;METADATA ;title{मातृकाकोष} ;author{अज्ञात} ;bookFullName{द्वादशकोशसंग्रहः} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{बाबू वाराणसी प्रसाद} ;pressDetails{ज्ञानवापी के पूर्व फाटक पर श्रीविश्वनाथजी के पास श्री३युत महाराज शिवलाल दुबेजी के मकान मे छपी । जिनको लेना होय उन्होने इस छापेखाने के कार्य संपादक बाबू वाराणसीप्रसाद या कचौरी गली में भाई प्रतापसिंहजी के दुकान पर मिलेगी ।} ;publicationYear{1929 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{MTRK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. https://jainelibrary.org/ for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{20 May 2020} ;version0.0.2{20 May 2020} ;version0.0.3{02 June 2020} ;version0.0.4{02 June 2020} ;version0.1.0{02 June 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{श्रीगणेशाय नमः ॥} श्रीगणेशं महेशानं भारतीमीश्वरं शिवम् । नत्वा वक्ष्ये मात्रिकाणान्निघण्टं बालबुद्धये ॥ १ ॥ ॐ ध्रुवस्तारस्त्रिवृद्ब्रह्मवेदादिस्तारकोऽव्ययः । प्रणवश्च त्रिमात्रोऽपि ओंकारोज्योतिरादितः ॥ २ ॥ अः श्रीकण्ठः केशवश्चापि निवृत्तिश्च स्वरादिकः । अकारो मात्रिकाद्यश्च वात इत्यभिधीयते ॥ ३ ॥ आ नारायणस्तथाऽनन्तो मुरवृत्तो गुरुस्तथा । विष्णुशय्या तथा शेषो दीर्घ आकार एव च ॥ ४ ॥ इ माधवस्सूक्ष्मसंज्ञश्च विद्यादक्षिणलोचनम् । गन्धर्वः पाञ्चजन्यश्च इकारश्च मुकाङ्कुरः ॥ ५ ॥ ई गोविन्दश्च त्रिमूर्त्तीशः शांतिस्स्याद्वामलोचनम् । नृसिंहास्त्रन्तथा माया ईकारोऽपि सुरेश्वरः ॥ ६ ॥ उ अमरेशस्तथाविष्णुरिन्धिका च गजाङ्कुशः । दक्षकर्णश्च विजयी उकारो मन्मथाधिपः ॥ ७ ॥ ऊ अर्व्वाशो दीपिका वामश्रवणम्मधुसूदनः । इंद्रचापष्षण्मुख​श्च ऊकारो रक्षणाधिपः ॥ ८ ॥ ऋ देविका दक्षनासा च भारभूतिस्त्रिविक्रमः । देवमाता रिपुघ्नश्च ऋकारस्तपनस्तथा ॥ ९ ॥ ॠ अतिथीशो वामनश्च मोचिका वामनासिका । दैत्यमाता च दैवज्ञ ॠकारस्त्रिपुरान्तकः ॥ १० ॥ ऌ श्रीधरश्च परा स्थाणुर्दक्षगण्डस्त्रिवेदकः । एकाङ्घ्रिर्वज्रदण्डश्च व्योमर्द्धिर्लृस्वरस्स्मृतः ॥ ११ ॥ लॄ हृषीकेशो हरस्सूक्ष्मो वामगण्डकुबेरदृक् । अर्द्धर्चो नीलचरणो लॄकारश्च त्रिकूटकः ॥ १२ ॥ ए झिण्टीशः पद्मनाभश्च शक्तिस्सूक्ष्मा मृता भगः । ऊर्द्ध्वोष्टगः कामरूप एकारश्च त्रिकोणकः ॥ १३ ॥ ऐ ज्ञानामृतो भौतिकश्चाधरो दामोदरस्तथा । वागीशो वर्मभयद ऐकारस्त्रिपुरस्तथा ॥ १४ ॥ औ सद्योजातो वासुदेव ऊर्द्ध्वदन्तस्त्रिमात्रकः । आप्यायनीमन्त्रनाथ ओकारो नागसञ्ज्ञकः ॥ १५ ॥ औ संकर्षणीऽनुग्रहेशो मुरारिर्व्यापिनी तथा । अथोदंतगतो मायी नृसिंहाङ्गस्तथौरसः ॥ १६ ॥ अं अंक्रूरोव्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः । अनुस्वारस्तथा विन्दुरंकारश्च शिरोऽव्ययः ॥ १७ ॥ ;p{0002} अः अनन्तश्च महासेनोऽनिरुद्धो रसवर्णकः । कन्यास्तननिभस्सर्गो विसर्गश्चान्तिमस्स्वरः ॥ १८ ॥ कः क्रोधीशो धातृसंज्ञश्चक्री सृष्टिश्च करादिगः । वर्गादिगः पादवेषः ककारः कामगस्स्मृतः ॥ १९ ॥ ख क्रुधर्द्धिगदिचण्डीशाः खेटो दक्षिणकूर्परः । कैटभारिश्च मातङ्गः संहारः खार्णकःस्मृतः ॥ २० ॥ गस्मृतिः पञ्चान्तकश्शार्ङ्गी गणेशो मणिबन्धगः । गोमुखो गजकुम्भश्च गकारः सिंहसंज्ञकः ॥ २१ ॥ घ खड्गी शिवोत्तमो मेधा दक्षिणाङ्गुलिमूलगः । घनो घनस्वरश्चैव घकारो ङादिमस्स्मृतः ॥ २२ ॥ ङसंज्ञाको रुद्रकान्तिश्च दक्षाङ्गुल्यग्रसंस्थितः । क्लीववक्त्रश्च भद्रेशो ङकारश्चानुनासिकः ॥ २३ ॥ च हली कूर्मेश्वरो लक्ष्मी वीमवाह्वादिगस्तथा । चित्रधारी चञ्चलश्च चकारस्संस्मृतो बुधैः ॥ २४ ॥ छ एकनेत्रश्च मुशली वामकूर्परगोद्युतिः । त्रिषिन्दुकस्तथा चारी छकार श्लेष्मकाभिधः ॥ २५ ॥ ज स्थिराजपन्नौ जपजश्शूली च चतुराननः । मणिबन्धगतो वामे जकाराञ्जनकोत्तमः ॥ २६ ॥ झ स्थितिः पाशी तथाजेशो वामाङ्गुलितलस्थितः । स्वस्तिकस्स्थाणुसंज्ञश्च झकारो जान्तसंज्ञकः ॥ २७ ॥ ञ वामाङ्गुल्यग्रतः सिद्धिरङ्कुशी सर्वसंज्ञकः । मातङ्गो ह्यनुगासनश्च ञकारश्च निरञ्जनः ॥ २८ ॥ ट जरा मुकुंदस्सोमेशो दक्षपादादिगोमुखः । गजाङ्कुशश्च बालेंदुरमृताद्यष्टकस्स्मृतः ॥ २९ ॥ ठ लांगलीशो नन्दजश्च पालिनी च कमण्डलुः । दक्षजानुगतस्स्थायी ठकारस्स्थविरस्स्मृतः ॥ ३० ॥ ड नन्दीक्षान्तिर्दारकश्च डामरो दक्षगुल्फगः । व्याघ्रपादश्शुभाङ्घ्रिश्च डकारस्तोमरो मतः ॥ ३१ ॥ ढ ऐश्वरी चार्द्धनारीशो नरश्शाखान्तराकृतिः । दक्षपादाङ्गुलीमूलो ढलो ढक्कोढकारकः ॥ ३२ ॥ ण उमाकान्तो नरकजिद्रतिर्दक्षपदाग्रगः । निर्वाणस्त्रिगुणाकारस्त्रिरेखो णस्समीरितः ॥ ३३ ॥ त वामोरूमूलनिलय आषाढी कामिका हरिः । तीव्रश्चतरलो नीलस्तकारः कीर्तितो बुधैः ॥ ३४ ॥ थ दण्डीशो वरदः कृष्णो वामजानुगतस्स्मरः । शौरी चापि विशालाक्षस्थकारः परिकीर्तितः ॥ ३५ ॥ ;p{0003} द सत्यो त्रीशोह्लादिनी च वामगुल्फगतस्तथा । शूली कुबेरो दाता च दकारो धादिमस्स्मृतः ॥ ३६ ॥ ध मीनेशस्सात्वतप्रीतिर्वामपादाङ्गुलीगतः । धनेशो धरणीशश्च धकारो दान्तिमस्स्मृतः ॥ ३७ ॥ न शौरी मेषेश्वरी दीर्घा वामपादाग्रसंस्थितः । नरो नदीनोनादी च नकारश्चानुनासिकः ॥ ३८ ॥ प तीक्ष्णा च लोहितश्शूरो दक्षपार्श्वश्च पार्थिवः । पद्मेशो नान्तिमः फादि पकारोऽपि प्रकीर्तितः ॥ ३९ ॥ फ जनार्दनी शिखी रौद्री वामपार्श्वकृतालयः । फट्कारः प्रोच्यते सद्भिः फकारः पान्तिमस्स्मृतः ॥ ४० ॥ ब छलगण्डो भूधरश्च भयापृष्ठगतस्तथा । सुरसो वज्रमुष्टिश्च बकारो भादिमो मतः ॥ ४१ ॥ भ विश्वमूर्त्तिर्द्विरण्डेशो निद्रा नाभिगतोऽपि च । भ्रुकुटी च भरद्वाजो भकारश्च जयापहः ॥ ४२ ॥ म वैकुण्ठश्च महाकालस्तन्द्री जठरसंस्थितः । मन्त्रेशो मण्डलो मानी विषस्सूर्यो मकारकः ॥ ४३ ॥ य क्षुधा वाला च वायुस्त्वग्धृतश्च पुरुषोत्तमः । यमुनो यामुनेयश्च यकारो यान्तिमस्स्मृतः ॥ ४४ ॥ रः क्रोधिनी च भुजङ्गेशी ज्वाली रुधिरपावकौ । रोचिष्मान् दक्षिणांशश्च रुचिरो रेफ ईरितः ॥ ४५ ॥ ल क्रिया ककुद्गतो मांसं पिनाकी भूर्वलानुजः । लम्पटः शक्रसंज्ञश्च वाद्यो रान्तो लकारकः ॥ ४६ ॥ व वालो वामांसनिलयो मेदो वारिदवारुणौ । उत्कारी जलसंज्ञश्च खड्गीशोऽपि वकारकः ॥ ४७ ॥ श मृत्युर्वको वृषघ्नश्च हृदो दक्षकरस्थितः । शङ्कुकर्णोऽस्थिसंज्ञश्च शकारो विद्भिरीरितः ॥ ४८ ॥ ष वृषः श्वेतेश्वरः पीता मज्जाः हृद्वामबाहुगः । षडाननष्षकारश्च कीर्तितश्च बुधैः खरः ॥ ४९ ॥ स भृगुश्श्वेतस्तथा हंसो हृदो दक्षिणपादगः । समयस्सामगश्शुक्रस्संगतिस्सार्णकश्शशी ॥ ५० ॥ ह नभो वराहो नकुलो हृदो वामपदस्थितः । सदाशिवोऽरुणप्राणो हकारश्च हयाननः ॥ ५१ ॥ लुं हृदयान्नाभिसंस्थानश्शिवेशो विमलो सितः । लघुप्रयत्नश्चोपान्त्यो लुंकारः प्रोच्यते बुधैः ॥ ५२ ॥ क्ष संवर्त्तको नृसिंहश्च हृदयान्मुखसंस्थितः । अनन्तः परमात्मा च वज्रकायोऽन्तिमाक्षरः ॥ ५३ ॥ ;c{इति हादिमते मातृकाकोशः समाप्तः ॥}