;METADATA ;title{लिङ्गविशेषविधि} ;author{वररुचि} ;bookFullName{अथ षट्कोशानां संग्रहः} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{श्रीकाशीजी में ज्ञानवापी के पूर्व फाटक पर श्री विश्वनाथजी के पास श्री३युत महाराज शिवलाल दुबेजी के मकान में छपी ।} ;pressDetails{जिनको लेना होय उन्होने इस् छापेखाने के कार्यसंपादक बाबू वाराणसीप्रसाद या कचौरी गली मेम् भाई प्रतापसिंहजी के दुकान पर मिलेगी ।} ;publicationYear{1930 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{LVVV} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri Kailasasagarasuri Gyanamandira for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{false} ;chapterArrangements{} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{28 February 2020} ;version0.0.2{28 February 2020} ;version0.0.3{28 February 2020} ;version0.0.4{28 February 2020} ;version0.1.0{28 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} श्रीगणेशाय नमः । पाशाङ्कुशप्रभृतिभूषणभूषिताङ्गीं सर्वाङ्गरम्यरमणीयविचित्रवेषाम् । ब्रह्मादिसेवितपदां कमनीयरूपां दुर्गां भजामि सततं त्रिपुरारिसेव्याम् ॥ १ ॥ शब्दा बहुविधा लोके सन्ति यद्यपि विस्तरात् । तथापि केचिद्गद्यन्ते छात्राभावत्कहेतवे ॥ २ ॥ जातिशब्दाः क्रियाशब्दा गुणशब्दास्तथाऽपरे । सञ्ज्ञाभेदा भवन्त्यत्र सङ्क्षेपादुच्यते विधिः ॥ ३ ॥ गौरश्वः पुरुषो हस्ती शकुनिर्ब्रा[ब्रा]ह्मणस्त्विति । एधते धयते शेते भवतीत्येवमादयः ॥ ४ ॥ रक्तः श्वेतोऽर्बुदः कृष्णा एवं डित्थकपित्थवत् । पुंसि केचित्स्त्रियामन्ये क्लीबे केचिदुदीरिताः ॥ ५ ॥ स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । अनयोरन्तरं यच्च तद्वै प्रोक्तं नपुंसकम् ॥ ६ ॥ दृष्ट्वा जैमिनिकोशसूत्ररचनां कात्यायनीयं मतं व्यासीयं कविशङ्करप्रभृतिभिर्यद्भाषितं निश्चयात् । यच्चानन्दकविप्रवीररचितं बद्धं च यद्दण्डिना यद्वात्स्यायनशाश्वतादिकथितं कुर्वेऽभिधानाद्भुतम् ॥ ७ ॥ मा कुर्वन्तु भयङ्करालकलितः प्रायः श्रुतेर्नाशनात् सर्वभ्रान्तजनादनेकककविता हीनप्रगल्भाश्रयात् । उद्धारं भवतां विधाय हृदये भो भ्रातरोऽयं मया कर्त्तव्यः परमोद्यमः श्रमविधेः शब्दात्कुतः सीदथ ॥ ८ ॥ किं पद्यभाररचनाभिरनेकवारं किं वल्गनैः किमिह दर्पपरीतवाक्यैः । यल्लभ्यते किल समाधिविधेर्विधानात् किं तत्र विस्तरविवेचनवाग्भिरर्थः ॥ ९ ॥ को वेद शब्दजलधेरखिलस्य पारं सारं विधाय विधिना मनसो विचारात् । शम्बूकमर्कटझषादिभिरेव सङ्गः प्रायो भवेदिह न रत्नमिलिः कदापि ॥ १० ॥ यावान्कश्चित्त्रान्तःशब्दोऽत्र नपुंसके हि बोद्धव्यः । वर्जं हि पुत्रमन्त्रश्वित्रानेवं? गरित्रं च ॥ ११ ॥ यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः । ;p{0002} तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः । यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च । इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥ यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे । स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता । सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥ स्थूणोर्ण इति । स्थूणा चोर्णा च स्थूणोर्णे स्त्रीयोगे स्तः स्त्रीलिङ्गे भवत इत्यर्थः । इयं स्थूणा काष्ठमयी द्विकर्णिका । इयमूर्णा मेषलोमा । तयोरेव स्थूणोर्णयोर्यथासङ्ख्यगृहशशपूर्वकयोर्नपुंसकत्वम् । इदं गृहस्थूणम् । इदं शशोर्णम् । शशपूर्वकयोरिति किम् । इह मा भूत् इयं स्थालास्थूणा । इयं मेषोर्णा । सर्वशब्दो निर्विशेषवाची । सर्वमक्षिनाम जलनाम च नपुंसके भवति । अक्षिनाम तावत् । इदमक्षि लोचनं नेत्रं नयनं‌ चक्षुर्दृगम्बकमीक्षणादि । ;p{0003} जलपर्याय इदं जलं तोयं‌ सलिलमम्बु नीरं वार्वारि काननमुदकं वनमित्येवमादि । जलशब्दत्वादप्शब्दस्यापि नपुंसकत्वं प्राप्नोतीत्याह मुक्त्वापः अप्शब्दं वर्जयित्वेत्यर्थः । अस्य हि स्त्र्यधिकारात्स्त्रीत्वम् । इमा आपः बहुवचनान्तः सदैव । जलकुसुमनाम सर्वं नपुंसकं स्यात्पद्मस्तु विभाषया । अभ्रादृतेऽम्बुदाख्या हि केशनखदन्तसञ्ज्ञाश्च ॥ १४ ॥ जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः । कण्ठस्तनबाहूनां सञ्ज्ञा पुंसि स्त्रियां भवेद्ग्रीवा । पृष्ठललाटांशोदरजत्रूणि नपुंसकानि स्युः ॥ १५ ॥ कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः । ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च । घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥ ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः । ;p{0004} अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरज् ईवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।" प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री । जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥ प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः । ;p{0005} इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च । स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च । दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥ स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे । मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् । सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥ मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः । ;p{0006} त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च । पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥ एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी‌ परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् । पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः । एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥ पुंसो योगः पुंयोगः तस्मिन् कर्णहनू भवतः । यथा अयं कर्णः श्रोत्रं कुन्तीपुत्रश्च । हनुः कपोलप्रदेशः । श्मश्रुजानुगुदशब्दाः नपुंसके भवन्ति । इदं श्मश्रु मुखैकदेशरोमराजिः । इदं जानु जङ्घामध्यस्थानम् । इदं गुदमपानम् । अभिधीयतेऽनेनेत्यभिधानं एकं च तदभिधानं च तस्य भावः एकाभिधानता स्यात् भवेदित्यर्थः । अस्राश्रुणोर्नित्यं नपुंसकता भवति । इदमस्त्रम् । इदमश्रु । नयनजलमिति । एक एवार्थः नित्यवचनं पूर्ववत् । घुसकिरुपसर्गपूर्वः पुंस्यन्योपपदे वेषुपूर्वः स्त्री । येभ्यो नञ्तान्पुंस्युक्तान्याञ्चा विना विद्धि ॥ २२ ॥ घु इति । "दाधा घ्वदाबि"ति षण्णां धातूनां घुसञ्ज्ञा विहिता । सह किना वर्त्तत इति सकिः । "उपसर्गे घोः कि"रित्यादिना विहितः किप्रत्ययो गृह्यते । उपसर्गा प्रादयः । उपसर्गाः क्रियायोग इति । उपसर्गः पूर्वो यस्य स एव पुंल्लिङ्गो भवति । यथा अयमादिः[दि] । निधिः प्रणिधिः आधिः सन्निधिः इत्येवमादयः । "अन्योपपदकर्मण्यधिकरणे चे"ति किप्रत्ययः । अयमम्भोधिः जलधिः उदधिः तोयधिः शरधिः इत्येवमादयः । इषुशब्दोपपदे वा स्त्री । इयमिषुधिः । अयमिषुधिः तूणीरम् । येभ्यो धातुभ्यो नञ्प्रत्ययः । तान् पुंस्युक्तान् विद्धि जानीहि । याच्ञशब्दं वर्ज्जयित्वा । यज याच यत विच्छ प्रच्छ । रक्षो नङिति नङ्प्रत्ययः । ;p{0007} अयं यज्ञः यत्नः विष्णुः । प्रश्नः । रक्ष्णः । एवं तर्हि याञ्चशब्दस्यापि नङन्तत्वान्नपुंस्त्वं स्यात् । इत्यत आह । याञ्चां विनेति । स्त्र्यधिकारात्स्त्री याञ्चार्थना । तनुकायशरीराणि स्त्रीपुन्नपुंसकेषु जानीहि । दधिसक्थ्यस्थीनि स्युर्नपुंसके स्त्री तु कक्षा स्यात् ॥ २३ ॥ एतान् शब्दान् यथासङ्ख्यं स्त्रीपुन्नपुंसकेषु विद्धि । इयं तनुः । अयं कायः । इदं शरीरम् । दधिसक्थ्यस्थिशब्दा नपुंसके स्युः । यथा इदं दधि क्षीरविकारः । इदं सक्थि उर्वोर्मध्यम् । इदमस्थि कीकसम् । कक्षाशब्दः स्त्रियां भवेत् यथा इयम् कक्षा बाहुमूलम् । अन्यच्च । "जघनाभरणे स्त्रीणां करीणां मध्यबन्धने । अवस्थासु च हर्म्यानां नित्यं कक्षा व्यवस्थिता ।" सुमनोऽप्सरोविरहितमद्व्यच्कमसन्तन्तु पुंसि स्यात् । द्व्यच्कं पुनर्नपुंसकप्रकृतादन्यत्र वै जरसः ॥ २४ ॥ सुमनस् अप्सरस् इत्येताभ्यां विरहितमुज्झितमित्यर्थः । अस् अन्ते यस्य तदिदमसन्तं पुंसि भवेदित्यर्थः । अयमङ्गिराः चन्द्रमाः स्थूलशिराः । पुरूरवाः उच्चैःश्रवाः दुर्वासाः पृथुयशा इत्यादयः । सुमनसोऽप्सरसश्च स्त्र्यधिकारात्स्त्रियां प्रवृत्तिः । इमाः सुमनसः कुसुमानि । इमा अप्सरसो देवस्त्रियः । द्व्यच्कमसन्तं नपुंसकं भवति । इदमोजः तेजः वर्चः शिरः यशः छन्दः श्रोतः चेतः पयः तपः अम्भः । जरस्शब्दस्यापि नपुंसकता स्यादित्यत आहान्यत्र वै जरसः । नपुंसकात्प्रकृताच्च पुंल्लिङ्गादन्यस्मिन् जरस् शब्दो भवति । स्त्रियाम् । इयं जरा वृद्धभावः । पुंसि क्षुरखुरबिन्द्विक्षुपायुमणिकीलकेलिबलयः । निघसङ्घोद्घोपघ्नौघविघ्नघर्मार्घवर्णाश्च ॥ २५ ॥ एते शब्दाः[ब्दा] पुंसि भवन्ति । तद्यथा । अयं क्षुरः नापितोपकरणः । अयं खुरः पशुपादः । अयं बिन्दुः विसर्जनीयावयवः । अन्यच्च । अयमिक्षु सस्यजातिः । अयं पायुः अपानम् । अयं मणिः रत्नम् । कीलः शङ्कुः प्रहरणविशेषः । अयं केलिः हासः ॥। अयं के[क]लिः कलहः । अयं बलिर्दैत्यः राजगृह्यदेवतोपहारौ च । ;p{0008} निघादयः‌शब्दाः पुंसि भवन्ति । अयं निघः‌ पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि । पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च । नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥ पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् । नपुंसके श्वभ्रतृणरणार्णानि । वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥ एते नपुंसकलिङ्गे भवन्ति । इदं श्वभ्रं गर्त्तः । इदं तृणं गृहच्छादनद्रव्यविशेषः । रणं युद्धम् । ऋणमुद्धारः अधमर्णश्च । एतान् शब्दान् स्त्रियां नियतं निश्चितं विद्यात् । इयं वीणा वाद्यविशेषः । तूणा इषुधिः । इयं घोणा नासिका । इयं घृणा दयाबुद्धिः । तुशब्दः पादपूरणे । यदनान्तमकर्त्तरि तन्नपुंसके विद्ध्यनिः स्त्रियामेव । यौ?भावेऽणापौ तौ पुंस्युक्तौ मन्युमृत्यू च ॥ २८ ॥ अन अन्ते यस्य तदिदमनान्तं अकर्त्तरि अन्प्रत्ययान्तं यत्प्रातिपदिकं तन्नपुंसके विद्धि जानीहि । "नपुंसकाद्भावे क्त" इत्यत्र "वर्तमाने ल्युट् चे"ति ल्युट् । "युवोरनामि"त्यनादेशः । वचनं भजनं भाजनं पानं आसनं प्रयाणं शासनम् । अधिकरणमित्यादि । अकर्त्तरीति किम् । "नन्द्यादिभ्यो ल्युट्" । नन्दनः मरणः मदनः कुलनः शतनः दमनः सङ्कर्षणः मधुसूदनः जनार्दन इत्यादि । अनिः स्त्रियामेव । ;p{0009} एवकारोऽवधारणार्थः । "आक्रोशे नञ्यनिः" । यथा इयमम्भोजनिः अकारणिः अहरणिः अखादनिः अशरणिरित्येवमादिः । अण च अप्च अणापौ यौ तौ पुंस्युक्तौ । णौ अण् चेत्यण् प्रत्ययः । त्यागः उपदेशः उपसर्गः इत्यण्प्रत्ययः । निघः पर्वतः । किञ्चान्यौ मन्युमृत्यू पुंसि भवतः । अयं मन्युर्दया शोकश्च । मृत्युर्नाशः । पटपुटकटघटचण्टवाटजूटवटा हि पुंस्युक्ताः । अवटखटपट्टकिराटकीटाश्च कूटतटयोश्च नपुंसकता ॥ २८ ॥ एते पटादयः शब्दाः पुंसि भवन्ति । अयं पटः प्रावरणः । पुटः पत्रस्य । कटस्तृणस्य । कटो गजकुम्भश्च घटः कलशः । चण्टः फलनिबन्धनम् । वाटः मार्गः । जूटः केशबन्धनम् । वटो वृक्षविशेषः । अवटः कूपः । खटः शिरसि प्रहारः । पट्टः राजप्रसादः । किराटो वणिक् । कीटः कृमिः । कूटतटशब्दौ नपुंसके भवतः । इदं कूटं द्रव्यस्थानम् । इदं तटं नदीकूटम् । घण्टाजटासटानां प्रथमाप्रकृतिर्वसाशिफानां च । स्वर्नाम्नां पुंयोगस्त्रिविष्टपं स्यादुभयहीनम् ॥ २९ ॥ एते घण्टादयः शब्दा स्त्रियां भवन्ति । प्रथमा[प्र]कृतिः स्त्रीलिङ्गमित्यर्थः । इयं घण्टा वाद्यविशेषः । इयं जटा केशविन्यासः । इयं सटा केशरः । इयं वसा मेदः । इयं शिफा कन्दः । अयं स्वर्गः नाकः । अयं त्रिदिवः स्वर्गादिनामत्वात्पुंस्त्वं त्रिविष्टपस्य प्राप्नोतीत्यत आह । त्रिविष्टपं स्यादुभयहीनम् । न स्त्री न पुमानित्यर्थः । इदं त्रिविष्टपं स्वर्गः । संवत्सरगिरिमासार्णवर्त्तुदेवासुराभिधानानाम् । नित्यं पुंयोगः स्याच्छरासिपङ्कारिनाम्नां च ॥ ३० ॥ अभिधानशब्दः प्रत्येकमभिसम्बध्यते । संवत्सराभिधायिनां शब्दानां संवत्सरपर्यायाणां च । गिर्यादिपर्यायाणां च । पुंयोगः स्यादित्यर्थः । तद्यथा अयं संवत्सरः हायनोऽब्द इत्यादि । अयं गिरिः पर्वतः धरः शैल इत्यादि । मासाभिधायिनाम् । अयं मासः द्विपक्षः । मासविशेषोऽपि अयं चैत्रः वैशाखः ज्येष्ठः आषाढ इत्यादि । अर्णववाचिनाम् । अयमर्णवः समुद्रः सागरः पारावारः सरित्पतिरित्यादि । अयमृतुः वसन्तः ग्रीष्मः । ;p{0010} देववाचिनाम् । देवः सुरः । असुरवाचिनाम् । असुरः दैत्यः । शराभिधायिनाम् । शरः काण्डः । अयमसिः खड्गः मण्डलाग्रः । अयं पङ्कः कर्दमः जम्बालः । अयमरिः शत्रुः वैरी रिपुः विपक्ष इत्यादि । भाष्कच्छुकशारज्ज्विष्टकाश्च नित्यं स्त्रि[स्त्री]यामीषिका च । विद्युद्दिग्भूम्यभिधानं वल्ली सरितां च विज्ञेयम् ॥ ३१ ॥ एते शब्दाः नित्यं स्त्रियां भवन्ति । इयं भाः दीप्तिः । कच्छुः पामा । कशादनी । रज्जुः कुशमयी । इष्टका पक्व[क]मृत्तिका । इषिका वीरणशलाका कष्ठिका? च । विद्युदादीनामभिधानं स्त्रियां भवति । यथा इयं विद्युत् तडित् चञ्चला शतह्रदा क्षणप्रभा सौदामिनी ऐरावतीत्यादि । दिगभिधानम् । आशा काष्ठा ककुप् विदिगित्यादयः । भूम्यभिधानम् । इयं भूमिः धरा रसा पृथ्वी क्षमा क्ष्मा इत्यादिः । वल्ल्यभिधानम् । इयं वल्ली व्रततिः प्रतानिनीत्यादयः । सरिदभिधानम् । इयं सरित् नदी कुल्या स्रवन्ती निम्नगा तटिनीत्यादयः । छायासुरानिशावालुकाः स्त्रियां स्युश्चमूकन्थेराश्च । आपत्संपद्विपत्प्रतिपत्समिद्विप्रुषश्चैव ॥ ३२ ॥ छायादयः शब्दाः स्त्रियां स्युर्भवेयुरित्यर्थः । यथा छाया वृक्षादेः प्रतिबिम्बः । सुरा मदिरा । निशा रात्रिः । वालुका सिकता । चमूः सेना । कन्था प्रसिद्धा । इरा जलभूमिः । एते शब्दाः स्त्रीलिङ्गे भवन्ति । यथा इयमापत् व्यसनम् । संपद्धनम् । विपत् दुःखम् । प्रतिपत्तिथिविशेषः । समित्काष्ठम् । विप्रुट् बिन्दुः । कुशकूबरकुञ्जाङ्कुरकुठारकुन्दकुतुपा हि पुंस्युक्ताः । कुलकूलकुङ्कुमानि तु नपुंसान्येव जानीयात् ॥ ३३ ॥ एते शब्दाः पुंल्लिङ्गे उक्ताः । यथाऽयं कुशः दर्भः । अयं कूबरो रथस्कन्धः । कुञ्जो गहनः । अङ्कुरो बीजप्रादुर्भावः । कुठारः‌ परशुः । कुन्दः[न्द] पुष्पजातिः । कुतुपश्चर्मपात्रम् । एतानि नपुंसकानि जानीयात् । एवकारोऽवधारणे । इदं कुलं ब्राह्मणानाम् । कू[कु]लं नदीतटम् । कुङ्कुमं काश्मीरम् । लोहमुखपर्णवनधनसञ्ज्ञाश्च नपुंसके प्रोक्ताः । शीरार्थौ पुंस्युक्तावटवी तूक्ता स्त्रियामेव ॥ ३४ ॥ ;p{0011} सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । लोहादिसञ्ज्ञा नपुंसके भवन्ति । इदं लोहमायसम् । मुखं लपनं तुण्डमाननमित्यादि । इदं पर्णं पलाशमित्यादि । वनं विपिनं काननमित्यादि । इदं‌ धनं द्रविणं वस्वित्येवमादि । शीरार्थौ शब्दौ पुंसि भवतः । अयं शीरोऽलङ्कारः । अर्थो द्रव्यम् । अटवी तूक्ता स्त्रियामेव । इयमटवी वनम् । राशिपलाण्डुकमण्डलुगडुतूलमुहूर्त्तपरशुशङ्कूनाम् । दृतिसीधुकङ्कटानां पुंसि च गदितः प्रयोगो हि ॥ ३५ ॥ एषां प्रयोगः पुंसि गदितः कथितः । राशिर्धान्यादीनाम् । पलाण्डुर्लसुनजातिः । कमण्डलुः काष्ठमयं जलपात्रम् । गडुः कुब्जम् । तूलः कार्पासादेः । मुहूर्त्तो द्वादशात्मकः । परशुर्वृक्षभेदी । शङ्कुः चिह्नं किलश्च । दृतिश्चर्म । अयं सीधुः सुरा । अयं कङ्कटो हस्तिकवचम् । शालामालादोलावेलाफेलाशिलातुलालीला- सेनापालिबलिदद्रुवागुराश्च स्त्रियामुदिताः ॥ ३६ ॥ एते स्त्रीलिङ्गे उदिताः कथिताः । इयं शाला गृहविशेषः । माला स्रक् । दोला क्रीडासाधनम् । वेला कूलं समुद्रस्य । फेला भक्तोच्छिष्टं धानाश्च । शिला अश्मा । तुला पलशतानुमानम् । लीला अतिरसकोविदश्च । सेना हस्त्यश्वपदातिसमुदायः । पालिः पङ्क्तिप्रदेशः । बलिः करः उपहारः । दद्रुः कुष्ठविशेषः । वागुरा मृगबन्धनी रज्जुः । पातालजालमलखलकपालशैवालशीलनालानि चीरचीवरवियन्ति च विद्धि तृतीयाप्रकृतिकानि ॥ ३७ ॥ एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् । मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः । जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥ अयं मुण्डो मुण्डितशिराः । ;p{0012} नितम्बः पश्चाद्भागः स्त्रीकट्याः । ह्रस्वशाखामूलको वृक्षः क्षपः । गुल्मः शाखापत्रप्रावरणः । सानुः पर्वतैकदेशः । अङ्कश्चिह्नम् । वंशोऽन्वयः । पूगः क्रमुकः । शङ्खः कम्बुः । रथः स्यन्दनः । नपुंसकाधिकारात् जघनादयो नपुंसके स्युः । इदं जघनं कटिप्रदेशः । अम्बरमाकाशं वस्त्रं च । फलं वृक्षादीनाम् । मूलं शिफा । अङ्गमवयवः । क्षीरोदस्विन्नवनीतवर्षकुण्डाण्डघृतभगगगनानि । विद्यान्नपुंसकान्योदनश्च पुंसि स्त्रियां ज्या च ॥ ३९ ॥ एतानि नपुंसकानि स्युः । यथा इदं क्षीरं दुग्धम् । इदमुदस्वित्तक्रविशेषः । नवनीतं दधिविकारः । वर्षं संवत्सरः । कुण्डं पेयादिपात्रम् । अण्डं बीजादिप्रादुर्भावः । घृतमाज्यम् । भगं योनिः । गगनमाकाशम् । ओदनस्तु पुंसि भवति । अयमोदनः भक्तम् । स्त्रियां ज्या च । धनुषो गुणः । विषसञ्ज्ञाः पुंसि विषं तु नपुंसकं स्यात्स्त्रियां तिथिर्वोक्ता । अतिथिस्तु पुंसि शकृन्नीतशोणितानीतरप्रकृतौ ॥ ४० ॥ विषसञ्ज्ञाः पुंसि भवन्ति । हालाहलः कालकूटः ब्रह्मपुत्रः । विषं नपुंसकम् । इदं विषं सर्पशरीरजं च । तिथिशब्दो वा विभाषया स्त्रीलिङ्गे भवति पुंल्लिङ्गश्च । यथा इयं तिथिः । अयं तिथिः । अतिथिशब्दः पुंसि भवति । अयमतिथिरभ्यागतः । शकृदित्यादिनीतरप्रकृतौ नपुंसके भवन्ति । इदं शकृत्पुरीषम् । नीतं घृतम् । शोणितं रुधिरम् । मुक्त्वा दिनाहनी दिवसनामानि पुंसि स्त्रियां त्विडुडुताराः । पाणियुगः पुंस्युक्तः स्त्रियां समाश्चैव वर्षाश्च ॥ ४१ ॥ दिनाहनी मुक्त्वा अन्ये दिवसपर्यायाः पुंसि भवन्ति । अयं दिवसो वासरः घस्रः सूर्यकर इत्यादिः । दिनाहनी नपुंसके भवतः । इदं दिनमहः । स्त्रियां त्विडुडुताराः । त्विडादयः शब्दाः स्त्रियां भवन्ति । इयं त्विट् कान्तिः । इयमुडुर्नक्षत्रम् । इमास्ताराः नक्षत्राणि । पाणियुगः पुंसि भवति । अयं पाणियुगः । पाणियुगग्रहणमन्ययुगनिवृत्त्यर्थम् । भवति नपुंसकयोगः सङ्ख्यापूर्वस्य रात्रिशब्दस्य । ससमासस्य तु तस्यैव पुंसि योगं वि[न]जानीयात् ॥ ४२ ॥ ;p{0013} सङ्ख्यापूर्वो यदि रात्रिशब्दस्तदा नपुंसके बोद्धव्यः । यथा इदमेकरात्रं द्विरात्रं त्रिरात्रमित्येवमादयः । सह समासेन वर्त्तत इति ससमासः ससमासस्य तु रात्रिशब्दस्य पुंसि योगं विजानीयात् । यथा पूर्वरात्रः अर्द्धरात्रः वर्षारात्रः । पुरमधुजगन्ति विद्यान्नपुंसके वा स्त्रियां भवेदर्च्चिः । त्वतलौ नपुंसकस्त्रीविधावहः पुंसि सङ्ख्यादिः ॥ ४३ ॥ पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् । रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः । स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥ रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि । पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः । आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥ ;p{0014} एते शब्दाः पुंसि स्त्रियां भवन्ति । अयं पाटलिः इयं पाटलिः वृक्षविशेषः । अयं गौः इयं गौः । अयं मुष्टिरियं मुष्टिः । अयमशनिरियमशनिः । अयं बाहुरियं बाहुः । अयं सिन्धुरियं सिन्धुः । अयं मणिरियं मणिः । एते शब्दाः स्त्रियां भवन्ति । इयमाशी इष्टाशं[सं]सा । इयं धूः भारः कीलश्च । इयं पूः पुरी । इयं क्षुद्बुभुक्षा । इयं तृट् पिपासा । इयं गीर्वाणी । इयं मुत् हर्षः । इयं रुट् रोषः । ;c{Verse number duplication.} शीकरतुषारतुषबुद्बुदफेनौसत[तु]ण्डुला[ल]पूपाः पुंसि स्युः । आलिमुक्ताजिदर्विसिकताः स्त्रिया[यां]मुदिताः ॥ ४६ ॥ एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका । अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥ एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे । त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि । शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥ त्रिष्वप्यक्षेषु मध्ये इन्द्रियसञ्ज्ञकमक्षं नपुंसके विद्धि । इदमक्षमिन्द्रियं शेषास्त्वक्षाः पुंसि प्रोक्ताः । अयं देवानामक्षः कटाक्षः । श्रीपिष्टाद्या[धा] निर्यासाश्च पुंसि भवन्ति । अयं श्रीपिष्टः सर्जरसः गुगुल इत्येवमादयः । विंशतिरानवतेः‌ स्त्री नपुंसके तालुहृदयकुड्यानि । पार्श्वकुकुन्दरविण्यतलध[धा]नलवणराष्ट्राणि चावैहि ॥ ४९ ॥ विंशतिप्रभृतयो नवतिपर्यन्ताः स्त्रियां भवन्ति । इयं विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्ठिः सप्ततिः अशीतिः नवतिः । ;p{0015} एतानि नपुंसके भवन्ति । इदं तालु वदनैकदेशः । हृदयं जीवनस्थानम् । कुड्यं भित्तिः । एतानि नपुंसकान्यवैहि अवग[म]च्छेत्यर्थः । इदं पार्श्वं शरीरस्य । कुकुन्दरं नितम्बकूपद्वयम् । विण्यं द्रव्यम् । तलमधः । धनं द्रविणम् । लवणं रसविशेषः । राष्ट्रं जनपदस्थानम् । क्रोडाघाटाजिह्वाशिरोधराशष्कुलीस्पृहामाया स्त्रियां विद्धि । शाखाशिखाकलामेखला रेखाराजिपङ्क्ती च ॥ ५१ ॥ एताः स्त्रियां विद्धि । इयं क्रोडा अङ्कः । घाटा ग्रीवा । शिरोधरा ग्रीवा । जिह्वा रसना । शष्कुली खण्डस्य भक्ष्यद्रव्यम् । स्पृहा वाञ्छा । माया जनवञ्चनेच्छा । इयं शाखा वृक्षस्य । शिखा चूडा । कला विज्ञानम् । मेखला काञ्ची । रेखाराजिर्घनस्य । पङ्क्तिर्दन्तानाम् । स्नायुश्रद्धोल्का[त्का]श्च स्त्रियां खट्वा भवेत्त्रेता । ताणा वाणा प्राणा विश्वाणा संक्रुणा विकोणा च ॥ ५२ ॥ एते शब्दा स्त्रियां भवन्ति । स्नायुः शरीरस्य । श्रद्धा आदरः । उल्का आकाशोत्पातः ज्वाला च । खट्वा शयनीयम् । त्रेता युगम् । ताणा सूत्ररचना । वाणा वाणी । प्राणा श्रद्धा । विश्वाणा लीला । सङ्क्रुणा नासिका । विकोणा नेत्रविक्षु[च्छु]ब्धिः । भयबीजसिध्मपदबर्हशुक्रतक्रसुखदुःखशिखराणाम् । विद्यान्नपुंसकत्वमसृगित्यस्य सदैव ॥ ५३ ॥ एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः । पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः । रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥ एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय । ;p{0016} रूपं नपुंसके भवति । इदं‌ रूपं चक्षुर्ग्राह्यम् । शेखरयूपपुरोडाशकूपसूपलवशष्पाः । धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥ एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था । मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च । यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥ मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः । पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा । ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥ पल्लवशब्दः पुंसि भवति । अयं पल्लवः । इदं किशलयं प्रवालम् । लाक्षा स्त्रियां स्यात् । इयं लाक्षा जतु । ऋगादयः शब्दाः स्त्रियां‌ भवन्ति । इयमृक् वेदावयवः । रोचना गोपित्त[त]म् । पि[पिं]डका शरायगम्? । कण्डूः खर्जूः । क्षपा रात्रिः । कललकफपूयकुल्माषकल्ककल्पगेहमखलौहित्याः । झर्झरपुङ्खचषालाश्च पुंसि कटाहमत्स्यौ च ॥ ५८ ॥ एते शब्दाः पुंसि भवन्ति । अयं कललो गर्भाशयः । कफः श्लेष्मा । पूयः शोणितविकारः । कुल्माषः सस्यजातिः । कल्कः सर्षापादीनां चूर्णम् । कल्पः कालपरिमाणम् । गेहं गृहम् । मखो यज्ञः । लौहित्यो नदविशेषः । झर्झरो वादित्रविशेषः । पुङ्खः शरस्य । चषालो यूपाग्रम् । कटाहो लोहभाजनम् । ;p{0017} मत्स्यो मीनः । शवपलकतल्पसद्मबलिशामिशनिमित्तपित्तचित्तानि । किल्बिषवृजिनानि तथा नपुंसके पीठपापे च ॥ ५९ ॥ एते शब्दाः नपुंसके भवन्ति । यथा इदं शवं मृतशरीरम् । पलकं नेत्ररोमविशेषः । तल्पं शयनीयम् । सद्म निवासः । बलिशं मत्स्यबन्धनम् । आमिशं गृहद्वारम् । निमित्तं कारणम् । पित्तं धातुविकारः । चित्तं मनः[नमः] । किल्बिषं पापम् । वृजिनं कुटिलम् । पीठमासनम् । पापं पातकम् । बल्वजलाजासूनां पुंयोगः स्याद्बहुत्वं च । स्थलशाद्वलशिबिराणां नपुंसकत्वं स्त्रियां पृतना ॥ ६० ॥ बल्वजादयः शब्दाः पुंसि भवन्ति । बहुत्वं चैषां सदैव । इमे बल्वजाः शष्पाः । इमे लाजा भ्रष्टधान्यानि । असवः प्राणाः । एते शब्दाः नपुंसके भवन्ति । इदं स्थलमरण्यप्रदेशः । शाद्वलं हरिततृणम् । शिबिरं शकटस्थानम् । पृतनाशब्दः स्त्रियां भवति । इयं पृतना सेना । ईर्ष्या रुचिः स्फुलिङ्गाः शय्या निःश्रेणी कोटिः कुटी वाणी । पेशी वरूथिनी च स्त्रियां कुथा नाडिका कन्था ॥ ६१ ॥ एते शब्दाः स्त्रियां‌भवन्ति । इयमीर्ष्याऽसूया । रुचिर्दीप्तिः अभिलाषो वा । स्फुलिङ्गा अग्निकणाः । शय्या शयनीयम् । निःश्रेणी अधिरोहणी । कोटिः सङ्ख्या । कुटी गृहम् । वाणी वाक् । पेशी मांसपिण्डी । वरूथिनी सेना । कुथा उर्णाकृता । नाडिका कालपरिमाणम् । कन्था जीर्णवासःप्रावरणम् । नाड्युपपदं व्रणं पुंसि वृक्षजनपांसुकन्दुककलशाश्च । पञ्जरपलितद्वन्द्वाक्षराणि विद्यादितरजातौ ॥ ६२ ॥ नाडीपूर्वं व्रणं पुंसि भवति । अयं नाडीव्रणः । नाड्युपपद इति किम् । दुष्टव्रणम् । वृक्षादयः पुंसि भवन्ति । अयं वृक्षस्तरुः । जनो लोकः । पांसुश्चूर्णम् । कन्दुः स्वेदनी । कलशो घटः । पञ्जरादीनि इतरजातौ नपुंसके जानीयात् । इदं पञ्जरं‌ शकुनिबन्धनम् । पलितं जरा । द्वन्द्वं वैरम् । अक्षरं वर्णः । मेधारसनानिद्रातन्द्रातन्त्र्यः स्त्रियां समञ्जिष्ठाः । मदिरा मन्दुराकृशरे स्यातां वाक्षदुन्दुभिश्च ॥ ६३ ॥ एते स्त्रियां भवन्ति । इयं मेधा धारणाशक्तिः । रसना शक्तिर्मेखला च । ;p{0018} निद्रा सुप्तिः । तन्द्रा आलस्यम् । तन्त्री वाद्यविशेषः । मञ्जिष्ठा रागद्रव्यम् । स्यातां भवेतामित्यर्थः । इयं मदिरा सुरा । मन्दुरा वाजिशाला । कृशरा तिलयवागूः । अक्षैर्दीव्यते अक्षग्रहणं वादित्रसम्बन्धनिवृत्त्यर्थम् । वाद्यं दुन्दुभिरित्यर्थः । धान्यद्विदलांशुकवितानवलयरत्नमिथुनश्मशानानि । बिसतिमिराण्यपि विद्यान्नपुंसकेऽग्रखे चैव ॥ ६४ ॥ एते शब्दा नपुंसके भवन्ति । इदं धान्यं सस्यम् । द्विदलं मुद्गादीनाम् । अंशुकं वस्त्रम् । वितानं वस्त्रमयमावरणम् । वलयं सुवर्णादीनाम् । रत्नं मणिः । मिथुनं स्त्रीपुंसद्वन्द्वम् । श्मशानं मृतस्थानम् । बिसं पद्ममूलम् । तिमिरं तमः । अग्रं शिखरं श्रेष्ठं वा । खमाकाशम् । पुञ्जाद्रिकोणकरीषकषायतरत्नपिण्याकगर्भदर्भार्भकश्च पुंसि स्युः । पतनशुल्बताम्रचापनाम्नां‌ नपुंसकता ॥ ६५ ॥ एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि । विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च । मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥ विट्शब्दो यदा अवर्णस्तदा स्त्रियां भवन्ति । यथा इयं विट् विष्ठा । अवर्ण इति किम् । अयं विट् वैश्यस्तृतीयो वर्णः । सास्नादय स्त्रियां भवन्ति । सास्ना गलकम्बलः । वीथी गृहावयवः । नीवी मूलबन्धनम् । भेरी वाद्यविशेषः । मञ्जूषा पेटा पुस्तकादीनाम् । गण्डूषा हस्तजलम् । मूषा सुवर्णधमनिका । परिषत्सभा । गुहा पर्वतस्य । तृष्णा कृपा पताका रथ्या कृषिश्च काकिणी चैव । एते स्त्रियां भवन्ति प्रतिशीरा धारा च नेमिश्च ॥ ६७ ॥ एते तृष्णादयः शब्दाः स्त्रियां भवन्ति । इयं तृष्णा पिपासा । कृपा दया । पताका चिह्नम् । रथ्या मार्गः । कृषिर्वैश्यवृत्तिः । काकिणी पणचतुर्भागः । प्रतिशीरा तिरस्कारिणी । धारा प्रपतनं ऊर्णामयी पर्वतस्य रेखा च । ;p{0019} नेमिश्चक्रपिण्डिका । चतुःपथयुगलछलचेलखोलधिष्ण्यार्गलशफानाम् । विद्धि नपुंसकभावं पण्यस्य च पिच्छपलयोश्च ॥ ६८ ॥ चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् । रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः । युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥ एते शब्दाः पुंसि भवन्ति । अयं रयो वेगः । मण्डपो जनाश्रयः । नरको दुर्गतिः अवीचिरित्यादि असुरश्च । कपालः शि[सि]रोऽवयवः भिक्षाभाजनं च । गुड इक्षुविकारः । मणिः रत्नम् । मेढ्रः शिश्नम् । दर्दुरो भेकः । कुसूलो धान्यादिस्थित्याधारः । युग्माकाशव्रतशृङ्गवर्जिता इति । युग्मादयश्च नपुंसके भवन्ति । इदं युग्मं युगलम् । आकाशं नभः‌ । व्रतं नियमः । शृङ्गं विषाणं पर्वतस्य च । मञ्चः काष्ठकृतः । स्थूलालक्तककर्पाससूर्यकूर्पाससारथितरङ्गाः । अलकसमुडावराटकनूपुरकङ्कणाः पुंसि ॥ ७० ॥ एते शब्दाः पुंसि भवन्ति । अयं स्थूलो राशिः । अलक्तकः पादादिरागद्रव्यम् । कर्पासः सूत्रद्रव्यम् । सूर्यो रविः । कूर्पासः कञ्चुकम् । सारथिः सूतः । तरङ्गः कल्लोलः । अलकः केशरचना । समुडाः संपुटकः । वराटः कपर्दकम् । सैन्यायुधमङ्गलनगरवृन्त[त्त]फलमूलहरितालबिम्बमुकुटकुड्मलतस्तृतीयाप्रकृतिः । पुंस्यवसथस्तथोद्गीथः संवीथः कालगीथश्च ॥ ७१ ॥ सैन्यादीनि तृतीयाप्रकृतौ जानीहि । इदं सैन्यं बलम् । आयुधमस्त्रम् । मङ्गलं प्रशस्तम् । नगरं पुरम् । वृन्तं प्रसवबन्धनम् । फलं मूलम् । हरितालं प्रसिद्धम् । बिम्बं प्रतिरूपम् । मुकुटं शिरोभूषणम् । कुद्मलं कलिका । अवसथोद्गीथौ पुंसि भवतः । अयमवसथः परिव्राजकः । अयमुद्गीथः साम । संवीथो घटिकात्रयम् । कालगीथोऽपि तदेव । दर्पणमृदङ्गजठराः पुंस्युक्ताः कुन्तकुतपधूमाश्च । व्रातहृददण्डाङ्कुशकटाक्षसङ्ग्रामविटपाश्च ॥ ७२ ॥ ;p{0020} एते शब्दाः पुंस्युक्ताः । अयं दर्पणः आदर्शः । मृदङ्गो मुरजः । जठरः कुक्षिः । कुन्तः प्रासः । कुतपः शस्त्रं कालविशेषश्च । धूमो वह्निसम्भवः । एते पुंसि भवन्ति । अयं व्रातः सङ्घः । हृदः सरः । दण्ड आज्ञा लकुटश्च । अङ्कुशः शृणिः । कटाक्षः अपाङ्गदृष्टिः । सङ्ग्रामो युद्धम् । विटपो लतागुल्मः । पामा स्त्रियां निगदिता पुंसि वेमा कुणपकूर्चौ च । कन्दरयूथप्रोथाश्च वंशरेणुध्वजाश्चैव ॥ ७३ ॥ पामाशब्दः स्त्रियां कथितः । इयं पामा विचर्च्चिका कच्छूः । वेमादयः पुंसि भवन्ति । अयं वेमा तन्तुवायस्य । कुणपो मृतशरीरम् । कूर्चः श्मश्रु । अयं कन्दरः पर्वतस्यैकदेशः । यूथः सङ्घातः । प्रोथोऽश्वस्य नासिकाविवरयोरुपरिदेशः । वंशो वेणुः । रेणुः पांसुः । ध्वजः केतुः । केदारखण्डप्रशमाश्च पुंसि नित्यं कपाटाश्च । हेलाकाञ्चीला[ली]लासुधायुधाः स्युः स्त्रि[स्त्री]यां प्रवेणी च ॥ ७४ ॥ एते पुंसि भवन्ति । अयं केदारः क्षेत्रम् । खण्डः इक्षुविकारः । प्रशमो धान्यच्छेदनः । कपाटो द्वाःपिधानम् । एते स्त्रियां भवन्ति । इयं हेला अनादरः । काञ्ची मेखला । लाला श्लेष्मविकारः । सुधाऽमृतम् । युधा युद्धम् । प्रवेणी केशरचना । हानिग्लानिवा[र्वा]पीविपणीसार्य[र्थ]श्च वै तथा स्वाहा । लक्ष्मीमनःशिलोपानहः स्त्रियां स्थाण्वणुजराः पुंसि ॥ ७५ ॥ एते स्त्रियां भवन्ति । हानिरपचयः । ग्लानिरशक्तिः । वापी पुष्करिणी । विपणी पण्यवी[वि]थिका । सारी पटोलिका । स्वाहा मन्त्रावसानम् । लक्ष्म्यादयः स्त्रियां भवन्ति । इयं लक्ष्मीः श्रीः । मनःशिला धातुद्रव्यम् । इयमुपानत् पन्नध्री । स्थाण्वादयः पुंसि भवन्ति । अयं स्थाणुः शिवः कीलश्च । अणुः सूक्ष्मः । ज्वरो रोगः । पुंसि स्यात्प्राग्वंशस्त्रिषु लिङ्गेषु शृङ्खलं विद्धि । चमसस्तम्भनिदाघ[घः]पशुशूकविटकाश्च पुंस्युक्ताः ॥ ७६ ॥ प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः । ;p{0021} शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा । वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि । तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥ वल्कलादीनि नपुंसके जानीयात् । इदं वल्कलं वृक्षत्वक् । कुण्डलं कर्णभूषणम् । हिमं तुहिनम् । चिह्नमङ्कः । खलीनं कण्डिका । ककुदं कर्णभूषणम् । गुह्यं गोप्यस्थानम् । शुल्कं शून्यस्थानम् । शकलं खण्डः । तीरं नदीकूलम् । उलूखलं धान्यादिक्षोदनम् । कवचं सन्नाहः । मण्डलकेसरभाण्डोत्तरीयसोपानकल्मषानि । प्रादेरन्तं नपुंसके सह कुटुम्बपुलिनाभ्याम् ॥ ७८ ॥ एते नपुंसके भवन्ति । इदं मण्डलं सूर्यस्य । केशरं किञ्जल्कः । भाण्डमुपकरणद्रव्यम् । उत्तरीयं प्रावरणम् । सोपानं खण्डखण्डिका । कल्मषं पापं अघं पापं च । प्रशब्दादेरन्तरं शब्दं नपुंसके विद्धि । इदं प्रान्तमत एवानुपसर्गस्तु पुंस्येवान्तशब्दः । कुटुम्बपुलिनशब्दाभ्यां सह नपुंसके । इदं कुटुम्बं गोत्रवर्गः । इदं पुलिनं द्वीपम् । स्थालीसभाजरानां स्त्रीत्वं स्थल्याश्च वीच्याश्च । छविकट्योर्मञ्जर्यावल्याश्चैवं विजानीयात् ॥ ७९ ॥ स्थाल्यादीनां स्त्रीत्वं भवति । इयं स्थाली रन्धनभाण्डम् । सभा गोष्ठी । जरा वृद्धत्वम् । स्थली उच्चनिर्जलो देशः । वीची तरङ्गः । छविर्लावण्यम् । कटिः श्रोणी । मञ्जरी वृक्षस्य । वल्ली लता । शिल्पं छर्दिस्त्वन्नं शमलमरकतपलाशकृच्छ्राणि । मन्दिररिक्ते च नपुंसके मन्दुरां तु स्त्रियां विद्धि ॥ ८० ॥ एते नपुंसके भवन्ति । इदं शिल्पं कलादिकं कर्म । छर्दिर्वान्तिः । अन्नं भक्ष्यम् । शमलममेध्यम् । मरकतं रत्नम् । पलालं धान्यादीनाम् । कृच्छ्रं कष्टम् । मन्दिरं गृहम् । रिक्थं द्रव्यम् । मन्दुराशब्दं स्त्रियां जानीयात् । इयं मन्दुरा वाजिशाला । कल्ककृमिमुन्यङ्गारवप्रग्रहहोमर्षियक्ष्मरेफाः । मण्डकरण्डवरण्डाश्च पुंसि पथाम्बरीषौ च ॥ ८१ ॥ एते पुंसि भवन्ति । अयं कल्कः पापं दम्भश्च । कृमिः कीटः । मुनिस्तपस्वी । अङ्गारः काष्ठस्य । वप्रः प्राकारः । ग्रह उपरागः । होमो मन्त्राहुतिः । ऋषिस्तापसः । ;p{0022} यक्ष्मा रोगः । रेफो वर्णविशेषः अधमश्च । मण्डोऽन्नविकारः । करण्डः कुशभाण्डः । वरण्डः काष्ठविशेषः । शपथः प्रत्ययकरणम् । अम्बरीषो भ्राष्ट्रः । मथुरा तनुस्तनूर्वर्त्तिनी सूची[चि] यवागू- र्वर्णिनिकाशाशर्कराः स्त्रियां पुंसि तर्कश्च ॥ ८२ ॥ एते स्त्रियां भवन्ति । इयं मथुरा नगरी । तनुः शरीरम् । तनूस्तदेव । वर्त्तिनी काष्ठोद्भवं शब्दसाधनम् । सूची मूलं पापस्य । यवागूः अन्नविकारः । वर्णिः सर्णिः । निकाशा कर्षविकारः । शर्करा गुडविकारः । तर्कः पुंसि भवति । अयं तर्क ऊहः । चशब्दः पादपूरणे । बन्धुरविषाणयोस्त्रिकं भवेत्प[ल्प]ल्वलं तृतीयं स्यात् । शकटोशीरकुतूहलशराववृन्दानि जानीहि ॥ ८३ ॥ त्रिकमिति लिङ्गत्रितयम् । अयं बन्धुरः । इयं बन्धुरा । इदं बन्धुरं उत्तममांसम् । अयं विषाणः इयं विषाणम् शृङ्गम् । पल्वलम् । तृतीयं नपुंसकमित्यर्थम् । इदं पल्वलं अल्पसरः । एतानि नपुंसकानि जानीहि । इदं शकटं यानम् । इदमुशीरं वीरणमूलम् । कुतूहलं कुतूकम् । शरावं मृन्मयभाजनम् । वृन्दं समूहः । यूकोल्काशुक्त्यौषधिवर्त्तिभ्रुकुटयः स्त्रिया[यां]मुदिताः । वाल्मीक्यध्वनिर्यूहव्यूहमुस्तकाः पुंसि कुम्भश्च ॥ ८४ ॥ एते स्त्रियामुदिताः । इयं यूका मस्तककृमिः । उल्का सङ्घातद्वयं दग्धकाष्ठं च । शुक्तिर्जलसम्भवम् । ओषधिः फलपाकान्तो वृक्षविशेषः । वर्तिर्दीपस्य । भ्रुकुटिर्भ्रूभङ्गः पुष्परचना वा । वाल्मीक्यादयः पुंसि भवन्ति । यथा वाल्मीकिः ऋषिः मृत्कूटश्च । अध्वरो यागः । निर्यूहश्चन्द्रपाणिः । व्यूहः समूहः प्रभूतः । मुस्तको गन्धद्रव्यं च कुम्भो घटः । केयूरतरलतूर्याङ्गदानि नित्यं नपुंसके विद्धि । पुंसि गवाक्षं विद्यात्स्त्रियां श्यामा भुशुण्डी भाण्डी च ॥ ८५ ॥ केयूरादीनि नपुंसके जानीहि । इदं केयूरं बाहुभूषणम् । इदं तरलमलङ्कारः । तूर्यं वादित्रम् । अङ्गदं बाहुभूषणम् । गवाक्षशब्दं पुंसि विद्याज्जानीयात् । यथा अयं गवाक्षो वातायनः । एते शब्दाः स्त्रियां भवन्ति । इयं श्यामा स्त्री । भुशुण्डी आयुधम् । भाण्डी भिण्डिपालः । ;p{0023} भवतोऽपजनोपपदावङ्गपदौ पुंसि नित्यमिननिच्च । रक्षणकोष्ठभ्रेषाश्च सह निपातोपसर्गाभ्याम् ॥ ८६ ॥ अपोपपदे अङ्गशब्दः जनोपपदे पदशब्दश्च पुंसि भवतः । यथा अयमपाङ्गो नेत्रान्तः । अयं जनपदो लोकः । "पृथ्वादिभ्य इमनिच्" । अन इत्यनुवर्त्तते । "टेरि"ति टिलोपः । "स्वरितो हलादिर्लघोरि"ति रेफादेशः । इमनिच्प्रत्ययान्ताः पुंसि भवन्ति । अयं प्रथिमा गरिमा लघिमा दृढिमा इत्येवमादयः । एते पुंसि भवन्ति । अयं रक्षणस्तरुस्थानम् । अयं कोष्ठो हरिशाला । अयं भ्रेषोऽन्यायः । निपातश्चादिः । उपसर्गः प्रादिः । स्थावराणञ्ययद्युठग्यक्वुञस्तु । यदि वा भावे कर्मणि स्युस्तदैषां नियता नपुंसकता ॥ ८७ ॥ अण् । अञ् । य । यत् । यु । ठक् । यक् । वुञ् च । एते प्रत्ययाः भावे कर्मणि वा यदि स्युस्तदा तदन्तानामेतेषां नपुंसकत्वं जानी[नि]हि । यथा "हायनान्तयुवा[पुरोहिता]दिभ्योऽण्" । द्विहायनस्य भावः कर्म वा द्वैहायनम् । यूनो भावः कर्म वा यौवनम् । "न घृत" इति नलोपे प्राप्ते इत्यण् पठ्यत इति प्रकृतिभावः । स्थावरं यजमानम् । इगन्तत्वे "नलघूपध" इत्यण् । मृदोर्भावः कर्म वा मार्दवम् । पाटवः लाघवम् । आर्जवम् । "अञप्राणिजातिभिर्जातिवयोवचनो गोत्रादिभ्योऽञ्" । अश्वस्य भावः कर्म वा आश्वम् । गार्दभम् । वयोवचनात्कौमारम् । शैशवम् । उद्गात्रादेः । इदमौद्गात्रम् । "सख्युर्य" इति यः । सख्युर्भावः कर्म वा सख्यम् । "स्तेयन्नलोपश्चे"ति यत्प्रत्ययः । स्तेयस्य भावः कर्म वा स्तैन्यम् । "होत्रादिभ्यो युः" । होतुर्भावः कर्म वा होत्रीयम् । पोत्रीयं अङ्गात्रीयं दुहित्रीयम् । ठक् । कपेर्भावः कर्म वा कापेयम् । रोहितादिभ्यो यक् । बृहस्पतेर्भावः कर्म वा बार्हस्पत्यम् । सैन्यापत्यम् । वुञ् । "योपधाद्गुरूपोत्तमाद्वुञ्" । रमणीयस्य भावः कर्म वा रामणीयकम् । अहोरूपमित्यादिके द्रष्टव्यम् । व्रजशूलौ पुंसि नपुंसके च मृधम् । कम्बलतोमरमुकुलकन्दुकाः पुंसि भास्त्रा स्त्री ॥ ८८ ॥ व्रजशूलशब्दौ पुंसि भवतः । अयं व्रजः अयं शूलं । मृधं नपुंसके विद्धि । ;p{0024} इदं मृधं युद्धम् । एते शब्दाः पुंसि भवन्ति । अयं कम्बलः ऊर्णावस्त्रम् । अयं तोमरः शरप्रहरणम् । मुकुलः कुड्मलः । क[कु]न्दुको यानम् । भास्त्राशब्दः स्त्रियां भवति । इयं भास्त्रा कमलपत्री । आकारेकारान्तं स्थावरं जङ्गमं स्त्रियां भवेन्नित्यम् । क्वचिदूकारान्तमपि प्रोक्तं वा पुंसि योनिः स्यात् ॥ ८९ ॥ आकारान्तमीकारान्तं यत्स्थावरं जङ्गमं तत्सर्वं स्त्रीलिङ्गं भवति । आकारान्तं स्थावरं यथा । इयं गङ्गा यमुना नर्मदा । ईकारान्तं शरावती सरस्वतीत्यादि । आकारान्तं जङ्गमं यथा । इयं देवदत्ता यज्ञदत्ता बलाका अम्बिकेत्यादि । ईकारान्तम् । कुमारी गौरी ब्राह्मणी हस्तिनी । श्वश्रूः वधूः । क्वचिदिति किम् । कटप्रूः धान्यलूः । अयं योनिः इयं‌ योनिः । वाग्विषयस्य च महतः सङ्क्षेपत एष विधिरुक्ताः । यन्नोक्तमत्र सद्भिस्तल्लोकत एव बोद्धव्यः ॥ ९० ॥ इति श्रीमदखिलवाग्विलासमण्डितसरस्वतीकण्ठाभरणानेककविशरणश्रीनरपतिसेवितविक्रमादित्यकिरीटकोटिनिघृष्टचरणारविन्दाचार्यवररुचिविरचितो लिङ्गविशेषविधिः समाप्तः । श्रीरामचन्द्रार्पणमस्तु ।