं रामाप्रियं त्वचम् । गुडत्वगुत्कटं हृद्यं चोचं स्यात्स्वर्णभूमिकम् ॥ ८० ॥ लाटपर्णं च तनुकं वल्कलोऽस्त्री त्वगङ्गना । ;l{3830} तमालपत्रकं पत्रनाम रोमशमंशुकम् ॥ ८१ ॥ गोमेदं तापसं चाथ स्थूलैला चन्द्रकन्यका । पृथ्वीका त्वक्सुगन्धा च त्रिदिवा त्रिदिवोद्भवा ॥ ८२ ॥ निष्कुटिर्बहुला च स्यात्सूक्ष्मा तु त्रिपुटा मता । कपोतवर्णा कोरङ्गी तुच्छाप्येलोपकुञ्चिका ॥ ८३ ॥ ;l{3835} कायस्था द्राविडी चैन्द्री पुटिका चर्मसंभवा । त्रुटिस्तुटिः स्त्रियां चाथ त्वक्पत्रैलं त्रिजातकम् ॥ ८४ ॥ त्रिसुगन्धि त्रिगन्धं * केसरं त्वहिकेसरम् । नागाह्वं नागकिञ्जल्कं चाम्पेयं नागरेणुकम् ॥ ८५ ॥ ;p{0167} हृद्रोहं चैव हेमामं त्रिजातं त्वमुना युतम् । ;l{3840} चातुर्जातं चतुर्जातं चतुर्गन्धमपि स्मृतम् ॥ ८६ ॥ लवं लवङ्गं भृङ्गारं शि(शे?)खरं वारिसंभवम् । श्रीसंज्ञं देवकुसुमं दिव्यं चन्दनपुष्पकम् ॥ ८७ ॥ जातीपत्री[46a] जातिकोशः पात्री सौमनसायनी । ;l{3845} जातीफलं तु शालूकं फलं सौमनसं पुरम् ॥ ८८ ॥ मदशौण्डं जातिसुतमथ कङ्कोल-कोलके । उ(ज?)लं बहुफलं च स्यान्मारीचं माधवोषितम् ॥ ८९ ॥ कटुकं कटुकासस्यं तथा कटुफलं च तत् । कङ्कोलकं पूगफलं लवङ्गं सुमनःफलम् । ;l{3850} घनसारश्चेति पञ्च सुगन्धि समुदीरितम् । ताम्बूलवल्ली ताम्बूली नागवल्ली च नागिनी ॥ ९१ ॥ रेणुका नन्दिनी कान्ता कपिला च हरेणुका । कपिला स्यात्पाण्डुफली कौन्ती राजसुता द्विजा ॥ ९२ ॥ स्याद्भस्मगन्धिनी चाथ गन्धत्वग्घरिवालुकम् । ;l{3855} एलावालुकमालूकमैलेयं च कपित्थकम् ॥ ९३ ॥ एल्वालुकं कुष्ठगन्धि वालुकं च सुगन्धि च । सुवर्णप्रसरं चाथ स्थौणेयं ग्रन्थिपर्णकम् ॥ ९४ ॥ शुकपुष्पं शुकं बर्हं बर्हिचूडं च पुष्पकम् । विकीर्णकः कीर्णरोम धौतेयं कुक्कुरं च तत् ॥ ९५ ॥ ;l{3860} [46b]स्पृक्का स्पृग्ब्राह्मणी देवी माला लङ्कोपिका मरुत् । निर्माल्या कोटिवर्षा च पिशुना ललनाह्वया ॥ ९६ ॥ पञ्चमुष्टिमरुन्माला समुद्रान्ता सुगन्धिका । लघुः शुभा च मरुता नीलपुष्पी सुरात्मजा ॥ ९७ ॥ मांसी तपस्विनी मत्तो जटी च जटिला मिसी । ;l[3865} क्रव्यादा पिशिनी पेशी लोमशा नलदं न ना ॥ ९८ ॥ ;p{0168} किरातिनी शिखा हिंस्रा भूतकेशी तु पूतना । गन्धमांसी पिशाची च केशी भूतजटा जटा ॥ ९९ ॥ अश्मपुष्पं शीतशिवं वृद्धं कालानुसार्यकम् । कालस्थं चापि शैलेयं शिलोध्रं तु शिलोद्भवम् ॥ ४० ॥ ;l{3870} तालपर्णी गन्धकुटी कुटी गन्धवती मुरा । दैत्यहृद्या भूतगन्धा रक्षोघ्नी गन्धमादिनी ॥ ४०० ॥ कालानुसार्यं तगरं कुटिलं नहुषं नतम् । महोदरश्चण्डहस्तो पिण्डीतगर एव च । सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली । ;l{3875} निर्मध्या नर्त्तकी शून्या धमन्यञ्ज[47a]नकेशिका ॥ २ ॥ चोरकः क्षेमकः शत्रुः कोपनः फलचोरकः । दुःपत्रो दुष्कुलो धूर्त्तो विषमाशुकरश्च सः ॥ ४ ॥ चण्डा धनहरी चौरी राक्षसी गणहासकः । लता कस्तूरिका कट्वी भवेत्स्वादुफला च सा । ;l{3880} कर्चूरको गन्धमूलो द्राविडो वेधमुख्यकः ॥ ५ ॥ काल्पको दुर्लभः कार्श्यः कार्ष्यो जीमूतमूलकम् । गन्धोलिका गन्धवधूर्वधूर्गन्धपलाशिका ॥ ६ ॥ भद्रकाली गन्धमूला षड्ग्रन्था सुव्रता*शी(शटी?) । सुगृहीता सोमदा च सती स्यात्सोमसंभवा ॥ ७ ॥ ;l{3885} प्रपौण्डरीकं पुण्ड्रं च पुण्डर्यं पुण्डरीयकम् । श्रीपुष्पं च सुपुष्पं च चक्षुष्यं साधुनाम च ॥ ८ ॥ स्यात्पद्मकं पद्मगन्धि पद्माह्वं पद्मदारु च । पीतरक्तं मरूत्थं च पाटलापुष्पवर्णकम् ॥ ९ ॥ मुस्ता त्रय्यां मुस्तकोऽस्त्री गाङ्गेयी भद्रमुस्तकम् । कुरुविन्दो मेघनामा गुन्द्रा राजकसेरुकः ॥ १० ॥ ;l{3890} वराहः पूर्णको[47b]ष्टश्च भद्रहंसोऽपरः पुनः । नादेयः पिण्डमुस्तः स्यान्नागरः पिठरं च सः ॥ ११ ॥ ;p{0169} कुटन्नटं नपुंसि स्याद्गोपुरं * * * पुरम् । सितपुष्पं दाशपुरं प्लवं च परिपेलवम् । ;l{3895} वितुन्नकं शुकाभं च कैवर्तीमुस्तकं च तत् ॥ १२ ॥ ;l{3895} जीर्णबुध्नं शीर्णपर्णं वानेयं वन्यमित्यपि । वाद्याह्वं पौष्करं मूलं काश्मीरं पुष्कराह्वयम् ॥ २३ ॥ ब्रह्मतीर्थं पद्मवर्णं धीरं स्यात्पुण्यसागरम् । सुगन्धि स्याद्वृक्षरुहमथ हट्टविलासिनी ॥ १४ ॥ ;l{3900} हनुर्नागहनुः कोशी शुक्तिः शङ्खः खुरो नखः । नखी खलो हस्तिकर्णः सामुद्रं कोलपर्णकम् ॥ १५ ॥ खरः शल्यी संधिनालोऽप्यथ स्याच्चक्रकारकम् । शार्दूलजं व्याघ्रनखी पुरन्ध्र्यसं (Corrupt) स च पादजम् ॥ १६ ॥ पौरं व्याडायुधं भृङ्गनिर्लोहं बर्बरं च तत् । ;l{3905} तुरुष्कः सिह्लको धूम्रः पिण्डातः पिण्डकः कपिः ॥ १७ ॥ कपिशः कपिजः कल्को वृकधूपश्चलप्लवः । भवेत्कृत्रिमधूपश्च याचतः (?) सुरभिस्तथा ॥ १८ ॥ [48a] कुष्ठं रोगाभिधं वाप्यमुत्पलं पारिभव्यकम् । पाकलं पाठकं पारिभद्रं च हरिभद्रकम् ॥ १९ ॥ किञ्जल्कं च कुवेरं च रामं वानीरजं च तत् । ;l{3910} त्रायन्ती त्रायमाणार्द्रा पालिनी भयनाशिनी ॥ २० ॥ बलभद्रा कृतत्राणा बलदेवाद्रिसानुजा । मङ्गल्या वार्षिकी त्राणा सुहृत्त्राणा सुनामिका ॥ २१ ॥ तालीशकं तु तालीसं पत्रं तालीसपत्रकम् । ;l{3915} भवेत्तामलकीपत्रं पत्राढ्यं च शुकोदरम् ॥ २२ ॥ नाकुली नकुलेष्टा स्यात्सुरसा सर्पगन्धिका । सहदेवी महावीर्या सर्पाक्षी गन्धनाकुली ॥ २३ ॥ सर्पकङ्कालिका कामचारिणी विषनाशिनी । महासुगन्धा छत्राकी सुनन्दा सुवहा च सा ॥ २४ ॥ ईश्वरी नागदमनी महायोगेश्वरी सुता । ;l{3920} योगेश्वरी नागपुष्पी लूता गर्द्दभघातिनी ॥ २५ ॥ ;p{0170} सर्पगन्धा सर्पसहा विषदंष्ट्रा विषापहा । अन्या तु श्वेतपुष्पी स्यान्नागविन्नोरगस्फु[48b]टा ॥ २६ ॥ मधुपुष्पा सर्वपुष्पी श्वेतदन्ता च नागिनी । ;l{3925} पर्वपुष्पी श्येनगन्धा शूलिनी रोमदन्तिका ॥ २७ ॥ सशल्या काण्डिका चाथ सोमवल्ली द्विजप्रिया । यज्ञनेत्री धन्वलता पक्षपत्रा मखप्रभुः ॥ २८ ॥ महाधन्या गहागुल्मा भेदाः श्येनाहृतादयः । सुदर्शना सोमवल्ली वक्राङ्का मधुपर्णिका ॥ २९ ॥ ;l{3930} वत्सादनी च दध्याली मेचका श्रीवणा तथा । पातालगरुडी च स्यादथ मूर्वा मधुस्रवा ॥ ३० ॥ मुरङ्गिका सुरश्रेणी मधुश्रेणी च तेजनी । देवी मधुरसा पीलुपर्णी गोकर्णिका स्रुवा ॥ ३१ ॥ मधु[धू]लिका मोरटा च पृथ*क्त्वक्त्रिपर्णिका । ;l{3935} स्निग्धपर्णी स्वादुरसा गोपवल्ली धनुर्लता ॥ ३२ ॥ मध्वग्रजा मधुमती पीलुनी ह्वालिनी च सा । ह्यनमूलोऽपरः क्षीरमोरटाङ्कोठपुष्पकः ॥ ३३ ॥ सदलो दीर्घमूलश्च कर्णपुष्पो मधुस्रवः । हस्तिपर्णः पीलुपर्णः पुरुषो बद्धमूलकः[49a] ॥ ३४ ॥ ;l{3940} पाठाम्बष्ठाम्बष्ठकी च वृकष्येकैशी (Corrupt) कुचेलिका । एकाष्टीला विद्धकर्णी स्थायिनी श्रेयसी रसा ॥ ३५ ॥ पापचेली वृहत्तिक्ता प्राग्वीता वनतिक्तिका । त्रिसरा मालती च स्यात्स्थायिका वृकदन्त्यपि ॥ ३६ ॥ वृक्षपर्णी दीपनी च कृष्णपाठा सुवीवरा । ;l{3945} कटुः कट्वी मत्स्यपित्ता मत्स्यविन्ना च रोहिणी ॥ ३७ ॥ चक्राङ्गी च द्विजाङ्गी स्यादरिष्टा जननी जनी । अशोकरोहिणी तिक्ता कटुरोहिण्यपि स्मृता ॥ ३८ ॥ स्यान्मत्स्यशकला कृष्णभेदी च शकुलादनी । ;p{0171} शतपर्वा तिक्तरोहिण्यथ शृङ्गी विषाणिका ॥ ३९ ॥ ;l{3950} कर्कटाक्षा महाघोषा चक्रावनतमूर्द्धजा । कुलीरशृङ्गी चक्रा च कुलीरा चन्द्रहासिका ॥ ४० ॥ निकुम्भो दन्तिका शीघ्रा हस्तिदन्त्युपचित्रका । चित्रा च चित्रकूला च तथोदुम्बरपर्ण्यपि ॥ ४१ ॥ विशोधनी शोणघण्टा[नु] कुलैरण्डफला चा सा । ;l{3955} घुणप्रिया मुकु[49b]लेऽपि द्रवन्ती त्वाखुनामिका ॥ ४२ ॥ वृषा रण्डासुतश्रेणी प्रत्यक्श्रेण्याखुपर्ण्यपि । सुवर्णी विषपर्णी च वराङ्गी विजयच्छदा ॥ ४३ ॥ आवर्तकी केशरुहा वारणी वृषभध्वजः । स्यादेरण्डफलश्चाथ जयपालो मुकूलकः ॥ ४४ ॥ ;l{3960} तित्तिरीफलमप्युक्तं द्रवन्तीसंभवं फलम् । कुम्भस्त्रिभण्डी त्रिवृता सरला सरडा त्रिवृत् ॥ ४५ ॥ काकाक्षी रेचनी अस्रा कण्ठविक्षोभिणी हिरा । आम्भसी चारुणा तु स्यादस्रा कुटरणायनी ॥ ४६ ॥ सर्वानुभूतिस्त्रिपुटा मता कुटर(रु)णा च सा । ;l{3965} श्यामा मसूरविदला पालिन्दी कालमेषिका ॥ ४७ ॥ सुषेणिका श्याममूला विरला ताम्रपुष्पिका । अर्धचन्द्रा कोशफला निःसूत्रा कालपर्णिका ॥ ४८ ॥ काला मालविकाथ स्याद्गवाक्षी सुरवारणी । चित्रा मृगाक्षी गोदुग्धा सूर्याह्वा गजचिर्भिटी ॥ ४९ ॥ ;l{3970} आत्मरक्षा चित्रफला चित्रदेवी महाफला । [50a] स्थाणुकर्णी धनुःश्रेणी हस्तिदन्ती गवादनी ॥ ५० ॥ त्रपुस्यथ विशाला स्यादैन्द्री चेन्द्रसुराह्वया । ऐन्द्रैर्वारुर्मृगैर्वारुर्मृगाक्षी च मृगादनी ॥ ५१ ॥ स्यादिन्द्रवारुणी क्षुद्रफला च वृषभादनी । ;l{3975} जीमूतको देवताडो वृत्तकोषो गरागरी ॥ ५२ ॥ ;l{0172} देवदाली जालिनी च वेणी लोमशपत्रिका । कर्कोटी च विषघ्नी च मूषिका विषहापि च ॥ ५३ ॥ बला मोटा सूक्ष्ममूला जयन्ती विजया जया । हरिता सूक्ष्मपत्रा च प्रोक्ता सैवापराजिता ॥ ५४ ॥ ;l{3980} करम्भा कर्कशा द्रोणी दीर्घवृन्तोत्तमारणी । इन्दीवरा युग्मफला सशोणी नालिका च सा ॥ ५४ ॥ आघाटः स्याच्छैखरिकः शिखरी शिखरस्वसः (?) । धामार्गवोऽप्यपामार्गो मार्गः कूटो मयूरकम् ॥ ५५ ॥ अधःशल्यः क्षारमध्यो दुर्ग्रहो दुरतिग्रहः । ;l{3985} मर्कटी मर्कटकरा किणिही स्वरमञ्जरी ॥ ५६ ॥ प्रत्यक्पर्णी केशपर्णी रक्तोऽसौ रक्त[50b]बिन्दुकः । खरच्छदश्च वशिरो नीरजस्त्वेष रामठः ॥ ५७ ॥ तोयवृत्तिः शोषहारी भार्गी त्वङ्गारवल्लरी । पद्मा हञ्जी शुक्रमाता पर्विणी कासनाशिनी ॥ ५७ ॥ ;l{3990} फञ्जी ब्राह्मणयष्टिः स्यान्महागर्दभगन्धिका । भृगुजा भङ्गुरा हंसी ब्राह्मणी बर्ब-बर्बरौ ॥ ५८ ॥ पालिन्दी खरशाकं च शैलभित्त्वश्मभेदकः । शिलोद्भेदोऽश्मरीभेदी विडङ्गा तु त्रिलिङ्गका ॥ ५९ ॥ वेल्लं कृमिघ्नं भूतघ्नं तन्दुलाश्चित्रतन्दुला । ;l{3995} अमोघा कैरला चैव जन्तुद्विण्मृगगामिनी ॥ ६० ॥ रक्तबीजा तु चेल्लासा गह्वरं कैरलं च तत् । उग्रोग्रगन्धा गोलोमी जटिला शतपर्विका ॥ ६१ ॥ लोमशा क्षुद्रपर्णी च मङ्गल्या विजया वचा । श्वेता मेध्या हेमवती षड्ग्रन्थाप्यरुणा पुनः ॥ ६२ ॥ ;l{4000} साकर्षणी भोगवती बर्बरा त्वजगन्धिका । करवी कारवी तुङ्गी कवरी हिङ्गुपत्रिका ॥ ६३ ॥ पृथ्वीका बाष्पिका तन्वी नाडी हिङ्गु[51a]शिराटिका । शाकंभरा पूतिकीटा कुञ्चिका चोपकुञ्चिका ॥ ६४ ॥ ;p{0173} रामठी चोपकाली सा खरपुष्पा च पिण्डिका । ;l{4005} वेणुपत्री दारुपत्री पुमान्पूतिमयूरकः ॥ ६५ ॥ स्याद्रस्या रसना रास्ना रसा युक्तरसा च सा । विरसा सुवहा गन्धमूला युक्ता च नाकुली ॥ ६६ ॥ श(ए?)लापर्णी श्रेयसी च भवेद्युक्तपला च सा । घुणा घुणप्रिया माद्री विरूपा च विषारुणा ॥ ६७ ॥ ;l{4010} शुक्लकन्दा त्वतिविषा सैव प्रतिविषा मता । विश्वा शृङ्गी चोपविषा * * * श्यामकन्दिका ॥ ६८ ॥ यासो यवासो दुःस्पर्शो धन्ययासः कुनाशकः । मरूद्भवो दीर्घमूलो बालपत्रोऽतिकण्टकः ॥ ६९ ॥ रोदिनी कच्छुरानन्ता ताम्रमूली विशारदा । ;l{4015} गन्धारिका समुद्रान्ता दुरालम्भा दुरालभा ॥ ७० ॥ फणीहारी ग्राहिणी च विरूपा दुरभिग्रहा । गोपाङ्गना शारिवा स्यात्सारिवा काष्ठसारिवा ॥ ७१ ॥ प्रतानिनी नागजिह्वास्फो[51b]ता भद्रलतापि सा । सुगन्धिका च सरलानन्ता चोत्पलसारिवा ॥ ७२ ॥ ;l{4020} कृष्णमूला तु सा श्यामा भद्रा चन्दनगोपिका । कालिन्दी चन्दना कृष्णवल्ली कालानुसार्यपि ॥ ७३ ॥ प्रोक्ता चन्दनमूला सा मसूरा कालपेशिका । चर्मरङ्गा बिन्दुकिनी विभाण्डी पीतकालिका ॥ ६४ ॥ आवर्तकी रक्तपुष्पी महाजालिनिका च सा । ;l{4025} अपरा भूपैठरीकी मार्कण्डी मृदुरेचनी । अजशृङ्गी मेषशृङ्गी शक्रनेम्यहिदंष्ट्रिका । महाकाली मेषवल्ली कूर्चपर्णी च वर्तिका ॥ ७६ ॥ विषाणिका च चक्षुष्या वहलाङ्गोऽप्यवल्कलः । नन्दी स दक्षिणावर्ता वृश्चिकाली सपुच्छिका ॥ ७७ ॥ ;l{4030} ग्रामीणा नीलिनी नीली काला क्लीतकिकापि च । रञ्जनी श्रीफली तुच्छा द्रोणी दोला विशोधि(ध)नी ॥ ७६ ॥ ;p{0174} मधुपर्णी नीलपुष्पी वृत्तिकाञ्जनकेशिका । गन्धपुष्पफला भारवाहिनी सरटी च सा ॥ ७७ ॥ मञ्जिष्ठा म[52a]ञ्जुला जिङ्गी रक्ताङ्गी रक्तयष्टिका । ;l{4035} समङ्गा विकसा भण्डी भण्डीरी विजयारुणा ॥ ७८ ॥ कालमेषी ताम्रमूला चन्द्रहासा विषद्विषा । रसायनी च गण्डीरी छिन्नाङ्गी नागकन्यका ॥ ७९ ॥ मण्डूकपर्णी वस्त्रालंकरणी कालगोष्टिका । मृत्तिका छद्मका काला हेमा योजनवल्ल्यपि ॥ ८० ॥ ;l{4040} लाक्षा राक्षा रङ्गमाता जन्तुमाता पलंकषा । रक्ता निर्मत्सरा दीप्तिर्यावोऽलक्तो द्रुमामयः ॥ ८१ ॥ जतु क्लीबेऽथ जतुका जतूका जतुकृज्जनी । जननी रञ्जनी चक्रवर्तिनी पर्पटी च सा ॥ ८२ ॥ संहर्षा चापि संस्पर्शा जन्तुकृष्णाह्वकृष्णिका । ;l{4045} अस्त्री कुसुम्भो लट्वा च महारजनमित्यपि । कटरो रक्तपुष्पः स्यात्किरिका पद्ममित्यपि । कम्पिल्लकस्तु काम्पिल्लः कर्कशो रक्तचूर्णकः ॥ ८३ ॥ रक्ताङ्गो रञ्जनो रेची रेचकश्चन्द्रकश्च सः । तेजस्विनी तैजनी स्यादश्वघ्ना च महौषधी ॥ ८४ ॥ ;l{4050} तेजोह्वा च [52b]किलासघ्नी पारिजाता च वल्कला । ज्योतिष्मती पीततैला पण्या काकादनीलता ॥ ८४ ॥ काकाण्डकी सूक्ष्मफला लवणा स्वर्णवल्लरी । चतुर्मदा वह्निभासा कटभी च त्रिपर्णिका ॥ ८५ ॥ पीतावेगा(गी ?) कट्विका च कुदिनी कङ्गुनी च सा । ;l{4055} वृषा पारावताङ्घ्रिश्च धातकी त्वग्निपुष्पिका ॥ ८६ ॥ ताम्रपुष्पी धातुपुष्पी सुभिक्षा मद्यवासिनी । बहुपुष्पी पर्वतीया वह्निज्वाला च कुञ्जरा ॥ ८७ ॥ मदहेतुर्मदा मद्यपुष्पी च मदनी च सा । मदनीया विशल्या तु लाङ्गलिक्यनला न ना ॥ ८८ ॥ ;p{0175} लाङ्गली कलिकारी च प्रमाता गर्भपातिनी । ;l{4060} अर्धेन्दुपुष्प्यग्निशिखानन्ता कुटजपुष्पिका ॥ ८९ ॥ उल्का च फलिनी वह्निजिह्वा स्यात्पुष्पसारसा । नलवास्तुश्च शौरिः स्यात्काकाङ्गी तु शिरोबला ॥ ९० ॥ काकनाशा(सा) काकतुण्डी काका हिंस्रा मुरङ्गिका । ;l{4065} चौरस्नायुर्जीवनीया काकजङ्घा तु सा मता ॥ ९१ ॥ [53a] स्थूला प्रोक्ता गृध्रनखी काका पारापनी(?)तथा । मदध्या कार्मणी काकतिक्ता दासी सुलोमशा ॥ ९२ ॥ पारावताङ्घ्रिश्च नदीकान्ता प्राचीबलः पुमान् । काकमाची तु कामाची कामाता जघनेफला ॥ ९३ ॥ ;l{4070} वायसी काकमाची च स्वादुपाकफला च सा । कामाता कुष्ठहन्त्री च रसायनवरा च सा ॥ ९४ ॥ उत्तानको बद्धशिखा चूडाला चक्रलोच्चटा । इक्षुगन्धा तु काण्डेक्षुः काकेक्षुश्चेक्षुरः क्षुरः ॥ ९५ ॥ स्यात्तैलकण्टकोऽत्ताक्षुरध्यण्डः कोकिलाक्षकः । ;l{4075} बलं बशालिः कामश्च बृहत्काशश्च खक्खटम् ॥ ९६ ॥ स्यान्नदीकामुको रक्तमञ्जरिर्निम्नहूस्तथा । जलजस्तु नदीकान्तस्तोयजातः प्रतीफल(?) ॥ ९७ ॥ अश्वाश्वगन्धा गोकर्णी वल्या वाजीकरी च सा । वराहकर्णी पुष्पा च कम्बुका कुष्ठगन्धिका ॥ ९७ ॥ ;l{4080} वृषोऽवबोधको बर्हिपित्तं च द्वीपजा तु सा । ताम्रसारा वा[53b]तहरी पौष्टिकी च गरीयसी ॥ ९८ ॥ उपदंशामयहरी द्वीप्या मधुरसापि सा । विदारीक्षुविदारी स्यात्स्वादुकन्दा हयप्रिया ॥ ९९ ॥ गजप्रेष्टा चक्षुगन्धा कन्दवल्ली शृगालिका । ;l{4085} * * * * * * * * वृक्षपर्णी बिडालिका ॥ ५०० ॥ भूकूष्माण्डी क्षीरशुक्ला त्विक्षुगन्धा पयस्विनी । ;p{0176} इक्षुवल्ली क्षीरवल्ली महाश्वेतर्क्षगन्धिका । क्षीरकन्दा चेक्षुपर्णी सैव क्षीरविदारिका ॥ १ ॥ गोधापदी हंसपदी त्रिपदी रक्तपादिका । ;l{4090} प्रह्लादिनी विषग्रन्थिः सुवहा च मधुस्रवा ॥ २ ॥ कीटनामा कीटमारी घृतमण्डालसेलुका । लज्जावती तु लज्जालुर्लज्जा पृष्ठपुरोटिका ॥ ३ ॥ नमस्कारी गण्डकाली समाङ्गा च शमीछदा । समङ्गा रक्तपादी च रक्तमूला हिमच्छदा ॥ ४ ॥ ;l{4095} प्ररोदिनी गन्धकारी खदिरी रक्तमूलिका । रक्तमूला रुहा स्पृक्का भवेदञ्जलिकारिका ॥ ५ ॥ तालमूला तु मुसला ताली तालच्छदापि सा । हिरण्यपु[54a]ष्पी खर्जूरी खलिनी वृष्यकण्टिका ॥ ६ ॥ महावृषा मौसली स्यादात्मगुप्ता तु मर्कटी । ;l{4100} ऋष्यप्रोक्ता शूकशिम्बिः कण्डूरा प्रावृषायणी ॥ ७ ॥ कण्डूकर्यजहाव्यङ्गा गुप्ता च कपिलोमिका । आर्षभी लाङ्गली व्यङ्गा वामनी दुरभिग्रहा ॥ ८ ॥ विष्वक्सेनप्रिया गृष्टिः काश्मरी वनमालिका । वाराही बदरी काङ्क्षी वरा कन्दस्तु तद्भवः ॥ ९ ॥ ;l{4105} सुखकन्दः सुकन्दश्च किटीः शम्बरकन्दकः । वज्रपत्रश्च वक्रालुर्वन्यः सूकरकन्दकः ॥ १० ॥ प्रोक्तो मूलकमूलाभो वाराहो वडवानलः ॥ ११ ॥ स्वर्णक्षीरी काञ्चनी स्यात्पीतदुग्धा हिमावती ॥ ११ ॥ पटुपर्णी हैमवती क्षीरिणी यवचिञ्चिका । ;l{4110} तिक्तदुग्धा स्वर्णवती सुवर्णाभरणं तथा ॥ १२ ॥ ऋक्षगन्धा तु मेषाण्डी वृषगन्धाप्यजाण्डिका । वृत्तपत्री च मेषान्त्री जुङ्गको जीर्णवालकः ॥ १३ ॥ ;p{0177} अन्तःकोटरपुष्पी स्यादावेगी वृद्धदारकः । वृद्धदार्वथ सा कृष्णाजा[54b]न्त्री महिषवल्लरी । ;l{4115} वेल्लरी दीर्घवेल्लोऽथ महाश्यामा दवाग्निका ॥ १४ ॥ आग्नेयः स्यादग्नियमो ब्रह्मसोमाभिधश्च सः । चतुभङ्गाह्वयः प्रोक्तो वृद्धदारुविशेषकः । आरामशीतला देवगन्धा चटकभक्षिका ॥ १५ ॥ स्याद्भूरिनवनीता च भवेत्कुक्कुटमर्दकः । ;l{4120} कुमारी कुण्डला माता फलमत्स्याक्षिकारिका ॥ १६ ॥ रसगन्धो गन्धरसो बोलो जातीरसो रसः । प्राणः शशश्च पिण्डश्च गोप-गोपरसावपि । गञ्जा पिका मातुलानी भङ्गिका विजया जया । उन्मादि[नी] हर्षिणी स्याद्भङ्गराजस्तु मार्कवः ॥ १७ ॥ ;l{4125} भृङ्गारको भृङ्गनामा पङ्कजः केशरञ्जनः । रविप्रियो महानीलः सूर्यावर्तश्च कीर्त्तितः ॥ १८ ॥ भवेद्भृङ्गरजःकेशराजोऽङ्गारक एव च । स्यादाकाशलतावन्ती पिच्छिलाक्षा महासहा ॥ १९ ॥ वन्दा वृक्षादनी वृक्षरुहा कामरुहा तथा । ;l{4130} नलपर्णी नीलवल्ली जीवन्ती पादपाशना ॥ २० ॥ ;l{4130} अस्था[55a]न रोहिणी सैव सौविर्यं पदरोहिणी । वन्दकः शिखरी कामतरुश्च विजयद्रुमः ॥ २१ ॥ मोदकी जिङ्गिणी झिल्ली मञ्जरी गुडमञ्जरी । जातसारा पर्वतीया झिङ्गिणी स्मरमञ्जरी ॥ २२ ॥ ;l{4135} प्रहारवल्ली विकसा वीरवत्यपि * * * [कथ्यते] । मांसरोहा चर्मकसा वृत्ता पिशितरोहिणी ॥ २३ ॥ विमला सातला सारी सप्तला वर्त्तकी जनी । बहुफेना चर्मकषा चर्मसाह्वा सरालिका ॥ २४ ॥ सनालिका पीतदुग्धा केनादीप्ता रसालिका । ;p{0178} ;l{4140} गुञ्जा तु काकणन्ती स्यात्कणीचिः काञ्चिरुच्चटा ॥ २५ ॥ शिखण्डिका रक्तिका च * * [काक]चिञ्ची च कृष्णला । मसी काकादनी काकपीलुका काकनग्निका ॥ २६ ॥ चक्रशल्या च दुर्मेधा रतशीतपदी च सा । सा श्वेता श्वेतपाकी स्याच्चूडाला च भिरिण्डिका ॥ २७ ॥ ;l{4145} दुर्माषा चक्रिका चूडा काम्बोजी काकपीलुका । वाकुची वागुचिश्चन्द्रशकला चन्द्रवल्लरी ॥ २८ ॥ [55b]चन्द्रप्रभा चन्द्रराजी खण्डराजी वरामृता । कालमेषी कृष्णफला सुवल्लिः पूतिफल्यपि ॥ २९ ॥ मलपूश्चन्द्रिका च स्यात्कुष्ठघ्नी चाप्यवल्गुजः । ;l{4150} कट्वम्लनामिका गोधावती श्यामा च मोहिनी ॥ ३० ॥ वटपत्री रेवतिका दीनकीशान्तकश्च सः । कार्पासी पटदा पद्या कर्पासी वयनी तथा ॥ ३१ ॥ शतपुष्पी समुद्रान्ता साच्छादनफलापि च । अन्यावन्द्यफला भद्रकर्पासी शोणपुष्पिका ॥ ३२ ॥ ;l{4155} भारद्वाजी च भद्राथ कार्पासो बादरः पिचुः । पिचव्यस्तूलमप्यस्याः सूत्रेथ वरतिक्तकः ॥ ३३ ॥ पर्पटः पित्तहा रेणुनामा चर्माह्वयश्च सः । शीतप्रियः सूक्ष्मपत्रः कवचश्चर्मकण्टकः ॥ ३४ ॥ रक्तघाती च सृष्टाकस्त्रियष्टिर्ज्वरनाशकः । ;l{4160} रक्तपुष्पोऽभिसाद(?)श्च तृष्णाघ्नो यवकण्टकः ॥ ३५ ॥ क्षवः क्षुताभिजननो नासासंवेदनस्तथा । तीक्ष्ण उद्वेजनो राजक्षवकः क्षुरकश्च सः ॥ ३६ ॥ ऐन्द्रिरा[56a]छिक्कपत्रा चाप्यथ स्यात्तुलसी सिता । सुरसा सुलभा ग्राम्या भूतघ्नी भूरिमञ्जरी ॥ ३७ ॥ ;l{4165} अपेतराक्षसी गौरी प्रोक्ता सुरभिमञ्जरी । श्रीमञ्जरी भागमाताथ कृष्णा देवदुन्दुभिः ॥ ३८ ॥ चक्रपर्णी शक्रपत्नी सुरसा हरिकामिनी । ;p{0179} कर्पूरतुलसी त्वन्या भूतेष्टा भूतनायका ॥ ३९ ॥ मधूकपर्णी कायस्था मयूरा राजसी शिखा । ;l{4170} द्राक्षा फलोत्तमा स्वाद्वी प्रियाला काकमाचिका ॥ ४० ॥ मधुयोनिश्चारुफला मृद्वीका गोस्तनी च सा । काश्मीरजा हारहूरा रसाला कपिलापि च ॥ ४१ ॥ अन्तरापथिका माता भवेन्मधुफला च सा । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ ४२ ॥ ;l{4175} मूले पत्रे करीराग्रफलकाण्डे विरूढकाः । त्वक्पुष्पं कवकं चेति शाकं शिग्रु च न स्त्रियाम् ॥ ४३ ॥ उपदंशो हरितकं शालनं सालनं च तत् । कचपं पत्रशाकं च भाजा[56b]भाजी तु पाचिता ॥ ४४ ॥ कलम्बश्च कडम्बश्च द्वयोः स्याच्छाकनाडिका । ;l{4180} कार्षापणोऽस्त्री शाकादि बद्धमुष्टिर्मतो बुधैः । राजालुर्मूलकोऽस्त्री * हस्तिको हस्तिदन्तकः ॥ ४५ ॥ नीलपर्णं नीलकण्ठं हरित्पर्णं च सेकिमम् । शालामर्कटकं मिश्रं हस्तिकाक्षारसंज्ञितम् ॥ ४६ ॥ अवदंशक्षमं तीक्ष्णं विष्णुगुप्तमतं वृशम् (corrupt) । ;l{4185} चाणक्यमूलकं रक्तं राजालुकमपीरितम् ॥ ४७ ॥ बाले मूलकपोतात्र गृञ्जनं त्वस्त्रियां भवेत् । गर्जरं पीतकं च स्याद्भवेन्नारङ्गकन्दकम् ॥ ४८ ॥ अर्शोघ्नः शूरणः कन्दः सूरणश्चित्रदण्डकः । कण्डूलोऽप्यथ वन्योऽसावुन्नु ओन्नोऽपि कीर्तितः ॥ ४९ ॥ ;l{4190} समष्टिला तु गण्डीरः पिण्डालुस्त्वृष्यगन्धिका । मध्वालुकं रोमशं स्याच्छङ्खालुः सङ्खसंनिभः ॥ ५० ॥ हस्त्यालुकं हस्तिकन्दो रक्तालू रक्तकन्दकः । ;p{0180} सुरेन्द्रको वज्रकन्दो मुञ्जातं नालमस्तकम् ॥ ५१ ॥ मस्तकी त्वस्य निर्यासोऽथ स्व *[ल्प] विटपं भवेत् । ;l{4195} को[57a]लूटमपि कोदुम्बं जलोदुम्बरकन्दकः ॥ ५१ ॥ स्थलकन्दो ग्रामकन्दो महाकन्दस्तु माणकम् । चिञ्चोटकं कशेर्वस्त्री वृषपर्वाथ तन्महत् ॥ ५३ ॥ राजमुस्ताह्वयं राजकशेरुरपि न स्त्रियाम् । केम्बुकं तु भवेत्पेलुपेलुनी दलशालिनी ॥ ५४ ॥ ;l{4200} क्रौञ्चादनं तु नापाकं भेडं घेञ्चुलिका च तत् । अस्त्री पलाण्डुर्वदनदूषी स च सुकन्दकः । लतार्को लवतार्कश्च दुर्द्रुमो हरितः स च ॥ ५६ ॥ न स्त्री रसोनो लशुनो म्लेच्छकन्दोऽप्यरिष्टकः । राहूत्सृष्टो महाकन्दोऽप्युग्रगन्धो नृणां तथा ॥ ५७ ॥ ;l{4205} महौषधं गृञ्जनस्तु न स्त्री स्यादल्पनालकः । सूक्ष्मपत्रः पलाण्डोस्तु परणाघभिदो दशा ॥ ५८ ॥ भूमण्डला भूमिदण्डा प्रबोधा भूमिमण्डिका ॥ ५५ ॥ प्रबोधिनी चाथ शाकवीरः स्यात्क्षारपत्रकः । न स्त्री वास्तुक-वास्तूकौ प्रणालश्च प्रसादनः ॥ ५९ ॥ ;l{4210} स्यान्मार्षो मारिषो रक्तस्त्वेष स्याद्रक्तनालकः । जीवन्तकः प्रणालोऽथ तन्दुली[57b]योऽल्पमारिषः ॥ ६० ॥ तन्दुलीयोऽपि चण्डालः श्वगलो मेघनादकः । काण्डीरस्तण्डुलीबीजो विषघ्नोऽपि घनस्वनः ॥ ६१ ॥ मार्षकस्त्वपरो वीजी बाष्पिकः कन्धरोऽपि सः । स्याद्गौडवास्तुकश्चिल्ली यवशाकं महद्दलम् ॥ ६२ ॥ ;l{4215} चिल्लिका त्वतिरक्ताभा राजमाषस्तु रक्तकः । अम्लस्त्वेषोऽम्लबाष्पः स्याज्जलजस्त्वम्बुबाष्पकः ॥ ६३ ॥ पितृप्रियं कालशाकं कालिकाशाकमित्यपि ॥ ६४ ॥ ;l{0181} सर्षपः स्यात्सरिषपस्तन्तुभश्च कदम्बकः । ;l{4220} कटुश्च कटुकस्नेहो रक्षोघ्नो भूतनाशनः ॥ ६५ ॥ कण्डघ्नोऽप्यथ सिद्धार्थोऽनघः स्याच्छ्वेतसर्षपः । प्रभूततीक्ष्णगन्धस्तु चित्रलो रक्तसर्षपः ॥ ६६ ॥ क्षवः छिक्काकरो राजसर्षपः कृष्णिकासुरी । राजिका दैत्यपत्नी चाप्यथ स्यान्मधुसूदनी ॥ ६७ ॥ ;l{4225} पालङ्क्या स्त्री तु चञ्चूः स्याच्चञ्चुश्चञ्चुक एव च । तिलपर्णी कुन्तलिका नली बदर-बर्बरौ ॥ ६८ ॥ कुलिञ्जिका चाथ वृहद्धोलिका[58a] लोणिका च सा । कुलिञ्जरः स्यात्कुठिरो झञ्झरूकश्च झञ्झकः ॥ ६९ ॥ कालमाला तु पर्णास-कठिञ्जर-कुठेरकाः । ;l{4230} कृष्णार्जकः सालनीयो मालुकः कृष्णमालुकः ॥ ७० ॥ करालः कपिशः कालमल्ली स्यात्कालमल्लिका । सितोऽसौ बिल्वगन्धः स्याद्गन्धपत्रो वटच्छदः ॥ ७१ ॥ वैकुण्ठश्चार्जकोऽथ स्यात्सुमुखः क्षुद्रपत्रकः । पोतक्युपोदिका मत्स्यकाली मदलिका च सा ॥ ७१ ॥ ;l{4235} मदघ्नी पिच्छिला वृन्ता वृन्ताका च कलम्बिका । सूत्रङ्गिसंकटी कण्टकिनी मदहरी च सा ॥ ७२ ॥ श्रीहस्तिनी तु भूरुण्डी कुरण्टी शीर्षमञ्जरी । सिंहकेशी क्षेत्रभूषा चुबुकक्षेत्रनाशिनी ॥ ७३ ॥ नृत्यकुण्डः सूर्यशिरा कुरण्डस्त्वतिवारकः । ;l{4240} सुनिषण्णः सूचिपत्रश्चतुःपत्रो वितुन्नकः ॥ ७४ ॥ श्रीवारकः शीतवरः स्वस्तिकः कुक्कुटः स्थितिः । चाङ्गेरीपत्रसदृशो वाहसः पत्रशूल्पिका ॥ ७५ ॥ मत्स्यान्तबीजोऽर्कसुतो[58b] विषगन्धो विषोदरः । सफलीभूर्दधिशमी विष्णुक्रान्तापराजिता ॥ ७६ ॥ ;p{0182} ;l{4245} नीलपुष्पी दीनकी च जया च क्षुरिका च सा । सतीनकः सूक्ष्मपत्रोऽप्यथ राजक्षवो भवेत् ॥ ७७ ॥ दुग्धिनी दुग्धिका स्वादुपुष्पी क्षीराविका च सा । कपित्थपत्रा झरसी पूणिजा रूपपत्रिका ॥ ७८ ॥ चित्रप्रश्नी विरूपा च निर्जरा पुष्पपत्रिका । ;l{4250} कूलजा वनजा तुम्बपत्री स्याच्चारुपत्रिका । क्षुद्राम्लिका तु चाङ्गेरी चुक्रिका चाम्ललोणिका ॥ ७८ ॥ चतुःपर्णी दन्तशठा तथाम्बष्ठा च लोणिका । सुनिषण्णच्छदा राजमोटाम्लोटाम्लदोलकः ॥ ७९ ॥ कलम्बिका स्थूलफला मद्यगन्धा कटंभरा । ;l{4255} प्रपुन्नाटः प्रपुनटः प्रपुनाडश्च मर्दकः । दद्रुघ्नः स्यादेडगजश्चक्राह्वश्चक्रमर्दकः ॥ ८० ॥ आवर्तकः क्षोदकः स्यात्पद्माटो मेषलोचनः । मेषपुष्पो मेषराजोऽप्यथ नाडीकलापकः ॥ ८१ ॥ मत्स्यादनी मत्स्यगन्धा गण्डाली दार्विका पुनः ॥ ८२ ॥ ;l{4260} दार्वीपत्री क्रोष्टु[59a]मूली गोजिह्वा भूमिकालिका । गोमी गोली च गोधूमी स्यादथाम्बालिकाम्बिका ॥ ८३ ॥ अम्बष्ठाम्बष्ठकी भूरिमूला सूचीमुखी शिवा । मधूकपर्णिकैषीका सदस्नी माचिका तथा ॥ ८४ ॥ मयूरविदला दन्तशठा कम्बू महत्यसौ । ;l{4265} वृषकर्णी श्रावणी च मूषिकश्रावणी च सा ॥ ८५ ॥ तालपर्णी तु मेथीका मिसिर्मधुरिका च सा । मिश्रेयाश्वबला पीतबीजा शीतशिवापि सा ॥ ८६ ॥ छत्रा स्यादथ शालेय आसाजः सालकोऽपि सः । शाली च शालिनी रक्तबीजो मेहनिवारणः ॥ ८७ ॥ ;l{4270} धनिका धानिका धान्यं धान्याकं धनिकं तथा । धानेयं वेसनाग्र्याथ सालनाग्र्यार्द्रिकाल्लका ॥ ८८ ॥ ;p{0183} कुस्तुम्बरी हृद्यगन्धा वेसना कटु मद्रिका । कुस्तुम्बरु स्त्रियां न स्याद्धन्याकं च वितुन्नकम् ॥ ८९ ॥ अजमोदा तु मिथुने मोदा स्यादुग्रगन्धिका । ;l{4275} खराश्वा हृद्यगन्धा च ब्रह्मदर्भा च कारवी ॥ ९० ॥ यवानिका[59b] मयूरश्च दीप्यः स्याल्लोचमस्तकः । यवानो भूकदम्बः स्याद्भूतीको यवसाह्वयः ॥ ९१ ॥ दीप्यो यवानिकाथान्यश्छोहरः पारसीयकः । शतपुष्पा घोषवती शताह्वा कारवी मिसिः ॥ ९२ ॥ ;l{4280} बहुपुष्पा सितच्छत्रा घोषा स्यान्माधवी शता । अतिच्छत्रा तु महती छत्राऽवाक्पुष्पिका च सा ॥ ९३ ॥ अजाजी युज्यमाना स्याद्दीर्घको जीरकोऽस्त्रियाम् । कणा च कणजीरश्च जरणो मेध्यमित्यपि ॥ ९४ ॥ कृष्णाजाजी वर्षकाली मोचाटश्च सुगन्धकः । ;l{4285} कलिकृष्णोपकाली स्यात्कलिका कारवी च सा ॥ ९५ ॥ उपकुञ्ची च कुञ्ची च पृथ्वीका सुषवी पृथुः । स्यात्स्थूलकं भूमि * * दमनं माधवं च तत् । सहस्रवेधि जतुकं बाह्लीकं हिङ्गुरस्त्रियाम् । रामठं सूपधूपि स्याज्जरणं गूढगन्धि च । ;l{4290} तथा शूलघ्नमुदितं हरिद्रा तु निशाह्वया ॥ ९६ ॥ विश्वेष्टा हरिता पीता पीतनी काञ्चनी तथा । वेश्या पि[60a]ण्डा भद्रलता वर्णिनी वरवर्णिनी ॥ ९७ ॥ दीर्घरङ्गा च पिञ्जा च भद्रा रोमशमूलिका । योषित्प्रिया तुरंगा च जयन्ती विषनाशिनी ॥ ९८ ॥ ;l{4295} शाकादिवासनद्भाडं(?) वेषवार उपस्करः । शुण्ठी कणा च मरिचं कणामूलं च धान्यकम् । दाडिमं काञ्जिकं चेति वेसवारीयसप्तकम् । शाकस्य भवनं क्षेत्रं क्लीबे स्याच्छाकशाकटम् ॥ ९९ ॥ ;p{0184} स्याच्छाकशाकिनं चैवमिक्षुशाकटकादयः । ;l{4300} वंशो वेणुर्यवफलो वंशी कर्मार-मस्करौ ॥ ६०० ॥ शतपर्वा सुपर्वा च त्वचिसारस्तृणध्वजः । मृत्युबीजः किलाटी च सतीनो रभकश्च यः ॥ १ ॥ तेजनः शब्दमालस्तु कीचको वायुना स्वनन् । इक्ष्वालिको रामशरो वेत्रो गुन्द्रश्च तेजनः ॥ ३ ॥ ;l{4305} पर्फरीकः पोटगलो नलोऽस्त्री मृत्युपुष्पकः । धमनः शून्यमध्यश्च नड-नर्तक-रन्ध्रिणः ॥ ३ ॥ वंशादेरङ्कुरोऽस्त्री स्यात्करीरोऽथ तुका तुगाः । तुगाक्षीरी तवक्षीरी त्वक्क्षीरी नादिमे शुभा ॥ ४ ॥ [60b]वैदेही क्षीरिका वांशी वंशकृद्वंशलोचना । ;l{4310} कम्बिः कुशा वंशखण्डे पत्राल्यां युगुले किटी । गुडे साधुर्य इक्षुः स्याद्गौडिकः स विशेष्यवत् । स्याद्वांशभारिकश्चैक्षुभारिकस्तस्य वोढरि । इक्षुर्मधुतृणो भूरिरसः स्यादसिपत्रकः ॥ ५ ॥ गण्डी च गण्डकीवेणुनिःसृतो मृत्युपुष्पकः । ;l{4315} तृणराजः किष्कुपर्वा रसालो गुडदारु च ॥ ६ ॥ वेणुबीजं वेणुयवो वैणवं वेणुसंभवम् । इक्षुमूलं मोरटं स्यादिक्ष्वाली चेक्षुबालिका । रक्तेक्षुरित्कटः सूक्ष्मपत्रः कक्कटिका(?)पि सः ॥ ७ ॥ रसालः पुण्ड्रकः पौण्ड्रः सुकुमारक इत्यपि । ;l{4320} दीर्घपर्वा तु कान्तारो वांसिको नीलयष्टिका ॥ ८ ॥ नेपालाद्या इक्षुभेदा अथ बर्हिः कुशोऽस्त्रियौ । कुथो दर्भो यज्ञियः स्यात्पवित्रं यज्ञभूषणम् ॥ ९ ॥ श्वेतदर्भः पूतिदर्भो ह्रस्वदर्भो लवः कुशः । ;p{0185} क्षुरच्छदः संस्तरः स्यात्कुतपो मुनिशस्त्रकम् ॥ १० ॥ ;l{4325} पिञ्जलं कुशवर्तिः[6la] स्यात्सग्रन्थि तु पवित्रकम् । मुञ्जो विपूय इक्ष्वाकुः स्थूलदर्भः पितामहः ॥ ११ ॥ शराह्व इत्कटोऽन्यस्तु भद्रमुञ्जो दृढत्वचः । स्याद्ब्रह्ममेखलश्चाथ काशोऽस्त्री श्वेतचामरः ॥ १२ ॥ इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका । ;l{4330} बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः । इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् । रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥ ध्यामकं मुद्गलं पौरं श्यामकं विषगन्धिकम् । दवदग्धं देवजग्धं दग्धं बिन्दुचितं वरम् ॥ १४ ॥ ;l{4335} धूमगन्धं गन्धपोटमालनं पाचनं च तत् । मालातृणं गुह्यबीजं बधिरं ध्वनिबोधनम् ॥ १५ ॥ पालघ्नो गोमयप्रेष्ठं छत्रातिच्छत्रकावपि । भूतृणं च वियन्मूलं दूर्वा तु शतपर्विका ॥ १६ ॥ सहस्रवीर्या-भार्गव्यौ रुहानन्ता च मङ्गला । ;l{4340} हरिता हरिताली च श्यामाङ्गी शीतवल्लरी ॥ १७ ॥ गोलोमी च नमस्कार्या श[61b]तवीर्या च दुर्मरा । विरजा मण्डली रुद्धशाद्वलं शल्यमस्त्रियाम् ॥ १८ ॥ रणप्रियं वीरतरं वीरं वीरणमित्यपि । उशीरमस्त्री तन्मूलमभयं नलदं च तत् ॥ १९ ॥ समगन्धं च सेव्यं च तत्पुनर्बहुमूलकम् । ;l{4345} देवदत्तं मृणालं स्याल्लामज्जं त्वमृणालकम् ॥ २० ॥ दीर्घमूलं शान्तमूलमवदाहं जलाशयम् । सुनालं स्याल्लघुलयं लयं लघु च तोयजम् ॥ २१ ॥ इष्टकापथमप्युक्तं ह्रीबेरं त्वम्बुसंज्ञकम् । ;l{4350} बालकं पिङ्गलं तिक्तमुदीच्यं केशनाम च ॥ २२ ॥ ;p{0186} बर्हिष्ठं स्यादाचमनमरिष्टं वज्रवद्रुचम् । गुथो वृत्ततृणः शृण्टो गुडाकः पृथुकन्दकः । गुच्छकन्दतृणं गुण्ठशृङ्गवेराभमूलकः ॥ १८ ॥ तृणमस्त्री द्वयोगर्मुन्नीवारादि नडादि च । ;l{4355} विकारे गर्मुदादीनां गार्मुतं मौञ्जमन्यवत् । तृणं तु न स्त्री पर्पं च यवसं चार्जुनं च तत् ॥ २० ॥ शष्पं बालतृणं घासस्तृणता त्रिणता [62a]समे । तृण्या स्त्री यावससंघे नड्मा तु नडसंहतिः ॥ २१ ॥ बद्धे तु तृणसंघाते पूली लिङ्गत्रये भवेत् । ;l{4360} कुष्माण्डः स्यात्पुष्पफलः कर्क्कारुः स्त्री महाफलः ॥ २३ ॥ पीतका च घृणावासी सोमा स्थिरफलाऽमृता । कुम्भाण्डी सोमगृष्टिर्द्विस्पृ (?) त्केवारुश्च कर्कटी ॥ २४ ॥ त्रपुसी शङ्कुलोर्वारुश्चिर्भिटी वालुकी स्फुटी । मधुरा सा गुडफला कालिङ्गं तु कलिङ्गजम् ॥ २५ ॥ ;l{4365} कृष्णबीजमथ द्वंद्वे तुम्ब्यलाबुस्त्रिलिङ्गका । मधुरा सा राजपला राजालाबुरलाबुनी ॥ २६ ॥ शाकालाबूः स्तम्बकः स्यादिक्ष्वाकुस्तु महाफला । वीणाफला तिक्तबीजा कटुतुम्बी च दुग्धिनी ॥ २७ ॥ राजपुत्री पिण्डफला राजन्यप्रवरा च सा । ;l{4370} बृहत्फला व्यालपत्री लोमशा स्वादु कर्कटा ॥ २८ ॥ गजदन्तफलैर्वारुवरा सा मूत्रलापि सा । त्रपुसं च सुधावासो मूत्रलं लघुवालुकम् [62b] ॥ २९ ॥ हस्तिपर्णी पाण्डुपत्रा दीपनी कटु-वालुकी (के) । चिर्भिटं स्वादु गोदुग्धं तथा गोरक्षकर्कटी ॥ ३० ॥ ;p{0187} सुखावासं शीर्णवृन्तं वनत्रपुसकं मतम् । ;l{4375} मधुरान्या कर्क्कटकी वर्द्धमाना महाफला ॥ ३१ ॥ घण्टालिका स्वादुलुङ्गी देवदूता मधूच्छदा । मधुवल्ली बीजपूर्णा मधुकर्कटिका च सा । चीना कण्ठीनकं चीना तिन्दुकं तिण्डिशं च तत् ॥ ३२ ॥ ;l{4380} छागडं मिथुने तु स्यात्पटोलः कर्कशच्छदः । राजिफलः पाण्डुफलः पटुस्तिक्तक इत्यपि ॥ ३३ ॥ ज्यौत्स्नी जाली च राजीमास्तिक्तकश्चामृताफलः । कुलकं कूलकोऽस्त्री स्यादथ राजपटोलकः ॥ ३४ ॥ ऊर्ध्वा सीतो बीजगर्भो रमणं त्वस्य पत्रकम् । ;l{4385} कोशातकी कोशावती घण्टाली श्वेतघोषिका ॥ ३५ ॥ कृमिच्छिद्रा जालिनी च स्यान्मृदङ्गफलापि सा । ज्यौत्स्ना पटोलिका जाली कर्क्कोटी कृतवेधनम् ॥ ३६ ॥ क्ष्वेडं [63a] धामार्गवो घोषो महाजाली तु पीतकः । राजकोशातकी हस्तिपर्णी कर्क्कोटिकी तथा ॥ ३७ ॥ धामार्गवः कोशफलोऽथैमी स्याद्धस्तिघोषिका । ;l{4390} महाकोशातकी च स्यात्तत्फलं जाङ्गुलं भवेत् ॥ ३८ ॥ वातिंगणं तु वृन्ताकं वार्ताकं तु नृलिङ्गकम् । वार्ताकुः स्त्री चोरभाण्डी भण्टाकी शाकनायिका ॥ ३९ ॥ वार्ताककुसुमे प्रोक्तं पकुटं पुनपुंसकम् । ;l{4395} बिम्बी विद्रुमपाकी स्यात्तुण्डिकेरी च तुण्डिका । पीलुपर्णी रक्तफला स्याद्विद्रुमफलापि सा ॥ ४० ॥ छर्द्दन्योष्ठफला गाह्ला काञ्चनी तिन्तिडी च सा । कटिल्लकः कारवेल्लो नासासंवेदनः कटुः ॥ ४१ ॥ उग्रकाण्डश्च कण्डीरः कारवल्लयम्बुवल्ल्यपि । ;l{4400} बृहदल्ली वृक्षवल्ली सुषवी सुकुमारिका ॥ ४२ ॥ ;p{188} अल्पा तु क्षुद्रकाख्या*वन्ध्या कर्कोटिकी पुनः । कुमारिका नागरिपुर्विषकण्टकिनी तथा ॥ ४३ ॥ निष्फला मज्जदमनी देवी सा [63b] च मनोहरा । विषमुष्टिः क्षुद्रमुष्टिः केशमुष्टिः सुमुष्टिका ॥ ४४ ॥ ;l{4405} काकाण्डो लावुकाकाण्डा खट्वा पर्यङ्कपादिका । दधिपुष्पी कोश (ल?) शिम्बिर्भवेच्छूकरपादिका ॥ ४५ ॥ कुशिम्बिवल्ली कुत्साम्रशिम्बिः पुस्तकशिम्बिका । फलशाकप्रभेदाः स्युर्व्याघ्राटं फाम्फटं तथा ॥ ४६ ॥ गोविन्दं रामकूष्माण्डं चित्रकूष्माण्डमित्यपि । ;l{4410} सर्वच्छत्रं भूमिकन्दं शिलीध्रं कवकं च तत् ॥ ४७ ॥ शिलीनं गोमयच्छत्रं गोनासं भूतकेसरम् । भूमिस्फोटश्छत्रकश्च छत्राकं तु नपुंसके । अजशृङ्गी हरिद्रा च विदारी सारिवामृता ॥ ४८ ॥ बलाख्यं पञ्चमूलं स्यादथ त्विक्षुरसैर्यकौ । ;l{4415} शतावरी च हिंस्रा च सुषेणः कण्टकाभिधम् ॥ ४९ ॥ नागरातिविषा मुस्तं त्रयमेतत्त्रिकार्षिकम् । गुडूचीमिश्रितं चैतच्चतुर्भद्रं प्रकीर्तितम् ॥ ५० ॥ कुरण्टाद्या अग्रबीजा मूलजास्तूत्पलादयः । इक्ष्वाद्याः पर्वजाः प्रो[64a]क्ताः स्कन्धजाः शल्लकीमुखाः ॥ ५० ॥ संमूर्छजास्तृणाद्याः स्युः शाल्याद्या बीजसंभवाः । इत्यौषधीकदम्बस्य षडेते मूलजातयः ॥ ५३ ॥ ;c{इति वनौषधिवर्गः ।} ;p{0189} सिंहो हरिः पञ्चशिखो मृगेन्द्रो मृगारि-नागारि-नखायुधाः स्युः । ;l{4425} पारीन्द्र-कण्ठीरव-जङ्गमाद्रि-शैलाट-विक्रान्त-सकृत्प्रजाश्च ॥ १ ॥ हर्यक्ष-पञ्चास्य-गभीरनादाः स्याच्छ्वेतपिङ्गश्च स केसरी च । अष्टापदस्तूर्ध्वचतुष्पदः स्याद् ऊर्ध्वेक्षणः स्याच्छरभो हरिद्विट् ॥ २ ॥ मृगराजः पञ्चनखः शार्दूलः श्वेतपिङ्गलः । ;l{4430} व्याघ्रो द्वीपी द्वीपिनोऽस्त्री हिंसीरोऽप्यथ चित्रकः ॥ ३ ॥ गुहाशयः पुण्डरीकः कर्बुरस्तीक्ष्णदंष्ट्रकः । मृगादनस्तरक्षुः स्यात्तरक्षोप्यथ शूकरः ॥ ४ ॥ ५ ॥ सूकरः सूचिरोमा च भूमिदारः किरः किरिः । ;l{4435} स्थूलनासो वक्रदंष्ट्रो घृष्टिर्गृष्टिश्च घोषिलः ॥ ६ ॥ कोलः किटिः स्तब्धरोमा दंष्ट्री पोत्री च रोमशः । वराहश्च मदारः [64b] स्याच्छिरोमर्मा बहुप्रजाः ॥ ७ ॥ मुस्ताद-क्रोड-कुद्दाल-दंष्ट्रास्त्र-मुखलाङ्गलाः । भवेदाखनिकश्चण्डः पीनस्कन्धो महांस्त्वयम् ॥ ८ ॥ ;l{4440} क्रमरो विद्वरस्तु स्यात्तत्र ग्राम्येऽथ पोत्रिणः । मुखाग्रभागः पोत्रं स्याद् घुरी घोणाथ भेद्यवत् ॥ ७ ॥ वाराहकं वराहेण निर्वृत्तेष्वथ वानरः । कपिः कीशो वनौकाश्च प्लवङ्गः प्लवगः प्लवः ॥ ९ ॥ प्लवंगमः पूर्वगामी दुर्मुखश्च वलीमुखः । ;l{4445} शाखामृगो ग्राममृगोऽस्थिभञ्जो मण्डलो हरिः ॥ १० ॥ कपिलो मर्कटश्चाथ गोलाङ्गूलोऽसिताननः । वाली वालिः शक्रसुतः सुग्रीवस्त्वर्कनन्दनः ॥ ११ ॥ ;p{0190} तारापतिर्हनूमांस्तु हनुमान्वज्रकङ्कटः । त्रेतामल्लो मारुतिः स्यादाञ्जनेयोऽर्जुनध्वजः ॥ १२ ॥ ;l{4450} अक्षान्तकः केसरिजो भास्करच्छात्र इत्यपि । कपिस्वभावः कापेयमथ भल्लूक-भल्लुकौ ॥ ११ ॥ ऋक्षो भालूक-भाल्लूकावच्छभल्लोऽपि भल्लवत् । पिङ्गरोमा च[65a] नीलाण्डोऽप्यथ खड्गश्च खैलिकः ॥ १२ ॥ खड्गी वाध्रीणसोऽपि स्याद्गण्डको महिषः पुनः । ;l{4455} कृष्णशृङ्गो दंशभीरुः शृङ्गी च यमवाहनः ॥ १३ ॥ रजस्वलो जरन्तः स्यात्कासरः सैरिभो महः । वाहारिर्हेरम्बो धीरस्कन्ध-रक्ताक्ष-लालिकाः ॥ १४ ॥ स्याद्धंस-कालीतनयौ लुलायोऽपि घनाघनः । अरण्यजेऽस्मिन्गवलो गवलं शृङ्गमस्य च ॥ १५ ॥ ;l{4460} द्वंद्वेऽश्वमहिषं वैरे हयस्य महिषस्य वा । जायमानविषाणाग्रः कग्रहो महिषीशिशुः ॥ १६ ॥ पिण्डारो महिषीपालः शृगालस्तु सृगालवत् । क्रोष्टु-जम्बुक-जम्बूक-कृश्व-फेरव-फेरवः ॥ १७ ॥ फेरण्डः कुरवो भूरिमाय-गोमायु-वञ्चकाः । ;l{4465} मृगधूर्तो घोररासी भरुजश्च शिवा स्त्रियाम् ॥ १८ ॥ उल्कामुखी दीप्तजिह्वा शृगाली क्रोष्ट्रिका च सा । किखिः स्त्रियामल्पशिवा लोपाकः पृथुफेरवः ॥ १९ ॥ भवेद्गृण्डिवलश्चाथ कोक ईहामृगो वृकः । वनश्वा[65b] छागशत्रुश्च तिलिञ्छश्च मृगादनः ॥ २० ॥ ;l{4470} सर्पारिर्नकुलो बभ्रः पिङ्गलाङ्कुष-कैदिराः । ठिकुरो गृहबभ्रुः स्यान्मकुलारिस्तु सूचकः । मार्जालीयश्च मार्जार-पिङ्गनेत्रे बिडालकः ॥ २१ ॥ ;p{0191} ह्रीकुरोतुश्च मायावी चित्राङ्गो वृषदंशकः । मैनाद आखुभुग्दीप्तनेत्रो जिह्वापिबश्च सः ॥ २२ ॥ ;l{4475} शालिस्तु गन्धमार्जारः फूत्यण्डः पुष्कलश्च सः । पिङ्गलोडुबिडालः स्यादातुर्वनबिडालकः ॥ २३ ॥ ग्राम्यो वन्यस्तापजातः पक्षमार्जार-विद्गरौ । सुगन्धिवृषणश्चेति षण्मार्जारभिदः स्मृताः ॥ २४ ॥ जाहको गात्रसंकोची मण्डली शल्यकः पुमान् । ;l{4480} सूचीधृक् सूचकी श्वाविच्छ*लः शललं शली ॥ २५ ॥ शललस्तच्छलाकायां शलली शललं शलम् । बिलेशया पञ्चनखी गोधा घोरप्रदा च सा ॥ २६ ॥ कृष्णसर्पात्तु गोधायां यो जातः स्याच्च[66a]तुष्पदः । तत्र गौधेर-गौधार-गौधेया दुर्विषः क्वहिः ॥ २७ ॥ मृगः कुरङ्गः सारङ्गोऽजिनयोनिः कुरंगमः । ;l{4485} मृडीकः किं च वातायुः प्रियाक्षश्च मरूकवत् ॥ २८ ॥ हरिणश्च समीची तु हरिणी च कुरंगमी । स नैशो नैशिकश्च स्यान्निशायां वा हरेद्यदि । दक्षिणेर्मा तु स मृगो यो व्याधैर्दक्षिणे क्षतः ॥ २९ ॥ ;l{4490} स सपत्राकृतोऽन्योऽपि सपत्रेषुप्रवेशनात् । योऽतिव्यथावानेवं स्यान्निष्पत्राकृत इत्यपि ॥ ३० ॥ परपार्श्वे सुपुङ्खेषुनिर्गमात्त्रिष्वमी त्रयः । द्वयोर्वातप्रमीर्वातमजो योऽभ्यनिलं व्रजन् ॥ ३१ ॥ एणः कृष्णः कृष्णसारः कमलोऽथैणमस्य यत् । ;l{4495} चर्माद्यमेण्यास्त्वैणेयं त्रितयेऽथ कुरङ्गकः । चतुरश्चारुगामी च किंचिल्लोहितकृष्णकः ॥ ३२ ॥ चारुष्कः स्याच्चारुतनुः पृषतश्चित्रबिन्दुकः । छिक्कारः कालपुच्छः स्याद्गोकर्णो दीर्घशृङ्गकः ॥ ३३ ॥ ;p{0192} आधो निष्क्रान्तदन्तः स्यात्सुग[66b]न्धीर्मदतीमृगः । ;l{4500} * * * * * * * स्याद्वनगौश्चामरोऽपि च । न्यङ्कुस्तु बहुशृङ्गः स्याद्रोहित्स्त्री रोहिताङ्गना ॥ ३५ ॥ चमूरुः स्याच्चित्रमृगो रुरुर्मेघान्तशृङ्गमुक् । कदली कन्दली चीनश्चमूरु-प्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः । ;l{4505} रिष्यर्श्य-रङ्कु * * * * * * * * * * * अष्टमश्चाष्टमश्च स्यात्पश्वङ्गावयवेऽन्यवत् । * * * * * * * * रोहिताद्या मृगाः परे ॥ ३७ ॥ गवयः स्याद्वनगवो गोसदृक्षोऽश्ववारणः । पशुस्तिर्यञ्चलिः सर्वे वनजाः पशवो मृगाः ॥ ३८ ॥ ;l{4510} सिंहादीनां स्त्रियां जातौ सिंही व्याघ्री च शूकरी । वानरी हरिणी च स्याच्छम्बरी गवयीति दिक् । कडंकरं त्वर्हति यः कडंग(क)र्यः स भेद्यवत् । पशुः कडंग(क)रोऽपि स्याच्चारिः स्त्री पशुभोजनम् । मृगेन्द्राद्या गवाद्याश्च सर्वे स्युः पशुजातयः । ;l{4515} रोमन्थो ना पशूनां यद्भवेच्चर्वितचर्वणम् । स रोमन्थायमानो यो हनुना व[67a]र्तयत्यमुम् । गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥ ३९ ॥ इत्यादयो मृगेन्द्राः स्युः शशस्तु मृदुलोमकः । लम्बकर्णो लोमकर्णः शूलिकश्च बिलेशयः ॥ ४० ॥ ;l{4520} शशोर्णमन्ते तल्लोम्नि पृथुस्वल्पोदरा पुनः । शशाभा मृगमाता स्यान्मुसली तु गृहोलिका ॥ ४१ ॥ गृहगोधा च माणिक्या मुशली च गृहोलिका । कुड्यमत्स्या भित्तिपल्ली हालिनी तु हलाहलः ॥ ४२ ॥ ;l{0193} स्यादञ्जनाधिका चाञ्जनिका स्थूलाञ्जना पुनः । ;l{4525} ब्राह्मणी रक्तपुच्छा च ज्येष्ठाथ सरटोऽण्डजः ॥ ४३ ॥ प्रतिसूर्यः शयानश्च कृकलासो घनोन्मदः । मूषकोऽस्त्री द्वयोराखुर्मूखिको दहरो वृषः । पुमांसो अयमियं वा आखुः । निद्रीरेकारो(?) मूषकशब्दः पुंनपुंसकयोः । आखुः*वक्र(?)दशना खनिका तुन्दुरून्दुरौ ॥ ४४ ॥ ;l{4530} वृषलोचन-सूच्यास्य-कर्व-गर्ताट-पापकाः । नखी बिलेशयः पिङ्गो गन्धाखुः पुंवृषः स्मृतः [67b] ॥ ४५ ॥ छुछुन्दरी गन्धमूषी राजपुत्री सुमूषिका । मूषिका जातिपुंयोगे मौषिकारस्तु तत्सुतः । गिरिका बालमूषी च दीर्घतुण्डी तु घुर्घुरी ॥ ४६ ॥ ;l{4535} मृत्कीरी च दिवान्धा च लूता स्त्री जालकारिका । जालिका तन्त्रवायोर्णनाभमर्कटका कृमिः ॥ ४७ ॥ अष्टपादूर्णनाभिः स्याल्लालास्रावः क्रिमिः कृमिः । नीलङ्गुः कृकलश्च स्यान्नीलाङ्गुः कृमिरान्तरः । नीलाङ्वादिर्द्वीन्द्रियोऽथ द्वंद्वे कीटो बहिर्भवः ॥ ४८ ॥ ;l{4540} अन्तर्जाश्च बहिर्जाश्च पुलका उभयेऽपि ते । अणुः कृमिः कीकसः स्यात्काष्ठलेखकरो घुणः । कोशकारः कीटतन्तुर्गुणिमध्यः पलोधरः । उद्दंशो मत्कुणो रक्तबीजः खट्वाकृमिश्च सः ॥ ४९ ॥ पिपीलकाद्याः कृमयस्त्रीन्द्रिया अथ पीलकः । ;l{4545} पिपीलकोऽथ हीनाङ्गो हीरा प्रोक्ता पिपीलका ॥ ५० ॥ ब्राह्मणी स्थूलशी[68a]र्षा स्याद्वम्री तूपपदी तथा । उपजिह्वोपदेही च रिक्षा-लिक्षे समार्थके ॥ ५१ ॥ घृतेली पिङ्गकपिशो यूषा षट्पदिकौदनी । ;p{0194} यूकालो मक्षिकालश्च त्रिषु यूकादिसंयुतः । ;l{4550} विषशृङ्गी शृङ्गरोमा परणस्तृणषट्पदः । गोपालिका महाभीरुर्गोमयोत्था तु गर्दभी ॥ ५२ ॥ स्यात्कोणकुण उद्दंश-किटिभोत्कुण-मत्कुणाः । इन्द्रगोपस्ताम्रकृमिः कैटिरोऽग्निरजोऽन्तिमे ॥ ५३ ॥ वैराटः कीटमाणिक्यं तित्तिभोऽप्यथ वृश्चिकः । ;l{4555} द्वयोरालिरलिश्चाली द्रुणो द्रोणोऽप्ययं मतः ॥ ५४ ॥ अलं वृश्चिकपुच्छस्य कण्टकः प्रणिगद्यते । नीलोऽसौ शूककीटः स्यान्महांस्तूच्चिण्डको द्रुणः । ऊणी कर्णजलौका स्याच्छताङ्घ्रिः कर्णकीटिका ॥ ५५ ॥ भ्रमरो भसलो भृङ्गो मधुपो मधुलोलुपः । ;l{4560} मधुव्रतो मधुकरो मधुलिण्मधुसूदनः ॥ ५६ ॥ इन्दिन्दिरश्चञ्चरीकः षट्पदश्च शिलीमुखः । अलिर्द्विरेफो रोलम्ब-घुण्ड-पुष्पंधया[68b]लिनः ॥ ५७ ॥ मधुद्रोऽपि मिलिन्दश्च शैलेयो मधुकेशटः । कलानुनादी खद्योतः पुनः स्याज्ज्योतिरिङ्गनः ॥ ५८ ॥ ;l{4565} ध्वान्तोन्मेषस्तमोरत्नं पतङ्गः शलभः शिरिः । क्षान्तुरप्यथ गन्धोली गन्धाली वरटा द्वयोः ॥ ५९ ॥ तैलाटी वरटी च स्याद्दंशोऽस्त्री वनमक्षिका । दंशी तज्जातिरल्पा स्यात्पुत्तिका तु पतङ्गिका ॥ ६० ॥ वल्मीकगा तु गोद्दाला परोष्णी तैलपायिका । ;l{4570} दम्भरा बम्भराली च मक्षिका चर्वणा तु सा । नीला क्षुद्रा तु सा पिङ्गा सरघा मधुमक्षिका ॥ ६१ ॥ मत्सरो मशकस्तुल्यावथ चीरी च चीरुका । झिल्लिका जिल्लिका वर्षकरी भृङ्गारिका तु सा ॥ ६२ ॥ ;p{0195} ;l{4575} खगो विहंगो विहगो विहंगमः पतन्पतंगः पतगः पतंगमः । पत्री पतत्री पतसो वि-पत्रिणौ पित्सन्गरुत्मान्नभसंगमो द्विजः ॥ ६३ ॥ पक्षी पटाको विकिरः खजाको नीडोद्भवः पत्ररथः सरण्डः । ;l{4580} वाजी शकुन्तः शकुनिः शकुन्तिः [69a]किरो नगौकाः शकुनो विहायाः ॥ ६४ ॥ पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः । वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि । चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥ ;l{4585} पत्रं पतत्रं च ** पक्ष-पिच्छे तनूरुहम् । स्त्री पक्षतिः पक्षमूलं कुलायो नीडकस्त्रिषु ॥ ६६ ॥ वर्तरूकं काकनीडं पेशी कोषस्तु पेशिका । कोषोऽण्डमन्तिमे डीनं डयनं च नभोगतौ ॥ ६७ ॥ प्रडीनोड्डीन-संडीनान्येताः खगगतिक्रियाः । ;l{4590} तत्स्त्रीजातौ तु विहगी ल्वी विहाया द्विजा खगी ॥ ६८ ॥ चक्राङ्गो धवलगरुन्मराल-हंस- चक्राङ्का अपि कलकण्ठ-केरवौ च । आरक्ताननचरणः स राजहंसः श्वेतान्यैर्मुखचरणैः स धार्तराष्ट्रः ॥ ६९ ॥ ;l{4595} तैर्मल्लिकाक्षो मलिनैरथायं पीतैरिमैः स्यात्कलहंससंज्ञम् । कादम्बको धूसरपक्ष एष कारण्डवः स्यान्मरुतोऽच्छपक्षः ॥ ७० ॥ वारला बरला हंसी वारटा बरटा[69b]पि सा । ;p{0196} ;l{4600} रक्तमूर्धा पुष्कराह्वः सारसो लक्ष्मणोऽपि सः ॥ ७१ ॥ कुरंकरश्च नीलाङ्गो मुखरश्चित्रमन्यकः । विलीनाङ्गो दीर्घजङ्घो बन्धुरोऽस्य तु कामिनी ॥ ७२ ॥ सारसी लक्ष्मणा च स्याल्लक्षणा लक्ष्मणीत्यपि । कोको द्विकश्चक्रवाकश्चक्रो द्वंद्वचरोऽपि सः ॥ ७३ ॥ ;l{4605} रथाङ्गनामा कामी च चक्रीवांश्च कुरंकरः । क्रुङ् क्रौञ्चस्तस्य तु स्त्री स्यात्क्रुञ्चाथ स्याद्बकोटकः ॥ ७४ ॥ स्याद्वारिबलिभुक्कह्वो बकोऽपि स्याद्बलाहकः । बलाको बिसकण्ठी तु बलाका च बकेरुका ॥ ७५ ॥ शरारिरातिराटिश्च स्त्रियोऽथ कुररो भवेत् । ;l{4610} उत्क्रोशो मत्स्यभुक्चाथ चातकः स्यान्नभोम्बुपः ॥ ७६ ॥ घनारावः स्तोककश्च पप्पीहो जलरञ्जकः । दार्वाघाटः पुष्कराह्वः कर्बुरश्चित्रकन्धरः ॥ ७७ ॥ * [की]रः शुको रक्ततुण्डो मेधावी च फलादनः । वचस्तु राजकीरः स्याद्रजकः शतपत्रकः ॥ ७६ ॥ ;l{4615} चित्रपादा सारिका स्याद्वचण्डा चि[70a]त्रलोचना । गोराटिका गोकिरा * गोरका कलहाकुला ॥ ७७ ॥ मेधाविनी-राजदूती-प्रियवाग्राजसारिकाः । कङ्कस्तु लोहपृष्ठः स्यात्कंकरः कमनच्छदः ॥ ७८ ॥ स्कन्धमल्लो दीर्घपादः कालपुच्छश्च संमतः । ;l{4620} चिल्लः शकुनिरातायी शशघा *** [टक इ]त्यपि ॥ ५६ ॥ दाक्षाय्यो गृध्र-दक्षाय्य-दूरदृग्वक्रचञ्चुकाः । कूणिताक्षः खगव्याघ्रः कामायुः खगपुष्कसः (?) ॥ ८० ॥ संपातिः पक्षिराजः स्याज्जटायुस्तु जटायुषि । पक्षिघाती पक्षिमारी पक्षिग्राहक इत्यपि ॥ ८१ ॥ ;l{4625} श्येन आपतिकः पत्री शशादी प्राचिका स्त्रियाम् । ;p{0197} पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ ८२ ॥ दिविः किकी राजपक्षी किकिदीविः किकीदिविः । चाषश्चासश्चाथ भासो भाषो भासन्त इत्यपि ॥ ८५ ॥ शकुन्तः श्वेतचूडश्च गृध्राभोगोऽष्टकुक्कुटः । ;l{4630} कुक्कुटोऽस्त्री निशावेदी कृकवाकुरुषःस्वरः ॥ ८६ ॥ शिखण्डिकस्ताम्रचूडः [70b]कावृकश्चरणायुधः । बह्वपत्यश्च कालज्ञो बोधी स्याद्रणकुक्कुटः । शौण्डी दक्षो विवृत्ताक्षो देवट्टी त्वम्बुकुक्कुटी ॥ ८७ ॥ गङ्गाचिल्ली च विकषा कुक्कुभः कुहकस्वनः । ;l{4635} मुरः कुलालदक्षश्च स्थूलोऽसौ रक्तवर्त्मकः । नीलच्छविः कृष्णगलः कोयष्टिस्तु जलोद्भवः । पानीयकुक्कुटश्च स्याद्भारद्वाजस्तु हिक्कटः ॥ ८८ ॥ व्याघ्राटोऽपि भरद्वाजः खञ्जरी*[ट]स्तु खञ्जनः । चलुपुच्छः कर्कराक्षः कणाटीनोऽपि खञ्जरी ॥ ८९ ॥ ;l{4640} मीनाम्रीणः सूत्रकण्ठः खञ्जलेखो जनेक्षणः । तडङ्कश्च कलिङ्गस्तु धूमी धूम्याट आटकः ॥ ९० ॥ भृङ्गोऽथान्यः स गोप्रेरी कृष्णवर्णो वनप्रियः । कर्करेटुः करेटुः स्यात्करटुः कर्कराटुकः ॥ ९१ ॥ कृकणः कृकरस्तुल्यावुपचक्रो मदाबिलः । ;l{4645} हारीतो हारितोऽपि स्याद्धरित्पीतक इत्यपि ॥ ९१ ॥ मृदङ्कुरः प्लवस्तु स्याद्गात्रसंप्लव इत्यपि । टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः ॥ ९२ ॥ जी[71a]वंजीवस्तु गुन्द्रालो विषदर्शनमूर्छकः । ज्योत्स्नाप्रियश्चकोरः स्यात्ताम्राक्षो विषसूचकः ॥ ९३ ॥ ;l{4650} चलचञ्चुस्तथाङ्गारभोजी लट्वा तु पेचकः । ;l{0198} पुच्छाधोभागरक्तोऽथ कामी गृहकपोतकः ॥ ९४ ॥ पारापतो रञ्जकश्च पारावतक इत्यपि । प्रासादकुक्कुटो झल्लकण्ठो रक्तान्तलोचनः ॥ ९५ ॥ मदोत्कटश्चाटुकर्ता भवेत्करलवोऽपि सः । ;l{4655} नीलकण्ठः कपोतः स्याद्वन्योऽप्यथ घुघूत्करः ॥ ९६ ॥ कपोतकः शृङ्गधूमो भस्माङ्गोऽप्यरुणस्त्वसौ । भवेत्काणकपोतोऽथ तित्तिरिस्तित्तिरोऽपि च ॥ ९७ ॥ खरकोणश्चित्रपक्षो गौरस्त्वेष कपिञ्जलः । वार्त्तिरस्तु सचित्रः स्याद्वर्तकस्तु ततोऽल्पकः ॥ ९८ ॥ ;l{4660} वर्तका वर्तिका च स्त्री गिरीका गिरिवर्तिका । चटकः कलविङ्कः स्याद्गृहनीडः कुलिङ्गकः ॥ ९९ ॥ स्याद्गेहबलिभुक्चित्रपृष्ठो ग्राम्यस्तु पुंद्रकः । योषित्तु तस्य चटका स्त्र्यपत्ये चटका तयोः ॥ १०० ॥ चाटकैरः सुतश्चित्रयोधी लावो महा[71b]र्घकः । ;l{4665} काकतुण्डो वायसास्यो मधुहा मधुघातकः ॥ १ ॥ गोनर्दकस्तु गोक्ष्वेडश्चक्रविष्टा तु वल्गुनी । निशाटवी परा तु स्यादालेया मातृवाहिनी ॥ २ ॥ जतुका चर्मचटकाजिनपत्राथ पेचकः । घूको निशाटः काकारिरुलूकः कौशिकोऽपि सः ॥ ३ ॥ ;l{4670} घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः । प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥ मौकुलिः करटोऽरिष्टो बलिपुष्टोऽपि वायसः । चिरजीवी द्विको घूकवैरी ध्वाङ्क्षश्च शक्रजः ॥ ५ ॥ ;p{0199} आत्मघोषो गूढकामी धूलिजङ्घो निमित्तकृत् । ;l{4675} एकदृक्परभृद्द्रोणो नाडीजङ्घः कणूककः । स्त्रियां काकोलूकिका स्याद्वैरे वायसघूकयोः । झम्पाशी मत्स्यरङ्कुर्वा रञ्जो मद्गुर्मलीरकः । कालकण्ठश्च दात्यूहः काकोलस्तु वनोद्भवः ॥ ६ ॥ वृद्धकाको द्रोणकाकोऽद्रिकाकः कृष्णवायसः ॥ ७ ॥ ;l{4680} सितकाको बकोटः स्यात्सूगृहश्चञ्चुसूचिकः ॥ ८ ॥ कोकिलः क[72a]लकण्ठः स्यान्मधुकण्ठः कुहूमुखः । रसालगाली ताम्राक्षो ध्वाङ्क्षबन्धुश्च वाशरः ॥ ९ ॥ वनप्रियः परभृतो रवणो रवथः पिकः । मयूरो बर्हिणो बर्ही प्रचलाकी च चन्द्रकी ॥ १० ॥ ;l{4685} सितपत्रः सितापाङ्गो नीलकण्ठो भुजङ्गभुक् । कञ्जार-शिखि-मेनाद-मेघनादानुलासिनः ॥ ११ ॥ केकी शिखावलश्च स्याच्छिखण्डी च कलापवान् । केकास्य वाक्चन्द्रकस्तु मेचकोऽस्त्री शिखण्डकः ॥ १२ ॥ कलापः प्रचलाकश्च पिच्छं बर्हस्तु न स्त्रियाम् । ;l{4690} शिखा चूडा पक्षिभेदाः कोकवञ्जुलकादयः ॥ १३ ॥ गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च तौ । मृगा महामृगा मत्स्याः प्रतुदा विष्किरास्तथा ॥ १४ ॥ प्रसहा अप्चरा रन्ध्रेशयाः पिशितमष्टधा । महामृगैरप्चरैश्च मत्स्यैश्चानूपमुच्यते ॥ १५ ॥ ;l{4695} साधारणं तु मांसं स्यात्प्रसहैश्च बिलेशयैः । जाङ्गलं तु भवेन्मांसं प्रतुदैर्विष्किरैर्मृगैः ॥ १६ ॥ शिशौ शावः कुमारोऽर्भोऽर्भकः पा[72b]कः स्तनंधयः । बाल-डिम्भोत्तानशय-क्षीरकण्ठ-मृडंकणाः ॥ १७ ॥ पृथुको रुदथः पोतो गर्भो मुष्टिंधयश्च सः । ;p{0200} ;l{4700} स्तनंधयी शिशुर्बाला पाका मुष्टिंधयी स्त्रियाम् ॥ १८ ॥ स्त्रीपुंसौ मिथुनं द्वंद्वेऽपत्ययुग्मं च युग्युगम् । युगलं यमलं द्वंद्वं यमं संघाटिका द्वयम् ॥ १९ ॥ समूहो निवहो व्यूहः संदोहः प्रकरो गणः । ओघ-व्रज-व्रात-वार-विसर-व्रज-संचयाः ॥ २० ॥ ;l{4705} समुदायः समुदयः समवायश्चयः स्तमः । स्तोमः कलापः कूटोऽस्त्री संहतिः स्त्री कदम्बकम् ॥ २१ ॥ निकुरम्बं वृन्द-जाल-जात-पेटकमन्तिमे । चक्रमस्त्री चक्रवालं मण्डलं पटलं न ना ॥ २३ ॥ ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणोत्तरः । ;l{4710} वृन्दभेदाः समैर्वर्गः संघ-सार्थौ तु जन्तुभिः ॥ २३ ॥ कुलं सजातिभिर्यूथं तिरश्चां पुंनपुंसकम् । समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ २५ ॥ सधर्मणामेष निकाय उक्तः स्कन्धो नराणां करिणां हयानाम् । ;l{4715} पु[73a]ञ्जोत्करौ राशिरिमे समार्थाः कूटोऽस्त्रियां धान्यसमुच्छ्रयार्थः ॥ २६ ॥ सैहं मार्गं काकं काङ्कं बाकं शौकं कापोतं च । अप्यौलूकं मायूरं स्यात्सिंहादीनां संघातार्थे ॥ २७ ॥ ;c{॥ इति सिंहादिवर्गः ॥} ;l{4720} ॥ श्री ॥ मर्त्यः शतायुर्मनुजो मनुष्यः स्यान्मानवो मानुष-भूस्पृशौ विट् । नरः पुमान्पञ्चजनोऽङ्गनेष्टः स्यात्पूरुषो ना पुरुषैधतू च ॥ १ ॥ ;p{0201} मानुष्यकं स्याच्चरमे नृवृन्दे स्त्रियां तु चञ्चा तृणपूरुषः स्यात् । ;l{4725} चञ्चा स्त्रियामेव हि तत्सदृक्षे स्यात्पौरुषेयस्त्रिषु तत्कृतादौ ॥ २ ॥ पौस्नं पुंस्त्वं स्त्रियां पुंस्ता पुंसो भावे समीरयेत् । स्त्रियास्तु भावे स्त्रीता स्त्री स्त्रैणं स्त्रीत्वमिमे समे ॥ ३ ॥ भवेत्कापुरुषो निन्द्यो नरः कुपुरुषोऽपि सः । ;l{4830} निष्कामभोगे पुंसिद्धौ वहीनर-विहीनरौ ॥ ४ ॥ स्त्रैणं च पौंस्नं त्रिषु तद्भवादौ स्त्रीवच्च पुंवत्सदृशेऽव्ययं स्यात् । जातौ स्त्रियां स्यान्मनुषी च मर्त्या स्यान्मानवी सा कि[73b]ल मानुषी च ॥ ३ ॥ ;l{4835} सीमन्तिनी स्त्री वनिता च वामा नारी वधूः स्यादपि वर्णिनी च । योषा च जोषा पुरुषी च योषी दशाऽबला स्यान्महिला महेला ॥ ४ ॥ ;l{4740} प्रतीपदर्शिन्यपि वासिता च स्याद्योषिता सा दयिता प्रिया च । सा स्त्रीतमापि स्त्रितमा स्त्रिरूपा स्यात्स्त्रीतरापि स्त्रितरा प्रशस्ता ॥ ५ ॥ स्त्रीमन्या तु स्त्रियंमन्या स्त्रिब्रुवा स्त्रीब्रुवा त्रिषु । स्त्रीकल्पापि स्त्रिकल्पा * [स्या] त्स्त्रीपाशा चातिनिन्दिता ॥ ६ ॥ ;l{4745} तद्विशेषा स्वनामानुरूपार्था भीरुरङ्गना । कामिनी मानिनी कान्ता ललना वामलोचना ॥ ७ ॥ ;p{0202} प्रमदा सुन्दरी रामा रमणी वरवर्णिनी । नितम्बिनी वरारोहा सुत्तमा मत्तकाशिनी ॥ ८ ॥ वलजा चाथ सा चण्डी कोपना भामिनी च सा । ;l{4750} भाविनी मूढभावा सा मदिराक्षी मदोद्धता । मत्ता छेका वाणिनीयं च धीरा सा गूढमानयुक् । अधीरा व्यक्तकोपा स्याद्धीराधीरा[74a] तु मिश्रिता ॥ ९ ॥ सुभ्रूर्नतभ्रूर्मत्तेभगामिनी मन्दगामिनी । भवेच्चक्रनितम्बा सा चक्रतुल्यनितम्बिका ॥ १० ॥ ;l{4755} युवखलतिर्या युवतिः खलतिर्जातैवमेवामी । युवजरती युवपलिता युववलिनामूर्विशेष्यघ्नाः । एवं चन्द्रमुखी पद्ममुखीत्याद्या विनिर्दिशेत् । उक्ताप्सरायमाणा सा याचरत्यप्सरा इव । रूप्या च रूपिणी रूपवती सा रूपिकेत्यपि । ;l{4760} स्वङ्गी स्वङ्गा सुगात्री च सुगात्रेति समार्थकाः । सुकण्ठी च सुकण्ठा च सुन्दरी सुन्दरापि च । स्यात्तुङ्गनासिकी चापि तथा स्यात्तुङ्गनासिका । नागी त्विभीया स्थूला * * * [स्यान्नागा] त्वन्यत्र कीर्तिता । सादृश्ये करभोरूः स्याद्वामोरूः कर्म धारयेत् । ;l{4765} अप्रसूताङ्गना श्यामा सुविदल्ला विवाहिता । पद्मिन्याद्यास्तु तद्भेदा ज्ञेया वात्स्यायनोदितात् ॥ ११ ॥ ध्रुवाभिषिक्ता महिषी महादेवी नृपाङ्गना । भवेदसूर्यंपश्येति तदादौ गोपिते त्रिषु । [74b]पत्नी पाणिगृहीती च वामाङ्गं सहधर्मिणी ॥ १२ ॥ ;p{0203} भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः । ;l{4770} क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥ कलत्रं दं सहचरी पुरन्ध्री तु कुटुम्बिनी । पुरन्ध्रिरपि साध्वी तु सुचरित्रा पतिव्रता ॥ १४ ॥ सतां देवी चैकपत्नी सती चाथ कुलाङ्गना । ;l{4775} स्याद्वंशपालिका चाथ प्रेयसी वल्लभा प्रिया ॥ १५ ॥ प्राणेशा हृदयेशा च कान्ता प्रणयिनी च सा । कृतसापत्नकाध्यूढाधिविन्नाथ स्वयंवरा ॥ १६ ॥ खरुः पतिंवरा वर्या कनी कन्या कुमारिका । तामपूर्वपतिं पाणौ गृह्णन्कौमार उच्यते ॥ १७ ॥ ;l{4780} तस्य भार्यापि कौमारी नग्निकानागतार्तवा । गौरी स्यादष्टवर्षाथ मध्यमा प्रकटार्तवा ॥ १८ ॥ राकाथ तरुणी तल्ली तरुणी युवतीश्वरी । दिक्करी काहली चाथ वधूटी वर्वटी जनी ॥ १९ ॥ वधूः स्नुषा सुतस्त्री स्याच्चिरण्टी तु स्ववासिनी । ;l{4785} पतिप्रिया वधूटी च सुभगा च सुवासि[75a]नी ॥ २० ॥ विलेपनी रोचना च चक्षुष्या च सुवेषिणी । पतिवत्नी जीवदीशा जीवतोका तु जीवसुः । वीरपत्नी वीरभार्या वीरमाता तु वीरसूः । बहुप्रसूः स्यात्कृमिला काकवन्ध्या सकृत्प्रसूः । ;l{4790} वृद्धपत्नी वृद्धपतिः सपत्नी तुल्यभर्तृका । नश्यत्प्रसूतिका निन्दुः जीर्णर्त्तुर्निष्कला भवेत् ॥ २१ ॥ अवीरा निष्पतिसुता विश्वस्ता-विधवे समे । रण्डा च ताडपत्री च भवेदनलकापि सा । ;p{0204} छत्रभङ्गस्तु वैधव्यं सौभाग्यं जीवभर्तृता । ;l{4795} कामुकी तु वृषस्यन्ती त्रिगर्ता कामुका परा ॥ २२ ॥ ज्येष्ठा तु ज्यायसी नारी कनिष्ठा तु यवीयसी । प्रवत्स्यत्पतिका सा स्यात्प्रवत्स्यति यदीश्वरः ॥ २३ ॥ भर्तरि प्रोषिते देशान्तरे प्रोषितभर्तृका । अन्योपभुक्तपतिका खण्डिता साभिधीयते ॥ २४ ॥ ;l{4800} कलहान्तरिता तु स्यात्तप्ता भर्त्रवमानने । विप्रलब्धां तु संकेतस्थले भर्तर्यनागते ॥ २५ ॥ उत्का ध्यायति[75b] या तत्र भर्त्रनागमकारणम् । भवेद्वासकसज्जा या तत्परा वासके स्वके ॥ २६ ॥ स्वाधीनपतिका तु स्याद्वशे यस्याः पतिः सदा । ;l{4805} कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥ २७ ॥ अनुरागवती स्वीया निजपाणिग्रहीतरि । किंचित्कामा रतौ वामा मुग्धा लज्जातिशायिनी ॥ २८ ॥ लज्जास्मरान्तरालस्था मध्याथ कुशला रते । प्रगल्भा साथ गुप्ता सा सर्वथा रतगोपिनी ॥ २९ ॥ ;l{4810} बालहीना त्वशिश्वी स्यात्पालिस्तु नरमालिनी । सश्मश्रुर्याथ पोटा स्यान्नारी स्त्रीपुंसलक्षणा ॥ ३० ॥ इभपोटा त्विभी तादृग्द्विजपोटा द्विजा तथा । आलिर्वयस्या सध्रीची सखी दासी तु चेटिका ॥ ३१ ॥ पोटा चेटा तथा कुट्टहारिका कुट्टिनी पुनः । ;l{4815} चुण्टी चुन्दी शम्भली स्यात्कर्णिका माधवी च सा ॥ ३२ ॥ दूतिर्दूती रुण्डिका च तथा सुरततालिका । संघाटिका मता सा च तथा संचारिकेत्यपि ॥ ३३ ॥ ;p{0205} पुंश्च[76a]ली धर्षणी बन्धक्यसती कुलटेत्वरी । अविनीता पांसुला च स्वैरिणी लाञ्छनी व(म)ता ॥ ३५ ॥ ;l{4820} वेश्या साधारणी पण्या पण्यस्त्री वर्वटी च सा ॥ ३७ ॥ गणिका लञ्जिका रूपाजीवा क्षुद्रा गवेधुका ऋछरा वारयोषा च शूरा दासी धराप्सराः ॥ ३८ ॥ यामस्त्री सा यामकिनी भुजिष्या कारकामिनी । कामकूटा विभ्रमोऽस्याः वारमुख्या तु सत्कृता ॥ ३९ ॥ ;l{4825} तद्वृन्दे वैश्य-गाणिक्ये सैरन्ध्री त्वन्यगेहगा । अलंकारादिचतुरा स्वाधीना गन्धकारिका ॥ ४० ॥ असिक्न्यन्तःपुरे प्रेष्या तरुणी याथ कोटवी । नग्निका या वस्त्रहीना मुक्तकेशी च कामिनी ॥ ४१ ॥ कात्यायन्यर्द्धवृद्धा या काषायवसनाधवा । ;l{4830} श्रवणा श्रमणा मुण्डा भिक्षुकी कुलटासती ॥ ४२ ॥ सुतः कौलटिनेयोऽस्याः कौलटेयोऽपि संमतः । वृद्धा पलिक्नी जरती प्रज्ञा प्राज्ञीप्रजानती ॥ ४३ ॥ प्राज्ञा तु प्रज्ञया युक्ता या[76b]त्वन्तःपुरगामिनी । विप्रश्निका चेक्षणिका दैवज्ञा सा च कथ्यते ॥ ४४ ॥ ;l{4835} कारीषगन्ध्या कारीषगन्धेर्गोत्रप्रजा हि सा । शूद्रा तु शूद्रजातिः स्त्री शूद्री शूद्राङ्गना भवेत् । आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ ४५ ॥ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी या स्वतोऽध्यापिका भवेत् ॥ ४६ ॥ ;l{4840} आचार्या तु स्वतो व्याख्याकर्त्री पुंयोगिनी पुनः । उपाध्यायाप्यु(न्यु ?)पाध्यायी स्यादर्यी क्षत्रियी तथा ॥ ४७ ॥ आचार्यानी चाथ पुनर्भूरुक्ता दिधिषूरपि । या द्विरूढा पतिस्त्वस्याः पुनर्भूदिधिषूरसौ ॥ ४८ ॥ ;p{0206} स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटिम्बिनी । ;l{4845} परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ १९ ॥ परिवित्तिस्तु तज्ज्यायाञ्जायास्य परिवेदिनी । पुष्पवत्यविरात्रेयी मलिनी च रजस्वला ॥ ५० ॥ ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः । [77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥ ;l{4850} आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी । गुर्वी चोदरिणी भ्रूणः पुंस्यस्यां सा सदोहदा ॥ ५२ ॥ श्रद्धालुः स्यादथ श्रद्धा जोङ्गटः स्त्री न दोहदम् । दौहृदं च प्रजाता तु विजाता च प्रसूतिका ॥ ५३ ॥ प्रसूतका विजननं पुनः प्रसव उच्यते । ;l{4855} सूतिमासो वैजननो गार्भिणं गर्भिणीगणे ॥ ५४ ॥ कुमारभृत्या गर्भिण्याः परिचर्या निगद्यते । भ्रूणः स्याद्गरभो गर्भस्तत्स्याद्दोहदलक्षणम् ॥ ५६ ॥ भर्ता भोक्ता वरयिता रमणो रामिलो वरः ॥ ५५ ॥ पतिर्धवो जीवितेशो वल्लभो दयितोऽपि च । ;l{4860} कामलः सरसी कान्तः सुविदश्च हृदीश्वरः ॥ ५६ ॥ सेक्ता विवोढा चोद्वोढा प्रेष्ठः सहचरोऽपि सः । वातपुत्रस्तूपपतिर्जारोऽथ गणिकापतिः ॥ ५७ ॥ भुजंगः स्याद्विवाहे तूपयामोपयमौ समौ । तथोद्वाहः परिणयः पाणिपीडनमित्यपि ॥ ५८ ॥ ;l{4865} स्यात्पाणिग्रहणं दारकर्म चाथाम्बुपूर्विका । कन्यामलंकृतां दद्या[77b] द्ब्राह्मोऽसौ वितते पुनः ॥ ५९ ॥ मखे दद्यादृत्विजे तामेष दैवो निगद्यते । चरतः सह धर्मं यत्प्राजापत्योऽथ गोयुगम् ॥ ६० ॥ दत्त्वा समुद्धरेदार्षो गान्धर्वः समयान्मिथः । ;p{0207} ;l{4870} आसुरो धनदानाद्यः पैशाचश्छलचौर्यतः ॥ ६१ ॥ राक्षसो युद्धहरणाद्यौतकं युतकं तथा । विवाहादिषु यद्देयं सुदायो दाय इत्यपि ॥ ६२ ॥ हरणं चाथ सत्कृत्य कन्यादातात्र कूकुदः । कुकुदोऽथाकृतोद्वाहो ठण्ठ इत्यभिधीयते ॥ ६३ ॥ ;l{4875} वरस्य सुहृदो जन्या जनीवोढार इत्यपि । युवतिर्यस्य जाया स्याद्युवजानिरसौ वरः ॥ ६४ ॥ कल्याणीप्रिय एवं स्यात्सुभगाप्रिय इत्यपि । एवं स्यात्पञ्चमीभार्यः सुकेशीभार्य इत्यपि ॥ ६५ ॥ तथैव ब्राह्मणीभार्यः शूद्राभार्य इमा दिशः । ;l{4880} परदाररते तु स्यात्क्षेत्रियः पारदारिकः । दंपती जंपती जायापती च भरिमा तु ना ॥ ६५ ॥ बर्हः पुमान्परीवारः सुविदत्रं कुटुम्बकम् । पुत्रः सुतो[78a] दारकः स्यान्नन्दन्तो नन्दनोऽङ्गजः ॥ ६७ ॥ आत्मजस्तनयः सूनुर्दायादश्चोद्वहश्च सः । ;l{4885} द्वितीयः कुलकृच्चासौ पुत्राद्यास्तु स्त्रियाममी ॥ ६८ ॥ प्राहुर्दुहितरं सर्वे पुत्रका पुत्रिकापि सा । नन्दन्ती नन्दिनी च स्याद्धातकी च निगद्यते ॥ ६९ ॥ पुत्रोऽपि दुहिता पुत्रौ तयोस्तु तोकमन्तिमे । अपत्यं च प्रसूतिः स्त्री प्रजा संततिरित्यपि ॥ ७० ॥ ;l{4890} स्वजाते त्वौरसोरस्यौ सुतादौ क्षेत्रजोऽन्यजे । अमृते जारजः कुण्डो मृते भर्त * [रि] गोलकः ॥ ७१ ॥ जारजा त्वमृते पत्यौ कुण्डी भवति कन्यका । पारस्त्रैणः पारशवः पारस्त्रैणेय इत्यपि । परस्त्रीजेऽथ कानीनः कन्याया उदितः सुतः । ;l{4895} स्याद्भद्रा मातृसंबुद्धौ मात्रा श्लाघ्यत्वसूचने । ;p{0208} सौभागिनेयः सुभगापुत्रो दौर्भागिनेयकः । दुर्भगानन्दनोऽथ स्यात्कैशिन्यः केशिनीसुतः ॥ ७३ ॥ स ज्यैष्ठिनेयः कानिष्ठिनेयो ज्येष्ठाकनिष्ठयोः । सुतो माध्यमि[78b]नेयः स्यान्मध्यमाया अथो भवेत् ॥ ७४ ॥ ;l{4900} पौनर्भवो दैधिषवः पुनर्भूसंभवः सुतः । पीलायाः पैल-पैलेयौ नैघेयस्तु निघेः सुतः । दास्या दासेर-दासेयौ कौलटेरस्तु बन्धुलः । भवेद्बान्धकिनेयश्च तथा कौलटिनेयवत् । नट्या नाटेर-नाटेयौ जाडेरोऽपि जडासुतः । समौ काणेय-काणेरौ शौभ्रेयः शुभ्रनन्दनः ॥ ७७ ॥ ;l{4905} जाडारः स्याज्जडापत्यं पाण्डारः पण्डनन्दनः । दत्तासुतः स्याद्दात्तेयः खाञ्जेरः खञ्जिकासुतः ॥ ७८ ॥ पुत्रस्तूरसिलोम्नो यः स स्यादौरसिलोमनः । सांमातुरः सतीपुत्रो भाद्रमातुर इत्यपि ॥ ७९ ॥ त्यादस्त्यादायनिस्त्यस्यापत्ये तस्य तु तादवत् । ;l{4910} तादायनिरथैतस्यैतदायनिवदैतदः ॥ ८० ॥ गोत्रापत्ये तु जातस्य स्याज्जातायनसंज्ञतः । जातासुते तु जातेयो मैत्रेयो मित्रयूद्भवः । औडुलोमिस्तूडुलोम्नो बाहोर्बाहविराह्वये । उडुलोमा[79a] बहुत्वे स्युः शरलोमास्तथेरिताः । ;l{4915} वैहीनरिस्त्वपत्ये स्याद्विहीनरसमुद्भवे । पौत्रो नप्ता पुत्रपुत्रो दौहित्रो दुहितुः सुतः ॥ ८१ ॥ ;p{0209} प्रणप्ता तु प्रपौत्रः स्यात्तत्पुत्रोऽस्त्री परंपरः । भ्रात्रीयः स्याद्भातृपुत्रो भ्रातृव्योऽथ स्वसुः सुतः ॥ ८२ ॥ स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः । ;l{4920} सापत्नः स्यात्सपत्नीजः सुतः सापत्य इत्यपि । पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ॥ ८३ ॥ मातृष्वसेयो मातृष्वस्रीयो मातृष्वसुः सुतः । मातुलेयस्तु मातुल्यः श्यालेयः श्यालिकासुतः । जात्यन्धो जनुषान्धः स्याज्जानुषान्धिस्तु तत्सुतः । ;l{4925} पुंसानुजोऽग्रजे पुंसि तस्य पौंसानुजिः सुतः ॥ ८५ ॥ आत्मनापञ्चमस्य स्यादात्मनापाञ्चमिः सुतः । भवेद्ग्रामणिपुत्रश्च ग्रामणीपुत्र इत्यपि । विना तु बाहविं सर्वेऽप्यौरसाद्या विशेष्यगाः ॥ ८६ ॥ तातस्ततः पिता वप्ता रेतोधा जनकोऽपि च । ;l{4930} [79b]बीजी जनयितासौ तु व्रती संस्कारकृद्यदि ॥ ८७ ॥ महागुरुस्तातगुस्तु स क्षुद्रोऽथ पितामहः । पितृतातोऽथास्य तातः * * * प्रपितामहः ॥ ८८ ॥ मातुर्मातामहाद्येवं स्त्रियां तु स्यात्पितामही । एवं मातामही च स्यात्तद्वच्च प्रपितामही । ;l{4935} जनयित्री जनित्री च जनन्यम्बा प्रसूश्च सूः । माता सवित्री चाक्काल्ला धात्री तु पृथिवी मता ॥ ८९ ॥ पितरौ मातापितरौ मातरपितरौ जनित्वौ च । श्वश्रूश्वशुरौ * * * [श्वशुरौ]तातसुतौ स्तः पितापुत्रौ ॥ ९० ॥ मातापितृभ्यां यः शून्यश्छेमण्डः स प्रकीर्तितः । ;l{4940} नरौ नरश्च नारी च युवानौ युवतिर्युवा । ;p{0210} भ्राता स्वसा च गदितौ भ्रातरावथ सोदरः । सहोदरः सगर्भ्यश्च समानोदर्य इत्यपि ॥ ९१ ॥ सोदर्यः सहजश्चाथ वैमात्रेयो विमातृजः । स्वसा जामिश्च भगिनी भग्नी यामिर्धवस्य तु ॥ १ ॥ ;l[4945} सा ननान्दा ननन्दा च नन्दिनी च स्त्रियास्त्वसौ । [80a]ज्येष्ठश्वश्रूः कुली ज्येष्ठा श्यालिका तु कनीयसी ॥ २ ॥ हाली च यन्त्रिणी केलिकुञ्चिका च निगद्यते । मातृष्वसा मातृभग्नी पितृभग्नी पितृष्वसा ॥ ३ ॥ भ्राता ज्येष्ठः पूर्वजः स्यात्पित्र्यस्तत्राग्रियाग्रजौ । ;l{4950} जघन्यजो यविष्ठः स्याद्यवीयाननुजोऽपि सः ॥ ४ ॥ कनीयांश्च कनिष्ठश्चावरजः सूनुरित्यपि । यमौ च यमलौ न स्त्री युगलौ जनकस्य तु ॥ ५ ॥ भ्राता पितृव्यो मातुस्तु तत्र मातुल-मामकौ । मातुलानी मातुली च मामिका चास्य कामिनी ॥ ६ ॥ ;l{4955} श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनस्तु कनीयसि । रागारो देवरो देवा जामाता दुहितुः पतिः ॥ ७ ॥ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ॥ ८ ॥ दौहित्री दुहितुः कन्या पौत्री नप्त्री सुतात्मजा । ;l{4960} प्रजावती भ्रातृजाया सपिण्डास्तु सनाभयः ॥ ९ ॥ पितरः पितृवंश्याः[80b] स्युर्मातुर्मातामहाः कुले । स्वो ज्ञातिःस्वजनो बन्धुर्बान्धवश्चारिकोऽपि सः ॥ १० ॥ दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे । बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा । ;l{0211} जनकीयं जनस्येदं * * * * * * * * । ;l{4965} त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः । * * * * * * * * जनता स्त्री जनव्रजे । भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् । स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् । ;l{4970} सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह । एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि । तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः । त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥ न स्त्री नपुंसकः क्लीबः षण्ढो ना षण्ड-षण्डकौ । ;l{4975} तृतीया प्रकृतिर्या स्यात्स्त्रियः प्राया दशावयः ॥ १२ ॥ शिशुत्वं शैशवं बाल्यं बालता शिशु[81a]ता स्त्रियौ । बालस्तु स्यान्माणवको माणवीनं तु तद्धितम् ॥ १३ ॥ माणव्यं तत्समूहेऽन्त्येऽथ भूते मासमीरितौ । मासीन-मास्यौ षाण्मास्यो भवेत्षण्मास इत्यपि । षाण्मासिकोऽस्त्री * * * वयःस्थस्तरुणो युवा । ;l{4980} किशोरस्तलुनोऽथ स्याद्वेकटो जातयौवनः ॥ १४ ॥ भवेत्तरुणिमा पुंसि तारुण्यं यौवनेऽस्त्रियाम् । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि । जरी जर्णो * * (यात)यामो वृद्धत्वं स्थाविरं समे ॥ १५ ॥ भवेद्दशमिता चात्र वार्द्धकं भाववृन्दयोः । ;l{4985} अतिवृद्धस्तु वर्षीयान्वर्षिष्ठो दशमी च सः ॥ १६ ॥ परोवरीणः स भवेद्यः परानवरांस्तथा । आत्मनानुभवत्येवं पुत्रपौत्रीण इत्यपि ॥ १७ ॥ परंपरीणः स परंपरानुभववान्स्वयम् । ;p{0212} ;l{4990} विना भावप्रत्ययान्तान्बालाद्या भेद्यलिङ्गकाः । पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ॥ १८ ॥ पलितंकरणी सा स्याच्च्व्यर्थे पलितकारिणी । अथो[81b]पजरसं क्लीबाव्ययं स्याज्जरसोऽन्तिके ॥ १९ ॥ सुप्रजाः शोभनापत्यो दुरपत्यस्तु दुःप्रजाः । ;l{4995} अप्रजाः प्रजया हीनः सुजम्भा चारुदन्तकः ॥ २० ॥ एवं हरितजम्भाद्याः संज्ञायां श्यावदन्भवेत् । श्यावदम्भोऽरोकदंस्तु नाम्न्येवारोकदन्तकः ॥ २१ ॥ उपमायामसंज्ञायां भवेच्छिखरदन्निति । उत्काकुच्च विकाकुत्स्यादुद्गतापेततालुकः ॥ २२ ॥ ;l{5000} स्यात्पूर्णकाकुदः पूर्णकाकुद्यः पूर्णतालुकः । औपम्ये स्यादेणीपदस्तथाजपद इत्यपि । पूज्यभ्राता तु सुभ्राता प्रज्ञुः प्रगतजानुकः ॥ २३ ॥ संज्ञुः संहतजानुः स्यादूर्ध्वजुस्तूर्ध्वजानुकः । सुसक्थिः स्यात्सुसक्थश्च दुःसक्थोऽसक्थ इत्यपि ॥ २४ ॥ ;l{5005} दीर्घसक्थो गौरसक्थो यस्य दीर्घादि सक्थि चेत् । दुःसक्था च सुसक्था स्त्री दीर्घसक्थीति दिक्स्मृता ॥ २५ ॥ द्विमूर्धः स्यात्त्रिमूर्धश्च द्विमूर्धी स्त्री त्रि[82a]मूर्ध्यपि । अन्तर्लोमो वहिर्लोमोऽथान्तर्लोमा स्त्रियां भवेत् । संज्ञायां द्रुणसोऽथ स्यादुन्नसस्तुङ्गनासिकः । प्रणसः प्रनसश्च स्यात्प्रकृष्टा यस्य नासिका ॥ २० ॥ ;l{5010} खुरणाः स्यात्खुरणसो नःक्षुद्रः क्षुद्रनासिकः । खरणाः स्यात्खरणसः शितिनाः श्यामनासिकः ॥ २८ ॥ * * [विख्यौ]विग्रोऽपि च विखुर्यः स्याद्विगतनासिकः । ;p{0213} अवटीटोऽवनाटश्चावभ्रटो नतनासिके ॥ २९ ॥ ;l{5015} स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्याततातकः । आमुष्यपुत्रिका भावे स्त्र्यामुष्यकुलिका तथा । पितृभोगाय स हितः पितृभोगीण उच्यते ॥ ३० ॥ एवं स्यान्मातृभोगीणोऽथो यः स्यात्पितृसंनिभः । स मनोजवसः प्रोक्तः पितृधर्मा मनोजवः ॥ ३१ ॥ ;l{5020} असौ पितृसधर्मापि स्यादथास्मै हितो हि यः । स स्यादाचार्यभोगीनो दुर्बलस्तु कृशस्तनुः ॥ ३२ ॥ क्षामः क्षीणोऽमांसलश्च तलिनच्छात-पेलवाः । निर्दिग्धः[82b] स्यादुपचितो बलवान्मांसलोंऽसलः ॥ ३३ ॥ पार्ष्णीलः पार्ष्णिसंयुक्तो धमनीलः शिरायुतः । ;l{5025} बलूलो बलवानुक्तो ललाटूलो ललाटवान् । तुन्दिलस्तुन्दिकस्तुन्दिस्तुन्दवांश्च पिचण्डिलः । पिचण्डवान्पिचण्डी च बृहत्कुक्षिः पिचण्डिकः ॥ ३४ ॥ उदर्युदरिलोऽपि स्यात्तुण्डिभो वृद्धनाभिकः । ग्रौण्डश्च बलिभस्तु स्याद्वलिनोऽथ बलासहः ॥ ३५ ॥ ;l{5030} बलूलो भ्रातृयुक्तस्तु भवेद्भ्रातृवलाभिधः । पुत्रयुक्तः पुत्रवलो दन्तुरस्तूच्चदन्तकः ॥ ३६ ॥ प्रलम्बाण्डो मुष्करः स्यादथ बाल्यसमुद्धृतः । भवेदण्डीर आण्डीरः पौगण्डो विकलाङ्गकः ॥ ३७ ॥ पोगण्डश्चाथ कुब्जः स्यात्त्रिवक्रो गडुलोऽपि सः । ;l{5035} कुणिः कूणिश्च कुकरो वन्धुस्तु छिन्नहस्तकः ॥ ३८ ॥ श्रोणः पङ्गुरथो खञ्जः खोटः खोडोऽथ पर्पिकः । पर्पचारी पर्पिकी स्त्री पर्पः पीठे हि तद्गतेः ॥ ३९ ॥ ;l{0214} खल्वाटः खलतिश्चैन्द्रलुप्तिको बभ्रुरित्यपि । शिपिविष्टश्च का[83a]णस्तु सिनः कनक(न) एकदृक् ॥ ४० ॥ ;l{5040} स्युः क्लिन्नाक्षे चुल्ल-पिल्ल-पिच्छाः क्लिन्नेऽक्ष्णि चाप्यमी । नष्टलिङ्गोऽधोगताक्षः पृश्निस्त्वल्पशरीरकः । निखर्वः खदृतः खर्वः खर्वशाखश्च वामनः ॥ ४१ ॥ मुण्डस्तु मुण्डितोऽथ स्युः केशि-केशव-केशिकाः । अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः ॥ ४२ ॥ ;l{5045} वण्डश्च शिपिविष्टोऽथ मूको वाचा विवर्जितः । सुप्रजःप्रमुखाः सर्वे विना पर्पं विशेष्यगाः ॥ ४३ ॥ पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) । अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥ करणं मूर्तिमत्क्षेत्रं गात्रं संहननं वपुः । ;l{5050} श्रोत्रं वर्षाङ्गुबेरं च पुद्गलं च कलेवरम् ॥ ४५ ॥ मूर्तिस्तनूस्तनुश्च स्त्री कुडिः सान्तं तनुर्न ना । शरीर-देहे अस्त्रीके तत्तु शस्तं वपुष्टमम् ॥ ४६ ॥ देहार्द्धमर्द्धदेहं च देहादेः स्यात्समेंऽशके । अङ्गं प्रतीकोऽवयवोऽपघनोऽस्यैकदेशकः । ;l{5055} प्राणस्थानं मर्म चान्ते पीडनाद्यत्र रुग्भवेत् । अङ्घ्रि[83b]रंह्रिः क्रमः पादः क्रमणश्चलनश्च पद् ॥ ४१ ॥ पदमस्त्री च चरणो गोहिरं मूलमस्य च । पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यगम् ॥ ४८ ॥ मध्ये पादतलस्याहुरभितोमध्यमाङ्गुलि । ;l{5060} तलहृत्क्षिप्रतस्तूर्ध्वं द्व्यङ्गुले कूर्च्चमस्त्रियाम् ॥ ४९ ॥ अङ्घ्रिस्कन्धः कूर्च्चशिरो द्वंद्वे तु घुटिको घुटः । घुण्टिकश्चास्त्रियां गुल्फो निस्तोदः पादशीर्षकः । खुरकाप्रपदौ पार्ष्णिस्त्वधस्ताद्घुटयोर्द्वयोः ॥ ५१ ॥ ;l{0215} पिचण्डिका पिण्डिका स्यादिन्द्रवस्तिस्तदन्तरम् । ;l{5065} प्रतिजङ्घा त्वग्रजङ्घा जङ्घा तु प्रसृता भवेत् ॥ ५२ ॥ टङ्के नलकिनी टङ्गो अष्ठीवज्जानु चास्त्रियौ । नलकीलश्चोरुपर्व पश्चाद्भागोऽस्य मन्दिरः ॥ १५३ ॥ अग्रिमस्तु कपोल्यूर्वङ्क्षणं सक्थिचान्तिमे । मृगसक्थं पूर्वसक्थं * * * * तु पूर्वकम् ॥ ५४ ॥ ;l{5070} तथा फलकसक्थं स्यादौपम्ये स्तम्भसक्थवत् । ऊर्वोरष्ठीवतोर्द्वंद्वे स्यादूर्वष्ठीवमन्तिमे ॥ ५५ ॥ ऊरुसं[84a]धिर्वङ्क्षणो ना नाभीलं स वरस्त्रियाः । विटपोऽस्त्री महाबीज्यं मुष्कवङ्क्षणमध्यगम् ॥ ५६ ॥ अण्डकः पेलकः पेलमस्त्रियामण्डकोषवत् । ;l{5075} मुष्काण्ड-वृषणाः पायुः स्याद्गुदोऽपानमस्त्रियाम् । पेलमण्डं गुदस्त्वस्त्री पायुः पुं पुंसि विण्मुखम् ॥ ५७ ॥ अधोमर्म शकृद्द्वारं त्रिवलीकं बुलिश्च्युतिः । शृधुः क्लीबे त्वपानं स्यात्पुतमाधारचक्रकम् ॥ ५८ ॥ शिश्नमस्त्री मेहनं स्याच्छेपं शेवं च शेफवत् । ;l{5080} पुंश्चिह्न-शेफ-शेपांसि लिङ्गं तद्वच्च साधनम् ॥ ५९ ॥ स्मरध्वजो मेढ्रमस्त्री मणिस्त्वस्याग्रमुच्यते । सावनी तदधःसूत्रं योनिस्तु न नपुंसके ॥ ६० ॥ च्युतिर्बुलिः कामरूपी मर्कटी च स्त्रियामिमे । कामगेहं स्त्रीकरणं वराङ्गं शौक-धैनुके ॥ ६१ ॥ ;l{5085} कर्कटोऽपत्यमार्गश्च जत्रुर्ना भगमस्त्रियाम् । स्त्रीपुंसयोस्तु करणे गुह्यं प्रजननं च तत् ॥ ६२ ॥ ;p{0216} उपस्थोऽथ कटिप्रोथः प्रोह-स्फिजौ स्त्रियौ युतम् । क्लीबे स्फिगं तदूर्ध्वं तु[84b] कटीक-तरुणे उभे ॥ ६३ ॥ पृष्ठवंशं ह्युभयतो यौ संधी कटिपार्श्वयोः । ;l{5090} जघनस्य बहिर्भागे न स्त्री यौते ककुंदरे ॥ ६४ ॥ रताकुके कूपकौ च द्वयोः श्रोणिः कटिः स्त्रियाम् । ककुद्मती त्रिकस्थानं कलत्रं रसनापदम् ॥ ६५ ॥ कटीर-भसदी श्रोणिफलकं च कटोऽप्यथो । पश्चान्नितम्ब आरोहः स्त्रीकट्या जघनं पुरः । ;l{5095} पुंसि कोष्ठोऽन्तराधिः स्यात्पृष्ठवंशाधरे त्रिकम् । नाभिर्द्वयोः कुरुस्तुण्डिस्तुन्दकूपी ततस्त्वधः । मूत्राशयो द्वयोर्बस्तिस्तया मूत्रपुटं भवेत् ॥ ६८ ॥ रोमावली रोमलता शिखरिण्युदरं पुनः । उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः । ;l{5100} पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् । कृपीटं कालखण्डं तु कालखञ्जं च कालकम् । यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥ रक्तफेनोद्भवो वामे पुप्फुसोऽथान्त्रमान्त्रवत् । पुरीतत् स्थविरात्रं तु वनिष्ठुः स्यात्प्लिहा पुमान् ॥ ७१ ॥ ;l{5105} [85a]ललाटकण्ठजठरस्थिता रेखा वलिर्द्वयोः । स्तनौ कुचौ कुचौ वक्षोरुहौ तौ च पयोधरौ । तदधः स्तनमूलं स्यादूर्ध्वं तु स्तनरोहितम् ॥ ७२ ॥ स्तनवृन्तं पिप्पलकं चूचुकोऽस्त्री च नर्मठम् । कुचाग्रकमथ क्रोडो न पुंसि स्याद्भुजान्तरम् ॥ ७३ ॥ ;l{5110} वत्सं वक्ष उरः क्लीबे हृदयस्थानमित्यपि । ;p{0127} विशेष्यवत्प्रत्युरसं यद्भवेदुरसि स्थितम् । हृदयं हृत्सत्त्वधाम स्तनोरःकोष्ठमध्यगम् ॥ ७४ ॥ रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः । पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि ॥ ७५ ॥ ;l{5115} स्कन्धो भुजशिरोंऽसोऽस्त्री संधी तस्यैव जत्रुणी । वाहो बाहु - भुजे द्वंद्वे दोषा स्त्री दोस्तु तत्स्त्रियाम् ॥ ७६ ॥ प्रवेष्टोऽप्यथ दोर्मूलं खण्डिको भुजकोटरः । अभ्युपा(?)च द्वयोः कक्षा पार्श्वमश्री तयोरधः ॥ ७७ ॥ कफोणिश्च कपोणिश्च कफणिर्युजि कूर्परः । ;l{5120} अरत्निपृष्ठं बाहूय(?)बाहुसंधिररत्निकः ॥ ७८ ॥ प्रगण्डः कूर्परांसान्त[85b] उपबाहुश्च संमतः । कलाचिका प्रकोष्ठोऽधोमणिबन्धावधिः स्मृतः ॥ ७९ ॥ करः कुलिः पालन-पञ्चशाख- भुजादलाः पाणि-शयौ शमश्च । ;l{5125} हस्तोऽस्त्रियामस्य पुनर्मणिः स्या- दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥ मणिबन्धादाकनिष्ठं करस्य करभो बहिः । हस्तपुच्छं कुल्युषं च शक्वर्यङ्गुलिरङ्गुरिः ॥ ८१ ॥ करशाखाथाङ्गुलिभ्यो निर्गते स्यान्निरङ्गुलम् । ;l{5130} प्रमाणे द्ब्यङ्गुलादि स्यात्त्रिरङ्गुलमथास्त्रिषु । अस्त्री स्यादङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी । प्रदेशनी मध्यमा तु ज्येष्ठा मध्या च सा भवेत् । अनामिका तु सावित्री कनिष्ठा स्यात्कनीनिका ॥ ८४ ॥ पुनर्भवः कररुहः करकण्टः पुनर्नवः । ;l{5135} करशूको महाराजो भवेत्कामाङ्कुशोऽपि सः ॥ ८५ ॥ ;p{0218} नखोऽस्त्री नखरी त्रय्यां नख्यं त्रिषु नखोद्भवम् । प्रादेशश्च प्रदेशश्च तर्जन्या सह विस्तृते ॥ ८६ ॥ अङ्गुष्ठे तालशो कर्णो मध्य[86a]मानामिकायुते । सकनिष्ठे द्वयोः किष्कुवितस्तिदीष्टिररिफर्फटी । (corrupt) ;l{5140} * * * * * * * * * * * * कोपित्यपि । (corrupt) प्रसारिताङ्गुलौ पाणौ प्रतलः स्यात्तलः पुमान् । तालः प्रहस्तश्चपटश्चपेटायुजि तालिका ॥ ८८ ॥ अर्द्धचन्द्रं कर्करेटं विदुरङ्गुलितोरणम् । द्वौ संहतौ सिंहतलौ स्तः संहततलौ करौ । ;l{5145} प्रतलौ मुचुटी मुष्टिर्द्वयोः संग्राह-मुस्तुकौ ॥ ८९ ॥ संपीडिताङ्गुलौ पाणौ खटकस्त्वर्द्धमुष्टिकः । प्रसृतिः प्रसृतः पुंसि पाणौ संकुचिताङ्गुलौ ॥ ९० ॥ प्रसृते सद्रवे द्वंद्वे गण्डूषश्चुलुकश्चुलुः । प्रसृताभ्यां युताभ्यां स्यादञ्जलिर्नरलिङ्गकः ॥ ९१ ॥ ;l{5150} प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया । सरत्निर्युज्यरत्निश्च निःकनिष्ठेन मुष्टिना ॥ ९२ ॥ एवं तत्तत्प्रमाणे स्युर्वितस्त्याद्या विशेष्यगाः । द्विसमादिप्रमाणेऽन्यवत्तावद्द्वयसं पुनः ॥ ९३ ॥ तावन्मात्रं तथा स्वार्थे प्रमाणपरिमाण[86b]तः । ;l{5155} संख्यायाश्चापि संदेहे शयमात्रं विशेष्यवत् ॥ ९४ ॥ दिष्टिमात्रं प्रस्थमात्रं पञ्चमात्रमितीरयेत् । ऊर्ध्वविस्तृतदोःपाणेर्नुर्माने पौरुषं त्रिषु ॥ ९५ ॥ पुरुषद्वयसं च स्यादस्मिन्पुरुषदघ्नवत् । स्याद्द्वादशाङ्गुलं छायामानं पौरुषमत्र च ॥ ९६ ॥ ;p{0219} हास्तिनं हस्तिदघ्नं च हस्तिद्वयसमित्यपि । ;l{5160} हस्तिमाने द्विपुरुषं द्विहस्ति नवहस्ति च ॥ ९७ ॥ स्त्रियां द्विपुरुषी गङ्गा तथा द्विपुरुषापि सा । स्यादूरुद्वयसी चोरुदघ्नी स्यादूर्ध्वमानके ॥ ९८ ॥ ऊरुमात्रीत्यादि पुनर्माने साधारणे भवेत् । ;l{5165} तिर्यग्बाह्वोः प्रसृतयोरन्तरे व्याम आदिमे ॥ ९९ ॥ न्यग्रोधकश्च व्यायामस्त्रिषु मानार्थका अमी । कण्ठो गलो निगरणः क्रोडाग्रो धमनी धरः । नालोऽथ तदधोवर्ती मणिः काकलको मतः ॥ २०० ॥ कंधरा धमनिर्ग्रीवा शिरोधिः स्त्री शिरोधरा । ;l{5170} अ * वाजे त्वलंकारे ग्रैवं ग्रैवेयमन्यवत् । कम्बुग्री[87a]वा त्रिरेखा सा स्त्री तु घाटा कृकाटिका ॥ १ ॥ अवटुर्मिथुनेऽथ स्याच्छिरोधेरन्तरं कृकः । कृकपार्श्वौ वीतनौ स्तः नीले प्राक्कंधरा - शिरे ॥ २ ॥ पश्चान्मन्ये कलम्ब्यौ च व्युपो(?) स्त्रि मुखमाननम् । ;l{5175} चुब्रमास्यं च वदनं लपनं वक्त्रमस्त्रियाम् । श्म च तुण्डं तत्तु कर्णालंकारेण मनोहरम् । स्यात्कार्णावेष्टिकं भालोऽस्त्र्यलीकं निटिलालिके । ललाटं स्त्री तु गोधिः स्यात्त्रिपताकं त्रिरेखकम् । कर्णः शब्दग्रहः श्रुन्ना स्त्री श्रुतिः श्रवणोऽस्त्रियाम् ॥ ५ ॥ ;l{5180} शब्दाधिष्ठान-पैञ्जूष-श्रवः-श्रोत्र-महारवम् । पालिस्तु कर्णलतिका वेष्टनं कर्णशष्कुली । कर्णमूलं कर्णजाहं यन्मूलं पादजाहकम् ॥ ६ ॥ शङ्खोऽस्त्री स्याद्भालकर्णमध्यगः स्त्री तु दृग्दृशा । दृष्टिश्च न स्त्रियां नेत्रं नयनं चक्षुरक्षिणी ॥ ७ ॥ ;p{0220} ;l{5185} ईक्षणं लोचनं देहदीपोऽम्बक-विलोचने । दर्शनं तारकं * * [तार] - तारके च कनीनिका ॥ ८ ॥ अपाङ्गौ नेत्रयोरन्तौ द्वाविमौ नरलि[87b]ङ्गकौ । वामं तु नयनं सौम्यं भानवीयं तु दक्षिणम् । क्रूरे त्वस्मिन्नदृष्टिः स्त्री तथानक्षि नपुंसके ॥ ९ ॥ ;l{5190} ये लोहितादिनेत्रास्ते लोहिताक्षादयस्त्रिषु । भ्रुवौ स्त्रियौ दृगूर्ध्वे स्तो द्वंद्वे त्वक्षिभ्रुवं तयोः ॥ १० ॥ भ्रुवोर्मध्यं कूर्च्चमस्त्री कूर्पं चावर्तके पुनः । ऊर्णा भ्रुवोर्मध्यगते पक्ष्मा स्त्री नेत्ररोमणि ॥ ११ ॥ भेद्यवत्पक्ष्मलस्तद्युङ्नासिका तु विकूणिका । ;l{5195} कुल्मा गन्धवहा घोणा गन्धज्ञा घ्रा च शिङ्घिनी ॥ १२ ॥ नासा नर्क्कुटकं नक्रं घ्राणं न स्त्री नासिक्यमन्यवत् । चिकिनं चिपिटं चिक्क निबिडं निबिरीसवत् । अवटीटावनाटावभ्रटान्यपि नतेन सः । ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥ १३ ॥ ;l{5200} ओष्ठप्रान्तः सृक्व सृक्वि सृक्कु क्लीबानि सृक्किणी । पुरस्तात्त्वसिकं तस्याप्यधस्ताच्चिबुकं भवेत् ॥ १४ ॥ सृक्वणः स्यात्परो गल्लः कपोलो गल्लतः परः । कपोलतः परौ गण्डौ हनुह[88a]न्वौ द्वयोस्ततः ॥ १५ ॥ मुखालंकरणो दन्तो दंशः खादन-मल्लकौ । ;l{5205} खरुः सीरी द्विजो जृम्भ - दशनौ न स्त्रियौ रदः ॥ १६ ॥ रदनो रागचूर्णश्च हालुः स्याद्रुचकं तथा । दन्तूलो दन्तवान्राजदन्तौ मध्यगताविमौ । दाढा दंष्ट्राथ मिथुने काकुः स्याद्रसना न ना ॥ १७ ॥ रसा रसज्ञा रसना जिह्वा लोला च सा मता । ;l{5210} लम्बिका घण्टिका कण्ठशुण्डिका च सुधास्रवा ॥ १८ ॥ ;p{0221} काकुदन्तालु युग्ये तु मौलिर्मस्तकमस्त्रियाम् । मस्तिकं चोत्तमाङ्गं कं वराङ्ग - शिरसी शिरः ॥ १९ ॥ शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् । चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥ ;l{5215} अस्रो हलो वेल्लिताग्रस्तीर्थवाप(क)श्च कुन्तलः । शिरोरुहः शिरसिजः कचो वालस्तु न स्त्रियाम् ॥ २१ ॥ तद्वृन्दे कैशिकं कैश्यमथ केशादितः परः । पाशः पक्षश्च हस्तश्च कलापो भार उच्चयः ॥ २२ ॥ रचना चेति केशानां भूयस्त्वप्रतिपादकाः । ;l{5220} अलको[88b]ऽस्त्री कर्करालः खंखरश्चूर्णकुन्तलः ॥ २३ ॥ भाले त्वस्त्री भ्रमरकः कुरलो भ्रमरालकः । कबरी केशवेषोऽथ धम्मिल्लः संयताः कचाः । वेणिः प्रवेणिः शीर्षण्य-शिरस्यौ विशदे कचे । केशेषु वर्त्म सीमन्तः शिखा तु स्याच्छिखाण्डिका ॥ २५ ॥ ;l{5225} चूडा केशी केशपाशी जुटकं च शिखण्डिका । बालानां काकपक्षोऽसौ शिखण्डक-शिखाण्डकौ ॥ २६ ॥ ...........स्ता जटा च सटा द्वयोः । जटालस्तद्युतः क्षेपे त्रिषु जूटः पुनर्नरि । जटुकं कवरोऽक्लीबे कक्षागुह्यकठा ( चा? ) जटाः ॥ २७ ॥ ;l{0230} तनूरुहं लोम रोम न स्त्री तु श्मश्रु दाढिका । दंष्ट्रिका मासुरी नव्या कूर्चोऽस्त्री चिबुकस्थिते ॥ २८ ॥ लोमस्वङ्कुरितेषु द्वौ हृषिता हृष्ट इत्यपि । लोमशो रोमशो रोमसंयुक्तः पञ्च भेद्यवत् । ;p{0222} रसासृङ्मांस-मेदोऽस्थि-मज्ज-शुक्राणि धातवः । ;l{5235} सप्त वा दश चैकेषां रोमत्वक्स्ना[89a]युभिः सह ॥ २९ ॥ रस आहारजन्माग्निसंभवः षड्रसासवः । आत्रेयोऽसृक्करो धातुर्घनमूलो(ल)महापरः ॥ ३० ॥ रुधिरे रक्त - कीलाल - तेजोज - रसजानि च । आत्मजं देहजं तिग्ममस्रं लोहितमस्त्रियाम् ॥ ३१ ॥ ;l{5240} मांसकृच्छोणितमसृग्वाशिष्टं प्राणदं तथा । आसुरं क्षतजन्माथ क्रव्यं पललमस्रजम् ॥ ३२ ॥ पिशितं तरसं कीनं मेदस्कृत्काश्यपं तथा । जरूथमुद्धसं तेजोभवं जङ्गलमस्त्रियाम् ॥ ३३ ॥ पलमांसामिषाण्यस्त्री तन्त्रादौ पिशिमाविषम्(?) । ;l{5245} त्रिषु वल्लूरमुत्तप्तं शष्कुली शुष्कमामिषम् ॥ ३४ ॥ अपि सा मिथुने वृक्का - बुक्कानौ बुक्कमग्रिमे । सुरसं चाथ तद्वल्ल्यः पेश्यो नारीभगादिजाः ॥ ३५ ॥ दन्तमांसे तु वेला स्त्री पूयो दूष्यं नपुंसकम् । वसा शुद्धामिषस्नेहोऽथान्तिमे मेद-मेदसी ॥ ३६ ॥ ;l{5250} गौतमं मांसजं तेजःसंभवं च वपा च सा । मस्तिष्कोऽस्त्री शिरःस्नेहो मस्तु[89b]लुङ्गक इत्यपि ॥ ३७ ॥ गोर्द्द-गोदे अस्त्रि कुल्यं भारद्वाजं च मज्जकृत् । मांसपित्तं च मेदोजं तेजोजं चास्थिसंभवम् ॥ ३८ ॥ कि(की)कसं श्वप्रियं सारः कर्करस्तरुणं तु तत् । ;l{5255} ग्रीवाकर्णघ्राणनेत्रकोशजं वलयं पुनः ॥ ३९ ॥ स्यात्पर्शुका पृष्ठपार्ष्णिपछलाकानिबन्धजम् । नितम्बतालुशङ्खांसशिरोजान्वंसगण्डजे ॥ ४० ॥ ;p{0223} कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः । रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः । ;l{5260} शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः । भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् । शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥ कशारुका न ना पार्श्वास्थनि स्तो वङ्क्रि-पर्शुके । पार्श्वं तु पर्शुकावृन्दे पृष्ठग्रन्थौ गडुः पुमान् ॥ ४३ ॥ ;l{5265} न क्लीबे मज्ज-मज्जे स्तः शुक्रकृत्कौशिकोऽस्थिजः । अस्थि स्नेहोऽप्यथो शुक्र-रेत-रेतांसि मज्जजम् ॥ ४४ ॥ इ[90a]न्द्रियं बीजमानन्दप्रभवं किट्टवर्जितम् । प्रधानं पौरुषं पुंस्त्वं गर्भकृद्धातुरित्यपि ॥ ४५ ॥ बलं वीर्या न ना वध्रं त्वक्त्वचासृग्धरा शिपिः । ;l(5270} कृत्तिश्छविश्छादनी च त्वचो ना चर्म चाजिनम् ॥ ४६ ॥ स्पर्शनं चाथ तद्भेदा भासिनी लोहिनी सिता । ताम्रा च वेदिनी रोहिण्यपि मांसधरा तथा ॥ ४७ ॥ लसीका तु त्वग्रसोऽथ धमनिः स्त्री शिरा सिरा । नाडी नाभिगृहा स्नायुः स्त्री स्नसा वस्नसापि सा ॥ ४८ ॥ ;l{5275} कण्डरा*[तु]महास्नायुः किट्टं तु मलमस्त्रियाम् । कफो रसमलः श्लेष्मा बलासः खटकूटवत् ॥ ४९ ॥ शिङ्घाणः स्नेहजन्माथ स्थानभेदात्स पञ्चधा । रसनास्थो बोधकोऽसौ त्रिकस्थस्त्ववलम्बकः ॥ ५१ ॥ शिरःस्थस्तर्पकोऽथामाशयस्थः क्लेदकः कफः । श्लेषकः संधिसंस्थानः श्लष्मलः श्लेष्मणः कफी । ;l{5080} त्रिष्वथासृङ्मलः पित्तमाग्नेयं पललज्वरः ॥ ५२ ॥ ;p{0224} पाचकं पक्तृ पि[90b]त्तं स्यात्पक्वामाशयमध्यगम् । हृद्गतं साधकं तत्त्वामाशयस्थायि रञ्जकम् ॥ ५३ ॥ दृक्स्थमालोचकं त्वक्स्थं भ्राजकं ग्रहणी पुनः । ;l(5285} पाचकस्थाश्रयः सैव कला पित्तधरा स्मृता ॥ ५४ ॥ पक्वाशयादधो नाभेरूर्ध्वं त्वाहृत्स्थलं भवेत् । आमाशयो जरायुस्तु पुंसि गर्भाशयोऽपरा ॥ ५५ ॥ उल्बमस्त्री च कललं शुक्रार्तवघनेऽस्त्रियाम् । मूत्रं वस्तिमलं किट्टोत्थ (?) मनुष्यजलं स्रवः । ;l{5290} प्रस्रावश्च भवेन्मेहोऽथोच्चारावस्करौ समौ । वर्चः पुरीषं लेण्डं च शकृच्छमलमन्तिमे । विष्ठा न स्त्री गूथ-मल-वर्चस्का विड्विषौ न ना ॥ ५८ ॥ मूत्रं विष्ठा वान्तमलौ स्वमला मांससंभवा । दूषीका दूषिका दूषिः पिचण्डी च पिचाटकम् ॥ ५९ ॥ ;l{5295} दृङ्मल कर्णगूथं तु ताक्मं पि ष इत्य । जिह्वामलं तु कुलुकं लाला तु कफकूर्च्चिका ॥ ६० ॥ सृणीका स्यन्दिनी[91a] वक्त्रासवोऽप्यस्यास्त्वतिस्रवः । स्यात्प्रसेकोऽथ शिङ्घाणकुरण्डो नासिकामलम् ॥ ६१ ॥ पिप्पिकं स्याद्दन्तमलं पुष्पिका लिङ्गजं मलम् । ;l{5300} स्वेदो मेदोमलोऽथास्थिमलौ स्तो नख-रोमणी ॥ ६२ ॥ स्नेहोऽक्षित्वग्विशां मज्जो मलोऽथौजश्च रेतसः । शुक्रशोणितसंयोगे प्रकृतिर्दोषभूयजा ॥ ६३ ॥ वेषोऽस्त्री वेश आकल्पो नेपथ्यं प्रतिकर्म तु । प्रसाधनं मण्डनं च भूषितस्तु प्रसाधितः ॥ ६४ ॥ ;l{0225} विभूषितोऽलंकरिष्णुरलंकर्ताप्यलंकृतः । ;l{5305} परिभूषित-विभ्राजौ रोचिष्णुर्मण्डितस्तथा ॥ ६५ ॥ भ्राजिष्णुर्भूषिताद्याः स्युरेकादश विशेष्यगाः । अलंकारः परिष्कारो मण्डयन्तोऽप्यलंक्रिया ॥ ६६ ॥ मण्डनाभरणे न स्त्री भूषणं तद्धिरण्मयम् । ;l{5310} हैमं च भेद्यवच्चूडामणिस्तु स्याच्छिरोमणिः ॥ ६७ ॥ न स्त्री किरीट-कोटीरोष्णीषाणि मुकुटं तथा । मकुटं नरि मौलिः स्यात्पत्रपाश्या ललाटिका । [91b]बालपाश्या पारितथ्या शङ्खचर्चापि सा मता । कर्णपूरोऽवतंसोऽस्त्री कर्णिका कर्णभूषणम् ॥ ६९ ॥ ;l{5315} ताटङ्को न स्त्रियां कर्णदर्पणश्च निगद्यते । कुण्डलोऽस्त्री कर्णवेष्टो वाली स्यात्कर्णपृष्ठगा । उत्क्षिप्तिका तु कर्णान्दूः स्त्रियां ग्रैवेयकं पुनः । ताडपत्रं दन्तपत्रमुभयं च समार्थकम् । स्याद्ग्रैवेयं कण्ठभूषा लम्बनं तु ललन्तिका ॥ ७१ ॥ लम्बमाना सा तु हैमी भवेत्प्रालम्बिका स्त्रियाम् । ;l{5320} कन्धरातोरणं कण्ठी स्यादुरःसूत्रिका पुनः ॥ ७२ ॥ मौक्तिद्वंद्वे तु हारः स्यान्मुक्तास्रङ्मौक्तिकावली । मुक्तालता भवेन्मुक्ता प्रालम्बो मध्यगोऽस्य च ॥ ७३ ॥ मणिः स्यात्तरलो मध्यनायकोऽथ सरोलता । ;l{5325} सरिका यष्टिका देवच्छन्दस्तु शतयष्टिकः ॥ ७४ ॥ इन्द्रच्छन्दोऽष्टोत्तरी स्याद्यष्टीनां च सहस्रतः । तदर्द्धं विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ ७५ ॥ भवेद्रश्मिकलापोऽर्द्धहारोऽथ द्वादशोन्मितैः । [92a] तैरर्द्धमाणवोऽथार्द्धगुत्सोऽस्माद्द्विगुणैः सरैः ॥ ७५ ॥ ;p{0226} ;l{5330} गुत्सः सप्ततियष्टिः स्यात्क्वचिद्द्वात्रिंशता सरैः । इतोऽर्द्धतो माणवको मन्दरोऽपि तदर्द्धतः ॥ ७६ ॥ तद्वद्गोस्तन-गोपुच्छावेकावल्येकयष्टिका । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ ७७ ॥ बाहुभूषा खटू[ः] केयूराङ्गदे चाथ न स्त्रियाम् । ;l{5335} षडमी स्युः पारिहार्यः कटको वलयोऽपि च ॥ ७८ ॥ आवापः कङ्कणश्चैव बालकः करभूषणम् । हस्तसूत्रं प्रतिसरस्त्रिषु रात्नं तु पुष्पकम् ॥ ७९ ॥ अङ्गुलीयं तूर्मिका स्याद्वालकोऽपि च न स्त्रियाम् । साक्षराङ्गुलिर्मुद्रा सा स्थासको हस्तबिम्बकः ॥ ८० ॥ ;l{5340} काञ्चिः काञ्ची सिञ्जिनी च रशना रसनापि च । सप्तकी च कलापोऽस्त्री क्लीबे सारसनं तथा ॥ ८१ ॥ शृङ्खला त्रिषु पुंस्कट्यामथ पादाङ्गदं भवेत् । सिञ्जिनी स्यात्तुलाकोटिः स्यात्पादकटकोऽपि च ॥ ८२ ॥ मञ्जीरो हंसको न स्त्री नूपुरश्च तथान्दुकः । ;l{5345} [92b] त्वक्फल-कृमि-रोमाणि चतस्रो वस्त्रयोनयः ॥ ८३ ॥ क्षौमादि त्वङ्मयं वाल्कं क्षौममस्त्री दुकूलकम् । दुगूलकं च चरमे कार्पासं बादरं फलात् ॥ ८४ ॥ कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् । त्रिषु कार्पासादयोऽथ चीर-वासोंशुकानि च ॥ ८५ ॥ ;l{5350} आच्छादनं च वसनं चेलं सिक् नेत्रमस्त्रियाम् । प्रोत-प्राच्छाद-सिचया वस्त्रं शाटकमम्बरम् ॥ ८६ ॥ अस्त्रीण्यथो निष्प्रवाणि तन्त्रकं नाहतं नवम् । पटच्चरं जीर्णवस्त्रं त्रिष्वथो अञ्चलोऽस्त्रियाम् ॥ ८७ ॥ दशा भूम्नि द्वयोश्चाथ वर्तिर्वस्तिर्द्विलिङ्गकः । ;p{0227} ;l{5355} दशा तूली जवनिका शाणी सच्छिद्रवाससि । नक्तकः कर्पटोऽस्त्री स्यात्प्रोतं च पटलं त्रिषु ॥ ८८ ॥ गुणस्तन्तुः सूत्रमस्त्री तत्तु कार्पासजं पिचोः । पिचव्यं त्रिषु तत्साधु धौतकौशेयकं पुनः ॥ ८९ ॥ पत्रोर्णं बहुमूल्यं तु तन्महाधनमन्यवत् । ;l{5360} तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयो[93a]र्युगम् ॥ ९० ॥ पटि त्रिषु सुचेलो ना वराशिः स्थूलशाटकः । स्त्रियां बृहतिका वस्त्रे महीयसि निगद्यते । कुथः कुटार ऊर्णायुः शालूरो रल्लकाविकौ ॥ ९१ ॥ औरभ्रः कम्बलो द्वंद्वे परिस्तोमास्तरौ तथा । ;l{5365} वर्णः प्रवेणिर्नवता सूची-वान-कुथास्त्रिषु ॥ ९२ ॥ निचोलः प्रच्छदपटो निचुलश्चोत्तरच्छदः । अधोंशुकं निवसनमुपसंव्यानमित्यपि ॥ ९३ ॥ परिधानं चान्तरीयं * * * * * * * * । संव्यानमुत्तरासङ्गो भवेद्वृहतिका स्त्रियाम् ॥ ९४ ॥ प्रावारश्चाथ नीशारो हिमानिलनिवारणम् । ;l{5370} नीवी त्वधोंशुकग्रन्थिरुच्चयोऽथ वरस्त्रियाः ॥ ९५ ॥ अर्धोरुकेऽवरे चण्डातकोऽस्त्री चलनश्च सः । अन्यस्याश्चलनी क्षिप्रोढाया आनन्दवस्त्रकम् ॥ ९६ ॥ घर्घरी तु कुमारीणां शाटी चोटी चटी च सा । कच्छा कच्छाटिका कक्षा परिधानापराञ्चले । ;l{5375} कच्छापटोऽस्त्री कौपीनमथ वक्षोम्बरे भवेत् । चोलोऽङ्गिका कञ्चुलिका कूर्पा[93b]सोऽस्त्री च कञ्चुकः ॥ ९८ ॥ बीटीका चोलकग्रन्थिरुष्णीषं पुनरस्त्रियाम् । तिरीटं च शिरोवेष्टः शिरोवेष्टनमित्यपि ॥ ९९ ॥ ;p{0228} ;l{5380} निचोलो वारबाणेऽस्त्री कार्पासस्यार्द्धचोलकः । जङ्घावस्त्रं मङ्क्षणं स्यात्कन्था स्याद्यतिवाससि । चीवरं भिक्षुसंघाटी निवीतं प्रावृतं त्रिषु ॥ ३० ॥ गोमूत्रवर्णं वस्त्रं यत्तद्गोमूत्रकमुच्यते । स चीवरायमाणः स्यादर्जयेच्चीवराणि यः । ;l{5385} स वस्नयंस्तु वस्त्राणि यः समाच्छादयेत्त्रिषु ॥ ३०० ॥ स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् । सर्वाङ्गीणं तु सर्वाङ्गव्यापि वस्त्रादि यद्भवेत् ॥ १ ॥ अस्त्री वितानमुल्लोचः कदर्कः खजकश्च सः । चन्द्रोदयश्चाथ भवेद्दूष्यं वस्त्रगृहं स्थलम् ॥ २ ॥ ;l{5390} अस्त्रियां तुबरं प्रोताच्छादनं कुटरुः पुमान् । केणिका स्यात्पटकुटी भवेद्गुणलयन्यपि ॥ ३ ॥ अवस्तारो जवनिका नीरङ्गिन्यवगुण्ठिका । अपटी प्रतिसीरा च स्यात्ति[94a]रस्करिणी च सा ॥ ४ ॥ प्रतिशीरा काण्डपटो गोणीकण्ठालिकं समे । ;l{5395} जालिकाल्पा तु सा गोणीतरी गोणितरी तथा । प्रसाधनं तु चरमे परिकर्माङ्गसंस्क्रिया ॥ ५ ॥ मृजा मार्ष्टिर्मार्जना स्यादभ्यङ्गस्तैललेपनम् । मूर्धतैलं शिरोबस्ति पिच्छ( ष्टा ? )भ्यङ्गैः ससिञ्चनैः ॥ ६ ॥ उद्वर्त्तनोत्सादने द्वे तत्रोच्छादनमित्यपि । ;l{5400} जिल्यु (?) द्वर्त्तिर्मल पिण्डमाप्लावस्त्वाप्लवो नरि ॥ ७ ॥ भवेदभिषवः स्नानं मज्जनं च समार्थके । जेन्ताकस्तु भवेत्सेको य उष्णोदकनिर्मितः । विलेपनं त्वङ्गरागो वर्णको न स्त्रियामथ । ;p{0229} गात्रानुलेपनी वर्तीरनुबोधः प्रबोधनम् ॥ ९ ॥ ;l{5405} विच्छित्तिः स्त्रीसमालम्भश्चर्चा चर्चिक्यमित्यपि । पत्रलेखा पत्रभङ्गिर्मकरी पत्रवल्लिका ॥ १० ॥ पत्राङ्गुलिश्च माढिश्च मालुरस्त्री विशेषकः । तमालपत्रं पुण्ड्रश्च चित्रकं तिलकोऽस्त्रियाम् ॥ ११ ॥ कश्मीरजन्म घुसृणं वर्णं बाह्लीक - बाह्लिके । ;l{5410} कालेयं[94b] जागुडं चाग्निशिखं च कुसुमान्त(त्म)कम् ॥ १२ ॥ केसरं किसरं वेरं पीतकं पीतनं वरम् । असृग्रक्ताम्बरं न स्त्री कुङ्कुमं हरिचन्दनम् ॥ १३ ॥ संकोचं पिशुनं धीरं दीपनं रक्तचन्दनम् । कस्तूरिका गन्धधूलिर्मृगनाभिर्लताण्डजा ॥ १४ ॥ ;l{5415} स्यादेणनाभिजा दर्पो मदोऽसौ गन्धशेखरम् । मार्जारी वेधमुख्या च मदनी च निगद्यते ॥ १५ ॥ कर्पूरोऽस्त्री चन्द्रनामा घनसारः सिताभ्रकः । रेणुसारो वेधकं च तथैव रसकेसरम् ॥ १६ ॥ हिमभस्म हिमाह्वं च स्त्रियां तु हिमवालुका । ;l{5420} गोरोचना रोचना स्याद्गोपित्तं च प्रकीर्तितम् । कर्पूरागरुकस्तूरीकङ्कोलैर्यक्षकर्द्दमः ॥ १७ ॥ पुरसर्जाभया लाक्षी शठी नखजटानतैः । स शैलेयैः समधुभिर्धूपः कामशरो मतः ॥ १८ ॥ स्थानात्स्थानान्तरं गच्छन्धूमो गन्धपिशाचकः । ;l{5425} तरूणां प्रसवाधायी भवेद्दोहदधूपकः । चूर्णोऽस्त्री वासयोगाः स्युर्भावितं वासितं त्रिषु । पिष्टातः पटवासः[95a] स्यादुद्य(?)लिप्तक इत्यपि ॥ १९ ॥ संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ २० ॥ माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः । ;l{5430} मालावान्मालिको माली मालभारी दधत्स्रजम् ॥ २१ ॥ ;p{0230} पद्ममालाधरः पद्ममालभारी निगद्यते । स्रगस्ति यस्य स स्रग्वी स्रजीयांस्तु स्रजिष्ठवत् ॥ २२ ॥ माला*[वा]नपि मालिष्ठः स्रग्विणोऽतिशये त्रिषु । प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ २३ ॥ ;l{5435} प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् । यत्तिर्यक् क्षिप्तमुरसि शिखासु स्त्री न शेखरः ॥ २४ ॥ अवतंसस्तथोत्तंसो नरि त्वापीड उच्यते । उच्छीर्षकं तूपधानमुपबर्हश्च गण्डुकः ॥ २६ ॥ ;l{5440} संस्तर-प्रस्तरौ तुल्यावासन्दी लघुखट्विका । निषद्याथो मञ्चकः स्याच्छयनं तल्पमस्त्रियः ॥ २७ ॥ मञ्च - पर्यङ्क - पल्यङ्क - कर्णवंश्या नृलिङ्गकाः । शयनीयं च तलिमं नैर्यूहो गजदन्त[95b]जः ॥ २८ ॥ तन्मण्डपस्तु कुद्रङ्कः शय्या स्यात्खट्वया समा । पर्यङ्किका बालशय्या महाशय्या तु भूपतेः ॥ २९ ॥ ;l{5445} खट्वैकदेशो मार्जारोऽस्त्रियां त्वासन - विष्टरे । पीठं नपुंस्यथौशीरमेकोक्त्या शयनासने ॥ ३० ॥ पादपीठं फलहकः पादपः पादुकापि च । आसन्दी वेत्रपीठं स्याल्लोचकं कज्जलाञ्जने । दीपोऽस्त्रियां प्रदीपश्च दशाकर्षी दशेन्धनः ॥ ३१ ॥ ;l{5450} जटाज्वालो गृहमणिर्द्योतनोऽञ्जनकेतनः । स्नेहप्रियोऽथास्य पात्रं कोशिका मल्लिका द्वयोः ॥ ३२ ॥ तदाधारस्थलं पूषी ताम्बूलं मुखवासनम् । चर्वितेऽस्मिन्नवेला स्त्री स्यादावेलो नृलिङ्गकः ॥ ३३ ॥ ;p{0231} फरूबकं पूगपात्रं पर्कटी पूगकर्त्तकः । स्यात्ताम्बूलकरङ्कश्च स्थगी ताम्बूलभाजनम् ॥ ३४ ॥ ;l{5455} ताम्बूलदो वागुरिकः * * * [ताम्बूल]पिटकस्त्रिषु । स्त्रियौ तु पेटा-मञ्जूषे पुटकं पुस्तकादिभृत् । वंशजे भाजने पिण्ड-कण्डोलौ पिटक[96a]स्त्रिषु । समुद्गकः संपुटकः प्रसेवः स्यूत इत्यपि । ;l{5460} कटस्त्रिषु किलिञ्जो नासने वीरणनिर्मिते । कटकोणः(लः) प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः ॥ ३६ ॥ प्रोन्दुकः पालमप्यन्त्ये कङ्कतस्तु त्रिलिङ्गकः । प्रसाधनः केशमृट् च स्यादादर्शस्तु दर्पणः ॥ ३७ ॥ स्युरात्मदर्श - मुकुर - मकुराः कर्करो दृढः । ;l{5465} यथामुखीनस्त्रितये स यथामुखदर्शनः ॥ ३८ ॥ एवं स्यात्संमुखीनेऽथ न स्त्री भ्रमरको गुडः । गिरिर्गुडेरो गण्डोलो गडोलोऽस्त्री तु कन्दुकः ॥ ३९ ॥ गेन्दुकोऽप्यस्य व्युतादानं(?) क्रीडावीटा तु पच्छिका । (?) ;c{इति नृवर्गः ।} वंशोऽन्ववायः संतानोऽन्वयश्चाभिजनः कुलम् । ;l{5470} गोत्रं च जननं जातिः संततिश्च समार्थकाः ॥ १ ॥ वंश्यः कौलेयकः कौलः कुलीनो वीज्य - गोत्रजौ । महाकुलीनस्तु महाकुलो माहाकुलीनवत् ॥ २ ॥ सभ्य-साधू सज्जनार्यौ समौ पार्षद्य-पार्षदौ । पारिषद्यः पारिषदो भवेद्दुष्कुलजः पुनः ॥ ३ ॥ ;l{5475} [96b]दौष्कुलेयो दुष्कुलीनः पांसनेऽमी विशेष्यगाः । ;p{0232} वर्णा नरि ब्राह्मणाद्याश्चातुर्वर्ण्यं पुनः स्मृतम् ॥ ४ ॥ विप्र-क्षत्रिय - विट् - शूद्रास्ते त्वशूद्रा द्विजा मताः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ६ ॥ आश्रमोऽस्त्री ब्राह्मणस्तु विप्र - भूदेव - वाडवाः । ;l{5480} द्विजो द्विजातिर्मुखजोऽग्रजन्मा चाग्रजातिवत् ॥ ७ ॥ वर्णज्येष्ठो वेदगर्भः सूत्रकण्ठस्त्रयीमुखः । कजो मित्रश्च सावित्रो ब्रह्मा चैतश एतशाः ॥ ८ ॥ शमीगर्भश्च यागादियुक्तः षट्कर्मा * * * * * । * * * * * * * * सोमपीथी स सोमपाः । ;l{5485} ब्रह्मण्यं स्याद्ब्रह्महितं विशेष्यसमलिङ्गकम् । ब्राह्मणौघे तु वाडव्यं ब्राह्मण्यमपि चान्तिमे ॥ ९ ॥ भवेद्ब्राह्मणजातीयो ब्राह्मणत्वसमन्वितः । असावग्निष्टोमयाजी सोमयाजी च सोमसुत् । जातिविप्रो ब्रह्मबन्धुः कुब्रह्मो ब्राह्मणब्रुवः ॥ ९ ॥ ;l{5490} कुब्रह्माथ महाब्रह्मो महाब्रह्मा स वन्दितः । सुराष्ट्रब्रह्म-सौ[97a]वीरब्रह्मौ स्तो देशनामतः ॥ १० ॥ बटुस्तु स्यान्माणवकः स कृतोपनयो भवेत् । उपनायस्तूपनयो बटूकरणमानयः ॥ ११ ॥ भद्राकृतिः स्त्रियां मद्राकृतिश्चूडाकृतिः स्त्रियः । ;l{5495} मङ्गल्यमुण्डनं चूडाकरणं चौलमित्यपि । अग्नीन्धनं त्वग्निकार्यमाग्नीध्रा चाग्निकारिका ॥ १२ ॥ स्याद्विधामघवन्नित्यादिक ऋग्ब्रह्मचर्यवान् । वटुर्माहानाग्निकोऽत्र माहानामिक एव च । वर्णी तु ब्रह्मचारी स्याद्भिक्षा स्याद्ग्रासमात्रकम् । ;l{5500} भैक्षं भिक्षासमूहे स्यादथ संस्कारपूर्वकम् ॥ १३ ॥ ;p{0233} उपाकर्मोपाकरणं गुरुतो ग्रहणं श्रुतेः । स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ १४ ॥ पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः । ध्यानयोगासने ब्रह्मासनमध्ययनं पुनः ॥ १६ ॥ ;l{5505} अधीतिः पठनं पाठो निपठश्च निपाठवत् । पाठे शिष्योपदेशार्थे निगाद-निगदौ समौ । साग्नि क्लीबाव्ययं तत्स्याच्चेदग्नि[97b]ग्रन्थिसीम तत् ॥ १७ ॥ ब्रह्मोद्यं ब्रह्मवद्यं च वेदप्रवचनं समम् । *यतिः पाठविच्छेदो ब्रह्मारण्यं तु पाठभूः । ;l{5510} साकल्यवचनं पारायणं कल्पो विधिक्रमौ ॥ मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ॥ १८ ॥ पठिताभ्यसनेऽभ्यासो योग्या च गुणनी स्त्रियौ ॥ १९ ॥ गर्भाधानादिसंस्कारकारी गुरुरुदीरितः । मन्त्रव्याख्याकृदाचार्य ईष्व इष्वोऽथ पाठकः ॥ २० ॥ ;l{5515} उपाध्यायोऽध्यापकः स्याच्चक्षाश्च कवरः समाः । व्यापारितः ससत्कारं मासं सद्मालिक(?)स्त्रिषु ॥ २१ ॥ छात्रान्तेवासिनौ शिष्यो विनेयश्च समार्थकः । शिष्योपाध्याययोर्द्वंद्वे शैष्योपाध्यायिका स्त्रियाम् । निशाध्ययनमस्यास्ति सोढं नैशः स नैशिकः ॥ २२ ॥ ;l{5520} अपपाठो यस्य वृत्तो भवेदेकः परीक्षणे । ऐकान्यिकः स शिष्यः स्यादेवं द्वैयान्यिकादयः ॥ २३ ॥ यो द्वितीयादिरूपेण ग्रन्थं गृह्णाति स द्विकः । द्वितीयकश्चाथ त्रिकः स तृतीयक [98a] इत्यपि ॥ २४ ॥ द्विकादयस्तु ग्रहणे ग्रन्थस्य क्लीबलिङ्गकाः । ;l{5525} अघीयन्स्यादकृच्छ्रेण पठंस्तद्वत्तु धारयन् । ;p{0234} चतुर्दश्यां श्मशाने वा योऽधीते ब्राह्मणः श्रुतिम् । चातुर्द्दशिक उक्तोऽसौ तथा श्माशानिकस्त्रिषु ॥ २३ ॥ पारायणं वर्त्तयेद्यः स पारायणिकस्त्रिषु । येनाधीतमधीती स शैक्षः प्राथमकल्पिकः ॥ २४ ॥ ;l{5530} अनूचानो गणिः पुंसि योऽधीती साङ्ग आगमे । स्यात्पारंपर्यमाम्नायः संप्रदायो गुरुक्रमः ॥ २५ ॥ एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः । सतीर्थ्यास्त्वेकगुरवो लब्धानुज्ञस्तु यो गुरोः ॥ २६ ॥ समावृत्तः स्नातकस्तु यो भवेदाप्लुतो व्रती । ;l{5535} गर्भाधानादिसंस्कारैर्युक्तोऽसौ संस्कृतस्त्रिषु । अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ २७ ॥ अजपस्त्वसदध्येता शाखारण्डो [ऽप्य ]शाखकः । निराकृतिर्वेदहीनो नष्टाग्निर्वीरहा भवेत् ॥ २८ ॥ व्रात्यः संस्कारहीनः स्यादवकीर्णी क्षत[98b]व्रतः । ;l{5540} गृही ज्येष्ठाश्रमी सत्री गृहपाय्यो गृहस्थवत् । गृहमेधी गृहपतिर्गृही च * गृहाधिपः ॥ २९ ॥ पुंस्युपाधिस्तथाभ्यागारिकः सोऽतिकुटुम्बकः । व्रतसंग्रहणं दीक्षाथादिष्टी क्रतुषु व्रती ॥ ३० ॥ यजमाने यष्टा यह्वो दस्मो याजकृदुक्थशाः । ;l{5545} सोमयाजी दीक्षितः स्याद्दीक्षिता तत्क्रतुव्रती ॥ ३१ ॥ आर्त्विजीनस्त्वृत्विगर्हो यज्ञार्हो यज्ञियो मतः । स सोम्यः सोमपानार्हस्त्रैवार्षिकधनो हि यः । ********माहिताग्निश्च साग्निकः । अग्न्याहितोऽप्यथारम्भः उद्घातः प्रक्रमस्तथा ॥ ३४ ॥ ;l{5550} अभ्यादानमुपोद्धातो ज्ञात्वारम्भ उपक्रमः । ;p{0235} प्रत्युत्क्रमः प्रयोगः स्याच्छंयुवाकस्तु शंयुगी ॥ ३५ ॥ वृतिः सुगहना कुम्बो स्यात्स्तम्भे युग-यूपकौ । चषालोऽस्त्री तत्कटको यूपाग्रं नर्म न स्त्रियाम् ॥ ३६ ॥ यज्ञः सवोऽध्वरो यागो वसुरोचिर्मखः क्रतुः । ;l{5555} मन्युः स्तोमः संस्तरश्च संचाय्यः सप्ततन्तुकः ॥ ३६ ॥ बर्हिर्वितानमस्त्री स्या[99a]त्सत्रमिज्याथ यज्ञियम् । यज्ञकर्मोचितमथ कुण्डपाय्यः ससोमकः ॥ ३७ ॥ सौमिकी-दीक्षणीयेष्टि-ज्योतिष्टोमाः समार्थकाः । अग्निष्टोमश्च तद्भेदा राजसूयं न योषिति ॥ ३८ ॥ ;l{5560} वाजपेयं चाश्वमेधो नरमेधादयोऽपरे । दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ॥ ३९ ॥ वैतानिकाः श्रौतयज्ञाः स्मार्ता गृह्याः प्रकीर्तिताः । स्थालीपाकः पार्वणः स्यादग्निहोमयुताहुताः ॥ ४० ॥ प्रहुता बलिहृत्याद्याः स्युर्ब्रह्मणि हुताः पुनः । ;l{5565} विप्रभोजनसंयुक्ताः पाकयज्ञास्त्रयोऽप्यमी ॥ ४१ ॥ श्रुतिपाठो ब्रह्मयज्ञो देवयज्ञोऽनले हुतिः । बलिदानं भूतयज्ञः पितृदानं पितृक्रतुः । निवापः पिण्डदानं च श्राद्धं तर्पणमित्यपि ॥ ४२ ॥ नृयज्ञोऽतिथिसंतृप्तिः पञ्चामी स्युर्महामखाः । ;l{5570} होमो होत्रं वषट्कारो हुतिराहुतिरित्यपि ॥ ४३ ॥ दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु । स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् । समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥ आस्थाऽऽस्थानी-परिषदः समज्या गोष्टिका च सा । ;l{5575} आस्थानं च सदः पुंसि स्त्रीनपुंसकयोः सदः ॥ ४५ ॥ ;p{0236} पर्षद्वलाः सभासूराः सदस्या विधिदर्शिनः । सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ ४६ ॥ होत्रा स्त्री(?) यजनाचार्य-ऋत्विगृक्षर-याज्ञिकाः । स्तीर्विर्यजुर्विदध्वर्युरविनः कठयज्युवत् ॥ ४७ ॥ ;l{5580} अध्वर्योरिदमर्थे स्यादाध्वर्यवमिति त्रिषु । होता ऋत्विगथोद्गाता भवेत्सामग उक्थशाः । समग्रवेदविद्ब्रह्मा ब्रह्मत्वं तस्य कर्मणि ॥ ४८ ॥ आग्नीध्रो * ग्निमिन्धे * भेदाः पोत्रादयोऽपरे । द्वंद्वे तु होतापोतारावथ निर्मन्थदारुणि ॥ ४९ ॥ ;l{5585} द्वंद्वेऽरणिर्गार्हपत्यो नर्यो गृहपतिश्च सः । शंस्य आहवनीयः स्यादथर्य्यो दक्षिणानलः ॥ ५० ॥ अग्नित्रयमिदं त्रेता प्रणीतः [100a] संस्कृतोऽनलः । समूह्य-परिचाय्योपचाय्या अग्निधृतिस्थले ॥ ५१ ॥ अनार्य्यो दक्षिणाग्निर्यो संततोपचितोऽनलः । ;l{5590} चित्यः स्त्रियां त्वग्निचित्या यदग्नेश्चयनं भवेत् ॥ ५२ ॥ धाय्या तु सामिधेनी स्यादग्नेर्या * [ऋक्] समिन्धनी । अग्न्याधानं त्वग्निहोत्रमग्निरक्षणमित्यपि ॥ ५३ ॥ हवनी होमकुण्डं स्याद्धुतं त्रिषु वषट्कृतम् । होमाग्निस्तु महाज्वालो महावीरः प्रवर्गकः । ;l{5595} होमधूमस्तु निगणो होमभस्म तु वैष्टुतम् ॥ ५४ ॥ समिद्भस्म तु रक्षा [क्षा]रो भूतिर्भसितमित्यपि । परंपराकं शसनं प्रोक्षणं च पशोर्वधः ॥ ५५ ॥ ;p{0237} उपलम्भ्यः प्रशंस्योऽसावथालम्भ्यो वधोचितः । प्रमीत उपसंपन्नः प्रोक्षितश्च विशेष्यवत् ॥ ५६ ॥ ;l{5600} हविर्होम्यं च सांनाय्यं हव्यपाके चरुः पुमान् । होत्रं च तत्र पक्वे स्यात्तत्पात्रेऽपि भवेच्चरुः ॥ ५७ ॥ व्रीहीणां तु पुरोडाशो भवेद्व्रीहिमयो हि सः । अद्ग[100b]स्तृप्रः पुरोडाशो कपालेष्वष्टसु ह्यसौ । संस्कृतोऽष्टाकपालोऽथ तप्तक्षीरगतं दधि । ;l{5605} स्यादामिक्षा क्षीरसरः पयस्या मस्तु वाजिनम् ॥ ५८ ॥ हव्यं यद्देवदेयं स्यात्कव्यं पित्र्यमिमे समे । आज्ये तु दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ ५९ ॥ दध्ना युते मधुन्यस्त्री मधुपर्क्कं महोदयः । यज्ञशेषे सुरोच्छिष्टममृतं च प्रकीर्त्तितम् ॥ ६० ॥ ;l{5610} त्रिषु सा देवता यस्येत्यर्थेऽपोनप्त्रियं हविः । अपोनप्त्रीयमेवं स्यादपांनप्त्रियमित्यपि ॥ ६१ ॥ अपांनप्त्रीयमप्युक्तं यद्दैवतमपोनपात् । अपांनपात्क्रमाच्चाथ पिङ्गाक्षीपुत्रदेवतम् ॥ ६२ ॥ हविः पैङ्गाक्षीपुत्रीयमथ द्यावापृथिव्यवत् । ;l{5615} सा द्यावापृथिवी पञ्च भवेत्तद्दैवतं हि यत् ॥ ६३ ॥ गृहमेध्यं तु तद्दैवं गृहमेधीयमित्यपि । माहाराजिकमेवं स्याद्यन्महाराजदैवतम् ॥ ६४ ॥ आमिक्षीयं तथामिक्ष(क्ष्य)मामिक्षार्थे हितं हि यत् । तथैव स्यात्पुरोडाश्यं पुरोडाशीय[101a]मित्यपि ॥ ६५ ॥ स्रुवादीनि तु पात्राणि स्रुवोऽङ्गुष्ठबिलो नरि । ;l{5620} स्रुक् स्त्रियामुत्तरा त्वेषा जुहूः सा त्वल्पिकाऽधरा ॥ ६५ ॥ ;p{0238} उपभृत्स्याद्ध्रुवा तु स्याज्जुह्वाज्याप्यायिका हि या । सा भवेत्स्वयमातृण्णा स्वयमन्तर्बिला शिला ॥ ६६ ॥ खड्गप्रतिकृतिः स्फ्यः स्यात्सोमपानस्य भाजने । ;l{5625} चमसस्त्रिषु शम्या तु दृषदानहनी च सा । शम्यायास्तु स्थविष्ठोऽन्तः प्रोच्यते कुम्बमन्तिमे ॥ ६७ ॥ निधनं दर्भमुष्टिः स्यात्प्रस्तरस्तद्विशेषकः ॥ ६८ ॥ जीवतण्डुल उक्तोऽसौ य ईषत्पक्वतण्डुलः । व्रीहीणामवघाते स्यात्फलीकरणमन्तिमे ॥ ६९ ॥ ;l{5630} स्यादाग्निष्टोमिकी राजसूयिकी तस्य तस्य चेत् । दक्षिणीयो दक्षिणार्हस्त्रिषु दक्षिण्य इत्यपि । क्रतुक्रिया भवेदिष्टं पूर्तोऽस्त्री खातकर्म यत् । इष्टापूर्तं तदुभयं दक्षिणा तु क्रतुप्रिया ॥ ७० ॥ वरोऽभीष्टार्थदानं स्याद्दानं तु प्रतिपादनम् । ;l{5635} विश्राणनं वितरणं स्पर्शनं च विहापनम् ॥ ७१ ॥ प्रा[101b]देशनं निर्वपणमुत्सर्जन-विसर्जने । तथापवर्जनं त्याग-विसर्गोत्सर्गकाः समाः ॥ ७२ ॥ अंहतिश्च स्त्रियां तत्तु देवेभ्यः कामसिद्धये । चेद्दिव्यदोहदं तत्स्यादुपयाचितकं च तत् ॥ ७३ ॥ ;l{5640} पूर्णानकं पूर्णपात्रं हर्षाद्वर्द्धापकं च तत् । प्रयत्नेन विना लब्धं स्वस्तिलब्धं विशेष्यवत् ।(?) प्रवारणं काम्यदानं हन्तकारो बलिः समौ । बलेर्हितादौ बालेयं गदितं भेद्यलिङ्गकम् । याथाकथाचं तु यथाकथा चैव प्रदीयते । ;l{5645} प्रावृषेण्यं प्रावृषि यद्देयं शरदि शारदम् ॥ ७४ ॥ ;p{0239} हस्त्यं हस्तेन यद्देयं चत्वारोऽमी विशेष्यवत् । मृतार्थं तदहे दानं त्रिषु स्यादौर्द्ध्वदैहिकम् ॥ ७५ ॥ अन्वाहार्यं मासिकं स्यात्पार्वणं दार्शिकं समे । नान्दीश्राद्धं वृद्धिहेतुः श्राद्धं श्रद्धायुतं त्रिषु ॥ ७६ ॥ पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा । ;l{5650} सनिस्त्वध्येषणा च स्यात्पूज्यानां याग्रतोऽर्थना ॥ ७७ ॥ विज्ञप्तिः स्याद्विज्ञपकं विनयात्प्रा[102a]र्थनं हि यत् । विनयः स्याद्वैनयिकः प्रश्रयः प्रणयश्च सः । याच्ञार्थना याचना स्यादर्दनाध्येषणैषणा ॥ ७८ ॥ भिक्षाभिशस्तिः प्रणयोऽथार्घ्यमर्घार्थमम्बु यत् । ;l{5655} पाद्यं पादार्थकं वारि स्यादथाचमनार्थकम् ॥ ७९ ॥ भवेदाचमनीयं च तद्वत्स्नानीयमित्यपि । आतिथ्यमातिथेयी च स्यादावेशिकमित्यपि । अभ्यागतः प्राघुणः स्यादागन्तुश्च गृहागतः । ;l{5660} प्राघूर्णकावेशिकौ चातिथिर्नार्घ्यादयोऽन्यगाः । सूर्योढस्त्वस्तगे भानौ यः प्राप्तो गृहिणो गृहम् । पूजार्हणा सपर्यार्च्चा नमस्यापचितिः स्त्रियाम् ॥ ८२ ॥ नमस्कारो नतिः पादग्रहणं चाभिवादनम् । नमस्क्रिया वन्दना च प्रणाम उपसंग्रहः ॥ ८३ ॥ ;l{5655} प्रणिपातस्त्वनुनयः प्रणतिः स्त्री क्षमापणम् । वरिवस्या तु शुश्रूषा परिचर्या प्रसादना । आराधनोपासना च परीष्टिर्भक्तिरित्यपि ॥ ८४ ॥ सेवोपास्तिश्च भजनं सेवनं चाप्युपासनम् । उपचर्योपचारोऽथ प्रतिपत्तिश्च गौ[102b]रवम् ॥ ८५ ॥ ;l{5670} अभ्युत्थानं च सत्कारः सन्मानश्च सभाजनम् । ;p{0240} व्रज्याटाट्या पर्यटनमट्याप्युक्ता स्त्रियामिह ॥ ८६ ॥ परिव्रज्या व्रतादानं चर्या त्वीर्यापथे स्थितिः । इर्या तपस्या संबोधमार्गश्च नियमस्थितिः ॥ ८७ ॥ आनुपूर्व्यं त्वानुपूर्वी-परिपाट्यावृतः स्त्रियः । ;l{5675} क्रमानुक्रम-पर्याया अतिपातस्त्वतिक्रमः ॥ ८८ ॥ पर्यायोपात्ययौ चाथ व्यत्ययः स्याद्विपर्ययः । व्यत्यासश्च विपर्यासो व्युत्क्रमश्चोत्क्रमश्च सः । प्रायश्चित्तिः स्त्रियां प्रायश्चित्तं पापनिबर्हणम् ॥ ८९ ॥ उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् । ;l{5680} हृदि साक्षात्कृतिर्ध्यानं धारणा चित्तबन्धनम् ॥ ८८ ॥ प्राणायामः प्राणयमो निःश्वासोच्छ्वासरोधनम् । प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यो विकर्षणम् ॥ ८९ ॥ मोक्षोपायो भवेद्योगो नियमो व्रतमस्त्रियाम् । पुण्यकं चाथ न स्त्री स्यादौपवस्त्रमुपोषणम् ॥ ९० ॥ ;l{5685} उपवासोऽथ कृच्छ्रं स्याद्व्रतं सांतप[103a]नादिकम् । संसि(शि)तं तु व्रतं सम्यक्तया निष्पादितं हि यत् । व्रते तु यत्नवान्नो(न्यो)हि संशितो भेद्यलिङ्गकः । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ९१ ॥ नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् । ;l{5690} सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ९२ ॥ उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे । प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ९३ ॥ यज्ञोपवीतपीठे स्याच्चातुलश्च मधूरकः । पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥ ९४ ॥ ;p{0242} ;l{5695} आश्वत्थो जितनेमिः स्यादौदुम्बर उलूखलः । बैल्वः सारस्वतो रौच्यः पैलवस्त्वौपरौधिकः । कुण्डी कमण्डलुर्न स्त्री व्रतिनामासनं वृषी ॥ ९६ ॥ वृसी च कृत्तिस्त्वजिनं चर्म च व्रतिवाससि ॥ ९७ ॥ अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूलेकायम् । ;l{5700} मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ॥ ९८ ॥ करमध्ये तु सौम्यं स्याद्वानप्रस्थस्त्वरण्यगः । वैखानसोऽप्य[103b]थो भिक्षुर्भवेत्सांन्यासिको यतिः ॥ ९९ ॥ पाराशरी च कर्मन्दी परिव्राण्मस्करी च सः । पारिरक्षक - निर्ग्रन्थ - पारिकाङ्क्षि-तपस्विनः ॥ १०० ॥ ;l{5705} नीवरो रक्तवसन - परिव्राजक - तापसाः । साधन्तश्च भदन्तः स्यादथ वाचंयमो मुनिः ॥ १ ॥ तपःक्लेशसहो दान्तः शान्तः श्रान्तो जितेन्द्रियः । यतिर्यती स्थाण्डिलस्तु व्रतात्स्थण्डिलशायिनि ॥ २ ॥ द्वयातिगः सात्त्विकः स्याद्यो भवेद्विरजस्तमाः । ;l{5710} ऋषयः सत्यवचसः सात्वन्तो ब्रह्मतत्पराः ॥ ३ ॥ योगाय यौ प्रभवतस्त्रिष्विमौ योग्य-यौगिकौ । पवितः प्रयतः पूतः पवित्रः पावनः शुचिः । मेध्यः पुण्योऽथ वाल्मीकि - वाल्मीक - कुशिनः कविः ॥ ४ ॥ प्राचेतसश्च वल्मीको मैत्रावरुण इत्यपि । ;l{5715} त्रिशङ्कुयाजी गाधेयो विश्वामित्रश्च कौशिकः ॥ ५ ॥ व्यासस्तु माठरः कृष्णः कानीनो वादरायणः । पाराशर्यः सत्यवतीसूनुर्वैयासिकिः शुकः ॥ ६ ॥ व्यासमाता सत्यवती वासवी ग[104a]न्धकालिका । सालङ्कायनजा दाशेयी च योजनगन्धिका ॥ ७ ॥ ;p{0242} ;l{5720} कुशारणिस्तु दुर्वासाः शतानन्दस्तु गौतमः । राहुलो गौतमस्तस्य त्वहल्या कामिनी भवेत् । भवेद्व्याडिर्विन्ध्यवासी नन्दिनीतनयश्च सः ॥ ८ ॥ स्फोटायनस्तु कक्षीवान्पालकाप्यः करेणुभूः । कौटिल्यनामा चाणक्योऽशमिलो विष्णुगुप्तकः ॥ ९ ॥ ;l{5725} अङ्गुलः पक्षिलः स्वामी कौण्डिन्यश्च स कथ्यते । उपव[र्षो]हलभृतिर्जोटिङ्गस्तु महाव्रती ॥ १० ॥ वात्स्यायनो मल्लिनागः कणादः कश्यपो मतः । याज्ञवल्क्यो यज्ञरात्रिर्योगीशो ब्रह्मवित्तमः । यास्को निरुक्तकारी स्यात्कृशाश्वो नटसूत्रकृत् । ;l{5730} शालिहोत्रोऽश्विनीजन्मा तद्भेदा अङ्गिरा भृगुः ॥ ११ ॥ गर्गो नडो भरद्वाजः शङ्खो लिखित इत्यपि । अग्निवेशः सुश्रुतश्च खारणादिः पराशरः ॥ १२ ॥ गौतमश्च जरत्कारुरसितो बहवोऽपरे । गर्गस्यान[104b]न्तरापत्ये गार्गिर्नाडिर्द्ध(र्न)डस्य च ॥ १३ ॥ ;l{5735} तयोस्तु गोत्रापत्ये स्याद्गार्ग्यो नाडायनः क्रमात् । गार्गी नाडायनी च स्यात्स्त्र्यपत्ये ह्यनयोः क्रमात् । पुमपत्ये तु गर्गस्य गार्ग्यायण उदीरितः ॥ १४ ॥ नाडायनिर्नडस्य स्यात्स्त्र्यपत्ये पूर्ववद्द्वयम् । स्याच्छौनकायनो वात्स्यः शौनकोऽन्य उदीरितः ॥ १५ ॥ ;l{5740} शारद्वतायनो भृग्वपत्ये शारद्वतस्त्रयः । दार्भायणो भवेदाग्रायणो दार्भिः परः स्मृतः ॥ १६ ॥ बाभ्रव्यः कौशिकापत्ये स्याद्बाभ्रव्यायणी स्त्रियाम् । ;p{0243} कौञ्जिः कुञ्जानन्तरो यः कौञ्जायन्योऽस्य गोत्रजः ॥ १७ ॥ वातण्ड्यः स्यादाङ्गिरसो वतण्डी तु स्त्र्यपत्यके । ;l{5745} काप्य-बौध्यावाङ्गिरसौ कापेयो बौधिरन्यजः । वत्सापत्ये तु वैकर्णः कश्यपस्य त्वपत्यके ॥ १८ ॥ वैकर्णेयस्ततोऽन्यस्यापत्ये वैकर्णिरुच्यते । भार्गायणस्तु त्रैगर्तो भार्गिस्त्वितर ईरितः ॥ १९ ॥ गार्गीया गर्गशिष्याः स्युर्गर्गरूप्यं[105a] तदागतम् । ;l{5750} गार्गीयं यद्गर्गहितं गार्ग्याद्याः स्युर्विशेष्यगाः ॥ २० ॥ जारत्कारेय आस्तीकः स्याज्जारत्कारवश्च सः । भारद्वाजो भवेद्द्रोणः कृपीशो द्रुपदान्तकः । द्रौणिर्द्रौणायनिश्च स्यादश्वत्थामा कृपीसुतः ॥ २१ ॥ गोत्रान्तेभ्यस्तस्य वृन्दे क्लीबे स्युर्गार्ग्यकादयः । ;l(5755} त्र्यार्षेयः प्रवरस्त्वस्त्रि(?) ते पुनर्यस्य पञ्च चेत् । पञ्चावत्ती स उक्तोऽथ सापिण्ड्यं साप्तपूरुषम् ॥ २२ ॥ मेधारुद्रः कालिदासः कालीदासश्च तिन्तिडः । भूगर्भो भवभूतिः स्याच्छ्रीकण्ठपदलाञ्छनः ॥ २३ ॥ उम्बेको विश्रुतश्चासौ शतलुम्पस्तु भारविः । ;l{5760} संन्यासवत्यनशने पुमान्प्रायोऽथ यो व्रती ॥ २४ ॥ श्राद्धे न भुङ्क्ते सोऽश्राद्धभोजी स्याच्छ्राद्धिकः पुनः । श्राद्धी स्याल्लिङ्गवृत्तिस्तु भवेद्धर्मध्वजी तथा ॥ २५ ॥ वार्त्ताशी भोजनार्थं यो गोत्रादि वदति स्वकम् । उच्छिष्टभोजनो देवनैवेद्यबलिभोजनः ॥ २६ ॥ ;l{5765} गुरु [105b]हा नरकीलः स्यान्मलोऽश्राद्धः सुरार्चने । पञ्चयज्ञपरिभ्रष्टो यो द्विजः स मलिम्लुचः ॥ २७ ॥ ;p{0244} खरुर्निषिद्धैकरुचिर्वीरोज्झो न जुहोति यः । अग्निहोत्रच्छलाद्याच्ञापरो वीरोपजीवकः ॥ २८ ॥ वीरविप्लावको जुह्वद्धनैः शूद्रसमाहृतैः । ;l{5770} अनाश्रमी स्याद्विधुरो भानोस्तूदयनास्तयोः ॥ २९ ॥ सुप्तो भवेदभ्युदितोऽभिनिर्मुक्तश्च स क्रमात् । नग्नव्रता वेदबाह्याः सर्वे पाखण्डनामकाः ॥ ३० ॥ हौव ऊर्ध्वस्रोतसिकः शुद्धान्ती सिद्धमार्गिकः । पञ्चार्थिकः पाशुपतो नाकुलोऽथ महाव्रती ॥ ३१ ॥ ;l{5775} तान्त्रिकः सोमसिद्धान्ती कापाली च विशेषदृक् । शाक्तो वामस्रोतसिकः कौल आन्वयिकोऽपि सः ॥ ३२ ॥ पूर्वाम्नायी तु महामार्गो भैरव्युपासको गदितः । वैष्णव एकायनकः स शाश्वतः पाञ्चरात्रिकश्चोक्तः ॥ ३३ ॥ ;c{इति ब्रह्मवर्गः ।} [106a] क्षत्रमस्त्री क्षत्रियः स्याद्राजन्यो बाहुजो विराट् । ;l{5780} भार्यो द्वितीयवर्णश्च नाभिः क्षात्रं तु तस्य यत् ॥ १ ॥ राजा राट् पृथिवीशक्रो महीक्षित्पार्थिवो नृपः । मध्यलोकपतिर्भूभृत्प्रजानाथश्च भूपतिः ॥ २ ॥ गुपिलो जागृविः संपद्वरः संयद्वरोऽवसः । मूर्द्धाभिषिक्तो भूदेवो नरदेवोऽपि लोकपः ॥ ३ ॥ ;l{5785} महिनं माहिनं राज्यमाधिराज्यं तु तन्महत् । प्रभावती तु प्रभुता तथैव प्रभविष्णुता । मण्डलेशो माण्डलिकः सामन्तो नृप इत्यपि ॥ ४ ॥ अधीश्वरोऽप्रतिरथो यं नमन्त्यखिला नृपाः । चक्रवर्त्ती सार्वभौमस्ते तु स्युर्भरतादयः ॥ ५ ॥ ;p{0245} ;l{5790} ईजे यो राजसूयेन मण्डलेशोऽन्यभूपतीन् । आज्ञापयत्यसौ सम्राट् क्षत्रजातिस्तु तत्सुतः ॥ ६ ॥ साम्राज्योऽन्यस्तु साम्राजो विश्वाराट् सर्वभूपतिः । सुराजा यः प्रजापोषी कुराजा तु प्रजाहरः । द्विषन्तं तापयन्राजा द्विषंतप उदीरितः । ;l{5795} द्विषन्तीं तापय[106b]न्नेष द्विषतीतापनामकः । परंतपः परोत्तापी राजघो राजघातकः । श्वैतच्छत्रिक उक्तोऽसौ यः श्वेतच्छत्रमर्हति । एवं शत्रुंसहः शत्रुंतपाद्या नाम्नि भेद्यवत् । राजन्यकं राजकं च क्षत्रं राजगणे क्रमात् । ;l{5800} राजन्यानां तु विषयो भवेद्राजन्यकः पुमान् ॥ ८ ॥ राज्ञस्त्विदं राजकीयं कथितं भेद्यलिङ्गकम् । आदिराजो मनुर्द्वंद्वे विवस्वत्तनयोऽपि सः । मनायी च मनावी च मनुर्मनुनृपाङ्गना ॥ ८ ॥ मनूद्भवः स्यादिक्ष्वाकुरैक्ष्वाकस्तस्य नन्दनः । ;l{5805} इक्ष्वाकवस्तु भूम्नि स्युरार्षभिप्रमुखाः पुनः ॥ ९ ॥ शलाकापुरुषा भूपाः पृथुः स्यादादिभूपतिः । वैन्यश्चाप्यथ मान्धाता युवनाश्वसुतो मतः ॥ १० ॥ कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः । पुरूरवा बौधिरैल उर्वशीरमणश्च सः ॥ ११ ॥ शाकुन्तलेयो भरतः स्यात्सर्वदमनोऽपि सः । ;l{5810} दौष्यन्तिर्हैहयस्तु स्याद्दोः[107a]सहस्रभृदर्जुनः ॥ १२ ॥ कार्त्तिकेयोऽथाजमीढो धार्मिर्ब्राह्मणलिङ्गवान् । ;p{0246} * * * * * * * * ऽजातशत्रुर्युधिष्ठिरः । धर्मपुत्रस्तपः पुत्रः शल्यारिः कङ्क इत्यपि ॥ १३ ॥ ;l{5815} पृष्ठशृङ्गी भीमसेनो भीमो मारुतनन्दनः । वृकोदरो हिडिम्बेशो धृतराष्ट्रसुतान्तकः ॥ १४ ॥ बकारिर्मागधारिश्च गणकृत्कीचकान्तकः । किर्मीरारिश्चाथ पार्थः सव्यसाची धनंजयः ॥ १५ ॥ नरः कृष्णोऽर्जुनो राधावेधी फाल्गुन-फल्गुनौ । ;l{5820} किरीटी विजयो जिष्णुः श्वेताश्वो हरिसारथिः ॥ १६ ॥ कपिध्वजश्च कर्णारिर्गुडाकेशश्च शक्रजः । किरातजेता * * * * * * * * * * * । सुभद्रेशश्च बीभत्सुस्तथा मध्यमपाण्डवः ॥ १७ ॥ गाण्डीवं गाण्डिवं न स्त्री धनुस्तस्य रथः पुनः । ;l{5825} नन्दिघोषोऽथ शङ्खोऽस्य देवदत्तः प्रकीर्त्तितः । भीमस्य पौण्ड्रः शङ्खः स्यान्नकुलस्तन्त्रिपालकः । ग्रन्थिकः सहदेवः स्यान्माद्रेयौ द्वाविमौ यमौ ॥ १९ ॥ विना यमाभ्यां कौ[107b]न्तेयाः धर्मवाय्विन्द्रनन्दनाः । तापत्याः पाञ्चयश्च स्युरेते पञ्चापि पाण्डवाः ॥ २० ॥ ;l{5830} तपाः कुन्ती पृथा च स्यान्मद्री माद्री समे उभे । पाञ्चाली द्रौपदी कृष्णा याज्ञसेनी च वेदिजा ॥ २१ ॥ भवेदुत्पलगन्धिश्च सैरन्ध्री नित्ययौवना । भीष्मः शांतनवो गाङ्गो गाङ्गेयश्च पितामहः ॥ २२ ॥ गाङ्गायनिस्तथा देवव्रतः स्वच्छन्दजीवनः । ;l{5835} धृतराष्ट्रस्त्वाम्बिकेयो धार्तराष्ट्रास्तु कौरवाः ॥ २३ ॥ कर्णो वैकर्तनोऽङ्गेशो राधेयश्च वृषापि सः । कानीनोऽप्यस्य चापस्तु कालपृष्ठमुदीरितम् ॥ २४ ॥ सौभद्रस्त्वभिमन्युः स्यात्परीक्षित्तूत्तरात्मजः । ;p{0247} पारीक्षितः सर्पसत्रव्रती च जनमेजयः । ;l{5840} भम्भासारः श्रेणिकः स्यात्कुन्तलः शालिवाहनः ॥ २७ ॥ हालश्चाथो साहसाङ्को विक्रमादित्य इत्यपि । शकान्तकोऽथ श्रीहर्षो वत्सराज इति स्मृतः ॥ २८ ॥ महापद्मस्तु नन्दः स्याद[108a ]ग्निमित्रस्तु शूद्रकः । वृषलश्चन्द्रगुप्तः स्याद्बिन्दुसारस्तु तत्सुतः ॥ २९ ॥ ;l{5845} शकटारो नन्दमन्त्री शाकश्चेति नृपाः परे । सर्वे रामप्रभृतयो मता मौखरजा नृपाः ॥ ३० ॥ कुरोरपत्यं क्षत्रं यत्तत्कौरव्यं बहूक्तिषु । कुरूणि ब्राह्मणास्त्वित्थं कौरव्या इति संमताः ॥ ३१ ॥ राजबीजी राजवंश्योऽथाभिजिद्भूपनन्दनः । ;l{5850} आभिजित्यश्चाभिजितो भवेद्ग्रन्थिहरः पुनः ॥ ३२ ॥ मन्त्री त्वमात्य आमात्यः सचिवः सामवायिकः । धीसखो व्यापृतस्त्वन्य आयुक्तश्च नियोग्यपि ॥ ३३ ॥ स्यात्कर्मसचिवश्चाथ मुक्तव्यापारमन्त्रिणि । पात्रटीरो महामात्रः प्रधानान्यन्तिमे ध्रुवम् ॥ ३३ ॥ ;l{5855} पुरोहितः पुरोधाः स्यान्नेपः सौवस्तिकश्च सः । द्रष्टा तु व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ ३४ ॥ त्रिषु धर्माधिकाराणां धर्माध्यक्षश्च धार्मिकः । दौवारिको द्वारपालो द्वाः[108b]स्थो द्वाःस्थितदर्शकः ॥ ३५ ॥ प्रतीहारो वेत्रधर-वेत्र्युत्सारक-दण्डिनः । ;l{5860} क्षत्ता चाथ प्रतीहारी द्वाःस्था दौवारिकी स्त्रियाम् ॥ ३६ ॥ रक्षिवर्गस्त्वनीकस्थो राजशिक्षाविचक्षणः । अध्यक्षोऽधिकृतस्तुल्यावधिकारो नियोजनम् ॥ ३७ ॥ ;p{0248} प्रक्रिया चाथ शुल्कोऽस्त्री देयं घट्टादिकेषु यत् । स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥ ४० ॥ ;l{5865} देशाध्यक्षो दैशिकः स्यादथ भौरिक-हैरिकौ । स्वर्णाध्यक्षो नैष्किकस्तु रूप्याध्यक्षोऽथ कौषिकः ॥ ४१ ॥ स्याद्भाण्डागारिकः कोषागारिकश्चाथ शौल्किकः । स्याच्छौल्कशालिकश्चाथ हाट्टिकश्चाधिकर्मिकः ॥ ४२ ॥ स्थानाध्यक्षः स्थानिकः स्यात्सेनानीर्दण्डनायकः । ;l{5870} सेनापतिश्चाथ दौःसाधिको दण्डाधिकारिणि ॥ ४३ ॥ स्यादन्तर्वंशिकश्चान्तर्वेश्मिकश्चावरोधिकः । शौद्धान्तिकान्तः पुरिकौ त्रिषु तु स्थायुगा[का]दयः ॥ ४४ ॥ [109a] सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते । शण्ढः षण्ढो वर्षधरः सेवकस्तूपजीवकः ॥ ४५ ॥ ;l{5875} अनुजीवी चोपजीवी स्यादर्थी च त्रिलिङ्गगाः । संवाहकोऽङ्गमर्द्दी स्याच्छायाकृच्छत्रधारकः । सेवा श्ववृत्तिर्दुर्वृत्तिरतिश्वी च निगद्यते ॥ ॥ विषह्योऽनन्तरो राजा शत्रुर्मित्रमतः परम् । उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ॥ ४७ ॥ ;l{5880} अमित्रः शात्रवः शत्रुर्द्विट् द्विषन्द्वेषणो रिपुः । परिपन्थी प्रत्यनीकः प्रतीपः परिपन्थिकः ॥ ४८ ॥ प्रत्यर्थी प्रत्यवस्थाता प्रतिपक्षः परोऽप्यरिः । दस्युः सपत्नोऽसहनो विरोद्ध्रररु-दुर्हृदः ॥ ४९ ॥ वैरी वैरायमाणश्च विरोधी च विपक्षवत् । ;l{5885} अभिघाती चाभिमातिर्जिघांस्वरात्यरातयः ॥ ५० ॥ भ्रातृव्यश्चाहितो(तः) सध्र्यङ् वयस्यः सवयाः सुहृत् । सजूः स्निग्धः सहचरः सखा मित्रं नपुंसकम् ॥ ५१ ॥ ;p{0249} अजर्यं संगतं सख्यं सौहार्दं * [सौ] हृदं तथा । तथा साप्तपदीनं स्यान्मैत्री [109b] स्त्रीक्लीबयोर्भवेत् ॥ ५२ ॥ ;l{5890} तारमैत्रं तु तत्सख्यं जन्मतारानुकूल्यजम् । अनुरोधोऽनुवृत्तिः स्त्री चरमे त्वनुवर्तनम् ॥ ५३ ॥ ५४ ॥ चरश्चारः स्पशो वार्तायनश्च प्रणिधिश्च सः । अवसर्पो मन्त्रवेत्ता हेरीको गूढपूरुषः ॥ ५५ ॥ यथार्हवर्णो विश्वस्तस्त्वाप्तः प्रत्ययितस्त्रिषु । ;l{5895} स्वाम्यमात्य-सुहृत्कोश-राष्ट्र-दु*[र्ग]बलानि च ॥ ५६ ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । तन्त्रं स्वराष्ट्रचिन्ता स्यादावापस्त्वरिचिन्तनम् ॥ ५७ ॥ परिस्पन्दः परिकरः परिबर्हः परिच्छदः । परिग्रहः परीवारस्तन्त्रोपकरणे अपि ॥ ५८ ॥ संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । ;l{5900} षड्गुणाः शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ ५९ ॥ क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् । स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ॥ ६० ॥ भेदो दण्डः साम दानमित्युपायचतुष्टयम् । भेदोप[110a]जापौ शास्तिः स्त्री * * * * * * * * । ;l{5905} शास्तिः स्याद्भूपतेर्दण्डयमो दण्डश्च साहसम् ॥ ६१ ॥ दिशोदण्डस्तु दिग्दण्डो दम्यो दण्ड्यश्च भेद्यवत् । द्विपाद्यश्च त्रिपाद्यश्च दण्डो द्वित्रिगुणो हि यः । साम सान्त्वं सान्त्वनं च ढौकन-प्राभृते समे ॥ ६२ ॥ कार्याय गुप्तं यद्देयं तत्र लञ्चो द्वयोर्भवेत् । ;l{5910} उत्कोच आमिषं कौशलिकं चात्र प्रकीर्तितम् ॥ ६३ ॥ ;p{0250} उपहारस्तूपचार उपग्राह्यमुपायनम् । उपदानं चोपदा स्यादायस्त्वर्थागमो भवेत् ॥ ६४ ॥ आगतः शुल्कशालायास्त्रिष्वसौ शौल्कशालिकः । ;l{5915} एवं तैर्थः शौण्डिकश्च तीर्थादिभ्यः स आगतः ॥ ६५ ॥ करो बलिर्भागधेयी द्वयोर्धर्मादितः पुनः । शौचाशौचपरिज्ञानममात्यानां मतोपधा । मायोपेक्षेन्द्रजालानि क्षुद्रोपाया अमी त्रयः । मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ ६७ ॥ दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् । ;l{5920} पौरुषं विक्रमः[110b]शौर्यं शौण्डीर्यं च पराक्रमः ॥ ६८ ॥ रहस्यालोचनं मन्त्रोऽषडक्षीणस्तदादिकः । यस्तृतीयाद्यविषयोऽषडक्षीणादयस्त्रिषु । छन्न-प्रच्छन्न-विजिन-निःशलाक-विविक्तकाः ॥ ६९ ॥ ;l{5925} उपह्वरोऽस्त्रियां क्लीबे केवलं च रहो रहम् । निर्मक्षिकं निर्जनं च क्लीबाव्ययमुपांशु तु ॥ ७० ॥ रहश्चालिङ्गमेकान्तं द्वंद्वहीनं प्रकीर्तितम् । अथानुरहसं त्रय्यां यद्रहोनुगतं भवेत् ॥ ७१ ॥ तथाऽवरहसं यत्स्याद्रहसोऽवगतं हि यत् । ;l{5930} स्यात्तप्तरहसं यत्स्याद्रहो हृद्येव तापकम् ॥ ७२ ॥ एकान्तिकं रहस्यं च रहोजन्म विशेष्यवत् । विश्वासाश्वास-विश्रम्भ-प्रत्ययाः स्युः समार्थकाः ॥ ७३ ॥ भ्रेषो यथोचिताद्भ्रंशोऽथाभ्रेषः कल्प आदिमे । न्यायो नयश्च नीतिः स्त्री देशरूपं समञ्जसम् ॥ ७४ ॥ ;l{0251} युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् । ;l{5935} न्याय्यं प्राप्तं चोचितं चेत्यष्टौ त्रिषु च सांप्रतम् ॥ ७५ ॥ [111a]स्थाने वरं चाव्ययानि मर्यादा धारणा स्थितिः । संस्था चाज्ञा तु निर्द्देशो निदेशोऽप्यववादवत् ॥ ७६ ॥ आदेशोऽपि नियोगश्च शासनं शिष्टिरित्यपि । ;l{5940} विप्रियागो-व्यलीकानि मन्तुः स्यादपराधवत् ॥ ७७ ॥ दण्ड्यस्त्रिष्वपराधार्हः समे तूद्दान-बन्धने । संदानं स्यात्संयमनं हननं च समार्थकम् ॥ ७८ ॥ प्रकीर्णकं चामरोऽस्त्री वालव्यजनमित्यपि । रोमगुदोऽथातपत्त्रं तपादातपवारणम् ॥ ७९ ॥ ;l{5945} छत्रं त्रिष्वथ तद्राज्ञो नृपलक्ष्म समीरितम् । वङ्क्रिका तु स्त्रियामेतत्केकिपक्षादिनिर्मितम् । मञ्चो भद्रासनं राजपीठं सिंहासनं तु तत् ॥ ८० ॥ सौवर्णं पादपीठं तु पदासनमथास्त्रियाम् । भृङ्गारः कनकालुः स्त्री भद्रकुम्भो भृतो घटः ॥ ८१ ॥ ;l{5950} बलस्थितिर्निवेशं स्याच्छिबिरं च नपुंसके । हस्त्यश्व-रथ-पादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ८२ ॥ हस्तीभो द्विपिबो द्विपो द्विरदनो नागः करी [111b] पुष्करी पद्मी पेचकि-पीलु-कुम्भि-करटि-स्तम्बेरमानेकपाः । मातङ्गश्च मतङ्गजः सुरगजो दन्ती च दन्तावलो ;l{5955} वेतण्डश्च मितंगमोऽपि जलकाङ्क्षः सिन्धुरश्चन्दिरः ॥ ८३ ॥ दीर्घप्राण-विषाणि-वारण-महादाना द्विपायी जटी स्याच्छूर्पश्रवणो विलोमरसनश्चोच्चैर्मृगः सामजः ॥ ८४ ॥ अन्तःस्वेदक-षष्टिहायन-महाकाया मतङ्गः कपिः शुण्डालोऽपि च सूचिकौष्ठ-पिचिलौ शत्त्रिश्च गर्जोऽपि च ॥ ८५ ॥ ;l{5960} स्त्रीलिङ्गेऽत्र न कुञ्जरो निगदितो द्वंद्वे करेणुस्तथा ;p{0252} हस्तिन्यामिह धेनुकापि च वशा तस्यां मनाका कचा ॥ ८६ ॥ कालेऽपि योऽजातदन्तो गजो लघुवपुश्च यः । तौ मत्कुणौ पञ्चवर्षस्त्विभो बालः प्रकीर्तितः ॥ ८७ ॥ पोतस्तु दशवर्षोऽसौ विष्को विंशतिहायनः । ;l{5965} विक्कः शुण्डारकोऽस्त्री तु कलभस्त्रिंशदब्दकः ॥ ८८ ॥ यूथनाथो यूथपतिर्लुषभस्तु मदोद्धतः । अरालोऽसौ मदकलो मारीचो जायकश्च सः ॥ ८९ ॥ [112a]राजहस्ती च सुग्रीवः प्रभिन्नो गर्जितोऽपि च । मत्तोऽथ निर्मदोद्वान्तौ विस्तारो मदकारि यत् ॥ ९० ॥ ;l{5970} सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः । व्यालो दुष्टगजोऽथैष संनाह्यः समरोचितः ॥ ९१ ॥ गम्भीरवेदी तु गजो भवेदवमताङ्कुशः । राजवाह्यस्तूपबाह्य ईषादन्त उदग्रदन् ॥ ९२ ॥ द्वयोस्तु हस्तिनोऽपत्यं हास्तिनायनमीरितम् । ;l{5975} हास्तिकं गजता वृन्दे करिणां घटना घटा । मदो दानं प्रवृत्तिः स्त्री वमथुः करसीकरः ॥ ९३ ॥ हस्तिनासा करः शुण्डा तद्धस्ताग्रं तु पुष्करः । विषाणौ त्रिषु दद्दन्तौ करीरं दन्तमूलकम् ॥ ९४ ॥ प्रवेष्टं दन्तमांसं स्याद्वराङ्गं गजमस्तकम् । ;l{5980} कुम्भौ तु शिरसः पिण्डौ तयोर्मध्यं विदुः पुमान् ॥ ९५ ॥ वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः । अधोऽस्य प्रतिमानं स्याल्ललाटं स्यादवग्रहः ॥ ९६ ॥ ;p{0253} आरक्षोऽस्त्री शिरोमर्म गण्डस्तु करटः कटः । [112b]अक्षिकूटमिषीका स्यादिषिका च भवेत्स्त्रियाम् ॥ ९७ ॥ ;l{5985} अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् । गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः । बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः । दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः । पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा । त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च । ;l{5990} उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी । अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः । शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥ हिञ्जीरोऽस्त्री पादपाशस्त्रिपदी गात्रबन्धनम् ॥ १ ॥ ;l{5095} प्रारब्धिः प्रतिमा हस्तिबन्धो वारीभबन्धभूः । आलानं त्वस्त्रियां बन्धस्तम्भोऽथ तलभं भवेत् ॥ २ ॥ क्लीबे करिकराघातस्तोत्रं वैणुकमद्वयोः । अङ्कुशोऽस्त्री सृणिर्द्वंद्वेऽपष्ठं त्वग्रं सृणेर्मतम् ॥ ३ ॥ निषादिनां पादकर्म यतं [113a]वीतं तु तद्द्वयम् । ;l{6000} दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकम् ॥ ४ ॥ दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता । कल्पना सज्जना चाथ कुमारा गजपालकाः । भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः । बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥ ;l{0254} ;l{6005} महामात्रा हस्तिपका हस्त्यारोहा निषादिनः । आधोरणाश्च शण्ढाश्च हास्तिकस्त्रिषु हस्तिगः ॥ ६ ॥ नागवारिकनामा स्याद्राजकुञ्जरहस्तिपः ॥ ७ ॥ अर्वा तुरंगस्तुरगस्तुरंगमो गन्धर्व-वाहाश्व-हयाश्च घोटकः । ;l{6010} वाजी च मुद्गाशन-वीति-सप्तय स्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥ क्रमणकेसरि-केसरि-विक्रमा- निलरथैकशफा गृहभोजनः । कुटच-चामरि-पालक-किण्विनः परुल-वाडव-हंस-मुहुर्भुजः । ;l{6015} वडवाश्वा प्रसूर्वामी वाजिनी चार्वती हयी । अश्वस्यन्ती कामुकी सा टारो लघुतुरंग[113b]मः ॥ ९ ॥ हयः किशोरोऽल्पवया जवनस्तु जवाधिकः । रथस्य रथ्यो यो वोढा द्विरथ्यो द्विरथीं वहन् । ;l{6020} युग्यो युगस्यान्यलिङ्गाविष्टो * * * * * * । * * * * * * स्थूरं बलं स्थौरी स कथ्यते ॥ १० ॥ ययुरश्वोऽश्वमेधीयो वीरभद्रश्च संमतः । अश्वोरसं वाजिमुख्ये विनीतस्त्रिषु साधुनीः ॥ ११ ॥ आजानेयः कुलीनोऽश्वो वाडवं वडवागणे । ;l{6025} पुंस्यश्व-वडवौ द्वंद्वेऽथाश्वषट्केऽश्वषड्गवम् । अश्वीयं त्वश्ववृन्दे स्यादाश्वं चापि नपुंसके ॥ १२ ॥ शूकलो दुर्विनीतोऽश्वस्तत्तद्देशास्तु सैन्धवाः ॥ १३ ॥ वनायुजाश्च वानायुजन्मानः पारसीककाः । काम्बोजा बाह्लिका हौणा आरट्टास्ताजका अपि ॥ १४ ॥ ;p{0255} ;l{6030} तौरुष्काः कच्छजा द्वैप्याः पर्वतीयादयोऽपरे । कश्यस्त्रिषु कशार्हो योऽविकृतस्तु सुलक्षणः । असावविकृतो मार्गे न स्खलेद्वेगवानपि ॥ १५ ॥ हृद्यावर्त्तचतुष्कं च रो[114a]चमानश्च कण्ठगः । तदा श्रीवत्सकी सोऽश्वो यस्य तु स्यात्प्रदक्षिणम् ॥ १६ ॥ ;l{6035} आवर्त्तयुग्मं शुक्तिर्वा भुजयोरङ्गदीति सः । यस्योपरन्ध्रयोरूर्ध्वं द्वावावर्तौ स मेखली ॥ १७ ॥ दशावर्तस्तु योऽश्वः स्यादावर्तैर्दशभिः शुभैः । स्फिक्पिण्डावर्त्तको वाजी लेण्डपाती निगद्यते । *** द्विशकौ योऽश्वः कराली तु कुलान्तकः ॥ १८ ॥ ;l{6040} यद्दन्तमूलमांसं चेद्बाह्यतो निर्गतं भवेत् । काकमूर्द्धा शिरःपुच्छशरीरेषु त्रिवर्णकः ॥ १९ ॥ शस्तवर्णोऽपि यो वाजी निन्द्यराजीसमन्वितः । भवेत्सिंहशरीराभः स स्यादवगडाभिधः ॥ २० ॥ मस्तकत्रिकवालेषु भिन्नवर्णो हयो ध्वजी । ;l{6045} पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ २१ ॥ पुच्छास्योरःशिरःपादस्थानेष्वष्टसु यः सितः । सोऽष्टमङ्गलकोऽप्यश्वः, श्वेते यस्योदरोरसी ॥ २२ ॥ अथ वा कृष्णशोणे ते स वैजयिकनामकः । वर्णेन वेष्टितः कट्यां यः सितेनेव वाससा ॥ २३ ॥ ;l{6050} स[114b] संवीताभिधोऽथ स्यात्कर्कः कौकाहकः सितः । निचितो बिन्दुभिः कृष्णैराननोदरसक्थिषु ॥ २४ ॥ कुक्कुटः सिन्दुवाराभत्वगादिः सिन्दुवारकः । ताम्रत्वङ्मुष्कवक्त्रोऽश्वः सिंहसंनिभरोमवान् ॥ २५ ॥ ;p{0256} यः केशवालयोः श्वेतः सिंहपोतः स उच्यते । ;l{6055} गुह्याक्षित्वक्खरौष्ठेषु कृष्णकेसररोमभिः ॥ २६ ॥ बालधौ तु सितास्ते स्युः क्रौञ्चपत्राह्वया हयाः । अन्यवर्णः सितैः केशैर्मुञ्जकेशो हयो भवेत् ॥ २७ ॥ कृष्णैः केशैरन्यवर्णस्तुरगोऽञ्जनकेशकः । मिश्रकेशो मिश्रवर्णोऽल्परक्तः कृष्णरोमकः ॥ २८ ॥ ;l{6060} चक्रवाकाभिधः पीतकृष्णवालोऽपि यो हयः । खोङ्गाहः श्वेतपिङ्गोऽश्वः खुङ्गाहः कृष्णवर्णकः ॥ २९ ॥ पीयूषवर्णः सेराहो हरितः पीतवर्णकः । लोहितस्तु क्रियाहः स्यादानीलो नीलको हयः ॥ ३० ॥ त्रियूहः कपिलोत्कृष्टो वोल्लाहः पन्दुवालधिः । ;l{6065} उतराहो[115a] मनाक्पीलुः कृष्णजङ्घो भवेद्यदि ॥ ३१ ॥ सुरूहको गर्द्दभाभो वोरुखानस्तु पाटलः । कुहालस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनोः ॥ ३२ ॥ उकनाहः पीतरक्तः कृष्णरक्तोऽथ वा हयः । शोणः कोकनदाभो यो हरिः सीतच्छविस्तु यः ॥ ३३ ॥ ;l{6070} हरिको हालिकश्चासौ पिङ्गलः सितकाचवत् । मल्लिकाक्षः सितैर्नेत्रैः कृष्णैस्त्विन्द्रायुधो हयः ॥ ३४ ॥ कपिलो बभ्रुरोमाभो हंसः कर्बुरकस्तु सः । रक्तत्वग्घंसतुल्याङ्गः खञ्जनाभस्तु खञ्जनः ॥ ३५ ॥ आ नेत्रतो यस्य सितं सकर्णं ;l{6075} शिरो भवेत्प्राकृतकः स वाजी । यः श्वेतसुस्निग्धमुखाङ्घ्रिरश्व- स्तं पञ्चकल्याणमुदीरयन्ति ॥ ३६ ॥ ;p{0257} श्वेतः सपत्नदमनो वदनाङ्घ्रिपुच्छे नन्दीमुखस्तु मुखमूर्धपदेषु तादृक् । ;l{6080} ज्योतिष्टकश्चरणलोचनपृष्ठवक्षः- केशाननेषु धवलोऽखिलकृष्णगात्रः ॥ ३७ ॥ छादनिकस्तु स वाजी यस्य खुरा रोमभिर्निचिताः । पीनकटी[115b]जठरो रो*[को] लम्बोदरो वाजी ॥ ३८ ॥ यस्य वर्णस्य सादृश्यं यद्वर्णः संप्रपद्यते । ;l{6085} तदेव तस्य नामापि वेदितव्यं मनीषिभिः ॥ ३९ ॥ इन्दोः स्वरश्मिसदृशास्तपनीयभासः स्वर्भर्तुरञ्जननिभास्तुरगा यमस्य । कर्का हरेर्दिनमणेः शुकपक्षवर्णाः । संफुल्लकिंशुकनिभास्तुरगाः कृशानोः ॥ ४० ॥ ;l{6090} हलाहश्चित्रितो वाजी पुष्पाण्यङ्गेषु बिन्दवः । सारस्तु वर्णमिश्रत्वमावर्तो रोमसंस्थितिः ॥ ४१ ॥ तद्भेदा मुकुलं शुक्तिः संघः स्यादवलीढकः । शतपादी पादुका च पादुकार्धमिति स्मृताः ॥ ४२ ॥ स्वनामानुगतार्थाः स्युः सर्वेऽप्यावर्तभेदकाः । ;l{6095} दशाश्वायुर्दशांशोऽथ क्षेत्रमङ्गव्यवस्थितिः ॥ ४३ ॥ निगालस्थो य आवर्तः स हि देवमणिः स्मृतः । तथा वक्षसि वाहस्य श्रीवत्सक इति स्मृतः ॥ ४४ ॥ एकः प्रपानेऽपि ललाट एको द्वौ रन्ध्रयोर्द्वावुपरन्ध्रयोश्च । ;l{6100} द्वौ मस्तके द्वावुरसि स्थितौ चे- त्यावर्त्तकाः स्यु [116a]र्ध्रुवनामभाजः ॥ ४४ ॥ ;p{0258} सूनाश्वानां तालुनोऽधोऽथोत्तरोष्ठस्य पृष्ठकम् । प्रपानमूध्वे त्वस्यास्त्री प्रोथो घोणास्ययोरपि ॥ ४५ ॥ ललामाश्वस्य पुण्ड्रे स ललामं तत्र न स्त्रियाम् । ;l{6105} स्तुवः पुंसि ललाटाग्रं कटौ शङ्खश्रवोन्तरम् । गलनाडी हनूसंधौ निगालोऽथ गलादधः ॥ ४६ ॥ विदू नरौ मर्मविदू ततो*[ध]स्तात्प्रकीर्तितौ । स्कन्धपृष्ठं केसरं स्यात्केशान्तः श्रुतिपृष्ठतः ॥ ४७ ॥ काकसा कन्धरान्तः स्यादंसपृष्ठं वहो नरि । ;l{6110} क्रोडस्तु कक्षाहृन्मध्यं कक्षाक्रोडवहान्तरा ॥ ४८ ॥ किणौ कक्षाधरेऽथाधोमन्दिरे समुदीरिते । पृष्ठभागे मन्दिरयोरुक्ते जानु-कपालिके ॥ ४९ ॥ कले जङ्घापृष्ठगते इषीके तु तदन्तरे । तयोरधः पुरोभागो(गे) पलिहस्तः प्रकीर्तितः ॥ ५० ॥ ;l{6115} तस्य पश्चिमतः कूर्चः कुष्टिके स्त्री तयोरधः । खुरसंधिस्ततोऽधस्ताच्छफं त्वस्त्री खुरः पुमान् ॥ ५१ ॥ निघृष्वो वर्तकस्त्वश्वशफश्च चटकोऽपि च । खुरप्रान्ते[116b] नखशिखा खुराधस्तलमस्त्रियाम् ॥ ५२ ॥ तलमध्ये क्षीरिका स्त्री मण्डूकी क्षीपिकान्तरे । ;l{6120} पृष्ठाधरे तु नीरोधः पार्श्वे त्वस्य च मांसले ॥ ५३ ॥ वटूके तु स्फिजोरूर्ध्वं तन्मध्ये सीवनी स्त्रियाम् । हृत्कुक्षिनाभ्यन्तरगावुपरन्ध्रावुभौ मतौ ॥ ५४ ॥ ;p{0259} अधोऽनयोः पृष्ठभागे रन्ध्रौ नरि च कीर्तितौ । रन्ध्राधरे चक्रसंधी स्थूरे ऊर्वोरधोऽस्त्रियौ ॥ ५५ ॥ ;l{6125} कश्यं तु मध्यमश्वानां बालहस्तस्तु वालधिः । लाङ्गूलं लूमं पुच्छोऽस्त्री पिच्छः पुंसि च संमतः ॥ ५६ ॥ स उत्पुच्छयमानः स्यादुदस्यन्पुच्छमन्यवत् । कावृको वाजिनः पुच्छं वयसो ज्ञापकं हि यत् । दन्तचिह्नं व्यञ्जनं तत्कवी तु कविका स्त्रियौ ॥ ५७ ॥ ;l{6130} मुखयन्त्रं च कवियं खलीनं खलिनोऽस्त्रियः । पञ्चाङ्गी वक्त्रपट्टे तु तलिका तलसारकम् ॥ ५८ ॥ वागावक्षेपणी वल्गा द्वयोः कविगुणे कुशा । पल्याणं स्यात्पल्ययणं प्रक्षरं प्रक्षरोऽस्त्रियाम् । दामाञ्चनं पादपा[117a]शो निगलः पुंनपुंसके । ;l{6135} खलीनलम्बरज्जुस्तु वल्गवक्षेपणी कुशा ॥ ५९ ॥ कशा कषा चर्मदण्डरश्मिः स्यादथ वारकः । भवेद्वल्लभपालाह्वो हयस्कन्धो हयच्छटा ॥ ६१ ॥ ह्रेषा हेषा वाजिशब्दो वेल्लिते तु भुवि त्रिषु । उपावृत्तः परावृत्तो लुठितश्च निगद्यते ॥ ६२ ॥ ;l{6140} धारास्तद्गतयः पञ्च धौर्यं धौरितकं तथा । धौरणं धोरितं चैतन्मयूरादिगतिप्रभम् ॥ ६३ ॥ वल्गितं त्वग्रकायस्य समुल्लासान्न तत्रिकम् । आकुञ्चितास्यं गमनं लङ्घनं तु प्लुतं भवेत् ॥ ६४ ॥ मृगपक्ष्यादिगतिवदथोत्तेजित-रेचिते । ;l{6145} मध्यवेगेन गमनं यद्भवेच्छ्लथवल्गया ॥ ६५ ॥ उत्तेरितं तूपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं यद्भवेदतिवेगतः ॥ ६६ ॥ ;p{0260} आश्वर्कस्त्वथ चारः स्यात्तुरगी सादि-सादिनौ । अश्वस्य विक्रयी यः स्यात्स हेलारुक उच्यते । ;l{6150} द्वयो रथः स्यन्दनोऽस्त्री शताङ्गश्चङ्कुरस्तथा । पद्वः सांग्रामिके याने[117b] चक्रशालिन्यथेतरत् ॥ ६७ ॥ चक्रयानं पुष्परथो दे*तार्थः समरुद्रः । योगो रथो वैनयिकोऽध्वरथः पारियानिकः ॥ ६८ ॥ कर्णीरथः प्रवहणं डयनं रथगर्भकः । ;l{6155} पुंस्कन्धबाह्यं यद्यानं विमानाभिध उच्यते ॥ ६९ ॥ आश्वोऽश्वैरूह्यमानोऽसौ तैश्चतुर्भिः स चातुरः । क्लीबेऽनः शकटस्तु स्याद्गन्त्री गान्त्री स्त्रियामुभे ॥ ७० ॥ * * * * * * * * * * * * * * * * * * । कूवरी न द्वयोर्गांत्रं कूबरी च वहित्र्यपि । ;l{6160} न स्त्री कम्बलिवाह्यं स्याद्गान्त्रं न नरि योषिति । शिबिके * याप्ययानं दोला प्रेङ्खोलिकापि च ॥ ७१ ॥ रज्जुप्रालम्बहिन्दोलो दोला प्रेङ्खा च योषिति । शयानिका शिशूनां सा शयनाय कृता यदि । उभौ तु द्वैप-वैयाघ्रौ द्वीपिचर्मावृते रथे । ;l{6165} तद्वत्काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ७२ ॥ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बलः । अष्टागवं त्वष्टगवयुक्ते स्याच्छकटे त्रिषु । रथ्या च रथकट्या च रथ वृ[118a]न्दे स्त्रियामुभे ॥ ७३ ॥ रथिको रथनश्चस्याद्रथिरो रथरोह्यपि । ;l{6170} एवं शाकटिकश्च स्याद्रथिकाद्या विशेष्यगाः ॥ ७४ ॥ नियन्ता प्राजिता यन्ता सव्येष्टा क्षत्तृ-सारथी । सूतो रथकुटुम्बी च प्रचेता दक्षिणस्थवत् ॥ ७५ ॥ ;p{0261} व्याप्नुवन्वाहनं सर्वं सर्वपत्रीण उच्यते । धूर्वी-धुरौ च यानाग्रमक्षो धूस्तु दृढा यदि ॥ ७७ ॥ ;l{6175} तदा दृढधुराथाक्षो दृढधूरेव संमतः । रथपादौ रथ्यमरि रथाङ्गं चक्रमस्त्रियाम् ॥ ७८ ॥ चक्रधारा तु नेमिः स्त्री प्रधिर्द्वंद्वेऽथ पिण्डिका । * * * * * नाभिर्ना मणिराणिरणिर्द्वयोः ॥ ७९ ॥ अक्षाग्रकीलकेऽथास्त्री वरूथो रथगुप्तिका । ;l{6180} युगंधरः कूबरोऽस्त्री वरूथश्च निषङ्गथिः ॥ ८० ॥ युगं द्वितीयं प्रासङ्गो युगं त्वीशान्तबन्धनम् । अनुकर्षो दार्वधःस्थं शम्या स्त्री युगकीलकः ॥ ८१ ॥ अपस्करो रथाङ्गं स्यान्नभ्योऽक्षो नाभये हितः । सर्वं स्याद्वाहनं बाह्यं वह्यं पत्रं च धोरणम् ॥ ८२ ॥ ;l{6185} युग्मं यानं तु न स्त्री स्यादथ वै[118b]नीतकोऽस्त्रियाम् । परंपरावाहनेऽथ राजार्हं राजवाहनम् ॥ ८३ ॥ पादाति-पत्ति-पदगाः पदिकः पद्ग-पच्चरौ ॥ ८४ ॥ पदातिकः पदाजिश्च पादातश्च पदातिवत् । पादातिकश्चाथ भवेत्पादातं पत्तिसंहतिः ॥ ८५ ॥ ;l{6190} शस्त्राजीवे काण्डपृष्ठा युधीयायुधिकाः समाः । भटाः प्राहारिका युध्मा योधा योद्धार इत्यपि ॥ ८६ ॥ सेनारक्षाः सैनिकास्ते सेनायां मिलिता अमी । सैन्याश्च सैनिका ये तु राजानं योधयन्त्यमी ॥ ८७ ॥ राजयुद्ध्वान उद्दिष्टा राजानं रचयन्ति ये । स्युरे * * * * * * * [ आ ]हस्राः स्युः सहस्रिणः । ;l{6195} ये सहस्रेण युध्यन्ते धनुष्मन्तस्तु धन्विनः ॥ ८८ ॥ ;p{0262} धानुष्का अस्त्रिणो धन्वधराश्चैव निषङ्गिणः । तूणिनः कृतहस्तस्तु कृतपुङ्खश्च यः शरम् ॥ ९० ॥ सुप्रयुङ्क्ते पराद्धेषुः *[पु]नर्लक्ष्य*[च्यु]ताशुगः । ;l{6200} लघुहस्तः शीघ्रवेधी दूरवेधी तु दूरतः ॥ ९१ ॥ लक्ष्यवेद्धा दूरपाती काण्डीरः काण्डवान्समौ । प्रासिकः कौन्तिकस्तुल्यौ शाक्ती[119a]कः शक्तिहेतिकः ॥ ९२ ॥ याष्टीक-पारस्वधिकौ यष्टिस्वधितिहेतिकौ । नैस्त्रिंशिकस्त्वासिकः स्याच्चाक्रिकश्चक्रहेतिकः ॥ ९३ ॥ ;l{6205} वर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः । परिधिस्थः परिचरश्चामरी रौमगुच्छिकः ॥ ९४ ॥ सहकृत्वा सहायः स्यादनुगाम्यप्यनुप्लवः । भवेदनुचरश्चाभिसरः पत्त्यादयस्त्रिषु ॥ ९५ ॥ साहायकं तु साहाय्यं समूहे तु सहायता । ;l{6210} पुरोगमः पुरोगः स्यात्पुरोगामी पुरःसरः ॥ ९६ ॥ प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः । सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् । आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥ स्याद्व्यूढकङ्कटः सज्जो वर्मितौ दंशितश्च सः । ;l{6215} संनद्धश्च पुरोगाद्या एते स्युर्भेद्यलिङ्गकाः ॥ ९८ ॥ समूहे स्यात्कवचिनां क्लीबे कावचिकं तथा । अधिकाङ्गोऽस्त्रियां सारसनं हृदि स [119b] कञ्चुकैः । ध्रियते यत्तनुत्रं तु वर्मं वर्म च दंशनम् ॥ ९९ ॥ उरश्छदः कङ्कटको जगरो दंश इत्यपि । ;l{6220} संनाहः कवचो न स्त्री माठिर्माठी स्त्रियामुमे ॥ २०० ॥ ;p{0263} शिरस्त्राणं शिरस्कं च शीर्षण्यं शीर्षकं च तत् । नागोदमुदरत्राणं जङ्घात्राणं तु मत्कुणम् ॥ १ ॥ बाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षिणी । जालप्रायाऽऽयसी चाथ क्षेयः क्षेतव्यमात्रकः ॥ २ ॥ क्षय्यस्तु शक्यः क्षेतुं यो जेयो जेतव्यमात्रके । ;l{6225} जय्यस्तु शक्यो जेतुं यो जिष्णुर्जेता च जित्वरः ॥ ३ ॥ जैत्रोऽथ धर्मविजयी संतुष्येत्सेवयैव यः । द्रव्येण त्वर्थविजयी स्यात्त्वसुरविजय्यसौ । प्राणोपघाती भूकामोऽथोर्जस्व्यूर्जस्वलः समौ । ;l{6230} स्यादुरस्वानुरसिलो यस्य व्यूढमुरो भवेत् ॥ ४ ॥ शूरः सूरश्चारभटो वीरो विक्रान्त इत्यपि । भडिलौजसिकौ यस्तु याति विद्विषतः प्रति ॥ ५ ॥ सोऽभ्यमित्रीयोऽप्यभ्यमि[120a]त्रीण इत्यपि । सांयुगीनो रणे साधुः संग्रामाय तु यः प्रभुः ॥ ६ ॥ ;l{6235} भवेत्सांग्रामिकः सोऽथ जितकाशी जिताहवः । गेहेनर्द्दी गेहेशूरः क्षेपाद्याः स्युस्त्रिलिङ्गकाः ॥ ७ ॥ ध्वजिनी वाहिनी सेनानीकिनी च पताकिनी । वरूथिनी च पृतना चमु-चम्वौ स्त्रियौ बलम् ॥ ८ ॥ तन्त्रं सैन्यं च कटकं चक्रं चाविकमस्त्रियाम् । ;l{6240} स्कन्धावारोऽपि दण्डोऽथ व्यूहो विन्यसनं पृतः ॥ ९ ॥ दण्डादयो व्यूहभेदाश्चक्रव्यूहादयोऽपरे । प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ १० ॥ ;p{0264} एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ११ ॥ ;l{6245} सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः । अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥ क्षुद्रकानां मालवानां सेनायां वृन्दसंयुता । वदन्ति तां कोषविदो बुधाः क्षौद्रकमालवीम् । सेनाजघनभागे तु भवेत्प्रतिस[120b]रस्त्रिषु । ;l{6250} नासीरं ना न सेनाग्रं सज्जनं तूपरक्षणम् । शस्त्रं ना न प्रहरण-वधत्रास्त्र-धनूंषि च ॥ १३ ॥ हत्नुरस्त्र्यायुधं हेतिर्दलपस्तोत्त्रमन्तिमे । पाणिमुक्तं तु शक्त्यादि यन्त्रमुक्तं शरादिकम् ॥ १४ ॥ अमुक्तं तु कृपाणादि यष्ट्याद्यं स्याद्द्वयात्मकम् । ;l{6255} धन्विष्वासौ द्रुणं चासो धन्व कार्मुकमस्त्रकम् ॥ १५ ॥ शरासनं धनुश्चाप-कोदण्डाः स्युर्न योषिति । दृढधन्वा दृढेष्वासोऽथाह्वये शतधन्ववत् । भवेच्छतधनुश्चायं भेद्यलिङ्गा अमी मताः । कोटिरस्यार्तिरटनी मध्यभागस्तु लस्तकः ॥ १६ ॥ ;l{6260} मौर्वी ज्या शिञ्जिनी शिञ्जा जीवा वामा द्रुणा च सा । गुणो बाणासनं च स्यात्तारणमादिगव्यकम् ॥ १७ ॥ गोधा तु तलमन्त्ये स्याच्छिञ्जिन्याघातवारणा । वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १८ ॥ प्रत्यालीढं तथालीढमिति षट्स्थानसंग्रहः । ;l{0265} शस्त्राभ्यासस्तु खुरली तद्भूमिस्तु[121a] खरूलिका ॥ १९ ॥ ;p{0265} उपासनं शराभ्यासोऽथो शरव्यं च वेध्यकम् । लक्ष्यं लक्षं निमित्तं च चित्रपुङ्खः शिलीमुखः ॥ २० ॥ शरस्तु न स्त्रियां रोपो विशिखः खग आशुगः । अजिह्मगो गार्धपक्षः पत्रि-मार्गण-सायकाः ॥ २१ ॥ ;l{6270} कङ्कपत्रः पत्रवाहः पृषत्कः सायकश्च सः । कलम्बः प्रदरोऽस्त्रीकौ बाण-काण्डाविषुस्त्रिषु ॥ २२ ॥ ;l{6270} प्रक्ष्वेडनास्तु नाराचा सर्वलोहास्तथैषणाः । नालीको नलिका मोच्ये निरस्ताः प्रहिते शरे ॥ २३ ॥ विषाक्ते लिप्तको दिग्धो नीलीकाद्या विशेष्यवत् । ;l{6275} क्षुरप्रत्तद्वलार्धेन्दु-तीरे भल्लादयो भिदः ॥ २४ ॥ शरवाणिः स्त्रीषुमुखं कर्तरी पुङ्खमस्त्रियाम् । पक्षो वाजः पत्रपाली पत्रणा पत्रलं त्रिषु । शरसंक्रमणे पुंसि वातरायण उच्यते । बाणमुक्तिर्व्यवच्छेदो दीप्तिर्वेगस्य तीव्रता ॥ २६ ॥ ;l{6280} निषङ्ग-तूणीर-कलाप-बाणा- वापा उपासङ्ग उपाश्रयश्च । स्त्रीपुंसयोः स्यादिषुधिश्च केकि- छन्दं द्वि[121b]हीनं त्रितयेऽत्र तूणी ॥ २७ ॥ निस्त्रिंशस्तरवारिश्छिदिरो धारापथस्त्रिमार्गोऽसिः । ;l{6285} खड्गश्च गाढमुष्टिर्लोहभुजंगो जयश्रीदः ॥ २८ ॥ कौक्षेयको विशसनो धाराधर-चन्द्रहास-धाराङ्गाः । करवालः करपालः कोशधरो मण्डलाग्रश्च ॥ २९ ॥ श्रीगर्भ-चन्द्रभासौ शस्त्र-कृपाणौ द्वयो रिष्टिः । वारङ्गः त्सरुरेतन्मुष्टिः स्यान्मेखलाबन्धः ॥ ३० ॥ ;l{0266} ;l{6290} प्रत्याकारः परीवारः कोषः खड्गपिधानकम् । तच्चार्मं चर्मसंभूतमीली तु करवालिका । असिपुत्र्यसिधेनुश्च क्षुरिका च कृपाणिका ॥ ३१ ॥ शस्त्री च छुरिका चासिपत्रिकाथ घु फलम् । परञ्जं पात्रपालस्तु भवेदायतशस्त्रिका ॥ ३२ ॥ ;l{6295} फलकोऽ *[ स्त्री ]फलं चर्मावरणं खेटकाडुने । फरकोऽस्त्री स्फुरोऽथ स्यात्संग्राहो मुष्टिरस्य यः ॥ ३३ ॥ यष्टिः स्त्री लगुडो दण्डो लकुटः प्राजनश्च सः । द्रुघणो मुद्गर-घनौ कासूः शक्तिः स्त्रियामुभे ॥ ३४ ॥ कासूतरि तु सा ह्रस्वा प्रा[122a]सः कुन्तः शलश्च सः । ;l{6300} भिन्दिपालो भिण्डिपालः सृगश्चेति समार्थकाः ॥ ३५ ॥ द्वयोः कुठारः स्वधितिः परशु-च्छिदि-पर्शवः । जीर्विः परश्वधोऽपि स्यात्स परस्वश्च (ध) इत्यपि ॥ ३६ ॥ तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः । शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् । ;l{6305} अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् । शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः । अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥ शस्त्राण्यथो स्युर्यन्त्राणि नाल्यपि नालिका स्त्रियाम् ॥ ३८ ॥ सर्वाभिसारः सर्वौघः सर्वसंनहनं तथा । ;l{6310} इषश्चैव दशम्यां यो राज्ञां नीराजनाद्विधिः ॥ ३९ ॥ तत्र लोहाभिसारः स्यादथ स्याद्गमनं गमः । प्रस्थानमभिनिर्याणं प्रयाणं प्रस्थितिः स्त्रियाम् ॥ ४० ॥ ;l{0267} व्रज्या यात्राभिक्रमस्तु रिपून्प्रत्याहवे गमः । यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥ ४१ ॥ ;l{6315} स्यात्सुहृद्बवलमासारः [122b] प्रचक्रं चलितं वलम् । प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे । अथ क्रीडाप्रयाणे स्यात्प्रभूणां भ्रमणी स्त्रियाम् ॥ ४२ ॥ वैतालिका बोधकरा आर्थिकाः सौखसुप्तिकाः । चाक्रिका घाण्टिकास्तुल्या मगधा मागधाः समाः ॥ ४३ ॥ ;l{6320} नग्नाः स्तुतिव्रतास्तेषां त्वाचार्यौ(?)हिण्डकः स्मृतः । भोगावली तु तद्ग्रन्थो विरुदं कर्म विश्रुतम् ॥ ४४ ॥ सूतो मङ्गलपाठी स्याद्बन्दी स च निगद्यते । आलोकस्तूच्यते सद्भिर्वन्दिनां भाषणं हि यत् । संसप्तकास्तु समयात्संग्रामादनिवर्तिनः ॥ ४५ ॥ ;l{6325} रेणुस्त्रिषु स्त्रियां धूली रजनं शूक-पांशकः । पांशुश्च न रजो द्वंद्वे क्षोदश्चूर्णो न योषिति ॥ ४६ ॥ पताका वैजयन्ती च धूका केतुर्मतो नरि । केतनं ध्वजमस्त्रीके अस्योच्चूलावचूलिका ॥ ४७ ॥ मुखमूर्ध्वं कूर्च्चमधः पादरः पादधूलिका । ;l{6330} पताकायास्तु चीरान्तो न पुंसि व्योममञ्जरम् ॥ ४८ ॥ स्त्रियां कद[123a]लिका प्रोक्ता पताका या गजस्थिता । स्याद्वीराशंसनं युद्धभूमिर्यातिभयप्रदा ॥ ४९ ॥ वृत्ते भाविनि वा युद्धे पानं स्याद्वीरपाणकम् । पराक्रमः प्राण ऊर्जो द्युम्नं च द्रविणं सहः ॥ ५० ॥ ;p{0268} ;l{6335} न स्त्री बलसहे स्थाम-स्थामनी शुष्म-शुष्मणी । ओजः शौर्यं च शक्तिः स्त्री विक्रमस्त्वतिशक्तिता ॥ ५१ ॥ संग्रामः समुदाय-संगर-समाघाताभिसंपात-सं- स्फोटारालि-समाह्वया अभिमरोमाराङ्कपुग्विग्रहः । ;l{6340} संस्फेटः कलहः कलिः समुदयः प्राह-प्रघाताहवा- क्रन्दाभ्यागम-संप्रहार-समिधाभ्यामर्द्द-संमर्द्दकाः ॥ ५२ ॥ स्त्रीत्वे स्युः समिदाजि-युत्समितयो न स्त्री रणानीकभाक् संख्यं संयुग-संपराय-समराः संयन्न पुंलिङ्गभाक् ॥ ४८ ॥ युद्धास्कन्दन-सांपरायिक-मृधं द्वंद्वं समीकं तथा जन्यं च प्रविदारणं प्रधनवच्चायोधनं भण्डनम् । ;l{6345} आडम्बरोऽस्त्री पटहो चङ्गलः सूरयो रणः । ग्राममद्गुरिका ग्राम[123b]युद्धं दोर्भ्यां तु तन्मिथः ॥ ५७ ॥ नियुद्धं तुमुलं तु स्यात्संग्रामः संकुलो हि यः । युद्धे प्रवृत्ते केशेषु केशेषु ग्रहपूर्वकम् ॥ ५८ ॥ केशाकेशीत्यव्ययं स्याद्दण्डादण्डि तु यो रणः । ;l{6350} दण्डैर्दण्डैः प्रहृत्यास्ति बाहूबाहवि तादृशः ॥ ५९ ॥ यस्मिन्प्रहरणे दण्डौ द्वौ द्विदण्डि तदीरितम् । उभाहस्त्युभयाहस्ति द्विमुसल्येवमुन्नयेत् ॥ ६० ॥ त्रिषु रौक्मिण-सौभद्रौ रुक्मिण्याद्यर्थकौ रणौ । भारतादिकयोधौ तौ मतौ भारत-कौरवौ ॥ ६१ ॥ ;l{6355} मल्लो नियुद्धकुशलो मल्लयात्रा तु मल्लवी । नियुद्धभूरक्षवाटे क्रन्दनं योधशब्दितम् । अवमर्दः पीडनं स्यान्निसुम्भोऽपि निशुम्भवत् ॥ ६१ ॥ बलात्कारो हठः खष्पः प्रसभं स्खलितं छलम् । प्रपातस्त्वभ्यवस्कन्दोऽभ्यवस्कन्दनमित्यपि ॥ ६२ ॥ ;p{0269} ;l{6360} स्यादभ्यासादनं धाटी डिम्बं त्वस्त्री च विप्लवः । उद्रवो डम्बरश्च स्यात्सौप्तिकं रात्रिमारणम् ॥ ६३ ॥ वैरनि[124a]र्यातनं वैरशुद्धिर्वैरप्रतिक्रिया । अवहारो युद्विरामोऽथ जयो विजयः समौ ॥ ६४ ॥ पराजयो रणे भङ्गोऽथापयानं पलायनम् । ;l{6365} प्रद्रावो द्राव-संद्राव-संदावा विद्रवो द्रवः ॥ ६५ ॥ अपक्रमोऽप्यथ त्रय्यां पराभूत-पराजितौ । परिभूतोऽभिभूतः स्यादात्तगन्धोऽपि भग्नवत् । उत्पिञ्जलः समुत्पिञ्ज-पिञ्जलौ लुपिताकुलौ । कान्दिशीकस्तु यो भीत्या व्याकुलः प्रपलायितः । ;l{6370} पलायितस्तु नष्टः स्यादपक्रान्तस्तिरोहितः ॥ ६६ ॥ गृहीतदिग्विद्रुतश्च प्रद्रुतश्च विशेष्यवत् । प्रस्कन्नः पतितस्तुल्यो प्रहृतो घातितोऽपि सः ॥ ६७ ॥ पुंस्यालम्भ-निशुम्भ-पिञ्ज-विशरोन्माथाश्च घातो वधो मारोऽपि प्रथमोऽस्त्रियां निगदिते संज्ञप्ति-हिंसे स्त्रियौ । ;l{6375} क्लीबे स्युः प्रतिघातनं विशसनं व्यापादनं वर्जनं किंचापासन-मारण-प्रशमन-प्रोज्जासनोद्वासनम् ॥ ६८ ॥ प्रतिघातनं विशरणं वि[124b]शारणं कदन-प्रवासन-परासनानि च । ;l{6380} क्रथनं तथा प्रमथनं विकारणं क्षणनं निषूदन-समापने अपि ॥ ६९ ॥ निस्तर्हण-विनिबर्हण-निर्वासन-संप्रमापणानि स्युः । निर्यातन-निर्वापण-हिंसनमपि संनिपातनं वात्र ॥ ७० ॥ स्युः कालधर्म-प्रलयात्ययान्त- दिष्टान्त-नाशाः परलोकयात्रा । ;p{0270} ;l{6385} स्याद्दीर्घनिद्रा च मृतिश्च संस्था मृत्युर्द्वयोः स्यादपि पञ्चता स्त्री ॥ ७१ ॥ पञ्चत्वमस्तं मरणं निमीलनं तत्रावसानं निधनस्तु न स्त्रियाम् । मारिश्च मारी मरकः स सर्वत- ;l{6390} श्चित्या चिता स्याच्च चितिस्तथा स्त्रियाम् ॥ ७३ ॥ रुण्डः शरीरं विशिरस्तु मुक्तं न स्त्री कबन्धो यदि तत्क्रियावत् । क्ष(श)वस्तु षण्ढे मृतकं तु पूति- विवर्धनोऽस्त्री कुणपः शवोऽस्त्री ॥ ७३ ॥ ;l{6395} मृतः प्रमीतश्च परासु-संस्थितौ प्रेतः परेतो व्यसु......स्त्री । आलेख्यशेषोऽपि यशोवशेष- स्तथोपसंपन्नक-नामशेषौ ॥ ७४ ॥ [125a] द्युपात-लोकान्तरगाप्तपञ्चत- व्यापन्न-नष्टाश्च विशेष्यलिङ्गगाः । ;l{6400} मृतस्य शय्या तु खडूः स्त्रियां महा- शय्याप्यपस्नानमजीविताप्लुतिः ॥ ७५ ॥ मृतयानं काष्ठमल्ले गाङ्गेष्टी कटशर्करा । सूना स्त्रियां वधस्थाने मतमाघातनं तथा । ;l{6405} पितृवसतिः पितृविपिनं करवीरं दाहसा(स)रश्च । संकटमघमाशौचं भवत्यशौचं च तद्वदेवेह ॥ ७६ ॥ प्रग्रहोपग्रहौ तत्र बन्दी स्त्रियां यद्वलद्बन्धनं शत्रुदारादिनः । गुप्ति-कारे स्त्रियौ पुंसि वारो भवेत् । ;l{6410} तत्र बन्दी गृहं बन्धनस्यालयः ॥ ७७ ॥ ;c{इति क्षत्रवर्गः ।} ;p{0271} ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः । वृत्तिर्वार्त्ता जीविका स्यादाजीवो वर्तनं तथा ॥ १ ॥ स्याज्जीवनं चाथ कृषिः कर्षणं प्रमृतानृते । उञ्छो धान्यकणादानं कणिशाद्यर्जनं शिलम् ॥ २ ॥ ;l{6415} ऋतं द्वे अमृतं तु स्यादयाचितमथो मृतम् । याचितं स्याद्वणिज्या तु न ना वाणि[125b]ज्यमन्तिमे ॥ ३ ॥ सत्यानृतमृणं तु स्यात्प्रामीत्यं पर्युदञ्चनम् । कुसीदं च तथोद्धारो मुक्तौ विगणनं मतम् ॥ ४ ॥ तत्तत्काले देयमृणं कलापकमुदीरितम् । ;l{6420} अश्वत्थकं यववुसकं च ग्रैष्मकमित्यपि ॥ ५ ॥ आवरसमकं त्वृणमुक्तं यदन्यवर्षे प्रदेयं स्यात् । सांवत्सरिकं सांवत्सरकं वर्षेण यद्देयम् ॥ ६ ॥ मासादिके देयमृणं मासिकं वार्षिकं त्रिषु । प्रार्णं वत्सतरार्णं च प्रगतादावृणे क्रमात् । ;l{6425} ऋणार्णं प्रागृणोच्छित्त्यै यदृणं क्रियते परम् । वृद्धिः कलान्तरं प्रोक्तमथार्थस्य प्रयोजने ॥ ५ ॥ कुसिदं कुसितं वृद्धिजीविका चेति वृत्तयः । ग्राहकस्त्वधमर्णो दाय्युत्तमर्णः प्रयोजकः ॥ ७ ॥ वृद्ध्याजीवो द्वैगुणिको वार्द्धुषी च कुसीदिकः । ;l{6430} भवेद्वार्द्धुषिकः सोऽथ स्त्री तादृक्स्यात्कुसीदिकी ॥ ८ ॥ दशैकादशिकस्तु स्यादेकादशकृते दश । यः प्रयच्छेल्लग्नक[126a]स्तु प्रतिभूर्ऋणमत्कुणः ॥ ९ ॥ ;p{0272} स्थेयः साक्षी विशेष्यघ्नः पुंस्याधिर्बन्धकः समौ । निमेयस्तु परावर्तो नैमेयो निमयोऽपि सः ॥ १० ॥ ;l{6435} व्यतिहारः परावृत्तिः परिवर्तनमित्यपि । पुमान्विनिमयस्तत्रापमित्येत्यव्ययं मतम् ॥ ११ ॥ त्रिष्वापमित्यकं तत्स्यान्निवृत्तमपमित्य यत् । याचितेन तु निर्वृत्तमेवं याचितकं मतम् ॥ १२ ॥ क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः । ;l{6440} कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥ वापोऽहिर्वलयत्रय्यां वप्रं केदारमस्त्रियाम् । क्षेत्रं क्षैत्रं तु कैदार्यं कैदारिकमपि व्रजे ॥ १४ ॥ कैदारिकमकृष्टं तु खिलमप्रहतं त्रिषु । ;l{6445} धान्यानां भवने क्षेत्रे वक्ष्यमाणा विशेष्यगाः ॥ १५ ॥ द्विकाण्डा क्षेत्रभक्तिश्चेद्द्विकाण्डान्या विशेष्यवत् । तुल्ये व्रैहेय-शालेये तथा तैलीन-तिल्यके । माषीण-माष्ये भाङ्गीन-भङ्ग्ये औमीनमुम्यवत् ॥ १६ ॥ [126b] अणव्यमाणवीनं च यव्यं स्याच्च यवस्य तत् । ;l{6450} पृथग्यवक्यं षष्टिक्यं मौद्गीनं कौद्रवीणकम् ॥ १७ ॥ तस्मै हितेऽपि यव्यं स्यान्माष्यं तिल्यं च भेद्यवत् । बीजाकृतं वापितं स्यादुप्तकृष्टं हि यद्भवेत् । कृष्टं सीत्यं च हल्यं स्याद्द्विसीत्यं तु द्विहल्यवत् ॥ १८ ॥ द्विगुणाकृतं द्वितीयाकृतं च शम्बाकृतं चेदम् । ;l{6455} त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥ १९ ॥ ;p{0273} प्रस्थद्रोणादिवापादौ प्रास्थिक-द्रौणिकादयः । खारीवापस्तु खारीको द्विखारीकादयस्तथा ॥ २० ॥ पात्रवापा पात्रिकी स्यात्त्रिषु बीजाकृतादयः । खलोऽस्त्री खलधानं स्याल्लोष्टोऽस्त्री लोष्टुरादिमे ॥ २१ ॥ लेष्टुः पुंसि दलिः स्त्री स्यात्स महान्दरणीर्द्वयोः । ;l{6460} न स्त्रियां हल-सीरौ स्तः कृन्तत्रं लाङ्गलं तथा ॥ २२ ॥ गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः । अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ । [127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः । ;l{6465} हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् । कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥ कुशिकश्च स्त्रियां त्वीषापीषो लाङ्गलदण्डकः । स्त्रियौ सीता च शीता च भवेल्लाङ्गलपद्धतिः ॥ २४ ॥ प्रतोदस्तु प्रवपणं प्राजनं तोत्र-तोदने । ;l{6470} प्रेषणं चाथ कूद्दाल-कुद्दालौ गोविदारणम् ॥ २५ ॥ आखनिकाखनिकबकावाखर आखान आखनोऽप्याखः । अवदारणं खनित्रं खात्रं क्लीबे च विख्यातम् ॥ २६ ॥ दात्रस्य मुष्टौ वण्टः स्यादथ मत्यं समीकृतौ । कुशा च लाण्डी कथिता या भवेद्दारुनिर्मिता । ;l{6475} * * * * * * * * * * * * * * * लविर्द्वयोः कोटिश-लोष्टभेदनौ । आबन्धमाहुर्नरि योत्र-योक्त्रे शम्या स्त्रियां स्याद्युगकीलकश्च । खलं त्रिषु खलेवालं धान्यराशीकृतिस्थलम् । ;p{0274} ;l{6480} स्यात्खलायाहृतं खल्यं कथितं भेद्यलिङ्गकम् ॥ २७ ॥ उकारश्च निकारश्च द्वौ धान्य[127b]क्षेपणार्थकौ । खलेवाली स्त्रियां द्वंद्वे मेथिर्मेधिरुभे मते । खले गोबन्धकाष्ठेऽथ धान्यादिक्षेपणार्थके ॥ २७ ॥ काष्ठे पञ्चाङ्गुलं क्लीबे धान्यं सीत्यं च सस्यकम् । ;l{6485} व्रीहिः स्तम्बकरी पुंसि व्रीहिस्त्वाशुश्च पाटलः ॥ २८ ॥ व्रीहिमान्व्रीहिको व्रीही शालिलः शालिकस्तथा । शाली च शालियुक्तेऽथ चरव्यश्चरवे हुतः । स राजभोजनो राज्ञा भुज्यते योऽन्यलिङ्गकः । शालयः कलमाद्याः स्युः कलमो ना कलामकः । ;l{6490} लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिकः ॥ २९ ॥ जीर्णप्रकारशालिर्यो गदितः स च जीर्णकः । षष्टिको गर्भपाकी स्याद्व्रीहिभेदोऽस्त्रियामणुः । वनव्रीहिस्तु नीवारो यवस्तु शितशूककः ॥ ३० ॥ अश्वप्रियः प्रावटोऽथ तोक्मोऽसौ हरितो भवेत् । ;l{6495} साक्तुकः सक्तुसाधुर्यो यव आपूपिकस्त्रिषु ॥ ३१ ॥ गोधूमचूर्णं समिता शुद्धा च कणिका स्त्रियः । गो[128a]धूम-सुमनौ तुल्यौ भूजम्बूरत्र योषिति ॥ ३२ ॥ प्रियङ्गु-कङ्गु-कङ्गुन्यः क्वङ्गुः स्त्री पीततन्दुला । शोधिका मुशटी श्वेता साथ पीता तु माधवी ॥ ३३ ॥ ;l{6500} लोहिता मधुका मा(सा?)तु सा कृष्णा विनिगद्यते । श्यामाकः श्यामकश्चाथ कोद्रवः कोरदूषकः ॥ ३४ ॥ उद्दालस्तु स वन्यः स्याद्यावनालस्तु जूर्णकः । युगंधरो योनलश्च योन्नालो बीजपुष्पकः ॥ ३५ ॥ ;p{0275} देवधान्यं बर्बटी तु गवेधूः स्याद्द्विलिङ्गका । ;l{6505} चीनकः काककङ्गुः स्यादथ स्युस्त्रिःफलीकृताः ॥ ३६ ॥ स्थालीबिल्यास्त्रिषु स्थालीबिलीयाः कलमादयः । आबर्हिमूला शाल्या स्यान्मूल्याः स्युर्भेद्यलिङ्गकाः । तन्दुलोऽवहतव्रीहिगर्भो मुद्गस्तु शारदः ॥ ३७ ॥ लोभ्यो बलाटः प्रथनो हरितस्तु हरिर्मतः । ;l{6510} पीतेऽत्र वसुखण्डीरः प्रवेलो जय इत्यपि ॥ ३८ ॥ कृष्णे प्रवर-वासन्त-हरिमन्थज-शिम्बिकाः । वन्ये खण्डी-तुबर[128b]क-निगूढ*[क]कुलीनकाः ॥ ३९ ॥ आढकी तुबरी वर्णा राजमाषस्तु बर्वटः । माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ४० ॥ मसुरा च मसूरा च द्वंद्वे स्याद्व्रीहिकाञ्चनः । ;l{6515} मङ्गल्यकश्चाथ समौ मकुष्टक-मयुष्टकौ ॥ ४१ ॥ राजमुद्गः कुलत्थस्तु कालवृन्तोऽभिधीयते । कुलत्थिका ताम्रवृन्ता कलायस्तु सतीनकः ॥ ४२ ॥ सातीनः खण्डिकश्च स्याद्धरेणुर्द्वयलिङ्गकः । ;l{6520} त्रिपुटो वण्टकस्त्वेष वर्तुलो विनिगद्यते ॥ ४३ ॥ हरिमन्थस्तु चणको निष्पावः सितशिम्बिकः । वल्लश्चाथ तिलस्तैलफलपूतेऽथ जर्तिलः ॥ ४४ ॥ स वन्यस्तिलपेजस्तु तिलपिञ्जश्च निष्फलः । स एव कृष्णवर्णश्चेत्कृष्णको विनिगद्यते ॥ ४५ ॥ ;l{6525} उमा क्षुमातसी चण्डी विकारे त्वौममौमकम् । त्रिषु तस्या अथो धूलौ स्यादुमाकटमन्तिमे ॥ ४६ ॥ ;p{0276} शणो भङ्गा मातुलानी रजस्त्व[129a]स्यास्तिलस्य च । भङ्गाकटं तिलकटमथाश्वयुजकं भवेत् ॥ ४७ ॥ यदुप्यते पौर्णमास्यामाश्वयुज्यां विशेष्यवत् । ;l{6530} तद्विकारे तिलमयं तथा यवमयं भवेत् । किंशारुः सस्यशूकोऽस्त्री शिलोऽस्त्री कणिशोऽपि च ॥ ४८ ॥ सस्यस्य मञ्जरी चाथ काण्डोऽस्त्री सस्यनाडिका । नाली नालं निफलस्तु पलालोऽस्त्री पलश्च सः ॥ ४९ ॥ स्याद्यावकस्तु कुल्माषः पुलाकस्तुच्छधान्यकम् । ;l[6535} बुषं बुसं तु न स्त्रियां कडंगरः कडंकरः । कणस्तु सूक्ष्मतन्दुलस्तुषस्तु पुंसि तत्त्वचि ॥ ५० ॥ रिद्धमृद्धं चावसितं पूतं स्याद्बहुलीकृतम् । यन्निर्बुसीकृतं धान्यं कण्डितं त्वाहतं त्रिषु ॥ ५१ ॥ माषादयः शमीधान्यं शूकधान्यं यवादयः । ;l{6540} नीवारवरकाद्यानि नृणां धान्यानि निर्द्दिशेत् ॥ ५२ ॥ ईतिः स्त्रियां धान्यविघ्ने धान्यसंघे तु सास्यकम् । वाटभङ्गस्तु शस्यानां नखेन ग्रहणं भवेत् । प्रस्फोटनं तु पवन[129b]मवघातस्तु कण्डनम् । अयोग्रं मुसलं न स्त्री मुशलं मुषलं... ॥ ५३ ॥ ;l{6545} अयोनिशूकिलोऽथास्याग्रे शम्बः कण्डनी पुनः । उलूखलोदूखले च * [शू]र्प-सूर्पे तु न स्त्रियाम् ॥ ५४ ॥ प्रास्फोटनं चालनी तु न ना तितउ न स्त्रियाम् । सूदशाला रसवती पाकस्थाने महानसम् ॥ ५५ ॥ पक्तिः पचा रन्धनं च पाकः पक्त्रिम-पाकिमे । ;l{6550} निवृत्ते पाकतोऽथ स्यात्पक्ता * * च पाचकः । ;l{0277} महानसे त्वधिकृते पौरोगव-पुरोगुकौ । सूदाध्यक्षश्च सूदास्तु पाकुका वल्लवा गुणाः ॥ ५६ ॥ भक्तकाराः सूपकाराः सौपिकारालिकावपि । प्रस्थपाणिः पचेलुश्चौदनिकान्धसिकावपि ॥ ५७ ॥ ;l{6555} आ*[पू]पिकः कान्दचिको भक्ष्यकार इमे त्रिषु । अथान्तिका चुल्लिरधिश्रयणी मूलकारिका ॥ ५८ ॥ उद्धानमश्मन्तमथाङ्गारधानी हसन्तिका । हसन्यङ्गारशकटी तथा साङ्गारपात्रिका ॥ ५९ ॥ भ्राष्ट्रमि[130a]न्धो भ्राष्ट्रमिन्धे यः स्वयं भेद्यलिङ्गकः । ;l{6560} भ्राष्ट्राम्बरीषौ न स्त्री स्तो ऋचीषं स्यादृजीषवत् । न द्वयोः पिष्टपचनं भवेन्मांस्पचनं पुनः ॥ ६० ॥ मांस्पाकपात्रं कन्दुस्तु द्वयोः स्यात्स्वेदनी स्त्रियाम् । पालिका स्यात्कुन्तलिका दध्यादिच्छेदिनी हि या । दर्विः कम्बिः खजाकाथ तर्दूर्ना दारुहस्तकः ॥ ६१ ॥ ;l{6565} अलिंजरोऽस्त्री मणिके कटाहस्त्रिषु कर्परम् । कर्क्करी कर्क्करीका स्यादालुरालूर्गलन्तिका ॥ ६२ ॥ वार्द्धनी कारकोऽस्त्री स करङ्को नालिकेरजः । * * * * * * * * कुम्भी कुम्भीरुखा कुला । चरुर्ना पिठरस्त्रय्यां कलशः कलसस्त्रिषु । ;l{6570} घटः कुम्भः करीरो ना न स्त्री कुट-निपावुभौ । घटः कुम्भश्च मिथुने करीरोऽस्त्री कुटो निपः ॥ ६४ ॥ पुटग्रीवश्च विट्वालः प्रघणस्ताम्रजो मतः । काचजः कटखादोऽथ कुनालो हण्डिकासुतः ॥ ६५ ॥ अयस्कुम्भः पयस्कुम्भोऽयस्पात्रीत्यादि तस्य चेत् । ;p{0278} ;l{6575} शरावोऽस्त्री वर्द्धमानः [130b] शालाजिरक-पार्थिवौ । मृत्कांस्यं चाथ मन्थन्यां गर्गरी कलशी समे ॥ ६६ ॥ नेत्रं मथिगुणो न स्त्री मन्थनं तु विलोडनम् । वैशाखः खजको मन्थो मन्थास्तक्राट इत्यपि । माथः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटकोऽपि सः ॥ ६७ ॥ ;l{6580} दण्डमाथं धावति यो भेद्यवद्दाण्डमाथिकः । श्रेणिर्द्वयोः कंशमयं स्थलं त्वशतभाजनम् ॥ ६७ ॥ मल्लिका कोशिका पारी कंसस्तु चषकोऽस्त्रियाम् । स्यात्पानभाजनं न स्त्री पिधानं स्यादुदञ्चनम् ॥ ६८ ॥ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् । ;l{6585} कृता सर्वा चर्मणा सा सार्वचर्मीणकोच्यते ॥ ६९ ॥ भेद्यवत्सर्वचर्मीणं दृतिर्भस्त्रा च खल्वकः । प्रसेवकः पुमानत्र द्वयोश्चर्मप्रसेविका । भूते दृत्यां कलस्यां च दार्त्तेयं कालशेयवत् । चर्मणो जलपात्रे स्यादालूः करकपात्रिका ॥ ७० ॥ ;l{6590} सर्वमावपनं भाण्डं पात्रं तु त्रिषु भाजनम् । अमत्रं भु[131a]ज्युराद्येऽथ स्थालं तच्च महीयसि ॥ ७१ ॥ प्रस्थंपचं प्रास्थिकं च द्रौणं द्रौणिकमित्यपि । द्रोणपाचि स्यादथाढकीनमाढकिकं तथा ॥ ७२ ॥ आचितीनं त्वाचितिकं पात्रीणं पात्रिकं तथा । ;l{6595} सर्वपात्रव्यापकं यत्सर्वपात्रीणमुच्यते । प्रस्थंपचादित्रितये देहयात्रा तु भोजनम् । जक्षणं भक्षणं प्रत्यवसानं जेमनादने ॥ ७२ ॥ स्वदनं स्वादनं प्सानं विष्वाणं कल्पनं च तत् । ;p{0259} अवष्वानाशने न्यादो निघसोऽभ्यवहारवत् ॥ ७३ ॥ ;l{6600} वल्भ आहारलेहा च घसि-जग्धी स्त्रियौ न्यदः ॥ ईषद्घृतादियुक्तेऽस्मिन्नव्ययं स्याद्घृतप्रति । चर्वणं चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ॥ ७४ ॥ कल्यवर्तः प्रातराशः सग्धिः स्त्री सहभोजनम् । सपीतिस्तुल्यपानं स्यादथ ग्रासो गुडेरकः ॥ ७५ ॥ ;l{6605} गुडः पिण्डो गडोलश्च गण्डोलः कवकोऽपि सः । कवलोऽस्त्री स्वयं त्वेष बद्धः सिन उदीर्यते । स्यात्सितोऽन्यस्तर्पणं तु तृप्तिः सौहित्यमित्य[131b]पि ॥ ७६ ॥ आघ्राणालेपने स्त्री तु फेला-पिण्डोलि-फेलयः । गण्डोलश्चोचमुच्छिष्टं तथा कवटमस्त्रियाम् ॥ ७७ ॥ ;l{6610} उच्छिष्टभिन्नो भुक्तावशेषो विघस ईरितः । शोषणं तु रसादानं घीतिः स्त्री पान-धानके ॥ ७८ ॥ पेयं लेह्यं च चोष्यं च भक्ष्यं चेति पृथक्त्रिषु । काञ्जिकं * * * शुक्तं धान्याम्लं च तुषोदकम् ॥ ७९ ॥ आरनालक-सौवीर-कुल्माषाभिषुतानि च । ;l{6615} अवन्तिसोममुन्नाहं सुवीराम्लं च कुञ्जलम् ॥ ८० ॥ महारसं कुण्डगोलं गृहाम्भो धातुनाशनम् । चुक्रं रक्षोक्षकं चाथ स्नेहे स्नैनं तु न स्त्रियाम् ॥ ८१ ॥ म्रक्षणाभ्यञ्जने वस्तु कटुतैलं तु सार्षपम् । न स्त्रियौ खल-पिण्याकौ खलि-पिण्ड्यौ स्त्रियावुभे । ;l{6620} इक्षो रसस्य समलत्र्यंशोर्ध्वाङ्घ्रिमलामलाः ॥ ८२ ॥ विकाराः फाणित-गुड-मत्स्यण्डी-खण्ड-शर्कराः । गुड इक्षुरसक्वाथो मत्स्यण्डी पल्लिकापि सा ॥ ८३ ॥ ;p{0280} मीनाण्डी मधुधूलिस्तु खण्डः स्यात्पिण्डश[132a]र्करा । शर्करा सिकता श्वेताहिच्छत्रा च सितोपला ॥ ८४ ॥ ;l{6625} मधुरा सा माधवी सा पक्वा यस्य तु चार्करा । स्याद्यासशर्करा पुष्पासवस्तु मधु न स्त्रियाम् ॥ ८५ ॥ माक्षिकं मक्षिकाविट् च सारघं तैलवद्धि यत् । क्षौद्रं तु तत्कपिलाभं स्यात्पौत्तिकं घृतसंनिभम् ॥ ८६ ॥ भ्रामरं श्वेतवर्णं स्याच्चतस्रो मधुजातयः । ;l{6630} मधूच्छिष्टं तु मयणं सिक्थं चात्र नपुंसके । आर्घ्यं छात्रं तथौद्दालं मधुभेदाः परेऽपि च ॥ ८७ ॥ रसाला स्याच्छिखरिणी रोमाली मार्जितापि सा । गुडाम्लिकादिसंयुक्तं पानकं सलिलादिकम् ॥ ८८ ॥ रागस्तु पानकं स्वादु पट्वम्लरससंयुतम् । ;l{6635} मरिचाद्यन्वितो रागः खाडवो विनिगद्यते ॥ ८९ ॥ मधुखर्जूरमृद्वीकापरूषकसिताम्भसा । कृतं यत्पानकं रुच्यं पञ्चसारं तदुच्यते ॥ ९० ॥ कूर्चिका कुर्चिका क्षीरविकारोऽथ पयो यदि ॥ ९१ ॥ [132b] गदिता दधिकूर्चीका पक्वं दध्ना समन्वितम् । ;l{6640} तक्रेण तक्रकूर्चीका क्षीरशाकस्त्वपाकतः । क्षीरदध्नोर्हि यो भागः पृथग्भूतघनद्रवः । किलाटो मिथुने क्षीरदध्नोर्यो घनभागकः ॥ ९३ ॥ द्रवभागो मोरणो यत्त्रिषु भारूटकावधः (?) । औख्यं तूखासंस्कृतं यद्दाधिकं दध्नि संस्कृतम् ॥ ९४ ॥ ;l{6645} क्षीरे क्षैरेयमौदश्वित्कमौदश्वितमित्यपि । एवं सार्पिष्क-कौलत्थ-दकलावणिकादयः ॥ ९५ ॥ ;p{0281} स्याच्चूर्णि चूर्णसंसृष्टं मौद्गं मुद्गैः समन्वितम् । प्रणीतमुपसंपन्नं प्रयस्तं तु सुसंस्कृतम् ॥ ९६ ॥ पक्वं राद्धं च संसिद्धं भृष्टं पक्वं विनाम्बुना । ;l{6650} स्यात्पिच्छिलं विजिविलं विजिलं विज्जलं च तत् ॥ ९७ ॥ पूतं स्याद्गलितं स्निग्धं मसृणं चिक्कणं समम् । अम्लीकृतं त्वासुतं स्यान्मांसे शूलेन पाचितम् ॥ ९८ ॥ शूल्यं शूलाकृतं भारूटकं भूतिश्च भृष्टकः ॥ ९९ ॥ ;l{6655} भक्तौदनोन्धोमसरारनाल- [133a]प्रसादनान्नानि च जीवनं च । याजं च वाजं कुरुरोदनोऽस्त्री कूराशने दीदिवि चात्र भिस्सा ॥ १०० ॥ त्रिष्वाशितंभवो येन भवेदतिथिराशितः । भिस्सटा-दग्धिकेऽथास्मिन्स यवेनाद्य-यावकौ ॥ १ ॥ ;l{6660} तिलतन्दुलमाषाश्च कृशरा-त्रिसरे स्त्रियौ । भूतौदनो दधिनिशा सत्तुलाजतिलान्वितः ॥ २ ॥ मण्डः सर्वरसाग्रेऽस्त्री तस्मिन्नोदनसंभवे । मासराचाम-निस्रावा सिक्थः पुंसि पुलाकवत् ॥ ३ ॥ पार्परोऽस्त्री स्त्रियां तु स्यात्पेयाल्पतरसिक्थका । ;l{6665} यवागुरुष्णिका किंचित्सिक्थोष्णा सा नखंपचा ॥ ४ ॥ श्राणा विलेपी तरला यवागूर्घनसिक्थका । गारित्रं लड्डुकः पुंसि मोदकोऽस्त्री च संमतः । एलाकर्पूरमरिचकयुक्तोऽसौ सिंहकेसरः ॥ ५ ॥ ;p{0282} पूपोऽपूपः पिष्टकश्च मण्डकोऽसौ गुडादियुक् । ;l{6670} स्यात्संयावः पूलिका तु पोलिका[133b] पोलि-पूपिकाः ॥ ६ ॥ पूपल्यथेषत्पक्वासावभ्यूषोऽभ्योष आदिमे । पौलिः स्त्रियां पूरणं तु सगुडस्विन्नपिष्टकम् ॥ ७ ॥ पिष्टपूरो घृतवरो घृतपूरश्च घार्त्तिका । चमसि [ पिष्टवर्ति स्यात् ] * * * * * ॥ ८ ॥ ;l{6675} आपूपिकं शाष्कुलिकं तद्गणे तु नपुंसकम् । तस्मै हितमपूपीयमपूप्यं च विशेष्यवत् ॥ ९ ॥ नियुक्तं दीयते श्राणा यस्यै सा श्राणिकी तथा । स्यान्मांसोदनिकी भाक्ती भाक्तिकी च विशेष्यगाः ॥ १० ॥ स्यात्तेमनं च निष्ठानं वटकस्त्ववसेकिमः । ;l{6680} शाण्डाकी कन्दमूलादिमुद्गादिवटकैः कृताः ॥ ११ ॥ पायसं परमान्नं स्यात्प्रहितं त्ववरान्नकम् । सूदः सूपः कूलकोऽस्त्री बुस्तं मांसजलं रसः ॥ ९ ॥ यूर्ना रसो यूषमस्त्री पक्वमुद्गादिजे जले । खलः पक्वैर्मूलफलैरथ काम्बलिको भवेत् । ;l{6685} समांसकट्वम्लयुतो रसाद्यास्त्वकृताः कृताः ॥ १० ॥ कटुक्षारस्नेहहीना[134a] हीनाश्च क्रमतो मताः । यवचूर्णं चिक्कसोऽस्त्री धाना भृष्टयवे स्त्रियः । धानाचूर्णं सक्तवः स्युर्भूम्न्यस्त्री मस्तुरादिमे । ते द्रवाः खोडिता मन्थोऽथोदमन्थो जलप्लुताः ॥ १२ ॥ ;l{6690} दध्नाप्लुतः करम्भोऽस्त्री त्वक्षताः पुंसि भूयसि ॥ १३ ॥ ;p{0283} लाजा भूम्नि द्वयोर्भृष्टः शलिखादिक उद्बुसः । भृष्टार्द्रशूकधान्ये स्यात्पृथुकश्चिपिटः समौ ॥ १४ ॥ उलुम्बकस्तु गोधूमो भृष्टो योऽथोलको भवेत् । भृष्टाः शिम्ब्या (?) व्यञ्जनं तु घृतप्रभृति कथ्यते ॥ १५ ॥ ;l{6695} गव्यं त्रिषु गवां सर्वं पयस्यं तु पयोभवम् । अस्त्री क्षीरपयः सूमं सोमजोधस्यनामकम् ॥ १६ ॥ स्तन्यं पुंसवनं दुग्धं गोरसोऽभिनवं तु तत् । पेयुषोऽस्त्री स सप्ताहान्मोरणो मोलिकश्च सः ॥ १७ ॥ शार्क्वको दुग्धतालीयं दुग्धफेनश्च संमतः । ;l{6700} शृतं पक्वे घृतक्षीरे शीनं तु स्त्यानमित्यपि । उष्णीकृतं विलीनं स्याद्धृतं स्त्यानादयोऽन्यवत् । गोरसो दधिदुग्धोत्थं द्रप्सं स्यात्प[134b]त्तलं दधि । अजातं दधि मन्दं स्यान्मस्त्वन्त्ये दधिमण्डकः । दध्युत्तरो दधिसरो दध्यग्र्यः कट्वरोऽपि सः । ;l{6705} दधिस्नेहो घृतं त्वस्त्री हविः सर्पिर्हविष्यवत् ॥ १९ ॥ आधार आज्यं खजपमुशिक्तामरमित्यपि । हैयंगवीनं तु नवं तक्रं त्वस्त्री च कट्वरः ॥ २० ॥ दधिसारः शरोत्थं चाथार्घाम्बूदश्विदन्तिमे । निर्जलं मथितं घोलो गोरसोऽरिष्टमित्यपि ॥ २१ ॥ ;l{6710} दण्डाहतं कालशेयं भवेच्छ्वेतरसं तु तत् । द्विगुणाम्भोऽथ कामं स्यात्प्रकामं च निकामवत् ॥ २३ ॥ पर्याप्तमुपसंपन्नमिष्टं क्लीबे यथेप्सितम् । सर्पिर्मज्जा वसा तैलमिति स्नेहचतुष्टयी । द्वाभ्यां तु यमकस्ताभ्यां त्रिभिस्त्रिवृन्नामकः । ;p{0284} ;l{6715} महांश्चतुर्भिरुदितो वैद्यशास्त्रविचक्षणैः । स्नेहमात्रोत्तमानन्ना प्राग्भक्ताल्पावपीडकः । पाशुपाल्यं जीववृत्तिर्गोमान्गोमी गवीश्वरः ॥ २३ ॥ स्याद्गौसहस्रिको यः स्या[135a]द्गोसहस्रसमन्वितः । गोप-गोपाल-गोसंख्य-गोधुगाभीर-वल्लवाः ॥ २४ ॥ ;l{6720} गोविन्दोऽधिकृतो गोषु स तु पञ्चगस्वकः । यस्य स्वं पञ्च गावः स्युर्गच्छति त्वनु गुह्यतः ॥ २५ ॥ योऽसावनुगवीनः स्यादागवीनस्तु कर्मकृत् । गोः प्रत्यर्पणपर्यन्तं त्रिषु स्युर्गोमिदा(ना?)दयः ॥ २६ ॥ गोमहिष्यादिकं पादबन्धनं पादवन्धनम् । ;l{6725} गोधनं गोकुलं पुंसि व्रजश्च विनिगद्यते ॥ २७ ॥ वृषः ककुद्मानृषभोऽप्यनड्वान् स्याद्वाडवेयो वृषभश्च भद्रः । गौः सौरभेयो वहतुश्च धाको- ऽप्युक्षा बलीवर्द इहापि शक्वा ॥ २८ ॥ ;l{6730} प्रोष्ठः सधिः शाक्वर-शांकरौ च महोक्षनामोक्षतरः स उक्तः । वृद्धोक्ष उक्तोऽतिजरद्गवोऽथ जातोक्षसंज्ञः स च जात उक्षा ॥ २९ ॥ ;l{6735} स्कन्धवाही स्कान्धिकः स्यादार्षभ्यः षण्ढतोचितः । ;l{6735} इट्वरो गोपतिः षण्ढो गोवृषो मदकोहलः । स्यात्कूलमुद्रुजोऽनड्वान्यो दृप्तः कूलमुद्रुजन् । शकृत्करिस्तु वत्सः[135b] स्याद्दम्य-वत्सतरौ समौ ॥ ३० ॥ सद्योजातस्तर्णकोऽसौ द्विदन्षोडन्द्विषड्रदौ ॥ ३१ ॥ ;p{0285} शृङ्गवाञ्शृङ्गिणः शृङ्गी कूटो भग्नविषाणकः । ;l{6740} काले त्वजातशृङ्गोऽसौ तूवरः समुदीरितः ॥ ३२ ॥ नस्योतो नस्तितो नाथ हरिर्नस्यां वहन्नसि । स्यात्कूलमुद्वहः कूलं पष्ठवाड्युगपार्श्वगः ॥ ३३ ॥ वहंलिहश्च प्रासङ्ग्यः शाकटस्तद्वहः पृथक् । ;l{6745} तद्वोढा तेन खनतीत्यादौ हालिक-सैरिकौ ॥ ३४ ॥ धुर्यो धुरीणो धौरेयो धूर्वहश्च धुरंधरः । उभावेकधुरीणैकधुरावेकधुरावहे ॥ ३५ ॥ गलिः शक्तोऽप्यधूर्वोढा त्रिषु स्युः स्कान्धिकादयः । औक्षकं तूक्षवृन्देऽन्त्येऽथोक्ष्णः स्यादिदमादिषु । ;l{6750} औक्षमौक्ष्णं त्वपत्येऽस्य गव्या गोत्रे गवां व्रजे ॥ ३६ ॥ धेनूनां धैनुकं वृन्दे वत्सानां वात्सकं गणे । आधेनवं त्वधेनूनां स्याद्धेन्वनडुहं पुनः ॥ ३७ ॥ धेनोर्वृषस्य च[136a] द्वंद्वे स्कन्धस्त्वस्य वहः स्मृतः । ककुदं कुकुदं न स्त्री यद्वृषस्यांसकूटकम् ॥ ३८ ॥ नैचिकं तु शिरोऽथास्त्री शृङ्गं स्यात्कूणिका स्त्रियाम् । ;l{6755} विषाणी च विषाणा च स्वत एव त्रिलिङ्गभाक् ॥ ३९ ॥ नाथस्तु नासारज्जुर्या सास्ना तु गलकम्बलः । गौरुस्राध्न्याप्यनड्वाही माता माहानडुह्यपि ॥ ४० ॥ सौरभेयी च माहेयी तम्पा तम्बा निलिम्पिका । ;l{6760} उषा शृङ्गिण्यर्जुनी च रोहिणी सुरभिश्च सा ॥ ४१ ॥ नैचिकी तूत्तमा गोषु सैव स्याद्गोमतल्लिका । वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ४२ ॥ ;p{0286} वशा वन्ध्यावतोका तु स्रवद्गर्भाथ संधिनी । आक्रान्ता वृषभेणाथ वेहद्या हि वृषोपगा ॥ ४३ ॥ ;l{6765} गर्भोपघातिनी चाथ प्रष्ठौही यास्ति गर्भिणी । असिक्नी च पलिक्नी च या गौः स्याद्बालगर्भिणी । काल्योपसर्या प्रजने धेनुः स्यान्नवसूतिका ॥ ४४ ॥ धेनुंभव्या भविष्यन्ती धेनुर्या सुव्रता पुनः । सुखदो[136b]ह्याथ करटा यातिदुःखेन दुह्यते ॥ ४५ ॥ ;l{6770} सुकरा स्यादचण्डी सा परेष्टुर्बहुसूतिका । गृष्टिः सकृत्प्रसूता या बहुदुग्धा तु वञ्जुला ॥ ४६ ॥ । प्रौढवत्सा बष्कयिणी पीनोध्नी पीवरस्तनी । अत्यूध्नी वन्दितोध्नी स्याद्व्यूध्नी तु द्विगुणस्तनी ॥ ४७ ॥ द्रोणक्षीरा द्रोणदुग्धा धेनुष्या पीतदुग्धका । ;l{6775} उत्तमर्णगृहे यावदृणमुक्तिं स्थिता हि या ॥ ४८ ॥ अद्यश्वीना तु सा गोः स्याद्याद्यश्वो वा विजायते । सुपुच्छी तु सुपुच्छा स्याच्चित्रपुच्छा तु सा भवेत् । नित्यं कम्बरपुच्छ्येव व्याघ्रपुच्छी तु तादृशी । समांसमीना प्रत्यब्दं या सूतेऽमी तु भेद्यवत् ॥ ४९ ॥ ;l{6780} गवां मले गोमयोऽस्त्री भूमिलेपनमित्यपि । साढो गोग्रन्थिरुपलोत्पले न स्त्री करीषवत् । पिष्टकं छगणं छाणं शुष्के गोमूत्र-गोजले । आपीनोऽस्त्री क्लीबमूधः कीलः पुष्पलकः शिवः । तिष्ठद्गु त्वव्ययं दोहसमयः क[137a]थितो गवाम् । ;l{6785} स्यादायतीगवं तद्वद्यत्रागच्छन्ति धेनवः ॥ ५० ॥ दारागवोः पुनर्द्वंद्वे क्लीबे दारगवं भवेत् । नपुंसि दाम * * * * * * * समन्विता । ;l{0287} उद्दामानं तथोद्दामां प्राहुरुत्कृष्टदामनीम् ॥ ५१ ॥ पशुरज्जुर्दामनी स्यात्प्रजनोपसरौ समौ । ;l{6790} द्रोणी गवादनी च स्त्री गवादेर्भक्ष्यभाजनम् । गोगोयुगं तु गोयुग्ममेवं स्यादुष्ट्रगोयुगम् ॥ ५२ ॥ गोषड्गवं गवां षट्त्वं तद्वत्स्यादुष्ट्रषड्गवम् । अजः शुभोऽपि जाबालश्छगलश्छागलश्छगः ॥ ५३ ॥ वस्तः स्तभः पशुश्छागोऽथाजा छागी गलस्तनी । ;l{6795} सर्वभक्षा च मञ्जाथ वर्करस्तरुणः पशुः ॥ ५४ ॥ वाध्रीणस * * * * पशुभेदाः प्रकीर्तिताः । अजथ्या*[स्या]द्भेद्यलिङ्गा हिताजाया अजस्य वा ॥ ५५ ॥ तथाविथ्याप्यथाजस्य भिषक्स्याच्छागलेमिनः । आजकं त्वजवृन्देऽन्त्ये मेण्ढस्तूर्णायुरेडकः ॥ ५६ ॥ ;l{6800} अविर्हुडुरजो वृष्णिरुरणोर[137b]भ्र-रोमशाः । मेषोऽस्त्री भेड-संफाल-शृङ्गिणो अविको धनुः ॥ ५७ ॥ जालकिन्यविला वेणी कुररी चरुजापि सा । पृष्ठशृङ्गो वनाजः स्यादैडिकः शिशुवाहकः ॥ ५८ ॥ ऊर्णा मेषादिलोम्नि स्त्री वृन्दे त्वौरभ्रकं मतम् । ;l{6805} ऊर्णायास्तु विकारे स्यादौर्णमौर्णकमन्त्यवत् । कम्बल्यं कम्बलीया तु नामनि * * * * * । संघातोऽवेरविकटोऽविपटस्त्वविविस्तृतौ ॥ ५९ ॥ अविसोढं चाविदूसं भवेदविमरीसवत् । अविक्षीरे महाङ्गस्तु मय उष्ट्रः क्रमेलकः ॥ ६० ॥ मरुप्रियः केलिकीर्णो दीर्घग्रीवः शिशुः शलः । ;l{6810} द्विककुद्भोलि-वासन्त-रवणाः कण्टकाशनः ॥ ६१ ॥ ;p{0288} दासेरकश्च भूतघ्नो वारणो दुर्गलङ्घनः । ललज्जिह्वो मया तूष्ट्रा करभः स त्रिहायणः ॥ ६२ ॥ औष्ट्रकं तूष्ट्रवृन्देऽन्त्ये चिरमेही तु गर्दभः ॥ ६३ ॥ ;l{6815} चक्रीवांश्चक्रवालश्च बालेयो रासभः खरः । शङ्कुकर्णो[138a]थाश्वतरे स्तो वेगसर-वेसरौ ॥ ६४ ॥ सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः । क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः । पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः । वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥ ;l{6820} कन्यापालः पालवणिक्कन्याजीवश्च स स्मृतः । मूल्यं निमानं वस्नोऽस्त्री पुंस्यर्घोऽवक्रयस्तथा । नीवी परीणयो मूलं लाभोऽधिकफलं हि यत् ॥ ६७ ॥ वैलाभ्यं तु विलाभत्वं स्त्रियां भावे विलाभता । ;l{6825} विलाभिमा पुंसि च स्याद्विलाभो मूलसंक्षयम् । उपधानं तूपनिधिर्न्यासोऽनाख्याय भाण्डगम् । वस्तु न्यस्तं परकरे स्थापितं तु प्रकाश्य यत् । स निक्षेपोऽथ तद्दानं प्रतिदानमुदीरितम् । क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ ६९ ॥ ;l{6830} पणितव्यं तु विक्रेयं पण्यं पन्यं च तादृशम् । विक्रीतं पणितं च स्यात्पनितं च पणायितम् ॥ ७० ॥ क्रे[138b]यादयोऽन्यलिङ्गाः स्युर्विपणो विक्रयः समौ । तुला तु तोलनामत्रं पात्रं पाण-धटौ समौ ॥ ७१ ॥ प्रग्राहस्तु तुलासूत्रमुद्गीर्णं तोलितोद्यते । ;l{6835} तुला संमितं तुल्यमुद्गीर्णाद्या विशेष्यगाः । त्रिषु क्रीतादिके गौपुच्छिकं क्रीतं हि तेन यत् ॥ ७१ ॥ ;p{0289} निष्केण नैष्किकं क्रीतं तथा परमनैष्किकम् । पाणिकं पादिकं च स्यात्प्रास्थिकं द्रौणिकं तथा ॥ ७२ ॥ षाष्टिकं स्यात्साप्ततिकं क्रीतं यत्स्यात्पणादिभिः । ;l{6840} शत्यं च शतिकं चाश्वशतं स्याच्छतकः पुनः ॥ ७३ ॥ परिमाणं यस्य शतं पञ्चक्रीतं तु पञ्चकम् । कतिकं कतिभिः क्रीतं भवेत्तावतिकं पुनः ॥ ७४ ॥ तावत्कं चाथ विंशत्या क्रीतादि स्याच्च विंशकम् । असंज्ञायां कंसिकी तु कंसक्रीत्यर्द्धिकी तथा ॥ ७५ ॥ ;l{6845} प्रतिकी कार्षापणिकी शौर्पं शौर्पिकमित्यपि । तथा द्विशूर्पकक्रीते द्विशूर्पं च द्विशौर्पिकम् । पाराय[139a]णिकमेवं स्याद्द्वैपारायणिकं तथा । द्विकार्षापणतुल्यं स्याद्द्विकार्षापणिकं * नौ ॥ ७६ ॥ शातमानं वैशतिकं साहस्रं वासनं पृथक् । अध्यर्द्धप्रतिकं चाध्यर्द्धकार्षापणिकं तथा ॥ ७७ ॥ ;l{6850} अध्यर्द्धकार्षापणवदथ द्विशतमानवत् । द्विशातमानं संप्रोक्तमथ द्वैनिष्किकं मतम् ॥ ७८ ॥ द्विनिष्कं बहुनिष्कं तु बहुनैष्किकमुच्यते । द्वैबिस्तिकं द्विबिस्तं स्यात्त्रिबिस्ताद्येवमुन्नयेत् ॥ ७९ ॥ ;l{6855} अथोच्यतेऽध्यर्द्धविंशतिकीनमथ संमतम् । द्विखारीकं तथाध्यर्द्धखारिकाद्येवमुन्नयेत् ॥ ८० ॥ खारीकं च द्विपण्यं च द्विमाष्यं च द्विमाष्यवत् । अध्यर्द्धशाण्यमध्यर्द्धशाणं स्यात्तु द्विशाण्यवत् ॥ ७१ ॥ 302-311 ;p{0290} द्वैशाणं चद्विशाणं स्यादथास्य परिमाणकम् । ;l{6860} स्यात्प्रस्थः प्रास्थिकोऽसौ स्यात्पञ्चकः पञ्चसंघकः ॥ ७२ ॥ पञ्चच्च पञ्चको वर्गो दशद्दशक इत्यपि । क्लीबे सत्यापनं[139b] सत्यंकारः सत्याकृतिः स्त्रियाम् । गणेयं गणनीयं स्यात्संख्यातं गणितं त्रिषु ॥ ७३ ॥ संख्या त्वेकादिका सा तु संख्येयेष्वादश त्रिषु । ;l{6865} विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ७४ ॥ विंशत्यादेस्तु संख्यायां द्वित्वाद्यपि समुन्नयेत् । संख्यायामपि संख्येये त्र्यादयो भूम्नि संमता । नित्यं द्विवचनान्तो द्वावुभौ न तु तथोभयः । एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवक्रमात् । ;l{6870} दशैकादश संप्रोक्ता द्वादश स्युस्त्रयोदश ॥ ७५ ॥ एकोनविंशतिस्त्वेका द्विविंशतिरिमे समे । द्विचत्वारिंशता तुल्या द्वाचत्वारिंशदित्यपि ॥ ७६ ॥ अष्टाचत्वारिंशदष्टचत्वारिंशसमार्थका । त्रयश्चत्वारिंशति स्युस्त्रिचत्वारिंशदित्यपि ॥ ७७ ॥ ;l{6875} द्वापञ्चाशद्द्विपञ्चाशत्षष्टिस्तु स्यात्त्रिलिङ्गका । दशानां तु समीपे ये भवन्त्युपदशा हि ते ॥ ७८ ॥ आसन्नविंशा त्वेकोनविंशतिश्चैकविंशतिः । पञ्च षड्वा पञ्च[140a]षाः स्युर्द्वित्रा द्वौ च त्रयोऽपि च । सुचतुष्कश्च सुचतुरोऽचतुरस्तु विवर्जितः ॥ ७९ ॥ ;l{6880} चतुर्भिः स्याद्विचतुरस्त्रय्यां तूपदशादयः । तयबन्तं नपुंसि स्यादथ पञ्चतयं भवेत् ॥ ८० ॥ स्युर्यस्य पञ्चावयवा द्वयी तु द्वितयी भवेत् । त्रितयी तु त्रयी चाथोभयी चैकादशं पुनः ॥ ८१ ॥ ;p{0291} एकादशाधिकं यत्स्याच्छतं चापि सहस्रकम् । ;l{6885} समानजातीयत्व एव प्रकृतिप्रत्ययार्थयोः ॥ ८२ ॥ त्रिंशं तु त्रिंशदधिकं शतं विंशं च तादृशम् । एकत्रिंशं चैकविंशं द्विम( त ? )यं तु द्विभागवत् ॥ ८३ ॥ एकादशः पूरणे स्यात्पञ्चमः पञ्चपूरणः । षष्ठः षण्णां कतीनां तु पूरणः कतिथो मतः ॥ ८४ ॥ ;l{6890} स्यात्कतिपयथोऽप्येवं चतुर्णां तु चतुर्थवत् । तुरीय-तुर्यौ पूगानां बहूनां च गणस्य च ॥ ८५ ॥ संघस्य पूरणे पूगतिथे बहुतिथस्तथा । क्रमाद्भवेद्गणतिथस्तथा संघतिथः पृथक् ॥ ८६ ॥ स्या[140b]द्विंशतितमो विंशो विंशतेः पूरणो हि यः । ;l{6895} यावतां तावतां यावति * * * * [थ-तावति ]थौ क्रमात् ॥ ८७ ॥ द्वयोर्द्वितीयः संप्रोक्तस्त्रयाणां स्यात्तृतीयकः । एकषष्टस्त्वेकषष्टितमस्तत्पूरणो हि यः ॥ ८८ ॥ षष्टेः षष्टितमोऽप्येवं सहस्रतमकः पुनः । सहस्रपूरणोऽथैकसहस्रतम ईदृशः ॥ ८९ ॥ ;l{6900} तथा शततमः प्रोक्तो यो षट्शततमस्तथा । अक्तं तु स्यात्परिच्छिन्नं कियत्तु कति संस्मृतम् । यावांस्तावांस्तथैतावान्यदादिपरिमाणके ॥ ९१ ॥ एकादशादयस्त्रय्यां पङ्क्तिस्तु दशवाचिका । आब्धिभूतरसादीनां ज्ञेयाः संख्या हि लोकतः ॥ ९२ ॥ ;l{6905} चतुरादिप्रकारे तु चतुर्धा पञ्चधा तथा । षोढा षड्धाथैकथा स्यादैकध्यं च द्विधा पुनः ॥ ९३ ॥ ;p{0292} द्वेधा द्वैधं त्रैधमेवं त्रिधा त्रेधा च तादृशम् । अव्ययं धान्तमेधान्तं ध्यमुञ् क्लीबे धमुञ्तथा ॥ ९४ ॥ त्रिषु भागे द्वितीयः स्याद्द्वै[141a]तीयीकश्च स स्मृतः । ;l{6910} तार्तीयीकस्तृतीयः स्याद्विधायास्तु स चेद्भवेत् ॥ ९५ ॥ तदा द्वितीय एव स्यात्षष्ठः षाष्ठः समावुभौ । द्वौ द्वौ पादौ द्विपदिका द्वे द्वे द्विशतिका शता । एवं चतुर्मोदकिकेत्यादयोऽपि स्त्रियां मताः । एकादितो दशगुणं यथोत्तरमुदीरितम् ॥ ९६ ॥ ;l{6915} एकं दश त्वलिङ्गं स्याच्छतं त्वस्त्री सहस्रकम् । अस्त्री स्यादयुतं लक्षं न ना प्रयुतमस्त्रियाम् ॥ ९७ ॥ स्त्री कोटिरर्बुदं त्वस्त्री स्यादब्जं खर्वमन्तिमे । निखर्वं च महापद्मं शङ्कुर्द्वंद्वेऽथ वारिधिः ॥ ९८ ॥ अन्त्यं मध्यं परार्द्धं स्यान्न संख्यास्ति ततः परम् । ;l{6920} असंख्यद्वीपबाह्यादि पुद्गलात्माद्यनन्तकम् ॥ ९९ ॥ परःशतं परोलक्षं यच्छ * [ता] दिकतः परम् । क्लीबाव्ययं भवेत्पारे परार्द्धं तस्य पारगम् ॥ १०० ॥ पोतुः स्यात्पौतवाध्यक्षो भेद्यवन्मानशोध्यकः । ऊर्ध्वमानं किलोन्मानं प्रतिमानं च कथ्यते ॥ १ ॥ ;l{6925} [141b]आयामस्तु प्रमाणं स्यात्परिमाणं तु सर्वतः । तुलाद्यैः पौतवं मानं द्रुवयं कुडवादिभिः ॥ २ ॥ पाय्यं हस्तादिभिस्तत्र वंशी तु त्रसरेणुकः । षड्वंशीभिर्मरीचिः स्यात्ताभिः षड्भिश्च राजिका ॥ ३ ॥ त्रिराजिकः सर्षपोऽथ यवोऽष्टाभिश्च सर्षपैः । ;l{6930} गुञ्जा चतुर्यवा तास्तु पञ्च स्युर्माषकोऽस्त्रियाम् ॥ ४ ॥ ;l{0293} धान्यको हेममाषोऽस्त्री स्यात्तत्र हेम नपुंसके । द्वे कृष्णले रूप्यमाषस्तथा धान्यकणा दश । कैश्चित्तु सप्तगुञ्जाभिर्माषकः परिकीर्त्यते । चतुर्माषस्तु धरणः शाणष्टङ्कश्च न स्त्रियाम् । ;l{6935} निष्कोऽपि न स्त्री गद्याणो माषकैः षड्भिरीरितः । क्षुद्रको द्रङ्क्षणः कोलो वटक*[ स्त्व? ]ष्टयुग्मकम् ॥ ५ ॥ कोलद्वयं तु कर्षोऽस्त्री स्यादक्षः पाणिमानिका । तिन्दुकं स्यात्पाणितलं किंचित्पाणि(ः) पिचुश्च सः ॥ ६ ॥ बिडालपदकं क्लीबे स्त्रियां षोडशिका मता । ;l{6940} करमध्यो हंसपदोदुम्बरे कवलग्रहः ॥ ७ ॥ सुवर्णको विस्तो[142a] हेम्नोक्षे कर्षाभ्यां शुक्तिरष्टमी । शुक्तिद्वयं पलं मुष्टिश्चतुर्थी षोडशी वशा (?) ॥ ८ ॥ प्रकुञ्चो विचमात्रं च हेम्नस्तत्कुरुविस्तकः । रूप्य-माषौ षोडशभिर्द्धरणो राजतो भवेत् ॥ ९ ॥ ;l{6945} शतमानं तु न स्त्री स्याद्दशती राजतं पलम् । पलद्वयं तु प्रसृतः प्रसृतिः स्त्री च कथ्यते ॥ १० ॥ प्रसृतिभ्यामञ्जलिः स्यात्कुडवोऽर्द्धशरावकः । अष्टमानं च कुडवः सेटकः कुटपश्च सः ॥ ११ ॥ कुडवौ द्वौ सरावोऽस्त्री प्रस्थोऽस्त्री तौ च मानिका । ;l{6950} त्रिष्वाढकश्चतुःप्रस्थो द्रोणोऽस्त्री चतुराढकः ॥ १२ ॥ नल्वणः कलशस्त्रय्यां राशिर्नोन्मनमन्तिमे । द्रोणाभ्यां शूर्पकुम्भौ *[ च ] चतुःषष्टिशरावकः ॥ १३ ॥ शूर्पाभ्यां तु भवेद्द्रोणी गोणी स्त्री च वहो नरि । गोणीभिः पञ्चभिः क्रीते पञ्चगोणिर्विशेष्यवत् । ;l{6955} द्रोण्यश्चतस्रः खारी स्यात्पलानां तु शतं तुला । ऊर्णापलशते तु स्यात्कम्बलं मिथुने न तत् ॥ १४ ॥ ;p{0294} स्यात्तु[142b]लाविंशतिर्भार आचितो दशभारकः । शाकटीनः * * * [शाकट]श्च शलाटश्चाचितोऽपि सः ॥ १५ ॥ स्याद्व्या * [व ?]हारिकद्रव्ये नाणकं न स्त्रियां नरि । ;l{6960} भागस्तु रूप्यकस्यार्द्धं * * * * * * * * ॥ १६ ॥ स जातरूपः सौवर्णो राजतः कलधौतकः । दीनारस्य तु भागे स्याद्धाणको नरलिङ्गकः । * * [पण-] कर्षापणावस्त्री कार्षिकस्ताम्रिकः पणः ॥ ११७ ॥ पणश्चतुष्काकिणीको द्रम्मः षोडशभिः पणैः । ;l{6965} निष्कोऽस्त्री षोडशद्रम्मास्त्रिषु भागस्य वृद्धिमत् ॥ १८ ॥ भाग्यं च भागिकं स्त्री तु विंशत्यादिर्हि भागिका । द्विखारं तु द्विखारि स्यात्खारिद्वयसमित्यपि ॥ १९ ॥ स्त्रियां तु खारीद्वयसी तथा स्यादर्द्धखारवत् । अर्द्धखारि च यत्खारी खार्यर्द्धादिप्रमाणकम् ॥ २० ॥ ;l{6970} द्रव्यं द्युम्नं वित्तं रमृक्थं मघं रिक्थम् । स्तः स्वापतेय-वसुनी द्रविणं न स्त्री न राः क्लीबे ॥ २१ ॥ अर्थो विभवो लभसो नरि न स्त्री स्वो हिरण्य-दाये च । [143a]धनमप्यस्त्री शेवं पुनरन्त्ये स्थाप्यविन्नो स्यात् ॥ २२ ॥ ;l{6975} धनवान्धनिको हिरण्यवो- ऽप्ययमाढ्योऽपि धनीभ्य ऋद्धिमान् । अथ लक्ष्मण ईरितः श्रिया सहितः श्लील उदीरितोऽपि सः ॥ २३ ॥ च्व्यर्थे त्वाढ्यंकरणं यस्त्वाढ्यो न भूतपूर्वः स्यात् । आढ्यचर एष धनको हिरण्यकोऽसौ धनादिकामो यः ॥ २४ ॥ ;l{6980} केशवचरं च केशवरूप्यं चोक्तं गवादिविन्नं यत् । स्यात्केशवस्य पूर्वं भूतं धनवन्मुखास्त्रय्याम् ॥ २२५ ॥ ;c{इति वैश्यवर्गः ।} ;p{0295} ;v{शूद्रवर्गः} शूद्रो जघन्यजः पज्जो वृषलोऽवरवर्णकौ(कः) । पद्योऽन्त्यवर्णोऽप्युक्तोऽथ ग्रामकूटो महत्तरः ॥ १ ॥ ते तु मूर्धावसिक्तादा रथकृन्मिश्रजातयः । ;l{6985} क्षत्रियायां द्विजान्मूर्धावसिक्तोऽम्बष्ठकः पुनः ॥ २ ॥ वैश्यायां स्तः पारशव-निषादौ शूद्रयोषिति । माहिष्यो विट्स्त्रियां क्षत्रादुग्रस्तु वृषलस्त्रियाम् ॥ ३ ॥ शूद्र्यां तु करणो वैश्यात्सूतः क्षत्राद्द्विजस्त्रियाम् । [143b] वैश्याद्वैदेहिकस्तस्यां चाण्डालः शूद्रतोऽपि च ॥ ४ ॥ ;l{6990} क्षत्र्यां वैश्यान्मागधः स्यात्क्षत्ता स्याच्छूद्रतः सुतः । वैश्यायां शूद्रजन्मायोगवोऽमी द्वादश स्मृताः ॥ ५ ॥ [माहिष्याद्रथकारः] स्यात्करण्यां यस्य संभवः । कारिः कारुश्च कृत्नुश्च शिल्पी च प्रकृतिः स्त्रियाम् ॥ ६ ॥ द्वयोः श्रेणिस्तद्गणः स्यादाम्बष्ठ्याम्बष्ठनन्दनः । ;l{6995} कुलजस्तु कुलश्रेष्ठी कला-विज्ञान-शिल्पकाः ॥ ७ ॥ लेखाधिकारी कायस्थः पञ्जिकाकार इत्यपि । मालाकारो मालिकः स्यात्पुष्पाजीवस्तु पुष्पलूः । पुष्पलावी कुलालस्तु मृत्करो भरटोऽपि सः ॥ ८ ॥ कुम्भकारो दण्डभृच्च स्तो दार्दुरिक-चाक्रिकौ । ;l{7000} कुलालचक्रं दण्डारः पलगण्डस्तु लेपकः ॥ ९ ॥ तन्तुवायः कुविन्दः स्यात्तन्तुवापः स्थविस्तथा । तसर-त्रसरौ सूत्रवेष्टे तर्क्कुस्तु कर्त्तकः ॥ १० ॥ सल्लोल-तर्क्कौ तर्क्काटी तर्क्कला च सहापि सा । साधनं यत्कर्तनस्य नर्त्तना तर्क्कु[144a]पीठिका ॥ ११ ॥ ;p{0296} ;l{7005} स्यात्पिञ्जनं विहननं तूलस्फोटनकार्मुकम् । वाणिर्व्यूतिः स्त्रियौ न स्त्री पुस्तं लेप्यादिकर्म च । न स्त्री वेमा वानदण्डस्तन्तुकाष्ठं तुरी स्त्रियाम् । तुन्नवायस्तन्तुवायः सौचिकश्च स्थविश्च सः ॥ १३ ॥ द्रव्यं तु तन्तुवायस्य कृविर्नरि निगद्यते । ;l{7010} कृपाणी कर्त्तरी कल्पन्यपि सूची तु सेवनी । सूचिसूत्रं पिप्पलकं सेवनं सीवनं समे ॥ १४ ॥ स्त्रियां स्यूतिरथो तैली धूसरश्चाक्रिकोऽपि सः । परञ्जं तैलयन्त्रं स्यात्षण्डाली तैलमानिका ॥ १५ ॥ तैलपात्रं कूपकः स्याद्रङ्गाजीवस्तु चित्रकृत् । ;l{7015} भवेत्तौलिकिकश्चाथ शस्त्रमार्जोऽसिधावकः ॥ १६ ॥ शाणाजीवो भ्रमासक्तः क्ष्णवनं तेजनं समम् ॥ १७ ॥ व्योकारो लोहकारः स्यात्कर्मारो लोहघातकः । गुहेरोऽथास्त्रियां कूटमयोघनक इत्यपि ॥ १८ ॥ व्रश्चनः पत्रपरशुरिषीका तूलिकेषिके । ;l{7020} इषीकतूलं द्वंद्वे स्यादिषीकातूलयोरपि ॥ १९ ॥ नाडिं[144b]धमः स्वर्णकारः कलादः पश्यतोहरः । हेमलो मुष्टिकृत्स्वर्णकारोऽथ निकषः कषः ॥ २० ॥ आकषो हेमलं शाणो द्वंद्वे स्यान्निकषोपलः । आकषे कुशलो भेद्यलिङ्ग आकषकः स्मृतः ॥ २१ ॥ ;l{7025} तैजसावर्तनी मूषा कुन्दं तर्क-भ्रमौ नरि । आस्फोटनी वेधनिका संदंशः कङ्कवक्त्रकः ॥ २२ ॥ मणिकारो वैकटिकोऽथो काम्बविक-शाङ्खिकौ । करंधमी कांस्यकारः शौल्बिकस्ताम्रकुट्टकः ॥ २३ ॥ ;p{0297} तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् । ;l{7030} स्थपतिर्ग्रामतक्षस्तु ग्रामाधीनो हि वर्धकिः ॥ २४ ॥ स्वतन्त्रः कौटतक्षोऽथ वासी वाशी च तक्षणी । वृक्षभित्क्रकचस्त्वस्त्री करपत्रकमन्तिमे । अयानयीनः शारा स्याद्द्वयोः साफलयौलिगः ॥ २५ ॥ स उद्घनो यत्र काष्ठे काष्ठं निक्षिप्य तक्ष्यते । ;l{7035} वृक्षादनो वृक्षभेदी टङ्कोऽस्त्री ग्रावदारकः ॥ २६ ॥ निर्णेजकः स्याद्रजको धावकः कर्मकीलकः । [145a] मर्जूरथ स्याद्विट्सारी विट्किरः कुणपश्च सः । क्षुरमर्द्दी क्षुरी मुण्डी चण्डिलान्तावसायिनौ ॥ २७ ॥ दिवाकीर्तिपितश्च क्षुरो नापितशस्त्रकम् । ;l{7040} वपनं मुण्डनं क्षौरं तथैव परिवापणम् ॥ २८ ॥ नखलु स्यान्नखच्छेदि नाराची त्वेषणी स्त्रियाम् । अपत्ये कुम्भकारादेः कौम्भकार्यो भवेत्तथा । कौम्भकारिस्तान्तुवाय्यस्तान्तुवायिरिमौ समौ । सदृशौ ताक्ष्ण-ताक्षण्यौ नापिन्यो नापितायनिः । ;l{7045} देवाजीवो देवलको देवागारिक इत्यपि । जाबालः स्यादजाजीवः सोऽजपालश्च कीर्त्तितः । जीवान्तकः शाकुनिकः पाक्षिकोऽप्यथ सौनिकः ॥ ३१ ॥ वैतंसिकः कौटिकश्च मांसिको मांसविक्रयी । स्यान्मार्गिको हारिणिकोऽथैवं सौकरिकादयः ॥ ३२ ॥ ;l{7050} उन्माथः कूटयन्त्रं स्याद्वागुरा मृगजालिका । जालिकः स्याद्वागुरिकोऽथावपातावटौ समौ ॥ ३३ ॥ ;p{0298} पाशकश्चैव पाशो यस्तथाकर्ष[145b]श्च ईरितः । आकर्षकस्तत्कुशलः पाश्या स्त्री पाशसंहतौ । पाशाकर्षौ बन्ध-वल्गे शुल्ब-शुम्बे बटारकः । ;l{7055} गुणः स्त्रियौ रज्जु-तन्त्र्यौ वटी त्रिष्वथ सा यदि ॥ ३४ ॥ पाणिभ्यां सृज्यते पाणिसर्या संकीर्त्तिता तदा । वार्त्तावहो वीवधिको भवेद्विवधिकश्च सः ॥ ३५ ॥ तथा वैवधिकः स्त्री तु तादृग्वीवधिकी मता । बद्धशिक्ये तूभयतः स्कन्धवाह्ये हि दारुणि ॥ ३६ ॥ ;l{7060} वीवधो विवधश्चोभौ पर्याहारे समार्थकौ । विहंगिका भा*[ र ]यष्टिः कथिता च विहंगमा ॥ ३७ ॥ तदालम्बि तु शिक्यं स्यात्काचो न त्र्यङ्कटोऽस्त्रियाम् । भारिको भारवाहः स्याद्भृतकस्तु भरण्यभुक् । तथा कर्मकरो वैतनिकोऽपि धमको(?)ऽथ सः । ;l{7065} भृतिं विना कर्मकारोऽथ भरण्यं च वेतनम् । कर्मण्यं भर्म मूल्यं च भरणं निष्क्रयः पणः ॥ ३९ ॥ निर्वेशः स्त्री तु भृत्या स्याद्भर्मण्या च भृतिर्विधा ॥ ३३ ॥ वेश्याभृतिर्भवेद्भोगोऽथ भृत्यो दास-चे[146a]टकौ ॥ ४० ॥ प्रैष्य-दासेर-दासेय-नियोज्य-परिचारकाः । ;l{7070} पराचित-परिस्कन्द-भुजिष्य-परिकर्मिणः ॥ ४१ ॥ डिङ्गरः किंकरो गोप्य-परजात-परैधिताः । प्रेष्यः श्लिकुश्चाथ नीचो विवर्णश्च पृथग्जनः ॥ ४२ ॥ इतरः पामरो मर्मरीकः प्राकृत-बर्बरौ । क्षुधुनो यवनो म्लेच्छो मातङ्गस्तु जनंगमः । ;l{7075} अन्तावसायी श्वपचः श्वपाको निष्ट्य-नाहलौ । अन्तेवासी दिवाकीर्तिः पुल्कसः प्लव इत्यपि ॥ ४४ ॥ ;p{0299} समौ चाण्डाल-चण्डालौ निषादश्च निषादिवत् । चाण्डालकिस्तु चण्डालपुत्रो नैषादकिस्तथा ॥ ४६ ॥ पुलिन्दा नाहला निष्ट्याः शबरा वरुडा भुराः । ;l{7080} मेदा भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥ ४७ ॥ पादूकृच्चर्मकारः स्यात्स्त्री तूपानच्च पादुका । पन्नद्धा स्यात्प्राणिहिता पादूः पादत्रमित्यपि ॥ ४८ ॥ आबद्धा तु पदं सानुपदीना परिकीर्तिता । नध्री नर्ध्रा वरत्रा च*[व] ध्री वर्ध्रा च नध्र[146b]कः ॥ ४९ ॥ ;l{7085} सनंगव्या तदर्था सा सनंगुश्चर्मणोत्रि(भि?)दि । स्याच्चर्मभेदिनी ह्यारा द्वयोश्चर्मप्रभेदिका ॥ ५० ॥ व्याधो मृगवधाजीवो लुब्धको मृगयुः पुमान् । पालिशं मृगहिंसा भूः श्यैनंपाता पुनः स्त्रियाम् । पापर्द्धिर्मृगयाऽऽखेटो मृगव्या क्लीबयोषितोः ॥ ४८ ॥ ;l{7090} आच्छोदनं कुक्कुरस्तु कुकुरः कूकुरः शुनः । शुनिश्च शुनकः श्वानश्चास्थिभुग्भुग्नवालधिः ॥ ४९ ॥ कौलेयकः सारमेयो मण्डली रात्रिजागरः । रथ्यामृगश्च भषको रतशायी रतान्दुकः ॥ ५० ॥ रतकीलो ललज्जिह्वो जिह्वालिट् च रतव्रणः । ;l{7095} शालावृको दृतिहरिर्वाताण्डो मृगदंशकः ॥ ५१ ॥ उन्मत्तोऽसावलर्कः स्याद्विश्वकद्रुर्मृगव्यवित् । सरमा तु शुनी प्रोक्ता शुनारोऽस्त्री शुनीपयः ॥ ५४ ॥ शुनःपुच्छादयो नाम्नि शुनीं पाता शुनिंधयः । शौवः कुक्कुरसंकोच[ः] शून्यं शुन्यं शुने हितम् । शुनःपुच्छादयस्त्रय्यां कपाटघ्नः पुनर्मतः । ;l{7100} चोरश्चौरस्त[147a]स्करः स्यादैकागारिक-मोषकौ । प्रतिरोधि-परास्कन्दि-पाटच्चर- मलिम्लुचाः ॥ ५५ ॥ ;p{0300} स्यात्पारिपन्थिकः कम्बूः कुम्भिलः शङ्कितोऽपि सः । सुरङ्गादिचरः स्त्येनः स्तेनश्चोभौ न योषिति ॥ ५६ ॥ ;l{7105} तद्भावे चौरिका चौर्यं स्तेयं स्तैन्यं च चौरिकम् । लोप्त्रं त्वपहृतं द्रव्यं चौरी चोरी च तत्स्त्रियाम् ॥ ५७ ॥ पानध्वजी पानवणिक् शौण्डिको मण्डहारकः । पानध्वजो वारिवास-कल्यपालासुतीवलाः ॥ ५८ ॥ सुराजीवोऽपि मद्यं तु कश्यं स्यात्कापिशायनम् । ;l{7110} मधु कल्यं न ना हाला वारुणी च हलिप्रिया ॥ ५९ ॥ मदयित्नुश्च मदना मदिष्ठा मदिरा इरा । परिप्लुता कामसखी परिस्रुद्देवनिर्मिता ॥ ६० ॥ गन्धोत्तमा स्वादुरसा प्रसन्नाम्भोधिजा न ना । कादम्बरी द्वयोः शुण्डानुतर्षे मण्डमस्त्रियाम् । ;l{7115} द्राक्षाकृते तु मद्ये स्याद्धारहूरं च कापिशम् ॥ ६१ ॥ मार्द्वीकं चाथ न स्त्री स्यात्सीधु मैरेयमासवम् ॥ ४३ ॥ पक्वशीतरसौ सीधू पक्वामेक्षुरसौ क्रमात् ॥ [147b] ६२ ॥ शार्करो माधवो गौडः सितो मधुगुडादियुक् । जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ६३ ॥ ;l{7120} नग्नहुश्च पुमांसौ द्वौ मद्यबीजं नपुंसके । आसुतिर्मद्यसंधा * [न]मासवोऽभिषवः समौ ॥ ६४ ॥ कारोत्तमः सुरामण्डो व्यापानं पानगोष्ठिका । स्त्रियामरिष्टः क्वथितैर्यन्मद्यं भेषजैः कृतम् ॥ ६५ ॥ सरकश्चषकश्चास्त्री गल्वर्कोऽप्यनुतर्षणम् । ;l{7125} शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ६६ ॥ उपदंशावदंशौ द्वौ चक्षणं मद्यपाशनम् । सुरापः स्यान्मद्यपिबो मत्तस्तूत्कट-शौण्डकौ ॥ ६७ ॥ ;p{0301} क्षीबश्चामी विशेष्यघ्ना मद्यरोगो मदात्ययः । पणो ना स्यादक्षवती कैतवं च दुरोदरम् । ;l{7130} दरोदरं द्यूतमस्त्री * * * * * * * * ॥ ६८ ॥ दूरोदरं च न स्त्री स्यात्पाशक-प्रासकौ पुनः । आकर्ष-देवनाक्षाश्च तत्पणस्तु ग्लहो नरि ॥ ६९ ॥ बिन्दुत्रिकद्वये तु स्यादक्षाणां दुन्दुभिः स्त्रियाम् । आकर्षो ना शारिफलाष्टापदे च न योषिति । ;l{7135} शारिः[148a] पुमान्द्वयोः शारा खेलन्यासां समन्ततः ॥ ७० ॥ नयने परिणायः स्यात्प्राणिद्यूतं समाह्वयः । वञ्चुली तु स्त्रियां द्यूतक्रीडा स्यादम्लिकास्थिभिः ॥ ७१ ॥ धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो- ऽक्षद्यूश्च देवा च तथाक्षकृत्सः । ;l{7140} स्याद् द्यूतकारी सभिकोऽथ भेद्य- लिङ्गा मता योगभवा हि शब्दाः ॥ ७२ ॥ ;c{इति शूद्रवर्गः} कोषकल्पतरावस्मिन्विश्वनाथकवेः कृतौ । द्वैतीयीको धराकाण्डो वर्गैर्दशभिरीरितः ॥ ७३ ॥ ;c{इति श्रीविश्वनाथरचिते कोषकल्पतरौ द्वितीयो भूकाण्डः समाप्तः ॥ श्री ॥} ;p{0302} ;k{पातालकाण्डः} ;v{पातालवर्गः} यो लोकपाता पाताले बबन्ध भवबन्धहृत् । ;l{7145} बलिं बलिष्ठं स श्रेयोधाम नो वामनोऽवतु ॥ १ ॥ पातालनारकातङ्कैर्वर्गैः संगतिशालिभिः । नामालिविलसत्स्कन्धः ( ? ) पातालस्कन्ध उच्यते ॥ २ ॥ पातालं बलिसद्माधोभुवनं वाडवोऽस्त्रियाम् । रसातलं नागलोकोऽधोलोकोऽप्यव्ययं त्वधः ॥ ३ ॥ ;l{7150} छिद्रं तु कुहरं रोकं रन्ध्रं[148b] निर्व्यथनं बिलम् । निम्नं रोपं च विवरं भूकं श्वभ्रं तथान्तरम् ॥ ४ ॥ शुषिरं सुषिरं चास्त्री पुंस्यगाधो वपा-शुषी । द्वयोर्गर्ता दरस्त्रय्यामवटो युजि भूबिले ॥ ५ ॥ श्वभ्रं क्लीबे चाथ रन्ध्रयुक्ते स्यात्सुषिरं त्रिषु । ;l{7155} भावे सौषिर्यमच्छिद्रे नीरन्ध्रं क्लीबमव्ययम् ॥ ६ ॥ तमो निशाचर्म खचर्म वृत्रो- पकुञ्चकं स्यात्तमसं तमं च । वृत्रोऽत्र ना ना न तमिस्रमुर्वी- छाया षडस्त्री तिमिरान्धकारौ ॥ ७ ॥ ;l{7160} स्यान्नीलपङ्कं दिनकेसरान्ध- ध्वान्तानि तत्संतमसं प्रसारि । गाढेऽन्धपूर्वं तमसं विहीने त्वत्रावपूर्वं तमसं प्रदिष्टम् ॥ ८ ॥ अनन्धेऽन्धे भवत्यन्धंभावुकोऽन्धभविष्णुवत् । ;l{7165} अनन्धमन्धं कुर्वाणे स्यादन्धंकरणं त्रिषु ॥ ९ ॥ पातालौको दानवः पूर्वदेवो दैतेयः स्यादासुरश्चासुरश्च । दैत्यो देवद्वेषणः शुक्रशिष्य- स्तुञ्जः शक्रद्वेषणः स्याद्दितीजः ॥ १० ॥ ;p{0303} ;l{7170} हिरण्यकशिपुर्दैत्यराजो वैरोचनो बलिः । शिशुपालश्चे[149a]दिपतिः कंसो भोजपतिर्भवेत् ॥ ११ ॥ द्वैमातुरो जरासंधो मगधाधिपतिश्च सः । भौमस्तु नरको दैत्यभेदा बाणादयः परे ॥ १२ ॥ काद्रवेयाः पुनर्नागास्तेषां भोगवती पुरी । ;l{7175} शेषो नागाधिपोऽनन्त-आलुकौ द्विसहस्रदृक् ॥ १३ ॥ सितपङ्कजचिह्नश्च सर्पराजस्तु वासुकिः । श्वेतो नीलसरोजाङ्को लोहिताङ्गस्तु तक्षकः ॥ १४ ॥ स्वस्तिकाङ्कितमौलिश्च महापद्मोऽतिशुक्लकः । दशबिन्दुकमौलिश्च शङ्खः स्यात्पीतवर्णकः ॥ १५ ॥ ;l{7180} इन्दुरेखाङ्कितगलो ज्वालाधूमसमप्रभः । कुलिकोऽर्द्धेन्दुमौलिः स्यान्नागभेदास्तु कम्बलः ॥ १६ ॥ बलाहकोऽश्वतरको धृतराष्ट्रादयः परे । कालीयः स्यात्कालियको गोनासस्तु तिलत्सकः ॥ १७ ॥ गोनसो घोणसो चो(व्या?)डो मण्डली वाहसः पुनः । ;l{7185} शयुस्तनजोऽजगरः शीवा शीरः शयानकः ॥ १८ ॥ शयुनः शयथश्चक्रमण्डल्यन्ते शयालु च । पारीन्द्रो राजसर्पस्तु भवेत्पन्नगभोजनः[149b] ॥ १९ ॥ कुकुटाहिः कुकुटाभो राजिलो डुण्डुभः समौ । अलगर्द्दोऽलगर्धश्च जलव्यालो द्वितुण्डकः ॥ २० ॥ ;l{7190} ब्रह्मसर्पोऽश्वलाला स्यान्मालुधानस्तु मातुलः । सुरकस्तु सुरावर्णो दन्दशूको निगद्यते ॥ २१ ॥ निर्मुक्तश्च निर्लयनिर्भेद्यवन्मुक्त * [कञ्]चुकः । ;p{0304} सविषा निर्विषा वापि सर्पा दृग्विषनामकाः ॥ २२ ॥ वृश्चिकाद्या लूमविषा व्याघ्राद्या लोमसद्विषाः । ;l{7195} लालाविषास्तु लूताद्या कालान्तरविषाः पुनः ॥ २३ ॥ मूषिकाद्या नराद्यास्तु नखक्ष्वेडाः प्रकीर्तिताः ॥ २४ ॥ सर्पः पृदाकुर्भुजगो भुजंगो भुजंगमाशीविष-गूढपादाः । ;l{7200} दर्वीकरः स्यादुरगश्च भोगी चक्षुःश्रवश्चक्रि-सरीसृपाश्च ॥ २५ ॥ फणी कुण्डली मण्डली दन्दशूको द्विजिह्वस्तथा जिह्मगः पन्नगश्च । भवेद्भेकभुक्कञ्चुकी दीर्घपृष्ठ- स्तथा दीर्घजिह्वः स काकोदरश्च ॥ २६ ॥ ;l{7205} व्यालानिलाशन-विषायुध-लेलिहाना द्वंद्वे त्वहिर्विषधरो रसनाविषश्च । कुम्भीनसोऽपि सृदरश्च बिलेशय[150a]श्च गोकर्ण-नागक-फणायुध-काद्रवेयाः ॥ २७ ॥ त्रिष्वाहेयं तदङ्गादि भोगस्तु व्यालविग्रहः । ;l{7210} निर्मोकः कञ्चुकस्त्वस्त्री*[स्त्रि]यां निर्व्लयनी तथा ॥ २८ ॥ भोगो दर्वी द्वयोस्तु स्युः फण-स्फट-फट-स्फुटाः । कफेलुः स्त्री च दाढा स्यादाशीराश्यहिदंष्ट्रिका ॥ २९ ॥ सर्पक्षतं तु दंशः स्यात्सर्पाण्डे पुनरीरितौ । समौ सुनार-सारण्डौ न तु स्त्री गरलं विषम् ॥ ३० ॥ ;l{7215} हालाहलं हालहलं काकोलं च हलाहलम् । कालकूटं रसस्तीक्ष्णं क्लीबे मधुरकं च तत् ॥ ३१ ॥ कृत्रिमं तु विषं*[घो]रं गरश्चोपविषं समम् । दूषीविषं त्ववीर्यं तदौषधादिप्रभावतः ॥ ३२ ॥ ;p{0305} आदीपनौ दारदश्च मकरश्च परे पुनः । ;l{7220} अहिच्छत्रो मेषशृङ्गो कुष्ठ-वालुक-नन्दनाः ॥ ३४ ॥ कैराटिको हैमवतो मर्कटः करवीरकः । सर्षपो मूलको गारार्द्रकः सक्तुक-कर्द्दमौ ॥ ३५ ॥ अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः । विस्फुलिङ्गः पिङ्गले[150b]न्द्रौ सगरं लाङ्गलिकाद[य]ः ॥ ३६ ॥ ;l{7225} स्थावरा विषभेदाः स्युर्हयत्तालाहि फेनकः । विषशास्त्रं जाङ्गलं स्याच्चक्राटो विषशास्त्रवित् ॥ ३७ ॥ कथाप्रसङ्गश्च मतो भवेज्जाङ्गलिकान्यवत् । व्यालग्राही जीवकः स्यादाहितुण्डिक इत्यपि ॥ ३८ ॥ अहितुण्डिक उक्तोऽथ विषादो विषभक्षकः । ;l{7230} विष्यो विषेण वध्यो यो व्यालग्राह्यादयस्त्रिषु ॥ ३९ ॥ ;c{इति पातालवर्गः ।} ;v{नारकवर्गः} स्यान्नारकस्तु नरकः परेत-प्रेत-यातिनः । स्यादातिवाहिकोऽथ स्यान्नरको नारकोऽपि च ॥ १ ॥ निरयो दुर्गतिः स्त्री स्याद्विष्टिस्त्वाजूः स्त्रियामुभे । कारणा यातना तीव्रवेदना च समा इमाः ॥ २ ॥ ;l{7235} तपनः स्यादवीचिस्तु द्वंद्वे संहार-रौरवौ । स्यान्महारौरवः कालसूत्रं तामिस्रमित्यपि ॥ ३ ॥ कुम्भीपाकान्धतामिस्रासिपत्रविपिनादयः । बहवो नारका भेदा गदिताः पापकर्मणाम् ॥ ४ ॥ सिन्धुर्वैतरणी प्रोक्ता तत्रालक्ष्मीस्तु निर्ऋतिः । ;l{7240} सीमन्तकाद्या बौद्धादि [151a] शास्त्रे नरकवासिनः । ;c{इति नारकवर्गः ।} ;p{0306} ;v{आतङ्कवर्गः} आतङ्क-तङ्कावस्त्रीकावम आम-गदामयाः । श्वयीचिरुपतापश्चामन-रोगौ च रुग्रुजे ॥ १ ॥ पाप्माबाधो विकारश्च यक्ष्मा यक्ष्मश्च जन्म(क्ष्म?)वत् । व्याधिर्ना दुःखमाकल्पं मान्द्यं खिद्रोऽप्यपाटवम् ॥ २ ॥ ;l{7245} प्रतीकार्यस्तु साध्योऽसौ याप्यस्त्वाजीवितस्थितिः । असाध्यः क्षेत्रिया दोषा वात-पित्त-कफास्त्रयः ॥ ३ ॥ शारीरा मनसस्तु स्याद्द्वौ दोषौ हि रजस्तमः । संसर्गः संनिपातश्च तद्द्वित्रिक्षयकोपतः । रसाद्याः समला दूष्याश्चयो वृद्धिः स्वधाम्नि या ॥ ४ ॥ ;l{7250} पक्वाशयाद्या वातस्य स्थानं नाभ्यादयः पुनः । पित्तस्य श्लेष्मणस्तु स्यादुरःप्रभृतिकं स्थलम् ॥ ५ ॥ उन्मार्गगामिता कोपः परस्थानगतिः पुनः । प्रसरः स्थानसंस्थानं व्याप्तिर्या परवेश्मनाम् ॥ ६ ॥ व्यक्तिस्तु रोगप्राकट्यं भेदेन सहिता इमे । ;l{7255} चयादयो दोषगति[ः] निमित्तं तु निदानकम्[151b] ॥ ७ ॥ उत्थानायतने हेतुः प्रत्ययश्च निगद्यते । प्राग्रूपं भाविरोगस्य ज्ञापकं लक्षणं हि यत् ॥ ८ ॥ संस्थानं व्यञ्जनं लिङ्गं लक्षणं रूपमित्यपि । आकृतिः स्यादुपशयो व्याधेर्यः शमकारकः ॥ ९ ॥ ;l{7260} पोषकर्तानुपशयः संप्राप्तिर्जातिरागतिः । दोषाणां समवेतानां विकल्पोंऽशांशकल्पना ॥ १० ॥ व्याधिना जनितो रोग उपद्रव इति स्मृतः । शाखा त्वगसृगाद्यं स्याद्बहिर्मार्गश्च सा स्मृता ॥ ११ ॥ ;p{0307} कोष्ठाद्यमन्तर्मार्गः स्यात्संधयस्तु शिरोमुखाः । ;l{7265} रुजादिवृद्धिः संरम्भोऽथोपद्रवविहीनता ॥ १२ ॥ अल्पवेगः स्त्रियां तूषा भवेच्चिमिचिमायनम् । उत्क्लेशः पाकतो मन्दा दोषाणां स्वाशयाच्च्युतिः ॥ १३ ॥ हृल्लासो हृदयादीषद्व्यथः पट्वम्बुनिर्गमः । तृप्त्यैवान्नास्पृहातृप्तिररुचिः स्यादरोचकः । ;l[7270} अश्रद्धान्नारोचकोऽथाविपाकोऽन्नापचिः स्त्रियाम् । ज्वरो रोगपतिर्दक्षाध्वरध्वंसी तथान्तकः । ओजोशनस्तथा क्रोधो रुद्रोर्ध्वनयनोद्भवः ॥ १५ ॥ [152a]संतापकः स्त्री जूर्जूर्त्तिर्वातिकस्तु स वातजः । पैत्तिकः पित्तजन्मासौ श्लैष्मिकस्तु बलासजः ॥ १७ ॥ ;l{7275} ज्वरः स्यात्प्रकृतिसमसमवेतः स्वहेतुना । तुल्यो विकृतिविषमसमवेतोऽन्यथा भवेत् ॥ १८ ॥ नित्यज्वरः स श्वयथुर्भवेद्वातबलासकी । सांसर्गिको द्वंद्वजः स्यात्त्रिचयोत्थस्त्रिदोषजः । स्यात्सांनिपातिकश्चाथ संधिगाद्या हि तद्भिदः ॥ १८ ॥ ;l{7280} नृणां ज्वरो [ज्वरा]ह्वः स्यात्पाकलः करिणामसौ । हयानामभितापः स्यादुष्ट्राणामलसो मतः ॥ १९ ॥ महिषाणां हरिद्रोऽसावीश्वरोऽनडुहामयम् । रासभानां खोरकः स्यान्मृगाणां तु मृगामयः ॥ २० ॥ शुनामलर्कोऽजाव्योस्तु स प्रलेपकनामकः । ;l{7285} उष्णीषसंज्ञः सर्पाणामन्नानां चूर्णको मतः ॥ २१ ॥ कुङ्कुमाह्वस्तु गोधूमे भूमौ तूषाभिधो मतः ;p{0308} यथर्तु वृद्धदोषोत्थः प्राकृतो वैकृतः परः । अपक्वदोषः सामोऽसौ निरामस्तु ततोऽन्यथा ॥ १९ ॥ संततो नि[152b]त्यवृत्तिः स्याद्विषमः सततादिक[ः] । ;l{7290} सततोऽह्नि द्विरावृत्त्याथान्येद्युष्को दिने सकृत् ॥ २० ॥ स्यात्प्रात्यहिकनामाथ तृतीयेऽह्नि तृतीयकः । चतुर्थकश्चतुर्थेऽह्नि द्व्याहिक-त्र्याहिकौ पुनः ॥ २१ ॥ क्रमाद्विपर्ययौ प्रोक्तौ तृतीयकचतुर्थयोः । शीतकस्तु स शीतादिरुष्णकस्तूष्णपूर्वकः ॥ २२ ॥ ;l{7295} विशिष्टस्तु स शीतादिः शुद्धः शीतादिवर्जितः । अन्तर्दाहतृषायुक्तो ज्वरो गम्भीर उच्यते ॥ २३ ॥ ज्वरितो ज्वरवाञ्जूर्णो ज्वरी च परलिङ्गकः । दाहः सर्वाङ्गसंताप ओषस्त्वरतिघर्मवान् । प्लोषोऽर्चिषेव दग्धाङ्गे विदाहः संधिपाणिषु ॥ २४ ॥ ;l{7300} रक्तपित्तं पित्तरक्तदोषो नासादिभिः स्रवन् । तदूर्ध्वगाम्यपानादिस्राव्यधोगं प्रकीर्तितम् ॥ २५ ॥ काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः । प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥ उपेक्षितः प्रतिश्यायो दुष्टपी[153a]नस उच्यते । ;l{7305} नस्या रोगाः पूतिनास-नासानाहादयः परे ॥ २७ ॥ कफोपरुद्धगमनः पवनः श्वास उच्यते । श्वासभेदाः क्षुद्रकः स्याच्छिन्नश्च तमकस्तथा ॥ २८ ॥ महानूरद्ध्वः प्रतमको द्विधा हिक्का च हिक्कितम् । भेदाः क्षुद्रा च यमला गम्भीरा महतीति च ॥ २९ ॥ ;p{0309} यमला वेगिनी प्रोक्ता परिणामवती समा । ;l{7310} रोगराजो राजयक्ष्मा यक्ष्मा जक्ष्मा च यक्ष्मवत् ॥ ३० ॥ क्षयः शोषश्चाथ भवेत्स्वरभेदः स्वरक्षयः । प्रच्छर्दिका वमिश्छर्दिः स्त्रियां छर्द्दिस्तु पुंसि न ॥ ३१ ॥ वमथुर्वमतिश्चाथापक्वाहारे त्वजीर्णकम् । ;l{7315} आमं कफाद्विदग्धं तु पित्तात्स्यादम्लपित्तकम् ॥ ३२ ॥ अम्लकस्त्वम्ल उद्गारः सान्तर्द्दाहः सतृङ्व्यथः । धूमायनं शिरोग्रीवाकण्ठतालुषु धूमकः ॥ ३३ ॥ विष्टब्धाख्यं तदनिलदुर्गत्योः शूलमस्त्रियाम् । आध्मा आध्मानमानाह उदरापूर इत्यपि ॥ ३४ ॥ ;l{7320} उदावर्तस्तु वाता[153b]दिस्रोतोरोधः प्रकीर्त्यते । उद्गारः स्यादूर्ध्ववात आटोपस्त्वत्र निस्वनः ॥ ३५ ॥ विष्टम्भी स्यादलसको विसूची तु मलव्यथा । अजीर्णभेदोऽन्नविषं स्त्रियामुक्ता विलम्बिका ॥ ३६ ॥ जाठरोऽग्निः समः प्रोक्तो यो भुक्तं भेषजं तथा । ;l{7325} चतुर्भिः पचति द्वाभ्यां प्रहराभ्यामनुक्रमम् ॥ ३७ ॥ स तीक्ष्णः शीघ्रपाकी स्यान्मन्दस्तु चिरपाचकः । अथानियतपाकोऽग्निर्विषमः परिकीर्तितः ॥ ३८ ॥ मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम् । विद्यादध्यशनं भूयो भुक्तस्योपरि भोजनम् ॥ ३८ ॥ ;l{7330} विरुद्धमशनं तत्स्याद्विरुद्धद्रव्यभोजनम् । संकीर्णानां गृहे भुक्तिः संकीर्णाशनमुच्यते ॥ ३९ ॥ ;p{0310} हृद्रोगः पुंसि हृद्रुक्स्त्री संन्यासो मद्यपानजः । गुदाङ्कुरोऽर्शमर्शश्च तद्वांस्त्रिष्वर्शसः स्मृतः ॥ ४० ॥ विबन्धो वातविड्रोधो ग्रहणी रुक्प्रवाहिका । ;l{7335} चर्मकीलं चर्मशङ्कुरतीसारस्तु विट्स्रुतिः ॥ ४१ ॥ स्यादतीसारकी भेद्यलिङ्गोऽतीसारपीडितः । मूत्राघा[154a]तो मूत्रकृच्छ्रमश्मरी-शर्करे समौ ॥ ४२ ॥ वाताष्ठीला-वातकुण्डलिकाद्या मूत्रजा गदाः । मेहः प्रमेहो याप्योऽसौ मधुमेहः प्रकीर्तितः ॥ ४३ ॥ ;l{7340} शराविका कच्छपिका जालिनी विनतालजी । मसूरिका सर्षपिका पुत्रिणी च विदारिका ॥ ४४ ॥ द्वंद्वे विद्रधिरेताः स्युः पिटिका दशमेहिनाम् । कुरण्डो वर्धा वृद्धिः स्त्री गुल्मोऽस्त्री जठरोपलः ॥ ४५ ॥ पक्वाशयादधःशूले तून्यन्या तु प्रतूनिका । ;l{7345} कुक्षिरोगः स्यादुदरं तत्तु वै जलतां गतम् ॥ ४६ ॥ दकोदरं परिस्रावि तच्च रन्ध्रोदरं तदा । पाण्डुस्तु मृद्गदोऽथ स्याद्धारिद्रः कामला द्वयोः ॥ ४७ ॥ स्यात्कुम्भकामला सैव यदि शोफसमन्विता । हलीमकः स्यादलसः श्वयथुः शोथ-शोफकौ ॥ ४८ ॥ ;l{7350} त्रिषु शूनः शोफयुतो विसर्पी तु विसर्पवत् । तद्भेदास्त्वग्निवीसर्प-ग्रन्थिवीसर्पकादयः ॥ ४९ ॥ कुष्ठोऽस्त्री त्वग्गदोऽथ स्यात्किलासं श्वि[154b]त्रदारुणे । अपरिस्रावि तद्भेदाः कापालं मण्डलादि च ॥ ५० ॥ ;p{0311} त्वक्पुष्प-सिध्मनी सिध्मं पादस्फोटो विपादिका । ;l{7355} विपादिकालस्तु विपादिकायुक्तो विशेष्यवत् । पाम-पामे स्त्रियौ कच्छूः खसो ना स्त्री विचर्चिका ॥ ५१ ॥ खर्जूस्तु कण्डूः कण्डूया क्लीबे कण्डूयनं तथा । दर्दूर्दद्रूस्तथा दद्रूर्दद्रुरुच्छूनमण्डला ॥ ५२ ॥ पामनः पामरः पामायुतः कच्छुर इत्यपि । ;l{7360} दद्रुणो दद्रुरोगी स्यात्पामनाद्या विशेष्यवत् ॥ ५३ ॥ शतारुषी शतारुः स्यादपतानोऽपतन्त्रकः । बाह्यायामो धनुःस्तम्भो वेगी च स निगद्यते ॥ ५४ ॥ एकायामोऽर्द्दितं क्लीबे भवेत्पक्षवधः पुनः । एकाङ्गरोगः सर्वाङ्गरोगः सर्वाङ्गवातजः ॥ ५५ ॥ विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता । ;l{7365} वातरोगविशेषाः स्त्री विश्वाची चावबाहुकम् ॥ ५६ ॥ गृध्रसीक्रोष्टुशीर्षश्च पादहर्षादयः परे । ऊरुस्तम्भस्त्वाढ्यवातो[155a] वातकी वातरुग्युतः ॥ ५७ ॥ खुडं वातबलासाढ्यरोगौ स्तो वातशोणितम् । ;l{7370} विस्फोटकः स्फोटकः स्याद्गण्डोऽपि पिटकस्त्रिषु ॥ ५८ ॥ क्षणनुर्ना व्रणोऽस्त्री स्यात्क्षतं दुष्क(त्वक्क)ण्डुरोऽपि च । ईर्मेर्मणी अर्वरुषी शुष्के त्वत्र कचः पुमान् ॥ ५९ ॥ व्रणसंमार्जनं झाटः खाटिः शुष्कव्रणस्थलम् । किणो रूढव्रणपदमथ नाडीव्रणः पुमान् ॥ ६ ॥ ;l{7375} गतिर्नाडिश्च नालिः स्त्री पृष्ठग्रन्थिः पुनर्गडुः । उपपायु तु सीवन्यां यो व्रणः स भगंदरः ॥ ६१ ॥ ;p{0312} भगंदरविशेषाः स्युः शतपोनादयः परे । श्लीपदं पादवल्मीकमस्त्रियां पादगण्डिरः ॥ ६२ ॥ अर्बुदोऽस्त्री महाग्रन्थिर्गण्डमालापची च सा । ;l{7380} युवगण्डो वरण्डः स्यात्स्त्रियां तु मुखदूषिका ॥ ६३ ॥ हनुसंधिसमुद्भूतः शोफः पाषाणगर्द्दभः । जडल्यः कालकः पिप्लु***[स्तिलक]स्तिलकालकः ॥ ६४ ॥ क्षुद्ररोगविशेषाः स्युर्मसूरी चाजगल्लि[155b]का । इन्द्रविद्धा मण्डला च कक्षा तूक्ताग्निरोहिणी ॥ ६५ ॥ ;l{7385} नीलिका स्याज्जतुमणिर्भवेत्कोठस्तु मण्डलम् । वालरोगोऽत्ययः क्षीरालसकं च नपुंसके ॥ ६६ ॥ बालग्रहाः स्कन्दमुखा आविष्टस्त्रिषु तद्वशः । तथोन्मादयुगुन्मत्तोऽथोन्मदिष्णुस्तु सोन्मदः ॥ ६७ ॥ स्मृत्यपायस्त्वपस्मारोऽपस्मारी त्रिषु तद्युतः । ;l{7390} कृच्छ्रोन्मीलः पक्ष्मशातः पक्ष्मरोगाः परेऽपि च ॥ ६८ ॥ नेत्रपुष्पं तु शुक्र स्यात्तिमिरं दृगपाटवम् । लिङ्गनाशो दृगान्ध्यं स्याद्दिवान्धाद्यास्तु दृग्गदाः ॥ ६९ ॥ आभिष्यन्दोऽक्षिकोपः स्यादधिमन्थः स वृद्धिमान् । सर्वाक्षिरोगाः शुष्काक्षिपाककाम्लोषितादयः ॥ ७० ॥ ;l{7395} शीतादो दालनोऽथाधिदन्तो वर्द्धन इत्यपि । अधिजिह्वोपजिह्वौ तु जिह्वारोगौ प्रकीर्तितौ ॥ ७१ ॥ गलाङ्कुरो रोहिणी स्याच्छालूकस्तु गलार्गलः । शताङ्कुरा शतघ्नी स्याद्गलगण्डो गलार्बुदम्[156a] ॥ ७१ ॥ ;p{0313} मुखदौर्गन्ध्यकर्तोर्ध्वगुद उक्तो मुखामयः । ;l{7400} अर्धावभेदकस्त्वर्धशिरोरोग उदीरितः ॥ ७२ ॥ शिरःकम्पः शिरस्तापः सूर्यावर्तादयोऽपरे । केशघ्नं त्विन्द्रलुप्तं स्यात्खलतिः क्रमकेशहृत् ॥ ७३ ॥ उपदंशो गुह्यरोगोऽथावमन्थः कफास्रजः । अन्तर्मुखी सूचिमुखीत्याद्या योनिगदाः पृथक् । ;{7405} ग्लान-ग्लास्नू त्वामयावी विकृतो व्याधितोऽपटुः । आतुरोऽभ्यमितोऽभ्यान्तो रुग्ण * * * * * * ॥ ७५ ॥ मूर्छितौ मूर्त-मूर्छालौ यूकालो बहुयूककः । वार्तो निरामयः कल्य उल्लाघो निर्गदश्च सः ॥ ७६ ॥ दोषज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । ;l{7410} स्यादायुर्वेदिकः प्राणाचार्यः प्राणद इत्यपि । रोगहार्यगदंकारो ग्लानाद्याः स्युर्विशेष्यवत् ॥ ७७ ॥ अष्टाङ्ग आयुर्वेदः स्यादब्जो धन्वन्तरिः स्मृतः । वैद्यनाथश्चाथ भवेच्चिकित्सा स्त्री चिकित्सितम् ॥ ७८ ॥ उपचर्योपचारोऽथ भे(भै)षज्यं भेषजं स[156b]मे । ;l{7415} तन्त्रं जीवन्त-जायू नागद औषधमस्त्रियाम् ॥ ७९ ॥ प्रवाहिकातस्तु भवेदव्ययं तच्चिकित्सने । संतर्पणं बृंहणं स्याल्लङ्घनं त्वपतर्पणम् । शोधनं दोषनिर्हारि शमनं दोषशान्तिकृत् ॥ ८० ॥ कोष्ठशुद्धिर्वि रेकः स्याच्छिरोरेकस्तु नावनम् । ;l{7420} स्नेहनस्यो ह्रस्वमात्रो मर्षोऽन्यः प्रतिमर्षकः ॥ ८१ ॥ ;p{0314} कल्काद्यैरवपीडः स्याद् ध्मानश्चूर्णैर्विरेचनैः । प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात् ॥ ८२ ॥ यावत्पतत्यसौ बिन्दुरथ पर्येति दक्षिणम् । जानु यावत्कराग्रं स्वं तावन्मात्रा प्रकीर्तिता ॥ ;l{7425} आस्थापनं निरूहः स्याद्बस्तिकर्म च संमतम् । फलवर्त्तिर्गुदे क्षेप्या वर्त्तिर्मलविशोधिनी ॥ ८४ ॥ अन्वासनं स्नेहवस्तिरनुवासोऽनुवासनम् । ह्रस्वमात्रा स्नेहवस्तिर्मात्रावस्तिः प्रकीर्तितः ॥ ८५ ॥ मूत्रस्रोतः प्रयोज्योऽसौ भवेदुत्तरवस्तिकः । ;l{7430} निरूहान्वासयोरर्हौ निरूह्यान्वास्यकौ त्रिषु ॥ ८६ ॥ पञ्चकर्म वमी रे[157a]को निरूहोऽन्वासनावने । संसर्जनं तु संसर्गी प्रोक्तः पेयादिकक्रमः ॥ ८७ ॥ षडङ्गं शृतशीताम्बु घनाद्यैस्तृप्यति ज्वरः । वचाकिण्वादिभिस्तूष्णैरुपनाहोऽनुलेपनम् ॥ ८८ ॥ ;l{7435} संस्तरः प्रस्तरस्वेदो नाग्ना(ड्या?)ख्यो धूम * क्रतः । पिण्डस्वेदः संकराख्यो भेदास्ते त्रय ऊष्मणः ॥ ८९ ॥ प्रतिसारणमङ्गुल्या घर्षणं वदनादिषु । पिण्डो रसक्रिया चूर्णस्तिस्रोऽञ्जनविकल्पनाः ॥ ९० ॥ विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्जिते । ;l{7440} प्रत्यञ्जनं तीक्ष्णतमे चूर्णे नेत्रप्रसादनः ॥ ९१ ॥ रसक्रियावलेहः स्यात्पिण्डस्तु गुटिका मता । आश्च्योतनं त्वक्षिसेकस्तस्य कालो निशा मता ॥ ९२ ॥ ;p{0315} पाण्डुकं नवकं तुल्यलोहचूर्णं नवायसम् । रसस्तु स्वरसोऽथासौ स्थितो रात्रिंदि( द्र )वे हिमः ॥ ९३ ॥ ;l{7445} कल्को विनीयो वाःपिष्टश्चूर्णः पिष्टः शिलादिभिः । [157b]यत्र कल्कः सिद्धतैले क्षेप्यः कल्कोऽतिगन्धवान् ॥ ९० ॥ शृतः क्वाथः पादशेषोऽथानायासकृतो हि यः । फाण्टोऽभिषुत*[पू]तो स्त्री गुटी तु वटिका द्वयोः ॥ ९५ ॥ रसः कल्कः शृतः शीतः फाण्टश्चेति कषायकाः ॥ ९६ ॥ ;l{7450} कषाययोनयः पञ्च रसा लवणवर्जिताः । वाजीकरं वृषहितं वयःस्थायि रसायनम् ॥ ९७ ॥ कुटीप्रावेशिकं तत्स्याद्वातातपनिषेधयुक् । वातातपसहं वातातपिकं च विशेष्यवत् ॥ ९८ ॥ चन्द्रोदयस्तु मकरध्वजनामा रसः स्मृतः । ;l{7455} स्वास्थ्यं त्वनामयं वार्तमारोग्यं सह्यमित्यपि ॥ ९९ ॥ भिषक्सहाय-भेषजामयाविनश्चतुर्गुणाः । चिकित्सितस्य पादकाश्चिकित्सकैर्निरूपिताः ॥ १०० ॥ श्रीविश्वनाथरचिते कोषकल्पतराविह । पातालादित्रिवर्ग्यायं पातालस्कन्ध ईरितः ॥ १०१ ॥ ;c{श्री । इति श्रीविश्वनाथकृते कोषकल्पतरौ} ;c{पातालकाण्डस्तृतीयः ॥ ३ ॥} ;c{Part 2} ;p{0001} ;c{कोषकल्पतरुः} [द्वितीयो भागः] संख्यावन्तोऽपि संख्यातुं यस्याः कर्माणि ने[158a]शते । माया रमायाः पत्युः सा भवताद्भावुकाय नः ॥ १ ॥ विशेष्यगैः प्रकीर्णैश्च धातुलिङ्गाव्ययैरपि । प्राग्वर्गसंश्रितैर्वर्गैः सामान्यस्कन्ध उच्यते ॥ २ ॥ ;l{0005} भेद्यं विशेष्यं तद्यादृग्लिङ्गसंख्यासमन्वितम् । भेदकं तस्य तद्वत्स्यादजहल्लिङ्गकान्विना ॥ ३ ॥ सुकृती पुण्यवान्धन्यः श्रेयस्वी शंकरश्च सः । हृदयालुर्हृदयिकश्चेद्धृद्यो हृदयी तथा ॥ ३ ॥ भवेत्सहृदयश्चाथ प्रगल्भः प्रतिभान्वितः । ;l{0010} प्रौढः प्रत्युत्पन्नमतिः पुनस्तत्कालबुद्धिमान् । दूरदर्शी [ दीर्घदर्शी ] दीर्घपश्यश्च स स्मृतः । सुदृक्सुदृश्वा सत्पश्यो भवेच्छोभनदर्शिनि ॥ ५ ॥ प्रवीणो निपुणोऽभिज्ञो विज्ञो वैज्ञानिकः पटुः । छेको विदग्धो निष्णातः कुशलश्चतुरः कृती ॥ ६ ॥ ;l{0015} शिक्षितः स्यात्कृतमुखः कृतकर्मा च दक्षवत् । विशारदः पाटविको भवेद्विज्ञानिकश्च सः ॥ ७ ॥ पटीयांश्च पटिष्ठश्च पटोः स्यादतिशायने । पटिमा पुंसि भावेऽस्य पटुता पाटवं तथा । कुशलस्य तु भावे स्यात्कौ[158b]शल्यं कौशलं नपुम् । ;l{0020} नदीष्णस्तु नदीस्नानकुशलः परिकीर्तितः । ;p{0002} व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतश्च समार्थकाः वदो वदावदो वक्ता वग्नुश्च गदयित्नुवत् ॥ ८ ॥ प्रवाग्वचक्रुः समुखो वावदूकोऽतिवक्तरि । वाचोयुक्ति[ पटु ]र्वाग्मी वागीशो वाक्पतिः सुगीः । ;l{0025} स्याज्जल्पाकस्तु वाचाटो वाचालो बहुगर्ह्यवाक् । तुण्डिलो मुखराबद्धमुख-दुर्मुखका अपि ॥ १० ॥ गर्ह्यवादी कद्वदोऽथ यद्वदः स्यादनुत्तरः । अथोऽधरो हीनवादी लोहलस्त्वस्फुटब्रुवः ॥ ११ ॥ कासूर्विकलवादी स्याच्छिष्टवाणिस्तु गद्गदः । ;l{0030} मिम्मिणो नासिकावादी रतूः स्यात्सत्यभाषकः ॥ १२ ॥ वशंवदो वशोक्तिः स्याच्छंवदस्तु शुभब्रुवः । प्रियंवदस्तु शक्लः स्यात्कुवादः कुचरः कुगीः । रवणः शब्दनस्तुल्यौ मूको वाचा विवर्जितः ॥ १३ ॥ एडमूकानेडमूकौ वक्तुं श्रोतुमशिक्षिते । ;l{0035} तूष्णींशीलस्तु तूष्णी[159a]कोऽथास्वरः परुषस्वरः ॥ १४ ॥ ज्ञाता तु विदुरो विन्दुर्यथाजातस्तु बालिशः । देवानांप्रिय-मूर्खाज्ञ-मूढ-वैधेय-पामराः ॥ १५ ॥ मन्दो लिगुरमेधाश्च मुहिरो वठरो जडः । बालो मातृमुखो मातृशासितो मुग्ध-हस्तकौ ॥ १६ ॥ ;l{0040} जाल्मोऽसमीक्ष्यकारी स्यात्खट्वारूढो निषिद्धकृत् । रमकोत्कमकौ चोभौ विलासी जहकः पुनः । महोद्यमो महोत्साहो मान्यः पूज्यः प्रतीक्ष्यवत् ॥ १७ ॥ ;p{0003} मित्रयुर्लोकयात्राविद्धर्मयुर्धार्मिकः स्मृतः । दातोदारो वदान्यस्तु वदन्यो दाक-दानपौ ॥ १८ ॥ ;l{0045} दानशौण्डः स्थूललक्ष्यः स्थूललक्षो बहुप्रदः । दक्षिणे सरलोदारौ भवेदृज्वाशयोऽपि सः ॥ १९ ॥ अर्थव्ययज्ञः सुकलो याचकस्तु वनीयकः । वनीपको मार्गणोऽर्थी स्तो याचनक-तर्कुकौ ॥ २० ॥ मुखंपचो वसुकृमिः कृपणस्तु मितंपचः । ;l{0050} कदर्यः क्षुल्लकः क्षुद्रः किंपचानश्च रङ्कवत् ॥ २१ ॥ [159b]दृढमुष्टिस्तद्धनश्च कीनाशोऽपि वराकवत् । गृध्नुस्तु गर्धनो लुब्ध-तृष्णक्‌-तर्षित-लिप्सवः ॥ २२ ॥ लोलुपो लोलुभश्चाभिलाषुको लम्पटश्च सः । कमनोऽथ महात्मा स्यान्महाचित्तो महाशयः ॥ २३ ॥ ;l{0055} उदीर्णः स्यादुदात्तोऽपि महेच्छोदारकोद्भटाः । निःस्वस्तु दुर्विधो दीनो दुःस्थाकिंचन-कीकटाः ॥ २४ ॥ दरिद्रोऽपि दरिद्राणे दुर्गतोऽश्वस्तनोऽपि सः । व्रातीनः स्याद्व्रातजीवी शरीरायासजीवनः ॥ २५ ॥ स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः । ;l{0060} दापितः साधितोऽपि स्याद्वरदस्तु समर्धकः ॥ २६ ॥ परीक्षकः कारणिकोऽक्षपाटलिक इत्यपि । हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ २७ ॥ नीलीरागः स्थिरप्रेमा मञ्जिष्ठारागकः पुनः । उद्धतप्रेमवानुक्तो हरिद्रारागकः पुनः ॥ २८ ॥ ;l{0065} क्षणमात्रानुरागी स्याद्दुर्मनास्तु विचेतनः । ;p{0004} अन्तर्मनाश्च विमना अथ तद्वद्य आचरेत् [160a] ॥ २९ ॥ स्याद्दुर्मनायमानोऽसावुत्कस्तूत्सुक उन्मनाः । उत्कण्ठितोऽथोन्मनायमानस्तद्वत्समाचरन् ॥ ३० ॥ उन्मनस्त्वं त्वौन्मनस्यं भावेऽस्योन्मनिमा पुमान् । ;l{0070} उन्मनस्ता स्त्रियामेवं दौर्मनस्यादिकान्वदेत् । कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः । कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३१ ॥ कुण्ठः क्रियासु मन्दो यः क्रियावान्कर्मसूद्यतः । यद्भविष्यो दैवपरो दीर्घसूत्रश्चिरक्रियः ॥ ३२ ॥ ;l{0075} मन्दस्तु तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः । दक्षे तु चतुर-पेशल-पटूष्णकोष्णा धृषुश्च सूत्थानः ॥ ३३ ॥ विस्रब्धः स्याद्विश्वसितोऽथोत्ताल-त्वरितौ समौ । आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः । तत्परोऽप्यथ विख्यात-विज्ञातौ वित्त-विश्रुतौ ॥ ३४ ॥ ;l{0080} तथा प्रतीतस्तादृक्तु गुणैराहतलक्षणः । ईशस्तु ***** पतिरीश्वर ईशिता ॥ ३५ ॥ भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः । अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥ साधुलक्साधुलग्नः स्याज्जलमग्जलमज्जनः । ;l{0085} अधिकर्द्धिः समृद्धः स्यादविनीतोद्धतौ समौ । विनीतः प्रश्रितः प्रोक्तो निभृतोऽथ वचःस्थितः ॥ ३७ ॥ स्यादाश्रवो विधेयस्तु विनयस्थित इत्यपि । ;p{0005} वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णु-धृष्णजौ ॥ ३८ ॥ विशस्तोऽप्यथ वैयात्य-वियातत्वे नपुंसके । ;l{0090} स्त्रियां वियातता भावे तस्य पुंसि वियातिमा ॥ ३९ ॥ प्रतीपः प्रतिकूलः स्यान्नमसस्त्वनुकूलवत् । अधृष्टः शारदः प्रोक्तस्तत्र शालीन इत्यपि । विलक्षो विस्मयापन्ने वाञ्छापन्नश्च स स्मृतः ॥ ४० ॥ आपन्नजीविकः प्राप्तजीविकश्च समावुभौ । ;l{0095} वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ ४१ ॥ निर्वार्यः कार्यकर्ता यः संपतन्सत्त्वसंपदा । स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ ४२ ॥ स्वरुचिश्च यथाकामी परतन्त्रस्तु ना[161a]थवान् । परवांश्च परायत्तः पराधीनोऽन्यनिघ्नवत् ॥ ४३ ॥ ;l{0100} परच्छन्दः परवशोऽथायत्ताधीन–निघ्नकाः । अस्वच्छन्दो गृह्यकश्च यस्य कस्यापि यो वशः ॥ ४४ ॥ भार्याटिकः स्त्रीजितः स्याच्चक्षुष्यस्तु सुदर्शनः । सुभगो वल्लभो रुच्यो दयितः प्रिय इत्यपि ॥ ४५ ॥ लोकंपृणस्तु लोकस्य प्रीतिकारी प्रकीर्तितः । ;l{0105} साधुः सहो रश्मियः (?) स्याद्भव्यस्तु भविलो भवेत् । प्रतिस्नातस्त्व * गथो लमकस्तीर्थशोधनः । उपासकस्तु गोमी स्याद्गोमानिति च कीर्तितः । उग्रपश्यः क्रूरदर्शी द्वेष्यस्त्वक्षिगतो मतः ॥ ५० ॥ शीर्षच्छेद्यो वध्य-घात्यौ शैर्षच्छेदिक इत्यपि । ;p{0006} ;l{0110} हल्यो हलेन यो वध्यो मुशल्यो मुशलेन यः ॥ ५१ ॥ संनद्धस्त्वाततायी स्याच्छस्त्राद्यैर्यो वधोद्यतः । शरारुर्घातुको हिंस्रो दशेरः शीर्वि-मीवरौ ॥ ५२ ॥ शिश्विदानः कृष्णकर्मा नृशंसः क्रूरकर्मकृत् । निस्त्रिंशो घातुकः पापो शठस्तु निकृतो[161b]ऽनृजुः ॥ ;l{0115} भवेदनभ्याशमित्यः परिहार्यः सुदूरतः ॥ ५३ ॥ मायावान्मायिको मायी मायावी धूर्त-वञ्चकौ । व्यंसकः कुहको दाण्डाजिनिकः कुटिलाशयः ॥ ५४ ॥ कुचरश्छित्वरः कापटिको जालिक-दाम्भिकौ । कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ॥ ५५ ॥ ;l{0120} द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक्‌ । खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ । क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः । रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥ चण्डस्त्वत्यन्तकोपी स्यात्तितिक्षुः सहनः क्षमी । ;l{0125} सहिष्णुः क्षमिता क्षन्ता क्षमावानपि सासहिः ॥ ५७ ॥ लज्जाशीलोऽपत्रपिष्णुः ह्रीकुर्ह्लीकुश्च तत्समौ । त्रपितो लजितो ह्रीणो ह्रीतो बहुकरः पुनः ॥ द्वयोः पुंस्त्वे तु खलपूरीर्ष्यालुः कुहनः स्मृतः । दूढ्यस्तु दुर्ध्यानकरे दूणाशो दूर्वधः स्मृतः । ;l{0130} दूडाशो दुःखदे[162a]यः स्याद्दुर्दभ्यो दूडभः स्मृतः । सर्वंसहः सर्वसोढा क्षमः शक्तः सहः प्रभुः । समर्थः सहिता सोढा प्रभूष्णुरपि तादृशः । ;p{0007} बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः । भक्षको घस्मरो वर्विराशितश्चाद्मराशिनौ ॥ ५९ ॥ ;l{0135} परान्नः परपिण्डादः पुत्रान्नादः कुटीचरः । अथोदरपिशाचः स्यात्सर्वान्नीनोऽखिलान्नभुक् ॥ ६० ॥ शाष्कुलः पिशिताशी स्यादथ स्वोदरपूरके । आत्मंभरिस्तत्सदृशौ कुक्षिंभर्युदरंभरी ॥ ६१ ॥ आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः । ;l{0140} भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये । उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् । कामुकः कमिता कम्रोऽनुकः कामयिताभिकः । कामनः कमनः कामी कमराभीक-रामिलाः । हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥ ;l{0145} विक्लवो विह्वलः स्यात्तु विवशोऽनिष्ट[ दुष्ट ]धीः । चलाचलश्चाचलिश्च चिकुरश्चपलस्तथा ॥ ६४ ॥ अस्थिरः स्यात्संकसुकोऽथापन्नः स्याद्विपद्यु[162b]तः । आक्षारितः क्षारितोऽभिशस्त आक्रुष्ट इत्यपि ॥ ६५ ॥ व्यसनार्तोपरक्तौ द्वौ विहस्त-व्याकुलौ समौ । ;l{0150} निकृतः स्याद्विप्रकृतोऽन्यध्रुट्स्वस्थानगोऽपि सः । शरणार्थ्यभिपन्नः स्यात्पिण्डीशूरोऽस्तिमान्धनी ॥ ६६ ॥ हथो विषण्ण आर्तश्च विषादी तान्त इत्यपि । स गोष्ठश्वः प्रतिक्षिप्तस्त्वाक्षिप्तो हतकश्च सः ॥ ६७ ॥ अधिक्षिप्तोऽप्यथो विप्रलब्धो वञ्चित इत्यपि । ;l{0155} भवेत्पाण्डुरपृष्ठोऽसौ यो लक्षणविवर्जितः ॥ ६८ ॥ ;p{0008} निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः । अवरीणो न्यक्कृतश्चावगीतः ख्यातगर्हणः । त्रासदायी शंकुरः स्यात्तर्जितो भीषितः समौ ॥ ६९ ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः । ;l{0160} अपविद्धोऽथ भग्नेच्छः प्रतिबद्धो मनोहतः ॥ ७० ॥ हतः प्रतिहतश्च स्यादथ संदानितः सितः । बद्धो निगडितो नद्धो यन्त्रितः कीलितस्तथा ॥ ७१ ॥ संयतोऽप्यथ मुक्तः स्यादुत्सृष्टश्च विसृष्टवत् । प्राट् कथं[163a]कथिकः प्रष्टा कथकैकलटौ(?)समौ ॥ ७२ ॥ ;l{0165} सुखशयनं यः पृच्छत्ययमुदितः सौखशायनिकः । सौस्नातिकोऽपि तद्वत्सुस्नातप्रश्नकारी हि यः ॥ ७३ ॥ मा कारि शब्द इति यः प्राह माशब्दिकोऽपि सः । पार्याप्तिकस्तु पर्याप्तिवादी प्राभूतिकस्तथा । नग्नो विवस्त्रो दिग्वासा हसनीयस्तु हास्यवत् । ;l{0170} स्यान्नासिकंधमो नासां धमन्स्यान्नासिकंधयः । नासां धयन्नेवमेव ज्ञेया नाडिंधमादयः । अभ्रंलिहिस्त्वभ्रलेही भवेदभ्रंकषः पुनः ॥ ७४ ॥ अभ्रं कषन्सर्वकाषी पुनः सर्वंकषः स्मृतः । कूलंकषः कूलकाषी जायाघ्नस्तिलकालकः ॥ ७५ ॥ ;l{0175} पतिघ्नी पाणिरेखा स्यात्पित्तघ्नं पित्तनाशनम् । हस्तिघ्नो हस्तिघाती स्याज्जनौः स्याज्जनरक्षकः । ओजायमान उक्तोऽसावोजस्वीवाचरेद्धि यः । ;p{0009} अधीरः कातरस्त्रस्नुर्भीरुर्भीरुक-भीलुकौ ॥ ७७ ॥ दरि[163b]तश्चकितो भीतस्तथा हरिणचेतनः । ;l{0180} आशासानो नाथमानोऽथाशंसुस्तत्स्वभावकः ॥ ७८ ॥ ग्रहयालुर्ग्रहीता स्यात्पतयालुस्तु पातुकः । प्रह्वस्तु वन्दथो वन्द्रो नमतो नम्र इत्यपि । ***चि?न्नमस्यश्च वन्दारुरभिवादकः ॥ ७९ ॥ वर्धिष्णुर्वर्धनो भूष्णुर्भविष्णुर्भवितापि सः । ;l{0185} प्रजनिष्णुः प्रजनिता ****** समौ । उत्पतिष्णुस्तूत्पतिताथानतावर्जितौ समौ । क्षयिष्णुः क्षयशीलः स्याद्भ्राजिष्णुर्भ्राजनोऽपि च । निराकरिष्णुः क्षिप्नुः स्यात्प्रमादी तु प्रमादवान् । श्रमी श्रान्तो भ्रमी भ्रान्तो ***** शीलवान् । ;l{0190} आयामशीलस्त्वायामी दोषी दूषणशीलवान् । संपर्की चापि संसर्गी भङ्गुरो भङ्गशीलकः । भिक्षाशीलस्तु भिक्षाको लुण्टाको लुण्टकः समौ । कुट्टाकः कुट्टकस्तुल्यौ तमी तान्तः समाविमौ । नश्वरो नाशशीलः स्यात्सृत्वरः सृमरः समौ । ;l{0195} प्रसारी तु विसारी स्याद्भवेत्प्रसृमरोऽपि सः । [विसृत्वरो] विसृमरोऽथेत्व[164a]रो गत्वरः समौ । गन्ता तु गामुकस्तुल्यौ गमिष्यंस्तु गमी मतः । श्वोगामी श्वो गमिष्यन्स्याज्जगन्वाञ्जग्मिवानुभौ । प्रातर्गामी प्रातरित्वा भृशं तु क्रमशीलवान् । ;p{0010} ;l{0200} भवेच्चङ्क्रमणो दन्द्रमणश्च स निगद्यते । पापतिस्तु भृशं पातशील एवं तु वावहिः । उन्निद्रो निद्रया हीनो बुद्धो जागरितः समाः । जागरूको जागरिता जागरी च समास्त्रयः । स्वप्नक्शयालुर्निद्रालुर्घूर्णितः प्रचलायितः । ;l{0205} निद्राणः शयितः सुप्तो निद्रामिच्छन्निदिद्रिषुः । निद्राकाम्य[स्तु] निद्रीयन्सुषुप्सुरथ सुप्तिमान् । निद्रायमाणो निद्रायंस्तन्द्रालुस्तन्द्रयान्वितः । धारुर्धरणशीलः स्याद्धर्ता धारय-धारकौ । धीवाथ धीवरी स्त्रीदृक् भावे धैवत्यमन्तिमे । ;l{0210} संमुखीनस्त्वभिमुखः पराचीनः पराङ्मुखः । प्रत्यङ्मुखः प्रतीचीनोऽथावाङ्मुखोऽप्यधोमुखः । अवाचीनोऽप्यथोत्पश्यन्नुन्मुख[164b]श्च प्रकीर्तितः । विष्वद्र्यङ् विष्वगञ्चेद्यो देवद्र्यङ् देवमञ्चति । सध्र्यङ् सहाञ्चंस्तिर्यङ् तु संमतो यस्तिरोऽञ्चति । ;l{0215} अमुमञ्चन्नमुमुयङ्ङसावदसुयङ्ङपि । अदद्र्यङ् चाथ गोअक् स्याद् गवाग्गोग्धेनुमञ्चति । साध्वञ्चति भवेत्सम्यङ् शयानस्तूत्स्वपन्मतः । प्रबुध्यमानो जाग्रत्स्याच्छासदाज्ञापयन्नपि । शासिता दैशिकः शास्ताथोर्द्ध्वस्थोर्ध्वंदमौ समौ । ;l{0220} आसीनः स्यादुपविशन्नुपविष्टस्तथासितः । ;p{0011} विधित्सन्कर्तुकामः स्याच्चिकीर्षुश्च विधित्सुवत् । पित्सुस्तु पातुकामो यो जिघृक्षु [क्षं ?] स्तु जिघृक्षुवत् । ईर्ष्यामिच्छन्नीर्ष्यियिषन्भवेदीर्ष्यिषिषन्नपि । पिपृच्छिषन्प्रष्टुकामो बिभित्सन्भेत्तुमिच्छति । ;l{0225} क्षेप्तुमिच्छंश्चिकरिषन्गिलितुं पुनरिच्छति । उक्तो जिगरिषंस्तत्र तथा जिगलिषन्नपि । चिकीषंस्तु चिचीषुश्च चेतुकामोऽपि कीर्तितः । तितृंहिषंस्तितृक्षंश्च जि[165a]घांसन्रित्सुरित्यपि । तितांसंस्तु तितंसन्स्यात्तथा तितनिषन्नपि । ;l{0230} पित्सन्पिपतिषंस्तुल्यावथ स्याद्दिदरिद्रिषन् । तथा स्याद्दिदरिद्रासन्दित्सन्स्याद्दित्समानवत् । अथो अधिजिगांसुः स्यात्तथा पिपठिषन्नपि । अध्यापिपयिषंश्चाधिजिगापयिषता समः । गन्तुमिच्छञ्जिगमिषन्बोधने त्वीषिषन्मतः । ;l{0235} दिदेविषंस्तु दिद्यूषन्सुस्यूषंस्तु सिषेविषन् । ईर्त्सन्नर्दिधिषंस्तुल्यौ गदितौ वृद्धिकामुके । विवूर्षन्स्याद्विवरिषन्विवरीषन्नपि स्मृतः । तितरीषंस्तितरिषंस्तितीर्षंस्तर्तुकामवत् । बुभुक्षन्स्यादशिशिषन्मित्समानस्तु मित्सति । ;l{0240} स्याद्विवर्तिषमाणो [ सौ ] विवृत्संश्च [ स ]मार्थकाः । अङ्क्तुकामस्त्वञ्जिजिषन्बुभूषन्भवनेच्छुवत् । ;p{0012} तुष्टूषन्स्तोतुकामोऽथ तिष्ठासन्स्थातुमिच्छति । निदिद्रापयिषन्सुष्वापयिष[165b]न्नप्युभौ समौ । इच्छन्स्वेदयितुं सिस्वेद यिषन्परिकीर्तितः । ;l{0245} स्यान्मीमांसिषमाणश्च यो मीमांसितुमिच्छति । बिभ्राजिषंस्तु बिभ्रक्षन्बिभर्क्षंश्च बिभर्जिषन् । अकल्मषो वीतदम्भो धिप्सन्धीप्सन्दिदम्भिषन् । शिश्रीषन्स्याच्छिश्रयिषन्मित्सन्स्यान्मित्समानवत् । अथोर्णुनुविषन्नूर्णुनविषन्नूर्णुनूषति । ;l{0250} स्याज्जिज्ञापयिषञ्जिज्ञपयिषञ्ज्ञातुमिच्छति । बुभूर्षन्स्याद्बिभरिषन्नर्तितुं पुनरिच्छति । निनर्तिषन्निनृत्संश्च शिक्षन्स्याच्छिक्षमाणवत् । पुत्रीयि [ यि ] षन्पुतित्रीयिषन्पुपुत्रीयिषन्नपि । पुत्रीयन्पुत्रकाम्यश्च य इच्छत्यात्मनः सुतम् । ;l{0255} दधिकाम्यो दधिस्यन्स्याद्दध्यस्यन्नपि तादृशः । क्लीबन्क्लीबायमानश्च यः क्लीब इव चाचरन् । कृष्णन्कृष्णायमाणः स्यात्कृष्णं कुर्वंश्च कृष्णयन् । पट्वीमृदूयमानस्तु पट्वीमृद्व्याविवाचरन् ॥ १३ ॥ [166a]श्रयंस्तु श्रीरिवाचारी स्रग्वीव स्रजयंस्तथा । ;l{0260} अथ चित्रीयमाणः स्याद्य आश्चर्यसमन्वितः ॥ १४ ॥ शब्दं कुर्वति शब्दायमानश्च परिकीर्तितः । पटयन्पटुमाचष्टेऽतिक्रामति तु तेन यः ॥ १३ ॥ अत्यश्वयन्हस्तिनातिहस्तयन्स प्रकीर्तितः । ;p{0013} अथो हस्तयमानः स्याद्यो हस्तौ स्वौ निरस्यति ॥ १४ ॥ ;l{0265} श्वेताश्वं यः समाचष्टे योऽतिक्रामति तेन वा । भवेच्छ्वेतयमानोऽश्वतरं त्वश्वयमानकः ॥ १५ ॥ गालोडितं समाचष्टे स्याद्गालोडयमानकः । भवन्तं यः प्रेरयति भावयन्नयमुच्यते । यवयन्कनयंस्तुल्यौ स्फाययन्स्फिरकारिणि ॥ १५ ॥ ;l{0270} स्थवयन्स्थूलकारी स्यात्त्रपयंस्तृप्रकारकः । वृन्दारकं कुर्वति स्याद्वृन्दयन्वरयन्पुनः ॥ १६ ॥ वारयन्नुरुकारी स्याद्बृंहयंस्तु बृहत्त्वकृत् । च्व्यर्थे त्वाढ्यंभविष्णुः स्यादाढ्यंभावुक इत्यपि ॥ १७ ॥ सुभगंभावुकस्तद्वच्च्व्यर्थे यः सुभगो भवेत् । ;l{0275} एवं स्थूलंभविष्णुः[166b] स्यात्स्थूलंभावुक इत्युभौ ॥ १८ ॥ स्थूलस्तु पीवरः पीनः पीवा सान्द्रस्तु मेदुरः । पितृस्थानीयस्तु पितृस्थानः स्यात्पितृसंनिभः ॥ १९ ॥ पितेवाचरिता प्रोक्तः पितरन्मातरंस्तथा । मित्रशीर्मित्रशास्ता यः शिष्यशास्ता तु शिष्यशीः । ;l{0280} स्थवीयांस्तु स्थविष्ठः स्यात्स्थौल्यं तु स्थविमा नरि । पुत्रीय-पुत्र्यौ तद्धेतुसंयोगोत्पातयोरुभौ ॥ २० ॥ अथानुकम्पितः पुत्रः पुत्रको विनिगद्यते । देवियो देविलो देवदत्तकः सोऽनुकम्पितः ॥ २१ ॥ उपेन्द्रदत्ते तादृक्ष उपडोपेन्द्रदत्तकौ । ;l{0285} उपकश्चोपिकश्च स्यादुपियः स्यात्तथोपिलः ॥ २२ ॥ वागाशीर्दत्तकस्तादृग्वाचिकः परिकीर्तितः । ;p{0014} देवदत्तग्रामणीकः कथितो देवदत्तकः ॥ २२ ॥ श्वगणेन चरञ्श्वागणिकः श्वगणिकोऽपि सः । वासुदेवादिगृह्यः स्याद्वासुदेवादिपक्षयुक् ॥ २३ ॥ ;l{0290} कृत्कर्ता कारकः स्रष्टा निर्माता च विधातरि । ग्रहीता ग्राहको ग्रा[167a]ही चेतयंश्चेतयः समौ । वेदयन्वेदयस्तद्वत्सातयन्सातयस्तथा ॥ २४ ॥ साहयः साहयंस्तुल्यौ जिघ्रो जिघ्रन्धयो धयन् । पश्यन्पश्यः पिबः पाता धमस्तु स्याद्धमन्नपि ॥ २५ ॥ ;l{0295} गोसंदायो गोप्रदः स्याच्चाटुकारस्तु चाटुकृत् । अङ्गं तु कम्पयन्नङ्गमेजयः परिकीर्तितः ॥ २६ ॥ ब्रह्महा ब्रह्म हतवान्भ्रूणहा तद्वदीरितः । बोभूयमानस्तु पुनर्भृशं वा भवति स्मृतः ॥ २७ ॥ बोभवन्नपि तत्राथ कुटिलं व्रजति स्मृतः । ;l{0300} वाव्रज्यमानो लोलुप्यमानो लुम्पन्विगर्हितम् ॥ २८ ॥ दन्दह्यमान-चञ्चूर्यमाणाद्यानेवमुन्नयेत् । पंफुल्यमानः पम्फुल्यमानश्चापि भृशं फलन् ॥ २९ ॥ कोकूयमानश्चोकूयमानोऽपि भृशभाषिणि । चरीकरंश्चरिकरंश्चर्करन्नीरिता अमी ॥ ३० ॥ ;l{0305} चेक्रीयमाणतुल्यार्था अथ जेघ्रीयमानवत्‌ । जञ्जञ्जञ्जन्यमानस्तु जजञ्जाजायमानवत् ॥ ३१ ॥ [167b]वरीवृतन्वरिवृतन्वर्वृतन्नित्यमी मताः । त्रयो वरीवृत्यमान (ने?) भृशं तु स्रस्यति स्मृतः ॥ ३३ ॥ ;p{0015} असौ सनीस्रस्यमानोऽथो दनीध्वस्यमानकः । ;l{0310} पुनः पुनर्ध्वस्यति स्याच्चाकरन्विक्षिपन्भृशम् ॥ ३३ ॥ भृशं तरंस्तातरन्स्याज्जाग्रहन्गृह्णति स्मृतः । ज[री]गृहञ्जर्गृहन्स्याज्जाहर्यञ्जाहरन्समौ ॥ पाप्रच्छंस्तु भृशं प्राट् स्याच्चङ्खनंस्तु भृशं खनन् ॥ ३४ ॥ सास्वपन्भृशनिद्रालुर्जाहत्तु भृशमुज्झति । ;l{0315} तोतूर्वन्हिंसति भृशं भृशं बध्नति मामवन् ॥ ३५ ॥ मोमूर्छंस्त्वपि मोमोरन्भृशं मूर्छति संमतः । वेवीयमानस्तु मतः पौनःपुन्येन योऽजति । लोलूर्लोलूयमानः स्यात्स्फारयन्स्फोरयन्समौ । हेतोस्तु विस्मये विस्मापयमानः समीरितः । ;l{0320} करणाद्विस्मये विस्माययन्नेव च भावयन् । हेतोर्भापयमानः स्याद्भये भीषयमाणवत् ॥ ३६ ॥ पुरोभवस्तु पौरस्त्यः पौरस्तः पौरतोऽपि सः । आरातीयस्त्वन्ति[168a]कभूः क्वत्यः कुत्रत्य इत्युभौ ॥ ३७ ॥ पारतः परतो जातोऽत्रत्यस्तु स्यादिहत्यवत् । ;l{0325} ततस्त्यस्तु ततो भूतोऽथौपरिष्टस्तथोर्ध्वभूः ॥ ३८ ॥ पश्चाद्भवस्तु पाश्चात्त्यो दक्षिणा तु भवे भवेत् । दाक्षिणात्यः पार्श्वतीयः पुनः स्यात्पार्श्वतो भवे ॥ ३९ ॥ तथैव मुखतीयं स्यात्परकीयान्यदीयके । स्वकस्येदं स्वकीयं स्याद्भावत्कं भवदीयवत् ॥ ४० ॥ ;l{0330} इह लोके भवादौ स्यात्सुखादावैहलौकिकम् । ;p{0016} वेत्रकीयं तु वेत्रस्य वेणुकीयं तु वैणवम् । यौष्माकीणं युष्मदीयं यौष्माकं च त्रयं समम् ॥ ४१ ॥ तावकं तावकीनं च त्वदीयं च समार्थकम् । आस्माकीनं त्वस्मदीयमास्माकमपि संमतम् ॥ ४२ ॥ ;l{0335} मदीयं मामकं मामकीनं चेति समं त्रयम् । देवदत्तीयमेवं स्याद्दैवदत्तमथो ततः ॥ ४३ ॥ त्वत्को मत्कश्च त्वमहं ग्रामणीर्यस्य वर्तते । आगते समरूप्यं स्यात्समीयं [168b] चैवमादिशेत् । आगतस्तु कुतो यः स्यात्स कौतस्कुत उच्यते । ;l{0340} सर्वकर्मव्यापकस्तु सर्वकर्मीण ईरितः ॥ ४४ ॥ पूर्वी येन कृतं पूर्वं भुक्तं वा पीतमित्यपि । कृतपूर्वी भुक्तपूर्वी पीतपूर्वी तथैव च ॥ ४५ ॥ अथानुपदमन्वेष्टानुपदीत्यथ वातवान् । वातूलोऽपि च यो वातं सहते न स संमतः ॥ ४६ ॥ ;l{0345} उष्णासहस्तथोष्णालुस्तृप्रालुस्तृप्रदुःसहः । समौ हिमेलु-शीतालू आर्चस्त्वर्चावति स्मृतः ॥ ४७ ॥ वार्तस्तु वृत्तिमान्केशी केशिकः केशवानपि । साहस्रस्तु सहस्री स्याद्गदितोऽपि सहस्रिकः ॥ ४८ ॥ मुष्करो मुष्कसंयुक्तः पांसुरः पांसुसंयुतः । ;l{0350} शत्रुयुक्तः शत्रुवलो दण्डवद्दण्डि-दण्डिकाः ॥ ४९ ॥ स्यान्नैष्कशतिकस्तद्वांस्तद्वन्नैष्कसहस्रिकः । ;p{0017} विप्रधर्मसुतो विप्रधर्मी स्याद्विप्रशीलिवत् । विप्रवर्णी तथैव स्याद्विप्रवर्णेन संयुतः । स्याद्बाहुबल्यू[169a]रुबली यो बाहूरुबलान्वितः ॥ ५१ ॥ ;l{0355} धान्यार्थी च हिरण्यार्थी यो धान्याद्यर्थवान्भवेत् । बली तु बलवान्दृप्रो बलूलः प्राणथश्च सः ॥ ५२ ॥ गुण्यस्तु गुणचुञ्चुः स्यात्तथा गुणचणश्च सः । विदद्रूपः प्रशस्तो यो विदन्नीषत्त्विहोनके । वित्कल्पो[ऽथ] विदद्देश्यो विदद्देशीय इत्यपि । ;l{0360} तत्समानार्थ एव स्याद्विज्ञैर्बहु विदन्निति ॥ ५४ ॥ विदप्रकारकस्तु स्याद्विदज्जातीयनामकः ॥ ५५ ॥ भवेदभूततद्भावे घटीकुर्वन्घटीभवन् । अरु कुर्वन्क्षतीकुर्वन्नुन्मनीकुर्वदादि च ॥ ५४ ॥ अथाग्निसाद्भवन्नग्नीभवन्कार्त्स्न्येन तत्र च । ;l{0365} राज्ञोऽधीनकरोत्यर्थे राजसाद्भवदादयः ॥ ५५ ॥ देये च तदधीने च द्विजत्राकुर्वदादयः । अव्यक्तशब्दानुकृतौ भवेत्पटपटाभवन् ॥ ५६ ॥ निष्कुष्णन्निष्कुलाकुर्वन् दुःखाकुर्वन्मनोर्तिकृत् । तत्प्राचुर्ये त्वन्नमयं तथापूपमयादि च ॥ ५७ ॥ ;l{0370} दिव्यो[169b]पपादुका देवा नृगवाद्या जरायुजाः । स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ५८ ॥ उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् । ;p{0018} तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ॥ ५९ ॥ कान्तं मनोज्ञं रुचिरं रुचिष्यं । ;l{0375} रुचिर्मनोहारि मनोहरं च । हृद्यं प्रियं बन्धुर-सुन्दराभि- रामाणि वामं रमणीयमाहुः ॥ ६० ॥ मनोरमं मञ्जुल-मञ्जु-वल्गु- काम्यानि सौम्यं मधुरं च हारि । ;l{0380} स्याच्छोभनं चारु च साधु कम्रं रम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥ लडहं कमनीयं चाथो भावे रामणीयकम् । मानोज्ञकं कामनीयकं च क्लीबे विनिर्दिशेत् ॥ ६२ ॥ अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् । ;l{0385} मिष्टं मृष्टं मधुरं स्वाद्यं स्वादिष्ठ-भल्लवत् ॥ ६३ ॥ उत्कृष्टं च प्रकृष्टं च ******** । मुख्यं प्रमुखं वर्यं प्रवरं प्राग्र्यं वरेण्यमग्र्यं च । उत्तममग्राग्रीय-प्राग्रहराग्रिय-परार्ध्य-जात्यानि ॥ ६४ ॥ अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च । ;l{0390} वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥ ******** शालि श्लाघ्यं प्रशस्तवत् । प्रबर्हणं प्रवेकं च प्रधानं ध्रुवमन्तिमे । श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभनः ॥ ६६ ॥ स्युरुत्तरपदे व्याघ्र-पुंगवर्षभ-कुञ्जराः । ;l{0395} सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ ६७ ॥ गौरवे त्वार्यमिश्राद्याः श्लाघ्ये भद्रभवन्मुखाः । नित्यं पुंसि गुणोऽप्राप्य**ग्र्यं चाभिधेयवत् ॥ ६८ ॥ ;p{0019} द्वयहीनं त्वप्रधानमुपसर्जनमित्यपि । निकृष्ट-प्रतिकृष्टापकृष्ट-याप्यावमाधमाः । ;l{0400} रेप-रेफ-कुपूयार्व-कपूयावद्य-गर्हिताः । गर्ह्य-कुत्सित-खेटापसद-चेल-ब्रुवाणकाः ॥ ७० ॥ खेटकाण्डश्च पापोऽथ म्लान-कश्मल-कच्चराः । मलीमसश्च मलिनो मलदूषित इत्यपि ॥ ७१ ॥ उज्ज्वलं विमलं वीध्रं निर्माल्यं निर्मलं शुचि । ;l{0405} अवदातं विशुद्धं च विशदं स्यादनाविलम् ॥ ७२ ॥ निर्णिक्तं शोधितं धौतं स[170b]मूढं क्षालितं तथा । मृष्टं च पावितं चोक्षं निःशोध्यमनवस्करम् ॥ ७३ ॥ असारं फल्गु सारं तु वरं क्लीबे ध्रुवं क्वचित् । शून्यं शुन्यं रिक्तकं च वशिकं तुच्छमित्यपि ॥ ७४ ॥ ;l{0410} तलिनं चाथ मोघं स्यादन्तर्गडु निरर्थकम् । निष्प्रयोजन-वन्ध्ये च निष्फलं च मुधाव्ययम् । प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥ ७५ ॥ पुरुहं पुरु च स्फारं स्फिरं भूरि च पुष्कलम् ॥ ७५ ॥ बहोः स्फिरस्यातिशये बहुलस्य यथाक्रमम् । ;l{0415} भूयिष्ठ-भूयसी स्फेष्ठ-स्फेयसी च प्रकीर्तितः ॥ ७६ ॥ बंहिष्ठं चापि बंहीयो भावे भूमा न च स्त्रियाम् । स्फेमा च बंहिमा चाथ स्तोकमल्पं कृशं तनु ॥ ७६ ॥ दभ्राणू तलिनं तुच्छं क्षुल्लकं क्षुद्रकं दरम् । सूक्ष्मं श्लक्ष्णं पेलवं च लव-लेश-कणा नरि ॥ ७७ ॥ ;l{0420} त्रुटिस्तुटिश्च मात्रा स्त्री ह्रस्वं तु लघु संस्मृतम् । ;p{0020} अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ७८ ॥ कणीयश्च तनीयश्च लघीयस्तु[171a] लघिष्ठवत् । ह्रसिष्ठं च ह्रसीयश्च [ ह्रस्व ] स्यातिशये भवेत् ॥ ७९ ॥ क्रशिमा तनिमा भावे तानवं तनुता तथा । ;l{0425} लघिमा ह्रसिमा पुंसि लाघवं लघुता स्त्रियाम् ॥ ८० ॥ करालमायतं दीर्घं तुङ्गमुन्नतमुद्धुरम् । उच्च-प्रांशूच्छ्रितोदग्राण्यथ दीर्घातिशायने ॥ ८१ ॥ द्राघीयः कथितं चापि द्राघिष्ठं च समार्थकम् । द्राघिमा दीर्घता दैर्घ्यं क्रमाल्लिङ्गत्रये मताः ॥ ८२ ॥ ;l{0430} ह्रस्वयल्लँघयन्द्राघयंश्च तत्तत्कराः स्मृताः । खर्वं कुब्जं वामनं च न्यङ् नीचं मन्थरं तथा ॥ ८३ ॥ अधोमुखमवाग्रं स्यादुभे चावनतानतम् । विशङ्कटं विशालं स्याद्विकटं पृथुलं पृथु ॥ ८४ ॥ उरु व्यूढं च विपुलं स्फारं गुरु ततं बृहत् । ;l{0435} महद्बहु च विस्तीर्णं वरीयस्तु वरिष्ठवत् ॥ ८५ ॥ गरिष्ठं च गरीयश्च प्रथीयश्च प्रथिष्ठवत् । वरिमा गरिमा भावे प्रथिमा पितृलिङ्गकः ॥ ८६ ॥ गरयन्प्रथयंश्च स्याद्वरयन्पृथुकारकः । उच्चावचं नैकभेदं बन्धूरं ब[171b]न्धुरं समे ॥ ८७ ॥ ;l{0440} यदुन्नतं चानतं स्याद्विषमं स्थपुटं भवेत् । वृत्तं तु वर्तुलं प्रोक्तं निस्तलं परिमण्डलम् ॥ ८८ ॥ वक्रं तु कुटिलं भुग्नं कुटिलं कुञ्चितं नतम् । आविद्धाराल-जिह्मोर्मिमद्-वङ्क-वृजिनानि च ॥ ८९ ॥ ;p{0021} भङ्गुरं वेल्लितं जैह्म्यं भावे कौटिल्यमित्यपि । ;l{0445} ऋजावजिह्म-प्रगुण-सरलाः परिकीर्तिताः ॥ ९० ॥ ऋजिष्ठश्च ऋजीयांश्च ऋजोः स्यादतिशायने । ऋजिमा त्वार्जवं भावे तत्रैव ऋजुता स्त्रियाम् ॥ ९१ ॥ आकुलः स्यादप्रगुणो व्यस्तो लुभित इत्यपि । विमोहितो लुभितवान्भावे त्वाकुलता स्त्रियाम् ॥ ;l{0450} अशेष-निःशेष-समस्त-सर्वे कृत्स्नाखिलाखण्ड-समग्र-विश्वे । अन्यून-पूर्णे सकलं समं च न्यक्षं तथाक्ष्णे( ? )न्निखिलं सिमं च ॥ ९२ ॥ द्वयोरेकस्य निर्द्धारप्रश्नार्थे कतरद्भवेत् । ;l{0455} कतमत्तु बहूनां चेत्कस्तु प्रश्नार्थको भवेत् ॥ ९३ ॥ निर्द्धारे स्वप्रकृत्यर्थवाचका यतरादयः । त्वत्त्वमन्य[172a]च्चान्यतरदितरत्परमित्यपि । एकं भिन्नं समार्थं स्यादैक्यभावे विनिर्दिशेत् । परस्परस्तथान्योन्य इतरेतर इत्यपि । ;l{0460} कर्मणो व्यतिहारे स्यान्मिथ इत्यव्ययं तथा ॥ ९५ ॥ स्त्रीषण्ढे तु विशेष्ये स्यादन्योन्यां च परस्पराम् । तथेतरेतरां सर्वविभक्तिषु विकल्पतः ॥ ९६ ॥ ९४ ॥ पुंस्यादि-पूर्व-पौरस्त्य-प्रथमे चाद्य आदिमः । अग्रं च मध्यमीयं तु मध्यमं माध्यमं तथा ॥ ९५ ॥ ;l{0465} माध्यंदिनमथान्तोऽस्त्री जघन्यमवरान्तिमे । पश्चिमापर-पाश्चात्त्याः पश्चात्तु चरमेऽव्ययम् ॥ ९६ ॥ उदीच्य उत्तरोऽनूर्ध्वस्त्वधरो विनिगद्यते । ;p{0022} अन्तरः परिधानीयस्त्य-इदौ बुद्धिगब्रुवौ ॥ ९७ ॥ यच्छब्दो विप्रकृष्टार्थेऽथेदमेतददोऽपि च । ;l{0470} बुद्धिस्थसंनिकृष्टार्थेऽथैकाकी ह्येक एककः ॥ ९८ ॥ असहायो भवद्युष्मच्छब्दौ संबोध्यवाचकौ । अस्मत्संबोधकार्थः स्यादस्मीत्यव्ययमत्र च ॥ २०० ॥ सर्वाः स्युः सर्वसंज्ञा ये प्रियसर्वाः प्रिया[172b]खिलाः । घनं निरन्तरं सान्द्रं नीरन्ध्रं बहलं दृढम् ॥ १ ॥ ;l{0475} निबिडं निबिरीसं च गाढं चाविरलं च तत् । द्रढिष्ठं तु द्रढीयः स्याद्दार्ढ्यं तु द्रढिमा नरि ॥ २ ॥ विरलं पेलवं तच्च द्रवं( ? )तनु च संस्मृतम् । नवं नवीनं नूत्नं च प्रत्यग्रं नव्य-नूतने ॥ ३ ॥ अयातयामं सद्यस्कं तरुणाभिनवे समे । ;l{0480} पुराणं प्रतनं प्रत्नं जरज्जीर्णं पुरातनम् ॥ ४ ॥ चिरंतनं यातयामं तत्पटच्चरमित्यपि । अवशिष्टं च[शिष्टं]च तथोर्वरितमित्यपि । अधिकं त्वतिरिक्तं स्यादूनं न्यूनं च हीनवत् ॥ ५ ॥ समीपं सनीडं सवेशं सदेशं ;l{0485} तथाभ्यर्णमभ्याशमभ्यासमुक्तम् । समर्यादमासन्नमभ्यग्रमस्मिं- स्त[था]संनिकृष्टं भवेदन्तिकं च ॥ ६ ॥ निकटं सविधमुपान्तं तथोपकण्ठं च संनिधानं च । पार्श्वं च संनिकर्षः पुंसि तथा संनिधिश्चात्र ॥ ७१ ॥ ;l{0490} अविदूरं च नेदिष्ठं नेदीयोऽत्यन्तमन्तिकम् । ;p{0023} भवेदङ्गुलिषङ्गं तत्सक्तमङ्गुलिभिर्हि यत् ॥ ८ ॥ अनन्तरं स्यादपटान्तरं च संसक्तमत्रा[173a]व्यवधानलग्ने । स्याद्विप्रकृष्टं च परं च दूरं ;l{0495} दवीय उक्तं च दविष्ठतुल्यम् ॥ ९ ॥ स्याद् दूरान्तिकयोर्भावे दविमा नेदिमा क्रमात् । स्फुटं स्पष्टं प्रकाशं च प्रकटं व्यक्तमुल्बणम् ॥ १० ॥ उद्धतं चोत्कटं च स्यादुद्रिक्तं स्पाशितं च तत् । आविष्कृतं प्रकटितं दर्शितं च प्रकाशितम् ॥ ११ ॥ ;l{0500} आवृतं संवृतं छन्नं संवीतमपवारितम् । पिहितं स्थगितं चापिहितमन्तर्हितं तथा ॥ ११ ॥ तिरोहितं गूहितं च रुद्धमाच्छादितं च तत् । अवकी[लित?]मुत्तालमुच्चण्डमवलम्बितम् । अनश्वरं तु शाश्वतं सनातनं सदातनं ;l{0505} ध्रुवं च नित्यमक्षयं स्थिरं त्वकम्पमुच्यते ॥ स्थाणुः स्थिरतरः स्थेयान्स्थविष्ठश्च निगद्यते । स्थेमा तु स्थिरभावे स्यात्स्थापकः स्थैर्यकारकः ॥ १२ ॥ एकरूपतया कालव्यापी कूटस्थ उच्यते । जङ्गमान्यत्स्थावरं स्याज्जङ्गमं तु त्रसं चरम् ॥ १३ ॥ ;l{0510} चराचरं च[रि]ष्णु स्यादिङ्गं जगदपि स्मृतम् । चपलं[173b] तरलं लोलं चञ्चलं [च] चलाचलम् ॥ १४ ॥ चलनं चञ्चलं कम्प्रं कम्पनं चटुलास्थिरे । ;p{0024} एजनं वेपनं वेपि पारिप्लव-परिप्लवे ॥ १५ ॥ ईषत्करं तु सुकरं दुष्करं दुर्विधं च तत् । ;l{0515} दुष्प्रापं दुर्लभं तुल्ये सुप्रापं सुलभं समे ॥ १६ ॥ स्याद् दुराढ्यंभवं च्व्यर्थे दुराढ्यंकरमित्यपि । ईषदाढ्यंकरं तु स्यात्तथा स्वाढ्यंकरं भवेत् ॥ १७ ॥ उपस्थितं तूपनतमुपसंपन्नमित्यपि । संहतं दृढसंधि स्याच्छ्लथं तु शिथिलं मतम् ॥ १६ ॥ ;l{0520} मूर्तिमत्तु भवेन्मूर्तं प्रवृद्धं प्रौढमेधितम् । अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ १७ ॥ एकतानोऽ[न]न्यवृत्तिरेकाग्रैकायनावपि । अप्येकसर्ग ऐकाग्रोऽप्येकायनगतोऽपि सः ॥ १८ ॥ निरर्गलं त्वबाधं स्यादुद्दामोच्छृङ्खले अपि । ;l{0525} अयन्त्रितानङ्कुशे चानुकूलं त्वनुलोमवत् ॥ १९ ॥ प्रसव्यं प्रतिकूलं स्यात्प्रतिलोममपष्ठुरम् । विलोममपसव्यं च प्रतीपं वाममित्य[174a]पि ॥ २० ॥ अपष्ठ्वव्ययमत्राथ सव्यं स्याद्वाममङ्गकम् । दक्षिणं त्वपसव्यं स्यात्संबाधः पुंसि संकटम् ॥ २१ ॥ ;l{0530} विसंष्ठुलं संकुचितं कलिलं गहनं समे । करम्बः कबरो मिश्रः संपृक्तः खचितश्च सः ॥ २२ ॥ संकीर्णं कीर्णमाकीर्णमाकुलं च प्रकीर्णवत् । पूनं विनष्टमाबर्हितं तून्मूलितमुद्धृतम् ॥ २३ ॥ उत्पाटितमथ च्छिन्नं छितं छातं च खण्डितम् । ;l{0535} दातं दितं च त्रुटितं छेदितं वृक्णमित्यपि ॥ २४ ॥ ;p{0025} कृत्तं चावर्जितं तु स्याद्यत्करादिभिरानतम् । अवदीर्णं विलीनं स्याद् द्रुतं विद्रुतमित्यपि ॥ २५ ॥ अभिश्यानं चाभिशीनं शीनं प्रस्तीममित्यपि । प्रस्तीतं च द्रवद्रव्यकठिनीभाव ईरितम् ॥ २६ ॥ ;l{0540} व्युष्टं विवर्तितं वृत्तं वृतं चावृत्तमित्यपि । निष्पन्नं सिद्ध निर्वृत्ते संपन्नं राद्धमित्यपि ॥ २७ ॥ ग्रन्थितं ग्रथितं दृब्धं गुम्फितं संदितं च तत् । संगूढं स्यात्संकलितं विसृतं विस्तृतं ततम् ॥ २८ ॥ अ[174b]न्तर्गतं विस्मृतं स्यात्प्राप्त-प्रणिहिते समे । ;l{0545} प्रेङ्खोलितं प्रेङ्खितं च धुतं धूतं च कम्पितम् ॥ २९ ॥ आन्दोलितं तरलितं लुलितं वेल्लितं तथा । न्यञ्चितं स्यादधः क्षिप्त[मूर्ध्वक्षिप्त]मुदञ्चितम् ॥ ३० ॥ परिक्षिप्तं वलयितं निवीतं परिवेष्टितम् । निवृतं स्यात्संवलितं वलितं च समार्थकम् । ;l{0550} परिष्कृतं परीतं च त्यक्तं तूत्सृ[ष्ट]मुज्झितम् ॥ ३१ ॥ धूतं हीनं विधूतं च मुक्तं हापितमित्यपि । करम्बितं तूत्खचितमाच्छिन्नं तु बलाद्धृतम् ॥ ३२ ॥ प्रतारितं वञ्चितं स्यादतिसंहितमित्यपि । नुन्न-नुत्तास्त-निष्ठ्यूताविद्ध-क्षिप्तेरिताः समाः ॥ ३३ ॥ ;l{0555} मुषितं मूषितं च स्यात्स्तेनितं चोरितं च तत् । प्रवृद्धं प्रसृतं स्फीतं न्यस्तं निहितमाहितम् ॥ ३४ ॥ निसृष्टं स्थापितं चाथ पिण्डितं गुणिताहते । पुष्टे निदिग्धोपचिते[पू]षितं छुरितं पुनः । ;p{0026} लिप्तं दिग्धं चाभ्रलिप्ती त्वेकदेशेन तादृशी ॥ ३५ ॥ ;l{0560} रूषितं गुण्डितं च स्याद् गुठितं च समार्थकम् ॥ ३६ ॥ गूढं गु[175a]प्तं तेजितं तु निशातं निशितं शितम् । क्ष्णुतं शातं कुण्ठितं तु कुण्ठं च स्यादतेजितम् ॥ ३७ ॥ शिक्ये धृतं काचितं स्याच्छिक्यितं चोद्धृतं पुनः । समुदक्तं च निःसारितं च निष्काशितं च तत् ॥ ३८ ॥ ;l{0565} रुग्णं भुग्नं च वङ्क्यं च पक्वं नाशोन्मुखं समे । निष्पक्वं क्वथितं पाके क्षीराज्यहविषी शृतम् ॥ ३५ ॥ श्राणं तु श्रपितं चान्यत्संयोजितमुपाहितम् । आरोपितं च मिलितं ध्मातं तु धमितं समम् ॥ ४० ॥ घ्राणं घ्रातं निष्कुषितं पुनर्निष्कुषितवत् समम् । ;l{0570} अवकीर्णं त्ववध्वस्तमपध्वस्तं विचूर्णितम् ॥ ४० ॥ छिद्रितं वेधितं विद्धं तष्ट-त्वष्टे तनूकृते । पाटितं दारितं भिन्नं भेदितं तु समार्थकम् ॥ ४१ ॥ भिन्नकं त्वेकदेशे तदूतं तु प्रोतमुच्यते । दान्तं तु दमितं तुल्ये क्षुभितं तु विलोडिते । ;l{0575} ऊतं स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥ ४२ ॥ पन्नं पतितं गलितं स्रस्तं ध्वस्तं च्युतं भ्रष्टम् । स्कन्नं स्यन्नं तु भवेत्स्रुतं स्नुतं तत्र[175b]रीणं च ॥ ४३ ॥ आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च । ज्ञप्तं ज्ञपितं शान्तं शमितं क्षान्तं तु मर्षितं सोढम् ॥ ४४ ॥ ;l{0580} पूर्णं तु पूरितं स्याद्भरितं निचितं तथोभितं व्याप्तम् । ;p{0027} आचितमप्याच्छन्नं स्यात्पुनरुद्वान्तमुद्गतं तुल्यम् ॥ ४५ ॥ अस्तमितो निर्वाणो निर्वातः स्याद्गते वाते । दस्तं दासितमुदितं प्रार्थितमर्दितं च तत्तुल्ये ॥ ४६ ॥ संघुषितं संघुष्टं स्वनितं ध्वनितं तथा स्वान्तम् । ;l{0585} आस्वनितमुक्तमुदितं व्याहृतमाख्यातमीरितं गदितम् ॥ ४७ ॥ लपितं भणितं कथितं जल्पित-रणिते तथाभिहितम् । बुद्धं बुधितं विदितं मनितं प्रतिपन्नमवसितावगते ॥ ४८ ॥ कलितं ज्ञातं चाथ प्राप्यं गम्यं समासाद्यम् । पाक्यं स्यात्पचनीयं त्ववश्यपाच्यं त्ववश्यपाकार्हे ॥ ४९ ॥ ;l{0590} वृष्यं वर्ष्यं शस्यं शस्यं मृज्यं तु मार्ग्यं स्यात् । मृग्यं गवेषणीयं गुह्यं गोह्यं च गोप्यं च ॥ ५० ॥ विन्नं विचारितं स्याद्विभावितं[176a] तत्र वित्तं च । क्लिशितं क्लिष्टं न्यर्णं समर्णके प्रोषितं प्रुष्टम् ॥ ५१ ॥ प्लुष्टं दग्धं लब्धं त्वधिगतमासादितं च विन्नं च । ;l{0595} प्राप्तं भावित-भूते अन्विष्टं मार्गितं मृगितम् ॥ ५२ ॥ अन्वेषितं गवेषितमथ हृष्टः प्रमुदितः प्रीतः । प्रह्लन्न-तृप्त-मत्तानन्दित-संतुष्ट-निर्वृतास्तुल्याः ॥ ५३ ॥ संतापितस्तु तप्तो धूपितमवमतमवहेलितं च परिभूतम् । अवगणितमनादृतवच्चावज्ञातापहस्तिते चात्र ॥ ५५ ॥ ;l{0600} ऊरीकृतमुररीकृतमुरीकृतं चाश्रुतं प्रतिज्ञातम् । अङ्गीकृतमभ्युपगतमुपश्रुतं संश्रुतोपगते ॥ ५६ ॥ ;p{0028} संगीर्ण-विदित-समाहित-संस्कृतवाच्यव्ययं त्वाम्स्यात् । दृष्टं वीक्षितमालोकित-रूपित-निभालिता[नि] स्युः ॥ ५७ ॥ श्रुतमाकर्णितवसिता( ? )दूर्णुतच्छादितानि संदिग्धम् । ;l{0605} प्रहितं प्रस्थापितकं प्रतिशिष्टं प्रेषितं चात्र ॥ ५८ ॥ गूनं हन्नं च समं मीढं स्यान्मूत्रितं तुल्यम् । विरतं सितमवसि[176b]तं प्रत्तं दत्तं वितीर्णं च ॥ ५९ ॥ सूत्तं तु साधु दत्तं पीतं धीतं च लिप्तं तु । भक्षित-चर्वित लीढ-प्रत्यवसित-गिलित-खादित-प्सातम् ॥ ६० ॥ ;l{0610} अभ्यवहृतान्न-जग्ध-ग्रस्त ग्लस्ताशितं भुक्तम् । उदितमुदीतं तुल्यं द्युतितं द्योतितमप्यभिन्नार्थम् ॥ ६१ ॥ स्तुतं पणितमीलितं पनितमीडितं वर्णितं पणायित-पनायित-प्रणुतमप्युपश्लोकितम् । प्रशंसितमभिष्टुतं भवति कीर्तितं गीर्णवत् ;l{0615} पतत्तु यदिहावृतं भवति तत्प्रतीष्टं भवेत् ॥ ६२ ॥ नमसितं तु नमस्यितमर्चितं महित-मर्हित-पूजित-वन्दितम् । अपचितं ह्यपचायितं भवति तु श्रित सेवित शी[लि]तम् ॥ ६३ ॥ वरिवसितं वरिवस्यितमुपासितं चोपचरितं च । ध्यातं चिन्तितमुक्तं निदर्शितं स्यादुदाहृ***त् ॥ ६४ ॥ ;l{0620} समः समानः सदृशः सदृक्षः सदृक् सधर्मापि सरूप-तुल्यौ । सवर्ण-साधारण-संनिभाश्च तथानुरूपश्च समार्थकाः[177a] स्युः ॥ ६५ ॥ ;p{0029} प्रख्य-प्रतीकाश-निभोपमानो- ;l{0625} पमा-प्रकार-प्रतिम-प्रकाशाः । संकाश-नीकाश-सनाभि-भूत रूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥ धर्मासाधारणा अन्ते स्थिताः सादृश्यबोधकाः । घनश्यामः स्वर्णगौरः सुधांशुधवलो यथा ॥ ६७ ॥ ;l{0630} व्यंसकाद्यास्त्वभेदेन सादृश्यप्रतिपादकाः । मयूरव्यंसको विप्रबको यतिवृको यथा ॥ ६८ ॥ औपम्यबोधकः क्वापि प्रत्ययोऽप्युत्तरस्थितः । वास्तेयं स्याद्वस्तिरिव शाख्यं शाखेव यद्गुरु ॥ ६९ ॥ तद्वच्छ्वेतपौण्डरिकं शार्करं शर्करेव यत् । ;l{0635} तथाङ्गुलिकमङ्गुल्या समं कार्कीकमित्यपि ॥ ७० ॥ सीतेव प्रतिमा सीता पूजार्थे चित्रकेतुगा । एवं रामः शिवोऽपण्ये पण्यो भवति रामकः । देवपथप्रतिकृतौ भवेद्देवपथस्तथा । द्रव्यं भवेत्क्लीबमेव यथा द्रव्यमसौ द्विजः ॥ ७२ ॥ ;l{0640} लपन्पिक इव प्रोक्तः पिकलापीत्यथाच[177b]रन् । शिष्यं पुत्रमिवासौ स्यात्पुत्रीय( ? )थयंस्तथा ॥ ७३ ॥ आचरेत्स च पुत्रायमाणो यस्त्वजवत्क्षणात् । विनश्यत्यजनाशं स विनष्टः परिकीर्तितः ॥ ७४ ॥ सहरि स्याद्धरेः साम्यं ससखीत्यमुना समः । ;l{0645} इत्यादावव्ययीभावो णमुलन्तं तथाव्ययम् ॥ ७६ ॥ नानारूपं विविधं पृथग्विधं स्यात्तथा बहुविधं च । ;p{0030} अन्यादृशं विलक्षणमन्यादृक्षं तथान्यादृक् ॥ ७७ ॥ ;c{॥ इति विशेष्यनिघ्नवर्गः ॥} ;v{प्रकीर्णवर्गः} लिङ्गेऽनुक्ते प्रकीर्णेऽत्र प्रकृतिप्रत्ययादिभिः । लिङ्गं विद्याद्विधानं तु भवेदुत्सर्गबाधकम् ॥ १ ॥ ;l{0650} कर्मास्त्रियां क्रिया-कृत्या-कृतयोऽथ स्त्रियामुभे । कारिश्च कारिका प्रश्ने चाख्यानेऽथापरस्पराः ॥ तत्सातत्येऽन्यवद्धेतुशून्यं स्थान विलक्षणम् ॥ २ ॥ कार्मणं मूलकर्म स्यात्परिशुद्धे तु कर्मणि । अवदानं च निर्व्यूढमथ संवदनं स्मृतम् । ;l{0655} वश क्रिया संवननं हिंसाफलककर्म तु ॥ ४ ॥ [178a]अभिचारोऽथान्तरायो व्यवायो विघ्न इत्यपि । प्रत्यूहः प्रतिबन्धस्तु प्रतिष्टम्भोऽप्यथाग्रहः । निर्बन्धोऽभिनिवेशः स्यात्पर्यवस्था विरोधनम् । निग्रहस्तु निरोधः स्यादभियोगस्त्वभिग्रहः ॥ ६ ॥ ;l{0660} संग्राहो मुष्टिबन्धः स्याद्‌ग्रहो ग्राहः समावुभौ । उद्ग्राहः स्यादुद्ग्र[ह]णं दान्तिः स्त्री दमथो दमः ॥ ७ ॥ दवथुस्तु दवो दाव उन्नायस्तून्नयः समौ ॥ ८ ॥ विश्रावो ना प्रथा ख्यातिर्विश्रुतिश्च प्रसिद्धिवत् । अवादौ स्ना(?)वुन्दनं चावक्लेदनमिदं समम् ॥ ९ ॥ ;l{0665} जलेतरक्लेदने स्यादुदङ्कोऽथाम्बुनोन्दने । उदकोदञ्चनं क्लीवे रातिस्त्वादानवाचकः ॥ १० ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि । ;p{0031} रक्ष्णस्राणे व्यधो वेधे ज्वलो ज्वाले वरो वृतौ ॥ १० ॥ विदारणं भेदनं च विदरः स्फुटनं भिदा । ;l{0670} लवोऽभिलावो लवनं लूनिः स्त्री स्यादुपस्कृतिः । प्रतिकीर्णमुपस्कीर्णं हिंसायां विषये मते । उपस्कारं लुनन्तीति विक्षिप्य लवने[178b] भवेत् । छेदनं वर्धनं तुल्ये कर्तनं कल्पनं छिदा ॥ ११ ॥ चायः प्रचायो विचयः पुष्पादेर्ग्रहणे मताः । ;l{0675} चौर्यग्रहे तु प्रचयो निष्पावः पवनं पवः ॥ १५ ॥ विधूननं विधुवनं क्ष्मातिर्धूनिर्धूनी स्त्रियः । गीर्णिर्गिरिः स्त्रियां चाथ तर्पणं प्रीणनावने । हिन्वनं धिन्वनं तद्वद्दिन्वनं जिन्वनं च तत् ॥ १३ ॥ सेवस्तु सेवनं स्यूतिः कीर्णिः स्यात्क्षिपणं क्षिपः । ;l{0680} व्यतिषङ्गो व्यतिकरः स्पृष्टिः पृक्तिः स्तवः श्रवः ॥ १४ ॥ आक्रोशनमभिष्वङ्गो निवेशो रचना स्थितिः । आस्यासनास्था-स्थितयोऽभ्युपपत्तिस्त्वनुग्रहः ॥ १५ ॥ संमूर्छनमभिव्याप्तिः स्फुरणे स्फुरणा स्त्रियाम् । हूतौ हवोऽथ पुत्रीया पुत्रकाम्या पुपुत्रिषा ॥ १६ ॥ ;l{0685} घटना पुंसि संघर्षः श्रथना तु विमोचना । अथ प्रश्नाख्यानयोः स्युः पचा पाचिश्च पाचिका ॥ १७ ॥ पर्यायेण स्थितौ सुप्तावासिका शायिकापि च । उपशाय-विशायौ द्वौ योग्यत्वे भक्षि[179a]काशिका ॥ १८ ॥ संधिः श्लेषश्च संयोगः संबन्धो युतिरङ्गना । ;p{0032} ;l{0690} विधुरं तु प्रविश्लेषो नरि स्त्री तु वियोजना । आप्रच्छनं भवेदानन्दनं तच्च सभाजनम् । नीतिः स्त्रियां नयो नायो ज्यानिर्जीर्णिः स्त्रियामुभे ॥ २० ॥ हानिः क्षिया क्षयो ह्रासोऽपचयश्चापहारवत् । स्फातिर्वृद्धिस्तथोत्कर्षोऽतिशयश्चातिशायनम् ॥ २१ ॥ ;l{0695} एधा समृद्धिर्ऋद्धिश्च प्रमा तु प्रमितिः स्त्रियौ । प्रजनः स्यादुपसरः पूर्वगर्भग्रहार्थकः ॥ २२ ॥ सूतिः प्रसूतिः प्रसवः प्राघारश्च्योत इत्यपि । गुरणं तूद्यमो न स्त्री इङ्गस्त्वाकार इङ्गितम् ॥ २३ ॥ वूर्तिः स्त्री वरणं द्वौ तु चल-चालौ नृलिङ्गकौ । ;l{0700} आक्रमोऽभिक्रमः क्रान्तिः स्यादारोहस्त्वभिक्रमः ॥ २४ ॥ संक्राम-संक्रमौ न स्त्रीलिङ्गौ द्वौ दुर्गसंचरे । विश्रमः पुंसि विश्रान्तिरवेक्षा प्रतिजागरः ॥ २५ ॥ विरामस्त्ववसाने स्यादुपरामस्तथाऽऽरतिः । निर्वृत्युपरती सातिर्वियाम-वि[179b]यमौ समौ ॥ २६ ॥ ;l{0705} व्ययस्त्वर्थस्यापगमो जप्तिः स्त्री जपनं जपः । बन्धनं प्रसितिश्चारः स्पशः स्प्रष्टोपतप्तरि ॥ २७ ॥ स्पाशश्चाथ विवर्तः स्यादपवर्तनमित्यपि । परिणामो विकारो द्वे समे विकृति-विक्रिये ॥ २८ ॥ प्रतियत्नो गुणाधानं विकृतं वैकृतं त्रिषु । ;l{0710} उपस्कृतं भेद्यलिङ्गं प्रतियत्ने च वैकृते । विधा स्त्री भिद्भिदा भेदः प्रकारोऽथ परिक्रमः । ;p{0033} विहारोऽपि परीसर्प-परिसर्पगमास्त्रयः ॥ २९ ॥ मर्षः परिकरः-स्त्रीर्या गतिरिङ्खा सृतिर्गतिः । भवेदुपसमाधानं समाहारः समुच्चयः । ;l{0715} परिष्कृतं संस्कृतं चोपस्कृतं च समुच्चितम् ॥ ३० ॥ आदानं स्यादवचयः परिहारस्तु वर्जनम् । संहारः स्यात्संहरणं निर्हारोऽभ्यवकर्षणम् ॥ ३१ ॥ स्त्रियां हस्ताहस्तिका स्याद्धस्तैर्हस्तैर्विकर्षणे । अनुहारोऽनुकारः स्यादौपम्यं च सधर्मता ॥ ३२ ॥ ;l{0720} कक्षा तुला चोपमा स्यादुपमानं तु न स्त्रियाम् ॥ ३३ ॥ प्र[180a]तिबिम्बं प्रतिरूपं प्रतिमानं स्यात्प्रतिच्छन्दः । प्रतिकृतिरर्चा प्रतिमा प्रतिमूर्तिः स्यात्प्रतिच्छाया ॥ ३४ ॥ प्रतियातना प्रतिनिधिस्तूर्मी स्थूणा च लौहेऽस्मिन् । संक्षेपणं समसनं समाहृतिः संग्रहः समासश्च ॥ ३५ ॥ ;l{0725} भोगः प्रपञ्चो विस्तारो व्यासो विग्रह इत्यपि । विस्तरस्तु स शब्दस्य प्लववस्तु न योषिति ॥ ३६ ॥ अर्थापुष्टिस्त्ववकरो विनाशः स्याददर्शनम् । लोपोऽथोद्वेग उन्मोहः प्रसरस्तु विसर्पणम् ॥ ३७ ॥ संस्तवः स्यात्परिचयः प्रवहो गमनं बहिः । ;l{0730} नीवाकस्तु प्रयामः स्याद्धान्यादेः संचयक्रिया ॥ ३८ ॥ यमो यामोऽपि संयामः संयमश्च समार्थकाः । परिसर्या परीसारः प्रसरस्तु विसर्पणम् ॥ ३९ ॥ विलम्भस्त्वतिसर्गः स्यात्प्रतिलम्भस्तु लम्भनम् । नियोगे विधि-संप्रैषौ विनियोगोऽर्पणं फले ॥ ४० ॥ ;l{0735} उपलम्भस्त्वनुभवोऽनुभूतिरुपलब्धिवत् । ;p{0034} आदीनवास्रवौ क्लेशे[180b] मेलके सङ्ग-संगमौ ॥ ४१ ॥ अन्वेषणान्वेक्षण-मार्गणानि संवीक्षणं स्यान्मृगणा मृगश्च । गवेषणं ना विचयोऽथ षण्ढे ;l{0740} संस्थानमाहुः किल संनिवेशे ॥ ४२ ॥ साचिः स्त्रियां तिर्यगर्थे संप्रोक्तं साचि चाव्ययम् । संवाहनं मर्दनं स्याच्छ्लाघना कत्थना स्त्रियौ ॥ ४३ ॥ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः । प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् ॥ ४४ ॥ ;l{0745} स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते । निगारः स्यान्निगरणं विक्षावः क्षवनं मतम् ॥ ४५ ॥ उद्गारः स्यादुद्गिरणं वमनं च वमे नरि । निष्ठीवोऽस्त्री थूत्कृतिः स्त्री निष्ठ्यूतिः ष्ठ्यूतमन्तिमे ॥ ४६ ॥ निष्ठीवनं तथा निष्ठेवनं च स्यान्नपुंसके । ;l{0750} रिङ्गणं स्खलनं तुल्ये पूर्तावुम्भनमोभनम् ॥ ४७ ॥ आविद्धो विध्यते येन देशस्त्वन्तर्घनो मतः ॥ ४८ ॥ निहवोऽभिहवश्चोपहवोऽप्युक्तोऽभिमन्त्रणे । पश्वीरणे स्यादुदजो निग्राहः शपने मतः ॥ ४९ ॥ व्यतिहारो मि[181a]थः कर्म तत्र गम्ये स्त्रियामिमाः । ;l{0755} व्यावचोरी व्यावचर्ची व्यावक्रोशीति दिक्स्मृता । सन्संदर्भो गुम्फो गोफोऽस्त्री ना परिस्पन्दः । पुणनं कर्मणि पुण्येऽथाभोगः स्यात्प्रपूर्णत्वम् ॥ ५१ ॥ ;c{॥ इति प्रकीर्णवर्गः ॥} ;p{0035} ;v{धातुवर्गः} सतां कवीनां नव्यानि काव्यानि वितितंसताम् । प्रयोगानुपघाताय धातुमाला विलास्यते ॥ १ ॥ ;l{0760} क्रियार्थका धातवः स्युस्तिङन्तास्ते न लिङ्गिनः । नित्यैकवचनान्तास्ते भावे यदि लडादयः ॥ २ ॥ सेटो वेटोऽनिटोऽकर्मैककर्मद्विककर्मणः । सौत्रान्पारायणोक्तांस्ताञ्जानीयादाकराद्बुधः ॥ ३ ॥ धातुषु द्विपदेषु स्यात्कर्तृभाजि क्रियाफले । ;l{0765} आत्मनेपदमाख्यातं परस्मैपदमन्यथा । सत्तायामस्ति भवति विद्यते कर्तरि त्रयम् । भवतक्यस्तकि स्वार्थे भूयते भाव-कर्मणोः ॥ ४ ॥ व्यतिस्ते व्यतिहारे स्यात्कर्मणो भावयत्यपि । फले तु कर्तृगे भावयते स्याद्धेतुमण्णिचि ॥ ५ ॥ ;l{0770} बुभू[181b]षतीति भवनेच्छा स्याच्चेदेककर्तृका । क्रियासमभिहारे तु भवेद्बोभूयतेऽपि च ॥ ६ ॥ बोभोति बोभवीति स्यात्प्रकर्षेऽस्तितमामिति । एवमेवान्यधातुभ्यो विकारप्रत्ययान्वदेत् ॥ ७ ॥ भूः प्रात्प्रताप-पर्याप्ति-शक्त्यैश्वर्यातिशायने । ;l{0775} जन्मन्याद्योपलब्धौ वेः संपदैश्वर्यसंस्तवे ॥ ८ ॥ निर्वृति-व्याप्ति-नित्यत्वे प्रतेर्लग्नक आङ्परः । भागागतावधेरैश्ये उद उद्भेदने समः ॥ ९ ॥ सहभावोत्पत्तिमाने योग्यमेलनयोरनोः । प्रभाव-ज्ञानयोः पर्याङ्युक्तः स्याद[प]वर्तने ॥ १० ॥ ;l{0780} पर्यभिभ्यां तिरस्कारे परा न्यग्भुव्यपक्षये । निरः परो विद्यतिः स्याद्वैराग्ये भन्दते पुनः ॥ ११ ॥ ;p{0036} भवेद्भन्दयते भन्दयति भन्दति नन्दति । पुनाति स्याद्भण्डयति तथा भण्डयते शुभे ॥ १२ ॥ स्फायते श्वयति पूषति तौति ;l{0785} प्यायतेऽपि च बिभर्ति तवीति । पुंसयत्यपि च ऋध्यति ऋध्नो- त्येधते भवति पोषति वृद्धौ ॥ १३ ॥ बंहते मंहते बर्हत्यपि बृंहति दृं[182a]हति । वर्धते दर्हति समाः पुष्टौ पुष्णाति पुष्यति ॥ १४ ॥ ;l{0790} समृध्यति समृध्नोति नन्दति प्रार्द्ध्यति स्मृताः । समृद्धौ नेस्त्वयमये परेः स्वक्तौ वहिर्मतः ॥ १५ ॥ आङ्परो नन्दतिर्हर्षे स्तुतौ स प्रतितः परः । अभेस्तु स परो व्याप्तौ प्रशंसायामपीष्यते । वठति पीवति मीवति तीवति ;l{0795} स्थविमति प्रथितोऽत्र च नीवति । उपचिनोति तु *** लिम्पते कथय(?)गोमयति प्रणिदेग्धि च ॥ १६ ॥ अनोः प्रसाधनेऽवात्तु लिपिर्दूषण-गर्वयोः । समो दिहिः संशये स्यादुपाद्वृद्धौ प्रकीर्तितः ॥ १७ ॥ ;l{0800} कार्श्ये तु स्याच्छ्रथयति कत्रयत्यपि कत्रति । सारयत्यथ मुख्यत्वे बर्हते वल्हते स्मृते ॥ १८ ॥ मण्डयते मण्डयति प्रसाधयत्यलति मङ्कते चात्र । मङ्घति भूषति लूषत्यलंकरोतीह रूषति स्याच्च ॥ १९ ॥ मार्जति स्यान्मार्जयति भूषयत्यपि मण्डति । ;l{0805} स्वनयत्युत्तंसयति वतंसयति च स्मृतम् । कर्णयोर्भूषणे तद्वच्छिख्याद्यजि च कीर्तितम् । ;p{0037} मोदते माद्यति[182b]स्याच्च सभाजयति हृष्यति ॥ २० ॥ मोदतिः स्यात्प्रतो हर्षे स आङः सौरभे मुदि । माद्यतिः प्रात्प्रमादे स्याद्धर्षे मोहेऽयमुत्परः ॥ २१ ॥ ;l{0810} अङ्गीकारानुमत्योः स्यादनुपूर्वश्च मोदतिः । मनोहर्षे निर्वृणोति तथा तूषति तुष्यति ॥ २२ ॥ प्रीणाति प्रीयते प्रीणयति [प्रीयति?] जोषति । प्रीणीते च प्रीणयते प्रयति प्रयतेऽपि च । पृणोति स्यात्प्राययति स्पृणोति पृणतीति च । ;l{0815} वृणति स्यात्तर्पयति तृप्नोत्येव च तृप्यति । जुषति स्यान्मादयते तथा तृपति तृम्फति । तर्पति स्याज्जोषयति तथा स्नुह्यति चकति च । [धिन्वति]हिन्वति जिन्वति धिनोति दिन्वति जुहोति तृप्त्यर्थाः । स्वादे लेढि स्वदते स्वादयति स्वादते तद्वत् । ;l{0820} स्यात्स्वर्दते राकयति लाकयत्यपि संमतम् । राघयत्यपि च प्रोक्तं रागयत्यपि तत्समम् । पिबति चूषति तत्र च पीयते धयति चाथ पिपासति तृष्यति । भवति पीङ्निपरः श्रवणार्थको- ;l{0825} ऽप्यथ निकेतयतीति निमन्त्रणे । बुभुक्षते क्षुध्यति च जिघत्सत्यशना[183a]यति । लङ्घते तूपवसति मते भुक्तिनिवर्तने । भुङ्क्ते जक्षिति वेति खादति घसत्याचामति भ्रक्षति म्लक्षत्यत्ति तृणोति तत्र [च] भवेत्तर्णोति चर्वत्यपि । ;l{0830} स्यात्प्साति च्छमतीह जेमति जमत्यश्नाति सेमत्यपि स्नुस्यत्यत्र झमत्यपीह चमति स्याद्भक्षयत्यत्र* ॥ खेटयति खेडयति ग्रसते ग्लसते च खोटयति । ;p{0038} चरति चषतेऽपि चषति गलति तथाभ्यवहरत्यपि । उपाद्भुजिश्चोपभोगेऽथाङः पूर्णत्व-यत्नयोः । ;l{0835} समो साभे नुतोमत्यां(?)न तु तङ्मान्स रक्षणे । आङश्चमिरुपस्पर्शे चाभ्यधिभ्यां चरिः क्षये । अनोः सहायकेऽथोपादुपादाराधनार्थकः । रोगस्य च चिकित्सायां शब्दवृत्तेर्विशेषणे । आङः कृतौ परेः सेवे वाच्युदः समुदः परः । ;l{0840} सहचारिण्यपावृत्तौ भूयः प्रत्याङ उत्तरः । अतेरुल्लङ्घनानीत्योः प्रात्प्रसिद्धावभेः पुनः । अन्यथात्वेऽथोत्परोऽसौ कर्मवानात्मनेपदी । तथा तृतीयया युक्तः[183b]संपरश्च प्रकीर्तितः । चलनप्राशनार्थेभ्यः स्यात्परस्मैपदं णिचि । ;l{0845} आदेस्तु कर्त्रभिप्राये फले स्यादात्मनेपदम् । परेर्मोहयतेर्वादेर्वासेः पाययतेर्दमेः । आङ्यासेरपि तद्वत्स्यात्तथा धापयतेरपि । तद्वद्रोचेर्नर्तयतेर्ण्यन्तानां बुधयुध्नशाम् । प्रुद्रुस्रूणां जनेङोश्च परस्मैपदमीरितम् । ;l{0850} इच्छति वाङ्क्षति काङ्क्षति वाञ्छति माङ्क्षति च लष्यते लषति । लष्यति लषते लुभ्यति कामयते वष्टि चाशास्ते । प्रीणाति प्रीणीते गृध्यत्यनुरुध्यते च गर्धयति । आशंसते च हर्यति कनत्यवति खटति तद्वत्स्युः । वरयति लालयते च स्पृहयति लिप्सत्यपि चेच्छार्थाः ॥ २६ ॥ ;l{0855} हृदयप्रीतिनिदानेच्छार्थे स्याद्रोचते तद्वत् । आशंसते तथाशास्ते नाथते च शुभैषणे । इच्छति स्यात्प्रतिज्ञाने प्राकाम्ये मार्गणे परेः । ;p{0039} स्यादात्मनेपदे गर्धयतिर्वञ्चयतिस्तथा । प्रतारणेऽर्थेऽन्यत्रोभौ परस्मैप[184a]दिनौ मतौ । ;l{0860} चतति चदत्यर्थयते नाथति वनुते च नाधतेऽर्दति च । याचति च याचते स्याद्विथते स्याद्वेथते तद्वत् । स्याद्भिक्षते च याच्ञावाचिन एते च धातवो गदिताः । जिघ्रति शिङ्घति गन्धग्रहणे धमति स्मृतं धमने । आङः स्यादुदरापूरे ध्मातिः शब्देऽप्युपात्परः । ;l{0865} प्रादर्थिः प्रार्थनाघातप्रेरणास्वरिसंरुधि । व्रतचारे प्रतेर्विघ्नेऽर्थवैरूप्ये च वै द्विष्ये । समो वनोतिरालो* तथा प्रोक्तो वशीकृतौ ॥ पूजयति महति चायत्यर्हयति चायतेऽञ्चतेऽञ्चति च । महयति महीयति वल्गूयति किं चार्चति महीयतेऽर्चयति ॥ ३९ ॥ ;l{0870} वक्षयते मानयति च मानति खर्जति सपर्यतीत्युक्ता । अवतोऽग्रे मानयतिर्वेश्च परः स्यादवज्ञाने ॥ ४० ॥ यजति यजते सुरार्चा-संगतिकरण-प्रदानेषु । सूर्क्षत्याद्रियते स्यात्पुस्तयते पुस्तयत्येवम् ॥ ४१ ॥ अनादरे शेटति सेटति स्या- ;l{0875} त्तृणत्ति तृन्ते[184b]ऽट्टयते च तद्वत् । रौडत्यपि स्माययते च सुट्ट- यतीह लोडत्यपि सूर्क्षतीति ॥ ४२ ॥ अट्टयति सुट्टयते पुस्तयति स्याच्च हेडते तद्वत् । स्मेटयति स्मेटयते बुस्तयति च होडतेऽवधीरयति ॥ ४३ ॥ ;l{0880} स्तौति स्तवीतीडयति स्तुते स्या- दिहानुते नौति पणायति स्यात् । पनायतीट्टे नुवति प्रवर्ण- ;p{0040} यतीह शंसत्यपि वन्दते च ॥ ४४ ॥ तथा वर्णयते चूर्णयते चूर्णयतीति च । ;l{0885} शशत्युपश्लोकयति प्रतिनन्दति दीव्यति ॥ ऋचत्यपीहार्कयति स्तुतौ स्युः प्रादुत्तरः स्तौतिरुपक्रमार्थः । समः परोऽसौ परिचायने स्या- निरः परो वर्णयतिश्च दृष्टौ ॥ ४५ ॥ ;l{0890} अभेः शंसिर्जनाकीर्तौ याचनार्थः स आङ्परः । वन्दते स्यात्प्रणमति नमस्यति नमस्कृतौ ॥ ४६ ॥ नमिर्विवर्तने वेः स्यादुपात्स्यादनुकूलने । परेः पक्वत्व-हस्तीन्द्रतिर्यक्प्रहृति-दानयोः ॥ ४७ ॥ उदो नतेर्वैपरीत्ये समृद्धावुदयेऽपि च । ;l{0895} अवान्न्यग्भवने[185a] शेषोपसर्गार्थैर्निजार्थभाक्‌ ॥ ४८ ॥ शास्ति तु कंस्ते कस्ते सेधति चाज्ञापने प्रोक्ताः । प्रात्सेधतिः प्रसिद्धौ प्रादुष्कारे च भूषायाम् ॥ ४९ ॥ प्रतेः परो निषेधने[त्वभियुक्ते]स आङ्परः । उदः संवर्धनोच्छ्राये समः स्वभावसिद्धि* ॥ ५० ॥ ;l{0900} दीक्षते स्याद्व्रतादेशे विद्याया ग्रहणेऽपि सः । स्यात्कालयति कालस्योपदेशे वेलयत्यपि । उषस्यति प्रभातस्य भवने समुदीरितम् ॥ ५१ ॥ दत्ते ददाति ददते दयते जुहोति स्यात्क्षञ्जते चणति यच्छति भल्लते च । ;l{0905} विश्राणयत्यपि च दासति दासते च स्याद्यच्छते श्रणति दाशति दाशते च ॥ ५२ ॥ वितरति सनोति सनुतेऽतिसृज्यते भाजयत्येवम् । विसृजति शणति तु भलते दिशति च दिशतेऽत्र समार्थाः ॥ ५३ ॥ ;p{0041} प्रतेर्विर्विनिमये व्याङ्युक्प्रसारण-विकासयोः । ;l{0910} उपाङः परिणामे संग्रहेऽभ्याङ उपक्रमे । संप्राद्ददातिराम्नाये दानेऽथोपायने ह्युपात् । आत्मनेपदवानाङो ददातिर्नित्यमीरितः । [186a]स्वास्यप्रसारादन्यत्र स आङस्तु ग्रहे मतः । नितो हेतौ रोगबोधे प्रैषे तु व्याङ्परो दिशिः ॥ ५४ ॥ ;l{0915} व्यपात्परो दिशिर्व्याजे नाम्नि प्रत्याङ्परः पुनः । निराकृतौ समोऽभ्यासे वाचिकेऽथ नितो दिशिः ॥ ५५ ॥ आज्ञापनेऽन्तिके वाचि प्रतिनिर्युक्स संनिधौ । समाङ्भ्यां वाचिके शिष्टे व्याख्याज्ञापनयोर्निरः ॥ ५६ ॥ अपाद्व्याजे कैतवे च प्रभाषे तूद ईरितः । ;l{0920} अत्याङोऽतेरन्यधर्मप्राप्तावाङश्चाज्ञापने मतः ॥ ५७ ॥ दाने तथा भाषणे च प्राङ्परस्तु मितौ भवेत् । उपादादिकथायां स्याद्धितस्याज्ञापने च सः ॥ ५८ ॥ अशिष्टव्यवहारार्थतृतीयायोगिनस्त्विह । संप्राभ्यां परतो दाण आत्मनेपदमादिशेत् ॥ ५९ ॥ ;l{0925} प्रसादे तु स्तोचतिः स्याच्छ्लोकते ग्रन्थकर्मणि । अप्रसादे कूटयते पञ्चते व्यक्तताकृतौ ॥ ५५ ॥ द्योतते काशते कञ्चते काञ्चते रोचते वर्चते शोभते भ्राशते । भ्लाशते भ्रेजते भ्राजते जोतते ;l{0930} योतते चैजते भासते सुन्दति ॥ ५६ ॥ लेलायतीन्धेऽवति[186b]राजते च घर्णोति राजत्युदितं घृणोति । चकास्ति शुम्भत्यपि भाति चेति स्यात्त्वेषते त्वेषति दीप्यते च ॥ ५७ ॥ ;p{0042} ;l{0935} छृणत्ति छृन्ते[न]टति सुरत्यसति काश्यते । लोचते स्याद्रङ्घयति तथा वर्तयतीत्यपि । शुभति क्नस्यति द्युत्यां ज्वलत्यपि च दीव्यति ॥ ५८ ॥ निरः पृथक्कृतौ काशिः प्रैषनिर्गमनेऽपि च । नितः साम्ये निश्चये च समोऽनुकरणेऽन्तिके ॥ ५९ ॥ ;l{0940} प्रादातपे प्रहासे च स्फुटाविर्भावयोरपि । चकास्तिरभितोभूषे भासतिस्तु प्रतेः परः ॥ ६० ॥ ज्ञानेच्छयोराङ एष विज्ञाने बोधनेऽवतः । उद्भासे च विषिस्तूदो दीप्तौ दाने च संमतः ॥ ६१ ॥ अपादपाकृतौ वेस्तु छृणत्तिः स्याद्गृहोकृतौ (?) । ;l{0945} आङो दिविर्जयेच्छायां परिपूर्वोऽनुशोचने । प्रकटीकरणे प्रादुष्करोत्याविष्करोति च । वण्टापयति लञ्जापयति लञ्जयतीति च ॥ ६२ ॥ लजयति वटयति स्याद्दृष्ट्युपघाते तथान्धयति । ओठति रोठति लोठत्यूठति चैते स्युरुपघाते ॥ ६३ ॥ ;l{0950} तानयति श्रद्धत्ते चनति श्रद्धा[187a]सु चानयति । विश्वसिति विश्वासार्थे तद्वदिह श्रम्भते प्रोक्तम् ॥ ६४ ॥ वितः स्याच्छ्रम्भतिर्हिंसा प्रणयानुद्भरा(टा?)र्थकः । अवात्स केलिकलहेऽत्यर्थशान्तावपीरितः । धत्ते दधाति दधते मलते बिभर्ति ;l{0955} स्कुभ्नाति बालयति पोषयतीह तद्वत् । स्कुभ्नोति तत्र च भुरण्यति मल्लते च धृत्यां धियत्यपि धरत्यपि मञ्चते च ॥ ६६ ॥ अपेर्दधातिः संवृत्यामदादेकाग्र्यसीनयोः । परेर्निवसने वेष्टेऽन्तरन्तर्धौ न्यवादपि ॥ ६७ ॥ ;l{0960} वेः कृतावुपनेर्न्यासे प्रतिवेस्तु विलोकने । ;p{0043} लोभयाचायन्नेवेशसमाद्धान्तर्द्धि विन्यसे ॥ ६८ ॥ प्रतेरभिवितो व्याप्तौ चाङस्त्वावपने हुतौ । प्रक्षेपारम्भयोरभ्याङ्युक्तोऽभेर्नाम्नि भाषणे ॥ ६९ ॥ स्मृत्यामभिसमोऽनोः संप्रतेश्चालोचने दृशि । ;l{0965} प्रतिनेः सदृशत्वे प्रात्प्रतिज्ञामुख्ययोः समः ॥ ७० ॥ संध्युरीकृत्यभिषवे सङ्गे संनेस्तु संनिधौ । अत्याङोऽनर्थशङ्कोपश्लेषाश्चर्यमहाभये ॥ ७१ ॥ संविभ्यामुत्तरः प्रोक्तः स आकारस्य गोपने । स[187b]माङः स्यात्कृतौ ज्ञान-मौन-नीवाक-सिद्धिषु । ;l{0970} ध्यानावधान-निक्षेप-नियमेषु समर्थने ॥ ७२ ॥ सम्यक्कृतौ प्रतिज्ञायामुपाङो धर्मचिन्तने । कैतवोपप्लवारोप-सयोजन-वियोजने ॥ ७३ ॥ कुटुम्बव्यापृतौ चाथोन्मूलने तुलनेऽप्युदः । भुक्तत्यागे च धरतिरवतो निर्णयार्थकः ॥ ७४ ॥ ;l{0975} स णिजन्तः संप्रयुक्तो विमर्शे परिकीर्तितः । निरः परः पृथक्कारे प्रणिधानेऽवतः परः ॥ ७५ ॥ विपरः स भवेत्कालहरण-प्रतिबन्धयोः । सौगन्ध्ये च विमर्दे च मलतिः स्यात्परेः परः । ध्रियते स्यादवस्थानेऽप्याधारे धीयते भवेत् ॥ ७६ ॥ ;l{0980} अवष्टभ्नोत्यवष्टभ्नाति च संपरिकीर्त्यते । प्रारम्भाक्रमयोः स्तम्भिरवादालम्बने मतः ॥ ७७ ॥ सांनिध्यौर्जित्ययोश्चाथ दोग्धि स्यात्संप्रपूरणे । समो दुहिः समूहेऽथाशायां भ्रूणयते भवेत् ॥ ७८ ॥ स्यात्कुटुम्बयते तन्त्रयते स्वजनधारणे । ;l{0985} प्रख्याने प्रथते प्राथयते प्राथयतीति च ॥ ७९ ॥ पाति पालयति पालयते च ;p{0044} त्राय[188a]तेऽवति पिपर्ति पृणाति । कुण्डयत्यपि च कुण्डयते स्याद् गुण्ठयत्यपि च गुण्ठयतेऽत्र ॥ ८० ॥ ;l{0990} तेजति तुञ्जति जंसति जंसयते गुण्ठति प्रोक्तम् । कुण्डति गोपायति च स्याद्दयते रक्षति त्राणे ॥ ८१ ॥ भर्त्सयते तर्जयते तर्जति लाजति भृणाति कुट्टयते । लाञ्जति कुट्टयतीति प्रोक्ता एतेऽत्र भर्त्सने विबुधैः ॥ ८२ ॥ ईर्ष्यंतीर्क्ष्यति च सूर्क्ष्यतीर्यते ;l{0995} स्यादिरस्यति भवेदिरज्यति । ईर्यतीत्यथ दुनोति दूयते कूटयत्यभिहिताः परितापे ॥ ८३ ॥ असूयते चास्यति चोपतापे धूपायति त्वर्कयतीह तद्वत् । ;l{1000} संतापने स्यात्तपतीह तादृ- गनोस्तपेः स्यादनुतापवाची ॥ ८४ ॥ दुःखे परेर्निरः सोऽल्पतापे क्रोधे समः परः । उदः शोषे च तापे च तथैव च परिप्लवे ॥ ८५ ॥ उपात्त्वरायामुत्तापे प्रभावौदार्ययोः प्रतः । ;l{1005} स्यादात्मनेपदी व्युद्भ्यामकर्मा स्वाङ्गकर्मकः ॥ ८६ ॥ बाधते घुटति खोटति लुण्ठति [ए]ठते स्पशति खोरति चापि । हेठतेऽत्र कथितं स्पशते च रोठते च[188b]चकते दृपतीति ॥ ८७ ॥ ;l{1010} लोटते लोठते चाधिक्लेशते चापि लुण्ठति । भवेत्पेठति कुथ्नाति तथा मन्थति लुन्थति । विबाधने तु क्लिश्नाति तथा दुःखयतीति च ॥ ८८ ॥ ;p{0045} धुक्षते स्याद्धिक्षते च क्लिश्यते दूयते तथा । व्याङ्भ्यां घुटतिरग्रस्थः परिवर्तन ईरितः ॥ ८९ ॥ ;l{1015} कुन्थति स्याद्युन्थति च संक्लेशे स्वरतीत्यपि । आह्वयते स्याद्धर्षति च स्पर्धते मिषतीति च ॥ ९० ॥ एते स्पर्धावाचिनः स्युरथ जर्जति चर्चति । [झ]र्झति स्यान्मेधति च मेधते तर्जनार्थकाः ॥ ९१ ॥ त्रासने स्याद्भाययति**भयं तु हेतुतः । ;l{1020} तदा भापयते भीषयते चेति प्रकीर्तितम् ॥ ९२ ॥ लेट्यति स्याल्लोट्यति[च]धातू द्वौ धौर्त्यकर्मणि । बिभेति भ्यसते भेषत्युद्विनक्ति च भेषते । त्रसति त्रस्यति भ्रीणात्यपि चोद्विजते मतम् ॥ ९३ ॥ खेटति केटति दर्भति ;l{1025} दृणाति दर्भयति तत्र च व्यथते । श्राम्यति ताम्यति खिन्ते ग्लेपत इह खिद्यते दैन्ये ॥ ८४ ॥ वेः परः श्रमिरारत्यामथालस्ये च लुण्ठति । शोठयत्यपि[189a] संप्रोक्तमवसादे तु सीदति ॥ ९५ ॥ ;l{1030} शटति स्यात्क्षयति च तथा मटति नन्दति । वेति प्राप्तौ त्वाङ्परः स्यात्सीदतिश्चासने नितः । उदो विनाशेऽवाद्ध्रासेऽनुत्साहेऽपादनुग्रहे । शुद्धावुपादानुकूल्ये प्रतिपादन-सेवयोः ॥ ९७ ॥ प्रात्प्रसत्तावुदो ण्यन्त उद्वाहोल्लेखनोद्धृतौ । ;l{1035} ग्लायति म्लायति ग्लानौ क्लाम्यति क्लामतीति च ॥ ९८ ॥ निन्दति नेदति गर्हति कुत्सयते गर्हते रिफति । ;p{0046} रि[ह]ति श्वल्कयति स्याद्भलते भल्लते वटति । जर्जति झर्झति चर्चति रेटति परिभाषते तद्वत् ॥ ६ ॥ रेटते बर्हते बल्हते च स्युः परिभाषणे । ;l{1040} द्वेष्ट्यप्रीतौ विप्रकारे पुनर्यातयति स्मृतम् ॥ ७ ॥ मन्तूयत्यपराधे स्यात्तथा मन्तूयतेऽपि च । अभियोगेऽड्डति प्रोक्तमट्टतिः स्यादतिक्रमे ॥ ८ ॥ गर्वति स्याद्गर्वयतेऽवलिम्पति च दृप्यति । ककते शौटति प्रोक्तं गर्वे कर्वति खर्वति ॥ ९९ ॥ ;l{1045} कत्थते श्लाघते रेखायति स्तोमयतीति च । रिफति स्याच्छाठयते शाडते शीभते तथा ॥ १० ॥ [189b] शल्भते चीभते श्लाघावाचिनो धातवो दश । मचते स्याच्चह(प?)यति दम्भे दभ्नोति मुञ्चते ॥ ११ ॥ चहति स्याच्चहयति मङ्घते हठतीति च । ;l{1050} कैतवे व्याजकरणे विचतीति प्रकीर्तितः ॥ १२ ॥ धृष्णोति धृष्णुते धार्ष्ट्ये गल्भते च प्रकीर्तितम् । अधार्ष्ट्ये क्लीबते छ्र(?)पयति मूर्छति चोच्छ्रये ॥ १३ ॥ रोषयति रोषयते क्रुध्यति कुप्यति हृणीयते तद्वत् । ;l{1055} भामयति भामते स्या- द्वक्षति गुध्नाति चण्डते तत्र ॥ १४ ॥ स्याद्रोटयति च कोपे सहति तु सहते तितिक्षते** । क्षाम्यति मर्षयति स्या- ;l{1060} न्मृष्यति मर्षति च मृष्यते तद्वत् ॥ १५ ॥ साहयति क्षम्पयति ;p{0047} क्षम्पयते क्षम्पति प्रोक्तम् । शक्यति च शक्यते वा- ऽऽगमयत इह मर्षते क्षान्तौ ॥ १६ ॥ ;l{1065} उदस्तु सहिरुत्साहेऽधीनभावे निरः परः । परेर्मृषिर्विचारे स्यात्परस्मैपदवानपि ॥ १७ ॥ अभेः शकिः शङ्कने स्याद्रेकते शङ्कतेऽपि च । रगतिः स्याद्भ्रूणयते बाल्ये लटति कुडति ॥ १८ ॥ जीर्यति स्याज्जूर्य[190a]ते च जिनाति च जृणात्यपि । ;l{1070} झृणाति च घृणाति स्याज्जरति ज्राययत्यपि ॥ १९ ॥ ज्रयति स्याज्जारयति घूर्यते च वयःक्षये । हूर्छति नसते क्नस्यति कुटति च कुञ्चति तथा क्मरति । क्रुञ्चति तुणति द्रुणति च ;l{1075} भुजत्यपि ग्रन्थते ह्वरति । ध्वरति च कौटिल्यार्था द्रुह्यति तु स्याज्जिघांसायाम् । स्याच्छ्रम्भते प्रमाद्यति युच्छति चैतत्समानार्थः ॥ २० ॥ ;l{1080} आङः कुञ्चिः समानत्यामल्पवक्रे निरो भुजिः । जिगीषायां दीव्यति स्याज्जयतीति जये स्मृतम् ॥ २१ ॥ वेरात्मनेपदी सर्वोत्कर्षणे जयतिः स्मृतः । परातोऽभिभवे क्षान्तौ तथैव द्विविधोऽपि सः ॥ २२ ॥ जजति स्याज्जञ्जति च संग्रामयति युध्यते । ;l{1085} युध्यति स्याद्रिफति च युध्याङः स वधे स्मृतः ॥ २३ ॥ स नेः परो बाहुयुद्धे प्रतेरन्योन्यसंगरे । ;p{0048} लोलति स्याद्विमर्देऽथ स्याद्दण्डयति दण्डने ॥ २४ ॥ हिंसायां हन्ति हिंसत्यपि कषति खषत्यर्दते चार्दति स्या- त्क्षीणाति स्यात्क्षिणाति क्षपयति भलते[190b]भल्लते बर्हते च । ;l{1090} मीनीते तौति मीनात्यपि मथति तथा मीयते स्या .... .......................... ....................... नभ्नाति नभ्यत्यपि शुम्भतीह । तोपत्यपि त्रोफति तुम्पति स्यात्तुम्फत्यपि त्रुम्पति तोफतीति ॥ २६ ॥ नभते तुभते च तुण्डते दयते थूर्वति धूर्वतीषते । ;l{1095} रवते रिफति प्रतिस्किरत्यपि चोपस्किरति स्तृहत्यपि ॥ २७ ॥ तुम्फति तर्दति खर्दति तृन्ते तोजति तुञ्जति रिहति तृणत्ति । पिञ्जति पिञ्जयते च तृणेढि स्तृहति पेजति पिञ्जयति स्यात् ॥ २८ ॥ ;l{1100} तोजयति ** लञ्जयति स्या- ल्लुञ्जयति द्रुणतीह *** । तुञ्जयतेऽपि च तुञ्जयति स्या- दुमेति ? पुथ्यति रध्यति तद्वत् ॥ २९ ॥ खदत्यट्टते धूर्यते गूर्यते स्या- ;l{1105} त्तथा शूर्यते दक्षते स्याद्दृणोति । कृणीते कृणात्युम्फति ? स्यात्कृणोति स्मृतं हिंसयत्यर्दयत्युच्यतेऽत्र ॥ ३० ॥ सट्टयते स्फिट्टयति श्नथयति सघ्नोति ब्रूसयत्यपि च । ;l{1110} श्राथयति श्रथति स्या- ज्जासयति क्राथयत्येवम् ॥ ३१ ॥ ;p{0049} दूर्वति भर्वति शर्वति सर्वति सर्भति च सृम्भति प्रोक्तम् । सेभति सिम्भति शोभति ;l{1115} [191a]यूषति जूषति शृणाति स्यात् ॥ ३२ ॥ द्रूणाति द्रूणीते रिष्यति रुष्यति च रोषति च्छषति । छषते मेदति मेथ- त्यालभते मेधति तिग्नोति ॥ ३३ ॥ ;l{1120} बर्हयति जर्जयति स्याद्भालयते जम्भयत्यपि च । विष्कयते हिष्कयते हिनस्ति चनयति तवीति रोजयति ॥ ३४ ॥ मापयति क्लथयति ;l{1125} क्रथयति रेषति च लूषयत्यत्र । लूषयते चुम्बयति स्यात्तुम्बति जर्जति प्रोक्तम् ॥ ३५ ॥ चर्चति झर्झति झषति च जषति तथा मषति संमतं हषति । ;l{1130} वर्षति तुपति तुफति ऋफति चृतति मृणति रुशति रिशति होलति च ॥ ३६ ॥ वेर्हन्तिर्विजटीकृत्यां विघाते तूलधूनने । अन्तराये प्राद्विघाते क्षोदे व्याङीतराश्रये ॥ ३६ ॥ प्रहारेऽपादुपाद्ध्वंसे समुद्भ्यां विनये भवेत् । ;l{1135} समुत्कीर्णीकृतावाङो गुणने ताडनेऽपि च ॥ ३८ ॥ अकर्मा स्वाङ्गकर्मा चाङ्परोऽसावात्मनेपदी । परेर्वर्णाद्यङ्कनेऽसौ समो व्यूहे सहोद्भवे ॥ ३९ । ;p{0050} दृढत्वे संगमे संधौ नेर्न्यग्भुव्यनुदात्तके । अधी[191b]नत्वे चाभितस्तु व्याप्ति-ताडनयोरयम् ॥ ४० ॥ ;l{1140} अपादपकृतौ पाकाभ्यासोपक्रमयोरुह(द?)ः । प्रतिघाते च स्खलने बले द्वेषे च सांप्रते ॥ ४१ ॥ स्खलने च परीघाते तथा शीघ्रसमावृतौ । परापूर्वो गाढघाते दृष्टान्ते स उपोत्परः । प्रस्तावने समाङस्तु वधे युत्परिघातयोः । ;l{1145} उपात्सामीप्यापहृत्योः शक्तेश्च प्रतिबन्धने ॥ ४३ ॥ अभेरर्दतिरान्तिक्ये मीनातिस्तु मृतौ प्रतः । प्रोक्षणे ताडने तु स्यात्तण्डते ताडयत्यपि ॥ ४४ ॥ विध्यति स्याज्जासयति तथा जसति च स्मृतम् । आङस्तु विध्यति क्षेपे कौटिल्ये विस्तृतौ हतौ ॥ ४५ ॥ ;l{1150} अपान्न्यक्करणेऽनोऽस्तु वासनायां प्रकीर्तितः । हिंसात्मसूचने बस्तयते गन्धयतेऽपि च ॥ ४६ ॥ ओहति स्यात्पीडयति तथा लुम्बति तुम्बति । तोहति स्यात्पीडयते तथा दोहति मिच्छति ॥ ४७ ॥ लुम्बयते तुम्बयते ;l{1155} लुम्बयति स्यात्सुनोत्येवम् । तुम्बयति पीडने स्या- द्गुप्यति लुभति चाकुल्ये ॥ ४८ ॥ विकलत्वे क्रन्दते[192a]स्यात्क्लन्दते कन्दते तथा । कुण्डति स्याद्दलति च तद्वद्दलयति स्मृतम् ॥ ४९ ॥ ;l{1160} आङः क्रन्दिर्युदाह्वानरोदने शब्दसंततौ । अवात्क्लदिरवध्वंसेऽन्तर्द्धाने तु तिरस्यति ॥ ५० ॥ समति स्तमतीति स्यादवैकल्येऽथ रोदिति । क्रोशति स्यादश्रुमोक्षे शोके क्रन्दति कन्दति ॥ ५१ ॥ ;p{0051} क्लिन्दते स्यात्क्लन्दति च शोचत्यपि च कण्ठति । ;l{1165} कण्ठयत्यथ मूर्छायां मूर्छति स्याच्च मुह्यति ॥ ५२ ॥ युप्यति स्याद्रुप्यति च तद्वल्लुप्यति संमतम् । समो मूर्छा मुहुर्व्याप्तावुदो मूर्छानिवर्तने ॥ ५३ ॥ स्थित्यन्तकर्मणि प्राणत्यागे * म्रियते भवेत् । नश्यति स्यात्पण्डयते पण्डयत्यपि लुम्बति ॥ ५४ ॥ ;l{1170} पंसति स्याल्लुम्बयति पंसयत्यपि तुम्बति । पण्डति स्यात्तुम्बयति तथा नक्कयतीति च ॥ ५५ ॥ तथा नक्कयते धक्कयति धक्कयतेऽपि च । स्नुस्यत्यदर्शनेऽमी स्युरुपरत्यां तु यच्छति ॥ ५६ ॥ आङो यमिः प्रयामे स्यादात्मनेपदवानपि । ;l{1175} विशेषे संयमे वृद्धौ तथोदाङः स सूच[192b]ने ॥ ५७ ॥ अकर्मा स्वाङ्गकर्मा वा भवति ह्यात्मनेपदी । तथैवोपाद्विवाहेऽसौ स्वीकृतावपि तादृशः । समुदाङ्भ्यो यमः कर्तृगामिनि स्यात्क्रियाफले । आत्मनेपदमग्रन्थे व्रीहीन्संयच्छते यथा ॥ ५९ ॥ ;l{1180} नेर्यमिः स्यात्प्रतिज्ञायां यन्त्रणायां निवारणे । समः संयमने बन्धे नियमे व्याङ्परो दृढे ॥ ६० ॥ चेष्टायां व्यापृतौ दैर्घ्य उत्कर्षोत्क्षेपयोरुदः । संनादे व्यापृतौ प्रात्स्यान्नीवाके पवनेऽपि च ॥ ६१ ॥ विद्रावणे स्यात्स्खदते कलहे तुटतीति च । ;l{1185} भङ्गे भनक्ति रुजति भञ्जिस्त्वाङ उपस्थितौ ॥ ६२ ॥ खण्डति कण्डति भिन्ते भिनत्ति तोडति च तुण्डते तुडति । खाडयति खण्डयति च ;p{0052} स्फोटयति दृणाति खुण्डति च ॥ ६३ ॥ ;l{1190} खाडयते खुण्डयति द्यति खुण्डयते च दालयति । बेलयति मुण्डति बिलति स्युर्दारणेष्वेते ॥ ६४ ॥ प्रतेर्भिनत्तिर्व्यथार्थाविष्कृत्योः स्फुटने निरः । ;l{1195} समः सरित्संगमे स्यात्प्रान्मातङ्गमदस्रुतौ ॥ ६५ ॥ आवि[193a]ष्कारे प्रकर्षेण भेदने च प्रकीर्तितः । आङः स्फुटिस्ताडने स्यादुद्द्योतिः सूर्यचेष्टिते । आङ्ह्वरस्तु स हिंसायां द्यतिस्तु ग्रन्थने समः ॥ ६६ ॥ बन्धे तथोत्परोऽथ स्यात्समाघातेंऽसयत्यपि । ;l{1200} कर्णभे[दे] कर्णयति तथा छिद्रयति स्मृतम् । वेगे तु जवतीति स्याच्छूषति प्रसवे भवेत् । धर्षति स्याद्धर्षयते बलात्कारेऽथ दुःख्यति । तथा तन्तस्यति प्रोक्तं पम्पस्यति च दुःखने ॥ ६७ ॥ अरर्यत्याराकरणेऽथेष्णात्याभीक्ष्ण्यकर्मणि । ;l{1205} छिनत्ति वृश्चति छिन्ते छुरति छुटति छ्यति । त्रुटति त्रुट्यति त्रोटयति पल्यूलयत्यपि ॥ ६८ ॥ चुटति स्याच्चोटयति चुण्टयत्यपि कृन्तति । खुरत्युपस्किरति च लुनीते च लुनाति च ॥ ६९ ॥ छेदयति स्यात्पिच्छयति कुट्टयत्यपि कुण्ठति । ;l{1210} कोटयत्युदितं वासयति वर्धयति स्मृतम् । लुम्पति स्याल्लुम्पयते छेदे चोद्ग्रहणे लुपिः ॥ ७० ॥ परेश्छिदिर्निश्चये स्यादियत्तायां[193b]विवर्तने ॥ ७१ ॥ बलाद्ग्रहे त्वाङ्परोऽथ वेर्विभागे विलेपने । हावे जैह्म्येऽथोत्परोऽयं नाशोद्धरणयोर्मतः ॥ ७२ ॥ ;p{0053} ;l{1215} आङ्परश्छुर तिर्हासेऽथ निर्निभ्यां च कृन्ततिः । अतिच्छेदे पापनाशे खनति त्ववदारणे ॥ ७३ ॥ खनतेऽप्यथ नेरेष न्यासोद्धरणयोर्भवेत् । प्रलये त्विन्द्रियाणां स्यादृच्छत्यथ स संगमे ॥ ७४ ॥ समोऽजिते संगमे चाकर्मासावात्मनेपदी । ;l{1220} संदीपने धुक्षते स्याद्धिक्षते छर्दयत्यपि ॥ ७५ ॥ छर्दति स्याच्चर्पयति स्याच्छर्पयति चर्पति । छर्पति स्यात्तर्पयति स्याद्दर्पयति तर्पति ॥ ७६ ॥ दर्पत्यथो विसरति स्फूर्छति प्रसरत्यपि । स्तम्भते स्कम्भते विष्टोभते वस्यति पुस्यति ॥ ७७ ॥ ;l{1225} स्फूर्यति ? स्यान्मानयते विष्टभ्नोति तथा स्मृतम् । विष्टभ्नाति मतं स्तम्भेऽथारम्भाक्रमयोरवात् ॥ ७८ ॥ अवलम्बे समीपत्वे चौर्जित्ये स्तम्भिरीरितः । घोणते घोणति भ्रान्तौ घूर्णते घूर्णतीति च ॥ ७९ ॥ स्रवति स्यन्दते स्रौ[194a]ति रीयते घारयत्यपि । ;l{1230} तेपते गलति स्याच्च स्रवे मूत्रस्य तु स्रुतौ ॥ ८० ॥ प्रस्रवत्युदितं मूत्रयते च परिकीर्तिते । स्यन्दिर्भ्रंशेऽवतोऽभेस्तु वृद्ध्यवाप्त्योः प्रकीर्तितः ॥ ८१ ॥ हदते गुवतीति स्यात्पुरीषोत्सर्गवाचकम् । क्षरति क्षोभते क्षुभ्नात्यपि क्षुभ्यति सूदति । ;l{1235} श्च्योतति स्यात्सूदयति स्खलति स्फुलतीति च ॥ ८२ ॥ स्फुरति स्यात्संचलति घंस्यते ? च्योतति क्षरे । मैथुने मैथुनाक्रोशे चाङः क्षरतिरीरितः ॥ ८३ ॥ स्रंसते ध्वंसते च स्याद्भ्रंसते भ्रंशतेऽपि च ॥ ८४ ॥ लम्बते भ्रश्यति स्रंसेऽवात्तु ध्वंसिर्भवेत्त्यजि(?) । ;p{0054} ;l{1240} निन्दायामथ चूर्णेऽपादभिभूतौ प्रतेः परः ॥ ८५ ॥ अपशब्दे वितो भ्रंशिर्विलम्बिः कालयापने । आलम्ब आङवाभ्यां स्यादवष्टम्भेऽपि कीर्तितः ॥ ८६ ॥ भ्रमति भ्रम्यति भ्राम्यत्यपि केलति खेलति । घट्टते स्याद्घट्टयति [शलते] शलतीति च ॥ ८७ ॥ ;l{1245} ह्वलति स्याद्वेल्लति च चेलति क्ष्वेलति स्मृ[194b]तम् । वेलति स्याद् घुणति च विनक्त्यपि च घूर्णति ॥ ८८ ॥ वङ्कतिः स्याच्च चलने समो भ्राम्यतिरादरे । संवेगे च भये व्युद्भ्यां पुनर्मोह-विलासयोः ॥ ८९ ॥ संयोगे संपरो घट्टिर्विश्लेषे विपरो भवेत् । ;l{1250} उदो विजिः स्यान्निर्वेद उद्गमे सम आङ्परः ॥ ९० ॥ संभ्रमेऽथ स्पन्दते स्यादीषच्चलनवाचकम् । वरणे तु परेः स्पन्दी रेके रिङ्क्ते रिणक्ति च ॥ ९१ ॥ व्यतिपूर्वः स उत्कर्षे गतेस्तु स्यान्निवर्तने । तिष्ठतीति प्रस्थितौ तु भवेच्छ्राथयतीति च ॥ ९२ ॥ ;l{1255} प्रात्तिष्ठतिर्गतावाङः प्रतिज्ञालम्बनाक्रमे । आक्षेप-स्थान-यत्नेषु प्रत्यवाद्गदने गिरः ॥ ९३ ॥ जन्मनिर्बर्हणान्तेषु समश्चित्याकृतौ मतौ । संनिवेशेऽप्यवस्थाने साम्याधारे समापने ॥ ९४ ॥ पर्यवाद्रिपुभावेऽवादवस्थायां व्यवाद्यमे । ;l{1260} उदो निदान...................र्देहोद्भवोद्यमे । व्युदो विरोधनस्वैरकृत्योः समुद उद्यमे । रुङ्निर्णये प्रत्युदोऽङ्गीकृतौ स्पर्धाभियानयोः ॥ ९६ ॥ अधेरैश्या[195a]ध्यासनयोरनोराचरणे प्रतेः । गौरवस्थाननिष्पत्तिपदप्राप्तावुपात्पथः ॥ ९७ ॥ ;p{0055} ;l{1265} कर्तृत्वे संगमेऽर्चायां मैत्रमन्त्रविधानयोः । स्थेयाख्यायां प्रकाशे च स भवेदात्मनेपदी ॥ ९८ ॥ तद्वदाङः प्रतिज्ञायां व्यवसंप्रपरस्तथा । उदोऽप्यनूर्ध्वचेष्टायां तूपतो देवपूजने ॥ ९९ ॥ संगतौ मन्त्रकरणे मैत्रे तद्वत्पथिष्वपि । ;l{1270} लिप्सायां वा तथाकर्मकोऽपि स्यादात्मनेपदी ॥ २०० ॥ अटति पटति टेकते टीकते ढौकते त्रङ्कते त्रौकते ष्वष्कते मस्कते सेकते स्रङ्कते स्रेकते श्वङ्कते श्लङ्कते कङ्कते वङ्कते [ते]कते तीकते रङ्घते लङ्घते चोपति । ;l{1275} व्रजति वजति धूर्यते गूर्यते पद्यते हिण्डते पण्डते चाण्ठते चांहते नेषते जेषते प्लायते सर्पति वल्लते चञ्चति त्वञ्चति म्रुञ्चति म्लुञ्चति म्नोचति म्लोचति ग्लुञ्चति श्वञ्चते । पतति पलति तङ्गति त्वङ्गति श्रङ्गति श्लङ्गति ;l{1280} त्रिङ्खति ध्वञ्जति ध्रञ्जति भ्रेषति भ्रेषते भ्लेषति भ्लेषते सज्जते सज्जति[195b]क्षञ्जते दक्षते । वाति विच्छायति स्रीव्यति जिहीतेऽयति स्रवति शवति रेपते लेपते मेपते श्वङ्कते तृक्षति स्तृक्षति स्यात्प्लिनातीयते याति वेत्येति ;l{1285} तौति ध्वजत्योदति श्वण्ठयत्येवमर्णोति रिङ्गत्यृणो- त्यङ्गति स्याद् द्रमत्यभ्रतीखत्यपि ॥ १ ॥ कनति कणति रणति शणति शलति कसति सरति रफति रियति पियति च । ध्रवति पथति ऋषति जुडति जुनति ;l{1290} शुनति लिशति तवीति पदयते ॥ २ ॥ कलयति पषयति पतयति नखति रखति लखति दवति च शटयते । ;p{0056} शटति शठयति तिलति सलति कटति वयत इह ......... मयते ॥ ३ ॥ ;l{1295} इङ्गति लङ्गति मङ्गति कंस्ते वङ्खति मङ्खति नङ्खति कस्ते । रङ्खति लङ्खति रङ्गति चेत्रे (वेते?) वल्गति वङ्गति चेङ्गति गाते ॥ ४ ॥ वखति सेधति शिङ्खति रिङ्खति ;l{1300} ध्रञ्जति ध्वञ्जति धृञ्जति लिङ्गति । उरति रुण्ठति लुण्ठति हूडति श्वठयते श्वठयत्यपि होडति ॥ ५ ॥ ईजतेऽञ्चति च वञ्चति तञ्च- [196a]त्यर्दति त्रखति होलति हन्ति । ;l{1305} मर्कति श्वयति पर्पति पर्ब- त्यर्बति क्षियति रम्फति तद्वत् ॥ ६ ॥ अमति लर्बति बर्बति चेटति । द्रवति मर्बति कर्बति खर्बति । अजति ऋच्छति धावति धावते ;l{1310} व्ययति च व्ययतेऽसति चासते ॥ ७ ॥ गर्बति शर्बति सर्बति चर्ब- त्येवमियर्ति हर्यति तद्वत् । प्लेहति रंहति नक्षति चोक्तं पेसति हम्मति मीमति तद्वत् ॥ ८ ॥ ;l{1315} चयते तयते डयते दयते रयते व्यवते ज्यवते । प्रवते प्लवते क्लवते रवते हयति श्वचते क्रपते मखति ॥ ९ ॥ श्वण्ठयति श्वण्ठयते पेणति शोणति हिनोति फेलति च । ;p{0057} पेलति शेलति सेलति ;l{1320} बभ्रति मभ्रति रिणाति चम्पति च ॥ १० ॥ पन्थति पन्थयते स्या- त्पन्थयति ऋणाति पेसयति । ईषति चम्पयतीष्यति पातयति श्वभ्रयत्ययते ॥ ११ ॥ ;l{1325} श्वर्तयतीङ्खति सल्लति सीदत्यृच्छति गच्छति किं च तवीति । वातयतीह[196b]वरण्य- त्यत्र चरण्यति रण्वति गत्याम् ॥ १२ ॥ एषते रिण्वति प्रैणयति केटति धन्वति । ;l{1330} अङ्घते मङ्घते द्राति निन्द्यगत्यां च वङ्घते ॥ १३ ॥ कांसति ? स्याद्दरिद्राति दुर्गतावथ फक्कते । चोपति स्यान्मन्दगतावथाशुगमने भवेत् ॥ १४ ॥ श्वलति स्याद्धावति च श्वल्लत्यग्रगतौ पुनः । पुरति प्लुतगत्यां तु रेवते शशतीति च ॥ १५ ॥ ;l{1335} त्सरति स्याद्वक्रगतावकत्यगति च स्मृतम् । खञ्जते खुण्डते खञ्जत्यथ स्याद्गतिनैपुणे ॥ १६ ॥ स्याद्धोरति तूर्यते तु त्वरते च तुरण्यति । विहायसा तु गत्यां स्याड्डीयते डयतेऽपि च ॥ १७ ॥ सातत्येन गतौ प्रोक्तमततीति विचक्षणैः । ;l{1340} परेः पटिः क्रमेऽथोदो लङ्घतिः पर्यये भवेत् ॥ १८ ॥ अनोर्व्रजिः सहार्थे स्यात्संन्यासे प्रात्परेरपि । संपरः पद्यतिर्जन्म-गुणोत्कर्ष-समृद्धिषु ॥ १९ ॥ अवात्सृ-सर्पती गूढमन्त्रे प्रसरणे वितः । ;p{0058} प्रात्पतिर्धर्षणे शत्रु[197a]यापने तु परापरः ॥ २० ॥ ;l{1345} अतिक्रमेऽतेर्व्यतितो महातापापयानयोः । समः समन्ततो यानेऽथाङस्तादात्मजन्मनोः ॥ २१ ॥ असावभिसमो युद्धे प्रनेरनुनये विनेः । व्यसने नेर्वधेऽवान्न्यग्भावेऽथोदः स जन्मनि ॥ २२ ॥ उपसर्गे कालहत्यां प्रतितः पलतिर्णिचि । ;l{1350} निरो वातिः शमानन्दप्राप्ति-मोक्षेभमज्जने ॥ २३ ॥ उदोऽयतिस्तथेतिश्च प्रभोत्पत्त्योः प्रकीर्तितौ । अभ्युद्भ्यां तु समृद्धौ स्तो नाशे वेस्तावतेः पुनः ॥ २४ ॥ कृच्छ्रदोषातिक्रमेषु दण्डने प्रतितः पुनः । प्रसिद्धौ शपथे ज्ञाने विश्वासस्य च हेतुषु ॥ २५ ॥ ;l{1355} आदरानुमतौ तुष्टावधीनत्वनिवर्तने । समवात्समवाये स्तो विपरेस्तु व्यतिक्रमे ॥ २६ ॥ अपादपाये विश्लेषेऽभिप्राच्छन्दान्वयैषणे । अवात्प्राप्त्यवबोधेऽनोः संबन्धे प्रपरान्मृतौ ॥ २७ ॥ समुदः प्रक्रमे युद्धे समुदाये परेः कृतौ । ;l{1360} व्यतिक्रान्ताववसरे व्यापने परिवेष्टने ॥ २८ ॥ व्यवाद्व्यतिकरे य[197b]ब्घावन्तर्घौ दुर्गतौ निरः । समः संगति-सादृश्य-संविदाचरणे रणे । समाभियानशपथे संपराभ्यां रणापदोः । अपादपगमेऽथोपादङ्गीकारोपहारयोः ॥ ३० ॥ ;l{1365} व्यतेर्विपर्यये स्यातामुपातेस्तावतिक्रमे । यातिर्वितो धृष्टतायामाङोऽभेः संमुखागतौ ॥ ३१ ॥ निरो मोक्षे निर्गमे तु स्यादुदोऽपात्त्वपक्रमे । स्याद्दृश्येऽनोः कलयतिस्तूद उत्क्षेपणार्थकः ॥ २२ ॥ समो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । ;p{0059} ;l{1370} वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे । आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये । आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ आङोऽञ्चतिः प्रणामे स्यादूर्ध्वेहोत्क्षेपयोरुदः । ;l{1375} परातो विमुखत्वे न्यवाभ्यां स्यात् वर्वनिर्मितौ ॥ २४ ॥ प्रतेर्व्यावर्तने प्रात्तु समः सांगत्य ईरितः । अपात्प्रत्यग्दिश्युदस्तु कुबेराशार्थको मतः ॥ २५ ॥ उदो[198a]द्रविः पलाये स्यादभितो धर्षणेऽपि च । उपादपकृतौ संप्रविभ्योऽपि स पलायने ॥ ३६ ॥ ;l{1380} आङः प्रवति संप्लुत्यामुत्प्लुतौ स तथोद्धृतौ । अनोः प्लविः स्यात्सहगे विप्लवोत्पातयोरुपात् । औद्धत्येऽथाङभिभ्यां स शौचे नाशे तु वेः परः । समः साकं प्लवे लौल्यलाघवोन्मोहनेकरे । इषतिश्चेङ्खतिर्द्वौ स्तः प्रात्परौ वाजिनां गतौ । ;l{1385} अभिघातेऽभ्याङ्परोऽजिर्वेस्तु वीजन-शाठ्ययोः ॥ २७ ॥ समः समूहे स्थाने च हिनोतिः प्रेषणे प्रतः । समोऽर्तिः संगमे प्रोक्तोऽथाभ्याङो युधि गच्छतिः ॥ २८ ॥ सामीप्येऽति विरोधे चाभ्युद्गमेऽभ्युपतः पुनः । उपयामेऽङ्गीकरणे प्रत्युद्भ्यां स उ[प]स्थितौ ॥ २९ ॥ ;l{1390} अभ्युद्गमेऽथ स परेर्गतिर्व्यापनवेष्टने । भागे समस्तु संयोग-सख्ययोर्ज्ञानहृद्ययोः ॥ ३० ॥ संपरस्तङ्युतः प्रोक्तोऽयं ह्यकर्मा भवेदयम् । त्वरागतौ परापूर्वो नाभिमुख्येऽभितः पुनः ॥ ३१ ॥ व्या[198b]पनेऽथाभ्युदः प्रीत्याश्रये ज्ञानेऽध्यवोत्तरः । ;l{1395} उपात्प्राप्तौ स्वीकरणेऽथातेर्यापन ईरितः ॥ ३२ ॥ ;p{0060} अपेरपगमेऽथोसौ विनिर्भ्यां परिकीर्तितः । प्रत्याङ्‌भ्यां स परः प्रोक्तो बुधैर्व्यावृत्तिकर्मणि ॥ ३३ ॥ खेदे तु स्याद्वितो द्रातिः शयने च पलायने । [ऋच्छति] प्रापणे क्रिं त्वे(?) नयति नयतेऽपि च ॥ ३४ ॥ ;l{1400} वहत्यथ प्रान्नयतिः प्रवेशोत्पत्ति-संस्कृते । विधान-प्रेम-विस्रम्भ-क्षेपणाभ्यर्थनासु च ॥ ३५ ॥ वितः शिक्षणवाणिज्योपनयप्रणतिव्यये । निभृतत्वे विगणने भवेन्निरसनेऽपि सः ॥ ३६ ॥ आभिमुख्यानये त्वाङोऽपान्निरासापवाहयोः । ;l{1405} अपह्नवे च विश्लेषे सोऽनुतः सान्त्वने मतः ॥ ३७ ॥ समः संहति-पृष्ठस्थसैन्ये स्यान्निश्चये निरः । अवान्निपातेऽभेः क्रोधे न्याये स्यात्संस्कृतावपि ॥ ३८ ॥ सादृश्येऽथोपनेर्मौञ्जीबन्धे पाणिग्रहे परेः । संमानने तथोत्क्षेपे तथाचार्यकृतावपि ॥ ३९ ॥ ;l{1410} ज्ञाने भृतौ[199a] वि[ग]णने व्यये कर्मणि कर्तृगे । शरीरावयवाद्भिन्ने नयतिर्ह्यात्मनेपदी ॥ ४० ॥ वहतिर्वेः परिणये न्यासाप्त्योः संहतौ नतौ । उदो विवाह आङोऽसौ करणेऽथोपतो धृतौ ॥ ४१ ॥ वहने चापि सामीप्ये नेः समूहेऽथ मर्दने । ;l{1415} शुश्रूषायां तत्क्षणजे सपत्नीलम्भनेऽप्यधेः ॥ ४२ ॥ मुञ्जीकृतावथापेः स यापनेऽथ निरः परः । सक्तत्व-निष्ठयोः प्रात्तु प्रवर्तौ च विनिर्गमे ॥ ४३ ॥ प्रपरिभ्यां न तङ्वान्स निःपरिभ्यां तु निर्गमे । स्थापयत्यासादयति रेखायति समार्थकाः ॥ ४४ ॥ ;l{1420} प्रतिष्ठायां तालयते स्यात्तालयति मूलति । मायते मूलते नाशे तूदो मूलतिरीरितः ॥ ४५ ॥ ;p{0061} क्राम्यति स्यात्क्रामति च चरणक्षेपणे द्वयम् । अनुपूर्वेऽनोः क्रमिः स्यादतेर्भवति लङ्घने ॥ ४६ ॥ अवादधोगतौ वेः स्यादुत्साहे च क्रमे स्फुटे । ;l{1425} व्युद्भ्यां व्यतिभ्यां व्यत्यासे समोऽन्तिकगतौ भवेत् ॥ ४७ ॥ संचारेऽपाद[199b]पायेऽथ परातः प्रतिबिम्बने । विवित्सारम्भ-विक्रान्त्योरुपधायां तथा स्मृतः ॥ ४८ ॥ प्रत्युदः स्यात्प्रयोगेऽथ स्वर्गतौ स्यादुदः परः । उल्लङ्घेऽथाङ आरोहेऽभिभवेऽप्यथ तङ्युतः ॥ ४९ ॥ ;l{1430} स्फीततायामुत्सहनेऽप्रतिबन्धे च केवलः । तथैवोपपराभ्यां स तद्वन्नान्योपसर्गतः ॥ ५० ॥ ज्योतिरुद्गमने चाङो वेरश्वादिगतिष्वपि । प्रारम्भणे च प्रोपाभ्यां केवलो वात्मनेपदी ॥ ५१ ॥ वित्तक्षेपे कालयते कालयत्यपि संस्मृतम् । ;l{1435} विक्षेपणे तु किरति संप्रतेर्व्याप्ति-हिंसयोः ॥ ५२ ॥ प्रत्यूहे चात्त्ववध्वंसेऽथोपाद्वैकृत-हिंसयोः । विक्षेपेऽतिशयादाङः संकुलत्वे समोऽशुचौ ॥ ५३ ॥ संसर्गे तु चये न्युद्भ्यां धान्योत्क्षेपेऽपि लेखने । संघे व्यतेः स संपर्के परेरीहाविवेकयोः ॥ ५४ ॥ ;l{1440} प्रारम्भे मुद्विलेखे तु भक्ष्ये नीडस्य निर्मितौ । अपात्पक्षिचतुष्पादोः स सुड्वानात्मनेपदी ॥ ५५ ॥ उपात्तु किरतिः प्रोक्तोऽङ[200a]भ्यासव्यवधावपि । ससुट्कः स्यात्प्रथमतो हिंसायां च प्रतेस्तथा ॥ ५६ ॥ उत्क्षेपे त्वोलण्डयति तथौलण्डति लण्डति । ;l{1445} लण्डयत्यपि तद्वदुलण्डत्युलण्डयत्यपि ॥ ५८ ॥ क्षिपते क्षिप्यति चीङ्य(?)स्यति क्षिपतीलति । डिप्यति स्याड्डिपति च मिनोति मिनुते तथा ॥ ५९ ॥ ;p{0062} नुदति स्यान्नुदति च विस्यतीरयतीरति । सुवति स्यात्पाथयति क्षपयत्येलयत्यपि ॥ ६० ॥ ;l{1450} तथा पाथयते पर्थयति पर्थयतेऽपि च । स्याज्जोडयत्येलयति लाभयत्यपि पेणति ॥ ६१ ॥ तथा वर्णयते वर्णयति वर्णयतेऽपि च । तद्वड्डुम्बयति प्रोक्तं तथा डिम्बयतीति च ॥ ६२ ॥ प्रेरणे स्याच्चूर्णयति डिपिर्गर्वेऽवतः परः । ;l{1455} निरोऽस्यतिर्वधे त्यागे क्षेपण-प्रतिघातयोः ॥ ६३ ॥ निष्कासने निराकृत्यां निष्ठ्यूतत्वे त्वरागिरि । परापाभ्यां मारणे नेर्निक्षेपे वेः स विस्तृतौ ॥ ६४ ॥ व्याप्त्यां**र्व्याकुलत्वे विपत्तौ व्यत्यये व्यतेः । व्यत्यास उपनेवित्ये(?)संनेः क[200b]र्मपरित्यजि ॥ ६५ ॥ ;l{1460} विपरेर्व्यत्यये मोहे भ्रंशनोल्लुण्ठनेऽधितः । ऊर्ध्वभावारोपणयोरुत्क्षिप्य न्यास उत्क्षिपिः ॥ ६६ ॥ समः संकलने सक्तावभेराभीक्ष्ण्यनिर्मितौ । समी**परेः पाते परावृत्तौ हतावपि ॥ ६७ ॥ अकर्माध्यासकमपि (?) वा तङ्वानुपसर्गतः । ;l{1465} क्षिप्यतिश्चाङो*भर्त्से [अप]कृष्टौ निषेधने ॥ ६३ ॥ भर्त्सने प्रणिधानेऽधेः प्रतेः प्रैषे निराकृतौ । अधिः क्षेपे******[व्यते?] र्व्यत्यास ईरितः । विलम्बेऽधेरधिक्षेप उदस्तूर्ध्वगतौ मतः ॥ ६५ ॥ परातः स निषेधेऽपात्तिरस्कार उपात्तु सः । ;l{1470} प्रस्तावेऽभिप्रत्यतिभ्यः परस्मैपदवान्भवेत् ॥ ६६ ॥ परिवृत्तौ मिनोतिर्नेर्दृष्टौ नेर्वर्णिरीरितः । विनक्ति विङ्क्ते वेवेक्ति वेविक्ते भाजयत्यपि ॥ ६७ ॥ [ऊनयतेऽप्यू ]नयति परिहाणे समीरितम् ॥ ६८ ॥ ;p{0063} उज्झति जहाति धरते ;l{1475} रहयति रहति च बुस्यति त्यजति । त्यागेऽवतो जहाति ह्रासेऽथोच्छति विवासे स्यात् ॥ ६९ ॥ वेरुच्छिरत्यये[201a]ऽथ स्याद्व्यसति क्षिपतीत्यपि । मठति स्याद्वसयति वासे वेदयते तथा ॥ ७० ॥ ;l{1480} वासव्यतिक्रमे तूदो प्राद्वियोगे वसिर्भवेत् । प्रतेः पदा...वाङः स्यादाक्रमे वेरतिक्रमे ॥ ७१ ॥ उपादभुक्तौ प्रत्याङो निवासस्य विपर्यये । परेराकोटनेऽनोस्तु धूपे वासयतिर्मतः । स्नेहवस्तौ च संस्कारे संस्कारे त्वधितः परः । ;l{1485} भरते भरति भृतौ भटत्यथ नितेः परौ । बिभर्तिर्भरतिः प्रोक्तौ विनये प्राङ उत्तरौ । उपायने समृद्धौ तु समोऽथाङो विभूषणे ॥ ७४ ॥ परप्रैष्ये चेटति स्यान्नृत्ये नटति नृत्यति । तथा नाटयतीति स्यान्निबर्हे स्यादुदो नटिः ॥ ७५ ॥ ;l{1490} कम्पते धवति धावयति र्त्रि(?) वेपते चलति धूनयति स्यात् । क्ष्मायते धुवति किंच धुनीते स्याद्धुनाति धुनुते च धुनोति ॥ ७६ ॥ धूनोति धुनुते प्रोक्तं केपते कम्पयत्यपि । ;l{1495} तेपते गेपते कम्पे धवते कम्पतीति च ॥ ७७ ॥ परेः कम्पि[201b]र्भये चाले कृपायामनुतः परः । धविरुत्तः परो हर्षेऽथारोहे वडतीति च ॥ ७८ ॥ रमते क्रीडति किलत्यूर्द्दते कूर्द्दतेऽपि च । खूर्दते स्याल्लसति च कुमारयति च स्मृतम् ॥ ७९ ॥ ;p{0064} ;l{1500} कीर्णतिः स्याद्विहारेऽभे रमिः कान्ताववादुपात् । व्याङभिभ्यो निवृत्तौ स नाशेऽतेरतिशायने ॥ ८० ॥ रमणे व्याङ्परिभ्योऽसौ परस्मैपदवान्भवेत् । अन्तर्भूतण्यर्थ उपादकर्मापि च यस्तथा ॥ ८१ ॥ क्रीडतिस्तु समः शब्दे क्रीडावास्योः(?) स आङ्परः । ;l{1505} कर्मप्रवचनीयान्यानुतः संपरितस्तथा ॥ ८२ ॥ आङः परोऽकूजने तु समोऽसावात्मनेपदी । वेर्लसिर्भावलीलार्थः उदस्तूद्भासने मतः ॥ ८३ ॥ अपादक्रीडने स स्याद्भावे हिलति च स्मृतम् । भावसूचे चुड्डति स्यात्तथा चिल्लति चुल्लति ॥ ८४ ॥ ;l{1510} अवमाने चाद्विलिः स्यात्प्रपरो नर्मकर्मणि । तेवते देवते दीव्यत्यपि देवनवाचकम् ॥ ८५ ॥ गूर्दते[202a]गोदते प्रोक्तं गुदक्रीडनवाचकम् । एलायति खेलायति केलायति ललति लडति चलति स्यात् । ;l{1515} गदितमिलायति तद्व- द्धातव एते विलास आख्याताः ॥ ८६ ॥ आन्दोलयति प्रेङ्खो- लयति च हिन्दोलयत्यर्थे । वीजयति व्यजने स्या- ;l{1520} ल्लासयति शिल्पस्य योगे स्यात् ॥ ८७ ॥ गात्रस्य घर्षणे कण्डूयति कण्डूयते तथा । अथ गात्रविनामे स्याज्जम्भते जृम्भते तथा ॥ ८८ ॥ उदो जृम्भतिरीहायां विकासे वेस्तु विस्तृतौ । ;p{0065} स्फरति स्यात्स्फुरति च स्फुरणे निष्फुरत्यपि ॥ ९० ॥ ;l{1525} सिञ्चत्युक्षति सचते पिन्वति मिन्वति च सिञ्चते कटति । जेषति वेषति मेषति पर्षति वर्षति च सीकते गडति ॥ ९० ॥ मर्षति मेहति निन्वति ;l{1530} सेकति धारयति शीकते सेके । अभितः सिञ्चतिरुक्तः संस्कारे प्रच्युतावुक्तः ॥ ९१ ॥ आधानकर्मणि नितो गर्वे तूदोन्नसंस्खले मद्दे । ;l{1535} उत्क्षेपे वृषिरभितो व्याप्तौ व्यावर्तने निपरः ॥ ९२ ॥ घारिस्त्वभेः स्या[202b]त्संस्कारे स्नेहने त्वाङ्परः स्मृतः । परेरुक्षिः संप्रदाने वर्षणेऽभेस्तु संस्कृतौ । व्यापने प्रात्तु सेके स्यात्तथा च पशुमारणे । ;l{1540} आसेचने श्च्योतति स्यादथ स्तिम्यति तिम्यति । उनत्ति क्लिद्यति स्तीम्यत्यपि मर्धति मर्धते ॥ ९३ ॥ शुच्यति स्याच्चहयति चपयत्यपि शुच्यते । आर्द्रीकृत्यामवध्वंसे त्ववात्क्लिदिरुदाहृतः ॥ ९४ ॥ स्नेहयति स्नेहयते ;l{1545} क्ष्विद्यति मेद्यति च मेदते तिलति । मिन्दयते मिन्दयति प्रुष्णाति स्वेदते तद्वत् ॥ ९५ ॥ क्ष्वेदते वर्षते प्लुष्णात्यपि मिन्दति मिन्दते । स्याद्वासयति च स्नेहे द्रवीकृत्यां लयत्यपि ॥ ९६ ॥ ;l{1550} लाययत्यथ खान्द्रत्वे कृडतीति प्रकीर्तितम् । ;p{0066} स्यात्स्नाति वाडते चाभिषुणुतेऽमिषुणोति च ॥ ९७ ॥ शुषते चाथ नेः स्नातिः पुणतिश्चापि कौशले । अपतस्तु मृतस्नानेऽप्यथ धावति धावते ॥ ९८ ॥ मार्ष्टि नेनेक्ति नेनिक्ते स्यान्मार्जयति मार्जति । ;l{1555} स्यान्मुण्डते शुध्यति च शुन्धयत्यपि शुन्धति[203a] ॥ ९९ ॥ निङ्क्ते मज्जति शुद्धौ स्युः स्यात्क्षालयति शोधने । आङो धाविरभिव्याप्तौ प्रतिपन्ने समो मृजिः ॥ ३०० ॥ उद्धशुद्धौ(?) मज्जतिर्नेर्बुडने परिकीर्तितः । उदस्तु स ततोऽन्यत्र नृणाति तु नये मृतम् ॥ १ ॥ ;l{1560} तरति प्रणिदाति स्यात्तरणे हवत्तांति च (Corrupt) । तरतिर्विपरो दाने निरस्तु स्यान्निवर्तने । वृत्तौ निर्गमने शक्तौ बाधे प्रात्प्रस्तुतौ जने । देवादीनामन्ययोनौ भूताद्यावेश उत्परः ॥ ३ ॥ अवात्परोऽवरोहे स्याज्जन्मान्तरपरिग्रहे । ;l{1565} स्यात्स्कुनाति स्कुनीते च स्कुनोति स्कुनुते तथा । स्कुन्दते स्यादुत्प्लवनेऽथानक्ति म्रक्षणे स्मृतम् । निमज्जने स्याद्गुडति भृडति क्रुडतीति च ॥ ३ ॥ हुडति स्यादथ स्पर्शे छुपति स्पृशतीति च । शीकति स्याच्छीकयति चीकयत्यपि चीकति ॥ ६ ॥ ;l{1570} स्पृशिस्तु स्यादाचमने स्नानस्पर्शनयोरपि ॥ ४ ॥ युज्यते तु समाधौ स्यात्प्रणेशति च शीलति । मथ्नाति मथति मन्थति लोडति लुट्यति[203b] च गाहते लुडति । लुटति खजत्यपि मन्थें ;l{1575} खण्डत इति च ब्रुवन्त्यत्र ॥ ५ ॥ ;p{0067} मथिरुत्प्रपरो मृत्यां क्षुणत्ति तु पिनष्टि च । क्षुन्ते मोटयति स्याच्च पेषेऽथोदः पिषिर्वधे ॥ ६ ॥ कर्षति कृषति क्षुरति रदति हलत्यपि विलेखनार्थाः स्युः । ;l{1580} निर्हरणे निश्चयने निरः परः स्यात्कृषिर्द्विविधः ॥ ७ ॥ नितो न्यग्भवने विप्राद्भवेद्दूरीकृतावसौ । अवात्प्रसृत्यां प्रतितो द्वेधा वृत्तविकर्षणे ॥ ८ ॥ निष्कर्षणे सातिशये प्रोद्भ्यां संनिपरः पुनः । ;l{1585} असौ समीपतायां स्यादनुत्कर्षे त्वपादयम् ॥ ९ ॥ दंशति स्याद्दंशयते तथा दंसयतेऽपि च । दशत्यपि च दंष्ट्राया व्यापारे परिकीर्तिता ॥ १० ॥ समो दंशिर्मर्मणि स्याद्व्यवापेभ्यो दतेर्मतः(?) । लतत्योदति(?)चाघाते व्रणयत्यङ्गचूर्णने ॥ ११ ॥ ;l{1590} बध्नाति बन्धयति बन्धयते युनाति स्यान्नह्यतेऽन्तति तथान्दति नह्यतीति । स्यात्कञ्चते मवति मव्यति काञ्चते च कञ्जत्यपीह मवते सिनुते सिनोति[204a] ॥ १२ ॥ टङ्कयते टङ्कयति ;l{1595} ग्रन्थयति ग्रन्थतीह टङ्कते च । बन्धयति पाशयति स्या- त्कीलति मूर्वति सिनाति जुडति स्यात् ॥ १३ ॥ सिनीते कचते यौटत्यपि बन्धनवाचकाः । प्रतेर्बन्धिः प्रतिष्ठम्भेऽप्यविनाभावसंयुजि ॥ १४ ॥ ;l{1600} प्रादविच्छेदनिर्माणेऽथाध्मानस्तम्भयोर्वितः । आङः संभ्रमबन्धार्थो गूढबन्धे च भूषणे ॥ १५ ॥ ;p{0068} प्रीतौ निरस्त्वाग्रहणेऽनुतो मुखानुयायिनि । सांतत्ये दोषसंभूतावनुदात्ताववात्पुनः ॥ १६ ॥ वेष्टने विस्तृतौ तु स्यात्परेर्नहिरुपादपात् । ;l{1605} बन्धेऽवाद्वेष्टनेऽथाङ आधाने सम उद्यमे ॥ १७ ॥ समुद्भ्यां वर्धने दैर्घ्येऽथोदो वृद्धौ प्रकीर्तितः । प्रात्सिनोतिः समासक्तौ निरो ग्रन्थिश्च मारणे ॥ १८ ॥ स्यान्मुञ्चते मुञ्चति च श्रथ्नाति श्राथतीति च(?) । जस्यति स्याज्जंसयति जंसति श्रथतीत्यपि ॥ १९ ॥ ;l{1610} मोक्षणे स्यान्मोचयति मुञ्चति स चाङ्परो न हि । प्रतेर्निष्क्रमणे बन्धे निरस्त्वङ्मोचने व्यये ॥ २० ॥ संय[204b]मे स्याद्योजयति योजत्यपि च पर्चति । तथा पर्च्चयति प्रोक्तमथ योगे युनक्ति च ॥ २१ ॥ युजिर्योजयतिश्च प्रात्प्रेरणे च निदर्शने । ;l{1615} कार्ये हेतावनोः प्रश्ने समः संबन्ध आङ्परः ॥ २२ ॥ रोधे नियोगे व्यापारे गन्धमाल्योपहारयोः । नेस्तु व्यापारणेऽभेः स्यादत्यासक्तावभिग्रहे ॥ २३ ॥ उपाद्भुक्तौ सार्थकत्वे विद्याग्राहे यथाविधि । पर्यनोः स्यादुपालम्भे समाङस्तु प्रयोजने ॥ २४ ॥ ;l{1620} समवाय उदो यत्ने उत्साहे संप्रतेऽरतेः(?) । अन्वये विप्रलम्भे तु विप्राद्विनिमये विनेः ॥ २५ ॥ स्वराद्यन्तोपसर्गेभ्यो युनक्तिः परतो यदि । तदात्मनेपदयुतो यज्ञपात्रं विना भवेत् । परिग्रहे पक्षयति तथा पक्षयते भवेत् ॥ २६ ॥ ;l{1625} अथ गृह्णाति गृह्णीते गर्हते ग्लहतेऽपि च । ;p{0069} मर्चति स्याद्ग्रासयति तद्वद्गृहयतेऽपि च ॥ २७ ॥ ग्रहति ग्राहयत्येवं ग्लहति ग्लाहयत्यपि । भवेत्स्पाशयते ग्रासयति राति च लाति च ॥ २८ ॥ कोकते व[205a]र्कते स्नुस्यत्यषतेऽषति घिण्णते । ;l{1630} घुण्णते घृण्णते किंच [द]यते झषतीति च ॥ २९ ॥ झषते चीवते तद्वदादाने स्युर्जुहोति च । अवाद्ग्रहिरवज्ञायां स्वातन्त्र्यप्रतिरोधने ॥ ३० ॥ वृष्टिरोधे पदच्छेदे संरोधे घर्षणेऽपि च । समः संक्षेपणे नेस्तु विरोधे च तिरस्कृतौ ॥ ३१ ॥ ;l{1635} अप्रसादे भर्त्सने च बन्धकीकरणे तथा । वेर्विस्तारे विरोधे च समासार्थप्रकाशने ॥ ३२ ॥ आङः संभ्रम आसक्तावाक्रमाभिनिवेशयोः । उपादाने निग्रहणे परेः शाप उपात्पुनः ॥ ३३ ॥ उपभोगेऽनुकूलत्वे परिभूत्यामुपप्रति ? । ;l{1640} अनोरुपकृतौ गृह्णातिस्त्वनोर्गौरवार्थकः ॥ ३४ ॥ अपेः प्रतारणेऽथोदो गीतारम्भे समर्थने । बन्धनग्रहणे स्फता( ? )वतेः स्यादनुबन्धने ॥ ३५ ॥ उपसंभ्यां नमस्कारे प्राद्रश्मौ निगडस्थितौ । शिलतीषत्युञ्छति च सिलत्युध्रासयत्यपि ॥ ३६ ॥ ;l{1645} ध्रस्नाति ध्रासयत्येवं कणिशादानकर्मणि । वेरुञ्छतिर्व्यत्यये स्यात्प्रत उत्सारणे मतः ॥ ३७ ॥ [205b] ऊर्णौत्यूर्णोत्यूर्णुते च स्तृणोति स्तृणुतेऽपि च । बर्हते बल्हते वस्ते स्तृणीते च स्तृणाति च ॥ ३८ ॥ ;p{0070} आच्छादने चिलति च निवासयति कोतति । ;l{1650} प्रपञ्चे वेः स्तृणोति स्यात्प्राद्विकारे परेः स्तुतौ ॥ ३९ ॥ अवात्स्तृणातिः संरोधे दर्भन्यासे परेः स्मृतः । प्रणये वेश्च विस्तारेऽथास्ते स्यादुपवेशने ॥ ४० ॥ उत्परस्त्वासिरौदास्येऽथोपाच्छुश्रूषणे वधे । शराभ्यासे सेवनेऽनोरनुशोचन-सेवयोः ॥ ४१ ॥ ;l{1655} स्नेहबस्तावधेराधिपत्याधिष्ठानयोरयम् । आधिको वेः समः कोचे विशति स्यात्प्रवेशने ॥ ४१ ॥ वेतने मुहि भोगे च निरो विशतिरीरितः । आङः प्रवेशने भूतोपद्रवेऽथ समाङ्परः ॥ ४२ ॥ विष्वक्प्रवेशने संने रचनायां समः स्वपि । ;l{1660} मोदनासनयोर्नेः स्यादवस्थान-विवाहयोः ॥ ४३ ॥ न्यासेऽभिनेराग्रहणे स्यादुपादासने परेः । परिवर्तेऽथ नेरेष परः स्यादात्मनेपदः ॥ ४४ ॥ व्यवहारे तु पणते वेः पणिर्विक्र[206a]ये मतः । परेर्नयेऽथ मयते विनिमित्यामुदीरितम् ॥ ४५ ॥ ;l{1665} प्रतर्पणे केवलोऽयं विनियुक्परिवर्तने । क्रीणात्यर्थपरीवर्ते क्रीणीते विपरस्तु सः ॥ ४६ ॥ विक्रयेऽवात्प्रक्लृप्त(?) स्यात्परेः स्वीकरणे मतः । परिव्यवेभ्यः क्रीणातिरात्मनेपदवान्मतः ॥ ४७ ॥ यतते वेहते संयस्यति संयसतीति च । ;l{1670} जेहते यस्यति तथा श्रथति श्राथयत्यपि ॥ ४८ ॥ वाहते स्याच्छ्राथयते पेषते यत्नवाचकाः । क्लेश-स्तुति-हति-श्रान्ति-जय-क्षेपेषु तेजने ॥ ४९ ॥ कोपे चाङो यस्यतिः स्यादुदस्तूद्यम ईरितः । समो नियमनेऽथ स्यात्संस्कृतौ प्रतितो यतिः ॥ ५० ॥ ;p{0071} ;l{1675} निष्ठूयोपग्रहेच्छासु कृणोति तु करोत्यपि । कुरुते स्याद्भावयति निर्मिमीते विधत्यपि ॥ निर्माति च विधत्ते स्युः करणे कृस्तु(?) नेर्भवेत् । अवज्ञावञ्चनाशाठ्यनिन्दाभर्त्सनवाचकः ॥ ५२ ॥ विप्रान्नेः स्यादुपद्रुत्यामधेः प्रस्ताव आश्रये । ;l{1680} उपर्यैश्ये प्रसहनेऽथोदः साहसतर्पणे [206b] ॥ ५३ ॥ अभ्याङुद्भ्योऽप्युदाङ्भ्यां च गन्धेऽथोपादनुग्रहे । सेवोपयोग-भूषासु वाक्याध्याहारवैकृते ॥ ५४ ॥ प्रतियत्ने समुदये प्रत्युपान्निष्क्रये समः । संकल्पेऽनुभवे संघे प्रतियत्न-प्रशंसयोः ॥ ५५ ॥ ;l{1685} अलंकृतावुपाङस्तु संस्कारेऽमर्षयत्नयोः । यज्ञप्राणि व*त्यागेऽभिनये स समुद्भवे ॥ ५६ ॥ अपाद्भर्त्सनविद्वेषेऽथापाङो वारणे निरः । प्रतीकारे वेर्मुदंते(?) परिणामान्यथात्वयोः ॥ ५७ ॥ प्रात्प्रस्तावे प्रकथने सेवासादृश्यसाहसे । ;l{1690} भेदोपयोगे परितः परिसर्पे समाहृतौ ॥ ५८ ॥ भूषणे वेष्टने व्याङः प्रकाशव्याख्ययोः पराः(?) । स्यान्निरासे निराङश्च प्रतेश्चाङः स आकृतौ ॥ ५९ ॥ प्रत्याङो व्याजधिक्कृत्योरनोः साम्ये प्रतेः पुनः । प्रतिविधौ प्रतिसमः क्रमन्यासेऽवतोऽस्तुतौ ॥ ६० ॥ ;l{1695} हिंसार्थसूचने भर्त्से साहसिक्ये च सेवने । प्रतियत्ने प्रकथने चोपयोगे स केवलः ॥ ६१ ॥ अधेः प्रसहने वेस्तु शब्दक[207a]र्माप्यकर्मकः । कृञात्मनेपदेऽथानोः परातो न तङि स्मृतः ॥ ६२ ॥ स मिथ्योपपदो ण्यन्तो द्विस्त्रिरुक्तौ तङि स्मृतः । ;l{1700} वर्तते वर्तनेऽथोदो वृत्तिर्मर्दविलेपयोः । ;p{0072} अपवृत्तिविपर्यासोत्पतनेष्वथ स प्रतः ॥ ६३ ॥ उत्पत्तौ च प्रवाहेऽथ वैमुख्ये स्यात्परात्परः । निवर्तने च लुठने निरस्तूत्पत्तिवाचकः ॥ ६४ ॥ अन्यथात्वेऽपतो घातात्यययोः स परेः परः । ;l{1705} पलायने विनिमये निर्गमे वेः समाहृतौ ॥ ६५ ॥ अपवृत्तौ परीणामे नृत्ये व्याङो निवर्तने । परावृत्तावुपाङः स्याद्व्यावृत्तौ लुठनान्तयोः ॥ ६६ ॥ प्रत्याङ्परः स्याद्व्यावृत्तावाङो भ्रमणचिन्तयोः । तैजसोत्पत्यवचये(?) पौनःपुन्ये समः क्षये ॥ ६७ ॥ ;l{1710} समाङोऽभ्याङ आभीक्ष्ण्ये समाङो मौञ्ज्यपाकृतौ । अतेरतिक्रमेऽनोः स्यादातुकूल्यार्थवाचकः ॥ ६८ ॥ घोटते परिवृत्तौ स्या[दा]ङ्परः स्वार्थबोधकः । अर्जने स्यादर्जयति सर्जत्यर्जति चार्जते ॥ ६९ ॥ श्रयति श्रयते भज[207b]ते ;l{1715} भजति प्रुष्णाति सेवते जुषते । प्लुष्णाति मर्षति सभा- जयति स्याद्गेवते युषते ॥ ७० ॥ स्याद् ग्लेवते पेवते च मेवते म्लेवते तथा । अधेः श्रिञ्पचनारम्भे समः परिचितावुदः ॥ ७१ । ;l{1720} वृद्धिसंजननौन्नत्ये समुदो द्विष्यपि स्मृतः । प्राद्विनीतो भजिस्त्वाङ उपस्थित्यामुदीरितः ॥ ७२ ॥ अथोपसेवने भिष्णज्यति वासयतीत्यपि । तथा लाडयते लाडयति तत्र [प्र]कीर्तितम् ॥ ७३ ॥ आप्नोतीन्वति वेवेष्टि वेविष्टेऽक्ष्णोति चाक्षति । ;l{1725} वेत्यश्नुते श्लाखति च शाखति व्याप्तिवाचिनः । ;p{0073} **************** ****** प्राप्तौ परिच्छेदे प्रमापणे ॥ ७५ ॥ अवसाने समाधाने शक्रत्वे वेः समाक्रमे । ख्मातौ स्यादविनाभावेऽभेर्वेः संमूर्छने भवेत् ॥ ७६ ॥ ;l{1730} प्राद्युक्तावुदये लाभेऽथाक्ष्णौतिरधितः परः । अधिकारे च सांमुख्ये व्याप्ति-संघातयोरपि ॥ ७७ ॥ नैकट्येऽत्यभितो श्रोति(?)समाप्तौ व्युच्छति स्मृतम् । क्रियासमाप्तौ स्यात्पारयति तीरयतीति च[208a] ॥ ७९ ॥ भवत्यपि च लाभार्थेवेर्लभिर्दानवाचकः । ;l{1735} विप्रात्प्रतारणे प्रोक्तो विरहे प्रत्युपात्परः(?) ॥ ८० ॥ प्रादुष्कृतौ व्यलीकस्य प्रतेर्विनिमये भवेत् । उपाद्ज्ञानेच्छयोराप्तौ वधे स्पर्शे तथाङ्परः ॥ ८१ ॥ विलेपने समाङः स्यादुपाङः स्यात्समाक्षिपि(?) । प्राद्वञ्चने विन्दतिस्तु सपत्नीलम्भनेऽधितः ॥ ८२ ॥ ;l{1740} पञ्चयति पञ्चते स्यात् तनोति तनुते च विस्तृतौ प्रसते । प्रात्पञ्चतिः समूहे व्यत्यासे वञ्चने विचारे च ॥ ८३ ॥ प्रभूतभावे संभूयस्यति तद्वत्समीरितम् । ;l{1745} वितानयत्याञ्छति स्यादायामे वितनोत्यपि । व्यायामे स्याद्व्याप्रियते गहने निलति स्मृतम् । अल्पीभावे लिश्यते स्यात्तथा चुण्टति लिट्यति ॥ ८४ ॥ तद्वच्चुट्टयति प्रोक्तं बुधैः पुट्टयतीति च । स्याद्वर्षयते शक्तिसंबन्धेऽगद्यति त्विह ॥ ;l{1750} नैरोग्येऽथ बले प्राहुरुरस्यति मनीषिणः । ;p{0074} घटते चेष्टते त्रन्दतीहते चेष्टनार्थ[208b]काः ॥ ८६ ॥ समो घटिः स्यात्संयोगे वेर्विश्लेष उदीरितः । छदयत्यूर्जयत्युक्तं बलवत्करणार्थकम् ॥ ८७ ॥ कल्पते राघते शक्नोत्यपि शक्यति शक्यते । ;l{1755} लाघते द्राघते चैते सामर्थ्ये परिकीर्तिताः ॥ ८८ ॥ समः कृपिर्मनःकृत्यां वेर्नानात्वे च संशये । पाक्षिकत्वेऽनोस्तु गौण्ये प्रतेरपि परेः पुनः ॥ ८९ ॥ विवर्तने ज्ञानशक्त्योराङः कल्पनभूषयोः । उत्कण्ठायां प्रमोदे च श्रद्धायां त्ववतः परः ॥ ९० ॥ ;l{1760} उदो लाघिस्तथारोग्ये तथा दक्षत्वहर्षयोः । शोचे ण्यन्तस्तूद एष पर्यये परिकीर्तितः ॥ ९१ ॥ अथ सत्रयते संतानक्रियायां प्रकीर्तितम् । वपते बीजसंताने वपतीत्यपि कीर्तितम् ॥ ९२ ॥ पितृकृत्यां नेर्वपिः स्याद्दानेऽधिश्रयणे निरः । ;l{1765} प्रतेः प्रक्षेपणे मुण्डीकृत्यां परिवृतावपेः ॥ ९३ ॥ आङो न्यासे भाण्डपाकेऽथावात्प्रतिविधौ मतः । निष्कुलाकरणे तु स्यान्निष्कुष्णाति बलूलति । विष्कभ्नोति तथा विष्कभ्नाति चात्र प्र[209a]कीर्तितम् । ऊयते सीव्यति वयत्यत्र स्याद्वयतेऽपि च ॥ ९४ ॥ ;l{1770} एते स्युस्तन्तुसंताने तक्ष्णोति तु तनूकृतौ । श्यति कृश्यति च त्वक्षत्यपि च शीयते शदिः ॥ शित्प्रत्यये ** तङ्वान्कथ्यतेऽत्राथ पोलति ॥ ९५ ॥ महत्त्वे [स्या]त्पोलयति वृणीते त्वमतीति च । अनति स्यात्सनति च संभक्त्य*जनार्थकाः ॥ ९६ ॥ ;l{1775} अपादाच्छादने वृञ् स्यादपाङस्त्वनधीनके । ;p{0075} निरः सुखे च सौस्थ्ये चास्तं गतावाङ्परो वृतौ ॥ समः परः स संवृत्यां वशनेऽदर्शनेऽपि सः ॥ ९७ ॥ त्वचति ह्रगति ह्लगति स्थगति द्वरति क्षदति थुडति स्थुडति । ;l{1780} चुडति व्रुडति च्छुडति* भवे- दपि चीवति गूहति खट्टयति ॥ ९८ ॥ चीवते झषति प्रोक्तं झषते सगतीति च । गूहते किंच सिलति बिलत्यपि खुडत्यपि ॥ ९९ ॥ छादयति च्छादयते ;l{1785} छदति च्छदते च जालयति । लाजयति वल्लते स्या- द्वलते शलते च कुम्बयति ॥ ४०० ॥ लुडति च कुम्बति कुम्भति संवरणे कुम्भयत्यु[209b]दिताः ॥ ;l{1790} गूहतिरुपतो गुप्ता- वाश्लेषे चेति [कथि] तो विज्ञैः ॥ १ ॥ आङश्छादिः परीघाने अपनीत्याममी प्रोक्ता लुञ्चत्योणति च हुते ॥ २ ॥ नितो ह्नुतिरविश्वास-वैकृतस्तेयवाचकः । ;l{1795} अपात्प्रेम्ण्यपलापे च निष्पाके क्वथतीरितम् ॥ ३ ॥ ऋञ्जते भर्जते लञ्जत्यपि भृज्जति भृज्जते । भर्जने पचते तु स्यात्पचति श्राति शायति ॥ ४ ॥ श्रीणाति श्रायति पचौ रध्यति श्रपयत्यपि । विपरिभ्यां परीणामे दुर्गत्यां नेर्वमिक्विदौः ? ॥ ५ ॥ ;l{1800} उदो नाशे समोऽर्थित्वे निरोऽतिपचने पचिः । ;p{0076} गिरति स्याद्गिलति च द्वयं निगरणे मतम् ॥ ६ ॥ अनोर्निगरणेऽथोदो गिरतिस्तद्विपर्यये । समः संवित्प्रतिज्ञाजिविपत्सु परिकीर्तितः । समोऽभ्युपगमे तङ्वानवादपि परस्तथा ॥ ७ ॥ ;l{1805} उत्क्लेशे दृम्फति प्रोक्तं दृपत्यपि दृफत्यपि । ष्ठीवति ष्ठीव्यति तथा क्षीबति क्षेबतीति च ॥ ९ ॥ स्रस्यत्यपि च निष्ठेवे जुगुप्सायां जुगुप्सते । बीभत्सते यावयते त[210a]था जावयतेऽपि च ॥ १० ॥ ऋतीयते चिकित्सायां भिषज्यति चिकित्सते । ;l{1810} वमति च्छर्दति स्नुह्यत्युद्गारे छर्दयत्यपि ॥ ८ ॥ उदो वमिर्हस्तिमदाभाव ऊर्ध्वगतावपि । मस्यति स्यात्सम्यति च परिणामेऽथ मिश्रणे ॥ ९ ॥ यौति भावयतीति स्यात्कल्पयत्यपि कीर्तितम् । समः संबन्धनिर्मित्योर्यौतिर्विश्लेषणे वितः ॥ १२ ॥ ;l{1815} अमिश्रणेऽमिश्रयति यौति चापि प्रकीर्तितम् । विप्रयोगे तु विष्णाति रेचयत्यपि रेचति ॥ १३ ॥ संसृज्यते सृजति कुस्यति संपृणक्ति पृङ्क्ते लगत्यवति साम्बयते लिनाति । स्याल्लीयते लसति साम्बयतीह तद्व- ;l{1820} त्स्याच्छंपंचघपि( ? )सङ्ग एते ॥ १४ ॥ श्लेष[य]ति [श्लेषयते] पुटति पुटयते सम्बयत्यपि च । शम्बयते मोदयति । स्पशयत उक्तं लुठत्यपि प्राग्वत् ॥ १५ ॥ ;l{1825} सृज्यतिः सृजतिश्चाङो विशेषे त्यागदानयोः । विसर्जनीये संप्रेषेऽतेर्दाने हिंसनेच्छयोः ॥ १६ ॥ ;p{0077} अनुज्ञास्पृहयोर्गत्यामुपात्स्मृत्यामुप[210b]द्रवे । उत्पाते रुजि च प्रादो भेदे विघ्ने प्रधानके ॥ १७ ॥ उदः सामान्यहान्योः स्यादपात्स्याद्दानवर्जने । ;l{1830} न्यासस्वभावयोर्नेस्तावनुज्ञानेऽन्ववद्वयात् ॥ १८ ॥ अवादाज्ञापने च्युत्यां व्यवाभ्यां प्रतितः पुनः । प्रैषे वृद्धौ निराकृत्यां संहृतौ शोधते पुनः ॥ १९ ॥ सांकीर्ण्ये सहभावे च संपरौ तावुपक्रमे । अधेः परस्थितावेतौ संताने परिकीर्तितौ ॥ २० ॥ ;l{1835} लिपौ तु वेर्द्रवे नाशे प्राच्चेष्टानाशमृत्युषु । अतेः प्राच्च तिरोभूतौ नेराङश्च गृदे मृतौ ॥ २१ ॥ संमाननेऽपि शालीनीकरणे वञ्चने च तौ । आत्वभाजौ णिचि प्रोक्तावात्मनेपदिनावपि ॥ २२ ॥ संनिधाने संनिधत्ते तथा नेदति नेदते । ;l{1840} स्यात्परिष्वजते श्लिष्यत्यालिङ्गति च कीर्तितम् ॥ २१ ॥ आलिङ्गते श्लिष्यतिस्तु वेर्विश्लेष उदीरितः । चुम्बति स्यान्निक्षति च निंस्ते चुम्बनवाचकाः ॥ २२ ॥ सहे रतौ नितश्चुम्बिः स्विद्यति त्वङ्गवाःक्षरे । स्याद्रज्यते रज्यति च रजते रजतीति च ॥ २३ ॥ ;l{1845} रागेऽनु[211a]तस्त्विमौ प्रोक्ता **** वुपात्पुनः । छायाया(?)परिवादे च व्यसने च सुदुर्नये ॥ २४ ॥ व्यपाभ्यां रागविच्छेदेऽथ व्रीडति हृणीयते । हृणीयति च जिह्रेति ह्रीच्छति स्याच्च लज्जते ॥ २५ ॥ त्रपते लजते प्रोक्ता लजतिस्तु परापरः । ;l{1850} निर्वेदे परतस्तुल्या लज्जायामपतस्त्रपिः ॥ शेते स्वपिति निद्रातीलति लेट्यति लोट्यति ॥ २६ ॥ वेद्यति स्यात्संविशति स्वप्ने साम्ये तु शीङुपात् । ;p{0078} व्युपात्क्रमेण सुप्तौ स्याद्विमोहे तु स संपरः ॥ २४ ॥ अनुतापेऽनुबन्धेऽनोर्द्वेषेऽधेस्तूपरिस्थितौ । ;l{1855} सुप्तावाङस्त्व * धाराशययोरतितः पुनः ॥ २५ ॥ प्रकर्षेऽथ च निद्रान्ते जागर्ति प्रतिबुध्यते । बोधते बोधति तथाऽवेक्षणे तु प्रतेर्भवेत् ॥ २६ ॥ जागर्तिः प्रत्यवाभ्यां तु बुधिः स्यादनुबन्धने । व्युद्भ्यां भासि प्रतेः प्राच्च निद्रानाशेऽनुतस्तु सः ॥ २७ ॥ ;l{1860} पत्रवल्लीविनिर्माणेऽथोद्यमेऽडति गूर्वति । गुरते स्याद्गूरयते वृहत्यपि च कीर्तितम् ॥ २८ ॥ अतेर्गुरिः प्रतिज्ञाया[211b]माशृणोति मुणत्यपि । प्रतिजानात्यागुरते प्रतिज्ञायाममी मताः ॥ २९ ॥ ग्रथ्नाति ग्रन्थति ग्रन्थयति * श्रन्थयत्यपि । ;l{1865} श्रन्थति स्याद्गुफति च गुम्फत्यपि दृभत्यपि ॥ ३० ॥ दर्भति स्याद्दर्भयति तथा पटयतीति च । ग्रथने स्याद्वटयति चृतत्यपि समीरितम् ॥ ३१ ॥ निरो ग्रन्थिर्मारणेऽथ स्कन्दत्योखति राखति । लाखति द्राखति तथा शुण्ठयत्यपि शुष्यति ॥ ३२ ॥ ;l{1870} शुण्ठति स्रीव्यति तथा स्यात्पायति च शोषणे । परेः स्कन्दिः सेवने स्यात्परातः स्तेयकर्मणि ॥ ३३ ॥ आङो हयगतौ शोषे तिरस्कारे च संगरे । अभ्यवाभ्यामवाच्चैष रोधने परिकीर्तितः ॥ ३४ ॥ रुन्धे रुणद्ध्यावृणोति पीलत्यपि च वर्जति । ;l{1875} कूलति स्याद्वारयति रोधे वरति तुत्थति ॥ ३५ ॥ अनो रुधिर्भवेद्युक्तावुपाद्दाक्षिण्यरोधयोः । प्रतेश्चौर्येऽवतोऽन्तर्धौ निर्नाशे वेर्विरोधने ॥ कूलिः प्रतेः प्रतीपत्वेऽथानुतः सान्त्वने मतः । ;p{0079} स्यात्कामदाने श्रेष्ठे प्रा[212a]दपात्तु व्यवधौ वृतिः ॥ ३७ ॥ ;l{1880} अलति प्रोथते त्रासयति प्रोथति वारणे । अथासर्वोपयोगे स्याच्छेषयत्यपि शेषति ॥ ३८ ॥ हरते स्याद्धरति च हुण्डते हरणे मताः । हरतिर्गतिताच्छील्ये भवति त्वात्मनेपदी । हृञभ्यवाभ्यां भुक्तौ स्याद्वेः केलिर्भ्रमणार्थकः ॥ ३७ ॥ ;l{1885} अवाच्चौर्योपसंहत्योर्हतिनीत्योर्व्यवात्पुनः । चेष्टा ? विवादयोः संव्यवेभ्योऽसौ सर्वतोभवे ॥ ३८ ॥ आङ आकृष्टिभुक्त्योः स्यादुक्तो व्याङभितः परः । व्याङश्चाथोदाङ एष संनिदर्शनवाचकः ॥ ३९ ॥ प्रत्युदः प्रतिदृष्टान्ते समाङः संग्रहे प्रतः । ;l{1890} वारणेऽध्याङ ऊहेऽपाच्चौर्यापचयकर्मणि ॥ ४० ॥ प्रत्याङः स उपादाने संक्षेपे श्राद्धसे ? परेः । वर्जने प्राद्युद्धहिंसागतौ स्यात्संवृतौ समः ॥ ४१ ॥ संक्षेपे मारणेऽथोपादुपदायामभेर्मुषि । अभियोगे संनहने पराभूतौ निरो बहिः ॥ ४२ ॥ ;l{1895} कृतावनोः सपानत्व उद ऊर्ध्वहृतावृणे । मूलितोन्मूलयोश्चाथ वि[212b]कृतौ दुष्यति स्मृतम् ॥ ४३ ॥ मुष्णाति मूषति चुरण्यति रुण्टति स्या- त्तिक्नोति चोरयति चोरयते च तद्वत् । स्याल्लुण्ठयत्यपि च लुण्ठयते तथात्र ;l{1900} तिक्नोति रुण्डति च रुण्ठति लुण्ठतीति ॥ ४४ ॥ ग्रोचति ग्लोचति तथा स्तिघ्नुते स्तेनयत्यपि । लुण्टति स्याद्रुण्डयति लुण्डत्यपि च चोर्जति ॥ ४५ ॥ ;p{0080} तिग्नोति कोजतीत्युक्ताश्चौर्येऽथोषति कर्जति । शण्डते स्याच्चुक्कयति तुदते चक्कयत्यपि ॥ ४६ ॥ ;l{1905} तुदति व्यथते चैते व्यथनार्था अमी मताः । आङ्परस्तुदतिर्वाद्यनिनादे परिकीर्तितः ॥ ४७ ॥ स्याद्रुजाकरणे तद्वज्ज्वरत्यपि च शूलति । गन्धने वाति नलति द्वयमेतदुदाहृतम् ॥ ४८ ॥ पूयते कुथ्यति प्रोक्तं द्वयं दुर्गन्धवाचकम् । ;l{1910} स्फोटति द्राडते प्रोक्तं ध्राडते शटतीत्यपि ॥ ४८ ॥ पूयते स्याद्दलति च सीदत्यपि च शीयते । फलति स्याद्विशरणे लाभे सीदतिराङ्परः ॥ ४९ ॥ विकासे स्फोटते फुल्लत्यपि स्फुटति पुष्प्यति । [213a]कुचति स्याद्यन्त्रयति तथा यन्त्रयते मतम् ॥ ५० ॥ ;l{1915} चूर्णायते चूर्णयति स्यात्कूणयते तथा च कूणयति । संकोचेऽथोन्मीलति पक्ष्मोन्मेषे तथोन्मिषति ॥ ५१ ॥ मीलति स्याच्छ्मीलति च स्मीलति क्ष्मीलतीत्यपि । ;l{1920} निमेषणे काणयति तथात्र निमिषत्यपि ॥ ५२ ॥ ध्रुवति स्यात्खदति विध्रवत्यपि बदत्यपि । स्थैर्येऽथ स्खलने प्रोक्तं लेखायति च लेख्यति ॥ ५३ ॥ चेष्टते स्याद्गुण्डयते गुण्डयत्यपि गुण्डति । अवकुण्ठयते चावकुण्ठयत्यवकुण्ठति ॥ ५४ ॥ ;l{1925} अवगुण्ठयतिस्तावत्यवहेडति गुध्यति । मगध्यति कृणत्ति स्यात्सूत्रयत्यपि च स्मृतम् ॥ ५५ ॥ ;p{0081} मुरति स्याद्यमयते यमयत्यपि वेष्टने । स्तायतिः स्त्यायतिश्चोभौ समः शब्दसमूहयोः । समूहने संनिवेशे विसरे च प्रकीर्तितौ । ;l{1930} पिण्डति स्यात्पिण्डयति पिण्डते हुण्डतेऽश्नुते ॥ ५६ ॥ गोष्टते स्याल्लोष्टते च श्रोणति श्लोणति स्मृतम् । ओडत्योपयते डेपयते घातयतीति च ॥ ५७ ॥ [213b]वक्षति मक्षति मृक्षति पूलति संहन्ति पूलयत्यपि च । ;l{1935} पूर्णयति पोणयति च स्त्यायति कोलति च मुस्तयति ॥ ५८ ॥ जटति झटति पेटति चौडति संघाते समुद्दिष्टाः । व्याङो व्यग्रे हि कुलिः ;l{1940} समाङ्परः स्यात्स सांकीर्ण्ये ॥ ५९ ॥ कलयति कलते गणयति संख्यानेऽथोद औत्कण्ठ्ये । कलिरुक्तोऽथ णिजन्तः क्षिप्युक्तोऽवाद्गणिः पराभूतौ ॥ ६० ॥ ;l{1945} शुल्बयति माति मिमीते शुल्बयते मायते किं च । माहति शूर्पयते स्या- न्निष्कयते माहते माने ॥ ६१ ॥ उन्माने तोलयते ;l{1950} तोलयति स्यान्नितः पुनर्मातिः । परिवर्ते प्रत्युपतः सादृश्ये प्रादृते ज्ञाने ॥ ६२ ॥ ;p{0082} उद ऊर्ध्वेऽपि च माने ऽनोरुत्प्रेक्षे निरः कृतौ युक्तौ । ;l{1955} वञ्चयते गर्धयते । प्रलभत एवं प्रतारयति ॥ ६३ ॥ वेविक्ते वेवेक्ति व्युष्यति वण्टति च वण्डते तद्वत् । वटयति विभजति वण्डति ;l{1960} वण्टयते मण्डते किं च ॥ ६४ ॥ वण्टयति वण्डयति च स्मृता विभागे वण्डयते । युङ्गति जुङ्गति वृक्ते वृणक्ति वर्जति च व[214a]र्जयति ॥ ६५ ॥ ;l{1965} स्युर्वर्जनेऽपात्तु वृजिर्दानमोक्षक्रियाक्षये । साफल्य आङस्त्वानत्यां परेर्मृत्यां प्रकीर्तितः ॥ ६६ ॥ पिपर्ति पूर्वति प्राति पर्वत्यपि च मर्वति । प्रुष्णाति च पृणाति स्यादुभत्युम्भति पूरति ॥ ६७ ॥ परति स्यात्पारयति भवेत्पारयतेऽपि च । ;l{1970} स्याच्च तूणयते वर्धयति प्लुष्णाति पूरणे ॥ ६८ ॥ वृणोति वृणुते वृश्यत्यपि व्रीणाति वृक्षते । व्रीयते वृत्यते तद्वद्वृणीते च वृणाति च ॥ ६९ ॥ व्लिनात्यपि स्याद्वरणेऽथैकचारे हि वण्ठते । आमन्त्रणे कुणयति गुणयत्यपि संमतम् ॥ ७० ॥ ;l{1975} तथा कूणयति ग्रामयति संकेतयत्यपि । पिङ्क्तेऽवयौति सटति स्याद्बिन्दति च पिंशति । स्याद्भिन्दत्यप्यवयवे संस्करोति तु चोच्यति । उपस्करोति सचते समवैति सचत्यपि ॥ ७२ ॥ ;p{0083} समवाये च सपति स्यात्सामयति सान्त्वने । ;l{1980} चपति स्यात्सान्त्वयते सान्त्वयत्यपि कीर्तितम् ॥ ७३ ॥ जलति क्ष्णौति [च]शिनुते शिनोति शीशांसते [214b] च तेजयति । शीशांसत्यपि तैक्ष्ण्ये तङ्वा क्ष्णौतेः समः कथितः ॥ ७४ ॥ ;l{1985} चिनोति चिनुते चापयति चित्यां चयत्यपि । समश्चिनोति-चियती संघनिर्माणयोर्मतौ ॥ संघे नेरुद उद्धृत्यामाङ आच्छाद-संचये । सामन्त्ये परितो वेस्तु गवेषेऽवात्तु तौ ग्रहे ॥ ७६ ॥ अपाद्ध्रासे व्यये शुद्धौ परिच्छेदे निरो मतौ । ;l{1990} उपात्समृद्धौ लेपे च समाधाने प्रतस्तु तौ ॥ ७७ ॥ समृद्धौ पवने तु स्यात्पवते च पुनात्यपि । पुनीते स्याच्च पल्पूलयते पल्पूलयत्यपि ॥ ७८ ॥ खलति स्यात्संचयेऽथ शैथिल्ये कत्रयत्यपि । स्याच्छ्रथते कर्तयति तत्र चिल्लति च स्मृतम् । ;l{1995} राभस्ये रभते प्रोक्तं रभिः क्रुध्यादरे समः । आङस्त्वरोपक्रमयोरुद्यमे वध-दर्पयोः ॥ ७९ ॥ प्रत्याङः पुनरावृत्तौ परेरालिङ्गने मतः । आङः समः पदद्वंद्वे रभिः कैश्चित्समीरितः ॥ ८० ॥ दहत्योषत्योलति च श्रेषति श्लेषतीत्यपि । ;l{2000} प्रोषति प्लोषति व्युष्यत्यपि प्लुष्यति कुण्डते ॥ ८१ ॥ शट[215a]ति स्यात्तापयति तपत्यपि च चूर्यते । ;p{0084} कूटयत्यपि दाहेऽथ संदाहे स्याद्दहिर्निरः ॥ ८३ ॥ वेश्चातुर्ये[ऽथो]पशमे भवेच्छाम्यति दाम्यति । सुनोति मद्यसंधाने सुनुते च प्रकीर्तितम् ॥ ८३ ॥ ;l{2005} अभेः स्नाने सुनोतिः स्यात्स्वार्थेऽथोदः स उद्धवे । कोपेच्छाप्रसवोत्सेके प्रारम्भे प्रपरो मतः ॥ ८४ ॥ क्षीबते कण्डते कण्डत्यपि स्यात्कडतीति च । मठत्यपि मदे म्रेटत्युन्मादे म्रेडतीति च ॥ ८५ ॥ स्याद्गर्भग्रहणे वेति प्राणिगर्भमुचि त्विह । ;l{2010} स्यात्सूयते च सूतेऽथ श्वसित्यनिति जीवति ॥ ८६ ॥ प्राणित्यूर्जयति स्याच्च धुक्षते धिक्षते तथा । बलति स्याद्बलयति तथा पियति लाट्यति ॥ ८७ ॥ जीवनेऽथो कृच्छ्रजीवे क्षञ्जति क्षञ्जयत्यपि । तथा क्षञ्जयते तङ्कत्यपि स्यात्कठतीति च ॥ ८८ ॥ ;l{2015} उदः श्वसिः समुच्छ्वासे निपरस्तद्विपर्यये । आङो विस्रम्भणे वेस्तु विस्रम्भ-निभृतत्वयोः ॥ ८९ ॥ आङस्तङ्किर्व्यथाताप-शङ्कासु मुर[ज]ध्वनौ । जन्म[215b]नि स्याद्रोहतीति प्रादुर्भावेऽपि रोहति । खच्ञाति जायते हिठ्णात्यपि मूलयते भवेत् ॥ ९० ॥ ;l{2020} मूलयत्यवतस्तु स्यादधोयानार्थको रुहिः । आङ आक्रम उच्छ्रायेऽध्याङोऽभ्यधिकतार्थकः ॥ ९१ ॥ गर्भग्रह-प्रसूत्योः प्राद्वेर्विकार-विजन्मनोः । वन्दनेऽवादथोत्पत्ति-प्रसूत्योरभितो जनिः ॥ ९२ ॥ संस्कारे स्याद्वाजयति तदभावे तु कथ्यते । ;l{2025} श्वण्ठयते श्वण्ठयति श्वठयत्यपि कीर्तितः ॥ ९३ ॥ ;p{0085} तथा शठयते श्वाठयते श्वठयतेऽपि च । शठयत्यपि चाथ स्यादङ्कते चाङ्कयत्यपि ॥ ९४ ॥ लाञ्छति स्याल्लक्षयति तथाङ्गयति लच्छति । तथा लक्षयतेऽमी स्युर्लक्षते चयतेऽपि च ॥ ९५ ॥ ;l{2030} वितो लक्षयतिर्हेतुशून्यास्यायां प्रकीर्तितः । विक्रमे स्याच्छूरयते तथा वीरयते मतम् ॥ ९६ ॥ असिना हन्त्येतदर्थे भवेदसयतीति च । इषुध्यतीषुधरणे मेधायत्याशु च ग्रहे ॥ ९७ ॥ मेधायां मेधति प्रोक्तं तथा मेदति मेदते । ;l{2035} ऊहते स्यात्स्यामयते तथा जोषयतीति च ॥ ९८ ॥ जोष[216a]ति स्युर्वितर्केऽमी निरस्तृहिर्बहिष्कृतौ । वितर्के निश्चये वेस्तु मतो रचन-संघयोः ॥ ९९ ॥ प्रतेर्विघ्ने समो जन्म-संहत्योः संग्रहेऽपि सः । अपाद्व्यावृत्तावयं स्यादूहतिस्तूपसर्गतः ॥ ५०० ॥ ;l{2040} अकर्मा वा सकर्मा वा विकल्पेनात्मनेपदी । विचिकित्सति संशेते संदिग्धे चारयत्यपि ॥ १ ॥ संदेहे स्युरथान्वेषे मार्गयत्यपि मार्गति । मृग्यति स्यान्मृगयते गवेषयति गेषते ॥ २ ॥ तथैव ग्लेषतेऽन्विष्यत्यन्वेषयति च स्मृतः । ;l{2045} सवति स्यात्सौति तथाभ्यनुज्ञातार्थ ईरितम् ॥ ३ ॥ विमृशति तु विचारयति स्यादिह मीमांसते च विन्ते वा । दीदांसते च दीदां- सति च भवेदार्जवे तद्वत् । ;p{0086} ;l{2050} जानाति वेत्ति मनुतेऽवति मन्यते च स्याद्बुध्यते ज्ञपयतीह च वेणते च । बोधत्यवैति कलयत्यवगच्छति स्या- ज्ज्ञाने तथा भवति वेद च वेणतीति ॥ ३ ॥ ज्ञा तूपादादिबोधेऽनुसंधाने प्रत्यभेः परः । ;l{2055} परेः परिचये स्फूर्तौ त्वङ्गीकारे च सं[216b]प्रतेः ॥ ४ ॥ अपह्नवेऽपादवतोऽवमाने चेतने समः । हस्तादिनार्थव्यक्तौ च स्मृति-दर्शन-नामसु ॥ ५ ॥ अभेः स्मृतौ वेस्तु शास्त्रादिमतौ परिकीर्तितः । अपाज्ज्ञा निह्नुतौ तङ्वानकर्मा परगे फले ॥ ६ ॥ ;l{2060} संप्रतिभ्यामनौत्कण्ठ्ये केवलः कर्तृगे फले । अनुं विना सनन्तो ज्ञा भवति ह्यात्मनेपदी । स्मृ-दृशौ च सनि प्रत्याङ्‌भ्यां विनाथ तथा श्रुतिः । समो वेत्तिस्तङ्यथास्य झे स्यात्संविद्रते लटि ॥ ७ ॥ तथा संविदते संतस्त्विच्छायां मन्यतिर्मतः । ;l{2065} अनुज्ञानेऽनुतोऽभेस्तु गर्वप्रणयहिंसने ॥ ८ ॥ ज्ञानेच्छयोर्गारयते तूक्तं विज्ञानवाचकम् । चेतति स्याद्वेदयते तथा चेतयते मतम् ॥ ९ ॥ स्याद्बोधते वेदयते वेदयत्यपि बोधति । तथा चेतयते चेतयति स्युर्बोधनार्थकाः ॥ १० ॥ ;l{2070} पश्यति निशामयति निशामयते च चायति च । रूपयति लक्षयते लक्षयतीक्षते निभालयति संवनति ॥ ११ ॥ स्यादीषते[217a] [च] बुन्द- ;l{2075} त्यपि दंसयते च दासयते । ;p{0087} बष्कयते बष्कयति च स्मृतं तथा धेकयत्यत्र । लोकते लोचते निर्वर्णयत्यपि च बुन्दते । चायते च प्रेक्षणे स्युर्नेर्दृशिः स्यादुदाहृतौ ॥ १३ ॥ ;l{2080} उदो विमर्शने कर्महीनस्त्वेष समस्तङि । ईक्षिः कालहृतावुत्प्राद्विमर्शे स परेर्विदि । उपादुदासीनभावेऽपाल्लिप्सुत्वे निरः परः । प्रयत्ने सादरालोके प्रात्तूत्प्रेक्षण-बोधयोः । अवात्प्रतिविधानेऽनोरालोचे संवियुक्पुनः । ;l{2085} गवेषे व्रजतिर्गत्यामुत्परः परिकीर्तितः । अथ चित्रयतीति स्यादद्भुतस्य प्रदर्शने । स्याद्वेणते वेणति च तथा वेनति वेनते ॥ १४ ॥ स्मृतौ चिन्तयते चिन्तयत्यध्येति स्मरत्यपि । ध्यायतिर्वेः क्षयेऽभेस्तु वाञ्छायां दुःस्मृतावपात् ॥ १५ ॥ ;l{2090} निरो दृष्टौ सदा स्मृत्यामनोः प्रात्तीव्रचिन्तने । सोत्कण्ठस्मरणे तु स्यात्स्मरयत्यपि कण्ठते ॥ १६ ॥ मण्ठते स्यात्कण्ठयति तथा कण्ठति च स्मृतम् । कण्ठिः कण्ठयतिश्चोद औत्कण्ठ्ये[217b]परिकीर्तितौ ॥ १७ ॥ ध्वनति रणति रौति क्षौति कौत्यम्भते स्या- ;l{2095} दणति वणति मञ्जत्यम्बते रम्बते च । मणति कणति पिञ्जत्यञ्जति क्नूयते च स्तनति वनति लञ्जत्यं[ह]यत्यंहति स्यात् ॥ १८ ॥ गजति गर्जति गञ्जति गृञ्जति क्वणति कायति गायति नासते । ;l{2100} स्वरति मोजति मुञ्जति रासते रसति तोसति रङ्घति लङ्घति ॥ १९ ॥ द्रेकते ध्रेकते रम्भते रेभते ;p{0088} लम्भते लम्बते रेभति स्त्यायति । रंहयत्यत्र रंहत्यपि [त्रंसति] ;l{2105} त्रंसयत्यत्र [ता]दृग्भवेद्भञ्जतिः ॥ २० ॥ कवते खवते गवते घवते ङवते कुरति द्रुणति व्रणति । धणति ध्रणति भ्रणति स्यमति ह्लसति ह्रसति ध्वनयत्यपि च ॥ २१ ॥ ;l{2110} पेटति वेटत्यमति क्नूनाति स्याद् गृणाति गायति । मार्जयति च मर्चयति च पाटयति स्याच्च पोटयति ॥ २३ ॥ तुञ्जति तुञ्जयति स्या- ;l{2115} न्मिञ्जयति तद्वच्च लोटयति । मिञ्जति लुञ्जति लंषति लुञ्जयति स्याच्च लञ्जयति ॥ ३३ ॥ ह्वयति मिमीते रसति च म[218a]शति मिशत्यत्र भञ्जयति । ;l{2120} पिंसति लंषयति स्या- त्पिंसयति स्याच्च कुंसयति ॥ २४ ॥ कुंसति दंशयति स्या- द्दंशति दंसत्यपीह दंसयति । कुंशति कुंशयति स्या- ;l{2125} द्घाटयति स्याद्रवीति घण्टयति ॥ २५ ॥ बृंहति बृंहयति च बल्हयति वणति च चीवयति । गोपयति च पोथयति ;p{0089} [विच्छयते स्या]त्तथात्र विच्छयति ॥ २६ ॥ ;l{2130} लोचयति कोपयति च लोकयति स्यात्तथेह तर्कयति । वर्तयति वर्धयति च रोटयति स्याच्च घोटयति ॥ २७ ॥ नाटयति शीकयति च ;l{2135} भृंशयति स्याच्च भृंशति स्तनति । जोव(?)यति रङ्घयति च स्या- ल्लङ्घयति तथात्र मंहयति ॥ २८ ॥ मंहति लण्डयति स्या- त्ताडयति स्याच्च नालयति । ;l{2140} गुजति च कुणति च कलते स्वनति त्रंसत्यमी शब्दे ॥ २९ ॥ प्रगुण्ये क्रमनिम्ने च प्रतो वणिरुदाहृतः । वेर्लम्बिः कालयापे स्यादालम्बे त्वाङवान्मतः ॥ ३० ॥ स्पर्धायां स्यात्प्रतेर्गर्जिरुद्गै * सेवने मतः । ;l{2145} वेर्निन्दायामवाद्दृष्टो निर्वा[218b]दे वापि गर्हणे ॥ ३१ ॥ स्वरतिः संपरस्तङ्वान्पद्यकर्मा भवेदयम् । प्रत्यनुभ्यां गृणातिः स्याच्छब्दे प्रोत्साहनेऽपि च ॥ ३२ ॥ अभेः स्तुतिर्निगरणे स्तुवतः श्रवणेऽपि च । उदः परो निगदने गृणातिः परिकीर्तितः । ;l{2150} निरः स्वनिः स्यात्पीडायां व्यवाभ्यां स्वनतिर्भुजि ॥ ३३ ॥ स्तनयति गदयति दैवे शब्दे संशब्दने तु कीर्तयति । मानसशब्दे जपति स्याद्भेदेऽसावुपात्पश्चात् ॥ ३३ ॥ ;p{0090} ;l{2155} कोचति तारे शब्दे- ऽथोत्पूर्वोऽसौ रहोदाने । वेगेऽथ गोपनोक्तौ मन्त्रयते शाब्दिकैरुक्तम् ॥ ३४ ॥ गद्गद्यति वाक्स्खलने ;l{2160} तूष्णीभावे तु कल्लते कथितम् । म्लेच्छत्यसाधुशब्दे- ऽथाक्रन्दयतीह घोषयति ॥ ३५ ॥ सांतत्येन च शब्दे कुन्द्रति तु स्याच्च कुन्द्रयति । ;l{2165} कुन्द्रयतेऽनृतशब्दे संदेशोक्तौ तु वादयति ॥ ३६ ॥ रवीति रवते रौति तिरश्चां शब्दिते मताः । करिशब्दे बृंहति [स्यात् ] ह्रेषते हेषतेऽश्वजे ॥ ३७ ॥ भषति स्या[219a]द्बुक्कयति बुक्कति स्वनिते शुनः । ;l{2170} रिणाति रेषते च स्याद्वृकशब्देऽथ पायुजे ॥ ३८ ॥ पर्दते शर्धते शब्दे कर्दतीति तु कुक्षिजे । कासते हिक्कते हिक्कत्यपि कासादिशब्दिते ॥ ३९ ॥ द्राङ्क्षति ध्राङ्क्षति ध्वाङ्क्षतीमे शब्देऽतिदारुणे । अव्यक्तशब्दे नदति प्रनर्दति च गर्दति ॥ ४० ॥ ;l{2175} कूजति स्याद्गुञ्जति च गुवते क्षीजतीत्यपि । शिङ्क्ते पिङ्क्ते मार्जयति म्लेच्छयत्यपि कीर्तिताः । वज्रनिष्पेषशब्दे तु स्फूर्जतीति प्रकीर्तितम् । अथ देवयते प्रोक्तं परिकूजनवाचकम् ॥ ४१ ॥ गदति वदति वक्ति ख्याति चष्टे ब्रवीति ;p{0091} ;l{2180} श्वठयति शचते च ह्लापयत्याह तद्वत् । रपति लपति च स्याद्घोषते भाषतेऽस्मि- ञ्छठयति वचति स्याद्वाचयत्येवमाहुः ॥ ४२ ॥ रटति रठति पठति भणति कथयति जल्पति च वेदयति । ;l{2185} क्लापयति क्लपते च । प्रव्यक्तायां स्मृता वाचि ॥ ४२ ॥ अध्यापने नेर्गदिः स्याद[219b]थावाद्वदतिर्मतः । आज्ञप्तिगर्हा विस्रम्भे निरः प्राकट्य-गर्हयोः ॥ ४४ ॥ स्तुत्यभावे परेः सान्त्वगूढोक्त्योरपपूर्वकः । ;l{2190} अपादुत्सर्गबाधे स्याद्दूषणेऽथाभितो नतौ ॥ ४५ ॥ वेः स्याद्विरुद्धवचने वैमत्येऽनुकृतौ समः । अनोः साम्येऽथ विप्राभ्यां विसंभ्यां च विसंमितः ॥ ४६ ॥ वचने च वियोगे च तथा पूर्वविपर्यये । संप्राभ्यां सहवादेऽथ तङ्वान्दीप्त्युपसान्त्वयोः ॥ ४७ ॥ ;l{2195} ज्ञाने यत्ने च वैमत्ये स्यादुपच्छन्दनेऽपि च । सदोच्चारे मनुष्याणामनोस्तादृगकर्मकः ॥ ४८ ॥ विरुद्धोक्तौ व्यक्तवाचां वदतिर्वात्मनेपदी । प्राद्वचिः स्यात्प्रकथने निरो निर्वचने मतः ॥ ४९ ॥ ख्याक्षोपलम्भेऽपाङः स्यात्समश्चर्चाविधौ युधि । ;l{2200} ****** गणनेऽभ्याङः स्यान्निराकृतौ । आङः संकेतने प्रात्तु लपिर्दुष्टगिरि स्मृतः ॥ ५१ ॥ अपात्प्रेमणि निह्नुत्यामाङः संभाषणे मतः । द्वेषोक्तौ विप्रतो व्यर्थभाषणे वेस्तु शोचने ॥ ५२ ॥ आङो घुषिः सदा[220a]क्रन्दे क्रन्दनेऽपात्तु भाषतिः । ;l{2205} दोषे वेः स विरुद्धोक्तौ विकल्प उपसंयुतः ॥ ५३ ॥ सान्त्वनोपच्छन्दनयोराङः संभाषणे परेः । निन्दोपालम्भनियमशास्त्रसंकेतनेषु सः ॥ ५४ ॥ ;p{0092} परेः पठिः क्रमेऽपात्तु दुष्टाध्ययनकर्मणि । समः कथिर्मिथोवाचि प्रात्तु प्रख्यातिभाषणे ॥ ५५ ॥ ;l{2210} अधीते स्याच्चर्चयति पठत्यध्ययनार्थकाः । मनति स्याच्छीलयति चाभ्यस्यत्यभ्यसत्यपि ॥ ५५ ॥ क्रन्दते स्यादाह्वयति कन्दति क्लन्दतीत्यपि ॥ ५६ ॥ दायति क्रोशति तथा प्रोक्ता आह्वानवाचिनः । अनोः क्रुशिः कृपायां स्यादाङः शापे पदद्वये । ;l{2215} वेः पारुष्ये जुगुप्सायां तूपाङ्भ्यां स प्रकीर्तितः । शप्यते शपते च स्यादाक्रोशे शपतीति च ॥ ५७ ॥ स्याद्बेटति तथाक्रोशे श[पि]र्मिथ्याभिशंसने । अभेरथ कर्तृगोऽसावुपालम्भार्थकस्तङि । जिज्ञासायां शिक्षते स्याज्ज्ञीप्सायां पृच्छति स्मृतम् । ;l{2220} समः पृच्छिर्विमर्शे स्यात्परिचित्यामथाङ्प[220b]रः ॥ ५९ ॥ न्यासे प्रश्ने प्रीती(?) स चेत्समस्तङ्वानकर्मकः । तद्वदाङः सकर्मा स्यादतेः प्रश्नाग्रहे मतः ॥ ६० ॥ शृणोत्याकर्णयति च श्रवणेऽवति च स्मृतम् । समः श्रुतिः प्रतिज्ञानेऽथाङ उक्तेरधीनके ॥ ६१ ॥ ;l{2225} क्लेशे च वेस्तु संतोषे ज्ञान-ख्यात्योरपि स्मृतः । कगति स्याद्वनति च क्रियासामान्यवाचकौ ॥ ६२ ॥ विशेषणे शिनष्टि स्यादञ्चयत्यपि चाञ्चति । वितः शिषिः स्यादुत्कर्षे परेर्णिच्यवशेषणे ॥ ६३ ॥ उदस्त्यागेऽथ सुखने भन्दते मन्दतेऽपि च । ;l{2230} छन्दति ह्लादते सात[य]ति च वातयत्यपि ॥ ६४ ॥ मृद्नाति स्यान्मृडयति मृडत्यपि च सुख्यति । पृडति स्यात्सुखयति तद्वदेव समीरितम् ॥ ६५ ॥ ;p{0093} सेधति सिध्यति राध्यति फलति च राध्नोति साध्नोति । ;l{2235} सिद्धावेते गदिता गत्यां साधिर्णिजन्तः स्यात् ॥ ६६ ॥ अलंकृतौ साधयतिः प्रपूर्वो विपूर्वकोऽसौ परिवृत्तिवाची । प्रतेः फलिः स्यात्परिणामवाची ;l{2240} वितः परोऽसावपि सिद्धिहानौ ॥ ६७ ॥ इ[221a]न्दति परमैश्वर्ये ऽथेष्टे वा तप्यते सुरति । सौति सवत्यपि चेयं तप्यत इह पत्यते च स्यात् ॥ ६५ ॥ ;c{॥ इति धातुवर्गः ॥} ;l{2245} ;k{लिङ्गसङ्ग्रहः} ;v{पुंलिङ्गाधिकारः} लक्षणोक्तमपि लिङ्गविक्लवं जातु याति न पदं हि साधुताम् । प्राक् स्फुटीकृतमपि प्रचक्ष्महे लिङ्गसंग्रहविधिं समासतः ॥ १ ॥ यस्य लिङ्गमिह नोदितं पुरा ;l{2250} तस्य तद्धित-समास-कृन्मुखैः । प्रत्ययैः प्रकृतितोऽपि कोविदो वक्ष्यमाणविधिना विनिर्दिशेत् ॥ २ ॥ बाधते प्रतिपदोक्तविधानं लिङ्गसंग्रहविधिं हि समस्तम् । ;l{2255} पुंसि नाम सभिदां निधि-नाक- भूभृदम्बुधि-मुखाग्नि-शराणाम् ॥ ३ ॥ ;p{0094} आत्म-मेघ-तरि-कूप-रिपूणां निभ( ? )गाङ्गि-किरणासि-कफानाम् । वृक्ष-तण्डुल-समास-कन्दुक- ;l{2260} प्रोन्दुकाशनि-कपर्द-विषाणाम् ॥ ४ ॥ इन्द्रियार्थ-रथ-वायु-रदानां कण्ठ-देश-रस-गण्ड-नदानाम् । ओष्ठ-कोष्ठमिति-धान्य-कचानां पाणि-पाणिज-कुठार-कुचानाम् ॥ ५ ॥ ;l{2265} गुल्फ-गुच्छ-समय-प्लव-वर्ष- मन्थ-कर्दम-मृदङ्गमुखा[221b]नाम् । वंश-वेश-मुकुर-क्षितिनिम्ब- दीप-बोल-चरणप्रमुखानाम् ॥ ६ ॥ कान्तषान्तणभमान्त्यगताराः ;l{2270} ******* स्युरुदन्तः ॥ ७ ॥ नाम्न्यकर्तरि च भाववाचिनो घञ्पनङ्ननथुचोऽजपौ च णः । ल्युश्च कर्तरि कखौ च भावके किश्च घोर्भवति भाव इमंश्च ॥ ८ ॥ ;l{2275} किं च गोत्रचरणार्थतद्धिता श्रियावपि च धातुरूपणे । द्वंद्वकेऽश्ववडवाः समाहृते रन्यतो द्रविणतोऽन्यतो वसुः ॥ ९ ॥ यानवाचकपरो युगस्तथा ;l{2280} केवलोऽपि च स यूपवाचकः । वाद्यमुद्गरविवर्जितो घने व्रीहिनामनि तथैव हायनम् ॥ १० ॥ केदारे हि बर्हिरुक्तो हुताशे ;p{0095} बर्होऽपर्णपिच्छयोः कोणके निः । ;l{2285} मित्रः सूर्ये रत्नभेदे च नीलो मस्तुः सक्तुर्निर्मलग्राब्णि चाच्छः ॥ ११ ॥ कान्तः सूर्येन्द्वाह्वयेभ्योऽयसोऽपि प्रायो भूम्नि प्राणदारासवोऽपि । वैकल्पेन स्याच्च रज्जुः समासे ;l{2290} काव्ये शुक्रो मद्यपात्रे च कोषः ॥ १२ ॥ कुरङ्गकोकौ वटकोऽपि भावे वाकोत्तरो रल्ल[222a]क-नक्तकौ च । न्युङ्खोऽपि साम्नः प्रणवेषु शङ्खो- ऽकम्बौ मृगापाङ्ग-सवङ्ग-मङ्गाः ॥ ;l{2295} पूगः परागोऽपि समस्तरङ्गो वर्गोऽर्घ ओघः कथितोऽत्र मञ्चः ॥ १२ ॥ पश्चाद्भागे पुच्छः पिच्छः पुच्छे तथा गुच्छः । वाजो मुञ्जः पुञ्जो ;l{2300} विषमकसंख्यार्थकश्चौजः ॥ १३ ॥ अवटो विटोऽपि * पटो ललाटभूषार्थलोध्रान्यः । कोष्ठो हठः प्रकोष्ठो- ऽङ्गुष्ठो गण्डः प्रगण्डश्च ॥ १४ ॥ ;l{2305} करण्ड-कूष्माण्ड-वरण्ड-रुण्ड- भारुण्ड-गुण्डा लगुडः शिखण्डः । गुडः पिचण्डोऽथ जपाप्रसून- निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥ वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युः ;p{0096} ;l{2310} कर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः । व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या- दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥ जनपद-कुन्द-कपर्दा बुद्बुदयुक्ता अगाध-गन्धौ च । ;l{2315} स्कन्धो मन्थाः पन्था देवन उक्तश्च तत्तु[222b]ल्यः ॥ १७ ॥ फेनो जनोऽप्यभिजनो ध्वनिरर्दनिश्च स्थेमोष्म-पाप्म-परिघातन-वह्नयोऽश्मा । आत्माग्निरह्नचरमास्त्वपरादहीनाः ;l{2320} प्लीहा च यक्ष्मसहितोऽपि च देवनोऽक्षैः ॥ १८ ॥ पूपापूपौ स्तूप-कलापौ रेफः शेफ-स्तम्ब-नितम्बाः । अम्बः शम्बो नाभिः क्षत्रे दुन्दुभिरुक्तो भेरीवाची ॥ १९ ॥ कृमिर्निकाय्यः कणपश्च तिष्यः स्यात्पाञ्चजन्यः सिचयः कटप्रूः । ;l{2325} गिरिर्गुडेरः क्षुरकेदरारा अमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥ रात्राश्च प्राक् संख्याहीनाः कल्लोल्लोलौ तल्लः खल्लः । वालः पुच्छे गोलः पालः ;l{2330} कालो वृन्दे वातुलश्च ॥ २१ ॥ रालिरञ्जलिः कला जगलः स्यात्पुद्गलो बहुल-तन्दुल-तालाः । देवलो जटुलः पोटगलश्च तादृशाः कमल-कामल-वल्लाः ॥ २२ ॥ ;l{2335} आवेल उल्लोल-गलौ निचोलः ;p{0097} कण्डोल-कुद्दाल-गडोल-गल्लाः । स्यात्पत्रपालोऽपि च हेमलोऽपि कपोल-वेतालपुलानलोऽपि ॥ अवयव-स्तुव-रौरव-माध[223a]वाः ;l{2340} पणव-याव-दवाः शिक्-दीदिवी । ग्रीव-पवी अविराखुजकम्बले स्थवि-कृवी स्व-निघृष्व-वि-जीर्वयः ॥ २४ ॥ आदीनवो हाव इहाथ राशि- वराशि-वंश-स्पश-कोटिशांशाः । ;l{2345} कुशः पुरोडाश-विशौ शिशुः स्या- दुदो दिशिवत्प्रदिशमादिशेच्च ॥ २५ ॥ ऋषिः करीषज्वलने तु कर्षू- र्वृषश्च कुल्माष-तुषौ तरीषः । निर्यूह-हाहा-कलहाश्च हूहूः ;l{2350} स्यान्नग्नहूर्निष्कुह इत्यहान्ताः ॥ २६ ॥ ;c{॥ इति पुंलिङ्गाधिकारः ॥} ;v{स्त्रीलिङ्गाधिकारः} स्त्रियां सयोनिदेहिनां विना विशेषमाह्वय श्चमू शिरोधरा तडित्क्षपालतानिशादिशाः ॥ २७ ॥ ;l{2355} शस्त्री-जिह्वावाचिवम्री-नदीनां ज्योत्स्ना-लज्जा-भूमि-वीणा-मतीनाम् । तन्द्रा-चीरी-गर्गरी-भ्रू-सुरा-गी- र्नासा-लक्ष्मी-रोचना-कृष्णलानाम् ॥ २८ ॥ अवटु-तिथि-शिलानामुष्णिकाहिङ्गुपत्री- ;l{2360} शिमिपृथुकटभीनामङ्गुलीनाकुलीनाम् । स्फिगतसिजटिलालू-ग्ना-हरिद्राबलाका- मुखजलहरिताली-कङ्गु-गोधा-विधाना[223b]म् ॥ २९ ॥ इदन्तं प्राणिनामङ्गमेकाजीदूद्विरामकम् । ;p{0098} तदनेकाजप्युणादावनिमिन्यन्तमत्रमः(?) ॥ ३० ॥ ;l{2365} स्त्रियां च भावादिषु णज्ण्वुचौ क्यप्- क्तिन्ण्वुल्युजिञ्शाङ्नयः क्वचिक्विप् । ह्रस्वाल्पकः कन्नथ संहतौ तु कट्यच्‌त्रयेनो व्रजभावयोस्तल् ॥ ३१ ॥ अलंकृतौ कर्णललाटतः कन् ;l{2370} वीप्सासु वुन्वैरविवाहयोश्च । गोत्रादितो द्वंद्वपरश्च वुञ् [स्यात् ] क्रीडाप्रहृत्योर्ण च ञो घञन्तात् ॥ ३२ ॥ पात्रादिवर्जो द्विगुरप्यदन्तः समाहृतावल्पविवक्षयापि । ;l{2375} संख्यार्थसंख्येयगताश्च विंश- त्याद्याः समाहारमृते शतान्ताः ॥ ३३ ॥ स्रुग्गीतिवल्लीभिदि बन्धुता स्या- द्गजस्य बन्धे घटिकासु वारिः । क्ष्वेडा तु शल्यध्वनिवाद्यभेदे ;l{2380} स्याद्दुन्दुभिः पाशकबिन्दुवाची ॥ ३४ ॥ गृह्या तु शाखानगरेऽथ चुल्ल्यां स्यादन्तिका यब्धिहतौ च कीला । रज्जौ च रश्मिः स्थिरमस्थिरं वा ङ्याबूङ्विरामं कि*शिंशपाद्याः ॥ ३५ ॥ ;l{2385} [224a]छन्दोभिधाभेदमृतेऽनणन्ता टीका पताका झिरुका च नीका । संवर्तिका कञ्चुलिका त्रिकोल्का ;p{0099} पर्यस्तिका स्यात्क्षिपकालका च ॥ ३६ ॥ सर्जिका बृहतिकेन्धकेष्टका ;l{2390} चाष्टका च कणिका पिपीलिका । पादुका च कलिका च मानिका कालिका च शिविका गवेधुका ॥ ३७ ॥ पञ्जिका पण्डिका सिध्रका सारिका प्राचिका वालुका केणिका मक्षिका । ;l{2395} ऊर्मिका दूषिकाप्येषिका फक्किका कूर्चिका कोशिका दीर्घिका चोष्ट्रिका ॥ ३८ ॥ शेफालिका पूपलिका विपादिका रुका च केका मिहिका विहङ्गिका । घूका निदाका ध्रुवका कनीनिका ;l{2400} यूका शलाकापि जलायुकाबिका ॥ ३९ ॥ रुहिरुहिकाहोपुरुषिका- हमहमिका कृत्तिकाः शूकाः । रमिका लङ्का जतुका स्याद्धस्ताहस्तिकाढक्यौ ॥ ४० ॥ ;l{2405} शाखा शिखोखा परिखा च रिङ्खा प्रेङ्खा च लेखा *** किखिश्च । स्थगी च भ[224b]ङ्गी कथिता सुरङ्गा भङ्गाथ जङ्घा च मघा तु भूम्नि ॥ ४२ ॥ चञ्चा चर्चा सूचि-साच्यौ रुचिश्च ;l{2410} वीचिश्चञ्चुस्त्वगृचौ स्रुग्वदर्वाक् । कच्छा पिच्छा किं च कच्छू[श्च] राजि- र्मर्जूः खर्जूर्जूश्च सर्जूः प्रजोर्जौ ॥ ४३ ॥ गञ्जा सुरासद्मनि पुञ्जिपिञ्जा ;p{0100} गुञ्जाण्डजा स्फिग्विसमासरज्जुः । ;l{2415} सिञ्जाप्यजाजी कथिताथ झञ्झा याच्ञाथ सा(शा?)टी भ्रुकुटी च भाटिः ॥ ४४ ॥ घण्टा घोण्टा कुक्कुटिः शाटि-पट्यौ राटिश्चाटिर्गृष्टि-विष्टी वटिश्च । त्रोटिः कोटी कर्कटी पर्कटी च ;l{2420} पोटा चोटी वर्चटी मर्कटी च ॥ ४५ ॥ जटा कुरण्टी च सटा वधूटी स्याद्ग्रामटी खट्यपटी वटी च । नटिश्छटा स्याच्छकटिर्घटा च माटिर्भुषण्ठिश्च मतात्र शुण्ठी ॥ ४६ ॥ ;l{2425} काष्ठा विष्ठा पाठा मञ्जिष्ठा चुण्ठिवद्गोष्ठी । शुण्डी शुण्डा जडापि स्याच्चण्डा वेडा तथा पण्डा ॥ ४७ ॥ मत्स्यण्डी तित्तिडी ताडिः काण्डी रुण्डा वितण्डया । वारुण्डीडा च भेरुण्डा राढा रीढावलीढया ॥ ४८ ॥ शाणीन्द्राणी द्रुणी[225a]गोणी कृपाणी चूर्णिरेषणी । ;l{2430} तूर्णिर्वेणिः करेणूर्णा ववर्णा दक्षिणा घृणा ॥ ४९ ॥ क्षिपणिर्धारणी तूर्णा तिलपर्णी च सारणी । वारुणी काकिणी वाणी वणीः शिखरिणी तथा ॥ ५० ॥ हरेणुरूर्णी श्रीपर्णी सुपर्णी श्रावणापि च । भ्रमणी लक्ष्मणा फाणिस्तद्वद्यौवनलक्षणा ॥ ५१ ॥ ;l{2435} त्रेता गीता सीता लूता मुक्ता वार्ता वर्ती रीतिः । शुक्तिः पङ्क्तिर्जातिर्गुप्तिः प्रातिः स्यूतिः कृत्तिर्भित्तिः ॥ ५२ ॥ तृणता त्रिवृतामृता लता ;p{0101} ;l{2440} लिखिता सातिसिता तपताथ । व्रततिः प्रसृता च मार्जिता रसवत्यक्षवतीति रंहतिः ॥ ५३ ॥ वसन्तदूती वसतिरनन्ता चापराजिता । पक्षतिर्जगती सुप्तिः कीर्ति-मूर्त्यर्ति-भक्तयः ॥ ५४ ॥ ;l{2445} कन्था वीथी गाथा सिक्था- सन्दी नान्दी कर्णान्दूश्च । अन्दुर्नन्दा माकन्दी स्या- न्मर्यादावद्वेदिर्धीदा ॥ ५५ ॥ शरद्दृषद्दरत्प्रोक्ता मदिः कृषिकवस्तुनि । ;l{2450} गदा-वितर्द्येकपद्यो गन्धा गोधा प्रधिर्गदिः । शिरोधिरोषधिर्बाधा विधा संधा स्व[225b]धा सुधा ॥ ५६ ॥ सानिः सनिः खानि-खनी जनि[श्च] सास्ना तनुर्नौः कठिनी च पामा । सूना-हसन्यावपि कर्तनी च ;l{2455} कानीस्तथा मेनि-विलेपनीयुक् ॥ ५७ ॥ ह्रादिनी स्वेदनी कर्तनी काकिनी दामनी शिञ्जिनी वर्तनी कामिनी । नीलिनी मालिनी चेतना भावना सामिधेनी तथा मातुलानी भवेत् ॥ ५८ ॥ ;l{2460} हानिर्ज्यानिर्ग्लानिर्मृत्स्ना ज्योत्स्ना धाना विष्वक्सेना । पम्पा झम्पा चम्पा रुम्पा । कम्पिर्वापी लिपिः कूपी ॥ ५९ ॥ प्रपा शिफा कम्बि-कम्बे भूजम्बूः शम्बया लिबिः । ;l{2465} शृगालजम्बूर्लम्बा च कलम्बी चातिभीः सभा ॥ ६० ॥ ;p{0102} भम्भा हम्भा वलभिर्भा रम्भा भीः ककुप्शोभा । भेक्यां पुनर्नवायां वर्षाभूर्यामि-सीमे च ॥ ६१ ॥ उमा रुमा वमीर्भ्रमिः कृमिः क्षुमोपमा समाः । जयाभया हलिप्रिया क्रिया क्षिया सह ज्यया ॥ ६२ ॥ ;l{2470} कल्या कुल्या च मङ्गल्या विन्ध्या संध्या च पद्यया । योग्या चर्योपकार्या च चित्या नस्या च रथ्यया ॥ ६३ ॥ छाया माया तथा पेया कक्ष्या दूष्यापि काम्यया । क्षैरेयी ब्र[226a]ह्महत्या द्यौर्व्रज्या स्नायुश्च धान्यया ॥ ६४ ॥ चर्चरी झल्लरी शारि-खारी तुरी ;l{2475} वल्लरी मञ्जरिर्भूरिरभ्रिश्च धूः । घर्घरी-कर्परी-कर्तरी-काश्मरी- कण्डरासृग्धरा-शर्करा-वागुराः ॥ ६५ ॥ दरिः शरारिर्मरी-मारि-पार्यो दर्द्रूस्तरिः पूरपि वास्तुभूम्नि ;l{2480} हारा च होरा च परंपरा च तारापि देव्यां च वरा वरी द्वाः ॥ ६६ ॥ यात्रा मात्रा चित्रा छत्रा भस्त्रा भद्रा क्षुद्रा मुद्राः । इन्द्रा गुन्द्रा वध्री धारा ;l{2485} धीरा कारा कस्तूरी च ॥ ६७ ॥ गन्त्री कुमारी प्रतिसीरया समं स्यात्तुण्डिकेरी कबरी तथापरा । दंष्ट्रा करीरी खदिरी च बर्बरा जारी विदारी कृशरावरामरा ॥ ६८ ॥ ;l{2490} भल्लिः पल्लिर्नालिरालिः प्रतोली ;p{0103} पालिः कोलिस्तूलि-धूली-पलाल्यः । ईलिः स्थाली फालिराल्यौ च चुल्लि- र्गन्धोली स्यादावलिः पातिली च ॥ ६९ ॥ खल्ली खलिश्च खण्डाली देहली शष्कुली बला । ;l{2495} केवली काकलिर्बाली फलिः फेलिश्च फेलया ॥ ७० ॥ काली जाली[226b] चिल्ली शूला वेला मेला दोला गोला । शाला माला हेला लीला लोला झाला झुल्लिश्चालुः ॥ ७१ ॥ ;l{2500} अवेला कुण्डली कोला कुवेला सन्धिला शिला । कला सुवर्चला खेला सिध्मला सर्वलोपला ॥ ७२ ॥ विशाला मेखला मालुर्हर्षुला संकुला शिली । शृगाली कदली भद्रकाली मद्यार्थकोऽप्यलिः ॥ ७३ ॥ मणिमाला ध्वनिमाला हरिताली सुरताली च । ;l{2505} लट्वा खट्वा मूर्वा दर्विर्नीविश्छविर्मौर्वी ॥ ७४ ॥ जीवा शिवा-दिवौ विश्वा वशेशा दृक्कशा कुशा । कुशी पशुर्लोमशाशा पादपाशी च पेशियुक् ॥ ७५ ॥ मञ्जूषा स्यादीषा शेषा मूषा वृषा वृषी । दोषा घोषातिविषा पलंकषालम्बुषा-वर्षाः ॥ ७६ ॥ ;l{2510} स्नसावस्नसा-विस्रसा-वासि-भिस्सा वृसी गृध्रसी छर्दिषा भाश्च नासा । रसा वायसी रोदसी राक्षसी च प्रसूः पुल्कसी हिंसयाशीर्मसी च ॥ ७७ ॥ गुहा गाहा सहा वाहा स्वाहा सिंही जुहूः कुहूः । ;l{2515} आ[227a]मिक्षा कक्षया रिक्षा लिक्षा लाक्षा च राक्षया ॥ ७८ ॥ ;c{॥ इति स्त्रीलिङ्गाधिकारः ॥} ;p{0104} ;v{नपुंसकाधिकारः} नपुंसके नाम-धनान्धकार- वियद्धृषीकाम्बुरुहाम्बु-खानाम् । रत्नान्त्र-सूक्ताशुभ-पुण्य-दुःख- सुखान्न-गासृक्पिशिताशनानाम् ॥ ७० ॥ ;l{2520} चित्र-वस्त्र-घुसृणागरु-हिङ्गु- गूथ-पिच्छ-दल-तालु-हलानाम् । तुत्थदृङ्मरिचहृन्नलदानां युद्ध-सिध्म-यकृदस्थि-फलानाम् ॥ ८० ॥ शैलेय-सृक्कत्त्वचभेषजानां ;l{2525} स्थानाञ्जन-द्वार-शुकच्छदानाम् । ह्रीबेर-पुष्पान्तिक धन्व-वल्क- कुसुम्भ-कल्कौमक-पद्मकानाम् ॥ ८१ ॥ व्यञ्जनलवण सुवर्ण- प्रमुखानां सप्तलोहानाम् । ;l{2530} नान्तं लान्तं स्त्वन्तं तान्तं त्रान्तं च सामान्तम् ॥ ८२ ॥ संयुक्तररुपविरामं द्व्यच्कं सान्तं न वेधआद्यं यत् । मन्नन्तमप्यकर्तरि भावे कृत्वा क्त आ[अ?]नश्च ॥ ८३ ॥ भावे च खल् युज्ल्युडिनुण्विरामा आत्वात्तु भावे ढगणञ्वुयच्छाः । ;l{2535} त्वान्ताश्च वृन्दे त्वणञौ च वुञ्खौ ठञ्णश्छ[227b]यञ्यत्सहिताष्ठगन्ताः ॥ ८४ ॥ देशे विधल्भक्तलन्ता उक्ताद्याः स्वार्थिकाण्युताः । द्वंद्वैकत्वाव्ययीभावौ क्रियाव्ययविशेषणैः ॥ ८५ ॥ स्वार्थे शीघ्रादयोऽदन्तैस्त्वेकार्थः प्रायशो द्विगुः । ;l{2540} स्यात्कर्मधारये भूमो यदि संख्यापरो न सः ॥ ८६ ॥ ;p{0105} संख्यापूर्वं रात्रं पथस्तु संख्याव्ययप्रथमः । नञ्कर्मधारयान्यस्तत्पुरुषो वक्ष्यमाणेषु ॥ ८७ ॥ उपज्ञोपक्रमान्तं स्यात्तदादित्वप्रकाशने । पाणिन्युपज्ञं नन्दोपक्रममित्यादयो यथा ॥ ८८ ॥ ;l{2545} षष्ठ्या भूम्नि च्छाया कन्था तूशीनराह्वायाम् । संघातार्था च सभा स्त्रीसंघे स्त्रीसभं हि यथा ॥ ८९ ॥ राजवर्जितराजाह्वा राक्षसादिपरा च सा ॥ ९० ॥ भाद्गणः शशतस्तूर्णा स्थूणा तु गृहतः परा । शतादिकादन्तसंख्या विशेषेण न बाधिता ॥ ९१ ॥ ;l{2550} कुतुक-कुलक-तोकानूक-हल्लीसकानि त्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् । [228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका- लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥ आतपत्रे पुण्डरीकं मूर्ध्नि कं च प्रकीर्णकम् । ;l{2555} उल्मुकं तित्तिडीकोपसूर्यकं च कदम्बकम् ॥ ९३ ॥ रतर्द्धिकं माक्षिक-गैरिके च मार्द्वीकवत्पुष्पक-रूपके च । स्याच्चित्रकं किं च विशेषकार्थं स्याच्छीर्षकं षद्गुतु( ? )कारकं च ॥ ९४ ॥ ;l{2560} मौक्तिकं शौक्तिकं नाणकं नाटकं तोटकं खेटकं खं च लिङ्गं त्रिषु । अङ्गपिङ्गप्रगं संप्रयोगं स्फिगं सर्वगं चोचवद्बीज-पिञ्जे द्विजम् ॥ ९५ ॥ परञ्जं कटु स्यादकार्येऽट्ट-कष्टे ;l{2565} विधौ दिष्टमह्नो मुखे व्युष्टमुक्तम् । ;p{0106} गिरि म्लिष्टमिष्टं क्रतोः कर्मणि स्या- ल्ललाटं करोटं कृपीटं च रिष्टम् ॥ ९६ ॥ चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् । तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥ ;l{2570} भाण्डाण्ड-तुण्डानि च चक्रवाडं गूढं च तीक्ष्ण-ग्रहणेरणानि । द्राणं पुराणं द्रविणं शणेर्णे कल्याण-पल्याण-निरूपणा[228b]नि ॥ ९८ ॥ घ्राणं कार्मण-कारणोष्ण-लवण-श्रीपर्ण-पारायणं ;l{2575} शिङ्घाणं शरण-प्रमाण-करणक्षुस्माणदौर्वीणवत् । श्राणं कौङ्कण-पूरणे च हरिणं स्याद्धोरणं बृंहणं प्रादेशान्तनितान्तवृत्तसुरतामन्तानि भूतं तथा ॥ ९९ ॥ वार्तं दुरितं पृषत्तु बिन्दौ जगन्महत्सूनृत जृम्भिते च । ;l{2580} अङ्गारितं यातु च शीतमत्या- हितं च वाहित्थवदुक्थ-गूथे ॥ १०० ॥ वृन्दं [श्वा]पदमत्थ(?)दं च विरुदं चाच्छोद-तुन्दाङ्गदं गोर्दं गोद-कुसीद-मेद-कुसिदं तद्वत्ककुत्स्या*तम् । आनद्धं मुरजादिकेषु तिमिरेऽन्धं वृद्धमप्यद्रिजे- ;l{2585} ऽवष्टब्धं च महौषधं निगदितं तुल्यें ऽशकेऽर्धं तथा ॥ १ ॥ कुक्षौ कृत्स्नं वाद्यभेदे घनं स्याद् द्युम्नं चिह्नं निम्नमह्ना ललाम । कुनं(?) रोम स्याद्दृशानं च पर्व वर्त्म प्रोक्तं सक्थि धन्व स्थले च ॥ २ ॥ ;l{2590} तल्पं शयने शिल्पं ;p{0107} पुष्पं कूर्पं त्रिविष्टपं रूपम् । अविचयरिपं(?) शुम्बं निकुरम्बं स्यात्कुरुम्बशुल्बे च ॥ ३ ॥ प्रसभं तलभं च[229a]भं च शुष्मं ;l{2595} किलिमं कृत्रिमतिग्मधाममीर्मम् । तलिमं च तोक्म-युग्मे स्तोमं सूक्ष्मं विलोमवत्प्रदिष्टम् ॥ ४ ॥ द्रुवयं भयं त्रिसंध्यं किसलय-शयनीय-साय-खेयानि । ;l{2600} ******** इन्द्रिय-धान्ये लवङ्गके दिव्यम् । धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके । अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥ चित्यं चैत्यं माल्यं गद्यं पद्यं कवेः काव्ये । ;l{2605} क्षेत्रं सत्रं शिबिरं स्फारमगारं कलत्रमभ्रं च ॥ ६ ॥ सिन्दूर-दूरोदर-नागराणि तीरोत्तर-प्रान्तर-चामराणि । कटीर-वैरारर-पुष्कराणि मण्डूर-कुस्तुम्बुरु-चत्वराणि ॥ ७ ॥ ;l{2610} अक्षरमजिरमुशीरं चीवर-चीरे तथैव काश्मीरम् । जर्जर-कुटीर-वल्लर कर्बुर-कादम्बरोशीरम् ॥ ८ ॥ शालारमात्रे च कटित्र-मित्रे ;l{2615} गोत्रं पतत्रं सशिलीन्ध्ररेत्रम् । अग्रं तथोपह्णरशार्वराणि ;p{0108} पुरं गृहेऽङ्गे खपुरं घटे च ॥ ९ ॥ न्याय्ये वरं सारमजस्रवास्रे वीरं तथा भ्रामरमृक्षरं च । ;l{2620} उलूखलं गुग्गुलुवाच्यथौ[229b]र्वे पातालमुक्तं खलमप्यवन्याम् ॥ १० ॥ आलु शलालु शयालुशयौ स्या- त्कम्बलमम्भसि वाससि चेलम् । पिप्पलमम्बुनि चाम्बरभेदे ;l{2625} ब्रह्मतरौ गगनेऽपि च तूलम् ॥ ११ ॥ शीवल-शीतल-शैवल-बालं निर्मल-संकुल-पिञ्जल-मालम् । दायुफलं सकुतूहल-फालं वार्दलपाकल-भास्मनतूलम् ॥ १२ ॥ ;l{2630} ताम्बूलकेवल-दलामलयुक्तमालं स्युश्चक्रवालहरितालमहाबलानि । नाभीलवद्बिदलजाङ्गुलजङ्गलोल- माभीलवद्दलशले च महाबलं च ॥ १३ ॥ तत्त्वं सान्त्वं सत्त्वमजन्तौ ;l{2635} विश्वं किण्वं चार्तवजीवे । बाहवयौतव-परिपेलवव- त्स्तवमपि मुस्तानाम्नि दिवं च ॥ १४ ॥ विश्वं जगत्येव गणे च वाडवं द्वंद्वं समासेतरवाचकं तथा । ;l{2640} शम्यां तथा शीतशिवं प्रकीर्तितं ध्रुवं तथा निश्चय-तर्कयोर्मतम् ॥ १५ ॥ अर्पिश-पलिश-नृशानि स्युः पीयूषं मिषं शीर्षम् । ;p{0109} किल्बिषमृजीषवीक्षा- ;l{2645} नुतर्षमन्दाक्षमर्पिष वीषिः(?) ॥ १६ ॥ [230a]कासीस-साध्वस-महानस-साहसानि मत्सं बिसं च तरसं यवसं तथैव । पुण्याहवन्निगदितं सुदि[ना]हमुक्तम् ;c{॥ इति नपुंसकलिङ्गाः ॥} ;v{स्त्रीपुंसलिङ्गाधिकारः} स्त्रीपुंसयोर्भ्रमरनाम किलाविशेषात् ॥ १७ ॥ ;l{2650} अपत्यतद्धितयुजश्चुलको हुडुक्कः काकुः पिपीलक-तुरुष्कयुतश्च किष्कुः । चर्मप्रसेवक-समल्लकसल्लकोऽपि स्याद्वृश्चिकोऽत्र घुटकोऽपि च शृण्डिकश्च ॥ १८ ॥ तिन्दुक-शल्यक-शम्बुक- ;l{2655} शम्बूकाः शङ्कुरङ्कभिदि । आखुः कङ्गुः शुङ्गो गौश्च*वीचिर्मरीचिलञ्चे च ॥ १९ ॥ रज्जुः समासेऽथ खनौ च गञ्जा लाजा बहुत्वे च भुजो वराटः । ;l{2660} रज्जौ च शस्त्रे च गृहे कुटः स्या- त्कुटिस्तुटिः स्याच्च सटा घटा च ॥ २० ॥ श्रोण्योषध्योः कटः कीटः शाटः स पाटवत्स्फटः । किलाटो वरटो**ऽवटुश्चोटश्चपेटवत् ॥ २१ ॥ ऋष्टिर्यष्टिर्भुष्टि- ;l{2665} र्गुडश्च शुण्डो गणे पिण्डः । अरणिस्तथाणिराणि- र्दरणिः श्रोणिर्मणिः श्रेणिः [230b] ॥ २२ ॥ वारिपर्ण-फण-शाण-पार्ष्णयः स्यात्सृणिर्द्रुभिदि वाण ईरितः । ;p{0110} ;l{2670} स्यात्स्फुलिङ्गलववाचकः कणः । स्यात्करेणुरिभयोर्हरेणुवत् ॥ २३ ॥ विपणिर्भे श्रवणः स्या- त्तरणिस्त्वर्कादिके कफणिः । गर्तो वर्तिर्वस्तिः ;l{2675} स्वातिर्ज्ञातिर्वितस्ति-गव्यूती ॥ २४ ॥ आदि ना किरणे समुद्भे पतितगवाद्युद्धरणयष्टौ च । ईतिश्च गर्मुन्निरये तु दुर्गति- र्हस्तस्तु भे मेथितिथी रथस्तथा । ;l{2680} तथाजमोदोपि च कन्दुरीरितो नेमौ प्रधिः स्यादिषुधिर्विधोपि च ॥ २५ ॥ मेधिर्गवेधुः कर्कन्धुस्तद्वज्जम्ब्वां सुदर्शनः । रत्नरत्नी मुनिर्योनिर्हनुः पृश्न्यशनिर्मनुः ॥ २६ ॥ कूपः कलम्बः कलशे तु कुम्भो ;l{2685} गन्त्र्यङ्गके नाभिरथोर्मिशम्यौ । भ्रमश्च मोहेऽथ च जित्य-मृत्यू स्याद्भागधेयोऽपि च राजदेये ॥ २७ ॥ बहुकर ऊरुर्हारो गीः शारो मुद्गरो वध्रः । ;l{2690} वल्लर-शफर-मसूराः सहचर-कृशरौ कुठार-नालिकेरौ च ॥ २८ ॥ [231a] ********भे चित्र कील-पाटली । जाटलिः शाल्मलिर्मौलिर्हलिः केलिः शली बलिः ॥ २९ ॥ पटोलः कम्बलो भल्लो रालो वृक्षे च पिप्पलः । ;p{0111} ;l{2695} लविर्दशा भूम्नि वस्त्रे दंशोऽश्लेषो भवाचकः ॥ ३० ॥ गण्डूषो रभसो भाश्च वेतसो लालसो मसिः । दोष्णि बाहुश्च बाहोऽहिर्हीहाद्याः प्रत्ययान्तरैः ॥ ३१ ॥ ;c{॥ इति स्त्रीपुंसलिङ्गाः ॥} ;v{पुंनपुंसकलिङ्गाधिकारः} पुंसि क्लीबे च सेवालमध्यमानामबाधितम् । रात्रं समाहृतावेकरात्रं चाप्यसमाहृतौ ॥ ३३ ॥ ;l{2700} नाकः पिनाकः स्तबको वलीको वल्मीक आतङ्क-वितङ्क-तङ्काः । व्यलीक-वैनीतक-तण्डकानि चण्डातकानीक-विशेषकाश्च ॥ ३३ ॥ विटङ्क-टङ्क-शाटकाः सकण्टकः करण्डकः । ;l{2705} तटाककन्दुकान्दुकास्तडाक-शाक-रोचकाः ॥ ३४ ॥ शुल्को वल्कः कल्को निष्को मुष्कश्च मस्तिष्कः । चूचुक-मञ्चक-मेचक-कञ्चुक-शूकानि पातकः पङ्कः ॥ ३५ ॥ अलक-वालक-मालक-मूलकाः [231b] करक-कोरक-मोदक-यावकाः । ;l{2710} ***भ्रमरको मणिकस्तथा फलक-पुस्तक-मस्तक-मुस्तकाः । पुलकस्तिलको झर्झरकश्चरक-हंसकौ । मधुपर्कश्च फटकः सरकः श्वपकस्तथा । किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥ ;l{2715} पिण्याको वर्णकोऽनूपे कूलकः सूतको रसे । अथ स्याद्रुचकः कण्ठभूषणे बीजपूरके ॥ ३८ ॥ मताः खान्तेषु चत्वारः शङ्खः पुङ्खो नखं मुखम् । अधिकाङ्गः पद्मरागः संयुगं च युगं भगम् । हिङ्गूद्योगौ टङ्ग-शृङ्गौ निदाघोऽध्यर्घ-वद्भवेत् । ;l{2720} अर्धर्चः क्रकचः कूर्चः कवचः पुच्छ उञ्छवत् ॥ ४० ॥ ;p{0112} कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज- व्रजाङ्गजाः शङ्खगतस्तथाब्जः । ध्वजो नटः कर्वटकुक्कुटाट्टाः कुटारकूटावपि कालकूटः ॥ ४१ ॥ ;l{2725} कव(वा)टं कपटं खेटं कर्पटं पिष्टकोष्टवत् । चटु चाटु किरीटं च अगलःटं( ? )मकुटं कुटम् ॥ ४२ ॥ वटस्तु गोलभक्ष्यादौ पिटिकावाचकः पिटः । विटं च नि[232a] कटं कोट्टं कुष्ठं कमठमीरितम् ॥ वारुण्ड-खाण्ड-खण्डानि दण्डाण्डौ निगडो नडः ॥ ४३ ॥ ;l{2730} आक्रीड-कोदण्ड-तरण्ड-मण्ड- प्रकाण्ड-काण्डानि पलाण्डु-मुण्डौ । दृढोऽथ बाणोऽप्यणु-वारवाण- कार्षापण-स्वर्ण-सुवर्ण-चूर्णाः ॥ ४४ ॥ स्थाणुर्द्रोणः श्रवण- ;l{2735} श्चरण-रणौ तोरणो भाणः । प्रवणव्रणापराह्णाः किणं तृणं दूषणं वृषणम् ॥ ४५ ॥ पक्कण-कङ्कण-शिङ्घाणाः स्यु- र्वर्णः शुक्लाद्यक्षरवाची । ;l{2740} वास्तुः सक्तुर्जीवातुः स्या- द्भूतः प्रेते पूर्त-निकेते ॥ ४६ ॥ अयुतं प्रयुतं निवातमन्तं पलितं क्ष्वेडितमक्षतं युतं च । उपवीत-शते मुहूर्त-हस्ते ;l{2745} रजत-ध्वान्त-वसन्त-पुस्त-बुस्तम् ॥ ४७ ॥ ऐरावतं पारत-लोहिते च शुद्धान्त-वृत्ते धृत-दैवते च । ;p{0113} द्यूतं वियूथं च वरूथ-गूथे प्रस्थं तथा प्रोथ-सतीर्थ-यूथः ॥ ४८ ॥ ;l{2750} ककुदं कुकुदं च दोहदं कुमुदाष्टापदकुन्दमर्बुदम् । छदकन्दगुदान्यलिन्दव- त्प्रवदन्त्यब्दमिहापि हायने ॥ ४९ ॥ श्राद्धो[232b]त्सेध-कबन्ध-सौध-मधु चान्धं चायुधं चौषधं ;l{2755} मौनं मानविमानयानपुलिनापीनोदपानासनम् । उद्यानं नलिनं खलीनखलिनस्थानाभिधानौदन- ब्रह्मप्रेमसमानजानुनिधनप्रस्फोटनं पक्ष्म च ॥ ५० ॥ गन्धमादनपिधानचन्दन- द्वीपिनाशनवितानयौवनम् । ;l{2760} वर्धमानशतमानहायन- स्तेनवस्नशयनानि गृञ्जनम् ॥ ५१ ॥ वातायनं सानु दिनं निपानं प्रस्फोटनं लग्नरसोनशिश्नम् । स्यात्केतनं नाम च तर्म-कर्म- ;l{2765} भूम्ना महिम्ना लसुनं धनं च ॥ ५२ ॥ राजादनमनुमानं भवनं भुवनं च केतनं लोम । दीपश्चापः स्तूपः शूर्पावापोडुपाः कशिपुः ॥ ५३ ॥ ;l{2770} द्वीपो निपः कुणपमण्डपबाष्पशष्प- यूपानि विष्टपयुतः कुतपोष्मपौ च । तल्पः शफोऽप्यथ च कम्बु सडिम्ब[बि]म्बं जम्भः कुसुम्भकलभौ ककुभो निभश्च ॥ ५४ ॥ धर्मः स्वभावे कमले तु पद्मः ;p{0114} ;l{2775} संख्याविशेषेऽप्यथ कामलेऽसौ । अर्माश्र[233a]मोद्यामललामहेमं क्षेमं हिमं कुट्टिमसंगमाश्च ॥ ५५ ॥ संक्रमोद्यमसंक्रामकुसुमक्षौमगुल्मवत् । घर्म उष्णे कुङ्कुमोऽथ संपरायो रणार्थकः ॥ ५६ ॥ ;l{2780} क्षये( ? )तु जन्यं धननाम्नि दायं शल्यं च कुल्यं कवियं कषायम् । मैरेयवत्कम्बलिबाह्यतूर्ये स्फ्यराजसूयाव्ययवाजपेयाः ॥ ५७ ॥ वलयमलयपूयारण्यसंख्यं हिरण्यं ;l{2785} प्रमयसमयसाया जन्यवत्पारिहार्यम् । शरशिशिरतुषारक्षीरनीहारवार- प्रवरशिखरराष्ट्रभ्राष्ट्रसीरान्धकाराः ॥ ५८ ॥ अवार-पार-कुञ्जराः पवित्र-मन्त्र-पञ्जराः । अलिञ्जरो युगंधरो दुरोदरः स तोमरः ॥ ५९ ॥ ;l{2790} हिञ्जीरमञ्जीरशरीरजीराः कर्पूरवन्नूपुरकर्णपूराः । शृङ्गारकान्तारकरीरकूरा- न्धकारवत्कूबरबेरमेढ्राः ॥ ६० ॥ कोटरकुटीरवस्त्रं केसरकासारसंसाराः । ;l{2795} क्षत्रं चक्रं चुक्रं तक्रं सूत्रान्तरे पद्रम् ॥ ६१ ॥ वज्राङ्गारविहारचीरसमरा ? केदारमाडम्बरं वप्रोशीरकुलीरदार्दु[233b]र-रिवत्कुस्तुंबरुर्गह्वरः । नेत्रोपह्वरशेखरातिखरवत्स्याच्छिग्रुरार्द्रं शुनी- रः स्याद्वासर-तूबरौ सतुबरौ तद्वत्सहस्रं भवेत् ॥ ६२ ॥ ;l{2800} अगुरुस्तिमिरं जठरं कर्पु(र्पू)रकृच्छ्रे कशेरुहेमादौ । ;p{0115} चन्द्रो वर्ध्रः सीसे संदेहे द्वापरं कुकुन्दरवत् ॥ ६३ ॥ शुक्रो मासे दहने ;l{2805} विष्टरमतरौ दलः पर्णे । तुषवह्नौ तु कुकूलो जङ्गलमुदितं तथा मांसे ॥ ६४ ॥ छेदने[लूः] पिप्पलः कम्बलः शम्बलः शील-शैलोपलाः शूलतूलाङ्गुलाः । ;l{2810} वल्कलं पल्वलं धूमलं खण्डलं कुण्डलं कुड्मलं मूलवन्मङ्गलम् ॥ ६५ ॥ खलं पलं पुलं हलं तलं बलाञ्चले मलम् । पलालमिन्द्रनीलवद्धलाहलं कमण्डलुः ॥ ६६ ॥ प्रवालं विशालं चषालं तमालं । ;l{2815} कपालं च भालं सतैलालवाले । सजम्बाल-कङ्काल-कोलाहलानि स्मृतान्यत्र काकोलहालाहलानि ॥ ६७ ॥ कमलं कललं शकलं जम्बालं स्याच्च नील-लाङ्गूले । ;l{2820} कवलो निगलो बालो ह्रीबेरे कुन्तले विद[234a]लम् ॥ ६८ ॥ गरलं मुसलं सालं तथा गाण्डीव-गाण्डिवौ । पूर्व *** प्रग्रीवपार्श्वः पारशवोऽपि च ॥ ६९ ॥ भावारावशरावपल्लवशवक्लीवा अपूर्वं तथा ;l{2825} निष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि । नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवः पाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥ कणिशं कर्षं वर्षं प्रत्यूषं यूषमुष्णीषम् । ;p{0116} कोषो माषो वेषः शेषो **म्बरीषं च ॥ ७१ ॥ ;l{2830} विषं मिषं करीषं च रोहिषं चामिषं तथा । आसावतंस-वीतंस-मांसमासांस-चिक्कसाः ॥ ७२ ॥ कार्पास-कांस-चमसाः पनसोपवासौ स्यादिष्वसः सदिवसोऽपि रसो बुसोऽपि । दोर्वद्विहाय उदितं हृदये तु वत्सं ;l{2835} माघे तपोऽथ नृपनाम्नि तथैव कंसः ॥ ७३ ॥ बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे । स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥ तनूरुहश्च पुण्या[234b]हो लक्षं तु व्याजवाचकम् । उकारान्तेषु तितउ एक एव तथाविधः ॥ ७५ ॥ ;c{॥ इति पुंनपुंसकलिङ्गाः ॥} ;l{2840} ;v{स्त्रीनपुंसकलिङ्गाधिकारः} स्त्रीक्लीबयोः क्वचिद्भावकर्मणोः ष्यञ्‌ तथैव वुञ्‌ । तद्यथार्हन्त्यमार्हन्ती चौरिका चौरिकं तथा ॥ ७६ ॥ ल्युडकर्तरि चास्थानमास्थानी च तयब्युतम् । आबनन्तो द्विगुः पञ्चखट्वी स्यात्पञ्चखट्ववत् ॥ ७७ ॥ पञ्चतक्षी पञ्चतक्षमर्धान्नावः पुरो हितः । ;l{2845} षष्ठ्यन्तप्राक्पदाः सेनाच्छायाशालासुरा निशाः ॥ ७८ ॥ विद्वत्सेना विद्वत्सेनं कुड्यच्छाया कुड्यच्छायम् । योषिच्छाला योषिच्छालं ज्ञेयं तद्वच्चान्येभ्योऽपि ॥ ७९ ॥ वक्रौष्ठिकं वंशिकं च कथानक-कशेरुके । वाचिकं मधुकं जायौ तादृशं तिन्दुकं फलम् ॥ ८० ॥ ;l{2850} वृत्ते वसन्ततिलकं नखमत्र शुक्तौ स्यात्कन्यकुब्जमपि देशगतं च पीठम् । क्रोडा तु वक्षसि भवेदुडु तद्वदर्णा स्थूणाथ संयदपि नक्तमथावहित्थम् ॥ ८१ ॥ ;p{0117} छर्दि[235a]श्च भसदपि सीम ;l{2855} ग्रामान्ते रसनया रशना । आच्छोदनं च कल्पं जम्बूफलेऽलाबु तुम्बशुम्बे च ॥ ८२ ॥ महोदयं कांस्यमृगव्यचव्य- वणिज्यवीर्याणि तमिस्र-शस्त्रे । ;l{2860} त्वक्क्षीरकादम्बर-मन्दिराणि मसूरनासीरयुतानि तद्वत् ॥ ८३ ॥ गात्रावरे त्विभाङ्गे नगरं स्थाली स्थली कदली । युगुली जाली गोला ;l{2865} काहलया पित्तला युक्ता ॥ ८४ ॥ यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे । भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् । लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥ ;c{॥ इति स्त्रीनपुंसकलिङ्गाः ॥} ;v{स्वतस्त्रिलिङ्गाधिकारः} स्वतस्त्रय्यां सुरा पाने साक्तुकः (?) परिकीर्तितः ॥ ८५ ॥ ;l{2870} हरीतकविभीतकामलकवच्च भल्लातका- ढकौ पिटक-तारकौ करक ईरितोऽब्दोपले । स्फुलिङ्गस[दृ]शं विडङ्गमथ किंच केदारका- र्थकश्च वलजो वटः पटपुटौ[235b]तटः पेटवत् ॥ ८६ ॥ वाटः कवाटः शकटः कटश्च ;l{2875} षष्टिर्मठः कुण्डनिभश्च नीडः । रेणुर्विषाणोऽपि च तूणयुक्तो मुस्तस्तथा कङ्कतवत्कुथश्च ॥ ८७ ॥ समेऽर्द्धो इङ्गुदो जृम्भो दाडिमं कन्दरं [दरम्] । ;p{0118} पात्रं छत्रं च वल्लूरं नखरं पिठरं पुरम् ॥ ८८ ॥ ;l{2880} तारं तथा प्रतिसरं खलं तु पवनस्थले । शललं शल्यरोमार्थं कुवलं पटलार्गलौ ॥ ८९ ॥ पूलावहेलौ समृणालनालौ सशृङ्खलौ मण्डल-कन्दलौ च । तद्वत्प्रदिष्टः कलशस्तथेषु ;l{2885} स्तथा कटाहं च समामनन्ति ॥ ९० ॥ लक्षो नक्षत्रतगरपुराभरणनाम च । ;c{॥ [इति] स्वतस्त्रिलिङ्गाः ॥} ;v{परलिङ्गाधिकारः?} परलिङ्गाः स्वप्रधानद्वंद्वस्तत्पुरुषोऽपि च ॥ ९१ ॥ चतुर्थ्यर्थार्थशब्दान्तास्तद्धितार्थेऽपि यो द्विगुः । ;l{2890} प्राप्तापन्नप्रादिकालंपूर्वकाः केवलाः पुनः ॥ ९२ ॥ संख्याश्च सर्वनामानस्तथैव च तदन्तकाः । अदिङ्नाम्नां बहुव्रीही रक्ताद्यर्थे च तद्धिताः ॥ ९३ ॥ [236a]कर्तर्यनाम्नि च कृतः कृत्याः कर्तरि कर्मणि । इत्यादिका गुणद्रव्यक्रियासंबन्धसंभवाः ॥ ९४ ॥ ;l{2895} उपाधयो भेद्यगता अनारोपे स्त्रियां विना । अजहल्लिङ्गवचनाः प्रमाणाद्या विशेषणैः ॥ ९५ ॥ लिङ्गं संख्यां प्रकृतेर्बाधन्ते स्वार्थिकाः क्वापि । नातिक्रामन्ति निजं स्वीयं लिङ्गं हरीतकीप्रमुखाः ॥ ९६ ॥ न खलु खलतिकादिर्मुञ्चति स्वस्य संख्यां ;l{2900} प्रकृतिरिह बहुत्वं प्राक्पदस्था जहाति । भवति चरमलिङ्गं क्लीबभिन्नैः सहोक्तौ यदि तदुदितभेदः स्याद्विभाषैकसंख्या ॥ ९७ ॥ सितः पटः सिता शाटी सितं वासः सितं यथा । स्त्रीपुंसयोरेकशेषे पुंलिङ्गं समुदीरितम् ॥ ९९ ॥ ;l{2905} स्त्रीक्लीबयोः क्लीबमथो नरस्य ;p{0119} क्लीबस्य च क्लीबमुशन्ति सन्तः । त्यदादिकानामपि तद्वदेव द्वंद्वं तथा तत्पुरुषं विहाय ॥ २०० ॥ ग्राम्याणां तु पशूनां ;l{2910} नैकशफानामयूनां च । स्त्रीलिङ्गं गाव इमा अजा इमा इत्युदाहा[236b]र्यम् ॥ १ ॥ बहुवचनमन्यतरस्यां युष्मद उक्तं हि पूज्येषु । ;l{2915} अविशेषणस्य तद्व- दस्मद ऐक्येऽपि निर्दिष्टम् ॥ २ ॥ प्रोष्ठपदफल्गुनीनां नक्षत्रे जातिसंज्ञायाम् । भद्वंद्वे तिष्यपुन- ;l{2920} र्वस्वोर्भूम्नि द्विसंख्या स्यात् ॥ ३ ॥ धातोर्मन्योपपदान्मध्यमपुरुषः परीहासे । मन्यादुत्तमपुरुषो वचनमेकं च निर्दिष्टम् ॥ ४ ॥ षट्‌संख्यकानामपि युष्मदस्मदो- स्तिङव्ययानां न च लिङ्गमीरितम् । ;l{2925} मिथो विरोधे परभाषितं य- च्छेषं तु शिष्टव्यवहारतो वदेत् ॥ ३०५ ॥ ;c{॥ इति लिङ्गवर्गः ॥} ;k{अव्ययकाण्डः} ;v{अव्ययवर्गः} अथाव्यया अस्ति भावेऽथाभावे न हि नो अनञ्‌ । नकीं माकीं तु माकिं च नकिः पृथगलं हलम् । अन्तरेणान्तरान्यत्र हिरुक्पृथगृते विना । ;l{2930} नेदथौ खलु नाना च वारणेऽङ्गीकृतौ पुनः । ओमामेवमुरर्यूरी स्यादुरी उररी तथा । ;p{0120} परमं चाथ सत्यं स्यादर्धस्वीकारवाचकम् ॥ ३ ॥ अकामात्स्वीकृतौ कामं भवत्वस्तु हुमीर्ष्य[237a]या । अहो अद्धा अद्भुतार्थे ****** शुभे ॥ ४ ॥ ;l{2935} दिष्ट्या समुपजोषं त्वसंतोषे हन्त चेरितम् । अथाथो च शुभं खेदे हाहाहोबतहाहहाः ॥ ५ । पूजायामत्यहौ शुः सुः कुवित्कूपत्सुसुष्ठवः । प्रशंसायां सम्यगर्धे पशु स्यादन्यथा पुनः ॥ ६ ॥ अस्वीकारेऽन्यथाकारं पुनः सिद्धाप्रयोजने । ;l{2940} प्रकर्षे तु प्रकामं स्यात्तथैव बलवत्सुकम् । सुसुष्ठ्वतीव किमुत भूयोऽत्यन्तं भृशं परम् ॥ ७ ॥ अतिप्रकर्षे नितरां सुतरां च प्रकीर्तितम् । वरं किंचित्प्रकर्षेऽल्पे त्वा नञ्‌ किंचिच्च किंचन । मनाङ् नीचैरीषदुच्चैस्तूच्चकैश्च महत्यपि ॥ ८ ॥ ;l{2945} बहुधा प्रायशः प्रायः प्रादुराविः प्रकाशने । प्राकाश्ये नाम हेद्वा स्यादुपांश्वप्रकटोदिते ॥ ९ ॥ मौने तूष्णीं च तूष्णीकां जोषं समुपजोषकम् । ऋधग्यथातथं सत्येऽनृते मिथ्या मृषा तथा ॥ १० ॥ अतीते प्राक्[237b] पुरा स्माथ वापि किंच तु वा तथा । ;l{2950} समुच्चयेऽधिरैश्वर्ये लक्षणे प्रतिपर्यनु ॥ ११ ॥ श्रत् श्रद्धायामहं शार्वेतीप्सिते( ? )तु मनः कणे । दुर्बलस्य बलाधानेऽन्वाजे चोपाज ईरितौ ॥ १२ ॥ सप्तम्यर्थेऽनुपश्लेषे मनस्युरसि वा कृञि । मध्ये पदे [निवचने कृञ्] नित्यं दारकर्मणि ॥ १३ ॥ ;p{0121} ;l{2955} हस्ते पाणौ जीविकोपनिषदावुपमाविधौ । अवस्‌बहिसिमौ बाह्येऽथान्तर्धौ सनुतस्तिरः । मध्येऽन्तरेणान्तरान्तरन्तरेऽन्तरमित्यपि ॥ ११ ॥ भेदे स्यात्तूपधा भिन्ने पृथगर्धे तु सामि च । प्रबाहुकमुपर्यूर्ध्वमुपरिष्टात्समार्थकम् ॥ १२ ॥ ;l{2960} अवागधोऽप्यधस्तात्स्थाद्‌द्यावाभूम्योस्तु रोदसी । अन्तरिक्षे भुवरिति भुवि भूः खे विहायसा ॥ १३ ॥ आनुकूल्ये प्राध्वमथ प्रसह्यार्यहलं हठे । निःषमं दुःषमं दुष्ठु दुर्दुरोऽपष्ठु निन्दिते । क्व धिगादह हुं कु अवकीक्र(?)च कुत्सन[238a]वाचिनः । ;l{2965} रुषोक्तौ कुं मुं च रोषे त्वा आं स्यात्तुंकृतौ तु तुम् । चटु चाटु प्रिये ********** । तु-पुनर्वैवमेवाद्धा षण्‌निर्द्धारणवाचकाः । शङ्के मन्ये तु कं हुं स्वित्किं किमूतापि च ध्रुवम् । आहो उताहो आहोस्वित्किमुतोत तथा किमु ॥ १७ ॥ ;l{2970} नूनं किल खलु द्वै त्वै पृच्छादौ तु कथं कुतः । किं ततो हूमपि ननु किंनु स्विन्नु तथापि हुम् ॥ १८ ॥ कच्चित्कामपरिप्रश्ने न्याय्ये स्थाने च सांप्रतम् । आनुपूर्व्ये त्वानुषक् स्यादनुमानेऽनुषग्भवेत् ॥ १९ ॥ यत्रैवानवक्लृप्तौ स्तो यदि चेत्त्वन्यपक्षके । ;l{2975} तत्त्वे त्वद्धाञ्जसा चान्यतरस्यां च विभाषिते ॥ २० ॥ आभिमुख्ये त्वच्छ( ? )शंवह प्रातिलोम्ये पराध च (?) । ;p{0122} विषु नाना अनेकस्मिन्व्यर्थे तु स्याद्वृथा मुधा ॥ २१ ॥ अस्तं त्वदर्शने नित्ये सनाच्छश्वत्सना सनत् । स्यादन्ततः परिणामेऽथाहम[238b]र्थेऽस्मि संमतम् ॥ २१ ॥ ;l{2980} वेलायां स्यादवसरे मात्रायामवधारणे । आह तु स्यादुवाचार्थे बभूवार्थे तथास च । युवामर्थे च वां ते मे[त्वत्त्वौ]स्तस्त्वन्यदर्थकौ ॥ २२ ॥ मिथु द्व्यवर्थे(?)ऽथ प्रोक्ते अन्योन्यार्थे मिथो मिथः । असाकल्ये चिच्चन स्तः प्रत्यारम्भे नह स्मृतम् । ;l{2985} यावत्तावत्किंच मताः साकल्यार्थाः कृतं त्वलम् ॥ २३ ॥ किं भवत्वस्तु पर्याप्तौ तादर्थ्ये तु कृते इति । यतस्ततो येन तेन हेतौ तद्यद्धि सर्वथा ॥ २४ ॥ हीं दुःखहेतौ ग्लानौ तु प्रतामात इतः समौ । ततः प्रभृतयः पञ्चम्यर्थे प्रायः प्रकीर्तितः ॥ २५ ॥ ;l{2990} सप्तम्यर्थे क्वकुत्राद्याः परितस्तु समन्ततः । सर्वतो विषुविष्वक्संसमन्ताच्च समार्थकाः ॥ २६ ॥ अभितः स्यादुभयतोऽथेत्थमेवंप्रकारकम् ॥ २७ ॥ साकं सार्धं समा सत्रा समं सह समाभिधाः । प्रशान्समत्वे विस्तारे प्रतान्मान्द्ये पुनः[239a]शनैः ॥ २८ ॥ ;l{2995} चिराय चिररात्राय चिरस्य च चिराच्चिरम् । चिरेण ज्योक्चिरार्थाः स्युरेकवारे पुनः सकृत् ॥ २९ ॥ असकृन्मुहुराभीक्ष्णमभीक्ष्णं च पुनः पुनः ॥ ३० ॥ मुहुः शश्वच्च भूयोऽथ काले तत्र तु संतते ॥ ३० ॥ ;p{0123} स्युः सदा सर्वदाजस्रं नित्यदा नित्यमित्यपि । ;l{3000} बहौ तु बहुदा कस्मिन्कदा क(य?)स्मिन्यदेति च ॥ ३१ ॥ तदा तदानीमधुनाद्यत्वे एतर्हि संप्रति । इदानीं सांप्रतं चास्मिन्कालेऽनद्यतने तु च ॥ ३२ ॥ कर्हि यर्हि चेतर्हि (?) स्युः पुरा प्राक्च समार्थकौ । उषा निशान्ते जातु कदाचित्कथंचिच्च कर्हिचित् ॥ ३३ ॥ ;l{3005} अकस्मात्सहसा सद्यः सपद्येकपदे तथा । तत्क्षणे युगपत्तु स्यादेकंदा चैककालगे ॥ ३१ ॥ अञ्जसा तरसा मङ्क्षु अमम्नस्ताजगाशु च । शुकमह्नाय झगिति द्राक्स्राग्झटिति सत्वरे ॥ ३२ ॥ हिरुङ् म[239b]र्या च समया निकषारादुपान्तिके । ;l{3010} आराद् दूरे तिर्यगर्थे उभे साचि तिरोऽपि च ॥ ३३ ॥ पादपूर्तौ चापि तथा तु हि च स्महवैद्यकम् । यथा कथा च रै एतदनादरसमार्थकम् ॥ ३४ ॥ यथा तथा हि दृष्टान्ते सादृश्ये तु यथा तथा । व वा इव च दम्भं च स्थान एवं सहेति च ॥ ३५ ॥ ;l{3015} रै दाने देवताभ्यस्तु हविषः प्रतिपादने । श्रौषड्वौषड्वषट्स्वाहा पितृभ्यस्तु स्वधा मतम् ॥ ३६ ॥ तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते । चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ । उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥ ;l{3020} इष्टसंबोधनेऽङ्गेति हे है जाल्माभिमन्त्रणे । ;p{0124} हं हो अरे रे नीचानां कोमलामन्त्रणेत्यपि ॥ ३८ ॥ आत्मनावत्स्वयं प्रोक्तं यथास्वे तु यथायथम् । पश्चात्प्रतीच्यामवरे त्वर्वाक् क्षान्तौ पुनः क्षमा ॥ ३९ ॥ प्रेत्यामुत्रान्यसंसारेऽथास्ता[240a]नेर्विषये परै (?) । ;l{3025} प्रागुदक्प्रत्यगाद्याः स्युः पुरस्तात्तु पुरोऽग्रतः ॥ ४० ॥ पुरतोऽथोत्तरादुत्तरतोऽथो पञ्चमीं विना । अदूरे चोत्तरेण स्यादुत्तरात्तूत्तराहि च ॥ ४२ ॥ दक्षिणा दक्षिणाहि स्याद्दौर्येऽवधिमताऽवधेः । अधोऽधरादधस्तात्स्याददूरे त्वधरेण च ॥ ४३ ॥ ;l{3030} परस्तात्परतोऽथावोऽवस्तादवरतोऽपि च । अवरस्तादपादूरेऽवरेणैवं समुन्नयेत् ॥ ४४ ॥ अन्यदान्यत्र काले स्याद्वीप्सायामेकशो द्विशः । कार्त्स्न्येनाभूततद्भावे अग्निसात्प्रमुखा मताः ॥ ४५ ॥ ब्राह्मणत्रा ब्राह्मणसात्संपत्कृभ्व स्तियोगके । ;l{3035} देये च तदधीनोक्तौ बहुलं त्रान्तमन्यतः ॥ ४६ ॥ अथ द्वितीयासप्तम्योर्बहुत्रा जीवतो मतः । पञ्चकृत्वः पञ्चवारे तद्वद् द्विस्त्रिश्चतुर्मताः ॥ ४७ ॥ एजन्तः कृच्छन्दसि स्याज्जीवसे जीवितुं यथा । तोसुन्कसुन्विरामं स्यादुदेतोर्विसृ[240b]पो यथा ॥ ४८ ॥ ;l{3040} पूर्वकाले तु धात्वर्थे भुक्त्वा[या]त्येककर्तरि । भोजं भोजं भवेत्क्त्वार्थेऽथाग्रे भुक्त्वैवमर्थके ॥ ४९ ॥ ;p{0125} अग्रेभोजं पूर्वभोजं प्रथमाद्भोजमित्यपि । चोरंकारं तु चोरोऽसि त्वमित्याक्रोशने मतम् ॥ ५० ॥ स्वादुं कृत्वा स्वादुंकारं स्वार्थे तद्वल्लवणंकारम् । ;l{3045} एवंकारं त्वित्थंकारं नार्हे वक्तुं वैयर्थ्येन ॥ ५१ ॥ एवमेवान्यथाकारं कथंकारमपि स्मृतम् । यथाकारं तथाकारमहं भोक्ष्येऽत्र किं तव ॥ ५२ ॥ इति सिद्धाप्रयोगे स्याद्गम्ये सासूयमुत्तरे । साकल्ये विप्रदर्शं च बुधवेदं च यच्छति ॥ ५३ ॥ ;l{3050} यावद्वेदं यावल्लाभं यावज्जीवं त्वाजीवं स्यात् । चैलक्नोपं वस्त्रक्नोपं चैलं वस्त्रं चार्द्रीकृत्य ॥ ५४ ॥ कर्मण्युदरपूरं च चर्मपूरं च कीर्तितम् । सीतापूरं तु सीताप्रं वर्षेयत्तावबोधने ॥ ५५ ॥ भवेत्समूलकाषं तु समूलकषणार्थकम् । ;l{3055} एवं निमूलकाषं स्यान्निमू[241a]लकषणार्थकः । शुष्कं चूर्णं च रूक्षं च पिनष्ट्यर्थे क्रमात्परे ॥ ५६ ॥ शुष्कपेषं चूर्णपेषं रूक्षपेषं पिनष्टि दिक् । समूलघातं हन्ति स्यात्समूलहननार्थकम् ॥ ५७ ॥ जीवं गृह्णात्येतदर्थे जीवग्राहं प्रकीर्तितम् । ;l{3060} भवेदकृतकारं च करोत्यकृतमर्थके ॥ ५८ ॥ पदाहतौ पादघातं पेषणादौ तु तेन च । उदपेषं हस्तवर्तं हस्तग्राहं प्रकीर्तितम् ॥ ५९ ॥ स्वपोषं चापि रैपोषं पितृपोषं च संमतम् । ;p{0126} कूटबन्धं तत्र वेधे क्रौञ्चबन्धं तु नामनि ॥ ६० ॥ ;l{3065} भवेत्पुरुषवाहं च जीवनाशं च कर्तरि । ऊर्ध्वशोषं चोर्ध्वपूरं कर्मण्युपमितौ भवेत् ॥ ६१ ॥ अजनाशं तथा रत्ननिधायं च प्रकीर्तितम् । णमुल्प्रकृतिको धातुर्द्विः प्रयोज्यः कषादिषु ॥ ६२ ॥ दण्डोपघातं दण्डेनोपघातं तुल्यकर्मणि । ;l{3070} हिंसार्थानां तृतीयायां समासस्तु विभाषया ॥ ६३ ॥ तृतीयान्ते च सप्तम्यन्ते चोपपद[241b]के भवेत् । स्तनोपपीडं स्तनयोरुपपीडयतीति च ॥ ६४ ॥ व्रजोपरोधं हस्तोपकर्षमेवं समुन्नयेत् । केशग्राहं समासत्तौ द्व्यङ्गुलोत्कर्षमायतौ ॥ ६५ । ;l{3075} अपादाने परीप्सायां शय्योत्थायं विधावति । यष्टिग्राहं च युध्यन्ते भ्रूविक्षेपं वदत्यसौ ॥ ६६ ॥ स्याद्वक्षःप्रतिपेषं च ध्रुवस्वाङ्गस्य बाधने । द्वितीयायां व्याप्यमाना सेव्यमानार्थबोधने ॥ ६७ ॥ आस्ते गेहानुप्रवेशवाक्ये द्रव्यस्य च द्विता । ;l{3080} व्यापनेऽथ क्रियायाः स्याद् द्वित्वमासेवनार्थके ॥ ६८ ॥ एवं गृहानुप्रयातं गृहावस्कन्दमित्यपि । तथा गेहानुप्रपादं द्व्यहात्यासं क्रियान्तरे ॥ ६९ ॥ द्व्यहतर्षं पाययति गा इत्यादि समुन्नयेत् । नामादेशं तथा नामग्राहमाह्वयति प्रियाम् ॥ ७० ॥ ;l{3085} उच्चैःकारं तूच्चैःकृत्याप्युच्चैः कृत्वानिष्टं ब्रूते । नीचैः कृत्वा नीचैःकारं नीचैःकृत्य क्षेमं ब्रूषे ॥ ७१ ॥ ;p{0127} तिर्यक्कारं समाप्तौ[स्यात् ]तिर्यक्कृत्य गतो गृहम् । मुखतः कृत्य मुखतोभूय तद्वत्समार्थकाः[242a] ॥ ७२ ॥ मुखतः कृत्वा मुखतो भूत्वा मुखतःकारं मुखतोभावम् । ;l{3090} नानाकारं नानाभावं द्वैधंकारं द्वैधंभावम् ॥ ७३ ॥ तूष्णींभावं तूष्णींभूत्वा तूष्णींभूयाप्येकार्थानि । अन्वग्भावं त्वन्वग्भूत्वा त्वन्वग्भूय स्यादप्रातीप्ये ॥ ७४ ॥ क्रियार्थायां क्रियायां स्यात्तुमुन्भोक्तुं प्रयात्ययम् । अथ क्लीबान्यव्ययानि हरावित्यर्थवाचकम् ॥ ७५ ॥ ;l{3095} अधिहर्युपकृष्णं स्यादुपकृष्णेन तादृशम् । उपकृष्णे [तु]कृष्णस्य समीपमिति वाचकम् ॥ ७६ ॥ सुमद्रं मद्रऋद्धिः स्याद्व्यृद्धौ दुर्यवनं तथा । मूढाभावे तु निर्मूढमतिशीतं हिमात्यये ॥ ७७ ॥ निद्रा संप्रति नार्हैवमतिनिद्रं प्रकीर्तितम् । ;l{3100} हरिशब्दप्रकाशे तु बुधैरितिहरीरितम् ॥ ७८ ॥ विष्णोः पश्चाच्चानुविष्णु प्रत्यर्थं त्वर्थवीप्सने । अनुरूपं तु रूपार्हं सादृश्ये तु हरेर्भवेत् ॥ ७९ ॥ सहर्यथानतिक्रम्य कुलमर्थे यथाकुलम् । ज्येष्ठानुपूर्व्यनुज्येष्ठं सख्या तु सदृशे मतम् ॥ ८० ॥ ;l{3105} सस[242b]ख्यथ सचक्रं स्याच्चक्रेण युगपत्समे । सक्षत्रं क्षत्रसंपत्तौ साकल्ये सतृणं मतम् ॥ ८१ ॥ यावच्छ्लोकं तन्नियमे तल्लेशे तु घृतप्रति । प्रत्यग्व्यत्यस्याभिमुखे भुवनं तु वनीतिकम् ॥ ८३ ॥ ;p{0128} अनुगङ्गं तु काशी स्याद्गङ्गायामोपलक्षिता । ;l{3110} विपरीतं वृत्तमक्षैरित्यर्थेऽक्षपरि स्मृतम् ॥ ८४ ॥ एवं शलाकापरि[स्यात् ] तथैकपरि च स्मृतम् । अयं समासः कितवव्यवहारपराजये ॥ ८५ ॥ पारेगङ्गं तु गङ्गायाः पारमर्थे विभाषया । मध्येगङ्गं तथा वै स्यात् त्र्यादयो यस्य वाचकम् ॥ ८६ ॥ ;l{3115} त्रिमुनि द्विमुनि प्रोक्तं सप्तगङ्गं समाहृतौ । उन्मत्तगङ्गं संज्ञायां बहुव्रीहेश्च गोचरे ॥ ८७ ॥ नवरं केवले प्रोक्तं वरं युक्तं दरं पुनः । स्तोकेऽथ सारं श्रेष्ठे स्याद्विभक्तिप्रतिरूपकम् ॥ ८८ ॥ इति लक्ष्यादव्ययानि नानार्थानि प्रचक्ष्महे ॥ ७५ ॥ ;l{3120} अ स्वल्पाभाववाचि स्यादाङ् मर्यादेषदर्थयोः । अभिव्याप्तौ क्रियायोगे स त्वङित्स्मृतिवाक्ययोः ॥ ७६ ॥ आस्ताप-कोपयोरां[243a]तु स्मृति निश्चयार्थकम् । इ संबुद्धावमर्षोक्तौ विषादे च प्रकीर्तितम् ॥ ७७ ॥ ई दुःख-चिन्ता-कोपेषु उ संबुद्धौ रुषोदिते । ;l{3125} वाक्यारम्भे रुषोक्तावू ऋ वाक्ये कुत्सनेऽपि च ॥ ७९ ॥ लृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु । संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥ ईषदर्थे दुष्कृते च मनाङ्मन्देषदर्थयोः । धिग्भर्त्सने च निन्दायामृधक् शीघ्र-समीपयोः ॥ ८० ॥ ;l{3130} वियोगे लाघवे सत्ये ज्योक् प्रश्ने [च] द्रुतेऽपि च । संप्रत्यर्थे चिरार्थेऽथ पुनरर्थेऽग*समम् ॥ ८१ ॥ ;p{0129} घ हिंसाप्रातिलोम्याङ्घ्रि[पू]रणेषु प्रकीर्तितम् । तिर्यक् तिरोऽर्थे वक्रे च सम्यग्बाढ-प्रशंसयोः ॥ ८२ ॥ प्राक् प्रभाते व्यतीतेऽग्रे पूर्वार्थेऽवान्तरेऽपि च । ;l{3135} किं चारम्भे हिरुङ्मध्ये ननु च प्रश्नदुर्गिरोः ॥ ८३ ॥ समुच्चयान्वाचयनिश्चयान्यो- न्ययोगपक्षान्तरसंग्रहेषु । स्यात्पादपूर्तौ च समाहृतौ चः स्यात्तुल्ययोगे विनियुक्तिहेत्वोः ॥ ८४ ॥ ;l{3140} तद्विरोधे तदल्पत्वे तदन्यत्वे च [243b] तत्समे । अप्राशस्त्येऽप्यभावे च नञ् न च स्यात्तथाविधः ॥ ८५ ॥ शम्बट् वित्तेऽथ सुष्ठु स्यात्पूजात्यर्थप्रशंसने । अपष्ठु निन्द्येऽभव्ये च दुष्ठु निन्दित-निन्दयोः ॥ ८६ ॥ अन्तरेण विना मध्ये तु चार्थे निश्चये भिदि । ;l{3145} अभ्यनुज्ञान-पीडेर्ष्यास्वस्तु स्वित्प्रश्नतर्कयोः ॥ ८७ ॥ पुनःसहार्थयोर्नित्ये शश्वद्भूम्नि तथा क्वचित् । प्रश्नेऽपि कूपत् साक्षात्तु भवेत्प्रत्यक्षतुल्ययोः ॥ ८८ ॥ प्रतीच्यां चरमे पश्चात् नेत् विचारे समुच्चये । शङ्कायां प्रतिषेधेऽथ सहार्थेऽपि सकृत्स्मृतम् ॥ ८१ ॥ ;l{3150} यावत्तावत्सीम्नि माने साकल्ये चावधारणे । वाक्यालंकरणेऽपि स्तोऽथोताप्यर्थविकल्पयोः ॥ ९० ॥ प्राच्यां पुरोऽर्थे प्रथमे पुरस्तादग्रतोर्थके । ;p{0130} स्वस्ति मङ्गलपुण्याशीःसुखाङ्गीकरणार्थकम् ॥ ९१ ॥ संतोषसंबोधनविस्मयानु- ;l{3155} कम्पाविषादेषु च तत्प्रदिष्टम् । हन्त प्रदाने प्रमदे दयायां खेदे तथा[244a]वाक्यमुखे वदन्ति ॥ ९२ ॥ अहो बतामन्त्रणविस्मयेषु कष्टे दयायामपि चाभिमुख्ये । ;l{3160} ततो यतः स्तो नियमे विभागेऽ- थातिः प्रशंसापचितिप्रकर्षे । अतिक्रमासंप्रतिवाचकः स्या- दारात्तु दूरान्तिकवाचकश्च ॥ ९४ ॥ इति प्रकारादिसमाप्तिहेतु- ;l{3165} प्रकाशदृष्टान्तविनिर्णयेषु । स्वरूपसांनिध्यपरानुकर्षे तथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥ इत्थंभूताख्याने प्रतिनिधिवीप्साप्रयाणेषु । प्रतिदाने लक्षणके सांमुख्ये च प्रतिः ** ॥ ९६ ॥ ;l{3170} अथो अथानन्तरमङ्गलोप- क्रमप्रतिज्ञासकलत्ववाचि । प्रश्नेऽधिकारेऽपि च संशये च यथा पदार्थानतिवृत्तिवाचि । स्वीकारसादृश्यविनिर्णयेषु ;l{3175} समुच्चये प्रश्नविधावपिः स्यात् ॥ ९८ ॥ निष्कारणे स्याद्विधिवर्जिते च वृथान्यथा स्यात्परमार्थकेऽपि । ;p{0131} स्यात्सर्वथा कारणबाढकार्थे मिथो रहोर्थेऽपि मिथस्तथैव ॥ ९९ ॥ ;l{3180} उत्स्यात्प्रकाशप्रबलत्वशक्ति[244b] वियोगसामर्थ्यविलङ्घनेषु । अद्धा स्फुटे स्यान्नियमेऽथ नु स्या- त्प्रश्ने वितर्केऽनुनयेऽप्यतीते ॥ १०० ॥ आक्षेपे प्रत्युक्तौ वाक्यारम्भेऽप्यनुज्ञाने । ;l{3185} इष्टप्रश्ने नियमे सानु[न]यामन्त्रणे च ननु ॥ १ ॥ किंनु वितर्के प्रश्ने नानानेकोभयार्थेऽपि । सादृश्येऽप्यौचित्ये हेत्वर्थे चोदितं स्थाने ॥ २ ॥ लक्षण इत्थंभूताख्याने ***सहार्थे च । आयामे सादृश्ये पश्चादर्थे च भागेऽनुः ॥ ३ ॥ ;l{3190} निःक्षेपे नियमे निवेशभ(भृ?)शयोर्दानेऽन्तिके दर्शने- न्तर्भावोपरमाश्रयाम्बुषु तयोधा(?)भावविन्यासके । हर्षे चौर्यनिकृष्टवर्जनविपर्यासप्रमोदेष्वप स्याद्विश्लेषविकारयोरुप पुनर्हीनेऽधिके चान्तिके ॥ ४ ॥ दाक्षिण्यात्ययदोषवादनमृतिव्याप्त्यंहतिप्रक्रमे ;l{3195} पूजाचार्यविधानशक्तिषु भवेदुद्योगत( ? )द्योगयोः । गर्हाप्रश्नसमुच्चयेष्वपि भवेत्संभावने शङ्कने वीप्सेत्थंभवसंभवेषु गदितं विद्वद्भिरभ्यव्ययम् ॥ ५ ॥ कं कल्याणशिरोम्बुरुक्पुनरु[245a]रीकारानुयोगार्थयोः पृच्छा-गर्हणयोस्तु किं स्म तु गते कालेऽङ्घ्रिपूर्तावपि । ;l{3200} स्वाच्छन्द्येऽनुमतौ च काममुदितं स्यात्सामि निन्दा-र्धयो- र्नूनं निश्चित-तर्कयोरनुनय-क्रोधोक्तितर्केषु हूम् ॥ ६ ॥ ;p{0132} प्रबाहुकं स्यात्समकाल ऊर्द्ध्वे प्रकारसादृश्यसमार्थमेवम् । जोषं तु तूष्णींभवने सुखे[स्या]- ;l{3205} दमा सहार्थे निकटार्थके च ॥ ७ ॥ सासूयमङ्गीकरणेऽप्यलीके संभावनायां *** प्रसिद्धौ । स्यान्नाम वित्तेऽप्यथ तद्दिनं स्या- न्मध्ये दिनस्य प्रतिवासरे च ॥ ८ ॥ ;l{3210} अलं तु भूषा-प्रतिषेध-शक्ति- पर्याप्ति-वैयर्थ्य-निवारणेषु । शं स्यात्सुखे मङ्गलवाचकं च सं तु प्रकृष्टे रुचिरे समे च ॥ ९ ॥ अभीक्ष्णमश्रान्तमुहुर्द्रुतार्थे- ;l{3215} ऽथाभीक्ष्णमश्रान्त-भृशार्थयोः स्यात् । भवेदिदानीमधुनार्थवाक्य- संधानयोः स्यादुत किंचिदर्थे ॥ १० ॥ कथं प्रकारोद्भवसंभ्रमार्थे संभावनानिश्चययोः किमु स्यात् । ;l{3220} भृशं प्रकर्षे पुनर[245b]र्थके च नित्ये त्ववश्यं च विनिश्चयेऽपि ॥ ११ ॥ प्रश्नानुनीत्योरपि संभ्रमे तु क्रोधे विषादे स्मरणेऽप्यये स्यात् । मध्यान्तिकेऽर्थे समया प्र तु स्या- ;l{3225} द्गते प्रकर्षेऽप्यथ दुश्च कष्टे ॥ १२ ॥ ;p{0133} निषेधनिःशेषविनिश्चयेषु क्रान्तादिषु स्यादपि निः प्रकर्षे । पुनर्विशेषाप्रथमार्थकं स्या- त्स्वर्गेऽन्यलोके स्वरुदाहरन्ति ॥ १३ ॥ ;l{3230} प्राधान्यहिंसागतिधर्षणेषु प्रातीप्यवैमुख्यभृशाभिमुख्ये । विमोक्षविक्रान्तिवधे परा स्या- त्पुरा पुराणे निकटेऽप्यतीते ॥ १४ ॥ भविष्यदासन्नसदार्थकेषु ;l{3235} स्यादन्तरा मध्यनिषेधवाचि । मध्ये विचेतस्यपि संमतौ च प्रान्ते तथान्तः समुदाहरन्ति ॥ १५ ॥ सर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । ;l{3240} लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ चतुष्कमूर्यादि तनौ मतौ परै * तु प्रदाने च तिरस्कृतौ च । यत्र त्वमर्षानवक्लृप्तिगर्हा- ;l{3245} श्च[246a]र्येषु चार्याः समुदाहरन्ति ॥ १७ ॥ संभाव्यवार्तानुनयेषु हेतौ किलेत्यलीकेऽप्यरुचौ प्रदिष्टम् । सद्वाक्यभूषाप्रतिषेधमान- ज्ञीप्सासु वीप्सासु खलु स्मरन्ति ॥ १८ ॥ ;p{0134} ;l{3250} व स्यादपूर्तावुपमार्थके च विकल्पसादृश्यसमुच्चये वा । वि तु प्रशस्ये विशयेऽप्यतीते प्रसादसंबोधनपूरणे वै ॥ १९ ॥ आलम्बविज्ञानवियोगसिद्धि- ;l{3255} व्याप्ता....................... .................पूरणार्थकं मतम् ॥ २७ ॥ हा दुःखे शुचि ही तु विस्मयविषादार्थेऽथ हाहा तथा हू हूं खेद विषादयोरथ मतो हू विस्मयामन्त्रणे । हं हो विस्मयदुःखयोः सह पुनः साकल्यसादृश्ययोः ;l{3260} संबन्धर्द्धिसमानकाल उदितं ही ही तु हास्येऽद्भुते ॥ २८ ॥ आह क्षेपनियोगयोरथ मतावाहो उताहो उभौ पृच्छायां च विचारणेऽप्यथ परिक्लेशे प्रकर्षेऽह हा । हिंसोपक्रमकुत्सनेषु विबुधाः संकीर्तयन्त्यादह प्रोक्तं मंक्षु विचक्षणे अति[246b]शये तत्त्वे तथाति द्रुते ॥ २९ ॥ ;l{3265} अभिदधति निजार्थान्स्वर्मुखान्यव्ययानि प्रपरिसुचमुखानि द्योतयन्ति स्वमर्थम् । इमिति सिमितिनार्थं चक्षते चाटुमुख्यान् **रभिदधतेऽर्थं स्वस्य संभूय भूयः ॥ ३१ ॥ उपसर्गनिपातधातवो ;l{3270} बहुधार्थाः कथिता निसर्गतः । तदपीह तदर्थशंसनं शिशुशिष्यावलये निदर्शनम् ॥ श्री श्री श्री इति ;p{0135} श्रीविश्वनाथरचिते कोषकल्पतराविह । वर्गपञ्चकसद्बन्धः सामान्यस्कन्ध ईरितः । ;c{॥ इति श्रीविश्वनाथकृते कोषकल्पतरौ सामान्यस्कन्धश्चतुर्थः ॥} ;k{नानार्थस्कन्धः} ;l{3275} यथाप्रसिद्धि प्रथमोदितानां श्लेषादिकेष्वर्थविभासनाय । नाम्नामनेकार्थगणं वितन्मः कान्तादिवर्गैः क्रमिकान्तबन्धैः ॥ १ ॥ नानार्थकं यद्यपि शब्दजातं ;l{3280} यस्मिन्समन्वेति सदन्वयेन । तद्योगिनां चेतसि भासमान- मानन्दरूपं पुरुषं भजामि ॥ २ ॥ ;v{कान्ताः} ;vv{एककाः} कः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्के सख्यौ तथा चात्मनि धर्मराजे । ;l{3285} दक्षे मयूरे नरि कं तु मौलौ नीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥ भूमौ स्त्रियां कुस्त्रिषु कुत्सिते स्यात् ;vv{द्विकाः} ;c{द्विकः} अकं तु दुःखे दुरितेऽपि शस्तम् । शकस्तु देशे भुजगे च वर्णे ;l{3290} शुको भवेद्व्याससुते च कीरे ॥ ३ ॥ स्याद्ग्रन्थिपर्णे च शुकं शिरीषे द्विकस्तु काकेऽपि च कोकनाम्नि । ईहामृगे स्यात्करटे वृकोऽथ सृकः समीरोत्पलसायकेषु ॥ ४ ॥ ;l{3295} अङ्कः कलङ्कान्तिकरूपकेषु ;p{0136} स्यान्नाटकाङ्गेऽपि विचित्रयुद्धे । उत्सङ्गकस्थानविभूषणागस्- स्वकं तु दुःखे दुरिते द्वयोनम् ॥ ५ ॥ पल्याणभागे नरि वङ्क उक्तः ;l{3300} पात्रे नदीनामपि भङ्गुरे स्यात् । टङ्कोऽस्त्रियां मानकपित्थभेदे खड्गे खनित्रेऽपि कृपाणकोशे ॥ ६ ॥ स्याट्टङ्कने ग्रावविदारणे च शैलस्य शृङ्गे विवरे च टङ्गे । ;l{3305} अत्कः प्रतीकाध्वगयोरथार्को रव्यर्कपर्णस्फटिकेन्द्रताम्रे ॥ ७ ॥ [247b]कर्कस्तु शुक्लाश्वघटानलेषु राशौ तथा दर्पण ईरितोऽयम् । तर्को वितर्केच्छययोः(?)क्रियाया ;l{3310} भेदे च शल्कं शकले च वल्के ॥ ८ ॥ कल्कोऽस्त्रियां तैलघृतादिशेषे दम्भे च पापे च बिभीतके च । विट्‌किट्टयोः पापहृदि त्रिलिङ्ग्यां वल्कं तु शल्केन समार्थमुक्तम् ॥ ९ ॥ ;l{3315} घट्टादिदेये दुहितुश्च पत्युः स्याद्बन्धके शुल्कमपि स्त्रियां न । मुष्कोऽण्डकोशे तुरगादिमाने स्त्रियां न वृन्देऽपि स मोक्षवृक्षे ॥ १० ॥ अष्टाधिकस्वर्णशते च कर्षे ;l{3320} वक्षःस्थलालंकरणे च हेम्नः । पात्रे पले पुंसि नपुंसके च दीनारके तद्वदुशन्ति निष्कम् ॥ ११ ॥ किष्कुः प्रकोष्ठेऽपि करे वितस्तौ ;p{0137} द्वयोस्त्रिलिङ्गस्तु स कुत्सिते स्यात् । ;l{3325} स्त्री कूपनेमौ वहिः ( ? )पृष्ठवंशा धरे त्रये च त्रिकमामनन्ति ॥ १२ ॥ नाकोऽस्त्रियां व्योमदिवोः शिशौ तु निष्ठा जरा क्लेदनम[त्र] पाकः । शक्तौ नरि द्वीपभिदीह राज- ;l{3330} भेदे द्रुभेदे[च]वदन्ति शाकम् ॥ १३ ॥ न स्त्री तु कन्दा[248a]दिदशप्रकारे धाको वृषे पुंसि तथाश्रये च । मूकस्तु दीनावचसोस्त्रिलिङ्ग्यां भूकं तु रन्ध्रे समये तु पुंसि । ;l{3335} बको बकोटे बकपुष्पके च धनाधिनाथे च निशाचरे च । शूकोऽपि धान्याद्यतितीक्ष्णकाग्रे शुद्धे कृपायामपि न स्त्रियां स्यात् ॥ १५ ॥ धृष्टेऽग्रजे पीठगते च मूर्धा- ;l{3340} वक्षालने द्वीपरुषद्द्रुभेदे । स्याद्वेसवारे करटे च काकः काकी तु काकस्य वधूश्च जातिः ॥ १६ ॥ काका मलप्वामपि काकणन्त्यां काकोलिकायामपि काकमाच्वाम् । ;l{3345} स्यात्काकनासाह्वयभेषजे च काकं पुनः स्त्रीरतबन्धकेऽपि ॥ १७ ॥ लङ्का तु रक्षःपुरपत्तनस्त्री शाखासु शङ्का तु भये वितर्के । ;p{0138} राका तु कच्छ्वां प्रथमार्तवायां ;l{3350} नद्यन्तरे पूर्णविधौ तिथौ च ॥ १८ ॥ भुवने जने च लोकः श्लोकः कींर्तौ च पद्ये च । रङ्को मन्दे कृपणे तङ्कस्त्वस्त्री कुजीवने रोगे ॥ १९ ॥ शोकः[248b]प्रलापे हृदयस्य दौःस्थ्ये रोकं तु नौका-क्रयभिद्बिलेषु । ;l{3355} कान्त्यां पुमान्स्यादथ चातके ना स्तोकोऽल्पके त्वे[ष] विशेष्यलिङ्गः ॥ २० ॥ ज्येष्ठ्यां रथाङ्गेऽपि वृकेऽपि कोकः खर्जूरिकायां च तरुप्रभेदे । छेको विदग्धे भ्रमरे च वक्रे( ? ) ;l{3360} शङ्काविरेकाधमकेषु रेकः ॥ २१ ॥ भेकस्त्ववानपि(?)वधूकरणे तु शौकं नाकुर्मुनौ कृमिगिरौ [च गिरौ] तथोक्तः । शङ्कुः पुमान्सलिलजन्तुविभेदकील- शंभ्वस्त्रकेषु मिथुने तु चतुर्दशेऽङ्के ॥ २२ ॥ ;l{3365} एकं तु पूर्वसंख्यायां प्रधाने केवलेऽन्यवत् । अन्यार्थेऽथ द्वयोः काकुर्जिह्वायां च ध्वनेर्भिदा । तर्कुस्तु कर्तके पुंसि कुन्दयन्त्रेऽग्निभाजने ॥ २३ ॥ न्यङ्कुर्मुनौ च हरिणे ;vv{त्रिकाः} ;c{त्रिकाः} कनकं तु हेम्नि ;l{3370} चाम्पेयचम्पकपलाशककाञ्चनारे । धत्तूरके क्वचन पीतकचन्दनेऽपि स्याद्दानवेऽपि नरको जनको मुनौ च ॥ २३ ॥ करकः करदाडिम-पक्षिभिदा- स्विह पुंसि करङ्कक[249a]मण्डलुषु । ;p{0139} ;l{3375} स न योषिति मेघशिलासु तु स त्रितये मशकस्तु रुजाभिदि वः(?) ॥ २४ ॥ तर्षे त्रिषु स्यात्सरकोऽथ न स्त्री स इक्षुसीधुन्यपि सीधुपात्रे । अच्छिन्नपान्थालिषु चान्तरिक्षे- ;l{3380} ऽथो संधिचौरे खनकस्तथाखौ ॥ २५ ॥ युतकं संशययुगयोर्यौतकमुक्तं वधूवस्त्रे । चलनाग्रेऽपि वियुक्ते कृषकः फाले कृषीवले चोक्तः ॥ २६ ॥ रजकः शुकेऽप्यथो ना यष्ट्याह्वे मधुपर्णिकायाम् । ;l{3385} मधुकः पक्षिविशेषे वन्दिविभेदे च पुंलिङ्गः ॥ २७ ॥ त्रिष्वणुको निपुणेऽल्पे पृथुकश्चिपिटे पुमाञ्शिशौ वसुकः । त्रय्यां स्याच्छिवमल्ल्यां ;l{3390} मन्दारे रामके तद्वत् ॥ २८ ॥ क्रमुकः पूगे लोध्रे ब्रह्मतरौ भद्रमुस्ते च । कर्पासिकाफलेऽथो शिशुकः शिशुमारवारकाङ्कोल्ले ॥ २९ ॥ ;l{3395} बहुकः कर्कटकेऽर्के दात्यूहे जलखादके तद्वत् । धनिको धवे धनाढ्ये त्रिषु वध्वां स्त्री नपुंसि धान्याके ॥ ३० ॥ प्रियको[249b]नीपे मधुपे ;l{3400} चित्रमृगे पीतसाले च । फलिनीकुङ्कुमयोश्च ;p{0140} त्रय्यां यमको यमोत्पन्ने ॥ ३१ ॥ ना संयमेऽथ शब्दा- लंकारे द्वंद्वहीनं स्यात् । ;l{3405} कुलकं ना कुपटोल- श्लोककसंबन्धगुच्छेषु ॥ ३२ ॥ ना काकतिन्दुके त- द्भेद्यवदुक्तं कुलश्रेष्ठे । पुण्ड्रे तिलको न स्त्री ;l{3410} पुंसि ललामे गदाश्वभेदे च ॥ ३३ ॥ तिलकालके द्रुभेदे गगने सौवर्चले प्रोक्तः । कुलिको नागविशेषे वृक्षविशेषे त्रये कुलश्रेष्ठे ॥ ३४ ॥ ;l{3415} तैले कुशिकं शिष्टे शेषे सर्जार्जयोश्चर्षौ । चषकोऽस्त्री मधुपात्रे मद्यविशेषे त[था] क्षौद्रे ॥ ३५ ॥ कटकोऽस्त्र्यद्रिनितम्बे ;l{3420} वलये स्याद्राजधान्यां च । तद्वत्समुद्रलवणे दन्तावलदन्तमण्डने चोक्तम् ॥ ३६ ॥ कटुकं कटुरोहिण्यां द्वंद्वेऽल्पे सर्षपे व्योषे । ;l{3425} चलुकश्चुलकश्च द्वौ प्रसृतौ भाण्डप्रभेदे च ॥ ३७ ॥ तक्षक उक्तो नागे स्थपतावल्पे तु निःस्वे च । नीचे कनीयसि स्या- ;p{0141} ;l{3430} त्परलिङ्गः क्षु[250a]ल्लकस्तद्वत् ॥ ३८ ॥ रणरणके रक्तकुथे रल्लक उक्तश्च सीमन्ते । पुलकोऽस्त्री कृमिभेदे गल्वर्के रक्तदोषे च । ;l{3435} रोमाञ्चे हरिताले शिलाविभेदे गजान्नपिण्डे च ॥ ३९ ॥ रुचकं दन्ते ग्रीवा- लंकारे मङ्गलद्रव्ये । माल्ये चाश्वाभरणे ;l{3440} सौवर्चलजन्तुहारिलुङ्गेषु ॥ ४० ॥ स्याद्रोचने कटकयोः क्षुरकः पुनरिक्षुरे त्रिकण्टे च । अतिमुक्तेऽशोकतरौ कामुक आद्येऽभिके परवत् ॥ ४१ ॥ ;l{3445} पुंसि वारिकरटिप्रपातयोः पातुकः स पतयालुके त्रिषु । आनकस्तु रसदब्दमृदङ्ग- भेरिकापटहवाचकः पुमान् ॥ ४२ ॥ चारको गजहयादिपालके ;l{3450} बन्धभिद्यपि पियालपादपे । कर्णधारदनुजेषु तारकौ लोचने तु स मतो नपुंसके ॥ ४३ ॥ सर्वलिङ्गि भकनीनिकयोः स्या- द्वारकस्तु तुरगेऽश्वगतौ च । ;l{3455} स्यान्निषेद्धरि विशेष्यसलिङ्ग सायकस्तु विशिखेऽपि कृपाणे ॥ ४४ ॥ ;p{0142} हारमध्यगमणौ तु नायको [250b]नेतरि त्रिषु बुधैरुदीरितः । पावकस्त्वरणिचित्रकाग्निषु ;l{3460} त्रिष्वयं विमलशीलशालिनि ॥ ४५ ॥ वर्तको हयखुरे द्वितयस्मि- न्नेष पक्षिणि मतोऽथ कुलाये । जालिनीफलककोरकदम्भा- नायवाचि किल जालकमन्त्ये ॥ ४६ ॥ ;l{3465} स्त्री तु वस्त्र भिदि भेद्यगतस्तु वालको जडमतौ च शिशौ च । पुंसि केशहयवारणपुच्छे- ऽथोर्मिकानलदयोरपि न स्त्री ॥ ४७ ॥ स्यात्कारकं कर्तरि वाच्यलिङ्गं ;l{3470} कर्मादिषूक्तं द्वितयोनमेतत् । स्याद्वार्द्धकं कर्मणि च व्रजे च भावे च वृद्धस्य जघन्यलिङ्गम् ॥ ४८ ॥ ममत्वभाजि मामकस्त्रयेऽथ मातुले पुमान् । नृपद्विपे(?) च राजको नृपव्रजे तु न द्वयोः ॥ ४९ ॥ ;l{3475} स्याद् ग्राहको वधकपक्षिणि भेद्यलिङ्ग- स्त्वेष ग्रहीतरि भवेदथ दारकः स्यात् । भेद्यायतो भिदिकरे द्वितये त्वपत्ये स्याद्रात्रकस्तु पुरदारगृहेऽब्दनेता ॥ ५० ॥ पिण्डे तु शर्करायाः शार्कक उक्तः स दुग्धफेनेऽपि । ;l{3480} [251a]केकिनि लासक आद्ये भेद्याधीनस्तु नर्तके लसके ॥ ५१ ॥ हारकः कितवचौरगद्यभिद्- ज्ञानभित्सु च मतो नृलिङ्गकः । ;p{0143} स्थासकस्तु हयभूषणवारि- ;l{3485} बुद्बुदेष्वपि च चर्चिकतायाम् ॥ ५२ ॥ सूर्यावर्ते धूर्ते ग्रावविभेदे च जम्बुको गदितः । भ्रामक आद्ये परवद्भ्रमकर्तर्येष उद्दिष्टः ॥ ५३ ॥ कोके तु कावृकः स्यात्कृकवाकौ पीतमौलौ च । ग्रावविभेदे चतुरे द्रावक उक्तोऽपि घोषके पुंसि ॥ ५४ ॥ ;l{3490} क्षारकः खगझषादिपेटके पाटकस्तु कटकान्तरे तटे । वाद्यभिद्यपि * मूलरैक्षये- ऽक्षादितोलनविधावपि स्मृतः ॥ ५५ ॥ युद्धे वराकस्त्रिषु तु स्मृतोऽसौ ;l{3495} शोच्ये पराको व्रतखड्गयोः स्यात् । पिनाकमस्त्री हरचापपांशु- वर्षे त्रिशूलेऽपि च संप्रदिष्टम् ॥ ५६ ॥ पिण्याकमस्त्री तिलकल्कहिङ्गु- कश्मीरजन्मस्वपि सिह्लके च । ;l{3500} बाह्लीकवद्बाह्लिकमत्र हिङ्गु- सत्कुङ्कु[251b]मे देशतुरंगयोर्ना ॥ ५७ ॥ स्यात्पाणिनौ खजाको दर्व्यां तु स्त्री पुलाकस्तु । संक्षेपे(ऽ?) फलधान्यौदनसिक्थेष्वेष शीघ्रे च ॥ ५८ ॥ स्वादौ परिणामे दुर्गतौ विपाकः समुद्दिष्टः । ;l{3505} स्वेदे दुष्कर्मफले भवति निपाकस्तथा पाके ॥ ५९ ॥ किंपाकस्त्रिषु मन्दे स फले क्लीबेऽथ लम्पाकः । त्रितये लम्पटवाची देशे पुंलिङ्ग उद्दिष्टः ॥ ६० ॥ लिम्पाकं निम्बूके [लिपिका] लिम्पौ स्त्रियां कदल्यां तु । ;p{0144} ;l{3510} शिग्रौ विरागिणि तथा प्रोक्तो निर्मोचके च मोचकः ॥ ६१ ॥ संपाको नृपतरुधृष्टतर्ककेषु पुंलिङ्गः पुनरपि पेचकोऽस्त्युलूके । स्यान्नीले तमसि मले च बर्हिचन्द्रे ;l{3515} स्त्रीलिङ्गं न भजति जातु मेचकोऽपि ॥ ६२ ॥ स्यात्सूचकः सीवनवस्तुकाक- बिडालवान्तादगतो नृलिङ्गः । स्याद्बोधके च पिशुने च विशेष्यलिङ्गो मेघे तु ना त्रिषु तु सेक्तरि सेचकोऽपि ॥ ६३ ॥ ;l{3520} खाद्ये न स्त्री मोदको हर्षुके तु भेद्याधीनो लोचक[252a]स्त्वक्षितारे । स्त्रीणां भालालंकृतौ मांसपिण्डे मोचार्थी चाथास्त्रियां कज्जले सः ॥ ६४ ॥ स्यात्पूगकोशे कृमिपर्वते च ;l{3525} पाके शिरस्त्रेऽपि च खोलको ना । स्याद्गोलको ना मणिके गुडेऽपि तोयस्थितग्राव्णि तु कूपकः स्यात् ॥ ६५ ॥ तैलस्य पात्रे च कुकुन्दरेऽथ प्रतीपवल्मीकसमुच्छ्रयेऽन्त्ये । ;l{3530} स्यात्कूपिका कूपसमीपगायां शुष्कापगायामपि खातकूपे ॥ ६६ ॥ काव्यालंकृतिभेदे काव्यविशेषे च रूपकं क्लीबे । परवद्धूर्ते कूपे ;l{3535} त्वाम्रे प्रोक्तश्च चूतकः पुंसि ॥ ६७ ॥ ;p{0145} रसे सूतकोऽस्त्री जनौ त्वन्त्यलिङ्गः पशौ लूनकोऽथ त्रये भिन्नवाची । पुमान्कीचको दैत्यभेदे च वेणौ बधौ( ? )हीरको वृत्तभेदे तु षण्ढे ॥ ६८ ॥ ;l{3540} जीवकस्तु नरि पीतशालके वृद्धिजीविकृपणार्थकोऽन्यवत् । दीपकं भवति वागलंकृतौ दीप्तिकारिणि तु वग्च्यवत्स्मृतम् ॥ ६९ ॥ पुंसि जीरकयवानिकाद्वये ;l{3545} स्या[252b]च्छिखावलशिखण्डवाच्यपि । निर्धने हृतदयेऽपि कीटको भेद्यवत्समुदितो विचक्षणैः ॥ ७० ॥ स्यात्सेवकः [प्र]सेवे परवत्सेवाकरे प्रोक्तः । ;l{3550} मानद्रुमेऽप्यशोको निःशोके वाच्यवद्गदितः ॥ ७० ॥ योषिति कटुरोहिण्यां साधारण्येन पादपे क्लीबे । आलोको वन्द्युक्ता- ;l{3555} वुद्द्योते दर्शने पुंसि ॥ ७१ ॥ पुस्तकमञ्जूषायां पेटकमुदितं तथा संघे । भवति महाकालगणे चार्वाके हेतुकस्तद्वत् ॥ ७२ ॥ ;l{3560} स्याद्धैनुकं स्त्रीकरणे गवौघे धातौ गिरेर्हेम्नि च गैरिकं स्यात् । ;p{0146} सद्योंङ्कुरे शिग्रुभवे च तैले हेतौ तथा बैजिकमुक्तमत्र ॥ ७३ ॥ प्रसेकः स्रुतौ सेचने वक्त्रलाला- ;l{3565} स्रुतौ स्यादथ द्रोणिकायां जलस्य । विचारे रहोऽर्थे च शस्तो विवेक- स्त्रिषु त्वेकको निःसहाये रसे ना । कङ्कोलके मृणाले कोरकमस्त्री च कुड्मलार्थेऽपि । ;l{3570} अभिलाषोत्सवनर्म- प्रीतिविवा[253a]हीयगीतसूत्रादौ ॥ ७५ ॥ कामे भोगे कुतुके कौतुकमच्छिन्नमङ्गले चापि । दीपाङ्गयोः प्रतीकः ;l{3575} प्रतिकूलविलोमयोः परवत् । विश्वामित्रे वृत्रशत्रावुलूके व्यालग्राहे गुग्गुलौ कोशविज्ञे । पुंलिङ्गः स्यात्कौशिकः कौशिकी तु कात्यायन्यां स्यात्स्रवन्तीविशेषे ॥ ७७ ॥ ;l{3580} भूतीकं भूतिकव- त्कत्तृणभूनिम्बसोमवल्केषु । वल्मीको मुनिभेदे गदभेदेऽर्थे*वामलूरेऽस्त्री ॥ ७८ ॥ धूमेन्द्रवोस्त्वजीवो ना स त्रिषूपहते मतः । ;l{3585} कुण्डीकुलविभेदे तु चुलुकी शिशुमारके । अभीकः कवौ कामुकः क्रूरवाची विशेष्यायतोऽनीकमस्त्री रणेऽपि । अलीकालिके नाकभालानृतेषु ;p{0147} स्मृते चाप्रियेऽथ व्यलीकं न योषित् ॥ ७९ ॥ ;l{3590} अकार्येऽप्रिये कामदोषे तु पीडा- र्थवैलक्षयोर्द्वंद्वहीनं मतं तत् ॥ ८० ॥ नालीकं कमलगणेऽन्तिमेऽथ बाणे ना शिल्पिन्यथ[253b]कुलशीलयोरनूकम् । पुंसि स्याद्गतजननेऽथ वासवे स्या- ;l{3595} द्घूके स्यादपि कुरुवीरकेऽप्युलूकः ॥ ८२ ॥ शम्बूकशम्बुकौ स्तो दैत्यविभेदे च भेके च । गजकुम्भमध्यभागे स्त्रीपुंसावम्बुशुक्तौ तौ ॥ ८२ ॥ चारणे वर्ण[को] वर्णकं चन्दने कुङ्कुमे लेपनेऽथार्भको भेद्यवत् । ;l{3600} बालके[निर्ध]ने[स्यात्]कृशे भ्रूणको वेत्रधारे त्रये दर्शकः शिक्षके ॥ ८३ ॥ पुष्पकं रीरिकादृग्व्यथाभेदयो रत्नसत्कङ्कणे स्याद्विमानान्तरे । लोहकासीसकाङ्गारधान्याह्वये ;l{3605} तार्क्ष्यजे चाञ्जने पुष्पकं चक्षते ॥ ८४ ॥ पद्मकमस्त्री करिणों- ऽशुबिन्दुजाले च पद्मकाष्ठे च । व्याघ्रे तु चित्रको ना द्रुमभेदे पुण्ड्रके नस्त्री ॥ ८५ ॥ ;l{3610} स्यान्नालिकेरमध्ये खड्गे रत्ने च सस्यकः प्रोक्तः । अम्लाने बन्धूके रक्तपटे ना च रक्तको [गणितः] ॥ ८६ ॥ द्रुणे वृश्चिकः शूककीटे च राशौ ;l{3615} द्वयोरोषधीभेदके स्यान्नृलिङ्गः । ;p{0148} भ[254a]वेदंशुकं सूक्ष्मवस्त्रे च वस्त्रे तथैवोत्तरीये मयूखे तु पुंसि ॥ ८७ ॥ स्यादन्तिकं समीपे चुल्ल्यां ज्येष्ठस्वसरि च नाट्ये स्त्री । ;l{3620} स्यात्स्वस्तिकश्चतुष्के गृहभेदे मङ्गलद्रव्ये ॥ ८८ ॥ पिष्टकविकृतौ तद्व- द्रतताल्यामादिमे प्रोक्तः । कञ्चुकमस्त्री कवचे ;l{3625} निर्मोके वारणेऽपि स्यात् ॥ ८९ ॥ चोलकपूर्णानकयो- रोषधिभेदे तु कञ्चुकी प्रोक्ता । गृहनकुले गोमायौ नरि धूर्ते तु वञ्चकः परवत् ॥ ९० ॥ ;l{3630} निघ्नेऽपि गृह्यकः स्या- द्विनिमित्यां बन्धकं निहिते । परवत्सुगन्धविक्रे- तरि लिपिजीवे च गान्धिको गदितः ॥ ९१ ॥ वरुणेऽपि जम्बुकः स्याद्- ;l{3635} ग्रन्थिक आद्ये करी[रः]स्यात् । गुग्गुलुमाद्रीसून्वो- र्दैवज्ञेऽन्त्ये तु पिप्पलीमूले ॥ ९२ ॥ स्याद्वार्षिकं द्वयोनं त्रायन्त्यां वार्षिके परवत् । ;l{3640} महिषीपयसः फेने खट्टिक उक्तोऽथ सौनिके परगः ॥ ९३ ॥ आह्निकमशनेऽहीन- ;p{0149} निर्वर्त्यकर्मण्युदीरि[254b]तं चरमे तत् । गुलकः कलोक्तिधूलि- ;l{3645} स्नेहामत्रेषु वाच्यवन्मलिने ॥ ९४ ॥ स्याद्गण्डकः खड्गिनि चान्तराये संख्याकलाभिद्यबला तु नद्याम् । स्यात्तण्डको भूरिसमासवाक्ये फेने च मायाविनि खञ्जने च ॥ ९५ ॥ ;l{3650} स्यात्कण्टकोऽस्त्री पुलकद्रुमांश- क्षुद्रारिकर्मस्थितिदूषणेषु । द्वारे तु पक्षस्य च पार्श्वमात्रे स्यात्पक्षकोऽथो वलये च कम्बौ ॥ ९६ ॥ क्लीबेऽथ मर्मण्यपि शीर्षरोगे ;l{3655} ना शङ्खकोऽथ त्रिषु नन्दकः स्यात् । कुलोत्तमे हृष्यति विष्णुखड्गे ना शीतकः शीतऋतौ नरे स्यात् ॥ ९७ ॥ स्याद्दीर्घसूत्रे त्रिषु सुस्थिते च ग्रीष्मे पुमानुष्णक आतुरे तु । ;l{3660} क्षिप्रक्रिये चाप्यथ[?]र्क्कुकः स्या- न्ना गन्धकुट्यामवकाशके च ॥ ९८ ॥ दुण्डकस्तिन्दुके वाच्यवन्निष्ठुरे भस्मकं रूप्यके जन्तुहारिण्यपि । रोगभेदे पुमांश्चुम्बकस्त्वादिमे ;l{3665} स्यादयस्कान्तके ****** ॥ चापे च वेणावपि कार्मुकं स्यात् ॥ १०० ॥ मोक्षेऽन्तरिक्षे कवचेऽहिकृत्तौ ;p{0150} निर्मोक आद्ये चरकस्तु चारे । मुनौ कुषाकुस्तु कृशानुभानु- ;l{3670} कीशेष्वथातापिनि वाच्यलिङ्गः ॥ १ ॥ कुठाकुर्दुराधर्षदुःशीलयोः स्या- द्विशेष्यायतः पक्षिभेदे तु पुंसि । सृदाकुर्दवाग्नौ समीरे शयाने सरिद्वाचकस्तु स्त्रियां **** ॥ २ ॥ ;l{3675} व्याघ्रे सर्पे चित्रके ना पृदाकु- र्गोरङ्कुः स्यान्नग्नके पक्षिजातौ । बन्दिन्युक्तोऽथ त्रिशङ्कुर्बिडाले राज्ञो भेदे स्यात्पतङ्गाह्वये च ॥ ३ ॥ पर्यङ्कः पल्यङ्को ;l{3680} द्वौ पर्यङ्के च मञ्चे च । मुन्यासने च सक्थ्या- मथो करङ्कः पुटोदकेऽस्थ्नि स्यात् ॥ सस्ये तथोत्तमाङ्गे- ऽथाक्षेपेऽङ्के मलेऽप्ययसः । ;l{3685} प्रथमे कलङ्क उक्तः पालङ्कः शाकशल्लक्योः ॥ ५ ॥ भालाङ्क ईशेऽपि च शाकभेदे कूर्मे तथा रोहितनाम्नि मत्स्ये । सल्लक्षणे स्यात्पुरुषे वृषाङ्क- ;l{3690} स्त्वीशे च साधावपि वल्लिवृक्षे ॥ ६ ॥ [255b]आतङ्को मुरजनिनादतापशङ्का- रुक्ष्वस्त्री रतिपतिकण्टकेऽप्युदर्कः । संपर्को निधुवनपृक्तिवाचकः स्या- ;p{0151} दूहायां पुनरिह संशये वितर्कः ॥ ७ ॥ ;l{3695} अम्बिका तु जननी **** *********** । ******* कपटे चा- थाम्लिकाम्लकरसोद्गिरणेऽपि ॥ ८ ॥ अम्लानके स्यादपि यूथिका स्त्रियां ;l{3700} केदाररेखासुरिकासु राजिका । द्वारस्य पिण्ड्यामपि दूतिकायां संग्रामभूमौ गदिता च रुण्डिका ॥ ९ ॥ काञ्चीरसालारसनासु सद्भिः कोषप्रवीणै रसिकोपदिष्टा । ;l{3705} स्यात्कर्णिका कर्णविभूषणेभ- शुण्डाग्रपाथोरुहबीजकोशे ॥ १० ॥ स्यात्पाणिमध्याङ्गुलिपूगखण्डे *********** । स्यात्कल्पनायामपि भूमिकान्य- ;l{3710} वेषस्य च स्वीकरणे प्रदिष्टा ॥ ११ ॥ गोधूमपिष्टे कणिका कणे चा- थ स्यात्करिण्यां गणिका च यूथ्याम् । वाराङ्गनायामरणिद्रुमेऽथ स्याद्ग्रामकूटेऽपि च धीवरे च ॥ १२ ॥ ;l{3715} ना जालिकः स्त्री त्वधवाङ्गनायां वेणीफले[256a] स्यादपि रक्तपायाम् । स्यात्कामचिन्तातनुरक्षिणीषु सारेमि[?]श्च क्वचिदुच्यतेऽसौ ॥ १३ ॥ कारिका विवृतियातनानटी- ;l{3720} कारुकर्मसु च वर्णका पटे । ;p{0152} लेखिनीभिदि च नीलिका पुनः सिन्धुवारगदनीलिनीष्वपि ॥ १४ ॥ गौरीनवाम्बुदघनावलिधूमरीषु स्याद्योगिनीभिदि नृवत्सर( ? )कार्ष्ण्ययोश्च । ;l{3725} मांसीपटोलघनरोमलतासु शाखा- काक्योश्च वृश्चिकदलेऽपि च कालिका स्यात् ॥ १५ ॥ मालिका तु सरिदन्तरे स्रजि श्रोत्रमण्डनकवालुकासु तु । बालिका भवति पत्रकाहला- ;l{3730} बाल्यशालिललनास्वपि स्मृता ॥ १६ ॥ आलेख्यलेखनीतूलशय्यास्वपि च तूलिका । नाटकाङ्गे कर्णजाहे करिणामपि चूलिका ॥ १७ ॥ करिण्यां धेनुका धेनौ पुंलिङ्गे दनुजान्तरे । मल्लिका तृणशूल्ये ना हंसभिद्दीपपात्रयोः । ;l{3735} चोलकी नागरङ्गे च करीरे किष्कुपर्वणि । नग्नाचार्ये हिण्डकः स्याद्दीनाया[256b]मपि मूषिका ॥ १८ ॥ झिल्लिका सिह्लके झिल्ल्यां विलेपनमलेऽपि च । वालुका सिकतासु स्त्री द्वयोनं त्वेलवालुके ॥ १९ ॥ कुमार्यां धेनुकायां च नग्निका नरि वन्दिनि । ;l{3740} हरेणौ पर्शुरामस्य जनन्यामपि रेणुका ॥ २० ॥ सूचिकायां तूलिकायां कुड्मले क्षीरनिर्मितौ । कूर्चिकाररयन्त्रेऽपि मातृका वर्णसंहतौ ॥ २१ ॥ मातृकाकरणे धात्रीमात्रोश्च परमात्मनि । यावतूलिकपाञ्चालीकन्यकास्वपि पुत्रिका ॥ २२ ॥ ;l{3745} धूर्ताद्रिद्रुप्रभेदेषु शरभे च नृलिङ्गका । स्यमिका स्यान्नीलिकायां नाकुपादपयोर्नरि ॥ २३ ॥ उष्ट्रिका तु मृदमत्रविशेषे- ;p{0153} ऽप्युष्ट्रयोषिति जलस्य तु बिम्बे । मोणकं स्मरनिपीडितनार्यां ;l{3750} डिम्बिका निगदिता मतिमद्भिः ॥ २४ ॥ दूषिकाक्षिमलतूलयोर्मता- थोर्मिका वसनभङ्गभङ्गयोः । अङ्गुलीयकमधुव्रतगुञ्जो- द्वाहुलेष्वपि मता विचक्षणैः ॥ २५ ॥ ;l{3755} भवे[257a]द्बलाका विसकण्ठिकायां सकामनार्यां बकसंहतौ च । बके पुमान्स्यादथ वैजयन्त्यां सौभाग्यनाट्याङ्गकयोः पताका ॥ २६ ॥ शल्ये शलाका स्मरसारिकायां ;l{3760} शरे तथाक्षे खेचर?पञ्जरे च । स्यान्नर्तकीभ्यामपि लासिकायां ना चारणे पोटगले नटे च ॥ २६ ॥ ;vv{चतुष्काः} ;c{चतुष्काः ।} अलमकोऽम्बुजकेसरभेकयो- र्गदविशेषमधूकपिकेषु च । ;l{3765} अलिपको भ्रमरेऽपि च कोकिले मरुबकः सुमनोभिदि गालके(वे?) ॥ २७ ॥ अरुणसैर्यककचोरयोः पुनः कुरबको दनुजेऽपि बलाहकः । जलदरोगभिदोर्भ्रमरे पुन- ;l{3770} र्भ्रमरको गिरिकेऽलिककुन्तले ॥ २८ ॥ अतनुरज्जुसरोरुहकोषयो- रपि कपर्दकनाम्नि वराटकः । ;p{0154} क्षपणकीलकगन्धमृगार्थको भवति पुष्कलको विपुलेऽन्यवत् ॥ २९ ॥ ;l{3775} शृङ्गाटकं वारिजकन्दभेदे चतुष्पथे गोक्षुरके पुनः स्यात् । गोकण्टकः स्यात्स्थपुटे ग[257b]वां च शफेऽथ मोहोत्कलिकातमस्सु ॥ ३० ॥ आकल्पकः स्यान्मुदि चाथ वृन्दा- ;l{3780} रकः सुरे सुन्दरमान्ययोश्च । आक्षेपको निन्दकवातरोग- व्याधेष्वथो कापटिकश्च शिष्ये ॥ ३१ ॥ परस्य मर्माण्यभिगन्तरि स्या- द्भट्टारको राज्ञि सुरे मुनौ च । ;l{3785} दलाढकः कुञ्जरकर्णकुन्द- चाम्पेयफेनातिमहत्तरेषु ॥ ३२ ॥ शिरीषवातावलिगैरिकेषु स्यात्प्रश्निकायां स्वभवे तिले च । निश्चारकः स्वैरसमीरणौ स्यात् ;l{3790} क्षये पुरीषस्य तथा प्रदिष्टः ॥ ३३ ॥ नियामको नाविकपोतवाह- नियन्तृषु स्यात्करभे च दाशे । दासेरकः स्यात्तनये च दास्या विनायकः स्याद्गुरुतार्क्ष्ययोश्च ॥ ३४ ॥ ;l{3795} अङ्गारको मङ्गल उल्मुकांशः स्त्रियां पलाशस्य च कोरके स्यात् । स्यात्पूर्णपात्रे पटहे च पूर्णा- नकं प्रमोदाद्वसनग्रहे च ॥ ३५ ॥ प्रकीर्णकं चामरविस्तराश्व- ;p{0155} ;l{3800} ग्रन्थप्रभेदेष्वथ चुल्लिकायाम् । अश्मन्तकं काकुद[258a]संवृतौ च कोशातकी-घोष-पटोलिकासु ॥ ३६ ॥ ज्योत्स्ना नरि त्वापणिके कचे स्या- न्निर्ग्रन्थकस्तु क्षपणे दरिद्रे । ;l{3805} पुनर्नवायां तु कटिल्लकः स्या- त्स्यात्कारवेल्ले च कुठेरके च ॥ ३७ ॥ गोमेदकं पत्रकपीतरत्न- काकोलकेष्वन्तिमलिङ्गमाहुः । आतर्पणे चित्तगदे च मण्डो- ;l{3810} दकं बुधास्तद्वदुदाहरन्ति ॥ ३८ ॥ वृद्धे शतानीक ऋषेश्च भेदेऽ- थ ग्रामणीभण्डशरोपधाने । खरालिकः कौक्कुटिकस्त्वदूरे- रितेक्षणे दाम्भिक ईरितोऽत्र ॥ ३९ ॥ ;l{3815} लेखीलकस्त्वन्यकरेण लेखे विलेखयेदात्मकरं तथा यः । स्याल्लेखहारे मुकुरे तु बिम्बे कुष्ठान्तरे मण्डलकं वदन्ति ॥ ४० ॥ पिप्पलकं स्तनवृन्ते ;l{3820} सीवनसूत्रे समुद्दिष्टम् । शालावृकः शृगाले वान्तादे वानरे कथितः ॥ ४१ ॥ पिण्डीतकः फणिज्जे राठतरौ स्यात्तथा तगरे । ;l{3825} त्रिफलात्र्यूषणगोक्षुर- पर्यायस्था त्रिवर्णकं तद्वत् ॥ ४२ ॥ ;p{0156} कौलेयकः कुलाग्र्ये शुनके क्लीबं प[258b]रीवादे । दिग्गजभेदे पुंसि तु ;l{3830} परवत्स्वङ्गे च सुप्रतीकः स्यात् ॥ ४३ ॥ जैवातृको नरीन्दौ परवज्जायौ कृशे चिरायुषि च । दिवसे रतर्द्धिकं स्या- त्सुखतः स्नानेऽष्टमङ्गले चान्त्ये ॥ ४४ ॥ ;l{3835} परतन्त्रे च क्षणिके वैनाशिक ऊर्णनाभे च । वैदेहक आपणिके वैश्यायां शूद्रपुत्रे च ॥ ४५ ॥ धान्याकतामलक्यो- ;l{3840} र्वितुन्नकं केकराक्षे तु । गोकुणिकः पङ्कगते गव्यथ भार्याटको गदितः ॥ ४६ ॥ मृगभित्स्त्रीजितयोः स्यात् वरण्डकस्त्वन्तरावेद्याम् । ;l{3845} वदनपिटिका सुप्तनां(?) वनगे शैलाटकः परवत् ॥ ४७ ॥ लालाटिकः स्यात्प्रभुभावदर्शि- न्याश्लेषभेदेऽप्यलसेंऽसदुःखे । कर्कोटकः सर्पविशेषबिल्वे- ;l{3850} ऽथाखौ किरौ चाखनिकश्च चौरे ॥ ४८ ॥ वैतालिको बोधकरे च ताल- भेदेऽथ पाशिन्यपि तिक्तशाकः । आघाटके पुंसि मयूरकः स्या- ;p{0157} त्तुत्थे पुनः क्लीबमुदाहरन्ति ॥ ४९ ॥ ;l{3855} [259a]विशेषकः स्यात्तिलके विशेषे श्लोकैस्त्रिभिर्वृत्तसमन्वये च । विदूषकश्चाटुवटौ परस्य निन्दाकरे सैकतिकं पुनः स्यात् ॥ ५० ॥ मङ्गल्यसूत्रेऽपि च मातृयात्रा- ;l{3860} संन्यस्तसंदेहशरीरिषु स्यात् । स्यादेडमूकः श्रुतिवाग्विहीने- ऽधीरेऽथ रक्षस्यपि दन्दशूकः ॥ ५२ ॥ नदीप्रभेदेऽपि च वर्तरूकं स्यात्काकनीडे च जलावटे च । ;l{3865} दम्भे पुनः स्त्रीजितनिःस्वयोश्च । स्यात्काकरूकश्चकिते च भीरौ ॥ ५२ ॥ मृष्टेरुको दातरि मृष्टभोजि- न्यात्मंभरौ चाथ शिखावलेऽपि । तथा शयाने कृकवाकुरुक्तो- ;l{3870} ऽथेन्द्रे घनग्रावणि राधरङ्कुः ॥ ५३ ॥ सौगन्धिकं कत्तृणपद्मरागे कल्हारगन्धोपलवाचि षण्ढे । ना गन्धिकेऽथो कलविङ्क उक्तः कलिङ्गके स्याच्चटके गृहोत्थे ॥ ५४ ॥ ;l{3875} स्यात्सोमवल्कः खदिरे सितेऽपि प्रकीर्यके कट्फलकेऽपि तद्वत् । श्वेतातपत्रे सितवारि[259b]जे च तथौषधेऽन्त्ये किल पुण्डरीकम् ॥ ५५ ॥ ना कोशकारेऽग्निहरिद्गजे च ;l{3880} व्याघ्रेऽथ जीर्णे त्रिषु जर्जरीकः । क्लीबे पुनः स्याद्बहुरन्ध्रकेऽथो वक्रे कचे स्यादपि बर्बरीकः ॥ ५६ ॥ ;p{0158} शाके महाकालगणेऽप्यथान्त्ये स्यात्तर्तरीकं च वहित्रवाचि । ;l{3885} पारीणवाची तु विशेष्यवत्स्या- त्सूर्ये सुधावाच्यपि पर्परीकः ॥ ५७ ॥ स्यात्पर्फरीकं किसले मृदुत्वे तथा भवेदुत्कलिकाम्बुवीचौ । हेलाशृगालीगिरिकन्यकासु ;l{3890} चण्डालिका त्वौषधिभिद्युमायाम् ॥ ५८ ॥ पाञ्चालिका रीतिविशेषकेऽपि स्याद्याज्ञसेन्यां च कनीनिका तु । कनिष्ठिकालोचनतारयोः स्या- ल्लूतादिजाले त्वपि दुग्धसारे ॥ ५९ ॥ ;l{3895} संतानिका स्यादथ लोहयन्त्रे संदंशिका संकथिता मुचुट्याम् । संघाटिका नर्कुटयुग्मयोश्च दूत्यां पयःकन्दभिदि प्रदिष्टा ॥ ६० ॥ जीवन्तिका गुडूची- ;l{3900} वन्दाजीवाख्यशाकेषु । स्याद्वृह[260a]तिका च भिक्षौ वसन[वि]भेदे बुधैः कथिता ॥ ६१ ॥ वातावर्जितशाखा- बलाकयोः स्याद्बकेरुका भृष्टधान्ये तु । ;l{3905} वाद्ये तस्य च दण्डे घर्घरिका क्षुद्रघण्टायाम् ॥ ६२ ॥ ;vv{पञ्चकाः} ;c{पञ्चकाः ।} आच्छुरितकं तु हासे भवति नखाघातभेदे च । गोजागरिकं मङ्गल- ;l{3910} कन्दुकृतोश्चक्षते निपुणाः ॥ ६३ ॥ ;p{0159} कृमिकण्टकं तु चित्रा- कृमिफलकृमिहारिषु प्रोक्तम् । वासन्त्यां काममहे सुवसन्तक उच्यते पुंसि ॥ ६४ ॥ ;l{3915} कक्षावेक्षक उक्तः शुद्धान्तोद्यानपालार्थः । रङ्गाजीवे च कवौ षिङ्गे स्याद्द्वारपालके तद्वत् ॥ ६५ ॥ स्याच्चित्रमेखलायां ;l{3920} गरुडे माणिक्यराजे च । क्षितिपालपीलुपाले कथितो ज्ञैर्नागवारिकः पुंसि ॥ ६६ ॥ दीपके भवति शीतचम्पक- स्तर्पणेऽप्यथ च कामलार्थके । ;l{3925} व्रीहिराजिक इति प्रदिश्यते । चीनधान्यविषये च कोविदैः ॥ ६७ ॥ मेघे तु जलकरङ्कः फले तथा नालिकेरस्य । जलनाय[260b]कस्तु शङ्खे ;l{3930} सलिललतायां तथा वरुणे ॥ ६८ ॥ काकाचीराजशफल- मन्यभिदोः काचकुम्भे च । कटखादको भरे स्या- ज्जम्बुकवान्तादयोस्तद्वत् ॥ ६९ ॥ ;l{3935} चिलमीलिका तु कण्ठी- भेदे खद्योतविद्युत्सु । नवकलिका तु नवायां ;p{0160} कलिकायां नूतनार्तवायां च ॥ ७० ॥ शतपर्विका तु दूर्वा- ;l{3940} वचयोर्भेदे तु पिष्टे स्यात् । उपकर्त्र्यां राजगृहे विबुधैरुपकारिका कथिता ॥ ७१ ॥ व्यवहारिका तु लोक- व्यवहारे शोधनीङ्गुदयोः । ;l{3945} स्याद्धेमपुष्पको ना चम्पकनाम्नि स्त्रियां यूथ्याम् ॥ ७२ ॥ ;vv{षट्काः} ;c{षट्काः ।} लूतामर्कटकस्तु प्लवङ्गनवमालिकात्मजासु स्यात् । वर्णविलोडक उक्त- ;l{3950} श्चौरे कुकवौ छायाहरेऽन्यस्य ॥ ७३ ॥ मातुलपुत्रकमाहु- र्धूर्तफले मातुलौरस्ये । शृङ्ग्यां ग्रामे च रणे प्रकीर्तिता ग्राममद्गुरिका ॥ ७४ ॥ ;l{3955} सिन्दूरतिलक नागे स्त्रियां च तत्तिलकधारिण्याम् । मदनशलाका सार्यां [261a]कामोदे चौषधौ तद्वत् ॥ ७५ ॥ ;c{इति कान्ताः ॥} ;v{खान्ताः} ;vv{एकखाः} ;c{एकखाः ।} खं सुखेन्द्रियसुरालयबिन्दु- ;l{3960} क्षेत्रशून्यसुरवर्त्मपुरेषु । वेदने च कुणहेलफले स्यात् ;vv{द्विखाः} ;c{द्विखाः ।} ;p{0161} अस्त्रियां तु नखरे तु नखः स्यात् ॥ ७६ ॥ गन्धवस्तुभिदि पुंस्त्वविहीने वक्रनिःसरणयोः सदुपाये । ;l{3965} स्यादुपक्रमणवाचि मुखं स्या- त्स्वर्जलेश्वरपुरोश्च सुखं च ॥ ७७ ॥ लेखो दिवौकस्सु तथैव लेख्ये लेखा तु राजीलिपिषूपदिष्टाः । न्युङ्खस्तु सम्यग्रुचिरे पराभः ;l{3970} साम्नः स षट्सु प्रणवेषु पुंसि ॥ ७८ ॥ शङ्खो ललाटास्थनि कम्बुनख्यो- र्न स्त्री च तादृग्वलये निधौ ना । शिखण्डिचूडाग्रकनीनिशाखा- शिखण्डयात्रार्चिषु लाङ्गलिक्याम् ॥ ७९ ॥ ;l{3975} शिखा सखा मित्रसहाययोः स्या- च्छाखा तु वेदाङ्गभुजान्तिकेषु । वृक्षाङ्गपक्षान्तरसंनिकर्ष- रक्तादिधातुष्वपि किञ्च शाखः ॥ ८० ॥ प्रेङ्खा च याने नट[261b]नेऽटने च ;l{3980} वीङ्खा तु नृत्ये गतिशूकशिम्ब्योः । ;vv{त्रिखाः} ;c{त्रिखाः ।} निशाचरे तु त्रिशिखस्त्रिशूल- शैलाग्रयोस्तु द्वयहीनमाहुः ॥ ८१ ॥ तार्क्ष्यात्मजे स्यात्सुमुखोऽहिभेदे विज्ञे च वाचाटफणीन्द्रयोस्तु । ;l{3985} स्याद्दुर्मुखो मर्कटकेऽथ वाद्य- भाण्डे ऽनृजौ धाम्न्यनुलेपने च ॥ ८२ ॥ स्याद्गोमुखं तोमरबाणयोस्तु ;p{0162} कोशप्रवीणैर्विशिखः प्रदिष्टः । रथ्याखनित्रीनलिकासु तु स्त्री ;l{3990} मयूखमर्च्चिःकरभासु चाहुः ॥ ८३ ॥ वैशाखः पाखण्डे मन्थे मासप्रभेदे च । नक्षत्रे तु विशाखा क्लीबे गन्धे च गेहे च ॥ ८४ ॥ ;l{3995} स्कन्दे विशाखो नरि तर्कके च कटिल्लके तद्वदुदाहरन्ति । ;vv{चतुःखाः} ;c{चतुःखाः ।} देवे द्विजे चाग्निमुखोऽपि भल्ल्यां स्याच्चित्रके पञ्चनखस्तु कूर्मे ॥ ८५ ॥ गजेऽथ बाणे भ्रमरे शिलीमुखः ;l{4000} कन्दो नुत( ? )र्व्याघ्रनखे नखौषधौ । संख्याविभेदे च नरास्थ्नि पण्डिता निधौ महाशङ्ख [मुदाहरन्ति] ॥ ८६ ॥ [*कुङ्कुमेऽग्निशिखं] स्त्रियां तु स्याल्लाङ्गलिक्यां हुतभुक् शि[262a]खायाम् ॥ ८७ ॥ ;l{4005} शशिलेखा बाकुचिका- वृत्तभिदोः स्यात्कलाभागे । ;vv{पञ्चखाः} ;c{पञ्चखाः ।} मलिनमुखस्तु प्रेते गोलाङ्गूलेऽनले च खले ॥ ८८ ॥ शीतांशौ घनसारे ;l{4010} शीतमयूखोऽथात्मधातृरुद्रेषु । स्यात्सर्वतोमुखोऽन्त्ये पुनरम्भस्यन्तरिक्षे च ॥ ८९ ॥ ;c{इति खान्ताः } ;p{0163} ;v{गान्ताः} ;vv{एकगाः} ;c{एकगाः ।} गौरर्वनाकक्रतुभेदरश्मि- दृग्धेनुलोमाशनिनीरभूषु । ;l{4015} दिग्बाणवाणीवृषभेषु गस्तु गणेशगन्धर्वकगातृषु स्यात् ॥ ९० ॥ ;vv{द्विगाः} ;c{द्विगः ।} अगो नगोऽर्कद्रुमपर्वतेषु खगास्तु सूर्यग्रहदेवबाणाः । पक्षी शरोऽस्त्रीतु भगो वराङ्गै- ;l{4020} श्वर्यप्रयत्नातिविरक्तिषु स्यात् ॥ ९१ ॥ श्रीकीर्तिमाहात्म्यसमर्थतासु ज्ञानस्पृहामुक्तिवृषेषु नार्के । युगं चतुष्के च करस्य सीर- रथाङ्गयोर्युग्मकृतादिकेषु । ;l{4025} यूपेऽस्त्रियां मानपरः पुमान्स्या- न्मूर्खे पराभं लिगु मानसेऽन्त्ये ॥ ९२ ॥ मृगः पशौ वारणजातिभे[262b]दे नक्षत्रभेदे मृगयार्थनासु । मृगी तु कान्ताभिदि शंभुशुक्र- ;l{4030} मुनिप्रपातेषु भृगुः प्रदिष्टः ॥ ९३ ॥ रूपार्धके चावयवे च भाग्ये [भागो]ऽथ नागोऽहिघनाम्बुदेषु । पुंनागके मुस्तकनागदन्त- क्रूरस्वभावेष्वहिकेसरे च ॥ ९४ ॥ ;l{4035} स्त्रीणां करणविशेषे सीसे रङ्गे द्वयोनः स्यात् । उत्तरपदे स्थितोऽयं ;p{0164} श्रैष्ठ्ये पुंलिङ्ग उद्दिष्टः ॥ ९५ ॥ रागोऽनुरागे नृप-भैरवादौ ;l{4040} मात्सर्यदुःखादिषु चारुणिम्नि । भोगस्तु सर्पस्य फणाङ्गयोः स्या- त्सुखेऽशने रक्षणवित्तयोश्च ॥ ९६ ॥ पण्याङ्गनानां रतमूल्यके च योगस्त्वलब्धाप्तिभिषग्जितेषु । ;l{4045} उपायसंनाहकसंगमेषु ज्ञाने च युक्तावपि कार्मणे च ॥ ९७ ॥ विष्कम्भकादौ वपुषः स्थिरत्वे रोगस्तु कुष्ठौषध आमये च । वेगो महाकालफले प्रवाहे ;l{4050} प्लवे च पूगः क्रमुके च वृन्दे । चङ्गस्तु दक्षे रुचिरेऽन्यलिङ्गो- ऽथेङ्गोऽद्भुतज्ञानस[263a]मिङ्गितेषु । स्याज्जङ्गमे चाथ कृपाणभेद- जङ्घाखनित्रेष्वपि टङ्गमस्त्री ॥ ९३ ॥ ;l{4055} वपुष्युपाये निकटे प्रतीके गौणे तथाङ्गं नरि भूम्नि देशे । तुङ्गस्तु पुंनागनगज्ञवाची तुङ्गी निशाबर्बरयोस्त्रिषूचे ॥ २०० ॥ भङ्गस्तरंगेऽपि ऋचां विभेदे ;l{4060} पराजये स्त्री तु शणोन्मदिन्योः । रङ्गो रणे दुःप्रकृतौ च रागे क्लीबे त्रपुण्येनमुदाहरन्ति ॥ १ ॥ ;p{0165} सीसेऽपि वङ्गं नरि देशभेदे कार्पासवातिंगणवाचकं स्यात् । ;l{4065} षिद्गे च सङ्गे च वदन्ति लङ्गं लिङ्गं तु सांख्यप्रकृतौ च चिह्ने ॥ २ ॥ तथानुमाने शिवमूर्तिभेदे दृगिन्द्रिये शेपसि चामनन्ति । शृङ्गं प्रधाने शिखरे च चिह्ने ;l{4070} क्रीडाम्बुयन्त्रेऽपि विषाणके च ॥ ३ ॥ ना कूर्चशीर्षे वृषभौषधौ तु स्वर्णे विषायां झषभिद्यपि स्त्री । भीष्मे विशाखे नरि गाङ्गमाहु- र्हेम्न्यन्तिमे तद्भुवि तु त्रिषु स्यात् ॥ ४ ॥ ;l{4075} पिङ्गः पिशङ्गे त्रिषु तद्वति स्या- द्ध्रीबेरकेऽन्त्येऽथ शमी च पिङ्गी । गो[263b]रोचनारामज्जनालिकोमा- संज्ञासु पिङ्गा समुदीरितात्र ॥ ५ ॥ खड्गस्तु बुद्धासिषु खड्गिशृङ्गे ;l{4080} स्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् । दुर्गः शिवानीलिकयोः स्त्रियां स्या- च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥ सर्गस्तु शीलोद्यमनिर्णयेषु संसारकाव्यादिकथासमाप्त्योः । ;l{4085} मार्गो मृगादिप्रभवेऽन्यलिङ्गो- ऽध्वान्वेषणामासभिदासु पुंसि ॥ ७ ॥ वल्गुस्तु पुंसि च्छगले मनोज्ञे त्वन्योपमः फल्गुरियं मलप्वाम् । त्रुट्यां स मासेऽथ वटेऽपि शुङ्गी ;p{0166} ;l{4090} चाम्रातके पुंसि कपीतने च ॥ ८ ॥ गर्गो मुनौ किञ्चुलके वृषेऽपि भृङ्गस्तु धूम्याटविटालिषु स्यात् । कलासु धूर्तस्य विशेषणे च स्यान्मार्कवेऽन्त्ये तु गुडत्वचायाम् ॥ ९ ॥ ;vv{त्रिगाः} ;c{त्रिगाः ।} ;l{4095} भेकेऽरुणे च प्लवगः प्लवङ्गे- ऽथो पन्नगो भोगिनि पद्मकाष्ठे । स्याज्जिह्मगो मन्दगसर्पवाची ना सर्वगो व्यापकशंकरार्थः ॥ १० ॥ आभोगः सलिलपतेः किलातपत्रे ;l{4100} पूर्णत्वे वपुषि त[264a]था प्रय[त्न]वाची । व्यापारे कुसुमसुगन्धकोपदायां संभोगो जिननयभोगमैथुनेषु ॥ ११ ॥ उद्वेगो बाहुलको- द्विजनोद्गमने गुवाकुफलकेऽन्त्ये । ;l{4105} कठिनोद्यते च कूटे विश्लेषेऽयोग आम्नातः ॥ १२ ॥ आशुग इषौ च बाणे [वायावर्के] प्रसूनरेणौ च । स्नानीये च परागो ;l{4110} गिरिभेदे चन्दने ग्रहणे ॥ १३ ॥ यज्ञे तु तीर्थराजे शतमखहययोः प्रयागः स्यात् । स्यात्कार्मणे प्रयुक्तौ निदर्शने च प्रयोग उद्दिष्टः ॥ १४ ॥ ;l{4115} भण्डेऽपि चारुवादि- ;p{0167} न्याम्राते वातिगो विज्ञैः । नीराशये तडागो- ऽप्येवं तत्कूट[यन्त्र]के तद्वत् ॥ १५ ॥ पुंनागो नरवर्ये ;l{4120} तुङ्गतरौ स्यात्सितोत्पले किंच । जातीफलेऽथ शीले दाने सर्गे निसर्गः स्यात् ॥ १६ ॥ याम्यायने विसर्गो विसर्जनीये मलच्युतौ च स्यात् । ;l{4125} उत्सर्गः सामान्ये न्याये दाने च वर्जने कथितः ॥ १७ ॥ धर्मार्थकाम-त्रिफला-कटुत्रय- वृद्धिक्षयस्थानगुणत्रयेषु तु । त्रिवर्ग उक्तोऽप्यथ तातगुर्भवे- ;l{4130} त्पितुर्हिते क्षु[264b]द्रपितर्यपीरितः ॥ १८ ॥ कामे त्वनङ्गः खहृदोस्तु षण्ढे शालौ पतंगः शलभे खगेऽर्के । स्यात्पारदेऽन्त्येऽथ वरण्डकेऽपि नरङ्ग ऊर्मौ चरमे शफे स्यात् ॥ १९ ॥ ;l{4135} षिङ्गे भुजंगो भुजगे मृदङ्गो घोषे तथाचानकवाचकोऽपि । सङ्गे च तूणे च निषङ्ग उक्तो वेल्ले विडङ्गं त्रिषु नागरे स्यात् ॥ २० ॥ प्रकीर्यधूम्याटकयोः कलिङ्गः ;l{4140} पुंभूम्नि देशे वनितार्थकः स्त्री । ;p{0168} क्लीबे तु शक्रद्रुफलेऽथ पुंसि भवेदपाङ्गस्तिलके दृगन्ते ॥ २१ ॥ गुह्ये गुडत्वचि शिरोगजयोर्वराङ्गं पत्राङ्गमाहुरिह पद्मकभूर्जयोश्च । ;l{4145} कोके रथाङ्ग उदितश्चरमे तु चक्रे धाराङ्ग आदिमगतोऽप्यसितीर्थवाची ॥ २२ ॥ मातङ्गः श्वपचविषाणिनोरथ स्या- द्रक्ताङ्गः क्षितितनयेऽन्यवत्तु वीरे । जीवन्त्यामरुणरुचि स्त्रियां प्रवाले ;l{4150} कम्पिल्ले त्यजति नृयोषितोः स लिङ्गम् ॥ २३ ॥ भूकर्कारौ हस्तिनि सर्पे कालिङ्गो ना कर्कट्यां स्त्री । हेमाङ्गः[265a]स्याद्ब्रह्मणि तार्क्ष्ये हालाङ्गोऽयं रोहितकूर्मे ॥ २४ ॥ ;l{4155} सारङ्गो नरि हरिणे नभोम्बुपे च । रोलम्बे करिणि खगान्तरे प्रदीपे । त्रय्यां स्यादिह शबले कणारसे तु नारङ्गं त्रिषु यमजे सुखप्रिये ना ॥ २५ ॥ प्रियङ्गुरुक्ता फलिनी कणा च ;l{4160} कङ्गुस्तथा रक्तकसर्षपेऽपि । नीलङ्गुरुक्तः कृमिभम्भराल्यो- रश्वे तु चित्ते तुरगस्तुरंगः ॥ २६ ॥ तुरगी तु वाजिगन्धा पुंसि हंसे तु चक्राङ्गः । ;l{4165} चक्राङ्गी कटुकायां कोशागः स्यात्करीरेक्ष्वोः ॥ २७ ॥ ;vv{चतुर्गाः} ;c{चतुर्गाः ।} ;p{0169} ईहामृगो रूपकभेद उक्तो जन्तौ वृके स्यादथ मल्लनागः । वात्स्यायनैरावतयोरथोप- ;l{4170} रागः परीवादरविग्रहादौ ॥ २८ ॥ त्यागे मोक्षे कर्मसमाप्तावपवर्गः साफल्येऽथ प्रादिषु रोगेऽप्युपसर्गः । संघे संयोगे च समायोग इहार्थे शापाक्रोशस्याभिभवेष्व[प्य]भिषङ्गः ॥ २९ ॥ ;l{4175} संप्रयोगो रते चान्वये कार्मणे चाथ दीर्घाध्वगः केलिकीर्णेऽपि च । छत्रभङ्गो महाराजना[265b]शे मतो योषितां वल्लभस्यान्तकालेऽपि च ॥ ३० ॥ वातूलवाची तु कथाप्रसङ्गो ;l{4180} विषागदंकारवरेण्यवत्स्यात् । काकोलके स्याद्रतहिण्डके च नाडीतरङ्गो नरि हिण्डके [च] ॥ ३१ ॥ ;c{इति गान्ताः ॥} ;v{घान्ताः} ;vv{घैकः} घण्टेश्वरे घो नरि किंकिणी तु स्त्रियाम् ;vv{द्विघाः} ;c{द्विघाः ।} ;l{4185} अघं तु व्यसने मघे च । दुःखेंऽहसि स्यादथ मूल्यपूजा- विधौ नरेऽर्घोऽङ्घ्रिरपि द्रुमूले ॥ ३२ ॥ ओघोऽम्बुवेगद्रुतनृत्यशिक्षा- परंपरासंहतिषु प्रयुक्तः । ;l{4190} मेघो[ऽथ]पाथोधरमुस्तकार्थो ऽथाल्पे मनोज्ञे च लघुस्त्रिलिङ्गः ॥ ३३ ॥ शीघ्रे च कृष्णागुरुणि द्वयोनः ;p{0170} स्पृक्कागतः स्त्री वपुषस्तु वायौ । अङ्घोंऽहसि स्यात्करसंपुटे च ;l{4195} मोघस्तु दीने त्रिषु निःफले च ॥ ३४ ॥ स्त्री पाटलायां च मघास्तु भे स्यु- र्मघी तु जायौ धननाम्नि षण्ढे । श्लाघाभिलाषार्चनवर्णनेषु पुंस्युद्धमाहुः करसंपुटे च । ;l{4200} देहानिलेऽग्नौ कथितः प्रशस्तौ ;vv{त्रिघाः} ;c{त्रिघाः ।} निष्पापरम्येष्वन[266a]घस्त्रिलिङ्गः ॥ काचकलशे च कलशे पलिघः प्राकारगोपुरे तद्वत् । परिघो योगविशेषे- ;l{4205} ऽर्गलघातास्त्रेषु संदिष्टः ॥ ३६ ॥ काचिघः कनकमूषिकछमण्डे- षु * लावकखगे महार्घः । उष्णघर्मजलयोश्च निदाघो- ऽमोघ इत्यपरवत्फलभाजि ॥ ३७ ॥ ;l{4210} कृमिहरहरीतक्योर्मोघाप्यथो शुचिदक्षयो- र्गदविरहितेऽप्युल्लाघः स्याच्छितावपि वाच्यवत् । गुरुतररये स्यात्सर्वेषां सुसंनहने तथा नरि च कथितः सर्वौघो ङोऽध्वरेऽपि च भैरवे ॥ ३८ ॥ ;c{इति कान्तादिवर्गः ।} ;v{चान्ताः} ;vv{एकचः} ;c{एकचः ।} चन्द्रे चौरे चोऽथ वागीशपुत्रे ;l{4215} बन्धे शुष्कस्यारुषः स्यात्कचो ना । स्त्रीभ्यां काचः शिक्यमृद्दृष्टिरुक्षु ;p{0171} मोचः शिग्रौ शाल्मलीरम्भयोः स्त्री ॥ २ ॥ नीचः खर्वे पामरे चान्यवत्स्या- त्तूले कर्षे कुष्ठरोगेऽसुरे च । ;l{4220} किंच प्रोक्तो भैरवास्ये पिचुर्ना- थ भ्रूमध्ये श्मश्रुणि श्लाघने च ॥ ३९ ॥ कूर्चश्छद्मन्यस्त्रि[266b]यां स्यादथाद्रौ द्वीपे क्रौञ्चः पक्षिभेदे च पुंसि । चञ्चः पुंसि स्यान्नडादिप्रकारे ;l{4225} चञ्चा तु स्त्री पूरुषे स्यात्तृणस्य ॥ उरुबूके चञ्चुर्ना पक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् । नाषाढे शृङ्गारे मन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥ ;l{4230} मधौ( ? )शुद्धे परवत् स्त्री तु रुचिः स्यादभिष्वङ्गे । शोभामयूखवाञ्छा- स्ववकाशे तु द्वयोर्वीचिः । स्वल्पतरङ्गे च सुखे- ;l{4235} ऽथाभिनये सीवनद्रव्ये । नारीन्द्रिये च सूची शचीन्द्रपत्नी शतावर्याम् । काञ्ची देशविशेषे गुञ्जायां मेखलायां च । ;l{4240} षड्ग्रन्थासारिकयो- र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥ प्रतिमायां पूजायामर्चा चर्चा स्थासकसुचर्चिकाचिन्ताः । ;p{0172} इच्छाशोभारुचयो ;l{4245} रुचिः स्त्रियां चर्मवल्कयोस्त्वक् ॥ ८ ॥ चोचेऽथ नीचनिम्न- कार्त्स्नेषु न्यग्विशेष्यनिघ्नः स्यात् । भारत्यां भाषायां वचने प्रोक्ता स्त्रियां वाक् च ॥ ९ ॥ ;vv{त्रिचाः} ;c{त्रिचाः ।} ;l{4250} कवचस्तु गर्दभाण्डे संनाहे चानके न स्त्री । विकचः क्षपणे केतु- ग्रहे स्फुटे तु भेद्याभः ॥ १० ॥ क्रकचो ग्रन्थिलवृक्षे ;l{4255} करपत्रे स्यात्तु संकोचम् । काश्मीरे नरि मीने । बन्धेऽथो लोहबाणे स्यात् ॥ ११ ॥ नाराचोऽम्भोद्विरदे स्त्र्येषणिकायामथो सम्यक् । ;l{4260} त्रिषु संहतहृद्यार्थे प्रतारणे तु प्रपञ्चः स्यात् ॥ १२ ॥ विस्तारसंचयार्थे व्यत्यासे क्वापि संदिष्टः । मुनिभिदि पुंसि मरीचिः ;l{4265} कृपणे परवद्रुचौ द्वंद्वे ॥ १३ ॥ द्विरदे रक्षोभेदे मारीचो नान्तिमे तु कक्कोले । परवद्याजकवाची मारीची देवताभेदे ॥ १३ ॥ ;l{4270} नमुचिः स्मरदैत्ययोः कणीचिः पुनरुक्ता शकटेऽपि काकणन्त्याम् । ;p{0173} लहरीविरहे द्वयोरवीचि- र्नरके क्रीडनवीणयोर्विपञ्ची ॥ १४ ॥ ;vv{चतुश्चाः} ;c{चतुश्चाः ।} मलिम्लुचः स्यान्मलिनेऽपि चौरे- ;l{4275} ऽथो वारिसूचिः शिशु[267a]मार उक्तः । कङ्के जलौकस्सु झषान्तरे च शृङ्गाटके तद्वदुदाहृता स्त्री । ;vv{पञ्चचाः} ;c{पञ्चचाः ।} भषके रतनारीचो रतिप्रिये सीत्कृतौ सुदृशाम् ॥ ;c{चान्ताः ॥} ;v{छान्ताः} ;vv{एकछाः} ;c{एकछाः ।} ;l{4280} छो भास्करे छन्दसि संवृतौ छ- मच्छे तु भेद्यानुगलिङ्गमाहुः । ;vv{द्विछाः} ;c{द्विछाः ।} अच्छः सितग्रावणि भल्लुके ना भेद्यानुगो निर्मलवाचकश्च ॥ १६ ॥ कच्छस्त्वनूपेऽपि च तुन्नकद्रौ ;l{4285} पाश्चात्त्यवस्त्राञ्चलपल्लवे च । नौकाङ्गके स्त्री तु वराटिकायां स्याच्चीरिकायां स्तबके तु गुच्छः ॥ १७ ॥ स्तम्बे कलापेऽपि च हारभेदे पुच्छस्तु पश्चाद्भुवि लूम्नि न स्त्री । ;l{4290} म्लेच्छोऽपभाषायवनादिषु स्यात् पिच्छं तु बर्हे वनिता तु मण्डे ॥ १८ ॥ पूगच्छटापङ्क्तिषु शाल्मलीय- वेष्टेऽश्वपादार्तिभिदि प्रदिष्टा । ;vv{चतुश्छाः} ;c{चतुश्छाः ।} सिन्धौ महाकच्छ इहाम्बुराजे ;c{छान्ताः ।} ;p{0174} ;v{जान्ताः} ;vv{जैकः} ;l{4295} जं जन्मनि स्याद्धिमजे तु पुंसि ॥ १९ ॥ जूर्व्योमनद्यां जवने पिशाच्यां ;vv{द्विजाः} ;c{द्विजाः ।} सञ्जो विरिञ्चौ च हरेऽथ कञ्जः । केशे विरिञ्चे[267b]चरमे तु पद्मे- ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥ ;l{4300} छागे विधाविन्दुमतीधवेऽजो व्रजोऽध्वगोष्ठप्रकरेषु न स्त्री । निजं तु नित्ये त्रिषु तु स्वकीये ध्वजोऽङ्ककेत्वोरपि मेहनेऽस्त्री ॥ २१ ॥ प्राग्दिग्गृहेऽन्यत्र * शौण्डिके स्यात् ;l{4305} स्वजं तु रक्ते नरि गात्रतोये । पुत्रेऽथ विप्रप्रमुखत्रिवर्णि- विहंगदन्तेषु मतो द्विजो ना ॥ २२ ॥ स्त्री रेणुकागर्दभशाकयोः स्याद् बीजं तु तत्त्वेऽङ्कुरकारणे च । ;l{4310} आधानहेत्वोरपि रेतसि स्या- त्संनद्धसम्यग्भृतयोस्तु सञ्जः ॥ २३ ॥ वाजो मुनौ निस्वनपक्षयोर्ना जवे मखान्ने तु घृते च षण्ढे । व्याजोऽपदेशे शठकर्मणि स्या- ;l{4315} त्पाणौ सुबाहौ च भुजो द्विलिङ्गः ॥ २४ ॥ कुजस्तु भौमे नरकासुरे च धन्वन्तरीन्द्वोर्निचुले च शङ्खे । अब्जोऽम्बुजेऽन्त्ये नरि तु द्रुभेदे न्युब्जं कुश[स्रुच्यपि कर्मरङ्गे] ॥ ;l{4320} वक्त्रानताङ्गे त्रिषु कुब्जमाहु- ;p{0175} र्वृक्षप्रभेदे निगदन्ति पुंसि । आजिः समोर्वीक्षणसंगरेषु राजिस्तु रेखाततिवाचिका स्त्री । लाजास्तु भृष्टेष्वपि शा[268a]लिषु स्युः ;l{4325} पुंभूम्नि चार्द्रेष्वपि तन्दुलेषु ॥ २६ ॥ क्लीबे प्रजाविस्तृतिलोकलाम- ज्जकेषु गुञ्जा तु कलध्वनौ स्त्री । स्यात्काकणन्त्यां पटहेऽथ गञ्जा द्वयोः खनौ मद्यगृहे पुनः स्त्री ॥ २७ ॥ ;l{4330} कोषालये त्रिष्वपि पुंसि षण्ढे कुञ्जो निकुञ्जे करिदन्तहन्वोः । लञ्जो भवेत्कच्छपदार्थको ना- थोर्जा मदोत्साहबलाभिधाने ॥ २८ ॥ मन्थे प्रहस्ते च खजाऽथ पिञ्जो ;l{4335} वधे **ण्यां च गुणैः प्रदिष्टः । खर्जूः स्त्री खर्जूरे कण्ड्वां कीटेऽथ मर्जूः स्त्री । रजके शुद्धौ सर्जू रुद्रे स्वर्गे च वाणिजे तडिति ॥ ३० ॥ ;vv{त्रिजाः} ;c{त्रिजाः ।} ;l{4340} करजः करञ्जनखर- व्याघ्रनखेषूदितः पुंसि । द्रोणेऽगस्त्ये कुटजो गिरिमल्ल्यां पुंसि निर्दिष्टः ॥ ३१ ॥ सहजः शीले पुंसि ;l{4345} त्रितये सहजन्मनि प्रोक्तः । नीरजमब्जे कुष्ठे जलजः शङ्खे सरोरुहे क्लीबे ॥ ३२ ॥ बलजं गोपुररणयोः ;p{0176} क्षेत्रे सस्ये स्त्रियां भूमौ । ;l{4350} सुन्दर्यामथ शिल्पि- प्रभवे चित्रे च गैरिके फेने ॥ ३३ ॥ कलभे चाम्पेय[268b]तरौ वल्मीके कारुजः कथितः । कीरेऽपि बाहुजः स्यात् ;l{4355} स्वयंप्रभूते तिले तद्वत् ॥ ३४ ॥ वनभूगजे च वनजो मुस्तकपाथोजयोः क्लीबे । वनजा तु मुद्गपर्ण्यां वणिक् तु वाणिज्यजीवके पुंसि ॥ ३५ ॥ ;l{4360} क्लीबे करणविशेषे स्त्रियां तु दिष्टा वणिज्यायाम् । सामजमाहुर्द्विरदे सामभवे त्वेष भेद्याभः ॥ ३६ ॥ स्यादग्रजो द्विजातौ ;l{4365} प्राग्जे त्रय्यां च भूमिजो नरके । अङ्गारे सीतायां पुनः स्त्रियां स्यादथाभ्रके गिरिजम् ॥ ३७ ॥ शैलेयशिलाजतुनोः स्त्रियां तु गौर्यां च नद्यां च । ;l{4370} गजशङ्खदेशभित्सु स्यात्कम्बोजोऽङ्गजं तु रक्ते स्यात् ॥ ३८ ॥ पुंसि द्विपे च तनये केशेऽथाश्वे च पुंनागे । काम्बोजः सितखदिरे ;l{4375} माषदलायां तु हिङ्गुपत्र्यां स्त्री ॥ ३९ ॥ ;p{0177} अण्डजाः सरटमीनभुजंग- पक्षिणो मृगमदे तु भवेत्स्त्री । तैलयन्त्रकरवालकफेन- खड्गधेनुफलकेषु परञ्जम् ॥ ४० ॥ ;l{4380} मैनाके हिमजः शठीगिरिजयोः स्त्रीलिङ्गकः संमतो ;vv{चतुर्जाः} ;c{चतुर्जाः ।} [269a]ऽथार्केन्द्वोर्ग्रहराज इत्यथ भरद्वाजो मुनिद्रोणयोः । व्याघ्राटाह्वखगेऽहिभुक्तु गरुडे तार्क्ष्येऽथ काश्मीरजं प्रोक्तं पौष्करकुष्ठयोश्च घुसृणे माद्र्यौषधे तु स्त्रियाम् ॥ ४१ ॥ जघन्यजः शूद्रकनिष्ठयोः स्या- ;l{4385} द्वृषध्वजः शंभुगणेशयोः स्यात् । पुण्यक्रिये तु त्रिषु धर्मराजो जिने कृतान्ते युधि शल्यशत्रौ ॥ ४२ ॥ भारद्वाजी वन्यकार्पासिकायां पुंसि त्वश्वत्थाम्न्यथो सार्वभौमे । ;l{4390} इन्दौ श्रीदे राजराजोऽथ मल्ल- स्थाने ** यक्षराट् स्यात्कुबेरे ॥ ४३ ॥ क्षीराब्धिजं तु लवणेऽम्बुधिजन्मनि स्या- न्मुक्ताफले नरि तु चन्द्रमसि प्रदिष्टः । लक्ष्म्यां स्त्रियामथ भवेद्द्विजराज इन्दौ ;l{4395} तार्क्ष्येऽप्यनन्तफणिनि प्रथितः प्रवीणैः ॥ ४४ ॥ स्याद्भृङ्गराजो भ्रमरे च मार्कवे पक्ष्यन्तरे ;vv{पञ्चजाः} ;c{पञ्चजाः ।} ऽथो मुनिभेषजं तु । अभोजनागस्तिहरीतकी पुं ;l{4400} जिने शिवे स्यादृषभध्वजोऽपि ॥ ४५ ॥ ;p{0178} ;v{झान्ताः} ;c{झान्ताः ।} ;vv{झैकः} झश्चारुवायौ च दमे तु रात्रौ ;vv{द्विझाः} ;c{द्विझाः ।} झ[269b]ञ्झा तु चण्डे पवने स्वने च ;v{ञान्ताः} ;c{ञान्ताः ।} ;vv{ञैकः} ञो गाथके मन्दमतौ धरायां ज्ञो धातरि स्याच्छशिजे बुधे च ॥ ४६ ॥ ;vv{द्विञाः} ;c{द्विञाः ।} ;l{4405} अज्ञोऽलसे मन्दमतौ च संज्ञा गायत्रिकाचेतगयोश्च नाम्नि । करादिभिश्चेप्सितसूचनायां सूर्यस्य पत्न्यामपि संप्रदिष्टा ॥ ४७ ॥ ;vv{त्रिञाः} ;c{त्रिञाः ।} सर्वज्ञः स्मरहरबुद्धयोः कृतज्ञः ;l{4410} कार्यज्ञे शुनि च भिषग्विपश्चितोस्तु । दोषज्ञोऽपरनिभ एष दोषविज्ञे क्षेत्रज्ञस्त्रिषु कुशले पुमांस्तु जीवे ॥ ४८ ॥ ;c{इति चान्तादिवर्गः} ;v{टान्ताः} ;vv{एकटाः} ;c{एकटाः ।} टः शंभुवाय्वोर्निनदान्तरेऽन्त्ये ;vv{द्विटाः} ;c{द्विटाः ।} कालक्रियाकारकपोलकेषु ;l{4415} शवप्रकर्षद्विपगण्डकेषु । कटो भटः पामरवीरयोः स्याद् भटिस्तु भाटिः प्रगमे स्त्रियौ स्तः ॥ २ ॥ घटः समाधौ कुटमौलिकूटयो- र्घटा[तु] गोष्ठ्यां गजसज्जनायाम् । ;p{0179} ;l{4420} कुटस्तु कूटे च घटे च तद्व- द्वलाङ्गके प्रस्तरकुट्टके स्त्री ॥ ३ ॥ कुटी द्वयोर्मन्दिरमद्यकुम्भ- दासीषु गुच्छे[270a]ऽथ पटः पियालौ । पुरस्कृतौ चैलवरे लटस्तु ;l{4425} प्रमादवाग्दूषणयोर्निरुक्तः ॥ ४ ॥ वटस्तु न स्त्री समतावराट- कपर्दभक्ष्येषु गुडेऽपि तद्वत् । न्यग्रोधशुम्बेषु स तु त्रिलिङ्गो द्वंद्वेन हीनः स फले वटस्य ॥ ५ ॥ ;l{4430} षिङ्गे विटोऽस्त्री लवणाम्बुशैल- वालच्छदेषु प्रथितः स पुंसि । सिङ्घाणकादौ तु घृतादिकाना- मधःस्थभागेंऽहसि किट्टमस्त्री ॥ स्फुटः प्रफुल्ले प्रकटे फलाढ्ये ;l{4435} व्याप्ते च पादस्फुटने स्फुटी स्यात् ॥ ६ ॥ कूटं निश्चलयन्त्रकैतवपुरद्वाराद्रिशृङ्गानृत- मायातुच्छहलाङ्गराशिषु तथा स्त्री रोचनेऽयोघने । लाटो देशविशेषके च वसने झाटो निकुञ्जे वने संमृष्टावरुषोऽथ ना पथि वृतौ वाटस्त्रये वास्तुभित् ॥ ७ ॥ ;l{4440} स्याच्चाटावुदरे चटुर्निगदितो व्रत्यासनेऽथो कटु- र्दुर्गन्धे च रसे पुमान्सरिषपे स्त्री रोहिणीकङ्गुषु ॥ क्लीबे दूषणके विशेष्यवदसौ स्यान्मत्सरिक्रू[270b]रयो- श्छत्रायां लवणे पटोलदलके दक्षे तु भेद्ये पटुः ॥ ८ ॥ खेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ;l{4445} ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे ;p{0180} पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ कष्टं तु दुरवगाहे कृच्छ्रे स्याद्दुःखशब्दे च । ;l{4450} इष्टं संस्कृतियोगे यागे यागक्रियायां च ॥ १० ॥ आशंसिते प्रियतमे पूज्ये संकीर्तितः परवत् । रिष्टं क्षेमे च शुभे ;l{4455} भाविनि चिह्ने विनाशस्य ॥ ११ ॥ पापे कृपाणे परव- न्म्लिष्टं त्वव्यक्तवाचि स्यात् । म्लानेऽन्यवदथ दिष्टं दैवे काले तु पुंलिङ्गम् ॥ १२ ॥ ;l{4460} व्युष्टं दिने प्रभाते पर्युषिते स्यात्फले परवत् । त्वष्टा धातरि सूर्ये रथकारे विश्वकर्मणि च ॥ १४ ॥ स्यात्संग्रहश्लोकमखाभिलाषे- ;l{4465} ष्विष्टिः परीमाणमुदोस्तु दिष्टिः । विष्टिस्तु भद्राकरणेऽपि जन्यौ संप्रेषणे कर्मकरे च योषि[271a]त् ॥ १५ ॥ दृष्टिर्मतौ दर्शननेत्रयोश्च खड्गे समृद्धौ कथिता च ऋष्टिः । ;l{4470} कृष्टिर्बुधे पुंस्यथ कर्षणे स्त्री सृष्टिः कृतौ स्यादपि च स्वभावे ॥ १६ ॥ वृद्धौ तु पुष्टिः परिपोषणे च ;p{0181} यष्टिर्द्वयोर्हारशरे च शस्त्रे । ध्वजस्य दण्डे मधुके च भार्ङ्ग्यां ;l{4475} मुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥ व्युष्टिः समृद्धौ च फले व्रतादेः स्तुतौ च भृष्टिस्तु विवृक्षवाट्याम् । *********** स्याद्भर्जने पुंसि किरौ च घृष्टिः ॥ १८ ॥ ;l{4480} संघर्षघर्षेषु दुरालभायां स्त्रियामथैकप्रसवासु गोषु । गृष्टिर्वराहक्रमणेऽपि तद्व- ज्जटा स्त्रियां लग्नकचेषु मूले ॥ १९ ॥ जटी तु पर्कटी मिसी सटा जटा च केसरम् । ;l{4485} फटा फणे तथा करे धटी तु वस्त्रखण्डके ॥ २० ॥ धटं तुलापरीक्षणे पटिः पटद्रुभेदयोः । नटस्तु नर्तकेऽरलौ नरि नटस्त्रियां नटी ॥ २१ ॥ कोटिः प्रकर्षे धनुरग्रके च कोणे च संख्याभिदि संप्रदिष्टा । ;l{4490} त्रोटिस्तु चञ्च्वाम[271b]पि सोमवल्के पुमांस्तु मत्स्याण्डजभेदयोः स्यात् ॥ २२ ॥ सूक्ष्मैलायां कालमाने च लेशे संदेहे च स्यात्त्रुटिः स्त्री तु खाटिः । निन्द्यागारे स्यात्किणे प्रेतयाने । ;l{4495} पोटा तु स्त्रीपुंसलिङ्गा च दासी ॥ २३ ॥ ;vv{त्रिटाः ।} ;c{त्रिटाः ।} अवटः कपटोपजीविगर्ता- न्धुखिलेषु प्रथितोऽथ पर्पटः स्यात् । नरि पिष्टविकारचर्मनाम्नो(?)- ;p{0182} ऽथ विशाले विकलाङ्गके मनोज्ञे ॥ २४ ॥ ;l{4500} विकटः करटस्तु हस्तिगण्डे बलिपुष्टेऽप्यतिनिन्द्यजीविते च । अपि वाद्यविशेषके तथैका- दशघस्रे पितृकर्मभोक्तरि स्यात् ॥ २५ ॥ कुसुम्भदुर्दुरूटयोरथ प्रयोजनोज्झिते ;l{4505} परापवादतत्परेऽकृपे च निर्दटो मतः ॥ २६ ॥ चिपिटस्त्वथ पिच्चटार्थकः परवद्भक्ष्यविशेषके नरि । दमुटः कमठेऽप्यहर्मणा- वथ मत्तेऽप्यतितीव्र उत्कटः ॥ २७ ॥ ;l{4510} वार्ताकपुष्पे जकुटो यमोत्थे ऽस्त्री सारमेये त्रपुसीसयोस्तु । स्यात्पिच्चटो दृष्टिगदेऽथ वाट्यां क्षेत्रे कपाटे नरि निष्कुटः स्यात् [272a] ॥ २८ ॥ धौताञ्जन्यां त्र्यङ्कटं शिक्यभेदे ;l{4515} प्रोक्तः पङ्के संकरे कर्दटोऽपि । मोचाटः स्वाच्चन्दने कृष्णजीरे मोचास्थ्नीभस्तुन्दयोः स्यात्कृपीटम् ॥ २९ ॥ निषादशूद्रात्मजताम्रचूड- स्फुलिङ्गवाची किल कुक्कुटोऽस्त्री । ;l{4520} स्त्री तालमध्ये लसुनप्रभेदे स्याद्दम्भचर्योच्चटयोश्च तद्वत् ॥ ३० ॥ स्यात्केशटः शोषणविष्णुवाची स्यात्कर्कटः स्त्रीकरणे कुलीरे । खगान्तरे राशिभिदि स्त्रियां तु ;l{4525} स्याद्वालुकी शाल्मलिकाफले च ॥ ३१ ॥ ;p{0183} स्यात्कीकटो देशभिदश्ववाची मितंपचे स्यादधने त्रिलिङ्गः । चक्राट उक्तो विषवैद्यधूर्त- दीनारवाची खजके च दिष्टः ॥ ३२ ॥ ;l{4530} वर्णाटः स्याद्गायने चित्रकारे कान्ताजीवेऽथाभिके भावके च । भावाटः स्यात्साधुसत्संनिवेशे शैलाटस्तु श्वेतकाचे किराते ॥ ३३ ॥ स्यात्पञ्चास्ये मोरटस्त्विक्षुमूले- ;l{4535} ऽङ्कोटोद्भूते च प्रसूने स्त्रियां तु । स्यात्सप्ताहानन्तरक्षीरके च स्त्री मूर्वा[272b]यां मोरटा संप्रदिष्टा ॥ २४ ॥ गाथाभिदि मृगमृगयौ द्रोहाटः स्याद्दम्भ*जे च । ;l{4540} स्याच्चातके च तुरगे धाराटो वेकटस्तु स्यात् ॥ ३५ ॥ विकटे जाततरुणिमनि मिश्रितनीचेषु वेरटः परवत् । बदरीफले तु चरमे ;l{4545} त्रिकूट उक्तः सुवेलाद्रौ ॥ ३६ ॥ क्लीबे तु सैन्धवे स्यात् भाकूटस्त्वद्रिमत्स्यभित् । बहुमानुषसंकीर्णे हट्टे सूर्येऽस्त्रि निर्मुट रदजौ(?) ॥ ३७ ॥ ;l{4550} काककङ्कपिचुमन्दरसोन- फेनिलेषु नरि तद्वदरिष्टः । सूतिकागृहशुभाशुभचिह्ने- ;p{0184} ष्वन्तिमे कुशधियः प्रवदन्ति ॥ ३८ ॥ वसनादिना विशुद्धे ;l{4555} संसृष्टं संगते च स्यात् । अवटुस्त्ववटे कूपे कृकाटिकायां परीष्टिस्तु । परिचर्यामार्गणयोः प्राकाम्येऽन्वेषणे च स्त्री । ;l{4560} गन्धोल्यामपि हंस्यां वरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥ गदिता[च] मल्लिकायां सतीनके नान्यवन्नीचे । व्रीहौ तु वर्वटी स्त्री ;l{4565} गदिता तद्वच्च वेश्यासु ॥ ४१ ॥ पूगादिनूतनफले [273a] प्लक्षे स्यात्पर्कटी योषित् । स्त्रीकरणे लूतायां कपौ च ना मर्कटोऽथ स्त्री ॥ ४३ ॥ ;l{4570} कपिकच्छ्वां नखभेदे शाखामृग्यां कुरण्टी तु । दारुमयपुत्रिकायां झिण्टीभेदे तु पुंसि स्यात् ॥ ४३ ॥ उक्ता द्वितीयवयसि ;l{4575} सुवासिन्यां चिरण्टी स्त्री । वातमृगे वाताट- श्चातक उक्तश्च कोषज्ञैः ॥ ४४ ॥ लघ्वट् वायौ लघौ त्रय्यां सरट् स्याद्वातमेघयोः । पुरटोऽङ्घ्रौ सुवर्णेऽन्त्ये देवटो देवशिल्पिनि ॥ ;p{0185} ;c{चतुष्टाः ।} ;l{4580} प्रायश्चित्ते भुजंगे श्रुतिकट उदितः प्राच्यलोहे च दासी- कम्रे स्यात्कुण्डकीटः क्षितिसुररमणीनन्दने जारजाते । वेश्यायाः कामकूटो रमणललितयोश्चक्रवाटस्तु कर्मा- रोहे तद्वच्छिखास्थे विटपिनि गदितः किंच पर्यन्तदेशे ॥ ४५ ॥ स्यादक्षवाटो नरि मल्लभूमौ ;l{4585} पर्पादिकन्देऽपि च बीजपुष्पे । विषक्रिमौ स्यान्नरि मीनभेदे- ऽप्युच्चिङ्गटो रोषिणि भेद्यलिङ्गः ॥ कुटन्नटो मुस्तकतिन्दुकार्थे स्यान्नारकीटोऽश्मकृमौ स्व[273b]यं च ॥ ४६ ॥ ;l{4590} प्रतिश्रुताशापहरेऽथ खञ्जने कृपाणधाराव्रतधारके फले । स्यात्खञ्जरीटोऽथ कटाक्षवाचकः स्याद्बर्कराटस्तरुणार्यमद्युतौ ॥ ४७ ॥ अनर्थकारे कृपणोन्मदिष्ण्वोः ;l{4595} प्रकीर्तितः कार्यपुटः प्रवीणैः । पुष्पे द्रुभेदे करहाट उक्तः सरोजकन्दे कथितः प्रवीणैः ॥ ४८ ॥ परपुष्टस्तु पिके ना परान्नपुष्टे विशेष्याभः । ;l{4600} गुह्ये च प्रतिकृष्टं द्वितीयवारेण कृष्टौ च ॥ ४९ ॥ दुश्चर्मणि स्यात्खलतौ शिवे च कोषप्रवीणैः शिपिविष्ट उक्तः । संप्रेषिते किंच निराकृते च ;l{4605} विशेष्यनिघ्नः प्रतिसृष्ट उक्तः ॥ ५० ॥ ;p{0186} भूमनि तु चतुःषष्टिः कलासु संकीर्तिता तद्वत् । कृपणे तथा कृपाणे प्रकीर्तितो गाढमुष्टिश्च ॥ ५१ ॥ ;l{4610} बुद्धालये गन्धकुटी मुरायां ;v{ठान्ताः} ;c{ठान्ताः ।} ;vv{ठैकः} ठस्तु स्मृतः कामरिपौ च शून्ये । ;vv{द्विठाः} ;c{द्विठाः ।} कठः स्वरेऽप्यृग्भिदि तत्प्रपाठि- तद्वे[दि]नोः किंच मुनिप्रभेदे ॥ ५२ ॥ हठोऽम्बुपर्ण्यां प्रसभे शठस्तु ;l{4615} धत्तू[274a]रके ना परवत्तु धूर्ते । मध्यस्थिते पुंसि जडेऽथ कुण्ठे- ऽकर्मण्यके मन्दमतौ च शस्तः ॥ ५३ ॥ पाठस्त्वधीतावथ विद्धकर्ण्यां स्त्रियां च वण्ठस्तु विवाहहीने । ;l{4620} खर्वे च कुन्तेऽथ गले तु कण्ठो ध्वनौ समीपे मदनद्रुमे च ॥ ५४ ॥ पृष्ठं तु चरममात्रे स्तोमविशेषे च देहाङ्गे । अथ मध्येगृहकुक्ष्योः ;l{4625} कोष्ठः स्वीये कुसूले च ॥ ५५ ॥ कुष्ठं तु रोगेऽपि सुगन्धभेदे गोष्ठी ********* । संलापसंसत्सु चरमे तु गोस्थले- ऽथाधमेऽप्यसारे च दुष्टः स्यात् । ;l{4630} प्रष्ठः पुरोगामिनि च प्रशस्ये ;p{0187} चण्डालिकासंज्ञक औषधे स्त्री । ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्ये मासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥ श्रेष्ठः कुबेरे स वरेऽन्यवत्स्यात् ;l{4635} काष्ठा प्रकर्षे दिशि च स्थितौ च । कटंकटेर्यामपि कालमाने नपुंसके त्विन्धनवाचकं स्यात् ॥ ५८ ॥ निष्ठा तु निष्पत्तिविनाशयाञ्चा- नाट्याङ्गभेदेषु च संप्रदिष्टा । ;l{4640} षष्ठी तु गौर्यामपि पुंसि तु स्यात् दक्षान्तकारि- ;vv{त्रिठाः} ;c{त्रिठाः ।} ण्यथ नर्मठः स्यात् [274b] ॥ ५९ ॥ षिड्गेऽपि वक्त्रावयवप्रभेदे पाण्डौ कठोरे जरठः त्रिषु स्यात् । ;l{4645} वैकुण्ठ इन्द्रे कुरुजाङ्गले तु श्रीकण्ठ उक्तोऽथ वरिष्ठ उक्तः ॥ ६० ॥ वरे वरीयस्यपि तित्तिरौ च क्लीबे तु ताम्रे मरिचे तथैव । साधिष्ठ आर्येऽतिदृढे कनिष्ठ- ;l{4650} स्त्वल्पेऽनुजे यूनि तथाङ्गुलौ स्त्री ॥ ६१ ॥ भेले लघिष्ठोऽप्युदितस्त्वपष्ठुः कालेऽपसव्ये तु विशेष्यलिङ्गः । कक्षान्तरे भूमिपतेः प्रकोष्ठः स्यात्कूर्पराधो वितते करे च ॥ ६२ ॥ ;l{4655} स्थाने प्रतिष्ठा मखनिर्वृतौ च यागस्य सिद्धावपि वृत्तभेदे । ;p{0188} व्रीहौ मकुष्ठः त्रिषु मन्थरे स्या- दंबष्ठ उक्तो नरि देशभेदे ॥ ६३ ॥ विप्राच्च वैश्यातनये स्त्रियां तु ;l{4660} पाठाम्ललोणीगणिकौषधीषु । ;vv{चतुष्ठाः} ;c{चतुष्ठाः ।} स्यात्सूत्रकण्ठो द्विजखञ्जरीट- कपोतवाची पिकहंसयोस्तु ॥ ६४ ॥ पारावताख्ये कलकण्ठ उक्तो जम्बीरके दन्तशठः कपित्थे । ;l{4665} स्यात्कर्मरङ्गेऽपि च नागरङ्गे चाङ्गेरिकायां [कथिता] बुधैः स्त्री ॥ ६५ ॥ स्या[275a]न्नीलकण्ठोऽपि च कालकण्ठो हरे मयूरे चटकेऽञ्जनाक्षे । दात्यूहके स्यादपि पीतसारे ;l{4670} स्याद्धारिकण्ठः पिकवाचको ना ॥ ६६ ॥ सहारकण्ठे मधुरस्वरे च स्यात्पूतिकाष्ठं सरले सुरद्रौ । स्यात्कालपृष्ठं रविपुत्रचापे चापेऽपि सारङ्ग उदीरितो ना ॥ ६७ ॥ ;v{डान्ताः} ;c{डान्ताः ।} ;l{4675} ;vv{डैकः} डो वन्दिवर्गेऽतिशुभध्वनौ च ;vv{द्विडाः} ;c{द्विडाः ।} गुडस्तु संनाह इभस्य गोले । इक्षोश्च पाके गुडिकासु तु स्त्री स्नुह्यां गडो विघ्नझषार्थकः स्यात् ॥ ६८ ॥ जडोऽन्यवन्मूर्खहिमातुरेषु ;l{4680} शूकस्य शिम्बी गदिता जडेति । ;p{0189} ग्रन्थौ तु पृष्ठस्य गडुश्च कुब्जे व्याडिस्तु हिंस्रेऽपि पशौ भुजंगे ॥ ६९ ॥ ताडो द्रुभेदे नरि ताडने च । स्त्रियां तु ताडी विटपिप्रभेदे । ;l{4685} स्थाने कुलाये त्रिषु नीडमाहुः सकारपूर्वं तु समीपवाचि ॥ ७० ॥ हिण्डिः स्त्रियां बालकरात्रिरक्षा- चारे भवान्यामपि भाष्यतेऽसौ । क्रोडः शनौ घोणिनि पुंस्त्वहीनो ;l{4690} भुजान्तरे प्रावरणान्तरे तु । देशेऽपि चोडः श्रवणामये तु क्ष्वेडो ध्वनौ[276b]ना गरलेऽन्यवत्तु ॥ ६१ ॥ वक्रे स्त्रियां वीरनिनादवाद्य- भिद्वंशशल्येषु नपुंसके तु । ;l{4695} स्याद्घोषपुष्प्यामपि लोहितार्क- फलेऽप्यथाण्डं पतगादिपेश्याम् ॥ ७२ ॥ वीर्ये च मुष्के शकले तु खण्डो- ऽस्त्री रत्नदोषेक्षुविकारयोश्च । चण्डस्तु दैत्येऽन्तकसेवके च ;l{4700} स्यात्तिन्त्रिणीपादपकोपनेषु ॥ ७३ ॥ चण्डी तु हिंस्राम्बिकयोश्च चण्डा स्याच्छङ्खपुष्प्यां गणहासके च । स्याद्गोपतौ नाम्बुरुहादिसंघे षडे च षण्डो विपिने च नस्त्री ॥ ७४ ॥ ;l{4705} गण्डः पुमान्खड्गिनि योगखेट- भेदेषु चिह्ने पिटके प्रवीरे । स्याद्वाजिनां भूषणबुद्बुदे च कपोलवीथ्यङ्गकवाचकश्च ॥ ७५ ॥ दण्डोऽस्त्री लगुडे बले मथि दमे मानेऽभिमाने यमे ;p{0190} ;l{4710} चण्डांशोश्च गणे घटीग्रहभिदाकोणे प्रकाण्डे हये । गोण्डः पामरजातिगो नरि महानाभौ भवेद् भेद्यवत् द्वन्द्वे स्यात्कवले गणे च वपुषि त्वस्त्री गृहाङ्गे बले ॥ ७६ ॥ सान्द्रे ना तु निवापसिल्हकजपापुष्पेषु लोहेऽन्तिमे खर्जूरीभिदि तुम्बि[276a] कासु तगरे पिण्डः स्त्रियां संमतः ॥ ७७ ॥ ;l{4715} षण्ढे पुंसि मतौ तु योषिति भवेत्पण्डोऽथ पाण्डुः सिते कुन्तीभर्तरि चास्त्रियां तु गदितः शाके च मस्तुन्यपि । एरण्डेऽपि च मण्डनेऽग्रगजले सारे च मण्डोऽथ स स्त्री धात्र्यां ना तु विधुंतुदे च दनुजे मुण्डोऽस्त्रियां मूर्धनि ॥ ७८ ॥ त्रय्यां मुण्डित ओषधौ तु वनिता मत्ते तु शौण्डोऽन्यवत् ;l{4720} स्याच्चव्याकणयोः स्त्रियामथ शरे नीरे तरुस्कन्धके । स्तम्बे चावसरे रहस्यपि मितौ वर्गे च काण्डोऽस्त्रियां निन्द्ये च त्रिषु भाण्डमत्र वणिजां मूले धने भूषणे ॥ ७९ ॥ पात्रे वाजिविभूषणे च तटिनीपात्रेऽथ गोभूबुध- स्त्रीवाणीमखपात्रभित्स्वपि शिरासृष्ट्योरिडेले मते । ;l{4725} क्रीडा खेलनहेलयोरथ भवेच्चूडा वलभ्यां शिखा- दोर्भूषास्वथ मौलिमाल्यसरलानुक्रोशमर्दार्तिषु ॥ ८० ॥ पीडा स्यादथ षट्क्षणीव्रणभिदोः स्याद्गण्डदूर्वाशिरा- व्याजेर्यासु च नालयन्त्रभिदि * योक्त्री च नाडी मता । रण्डा मूषिकपर्णिका मृतधवा[276b] स्त्री चाथ रुण्डोऽकरे ;l{4730} बन्धक्यां मदनिर्भरे तु परवत्स्त्री दन्तिनः स्यात्करे । वेश्यामद्यसरोजिनीषु पयसश्चेभ्यां च शुण्डा मता- ;vv{त्रिडाः} ;c{त्रिडाः ।} थो हालाहलदर्शने मरकते क्लीबे भवेद्गारुडम् । कर्चूरे विषयान्तरे च गणनासूक्तो बुधैर्द्राविडो मार्तण्डस्तु रवौ किरौ च गदितः स्यात्तु प्रचण्डोऽन्यवत् ॥ ८२ ॥ ;p{0191} ;l{4735} शूरक्रूरसुदुर्वहेषु नरि तु स्यादश्वमारे सिते पश्वङ्गेऽप्युदरे पिचण्डमथ न स्त्री स्यात्तरण्डस्तथा । वृद्धेऽन्तर्बडिशे च दारुणि तथा स्याद्भेलकेऽथान्तरा- वेद्यां वक्त्रगदे वरण्ड उदितो धीमद्भिरेष व्रजे ॥ ८३ ॥ मार्गे गोमयमण्डले च फणिनां मारण्ड उक्तोऽण्डके- ;l{4740} ऽथो धूर्ते सरटे सरण्ड उदितो भूषान्तरेऽपि क्वचित् । पूत्यण्डस्तु सुगन्धकीटमृगयोर्वारुण्ड उक्तोऽस्त्रियां दृक्कर्णोत्थमले गणस्थितपतौ स्त्री द्वारपिण्ड्याह्वये ॥ ८४ ॥ उक्तश्चूडाबर्हयोर्ना शिखण्डः कोदण्डोऽस्त्री भ्रूलतायां [च] देशे । ;l{4745} चापेऽथ स्यादस्त्रियां शाखिनः स्या- न्मध्ये मूलस्क[277a]न्धयोश्च प्रकाण्डः ॥ ८५ ॥ कारण्डो मधुकोषे दलाढकेऽसौ करण्डः स्यात् । कूष्माण्डो गणभेदे ;l{4750} भ्रूणे कर्कारुके पुंसि ॥ ८६ ॥ स्त्री स्याद्गौर्यौषध्यो- र्भेरुण्डो भीमदर्शने परवत् । देवीयक्षीभेदे स्त्रियामथो तित्तिडो वृक्षे ॥ ८७ ॥ ;l{4755} दानवभेदे काली- दासे स्त्री चुक्रिकादौ स्यात् । असिधेनौ तु वरण्डा सारिकवर्त्त्योश्च निर्दिष्टा ॥ ८८ ॥ कूर्चीके तु वितण्डा ;l{4760} वादविभेदे शिलाह्वे च । करवीर्यां निर्गुण्डी ;p{0192} करहाटके नीलशेफाल्याम् ॥ ८९ ॥ स्यात्सिन्दुवारके ;vv{चतुर्डाः} ;c{चतुर्डाः ।} ऽथो ;l{4765} वातखुडोऽस्त्री मरुत्संघे । वामे च वातरक्ते स्फोटे स्यात्पिच्छिले परवत् । वेण्यां तु देवताडो वह्नौ राहुग्रहे तद्वत् । ;l{4770} शैंले तु चक्रवाडो [गदि]तोऽप्यन्ते तु मण्डलार्थे द्वौ ॥ ९१ ॥ आवर्ते वारिकणे जलरुण्डः स्याद्भुजंगेऽपि । विकलाङ्गे त्वतिभीरौ ;l{4775} शिशावपि स्यादपोगण्डः ॥ ९२ ॥ ;v{ढान्ताः} ;c{ढान्ताः ।} ;vv{एकढाः} ;c{एकढाः ।} ढक्कानिगूढद्विरवेषु ढः स्यात् ;v{द्विढाः} ;c{द्विढाः ।} दृढः प्रगाढेऽतिशये भृशेऽस्त्री । स्थूले सम[277b]र्थेऽविनये त्रिषु स्या- द्बाढं प्रतिज्ञादृढयोस्तथान्त्ये ॥ ९३ ॥ ;l{4780} तन्द्रालुशिश्वोः परवच्च मूढो गूढोऽपि चेत्संवृतवाचकः स्यात् । क्लीबे रहो गुह्यगतेऽथ वड्रे व्यूढं कृतेऽपि त्रिषु संहते च ॥ ९४ ॥ षण्ढस्तृतीयाप्रकृतौ च वर्ष- ;l{4785} धरे तथा गोपतिवन्ध्ययोश्च । वोढा तु सूते त्रिषु भारिके स्या- त्सोढा तु शक्ते त्रिषु मर्षितेऽपि ॥ ९५ ॥ ;p{0193} राढा तु देशान्तरशोभयोः स्त्री दाढा तु दंष्ट्रासु मनोरथे च । ;l{4790} माढिस्तु दैन्यप्रकटीकृतौ स्त्री पत्रादिकानां रचनाविशेषे ॥ ९६ ॥ रूढिः प्रसिद्धौ प्रभवेऽथ रूढं विशेष्यवत्प्रस्फुटजातयोः स्यात् । ;vv{त्रिढाः} ;c{त्रिढाः ।} विरूढमप्यङ्कुरिते च जाते ;l{4795} सरूढमप्यङ्कुरिते प्रगल्भे ॥ ९७ ॥ प्ररूढं कठोरे तथोद्बद्धमूले समूढं पुनः पुञ्जिते तत्क्षणोत्थे । विलूने तथोपप्लवे नापि पीने- ऽप्युदूढं सुगुप्ते प्रमीढं पुनः स्यात् । ;l{4800} घने मू[278a]त्रितेऽथ प्रगाढं सुकृच्छ्रे दृढेऽध्यूढ ईशे ससापत्न्यनार्याम् ॥ ९९ ॥ व्रतिनां पलाशदण्डे मलये मासे तथाषाढः । वस्त्राञ्चले कपाटे ;l{4805} पाट*ये(?) स्याच्च वारूढः ॥ १० ॥ ;vv{चतुर्ढाः} ;c{चतुर्ढाः ।} अध्यारूढं समारूढेऽभ्यधिके च भेद्याभम् ॥ ;c{ढान्ताः ॥} ;v{णान्ताः} ;vv{एकणः} ;c{एकणः ।} णः प्रेमबन्धने स्या- दफले णुस्तु स्तुतौ प्रोक्तः । ;c{द्विणाः ।} ;vv{द्विणाः ।} धान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे ;l{4810} कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । ;p{0194} व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ;l{4815} ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ ;l{4820} बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ झिण्ट्यां तु द्वितये द्वयोस्तु निकषे शाणः प्रदिष्टो बुधैः कर्षांशे करपत्रके नरि मतः शाणी तु वस्त्रान्तरे । त्रायन्त्यामवनेऽन्तिमेऽथ परवत्‌त्राणं भवेद्रक्षिते प्राणो हृत्पवने शिशौ च कवितासारे बले चानिले ॥ ४ ॥ ;l{4825} प्रायो भूम्न्यसुषु त्रिषु त्वयमिह स्यात्पूरितेऽथ द्रुणं चापेऽसौ च पुमांस्तु वृश्चिकगतो भृङ्गेऽथ कूर्म्यां द्रुणी । वार्द्रोण्यां च कृपीपतौ तु गदितः पुंस्याढके तच्चतु- ष्के द्रोणः करटेऽसिते द्रुणिरिव द्रोणी च नीवृद्भिदि ॥ ५ ॥ काष्ठाद्यै रचितासु नौषु च गवां घासादिभोज्यस्थितौ ;l{4830} मोणः शुष्कफले करण्ड उदितः स्यान्मक्षिकादावपि । कण्ठाल्यां तु भवेत्स्त्रियामथ भवेद्गौणी च*त्रन्तरे भेद्ये स्या[279a]द्गुणयोगिकेऽथ रविजे वाद्यान्तरेऽस्रौ पुमान् ॥ ६ ॥ वीणावादनसाधने च लगुडे गेहैकदेशे तथा कोणः कोकनदच्छवावरलुके रक्ते हयेऽग्नौ नदे । ;l{4835} शोणोऽथार्भकगर्भयोर्नरि भवेद्भ्रूणस्तु गर्भेऽस्त्रियां तीक्ष्णं लोहविषाजिमुष्किमरके तिग्मे तु भेद्यानुगम् ॥ ७ ॥ क्षारे पुंस्यथ कर्ण आदिमगतो राधासुते च श्रुतौ चूर्णस्त्विन्दुपलाशिनोरथ मखे स्वर्णं तथा हेम्नि च । ;p{0195} ********** यशःस्तुत्योः कुथायां गुणे ;l{4840} वर्णोऽस्त्री तु विलेपनाक्षरभिदा रूपे द्विमुक्कुङ्कुमे ॥ ८ ॥ पर्णः पुंसि तरौ दले तु गमने पाने सहाये तथा सौपर्णेयपतत्रके च चरमे जर्णो जरच्चन्द्रयोः । जीर्णः स्यात्तरुशीर्णयोरितरवत्पूर्णस्तु शब्दे पुमां- स्त्रय्यां पूरितकृत्स्नयोरथ भवेज्जीर्णं सुपक्वेऽपि च ॥ ९ ॥ ;l{4845} चूर्णः क्षोदे क्षारभेदे च वास- युक्तौ कीर्णं छन्नविक्षिप्तनष्टे । दीर्णं भीते दारिते वाच्यलिङ्गं [279b] स्थूणा सूर्म्यां वेश्मनः स्तम्भकेऽपि ॥ १० ॥ ऊर्णो वर्ते स्याद्भ्रुवोर्लोम्नि च स्या- ;l{4850} न्मेषादीनां पुंसि तूष्णो निदाघे । उद्योते चाथान्यवद्दक्षवाची तृष्णा त्विच्छा पातुमिच्छा च शस्ता ॥ ११ ॥ वीणा विद्युद्वल्लक्योः स्या- च्छ्राणं लोहे वाच्यवत्पक्ववाचि । ;l{4855} स्त्रीलिङ्गे तु स्याद्यवाग्वां जुगुप्सा- नुक्रोशार्थे त्वत्र शस्ता घृणापि ॥ १२ ॥ कृष्णो विष्णुपराशरात्मजसुभद्रेशेषु काके पिके स्त्री द्राक्षाद्रुपदात्मजामगधजानीलीषु षण्ढे पुनः । लोहे स्यान्मरिचे च मेचकवति त्रय्यां च जिष्णुः पुनः ;l{4860} कृष्णे भास्वति वासवे च विजये जेतर्यसौ वाच्यवत् ॥ १३ ॥ देष्णुर्दातरि दुर्दमे च परवत् गेष्णुर्नटे गायके वृष्णिर्यादवमेषयोस्त्रिषु पुनः पाखण्डचण्डार्थकः । पश्चाद्भागकपादमूलसमदस्त्रीकुम्भिकासु द्वयोः पार्ष्णिः श्रेणिरभिन्नशिल्पिनिकरे पङ्क्तौ स्त्रियां पुंसि च ॥ १४ ॥ ;p{0196} ;l{4865} वेणिः[280a]केशनिबन्धने च सरितोः स्यात्संगमे च स्त्रियां । जीमूताभिधभेषजे मणिरजाकण्ठस्तने गोलके । रत्ने मेहनकाग्रके च युगुलेऽणिस्त्वाणिरक्षाग्रके कीलेऽश्राववधौ द्वयोरथ कुणिस्तुन्नद्रुमे कोकिले ॥ १५ ॥ भेद्याभः कुकरे गुवाकुभिदि तु झूणिः स्त्रियां दुःसुर- ;l{4870} स्तुत्यां चाथ कपर्दकीयशतके भाष्येऽपि चूर्णिः स्त्रियाम् । भूर्णिः स्त्री भुवि पोषके तु परवज्जूर्णिस्तु कान्ता ज्वरे संतापिन्यपरोपमोऽथ जलदे मूल्ये च वाणिः पुमान् ॥ १६ ॥ व्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियां वाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे । ;l{4875} ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरे न स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥ मुष्णस्तु सूर्येऽप्यनले च दिष्टो वेणुर्नदे देशविशेषके च । सृणिः पुमान्वायुरवीन्दुवाची ;l{4880} स्त्री[280b]पुंसयोरङ्कुशवाचकश्च ॥ धूलौ रेणुरपि द्वयोर्नरि पुनः स्यात्पर्पटाह्वौषधे सूक्ष्मेऽल्पे च परोपमोऽथ च किणो न स्त्री व्रणाङ्के घुणे । ;vv{त्रिणाः} ;c{त्रिणाः ।} पुंसि स्यादरुणो रवौ च गरुडज्येष्ठे च रागेऽस्फुटे सांध्ये शब्दविवर्जिते च कपिले कुष्ठे भवेदन्तिमे ॥ १७ ॥ ;l{4885} मञ्जिष्ठातिविषात्रिवृत्सु वनिता तद्रागवत्स्वन्यव- द्वृक्षे पुंसि रसान्तरे च करुणः प्रोक्तो दयायां स्त्रियाम् । सूर्ये वारिपतौ तरौ च वरुणोऽथो कुब्जपुष्पे भवे- देरण्डे तरुणः स यूनि परवत्स्याद्दारुणो ना रसे ॥ १८ ॥ ;p{0197} स्वर्लोके परमेष्ठिनीह वरुणो गोत्रे तु मूले पदे ;l{4890} शाखादौ भ्रमणे स्त्रियां न चरणोऽन्त्ये रासभे च ध्वनौ । रक्षोभिद्रसयोस्तु पुंसि लवणः कान्तौ स्त्रियामन्यव- त्तद्युक्ते करणस्तु वैश्यवृषलीपुत्रे च काये कृतौ ॥ १९ ॥ क्षेत्रे साधन इन्द्रियेऽङ्गहरणे क्षेत्रे च गीते तथा क्लीबे स्याद्बवबालवप्रभृतिषु स्यात्त्वन्तिमे हिङ्गुनि । ;l{4895} जी[281a]रे स्याल्लवणान्तरेऽपि जरणं मानान्तरे धारणे क्षोण्यां स्त्री धरणं प्रिये तु रमणः पाटोलमूलेऽन्तिमे ॥ २० ॥ स्याच्छून्योषरयोस्त्रिलिङ्गमिरिणं क्लीबे तु नित्यं गृहे त्राणे त्रातरि हिंसने च शरणं स्याद्वारिपर्ण्यां पुनः । क्लीबे कत्तृणमीरितं तृणभिदि त्राणे पुनर्यन्त्रणं ;l{4900} न स्यात्पुंसि च बन्धने नियमनेऽथो मुद्गरे ब्रह्मणि ॥ २१ ॥ पर्शौ च द्रुघणोऽथ पुंसि हरिणः प्रोक्तः कुरङ्गेऽन्यव- त्पाण्डौ श्वेतकशुक्रकाञ्चनगतः क्लीबेऽथ चारुस्त्रियाम् । अर्चायां कनकस्य किंच हरितायां वृत्तभेदे स्त्रियां मृग्यां च प्रघणस्तु ताम्रकलशेऽलिन्देऽप्यसौ मुद्गरे ॥ २२ ॥ ;l{4905} आवर्ते प्रणते च दातरि वहौ क्षीणे क्रमान्निम्नक- क्ष्याभागे प्रवणोऽन्यवत्क्षणगतोऽप्यस्त्री तु शृङ्गाटके । बन्द्यां स्वीकरणे करेऽधिगमने राहूपरागे तथा- दृत्यां च ग्रहणं दृशीक्षणमपि ज्ञाने तथा दर्शने ॥ २३ ॥ सेके प्रोक्षणमीरितं च हननेऽथो लक्षणो लक्ष्म[281b]णः ;l{4910} सौमित्रौ नरि सारसे च चरमेत्याख्यासु चिह्नेष्वपि । सारस्यौषधिभेदगौ तु वनिते स्तो दक्षिणस्त्वन्यव- त्प्रोक्तो दक्षिणजे वदान्यसरलान्यच्छन्दवर्तिष्वपि ॥ २४ ॥ याम्यायां दिशि यज्ञदानविधिषु स्त्री तत्प्रतिष्ठास्वथ स्निग्धाकर्कशयोस्त्रये च मसृणोऽथ स्यात्क्षुमायां स्त्रियाम् । ;p{0198} ;l{4915} पुंसि द्वावुषणोषणौ रसभिदि स्त्रीत्वे कणायामिमौ क्लीबे स्तो मरिचेऽथ पुंसि धिषणो वाचस्पतौ स्त्री धियि । रतपरिभवयोः स्याद्धर्षणं स्त्रीत्वसत्यां नयनरुजि यमे स्याद्धर्षणो योगभेदे । हरणमपि विवाहस्वे भुजे स्याद्धृतौ च ;l{4920} श्रवणमपि हृतस्त्रि श्रोत्रतत्कर्मणोश्च ॥ २६ ॥ उडुभिदि तु युगे स्याच्छ्रावणो मासभेदे ऽतनुमतनिगमे च स्त्री तु दध्यालिकायाम् । श्रमण इह कुजीविन्युच्यते भिक्षुभेदे रुचिररुचि तु मुण्ड्यां मांसिकायां तु योषित् ॥ २७ ॥ ;l{4925} स्याद्भीषणो दारुणगाढवाची त्रये रसे कु[282a]न्दुरुकीभवेऽन्त्ये । कल्याणमक्षय्यहिरण्यभद्रे खड्गे कृपाणश्छुरिकादिषु स्त्री ॥ २८ ॥ सिङ्घाणस्तु बलास- ;l{4930} फेने स्यादादिलिङ्गस्थः । नासायोमलगामी क्लीबे काचस्य पात्रेऽपि ॥ २९ ॥ प्रमाणं ध्रुवे हेतुनीत्यादिशास्त्रे परिच्छेदने चैकतायां तथोक्तम् । ;l{4935} प्रमातर्यपि प्रायशः क्लीब ऐक्येऽ- ऽप्यथो कोङ्कणं शस्त्रभेदेऽपि च * ॥ ३० ॥ समञ्जसे निर्मितिसारयोश्च दैवेऽपि निर्माणमुशन्ति विज्ञाः । ;p{0199} अपाङ्गदेशे करिणां च मोक्षे ;l{4940} निर्याणमुक्तं किल निर्गमेऽपि ॥ ३१ ॥ निर्वाणं गजमज्जने स्तिमितके मुक्तौ च निर्वर्तने कुर्वाणस्त्रिषु कारके भृतिभुजि प्रोन्मृष्टपर्णे पुनः । दौर्वीणं हरितारसे त्रिषु पुनः स्याद्वर्जने वारणं नागे पुंस्यथ यातनाकरणयोर्हेतौ वधे कारणम् ॥ ३२ ॥ ;l{4945} बाणे ना त्रिषु याचके विचयने त्वन्त्येऽर्थने मार्गणं भेद्याभः कृमिकुत्स्ययोश्च कृपणोऽप्युक्तोऽभिचारे पुनः । अन्त्ये कर्मकरे तु कार्मण इह स्याद्वाच्यवन्मत्कु[282b]ण- स्तूक्तोऽश्मश्रुणि पूरुषेऽरद इभे चोद्दंशतुङ्गद्रुषु ॥ ३३ ॥ सर्पे शाखिनि धर्मणोऽथ करगे सूत्रेऽस्त्रियां शेखरे ;l{4950} भूषाभिद्यपि कङ्कणोऽथ पुरणश्चन्द्रे समुद्रे नरि । स्यात्पिष्टान्तरवाचि पूरणमथ त्रय्यां भवेत्पूरिते शा[ल्म]ल्यां पटसूत्रके च वनितालिङ्गे भवेत्पूरणी ॥ ३४ ॥ सुग्रीवे करमर्दके भिषजि च श्रीशे सुषेणः पुमा- ************* द्रोषणः कोपने । ;l{4955} कुष्ठेऽन्त्ये पशुशृङ्गनागरदयोस्त्रय्यां विषाणं स्त्रियां काकोल्यामजशृङ्गिकास्वथ करेणुः स्याद्गरेणुस्तथा ॥ ३५ ॥ इभ्यां स्त्री नरि कर्णिकारकरिणोः केचिद्धरेणुः पुन- र्वा स्त्री खण्डिकरेणुकाकुलवधूषूक्तोऽथ हेम्नि क्रतोः । भेदे विस्तकवित्तयोरपि सुवर्णालौ सुवर्णोऽस्त्रियां ;l{4960} संपाके गरुडे च काञ्चनशिखे प्रोक्तः सुपर्णो बुधैः ॥ ३६ ॥ पद्मिन्यां गरुडस्य मातरि तथा स्त्रीलिङ्गभाक्संमतः श्रीपर्णं कमलेऽग्निमन्थहठयोः कुम्भ्यां स्त्रियां शाल्मलौ । गम्भार्यां[283a]रजते तु युग्मरहितं दुर्वर्णमुक्तं बुधैः पत्रोर्णं त्वरलौ तथाम्बरभिदि त्रय्यां त्वशुद्धे चिते ॥ ३७ ॥ ;l{4965} संकीर्णं प्रमथान्तरेऽश्वतरके नागे मृगेऽनामिका- ङ्गुष्ठोन्मानगतश्च पुंसि गदितो गोकर्ण एवं बुधैः । ;p{0200} मूर्वायां वनितारणिस्तु मिथुने निर्मथ्यकाष्ठे पुमां- स्तर्क्वायांशरणिः स्त्रियां च सरणिः पङ्क्तौ तथा वर्त्मनि ॥ ३८ ॥ पतितधेनुसमुद्धृतियष्टिकां- ;l{4970} शुरविसिन्धुगता तरणिर्द्वयोः । तरितरुण्योषधिगा तु भवेत्स्त्रियां रविगता तु नरीत्यपरे जगुः ॥ ३९ ॥ स्यात्पण्यवीथ्यां विपणिर्द्विलिङ्गा- पणे च पण्येऽथ भवेत्प्रवेणिः । ;l{4975} वेण्यां कुथायां भरणं तु वृत्तौ डुगतं तु तत्स्त्री ॥ ४० ॥ विलासयाने भ्रमणी प्रभोः स्या- त्करण्डिकायामथ धारणी स्यात् । इन्द्राणी वनितेन्द्रियेन्द्रवनितानिर्गुण्डिकासूदिता ;l{4980} नौकादण्डकजालयोः समुदिता स्त्री क्षेपणी पण्डितैः । दूर्वायामपि वारुणी वरुणदिङ्मद्यार्थिका चोदिता नाराच्यां[283b]व्रतचारिणीष्वपि तुलाभेदे स्त्रियामेषणी ॥ ४२ ॥ सारिणी लघुनदीप्रसारिणी- वाचिका दशमुखस्य मन्त्रिणि । ;l{4985} पुंगतोऽतिसरणेऽथ काकिणी मानदण्डपणतुर्यभागयोः ॥ ४३ ॥ कृष्णलैकककपर्दयोस्तथा तोयमानभिदि च प्रकीर्तिता । रोहिणी तु कटुकागलामय- ;l{4990} रक्तधेनुषु च सोमवल्कके ॥ ४४ ॥ ऋक्षभिद्यपि बलस्य मातरि ब्राह्मणी भवति कञ्जिकाद्विजा । स्पृक्किका नरि तु भूसुरेऽन्तिमे त्वीरिता श्रुतिभिदि द्विजव्रजे ॥ ४५ ॥ ;p{0201} ;l{4995} निःश्रेणिः पुनरधिरोहिणीषु योषित् खर्जूरीविटपिनि तद्वदीरितेयम् । अर्याणी हरिणदृशि प्रभौ तथार्य- स्त्रीजातावथ तरुमूर्ध्न्यपि प्रघाणः ॥ ४६ ॥ जीर्णे वाच्यसमं पुराणमयुगे स्यात्पञ्चलक्ष्मण्यपि ;l{5000} ग्रन्थे भोगिकनायके क्षुरिणि ना ग्रामाधिपे ग्रामणीः । श्रेष्ठे च त्रितये स्त्रियां तु गदिता नील्यां च वारस्त्रियां ग्राम्यायां च घृणौ तु[284a] पुंसि किरणो विक्षेपणे त्वन्तिमे । द्रुमभित्सेतुशालेषु वरणो नान्तिमे वृतौ । गुणिन्यृजौ च प्रगुणो रवणः शब्दने खरे ॥ ४८ ॥ ;l{5005} स्यान्नीलिकायां स्त्रीलिङ्गे ग्रामीणा ***** । ग्रामीण उक्तः शुनि वायसे च ग्रामोद्भवे तु त्रिषु पक्षिणी तु । स्याच्छाकिनी पक्षिवधूषु पौर्ण- मासीभवद्भाविदिनस्थरात्र्योः ॥ ४९ ॥ ;vv{चतुर्णाः} ;c{चतुर्णाः ।} ;l{5010} तृप्त्यालिम्पनयोरातर्पणमाथर्वणः पुनः । अथर्वज्ञे द्विजे वंशगुणे चारोहणं पुनः ॥ ४९ ॥ सोपाने च समारोहे कथितं च प्ररोहणे । समुद्धृतावुद्धरणं वान्तान्नोन्मूलने तथा ॥ ५० ॥ स्याद्रक्तरेणुर्युजि नागरक्ते ;l{5015} पलाशकल्युद्गमने च तद्वत् । उत्क्षेपणं तु व्यजने च धान्य- विमर्दवस्तुन्युदितः प्रवीणैः ॥ ५१ ॥ निगरणमशने कण्ठे पुनराधे चाथ निर्याणे । मरणोपाये मुक्तौ निःसरणं प्रोक्तमाचार्यैः ॥ ५२ ॥ ;p{0202} ;l{5020} घण्टापथासंकटसैन्ययान- पूर्निर्गमद्वाररणोद्यमेषु । संसारके संसरणं तथाहु- र्विदारणं यु[284b]द्ध विडम्बयोः स्यात् ॥ ५३ ॥ भेदेऽप्ययोपायविनिर्गमेषु ;l{5025} निस्तारके निस्तरणं तथा स्यात् । निदर्शनालोकविचारणेषु निरूपणं ज्ञा विनिरूपयन्ति ॥ ५४ ॥ नारायणो दैत्यरिपौ च वर्ण- भेदेऽन्तिमे यौगिकतैलवाची । ;l{5030} शतावरीशंकरयोषितोः स्त्री परायणं तत्पर आश्रये च ॥ ५५ ॥ त्रय्यामभीष्टेऽप्यथ पारगत्यां तथा समासङ्गबहुत्ववाच्यपि । पारायणं तत्र तुरायणं च ;l{5035} मखान्तरे कामगुणस्तु रागे ॥ ५६ ॥ आभोगके स्याद्विषयेऽथ कार्षा- पणो विकर्षापणवत्स्त्रियां न । स्यात्कार्षिके षोडशके पणानां पारीरणः स्यात्कमठे च दण्डे ॥ ५७ ॥ ;l{5040} स्याच्छाटके चाथ समीरणः स्या- द्वाते फणिज्जे पथिके च पुंसि । स्यात्पर्वरीणं दलनाडिकायां रसे दलादेर्घृतकम्बलेऽपि ॥ ५८ ॥ पर्वण्यपि स्यादथतन्दुरीणः ;l{5045} कीटे तथा तन्दुलतोयके च । ;p{0203} प्रवारणं वारणकामदाने- ऽध्वर्यौ हुताशे जुहुराण इन्दौ ॥ ५९ ॥ दर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः । शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥ ;l{5050} शिरोरत्ने काकचिञ्चाफले चूडामणिर्मतः । अङ्कोटपादपे छागे लम्बकर्णोऽपि रासभे ॥ ६१ ॥ धर्माध्यक्षे परवत् परवाणिः पुंसि वर्षे च । शरजीविनि शरवाणिः ;l{5055} शरवक्त्रे किंच पापिष्ठे ॥ ६२ ॥ गणभेदे तु पलाशे चैरण्डे हस्तिकर्णः स्यात् । निम्बे तु शीर्णपर्णः खर्जूरीपादपे तद्वत् ॥ ६३ ॥ ;l{5060} स्याद्रागचूर्णो मदनेऽपि दन्त- प्रक्षालने रक्त*वालुकेऽपि । स्यात्तैलपर्णी मलयोद्भवे स्त्री श्रीवासके सिह्लकवाचिकापि ॥ ६४ ॥ मूर्वौषधौ स्यादपि पीलुपर्णी ;l{5065} बिम्ब्यामथो पुष्करिणी करिण्याम् । स्यादम्बुजिन्यां सलिलाशये च दाक्षायणी त्वश्वयुगादिभेषु ॥ ६५ ॥ स्याद्रोहिणीशैलभुवोरथाङ्गा- रिणी हसन्त्यां रविमुक्तदिक्षु । ;l{5070} प्रेतापगायामपि यातुमात- ;p{0204} र्युदीरिता वैतरिणी प्रवीणैः ॥ ६६ ॥ शिखरिण्युक्ता वृत्तविशेषे रोमावल्यामुत्तमनार्याम् । [285b]तद्वन्मल्लीनामनि वल्ल्यां ;l{5075} भवति रसालानामनि तादृक् ॥ ६७ ॥ ;vv{पञ्चणाः} ;c{पञ्चणाः ।} प्रतिरोधेऽवग्रहणं गदितं चानादरे तद्वत् । प्रविदारणं तु युद्धे विदारणे चापि निर्दिष्टम् ॥ ६७ ॥ अवतारणं तु वस्त्राञ्चलार्चनं भूतबाधायाम् । परिभाषणं तु निन्दोपालम्भालापके नियमे ॥ ६८ ॥ ;l{5080} आलापेऽप्यथ दान क्लिन्नकरेभेऽप्यपाश्रये किंच । प्रासादादिकवीथीवरण्डके मत्तवारणं प्राहुः ॥ ६९ ॥ कलिवृक्षे रोमाञ्चे भवति तथा रोमहर्षणं क्लीबे । निष्फलपुंस्युन्मत्ते क्रकचे कीडे( ? )च कूटे च ॥ ७० ॥ शरसंक्रमेऽपि तद्वद्विद्वांसो वातरायणं प्राहुः । ;l{5085} मण्डूकपर्ण उक्तोऽरलौ तथा शोणके प्लक्षे ॥ ७१ ॥ स्त्रीलिङ्गे मञ्जिष्ठा गोजिह्वाब्राह्मिकासूक्तः । ;vv{षण्णाः} ;c{षण्णाः ।} दोहदलक्षणमुक्तं वयसः संधौ च गर्भे च ॥ ७२ ॥ सामान्यलक्षणं तु स्यामान्द्ये सामान्यतो मतौ । कुचलावण्यशोभासु भवेद्यौवनलक्षणम् ॥ ७३ ॥ ;c{[286a] इति णान्तादिवर्गः ।} ;v{तान्ताः} ;c{एकतः} ;c{एकतान्ताः ।} ;l{5090} तो मोहतन्त्रेऽपि च तस्करे च क्रोडे च पुच्छे श्रियि तु स्मृता [स्त्री] प्राहुर्जटाभार्ङ्गिकयोरथो तु निर्वर्तने चाखिलतो विशेषे ॥ १ ॥ ;p{0205} ;vv{द्विताः} ;c{द्विताः ।} ततोऽनिले ना जनके च वीणा- ;l{5095} दिकेऽन्तिमेऽथ त्रिषु विस्तृते स्यात् । व्याप्तेऽथ भावक्तयुता द्विहीना मेद्येऽन्यथा स्युः सुरते तु गुह्ये ॥ २ ॥ रतं घृतं त्वाज्यपयःसु न स्त्री दीप्तेऽन्यवत्स्यादृतमुञ्छवृत्तौ । ;l{5100} सत्ये च तोये परवत्प्रदीप्त- सपूज्ययोश्चाथ कृतं युगे स्यात् ॥ ३ ॥ फले च पर्याप्तगतं च षण्ढे त्रिषु प्रणीतेऽपि च हिंसिते च । धुतं भवे******* ;l{5105} धूतं तथा भर्त्सितकम्पितार्थम् । पूतं पवित्रे बहुलीकृते च तोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥ स्यूतं प्रसेवोतगतं नतं तु नम्रे पुमान्स्यात्तगरद्रुमे च । ;l{5110} शीघ्रे विलीने च पलायिते च द्रुतं युतं हस्तचतुष्टये स्यात् ॥ ६ ॥ युक्तेऽप्ययुक्तेऽप्यथ गत्यभावे स्थितं ध्रुवोर्ध्वेषु च सप्रतिज्ञे । सितः समाप्ते धवले च नि[286b]श्चिते ;l{5115} शितं तु शाते निशितेऽथ शातम् ॥ ७ ॥ सुखे कृशे चाथ हितं धृते स्या- त्पथ्ये सुतः पार्थिवपुत्रयोः स्यात् । विशेष्यवच्चाभिषुतेऽथ सूतः प्रसूतसंप्रेरिततक्षसु स्यात् ॥ ८ ॥ ;l{5120} स्यात्सारथौ बन्दिनि पारदे च क्षत्राद्द्विजस्त्रीतनयेऽपि तद्वत् । ;p{0206} प्लुतं तुरंगादिगतौ प्रलिप्ते त्रिमात्रके गुम्फितवस्त्रयोस्तु ॥ ९ ॥ प्रोतं परेते त्वपि भूतभेदे ;l{5125} प्रेतोऽन्तिमे श्वेतमुशन्ति रूप्ये । द्वीपागयोर्ना परवत्तु शुक्ले स्त्रियां कपर्दे भिदि पाटलायाः ॥ १० ॥ शङ्खौषधौ [संस्तु] सदस्यपूज्य- साधुप्रशस्येष्वपि विद्यमाने । ;l{5130} स्त्रियां त्वपर्णाकुलयोषितोः स्या- देतस्तु किर्मीर उपागते च ॥ ११ ॥ तातोऽनुकम्प्ये जनकेऽपि जातं जातौ गणे च त्रिषु तु प्रजाते । त्राते तु पातः पतनेऽथ रातो ;l{5135} लातश्च दत्तेऽप्युररीकृते च ॥ १२ ॥ घातस्तु काण्डे प्रहृतौ च पोतः पुनर्वहित्रे पृथुके च पुंसि । लोतं तु मुष्टेऽश्रुणि ना तु मेषे गीतं पुनः शब्दितगानयोः स्यात् ॥ १३ ॥ ;l{5140} प्रीतं पुनः स्याद्धृषिते च[287a]मर्म- ण्यसारहस्त्यश्वमुखेषु वीतम् । सृणीक्रियायामथ भीतमाहु- र्भये भयेनापि युतेऽन्यलिङ्गम् ॥ १४ ॥ सत्ये व्यतीतेऽप्युचितोपमान- ;l{5145} प्राप्तप्रवृत्तेषु विशेष्यगामि । भूम्यादिपञ्चस्वपि चेतनेऽन्त्ये प्रेते पिशाचेऽपि च भूतमस्त्री ॥ १५ ॥ ;p{0207} कुमारके देवलके च नाथ केतुः पुमान्केतनरुग्ग्रहेषु । ;l{5150} उत्पातलक्ष्मारिषु चाथ सेतुः पुंस्यावलौ स्याद्वरुणेऽपि तद्वत् ॥ १६ ॥ भातुर्मयूखे खरभासि चाथ यातुः पुमानध्वगकालयोः स्यात् । क्लीबे तु रक्षस्यथ धातुरश्म- ;l{5155} विकारपञ्चेन्द्रियगोचरेषु ॥ १७ ॥ वातादिदोषेषु रसादिकेषु श्रोण्यादिभूषास्तिपचादिषु स्यात् । विशेषतस्त्वस्थिनि गैरिकेऽथ देहेऽप्तुराद्ये परगस्त्वभीष्टे ॥ १८ ॥ ;l{5160} मुनिप्रभेदे क्रतुरध्वरे च ऋतुर्वसन्तादिकवीरयोश्च । कान्तौ च योषित्कुसुमेषु पुंसि गातुस्तु गन्धर्वपिकालिषु स्यात् ॥ १९ ॥ पान्थेऽन्यवद्रोषिणि पुंसि कन्तु- ;l{5165} श्चित्ते स्मरेऽथो मनुजेऽपि मन्तुः । प्रजापतावागसि चाथ जन्तु- [287b]र्न स्त्री कृमौ प्राणिनि च प्रदिष्टः ॥ २० ॥ पीतुर्हुताशे च दिवाकरे च करे प्रकोष्ठेन युते कचादेः । ;l{5170} परः समूहेऽपि नयोषिदृक्षे त्वेष द्विलिङ्गोऽपि बुधैः प्रदिष्टः ॥ २२ ॥ ;p{0208} धूर्तं तु खण्डलवणे धत्तूरे ना शठे परवत् । खातेऽस्त्रियां च पूर्तं परवच्छन्ने च पूरिते तत्स्यात् ॥ २३ ॥ स्यान्मूर्तं मूर्छाले मूर्तियुते भेद्यलिङ्गस्थम् । ;l{5175} गर्तो देशविशेषे नर्यथ रन्ध्रे ककुन्दरे द्वंद्वे ॥ २४ ॥ आप्तः सत्ये लब्धे प्राप्तं चिह्ने समञ्जसे लब्धे । स्वाप्तं खाते क्रान्ते गुप्तं त्राते च गूढे च ॥ २५ ॥ लिप्तं विषाक्तासितलेपनेषु दीप्तं तु दग्धे ज्वलितेऽतिभासि । ;l{5180} कृत्तं भवेच्छिन्नविवेष्टितेषु दत्तं वितीर्णे वदिते च शस्तम् ॥ २६ ॥ वातं प्रवाते पवने तु पुंसि तूस्तं जटाधूलिरजःसु पापे । अस्तः पुमान्पश्चिमपर्वतेऽथ ;l{5185} क्षिप्ते गते स्यादिह भेद्यलिङ्गः ॥ २७ ॥ ग्रासीकृते ग्रस्तमुशन्ति भेद्ये तल्लुप्तवर्णे वचनेऽन्तिमे स्यात् । पुस्तोऽस्त्रियां पुस्तकलेप्यकर्म- विज्ञानकेषु प्रथितः प्रवीणैः ॥ [288a] २८ ॥ ;l{5190} क्षेमेऽन्तिमे शस्तमथ प्रशस्ते त्रयेऽथ वित्तं धनवाचि षण्ढे । ज्ञाने प्रतीते तु विचारिते च त्रयेऽथ वृत्तौ चरितेऽपि वृत्तम् ॥ २९ ॥ छन्दस्यपि स्त्री न दृढे त्वतीते ;l{5195} मृते वृते वर्तुलकेऽन्यवच्च । अन्तो विनाशे चरमे स्वरूपे प्रान्ते तु न स्त्री निकटे त्रिलिङ्ग्याम् ॥ ३० ॥ ;p{0209} वृन्तं कुचाग्रे घटवारिधार- वाचि द्वयोनं सुमबन्धनेऽपि । ;l{5200} अद्रेर्नितम्बे दशने निकुञ्जे दन्तः स्त्रियामौषधिभेदवाची ॥ ३१ ॥ स्वान्तं भवेच्चेतसि गह्वरे च प्रासे तु चण्डे च गवेधुकायाम् । कुन्तः स्त्रियां गुग्गुलुपादपे च ;l{5205} स्यात्सल्लकीपाण्डुवधूगतश्च ॥ ३२ ॥ कान्तोऽश्मभेदे नरि तत्पटस्थ(?) प्रिये मनोज्ञे त्रितयेऽथ योषित् । नारीफलिन्योरथ पुंसि शान्तो रसेऽतिमुक्ते दमितेऽन्यवत्स्यात् ॥ ३३ ॥ ;l{5210} व्यक्तो बुधे ना प्रकटे पराभो- ऽथोक्तं द्वयोरेककवर्णवृत्ते । विशेष्यवत्स्यात्कथितेऽथ शुक्त मम्ले कठोरे त्रिषु पूतवाचि ॥ ३४ ॥ तिक्तो रसे ना सुरभौ च षण्ढे ;l{5215} किरातके पर्पटके स्त्रियां तु कट्व्या[288b]मथो रिक्तमरण्य उक्तं शून्येऽन्यवत्स्याद्धुसृणे तु रक्तम् ॥ ३५ ॥ प्राचीनके चामलके च ताम्रे रसोत्थधातौ विकसौषधौ स्त्री । ;l{5220} शोणे पुमांस्तद्वति रागयुक्ते नील्यादिरक्तेऽपि परस्य लिङ्गे ॥ ३६ ॥ न्याये तु युक्तं त्रिषु मिश्रितादौ कूरे तु भक्तं त्रिषु सेवितादौ । ;p{0210} मुक्तोऽपवृत्ते त्रिषु मोक्षिते स्यात् ;l{5225} स्तः शंस्तारौ स्तोतृविनाशकौ च ॥ ३७ ॥ समन्तभद्रे नरि शासके तु त्रय्यां च शास्ता करिपे तु यन्ता । सूतेऽथ नप्तात्मजपुत्रकाजे क्षत्ता प्रतीहारिणि सारथौ च ॥ ३८ ॥ ;l{5230} क्षत्राङ्गनायां वृषलाच्च जाते तथा भुजिष्याभवनन्दनेऽपि । होता तु ऋत्विग्भिदि यष्टरि स्यात् पोतापि ऋत्विग्भिदि केशवे च ॥ ३९ ॥ वप्ता तु ताते दहनेऽथ धाता ;l{5235} रवौ विरिञ्चौ नरि भेद्यवत्तु । स्यात्पालकेऽथो जननीधरण्यो र्ब्राह्म्यादिषु स्याद्गवि चैव माता ॥ ४० ॥ खे त्वन्तिमे मानकृतित्रये च पिता तु तातेऽप्यभयादिदे च । ;l{5240} भर्ता प्रभौ धातरि चाथ नेता [289a] स्यान्नायके प्राप्तिकरे च भेद्ये ॥ ४१ ॥ त्रेता युगेऽग्नित्रितयेऽपि योषित् लता तु शाखाहरिताफलीषु । ज्योतिष्मतीस्पृग्व्रततीषु वल्ली- ;l{5245} कस्तूरिकायामतिमुक्तकेऽपि ॥ ४२ ॥ लूतोर्णनाभे च पिपीलिकायां गदान्तरे स्यात्तु हरिद्रिकायाम् । पीता स्त्रियां पुंसि तु गौरवर्णे- ऽन्यवत्तु तद्वत्यपि धीतनाम्नि ॥ ४३ ॥ ;p{0211} ;l{5250} सीता स्त्रियां लाङ्गलपद्धतौ स्यात् रामाङ्गनायां सुरनिम्नगायाम् । आकाशनद्यां त्रिषु मारिते स्या- च्छीतोऽभ्रपुष्पे बहुवारके च ॥ ४४ ॥ स्याज्जानकीलाङ्गलरेखयोः स्त्री ;l{5255} हिमेऽन्तिमे तद्वति तु त्रिलिङ्गः । मन्दक्रिये चाथ चितं त्रिषु स्या- देकीकृतं संहतिचित्ययोस्तु ॥ ४५ ॥ स्त्री चुल्लिकायामथ जीविकायां जनश्रुतौ वृत्तिगणे च वार्ता । ;l{5260} आरोग्यफल्ग्वाह्वययोश्च षण्ढे- ऽथारोग्यवृत्त्यन्वितयोर्विशेष्ये ॥ ४६ ॥ वातिः पुमान्भास्करचन्द्रयोः स्या- द्गतिस्तु यात्राध्वदशाभ्युपाये । नाडीव्रणे स्याच्छरणे च बुद्धौ ;l{5265} मतिस्तु वाञ्छास्मृतिबुद्धिषु स्त्री । चि[289b]तिस्तु चित्यागणयोर्दितिस्तु स्याद्दैत्यमातर्यपि( ख )ण्डने च । मूले गतौ चापि पतिः प्रभौ स्वा- श्रये करोद्वोढरि पुंसि दिष्टः ॥ ४८ ॥ ;l{5270} यतिर्निकारे यतिनि स्मृतो ना स्त्री पाठविच्छेदनवाचकः स्यात् । शितिः स भूर्जे सितकृष्णयोर्ना तत्संयुते स्यान्निशिते पराभम् ॥ ४९ ॥ भृतिस्तु मूल्ये भरणे क्षितिस्तु ;l{5275} स्थाने निवासे भुवि च क्षयेऽपि । ;p{0212} धृतिस्तु योगान्तरवृत्तभेद- संतोषधैर्याध्वरधारणासु ॥ ५० ॥ श्रुतिस्तु वेदे निनदे ग्रहे च श्रोत्रे च वार्तासु च संप्रदिष्टा । ;l{5280} रतिः स्मरस्त्रीसुरतानुरागे- ष्वथानुभूतार्थमतिः स्मृतिः स्यात् ॥ ५० ॥ मन्वादिशास्त्रेषु च मङ्गले तु स्पर्धाजुगुप्सागमने ऋतिः स्यात् । वृतिस्तु वाटे वरणे सृतिस्तु ;l{5285} स्यान्मार्गगत्योरथ घातकृत्योः ॥ ५१ ॥ कृतिर्मितिर्मानपरिच्छिदोः स्या- दीतिस्तु डिम्बे गदिता प्रवासे । तथातिवृष्ट्यादिकसप्तके च रीतिस्त्वयः किट्टक आरकूटे ॥ ५२ ॥ ;l{5290} सीम्नि प्रचारे त्रयकाव्यवृत्ति- भेदेष्वपि स्यात्तु[290a]रगे तु पुंसि । पाने स्त्रियां पीतिरथो हये ना स्त्रियां तु दीप्तौ प्रजनेऽशने च ॥ ५३ ॥ वीतिर्गतौ चाथ नये च नीतिः ;l{5295} प्राप्तावपि स्यादथ वृत्तभेदे । गानेऽपि गीतिः प्रमदे तु हार्दे योगान्तरे प्रीतिरनङ्गपत्न्याम् ॥ ५४ ॥ भूतिस्तु संपद्गजभूषणे स्या- ज्जातौ तथा भस्मनि च प्रदिष्टम् । ;l{5300} स्यूतिस्तु संतानकसीवनेषु स्यूतौ भवेदूतिरिहावनेऽपि ॥ ५५ ॥ ;p{0213} शस्त्रे रवेस्तेजसि वह्निकीले हेतिः स्त्रियां स्यादथ जीविकायाम् । वृत्तिः स्त्रियां टिप्पणिकासु कौशि- ;l{5305} क्याद्यासु रीतिष्वपि संप्रदिष्टा ॥ ५६ ॥ युतिस्तथामिश्रण मिश्रणेषु च्युतिर्वराङ्गे च्यवने तथोक्ता । त्वक्चर्मणोः कृत्तिरिहापि भूर्जे स्यात्कृत्तिकावाच्यथ भित्तिरुक्ता ॥ ५७ ॥ ;l{5310} कुड्ये प्रदेशेऽपि च संधिभागे तथावकाशेऽप्यथ संवृ(भृ?)ते स्यात् । लाभे तथाप्तिः सुमहोदये तु प्राप्तिश्च लाभे परमे तथोक्ता ॥ ५८ ॥ पत्तिर्गतौ सैन्यविशेषके स्त्री ;l{5315} पुमांस्तु शू[290b]रे पदगेऽन्यवत्स्यात् । दृतिर्द्वयोश्चर्मपरे तु मत्स्ये शास्तिस्तु शास्त्रे युजि शासनेऽपि ॥ ५९ ॥ आतिः शरार्यां गमनेऽपि योषित् वित्तिस्तु संभूतिविचारयोः स्त्री । ;l{5320} ज्ञानेऽथ लाभेऽप्यथ गुप्तिरुक्ता कारागृहे स्यादवनेऽवटेऽपि ॥ ६० ॥ यमे नरि स्यादथ सुप्तिरुक्ता स्पर्शाज्ञतारुक्स्वपनेऽन्यवत्तु । विश्रम्भघातिन्यथ शीतिरुक्ता- ;l{5325} रामे शुभेऽथ त्विषि च स्पृहायाम् ॥ ६१ ॥ कान्तिर्भवेत्सातिरिह प्रदाने तथावसानेऽप्यथ जातिरुक्ता । ;p{0214} सामान्यवृत्तान्तरगोत्रजन्म- कम्पिल्लजातीफलचुल्लिकासु ॥ ६२ ॥ ;l{5330} धात्र्यामथो बान्धवतातयोः स्या- ज्ज्ञातिर्द्वयोः प्रातिरियं प्रदेशे । पूर्तौ च बस्तिस्तु युगे च नाभे- रधोनिरूहेऽपि दशासु भूम्नि ॥ ६३ ॥ वर्तिर्द्वयोर्दीपदशासु वस्त्र- ;l{5335} दशासु तन्वा अनुलेपिनीषु । दृगञ्जने भेषजनिर्मितौ स्या- दार्तिर्धनुःकोटिरुजोस्तथार्तिः ॥ ६४ ॥ मूर्तिः शरीरे च [291a] कठोरभावे कीर्तिः प्रसादेऽपि निषद्वरे च । ;l{5340} यशस्यपि स्याद्विततौ च भक्तिः पुनर्विभागे भजने च गौण्याम् ॥ ६५ ॥ व्याप्तिस्तथा व्यापनलम्भयोः स्यात् भ्रान्तिस्तु मिथ्याधियि च भ्रमेऽपि । पक्तिस्तथा गौरवपाकयोः स्या- ;l{5345} द्रक्तिस्तु रागेऽपि च गीतिभेदे ॥ ६६ ॥ दशाक्षरे छन्दसि चावलौ च दशाख्यसंख्याविषये च पङ्क्तिः । युक्तिः पुनर्योजनतर्कयोः स्या- च्छक्तिः प्रभावेऽपि बलेऽपि कास्वाम् ॥ ६७ ॥ ;l{5350} शुक्तिः कपालशकले रोमावर्ते तुरंगाणाम् । मुक्तास्फोटे नखरे दुर्नामक्षुद्रशङ्खेषु ॥ ६८ ॥ ना नर्तकेऽपि क्रमणे नृतूः स्या- द्रतूर्द्युनद्यामपि सत्यवाण्याम् । ;p{0215} ;vv{त्रिताः} ;c{त्रिताः ।} धन्वन्तरौ स्वर्गिषु चामृतो ना ;l{5355} क्लीबे पयस्यम्भसि यज्ञशेषे ॥ ६९ ॥ अयाचिते स्याच्च घृते सुधायां स्त्रियां गुडूच्यामलकाभयासु । असत्यकृष्योरनृतं हरौ तु प्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥ ;l{5360} [291b]पुंस्यच्युतः शार्ङ्गिणि भेद्यलिङ्गः स्थिरेऽर्दितं त्वीरणरोगभेदे । त्रयेऽर्थिते हिंसितकेऽथ न स्त्री स्यादक्षतं भूम्नि तु लाजवाचि ॥ ७१ ॥ आपात उक्तः पतने तदात्वे ;l{5365} संकीर्तितस्तद्वदहिंसिते च । आख्यातमुक्ते त्रिषु ल्युग्मु( ? )खेऽन्त्ये घ्राते तथाघ्रातमिदं हतेऽपि ॥ ७२ ॥ दग्धानिलोत्थामयशब्दितेषु त्वाध्मातमुक्तं किल कोषविज्ञैः । ;l{5370} स्यादाप्लुतः स्नातक आप्लवे च स्यादादृतस्त्वर्चितसादरार्थः ॥ ७३ ॥ पलायुतानां द्वितये च शाकटे स्यात्संगृहीतेऽपि हिते तथाचितः । मृषार्थके स्याद्गुणिते च ताडिते ;l{5375} माने पुराणे सिचये तथाहतः ॥ ७४ ॥ देशान्तरे संगरनृत्यगेहे- ऽप्यानर्त उक्तो जनवाचकोऽपि । ;p{0216} आवर्त आवर्तनचिन्तनाम्भो- भ्रमेष्वथाब्दे प्रलयेऽक्षवृक्षे ॥ ७५ ॥ ;l{5380} संवर्त उक्तो नरि तु त्रिगर्तो देशान्तरे स्याद्गणितान्तरे च । कम्राङ्गनाघुर्घुरिकासु तु स्त्री गणेऽपवृत्तौ[292a]नटने विवर्तः ॥ ७६ ॥ शुष्कामिषोपप्लवयोश्च तप्ते- ;l{5385} ऽप्युत्तप्तमभ्यस्तमितेषु तु स्यात् । ज्ञातेऽपि युक्तेऽप्युचितं, त्रिषु स्या- दुद्धूतमप्युत्कलितेऽङ्कितेऽपि ॥ ७७ ॥ मुक्तेऽपि चाथोत्थितमुद्यते स्या- द्वृद्धे प्रजातेप्युषितं च दग्धे । ;l{5390} स्थिते तथा पर्युषिते हृते तु द्वेधीकृते स्यान्मुषितं त्रिलिङ्गम् ॥ ७८ ॥ उपक्रमेऽङ्घ्रिस्खलने च डिम्बे स्यात्कुम्भकादित्रितये च सृत्याम् । उद्धात उक्तो नरि मुद्गरेऽथो- ;l{5395} द्गतोक्तयोः स्यादुदितं विशेष्ये ॥ ७९ ॥ उन्नद्धवृद्धौदनिकेषु चोच्छ्रितं हेम्न्यस्त्रियां स्यात्कलधौतके तथा । हारे द्विपानां दशनेऽथ पाण्डुरे- ऽन्यवद्गिरौ ना रजतं प्रदिष्टम् ॥ ८० ॥ ;l{5400} सुरता निर्जरभावे सुरतं[तु]स्याद्रहःकेलौ । प्रहतं वितते क्षुण्णे संगतदृढयोस्तु संहतं प्राहुः ॥ ८१ ॥ रसितं सुवर्णखचिते रुते तथा गर्जिते प्रोक्तम् । पलितं त्वस्त्री तापे शैलजकर्दमविपक्वकेशेषु ॥ ८२ ॥ ;p{0217} ललितं हारविभेदे विभ्रमभेदे तथा[292b]भीष्टे । ;l{5405} स्खलितं भ्रेषे छलिते कलितं ज्ञाते तथा प्राप्ते ॥ ८३ ॥ ज्वलितं भास्वति दग्धे त्वरितं प्रजवे द्रुतार्थे च । स्तिमितं क्लिन्नेऽप्यचले हम्मितमाहुर्द्रुते दग्धे ॥ ८४ ॥ सुहितस्तृप्तेऽतिहिते सोच्छ्राये मूर्छितं सुदृढे । हृषितं हृष्टे रोम्णि प्रतिहत उक्तं च विस्मिते प्रीते ॥ ८५ ॥ ;l{5410} गर्जित इभेऽतिमत्ते क्लीबे त्वम्भोधरध्वाने । वर्धितमुक्तं प्रसृते छिन्ने संपूरिते तद्वत् ॥ ८६ ॥ स्यात्स्थापितं च निहिते निर्णीते चापि चेष्टितं गत्याम् । ईहायामथ लसके वेष्टितमुक्तं वराङ्गरुद्धार्थम् ॥ ८७ ॥ अर्थे ज्ञाते विदितं भावितमुक्तं च वासिते प्राप्ते । ;l{5415} कुटिले वेल्लितमन्त्ये परलिङ्गं तु प्लुते विधुते ॥ ८८ ॥ ग्रन्थितमुक्तं गुम्फितहिंसितयोः स्यात्समाक्रान्ते । मथितं निर्जलतक्रे निघृष्ट आलोडिते परवत् ॥ ८९ ॥ प्रार्थितमर्थितरुद्धाभिहतेषु स्याद्व( ? )रांगे तु । जृम्भितमीहाजृम्भणविकसितिषु स्यादथाह्वाने ॥ ९० ॥ ;l{5420} [293a]रुदिते क्रन्दितमाहुः प्रोक्षितमुक्तं हते सिक्ते । बीजाकृतमुण्डितयोर्वापितमह्यादिदष्टे तु ॥ ९१ ॥ स्याद्वर्मितेऽपि दंशितमथ सुकृतं स्याच्छुभे पुण्ये । परवत्सुविहित उक्तं प्रतारिते निकृतं विकृते ॥ ९२ ॥ नीचेऽप्यथ विकृतं स्यादसंस्कृते रोगितेऽश्लीले । ;l{5425} संस्कृतमग्र्ये कृतके लक्षणयुक्तेऽप्यलंकृते पक्वे ॥ ९३ ॥ दर्शत इन्दौ तरणौ मरतो मृतौ कृतान्ते च । ऋत्विजि यजतोऽप्युक्तो यष्टव्ये त्वन्यलिङ्गः स्यात् ॥ ९४ ॥ ;p{0218} हर्यत उक्तस्तुरगे स्पृहणीये वाच्यलिङ्गोऽसौ । प्राज्ये प्रभूतमुक्तं तथोद्गतेऽर्धाञ्जलौ प्रसृतः ॥ ९५ ॥ ;l{5430} जङ्घायां तु स्त्री स्यात्परवन्नम्रे प्रसन्ने च । स्याद्वेगितेऽथ भद्रे सत्ये चान्त्ये प्रियोक्तौ तु ॥ ९६ ॥ परवत्सूनृतमाहुरथ प्रसूने प्रसूतं स्यात् । वाच्यवदुक्तं जाते विश्रुतमानन्दिते ख्याते ॥ ९७ ॥ ज्ञातेऽथादरयुक्तप्रज्ञातज्ञातहृष्टेषु । ;l{5435} परवत्प्रतीत उक्तो निर्मुक्तस्त्य[293b]क्तसङ्गे स्यात् ॥ ९८ ॥ निर्मोकमुक्तसर्पेऽथाव्यक्तः शंकरे विष्णौ । मूलप्रकृतौ क्लीबे महदादावात्मवाच्यपि च ॥ ९९ ॥ त्रिष्वस्फुटेऽथ मुक्ते विवेकयुक्तेऽप्यसंपृक्ते । परवद्विविक्तमुक्तं द्वितयोनं तद्रहोवाचि ॥ १०० ॥ ;l{5440} हरिणझषविभेदभेदरोहि- द्रुषु नरि कुङ्कुमरक्तशक्रचापे । मिथुनयुगिह रोहितं नदे तु क्षितितनये नरि लोहितोऽप्यथास्त्री ॥ १ ॥ असृजि च घुसृणे च तैलपर्ण्यां ;l{5445} कुमलयजे परवत्स वर्णभेदे । सुरमुनिभिदि पादपे च शैले शकझषभिद्यपि पर्वतो मतो ना ॥ २ ॥ स्यूते तथा वस्तिपुटे विदीर्णे संवासिते स्यात्पुटितं त्रिलिङ्गम् । ;l{5450} स्यात्पीडितं स्त्रीकरणे द्वयोनं त्रय्यां तु तद्बाधितयन्त्रितेषु ॥ ३ ॥ पिण्डितं गणितसान्द्रयोर्भवेत् पण्डितस्तु कविसिह्लकार्थकः । ;p{0219} पुंसि बिन्दुषु मृगेऽश्वरोहिते ;l{5455} वाच्यवत्तु पृषतोऽब्दबिन्दुनि ॥ ४ ॥ हारीतः खगमुनिभेदकैतवेषु सन्मन्त्रैर्हुतभुजि संस्कृते कृते च । सं[294a]पन्नेऽप्युपनिहिते प्रवेशिते च संप्रोक्तं किल परलिङ्गकं प्रणीतम् ॥ ५ ॥ ;l{5460} अपनीतेऽप्युपनीते जितेन्द्रियेऽश्वे तथा सुवहे । वाणिज्ये निभृते चाभिधेयलिङ्गं विनीतमप्युक्तम् ॥ ६ ॥ शाकुन्तलेये नटसूत्रकारे नटे च रामावरजे कुविन्दे । स्यान्नाट्यशास्त्रे भरतोऽथ जम्बू- ;l{5465} द्वीपेतिहासान्तरयोश्च षण्ढे ॥ ७ ॥ स्याद्भारतं वृत्तिविभेदवाणी सत्पक्षिणीवाचि तु तत्स्त्रियां स्यात् । दुर्जातमन्त्ये व्यसनेऽथ सम्य- गज्ञातवस्तुन्यथ रस्य( ? )लिङ्गः ॥ ८ ॥ ;l{5470} भवेत्परेतो नरि भूतभेदे मृतेऽन्यवत्स्यादथ झल्लकण्ठे । पुमान्कपोतः कविकापतंगे । षण्ढे तु तन्मज्जननीचपक्त्योः ॥ ९ ॥ स्याद्व्यायतं दीर्घदृढाधिकेषु ;l{5475} व्यासक्तचेतस्यपि योगभेदे । व्याघात उक्तः प्रहृतौ च विघ्ने संघे तु घाते नरकान्तरे च ॥ १० ॥ संघात उक्तोऽथ हरेऽद्रिभेदे स्याद्रैवतोऽथाल्पतनौ किरातः । ;p{0220} ;l{5480} स्यान्नार्यति[ति ? ]क्तेऽन्त्यजजातिभेदे मन्दाकिनीकुट्टनिकागतः स्त्री ॥ ११ ॥ कोविदा[294b]रे च मन्दारेऽप्यास्फोतः स्यात्स्त्रियां पुनः । वनमाल्यां स उदितो गिरिकर्ण्यामपि श्रुतः ॥ १२ ॥ उदात्त उक्तः स्वरभेदकाव्या- ;l{5485} लंकारहृद्येषु महाशये च । हेतौ निमित्तं किल लक्षणेऽपि धत्तूर उन्मत्तमुशन्ति पुंसि ॥ १३ ॥ तत्तुल्यलिङ्गो मुचुकुन्दवृक्षे- ऽथोन्मादयुक्ते समदोपमानः । ;l{5490} पुमान्प्रपातोऽतटनिर्झरेषु पर्याप्तमुक्तं च यथेष्टवाचि ॥ १४ ॥ तृप्तौ च शक्ते त्रिषु वारणेऽन्त्ये- ऽथेन्द्रे घने भूभृति देवताडे । भृत्ये च जीमूतमुशन्ति सन्तः ;l{5495} स्यादेधतुर्विष्णुहुताशपुंस्सु ॥ १५ ॥ पान्थे वृषे स्याद्वहतुर्न तु स्त्री स्याज्जीविते जीवितभेषजे च । भक्तेऽपि जीवातुरथो विहस्तः स्याद्विह्वले चण्डनरे च शस्तः ॥ १६ ॥ ;l{5500} पर्यस्तः पतिते हतेऽथ कुपिते क्षिप्ते तथोत्तेजिते- ऽप्यायस्तो निहतेऽप्यथ प्रतिहते धूते निरस्तः स्मृतः । तूर्णोक्तिप्रहितोज्झितेष्वथ मते विश्वासयोग्येऽन्यव- द्विश्वस्तो निभृतेऽपि योषिति पुननिर्भर्तृकावाचकः ॥ १७ ॥ संनाहेऽतिदृढे गृ[295a]हे च गदितो न स्त्री निवातोऽन्यव- ;l{5505} द्वातोनेऽथ हरौ च शेषभुजगेऽनन्तः पुमान्खेऽन्तिमे । ;p{0221} दूर्वाभूम्यमृतासु गोपतनयाग्निज्वालिकालाङ्गली- षूक्तः स्त्री खगभेदभासखगमेषूक्तः शकुन्तः पुमान् ॥ १८ ॥ दृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनः सिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः । ;l{5510} क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव- द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥ उद्वान्तस्त्वमदे द्विपे त्रिषु समुद्गीर्णेऽथ कक्षान्तरे क्ष्मापानां प्रमदापुरेऽप्यकुशले त्वस्वन्तमन्त्येऽन्तयोः । क्षेत्रे चानवधौ *** वुदितः साधौ प्रवृत्तौ पुमान् ;l{5515} अर्हन्तः क्षपणे जिनेऽथ जलधौ प्रोक्तस्तरन्तः पुमान् ॥ २० ॥ तर्यां स्त्री गिरिशे ******** जयन्तः पुमान् शर्वाण्यां त्वरणिद्रुमेन्द्रतनयाधू ( ? )कास्वसौ योषिति । गोदन्तो हरितालदंशितकयोर्भासे तु भासां निधौ भासन्तस्त्रिषु सुन्दरेऽप्यथ मह[295b]त्प्राज्ये विशाले त्रिषु ॥ २१ ॥ ;l{5520} तत्स्त्री नारदवल्लकीगतमथ क्लीबे पृषद्बिन्दुषु प्रायो भूम्नि मृगे तु पुंसि परवत्स्याच्छ्वेतबिन्द्वन्विते । वायौ पुंसि जगज्जगच्च चरमे लोकेऽन्यवज्जङ्गमे स्त्री भूमौ भुवने जनेष्वपि तथा छन्दोन्तरे कीर्तितम् ॥ २२ ॥ चन्द्रे पुंसि तृपद्द्वयेन रहितं छत्त्रेऽन्यवत्तृप्यति ;l{5525} स्याद्भेद्ये विपुले वृहन्नथ वृहत्युक्ताम्बुधान्यामपि । छन्दोवस्त्रभिदोश्च वाचि गदिता सिंह्योर्महत्क्षुद्रयो- र्ना देवानिलयोर्मरुन्निगदितोऽथ ग्रन्थिपर्णेऽन्तिमे ॥ २३ ॥ पूज्येऽर्हंस्त्रिषु ना जिने दिशि हरित्स्त्री वर्णभेदे हये ना च स्त्री तु तृणे स्त्रियां तु हरितो दूर्वा सुवर्णेऽन्यवत् । ;l{5530} रोहित् पुंसि रवौ मृगीव्रततिगः स्त्री विद्युदुक्ता स्त्रियां संध्यायां तडिति प्रभाविरहिते भेद्यस्य लिङ्गे मता ॥ २४ ॥ ;p{0222} गर्मुत्स्वर्णलतार्थकोऽपि मिथुने भूभृन्नृपेऽद्रौ मतः । पित्सन्पक्षिणि नान्यवत्तु पतनेच्छौ कुत्सिते त्वन्यवत् । कुर्वत्कर्मकरेऽथ पुंसि तिल[296a]के श्रीमान्मनोज्ञेऽन्यव- ;l{5535} ल्लक्ष्मीवत्यपि चार्वती तु हयिकायां कुम्भदास्यामपि ॥ २५ ॥ धीमान्गीर्पतिविज्ञयोरथ भवेद्भास्वान् रवौ भासुरे दोह्यायां गवि सुव्रतापि सुखतः सुष्ठुव्रते त्वन्यवत् । वाच्याभं विवृतं स्फुटे च पिटिकाभेदे भवेत्तत्स्त्रियां कान्तायां वनिता स्त्रियामपि पराभा त्वर्थिते सेविते ॥ २६ ॥ ;l{5540} जामाता दुहितुर्धवे प्रियतमेऽर्कावर्तरोगेऽथ वि- धाता वेधसि मन्मथेऽथ नरपादेष्ट्रोर्विनेता भवेत् । तार्क्ष्याम्बापिटिकाभिदोश्च विनतारुग्णे नते शिक्षिते त्रय्यां स्यादथ पञ्चता च निधने स्यात्पञ्चभावे तथा ॥ २७ ॥ सूतायां तु भवेत्स्त्रियां च विकृतेऽन्याभं विजातं कृते ;l{5545} खण्डे रुग्भिदि वालुकासु सिकता देशेऽस्त्रियां शार्करे । ध्वाने चाङ्गविलेपनेऽथ परवत्त्वामोदिते वासितं स्त्रीभ्योः स्त्री पिशितं पुनश्च पलले मांस्यां स्त्रियां संमतम् ॥ २८ ॥ चापे स्यात्तृणताथ गोपतिरपि क्ष्मापे च शण्डे शिवे सूर्ये[296b]श्रीपतिरच्युते स्मरहरेऽथो शिल्पिभेदे नरि । ;l{5550} जीवेऽथ स्थपतिश्च यष्टरि भवेत् सूते तथा सौविदे । कालेन्द्वोरमतिः स्मरे तु रमतिः कान्तेऽपि काले दिवि ॥ २९ ॥ रात्रौ वासनिकेतयोश्च वसतिः स्त्री धातृवाय्वोः पुनः श्रौतेष्वग्निषु चाङ्कतिर्निर्गदितो रुक्त्यागयोस्त्र्यंहतिः । अश्रीदिग्धवयोरुपद्रवहृते स्यान्निर्ऋतिः पुंसि तु ;l{5555} स्वाहायां तरणौ घृणौ च चतुरैः प्रोक्तो गभस्तिस्तथा ॥ ३० ॥ पुमानगस्तिर्मुनिवृक्षभेदे स्यात्संगतिः संगमबुद्धिनाम्नोः । स्त्री संनतिः स्यात्प्रणतौ ध्वनौ च दैवे च धृत्यां नियतिः स्त्रियां स्यात् ॥ ३१ ॥ ;p{0223} ;l{5560} दैर्घ्यप्रभावोद्यमवासरेषु सीम्न्युद्यमे संयमकेवले च । आगामिकाले गदितायतिः स्त्री स्यात्पद्धतिर्वर्त्मनि चावलौ च ॥ ३२ ॥ विपत्तिरापत्तिरिहापदि द्वे । ;l{5565} स्तो यातनायामथ संततिः स्त्री । वंशे सुतादौ च परंपरायां स्यात्संमतिः स्वीकृतिवाञ्छयोश्च ॥ ३३ ॥ साम्ये सभायां समिती मृधेऽपि स्यात्संगमेऽथादितिरत्र भू[297a]मौ । ;l{5570} द्युसज्जनन्यामथ पक्षतिः स्यात् पक्षस्य मूले प्रतिपत्तिथौ च । तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ च वृद्धौ प्रसूतिस्तु सुतोद्भवादौ । पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥ ;l{5575} भवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ ;l{5580} स्यान्मूलमायापरमात्मशील- स्वाम्यादिपौरव्रजकारणेषु । पुंस्त्वादिलिङ्गे प्रकृतिस्तथैव स्यात्प्रत्ययस्यापि पुरोगभागे ॥ ३७ ॥ जात्यङ्गरूपेषु मताकृतिः स्त्री ;l{5585} सौस्थ्ये तथा*स्तमने च सौख्ये । स्यान्निर्वृतिः साधुनयध्रुवाम्बा- र्थिका सुनीतिर्गदिताथ वृत्तौ ॥ ३८ ॥ ;p{0224} प्रवाहवृत्तान्तगता प्रवृत्ति- रथाङ्गहारे रमणीविलासे । ;l{5590} छेदेऽपि विच्छित्तिरथानुभूतौ संवित्तिरुक्ता विजनाविवादे( ? ) ॥ ३९ ॥ आसत्तिः स्त्री लाभे सङ्गे पर्याप्तिस्तु त्राणे प्राप्तौ । प्राकाम्येऽथो निर्वृत्तिः स्याद्वैराग्यादौ पञ्चत्वेऽपि ॥ ४० ॥ समर्थनावसान[297b]योः स्त्रियां समाप्तिरीरिता । ;l{5595} स्त्रियां प्रलम्बवैरिणो भमातृगा च रेवती ॥ ४१ ॥ मालती युवतिजातिचन्द्रिका लाङ्गलीषु निशि वाहिनीभिदि । काकमाच्यां च सात्वती पुन- र्वृत्तिभेदशिशुपालमातृगा ॥ ४२ ॥ ;l{5600} वर्तमानसमये तु भवन्तिः पुंसि योषिति पुनः स लडर्थे । सायकान्तरगता भवती स्त्री सत्वदर्थ इह वाच्यसदृक्षा ॥ ४३ ॥ पार्वती द्रुपदजागजभक्ष्या- ;l{5605} जीवनीगिरिसुतासु मता ज्ञैः । शाकिनीभिदि तथानलपात्र्यां मल्लिकाभिधलतासु हसन्ती ॥ ४४ ॥ जीवाशम्योः कामरुहामृतवल्ल्यो- र्जीवन्ती स्यात्पुंसि पुनर्भेषजनाम्नि । ;l{5610} वासन्तः स्यात्कोकिल उष्ट्रे च विटे च स्त्री माधव्यां पाटलिकायामपि यूथ्याम् ॥ ४५ ॥ तन्यतुर्ना समीरे स्यादशनौ च पयोधरे । रात्रौ स्त्रियां गर्जिते तु स्त्रीपुंसे न समीरितम् ॥ ४६ ॥ ;p{0225} ;v{चतुरक्षरतान्ताः ।} ;c{च[तुरक्षरता]न्ताः ।} ऋद्धेऽवसानेऽवगते गतौ च ;l{5615} संप्रोच्यतेऽत्रावसितं प्रवीणैः । सिते च पीते नरि तद्युते तु त्रये विशुद्धे प्रवरेऽवदातः ॥ ४६ ॥ निर्वादे त्ववगीतं मुहुश्च[298a] दृष्टे विगर्हिते परवत् । अन्तर्गतं पुनरुक्तं विस्मृतमध्याप्तयोस्त्रय्याम् ॥ ४७ ॥ ;l{5620} अङ्गारितं दग्धपलाशकल्यु- द्गत्यो रथापावृतमात्मतन्त्रे । छन्नेऽभिनीतस्त्रिषु संस्कृते स्या- न्न्यायेऽपि कोपिन्यथ साहसेऽपि ॥ ४८ ॥ अत्याहितं स्यादतिसाध्वसेऽथ ;l{5625} चोपाहितोऽग्न्युत्पतने तथैव । आरोपितेऽथ क्रतुहिंसितेऽज उपाकृतस्तद्वदुपद्रुतेऽपि ॥ ४९ ॥ उदास्थितः स्यात्प्रणिधौ चरेऽपि दौवारिकेऽध्यक्षनरेऽपि शस्तः । ;l{5630} न्याय्ये कुलीनेऽप्यभिजात आप्ते स्थितौ द्युवृक्षे त्वपि पारिजातः ॥ ५० ॥ मन्दारके निम्बतरौ समृद्धे समाहिते चोपचितश्च दिग्धे । भवेत्समुद्गीर्णवियातवाची ;l{5635} समुद्धतोऽथोल्लिखितः प्रदिष्टः ॥ ५१ ॥ तनूकृतोत्कीर्णगतोऽथ लाक्षा- रक्ते तते पल्लवितं प्रसूतौ । ;p{0226} लघूकृते निस्त्वचि वर्जिते च विशेष्यगं निस्तुषितं वदन्ति ॥ ५२ ॥ ;l{5640} परिगतमुक्तं ज्ञाते प्रयातसंवेष्टितार्थे च । लब्धे न्यस्ते ख्याते समाहिते च प्रणिहितं तद्वत् ॥ ५३ ॥ प्र[298b]तिहतमुक्तं द्विष्टे संरुद्धे स्यात्प्रतिस्खलिते । रटिते रतस्य शब्दे पिकशब्दे कुहरितं प्रोक्तम् ॥ ५४ ॥ बद्धे चोपन्यस्ते ग्राहित उद्ग्राहितं प्राहुः । ;l{5645} कलधौतः कलशब्दे नपुंसके हेम्नि रूप्ये च ॥ ५५ ॥ नरि नारङ्गे सुरमातङ्गे चैरावत ऐन्द्रे त्वतिदीर्घे । चापे चरमे लकुचे त्वस्त्री विद्युद्भेदे विद्युति च स्त्री ॥ ५६ ॥ ;l{5650} कुम्भिलकुमुदाकरयोर्घूके कथितो दिवाभीतः । पाशुपतो बकपुष्पे पशुपतिदैवे विशेष्यघ्नः ॥ ५७ ॥ निष्कासितो धिक्कृत ऊहिते च स्यान्निर्गतेऽथो विनिपात उक्तः । दैवादिजन्यव्यसने त्वपाने( ? ) ;l{5655} घाते तथास्त्रे परिघात उक्तः ॥ ५८ ॥ योगविशेषोत्पातापमानवाची व्यतीपातः । युद्धे वधे नरि समाघात इहोक्तोऽथ विज्ञाने ॥ ५९ ॥ नियतान्यसमाहितयोः समाहितः कीर्तितः सद्भिः । नन्द्यावर्तस्तगरे मन्दिरभेदे नृपादीनाम् ॥ ६० ॥ ;l{5660} परिवर्तः कमठेशे परिवृत्तौ स्यात्पलायने वर्षे । अभियु[299a]क्तः पररुद्धे तत्पर उक्तोऽतिमुक्तस्तु ॥ ६१ ॥ वासन्त्यामपि तिनिशे निष्कलके चोपरक्तस्तु । व्यसनातुरे च राहौ राहुगृहीते तथार्कादौ ॥ ६२ ॥ ;p{0227} स्यात्सूर्यभक्तो नरि बन्धुजीवे ;l{5665} पार्थौषधौ स्त्री परवत्परत्र । स्याद्दन्तिदन्ते नरि नागदन्तो गृहादितो निर्गतकाष्ठके च ॥ ६३ ॥ स्त्री द्रोण पुष्प्यामपि मल्लिकायां विद्याधरे दन्तिनि पुष्पदन्तः ॥ ६३ ॥ ;l{5670} सिन्धौ च सिन्दुवारे हिज्जल उक्तो नदीकान्तः । स्त्री जम्बुकाकजङ्घावल्लीमात्रेषु निर्दिष्टः ॥ ६४ ॥ अश्मप्रभेदे नरि चन्द्रकान्तो- ऽन्त्ये कैरवेऽथो नरि वैजयन्तः । गुहे जयन्तेऽरणिवृक्ष धूका ;l{5675} नाकेशकन्यासु भवेत्स्त्रियां सः ॥ ६५ ॥ पुरस्कृतं शत्रुगृहीत ऊरी- कृतेऽर्चितेऽग्रे च कृतेऽन्यवत्स्यात् । स्यान्निन्दितत्यक्तविचूर्णितेषु त्रयेऽप्यवध्वस्तमथानले स्यात् । ;l{5680} उत्पातके च ग्रहभेदके च ना धूमकेतुः कथितः प्रवीणैः ॥ ६६ ॥ स्याच्चित्रगुप्तोऽपि यमे तदीय- कायस्थकेऽथो नरि पञ्चगुप्तः । कूर्मेऽन्तिमे नास्तिक[299b]दर्शनेऽधि- ;l{5685} क्षिप्तस्तु निर्भर्त्सितकुण्ठितार्थः ॥ ६७ ॥ प्रत्याख्याते प्रेषिते च परिक्षिप्तश्च कुण्ठिते । पुंस्यायुष्मान्योगभेदे वाच्यवच्चिरजीविनि ॥ ६८ ॥ बुधे रवौ विवस्वान्भगवान्पूज्ये च रुद्रे च । स्याद्द्वीपवान्नदेऽब्धौ द्वीपवती त्वापगापृथ्व्योः ॥ ६९ ॥ ;l{5690} तार्क्ष्ये खगे गरुत्मान्संख्यावान्पण्डिते वनिने ( ? ) । स्यादंशुमान्दिनकरे शालीपर्ण्यां त्वंशुमत्युक्ता ॥ ७० ॥ ;p{0228} अर्थपतिर्धननाथे तथेश्वरे गृहपतिर्गृहिणि । सत्रिणि चाग्न्याधाने प्रजापतिरुक्तो नृपे द्रुहिणे ॥ ७१ ॥ सेनापतिः सैन्यपतौ गुहे च ;l{5695} लवङ्गपूगद्रुमयोस्तु विष्णौ । लक्ष्मीपतिः स्यादथ वृक्षमात्रे वनस्पतिः पुष्पफलद्रुमे च ॥ ७२ ॥ सदागतिः स्यात्पवने सदीशे खगे हिमारातिरिहानलेऽर्के । ;l{5700} पदाप्तिवार्तागुरुताप्रबोध- प्रागल्भ्यकेषु प्रतिपत्तिरुक्ता ॥ ७३ ॥ चण्डालघूकनापितपर्यायः स्याद्दिवाकीर्तिः । शतधृतिरिन्द्रे च विधौ यागे त्विन्दौ सुधासूतिः ॥ ७४ ॥ अपचिति[300a]रर्चा हान्योर्निष्कारे स्याद्व्यये च स्त्री । ;l{5705} अनुमतिरुक्तानुज्ञा क्षीणकलेन्दुश्च पूर्णिमा गदिता ॥ ७५ ॥ प्रतिकृतिरुक्ता प्रतिमा पूजा किं च प्रतीकारः । अस्वाध्याये क्षेपे निराकृतिः स्यादनाकृतौ तद्वत् ॥ ७६ ॥ उपगमे च जने स्यादुपपत्तिर्योजने कथिता । उपसत्तिः सेवायां प्रतिपत्तौ सङ्गमात्रे च ॥ ७७ ॥ ;l{5710} अपवादे तु जनानामभिशस्तिः प्रार्थनायां च । गन्धवती मद्यभुवोर्योजनगन्धानगर्योश्च ॥ ७८ ॥ पारावतः कलरवे शैले कपितिन्दुके तद्वत् । स्त्री गोपगीतिर्लवलीफलयोरथ काचमक्षीर्याम् ॥ ७९ ॥ श्वेतवचायां कुष्टे हैमवती स्याद्धरीतक्याम् । ;l{5715} भोगवती भुजगानां नगरे नद्यन्तरे च भवेत् ॥ ८० ॥ चर्मण्वती तु कदलीसरिद्भिदोरथ कुमुद्वती प्रोक्ता । कुमुदिन्यां कुशपत्न्यां शोभनदन्त्यां तु शुभदन्ती ॥ ८१ ॥ ;p{0229} स्यात्पुष्पदन्तकरिणो भार्यायामथ सरस्वती वाचि । वाग्देव्यां च सुरभ्यां नदीविशेषेऽङ्गनारत्ने ॥ ८२ ॥ ;l{5720} [300b]नद्यां पुंसि तु रसिके नदभेदे नद्यधीशे च । कुट्टिन्यां लक्षायामुद्दिष्टा रङ्गमाता च ॥ ८३ ॥ दिशि रविगन्तव्यायां प्रधूपिता क्लेशिते परवत् । प्रव्रजिता तापस्यां मुण्डीर्यां मांसिकायां च ॥ ८४ ॥ ऋष्यप्रोक्ता तु शतावर्यां स्याच्छूकशिम्ब्यां च । ;l{5725} स्यान्माषपर्णिकायां तथा पटोल्यां कृष्णवृन्ता च ॥ ८५ ॥ स्पृक्कायां कार्पास्यां दुरालभायां समुद्रान्ता । ;vv{पञ्चताः} ;c{पञ्चताः ।} अवलोकितस्तु विबुधे प्रेक्षित उक्तो विशेष्याभः ॥ ८६ ॥ उपधूपित उद्दिष्टः सपीपमरणे प्रधूपिते तद्वत् । अपराजितस्तु विष्णौ हरे स्त्रियां त्वौषधीभेदे ॥ ८७ ॥ ;l{5730} निर्जित उक्ता परवत्काल्यां श्वेताजयन्ती स्त्री । मदनद्विषि गजवदने वदन्ति विज्ञा गणाधिपतिम् ॥ ८८ ॥ अथ यादसां पतिः स्याद्वरुणे रत्नाकरे तद्वत् । पृथिवीपतिरवनीशे वृषभाह्वे चौषधे पुंसि ॥ ८९ ॥ मूर्धाभिषिक्तः पृथिवीपतौ स्या- ;l{5735} त्क्षत्रे प्रधानेऽथ वसन्तदूतः । चूते पिके पञ्चम[2a]रागके च स्त्री पाटलायामतिमुक्तके च ॥ ९० ॥ ;vv{षट्‌ताः} ;c{षट्‌ताः ।} अर्धपारावतस्तूक्तश्चित्रकण्ठे च तित्तिरौ । समुद्रनवनीतं स्यात्सुधायां च सुधाकरे ॥ ९१ ॥ ;c{इति तान्ताः ।} ;v{थान्ताः} ;vv{एकथाः} ;c{एकथाः ।} ;l{5740} थः पर्वते स्यान्नरि तस्करे च ;p{0230} ;vv{द्विथाः} ;c{द्विथाः ।} द्वयो रथः स्यन्दनकायपत्सु । स्याद्वैतसे चाथ कुथः कुशे ना त्रिषु प्रवेण्यामपि कम्बले च ॥ ९२ ॥ तिथोऽनले स्यान्मदनेऽथ नीथं ;l{5745} स्तोत्रे गुदे नेतरि वाच्यलिङ्गम् । पाथो रवौ नाम्बु हविर्गतोऽन्त्ये कोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥ प्रोथः कटौ पुंसि तुरंगघोणा- न नाङ्गना गर्भगतस्तु न स्त्री । ;l{5750} पान्थेऽन्यवत्पुंसि तु भक्तजाते सिक्थो मधूच्छिष्टगतस्तु षण्ढे ॥ ९४ ॥ नील्यां स्त्र्यथ स्याद्द्रवनिष्पवायां क्वाथो विपाके व्यसने च दुःखे । पृथुस्तु वैश्वानरराजभेद- ;l{5755} त्वक्पत्रिका मेचकजीरके ना । त्रय्यां महत्येष हुताशने तु तुत्थः पुमानञ्जनगस्तु षण्ढे ॥ ९५ ॥ नील्यां च सूक्ष्मत्रुटिगश्च स स्त्री दुःस्थोऽन्यवद्‌दुर्गत मूर्खवाची । ;l{5760} मन्थस्तु मन्थानकदृ[2b]ग्गदार्थे ग्रन्थस्तु संदर्भधनप्रबन्धे ॥ ९६ ॥ अर्थोऽभिधेयद्रविणप्रकार- प्रयोजने वस्तुनि कारणे च । निवर्तने स्याद्विषयेऽथ सार्थो ;l{5765} वणिग्गणे संहतिमात्रके च ॥ ९७ ॥ ;p{0231} पार्थोऽर्जुने स्यात्ककुभद्रुमे च गाथा स्त्रियां छन्दसि शेषमात्रे । स्यात्संस्कृतान्योक्तिषु चाथ कन्था वस्त्रान्तरे मृन्मयभित्तिकायाम् ॥ ९८ ॥ ;l{5770} आस्थावलम्बस्थितियत्नवाञ्छा- सूक्ता च संस्था स्थितिनाशतौल्ये । व्यक्तौ च यूथं तु गणे तिरश्चां बृंहेऽस्त्रियां स्त्री कुसुमप्रभेदे ॥ ९९ ॥ भवेत्कणायां च कुरण्टके च ;l{5775} तीर्थं मखोपायवधूरजस्सु । क्षेत्रे गुरौ मन्त्रिणि चावतारे मार्गे जले चर्षिगणेन जुष्टे ॥ १०० ॥ ग्रन्थिः पुमान्पर्वणि पर्वरोग- प्रभेदकौटिल्यगतः प्रदिष्टः । ;l{5780} नाथः प्रभौ चर्मपुटे पशूनां प्रस्थोऽस्त्रियां सानुनि मानभेदे ॥ १ ॥ वीथी पदव्यामपि नाट्यभेदे पङ्क्तौ गृहस्यावयवेऽपि योषित् । ;vv{त्रिथाः} ;c{त्रिथाः ।} स्यान्मन्मथः पुष्पशरे कपित्थे ;l{5785} स्यात्कामचिन्तास्वथ[3a]रात्रिमात्रे ॥ २ ॥ तथार्धरात्रेऽपि च ना निशीथो नि थः( ? )सामनि हिंसने च । शान्तावमात्ये शमथोऽथ दण्डे दमेऽपि ना स्याद्दमथोऽथ डिम्भे ॥ ३ ॥ ;l{5790} स्यात्सारमेये रुदथो बुधे तु योगिन्यपि स्याद्विदथो नृलिङ्गः । ;p{0232} स्याल्लोकपाले भरथो धवेऽपि विश्वासहेतौ शपथः शयौ च ॥ ४ ॥ उन्माथ उक्तो नरि कूटयन्त्रे ;l{5795} स्यान्मारणे घातकवाचकश्च । ना पार्षदे स्यात्प्रमथो हरस्य हरीतकीवाचक एष च स्त्री ॥ ५ ॥ अस्त्रीवरूथो रथगोपने स्या- त्तद्वत्तनुत्रे सदने प्रदिष्टः । ;l{5800} गोपीथ उक्तो नरि सोमपाने तीर्थार्थकं चापि वदन्ति षण्ढे ॥ ६ ॥ स्यात्संगतौ ना समिथो रणे च तथा कृशानावतिथिस्तु पुंसि । कुशात्मजे रुष्यपरोपमः स्या- ;l{5805} त्प्राघूर्णिकेऽथो वमथुर्वमौ ना ॥ ७ ॥ गजस्य तद्वत्करसीकरे स्या- द्विच्छा सु(?)शाकेष्वपि दृश्यते च । संबद्धशक्तेऽपि हिते समर्थः । सिद्धार्थ उक्तो मुनिसिंहकेऽपि ॥ ८ ॥ ;l{5810} स्यात्सर्षपेऽच्छेऽ परात्मनि[3b]स्या- त्कायस्थ उक्तो नरजातिभेदे । स्त्री त्वामलक्यां च तथाभयायां वयःस्थ उक्तस्तरुणोऽन्यलिङ्गः ॥ ९ ॥ स्त्रीत्वामलक्यां च गुडूचिकायां ;l{5815} काकोलिकायामपि शाल्मलिद्रौ । ब्राह्म्यांच सूक्ष्मत्रिपुटासु चाथ । ना गर्दभाण्डे नरि पिप्पले च ॥ १० ॥ ;p{0233} अश्वत्थ उक्तोऽपि च पौर्णमास्यां नपुंसके त्वम्भसि संप्रदिष्टः । ;l{5820} उपस्थ उत्सङ्ग वराङ्गपायु- मेढ्रेषु निःस्वे त्वपि नग्नकेन्द्रे ॥ ११ ॥ निर्मन्थ उक्तोऽथ करीरगोष्ठ- दार्वीषु गोग्रन्थिरिति प्रदिष्टिः । अथाव्यथोऽहौ नरि निर्व्यथेऽन्य- ;l{5825} लिङ्गोऽभयायां गदितः स्त्रियां सः ॥ १२ ॥ षड्ग्रन्था तु वचायां शट्यां पुंसि प्रकीर्यभेदे स्यात् । ;vv{चतुस्थाः} ;c{चतुस्थाः ।} चित्ररथो गन्धर्वे तरणौ विद्याधरे तद्वत् ॥ १३ ॥ मार्गचतुष्टयसङ्गे चतुष्पथः स्यात्तथा विप्रे । किंशुक आश्रमभेदे वानप्रस्थो मधूकेऽपि ॥ १४ ॥ ;l{5830} दशमीस्थः स्थविरे स्याद्विनष्टरेतस्यपि प्रोक्तः । समरस्थेऽनीकस्थः सिन्धुरशिक्षाविचक्षणे तद्वत् ॥ १५ ॥ नृपते रक्षिणि चि[4a]ह्ने भवति तथा वीरमर्दले तद्वत् । स्यादितिकथा विनष्टे धर्मे वचने तथार्योने ॥ १६ ॥ अश्रद्धेये वाक्येऽथोदरथिः स्याद्रवौ सिन्धौ । ;c{इति थान्ताः ।} ;v{दान्ताः} ;vv{एकदाः} ;c{एकदाः ।} ;l{5835} दातरि दो दं तु भवेत्पाणिगृहीत्यां तथा दाने ॥ १७ ॥ ;vv{द्विदाः} ;c{द्विदाः ।} गदस्तु विष्णोरनुजे च रोगे स्त्रियां भवेदायुधभेदवाची । नदः समुद्रे निनदे स्त्रियां तु स्यान्निम्नगायामथ गर्वतुष्ट्योः ॥ १८ ॥ ;p{0234} ;l{5840} शुक्रेभदानैणमदेषु मद्ये मनोविकारेऽपि पुमान्मदः स्यात् । स्त्री क्षेत्रिवस्तुन्यथ शब्दवाक्य- व्याजोद्यमत्राणपदार्थपत्सुः ॥ १९ ॥ स्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या- ;l{5845} च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले । स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्ते विलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥ शर्मण्यपि स्यादथ मन्दमीष- ज्जडाविजातेषु खलेऽप्यभाग्ये । ;l{5850} पुमांस्तु दन्तावलजातिभेदे शनैश्चरे ना तु घने च कन्दः ॥ २१ ॥ स्यात्सूरणेऽस्त्री नवसस्यमूले छन्दस्तु नाऽऽकूतहृदोश्च चित्ते । वश्ये नरौ( ? )चाथ तुरीयभा[4b]ग- ;l{5855} प्रत्यन्तशैले चरणे मयूखे ॥ २२ ॥ मूलेऽपि पादोऽयव( ? )सूपकारे सूदस्तथा व्यञ्जनसूपयोश्च । क्षोदो रजःपेषणयोरथ स्या- च्छादोऽपि शष्पे नरि कर्दमे च ॥ २६ ॥ ;l{5860} अब्दः पयोदाचलमुस्तकेऽथा- स्त्री वत्सरे स्त्री तु न माध्यपुष्पे । चक्रभ्रमौ स्याच्च निघौ च कुन्दो विष्टौ च ना स्वेदनघर्मयोस्तु ॥ २४ ॥ स्वेदोऽथ भेदोऽपि विशेषवाची ;l{5865} द्वैधोपजापे च विदारणे च ॥ ;p{0235} स्वादुर्मनोज्ञे मधुरे त्रयेऽथा- [तीक्ष्णे मृदुः स्या]त्त्रि[षु] कोमले च ॥ २५ ॥ बिन्दुः पुमान्विप्रुषि दन्तघाते त्रयेऽधिगन्तर्यथ कन्दुरुक्ता । ;l{5870} भोगालये स्वेदनिकागतोऽपि स्त्रीपुंसलिङ्गेऽप्यथ बन्धनेऽन्दूः भूषाभिदि स्त्री प्रमदे तु नन्दि- र्द्यूताङ्गके स्त्रीशगणे तु पुंसि ॥ २६ ॥ वेदिर्बुधे नाङ्गुलिमुद्रिकाया- ;l{5875} मलंकृते भूमितलेऽपि च स्त्री । वादिर्बुधे ना भणितौ तु योषि- त्सादिस्तु सूते नरि पीडितेऽस्त्री ॥ २७ ॥ छेदिस्तु बज्रे नरि स च्छिदि स्त्री ज्ञाने विदा स्त्रीधिषणार्थकश्च । ;l{5880} धीदा तु कन्या धिषणार्थकापि नन्दा तु संप[5a]न्मणिके तिथौ च ॥ २८ ॥ कुन्दोऽस्त्रियां स्यात्कुसुमप्रभेदे शस्त्रादिकोत्तेजनयन्त्रकेऽपि । निन्दापवादेऽपि च कुत्सने स्यात् ;vv{त्रिदाः} ;c{त्रिदाः ।} ;l{5885} श्रीदे पुमान्स्याद्धनदो वदान्ये । स्यान्मुस्तकेऽब्दे जलदोऽथ पुष्प- रसे च मांस्यां नलदं च सेव्ये ॥ २९ ॥ मत्ते च हर्षे प्रमदः स्त्रियां स्त्री व्यक्ते सिते स्याद्विशदोऽथ वैद्ये । ;l{5890} स्याज्जीवदो द्विष्यथ वालिसूनौ स्यादङ्गदो बाहुविभूषणेऽन्त्ये ॥ ३० ॥ ;p{0236} स्याद्याम्यदिग्दन्तिवधूगतः स्त्री शान्तान्तरे स्याद्वरदः प्रसन्ने । कन्यापगाभेदगतः स्त्रियां स्या- ;l{5895} दामोद उक्तः सुरभौ च हर्षे ॥ स्यान्नर्मदः केलिसखे स्त्रियां तु नद्यां * * * क्षणदा तु रात्रौ ॥ ३१ ॥ तोयेऽन्तिमे स्याद्गणके तु पुंसि कपर्द ईशे च वराटके च । ;l{5900} ना खण्डपर्शोश्च जटानिबन्धे प्रतिष्ठितौ त्वास्पदमत्र कृत्ये ॥ ३२ ॥ स्वरे निषादः श्वपचे प्रसाद- स्त्वनुग्रहे काव्यगुणे प्रसत्तौ । स्वाच्छ्ये नवे च प्रतिभेऽप्यधृष्टे ;l{5905} पीते तु मुद्गे नरि शारदः स्यात् । स्त्री सप्तप[5b]र्णेऽम्बुकणागतश्च स्याद्दारदः पारदहिङ्गुलार्थः । विषेऽप्यथो सर्पिषि तोयदं स्या- न्ना मुस्तके वारिधरेऽपि तद्वत् ॥ ३४ ॥ ;l{5910} प्रासादो नरदेवदेवगृहयोर्वादे तु चाम्नायते निर्वादः परिवादकेऽथ दशकोटिष्वर्बुदं न स्त्रियाम् । कीले मांसभवे नरि क्षितिधरे नद्योः पुनः संगमे संभेदः स्फुटनेऽप्यथ श्रुतिगदे तारे प्रणादो ध्वनौ ॥ ३४ ॥ प्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत- ;l{5915} ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः । वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदे गोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥ ;p{0237} आह्वाने रुदिते च दारुणरणे सख्यौ तथा रक्षके- प्याक्रन्दः ककुदोऽस्त्रियामनडुहामन्त्ये प्रधाने तथा । ;l{5920} राज्याङ्गे ककुदार्थकं त्वपि कुकुदुद्वेद्वेन च वर्जितं ? (Corrupt) विष्णौ पारदरत्नभिद्यपि बुधैरुक्तो मुकुन्दोऽपि च ॥ ३६ ॥ अर्धेन्दुर्गलहस्त इन्दुशकले प्रौढाङ्गनानां भगे प्रोक्तश्चाङ्गुलियो[6a]जनेऽथ गदिता कर्णान्दुरुत्क्षिप्तिका । पाली च श्रवसोऽथ चूत उदितो माकन्द एष स्त्रियां ;l{5925} स्याद्धात्रीफलनामकोऽथ कुमुदो न स्त्रीभवेत्कैरवे ॥ ३७ ॥ रक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौ कुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् । वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनि स्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥ ;l{5930} स्याच्छ्वभ्रेगतिगोचरेऽपि च गवां माने तथा गोष्पदं वर्षर्त्वोः शरदीरिता गिरिभृगुत्रासेषु नीवृद्भिदि । स्त्री म्लेच्छेऽपि दरन्मताथ च दृषत्पाषाणमात्रे स्त्रियां निष्पेषोपलकेऽथ पुंसि न भसद्वक्त्रे तथामाशये ॥ ३९ ॥ स्याद्योनौ जघनेऽथ संपदुदिता भूतौ च हारान्तरे- ;l{5935} ऽप्युत्कर्षेऽपि गुणस्य संविदुदिता ज्ञाने प्रतिज्ञाविधौ । आचारे नियमे च नामनि रणे संभाषणे तोषणे प्रोक्तो दोग्धरि कामदो गवि पुनर्दुग्धप्रदायां[6b]स्त्रियाम् ॥ ४० ॥ स्यात्कारण्ड इह प्लवेऽपि च तरत् सीम्नि स्थितौ वा स्त्रियां । मर्यादाप्यथ रोचना चलदृशोरुक्ता सुनन्दा तथा ॥ ;vv{चतुर्दाः} ;c{चतुर्दाः ।} ;l{5940} क्लीबे विष्णुपदं सरोजवियतोः क्षीराम्बुधौ त्वादिमे स्त्रीसंक्रान्तिकुशस्थलीसुरधुनीसंज्ञासु संकीर्तितम् । ;p{0238} स्याद्देशे च जने पुमाञ्जनपदोऽथो पुंस्त्वव( ? )खेचरे रम्योक्तौ परवत्प्रियंवद इति प्रोक्तोऽववादः पुनः ॥ ४२ ॥ विश्वासे च नियोजने निगदितो विद्वद्भिरुक्तस्तथा ;l{5945} वीणावादनवस्तुनीह * परीवादः कलङ्केऽपि च । मर्यादासहिते तथा त्रिषु समर्यादः समीपे भवे- दातोद्ये पुटभेद एष नगरे चक्रे नदीनामपि ॥ ४३ ॥ सारीणां फलके तथा च कनकेऽप्यष्टापदो न स्त्रियां पुंसि स्याच्छरभे गिरावपि कपौ लूतेन्दुमल्ल्योस्तथा । ;l{5950} लङ्केशात्मजतन्दुलीयवरुणे स्यान्मेघनादो महा- नादस्तु द्विपवर्षुकाम्बुदशयुष्वत्रोदितः पण्डितैः ॥ ४४ ॥ उक्तं कोकनदं * [7a]शोणकुमुदे रक्ते तथाम्भोरुहे- ऽथाभिज्ञेऽपि विशारदो निगदितो धृष्टे तथा वाच्यवत् । ना मन्थाजिविमर्दयोर्निगदितोऽत्यन्तं तु घृष्टे भवे- ;l{5955} न्नाट्योक्तावपि नायकप्रियसखे ना पीठमर्दो मतः ॥ ४५ ॥ मुनिदैत्यद्रुमभेदे मुचुकुन्दो मुस्तके व्रीहौ । कुरुविन्दः कुल्माषे माणिक्ये हिङ्गुले मुकुरे ॥ ४६ ॥ अभिवृद्धावास्रावे दृग्रोगे स्यादभिष्यन्दः । कटुकन्दो नरि शिग्रौ लशुने क्लीबे तु शृङ्गबेरे स्यात् ॥ ४७ ॥ ;l{5960} प्रतिपत्स्त्री धियि च तिथौ तमोनुदत्त्वग्निचन्द्रार्काः । सौदामिन्यां वज्रे शतह्रदा स्यात्स्त्रियामेव ॥ ४८ ॥ ;vv{पञ्चदाः} ;c{पञ्चदाः ।} कारूण्डे मार्तण्डे यज्ञपुरुषके सहस्रपादः स्यात् । उपनिषदुक्ता धर्मे वेदान्ते स्याद्रहोर्थे च । ;c{इति दान्ताः } ;p{0239} ;v{धान्ताः} ;vv{एकधाः} ;c{एकधाः ।} धः स्याद्विरिञ्चौ वदने तु बन्धे ;l{5965} वान्ते मतौ धीर्धुरपीह केतौ । धूरश्वमातर्यपि चित्रके च धूर्ते तु लिङ्गं भजते परस्य । ;vv{द्विधाः} ;c{द्विधाः ।} स्यान्माधवे मासि नरीह राधः स्त्रियां तु विद्युद्भभिदोश्च गोप्याम् । ;l{5970} भूम्यामलक्यां च दुरालभायां स्याच्चित्रयन्त्रोऽपि धनुर्धराणाम् ॥ ५१ ॥ स्थाधे ? तु गाधं क्लिशि चाभिलाषे व्याधस्तु धृष्टे मृगयौ च पुंसि । मेधः क्रतौ स्यान्मतिनाम्नि मेधा ;l{5975} मेधिः स्त्रियां किं च खलस्य काष्ठे ॥ ५२ ॥ बुधः कवौ ज्ञातरि रौहिणेये मिद्धं तथालस्यकनिद्रयोः स्यात् । न्यासे च वित्तस्य परत्र नद्धः संसारिणि स्यादपि बद्धमात्रे ॥ ५३ ॥ ;l{5980} ना देवयोनौ तपसा समृद्धे नित्ये प्रसिद्धे फलिते च सिद्धः । पुंस्यातपेऽथ त्रिषु दीप्त इद्धं समृद्धसंपन्नगतं च ऋद्धम् ॥ ५४ ॥ वृद्धं शिलाजे परवत्तु जीर्णे ;l{5985} रूढे तथा सूरिणि संप्रदिष्टम् । स्याद्वेधिते विद्धमिदं सदृक्त्वे बुद्धस्तु पुंसि प्रथितो जिनार्थः ॥ ५५ ॥ ;p{0240} धीरे च सौम्ये बुधिते पराभो- ऽथार्धं समेंऽशे शकले तु पुंसि । ;l{5990} अन्धं तमस्यप्सु विदृक्षु भेद्ये बन्धस्तु चेतोरुजि बन्धने च ॥ ५६ ॥ आमोदलेलीतकलेशगर्व- संबन्धहिंसास्वपि पुंसि गन्धः । स्कन्धः प्र[8a]काण्डव्रजबाहुमूल- ;l{5995} भूपालकायप्रधनांशकेषु ॥ ५७ ॥ भवेत्समीहास्वपि वृत्तभेदे प्लुष्टे तु दग्धं रवियुग्दिशि स्त्री । दिग्धं विषाक्ते विशिखे प्रलिप्ते क्षीरे तु दुग्धं त्रिषु पूरिते च ॥ ५८ ॥ ;l{6000} प्रत्याशायां बन्धके चित्तरोगे पुंस्याधिः स्यादप्यधिष्ठानके च । रोगे बाष्पे व्याधिरुक्तो विधिस्तु काले दैवे ब्रह्मणि स्याद्विधाने ॥ ५९ ॥ अवस्थान्तरप्राप्तदुग्धे दधि स्या- ;l{6005} च्छ्रियो वासवृक्षे तथावासवाचि । समाध्यन्तरे बोधिरश्वत्थवृक्षे समुद्रे पुनः स्यात्सरस्यां तथाब्धिः ॥ ६० ॥ भेदे स्यान्नरि संधिः सुरङ्गिकायां च भग्नसंश्लेषे । वृद्धिस्त्वृद्धौ प्रमदे कलान्तरे वर्धने च स्त्री ॥ ६१ ॥ ;l{6010} दोग्धा तु गोपालकवत्सगोर्थो- पजीविषूक्तोऽथ विधा गजान्ने । ऋद्धौ प्रकारेऽपि च वेतने स्त्री गोधा निहाकाहकयोः स्त्रियां स्यात् ॥ ६२ ॥ ;p{0241} बाधा निषेधेऽपि च दुःख उक्ता ;l{6015} सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । ;l{6020} मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ कर्पूररात्रिंचरयोरथो ना सिन्धुर्नदेऽब्धौ वमथौ च देशे । नद्यां स्त्रियां स्यात्सरिदम्बुराश्यो- ;l{6025} स्त्वसौ द्वयोरित्यपि नाममाला ॥ ६५ ॥ मधुर्वसन्ते दनुजे च चैत्रे मधूकवृक्षे च पुमानशोके । स्त्रियां न नीरे मदिरासु दुग्धे क्षौद्रे तथा पुष्परसे प्रदिष्टः ॥ ६६ ॥ ;l{6030} साधुर्भवेद्वार्धुषिके मनोज्ञे स्यात्सज्जने पुंसि तु बन्धुजीवे । स्याद्बान्धवे भ्रातरि चापि बन्धु- र्वधूर्नवोढागृहिणीस्नुषासु ॥ ६७ ॥ स्पृक्काशठीसारिविकाङ्गनासु ;l{6035} शृधुः पुमान्स्याद्धियि चापि पायौ । ;vv{त्रिधाः} ;c{त्रिधाः ।} देवे च विज्ञे विबुधोऽथ पर्या- हारे च भारेऽध्वनि वीवधः स्यात् ॥ ६८ ॥ ;p{0242} पुमांस्तथा स्याद्विवधोऽथ देशे शैले कठोरे निषधो नृपे च । ;l{6040} संबाध उक्तो भगसंकटार्थे स्याद्दुर्विधो दुर्गतधूर्तयोश्च ॥ ६९ ॥ स्यात्सं[9a]रोधो रोधने क्षेपणे च रोधे नाशे ज्ञैर्निरोधः प्रदिष्टः । उत्सेधः स्यादुच्छ्रये स्त्री न काये ;l{6045} विश्रब्धश्चानुद्भटे चापि शान्ते ॥ ७० ॥ विश्वस्तेऽथ स्याद्वटे व्यामशम्यो- र्न्यग्रोधो ना मोहनाख्यौषधौ स्त्री ॥ ७१ ॥ अस्थाघे स्यात्‌त्रिष्वगाधो बिलेन विख्याते स्याद्भूषिते च प्रसिद्धः । ;l{6050} संनद्धः स्याद्वर्मयुक्ते विशाले- ऽथानद्धं स्याद्वाद्यभेदे च बद्धे ॥ ७१ ॥ कुटिलपराहतयोराविद्धो[सौ]वाच्यवद्गदितः । केतुग्रहे च जठरे रक्षोभेदे कबन्धो ना ॥ ७२ ॥ क्लीबं सलिले न स्त्री शिरसा हीने शरीरे स्यात् । ;l{6055} आबन्धो दृढबन्धे प्रेमणि च स्यादलंकारे ॥ ७३ ॥ हरिवालुके सुगन्धिर्विशेष्यवत्त्विष्टगन्धे स्यात् । सुबहुकुटुम्ब उपाधिर्धर्मविचारे विशेष ईशे च ॥ ७४ ॥ उपधिर्व्याजे चक्रे परिधिर्नाग्न्यालुपं(?)परितः । क्षेप्या यज्ञतरूणां शाखा या बाहुमात्री स्यात् ॥ ७५ ॥ ;l{6060} उपसूर्यकेऽपि तद्वत्स्यादथ काले बिले सीम्नि । अवधानेऽप्यवधिर्ना ध्या[9b]ने नियमे च नीवाके ॥ ७६ ॥ तद्वत्समर्थने स्यात्समाधिरथ संनिधानेऽपि । संनिधिरिन्द्रियविषये प्रणिधिर्याच्ञा[च]रार्थो ना ॥ ७७ ॥ ;p{0243} ना विटपे शाखायां प्रकृतौ सिद्धौ च संसिद्धिः । ;l{6065} वन्दिनि मागध उक्तः सितजीरे क्षत्रियापुत्रे ॥ ७८ ॥ वैश्यात्स्त्रियां तु यूथीपिप्पल्योस्तद्भवेत्परवत् ॥ ;vv{चतुर्धाः} ;c{चतुर्धाः ।} अवरोधो नृपसदने शुद्धान्ते स्यात्तिरोधाने ॥ ७९ ॥ शुण्ठीविषयोर्लसुने महौषधं वेतसे तु स्यात् । स्यात्कर्णिकारवृक्षेऽपि परिव्याधः समुद्दिष्टः ॥ ८० ॥ ;l{6070} आक्रान्तेऽवष्टब्धोऽवलम्बिते वातिके परवत् । विबुधंमन्ये दृप्ते भवति समुत्थे समुन्नद्धः ॥ ८२ ॥ अनिरुद्ध उषानाथे प्रणिधौ चानर्गले परवत् । कालस्कन्धस्तिन्दुक[त]मालजीवकतरुप्रभेदेषु ॥ ८३ ॥ अनुबन्धो दोषभवे प्रक्रान्तस्यानुवृत्तौ च । ;l{6075} मुख्यानुगे च बालेऽपीत्संज्ञे च प्रकृत्यादौ ॥ ८४ ॥ अनुबन्धी हिक्कायां तृष्णायां चापि निर्दिष्टा । आशा[10a]बन्धो मर्कटवासे तद्वत्समाश्वासे ॥ ८५ ॥ ना ब्रह्मबन्धुरुक्तोऽधिक्षेपे विप्रनिर्देशे । छिक्कौषधौ वचायामजमोदासूग्रगन्धा च ॥ ८६ ॥ ;l{6080} हिङ्गुनि तु तीक्ष्णगन्धं षड्ग्रन्धा राजिकार्थे स्त्री । क्रोष्ट्र्यां काशक्षुरयोर्गोक्षुरके चेक्षुगन्धा स्यात् ॥ ८७ ॥ कृकलासे तृणगोधा भवति विचित्रे तथा कोले । ज्ञानेऽनुभवे प्राप्तावुपलब्धिः स्यात्तथा बुद्धौ ॥ ८० ॥ योजनगन्धा सीताकस्तूर्योर्गन्धकाल्यां च ॥ ;c{इति धान्ताः ॥} ;v{नान्ताः} ;vv{एकनाः} ;c{एकनाः ।} ;l{6085} बन्धे बुद्धेऽभावे नो नरि ना नौस्तरण्यां स्यात् ॥ ८१ ॥ ;p{0244} ;vv{द्विनांः} ;c{द्विनांः ।} इनो नृपे भर्तरि भास्करे स्या- द्धनोऽस्त्रियां गोधनवित्तयोश्च । जिनस्तु बुद्धे नरि जित्वरार्ह- वृद्धेषु तु स्यान्निजभेद्य लिङ्गः ॥ ८२ ॥ ;l{6090} परे महर्लोकत ईरितोऽपि लोकेऽत्र लोकेऽपि जनश्च नीचे । जनी स्नुषायां स्याज्जनने घनस्तु मेघे दृढे विस्तृतिसान्द्रयोश्च । दृढेऽप्ययोमुद्गरके * गात्रे ;l{6095} वाद्ये पुनर्मध्यमनृत्यकेऽन्त्ये ॥ ८४ ॥ वनं तु कान्तारजल * * * [10b]निवासकप्रस्रवणेषु षण्ढे । सुभूरिवृक्षाम्बुनि रौद्रदेश- काष्ठान्तकीटेष्वपि संप्रदिष्टम् ॥ ८५ ॥ ;l{6100} अपक्वमृद्भाजनकेऽथ वानं स्यूतौ कटे शुष्कफले च शुष्के । तरंगवातोदकसंप्लवेषु भवेत्सुरङ्गागतिसौरभेषु ॥ ८६ ॥ संशोधनच्छेदनपालनेषु ;l{6105} त्यागे तथा हस्तिमदे च दानम् । मानो ग्रहे चित्तसमुन्नतौ च न स्त्री प्रमाणे कुडवादिके च ॥ ८७ ॥ स्थानं तु न स्त्री स्थितिसंनिवेशा- वकाशनाशास्त्वथ सूनमाहुः । ;p{0245} ;l{6110} पुष्पे द्वयोनं प्रसवे च तद्व- दुच्छूनवाचि त्वपरोपमं स्यात् ॥ ८८ ॥ सूना तु पुत्र्यां गलशुण्डिकायां वधस्थलेऽथोनमुशन्ति हीने । रणोद्यमेऽथार्कमयूखयोः स्यात् ;l{6115} स्योनोऽथ मीनो झषराशिभेदे ॥ ८९ ॥ शीनस्तु मूर्खेऽजगरेऽन्यवत्तु स्त्यानेऽथ चीनो मृगवस्त्रभेदे । व्रीहिप्रभेदेऽपि च तन्तुभेदे वेनो विरिञ्चावपि राजभेदे ॥ ९० ॥ ;l{6120} न्यूनं च हीनं त्रिषु गर्ह्य ऊने दीनस्तु भीते त्रिषु दुर्गते च । स्त्रियां त्वसौ मूषिक[11a]योषिति स्या- द्बुध्नस्तु शंभौ गदितोऽपि मूले ॥ ९१ ॥ वस्नो निमानेऽपि च वेतनेऽस्त्री ;l{6125} क्लीबे तु वस्नं द्रविणार्थकं स्यात् । अत्नो रवौ ना पथिकेऽन्यवत्स्या- त्स्वप्नस्तु सुप्तावपि दर्शने न ॥ ९२ ॥ सुप्तस्य विज्ञान उदीरितोऽथ श्रेष्ठे मणावप्युदितं च रत्नम् । ;l{6130} द्रव्ये तु रस्नं चषके मचण्डे धेनोऽम्बुधौ वाक्सरितोः स्त्रियां स्यात् ॥ ९२ ॥ नग्नस्तु बन्दिक्षपणार्थको ना- न्यवद्विवस्त्रेऽप्यथ लज्जिते स्यात् । सक्ते च लग्नं परवन्न तु स्त्री ;l{6135} मेषादिराशेरुदये प्रदिष्टम् ॥ ९४ ॥ ;p{0246} छन्नं रहश्छादितयोरथान्नं भक्ते च भुक्ते तु परस्य लिङ्गे । अन्यार्थवाक्ये प्रकटे च भिन्नं विदारिते संगतवाचकं च ॥ ९५ ॥ ;l{6140} ज्ञाने स्थिते विन्नमुशन्ति लब्धे रत्नं तु कुक्षौ सलिले द्वयोनम् । सर्वार्थकं तत्त्रिषु वाच्यवत्तु छिन्नं च भिन्नेऽथ सुधालतायाम् ॥ ९६ ॥ स्त्रियामसत्यामथ सूरते पुं- ;l{6145} स्युन्नः स आर्द्रे परलिङ्ग उक्तः । ग्रासे सिनो ना परवत्तु काणे स्तेनो[11b]स्त्रियां तस्करतत्क्रियार्थः ॥ ९७ ॥ श्येनः पुमान्पत्रिणि पाण्डुरे तु विशेष्यलिङ्गोऽथ दिनं तु नस्त्री । ;l{6150} स्याद्वासरे खण्डितवाचकं तु परोपमानं हि समामनन्ति ॥ ९८ ॥ चिह्नं पताकाङ्कनयोरथ स्यात् द्युम्नं धनेंऽसे च पराक्रमे च । मृत्स्ना मृदग्र्या तुबरी तथोक्ता ;l{6155} रास्ना गुडूचीसुवहाहिनेत्रा ॥ ९८ ॥ ज्योत्स्ना तु चन्द्रिकायां तद्वत्ताराप्रकाशिन्याम् ॥ ९९ ॥ भृष्टयवेषु च धाना धान्याके चाङ्कुरेऽभिनवे । बहुषु स्त्रियां प्रदिष्टा सास्ना निद्रागवग्गर्या (?) ॥ ३०० ॥ धनुः पियाले नरि राशिभेदे- ;l{6160} शरासनेऽसावपि शस्त्रमात्रे । ;p{0247} धनुर्धरे तु त्रितये तनुस्तु त्वक्काययोः स्त्री विरले कृशेऽल्पे ॥ १ ॥ विशेष्यवत्स्याद्धनुरस्ररोगे शस्त्रे च मृत्यौ च नखीषु च स्त्री । ;l{6165} द्वयोः कपोलावयवेऽथ सूनुः पुत्रेऽनुजे भास्वति च प्रदिष्टः ॥ २ ॥ सानुस्तु न स्त्री शिखरे वने च वातावलावध्वनि पल्लवे च । बुधेऽन्यवद्रश्मिदिवाकरौ तु ;l{6170} भानू पुमांसा[12a]वथ भेद्यबद्धौ ॥ ३ ॥ दानू पराक्रान्तवदान्यकौ स्तो मनू द्वयोरादिनृपालमन्त्रौ । हत्नू [उ ?]भावायुधमामयश्च जह्नू तरौ कृष्णनृपर्षिभेदौ ॥ ४ ॥ ;l{6175} मुनिर्द्वयोर्बुद्धयतीङ्गुदीषु पियालकेऽगस्तिमुनौ पलाशे । योनिर्द्वयोराकरकामधाम्नो- र्ज्यानिः स्रवन्त्यां गदिता च हानौ ॥ ५ ॥ वह्निर्हुताशे नरि चित्रके च ;l{6180} भल्लातके वह्निसमोऽपि चाग्निः । पृश्निर्मयूखे मिथुने जनन्यां विष्णोः स्त्रियामल्पतनौ तु भेद्ये ॥ ६ ॥ अगस्ति वृक्षे च ;vv{त्रिनाः} ;c{त्रिनाः ।} त्राणे प्रमोदेऽप्यवनं न तु स्त्री ;l{6185} गेहे द्वयोनं भवनं च भावे । ;p{0248} स्याद्विष्टपे खे भुवनं जने च स्त्रियां न वारिण्यथ चन्दनोऽस्त्री ॥ ७ ॥ पटीर आद्ये तु कपिप्रभेदे गन्धोलिकायां तु नपुंसकं स्यात् । ;l{6190} स्त्रियां नदीभिद्यथ जीवकद्रौ पुंस्त्वेऽसनं क्षेपणवाचि षण्ढे ॥ ८ ॥ स्यात्सवनं स्थितिवाचकमिष्टौ सोमलताभिषवे नरि चन्द्रे । निद्रा शय्या सुरते शयनं ;l{6195} शमनस्तु यमेऽन्त्ये वधशान्त्योः ॥ ९ ॥ दिश्युत्तरस्या[12b]मपि दक्षिणस्यां रवेर्गतौ वर्त्मनि चायनं स्यात् । सांग्रामिके संनहने हयादि- यागेऽपि सन्तो यजनं वदन्ति ॥ १० ॥ ;l{6200} दन्तेऽद्रिशृङ्गे दशनोऽथ वर्म- ण्यन्तेऽथ भानौ तपनोऽथ तापे । भल्लातके स्यान्नरकान्तरेऽन्त्ये ऽथापायदान्त्योः कदनं तथैव ॥ ११ ॥ नितम्बिनीनां कटितः पुरस्ता- ;l{6205} द्भागे च कट्यां जघनं प्रदिष्टम् । हासे स्मिते स्याद्धसनं स्त्रियां स्या- दङ्गारधान्यां श्वसनस्तु वायौ ॥ १२ ॥ पिण्डीतके च श्वसिते तु षण्ढे- ऽथाच्छादने स्याद्वसनं च वस्त्रे । ;l{6210} स्वादे ध्वनौ स्याद्रसनं स्त्रियां तु रास्नाभिधानेऽथ न पुंसि काञ्च्याम् ॥ १३ ॥ ;p{0249} जिह्वागतोऽथो रशनं निनादे काञ्च्यां स्त्रियां स्याद्रशनागतोऽपि । गेहाम्भसोः स्यात्सदनं मुखे तु ;l{6215} संभाषिते स्याद्वदनं तथैव ॥ १४ ॥ वसन्तवृक्षे रतिनायके च धत्तूरवृक्षे मदनस्तुरुष्के । भल्लातके स्याद्दहनो हुताशे दुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥ ;l{6220} दुःखेऽप्यरण्ये कलिले गुहायां वदन्ति सन्तो गहनं तथैव । मेघध्वनौ स्यात् स्त[13a]ननं ध्वनौ च स्यात्कुन्थनेऽथो निधनं स्त्रियां न ॥ १६ ॥ कुले विनाशे प्रधनं तु युद्धे ;l{6225} स्यादारुणेऽथो पवनोऽनिले स्यात् । कुलालपाकस्थलवल्लयोश्च बीजाहितौ स्याद्वपनं च वापे ॥ १७ ॥ वीरे प्रसूने दमनोऽथ वान्तौ तथार्दने स्याद्वमनं यमे तु । ;l{6230} प्रदिष्ट आद्ये यमनोऽथ बन्धो- परामनाम्नोश्चरमे हृतौ च ॥ १० ॥ कामेऽप्यशोके कमनोऽन्यवत्तु कम्रेऽभिरूपे धमनस्तु वह्नौ । आध्मापके क्रूरतरेऽन्यलिङ्गः ;l{6235} स्त्रियां हरिद्राद्रुतिवाचकश्च ॥ १९ ॥ शिराशिरोध्योर्मलनं तु मर्दे तथा नृलिङ्गं पटवासवाचि । ;p{0250} स्यात्कम्पशीले चलनं च कम्पे चार्यां च चण्डातक ईरितं स्त्री ॥ ३० ॥ ;l{6240} नौसेकपात्रेऽप्यवनेऽभिषेके स्यात्सेचनं सेवनमन्यलिङ्गम् । उपासने सीवनके पिधाने संव्यानमाच्छादनवाससोश्च ॥ २१ ॥ नाभिस्थवायौ तु समानमस्त्री ;l{6245} समैकसत्सु प्रथितं त्रिलिङ्गम् । योगे तु ना सुन्दरवाचि भेद्ये स्याच्छो[13b]भनं शासनमस्ति शास्तेः ॥ आदेशलेखाक्षितिपालदत्त- पृथ्वीषु वीरासनकेतुवस्त्रे । ;l{6250} स्याद्वासनं ज्ञानसुधूपनार्थं स्कन्धे त्विभस्यासनमन्तिमे तत् ॥ त्वगिन्द्रिये स्पर्श इहापि दाने स्यात्स्पर्शनं पुंसि तु तत्समीरे ॥ २४ ॥ स्याद्दर्शनं लोचनबुद्धिधर्मे ;l{6255} स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ स्पृक्कार्थकं स्त्री शकुनस्तु पुंसि खगान्तरे पक्षिणि षण्ढके तु । ;l{6260} शुभाशुभाशंसिनिमित्तवाची स्त्रीपुंसयुग्मे मिथुनं च राशौ ॥ २६ ॥ स्यात्पुंसि वायौ तलुनोऽथ यूनि भेद्योऽयमथो तलिनं तथाल्पे । ;p{0251} तुच्छे पराभं विरले च शस्तं ;l{6265} मलीमसे स्यान्मलिनं च कृष्णे ॥ २७ ॥ स्त्री चर्तुमत्यामथ कुण्डिनो ना मुन्यन्तरे पत्तनभेदकेऽन्त्ये । स्यान्माहिनाभं महिनं*राज्ये संपूजनीये परवत्प्रदिष्टम् ॥ २८ ॥ ;l{6270} स्तब्धे कठोरे[14a]कठिनं पराभं स्थाल्यां तु षण्ढे खटिकार्थके तु । कठिन्यपि स्यात्कठिनापि तद्व- द्रूपं प्रयुक्तं गुडशर्करायाम् ॥ २९ ॥ स्यात्पीतनं तालकपीतदारु- ;l{6275} कश्मीरजन्मस्वथ पुंसि दिष्टम् । आम्रातके स्यादथ मैथुनं च- रमे तथा संगतवाचके च ॥ ३० ॥ स्यात्केतनोऽस्त्री कृतिचिह्नके तु निमन्त्रणार्थो वमने तु षण्ढे । ;l{6280} स्याच्छर्दनोऽलम्बुषनिम्बयोर्ना- थ च्छेदनं कर्तनभेदयोः स्यात् ॥ ३१ ॥ पत्रे च पक्षे छदनं प्रदिष्टं स्यात्तोदनं च व्यथने च तोत्रे । स्याद्रोदनं क्रन्दने बाष्पवाचि ;l{6285} गुदे त्वपानं पवनान्तरे ना ॥ ३२ ॥ निपानमाहावकदोहपात्रे न स्त्री द्वयोनं च निपानकृत्याम् । पापे तु षण्ढे वृजिनं कचे ना वक्रे पराभं प्रवदन्ति सन्तः ॥ ३३ ॥ ;p{0252} ;l{6290} सुरद्रुमापत्यकुलेषु तत्यां संतान उक्तोऽथ वितानमस्त्री । उल्लोचके यज्ञविधानतत्यो- र्भेदे तु तुच्छे परवत्प्रदिष्टम् ॥ ३४ ॥ स्याद्वृत्तभेदेऽवसरे च षण्ढे ;l{6295} [14b] ऽथोत्तानमुक्तं शयितोन्मुखे च । गाम्भीर्यहीने परवत्तथैवा- थादान* र्क्कोत्तरदिक्प्रमाणे ॥ ३५ ॥ तुरंगभूषाग्रहणार्थके च हेतौ निदानं गदनिर्णयेऽपि । ;l{6300} स्याद्वत्सदाम्न्यप्यथ पुष्पवाट्यां प्रयोजने भूपतिकेलिभूमौ ॥ ३६ ॥ उद्यानमस्त्री त्रिषु निःसृते स्या- दम्लान उक्तो नरि पुष्पभेदे । स वाच्यवन्म्लानिविवर्जितेऽथ ;l{6305} व्युत्थानमुक्तं च निरुद्धकार्ये ॥ ३७ ॥ इच्छाकृतौ च प्रतिरोधने तथा [तथा] समाधेर्विनिवर्तनेऽपि । उत्थानमुद्योगरणोर्ध्वभावे स्यात्पौरुषे पुस्तकतन्त्रयोश्च ॥ ३८ ॥ ;l{6310} वास्त्वन्तरे चैत्यगृहे मलानां वेगे च कामध्वजहर्षणेऽपि ॥ संस्थानमाकारचतुष्पथार्ति- ज्ञानाद्युपायेषु च संनिवेशे ॥ ३९ ॥ मृत्यावथो धावनमस्ति शुद्धौ ;l{6315} त्वरागतौ योषिति कण्टकायाम् । ;p{0253} स्यात्पावनं पाथसि किं च कृच्छ्रे * पावके व्यासगतं तथैव ॥ ४० ॥ पापापनुत्त्यै नियमेऽथ वह्नौ स्यात्सिह्ल[15a]केऽथ त्रिषु शुद्धिहेतौ । ;l{6320} स्त्रियां तु तत्स्यादभयार्थकं चे- दकोटवैकुण्ठहरिद्गजेषु ॥ ४१ ॥ स्याद्वामनः खर्वगतोऽन्यवत्स्या- त्स्यात्स्थापनं पुंसवने समाधौ । स्यादोपशीले( ? )प्यथ यापनं तु ;l{6325} क्षेपेऽपि कालस्य च वर्त्तनेऽपि ॥ ४२ ॥ तथा निरासेऽप्यथ सारथौ स्या- द्युञ्जान उक्तौ धरणीसुरेऽपि । गुरौ बुधानो विबुधेऽथ लोक- पाले दृशान सूदणौ( ? )च पुंसि ॥ ४३ ॥ ;l{6330} ज्यौतिष्यपि स्याच्चरमेऽथ वेगे वेगाधिकेऽश्वे जवनश्च देशे । स्यादौषधौ स्त्रीपरवत्सवेगे जीवे सुते जीवन आदिलिङ्गः ॥ ४४ ॥ क्लीबे तु वृत्तौ सलिलेऽथ मेदा ;l{6335} स्याज्जीवनाह्वा किल जीवनी तु । जीवन्तिका देवनमन्तिमे स्यात् क्रीडाजिगीषाव्यवहारवाचि ॥ ४५ ॥ अक्षेषु ना मेहनमन्तिमे स्या- च्छिश्ने च मूत्रेप्यथ तेमनं स्यात् । ;l{6340} घृतादिकव्यञ्जनवाचि षण्ढे स्त्रीचुल्लिकायां स्तिमितेऽन्यवत्स्यात् ॥ ४६ ॥ स्यात्सावनो मासविशेषय[15b]ष्टृ- यज्ञक्रियान्तेषु च याजिनि स्यात् । ;p{0254} विज्ञानमुक्तं किल बोधकृत्योः । ;l{6345} प्रज्ञानमुक्तं धियि लाञ्छनेऽपि ॥ ४७ ॥ स्याद्धायनोऽस्त्री किरणे च वर्षे व्रीहौ तु ना फल्गुनफाल्गुनौ तु । तपस्यमासे हरिसारथौ च नद्यर्जुने स्त्री तु स पौर्णमास्याम् ॥ ४८ ॥ ;l{6350} उष्णीषकर्णपाल्योः परिभृत्य वेष्टनं क्लीबे । स्याद्गोस्तनस्तु हारे द्राक्षायां गोस्तनी गदिता ॥ ४९ ॥ स्यात्कल्पनं कर्तनक्लृप्तिवाचि स्त्री सज्जनायामथ कर्तनं तु । छेदे वधूनामपि तूलसेवे- ;l{6355} ऽथो लङ्घनं भूषणवाचकं च ॥ ५० ॥ अलंकरिष्णौ परवद्रणे तु खलीकृतौ वर्मणि भण्डनं स्यात् ॥ ५१ ॥ क्षौरक्रिये द्योरपि तुण्डनं स्यात् खलेरतौ हिण्डनमामनन्ति । ;l{6360} स्यादङ्गनं प्राङ्गणयानवाचि स्त्रियां स्त्रियां स्यादथ गन्धनं तु ॥ ५२ ॥ संसूचनोत्साहवधप्रकाशे- ऽथो नन्दनं वृत्ररिपोर्वने स्यात् । शुभे तनूजे च पुमान्प्रमोद- ;l{6365} कृत्यन्यवच्च स्रवणे तु नीरे ॥ [16a] ५३ ॥ रथेऽस्त्रियां स्यन्दनमादिमे द्रौ स्यात्क्रन्दनं रोदनं संमदार्थम् । स्याद्वर्धनं छेदनवृद्धिवाचि वार्धानिकायां पुनरङ्गना स्यात् ॥ ५४ ॥ ;l{6370} स्याद्व्यञ्जनं तेमनचिह्नवाचि श्मश्रुप्रतीकार्थमुशन्ति तद्वत् । ;p{0255} स्याद्रञ्जनं रागकरे पराभं क्लीबे तु तल्लोहितचन्दने स्यात् ॥ ५५ ॥ स्त्रियां तु नील्यामपि गुन्द्रिकायां ;l{6375} गोरोचनायां * तथारुणायाम् । कुशाल्मलौ पुंसि च रोचनः स्यात् । स्त्री रक्तकल्हारवराङ्गनार्थम् ॥ ५६ ॥ गोपित्तके स्यात्रिषु रोचनेऽथ स्यादञ्जनो दिग्गजभूधरार्थः । ;l{6380} अन्त्ये तु सौवीररसाञ्जनार्थः स्यात्कज्जले मारुतयोषिति स्त्री ॥ ५७ ॥ ज्येष्ठ्यां भवेत्तत्र च लेपनाया- मथो रसोनेऽपि च गृञ्जनोऽस्त्री । वि[षेण]लिप्त स्य पशोश्च मांसे ;l{6385} क्लीबेऽथ वान्तोयुजि लेखनं न ॥ ५८ ॥ न्यासे लिपेर्वाद्यगतं च तद्व- त्स्याद्योजनं क्रोशचतुष्टयेऽपि । योगे परात्मन्यथ गर्जनं स्या- त्कोपे च हस्त्यम्बुदवाद्यशब्दे ॥ ५९ ॥ ;l{6390} [16b] स्याद्वर्जनं हिंसनदानवाचि स्यान्मार्जनं शुद्धिषु लोचने न (?) स्यात्सज्जनं सैन्यकगुल्मवाचि साधौ त्रये योषिति कल्पनायाम् ॥ ६० ॥ स्याद्भाजनं पात्रकयोग्यवाचि ;l{6395} स्यादर्जुनो ना ककुभे च पार्थे । मातुस्तथैकात्मजनौ मयूरे माहिष्मतीशे धवले तु भेद्ये ॥ ६१ ॥ स्त्रियामुषायां करतोयिकायां स्यात्कुट्टिनीनामसु गोविशेषे । ;p{0256} ;l{6400} तृणेऽन्तिमे नेत्रगदान्तरेऽथ स्याल्लाञ्छनं लक्षणनामवाचि ॥ ६२ ॥ स्याद्वन्धनं बन्धवधानजन्तौ ने च पुंसि । भवेद्वचक्नुर्द्विजवाग्मिवाची ;l{6405} फले तु पुष्पे गदितं प्रसूनम् ॥ ६३ ॥ व्यासे कर्णे कन्यकानन्दने च कानीनः स्यात्काननं स्याद्गृहेऽपि । धातुर्वक्त्रे स्याद्वने काञ्चनस्तु चाम्पेये स्याच्चम्पके काञ्चनारे ॥ ६४ ॥ ;l{6410} पुंनागे चोदुम्बरे स्त्री हरिद्रा- वाची किञ्जल्के सुवर्णे च षण्ढे । पाठीनः स्यात्पाठके मीनभेदे तद्वत्कुम्भोलूखलद्रौ प्रदिष्टः ॥ ६५ ॥ व्यसनमंहसि कामजदूषणे- ;l{6415} ऽप्यशुभदे च[17a]फले विफलोद्यमे । विपदि च प्रतिघे स्मितदूषणे चरमलिङ्गमुशन्ति विपश्चितः ॥ ६६ ॥ कण्ठस्थवायौ च मरुद्भुजंग- भेदेऽप्युदानोऽप्यथ चुल्लिकायाम् । ;l{6420} उद्धानमप्युद्गमवाचि भेद्ये लग्ने विलग्नश्च नितानमध्ये ॥ ६७ ॥ प्रज्ञामहामात्रपरात्मसु स्या- त्प्रधानमैक्ये तु सदोत्तमे तत् । स्याद्राधनं तोषणसाधनाभिः ;l{6425} समार्थकं संघटनाभिषुत्योः ॥ ६८ ॥ ;p{0257} संधानमाहुर्गमने वधे च निवृत्तिनाशे मृतसंस्कृतौ च । सैन्येऽप्युपायेऽपगमे च मेढ्रे संभारसिद्ध्योर्द्रविणोपपत्तौ ॥ ६९ ॥ ;l{6430} स्यात्साधनं कारणवित्तयोश्च लोकापवादे तु रणे पशूनाम् । शुनामहीनां च पतत्रिणां च कौलीनमाम्नातमथो अकार्ये ॥ ७० ॥ स्याद्गुह्यगुह्याम्बरयोस्तथैव ;l{6435} कौपीनमन्त्ये प्रवदन्ति सन्तः । विक्लिन्न उक्तौ जरसातिजीर्णे शीर्णे तथार्द्रे परलिङ्गगामि ॥ ७१ ॥ आपन्न आप्ते विपदन्विते च विपन्न उक्तश्च मृतेऽप्यहौ ना । ;l{6440} वक्रे समा[17b]लब्धविभक्तयोश्च विच्छिन्नमार्याः परवद्वदन्ति ॥ ७२ ॥ संजातसंपद्युतयोः पराभं संपन्नमप्यत्र बुधा वदन्ति । तमोघ्न इन्द्वर्कहुताशशंभु- ;l{6445} श्रीशे विषघ्नस्तु शिरीषवाची ॥ ७६ ॥ स्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ ;l{6450} शाखी तरौ वेदतुरुष्कलोके खड्गी तु खड्गान्वितशृङ्गिणि स्यात् । ;p{0258} नागद्रुमादावपि गण्डके स्यात् स्युः सादिनोऽश्वेभरथाधिरोहाः ॥ ७५ ॥ पत्री खगे श्येनशरद्रुमेषु ;l{6455} स्यात्सायके स्यन्दनसंस्थिते वा । वज्री शरेऽश्वे षडभिज्ञ इन्द्रे विहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥ चक्री हरौ स्याच्छकटे कुलाले ग्रामोद्भवे * ककुभद्रुमे तु । ;l{6460} धनुर्धरे पार्थविदग्धयोश्च धन्वी कृती पण्डितयोग्ययोः स्यात् ॥ ७७ ॥ यादःपतौ पाशधरे च पाशी नन्दी तु शंभोः प्रतिहारभेदे । ना गर्दभाण्डे [च] वटद्रुमे च ;l{6465} ननान्दरि स्त्री च वसिष्ठधेन्वा[18a]म् ॥ ७८ ॥ सुरापगायामथ रोहितद्रौ बोधिद्रुमे स्याच्च वटेऽपि रोही । हली प्रलम्बद्विषि कर्षके च भृङ्गे पुनर्वृश्चिक ईरितोऽली ॥ ७८ ॥ ;l{6470} स्याद्ब्रह्मचारिण्यपि चित्रकारे वर्णी तथा लेखकवाचकश्च । शिल्पी तु कारौ नरि कासु( ? )तु स्त्री कामी तु पारावतकोकयोर्ना ॥ ८० ॥ कम्रेऽन्यवद्भृङ्गिरिटौ तु सूर्ये ;l{6475} चर्मी तथा चर्मलसत्करेऽपि । वाग्ग्मी तु वाचस्पतिवक्तृवाची स्वामी भवेदीश्वरषण्मुखार्थः ॥ ८१ ॥ ;p{0259} अर्थी विवादिन्यपि सेवके च स्याद्याचकेऽसौ कथितश्च पुंसि । ;l{6480} रागी तु रक्ते परवच्च कम्रे ध्वजी तु शैले रथविप्रयोश्च ॥ ८२ ॥ अहौ तुरंगेऽप्यथ राज्ञि भोगी स्यान्नापिते ग्रामपुरस्कृतेऽहौ । स्त्रियां तु हित्वा महिषीं नृपस्य ;l{6485} दारेषु राजा तु नृपे सुधांशौ ॥ ८३ ॥ शक्रे च यक्षे भुजगे च वर्णे द्युवा रवौ चाभिगमे च पुंसि । स्युर्वाजिनो बाणविहंगमाश्वाः प्रेत्वा तु वायावपि वासवे च ॥ ८४ ॥ ;l{6490} क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ;l{6495} ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ स्कन्धे च कालेऽथ गिरौ घने च ग्रावोपले धन्व तु चापवाचि । स्थले तथा जाङ्गलदेशवा[ची] ब्रह्मा तु ना धातरि भूसुरे च ॥ ८६ ॥ ;l{6500} योगान्तरेऽप्यृत्विजि भास्वतीन्दौ स्त्रियां तु नाध्यात्मतपस्सु तत्त्वे । ज्ञाने परात्मन्यपि तद्वदाहुः शर्मान्तिमे नाम्नि सुखे द्विजे नो ॥ ८७ ॥ ;p{0260} अर्वा हयेऽथ त्रिषु कुत्सिते स्या- ;l{6505} द्वृषा महेन्द्रेऽपि च कर्ण उक्तः । यक्ष्मा क्षये स्यादपि रोगमात्रे युवा वयःस्थे बलिनि स्वभावे ॥ ८८ ॥ पर्वोत्सवेऽन्त्ये तिथिपञ्चके च ग्रन्थौ च दर्शप्रतिपत्सुसंधौ । ;l{6510} प्रस्तावके लक्षणभिद्यपि स्यात् तद्वत्प्रदिष्टं विषुवादिकेषु ॥ ८९ ॥ भर्मा रवौ हेम्नि भृतौ च षण्ढे चर्म त्वचि स्यात्फलके च तद्वत् । व्याप्ये क्रियायामपि कर्म न स्त्री ;l{6515} वर्त्माध्वनेत्रच्छदवाचकं च ॥ ९० ॥ [19a]पक्ष्मास्त्रियां लोचनलोम्नि सूक्ष्म- तत्त्वादि[अं?]शे पि च केसरे च । चिह्ने प्रधानेऽपि च लक्ष्म धाम स्थाने गृहे जन्मनि च प्रभावे ॥ ९१ ॥ ;l{6520} रश्मौ शरीरेऽप्यथ साम वेदा- न्तरेऽप्युपायान्तरके च षण्ढे । वर्ष्म प्रमाणे वपुषि प्रदिष्टं स्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥ स्यात्सद्म गेहेऽम्भसि कैतवे तु ;l{6525} छद्म प्रदिष्टं कुसृतौ तथैव । प्रेमास्त्रियां नर्मविधौ च हार्दे व्योमान्तिमे वारिविहायसोश्च ॥ ९३ ॥ सोमा तु चन्द्रे चरमे तु यक्ष- वित्तेऽशनिस्तु द्वितये पवौ स्यात् । ;l{6530} वर्षोपले विद्युति चाथ युग्मे- ऽरत्निः कफोणौ करमानभेदे ॥ ९४ ॥ ;p{0261} सेनानीस्तु गुहेऽन्यवद्बलपतौ स्याद्ध्रादिनी तु स्त्रियां वज्रे विद्युति कामिनी तु गदिता वन्दा शतावर्यपि । सेनासैन्यभिदापगासु गदिता ज्ञैर्वाहिनी वर्तनि- ;l{6535} स्त्वध्वा*सु च तर्कुपिण्डमलिनाद्ध्वा( ? )सूदिता कोविदैः ॥ ९५ ॥ मागध्यांबुधि(?)बोधनी तु रजनी तद्वद्धरिद्रार्थका- याम्भोजे नलिनी भवेत्क[19b]मलिनी स्वःसिन्धुकासारयोः ॥ ९६ ॥ न स्त्री वारिजपद्मयोश्च नलिनं मालाकृतस्तु स्त्रियां छन्दोभिद्यपि मालिनी सुरसरिद्गौर्योश्च चम्पापुरि । ;l{6540} पुंनागे तु सिते वधूभिदि तथा स्याच्चोरपुष्प्यामपि स्याच्छङ्खिन्यथ पद्मिनी च वनिताभेदे सरःपद्मयोः । हस्तिन्यां करिणी स्त्रियामथ भवे द्विप्रस्त्रियां भट्टिनी नाट्योक्तौ नृपतेः स्त्रियामपि वृषाक्रान्ता तु गौः संधिनी । याकालेऽपि लसत्पयास्त्रिवृति तु स्याद्रेचनी शेवनी ;l{6545} दन्त्योश्चाथ*सूरणे नरि मुसल्यां तु स्मृता योषिति ॥ ९८ ॥ अर्शोघ्नोऽथ करञ्जशस्त्रकभिदोः स्याद्वृश्चिकाल्यां शत- घ्नी चावृद्धबधूपुरप्रसृमरप्रेष्या त्वसिक्नी ध्वनो(?) । दृष्टौ च व्यस(ध)ने वधेऽप्यभिनये संसूचने सूचना ध्याने लेपन(?)वेदना मतिगता दुःखे तथा भावना ॥ ९९ ॥ ;l{6550} ईर्ष्यायां कुहना च दम्भचरणेऽथो पूतना राक्षसी- भेदे किं च हरीतकीभिदि विदि त्वाहुः स्त्रियां चेतनाम् । वाच्ये[20a]प्राणिनि सा मताथ पृतना स्यात्सैन्यमात्रे चमू- भेदे चाथ वराङ्गनासु ललना जिह्वाशिराभेदयोः । स्त्रियां प्रसन्ना मदिरासु वाच्ये ;l{6555} प्रसादयुक्तेऽथ फणिज्जमल्ल्योः । कम्पिल्लके च प्रमदासलिङ्गं श्लेष्मघ्नमुक्तं कफहृत्सुभेद्ये ॥ १ ॥ ;p{0262} ;vv{चतुर्नाः} ;c{चतुर्नाः ।} महाधनं सिह्लकवाचि षण्ढे विशेष्यगं तद्बहुमूल्यगं स्यात् । ;l{6560} तथा सुवस्त्रेऽथ तपोधनस्तु स्यात्तापसे योषिति तुण्डिकेर्याम् ॥ २ ॥ आराधनं स्याद्धनतुष्टिलाभे- ऽप्यथोपधानं प्रणये विशेषे । स्याद्गण्डुकेऽथ प्र[णि]धानमुक्तं ;l{6565} समाहितौ च प्रसवे प्रयत्ने ॥ ३ ॥ अन्तर्हितौ चाथ वधे मृधे स्या- दायोधनं मध्यवहावलग्नम् । लग्नेऽन्यवच्चाभिजनस्तु वंशे कुलध्वजे ख्यातिजनुर्भुवोश्च ॥ ४ ॥ ;l{6570} स्यात्सज्जने पुण्यजनश्च यक्षे निशाचरे चाथ विसर्जनं स्यात् । दाने परित्यागविधौ तथैव । संप्रेषणे चाथ पृथग्जनः स्यात् ॥ ५ ॥ नीचे च मूर्खेऽथ कृ[20b]तौ च हेतौ ;l{6575} प्रयोजनं स्याद्बलिदानवे तु । वैरोचनः स्यात्सुगतेऽर्कपुत्रे विरोचनस्त्वग्निरवीन्दुषु स्यात् ॥ ६ ॥ प्रह्लादपुत्रेऽप्यथ वैरशुद्धौ निर्यातनं न्याससमर्पणे च । ;l{6580} शिरीष आम्रातकगर्दभाण्ड- बोधिद्रुमार्थश्च कपीतनः स्यात् ॥ ७ ॥ निधुवनं सुरतेऽपि च कम्पने प्रजननं प्रगमे भगजन्मनोः । ;p{0263} प्रवचनं निगमेऽप्यतिभाषिते ;l{6585} प्रभव उत्पतनं च तथोद्गतौ ॥ ८ ॥ साङ्गे वेदे निपुणेऽनूचानः स्याद्विनीतेऽपि । उक्तमवाचीनमवागर्थे तद्वद्विपर्यस्ते ॥ ९ ॥ आतञ्चनं तु जवनाप्यायनयोश्च प्रतीवापे । अभिपन्नस्त्वभिराद्धेऽप्यभिद्रुतेचापदा ग्रस्ते ॥ १० ॥ ;l{6590} स्वीकृतविज्ञातार्थे प्रतिपन्नोऽथो समाप्ते तु । प्राप्ते क्षिप्ते च वधे त्वन्त्ये क्षिप्ते समापन्नम् ॥ ११ ॥ आकलनं तु निबन्धे परिसंख्याकाङ्क्षयोर्ज्ञाने । संमूर्च्छनं तु मोहे संमूर्छायामभिव्याप्तौ ॥ १२ ॥ गदनिर्णय उद्योगेऽपि समुत्थानं च संपिधा[21a]ने तु । ;l{6595} अन्तर्धावपि वस्त्रे विबुधैराच्छादनं गदितम् ॥ १३ ॥ राजादनः पियाले स्त्री न पलाशेऽथ षण्ढे स्यात् । क्रौञ्चादनं मृणालेऽथ समुल्लेखे तथोद्धृतौ * * ॥ १४ ॥ उत्सादनमुद्वहनेऽथ स्याद्वृक्षादनोऽश्वत्थे । स्वधितौ च मधुच्छत्रे स्त्री तु विदार्यां च वन्दायाम् ॥ १५ ॥ ;l{6600} ऐरावते गणपतौ गन्धगजे स्यात्सदादानः । अवदानं पुनरुक्तं कर्मणि वृत्ते द्विधाकृत्याम् ॥ १६ ॥ कुचन्दनं लोहितचन्दने स्यात् पत्राङ्गवृक्षान्तर वाचकं [च] । आस्कन्दनं धिक्करणे [रणे] च ;l{6605} संशोषणे संवदनं विलोके ॥ १७ ॥ वशक्रियायां च विहेठनं तु विडम्बहिंसापरिमर्दनेषु । ;p{0264} जलाटनः कङ्कपतत्रिणि स्यात् स्त्रियां जलौकास्वथ कोपनेऽस्त्री ॥ १८ ॥ ;l{6610} प्रस्फोटनं ताडनशूर्पयोः स्या- दुद्वर्तनं तूत्पवनेऽपवृत्तौ । विलेपने नित्यविधौ तु साधु- ग्रहे समादानमुशन्ति सन्तः ॥ १९ ॥ व्रते भवेत्संयमनं यमस्य ;l{6615} पुरि स्त्रियां स्यादथ दर्शनेऽपि । निशामनं स्याच्छ्रवणे च नेत्रे दन्तान्तरा[21b]ले प्रतिमानमैभे ॥ २० ॥ तथा वदन्ति प्रतिबिम्बवाचि ज्ञानेऽभिमानः प्रणये च गर्वे । ;l{6620} वधेऽप्यधिष्ठानमिति प्रभावे- ऽप्यध्यासने पत्तनचक्रयोश्च ॥ २१ ॥ प्रश्नप्रभेदे च शरावके चा- स्त्री वर्धमानो नरि विष्णुवृद्ध्योः । स्यान्मालुधानो नरि चित्रसर्पे ;l{6625} स्यान्मालुधानी च लताभिदि स्यात् ॥ २२ ॥ उपग्रहे संस्करणे तथैव लिप्साह्वये च प्रतियत्न उक्तः । घटोद्भवे तूदयनस्तथार्के श्रीवत्सराजे च बुधैः प्रदिष्टः ॥ २३ ॥ ;l{6630} विहननमुक्तं विहतौ वैरिबले तूलधूनने तद्वत् । संवाहनं तु वाहनपादविमर्दन उदीरितं प्राज्ञैः ॥ २४ ॥ उद्वाहनं तु पाणिग्रहणे क्षेत्रे द्विसीत्ये च । रज्ज्वां स्त्रियामथ महासेनः सैन्याधिपे स्कन्दे ॥ २५ ॥ ;p{0265} रसायनं व्याधिजिदौषधे स्या- ;l{6635} द्विषे विडङ्गे नरि पक्षिराजे । सुदर्शनः पुंसि मुरारिचक्रे क्लीबे तु शक्रस्य पुरे प्रदिष्टः ॥ २६ ॥ आज्ञौषधीभेदगतस्तु स स्त्री मेरोस्तु जम्ब्वां नरि[22a]स स्त्रियां च । ;l{6640} स्यात्स्नेहवस्तावनुशोचने चा- प्युपासनेऽन्वासनमामनन्ति ॥ २७ ॥ निर्भर्त्सनं धिक्करणेऽप्यलक्ते- ऽप्यथो परिच्छेदसमाप्तिवाचि । समापनं किं च समाहितौ स्या- ;l{6645} त्प्रमा[प]णेऽथाभ्यसने शराणाम् ॥ २८ ॥ उपासनं सेवनहिंसयोश्च निर्वासनं त्वत्र विहिंसने स्यात् । बहिष्कृतौ स्याच्च पुरादितोऽथ योगेऽद्य शिल्पिन्युदितः सुकर्मा ॥ २९ ॥ ;l{6650} कात्यायनो वररुचौ गिरिकन्यकायां काषायवस्त्रविधवार्धजरत्स्त्रियां स्त्री । निष्ठीवने निरसनं च वधे निरासे काञ्च्यां तु सारसनमस्त्रभृतामुरस्त्रे ॥ ३० ॥ आवेशनं शिल्पिगृहे च भूता- ;l{6655} वेशप्रवेशार्थकमामनन्ति । वारासनं वारिगृहे प्रलापे द्वाःस्थे विस्मापन ऋष्यकेतौ ॥ ३१ ॥ गन्धर्वपुर्यां कुहकेऽन्तिमे स्या- दथ द्विजन्मा दशने च विप्रे । ;p{0266} ;l{6660} सनातनः कंसरिपौ पुरारौ तथा पितॄणामतिथौ च पुंसि ॥ ३२ ॥ स वाच्यवच्छाश्वत निश्चितेषु पुंस्यर्यमार्के पितृदैवते च । [22b] स्त्री सूर्यभक्तौषधभेदके स्या- ;l{6665} दथो सुदामा जलदे च शैले ॥ ३३ ॥ उत्क्षेपणे प्रहसनं प्रहसे च भङ्गे मत्ते गजे सुरपतावपि घातुके च । स्याद्वर्षुकाम्बुदपरस्परघट्टने च पुंस्त्वे घनाघन इति प्रथितः प्रवीणैः ॥ ३४ ॥ ;l{6670} विष्णौ सुयामुन इति प्रथितः प्रसादे श्रीवत्सराजनृपतौ भिदि पर्वतस्य । स्याद्विश्वकर्मणि धनुर्धरके सुधन्वा शार्दूलपुष्कलशिवासु भवेद्वनश्वा ॥ ३५ ॥ भूतात्मा वपुषि विधौ च संप्रदिष्टो ;l{6675} विश्वप्सा हुतभुजि शीतभासि चोक्तः । शृङ्गारी क्रमुकमतङ्गजे सुवेषे विप्रेन्द्रे धरणिसुरे तु पुंस्यथर्वा ॥ ३६ ॥ भवेत्परिज्वा क्रतुकर्मविज्ञे [तथा] परीचारकयाज्ञिके च । ;l{6680} देवे सुपर्वा विशिखे च वंशे धूमे च पर्वण्यथ केसरी स्यात् ॥ ३७ ॥ सिंहे हये स्यादिभकेसरे च पुंनागके च प्रथितः प्रवीणैः । क्लीबे ललाम ध्वजवाजिशृङ्गे ;l{6685} प्रधानभूषास्वपि वालधौ च ॥ ३८ ॥ ;p{0267} पुण्ड्रे प्रभावेऽप्यथ पुंसि षण्ढे ललाममेतत्सममा[23a]मनन्ति । प्रकोष्ठकप्लक्षमयूरवाची भवेत्कलापी शिखरी तु शैले ॥ ३९ ॥ ;l{6690} वृक्षेऽप्यपामार्गतरौ च दुर्गे क्लीबे तु तद्धीरकरत्नवाचि । व्याले विलासी भुजगे सभोगे निशाचरे किं च तरौ पलाशी ॥ ४० ॥ बाणे शिखण्डी च तथा मयूरे ;l{6695} गाङ्गेयशत्रौ गदितः कलापे । स्त्री यूथिकायामपि रक्तिकायां तथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥ स्यादिन्द्रियेऽन्त्ये विषयि त्रये त- द्युते व्यवायी नरि कामुके स्यात् । ;l{6700} गुणान्तरे चाथ भवेत्तपस्वी तथानुकम्पे तपसा युते च ॥ ४२ ॥ स्त्रियां तु मांसी कटुरोहिणीषु शूरे तरस्वी त्रिषु वेगभाजि । प्रलम्बशत्रावपि नालिकेरे ;l{6705} स्याल्लाङ्गली केकिभुजंगयोस्तु ॥ ४३ ॥ स्यात्कुण्डली वारिपतौ पराभः सकुण्डले वेणुकरीरयोस्तु । नारङ्गके पुंसि च चोलकी स्या- त्स्याच्चर्मपाणौ फलकी च मत्स्ये ॥ ४४ ॥ ;l{6710} स्यात्कञ्चुकी वर्मिभुजंगषिङ्गे ऽपाङ्गद्रुमे स्यादपि सौविदल्ले । ;p{0268} स्यात्सामयोनिर्द्विरदे विधौ च [23b] सामोद्भवे तु त्रिषु संप्रदिष्टः ॥ ४५ ॥ स्यात्कुम्भयोनिर्मुनिवृक्षभेदे ;l{6715} कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ पारावते कामुककामयोस्तु जल्पाकमद्ये मदयित्नुरुक्तः । ;l{6720} स्याद्धर्षयित्नुस्तनये सुवर्णे- ऽथो घोषयित्नुः पिकविप्रयोश्च ॥ ४७ ॥ पयोधरे तु स्तनयित्नुरुक्तो मेघ[ध्व]नौ मृत्युगदाह्वयोश्च । स्यात्पोषयित्नुः पितरि प्रभौ च ;l{6725} दुर्वादिविप्रे गदयित्नुरुक्तः ॥ ४८ ॥ विष्वक्सेनो विष्णौ स्त्री तु फलिन्यां बुधैरुक्तः । इन्द्रसुता सुरसेना पर्याया देवसेना स्यात् ॥ ४९ ॥ नागा[ञ्ज]ना तु करिमुद्गरिकेभयष्ट्योः सौदामिनी तु तडिदप्सरसोर्विभेदे । ;l{6730} ऋग्भेदके समिधि योषिति सामिधेनी कासारपद्मनलिनीषु सरोजिनी च ॥ ५० ॥ श्लेष्मघना केतक्यां तृणशूल्येऽथ प्रसाधनी सिद्धौ । कङ्कतिकायां वेषे पुनरूनं द्वंद्वतः[24a]प्रोक्तम् ॥ ५१ ॥ मातुलपत्नीभङ्गाकलापके मातुलानी स्यात् । ;l{6735} उत्तमवेषवधूट्यां भवति विलेप्यां विलेपनी च स्त्री ॥ ५२ ॥ रात्रौ दोग्ध्र्यां सुरभौ पयस्विनी स्यात्तथा सरिति । पशुतृणभक्ष्यस्थाने गवादनी चेन्द्रवारुण्याम् ॥ ५३ ॥ ;p{0269} ;vv{पञ्चनाः} ;c{पञ्चनाः ।} स्यात्पीतचन्दनं तु स्त्रियां न कालीय-पीतन्योः । वनचन्दनमप्यस्त्री कालीये देवदारुणि च ॥ ५४ ॥ ;l{6740} हरिचन्दनमप्यस्त्री गोशीर्षे देववृक्षे च । ज्योत्स्नायां काश्मीरेऽतिसर्जनं स्याद्वधे दाने ॥ ५५ ॥ भ्रमरे मधुसूदनश्च विष्णौ पुरवैरिण्यपि मृत्युबन्धनः । नरि पुद्गलबिल्वयोरथ प्रतिपादनं वितरणे च बोधने । प्रतिपत्तिवाच्यथ कुसुम्भवाचकं गदितं महारजनमत्र काञ्चने ॥ ५७ ॥ ;l{6745} गिरिभेदवानरभिदोश्च गन्धके भ्रमरे स्त्रियां न खलु गन्धमादनम् । मदिरासु योषिति तथानुवासनं गदितं सुधूपनघृतादिवस्तिषु ॥ ५८ ॥ श्वेतवाहनः शशधरे धनंजये ;l{6750} हरिवाहनः [24b] सुरपतौ विवस्वति । दहने च केतुषु च धूमकेतनः शिवकीर्तनो हरिगणे मुरद्विषि ॥ ५९ ॥ वर्णे विसर्जनीयेऽप्यभिनिष्टानः स्मृतो विज्ञैः । स्नाने स्पर्शे चोपस्पर्शनमुक्तं तथाचमने ॥ ६० ॥ ;l{6755} अर्केऽपि विश्वकर्मा मुनिभेदे देवकारौ च । नन्दिनि तु मुनिविशेषे सालंकायन इति प्रोक्तः ॥ ६१ ॥ स्यात्पद्मलाञ्छनोऽर्क्के विधौ च लङ्कापतौ धनदे । तारालक्ष्म्योस्तु स्त्री तद्वत्प्रोक्तः सरस्वत्याम् ॥ ६२ ॥ अथ षष्टिहायनः स्याद्धान्यविशेषे च दन्तिनि च । ;l{6760} उपसंपन्नं निहिते परवच्च सुसंस्कृते भवति ॥ ६२ ॥ राहौ च कृष्णवर्त्मा हुताशने स्याद्दुराचारे । ब्रह्मणि तथाग्रजन्मा ज्येष्ठे भ्रातरि महीदेवे ॥ ६४ ॥ ;p{0270} घनसारे चाब्धिकफे चन्द्रे च श्वेतधामा स्यात् । हिलमोच्यां च गुडूच्यां पथ्याह्वे तिक्तपर्वा च ॥ ६५ ॥ ;l{6765} इक्षौ तु किष्कुपर्वा पोटगले स्यात्तथा वेणौ । वृषपर्वा शर्वासुरशृङ्गारिकसेरुषु प्रोक्तम् ॥ ६६ ॥ स्याद्व्योमचा[25a]री सुरपक्षिवाची स्यात्कामचारी चटके च कम्रे । स्वच्छन्दचारिण्यथ पृष्ठशृङ्गी ;l{6770} भीमे च षण्ढे चलिते च दंशे । कारंधमी तु धातूक्तितत्परे कांस्यकारे च । अन्तेवासी शिष्ये चाण्डाले प्रान्तगे परवत् ॥ ६८ ॥ प्रचलाकी तु भुजंगे कथितो ज्ञैश्चित्रमेखले तद्वत् । कम्रे तु संप्रयोगी मदने स्यात्संप्रयोजके तद्वत् ॥ ६९ ॥ ;l{6775} वनमाली गोविन्दे वाराही तु स्त्रियां प्रोक्ता । काकाजयोरपि चिरंजीवी स्याद्विघ्नकारी तु ॥ ७० ॥ घोराकृतौ विघातिनि मांस्यां त्वङ्कत्थपिप्पल्याम् ( ? ) । कटुकी गण्डूपदयोर्विबुधैः शकुलादनी प्रोक्ता ॥ ७१ ॥ स्त्रीरत्ने वरवर्णिनी वरलिपौ लाक्षाहरिद्राह्वयो- ;l{6780} रुक्ता रोचनिकार्थिका ;vv{षड्नाः} ;c{षड्नाः ।} मुनिभिदि त्वन्तावसायी मतः । चाण्डाल-क्षुरिणौ नटे त्वपि बके जायानुजीवी तथा निर्द्रव्येऽथ कलानुनादिनमिह प्राहुः कुलिङ्गाह्वये ॥ ७२ ॥ अलौ कपिञ्जले तथा सहस्र[25b]वेधि हिङ्गुनि । ;l{6785} तदम्लवेतसार्थकं नरि प्रचक्षते बुधाः ॥ ७३ ॥ ;c{इति तान्तादिवर्गः ।} ;p{0271} ;v{पान्ताः} ;vv{एकपाः} ;c{एकपाः ।} पो वायावथ पातरि त्रिषु भवेत्पाने द्वयोनो भवे- ;vv{द्विपाः} ;c{द्विपाः ।} द्रूपं नाणकनाटकादिकसिताद्येषु स्वभावेऽपि च । ग्रन्थावर्तन-पद्ययोः पशुरवे मूर्तौ स्वभावे मृगे सौदर्येऽप्यथ रौद्रनिन्दितगते रेपो भवेद्वाच्यगम् ॥ १ ॥ ;l{6790} रोपो रोपणबाणयोरथ भवेत्सूपः पुमान्व्यञ्जने तत्कारे स्पृशि तु क्षुपे छुप इति स्याद्वायुवेण्योश्च यः । कूपोऽन्धौ गुणवृक्षके च विवरे मृन्मानके कूपके तापः स्यात्पचते तथातितपने नद्यन्तरे च स्त्रियाम् ॥ २ ॥ आक्रोशे शपथे च शाप उदितः स्वापस्तु निद्राज्ञता- ;l{6795} स्पर्शाज्ञत्व उदीरितस्त्रपु पुनः स्यात्सीसके रङ्गके । नीपो धूलिकदम्बरायधरयो(?)नीलेऽप्यशोके तथा गोष्ठग्रामगणाधिकारिणि नृपे गोपो भवेद्बल्लवे । गोपी तु गोपाल[26a]नितम्बिनी स्या- त्स्यात्सारिकायामपि रक्षिकायाम् । ;l{6800} क्षेपो विलम्बेऽपि च निन्दने ना हेलामदप्रेरणलङ्घनार्थाः ॥ ४ ॥ लेपः सुधालेपन-भोजनेषु तल्पस्तु न स्त्री शयनीयवाची । प्राकारदारेषु नपुंसकेऽथ । ;l{6805} स्तूपोऽपि चैत्ये भुव उच्छ्रये च ॥ ५ ॥ कल्पस्तु शास्त्रे प्रलये च युक्ते विधेर्दिने पुष्पवतोः पपीः स्यात् । कस्तूरिकायां तु तथाभिमाने दर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥ ;p{0272} ;l{6810} बाष्पोऽस्त्रियामूष्मणि नेत्रतोये चुपो लये मन्दगतौ पराभः । स्त्रियां न बाले यवसेऽस्ति शष्पं पुंसि त्विदं स्यात्प्रतिभावहानौ ॥ ७ ॥ स्रुवेऽपि शिल्पं कृतिकौशले च ;l{6815} व्यासे कृपो द्रोणजमातुले च । स्त्रियां दयायां कुलटाह्रियोस्तु त्रपा वपा मेदसि गर्त्तके च ॥ ८ ॥ ;vv{त्रिपाः} ;c{त्रिपाः ।} अर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । ;l{6820} स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- ;l{6825} च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । ;l{6830} स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ ;p{0273} ;l{6835} स्याद्भाण्डपाके क्षिपि चाथ भर्त्से चाक्षेप आकर्षणवाचकश्च । काव्यस्य चालंकृतिभिद्यथ वेषक्लृप्त्यो- र्नृलिङ्ग आकल्प इति प्रदिष्टः ॥ भ्रान्तौ च पक्षे च विकल्पमाहु- ;l{6840} र्मल्लस्य बन्धान्तरके तु कूर्मे । स्यात्कच्छपः स्त्री तु डुलौ च वीणा- भेदे तथा स्यात्पिटिकान्तरेऽपि । कलाप उक्तो हरिभूषणे ना तूणीरसंघातकवत्सरेषु ॥ १६ ॥ ;vv{चतुष्पाः} ;c{चतुष्पाः ।} ;l{6845} बुधे मनोज्ञेऽप्यभिरूप उ[27a]क्तः स्यात्प्राप्तरूपश्च तथाथ विष्णौ । शंभौ च गर्भे कृकलासके च * कोषवीणा( ? )बहुरूपमाहुः ॥ १७ ॥ कृत्रिमधूपे सरल- ;l{6850} द्रवके वृकधूप आम्नातः । परिवापो जलनिलये पर्युप्तौ स्यात्परिच्छदे तद्वत् ॥ १८ ॥ उपतापस्तूत्तापे गदे त्वरायां च निर्दिष्टः । ;l{6855} अवलेपो नरि गर्वे दुष्टौ लिप्तौ च संप्रोक्तः ॥ १९ ॥ स्याद्विप्रलापोऽपि विरुद्धवाके ऽपार्थोदिते ना तु वृषाकपिः स्यात् । हरे हरौ च ज्वलनेऽथ कम्पे ;l{6860} भये परीकम्पमुशन्ति सन्तः ॥ २० ॥ ;p{0274} अपह्नवे प्रेम्णि तथापलापो ऽथो हेमपुष्पं च जपाप्रसूने । स्याच्चम्पके तद्वदुशन्त्यशोके ऽथो मेघपुष्पं जलमुस्तकाभ्रे ॥ २१ ॥ ;l{6865} ज्ञैर्बीजपुष्पमुक्तं मरुबकपुष्पे तथा दमने । पुंनागनागकेसरचम्पकसंज्ञं तु नागपुष्पं स्यात् ॥ २२ ॥ कमलाशोकजपासु प्रकीर्तितः पिण्डपुष्पश्च । चुण्ट्यां च पुष्करिण्यां जलकूपीं चक्षते चतुराः ॥ २३ ॥ ;c{पञ्चपाः} ;c{पञ्चपाः ।} चामरपुष्पश्चूते का[27b]शतृणे केतके तद्वत् । ;c{॥ इति पान्ताः ॥} ;v{फान्ताः} ;vv{एकफाः} ;l{6870} निष्फलवचने फः स्याद्भयतस्त्राणे च फूत्कारे । ;vv{द्विफाः} ;c{द्विफाः ।} रेफो रकारे त्रिषु कुत्सिते स्या- च्छफोऽस्त्रियां गोप्रभृतेः खुरे च ॥ २४ ॥ मूले तरूणामथ गुम्फ उक्तो भुजाविभूषाभिदि गुम्फने च ॥ २५ ॥ ;l{6875} शिफा जटायां च तथा तटिन्यां स चेज्जनन्यामपि मांसिकायाम् । ;c{॥ इति फान्ताः ॥} ;v{बान्ताः} ;vv{एकबाः} ;c{एकबाः ।} प्रचेतसि स्यात्कलहस्तथा बो ;vv{द्विबाः} ;c{द्विबाः ।} बिम्बं फले स्यादपि बिम्बिकायाः । स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या- ;l{6880} ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे । ;p{0275} पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथ स्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥ शुल्बं तु ताम्रेऽपि च यज्ञकर्म- रज्जुप्रभेदे( ? )ऽपि समित्सुरज्जौ । ;l{6885} सम्बा स्त्रियां स्यान्मुसलाग्रलौह- वेष्टे पवौ पुंसि च संप्रदिष्टा ॥ २८ ॥ उल्बोऽस्त्रियां स्यात्कमले जरायौ कम्बुः पुमान्स्याद्वलये गजे च । शम्बूकके स्त्री तु न शङ्खवाची ;l{6890} जम्बूः स्त्रियां जम्बुरपि द्रुभेदे ॥ २९ ॥ द्वीपे च मेरोः सरिति स्त्रियां तु क्ली[28a]बे तथा जाम्बवनामनि स्यात् । क[म्बिः] खजाकापि च वंशखण्डं तुम्बा तु लक्ष्म्यामपि तिक्ततुम्ब्याम् ॥ ३० ॥ ;l{6895} कम्बूः परद्रव्यहरेऽतिधूर्त्ते जम्बस्तु जम्बीरकदन्तयोश्च । संख्यान्तरे खर्बमुशन्ति पुंसि विशेष्यवद्वामनवाचकं च ॥ ३१ ॥ क्लीबं तृतीयाप्रकृतौ स्त्रियां न ;l{6900} निर्विक्रमे वाच्यसमानलिङ्गम् । ;vv{त्रिबाः} ;c{त्रिबाः ।} सिद्धार्थके नीपतरौ कदम्बो वृन्देऽन्तिमे बाणकदम्बयोस्तु । पुमान्कलम्बो वनिता तु शाके कादम्ब उक्तः कलहंसबाणे ॥ ३२ ॥ ;l{6905} हेरम्ब उक्तो नरि विघ्नराजे कासारके शौर्यबलेन दृप्ते । ;p{0276} स्कन्धे नितम्बः कटके तथाद्रे- स्तीरे स्त्रियाश्चापि कटीप्रदेशे ॥ ३३ ॥ प्रलम्ब उक्तो दनुजेऽङ्कुरे तु ;l{6910} तालस्य शाखास्वपि संप्रदिष्टः । हारप्रभेदे त्रपुसे च मेघे गोतुम्ब उक्तो नरि शीर्णवृन्ते ॥ ३४ ॥ फले गवाक्ष्या अथ जन्ममृत्यु- मध्यस्थसत्त्वे हरिणप्रभेदे । ;l{6915} पुंस्कोकिलेऽश्वे सुरगायने च गन्धर्व उक्तो नरि कोषविज्ञैः ॥ ३५ ॥ भूजम्बूर्गोधूमे विकङ्कतफले च [28b] संप्रोक्ता । ;c{चतुर्बाः ।} गदिता तु राजजम्बूर्जम्बूभेदे च पिण्डखर्जुरे ॥ ३६ ॥ ;c{पञ्चबाः ।} धूलीकदम्बस्तिनिशे[च]नीपे ;l{6920} स्यात्तिक्तशाकेऽथ शृगालजम्बूः । गोतुम्बघोण्टाफलवाचिकापि प्रोक्तात्र कोशाम्बुधिकर्णधारैः ॥ ३७ ॥ गोरक्षजम्बूर्गोधूम[ धान्ये ]गोरक्षतण्डुले । ;c{इति बान्ताः ।} ;c{एकभाः ।} भृगुजे भो भा तु रुचौ भं नक्षत्रे भूर्भुवि स्थाने ॥ ३८ ॥ ;l{6925} योगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ ;p{0277} जम्भस्तु दैत्ये नरि भक्षणे च ;l{6930} जृम्भे रदे दन्तशठे तु न स्त्री । कुम्भो घटे स्यान्मिथुने च कुम्भ- कर्णस्य पुत्रे गणिकापतौ च ॥ ४० ॥ राशिप्रभेदे गजमूर्द्धपिण्डे पुमांस्त्रिवृद्गुग्गुलुगस्तु षण्ढे । ;l{6935} स्त्री वारिपर्ण्यां गमि(?) पाटलायां गर्भोऽर्भके स्याज्जठरे च संधौ ॥ ४१ ॥ भ्रूणे तथा गर्भककण्टके स्यात् स्या[29a]ज्जृम्भणेऽथ त्रिषु जृम्भ उक्तः । जृम्भा विकासे गृहधारणे तु ;l{6940} स्तम्भो जडत्वेऽप्यथ रम्भ उक्तः ॥ ४२ ॥ वंशे तथा वांशिकदण्डके च स्त्रियां कदल्यां त्रिदिवाङ्गनासु । सभाऽक्षवत्यां सभिके च गोष्ठ्यां गेहेऽथ शोभा द्युतिकाङ्क्षयोश्च ॥ ४३ ॥ ;l{6945} दृग्भूः पुमांश्चक्रभुजङ्गयोः स्या- द्विशेष्यवत्स्यात्कथकेऽथ नाभिः । मुख्ये नृपे क्षत्रियमात्रके च चक्रे च पुंसि द्वितये तु तुण्ड्याम् ॥ ४४ ॥ कस्तूरिकायां गदिता स्त्रियां च ;l{6950} विभुः शिवे व्यापिनि तु त्रिषु स्यात् । नित्ये प्रभौ ब्रह्मणि तु स्वभूः स्यात् विष्णौ च शंभुस्तु हरे हरौ च ॥ ४५ ॥ ;vv{त्रिभाः} ;c{त्रिभाः ।} कनिष्ठिकान्ते मणिबन्धनात्स्यात् तथोष्ट्रशावे करभः प्रदिष्टः । ;p{0278} ;l{6955} अष्टापदे स्याच्छरभो नृलिङ्गो मृगप्रभेदेप्यृषभो वृषे स्यात् ॥ ४६ ॥ स्वराष्टवर्गौषधभेदयोश्च वराहपुच्छे नरि कर्णरन्ध्रे । श्रेष्ठे पदस्याग्रगतोऽन्यवत्स्यात् ;l{6960} स्त्री शूकशिम्ब्यां[29b]विधवाङ्गनायाम् ॥ ४७ ॥ शिरालतायां नृसमस्त्रियां च श्रेष्ठे वृषे स्याद्वृषभस्तथैव । स्याद्वल्लभो भर्त्तरि ना कुलीना- श्वे गोधिकारिण्यपि वाच्यवत्तु ॥ ४८ ॥ ;l{6965} मनोहरे धन्वथ( ? ) वासके तु स्याद्दुर्लभः कान्तदुरापयोश्च । स्यात्कुम्भकर्णस्य सुते निकुम्भो दन्त्यां कुसुम्भं तु भवेत्स्त्रियां न ॥ ४९ ॥ कमण्डलौ स्यात्कमलोत्तरे च ;l{6970} तथा सुवर्णेऽपि बुधैः प्रदिष्टम् । विष्टम्भ उक्तः प्रतिबन्धके च वैदर्भके तद्वदुशन्ति सन्तः ॥ ५० ॥ विश्रम्भः प्रणये च केलिकलहे विश्वासहिंसार्थयो- र्विष्कम्भः प्रतिपन्नविस्तृतिगतः स्यान्नाटकाङ्कादिगे । ;l{6975} योगे योगसमाधिबन्धभिदि वाथास्त्री च वीणाङ्गके पार्थद्रौ ककुभोऽथ दर्पवधयोरुद्योगसंभ्रान्तिषु ॥ ५१ ॥ आरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपले चाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः । सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समे ;l{6980} वर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥ ;p{0279} भेरीदानवयोः पुमानपि विषे स्त्रीपाशबिन्दुत्रिक- द्वन्द्वे दुन्दुभिरप्यथ क्षितिपतौ वैदर्भ आम्नायते । वक्रत्वे वचसः स्त्रियां नरि खरे गन्धान्तरे गर्दभः ॥ ५३ ॥ योषित्स्यात्पिटिकान्तरे कृमिभिदि क्लीबं पुनः कैरवे ;l{6985} शोभादिक्षु च चम्पकस्रजि ककुभ्‌ स्त्री स्यात्प्रवेण्यामपि । ;vv{चतुर्भाः} ;c{चतुर्भाः ।} स्तम्भारम्भसुवर्णकेषु च तथावष्टम्भ उक्तो बुधै- श्चण्डान्ते(?) नरि शातकुम्भ उदितश्चामीकरे त्वन्तिमे ॥ ५४ ॥ ;c{॥ इति भान्ताः ॥} ;v{मान्ताः} ;vv{एकमाः} ;c{एकमाः ।} मश्चन्द्रे च शिवे च वेधसि मतो मा मातृलक्ष्म्योर्भवेत् ;vv{द्विमाः} ;c{द्विमाः ।} किं प्रश्ने क्षिपि निन्दने निगदितं तर्के प्रकारेऽपि च । ;l{6990} दण्डे स्याद्दमथे दमश्च दमयन्तीभ्रातरि स्यादथा- पर्यालोचितवर्त्मनीह च गमो द्यूतप्रभेदे गतौ ॥ ५५ ॥ प्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमः कुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः । रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत् ;l{6995} त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥ योषाहिङ्गुलिनीषु योषिति मतः कामः स्मरेऽस्त्रीप्सिते क्लीबं शुक्रनिकामयोरथ रमः कान्ते स्त्रियां तु श्रियि । तद्वत्सु त्रिषु पुंसि तु स्मरगतो रक्तेऽप्यशोकद्रुमे न स्त्री स्यान्मलयोद्भवे च शिशिरे तद्वत्तुषारे हिमम् ॥ ५७ ॥ ;l{7000} ध्वाङ्क्षे दण्डधरे यमोऽपि यमजे स्यात्संयमे तादृशः । शारीरेऽपि च नित्यकर्मणि भवेत्स्यादानुपूर्व्यां क्रमः । ;p{0280} शक्तौ कल्पपदक्षिपो(?)रथ भवेत्क्षौमं दुकूलेऽस्त्रिया- मट्टे स्यादतसीकृते च वसने क्षेमं पुनर्न स्त्रियाम् ॥ ५८ ॥ भद्रे लब्धकरक्षणे निगदितं स्याच्चौरकेऽथ स्त्रियां ;l{7005} गौर्यां स्याद्गणहासके च, नगरे तूमं तथा घट्टके । सूर्ये यष्टरि पुंसि, शुष्ममुदितं तेजस्यशीतद्युतौ ना स्यूमस्तु मयूखसूत्रगुणयोर्दक्षे क्षमः क्षन्तरि ॥ ५९ ॥ स्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये- ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे । ;l{7010} चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरे त्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥ श्यामः प्रयागस्य वटेऽम्बुदे च पिके हरि-चकवल्लरीषु । क्लीबं मरीचे लवणे च कृष्णे ;l{7015} स्त्रियां निशासोमलताकणासु ॥ ६१ ॥ गुन्द्राप्रसूतप्रमदाप्रियङ्गु- नीलीत्रिभण्डाङ्गुलिकेशिकासु । कालिन्दिकायां त्रिषु तद्वति स्यात् स्तोमोऽध्वरस्तोत्रसमूहवाची ॥ ६२ ॥ ;l{7020} ध्यामं गन्धतृणे पुमान्[द]मनके धूम्रे पुनर्वाच्यवत् गुल्मो [थो]बलरक्षणे च जठरग्रन्थौ प्रकाण्डे बले । घट्टे स्त्र्यामलकीतडित्पटगृहे जाल्मस्तु रौद्रे जडे भेद्याभोऽप्यसमीक्ष्यकारिणि भवेद्ग्रामः स्वराणां ग्रहे ॥ ६३ ॥ तद्वत्संवसथे समूह उदितः शब्दादितश्चोत्तरः ;l{7025} संपूर्वः समरेऽथ कालविवरे प्राकारगर्त्तेऽवधौ । अर्द्धे छद्मनि पुंसि नेम उदितः [31b] सोमस्तु शीतद्युतौ वित्तेशे पितृदैवते च पवने[व]स्वन्तरे स्यात्कपौ ॥ ६४ ॥ ;p{0281} कर्पूरे सलिले तथा स्मरहरे स्याद्यज्ञनेत्र्योषधा- विष्मः कामवसन्तयोर्नरि मतो युध्मः शरे योद्धरि । ;l{7030} युद्धे धन्वनि चाथ भीम उदितः शम्भौ बकद्वेषिणि स्यादम्लेऽपि च वेतसे त्रिषु पुनर्घोरेऽथ भामो रवौ ॥ ६५ ॥ क्रोधे यामिपतौ रुचौ च नरके भौमस्तथा मङ्गले भूजेषु त्रिषु मण्डपे तु समये श्रामः पुमान्कीर्तितः । यक्ष्मो रोगपतौ गदेऽपि गदितो रुक्मं तु हेमायसो- ;l{7035} स्तोक्मं स्याद्धरिते यवे हरिति चाम्भोदे तु न स्याद्‌द्वयोः ॥ ६६ ॥ भीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणे भेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् । धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता- वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥ ;l{7040} खर्मं दुकूलेऽपि च पौरुषे च घर्मो निदाघे च तथातपे ना । स्वेदोदके चोष्णगतस्तु न स्त्री क्लीबे तु[32a]जिह्म तगरद्रुमे स्यात् ॥ ६८ ॥ वक्रे च मन्दे परवच्च सूक्ष्मं ;l{7045} त्वध्यात्मके कैतवके च षण्ढे । अणौ पुमान्स्यात्त्रिषु चाल्पवाचि दस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥ पद्मः पुमान्व्यूहनिधिप्रभेदे नागान्तरे स्त्री तु न पङ्कजे स्यात् । ;l{7050} संख्यान्तरे पद्मकबिन्दुनाले स्त्रियां तु लक्ष्म्यामपि फञ्जिकायाम् ॥ ७० ॥ भूमिः स्थितौ स्याद्भुवि चाथ वह्नौ वमिः पुमान्स्त्री वमनेऽथ रश्मिः । ;p{0282} पक्षे द्युतौ योषिति रज्जुवाची ;l{7055} जामिः कुलस्त्रीभगिनीगतः स्त्री ॥ ७१ ॥ यामिः स्त्रियां संयमयामयोस्तथा भवेद्भगिन्यां च कुलस्त्रियां च । चक्रान्तकूपत्रिकयोस्तु नेमिः स्त्रियां पुमान्स्यात्तिनिशद्रुमे च ॥ ७२ ॥ ;l{7060} किर्मी पलाशे गृहहेमपुत्र्योः स्त्रियां तदेनेहसि पुंसि सर्मः । ऊर्मिर्द्वयोर्वेगतरंगभङ्ग- प्रकाशलेखार्तिषु वेदनायाम् । स्याद्वस्त्रसंकोचन उत्कतायां ;l{7065} कृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥ कृष्यन्विते रासभवाचक[32b]श्च कामिस्तु खन्यां त्रिषु कामुके सा । होमिः पुमान्पावकसर्पिषोः स्यात् लक्ष्मीः स्त्रियां संपदि [वि]ष्णुनार्याम् ॥ ७४ ॥ ;l{7070} कान्तौ फलिन्यामपि ऋद्धिनामौ- षधौ सभायामपि लोहपुत्र्याम् । वल्लीपलाशेऽपि च बिल्ववृक्षे शमी द्वयोः शङ्कुफला च शम्बा ॥ ७५ ॥ स्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- ;l{7075} शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ समा तु वर्षे वृषणे तु सीमा स्त्री ब्रह्मशक्तावपि फञ्जिकायाम् । ;p{0283} ;l{7080} ब्राह्मी च शाकेऽपि गिरां च देव्यां घाटे स्थितौ क्षेत्रकचेलयोश्च । क्षुमातसीनालिकयोश्च नाम्नि परत्विषि स्यादथ कान्तिकीर्त्त्योः ॥ ७७ ॥ शिवा हरिद्रातसिकासु चोमा ;l{7085} रुमा तथा स्याल्लवणाकरेऽपि । सुग्रीवपत्न्यां ;vv{त्रिमाः} ;c{त्रिमाः ।} अथ दुग्धिकायां स्यादुत्तमा स्त्री त्रिफलार्थकापि ॥ ७८ ॥ उत्कृष्ट उक्ता स्वविशेष्यलिङ्गा ;l{7090} स्यान्मध्यमोऽपि स्वरमध्यवा[33a]ची । ना देहमध्ये त्रिषु मध्यजे स्यात् स्त्रियां तु दृष्टार्तवयोषिदर्थः ॥ ७९ ॥ छन्दोविशेषेऽपि च कर्णिकायां मध्याङ्गुलावप्यधमस्तु निन्द्ये । ;l{7095} न्यूने त्रयेथावसरे क्रमे चा- रम्भे तथा प्रक्रम ईरितोऽत्र ॥ ८० ॥ तथोपधायामथ विक्रमः स्यात् क्रान्तौ च शक्तेर्विभवे बले च । स्यात्संक्रमः संक्रमणेऽन्यराशि- ;l{7100} गतौ रवेः संतरणे जलस्य ॥ ८१ ॥ संक्राम एवं मतिसंपदि स्यात् ना निष्क्रमो निर्गति-दुष्कुलार्थः । स्यादागमोऽथागतिशास्त्रवाची स्याद्विभ्रमो भ्रान्तिविलासभेदे ॥ ८२ ॥ ;p{0284} ;l{7105} स्यात्संभ्रमोऽपि त्वरणेऽतिवेगे तथा दरे स्यान्नरि चादरे च । ना विद्रुमो रत्नतरौ प्रवाले तथा प्रदिष्टो नवपल्लवे च ॥ ८३ ॥ स्याद्ब्रह्मचर्यादिचतुष्टयेऽस्त्री ;l{7110} तथाश्रमः स्यान्मठवाचकोऽपि । स्यात्सत्तमः संयमे वाच्यवत्तु श्रेष्ठे च पूज्ये नियमस्तु पुंसि ॥ ८४ ॥ यमे प्रतिज्ञासु च यन्त्रणायां वेदे पुरे स्यान्निगमः कटे च । ;l{7115} वणिक्पथे वाणिजके तथोक्तो- ऽथो[33b]नैगमो वाणिजनागरार्थः ॥ ८५ ॥ चौरे च शालौ कलमोऽपि लाक्षा- रके तथा लेखनिकाह्वयेऽपि । क्लीबे तु तल्पे तलिमं विताने । ;l{7120} तथा कृपाणेऽपि च कुट्टिमे च ॥ ८६ ॥ आदौ प्रधाने परमः परस्मिन् विशेष्यवत्स्यात्प्रणवे तु षण्ढे । आदौ प्रधाने प्रथमोऽन्यवत्स्यात् पुष्पे फलेऽस्त्री कुसुमं दृगार्तौ ॥ ८७ ॥ ;l{7125} कान्तार्तवे चाथ कृतेऽन्यलिङ्गः स्यात्कृत्रिमोऽन्त्ये लवणान्तरे च । स्यात्सिल्हके चाथ समे च चारौ विशेष्यवत्स्यात्सुषमं स्त्रियां तु ॥ ८८ ॥ उत्कृष्टशोभास्वथ सर्पभेदे ;l{7130} पुमान्सुषीमः शिशिरे मनोज्ञे । ;p{0285} स्यात्पञ्चमो रागभिदि स्वरे च विशेष्यवत्पूरणवाचकश्च ॥ ८९ ॥ हृद्ये प्रवीणे द्रुपदात्मजायां स्त्रियामथर्षेर्भिदि शाक्यसिंहे । ;l{7135} स्याद्गौतमः स्त्री उमरोचनायां । गोदावरीशम्भुकलत्रयोश्च ॥ ९० ॥ एलायां करके च दाडिम इति त्रय्यामथो भेषजे गोधूमो नरि नागरङ्ग उदितो व्रीहेर्विभेदेऽपि च । व्याया[34a]मो नरि पौरुषे श्रमविधौ स्याद्दुर्गसंचारके ;l{7140} सर्पे पाशिनि कुक्कुरे नरि विलोमः स्यात्प्रतीपेऽन्यवत् ॥ ९१ ॥ स्त्री स्यादामलकीगतोऽरघट्ठविषये त्वन्त्येऽथ वारस्त्रियां गौलोमी सितदूर्विकासुवचयोः स्त्री दन्तिबन्धे पुनः । अर्चायां करिणस्तथानुकरणे कोषप्रवीणैर्मता ;vv{चतुर्माः} ;c{चतुर्माः ।} भेके मर्कटके प्लवंगम इति प्रोक्तो विपश्चिद्गणैः ॥ ९२ ॥ ;l{7145} कान्ते चानुपमो विशेष्यसदृशः स्त्री सुप्रतीकस्त्रियां अभ्यर्णे च हतौ विरोधरणयोरभ्युद्गमेऽभ्यागमः । जीर्णे भुक्तसमुज्झिते च गदितो ना यातयामस्तथा कीनाशे दिवसे घटोद्भवमुनौ स्याद्दण्डयामोऽपि च ॥ ९३ ॥ दिङ्नागे सकलक्षितेरधिपतौ स्यात्सार्वभौमस्तथा ;l{7150} सर्वक्षोणिनिमित्तयोरपि मतः संयोगकोत्पातयोः । आरम्भेऽथ उपक्रमो गदचिकित्सोत्कोचयोर्विक्रमे- ऽथावर्ते जलगुल्म एव उदितः कूर्मे पयश्चत्वरे ॥ ९४ ॥ संख्याभेदभुजङ्गयोरपि[34b]महापद्मो निधौ चोदितः ;p{0286} ;vv{पञ्चमाः} ;c{पञ्चमाः ।} स्वीकारागमनोन्तिकेऽभ्युपगमः संख्यावतां संमतः । ;l{7155} रेवत्याममृतद्युतौ निगदितश्चौत्तानपादौ तथा कोषाम्भोनिधिनाविकाः कृतधियो नक्षत्रनेमिं जगुः ॥ ९५ ॥ ;c{॥ इति मान्तादिवर्गः ॥} ;v{यान्ताः} ;vv{एकयाः} ;c{एकयाः ।} यः सर्वनामानिलदण्डभृत्सु स्त्रियां तु लक्ष्म्यां जननीधरित्र्योः । द्युरह्नि वह्नौ त्रिदिवे पुमान्स्याद्- ;l{7160} द्यौस्तु स्त्रियां स्वर्गसुराध्वनोश्च ॥ १ ॥ ;vv{द्वियाः} ;c{द्वियाः ।} जयो जयन्ते विजये नरि स्या- ज्जया भवान्यामरणिद्रुमे च । तिथेर्विशेषे गिरिजासखीषु हरीतकीनामसु च प्रदिष्टः ॥ २ ॥ ;l{7165} प्राकारमूले निकरे चयः स्यात् समाहृतौ चाथ नयश्च नीतौ । द्यूतप्रभेदे जनके शयस्तु निद्राहिशय्याकरवाचकश्च ॥ ३ ॥ भयं तु घोरे कथितं च भीतौ ;l{7170} कुब्जप्रसूनेऽथ मयस्तथोष्ट्रे । स्याद्दैत्यतक्ष्ण्यश्वतरे लयस्तु संश्लेषतौर्यत्रिकसाम्ययोश्च ॥ ४ ॥ तथा विलासेऽद्भुतगर्वयोस्तु स्मयोऽपि गेयोऽपि[35a]च गायनेऽपि । ;l{7175} क्षयो निवासेऽपि च राजरोगे कल्पान्तकालेऽपचये, प्रियस्तु ॥ ५ ॥ ;p{0287} धवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे ;l{7180} क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ ;l{7185} काण्डेऽपि दायस्तु विभाज्यवित्ते सोल्लुण्ठवाक्ये युतकोत्थवित्ते । दानेऽथ बाहुल्यसदृक्षयोः स्यात् प्रायस्तथैवानशने च मृत्यौ ॥ ७ ॥ पेयं तु पातव्यजलार्थकः स्या- ;l{7190} च्छ्राणाच्छमण्डार्थकमीरितं स्त्री । स्थेयो विवादस्य पदे प्रदिष्टो निर्णेतरि स्याच्च पुरोहिते च ॥ ८ ॥ पीयुस्तु काले च रवौ ययुस्तु क्रत्व[श्व]चेष्टासु [हये]मयुस्तु । ;l{7195} [तु]रङ्गवक्त्रेऽथ मखे च मन्युः क्रोधे च दैन्ये च तथा प्रदिष्टः ॥ ९ ॥ मृत्युर्द्वयोः स्यान्मरणे च दैवे दस्युस्तु [35b]चौरेऽपि सपत्नवाची । जन्युर्हुताशे द्रुहिणेऽङ्गिनि स्या- ;l{7200} द्वन्यं वनोत्थे वनचारिवृन्दे ॥ १० ॥ स्त्रियां च जन्यस्तु वधूवराणां ज्ञातौ च तातेऽथ रणे च हट्टे । ;p{0288} स्वकान्तभृत्यस्य हिते च षण्ढे स्त्रियां प्रमोदे जननीसखीषु ॥ ११ ॥ ;l{7205} न स्त्री परीवादगतं विशेष्य- लिङ्गं भवेत्तज्जननीयवाचि । शून्यं च रिक्ते विजने स्त्रियां तु नाल्यां विशेष्ये तु शुने हिते स्यात् ॥ १२ ॥ अन्यस्तु भिन्ने त्रिषु वा समाने ;l{7210} पाद्यं तु पादार्हजले च निन्द्ये । पूज्यस्तु वन्द्ये श्वशुरे स हार्यो विभीतके वाच्यसमस्तु हार्ये ॥ १३ ॥ मायस्तु पीताम्बरदेवयोः स्यात् स्त्री शाम्बरीबुद्धिदयासु दम्भे । ;l{7215} न पुंसि वीर्याऽतिशयप्रभावे शुक्रे तथा तेजसि संप्रदिष्टा ॥ १४ ॥ वैश्ये तथा स्वामिनि चार्य उक्तो हेतौ फले कार्यमुशन्ति सन्तः । सूर्यो रवावौषधिसूर्यपत्न्योः । ;l{7220} सूर्या [तु] शौर्यं किल शक्तिवाची ॥ १५ ॥ तथार[36a]भट्यां मदने तु वर्यः पतिंवरायां तु भवेत्स्त्रियां सः । त्रय्यां वरेण्ये कमठे तु दम्भे गुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥ ;l{7225} पत्न्यां तु भार्या नरि बाहुजे स्यात् सह्यस्तु शैले त्रिषु सोढुमर्हे । गृह्यं पुरीषाध्वनि चास्वतन्त्रे- ऽन्यवत्स्वपक्षे च गृहोद्भवे च ॥ १७ ॥ ;p{0289} छेकेषु शाखानगरे पुनः स्त्री ;l{7230} योग्यः प्रवीणे त्रिषु योगकार्हे । शक्तेऽथ ऋद्ध्यौषधिवाचकः स्त्री व्यासार्कदाराभ्यसनेषु तद्वत् ॥ १८ ॥ भाग्यं नियत्यां च शुभादिकृत्यां पाक्यं विडे स्यादपि यावशूके । ;l{7235} पथ्यं हिते स्यात्त्रिषु योषिति स्या- द्धरीतकीनामनि चापणे तु ॥ १९ ॥ स्याद्वर्त्तनीचत्वरवाचकश्च रथव्रजे स्त्री भवतीह रथ्या । रथोद्वहे तु त्रिषु चार्थ्यमन्त्ये ;l{7240} शिलाजतुन्यर्थयुते च युक्ते ॥ २० ॥ बुधेऽन्यवत्स्याद्रतबन्धके तु ग्राम्यं तथाश्लीलगतं जने च । सौम्यो बुधे ना परवत्त्वनुग्रे मनोहरे स्याच्छशिदेवताके ॥ २१ ॥ ;l{7245} संबोधनीये [36b] सलिले तु षण्ढे प्रकीर्तितो योषिति चेल्वलासु । रम्यो भवेच्चम्पकवाचको ना रात्रौ स्त्रियां स्यात्त्रिषु सुन्दरे च ॥ २२ ॥ संख्या विचारे गदिता तथैक- ;l{7250} त्वादौ रणे तु प्रथिता द्वयोना । लग्नेऽधमे च त्रिषु मध्यमन्त्ये न्याय्येऽवकाशेऽपि च लग्नकेऽस्त्री ॥ २३ ॥ मेध्यं शुचौ मेदुर आश्रमे च साध्यो नरि स्याद्गणदैवते च । ;p{0290} ;l{7255} योगेऽन्यवत्साधयितुं तथार्हे- ऽथाघ्न्यः प्रजापत्यबलार्थको ना ॥ २४ ॥ स्त्री स्त्रीगवी तु प्रथिताथ वन्ध्यो ऽफलेऽप्रसूतप्रमदासु वन्ध्या । स्याच्छ्वेतजीरे चरमेऽत्र हृद्यं ;l{7260} विशेष्यवद्धृद्भवहृत्प्रियार्थम् ॥ २५ ॥ वशत्वकृद्वेदमनौ तु पुंसि स्त्रियां तु वृद्ध्याह्वय औषधे च । प्रश्नेऽद्भुते चोद्यमुशन्ति षण्ढे विशेष्यवत्प्रेरणवाचकं च ॥ २६ ॥ ;l{7265} श्लोके तु पद्यं पथि योषिति स्यात् पुमांस्तु शूद्रे पदवेधके तु । दृश्यं पदं यत्र च तत्र भेद्ये बन्ध्यस्तु पूज्ये हठतोधृतेऽपि ॥ २७ ॥ पुण्यं मनोज्ञे सुकृ[37a]ते च पूते ;l{7270} ऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे । स्थाने च शक्तावनले तु पुंसि शल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥ शरे च वंशादिकवंशिकायां क्ष्वेडेऽन्तिमे तोमरवाचकश्च । ;l{7275} छिद्रेऽवधौ मद्रपतौ तु पुंसि गालद्रुमे श्वाविधि तद्वदुक्तः ॥ २९ ॥ कल्यं प्रभाते गतवासरे च सज्जे तु दक्षे त्रिषु रोगमुक्ते । वाक्कर्णहीने मदिरागतस्तु ;l{7280} न पुंसि कल्याणगतं तु योषित् ॥ ३० ॥ ;p{0291} बल्यं तु रेतस्यथ भेद्यलिङ्गं कुल्यं तु न स्त्री मतमस्थिवाचि । शूर्पेऽष्टकद्रोणिगतं च मांसे पयःप्रणा[ली]सरितो नसि(?) स्त्री ॥ ३१ ॥ ;l{7285} जीवन्तिकायामथ मूल्यमाहुः वस्ने भृतौ चाथ विलेपभित्त्योः । कुड्यं च धान्यं तु किलाल्लकायां ( ? ) व्रीहौ सुपुण्ये तु परत्र धन्यः ॥ ३२ ॥ स्त्री त्वामलक्यां ** निल्लकार्थे ( ? ) ;l{7290} काव्यः पुमान्दैत्यगुरौ प्रदिष्टः । षण्ढे कवेः स्याद्रसवत्प्रबन्धे स्त्री पूतनायां गदितश्च बुद्धौ ॥ ३३ ॥ न पुंसि चव्या चविको [37b]ग्रगन्धा- बाष्पीषु गव्यं त्रिषु गोहितं यत् । ;l{7295} क्षीरादिकेऽन्यत्र गवां नपुंसि ज्यायां तथा रागकपेयभेदे ॥ ३४ ॥ स्त्रीगोसमूहे द्रविणे तु द्रव्यं भ्वादौ विनेयेऽपि च पित्तले च । तथौषधे स्यादपि जातुषे च ;l{7300} तरोर्विकारे चरमे सदैव ॥ ३५ ॥ भव्यं तु सत्ये कुशलेऽन्यवत्तु योग्ये तथा भाविनि संप्रदिष्टम् । पुमांश्च नारङ्गतरौ स्त्रियां तु भवेद्भवान्यां च गजाह्वयायाम् ॥ ३६ ॥ ;l{7305} दिब्यं लवङ्गे द्युभवेऽन्यवत्स्यात् स्त्रियां भवेदामलकीगतं तत् । ;p{0292} उशीरके सेव्यमुशन्ति षण्ढे सेवोचिते तु त्रिषु संप्रदिष्टम् ॥ ३७ ॥ गोप्यस्तु दासीतनयेऽन्यवत्तु ;l{7310} रक्षोचिते, सव्यमुशन्ति वामे । तथा प्रतीपेऽथ फले गुणे च सस्यं च रूप्यं रजतेऽन्त्यलिङ्गे ॥ ३८ ॥ तारे तथा हेमनि चाहते स्यात् प्रशस्तरूपे तु विशेष्यलिङ्गम् । ;l{7315} इभ्यस्तथाढ्ये त्रिषु, सल्लकीभ्यः स्त्रियां च लभ्यं तु किलोचिते स्यात् ॥ ३९ ॥ लब्धव्यवा[38a]चि त्रितयेऽप्यथार्घ्यम् अर्घार्हयोग्यार्थकमन्यलिङ्गम् । सत्यं तु तथ्ये शपथे कृते त- ;l{7320} द्युक्तेऽन्यवत्पुंसि तु लोकभेदे ॥ ४० ॥ चित्यं तु चैत्ये मृतके चितायां स्त्रियां च चैत्यो नरि बुद्धवाची । उद्देशवृक्षे चरमे तु बिम्बे स्थानेऽथ दैत्यो नरि दानवे स्यात् ॥ ४१ ॥ ;l{7325} चण्डौषधौ स्त्री सतते ध्रुवे च नित्यं पराभं प्रवदन्ति सन्तः । भृत्यस्तु दासे भृतिवाचकं स्त्री चान्त्योऽधमे चान्तभवे पराभः ॥ ४२ ॥ वेश्यं तु वेशस्य गृहे स्त्रियां तु ;l{7330} वाराङ्गनायां, वदने तथास्यम् । स्याद्वक्रमध्ये स्थितिवाचकं स्त्री लास्यं तु तौर्यत्रिकनाट्ययोः स्यात् ॥ ४३ ॥ दम्यं त्रिषु स्याद्दमितेऽनृतेऽन्त्ये (?) कश्यं तु मद्ये हयमध्यके च । ;p{0293} ;l{7335} त्रय्यां कशार्हेऽप्यथ वाद्यपान- पात्रान्तरे कांस्यमनादिलिङ्गम् ॥ ४४ ॥ स्यात्तैजसद्रव्यविशेषके च मत्स्यो विराटे नरि राशिभेदे । मीने तथा यादवमुख्यके च ;l{7340} तिष्यस्तु पुष्ये कलिनामकश्च ॥ ४५ ॥ स्त्री त्वामलक्यां [38b] मिथुने तु पुष्यो भे त्वामलक्यां गदितः स्त्रियां च । दूष्यं तु वस्त्रेऽपि च वस्त्रगेहे स्याद्दूषणीये परवत्स्त्रियां तु ॥ ४६ ॥ ;l{7345} कक्ष्यार्थके स्यादथ वीक्ष्यमाहु- र्दृश्ये तथा विस्मयवाचकं च । पुमांस्तुरङ्गेऽपि च नर्तकेऽथ तार्क्ष्यः सुपर्णे गरुडाग्रजे च ॥ ४७ ॥ स्यादश्वकर्माख्यतरौ तुरङ्गे ;l{7350} रसाञ्जने तु प्रथितो द्वयोनः । लक्ष्यं शरव्ये कपटे तु न स्त्री संख्यासु नाट्ये भरणीषु याम्या ॥ ४८ ॥ स्याद्दक्षिणस्यां नरि कुम्भयोनौ पटीरवृक्षेऽथ नरीज्य उक्तः । ;l{7355} बृहस्पतौ संगमवाचकश्च स्त्रियां तु दाने मखपूजयोश्च ॥ ४९ ॥ व्रज्या भवेत्पर्यटने च वर्गे स्यात्प्रस्थितौ, तल्पगता तु शय्या । शब्दस्य गुम्फेऽथ कुमारिकायां ;l{7360} कन्या च नार्यौषधिराशिषु स्यात् ॥ ५० ॥ ;p{0294} स्यादुत्तरासङ्गगृहप्रकोष्ठ- काञ्चीषु कक्ष्या गजमध्यबन्धे । कृत्यं तु कार्ये मतमप्रिये च तव्यादिषु स्त्री भिदि देवतायाः ॥ ५१ ॥ ;l{7365} व्याधेऽद्रिभेदे गदित[39a]श्च विन्ध्यः स्त्रियां लवल्यामवधौ तु सन्ध्या । चिन्ताप्रतिज्ञाकुसुमान्तरेषु पितृप्रसूसन्धिसरिद्गता च ॥ ५२ ॥ छायातपाभावरविस्त्रियोस्त्विट्- ;l{7370} शोभासु पङ्क्तौ प्रतिबिम्बके च । त्राणे च लञ्चेऽथ चिकित्सनेहा- रम्भोपदेशार्चननिश्चयेषु ॥ ५३ ॥ कर्मण्युपाये निकृतौ कृतौ च क्रिया त्रयी तु त्रितये त्रिवेद्याम् । ;l{7375} बुद्धौ पुरन्ध्र्यामथ वैद्यमाहुः सर्वज्ञरोगप्रतिकारिणोश्च ॥ ५४ ॥ ;vv{त्रियाः} ;c{त्रियाः ।} कौरव्यौ तु कुरोर्गोत्रापत्यतत्तनयौ द्विजौ । एवं श्वाफल्कवाशिष्ठबैदाः स्युः पितृपुत्रयोः ॥ ५५ ॥ विजयस्तु धनंजये जये गिरिजायां च तिथौ स्त्रियां भवेत् । ;l{7380} विनयः प्रणतौ च शिक्षणे त्विह योषिद्विषयस्तु गोचरे ॥ ५५ ॥ नरि रूपरसादिदेशयोः जनवासेऽधिगते प्रबन्धके । अनयो व्यसने विपद्यपि ;l{7385} प्रथितश्चाशुभदैववाचकः ॥ ५६ ॥ ;p{0295} निजपृष्ठबलेऽपि संनयः समवाये प्रण[39b]यस्तु हार्द्दके । अपि विश्वसने च याचने प्रसरे तद्वदुदीरितो बुधैः ॥ ५७ ॥ ;l{7390} वलयः करकङ्कणे गणे गदितोऽस्त्री नरि कण्ठरुग्भिदि । मलयस्तु वने च कृत्रिमे गिरिभेदेऽपि धरांशदेशयोः ॥ ५८ ॥ न च योषिति स स्त्रियां पुनः ;l{7395} त्रिवृति स्यादथ विस्मयोऽद्भुते । अपि गर्वगतेऽथ मृत्युवाची प्रलयः कल्पविराममूर्च्छिते च ॥ ५९ ॥ अभयं नलदे हरीतकी- विषये स्त्री परवत्तु निर्भये । ;l{7400} हृदयं मनसां ह (?) वक्षसि प्रथमाद्रावुदयस्तथोन्नतौ ॥ ६० ॥ विश्वासे शपथे प्रसिद्धिविलयो रन्ध्रे त[था] कारणे ज्ञानाचारविधीयमानविषयेऽधीने तथा प्रत्ययः । दण्डोत्पातविनाशदोष उदितः कृच्छ्रे तथातिक्रमे ;l{7405} विद्वद्भिर्गदितोऽत्ययोऽथ हृदयाकूताश्रयेष्वाशयः ॥ ६१ ॥ आचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोः भाषायां कृतिकारके निगदितः सङ्केतवाची तथा । काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजे स्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥ ;l{7410} आहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजे तार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः संमतः । ;p{0296} क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदे निर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥ स्याच्छोणे सुरभौ भवेत्स परगोऽथाम्नाय उक्तः श्रुता- ;l{7415} वभ्यासेऽपि च संततौ निगदितो ज्ञैः संप्रदायेऽपि च । स्थाने पक्षिनिकेतने च गदितो विज्ञैः कुलायस्तथा ऽथोपायो नरि सामभेदविषये चोपागतौ संमतः ॥ ६४ ॥ पर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथा संस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ । ;l{7420} अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं । शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥ शैलेयं लवणेऽम्बुधेश्च मुशलीक[न्दे]तथा शैलजे भृङ्गे पुंस्यथ जाह्नवीतनुजनौ गाङ्गेय उक्तः पुमान् । मुस्तायां कनके कशेरुणि भवेदन्त्येऽथ चामीकरे ;l{7425} चाम्पेयं नरि नागकेसरगतं स्याच्चम्पके केसरे ॥ ६६ ॥ कालेयो दनुजेऽन्तिमे तु समयाकृत्यामथ स्यात् खरे स्याद्भाङ्गर्यां च मृदौ हिते तु बलये भेद्याभलिङ्गो भवेत् । आत्रेयो मुनिभेदके च मलिनीनद्योः स्त्रियां स्यादथो पानीयं जलपेययोरथ भवेदैणेयमेणीभवे ॥ ६७ ॥ ;l{7430} स्यात्स्त्रीणां रतबन्धभिद्यथ हयौघेऽश्वीयमन्त्ये हिते । त्वश्वेभ्यः परवच्च, रेतसि पुनः श्रोत्रादिके चेन्द्रियम् । शिश्नेऽन्त्ये च जघन्यमन्यवदिहावद्ये, वदान्यः पुनः स्याद्दातर्यपि चारुवाचि परवत्पर्जन्यइन्द्रेऽपि च ॥ ६८ ॥ गर्जद्वारिदवारिदस्तनितयोः स्याद्ब्रह्मसाधौ पुन- ;l{7435} र्ब्रह्मण्योऽपि शनैश्चरे निगदितस्तूदद्रुमे तादृशः । ब्राह्मण्यं द्विजभावकर्मसु मतं स्याद्ब्राह्मणौ[41a]घे तथा शीर्षण्यं विशदे कचे च गदितं स्याच्छीर्षके चान्तिमे ॥ ६९ ॥ ;p{0297} अक्षय्ये द्रविणे च रेतसि मितेर्भेदेऽप्यकुप्ये तथा स्वर्णे चापि वराटके निगदितं न स्त्री हिरण्यं बुधैः । ;l{7440} सौकर्यं तु वराहकर्मणि तथानायासपर्यायके ऽथाहार्यः स्थिरशैलयोर्निगदितः, श्याले पुनर्देवरे ॥ ७० ॥ विद्वद्भिः कथितः श्वशुर्य इति च भ्रातृव्य उक्तो रिपौ स्याद्भ्रातुस्तनयेऽथ पूतिकरजे प्रोक्तः प्रकीर्यः पुमान् । भेद्याभो विनिकीर्यकेऽथ सुरभेर्भावे मनोज्ञस्य च ;l{7445} सौरभ्यं गुणगौरवे निगदितं नेपथ्यमुक्तं बुधैः ॥ ७१ ॥ आकल्पेऽपि च रङ्गभुव्यतिथिषु त्वातिथ्य उक्तोऽन्तिमे स्यादर्थेऽतिथये सुते दुहितरि प्राज्ञैरपत्यं स्मृतम् । सामर्थ्यं किल योग्यतातिबलयोर्व्रीहौ पुनः सागरे लौहित्यश्चरमे पुनर्निगदितो ज्ञैर्लोहितत्वार्थकः ॥ ७२ ॥ ;l{7450} कौकृत्यं त्वनुतापकेऽप्यनुचिताचारेऽथ देवे रवा- वादित्यो [41b]रविदेवताकहविषि त्वादित्यमुक्तं त्रिषु । पौलस्त्यौ किल यक्षराक्षसपती स्तस्तथ्ययोग्ये उभे औचित्ये अवधार्हमोधवचसोः प्राज्ञैरवध्यं स्मृतम् ॥ ७२ ॥ उक्तं प्रसव्यं ह्यनुकूलवाचि ;l{7455} प्रतीपवाचि त्वपरस्य लिङ्गे । प्रणाय्य उक्तोऽप्यभिलाषहीने- ऽप्यसंमते चाथ मुनौ च बिल्वे ॥ ७४ ॥ स्यात्पावके चाथ मसूरबिल्व- त्रायन्तिकाबोधिषु चादिलिङ्गे । ;l{7460} मङ्गल्य उक्तश्चरमे तु दध्नि स्यान्मङ्गलार्हे सुचिरेऽन्यवच्च ॥ ७५ ॥ स्त्रियां तु गुन्द्राशतपुष्पिकाधः- पुष्पीषु शम्यामपि रोचनायाम् । ;p{0298} स्याच्छङ्खपुष्प्यां च सिताग्निकाया- ;l{7465} मथ प्रगल्भे भयदेऽप्यधृष्यः ॥ ७६ ॥ सरिद्भिदि स्त्री परुषस्य भावे पारुष्यमिन्द्रस्य वनेऽपि षण्ढे । ना गीष्पतौ स्यादथ ना भुजिष्यः सहाय उक्तः करसूत्रकेऽन्त्ये ॥ ७७ ॥ ;l{7470} त्रय्यां स्वतन्त्रे गणिकासु दास्यां स्त्रियामथो केतकवाचके ना । चक्षुष्य उ[42a]क्तोऽपि च पुण्डरीक- द्रुमे कुलत्थेऽथ भगे द्वयोनम् ॥ ७८ ॥ रसाञ्जने नेत्रहितेऽन्यवत्स्या- ;l{7475} द्दन्त्यां विशल्याऽग्निशिखागुडूच्योः । एलागता चाथ यशस्यभिख्या तथाभिधाने छविवाचिका च ॥ ७९ ॥ वक्तव्यमाहुः स्ववशे च गर्ह्येऽ- न्वयस्तु सम्बन्धकुलाभिधायाम् । ;l{7480} पुरद्रुमः स्यात्खगभिज्जटायु- रूर्णायु[रु]रभ्र[स्य]कुथेऽप्युरभ्रे ॥ ८० ॥ स्याद्देवयुर्धार्मिकदेवगन्त्रोः स्यान्मित्रयुर्लोकगतिप्रवीणे । तथैव सख्यानुगते प्रदिष्टो ;l{7485} व्याधे विधौ वा मृगयुर्मृगाक्षैः(?) ॥ ८१ ॥ देहे वसन्तेऽपि नरि क्षिपण्यु- र्वह्नौ भुवन्युः शशिसूर्ययोश्च । वायौ शरण्युस्त्रिषु वारिते स्या- न्मासे तपस्यस्तपसि स्मृतः स्त्री ॥ ८२ ॥ ;p{0299} ;l{7490} त्रये रहस्यं किल गोपनीये नद्यां स्त्रियां चाथ भवेत्पयस्या । काकोलिकायामपि दुग्धिकायां पयोहिते वाच्यसमानलिङ्गा ॥ ८४ ॥ भवेदहल्याप्सरसां विशेषे ;l{7495} [42b]स्याद्गोतमस्यापि मुनेः कलत्रे । पत्न्यां द्वितीया तिथिभेदके च द्वयोः पुनः पूरणकेऽन्यवत्स्यात् ॥ ८५ ॥ नादेयी नारङ्गे भूजम्ब्वां स्याज्जपायां च । जलवेतसे च कङ्गौ नदीभवे वाच्यलिङ्गा स्यात् ॥ ८६ ॥ ;vv{चतुर्याः} ;c{चतुर्याः ।} ;l{7500} पश्चात्तापेऽनुशयोऽनुबन्धविद्वेषयोस्तद्वत् । उपशय उक्तः स्थाने वधेऽन्तिके रोगशान्तौ च ॥ ८७ ॥ परिधायोऽम्भःस्थाने परिच्छदे स्यान्नितम्बे च । समुदय आजौ वृन्दे समुपक्रमवाचकश्चापि । प्रतिश्रयस्त्वाश्रयसंसदोः स्या- ;l{7505} त्समुच्छ्रयस्तूच्छ्रयके विरोधे । हिरण्मयः स्यादिह लोकधातौ विशेष्यवद्धेममये प्रदिष्टः ॥ ८२ ॥ शीते त्ववश्यायमुशन्ति गर्वे वृन्दे च युद्धे समुदाय उक्तः । ;l{7510} स्यात्संपरायः समरे विपत्तौ तथायतौ चाथ निरामयः स्यात् ॥ ८३ ॥ वार्ते तथा वीतगदे विशेष्ये समाह्वयो द्यूतविधौ हयाद्यैः । रणे, विहारे तु महालयः स्या- ;l{7515} त्तीर्थे[43a]परात्मन्यपि संप्रदिष्टः ॥ ८४ ॥ ;p{0300} स्याद्रौहिणेयो बुधवत्सकाम- पालेष्वथ स्यात्पुरुषाधिकारे । पुंसां समूहे च वधे कृतेऽपि स्यात्पौरुषेयं च पदान्तरेऽपि ॥ ८५ ॥ ;l{7520} स्याद्भागधेयोऽयुजि राजभागे शुभेऽन्तिमे चाथ बिलेशयोऽहौ । आखावुशीरे तु जलाशयं स्या- त्तोयाश्रये पुंसि बुधैः प्रदिष्टः ॥ ८६ ॥ चन्द्रोदयस्त्वौषधिभिद्विताने ;l{7525} फलोदयः स्यात्त्रिदिवे च लाभे । महोदयं पुंसि न कन्यकुब्जे मोक्षे पुमान्स्याच्च तथाधिपत्ये ॥ ८७ ॥ स्थूलोच्चयो गण्डदृषद्वरण्डा- साकल्यमध्येभगतेषुदिष्टः । ;l{7530} धनञ्जयोऽग्नौ ककुभेऽर्जुने च देहानिले स्याद्भुजगान्तरे च ॥ ८८ ॥ स्याद्दक्षिणे च प्रतिकूलकेऽ प- सव्यं विशेष्येऽप्यथ तण्डुलीयः । शाकान्तरे ताप्यकृमिघ्नयोश्चा- ;l{7535} थो केतकीये च फले च मल्ल्याम् ॥ ८९ ॥ प्रोक्तं प्रवीणैस्तृणशूल्यमन्त- शय्या तु भूमीशयने श्मशाने । मृतावथ[43b]स्यादुपकारिकायां तथोपकार्या त्रिषु यौगिकेऽर्थे ॥ ९० ॥ ;l{7540} मार्जालीयः स्मृतः शूद्रे बिडाले कायशोधने । ;vv{पञ्चयाः} ;c{पञ्चयाः ।} दुग्धतालीयमाम्नातं दुग्धाग्रे दुग्धफेनके । त्रिषु प्रवचनीयः स्यात्प्रवाच्ये च प्रवक्तरि ॥ ९१ ॥ ;p{0301} कालानुसार्यं तगरे शिलाजे स्याच्छिंशपायामपि चान्त्यलिङ्गम् । ;l{7545} वृषाकपायी तु हरिप्रियायां जीवन्त्युमानाम्नि शतावरौ च ॥ ९२ ॥ ;vv{षड्याः ।} ;c{षड्याः ।} धौतांशुकद्वये प्रत्युद्गमनीयस्तथा गतौ । अर्हो श्रीत्रायमाणार्थे विष्वक्सेनप्रिया भवेत् ॥ ;c{॥ इति यान्ताः ॥} ;v{रान्ताः} ;vv{एकराः} ;c{एकराः ।} रः पावके रागसमीरयोः स्या- ;l{7550} च्छब्देऽथ तीक्ष्णे परवत्प्रदिष्टः । रास्तु द्वयोः स्याद्धनहेममेघे- रुः स्याद्भये रक्षणवाचकश्च ॥ ९४ ॥ स्रुस्तु स्रुवे निर्झरवाचकोऽपि द्रूः कामरूपिण्यपि काञ्चने च । ;l{7555} श्रीरिन्दिरावेषसरस्वतीषु संपत्तिशोभारचनात्रिवर्गे ॥ ९५ ॥ बिल्वद्रुमे स्या[44a]त्सरलद्रुमेऽपि परिच्छदे धूस्तु सुरापगायाम् । भारेऽपि यानस्य मुखेऽपि सा स्या- ;l{7560} त्स्त्रियां तु पूः पत्तनदेहयोश्च ॥ ;vv{द्विराः} ;c{द्विराः ।} अरं तु चक्रे चरमे द्रुतार्थे ॥ ६ ॥ तच्छीघ्रगेन्यत्र जिने च पुंसि ॥ ;p{0302} अरिस्तु शत्रौ चरमे तु चक्रे करस्तु वर्षोपलपाणिवाची । ;l{7565} मयूखशुण्डानृपदेयभागे चरः स्पशे जङ्गमके चले च ॥ ९७ ॥ द्यूतान्तरे चाथ नरस्तु मर्त्ये ऽर्जुने तथाजेऽवरसारकेऽन्त्ये । खरो भवेद्रासभदेवताडे ;l{7570} तिग्मेऽन्यवच्चाथ गरो गदे स्यात् ॥ ९८ ॥ विषे तथा चोपविषे द्वयोनं पुनर्मतोऽसौ गरणे सुधीभिः । चारश्चरे स्याच्च पियालवृक्षे **ऽथ षण्ढं कृतके विषे स्यात् ॥ ९९ ॥ ;l{7575} परस्त्वनात्मोत्तमवैरिदूरे स्यात्केवले चापि विशेष्यलिङ्गः । भरस्तु भारेऽतिशये वरस्त्व- भीष्टे सुरादेर्दुहितुश्च पत्यौ ॥ १०० ॥ [44b] षिङ्गेऽन्यवत्तूत्तमवाचकोऽथ ;l{7580} स्यात्केसरेन्त्ये परिवर्त्तने वा । फलत्रये स्याच्च वरा वरी तु शतावरीनाम्नि तथाव्ययं तु ॥ १ ॥ मनागभीष्टेऽथ सरोऽपि बाणे मुक्तादियष्टौ च तथाग्रभागे । ;l{7585} दध्नोऽन्यवद्विह्वरणे [द्व]येऽथ स्वरोऽक्षु चोदात्तमुखेषु शब्दे ॥ २ ॥ नासानिले मध्यमपञ्चमादौ शरोऽस्त्रियां तेजनके च काण्डे । ;p{0303} दध्यग्रके वारिणि तु द्वयोने ;l{7590} धरस्तु शैले कमठाधिपे च ॥ ३ ॥ कार्पासके स्यादपि कूलके च स्त्रियां तु गर्भाशयभूमिवाची । मेदस्यथाम्भोमुचि च क्षरः स्या- न्नीरेऽन्तिमेऽथ त्रिषु रन्ध्रभीत्योः ॥ ४ ॥ ;l{7595} दरी पुनः कन्दरवाचिका स्या- दथेषदर्थे दरमव्ययं च । क्षुरश्छिदावस्तुनि कोकिलाक्षे त्रिकण्टकेऽथ त्रितये पुरं स्यात् ॥ ५ ॥ स्यात्पत्तने पाटलिपुत्रके च ;l{7600} गृहोर्ध्वगेहे नरि गुग्गुलौ स्यात् । क्लीबे तु देहे च पुराव्ययं स्यात् खुरः पुनः कोलदले शफे च ॥ ६ ॥ देवे सुरः स्त्रीचषके च [45a]मद्ये सुरी तु देवप्रमदार्थिका स्यात् । ;l{7605} कारस्तु यत्ने च यतौ वधे च बलौ हिमाद्रावपि निश्चयार्थे ॥ ७ ॥ प्रसेवके बन्धगृहे च दूत्यां स्त्रीकारिकायां चरमे तु हेम्नि । पारं परस्मिंश्च तटे समाप्तौ ;l{7610} प्रान्ते च न स्त्री गदितं स्त्रियां तु ॥ ८ ॥ पात्र्यां परागे गजपादरज्ज्वां स्यात्कर्करीपूरगतं तथैव । वारस्तु सूर्यादिदिने समूहे द्वारे तथैवावसरे च न स्त्री ॥ ९ ॥ ;p{0304} ;l{7615} ना कुब्जवृक्षे गिरिशेऽथ षण्ढे मद्यस्य पात्रे परिकीर्तितश्च । मुक्तादिशुद्धौ तरणे च तारः सन्मौक्तिके भे तु कनीनिकायाम् ॥ १० ॥ त्रये द्वयोनो रजते स्त्रियां तु ;l{7620} स्याद्बुद्धदेव्यां धिषणाङ्गनायाम् । सुग्रीवनार्यां परवत्पुनः स्या- दुच्चस्वरे भप्रभवेऽपि तद्वत् ॥ ११ ॥ अयानयीने च वराटके च स्यात्प्रासकेऽपि द्वितये च शारः । ;l{7625} समीरणे ना शबले [बले] च द्रव्ये तु चित्रे परवत्प्रदिष्टः ॥ १२ ॥ हेम्नः पलानामयुतद्वये स्या- द्भारस्तुलानामपि विंशतौ [45b] च । स्याद्वीवधेऽथो मरके स्मरे च ;l{7630} वृषेऽपि मारो गदितोऽथ चण्ड्याम् ॥ १३ ॥ जनक्षये स्त्री, विकटे तु भेद्ये ना बुद्बुदे स्यात्करकादिकस्य । स्फारोऽथ काचे लवणे च धूर्त्ते रसान्तरे क्षारमुशन्ति पुंसि ॥ १४ ॥ ;l{7635} मुक्तावलौ स्यात्समरे च हारो द्वयोरथारः क्षितिजेऽर्कजे वा । स्त्रियां पुनश्चर्मविभेदिकायां धारासु षण्ढे द्विषतां गणे स्यात् ॥ १५ ॥ नारं तु नीरे कनकेऽथ सारो ;l{7640} बले स्थिरांशेऽपि च मज्ज्नि पुंसि । ;p{0305} न्याय्ये च नीरे द्रविणे च षण्ढे वरे पुनर्वाच्यसमं वदन्ति ॥ १६ ॥ द्वारं पुनर्निर्गमनेऽभ्युपाये पूरोऽम्बुवृद्धौ व्रणशोधने च । ;l{7645} खाद्यान्तरे स्त्री, कठिने तु घोरे क्रूरो नृशंसेऽपि च वाच्यलिङ्गः ॥ १७ ॥ स्तः शूरसूरौ तरणौ सुयोधे चोरः पुमांस्तस्करचोरकेषु । स्थूरो नृलिङ्गो नरमात्रवाची ;l{7650} हयस्थपश्चान्नलिकागतः स्त्री तीरः पुमान्रङ्ग इषु प्रभेदे तीरं तटे च प्रवदन्ति सन्तः ॥ १८ ॥ सीरो रवौ पुंस्यथ लाङ्गलेऽस्त्री चीरं तु चूडांशु[46a]कगोस्तनेषु । ;l{7655} स्यात्सीसके स्त्री त्वपि झिल्लिकायां कच्छाटिकायामपि लेखभेदे ॥ १९ ॥ स्वैरः स्वतन्त्रे परवच्च मन्दे जीरोऽस्त्रियां स्याज्जरणे कृपाणौ । क्षीरः समुद्रे च महीधरे च ;l{7660} षण्ढे तु दुग्धे सलिले प्रदिष्टम् ॥ २० ॥ कीरः शुके स्यादपि देशवाची गौरस्तु पीतारुणपाण्डुरेषु । शुद्धे च वाच्ये सितसर्षपाष्ट- वर्षातनूजेन्दुषु संप्रदिष्टः ॥ २१ ॥ ;l{7665} स्यात्केसरेऽन्त्ये गिरिजारजन्योः पिङ्गाप्रियङ्गुक्षितिरोचनासु । स्त्रियामसञ्जातरजःकुमार्यां सरिद्विशेषे वरुणस्त्रियां च ॥ २२ ॥ ;p{0306} पौरः पुरोत्थे त्रिषु कत्तृणेऽन्त्ये ;l{7670} वेरं तु वातिंगणदेहयोः स्यात् । काश्मीरके ना तु हरेऽस्ति घोरो भीमेऽन्यवद्ध्रस्वहये तु टारः ॥ २३ ॥ तुरङ्गमात्रेऽप्यथ लग्नराश्य- र्द्धयोश्च रेखाभिदि चात्र होरा । ;l{7675} हीरस्तु वज्रे समरे स्त्रियां तु हरिप्रियायां च पिपीलिकायाम् ॥ २४ ॥ गोत्रो धरे स्याद्भुवि गोसमूहे स्त्रियामथान्त्ये कुलनामहृत्सु । क्षे[46b]त्रे वने वर्त्मनि तद्वदेव ;l{7680} संभावनीयस्य च बोधनेऽपि ॥ २५ ॥ गात्रं तु देहेऽवयवे गजस्य जङ्घादिभागे नरलिङ्गहीनम् । पत्रं तु न स्त्री शरपक्षिपक्षे पर्णे तथा वाहन[ना]म्नि शस्तम् ॥ २६ ॥ ;l{7685} पात्रं त्रये तीरयुगान्तराले ऽमत्रे च योग्ये चरमे तु वर्णे । नाट्याधिकारिण्यपि राजमन्त्रि- ण्यपि स्रुवादौ निगदन्ति तादृक् ॥ २७ ॥ पोत्रं तु वस्त्रे किटिलाङ्गलस्या- ;l{7690} ग्रकेऽथ चित्रं तिलकेऽन्तरिक्षे । आलेख्यकिर्मीरकविस्मयेषु त्रये तु किर्मीरिणि विस्मिते च ॥ २८ ॥ भे तु द्वयोः स्त्री तु नदीविभेदे दन्तीसुभद्रासुरवारुणीषु । ;l{7695} मायाखुपर्ण्योरपि चाप्सरस्सु चैत्रं तु चैत्ये मृतकस्य दिष्टम् ॥ २९ ॥ ;p{0307} मासेऽद्रिभेदे च पुमानथ स्याद् वृत्रो रिपौ दानवशक्रयोश्च । ध्वान्ते घने पर्वतवाचकोऽथ ;l{7700} सत्रं वने वाससि कैतवे च ॥ ३० ॥ सदाप्रदाने च मखेऽथ सूत्रं स्यात्सूचनाग्रंथकतन्तुवाचि । न स्त्री च मित्रं तु युगे न सख्यौ भासां निधौ[47a]पुंसि वदन्ति सन्तः ॥ ३१ ॥ ;l{7705} ग्रन्थे निदेशे च वदन्ति शास्त्रं मात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् । स्त्री त्वक्षरस्यावयवे तथाल्पे परिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥ स्याद्वृत्तमानेऽथ युगे न शस्त्रं ;l{7710} लोहास्त्रयोः स्याच्छुरिकासु योषित् । अस्त्रं तु चापे प्रहृतौ च खड्गे वक्त्रं मुखे वृत्तविशेषकं स्त्री ॥ ३३ ॥ नेत्रं तु न स्त्री नयने च वस्त्र- भेदे द्रुमूले रथवस्तिनाड्योः । ;l{7715} मथो गुणेऽन्यत्र तु नेतृवाची क्षेत्रं तु केदारशरीरयोः स्यात् ॥ ३४ ॥ कलत्रसिद्धस्थलयोरथ स्या- द्रेत्रं च रेतःपटवासयोश्च । पीयूषके सूतकवाचकं च ;l{7720} मन्त्रस्तु वेदान्तरवाचकः स्यात् ॥ ३५ ॥ प्रसादनायामपि देवतादेः स्याद्गुप्तवादेऽप्यथ तोत्रमाहुः । स्याद्वेणुकप्राजनयोरथ स्या- त्तन्त्रं कुटुम्बस्य कृतौ च हेतौ ॥ ३६ ॥ ;p{0308} ;l{7725} इतिक्रियायां परिवारशास्त्रे प्रधानसिद्धान्त * भेषजेषु । स्याद्वेदशाखाभिदि तन्तुवाये स्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥ स्त्रियां तु वीणागुणदेहयोः स्या- ;l{7730} त्तथा शिरायां च गुडूचिकायाम् । छत्रं त्रयेऽप्यातपवारणे स्या- न्मिस्यां शिलीन्ध्रेऽपि च धान्यके स्त्री ॥ ३८ ॥ चक्रस्तु कोके निकरे तु न स्त्री रथाङ्गसैन्येष्वपि राष्ट्रके च । ;l{7735} स्याद्ग्रामजालेऽपि कुलालभाण्डे दम्भान्तरेऽस्त्रे सलिलभ्रमे च ॥ ३९ ॥ चुक्रं तु न स्त्री किल वेतसाम्ले ऽम्लव्यञ्जने योषिति लोणिकायाम् । वृक्षाम्लकेऽन्त्येऽप्यथ शुक्र आद्ये ;l{7740} काव्ये सिते योगभिदि प्रदिष्टः ॥ ४० ॥ न स्त्री तु मासान्तरपावकार्थो रूप्येऽक्षिरोगे चरमे च धातौ । द्वन्द्वे न शक्रस्तु शचीपतौ स्या- त्तथार्जुनद्रौ कुटजे च दिष्टः ॥ ४१ ॥ ;l{7745} नक्रस्तु कुम्भीरकवाचको ना क्लीबेऽग्रदारुण्यपि नासिकायाम् शनैश्चरे वक्रमुशन्ति पुंसि क्लीबं न ते स्यात्पुटभेदके च ॥ ४२ ॥ क्रूरेऽन्यवत्स्यात्कुटिलेऽप्यथाग्र- ;l{7750} मालम्बने स्यान्निकरेऽधिके च । ;p{0309} प्रान्ते पुरस्तादुपरि प्रधाने- ऽप्याद्ये तथा[48a]र्द्धे च पलप्रमाणे ॥ ४३ ॥ क्षत्रात्तु शूद्रातनये तथोग्रः शम्भौ च नाथोत्कटकेऽन्यलिङ्गः । ;l{7755} स्त्री छिक्किकायां च तथा वचायां व्यग्रोऽन्यवद्व्यापृत आकुले च ॥ ४४ ॥ भद्रो हरे स्याद्वृषभे च मेरु- कदम्बके वारणजातिभेदे । स्याद्रामदूतेऽपि च खञ्जरीटे ;l{7760} श्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥ स्त्रियां तु रास्नासुरनिम्नगार्थो- ऽनन्ताकणाकट्फलवाचकः स्यात् । तिथौ च विष्टौ चरमे तु हेम्नि कल्याणमुस्तार्थ[क]ईरितश्च ॥ ४६ ॥ ;l{7765} क्षुद्रोऽधमः क्रूरदरिद्रवाची त्रयेऽल्पके स्त्री तु नटीबृहत्योः । पुराङ्गनायां मधुमक्षिकायां व्यङ्गासु हिंस्रास्वपि लोणिकासु ॥ ४७ ॥ स्यात्कण्टकार्यामपि मक्षिकायां ;l{7770} क्षौद्रं जले स्यान्मधुनि द्वयोनम् । अज्रोऽन्यवद्गन्तरि नायकेऽथ वध्रो द्वयोश्चार्मणरज्जुवाची ॥ ४८ ॥ सीसेऽस्त्रियां पक्षिभिदीह गृध्रो विशेष्यवत्स्याद्धनलुब्धके च । ;l{7775} रोध्रो भवेच्छाबरके च षण्ढे पापे च मन्तौ[48b] विहगेऽपि जिव्रिः ॥ ४९ ॥ नीध्रं तु चन्द्रेऽथ वलीकनेमि- रेवत्यरण्येषु नपुंसके स्यात् । ;p{0310} राष्ट्रोऽस्त्रियां स्यादुपवर्तनोप- ;l{7780} द्रवार्थकेऽप्यंहसि कष्टके च ॥ ५० ॥ कृच्छ्रं तथा सान्तपनादिकेऽस्त्री चन्द्रस्तु कम्पिल्लहिमत्विषोर्ना । जले तु षण्ढे घनसारहेम्नो- र्न स्त्रीन्द्र आदित्यशचीशयोः स्यात् ॥ ५१ ॥ ;l{7785} तथान्तरात्मन्य[पि] योगभेदे फणिज्जके योषिति संमतोऽयम् । क्लिन्ने तथार्द्रस्त्रिषु भे पुनः स्त्री सान्द्रं त्वरण्ये च घने मृदौ च ॥ ५२ ॥ गुन्द्रः पुमांस्तेजनके स्त्रियां तु ;l{7790} स्याद्भद्रमुस्तासु तथा प्रियङ्गौ । स्यान्मुस्तके चाथ रसान्तरे ना रौद्रोऽन्यवद्भीषणतीव्रवाची ॥ ५३ ॥ स्त्रियां पुनः षण्मुखमातरि स्या- त्तीव्रं नितान्ते त्रिषु तीक्ष्णकट्वोः । ;l{7795} स्त्री गण्डदूर्वाकटुकासुरीषु तृप्रः पुरोडाशगतः पुमान्स्यात् ॥ ५४ ॥ क्लीबे तु काष्ठे च घृते च दुःखे- ऽथौड्रो जने स्यादपि देशभेदे । जपातरौ पुण्ड्रमुशन्ति दैत्य- ;l{7800} [49a]भेदेऽतिमुक्तेक्षुविशेषयोश्च ॥ ५५ ॥ चित्रे कृमौ देशविशेषके च स्यात्पुण्डरीकेऽप्यथ वज्रमस्त्री । स्याद्धीरके चाप्यशनावथाद्ये योगान्तरे बालक आमलक्याम् ॥ ५६ ॥ ;l{7805} स्नुह्यां तु वज्रापि गुडूचिकायां स्नुह्यन्तरेऽपि प्रथिता * वज्री । ;p{0311} शुल्बे तु ताम्रं परगाम्यरुणे स्या- दस्रस्तु कोणेऽपि कचेऽथ रक्ते ॥ ५७ ॥ षण्ढे तथा चाश्रुणि दस्र आद्ये ;l{7810} खरेऽश्विनोर्वासरहिंस्रयोस्तु । घस्रोऽथ वाश्रोऽह्नि खरे पिके च चतुष्पथेऽन्त्ये सदने तथैव । स्त्री प्रस्नुतायां गवि शब्दवत्या- मुस्रो वृषे स्यात्किरणे च पुंसि ॥ ५९ ॥ ;l{7815} दभ्रः समुद्रे त्रिषु चाल्पवाची शुभ्रं तु रूप्ये त्रिषु दीप्त-शुक्ले । खिद्रो गदे ना परवद्दरिद्रे- ऽथाभ्रं नभःस्वर्गघनाभ्रकेषु ॥ ५९ ॥ वप्रस्तु तातेऽथ चये च रेणौ ;l{7820} क्षेत्रे तटे च प्रथितः स्त्रियां न । शीघ्रं द्रुते स्यान्नलदेऽपि * * चक्राङ्गके द्वीपिकरञ्जयोस्तु ॥ ६० ॥ व्याघ्रोऽपि र[49b]क्ते उरुबौ स्त्रियां तु निदिग्धिकायां मृगराजजातौ । ;l{7825} हरौ हरेऽग्नौ नकुले च वज्रे मुनौ विलासे नरि बभ्रुरुक्तः ॥ ६१ ॥ स्यात्पिङ्गले वाच्यसमोऽथ शिग्रुः शोभाञ्जने स्त्रीरहितश्च शाके । शरुस्तु कोपे कुलिशे च पुंसि ;l{7830} स्वरुर्मखे यूपकृपाणयोश्च ॥ ६२ ॥ वज्रे शरे चाथ खरुर्हरे स्या- द्दर्पे च दन्ते तुरगे स्त्रियां तु । ;p{0312} पतिंवरायां त्रितये तु पाण्डौ भरुर्हरौ पुंसि हरे च हेम्नि ॥ ६३ ॥ ;l{7835} भर्त्तर्यपि स्यात्तु चरुर्नृलिङ्गो हव्यान्नतद्भाण्डगतः कुरुस्तु । हरे च कूरे नरि राजभेदे पुंभूम्न्यसौ जङ्गलवाचकश्च ॥ ६४ ॥ गुरुर्निषेकादिकरे * ताता- ;l{7840} दिके सुराणामपि मन्त्रिणि स्यात् । विशेष्यवद्दुर्जरकेऽलघिष्ठे पृथौ रुरुर्दैत्यविशेषरङ्क्वोः ॥ ६५ ॥ कारुस्तथा शिल्पिनि कारके च स्याद्विश्वकर्मण्ययमादिलिङ्गः । ;l{7845} पुरुः पुमान्स्वर्नृपभित्परागे प्राज्ये पुरोगे च विशेष्यवत्स्यात् ॥ ६६ ॥ मरुर्गिरौ स्यादपि धन्वदेशे [50a]खात्रं खनित्रे सलिलाशये च । आरुर्द्रुभेदे नरि पिङ्गले च ;l{7850} स्यात्कर्कटे दंष्ट्रिणि च स्त्रियां तु ॥ ६७ ॥ स्यात्कर्करीशाकविशेषयोश्च तथैव चारूरथ पिङ्गले स्यात् । कद्रूस्त्रये स्त्री त्वहिमातृवाची पादे च बुध्ने * पुमानिहाङ्घ्रिः ॥ ६८ ॥ ;l{7855} इन्द्रार्कचन्द्रानिलविष्णुसिंह- यमांशुवाजिप्लवगप्लवेषु । हरे च कीरे नरि लोकभेदे हरिः प्रदिष्टः कपिलेऽन्यलिङ्गः ॥ ६९ ॥ भूरिः पुमान्विष्णुहराब्जभूषु ;l{7860} हेम्न्यन्तिमे प्राज्यगतोऽन्यलिङ्गः । ;p{0313} गिरिस्तु ना पक्षधराक्षिरुक्षु गुडेरके स्त्री तु स गीर्णिवाची ॥ ७० ॥ पूज्येऽन्यवत्स्यादथ राज्ञि पुंसि नदीपुरोः स्त्री च पुरिः प्रदिष्टः । ;l{7865} शिरिः पुमान्स्याच्छलभे शरारौ विशेष्यवद्वारि तु बालकेऽन्त्ये ॥ ७१ ॥ तोये स्त्रियां वाग्गजबन्धभूमी- घटीषु शारिस्तु पुमान्प्रदिष्टः । द्यूतार्थमूर्त्तिष्वथ योषिति स्या- ;l{7870} च्चित्रेक्षणायां(?) व्यवहारभेदे ॥ ७२ ॥ साङ्ग्रामिके[50b]पल्ल्ययने गजानां कारिः क्रियायां गदिता स्त्रियां च । विशेष्यवच्छिल्पिनि सा प्रदिष्टा हारिः स्त्रियां पान्थवनौ( ? )च भङ्गे ॥ ७३ ॥ ;l{7875} द्यूतेऽद्रयस्तु द्रुमशैलसूर्या ऐन्द्रिर्जयन्तेऽपि च वायसे च । शद्रिर्गजाम्भोधरजिष्णुवाची निद्राप्रमीलासु तु तन्द्रि-तन्द्रे ॥ ७४ ॥ वङ्क्र्यन्तिमे वाद्यविशेषपार्श्वा- ;l{7880} स्थिगं तथा दारुणि मन्दिरस्य । क्षेत्रे तु वप्रिः प्रमदाह्वये स्त्री धात्री जनन्यामलकीमहीषु ॥ ७५ ॥ उष्ट्री करभ्यामपि गोलिकायां क्रोष्ट्री भवेत्क्षीरविदारिकायाम् । ;p{0314} ;l{7885} स्याल्लाङ्गलीफेरवयोषितोश्च तरीस्तरण्यां पिटके दशासु ॥ ७६ ॥ जारो भवेच्चोपपतौ स्त्रियां तु स्याद्यावनाले मुदि मद्रमन्त्ये । देशे पुमान्स्याद्विबुधैस्त्विरोक्ता ;l{7890} कादम्बरीवाग्वसुधासुधासु ॥ ७७ ॥ स्थिरा तु मह्यामपि शालपर्ण्यां स्थिर[51a]स्तु मोक्षे त्रिषु निश्चले स्यात् । धारा तु सैन्याग्रिमभागवाजि- गतिप्रभेदद्रववस्तुपाते ॥ ७८ ॥ ;l{7895} खड्गादिकानां निशिते मुखे च पुमान्घनासारकवर्षणर्णे । वीरस्तु शूरे चरमे तु शृङ्ग्यां नते स्त्रियां क्षीरविदारिकायाम् ॥ ७९ ॥ स्यादेलवालुन्यपि दुग्धिकायां ;l{7900} गम्भारिकाक्षीरवयःस्थयोश्च । मद्ये च रम्भापतिपुत्रवत्योः स्यात्तामलक्यां परवत्तु मान्ये ॥ ८० ॥ यात्रा गतौ यापनदेवपूजो- त्सवेऽथ हिंस्रस्त्रिषु घातुके स्यात् । ;l{7905} काकादनीमांसिकयोः स्त्रियां स्यात् धीरोऽसुरे ना त्रिषु धैर्यभाजि ॥ ८१ ॥ ;vv{त्रिराः} ;c{त्रिराः ।} सुपर्वसु स्यादमरोऽपि वज्र- द्रुमेऽस्थिसंहारक औषधौ च । दूर्वामृताधारणदेवपूःषु ;l{7910} स्त्रियामथ स्यादपरं न पुंसि ॥ ८२ ॥ ;p{0315} पश्चाच्छरीरे करिणां स्त्रियां तु भवेज्जरायौ चरमेऽधुनार्थे । आर्वाग्भवे भेद्यसमं वदन्ति दन्तच्छदे पुंसि तथाधरः स्यात् ॥ ८३ ॥ ;l{7915} अनूर्ध्व[51b]हीने परगोऽध्वरस्तु स्यात्सावधाने वसुभिन्मखार्थः । अस्त्र्यन्तरं रन्ध्रविनावकाशा- न्तरात्मभेदावधिमध्यवाचि ॥ ८४ ॥ बहिःपरीधानतदर्थतासु ;l{7920} स्वीये तथा चावसरेऽपवृत्त्याम् । त्रयेऽवरं स्याच्चरमार्थकेऽन्त्ये जङ्घादिदेशे करिणां स्त्रियां तु ॥ ८५ ॥ भवेद्भवान्यां नरि तूत्तरः स्या- द्विराटपुत्रे दिशि योषिति स्यात् । ;l{7925} भवेद्द्वयोनः प्रतिवाक्यवाची- तरोऽन्यनामा त्रिषु पामरे च ॥ ८६ ॥ अस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- ;l{7930} वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ अर्चेय( ? )संतत्यभिधानवाची- श्रेष्टेऽन्यवत्स्याच्छबरस्तु पुंसि । शंभौ च चाण्डालकजातिभेदे क्लीबे तु तोयेऽथ निशाचरे स्यात् ॥ ८८ ॥ ;l{7935} पुंस्यूर्दरो वीरगतोऽपि दिष्टो मुनौ तु शौण्डे मठरस्तथैव । स्यादम्बरं वाससि चान्तरिक्षे कर्पासके स्याच्च सुगन्धभेदे ॥ ८९ ॥ ;p{0316} स्याच्छम्ब[52a]रो दैत्यमृगाद्रिमत्स्य- ;l{7940} लोकान्तरेष्वम्भसि तु द्वयोनः । वित्ते च बौद्धव्रतभेदके स्त्री तथौषधौ स्यात्प्रखरस्तु पुंसि ॥ ९० ॥ स्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । ;l{7945} शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ माणिक्यखण्डेऽपि सुदाडिमाभे ऽथो विष्टरः पुंसि महीरुहे स्यात् । अस्त्र्यासने स्यादपि दर्भमुष्टौ ;l{7950} मूर्खे शठे स्याद्वठरश्च वस्त्रे ॥ ९२ ॥ त्रय्यां कठोरे पिठरस्तु दण्डे मन्थोखयोः स्यात्त्रिषु मुस्तके च । कुक्षौ तु न स्त्री जठरोऽन्यवत्तु बद्धे कठोरे च बुधैः प्रदिष्टः ॥ ९३ ॥ ;l{7955} करीरकोशेऽपि च तालपत्रे स्याद्वण्ठरच्छिन्नकरेभ्यवच्च । छदे कपाटेऽप्यररं रणे च करीरवृक्षे कुररः खगे च ॥ ९४ ॥ दीने तथा स्यात्क्रकचेऽथ बाल- ;l{7960} पत्रे सिते स्यात्कदरो गदेऽपि । कार्पासिकायां बदरं च कोल्यां फले तयोर्बादरमीरितं ज्ञैः ॥ ९५ ॥ [52b]विष्णुक्रान्तौषधावेलापर्ण्यां च बदरं मता । प्रदरो ना भूविदारे स्त्रीरोगे भङ्गबाणयोः ॥ ९६ ॥ ;l{7965} यादोविशेषे मकरो निधौ च राशिप्रभेदे निकरस्तु सारे । ;p{0317} सङ्घे तथा न्यायगते च वित्ते ऽथो शीकरः स्त्री न कणे जलस्य ॥ ९७ ॥ विशेष्यवत्स्याच्छबलेऽथ कीर्ण- ;l{7970} पुष्पादिषु स्यात्प्रकरो गणेऽपि । स्याच्चत्वरेऽस्त्री किल जोङ्गकेऽन्त्ये ऽथो विस्तरो विस्तरणे पदानाम् ॥ ९८ ॥ तथा प्रपञ्चे प्रणयेऽप्यथ स्या- न्ना संस्तरोऽपि प्रसरे मणौ च । ;l{7975} मखे शिलायामपि दर्भमुष्टौ स्यात्प्रस्तरोऽथो टगरः प्रदिष्टः ॥ ९९ ॥ हेलाविलासस्य च गोचरे स्यात् क्षारे तथा शृङ्गत( ? )संज्ञके च । स्यात्केकराक्षे परलिङ्गगामी ;l{7980} लोष्टादिभेदिन्यपि मुद्गरः स्यात् ॥ २०० ॥ मल्लीविभेदे द्वितयेऽथ युद्धे कुक्षौ तथान्त्येऽप्युदरं वदन्ति । जवे प्रणीतौ प्रसरश्च युद्धे ऽथो मत्सरत्वे रुषि मत्सरः स्यात् ॥ १ ॥ ;l{7985} स्त्री मक्षिकाया[53a]मपि भम्भराल्यां द्वेषेऽन्यभूतेः कृपणेऽन्यवत्स्यात् । सङ्घे प्रसृत्यां विसरोऽथ रन्ध्रे स्यात्कोटरोऽन्त्ये कुहरोऽथ पुंसि ॥ २ ॥ नागे च रागे दहरस्तु नाखौ ;l{7990} स्वल्पे तथा भ्रातरि बालके च । स्याच्चामराभश्चमरो द्विलिङ्गो मृगप्रभेदेऽपि च मञ्जरीषु ॥ ३ ॥ प्रकीर्णकेऽन्त्ये भ्रमरस्तु भृङ्गे द्वयोरभीके त्रिषु जर्जरोऽन्त्ये । ;p{0318} ;l{7995} शक्रध्वजे शैवलके तथैव जरत्तरे तु त्रिषु संप्रदिष्टम् ॥ ४ ॥ स्याज्झर्झरोऽस्त्री कलिकालवाची वाद्यप्रभेदे च नदान्तरे ना । अङ्गारके ना रुधिरोऽथ रक्ते- ;l{8000} ऽन्त्येकुङ्कुमेऽग्नौ तु तथेषिरः स्यात् ॥ ५ ॥ आहारके चाथ गजेन्दुवाची स्याच्चन्दिरोऽथो मुदिरः पयोदे । क्रमेऽथ सूर्ये मिहिरश्च बुद्धे- ऽभीकाज्ञयोः स्यान्मुहिरस्तथैव ॥ ६ ॥ ;l{8005} न मन्दिरं ना सदने पुरेऽन्त्ये पुमान्समुद्रे विवरं तु गर्त्ते । स्याच्छिद्ररन्ध्रप्रतिमं च दोषे पूगे पुमान्स्यात्खपुरोऽलसेऽपि ॥ ७ ॥ स्याद्भद्रमुस्तासु घ[53b]टे तु षण्ढे ;l{8010} द्वारे पुरद्वारि च गोपुरं च । स्यान्मुस्तकेऽथो चिकुरः शिरोजे भुजङ्गमे ना गृहबभ्रुकेऽपि ॥ ८ ॥ खगद्रुभेदे च गिरौ चले तु विशेष्यगः स्यादथ चाङ्कुरोऽपि । ;l{8015} रथे तरौ योषिति नाङ्कुरः स्या- दङ्कूरवद्रोम्णि जले च रक्ते ॥ ९ ॥ नवप्ररोहेऽप्यथ कुक्कुरः स्या- दरालपुच्छे शुकबर्हकेऽन्त्ये । कुलालदण्डे बकुलद्रुमे च ;l{8020} स्याद्दर्पणे ना मुकुरोऽपि तद्वत् ॥ १० ॥ मल्लीप्रसूनेऽप्यजिरं तु न स्त्री कायेऽङ्गनेऽन्त्ये नरि दर्दुरे स्यात् । ;p{0319} स्यादाशिरश्चाशरवद्धुताशे निशाचरेऽर्के शिशिरस्त्वृतौ ना ॥ ११ ॥ ;l{8025} शीतेऽन्यवत्स्याद्वशिरः किणिह्यां शिन्धूद्भवे चेभकणासु न स्त्री । स्यान्मूषके ना शुषिरोऽन्तिमे तु वंश्यादिवाद्ये विवरेऽपि तद्वत् ॥ १२ ॥ नल्यौषधौ स्त्री छिदिरस्तु वह्नौ ;l{8030} खड्गे कुठारे नरि रज्जुगोऽपि । ना वालपत्रे खदिरः सुधांशौ स्त्रियां तु शाकस्य विशेष एषः [54a] ॥ १३ ॥ स्याद्दन्तुरो वाच्यगतोऽसमोच्च- दतोरथ स्याद्विदुरोऽपि पाण्डोः । ;l{8035} शूद्रासुते नागरधीरयोश्च निशाचरे स्याद्विथुरश्च चौरे ॥ १४ ॥ पुमाननग्नौ विधुरोऽन्तिमे तु विश्लेषणे स्याद्विकलेऽन्यवच्च । स्त्रियां रसालार्थ[क]एष दिष्टो ;l{8040} रसे विषे स्यान्मधुरो नृलिङ्गः ॥ १५ ॥ स्वादौ प्रिये स्याद्रसभाजि भेषे मेदामधूलीमधुयष्टिकासु । स्त्रियां शताह्वानगरीभिदोश्च मिश्रेयिकायामपि तद्वदेव ॥ १६ ॥ ;l{8045} स्याद्बन्धुरः पुंसि मरालवाची कृमिघ्नबन्धूकगतः स्त्रियां तु । पण्याङ्गनायां परवत्तु रम्ये नम्रे च बन्धूर इवोपदिष्टः ॥ १७ ॥ ;p{0320} स्यात्केशविन्यासपृथग्जनेषु ;l{8050} ना बर्वरो देशविशेषके च । स्त्री फञ्जिकायामपि शाकपुष्पे ना कर्बुरो रक्षसि पापके च ॥ १८ ॥ स्त्री कृष्णवृन्तासु जले तु षण्ढे तथा सुवर्णे शबलेऽन्यवत्स्यात् । ;l{8055} स्यात्कर्परः शस्त्रविशेषवाची न स्त्री कपालेऽपि[54b]कटाहके च ॥ १९ ॥ स्यात्कूर्परो जानुनि वा कफोणौ स्यात्खर्परस्तस्करधूर्तवाची । कपालके भैक्षकभाजने च ;l{8060} मीनान्तरे गर्गरमामनन्ति ॥ २० ॥ स्त्री मन्थनी नामनि घर्घरस्तु चलज्जलध्वाननदान्तरेषु । घूके तुरंगे तुषपावकेऽर्के स्यान्निर्नरो मुर्मर आदिलिङ्गः ॥ २१ ॥ ;l{8065} कामे तुषाग्नौ तरणेस्तथाऽश्वे- ऽथो निर्जरः स्वर्गिणि पुंसि शस्तः । जराविहीने परवत्स्त्रियां तु गुडूचिकायामपि तालपत्र्याम् ॥ २२ ॥ स्याद्दर्द्दरोऽद्रौ त्रिषु चाल्पभग्ने- ;l{8070} ऽथो दर्दुरस्तोयदभेकयोश्च । स्याद्वाद्यभाण्डान्तरकेऽद्रिभेदे ग्रामव्रजे स्त्री पुनरम्बिकायाम् ॥ २३ ॥ वार्दरं दक्षिणावर्तशङ्खाम्भसोः काकचिञ्ची नवे बीजके चान्तिमे । ;p{0321} ;l{8075} दुर्द्धरं दुःखतो धारणीयेऽन्यव- ज्जन्मयोगान्तरे स्त्री पुमान्सारके ॥ २४ ॥ कुञ्जरो न स्त्रियां वारणे स्यात्कचे घातकीवाचकः संमतः स स्त्रियाम् । पञ्जरोऽस्त्री[55a]मतः पक्षिबन्धस्थले ;l{8080} बन्धमात्रेऽप्यथो पिञ्जरं हेमनि ॥ २५ ॥ पुंस्यसौ पीतने वाजिभेदे तथा वर्णभेदे मतस्तद्वति स्यात्त्रिषु । मन्दरो मन्दमन्दारमन्थाचल- स्वर्गसान्द्रार्थकः कन्दरस्तु त्रिषु ॥ २६ ॥ ;l{8085} देवखाते बिले पुंस्यसावङ्कुशे कंधरोऽम्भोधरे स्याच्छिरोधौ स्त्रियाम् । वल्लरं शाद्वले निर्जले च स्थले कुञ्जके क्षेत्रके श्रीतरौ पुंसि सः ॥ २७ ॥ मञ्जरीवाचकस्तु स्त्रियां संमतो ;l{8090} मन्थरः सूचके कोशमन्थानयोः । स्यात्कुसुम्भे * * वाच्यलिङ्गः पृथौ तादृशः संमतो वक्रमन्दाह्वये ॥ २८ ॥ कट्वरस्तक्रके कुत्सिते वाच्यवत् चत्वरं स्थण्डिले चाङ्गनेऽध्वश्लिषि । ;l{8095} कर्बरो द्वीपिनि स्यात्तथा राक्षसे छित्वरश्छेदनद्रव्यधूर्त्तारिषु ॥ २९ ॥ छत्वरो मन्दिरे स्यान्निकुञ्जे तथा- ऽथेत्वरो दुर्विधे नीचके चाध्वगे । क्रूरकर्मण्यपि प्रोच्यते वाच्यव- ;l{8100} त्पीवरः कच्छपे वारिधौ पीव्नि च ॥ ३० ॥ ;p{0322} [55b]तीवरो नाम्बुधौ व्याधवाची तथा जातिभेदेऽप्यथो धींवरो दासके । पण्डिते पण्डितैर्वाच्यवत्कीर्तितः पुष्करं त्वम्बुनि व्योम्नि तूर्यानने ॥ ३१ ॥ ;l{8105} हस्तिहस्ताग्रके द्वीपतीर्थान्तरे वारिजे चौषधेऽसेः फले सायके । पुंसि रागो[रगे]वृष्णिपक्ष्यन्तरे सङ्गरस्तु प्रतिज्ञाक्रियाकारयोः ॥ ३२ ॥ कालकूटापदोरन्त्यलिङ्गे शमी- ;l{8110} जे फले वर्करः स्याद्वयःस्थे पशौ । नर्मभेदेऽप्यथो कर्करो दर्पणे भेद्यलिङ्गस्त्वसौ कीर्तितो ज्ञैर्दृढे ॥ ३३ ॥ पुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । ;l{8115} भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ चतुरश्चातुरो नेत्रगोचरे चाटुकारिणि । चक्रगण्डौ तद्वदुभौ नियन्तरि च संमतौ ॥ ३५ ॥ शम्भौ स्वामिनि मन्मथे च विभवैराढ्ये भवेदीश्वरः ;l{8120} पार्वत्यां गदिता स्त्रियामथ युगेऽस्त्री संशये द्वापरम् । उत्पत्तिस्थलसङ्घसत्तमगतः पुं[56a]स्याकरो भास्कर- स्त्वग्नौ चार्यमणि प्रभाकरसमो ध्वान्ते घने शार्वरम् ॥ ३६ ॥ हिंस्रे वाच्यसमोऽन्तिमे तु विपिने स्याद्दूरशून्येऽध्वनि क्लीबे प्रान्तरमत्र कोटरगतं दुग्धस्य फेने तु ना । ;l{8125} देशे शर्करयान्विते तु परवत्प्रोक्तो बुधैः शार्करो- ऽथोक्ष्णि स्यान्नरि शाक्वरो निगदितं छन्दोविशेषेऽन्तिमे ॥ ३७ ॥ ;p{0323} शुण्ठीमुस्तकयोस्तु नागरमिदं सम्भोगबन्धान्तरे पौरे स्याच्चतुरेऽन्यवद्गतरुजि स्याद्वागरो वारके । शाणे निर्नरके मुमुक्षुबुधयोः स्याद्भ्रामरं प्रस्तरे ;l{8130} क्षौद्रे चाप्यथ पामरस्त्रिषु खले नीचे तथा कीर्त्तितः ॥ ३८ ॥ स्याद्वासरोऽस्त्री दिवसे च नाग- प्रभेदके ना पुनरिक्षुभेदे । कान्तारमस्त्री विपिने सुदुर्गमे मार्गेऽङ्घ्रिधूलौ त्वपि पादरः स्यात् ॥ ३९ ॥ ;l{8135} पदोऽप्यलिन्देऽथ मतोऽर्क्कपर्णे मन्दार उक्तोऽपि च पारिभद्रे । स्याद्देवदारावथ रागभेदे गान्धार उक्तो विषयान्तरे च ॥ ४० ॥ सिन्दूरकेऽन्त्ये[56b]ऽथ जलस्य धृत्या- ;l{8140} माधार आवापक आश्रये च । स्याद्वेगवर्षे च सुहृद्बले स्या- दासार आद्ये गदितः प्रसृत्याम् ॥ ४१ ॥ केदार ईशे च धरालवाल- क्षेत्रप्रभेदेषु बुधैः प्रदिष्टः ॥ ४२ ॥ ;l{8145} धूर्तेऽथ मन्दारतरौ गजेऽथ रणे विदारो नरि दारणे च । स्त्री शालपर्ण्यामपि रोगभेदे तथेक्षुगन्धार्थक ईरितोऽपि ॥ ४२ ॥ रोगे विकारो विकृतावथेङ्गे ;l{8150} व्यापार उक्तो नरि संस्थितौ च । ;p{0324} पुमान्निकारः परिभूतिवाची तथैव धान्योत्किरणे प्रदिष्टः ॥ ४३ ॥ भेदे प्रकारः सदृशे तथा स्या- ट्टङ्कार उक्तोऽद्भुतकुप्रसिद्ध्योः । ;l{8155} मौर्वीध्वनौ स्याच्छरयन्त्रके तु दण्डार उक्तोऽपि कुलालचक्रे ॥ ४४ ॥ मत्तद्विपे स्याद्वहनेऽथ दीने पिण्डार उक्तो नरि निन्दनेऽपि । स्यात्सैरिभीरक्षिति पादपेऽथ ;l{8160} तुषारमस्त्री तुहिने जलस्य ॥ ४५ ॥ कणे सुनारस्तु भुजङ्गभाण्डे स्तन्ये च शून्याः कलविङ्ककेऽपि । शिशौ कुमा[57a]रो युवराजकीर- स्कन्दाश्वचारे वरुणद्रुमे ना ॥ ४६ ॥ ;l{8165} जात्ये सुवर्णे चरमे स्त्रियां तु कुमारिकाशैलसुतानदीषु । सहौषधौ स्याद्वनमालिकायां द्वीपे तथा जम्बुपदोत्तरस्थे ॥ ४७ ॥ आहार उक्तोऽप्यशनक्रियायां ;l{8170} हारे तथैवाहरणे प्रदिष्टः । विहारमस्त्री किल भिक्षुगेहे तथा यतीनां चरणक्रियायाम् ॥ ४८ ॥ तथा विलासे भ्रमणे गुहे ना कुथे कुठारः सुरते तु षण्ढे । ;l{8175} कोट्टार उक्तस्त्रिषु नागरेऽन्धौ स्यात्पुष्करिण्या अपि पाटके च ॥ ४९ ॥ ;p{0325} दासे कडारः कपिलेऽन्यवत्स्यात् संभार ओघे नरि संभृतौ च । केनार उक्तो नरकान्तरेऽपि ;l{8180} शिरःकपालस्थितसन्धिगश्च ॥ ५० ॥ संमार्जन्यवगुण्ठितेऽनलचटत्कारे तथा संकरः स्त्री पुंदूषितकन्यकास्वथ भवेत्पङ्कार आरोहणे । सेतौ शैवलवारिकुब्जकगतः संस्कार उक्तो बुधैः संकल्पप्रतियत्नयोरनुभवेऽथो पक्षिणां पञ्जरे ॥ ५१ ॥ ;l{8185} [57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैः कञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च । कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतो भृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥ अङ्गारस्तु महीसुते नरि न तु स्यादुल्मुके स स्त्रियां ;l{8190} शृङ्गारः सुरतेऽस्त्रियां रसभिदि स्याद्धस्तिनां मण्डने । क्लीबं नागजचूर्णदेवकुसुमे मार्जार ओतौ मतः खट्वाङ्गान्त[र]केऽथ विस्तृतिगतो विस्तार उक्तोऽपि च ॥ ५३ ॥ स्तम्बेऽथ द्विजभेदसूर्यगणयोर्व्यासे तथा माठरो ऽथोद्धारोऽपि समुद्धृतावपि ऋणे रोद्ध्रे पुनः शाबरः । ;l{8195} पापे चाप्यपराधकेऽथ योषिति मतो ज्ञैः शूकशिम्ब्यामयं शारीरस्तु वृषे शरीरजनिते स्याद्वाच्यलिङ्गोपमम् ॥ ५४ ॥ पुमान्करीरः कलशे द्रुभेदे स्त्री चीरिकायां करिदन्तमूले । शौटीर उक्तः सुभटे वदान्ये ;l{8200} किर्मीरमाहुर्नरि नागरङ्गे ॥ ५५ ॥ निशाचरे कर्बुरके[58a]ऽन्यवत्स्या- च्छोणान्तरस्थे पुलिने शणीरम् । ;p{0326} भवेत्तथा दुर्दुरिकातटेऽथ स्यात्प्रस्थपुष्पे नरि जम्बुवृक्षे ॥ ५६ ॥ ;l{8205} जम्बीर उक्तोऽथ शये च पीठे- प्यौशीरमुक्तं चमरे च दण्डे । सौवीरमन्त्ये बदरारनाले स्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥ टङ्के पुष्करमूले घुसृणे काश्मीरमप्यन्ते । ;l{8210} कश्मीरदेशजाते परलिङ्गं चक्षते चतुराः ॥ ५८ ॥ फेने च दाडिमे स्याद्धिण्डीरः स्याच्च डिण्डीरः । वातिङ्गणेऽपि पुरुषे द्वावप्युक्तौ विपश्चिद्भिः ॥ ५९ ॥ चन्दनकन्दुककामे भवति पटीरः क्वचिन्न स्त्री । जघनप्रदेशदर्योः कटीरमन्त्येऽथ पाटीरः ॥ ६० ॥ ;l{8215} वङ्गे च वातिके स्यात्तितउनि धाराधरे तद्वत् । केदारवेणुसारे मुडीरः ( ? ) पुंसि शक्ते च ॥ ६१ ॥ धूसरः पाण्डुरे रासभे पुंस्यसौ कूबरः कुब्जके संमतश्चारुणि । अस्त्रियां स्यन्दनाङ्गान्तरेऽथो वृषे ;l{8220} शृङ्गहीने नरे तूबरोऽश्मश्रुणि ॥ ६२ ॥ व्यञ्जनोने तथा ना कषाये र[58b]से केसरः स्त्री न किञ्जल्कवाची यदि । पुंसि पुंनागके चम्पके शारदे स्याच्च सिंहच्छटावाचकस्तादृशः ॥ ६३ ॥ ;l{8225} गन्तरि पक्षिणि पुंसि पतेरः स्त्री तु करेणुपुराङ्गनयोः स्यात् । पुंसि तरूत्पलसंहतिवाची कृच्छ्रकजीविनि किं च कठेरः ॥ ६४ ॥ ;p{0327} नन्दितरौ धनदे च कुबेरो ;l{8230} ऽथो नकुले द्युपतौ द्युपगोपे । कोटिरमाहुरथो कठिने स्यात् पूर्णगतश्च परत्र कठोरः ॥ ६५ ॥ शिशौ किशोरस्तुरगस्य सूर्ये स्यात्तैलपर्ण्यां तरुणे च बस्ते । ;l{8235} अथागुरुः स्त्री नवशिंशपायां स्याज्ज्योङ्गके ना लघुनि त्रये स्यात् ॥ ६६ ॥ किंकारुर्ना कङ्कपत्रे च कङ्के शूके भार्यारुः पुनः शैलवृक्षे । स्याद्वातायोर्भेदके योऽन्यनार्यां ;l{8240} पुत्रोत्पादी क्रीडया सोऽपि शस्तः ॥ ६७ ॥ तरुवानरौ कुठारू दासेरावुष्ट्रदासिकापुत्रौ । हेम शटी चेति द्वौ कर्चूरौ वर्णयन्त्यार्याः ॥ ६८ ॥ वाशुरो नरि खरेऽथ वासिता- रात्रिगो भवति चै[59a]ष योषिति । ;l{8245} स्यान्नरेन्द्र इह वार्तिकभूप- कालकूटभिषगर्थक उक्तः ॥ ६९ ॥ विद्याधरे रक्षसि रक्षकेलौ महत्यजे पुंसि गणे कटप्रूः । खर्जूर उक्तो नरि वृक्षभेदे ;l{8250} स्याद् वृश्चिके रूप्यकलार्थकोऽन्त्ये ॥ ७० ॥ सिन्दूर उक्तो नरि वृक्षभेदे स्त्री रोचनीलोहितचेलिकासु । महौषधौ रक्तकरेणुकेऽन्त्ये वल्लूरमन्त्ये किल वाहने स्यात् ॥ ७१ ॥ ;p{0328} ;l{8255} तथा वनक्षेत्रक ऊषरे तु वराहमांसे त्रिषु शुष्कमांसे । त्रिष्वेकतानेऽपि निराकुले स्या- देकाग्रमग्नौ द्युपतौ महेन्द्रः ॥ ७२ ॥ जलेन्द्र उक्तो वरुणेऽम्बुधौ च ;l{8260} स्याज्जम्भले देहजलक्षणे तु । सामुद्रमाहुर्लवणेऽब्धिजाते विशेष्यलिङ्गं सुधियो वदन्ति ॥ ७३ ॥ खण्डाभ्रमभ्रस्य च लेश आहुः स्त्रीणां च दन्तक्षतभेदगं स्यात् । ;l{8265} काञ्च्यां कटित्रं कटिगे च वस्त्रे वर्माङ्गके चापि वदन्ति सन्तः ॥ ७४ ॥ शिलीन्ध्रमुक्तं कदलीप्रसूने छत्राकसंज्ञे त्रिपुटाभिधायाम् । मीने द्रु[59b]मे नाथ मृदि स्त्रियां स्या- ;l{8270} द्गण्डूपदीनाम्नि खगीविशेषे ॥ ७५ ॥ तमिस्रं तमःकोपयोः पुंसि हीनं स्त्रियां तत्ततौ कृष्णपक्षस्य रात्रौ । कलत्रं पुनर्दुर्गभूमौ नृपाणां गृहिण्यां करौ पण्डितैरुक्तमेतत् ॥ ७६ ॥ ;l{8275} पवित्रं जले वर्षणे दर्भताम्रे भवेन्न स्त्रियां वाच्यवन्मेध्यवाचि । वृषाङ्के तु सावित्र एष स्त्रियां स्या- द्विशेषे तथा देवताया द्विजानाम् ॥ ७७ ॥ त्वक्पत्रं तु वराङ्गौषधके प्रोक्तं [ स्त्रियां ] च कारव्याम् । ;l{8280} दैत्यारिरिन्द्रहर्योर्मुनिपक्षिभिदोस्तु तित्तिरिः [ प्रोक्तः ] । ;p{0329} स्यान्मन्दुराश्वशाला .... .... .... .... .... .... .... । .... .... .... .... भ्यर्णगवेस्त्वर्थका तद्वत् ( ? ) ॥ ७९ ॥ असुरो दानवरव्योः स्त्री तु रजन्यां तथा वास्याम् । मसुरमसूरौ द्वंद्वे धान्यविशेषे स्त्रियां तु वेश्यायाम् ॥ ८० ॥ ;l{8285} स्त्री शर्करा खण्डविकार उक्ता- श्मीरे ( ? ) तथा कर्परकांशकेऽपि । देशे तथा शर्करिले च खण्डे तथैव रुग्भिद्यपि कीर्तितासौ ॥ ८१ ॥ दुःस्पर्शशट्योरपि शूकशिम्ब्यां ;l{8290} स्यात्कच्छुरा[60a]यामत पुंश्चले तु । भेदेऽथ दर्यामपि नर्मरा स्या- द्भाण्डे मुरायामपि निष्कलासु ॥ ८२ ॥ छन्दोभेदे बालपत्रे च विज्ञै- र्गायत्र्युक्ताथान्यवेश्मस्थितायाम् । ;l{8295} स्वाधीनायां शिल्पकर्त्र्यां स्त्रियां स्यात् सैरन्ध्रीऽति स्यात्तथा जारजायाम् ॥ ८३ ॥ सुन्दर्युक्ता वृक्षयोषिद्विभेदे रात्रौ नार्यां शर्वरीं प्राहुरार्याः । तुम्बर्युक्ता कुक्कुरावार्द्रयोश्च ;l{8300} शक्वर्युक्ता मेखलायां च नद्याम् ॥ ८४ ॥ छन्दोभेदे मञ्जरी स्थूलमुक्ता- वल्लर्योः स्याच्छ्रामदाख्ये च वृक्षे । वासोभेदे मर्मरी पीतदारौ शुष्कानां तु स्याद्दलानां ध्वनौ ना ॥ ८५ ॥ ;l{8305} शाकभिदि केशपाशे कबरी लवणाम्लयोरन्त्ये । स्याद्ददरी च तथोक्तौ वाद्ये चानकं हित्वा ॥ ८६ ॥ ;p{0330} स्याज्झल्लरी च झलरी हुडुक्कवाद्ये च बालचक्रे च । कावेरी तु हरिद्रापण्यवधूसिन्धुभेदेषु ॥ ८७ ॥ ;vv{चतूराः} ;c{चतूराः ।} पर्यङ्के परिवारे प्रगाढगात्रप्रबन्धे च । ;l{8310} आरम्भे च विवेके परिकर उक्तो बुधैर्व्राते ॥ ८८ ॥ व्यसने[60b]च व्यतिषङ्गे व्यतिकर उक्तो विभाकरस्त्वग्नौ । सूर्ये गूथे तु भवेद्गुह्ये चावस्करः पुंसि ॥ ८९ ॥ कर्मकरः कीनाशे वेतनवृत्तौ तथा भृत्ये । मूर्वायामपि बिम्ब्यां स्त्रियामथारुष्करं षण्ढे ॥ ९० ॥ ;l{8315} भल्लातके व्रणकरे विशेष्यलिङ्गं समाम्नातम् । सहचर उक्तो द्वन्द्वे झिण्ट्यां सख्यौ निरोद्धरि च ॥ ९१ ॥ उलूककाकोदरयातुधान- शृगालवाची तु निशाचरः स्यात् । स्त्री पांसुलायामथ यूथतः स्याद् ;l{8320} भ्रष्टे पृथक्चारिणि चापि नागे ॥ ९२ ॥ चन्द्रे तथा पक्षचरोऽथ लोके चराचरं जङ्गम इङ्गिते च । स्वसैन्यभीतावभिमार आजौ वधेऽपि तादृक् प्रथितः प्रवीणैः ॥ ९३ ॥ ;l{8325} दशपुरं पुरि मुस्तकदेशयोः प्रतिसरस्त्रिषु मण्डनमाल्ययोः । करगतेऽपि च मङ्गलसूत्रके व्रणविशोधनकङ्कणवाचकः ॥ ९४ ॥ नियोज्यारक्षयोर्मन्त्रभेदे स्यात्सैन्यपृष्ठके । ;l{8330} भवेत्परिसरो मृत्यौ दैवप्रान्तप्रदेशयोः ॥ ९५ ॥ ;p{0331} दिगम्बरः पुंसि हरेऽन्यवत्तु क्षु[61a]द्रे च नग्ने तिमिरे तु षण्ढे । पीताम्बरो दैत्यरिपौ नटे च कदम्बरः पुंसि हलायुधे च ॥ ९६ ॥ ;l{8335} विशेष्यवन्निन्दितवस्त्रयुक्ते कादम्बरं पुंसि न मद्यसीध्वोः । दध्यग्रभागेऽप्यथ सारिकायां स्त्री कोकिलायां गिरि तद्वदेव ॥ ९७ ॥ देहल्यां जन्तुफलेऽप्युदुम्बरः पण्डके पुंसि । ;l{8340} ताम्रे कुष्ठविभेदे स्त्रीपुंसाभ्यां विहीनः स्यात् ॥ ९८ ॥ औदुम्बरः कृतान्ते पित्तजकुष्ठामये त्वन्ये । नीलाम्बरो हलधरे निशाचरे क्रूरलोचने तद्वत् ॥ ९९ ॥ आडम्बरस्तु गजगर्जिततूर्यनाद- प्रारम्भणेषु न च योषिति कीर्तितो ज्ञैः । ;l{8345} कामे निषद्वरमुशन्ति च शाद आद्ये रात्रौ पुनर्भवति किं च निषद्वरीति ॥ ३०० ॥ उपह्वरः स्यान्निकटे रहोर्थे क्लीबे रथे ना परवत्पुनः स्यात् । अभ्यर्णगन्तव्य इहापि देशे- ;l{8350} ऽथेन्दीवरं नीलसरोरुहेऽन्त्ये ॥ १ ॥ स्त्रियां तुवर्यामथ भैरवेऽद्रौ कालिञ्जरो योगसुचक्रमेले । विश्वंभरः केशवश[61b]क्रयोः स्यात् स्त्री भुव्यथ स्त्री न दु[रोद]रः स्यात् ॥ २ ॥ ;l{8355} द्यूते पणे द्यूतकरे तु पुंसि लम्बोदरो मेदुरकुक्षियुक्ते । गजाननेऽथ प्रतिजल्पहीने श्रेष्ठेऽधरेऽनुत्तरमामनन्ति ॥ ३ ॥ ;p{0332} वणिजि तुलाधारः स्याद्राशौ तद्वत्तुलायाश्च । ;l{8360} जलदे तु तोयधारः सुतिषणे (?) योषिति प्रोक्तः ॥ धुरन्धरस्तु धूर्वहे धवाभिधे तथा द्रुमे । नभश्चरो घनेऽनिले विहङ्गमे कटप्रुवि ॥ ५ ॥ विष्णौ मतश्चक्रधरो भुजङ्गे स्याद्ग्रामजालिन्यथ नागराजे । ;l{8365} स्याद्वेसरे चाश्वतरोऽथ वीर- तरं शरे वीरणके च षण्ढे ॥ ६ ॥ अत्यन्तवीरे परलिङ्गवत्स्या- दुद्दन्तुरस्तूत्कटवक्रदन्ते । उत्तुङ्गके चाथ गणाधिनाथे ;l{8370} द्वैमातुरः स्यान्मगधाधिपेऽपि ॥ ७ ॥ प्रणप्तृपुत्रे तु परंपरोऽस्त्री स्त्री त्वानुपूर्व्येऽपि च संततौ च । धाराधरो वारिधरे कृपाणे धराधरो भूभृति केशवे च ॥ ८ ॥ ;l{8375} उरोजयोः कोशकरे कशेरु- ण्यम्भोधरे स्याद[62a]पि नालिकेरे । पयोधरोऽथो कलिकार उक्तः करञ्जधूम्याटकयोस्तथैव ॥ ९ ॥ स्यात्पीतमौलावथ चोपमादौ ;l{8380} भवेदलंकार इह स्रगादौ । द्रुमोत्पलारग्वधयोस्तथैव स्यात्कर्णिकारोऽप्यथ चर्मकारः ॥ १० ॥ पादूकरे चर्मकरौषधौ स्त्री माहिष्यतः स्यात्तनये करण्याः । ;l{8385} तक्षण्यपि स्याद्रथकार आद्ये भटे समे च प्रतिकार उक्तः ॥ ११ ॥ ;p{0333} स्याद्दक्षिणावर्तजले सिताभ्रे तथा नृलिङ्गो घनसार उक्तः । स्यात्कृष्णसारो हरिणप्रभेदे ;l{8390} स्त्री शिंशपायामपि वज्नवृक्षे ॥ १२ ॥ वङ्गे च लोहे मलयाचले च कोषप्रवीणा गिरिसारमाहुः । गोमेदके स्यादपि पीतसारः प्रोक्तं प्रवीणैरपि चन्दने च ॥ १३ ॥ ;l{8395} शिङ्गोर्द्रुमे पुंसि च शालसारः स्यात्सूत्रधारो नरि नाट्यपात्रे । शिल्पिप्रभेदे च शचीपतौ च स्यद्दण्डधारः क्षितिपे यमे च ॥ १४ ॥ स्यात्संप्रहारः समरे गतौ च ;l{8400} द्वारस्थिते तु प्रतिहार उक्तः । [62b] द्वारे तथानन्तरकेऽभिहारो- ऽभियोगके संनहने च चौर्ये ॥ १५ ॥ पणे स्थितौ तु व्यवहारमाहु- स्तथा विवादे नरि च द्रुभेदे । ;l{8405} अथावहारोऽपि निमन्त्रणेऽप- नेतव्यवस्तुन्यपि तस्करे च ॥ १६ ॥ स्याद् द्यूतयुद्धादिकविश्रमेऽपि ग्राहाख्ययादस्यपि संप्रदिष्टः । स्यात्खड्गकोषे परिवार आद्ये ;l{8410} परिच्छदे चापि कुटुम्बके च ॥ १७ ॥ पारावारोऽम्भोनिधौ पुंसि तीर- द्वंद्वे त्वन्त्येऽथावतारश्च तीर्थे । ;p{0334} न्यक्संचारे पुष्करिण्यादिकेऽथा- कूपारः स्यात्कूर्मराजे समुद्रे ॥ १८ ॥ ;l{8415} भ्रष्टे तारापथतः शिशुमारः स्यात्पलाङ्गे च । पुण्ड्रेक्षौ सुकुमारः कोमलवाची विशेष्यलिङ्गोऽयम् ॥ १९ ॥ करवीरस्तु कृपाणेऽश्वमारवृक्षे च दैत्यभेदे च । अदितौ च पुत्रवत्यां स्त्रियां भवेच्छ्रेष्ठगव्यां च ॥ २० ॥ पदालिके स्याद्गृहधूमके च ;l{8420} स्याच्छक्रगोपे च नृपान्तरेऽपि । ना धुन्धुमारोऽप्यथ कर्णपूरः शिरीषके नाप्यसितोत्पले तु ॥ २१ ॥ अस्त्री वतंसेऽथ प[63a]वौ च तार्क्ष्ये सिंहे पिके कर्कटके च शूरे । ;l{8425} मखानले किञ्च जराटके च बुधा महावीरमिह स्मरन्ति ॥ २२ ॥ स्यादात्मवीरो नरि शालपुत्रे विदूषके प्राणवति प्रदिष्टः । स्याद्बार्बटीरो गणिकातनूजा- ;l{8430} म्रास्थङ्कुरे स्याच्च कुचेलिकायाम् ॥ २३ ॥ ब्रह्मणि चित्राटीरो घण्टाकर्णोपहाराय । अङ्कयति यस्य भालं निहतच्छागास्रबिन्दुभिस्तत्र ॥ २४ ॥ मुक्ताधिकारसचिवे नरि पात्रटीरः स्याल्लोहकांस्यदहनानवभाजनेषु । ;l{8435} स्यात्पिङ्गलेऽथ करकासु कणेऽम्भसश्च धाराङ्कुरो भवति सैन्यमुखे च तद्वत् ॥ २५ ॥ ग्राहे समुद्रारुरिहापि सेतो- र्बन्धे तथा पुंसि तिमिङ्गलेऽपि । ;p{0335} स्याद्विश्वकद्रुर्मृगयाप्रकीर्णे ;l{8440} शुनि ध्वनौ तादृश एव धूर्ते ॥ २६ ॥ अथासिपत्रो नरि कोशकारे भवेत्तथासौ नरकान्तरेऽपि । मयूरके राजशुके च दार्वा- घाटे नृलिङ्गः शतपत्र उक्तः ॥ २७ ॥ ;l{8445} सरोरुहेऽल्पेऽप्यथ वातपु[63b]त्रो वृकोदरे धूर्तहनूमतोश्च । स्मरे हये चापि वदन्ति लक्ष्मी- पुत्रं धनाद्यैस्तु भृते च पात्रे ॥ २८ ॥ वर्धापकं स्यादिह पूर्णपात्र- ;l{8450} मथो महामात्र इह प्रधाने । समृद्धके हस्तिपकाधिपे चा- थो बिन्दुशारीफलके वले च ॥ २९ ॥ स्याद्बिन्दुतन्त्रं किल रागसूत्रं तूलास्थसूत्रेऽपि च पट्टसूत्रे । ;l{8455} ताटङ्कवाचीह च ताडपत्रं स्यात्ताडपत्री मृतभर्तृकायाम् ॥ ३० ॥ पुंस्यग्निहोत्रो दहने द्वयोनं हविष्यथाग्नौ तरणौ च दिष्टः । ज्ञैर्वीतिहोत्रोऽप्यथ वीरमान्ये ;l{8460} स्याद्वीरभद्रो हयमेधकाश्वे ॥ ३१ ॥ स्याद्वीरणेऽन्त्येऽप्यथ पारिभद्रो मन्दारके स्यादपि निम्बवृक्षे । प्रलम्बशत्रौ बलभद्र उक्ता त्रायन्तिकायां च कुमारिकायाम् ॥ ३२ ॥ ;p{0336} ;l{8465} स्यादर्धचन्द्रो गलहस्तबाण- प्रभेदयोः स्त्री तु भवेत्त्रिभङ्ग्याम् । स्याद्धार्तराष्ट्रोऽसितवक्त्रपाद- हंसे तथा भोगिनि कौरवेषु ॥ ३३ ॥ सुराजनि क्षत्रियभेदके च ;l{8470} तथा विहंगे धृ[64a]तराष्ट्र उक्तः । स्त्री हंसपद्यामथ पोत्रिरूपे विष्णौ भुजंगे स्थिरदंष्ट्र उक्तः ॥ ३४ ॥ शुके खले पुंसि च वक्रनक्रः कटंभरा स्यात्सरणौषधौ च । ;l{8475} गजाङ्गनायां च कलाम्बिकायां मूर्वासु गोलासु पुनर्नवायाम् ॥ ३५ ॥ कट्यां च कीनाशगतौ तु देह- यात्रा भवेद्भोजनवाचिका च । स्यात्तुङ्गभद्रा च सरिद्विशेषे ;l{8480} मदोत्कटे वाच्यसमः प्रदिष्टः ॥ ३६ ॥ ऋषभौषधावपि मणिच्छिद्रा प्रोक्ता तथैव मेदायाम् । दिग्विजयार्थे याने वरयात्रायां च दण्डयात्रा स्यात् ॥ ३७ ॥ रात्रौ विभावरी स्याद्विवादतो वस्त्रलुण्टाक्याम् । वक्त्रकलत्रे तद्वच्छंभल्यां चापि निर्दिष्टा ॥ ३८ ॥ ;l{8485} नरि कुम्भकार उक्तः कुलालके तत्स्त्रियां कुलत्थ्यां स्त्री । गदिता तु तुण्डिकेरी कर्पास्यां बिम्बिकायां च ॥ ३९ ॥ ;vv{पञ्चराः} ;c{पञ्चराः ।} वर्धापके पुरोटौ प्रशंसने धूलिगुच्छे च । स्यात्पांशुचामरो ना तटभुवि दूर्वाञ्चिता[64b]यां च ॥ ४० ॥ स्यात्पादचत्वरोऽजे पिप्पलसैकतकमण्डलुष्वेषः । ;l{8490} परदोषाख्यायिनरे विप्रतिसारस्तु कौकृत्ये ॥ ४१ ॥ ;p{0337} रोषे भवेदनुशये पौनःपुन्ये तु भृशार्थे । इह समभिहार उक्तो घुसृणेऽन्त्ये पीतकावेरम् । स्यात्पित्तलेऽथ तालीसपत्रमुक्तं च तालीसे ॥ ४२ ॥ कथितं च तामलक्यामुत्पलपत्रं तु पद्मपर्णे स्यात् । ;l{8495} करजक्षतेऽङ्गनानां तमालपत्रं तु तापिच्छे ॥ ४३ ॥ तिलके पत्रकसंज्ञेऽथो निम्बे सर्वतोभद्रः । काव्यस्य चित्रभेदे स्त्री गम्भार्यां तथा नट्याम् ॥ ४४ ॥ सुरसरिति कपिलधारा तीर्थविशेषे च संप्रोक्ता । नमुचिद्विषो नलिन्यां कुहपुरि वस्वोकसारा स्यात् ॥ ४५ ॥ ;c{॥ इति रान्ताः ॥} ;l{8500} ;v{लान्ताः} ;vv{एकलाः} ;c{एकलाः ।} लो वासवे स्याल्लवणेऽथ लूः स्या- ल्लावे तथा छेदनयोश्च * * । श्लेषे तनोर्लीर्- ;vv{द्विलाः} ;c{द्विलाः ।} -अथ दैत्यभेदे प्रलम्बशत्रौ च बलोऽत्र काके ॥ १ ॥ ;l{8505} स्थौल्ये तु गन्धोपलसैन्ययोश्च रूपे च षण्ढे[65a]सहसि स्त्रियां न । वाट्यालके स्त्री पलमस्त्रियां स्या- दुन्मानमांसेऽपि च सूक्ष्मकाले ॥ ४७ ॥ हेतूस्थितेऽन्त्ये फलके फलं च ;l{8510} व्युष्टौ च लाभे सुमनःफले च । कङ्कोलबाणाग्रकधान्यकेषु फलत्रिके स्यात्फलिनीगतः स्त्री ॥ ४८ ॥ ह्रीबेरके पाथसि गोकुले च जलं जडे त्वन्यगतं वदन्ति । ;l{8515} खलं तु धान्योच्चयभुव्यपेत- द्वयं च कल्के त्रिषु दुर्जने स्यात् ॥ ४९ ॥ ;p{0338} नीचेऽधमे चाथ गलस्तु कण्ठे भवेत्तथा सर्जरसे नृलिङ्गः । चलोऽनिले कम्पगतोऽन्यवत्स्या- ;l{8520} द्दलं तु पर्णे भवति स्त्रियां न ॥ ५० ॥ उत्सेधशस्त्रीच्छदयोश्च खण्डे द्रव्ये च षण्ढेऽथ नलो नृपाले । यमे कपौ पोटगले स्त्रियां तु मनःशिलायां नलिने द्वयोनम् ॥ ५१ ॥ ;l{8525} तलः पुमांस्तालतरौ चपेटे खड्गस्य मुष्टौ चरमे तु पृष्ठे । ज्याघातसंवारणगो द्वयोस्तु शीलाधरार्थो मलमस्त्रियां च ॥ ५२ ॥ किट्टे पुरीषे कृपणे तु पापेऽन्यव- ;l{8530} च्छलस्तु भृङ्गीगणधा[65b]तृवाची । अन्त्ये शलल्यां च खिलं तु वेधे स्यात्सारसंक्षिप्तकवाचि षण्ढे ॥ ५३ ॥ विशेष्यगाम्यप्रहते बिलस्तु शक्राश्वकेऽन्त्ये विवरे गुहायाम् । ;l{8535} व्याजे द्वयोनं स्खलिते छलं स्या- द्रोमाञ्चने पुंसि पुलोऽन्यवत्तु ॥ ५४ ॥ विशेष्यवत्स्याद्विपुले कुलं तु देशे गृहे गोत्रशरीरयोश्च । तथा सजातीयगणेऽथ कालो ;l{8540} मृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥ तथा महाकालगणे स्त्रियां तु कृष्णत्रिवृद्वाचक ईरितोऽयम् । ;p{0339} गौर्यां च नील्यामपि मातृकायां स्यात्तालमूल्यां परिवादके च ॥ ५६ ॥ ;l{8545} स्यात् क्षारकीटे नवमेघवृन्दे भालं ललाटे महसि स्त्रियां न । स्कन्धे तरोः सालमुशन्त्यथ स्या- त्सालोऽस्त्रियां भूरुहमात्रकेऽपि ॥ ५७ ॥ शङ्कुद्रुमे स्याद्वरणेऽथ शालः ;l{8550} सर्जद्रुमे हालनृपे च मत्स्ये । स कीर्तितः स्त्री च गृहे गृहैक- देशे तरुस्कन्धकशाखयोश्च ॥ ५८ ॥ तालो ध्वजे द्रौ नरि खड्गमुष्टौ स्यान्मध्यमाङ्गुष्ठमिते तथैव । ;l{8555} भवेत्तथा पाणितले[66a]च गीत- कालक्रियामान उदीरितोऽयम् ॥ ५९ ॥ क्लीबे तु कांस्यस्य भवेच्च वाद्य- भाण्डे तथा स्याद्धरितालकेऽपि । मालो जने चोन्नतभूतलेऽन्त्ये ;l{8560} स्त्रियां तु पुष्पस्रजि कीर्तितोऽयम् ॥ ६० ॥ चालं छदौ स्यादपि कम्पनेऽन्त्ये जालस्तु नीपे कपटेऽथ ना न । आनायवातायनकोद्रवेषु स्त्री घोषके चाथ भुजंगमे स्यात् ॥ ६१ ॥ ;l{8565} क्रूरे गजे श्वापदवाचकश्च व्यालोऽथ नालं त्रिषु पद्मदण्डे । काण्डे पुमाञ्शाककदम्बके स्त्री पुमांस्तथा स्याज्जलनिर्गमेऽपि ॥ ६२ ॥ ;p{0340} स्थालं न ना पात्रविशेषकुण्ड्योः ;l{8570} स्त्री पाटलायामथ पुंसि खल्लः । निरीषके स्यात् त्रिषु वस्त्रभेदे बालः शिशौ स्यात् त्रिषु चाचिरोत्थे ॥ ६३ ॥ मूर्खे पुमान्वारणवाजिपुच्छे करेऽप्युदीच्ये गदितः स्त्रियां न । ;l{8575} वाली तु मेधावपि कर्णभूषा- न्तरेऽथ बाला त्रिपुटास्त्रियोः स्यात् ॥ ६४ ॥ चेलं तु वस्त्रे त्रिषु गर्हिते स्या- द्भेलः प्लवे स्याच्च मुनिप्रभेदे । त्रस्ते परस्मिन्नपि बुद्धिहीने ;l{8580} को[66b]लोऽङ्कपालावपि भेलके ना ॥ ६५ ॥ उत्सङ्गके पोत्रिणि किं च चित्रे स्त्रियां कणाचव्यकयोः प्रदिष्टः । फले बदर्याश्चरमेऽथ शैलो धरे शिलाजे तु रसाञ्जनेऽस्त्री ॥ ६६ ॥ ;l{8585} स्वभावसद्वृत्तगमस्त्रि शीलं शिलोपले स्याच्च मनः शिलायाम् । द्वाराधरस्थेऽपि च दारुणि स्याद् गण्डूपदीनाम्नि शिली प्रदिष्टा ॥ उञ्छे तु षण्ढेऽप्यसिते तु नीलो ;l{8590} ऽस्त्रियां परस्मिंस्त्वसितान्विते स्यात् ॥ ६७ ॥ पुमान्महीभृन्निधिरत्नभेद- कपिप्रभेदेष्वथ चिह्नभेदे । स्त्रियां च[नीली]मधुपर्णिकायां कूलं तडागस्तुपयोः प्रतीपे ॥ ६८ ॥ ;p{0341} ;l{8595} सैन्यस्य पृष्ठेऽप्यथ तूलमस्त्री पिचावथ ब्रह्मतरौ च खेऽन्त्ये । मूलं च न स्त्री भभिदि प्रतिष्ठा- स्वादौ शिफायां निकटे निकुञ्जे ॥ ६९ ॥ शूलं च न स्त्री मतमायुधार्त्यो- ;l{8600} र्योगे च मृत्यावपि केतने च । स्त्रियां तु पण्यप्रमदार्थके स्या- त्कीले तथा दुष्टवधार्थकेऽपि ॥ ७० ॥ स्थूलं तु कूटे [त्रिषु] पीव्नि मूर्खे थाम्लो[67a]ऽम्लवत्पुंसि रसान्तरे स्यात् । ;l{8605} चाङ्गेरिकायां पुनरीरिता स्त्री शुक्लस्तु योगे धवले पुमान्स्यात् ॥ ७१ ॥ रूप्येऽन्तिमे मल्लमुशन्ति पात्रे मत्स्ये कपोले बलसंयुते च । स योषिति स्यात्तृणशूल्यवाची ;l{8610} भल्लो[ऽथ] षण्ढे शरभेदवाची ॥ ७२ ॥ पुंस्यच्छभल्लेऽथ नपुंसि नान्त्ये भल्लातके वारुणि तु त्रिलिङ्गः ॥ ७३ ॥ ओल्लस्त्वशुष्के त्रिषु सूरणे ना क्लिन्नेक्षणे स्यात्परवच्च चुल्लः । ;l{8615} पिल्लस्तथा क्लिन्न इहेक्षणेऽपि चुल्ली चितोद्धानकवाद्यभित्सु । चिल्लस्त्रिषु क्लिन्नदृशि प्रदिष्टः क्लिन्ने च नेत्रे शशघातके ना । स्त्रियां भवेद्गौडकवास्तुकेऽसौ ;l{8620} छल्ली स्त्रियां वीरुधि वल्कले च ॥ ७५ ॥ ;p{0342} पुष्पान्तरे हस्तपदावमोट- रोगे तु खल्ली नरि चातकेऽसौ । वस्त्रान्तरे चर्मणि निम्नकेऽथा- लुः स्त्री तथालूश्च गलन्तिकायाम् ॥ ७६ ॥ ;l{8625} .... तथा शाकविशेषके च स्यात्पोतके भेलककन्दकेऽन्त्ये । पीलुः पुमान्स्रंसित[67b]रौ गजे च तालास्थिखण्डे कुसुमे च काण्डे ॥ ७७ ॥ भवेत्तथासौ परमाणुवाची ;l{8630} मालुः स्त्रियां पत्रलतास्त्रियोश्च । ना चोरकाख्यौषधके च शालुः कषायवस्तुन्यपि तादृशः स्यात् ॥ ७८ ॥ बलिः पुमान्गन्धकदैत्ययोः स्याद् द्वयोर्भवन्मन्दिरदारुभेदे । ;l{8635} तथोपहारे जठरैकदेशे श्लथे तथा चर्मणि विस्रसातः ॥ ७९ ॥ भवेत्तथा चामरदण्डकेऽर्थे दोला तु यानान्तरनीलिकार्था । मेला मसौ मेलकवाचिका स्या- ;l{8640} दिला तु भूवाग्बुधदारगोषु ॥ ८० ॥ कीलो द्वयोर्ज्वालकफोणिघात- शङ्क्वल्पकेषु प्रथितः प्रवीणैः । तुला पलानां शतके च भाण्डे सादृश्यमानार्थक ईरिता च ॥ ८१ ॥ ;l{8645} पीठ्यां गृहाणामपि दारुबन्धे वेलाब्धितीरेऽम्बुविकारके च । अक्लिष्टमृत्यौ समये च सीम्नि बुधस्त्रियां वाचि तथा च रागे ॥ ८२ ॥ ;p{0343} भुक्तौ प्रभूणामथ कन्यकायां ;l{8650} झाला तथोर्मौ च झुलुक्विकायाम् ( ? ) । अव्यक्तशब्दे मधुरे क[68a]लः स्या- ज्जीर्णे मनोज्ञे च विशेष्यलिङ्गः ॥ ८३ ॥ शुक्रेऽन्तिमे स्त्रीरजसि स्त्रियां स्या- दंशे तथा मूलधनप्रवृद्धौ । ;l{8655} शिल्पादिके स्याच्छशिषोडशांशे व्याजे च तर्यां कलनाकलार्थः ॥ ८४ ॥ लोला प्रदिष्टा रसनाश्रियोः स्त्री चले सतृष्णे च विशेष्यलिङ्गा । शृङ्गारभावप्रभवक्रियाया ;l{8660} लीला विलासेऽपि च खेलकेल्योः ॥ ८५ ॥ हेला विलासेऽवमतौ च हाला मद्ये नृपे ना मणिके तु गोला । सख्यां च गोदासरिति प्रदिष्टा न ना कुनट्यामपि मण्डले च ॥ ८६ ॥ ;l{8665} पत्राञ्जनेऽलिस्तु युगे द्विरेफे मद्ये स्त्रियां पुंसि तु वृश्चिके स्यात् । आलिस्तु पङ्क्तावपि सेतुसख्योः कलिः पुमान्स्यात्कलहे च युद्धे ॥ ८७ ॥ युगे चतुर्थे सुभटे स्त्रियां तु ;l{8670} बुद्धैः प्रदिष्टः कलिकागतोऽयम् । धूलिस्तु संख्यान्तररेणुषु स्त्री दुलिर्मुनौ ना कमठस्त्रियां स्त्री ॥ ८८ ॥ धमिल्लचूडामुकुटेषु मौलि- र्द्वयोरशोके तु नृलिङ्ग उक्तः । ;p{0344} ;l{8675} शालिः पु[68b]मान्स्यात्कलमे च गन्ध- मार्जारके योषिति पालिरस्रौ ॥ ८९ ॥ अंशे प्रदेशे श्रवणाग्रगे च प्रस्थे च यूकाविषये च पङ्क्तौ । सश्मश्रुकायामपि योषिति स्यात् ;l{8680} झिल्लिः स्त्रियामातपकान्तिवर्त्योः ॥ ९० ॥ उद्वर्तनस्यापि च वाससि स्या- द्वल्ली तु दीप्ये कुसुमे लतायाम् । पल्ली कुटीग्रामकयोः पुमांस्तु स्थलस्य दिष्टापि कुशूलके च ॥ ९१ ॥ ;l{8685} तल्लोऽम्बुधारान्तरवाचकः स्यात् स्त्रियां तरुण्यामपि कीर्तितोऽयम् । ;vv{त्रिलाः} ;c{त्रिलाः ।} मृगप्रभेदे कमलः स्त्रियां श्री- वरस्त्रियोः क्लोम्नि जले च ताम्रे ॥ ९२ ॥ स्याद्भेषजेऽन्त्ये जलजे तु न स्त्री ;l{8690} शूद्रे तुरंगे वृषलः प्रदिष्टः । पाषाणभेदे चपलो झषेऽपि स्यात्पारदे चोरकनाम्नि पुंसि ॥ ९३ ॥ स्त्रियां सुविद्युत्कमलाकणासु श्रियामसत्यां चरमे तु शीघ्रे । ;l{8695} विशेष्यवत्स्यात्तरले चलेऽथा- स्त्री प्रस्तरे स्यादुपलश्च रत्ने ॥ ९४ ॥ स्त्री शर्करायामथ मांसशून्ये स्यादुत्पलं वाच्यसमं न तु स्त्री । इन्दीवरे स्याच्चरमे तु कुष्ठौ- ;l{8700} [69a]षधेऽनलः स्याद्वसुदेववह्नयोः ॥ ९५ ॥ ;p{0345} अथानिलः स्याद्वसुवातवाची खण्डे तु वल्के त्वचि रोहितादेः । क्लीबे प्रदिष्टं शकलं च राग- वस्तुन्यथ स्याद्गरलं स्त्रियां न ॥ ९६ ॥ ;l{8705} विषे च माने तृणपूलकेऽथ लोले च षिङ्गे तरलः पुमांस्तु । हारस्य मध्यस्थमणौ तथैव स्याद्भासुरे स्त्री तु सुरायवाग्वोः ॥ ९७ ॥ चूर्णे तिलानां पललं च मांसे ;l{8710} पङ्केऽथ ना राक्षसवाचकं स्यात् । ना पूतिकाष्ठे सरलो वदान्ये- ऽवक्रार्थको भेद्यगतः प्रदिष्टः ॥ ९८ ॥ शुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या- त्कपिल इह तु योषिच्छिंशपागोभिदोश्च । ;l{8715} अनलदिगिभनार्यां रेणुकायां तथाथ त्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ । पिटकतिलकदृग्रुग्बर्हपर्याय ओघे पुनरिह न नरेऽथ च्छागलश्छाग आद्ये । युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौ ;l{8720} शकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥ जगलः पैष्टिकमद्ये मदनतरौ मद्यपङ्के ना । पक्षिणि पिप्पल[69b]आद्ये निरर्गले बोधिवृक्षे तु । द्वंद्वेऽस्त्रियां तु वसनच्छेदनभेदे कणायां स्त्री । वारिणि युग्मविहीनः पुंसि तु धवलो महोक्षे स्यात् ॥ २ ॥ ;l{8725} सितवर्णे तद्वति तु त्रितये तद्वत्स सुन्दरेऽपि स्यात् । योषिति तु सौरभेय्यां कुवलं त्रिषु चोत्पले बदरे ॥ ३ ॥ ;p{0346} पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षितेऽन्यवत् । दन्ततालव्यमूर्धन्यमध्यं मुसलमस्त्रियाम् ॥ ४ ॥ अयोग्रे दण्डमात्रेऽपि तालमूल्यां तु योषिति । ;l{8730} गृहगोधामाषपर्ण्योर्निचुलो हिज्जलद्रुमे ॥ ५ ॥ निचोलकेऽथ पिचुलो झावुके हिज्जलेऽपि च । जलकाकेऽथ विपुलो मेरुपश्चिमभूभृति ॥ ६ ॥ अगाधपृथ्वोः परवत्तुमुलस्तु कलिद्रुमे । स्याद्युद्धसंकुले क्लीबे बहुलः कृष्णपक्षके ॥ ७ ॥ ;l{8735} अग्नौ च स्त्री तु नील्येलागोषु स्त्री भूम्नि भान्तरे । क्लीबेऽन्तरिक्षे परवदसितप्राज्ययोर्भवेत् ॥ ८ ॥ मातुलो मामके व्रीहिभेदे धत्तूरराठयोः । परवत्कुटिलं भुग्ने स्त्रियां तु सरिदन्तरे ॥ ९ ॥ जटायुक्ते तु जटिलोऽन्य[70a]वन्मांस्यां तु स स्त्रियाम् । ;l{8740} पाताले भुवने च स्तः सुतलप्रतलाविमौ ॥ १० ॥ क्रमादट्टालिकाबन्धे तताङ्गुलिकरेऽपि च । पित्तलं तैजसद्रव्ये तत्तु पित्तकरेऽन्यवत् ॥ ११ ॥ पित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः । स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥ ;l{8745} कम्बलो नाहिराजे स्यात्कृमौ स्त्रीपुंसयोः पुनः । प्रावार उत्तरासङ्गे सास्नायां सलिलेऽन्तिमे ॥ १३ ॥ शम्बलः सम्बलश्चास्त्री कूलपाथेयमत्सरे । नवाङ्कुरे चोपरागे कपोले त्रिषु कन्दलः ॥ १४ ॥ स्त्रियां मृगद्रुभेदे स्यान्नागभेदे तु पिङ्गलः । ;l{8750} मुनौ रुद्रेऽर्कानुचरे निधिभेदेऽनले कपौ ॥ १५ ॥ कपिले वाच्यवत्स्त्री तु कुमुदद्विपयोषिति । वेश्याविशेषेऽथानम्बुदेशे स्याज्जङ्गलस्त्रिषु ॥ १६ ॥ ;p{0347} मांसे त्वस्त्री मङ्गलोऽस्त्री शुभे सर्वार्थरक्षणे । स्त्री गौरीसितदूर्वार्थः पुंस्यङ्गारकनामसु ॥ १७ ॥ ;l{8755} कुण्डलं वलयकर्णभूषयोः पाशके भवति नैव योषिति । काञ्चनाचलगुडूचि[70b]काह्वये स्यात्स्त्रियां शुनि तु मण्डलोऽप्यहौ ॥ १८ ॥ द्बादशक्षिति[प]वृन्ददेशयोः ;l{8760} कुष्ठरोगभिदि चोपसूर्यके । बिम्बके त्रिषु कदम्बके तथा- थार्गलस्त्रिषु महोर्मिदण्डयोः ॥ १९ ॥ अन्तरेऽपि च कपाटरोधके निर्मलं विमलवाचि वाच्यवत् । ;l{8765} देवभुक्तकुसुमेऽभ्रके तथा शुष्कमांसपणिके तु शौष्कलः ॥ २० ॥ मांसभोजिनि तथा स वाच्यवत् । शस्कुली भवति शुष्कमांसके । मांसमात्रविषयेऽथ पांसुलः ;l{8770} पुंश्चले त्रिषु पुमांस्तु खिंखिरे ॥ २१ ॥ स स्त्रियां च कुलटाभुवोरथो- ऽस्पष्टवाचि परगामि संकुलम् । व्याप्तकेऽथ तिनिशे च वेतसा- शोकयोर्भवति वञ्जुलः पुमान् ॥ २२ ॥ ;l{8775} शृङ्गारे नरि विशदे त्रिषूज्ज्वलः स्या- दुद्दीप्ते भवति विकासिनि स्मृतश्च । स्यात्कुञ्जे मिथुनविवर्जितं परस्मि- न्किर्मीरे जलहरिणे तु मञ्जुलो ना ॥ २३ ॥ ;p{0348} पिञ्जलं तु कुशभाजनेऽन्तिमे ;l{8780} शोणपीतरुचि वाच्यवन्मतम् । पुद्गलो वपुषि लिङ्गकायके- ऽथात्मनि प्रथ[71a]मगो मदेहयोः ॥ २४ ॥ जम्भदैवतभिदोश्च जम्भलः श्यालके परकवित्वहारके । ;l{8785} कुम्भिलो भवति तस्करे मखे चन्द्रिलः स्मररिपौ च नापिते ॥ २५ ॥ वास्तुके स्रुवतरौ तु पुंगतो ग्रन्थिलोऽपरसमः स पर्वणि । स्यात्करीरधरणीधरे पुमान् ;l{8790} वामदाम्भिकगतस्तु वामिलः ॥ २६ ॥ रामिलो रमणकामदेवयो- र्वार्द्दलं तु जलदावृते दिने । पुंसि सैन्यपटलेऽथ तन्दुलः पुंसि जन्तुहरधान्यसंघयोः ॥ २७ ॥ ;l{8795} निष्कलस्तु कलया विवर्जिते नष्टबीजकनरे तु वाच्यवत् । पाकलं भवति कुष्ठ औषधे कुञ्जरज्वरगतो नृलिङ्गकः ॥ २८ ॥ पाचलो धनहुताशवायुषु ;l{8800} ग्राहयादसि तु माचलो मतः । बन्दितस्कररोगयोरथो श्वेतरक्तरुचि पाटलस्त्रिषु ॥ २९ ॥ आशुव्रीहौ ना द्वयोः पाटलिः स्या- त्काचस्थाल्यां पाटलापि स्त्रियां स्यात् । ;p{0349} ;l{8805} पुष्पे त्वस्या पाटलं पाटला स्या- दव्यक्तोक्तौ लोहलो भेद्यलिङ्गः ॥ ३० ॥ [71b]तथा स्याच्छृङ्खलाचार्ये कोहलस्तु सुराभिदि । मुनिभेदे तैतिलो ना गण्डके करणेऽन्तिमे ॥ ३१ ॥ देवलो नारदे देवधनभोक्तरि धार्मिके । ;l{8810} शिलान्तरे ना कृकलासकेऽपि स्याद्धेमलः काञ्चनकारके च । स्याच्छ्यामलोऽच्छेऽप्यसिते परस्मिन् स्यात्कोमलं वारिणि वा मृदौ च ॥ ३२ ॥ स्यात्कामलो निर्जलदेशवाची । ;l{8815} कम्रेऽपि भेद्ये कुसुमाकरे ना । रम्ये च दक्षे त्रिषु पेशलः स्या- द्गोकीलो ना मुसले हलेऽपि ॥ ३३ ॥ गौरसर्षपकलोहचूर्णयो- र्गौरिलोऽथ बदरीफलेऽन्तिमे । ;l{8820} पुंस्यरिष्टतरुगश्च फेनिलः फेनभाजि तु विशेष्यलिङ्गगः ॥ ३४ ॥ शैलेयशैवालगतं तु शीवलं स्याच्छैवलं पद्मककाष्ठवाचकम् । जलाञ्चले ना मलयोद्भवे पुनः ;l{8825} स्याच्छीतलं शैलजवाचकं तथा ॥ ३५ ॥ कासीसके चासनपर्णिकायां शीतेऽन्यवत्स्यात्प्रमदे तु शत्रौ । कल्लोल उल्लोलकवाचकश्च ज्योत्स्न्यां पटोलो द्वितयेऽम्बरे ना ॥ ३६ ॥ ;p{0350} ;l{8830} शूरे च[72a] भृत्ये भडिलोऽथ दूते स्याद्भण्डिलो भद्रगतस्तु षण्ढे । स्याद्द्रोणकाके नरि कुम्भकारे काकोलमस्त्री विष[वाच]कं [स्यात्] । स्त्री शङ्कुला क्रीडनकन्दुके स्या- ;l{8835} दिर्वांरुकायामपि शस्त्रभेदे ॥ ३७ ॥ तमालमस्त्री वरुणद्रुमे स्या- त्तापिच्छवृक्षे तिलके कृपाणे । विशाल उर्वीपतिवृक्षभेदे पृथौ स्त्रियां नाथ भवेद्गवाक्ष्याम् ॥ ३८ ॥ ;l{8840} स्त्री[तू]ज्जयिन्यामथ नेत्रपिण्डे मार्जारके पुंसि बिडाल उक्तः । बिसे मृणालं त्रिषु तद्द्वयोन- मुशीरकेऽथो ककुभे कुलालः ॥ ३९ ॥ स्यात्कुम्भकारेऽञ्जनके कुला[लं] ;l{8845} कण्डोल उक्तः पिटके च निष्ट्ये । अद्रौ सुवेलः प्रणते च शान्ते- ऽवेलोऽपलापेऽप्यथ पूगचूर्णे ॥ ४० ॥ भवेदवेलाथ कपालमस्त्री शिरोस्थ्नि खण्डे च घटादिकानाम् । ;l{8850} कुष्ठान्तरे भिक्षुकभाजने ना किट्टाल उक्तो नरि लोहगूथे ॥ ४१ ॥ स्यात्ताम्रकुम्भे नृपतौ तु गोपे गोपाल उक्तोऽप्यथ नागलोके । और्वेऽपि पातालमुशन्ति रन्ध्रे- ;l{8855} ऽथास्त्री प्रवालो नवपल्लवेऽपि ॥ ४२ ॥ ;p{0351} स्या[72b]द्वल्लकीदण्डकविद्रुमेऽपि रसाल उक्तः सहकार इक्षौ । स्त्री गोस्तनीनाम्नि च मार्जितायां जिह्वासु दूर्वासु विदारिकासु । ;l{8860} स्यात्सिल्हकेऽन्त्येऽप्यथ सर्जवृक्षे मत्तद्विपे ना कुटिलेऽप्यरालः ॥ ४३ ॥ तुङ्गे करालस्त्रिषु दन्तुरेऽपि कुठेरकेऽन्त्ये व्रणतैलके ना । शृगाल उक्तो दितिजे च फेरौ ;l{8865} क्रोष्ट्यां तु योषिड्डमरेऽपि तद्वत् ॥ ४४ ॥ स्याद्भूमिदारे युगुलच्छदेऽपि कुद्दाल आद्येऽथ जलाञ्चले स्यात् । शादेऽपि जम्बालमुशन्ति पुंसि कीलालमम्भस्यपि शोणिते च ॥ ४५ ॥ ;l{8870} नौकाखनित्रे नरि वङ्गलः स्या- दोजस्विनोश्च प्रधने प्रदिष्टः । आभीलमाहुर्भयदे च कृच्छ्रे नाभीलमाहुः प्रवराङ्गनायाः ॥ ४६ ॥ सद्वङ्क्षणे नाभिकगर्भकाण्डे- ;l{8875} ऽथोत्फुल्लमाहुः करणेऽङ्गनानाम् । संफुल्ल उत्तालग एष भेद्ये निद्रैकशीले त्रितये शयालुः ॥ ४७ ॥ क्लीबे त्वसौ वाहसकुक्कुरार्थो वातूल उक्तो नरि वातसङ्घे । ;l{8880} वातासहे तु त्रिषु यज्ञकुण्डे दर्भे च चात्वालमुशन्ति पुं[73a]सि ॥ ४८ ॥ ;p{0352} रीतिविशेषे गीतौ द्रौपद्यां पुत्रिकायां च । पाञ्चाली नीवृति पुंभूम्नि श्रद्धालुरुद्दिष्टा ॥ ४९ ॥ दोहदवत्यां श्राद्धे त्रिष्वथ रात्रिंचरे व्याघ्रे । ;l{8885} शार्दूलः पशुभेदे पदोत्तरस्थस्त्रिषु श्रेष्ठे ॥ ५० ॥ लाङ्गूलोऽस्त्री पुच्छे मेढ्रेऽथो शङ्कुभिः कीर्णे । चरमे रन्ध्रे न स्त्री कुकूल उक्तस्तुषाग्नौ च ॥ ५१ ॥ क्षौमे दुकूलं विरले च वस्त्रे जम्बूल उक्तः क्रकचच्छदेऽपि । ;l{8890} जम्बूतरोः स्याद्विटपेऽथ भीमे- ऽप्युत्तालमू [र्ध्वो]त्कटयोः कराले ॥ ५२ ॥ विशेष्यवत्स्यान्नरि तु प्लवङ्गे चूडाल एतत्सहितेऽन्यवत्स्यात् । स्त्री तूच्चटायामथ मेखलास्त्र- ;l{8895} बन्धे च काञ्च्यां कटके गिरेश्च ॥ ५३ ॥ पुंसः कटीवाससि बन्धने च स्याच्छृङ्खलासौ निगडे त्रिलिङ्ग्याम् । स्त्रियां कुचेला किल विद्धकर्ण्यां कुवस्त्रके तु प्रथितान्यलिङ्गा ॥ ५४ ॥ ;l{8900} शैले च कीलेऽप्यचलो भुवि स्त्री लक्ष्म्यां पुनर्विद्युति चञ्चला स्यात् । वायौ पुमान्कम्रगतः परस्मिन् स्युरिल्वलाः स्त्री मृगभोर्ध्वभेषु ॥ ५५ ॥ दैत्यान्तरे पुं[73b]सि तथैव मत्स्ये ;l{8905} मोचानदीभित्सु च पिच्छिला स्यात् । स्यात्पोतकीनाम्नि च शिंशपायां विशेष्यलिङ्गा विजिले प्रदिष्टा ॥ ५६ ॥ ;p{0353} स्त्री सप्तला स्यान्नवमालिकायां गुञ्जाह्वये चर्मकषाह्वये च । ;l{8910} स्यात्काकणन्त्यां महिला च गुन्द्रा- भीर्वोः किलासिन्यपि सिध्मलः स्यात् ॥ ५७ ॥ स्त्री मत्स्यकर्णेऽप्यथ संधिला स्या- न्नान्दीसुरङ्गासदनेषु योषित् ॥ ५८ ॥ स्यात्सातलायां विमला भ्रकुट्यां (?) ;l{8915} स्यान्निर्मले वाच्यसमानलिङ्गा । लक्ष्म्यां स्त्रियां स्यादमलाभ्रकेऽन्त्ये स्यान्निर्मले वाच्यसमं वदन्ति ॥ ५९ ॥ स्याच्छ्रीफलो बिल्वतरौ स्त्रियां तु स्यादामलक्यामपि नीलिकायाम् । ;l{8920} स्यात्पातली स्त्रीभिदि वागुरायां मृत्पात्रभेदेऽपि तथा प्रदिष्टा ॥ ६० ॥ षण्डाली स्यात्तैलमाने सरस्यां कामुक्यां स्याज्जाङ्गला शूकशिम्ब्याम् । पुंसि प्रोक्ता तित्तिरौ गौरवर्णे ;l{8925} जाङ्गुल्युक्ता कालकूटस्य शास्त्रे ॥ ६१ ॥ क्लीबे तु स्याद्देवदालीफलार्था- ऽथाङ्गुल्युक्ता कर्णि[74a]कायां गजस्य । अङ्गुल्यां चाथो हले लाङ्गलं स्या- त्पुष्पे ताले गेहदारुप्रभेदे ॥ ६२ ॥ ;p{0354} ;l{8930} योषित्त्वम्भः पिप्पलीवाचकं स्या- त्ताम्बूलं स्यान्नागवल्ल्यामथान्त्ये । पूगेऽथ स्यान्नाकुली चव्यरास्ना ख्यायां तद्वत्कुक्कुटीकन्दकेऽपि ॥ ६३ ॥ पाण्डवभेदे बभ्रौ नकुलः स्त्री कर्कटीमांस्योः । ;l{8935} नेपाली नवमाल्यां मनःशिलायां च रास्नायाम् ॥ ६४ ॥ कदला तु पृश्निपर्ण्यां डिम्बे स्यात्पिच्छिलायां च । कदली तु वैजयन्त्यां रम्भायां स्यान्मृगान्तरेऽपि स्त्री ॥ ६५ ॥ वृक्षद्वीपविभेदे शाल्मलिरुक्ता स्त्रियां पुंसि । केवलमेकसमग्रे निर्णीतेऽन्त्ये पुमान्कुहने ॥ ६६ ॥ ;l{8940} स्त्रीलिङ्गं पाशाङ्के(?) काहल उक्तः खले परवत् । शुष्के भृशे तु षण्ढे सरन्ध्रवाद्यान्तरे स नरि ॥ ६७ ॥ तरुणीनामनि तु स्त्री[ग]न्धोली स्त्री वरट्यां स्यात् । भद्राशच्योश्च कुडवकरसंपुटयोस्तथाञ्जलिः पुंसि ॥ ६९ ॥ ;vv{चतुर्लाः} ;c{चतुर्लाः ।} मत्ते गजे मदकलो मदतोऽस्फुटौक्तौ ;l{8945} कोलाहले कलकलो नरि[74b]सर्जवृक्षे । मल्ल्यां पुनर्विचकिलो दमनेऽतिमुक्ते- ऽथामर्दके परिमलोऽपि मनोज्ञगन्धे ॥ ७० ॥ बृहन्नलः पोटगलेऽर्जुने च मुक्ताफलं स्याल्लवलीफलेऽपि । ;l{8950} कर्पूरके चाथ सदाफलः स्या- दुदुम्बरे स्कन्धफले पुटोदे ॥ ७१ ॥ वेणौ भवेद्यवफलः कुटजे च मांस्यां हालाहलस्तुरगलालसमाह्वसर्पे । ज्येष्ठ्यां न योषिति विषेऽथ कुतूहलं स्या- ;l{8955} च्छस्तेऽपि कौतुक उदीरितमेवमेव ॥ ७२ ॥ ;p{0355} कर्मणि दैवविपाके कर्मफलं कर्मरङ्गेऽपि । मृत्युफलः किंपाके मृत्युफला स्यात्कदल्यां च ॥ ७३ ॥ कमण्डलौ वायुफलं मघोन- श्चापेऽथ दान्तेऽपि दलामलं स्यात् । ;l{8960} फणिज्जके चाथ महाबलं स्या- त्सीसे बलाढ्ये तु विशेष्यलिङ्गम् ॥ ७४ ॥ स्त्रियां भवेद्यातिबलाभिधाने धूमे पयोदे खतमाल उक्तः । स्याद्गर्दभाण्डे नरि कन्दरालः ;l{8965} प्लक्षे महाकालमुशन्ति शंभौ ॥ ७५ ॥ किंपाकवृक्षे प्रमथान्तरेऽथ मणौ महानील इहा[75a]हिभेदे । स्याद्भृङ्गराजेऽथ जलाञ्चलं स्या- च्छैवालके स्रोतसि तद्वदेव ॥ ७६ ॥ ;l{8970} नीपतरौ च मलप्वां कोशविदो बहुफलामाहुः । भालेऽपि गण्डशैलो गिरितः स्थूलोपले भ्रष्टे ॥ ७७ ॥ उलूखलं गुग्गुलुपादपे च स्यात्कण्डनीनाम्न्यथ चक्रवालः । गिरौ द्वयोनस्तु स मण्डलेऽथ ;l{8975} काशे नले पोटगलो झषे च । स्याद्धस्तिमल्लो गणपेऽभ्रनागे- ऽथ ग्रामवृन्देऽपि च भस्मतूलम् । स्यात्पांशुवर्षे तुहिनेऽथ वात- केलिर्विटानां रदलेखने स्यात् ॥ ७९ ॥ ;l{8980} तथा कलालापगताथ न स्त्री कमण्डलुः स्यात्करकेऽथ पुंसि । प्लक्षेऽक्षमाला तु किलाक्षसूत्रे वसिष्ठपत्न्यामपि संप्रदिष्टा ॥ ८० ॥ ;p{0356} स्त्रीणां दन्तक्षतभिदि मणिमाला स्यात्तथा हारे । ;l{8985} वेणौ तु ध्वनिमाला वीणायां काहलायां च ॥ ८१ ॥ महिषे रजस्वलः स्यात्स्त्रीधर्मिण्यां तथा नार्याम् । एकाष्ठीला तु स्याच्छिवमल्ल्यां स्याच्च पाठायाम् ॥ ८२ ॥ अतिबला तु बला[75b]भिदि वाच्यव- द्भृशबलेऽप्यथ गन्धफली भवेत् । ;l{8990} विकचचम्पककोरकवाचिका निगदिता च तथा फलिनीभिदि ॥ ८३ ॥ गन्धोलिकायामपि भद्रकाली राढ्यौषधे भूधरकन्यकायाम् । स्यादङ्कपाली किल धात्रिकायां ;l{8995} कोट्यां तथा स्यात्परिरम्भणेऽपि ॥ ८४ ॥ हरिताली तु खरेखाखड्गलतादूर्विकासु स्यात् । ;vv{पञ्चलाः} ;c{पञ्चलाः ।} पुंस्यासुतीवलः स्यान्मद्यकरे यायजूकेऽथ ॥ ८५ ॥ शिलान्तरे स्यादपि पाण्डुकम्बलः सिते कुथे सीरिणि चैककुण्डलः । ;l{9000} मनुष्यधर्मण्यथ मस्तकस्रजि दूत्यां च ताली सुरतोत्तर स्थिता ॥ ४८६ ॥ ;c{॥ इति लान्ताः ॥} ;v{वान्ताः} ;vv{एकवाः} ;c{एकवाः ।} वाते प्रचेतस्यपि वोऽन्यवत्स्या- द्धिमेऽव्ययं स्यादिवतुल्यकार्थे । षष्ठ्यादिकान्तस्य च युष्मदः स्या- ;l{9005} त्तथा बहुत्वेऽप्यथ विः खगे स्यात् ॥ ८७ ॥ अर्थान्तरे त्वव्ययकं स्वभाव- ज्ञात्यात्मसु स्वो नरि के स्वकेऽस्त्री । आत्मीय उक्तः पर[76a]लिङ्गकोऽयं ;p{0357} ;vv{द्विवाः} ;c{द्विवाः ।} भवस्तु शंभौ नरि संसृतौ च ॥ ८८ ॥ ;l{9010} श्रेयस्यपि स्याद्विभवे जनौ च । दवस्तु दावोऽपि वने वनाग्नौ ॥ द्रवो रसे नर्मणि ना गतौ च प्रद्राववाची च धवस्तु पत्यौ ॥ ८९ ॥ धूर्ते नरे स्यादपि वृक्षभेदे ;l{9015} जवो रये वेगिनि वाच्यलिङ्गः । स्त्री त्वोड्रपुष्पेऽथ लवो विलासे लेशे छिदायामपि रामपुत्रे ॥ ९० ॥ प्लवस्तु कारण्डव[भेक]भेल- प्लवंगचण्डालपटोलकेषु । ;l{9020} शशप्लुतौ स्यान्नरि तोयकाके प्लक्षेऽन्तिमं गन्धतृणे च मुस्ते ॥ ९१ ॥ हवो मखाह्वाननिदेशवाची शवोऽस्त्रियां स्यान्मृतकेऽब्जलेऽन्त्ये । सवस्तु संधानमखार्थकः स्यात् ;l{9025} क्षवः क्षुते स्यान्नरि राजिकायाम् ॥ ९२ ॥ नवः स्तवे ना तरुणेऽन्यवत्स्याद्- ध्रुवः शिवे भान्तरयोगयोश्च । मुनौ वसौ स्याद्वटशङ्कुकीले स्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥ ;l{9030} मूर्वासु चान्त्ये * सुनिश्चितोहे स्थिरे तथा शाश्वतिकेऽन्यलिङ्गः । स्रुवा तु मूर्वागजभ[76b]क्ष्ययोः स्या- त्स्रुगन्तरे पुंसि भवेत्स्त्रियां च ॥ ९४ ॥ ;p{0358} शिवस्तु शंभौ नरि गुग्गुलौ च ;l{9035} वेदे च योगान्तरके च कीले । स्यात्पुण्डरीकद्रुमवालुके च स्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥ शम्यामलक्योरभयाशृगाल्यो- र्गौर्यां द्वयोनस्तु शुभे सुखे च । ;l{9040} मोक्षे जले चाथ दिवं च नाके जीवः पुमान्प्राणिनि वृक्षभेदे ॥ ९६ ॥ बृहस्पतौ प्राणभृति त्रिषु स्यात् स्त्रियां तु मौर्वीक्षितिजीवनीषु । तथा वचायामपि शिञ्जितेऽथ ;l{9045} भावस्तु जन्तौ विबुधेऽथ शीले ॥ ९७ ॥ आकूतचेष्टात्मजनुःषु भूतौ सत्तासु चेष्टासु पदार्थकृत्योः । लीलासु न स्त्री नृपतौ तु मेघे सुरे च देवोऽथ हृषीकगोऽन्त्ये ॥ ९८ ॥ ;l{9050} स्त्री तेजनीस्पृक्क्षितिपाङ्गनासु सत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च । गुणेऽसुषु क्लीबमिहात्मतायां द्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥ वित्तेऽपि सान्त्वं त्विह दक्षिणत्वे ;l{9055} स्यात्साम्न्यथेशे नरि सर्व उक्तः । समस्तवाची परवत्प्रदिष्टः [77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥ प्रागाद्ययोरन्यवदेव पूर्वः स पूर्वजे पुंसि वहौ च वां नः (?) । ;p{0359} ;l{9060} कण्वो मुनौ ना कुकृतेऽन्तिमे स्या- त्किण्वं सुराबीजकपापयोश्च ॥ १ ॥ विल्वं फले श्रीफलवाचकं च तत्त्वं परात्मन्यपि वाद्यभेदे । तथा स्वरूपे त्रितये तु खर्वे ;l{9065} ह्रस्वे न्यगर्थेऽपि च खर्व एवम् ॥ २ ॥ पद्वो रथे स्यादपि भूमिलोके बह्व(प्राध्व)स्तु मार्गे महति त्रिलिङ्गः । अश्वस्तुरङ्गे नरभिद्यपि स्यात् विश्वे तु पुं भूम्नि सुरप्रभेदे ॥ ३ ॥ ;l{9070} स्त्रियां विषायां न तु पुंसि शुण्ठ्यां लोके तु षण्ढे निखिलेऽन्यवच्च । प्रुष्वस्त्वृतौ भास्वति चाथ योषि- दम्भःकणेऽथाशनिगोऽपि शंवः ॥ ४ ॥ पार्श्वं तु कक्षाधरके च चक्रो- ;l{9075} पान्तेऽपि न स्त्री चरमे तु दिष्टम् । स्यात्पर्शुवृन्देऽप्यथ दूरमार्गे प्राध्वं प्रणम्रेऽपि च बन्धनेऽपि ॥ ५ ॥ पक्वं विनाशोन्मुखपाकभाजो- र्द्वंद्वं रहस्ये मिथुने च युग्मे । ;l{9080} भवेद्द्वयांतं कलहे समास- भेदे तु पुंसीति वदन्ति सन्तः ॥ ६ ॥ [77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं- स्तथोपरिष्टादपि कीर्तितं च । द्यौः स्वर्गलोके गगनेऽपि च स्त्री ;l{9085} मेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥ आखौ कुथेऽथर्तुमतीगतः स्त्री रविस्तु भानौ क्षितिपालभेदे । ;p{0360} काव्याभिधे काव्यकरे बुधे च कविश्च वाल्मीकिमुनावथ स्त्री ॥ ८ ॥ ;l{9090} भवेत्खलीने छविरङ्गना स्या- च्छोभारुचोर्घृष्विरयं वराहे । स्याद्धर्षके तु त्रिषु शेवमन्त्ये लिङ्गाकृतौ कामरिपोः स्त्रियां स्यात् ॥ ९ ॥ ग्रीवा शिरोधावपि तच्छिरायां ;l{9095} मीवा तु वायावुदरक्रिमौ च । रेवा सरिद्भित्स्मरयोषितोः स्या- नील्यां च लट्वा तु करञ्जभेदे ॥ १० ॥ पक्ष्यन्तरे स्याच्च कुसुम्भशाके तथा भवेद्गुग्गुलुशाक एषा । ;l{9100} नीवी वणिङ्मूलधनेऽङ्गनानां कटीस्थवस्त्रस्य च बन्धनेऽपि ॥ ११ ॥ दर्विः फणायां च खजाकिकायां दार्वी हरिद्रासुरदारुणोश्च । कटंकटेर्यामथ शोभनायां ;l{9105} बुद्धौ च चार्वी गदिता च पृथ्वी ॥ १२ ॥ भूमौ पृथौ मे[78a]चकजीरके च स्याद्बाष्पिकायामवनौ महत्याम् । उर्वी भवेत्स्यन्दनभेदके तु लघ्वी तथा ह्रस्वविवक्षितेऽपि ॥ १३ ॥ ;c{त्रिवाः ।} ;l{9110} स्याज्जन्महेतौ प्रभवोऽम्बुमूले ज्ञानादिमस्थानपराक्रमेषु । धने निभृत्यां विभवोऽथ पुष्पे फले तरूणामपि गर्भमुक्तः ॥ १४ ॥ तोकोद्भवे च प्रसवोऽथ मन्त्रि- ;l{9115} सहाययोः स्यात्सचिवस्तथैव । ;p{0361} धूर्ते च मत्ते कितवः प्रदिष्टो हेमाह्वये वञ्चकवाचकोऽपि ॥ १५ ॥ नाके तु न स्त्री त्रिदिवः स्त्रियां तु [न]द्यन्तरे गोदुहि बल्लवः स्यात् । ;l{9120} स्यात्सूपकारेऽपि हिडिम्बशत्रौ ना पल्लवः षिद्गगतोऽस्त्रियां तु ॥ १६ ॥ शृङ्गारलाक्षारसविस्तरेषु नवच्छदे स्याद्विटपे बले च । पलायने विद्रव एष बुद्धौ ;l{9125} स्यात्पुंगवो ना वृषभेऽन्यवत्तु ॥ १७ ॥ श्रेष्ठे मतस्तूद्धव उत्सवे च क्रतोश्च वह्नौ हरिमातुले च । स्यादुत्सवस्तु प्रसरप्रकोप- महेषु पुंनागतरौ तु विष्णौ ॥ १८ ॥ ;l{9130} स्यात्केशवः[78b]केशवति त्रिलिङ्गो- ऽथो कैतवं द्यूत इहच्छले च । स्यात्फेरवः क्रोष्टरि रक्तपे च स्याद्रौरवो भीषणनारकार्थः ॥ १९ ॥ स्यात्कैरवो हंससपत्नधूर्ते- ;l{9135} ऽथो कैरवं स्यात्कुमुदे स्त्रियां तु । ज्योत्स्नाभिधानेऽप्यथ भैरवः स्या- च्छंभौ त्रये भीषणभन्न( ? )योश्च ॥ २० ॥ स्यात्सैन्धवोऽस्त्री लवणे तुरंगे पुमान्परस्मिंस्तु स सिन्धुजाते । ;l{9140} और्वे द्विजे वाडव आदिलिङ्गो रसेवमाने( ? )वडवागणेऽन्त्ये ॥ २१ ॥ तद्वद्वधूनां करणेऽथ न स्त्री पातालवाची गदितः प्रवीणैः । ;p{0362} स्यान्निह्नवोऽविश्वसनेऽपलापे ;l{9145} तथा निकारे मत आश्रवस्तु ॥ २२ ॥ ना संश्रवक्लेशनयोर्वचःस्थे त्रये रिपौ शात्रव आदिलिङ्गः । भावे गणे च द्विषतां द्वयोनो- ऽथो माधवः केशवराधमासोः ॥ २३ ॥ ;l{9150} पुष्पाकरे स्त्री त्वतिमुक्तमद्य- दूतीषु च स्यान्मधुशर्करायाम् । लोध्रे मुनौ गालव आर्तवं तु ऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥ [79a] स्याद्भार्गवो दैत्यगुरौ च पर्शु- ;l{9155} रामे सुधन्वन्यपि सिन्धुरे च । स्त्री हैमवत्यां सितदूर्विकायां हेमाद्रिजायामपि कामलायाम् ॥ २५ ॥ स्यादाहवः संगरयोगवाची स्याद्राघवो दाशरथौ च मत्स्ये । ;l{9160} स्यात्ताण्डवोऽस्त्री तृणभेदनृत्ये- ऽथो संभवो जन्मनि मेलके च ॥ २६ ॥ हेतौ तथाधारत ईरितोऽय- माधेयकस्यानतिरिक्ततायाम् । स्याद्वान्धवो बन्धुसुहृद्गतो ना ;l{9165} पञ्चत्वमन्तेऽपि च पञ्चभावे ॥ २७ ॥ शत्रौ तथा तेजसि च प्रभावो नाशेऽप्यसत्ताविषयेऽप्यभावः । विभाव उक्तो रसकारणेऽपि तथा प्रदिष्टः परिचित्यभिन्नः ॥ २७ ॥ ;l{9170} निष्पावः पवने च शूर्पपवने स्याद्राजमाषे तथा शिम्ब्यां स्यादपि निर्विकल्पविषये सुग्रीव उक्तः पुनः । ;p{0363} वालिभ्रातरि वाच्यवत्तु गदितोऽसौ शोभनग्रीवके राजीवस्तु मृगे झषे निगदितः स्याद्रागजीविन्यपि ॥ २८ ॥ पद्मेऽन्त्येऽप्यथ कर्णवैरिधनुषि स्याद्गाण्डिवं न[79b]स्त्रियां ;l{9175} गाण्डीवं च धनुष्यथो किल शरेऽक्षीवं भवेद्बान्तवत् । अन्यस्मिन्मदवर्जितेऽथ नृपतौ स्यात्पार्थिवो वाच्यवत् पृथ्व्युत्पातविकारयोर्जनकजागौर्योर्भवेद्योषिति ॥ २९ ॥ गजाह्वमुक्तं किल नागकेसरे द्विजिह्व उक्तः पिशुने भुजंगमे । ;l{9180} * * * * * * स्वर्गे गुरौ दीदिविरस्त्रि चान्ने ॥ ३० ॥ स्यूते च वीणावयवे प्रसेवः स्यात्कुम्भदास्यां वडवा तुरङ्ग्याम् । भेदेऽङ्गनानामपि विप्रनार्यां ;l{9185} स्यात्कारवी मेचकजीरमिस्योः ॥ ३१ ॥ दीप्ये तथा स्यादपि बाष्पिकायां * * * * * * स्यात्कारवेल्ले सुखवी च जीरे । स्यात्कृष्णजीरे ;vv{चतुर्वाः} ;c{चतुर्वाः ।} ;l{9190} ऽभिषवस्तु यज्ञे ॥ ३२ ॥ स्यान्मद्यसंधानक आप्लवे चा थोपप्लवो विप्लवे राहुजन्ये । परिप्लवस्त्वाकुललोलयोः स्या- त्कुसीलवः स्यान्नटयाचकार्थः ॥ ३३ ॥ ;l{9195} प्राचेतसे स्यादपलापहार्दे- प्यपह्नवः स्याच्च पराभवस्तु । तिरस्कृतौ भङ्गविनाशयोश्चा- थादीनवो दोषदुरन्ततान्ते ॥ ३४ ॥ ;p{0364} [80a]पारसवो द्विजजाते शूद्रायां स्यात्परस्त्रीजे । ;l{9200} शस्त्रे शीतशिवं शम्यां * * शैलेयमिश्योश्च ॥ ३५ ॥ ताम्रघटे गर्गर्यां यदूत्तमे स्यात्पुटग्रीवः । जीमूतेऽपामार्गे धामार्गव उक्तस्तथा घोषे ॥ ३६ ॥ अनुभावो रसकार्ये विनिर्णये स्यात्प्रभावेऽपि । सौनन्दिनि बलदेवः पवने स्त्री त्रायमाणायाम् ॥ ३७ ॥ ;l{9205} ललजिह्वः शुनि हिंस्रे क्रमेलके स्त्री तु दूर्वायाम् । भार्गवनार्यामपि शतपर्वा स्यात्तु पञ्चाङ्गे ॥ ३८ ॥ जलचत्वरे कुलीरे जलबिल्वो रोहिताश्वस्तु । अग्नौ च हरिश्चन्द्रापत्ये विद्वद्भिराम्नातः ॥ ३९ ॥ दण्डोत्पले बलायां सहदेवा सारिवायां च । ;l{9210} सर्पाक्ष्यां सहदेवी पुंसि कनिष्ठे सुते पाण्डोः ॥ ४० ॥ जीवंजीवः पक्षिवृक्षप्रभेदे ;vv{पञ्चवाः} ;c{पञ्चवाः ।} ऽथाशितंभवः । अतिथ्य[ श ]नपर्याप्तेऽन्नादौ तृप्तावपि स्मृतम् ॥ ५४ ॥ ;c{॥ इत्यन्तस्थान्तवर्गः ॥} ;v{शान्ताः} ;vv{एकशाः} ;c{एकशाः ।} शुभे शमुक्तं शयने तु शः स्या- ;l{9215} न्निशाकरे शुः प्रथितो वधेऽपि । ;vv{द्विशाः} ;c{द्विशाः ।} इ[80b]च्छाप्रभुत्वे वशमामनन्ति स्यान्निघ्नतायां त्रिषु निघ्नमात्रे ॥ १ ॥ स्त्रियां तु वन्ध्यासुतयोश्च नार्या- मिभ्यां सुरभ्यामपि संप्रदिष्टा ;p{0365} ;l{9220} द्वीपे तथा रामसुते च दर्भे योक्त्रे कुशः स्याच्चरमे जले च ॥ २ ॥ कुशी तु फालेऽथ कुशा च लाड्यां ( ? ) वल्गाह्णयेऽन्यत्र तु पापमत्ते । स्पशश्चरे स्यात्समरे शशस्तु ;l{9225} स्याल्लोमकर्णे पुरुषान्तरे च ॥ ३ ॥ लोध्रे तथा गन्धरसेऽथ दर्शः सूर्येन्दुसङ्गेऽप्यवलोकनेऽपि । श्रौते च पक्षान्त विधौ तथाथ स्पर्शो भवेत्स्पर्शनदानयोश्च । ;l{9230} त्वाचे गुणेऽर्तौ च नृवैश्ययोस्तु नास्त्री प्रवेशे विडिह प्रजायाम् । मले न ना स्त्री तु खगादिबन्धे कचोत्तरस्थो निकरे च पाशः । कर्णान्तगः शोभनवाचकः स्या- ;l{9235} न्निन्दार्थकश्चात्र परस्थितोऽयम् । नाशो विनाशानुपलम्भयोः स्यात् पलायनेऽथ क्षवथौ पुमान्स्यात् ॥ ६ ॥ काशस्तृणे योषिति[ नाथ ]वा[81a]रा- णस्यां स्त्रियां स्याद्वरुणे तु केशः । ;l{9240} ह्रीबेरबालासुरभित्सु कीशः शाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥ ईशो हरे चापरवत्प्रभौ स्या- त्स्त्रियां शिवालाङ्गलदण्डयोश्च । वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपि ;l{9245} नेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥ ;p{0366} पशुर्मृगादौ प्रमथे च मेषे तिर्यक्षु सर्वेष्वसुमत्सु पुंसि । वेषोऽपि दुःखव्यवसाययोस्तु क्लेशोऽपि रागादिषु संप्रदिष्टः । ;l{9250} वंशस्तु पृष्ठावयवे च वेणौ कुले च वर्गेऽप्यथ दंश आद्ये ॥ ९ ॥ सर्पक्षते मर्मणि खण्डने च संनाहदुध्यो( ? )र्वनमक्षिकायाम् । स्त्री त्वल्पजातौ वनमक्षिकायां ;l{9255} अंशुस्तु * * * * * * * * ॥ १० ॥ * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * * [पांशुस्तु]ना पांसुसमो रजःसु ॥ ११ ॥ ;l{9260} सस्ये चिरं संचिते गोमयेऽथ दृक् स्त्री मतौ दर्शननेत्रयोश्च । दशा त्ववस्थास्वपि दीपवर्त्यां वस्त्रांशके योषिति भूम्नि दिष्टा ॥ १२ ॥ निशा हरिद्राह्वययामिनीगा- ;l{9265} नीह्वा(?)तितृष्णाककुभोस्तु चाशा । राशिस्तु मेषादिषु पुंसि पुञ्जे पेशी स्त्रियां खड्गपिधानमांस्योः[81b] ॥ १३ ॥ मांसस्य पिण्ड्यां कलिकेऽतिपक्वे ;vv{त्रिशाः} ;c{त्रिशाः ।} ना सिल्हके स्यात्कपिशोऽन्यवत्तु । ;l{9270} स्याच्छ्यावयुक्तेऽथ कणागतः स्त्री वज्रेऽस्त्रियां स्यात्कुलिशश्च मत्स्ये ॥ १४ ॥ ;p{0367} स्याद्दुष्टबुद्धौ विवशोऽप्यरिष्टे- ऽवश्यात्मके निर्दयखड्गयोस्तु । निस्त्रिंश उक्तः सदृशं तु तुल्या- ;l{9275} र्हयोः परस्मिन्नथ बालिशः स्यात् ॥ १५ ॥ बाले च मूर्खेऽथ मुनौ सलोम्नि स्याल्लोमशो मद्रकवाचकश्च । कासीसकेऽन्त्ये जटिलाशृगाल्योः स्त्री शूकशिम्ब्यामपि मर्कटीषु ॥ १६ ॥ ;l{9280} स्यात्काकजङ्घातिबलातिमोदौ- षधे तथा शाकिनिकाविशेषे । व्यक्तौ विकाशो विजने प्रकाशः स्फुटप्रहासातपगः प्रसिद्धौ ॥ १७ ॥ संकाश उक्तः सदृशेऽन्तिकेऽथ ;l{9285} नीकाश उक्तः समनिर्णयार्थः । हुताश उक्तो दहने त्रयेऽथ कीनाश उक्तो यमकर्षकार्थः ॥ १८ ॥ उपांशुघातिन्यपि ना वराके परोपमो ना वरुणे सुखाशः । ;l{9290} स्याच्छोभनाशे तिनिशे च राज्ञः पिङ्गाश उक्तो झषपल्लि[82a]भर्त्रोः ॥ स्त्री नीलिकायां चरमे सुहेम्नि पलाश उक्तो रजनीचरेऽपि । शट्यां त्रिपर्णे हरितेऽन्तिमे तु ;l{9295} पर्णे निवेशः शिबिरे विवाहे ॥ २० ॥ विन्यासके वेतनमूर्छयोस्तु निर्वेश उक्तः प्रगमे च भोगे । ;p{0368} अङ्गुष्ठतर्जन्युभयप्रमाणे देशे च कुड्येऽपि नरि प्रदेशः ॥ २१ ॥ ;l{9300} संदेश उक्तो निकटे च देशे स्याच्छासनोपांशुगिरोर्निर्देशः । आदर्श उक्तो नरि दर्पणेऽपि स्याट्टिप्पणे च प्रतिपुस्तकेऽपि ॥ २२ ॥ स्यात्कर्कशोऽस्त्री कठिने दयोने ;l{9305} क्रूरे दृढे च त्रिषु पुंसि चेक्षौ । कम्पिल्लके कासकमर्दकेऽथ गिरीश उक्तो धिषणे शिवे च ॥ २३ ॥ हिमाचलेऽथ स्मरवैरिणि स्या- दुड्डीश उक्तोऽपि निबन्धभेदे । ;l{9310} तुङ्गांश इन्दौ च शिवे प्रदिष्टः पक्षीश उक्तो गरुडे च कृष्णे ॥ २४ ॥ उपांशुरुक्तो जपभेदकेऽथा- व्ययं विविक्तेऽथ यवासके स्यात् । स्यात्कण्टकार्यां परवत्कठोरे ;l{9315} स्पर्शे विपाशा तु नदीविभेदे ॥ २५ ॥ उन्मुक्तपाशे परवद्विकेशी पटस्य वर्तौ( ? )विकच[82b]स्त्रियां स्यात् । भूकेश उक्तो वटशैवलार्थो- ;c{चतुःशाः ।} ऽप्यथापदेशः स्मरणे च लक्षे ॥ २६ ॥ ;l{9320} व्याजे निमित्तेऽप्यथ जीवितेशो जीवातुजीवाधिपयोः कृतान्ते । कान्तेऽथ शंभौ हरिसारथौ च भवेद्गुडाकेश इहानले तु ॥ २७ ॥ ;p{0369} स्यादाश्रयाशस्त्रिषु चाश्रयघ्ने- ;l{9325} ऽथो नागपाशः करणे वधूनाम् । पत्युर्जलानां गदितश्च पाशे होम्ये पुरोडाशमुशन्ति पुंसि ॥ २८ ॥ स्यात्पिष्टवर्त्याह्वयभक्ष्यभेदे स्यात्सोमवल्लीरसहोमशेषे । ;l{9330} प्रतिष्कशः पुंसि सहायवार्ता- हराग्रगार्थे परिधौ तु पुंसि ॥ २९ ॥ स्याद्वेष्टनेऽथाचमनाप्लवार्थः स्यात्स्पर्शमात्रेऽथ नरे च वैश्ये । भूमिस्पृगुक्तोऽथ खलेऽन्यवत्स्या- ;l{9335} च्छनैश्चरे क्रूरदृगादिलिङ्गः ॥ ३० ॥ भाषाविभेदेऽप्यवपातकेऽप- भ्रंशोऽपशब्देऽथ किलोपदंशः । मेढ्रामये पुंस्यवदंशकेऽथ स्यात्खण्डपर्शुर्नरि पर्शुरामे ॥ ३१ ॥ ;l{9340} शंभौ तथा चूर्णविलेपिनि स्या- द्राहौ च खण्डामलकौषधे च । स्थाच्छृङ्खलायां[83a]कटके च पादु- कायां तथा योषिति पादपाशी ॥ ३६ ॥ स्यात्पौर्णमास्यां च कुहूतिथौ च ;l{9345} प्रकीर्तिता पश्चदशी प्रवीणैः । ;c{॥ इति शान्ताः ॥} श्रेष्ठे तु षः स्त्रीसहिते च शस्तः । षूर्गर्भमुक्तौ कथितश्च कृच्छ्रे ॥ ३३ ॥ ;p{0370} क्षः क्षेत्र उक्तः क्षिपि तूदिता क्षा क्षिः स्यात्क्षितौ च क्षयवाचिका च । ;c{द्विषाः ।} ;l{9350} वृषस्तु धर्मे नरि सौरभेये पुंराशिभेदे वनिताप्रसङ्गे( ? ) । स्यान्मूषके श्रेष्ठगतोऽन्यवत्स्यात् स्याद्वासके द्वंद्वगतो वृषा तु ॥ ३४ ॥ स्याच्छूकशिम्ब्यां व्रतशीलिनां तु ;l{9355} वृष्यासनेऽस्त्री तु विषं जले स्यात् । स्यात्कालकूटेऽतिविषौषधे स्त्री तुषस्तु धान्यत्वचि चाक्षवृक्षे ॥ ३५ ॥ स्यात्स्पर्धनव्याजगतं मिषं च लिप्सापिपासासु पुमांश्च तर्षंः । ;l{9360} वर्षं तु न स्त्री किल वत्सरे स्या- द्‌वृष्टौ तथा स्याद्भरतादिखण्डे ॥ ३६ ॥ स्त्री भूम्नि मेघागमकालवाचि कर्षोऽस्त्रियां स्यात्पलतुर्यभागे । ना कर्षणे स्त्री तु [स] धान्यभेदे ;l{9365} त्वग्दोषमाने परवज्जडे स्यात्‌[83b] ॥ ३७ ॥ मेषोऽस्त्रियां स्यादुरणे च राशि- भेदे तथा भेषजभेदकेऽपि । शेषस्तु संकर्षणकेऽप्यनन्ते वधे पुमान्स्यादथ न स्त्रियां स्यात् ॥ ३८ ॥ ;l{9370} तथोपयुक्तेतरवाचकः स्त्री निर्माल्यदाने च तथा प्रसादे । शोषस्तु यक्ष्मामयशोषयोः स्या- द्दोषः पुनर्दूषणपापयोर्ना ॥ ३९ ॥ ;p{0371} दोषा तु रात्रौ च भुजे स्त्रियां स्या- ;l{9375} द्रात्र्यर्थिका स्यादियमव्ययं च । कोषः पुमान्स्याच्चषके स्त्रियां तु स्याद्दीपपात्रेऽपि च जातिकोषे । न स्त्री च भाण्डालयकुड्मलार्थ- समूहपेशीपदसंग्रहेषु । ;l{9380} लिङ्गत्रये खड्गपिधानवाची तादृग्विधः स्यादपि शिम्बिकार्थः ॥ ४० ॥ ध्वाने च धामार्गवके च घोषो- ऽप्याभीरपल्ल्यामपि कांस्यके च ॥ ४१ ॥ मेघध्वनौ स्त्री शतपुष्पिकायां ;l{9385} प्रैषो रुजि प्रेषण उन्मितौ च । स्यान्मर्दने प्रेषमुशन्ति तद्व- त्पौषस्तु मासेऽथ रणे महेऽन्त्ये ॥ ४२ ॥ कान्तौ तथा त्विड् व्यवसायके च रुचौ जिगीषावचसोरपि स्त्री । ;l{9390} स्त्री व्यापने विट् श[84a]मले न पुंसि शुषिस्तु शोषो विवरेऽपि च स्त्री ॥ ४३ ॥ ऋषिर्वसिष्ठादिषु दीधितौ च वेदे च ना बाणसुतारजन्योः । उषाथ कम्रे त्रिषु गुग्गुलौ ना ;l{9395} झषस्तु वैसारिणि पुंसि दिष्टः ॥ ४४ ॥ कलाभिदि स्त्री गदिता तु कर्षू- र्नद्यां करीषज्वलने तु पुंसि ॥ ४५ ॥ ;p{0372} अक्षस्तु कर्षे शकटे च चक्रे कलिद्रुमे च व्यवहारके च । ;l{9430} आत्माभिविज्ञे नरि पाशके च स्पादिन्द्रियेऽन्त्ये रुचके च तुत्थे ॥ ४६ ॥ ऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् ;l{9435} यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ ;l{9440} देहाङ्गचुल्लीविलयोः पतत्रे नृपद्विपे मित्रसहाययोश्च । बलेऽथ केशादिपरः स वृन्दे लक्षं शरव्ये षणि(?)कैतवेऽस्त्री ॥ ४९ ॥ न पुंसि संख्याभिदि गर्दभाण्डे ;l{9445} प्लक्षो भवेद्द्वीपविशेषके च । बोधिद्रुमे स्यात्प्रतिहारपार्श्वे ज्ञैः पर्कटीनामसु संप्रदिष्टः ॥ ५० ॥ न्यक्षं तु का[र्त्स्न्ये]त्रितये निकृष्टो ना पर्शुरामेऽथ शुचौ परस्मिन् । ;p{0374} ;l{9450} तीक्ष्णे मनोज्ञे च पुमांस्तु गीते चोक्षोऽथ काके च बके च भिक्षौ ॥ ५१ ॥ ध्वाङ्क्षो भवेत्तर्कुकके गृहे च काकोलिकावाचक एष योषित् । द्वयोस्तु दोर्मूलगतश्च कक्षः ;l{9455} पुमांस्तु कच्छे महिषे वने च ॥ ५२ ॥ शुष्के तृणे वीरुधि च प्रकोष्ठे पाश्चात्त्यवस्त्राञ्चलपल्लवे स्त्री । काञ्च्यां तथोद्ग्राहणिकारथाङ्ग- स्पर्धापदे स द्विपरज्जुगश्च ॥ ५३ ॥ ;l{9460} वस्त्रे च भित्तावथ वीक्षमीक्ष्ये- द्भुतेऽथ मोक्षो नरि मुष्ककद्रौ । निःश्रेयसे मोचनवाचकोऽथ रूक्षस्तु वृक्षे त्रिषु हार्दही[85b]ने ॥ ५४ ॥ अचिक्कणेऽथो भृतियाच्ञयोः स्या- ;l{9465} द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ श्रीभवानीशंकरो जयति । (cont. from विश्ले in line 9427) ;l{9470} ;vv{त्रिषाः} ;c{त्रिषाः ।} स्याद्धेमले ना निकषः स्त्रियां तु रक्षोजनन्यां नहुषोऽहिराज्ञोः । ;l{9400} पापेऽन्तिमे स्यात्कलुषं परस्मिं- स्तदाविले कल्मषरोगयोस्तु । तथापराधेऽपि च किल्बिषं स्या- त्स्पन्दे दृशोः स्यान्निमिषो निमेषः ॥ ४६ ॥ स्यात्सूक्ष्मकाले परुषं तु रूक्षे ;l{9405} चित्रेऽन्यवन्निष्ठुरभाषके च । स्यात्पूरुषाभः पुरुषो नरे च क्षेत्रज्ञपुंनागकवृक्षयोश्च ॥ ४७ ॥ स्यात्पौरुषं च त्रिषु पूरुषस्य भावे क्रियायां वचने च धाम्नि । ;l{9410} ऊर्ध्वं तथा विस्तृतबाहुपाणे- र्नरस्य मानेऽपि वदन्ति तद्वत् ॥ ४८ ॥ कल्माष उक्तो रजनीचरे ना कृष्णेऽन्यवन्मेचकपाण्डुरेऽपि । कुल्मा[84b]ष उक्तो नरि यावकेऽर्द्ध- ;l{9415} स्विन्ने च धान्येऽप्यथ काञ्जिकेऽन्त्ये ॥ ४९ ॥ उष्णीषमस्त्रीह किरीटमूर्ध- वेष्टाह्वये लक्षणभिद्यपि स्यात् । तरीतरि(?) स्यात्त्रितये तरीषो रम्याकृतौ पुंसि तु भेलके स्यात् ॥ ५० ॥ ;l{9420} तथा पयोधेर्व्यवसायके च करीषमस्त्रीह च गोमयाग्नौ । स्याद्गोमये शुष्कतरेऽथ सोम- लतावशेषेऽपि ऋजीषमन्त्ये ॥ ५१ ॥ ;p{0373} स्यात्पिष्टपाकस्य च पात्रभेदे ;l{9425} ऽथो रौहिषो * * मृगान्तरे ना । तृणान्तरेऽन्त्ये विधुरे वियोगे विश्ले ( to be followed by line 9470 ) षमार्या निगदन्ति पुंसि । प्रदोष उक्तो नरि कालभेदे दोषप्रकर्षे च तथैव दिष्टः । अभीषुरुक्तः किरणे च रज्ज्वां प्रत्यूष उक्तश्च वसावथास्त्री ॥ ५३ ॥ ;p{0375} ;l{9475} अह्नो मुखेऽथाननपूरणे स्या- द्गण्डूष उक्तो मिथुने तथैव । हस्ताङ्गुलौ च द्विरदस्य तद्वत् बुधैः प्रदिष्टः प्रसृतोन्मिते च ॥ ५४ ॥ स्यात्सप्तघस्रावधिदुग्धकेऽन्त्ये ;l{9480} पीयूषमुक्तं च तथा सुधायाम् । पेयूषमस्त्री ह्यभिनव्यदुग्धे- ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥ नटे च पुंस्त्वेऽप्यथ मारिषः स्या- च्छाकप्रभेदे गदितस्तथार्ये । ;l{9485} दक्षाम्बिकायां तु स योषिति स्या- दथाविषो राजनि वारिराशौ ॥ ५६ ॥ वाहद्विषि[86a]स्यान्महिषस्तथैव महत्यसौ स्त्री नृपतेः स्त्रियां च । स्यात्ताविषाभस्तविषः समुद्रे ;l{9490} नाके च भेले व्यवसायकेऽपि ॥ ५७ ॥ स्वर्णे स्त्रियां स्यात्तविषी नदीभि- द्भूम्योर्बले स्यात्सुरकन्यकायाम् । स्यात्ताविषी चन्द्रसुतार्थिका च स्यादामिषोऽस्त्री पलले च लोभे ॥ ५८ ॥ ;l{9495} उत्कोचसंभोगमनोज्ञमूर्ति- रूपादिकेषु प्रथितः प्रवीणैः । आकर्ष उक्तः फलके तु सारे द्यूते तथा पाशक इन्द्रिये च ॥ ५९ ॥ अभ्यासवस्तुन्यपि कार्मुकस्य ;l{9500} वदन्ति सन्तः किल कर्षणेऽपि । स्पर्धाप्रसङ्गप्रमदेषु पुंसि संहर्षं उद्धर्ष इहातिहर्षे ॥ ६० ॥ ;p{0376} शुश्रूषा परिचर्याकथानयोः श्रोतुमिच्छायाम् । व्यवसाये तु जिगीषा विजयेच्छायां प्रकर्षेऽपि ॥ ६१ ॥ ;l{9505} त्रिष्वध्यक्षोऽधिकृते प्रत्यक्षेऽन्त्ये च गोरक्षः । स्यान्नागरङ्गवाची गवां तु रक्षाविधौ[ स ]योषित्तु ॥ ६२ ॥ आरक्षं गजमौलेर्मर्मणि तद्वच्च रक्षणीयेऽपि । पारापते चकोरे महि[86b]षे क्रूरे च रक्ताक्षः ॥ ६३ ॥ तत्त्वमतिग्रन्थभिदोर्निभालने स्यात्समीक्षापि । ;l{9510} उत्प्रेक्षानवधाने काव्यालंकारभेदेऽपि ॥ ६४ ॥ भवेन्मृगाक्षी मृगलोचनायां रात्रौ विशालौषधिभेदकेऽपि । कपौ गवाक्षो नरि जालके च स्त्रियां भवेद्वासववारुणीगः ॥ ६५ ॥ ;vv{चतुःषाः} ;c{चतुःषाः ।} ;l{9515} मत्स्येऽनिमिषो[देवे]ऽनुकर्ष उक्तोऽनुकृष्टौ च । दारुणि रथस्य चाधःस्थितेऽनुतर्षः सुरापात्रे ॥ ६६ ॥ तृष्णायामभिलाषेऽथ वातरूषस्तथोत्कोचे । ऐन्द्रे चापे परवद्वातूलेऽथाम्बरीषोऽस्त्री । भ्राष्ट्रे रणेऽथ पुंसि क्ष्मापतिभेदे रवौ बाले ॥ ६७ ॥ ;l{9520} नरकान्तरे तथाम्रातकेऽनुतापे च शंभौ वा । परिघोष इहातिघोषे स्त्रियां भवेत्कर्कटशृङ्गिकायाम् ॥ ६० ॥ स्यात्किंनरे किंपुरुषोऽपि लोके- ऽथालंबुषश्छर्दनरक्षसोर्ना । गण्डीरिकास्वर्गवधूषु च स्त्री ;l{9525} पलंकषा गोक्षुररास्नयोश्च ॥ ७० ॥ स्याद्गुग्गुलुद्रौ च पलाशलाक्षा- मुण्डीरिकासु स्त्र्यथ राक्षसे ना । सूर्येऽम्बुधा[87a]वव्यथिषः पुमान्स्या- ;p{0377} त्स्त्रियां रजन्यां गदितो धरण्याम् । ;l{9530} स्याद्वीरवृक्षः ककुभद्रुमे च भल्लातके स्यादथ राजवृक्षः ॥ ७१ ॥ पियालके स्याच्चतुरङ्गुलेऽथ स्याद्देववृक्षः किल सप्तपर्णे । कल्पद्रुमे गुग्गुलुपादपेऽथ ;l{9535} शाखोटके स्यादरलूद्रुमेऽपि ॥ ७२ ॥ स्याद्भूतवृक्षोऽथ हरे च तार्क्ष्ये भवेद्विशालाक्ष इह स्त्रियां तु । बराङ्गनायां धवपादपे तु कटाक्षयुक्ते सकटाक्ष उक्तः ॥ ७३ ॥ ;c{॥ इति षान्ताः ॥} ;l{9540} ;v{सान्ताः} ;vv{एकसाः} ;c{एकसाः ।} सः स्यात्परोक्षे रतिनायके च सूये समीचि त्रितये प्रदिष्टम् । लक्ष्म्यां तु सा स्यादथ ;vv{द्विसाः} ;c{द्विसाः ।} देहधातौ रसोऽस्त्रियां स्वादविषे च रागे ॥ ७४ ॥ ;l{9545} तिक्तादिके बोलकपारदे च द्रवेषु शृङ्गारमुखेषु वीर्ये । स्त्री सल्लकीकङ्गुमहीवृकीषु जिह्वासु रास्नास्वपि कीर्तितोऽयम् ॥ भासस्तु गोष्ठस्थित(?)कुक्कुटे स्या- ;l{9550} द्गृध्रे च कान्तावथ दास उक्तः ॥ ७३ ॥ दानस्य पात्रे वृषले च भृत्ये कैवर्तके योषिति झिण्टिकायाम् ॥ ७६ ॥ ;p{0378} चेट्यां च[87b]रासस्तु रवे च भाषा- सच्छृङ्खलाभीरकखेलयोश्च । ;l{9555} कोलाहलेऽथोऽयुजि भाप्रभावे तथा मयूखे च पुमांस्तु मास्स्यात् ॥ ७७ ॥ चन्द्रे च मासेऽप्यथ वेणुभेदे वासो गृहे स्यादपि हेमचूडे । अवस्थितौ सिंहमुखौषधे स्त्री ;l{9560} मासस्तु चन्द्रे नरि मासि न स्त्री ॥ अदस्त्रिषु स्यादिह चापरस्मि- न्नर्थेऽथ गोसः प्रगबोलयोश्च ॥ ७८ ॥ सद्योजपुत्रादिकयोश्च वत्सो- ऽन्तिमे तु वक्षोर्थकमामनन्ति । ;l{9565} गुत्सं[ तु ]गुच्छाभमुशन्ति पुंसि व्यासो मुनौ विस्तृतिवाचकश्च ॥ ७९ ॥ त्रासो भये स्यान्मणिदोषकेऽथ हंसः परात्माच्युतभास्करेषु । निर्लोभभूपे तुरगप्रभे[दे] ;l{9570} विहंगभेदेऽपि च योगिभेदे ॥ ८० ॥ मन्त्रस्य भेदेऽपि शरीरवायु- भेदेऽथ कंसो दनुजान्तरे ना । न स्त्री तु कांस्येऽपि च कांस्यपात्रे मानान्तरेंऽसस्तु भवेत्स्त्रियां न ॥ ८१ ॥ ;l{9575} स्कन्धे विभागेऽप्यथ मांसमस्त्री स्यादामिषे स्त्री जटिलार्थकः स्यात् । काकोलिकायामथ पुंसि वह्नि- कुबेरयोक्त्रह्र[88a]दरश्मिदेवे ॥ ८२ ॥ वसुर्द्वयोनस्तु धने सुवर्णे ;l{9580} रत्ने च वृद्ध्यौषधकेऽन्यवत्तु । ;p{0379} स्वादौ च नासा त्विह नासिकायां द्वारोर्ध्वदारुण्यपि संप्रदिष्टा ॥ ८३ ॥ मृत्सा शुभायां मृदि वासिकायां हिंसा वधे चौर्यविधौ प्रदिष्टा । ;l{9585} शंसा तु वाञ्छावचसोर्मिसिस्तु मांस्यां तु दीप्ये शतपुष्पिकायाम् ॥ ८४ ॥ छत्रोषधे स्त्री त्विह बुद्धिशक्त्या- युधे च कासूर्विकलोक्तिषु स्यात् । प्रसूर्जनन्यामपि वामिकायां ;l{9590} तथा कदल्यामपि वीरुदर्थे ॥ ८५ ॥ ;vv{त्रिसाः} ;c{त्रिसाः ।} स्यात्पादरोगेऽप्यलसोऽतिजीर्णे द्रुमान्तरे स्यात्कृतिमन्थरे च । स्त्री हंसपद्यां रभसस्तु वेगे हर्षे द्वयोः कोषनिबन्धकेऽपि ॥ ८६ ॥ ;l{9595} वाते तथात्मन्यतसः स्त्रियां तु क्षुमाभिधायामवसोऽर्कराज्ञोः । अम्भोनिधौ स्यान्नभसोऽब्दकाले क्लीबेऽन्तरिक्षेऽप्यथ पुक्कसः स्यात् । चण्डालके च श्वपचे स्त्रियां तु ;l{9600} स्यान्नीलिकायामपि कालिकायाम् । वनीयके स्याल्लभसो धनेऽन्त्ये- ऽर्वदोरके स्त्री पनसो[88b]द्रुभेदे ॥ ८७ ॥ कपौ च रुग्भिद्यथ वाच्यवत्स्या- त्पर्णासके स्यात्सुरसो द्विलिङ्गः । ;l{9605} स्त्रियां तुलस्यामथ सारसः स्यात् कुरङ्गके शीतकरेऽम्बुजेऽन्त्ये ॥ ८८ ॥ ;p{0380} श्रीवास उक्तो वृकधूपविष्ण्वोः सरोरुहेऽन्त्येऽप्यथ साहसं स्यात् । बलात्कृतौ स्यात्कृतकार्यके च ;l{9610} दमे शयौ वाहस ईरितोऽत्र ॥ ८९ ॥ वार्निर्गमे स्यात्सुनिषण्णकेऽथ स्याल्लालसा तर्षविशेषकेऽपि । औत्सुक्ययाच्ञास्वपि युग्मलिङ्गा समास उक्तोऽपि समर्थवाची ॥ ९० ॥ ;l{9615} संक्षेपणे द्वंद्वमुखादिषु स्या- न्ना कीकसः स्यात्कृमिजातिवाची । अस्थ्न्यन्तिमे पायस ईरितो ना श्रीवासवृक्षे परमान्नकेऽन्त्ये ॥ ९१ ॥ स्याद्वायसो ध्वाङ्क्ष इहागरुद्रौ ;l{9620} श्रीवासवृक्षेऽप्यथ काकमाच्याम् । स्त्रियां मलप्वामथ मानसं स्या- त्सरोविशेषे हृदये तथैव ॥ ९२ ॥ आख्यायिकापरिच्छेदेऽप्याश्वासो निर्वृते मतः । अभ्यासो निकटेऽभ्यर्णेऽथोच्छ्वासो गद्यबन्धके ॥ ९३ ॥ ;l{9625} गुणान्तरे तथा[89a]श्वासे प्राणने च प्रकीर्तितः । इष्वासोऽस्त्री धन्विनि स्यात्कोदण्डे च प्रकीर्तितः ॥ ९४ ॥ भावे विलासो नरि केलिवाची वीतंसमस्त्री मृगपक्षिणां च । बन्धामुपाये मृगपक्षिणां च ;l{9630} विश्वासहेतोरपि वस्त्रभेदे ॥ ९५ ॥ उत्तंसमस्त्रीह शिखास्रजि स्या- त्स्यात्कर्णपूरे ऽप्यवतंस एवम् । ;p{0381} बीभत्स आद्ये गदितो जुगुप्सा- भवे रसे चार्जुनपाण्डवे च ॥ ९६ ॥ ;l{9635} क्रूरेऽन्यवत्स्याद्विकृतेऽथ विद्वान् प्राज्ञे बुधे चात्मविदि त्रिलिङ्गः । भूयांस्तु भूयिष्ठगतो विशेष्य- लिङ्गोऽव्ययं स्यात्पुनरर्थकेऽसौ ॥ ९७ ॥ ज्यायांस्तु वृद्धे च तथा प्रशस्ये ;l{9640} घृते हविः स्याच्चरमे च होम्ये । रेपस्त्ववद्ये कृपणेऽधमे च क्रूरेऽन्यवत्स्यादथ पुंसि वेधाः ॥ ९८ ॥ विष्णौ बुधे ब्रह्मणि चाथ पापे- ऽपराध आगोऽथ पुरीषदीप्त्योः । ;l{9645} रूपेऽपि वर्चोऽथ सुधांशुपुत्रे पुमांश्च वेदे त्वभिलाषके च ॥ ९९ ॥ छन्दो यदृच्छाचरणे च पद्य- भेदेऽप्यदन्तस्तु पुमान्समार्थः । एनोऽपराधे कलुषे मन[89b]स्तु ;l{9650} चित्ते धियां पुंसि भवेन्न रोदः ॥ १०० ॥ स्वर्गे धरण्यां च पृथक्प्रयोगे सहप्रयोगेऽपि तथामनन्ति । स्याद्रोदसीत्यव्ययमप्यथौजो दीप्तौ प्रकाशे च बलेऽपि षण्ढे ॥ १ ॥ ;l{9655} रजो गुणे रेणुपरागयोश्च स्यादार्तवेऽन्त्येऽथ पुमानदन्तः । क्षीरे च नीरे च पयो वयस्तु खगे च बाल्यादिषु यौवने च ॥ २ ॥ श्रेयस्तु धर्मे कुशले च मोक्षे- ;l{9660} ऽन्यवत्प्रशस्येऽप्यथ योषिति स्यात् । ;p{0382} रास्नाभयावारणपिप्पलीषु स्रोतोऽम्बुवेगेन्द्रिययोर्द्वयोने ॥ ३ ॥ अदन्तमाद्येऽप्यथ पारदे स्या- च्छुक्रे च रेतोऽथ तमोऽन्धकारे । ;l{9665} गुणे च शोकेऽथ विधुंतुदेऽस्त्री तमस्तथा पुंसि तु राहुवाचि ॥ ४ ॥ ओकोऽन्ति[मे]सद्मनि चाश्रयेऽन्त्ये ऽथानो जनन्यां शकटे च भक्ते । भक्तस्थले चाथ शिरः प्रधाने ;l{9670} सेनाग्रभागेऽपि च मस्तके च ॥ पुमानदन्तोऽथ तपोऽपि धर्मे दर्भे च कृच्छ्रादिषु लोकभेदे । माघे तु न स्त्री शिशिरे तु पुंसि तपस्तथा ग्रीष्मऋतौ तु पुंसि ॥ ६ ॥ ;l{9675} स[90a]रस्तडागे न नरे जलेऽन्त्ये- ऽथोषः प्रभाते श्रुतिरन्ध्रके ज्ञैः । नपुंसि संध्यार्थकमङ्गना तु स्याद्देवतायामथ खे नभः स्यात् ॥ ७ ॥ पुमान्पयोदे च मृणालसूत्रे ;l{9680} पतद्ग्रहे श्रावणमासके च । वर्षासु च स्याच्चरमेऽप्यदन्तं बलेऽनुवेगे तर एवमाहुः ॥ ८ ॥ सहो बले ज्योतिषि मार्गशीर्ष- हेमन्तयोः पुंसि भवेत्तथैव । ;l{9685} रहो विविक्ते सुरते च तत्त्वे रहं च तद्वत्प्रवदन्ति सन्तः ॥ ९ ॥ ;p{0383} महस्तथा तेजसि चोत्सवेऽन्त्ये *दस्तथाङ्कस्तु शरीरचिह्ने । पाथो जलेऽन्नेऽप्यथ पक्ष उक्तं ;l{9690} छदे च वर्षार्धकपक्षयोश्च ॥ १० ॥ वक्षो हृदि स्याद्वृषभे तु पुंसि नोधा मुनौ स्तव्यगतोऽन्यवच्च । योगः समाधौ समये तथान्त्ये रोकोऽस्त्रियां नावि तरित्रयेऽपि ( ? ) ॥ ;l{9695} ज्योतिः पुमान्भास्वति वीतिहोत्रे दृष्टौ प्रकाशेऽप्युडुनि द्वयोनः ॥ ११ ॥ ना वर्हिरग्नौ कुशगस्तु न स्त्री ज्वालारुचोरर्चिरनादिलिङ्गम् । पाथिः समुद्रे नरि लोचनेऽन्त्ये ;l{9700} वपुस्तु भव्याकृतिदेहयोश्च ॥ १२ ॥ [90b]धनुः पियालद्रुमधन्विनोर्ना न स्त्री भवेद्धन्वनि राशिभेदे । तपुः पुमानग्निविपक्षसूर्ये चाशीः स्त्रियां स्याद्धितशंसनेऽपि ॥ १३ ॥ ;l{9705} भुजंगदंष्ट्रासु च तादृगासीः स्याद्राक्षसी रात्रिमटाङ्गनायाम् । दंष्ट्रार्थिका चाप्यथ तामसी स्या- न्महानिशायामपि भद्रकाल्याम् ॥ १४ ॥ अहौ खले त्रिष्वथ पुष्कसी स्यान्- ;l{9710} नील्यां च काल्यामधमेऽन्त्यजे ना । ;vv{चतुःसाः} ;c{चतुःसाः ।} धूणे भवेत्सर्वरसोऽपि वाद्य- भाण्डप्रभेदेऽप्यभयागतः स्त्री ॥ १५ ॥ ;p{0384} घनरस उक्तो नीरे निर्यासे मोरटे सान्द्रे । कर्पूरे सिद्धरसेऽस्त्रियां भवेत्पीलुपर्ण्यर्थे ॥ १६ ॥ ;l{9715} तामरसं तु सरोजे ताम्रे स्वर्णेऽपि संप्रोक्तम् । व्याडिप्रभृतिषु च रसे सिद्धरसः स्यान्महारसस्तूक्तः ॥ १७ ॥ खर्जूरे च कसेर्वां भवति तथा कोशकारैश्च । रासेरसस्तु रासे रससिद्धौ स्याद्बलौ तद्वत् ॥ १८ ॥ षष्ठीजागरगोष्ठ्यां शृङ्गारे स्यात्परीहासे । ;l{9720} श्वःश्रेयसं तु भद्रे परमानन्दे च शर्मणि च ॥ १९ ॥ निःश्रेयसं तु मोक्षे कल्याणे चन्द्र[91a]खण्डे च । कुम्भीनसस्तु[भुजगे]सविषज्वालादृशि प्रोक्तः ॥ २० ॥ स[ल]वणमातरि योषिन्मलीमसं पुष्पका[सी]से । लोहे मलिने परवद्यज्ञे स्यात्पौर्णमासो ना ॥ २१ ॥ ;l{9725} योषित्तु पूर्णिमायामधिवासः स्यान्निवासेऽपि । संस्कारे गन्धाद्यैर्दशमुखखड्गे तु चन्द्रहासोऽसौ ॥ २२ ॥ विभावसुः स्यात्तरणौ च हार- भेदे हुताशे सुरगाथकेषु । निशि स्त्रियां भे तु पुनर्वसुः स्या- ;l{9730} त्कात्यायने स्यादथ राजहंसः ॥ २३ ॥ स्याद्रक्तपादाननहंसभेदे कादम्बके पीतपदानने च ॥ २४ ॥ नृपोत्तमे स्यात्कलहंस आद्ये ऽवध्वंस उक्तोऽप्यवचूर्णनेऽपि । ;l{9735} निन्दापरित्यागगतोऽथ मूर्वा- द्राक्षास्वपि स्यादिह दुग्धिकासु ॥ २५ ॥ स्त्रियां मधुरसा नीलञ्जसा विद्युत्सरिद्भिदोः । अप्सरोभिदि हृष्टे तु प्रचेताः पश्चिमाधिपे ॥ २६ ॥ ;p{0385} ज्योतिष्मत्यां सुमेधाः स्त्री मुनौ ना सन्मतौ त्रिषु । ;l{9740} स्त्री भूम्नि पक्षे सुमनाः स्त्री मालत्यां सुरे पुमान् ॥ २७ ॥ खगे विहाया नरि खे तु[91b] न स्त्री सिंहे नगौकाः शरभे खगे च । तादृक् त्वगौका अतियूनि बाल्ये- नुजे कनीयानपि भेद्यलिङ्गः ॥ २८ ॥ ;l{9745} योगे वरीयानतियूनि वर्षे श्रेष्ठेऽथ दीर्घायुरशीतरश्मौ । काके तथा शाल्मलिपादपे च भवेच्चिरंजीविनि वाच्यलिङ्गः ॥ २९ ॥ उदर्चिरग्नौ त्रिषु तूत्प्रभे स्या- ;l{9750} त्सुरे पुनश्चातकके दिवौकाः । सप्तार्चिरग्नौ त्रिषु घोरदृष्टौ त्रिस्रोतसं प्राहुरिह द्युनद्याम् ॥ ३० ॥ सरिद्भेदेऽथ साधीयानतिसाध्वतिवाढयोः । मेघाम्बुध्योः पयोधा ना विबुद्धैः परिकीर्तितः ॥ ३१ ॥ ;vv{पञ्चसाः} ;c{पञ्चसाः ।} ;l{9755} चन्द्रे स चित्रपूपे तथेन्द्रजाले नभश्चमसः । हिङ्गुरसे पिचुमन्दे न स्त्री स्याद्धिङ्गुनिर्यासः ॥ ३२ ॥ स्याद्दिव्यचक्षुरेष त्रितये गन्धज्ञसद्दृष्ट्योः । अग्नौ हिरण्यरेता दिननाथे तद्वदुक्तोऽयम् ॥ ३३ ॥ ;c{सान्ताः ।} ;v{हान्ताः} ;vv{एकहाः} ;c{एकहाः ।} शंभौ शूले कोपे दारुणि हस्ते च कारौ हः ॥ ;vv{द्विहाः} ;c{द्विहाः ।} ;l{9760} ना मार्गशीर्षमासे सहोऽथ न स्त्री बले क्षान्ते ॥ ३४ ॥ स्त्री मुद्गपर्णिकायां[सहदेवायां] [92a]कुमार्यां च । भूमौ नखभेषजके ग्रहः पुनः पूतनाह्वादौ ॥ ३५ ॥ ;p{0386} ना राहावुपरागे निर्बन्धेऽनुग्रहे ग्रहणे । समरोद्यमेऽथ वृषभस्कन्धे वायौ वहो माने ॥ ३६ ॥ ;l{9765} न स्त्री बर्हं पत्रे मयूर पिच्छे परिच्छदे पुंसि । पुंसि क्लीबे च गृहाः पत्न्यां प्रायो बहुत्वे स्युः ॥ ३७ ॥ गेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि । नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले । स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥ ;l{9770} सूर्ये च नैपुणेऽथ प्रोहो हस्त्यङ्घ्रिपर्वार्थः । अविवेके मोहः स्यान्मूर्छायां चाथ लोहोऽस्त्री ॥ ३९ ॥ सर्वत्र तैजसे स्यादयसि च शस्त्रेऽगरुद्रुमे तद्वत् । व्यूहो बलविन्यासे निर्माणे तर्कसंहत्योः ॥ ४० ॥ सिंहः स्यात्पञ्चास्ये राशौ श्रेष्ठे स उत्तरपदगतः । ;l{9775} स्त्री राहुमातृवासाबृहती द्वैद्वे( ? )बुधैः कथितः ॥ ४१ ॥ विपुले त्र्यादिकसंख्यार्थको बहुः स्याद्विशेष्यघ्नः । वृत्रासुरेऽहिराद्ये वप्रे द्वंद्वे तु सर्पे स्यात् ॥ ४२ ॥ ईहा द्वयोरुद्यमवाञ्छ[92b]योः स्या- त्स्कन्दे गुहो योषिति सिंहपुच्छ्याम् । ;l{9780} दर्यां च वाहो मिथुने भुजायां ना मानबाह्वश्ववृषेषु दिष्टा ॥ ४३ ॥ मही धरायां सरिदन्तरेऽथ कुहूः स्त्रियां कोकिलकूजितेऽपि । नष्टेन्द्वमायां ;vv{त्रिहाः} ;c{त्रिहाः ।} ;l{9785} पटहस्तु न स्त्री स्यादानके पुंसि उपक्रमे च ॥ ४४ ॥ ;p{0387} ना खड्गकोशे कलहोऽपि राटौ युद्धे तथा भण्डनवाचकश्च । स्यात्प्रग्रहोऽश्वादिकरज्जुरश्मि- ;l{9790} भुजेषु वन्द्यां नियमे हरिद्रौ ॥ ४५ ॥ सूत्रे तुलाया नरि तद्वदेव प्रग्राह आद्येऽप्यथ भर्त्सने स्यात् । बन्धेऽवधौ चाथ रणे शरीरे स्याद्विग्रहो विस्तरणे विभागे ॥ ४६ ॥ ;l{9795} उद्रङ्गसंक्षेपकमुष्टिषु स्या- न्ना संग्रहोऽथाग्रह आक्रमेऽपि । आसञ्जनानुग्रहणग्रहेषु प्रग्राह उक्तश्च धटस्य सूत्रे ॥ ४७ ॥ अर्वादिकप्रग्रहवाचकोऽथ ;l{9800} अब्दे वराहोऽच्युतपोत्रिणोश्च । स्यान्मानके भूधरमुस्तयोश्च नवाह उक्तः प्रतिपत्तिथौ ना ॥ ४८ ॥ नवे दिने च व्यवहारवाची प्रवाह उक्तोऽम्बुसृतौ[93a]स्वतोऽपि । ;l{9805} त्रये कटाहो धृततैलपात्रे स्यात्पाकपात्रेऽपि च कर्परेऽपि ॥ ४९ ॥ शूर्पे तथा स्यात्कमठस्य पृष्ठे स्यात्कोटरे ना महिषीशिशौ च । उत्साह उक्तो नरि चोद्यमे ऽपि ;l{9810} प्रचक्षते तं सुधियश्च सूत्रे ॥ ५० ॥ आरोह उच्छ्रायनिषादिनोः स्या- द्दैर्घ्ये च माने वनितानितम्बे । ;p{0388} निर्यूह उक्तो नरि शेखरे च निर्यासकद्वारकनागदन्ते ॥ ५१ ॥ ;l{9815} विदेह उक्तस्त्रिषु देहशून्ये पुंसि प्रभौ स्यान्मिथिलानगर्याः । तर्के निरूहो नरि निश्चितेऽपि वस्तिप्रभेदेऽपि भिषग्भिरुक्तः ॥ ५२ ॥ दात्यूहः स्याच्चातके कालकण्ठे ;l{9820} ऽथात्यूहा स्यात्केकिनी स्त्री तु नील्याम् । स्याद्वैदेही जानकीवाणिजस्त्री- पिप्पल्यर्था रोचनायां तथैव ॥ ५३ ॥ गृष्ट्यौषधेऽपि मातृप्रभेद उक्ता च वाराही । एलापर्ण्यां सुवहा गोधापद्यां च शल्लक्याम् ॥ ५४ ॥ ;l{9825} वीणाशेफालिकयो रास्नायां स्यादथो परवत् । सम्यग्वहेऽथ शत्रौ कल्लोहः कुत्सिते लोहे ॥ ५५ ॥ ;vv{चतुर्हाः} ;c{चतुर्हाः ।} [93b]अवग्रहो गजालिके निरोधवृष्टिरोधयोः । स्वतन्त्रतानिषेधने विपश्चितः प्रचक्षते ॥ ५६ ॥ उरीकृतौ पतद्ग्रहेऽप्यवग्रहान्तरे तथा ;l{9830} द्विजार्थदेयवस्तुनि प्रतिग्रहश्च तद्गृहे ॥ ५७ ॥ बलस्य पृष्ठभागके परिग्रहस्तु कीर्तितः कुटुम्बके कलत्रके ग्रहे च मूलशापयोः ॥ ५८ ॥ उपग्रहो धनाधिपोपयोग आनुकूल्यके अभिग्रहोऽभियोजने तथैव गौरवे ग्रहे ॥ ;l{9835} स्यात्पारिबर्हः क्षितिपालयोग्य- वस्तुन्यपि स्याच्च परिच्छदेऽपि । वीणानिबन्धेऽप्युपनाह उक्तः पिण्डे व्रणालेपनके तथैव ॥ ६० ॥ ;p{0389} पितामहो ब्रह्मणि तातताते ;l{9840} तमोपहोऽर्केन्दुजिनेषु वह्नौ । तनूरुहोऽस्त्री गरुतीह लोम्नि समीरणे गन्धवहो नसि स्त्री ॥ ६१ ॥ राजार्हवस्तुनि स्यात्सलिलोच्छ्वासे परीवाहः । हस्त्यारोहे च तथावरोहणे स्याद्वरारोहः ॥ ६२ ॥ ;l{9845} स्त्री वरनारीश्रोण्योरवरोहः स्यात्तरंगे[94a]ऽपि । वल्ल्युद्गमेऽवतारेऽथाश्वारोहोऽश्ववारके पुंसि ॥ ६३ ॥ योषिति तुरंगगन्धावाचक उक्तो विपश्चिद्भिः । अम्लाने तु प्रथिता महासहा माषपर्ण्यां च ॥ ६४ ॥ देहसहस्त्रिषु भिक्षायुक्ते दण्डोत्पलायां स्त्री । ;l{9850} प्रपितामहो विरञ्चौ पितामहे स्यात्पितुः स्वस्य ॥ ६५ ॥ आम्नातमत्र नाम्नि कविमुखधाम्नां हि दिङ्मात्रम् । यत्पदपद्मविभूत्या तं गुरुमत्यादराद्वन्दे ॥ ६६ ॥ ;c{॥ इत्यूष्मान्तवर्गः ॥} ;k{पूर्णाहुतिः} ;c{After this portion Ms. reads the following lines:--} विद्यागर्भविदर्भदेशतिलके देवालये पत्तने श्रौत्रार्हन्त्यसमर्हणीयचरणक्षोणीसुरग्रामणीः । ;l{9855} आत्रेयः सुपवित्रचित्रचरितान्तर्वाणिचूडामणिः [स]द्विद्यानिरवद्यवैद्यकुलजो नारायणोऽभूद्बुधः ॥ ६७ ॥ वाग्वीथीभिरुपस्कृतावनितलो यः सोमपीथी चिरा- दायुर्वेदमहोदधेस्तरिजुषां वायुः किलावामगः । धाम्ना यस्य गुदांगदान्त( ? )पटुना नाम्ना पुराम्नायवि- ;l{9860} द्गर्वं स[94b]र्वजनीनमाशु जहितो दस्रौ सदस्रौ न किम् ॥ ६८ ॥ ;p{0390} वैदर्भीभृत[ग]द्यपद्यकवितामाद्यद्रमाम्भोनिधे- रुद्यन्तीं मुहुराशयत्सुखसुधां भूम्ना बुधान्यो भुवि । श्रीनारायणपण्डितस्य तनयस्तस्य प्रशस्ताभिधः सद्वैद्यो भुवि विश्वनाथ उदभूत्सेवासनाथः पितुः ॥ ६९ ॥ ;l{9865} संसारावर्तसारं सविनयमजयं भागुरीं शाश्वतं च व्याडिं गौडं महेशं सरभसमरुणं मेदिनीं नन्दिनं च । दुर्गं हैमं च वाचस्पतिममरमुणादिं च गोवर्धनीयं रुद्रं चन्द्रं च मालां मतिजलधिकृतां चारु हारावलीं च ॥ ७० ॥ शब्दार्णवं चोत्पलिनीं सुभूतिं ;l{9870} हलायुधं विक्रमभूपतिं च । कोषानशेषानुदयद्विशेषी- च्छेषास्य( ? )सारस्वतपूरपूतान् ॥ ७१ ॥ विभाव्य भूयः सुकविप्रयोगां- स्तेभ्यः समुच्चीय च चारुशब्दान् । ;l{9875} सत्कोषकल्पद्रुम एष भूमौ कृतः कृतिप्रीतिकृतेऽस्ति तेन ॥ २७२ ॥ कवीनां नवीनाभिधालालसा[95a]नां सुभूरिप्रबन्धेक्षणे चालसानाम् । असौ पूरयद्भूतले भानुकामं । ;l{9880} मही चाभुना स्वः समास्तु प्रकामम् ॥ २७३ ॥ श्रीविश्वनाथरचिते कोषकल्पतराविह । कान्तादिभिः सप्तवर्गैर्नानार्थस्कन्ध ईरितः ॥ ७२४ ॥ ;c{इति श्रीमद्विश्वनाथकृतः कोषकल्पतरुः समाप्तः ।} ;c{शुभं भवतु लेखकपाठकयोः । ग्रन्थसंख्या-} ;l{9885} ;c{श्लोक स० ॥ श्री ॥ श्री ॥ श्री ॥ ८५०० ॥ श्री ॥ श्री ॥} ;c{[95b] पु. माधवस्येदं पुस्तकम् । ४८५ पत्रगांठ १८ ॥}