श्री वीरपाण्ड्यभूपालविरचित-क्रियानिघण्टु-प्रारम्भः श्लोकेषु यथा- धातुप्रयोगपर्याये केचित्काव्योपयोगिनः । वीरपाण्ड्यक्षितीशेन वक्ष्यन्ते शिक्षितुं शिशून् ॥ १ ॥ विद्यतेस्तिभवत्यत्र स्यादस्तुस्ताद्भवत्वपि । भूयाद्भवेत्तु भवताद्विद्यतां श्रीर्जगत्त्रये ॥ २ ॥ सम्पद्यते जायते च जजन्त्युत्पद्यते जगत् । सम्भवत्याविर्भवति प्रादुर्भवति सर्वदा ॥ ३ ॥ तिष्ठत्यास्ते वर्तते च वसत्यत्र गृहे रमा । प्राणिति श्वसिति श्रेयान्यः परार्थाय जीवति ॥ ४ ॥ रचयति करोति कुरुते विदधाति विधत्त आदधात्यार्यः । सम्पादयति तथासावाधत्ते सृज्यते सौख्यम् ॥ ५ ॥ उत्पादयति सृजति च निर्वर्तयतीह साधयत्याशु । राध्नोति च साध्नोति च राध्यति साध्यति च सिध्यति प्रीतिम् ॥ ६ ॥ प्रसूयते प्रसूते च प्रसूषति सुवत्यपि । प्रसवत्यपि सौत्येषा पुत्रं पुण्यवती सती ॥ प्रतिष्ठतेञ्चत्ययते व्रजत्ययति सर्पति । ऋच्छत्यटति यात्येति सरतीयर्ति गच्छति ॥ ७ ॥ हंमति द्रवति ग्रामं ग्रामत्यमतिमीमति । ससर्ति च जिहीते च चलत्यभ्रति धावति ॥ ८ ॥ स्रंसते भ्रंशते वस्त्रं ध्वंसतेङ्गात्पतत्यगात् । भ्रश्यते भ्रश्यति फलं डयते डीयते खगः ॥ ९ ॥ आचष्टे वक्ति वाक्यं कथयति गदति व्यक्तमाभाषतेऽसौ व्याख्याति प्रब्रवीति प्रवदति रटति व्याहरत्यागृणाति । १० ॥ ब्रूते सङ्कीर्तयत्यारवति लपति चोदीरयत्याह जल्पत्यत्यन्तं श्रीपते त्वं क्वणति भणति मां रक्ष रक्षेति धीमान् ॥ नादयते नदतेऽणति वणति वनत्येष जल्पते जपति । अभिधत्तेऽभिदधातीच वादयति ह्रादयत्येनम् ॥ ११ ॥ नाटयति नटति नृत्यति गायति कायति च कूर्दते किलति । क्रीडतिदीव्यतिकेलतिखेलति विहरति च खूर्दते रमते ॥ १२ ॥ कक्कतिकखतिप्रहसतिगग्घतिघग्घति च तक्कति स्मयते । निक्षति चुम्बति निकस्ते तन्व्या मुखपङ्कजं प्रेयान् ॥ १३ ॥ ददाति दत्ते वितरत्यर्पयत्येष यच्छति । ददतेर्पयतेचार्थं सनोति सनुतेर्थिने ॥ १४ ॥ रक्षत्यवति दयते पातिपालयति प्रियं । त्रायते नयते राजा गोपायति भुनक्ति च ॥ १५ ॥ नमतिनमस्यतिविष्णुं प्रणिपतति च वन्दतेऽभिवादयते । ईट्टेनौतिदनुवतिस्तुतेच शंसत्ययं स्तौति ॥ १६ ॥ स्तवीती डयतिस्तोत्रैः कत्थते श्लाघते गुरून् । पणायते पनायते पणायति पनायति ॥ १७ ॥ अर्चत्यर्हतिमहतिचमहयतिपूजयतियजतियजतेच । अञ्चत्यर्चयतेऽयंपूजतिमानयतिचार्हयत्यार्यान् ॥ १८ ॥ पचतेपचतिश्रातिरन्धयत्यत्रपाचकः । श्रायत्यन्नं श्रपयतितथाश्रापयतिक्षणात् ॥ १९ ॥ भ्रज्जतेभ्रज्जतिभ्राष्ट्रे भर्जतेचणकानयं । मज्जत्याप्लवतेस्नातिगङ्गायामवगाहते ॥ २० ॥ अश्नाति वल्भते भुङ्क्ते जेमतिप्रत्यवस्यति । धन्योऽभ्यवहरत्यन्नं संविभज्यार्थिभिस्सह ॥ २१ ॥ चर्वतिप्सातिताम्बूलं भक्षयत्यत्ति खादति । धयत्याचामतिपयस्सदापिबतिचूषति ॥ २२ ॥ गिलतिग्रसतिग्रासं गिरतिग्रसते तथा । वमत्युद्गिरतिच्छर्दत्यसौ छर्दयतिक्षणात् ॥ २३ ॥ निष्ठीव्यतिक्षिप्यतिच निष्ठीवतिनिरस्यति । क्षिपतिस्नुह्यतिक्षिप्रमुद्गारयति भक्षितम् ॥ २४ ॥ वेत्तिजानातिजानीते तत्त्वं बोधतिबोधते । प्रत्येतिचोपलभतेबुद्ध्यतेप्रतिपद्यते ॥ २५ ॥ उत्प्रेक्षते च मनुतेचोत्पश्यति च मन्यते । सम्भावयत्यूहते च विचारयति तत्त्वतः ॥ २६ ॥ विन्तेविमृशतितर्कतिवितर्कयत्यतिशयान्निरूपयति । परिगणयतिमीमासत्यालोचयति स्फुटं परामृशति ॥ २७ ॥ आलोचयते कार्यं यो राजा स प्रतीयते सौख्यम् । चिन्तयति स्मरति हरिं ध्यायत्यध्येतिभावयत्यार्यः ॥ २८ ॥ पश्यत्यालोकते कान्तामीक्षते लोचते पतिः । शृणोत्याकर्णयति च निशामयति तद्वचः ॥ २९ ॥ जिघ्रतिशिङ्घतिकमलं रसयत्यास्वादयत्यसौ लेढि । आलभतेस्पृशतिपरामृशतिच्छुपतिप्रियां नाथः ॥ ३० ॥ विस्फुरतिप्रस्फुरतिस्फूर्जत्यथ निर्णयत्यवस्यति च । अवधारयति च कार्यं निश्चिनुतेनिश्चिनोत्यार्यः ॥ ३१ ॥ सन्दिग्धे संशेते सन्देग्धिविशङ्कतेविशेते च । विचिकित्सतिविमृशत्ति चान्दोळयतिचेत्यभिन्नार्थाः ॥ ३२ ॥ मारयतिहन्तिविशसतिकृषतिहिनस्तिप्रमापयत्याजौ । मीनातिद्रूणातिकृणोति च निबर्हयत्यर्थार्दयते ॥ ३३ ॥ मीनीतेकूणीतेसंहरतितृणेढिसूदयत्येषः । कृणुतेकृणातिलुम्पतिलुम्भति शत्रून् कृणीते च ॥ ३४ ॥ क्षिणोतिक्षिणुते चैव क्षिणति क्षयतीत्यपि । दहतिप्रोषतिप्लोषत्योषतिप्लुष्यति द्विषम् ॥ ३५ ॥ आपद्यते च लभतेप्राप्नोतिच विन्दतेच विन्दति राट् । आसादयति च भवतेभावयते सम्पदं धीरः ॥ ३६ ॥ प्रेरयतिप्रेलयतिप्रेषयतिप्रेष्यतिप्रचोदयतिक्षिप्यति । सुवतिक्षिपतिव्यापारयतीह नुदति नुदते च ॥ ३७ ॥ आज्ञापयतिनियुङ्क्तेप्रहिणोतिनियोजयत्यलं क्षिपते । भजतेभजतिश्रयतेश्रयति नृपं सेवते सजति ॥ ३८ ॥ वृक्षं त्वक्षतितक्षतिद्यतिपुमान् तक्ष्णोतिसंवृश्चति । छिन्तेछेदयतिच्छिनत्तिच लुनात्याखण्डतेमुण्डति ॥ ३९ ॥ . पाशं तोडतितोडयत्यपि खुरत्याखण्डयत्यन्वहं । कृन्तत्यत्र छिनत्तित्रुट्यतिलुनीतिदच्छ्यतीमे समाः ॥ अभिलषतीच्छतिवांच्छतिगृध्यतिलुभ्यतिचवष्टि कांक्षति च । स्पृहयत्याशास्तेऽर्थं कामयतेऽपेक्षतेऽर्थयते ॥ ४० ॥ गर्धयतीप्सतिवरयतिगर्धतिकामयतिकांक्षते प्रेम्णा । ध्रांक्षतिवांक्षतिधीमान् ध्वांक्षतिद्रांक्षतिश्रियं मोक्षे ॥ ४१ ॥ मोक्षत्यपावुत्सृजतिजहात्युज्झतिमुञ्चति । मुञ्चतेमोचयत्याशु सुधीः परिहरत्यघम् ॥ ४२ ॥ मोक्षयतिरहतिरहयतिवर्जयतिवृणक्तिजस्यतित्यजति । कृषतेकर्षतिकृष्यतिविलिखति भूमिं सदा कृषिकः ॥ ४३ ॥ प्रतिषिध्यतिवारयतिप्रतिषेधति तन्निराकरोत्यल्पात् । प्रत्यादिशति च दोषात् प्रत्याचष्टेनिषेधति प्राज्ञः ॥ ४४ ॥ स्तभ्नातिस्तम्भते चैव स्तभ्नोतिस्तोभते तथा । स्तुभ्नाति प्रतिबध्नातिस्तुभ्नोतिस्कोभते तथा ॥ ४५ ॥ स्कुभ्नाति च विहन्त्येषस्कुभ्नोतिस्कम्भते रिपून् । स्कभ्नोतिस्कभ्नाति चैते शब्दास्तुल्यार्थवाचकाः ॥ ४६ ॥ सहतेमृष्यतिमर्षतितितिक्षतेमृष्यते तथा मृषति । मर्षयतिक्षाम्यति च क्षमतेमृषयत्यसौ सहति ॥ ४७ ॥ शक्यतेशक्यतिबुधस्सहयत्यपि दुर्वचः । यच्चर्चयत्यधीते च शिक्षतेपठतिश्रुतम् ॥ ४८ ॥ एधतेवर्धतेनन्दत्यृध्यतिस्फायते बुधः । ऋध्नोतिस्त्यायतेनित्यं नीतिमान् पुष्यति श्रियम् ॥ ४९ ॥ यततेव्याप्रियतेऽसौ प्रयस्यतिव्यापिपर्तिघटते च । चेष्टत ईहत एष स्फुरत्यलं स्पन्दते चक्षुः ॥ ५० ॥ तुदतेतुदतिदुनोतिव्यथयतिदूःखयतिरुजतितापयति । क्लिश्नातिखेदयत्यपि पीडयति रिपून् प्रशूलयति ॥ ५१ ॥ धुक्षतेधिक्षते नित्यं बाधते बाधयत्यपि । शुन्धतिक्लेशयत्येष तथा वुन्धति लुण्ठति ॥ ५२ ॥ व्यथतेताम्यतिखिन्दतिसन्तपति च दूयते च शोचति च । ग्लायतिचम्लायतिच क्लिश्यत्याखिद्यते च सीदति च ॥ ५३ ॥ धूपायतेक्लेशतेचखिन्तेकर्जतिखर्जति । एते धातुप्रयोगाः खल्वीषदेकार्थसूचकाः ॥ ५४ ॥ मुरयति च गुणयतिगुध्यतिवटतिस्त्यायतिच वेष्टते वस्त्रम् । गुण्ठयतिमुण्डतेऽसौ वण्डत इत्येकवाचकाश्शब्दाः ॥ ५५ ॥ सिनुतेसिनोतिनह्यतिबध्नातिसिनातिनह्यतेजुडति । आशुयुनातियुनीतेपाशयति सिनीत एष कीलयति ॥ ५६ ॥ धुनोतिधुनुते पुच्छं धूनोतिधुवति स्फुटम् । धुनाती च धुनीते च कम्पयत्येष धूनुते ॥ ५७ ॥ आदत्ते संभजते संभजति स्वीकरोति गृह्णीते । गृह्णाति चाददाति ग्राहयति वृणीत इत्यभिन्नार्थाः ॥ ५८ ॥ विलोडयतिमथ्नाति खजत्यालोडयत्यपि । मथत्यब्धिं मन्थतिच व्यालोडति विलोडति ॥ ५९ ॥ कुप्यतिक्रुध्यतिद्वेष्टिरुष्यतिद्रुह्यतीर्ष्यति । रोषत्यसूयति तथा रोषयत्यरये भटः ॥ ६० ॥ प्रावृणुतेकुम्भयतेस्तृणोतिवस्त्रैस्तृणातिकुम्भयतिच । स्तृणुतेचाच्छादयतिप्रोर्णोतिप्रोर्णुते स्वाङ्गम् ॥ ६१ ॥ प्रावृणोतिस्तृणीतेथ विदारयति हृद्गतं । भिनत्तिस्फोटयत्येष भिन्तेदारयतिस्फुटम् ॥ ६२ ॥ पिदधातिस्थगयति पिधत्ते चावृणोति च । अपिधत्ते चावृणुतेच्छादयत्यन्यदुर्गुणान् ॥ ६३ ॥ कम्पते वेपते त्वंगत्यजतिप्रचलत्यपि । निद्रातिच वटुश्शेतेसस्तिच स्वपितीत्यपि ॥ ६४ ॥ रुण्टतिलुण्टतिमुषतिच मोषति मुष्णाति चोरयत्यर्थम् । लुण्टयतिग्रोचतिच ग्लोचतिकोजतिचभोजतिक्षतबुद्धिः ॥ ६५ ॥ बिभेत्युद्विजते त्रस्यत्येष त्रसति शङ्कते । विद्रातिविद्रवत्येष धावत्यपि पलायते ॥ ६६ ॥ भ्रमतिभ्राम्यतिभ्रामयत्याघुणति । घोणतेघूर्णति तथा कीर्तिस्ते भुवनत्रये ॥ ६७ ॥ तंसत्यलङ्करोत्येष भूषयत्यपि भूषते प्रसाधयत्यपि गुणैर्या मण्डयति मण्डति ॥ ६८ ॥ द्योततेशोभतेसम्यग्भासते च प्रकाशते । भ्राजतेदीप्यतेभाति राजा राजतिराजते ॥ ६९ ॥ हटत्ययं कनतिच तथा शुम्भतिशुम्भते । चकास्ति रोचते चैव भ्राशते भ्लाशते बुधः ॥ ७० ॥ श्च्योततिक्षरतिक्षीरं स्तनात्स्रवति सूदते । वत्सं पाति च पुष्णातिपुष्यत्युपचिनोति च ॥ ७१ ॥ नदतिध्वनतिरौतिकौतिस्वनतिकूजति । कवते कुवते पक्षी तथा कुञ्जति गुञ्जति ॥ ७२ ॥ जुगुप्सतेकुत्सयते विगर्हयतिनिन्दति । गर्हतेग्लहतेपापात्तथा बीभत्सते सुधीः ॥ ७३ ॥ शपतेशपतिक्रोधात्तथा शप्यतिशप्यते । आक्रोशत्याक्षिपति च दुर्जनं सकलो जनः ॥ ७४ ॥ जिह्रेतित्रसतेह्रीच्छत्यलं व्रीडतिलज्जते । लज्जते दुश्चरित्राणि दृष्ट्वान्यस्य स्वयंसुधीः ॥ ७५ ॥ आश्लिष्यत्यालिङ्गति परिरभते दिग्वधूः परिष्वजते । उपगूहति कीर्तिश्रीः कुन्देन्दुसमप्रभावी बुधः ॥ ७६ ॥ स्वदतेस्वादतेक्षीरं स्वर्दते रोचते नृणां । द्रायतिप्रीयते चतुर्भुक्त्वा तृपति तृप्यति ॥ ७७ ॥ प्रीणातितर्पयत्यलमाह्लादयतिवा तृप्नोति । सन्तोषयतिधिनोतिप्रीणयतिपृणोतिसुखयति प्रौडः ॥ ७८ ॥ स्निह्यतितूषतितुष्यतिहृष्यति दृष्ट्वैव मोदते कान्तम् । दृप्यतिमाद्यतिकर्वतिखर्वति सा क्षीबते च गर्वति च ॥ ७९ ॥ विचिनोत्यवेक्षतेऽसावन्विष्यतिमृगयते गवेषयति । अन्वेषते च मार्गतिमार्गयति च विचिनुते दोषान् ॥ ८० ॥ आकारयत्याह्वयति स्वमामन्त्रयते प्रियं । अथ पर्यनुयुङ्क्तेऽसावनुयुङ्क्ते स पृच्छति ॥ ८१ ॥ परिवर्तते निवर्तत एष व्यावर्तते च गत्वैव । व्याघटते च परावर्तत इत्येकवाचकाश्शब्दाः ॥ ८२ ॥ उपदेग्ध्युपदिग्धे सा लिम्पति रूषति च कुङ्कुमं छुरति । दृष्ट्वा प्राणाधीशं विकिरति विक्षिपति पादयोः कुसुमम् ॥ ८३ ॥ शक्नोति सहते जेतुं सहति प्रभवत्यलम् । तरति प्लवते ज्ञानसेतुना भववारिधिं ॥ ८४ ॥ सङ्ग्रामयते जजति च संप्रहरति युध्यते च जंजति च । आहन्ति च गदयाऽसौ युध्यति सन्तापयत्यलं शत्रून् ॥ ८५ ॥ कन्दति क्रन्दति क्लन्दत्याक्रोशति च कन्दते । क्रन्दते क्लन्दते शोचत्यलं रोदिति दुर्मतिः ॥ ८६ ॥ प्रलम्भयति बध्नाति तथा गर्धयते खलः । प्रतारयत्यल्पबुद्धींस्तदा वंचयते नरान् ॥ ८८ ॥ वरिवस्यति परिचरति च पर्यङ्क्ते सेवते भजति । शुश्रूषते च भजते श्रयते चाराधयत्युपास्ते च ॥ ८९ ॥ प्रसादयति देवेशं तथोपचरति स्फुटं । पर्यंजति तथा धीमान् प्रायेणैकार्थवाचकाः ॥ ९० ॥ मनत्यभ्यस्यति कलास्संशीलयति शीलति । विस्रम्भते विश्वसिति प्रत्येति च सतां वचः ॥ ९१ ॥ उन्मीलयति च विलसति विकसति च स्फोटते स्फुटत्याशु । उन्मेषत्युन्मिषति प्रबुध्यते जृम्भते पद्मम् ॥ ९२ ॥ पूत्वा पवित्वा प्रशमय्य नष्ट्वा नशित्वा च विहाय हित्वा । संन्यस्य संसाय निखाय खात्वासङ्गत्यसंगम्यनिहत्यहत्वा ॥ ९३ मृडित्वा मृदित्वा कुपित्वाकुषित्वामृषित्वारुषित्वाविदित्वागृहीत्वा । कृषित्वाचकृत्वामुषित्वाक्लिशित्वाखनित्वाक्षुधित्वावचित्वा लुचित्वा ॥ ९४ ॥ पंचित्वावंचित्वालुंचित्वाक्रम्यचक्रमित्वाच । तर्षित्वामर्षित्वाकर्षित्वातत्त्वतोगुधित्वा च ॥ ९५ ॥ गुम्फित्वालुम्फित्वालोभित्वा खलु लुभित्वा च । क्लिष्ट्वापक्त्वारुद्ध्वाबद्ध्वाप्रस्कन्द्यनिष्कंद्य ॥ ९६ ॥ मत्वा खात्वाज्ञात्वाग्रन्थित्वाचग्रधित्वाच । अर्तित्वानर्तित्वाप्रापय्यसमाप्यचांचित्वा ॥ ९७ ॥ पीत्वापरिव्यायविधायचोक्त्वाव्याख्यायधीत्वापरिवीयधित्वा । संव्यायसंक्षीयविजायमीत्वाविजित्यसंमन्यमनोमनित्वा ॥ ९८ ॥ विगायावमायावमत्यप्रमत्यप्रयम्यप्रयत्यप्रणत्यप्रणम्य । निमायप्रमायप्रलायप्रलीयप्रवृश्च्यप्रपायप्रहायप्रदाय ॥ ९९ ॥ दत्वादात्वादित्वाधीत्वाप्रस्थायचस्थित्वा । नत्वामित्वामीत्वासंदायविहायचारुसंमाय ॥ १०० ॥ द्यूत्वाजलित्वावृश्चित्वाक्षूत्वावृत्वाविवृत्य च । तर्णित्वाधक्षणित्वाचप्रक्षित्यादिचोह्यताम् ॥ १०१ ॥ इति श्रीपाण्ड्यभूपालविरचितक्रियानिघण्टुः समाप्तः ।