;METADATA ;title{नामलिङ्गानुशासनम्} ;author{अमरसिंह} ;bookFullName{नामलिङ्गानुशासनं नाम अमरकोषः} ;bookSeriesDetails{Digital data from http://sanskrit.uohyd.ac.in/scl/} ;editor{} ;editorQualifications{} ;publisher{http://sanskrit.uohyd.ac.in/scl/} ;pressDetails{} ;publicationYear{} ;dataEntryBy{} ;dataEntryEmail{} ;proofReadBy{} ;proofReaderEmail{} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{AMAR} ;funding{} ;licence{GNU GPL v3.0} ;credits{1. Prof. Amba Kulkarni and http://sanskrit.uohyd.ac.in/scl/ for providing us the data. 2. Dr. Shivja S. Nair for preparing this wonderful database for her Ph.D. thesis. 3. Mr. Ajit Krishnan for providing some corrections in data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{false} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{never} ;version0.0.1{07 March 2020} ;version0.0.2{08 March 2020} ;version0.0.3{08 March 2020} ;version0.0.4{08 March 2020} ;version0.1.0{08 March 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;c{॥ श्रीः ॥} ;c{नामलिङ्गानुशासनं नाम अमरकोषः ।} ;k{प्रथमं काण्डम्} ;c{प्रथमं काण्डम् ।} ;c{मङ्गलाचरणम् ।} यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥ ;c{प्रस्तावना ।} ;c{चिकीर्षितप्रतिज्ञा ।} समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः । संपूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥ ;c{परिभाषा ।} प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥ भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः । कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥ त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥ स्वर्गवर्गः । ;v{स्वर्गवर्गः} ;c{अथ स्वर्गवर्गः ।} स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः । सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥ अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ आदितेया दिविषदो लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः । वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्यविश्ववसवस्तुषिता भास्वरानिलाः । माहाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥ विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥ ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥ धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः । नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः । सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः ॥ १७ ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । पुराणपुरुषो यज्ञपुरुषो नरकान्तकः । जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥ बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः । रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥ नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली । सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥ शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः । अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः । उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥ ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः । लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया । इन्दिरा लोकमाता मा क्षीरोदतनया रमा । भार्गवी लोकजननी क्षीरसागरकन्यका ॥ २७ ॥ शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् । कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः । चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् । अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः । सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥ गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥ शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥ भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥ गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः । अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ॥ ३४ ॥ कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः । प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वारीही च तथेन्द्राणी चामुण्डा सप्तमातरः ॥ ३५ ॥ विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा । अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः । उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३६ ॥ शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा । कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ॥ ३७ ॥ विनायको विघ्नराजद्वैमातुरगणाधिपाः । अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३८ ॥ कार्तिकेयो महासेनः शरजन्मा षडाननः । पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ बाहुलेयस्तारकजिद्विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः । शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः ॥ ४० ॥ इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥ जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥ संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ ४४ ॥ पुलोमजा शचीन्द्राणी नगरी त्वमरावती । हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४५ ॥ स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४६ ॥ ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४७ ॥ व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥ मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ४९ ॥ पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥ सनत्कुमारो वैधात्रः स्वर्वैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः । घृताची मेनका रम्भा उर्वशी च तिलोत्तमा । सुकेशीमञ्जुघोषाद्याः कथ्यन्तेऽप्सरसो बुधैः । हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ ॥ अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥ बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥ रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥ सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥ वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोऽग्निकणः सन्तापः सञ्ज्वरः समौ । उल्का स्यान्निर्गतज्वाला भूतिर्भसितभस्मनी । क्षारो रक्षा च दावस्तु दवो वनहुताशनः ॥ ५७ ॥ धर्मराजः पितृपतिः समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ॥ ५८ ॥ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥ रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥ पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥ नभस्वद्वातपवनपवमानप्रभञ्जनाः । प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः । (अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् । भाषणादि निमेषादि तद्व्यापाराः क्रमादमी) ॥ ६३ ॥ शरीरस्था इमे रंहस्तरसी तु रयः स्यदः । जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च । सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥ नित्यानवरताजस्रमप्यथातिशयो भरः । अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥ तीव्रैकान्तनितान्तानि गाढबाढदृढानि च । क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥ ६७ ॥ कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ ६८ ॥ किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ ६९ ॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७० ॥ स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः । महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ॥ ७१ ॥ ;c{इति स्वर्गवर्गः} ;v{व्योमवर्गः} ;c{अथ व्योमवर्गः ।} द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् । वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी । विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम् । तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् । विहायाः शकुने पुंसि गगने पुन्नपुंसकम् ॥ १ ॥ ;c{इति व्योमवर्गः} ;v{दिग्वर्गः} ;c{अथ दिग्वर्गः ।} दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥ उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे । अवाग्भवमवाचीनमुदीचीनमुदग्भवम् । प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु । इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥ कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात् । रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः । बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ४ ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् ॥ ५ ॥ अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ ६ ॥ धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ७ ॥ कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषे रसितादि च ॥ ८ ॥ शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनी विद्युच्चञ्चला चपला अपि ॥ ९ ॥ स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरम्मदः । इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥ १० ॥ वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ । धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः ॥ ११ ॥ वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ १२ ॥ अपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १३ ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः । अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १४ ॥ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १५ ॥ भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ॥ १६ ॥ कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः ॥ १७ ॥ अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ १८ ॥ शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः । तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १९ ॥ ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादि तारा अश्वयुगश्विनी ॥ २१ ॥ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया । समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः ॥ २२ ॥ मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी । इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २३ ॥ बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २४ ॥ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः । अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २५ ॥ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २६ ॥ सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ २७ ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २८ ॥ भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः । विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २९ ॥ द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः । विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ ३० ॥ भानुर्हंसः सहस्रांशुस्तपनः सविता रविः । पद्माक्षस्तेजसांराशिश्छायानाथस्तमिस्रहा । कर्मसाक्षी जगच्चक्षुर्लोकबन्धुस्त्रयीतनुः । प्रद्योतनो दिनमणिः खद्योतो लोकबान्धवः । इनो भगो धामनिधिश्चांशुमाल्यब्जिनीपतिः । माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्वकाः ॥ ३१ ॥ सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥ किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३३ ॥ स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः । रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः ॥ ३४ ॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥ ;c{इति दिग्वर्गः} ;v{कालवर्गः} ;c{अथ कालवर्गः} [कालो]{m} [दिष्टो]{m}ऽ[प्यनेहा]{m}पि [समयो]{m}ऽप्यथ / [पक्षतिः]{f} । [प्रतिप]{f}द्द्वे इमे स्त्रीत्वे / तदाद्या[स्तिथयो]{mf} द्वयोः / ॥ १ ॥ [घस्रो]{m} [दिनाहनी]{n} वा तु क्लीबे [दिवस]{m}[वासरौ]{m} / । [प्रत्यूषो]{m}[ऽहर्मुखं]{n} [कल्य]{n}[मुषः]{m}[प्रत्युषसी]{n} अपि । [व्युष्टं]{n} [विभातं]{n} द्वे क्लीबे पुंसि [गोसर्ग]{m} इष्यते ॥ २ ॥ [प्रभातं]{n} च / [दिनान्ते]{n} तु [सायं]{n} [सन्ध्या]{f} [पितृप्रसूः]{f} / । [प्राह्णा]{m}[पराह्ण]{m}[मध्याह्ना]{m}[स्त्रिसन्ध्यम]{n}थ / [शर्वरी]{f} ॥ ३ ॥ [निशा]{f} [निशीथिनी]{f} [रात्रि]{f}[स्त्रियामा]{f} [क्षणदा]{f} [क्षपा]{f} । [विभावरीतमस्विन्यौ]{f} [रजनी]{f} [यामिनी]{f} [तमी]{f} / ॥ ४ ॥ [तमिस्रा]{f} तामसी रात्रि/[र्ज्यौत्स्नी]{f} चन्द्रिकयान्विता / । आगामिवर्तमानाहर्युक्तायां निशि [पक्षिणी]{f} / ॥ ५ ॥ [गणरात्रं]{n} निशा बह्व्यः / [प्रदोषो]{m} [रजनीमुखम्]{n} / । [अर्धरात्र]{m}[निशीथौ]{m} द्वौ / द्वौ [याम]{m}[प्रहरौ]{m} समौ / ॥ ६ ॥ स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् / । पक्षान्तौ पञ्चदश्यौ द्वे / पौर्णमासी तु पूर्णिमा / ॥ ७ ॥ कलाहीने सानुमतिः / पूर्णे राका निशाकरे / । अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ॥ ८ ॥ सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः । उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥ सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः । एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ॥ ११ ॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दशपञ्च च । पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ ॥ १२ ॥ द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥ समरात्रिन्दिवे काले विषुवद्विषुवं च तत् । पुष्पयुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे । मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥ पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥ वैशाखे माधवो राधो ज्येष्ठे शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥ स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः । स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १७ ॥ बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् । वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः ॥ १८ ॥ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम् ॥ १९ ॥ षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः ॥ २० ॥ मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः । दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ॥ २१ ॥ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥ अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ॥ २३ ॥ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ २४ ॥ स्यादानन्दथुरानन्दः शर्मशातसुखानि च । श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥ २६ ॥ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ २७ ॥ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः । हेतुर्ना कारणं बीजं निदानं त्वादिकारणम् ॥ २८ ॥ क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् । विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥ जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥ जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता । चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३१ ॥ ;c{इति कालवर्गः} ;v{धीवर्गः} ;c{अथ धीवर्गः ।} बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना ॥ १ ॥ धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम् । अवधानं समाधानं प्रणिधानं तथैव च । चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा । विमर्शो भावना चैव वासना च निगद्यते ॥ २ ॥ अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः । सन्देहद्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ ३ ॥ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥ संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥ मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥ मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥ गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥ तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ ९ ॥ विमर्दोत्थे परिमलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १० ॥ समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः । इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ ११ ॥ पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् । शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः ॥ १२ ॥ अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः । हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः ॥ १३ ॥ कृष्णे नीलासितश्यामकालश्यामलमेचकः । पीतो गौरो हरिद्राभः पलाशो हरितो हरित् ॥ १४ ॥ लोहितो रोहितो रक्तः शोणः कोकनदच्छविः । अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः ॥ १५ ॥ श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते । कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥ चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥ ;c{इति धीवर्गः} ;v{शब्दादिवर्गः} ;c{अथ शब्दादिवर्गः ।} ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती । व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः । तिङ्सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥ २ ॥ श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः । स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥ शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ । इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥ आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम् ॥ ५ ॥ प्रबन्धकल्पना कथा प्रवह्लिका प्रहेलिका । स्मृतिस्तु धर्मसंहिता समाहृतिस्तु संग्रहः ॥ ६ ॥ समस्या तु समासार्था किंवदन्ती जनश्रुतिः । वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥ आख्याह्वे अभिधानं च नामधेयं च नाम च । हूतिकारणाह्वानं संहूतिर्बहुभिः कृता ॥ ८ ॥ विवादो व्यवहारः स्यादुपन्यासस्तु वाङ्मुखम् । उपोद्धात उदाहारः शपनं शपथः पुमान् ॥ ९ ॥ प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे । मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम् ॥ १० ॥ अभिशापः प्रणादस्तु शब्दः स्यादनुरागजः । यशः कीर्तिः समज्ञा च स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ ११ ॥ आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्टं तु घोषणा । काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥ अवर्णाक्षेपनिर्वादपरीवादापवादवत् । उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥ पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः । यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥ तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति । स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ॥ १५ ॥ अनुलापो मुहुर्भाषा विलापः परिदेवनम् । विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः ॥ १६ ॥ सुप्रलापः सुवचनमपलापस्तु निह्नवः । चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा । अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम् । सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥ रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका । अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम् ॥ १८ ॥ निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये । सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम् ॥ १९ ॥ लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् । अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम् ॥ २० ॥ अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् । सोल्लुण्ठनं तु सोत्प्रासं मणितं रतिकूजितम् । श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् । अथ म्लिष्टमविस्पष्टं वितथं त्वनृतं वचः ॥ २१ ॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति । शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥ स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्मरः ॥ २३ ॥ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् । निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥ वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः । कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् । स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥ ;c{इति शब्दादिवर्गः} ;v{नाट्यवर्गः} ;c{अथ नाट्यवर्गः ।} निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु ॥ २ ॥ नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः । स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते । समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ॥ ४ ॥ चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् । मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योर्ध्वकास्त्रयः ॥ ५ ॥ स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान् । आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम् ॥ ६ ॥ वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निबन्धनम् ॥ ७ ॥ वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः । मर्दलः पणवोऽन्ये च नर्तकीलासिके समे ॥ ८ ॥ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । तालः कालक्रियामानं लयः साम्यमथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥ भगिनीपतिरावुत्तो भावो विद्वानथावुकः । जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ राजा भट्टारको देवस्तत्सुता भर्तृदारिका । देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १३ ॥ अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः । अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १४ ॥ अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे । हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५ ॥ अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥ उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा । कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ १८ ॥ हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम् । विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥ दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥ चतुर्दश दरस्त्रासो भीतिर्भीः साध्वसं भयम् । विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥ गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः । दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः । अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥ रीढावमाननावज्ञावहेलनमसूर्क्षणम् । मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २३ ॥ क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा । अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि ॥ २४ ॥ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥ कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ । शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥ प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम् । इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः ॥ २७ ॥ कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः । उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा ॥ २८ ॥ स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक् ॥ २९ ॥ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स्त्रीणां विलासबिब्बोकविभ्रमा ललितं तथा ॥ ३१ ॥ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥ व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् । घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता ॥ ३३ ॥ अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ । स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम् ॥ ३४ ॥ मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम् । क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥ विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे । स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥ तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् । अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥ स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः । कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ ;c{इति नाट्यवर्गः} ;v{पातालभोगिवर्गः} ;c{अथ पातालभोगिवर्गः} अधोभुनपातालं बलिसद्म रसातलम् । नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥ छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः । गर्तावटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु ॥ २ ॥ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । ध्वान्ते गाढेऽन्धतमसं क्षीणोऽन्धतमसं तमः ॥ ३ ॥ विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वराः । शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ ४ ॥ तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ । अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ ॥ ५ ॥ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः । सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥ आशीविषो विषधरश्चक्री व्यालः सरीसृपः । कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥ दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः । उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा । कुम्भीनसः फणधरो हरिर्भोगधरस्तथा । अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका । त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः । समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥ पुंसि क्लीबे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदो वत्सनाभश्च विषभेदा अमी नव । विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः ॥ ११ ॥ ;c{इति पातालभोगिवर्गः} ;v{नरकवर्गः} ;c{अथ नरकवर्गः} स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥ सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋतिः ॥ २ ॥ विष्टिराजूः कारणा तु यातना तीव्रवेदना । पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् । स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ ३ ॥ ;c{इति नरकवर्गः} ;v{वारिवर्गः} ;c{अथ वारिवर्गः} समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः । उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १ ॥ रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः । तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥ मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् । भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ ५ ॥ महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः । पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ ६ ॥ चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः । कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥ पारावारे परार्वाची तीरे पात्रं तदन्तरम् । द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥ तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् । निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥ जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः । नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥ उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः । आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥ सांयात्रिकः पोतवणिक्कर्णधारस्तु नाविकः । नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १२ ॥ नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः । अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १३ ॥ क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु । त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १४ ॥ निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये । अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १५ ॥ आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् । मत्स्याधानी कुवेणी स्याद्बडिशं मत्स्यवेधनम् ॥ १६ ॥ पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः । विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १७ ॥ सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ । नलमीनश्चिलिचिमः प्रोष्ठी तु शफरीद्वयोः ॥ १८ ॥ क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः । रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १९ ॥ तिमिङ्गलादयश्चाथ यादांसि जलजन्तवः । तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥ स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ । ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥ गण्डूपदः किञ्चुलको निहाका गोधिका समे । रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २२ ॥ मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ । क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ २३ ॥ भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः । शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ २४ ॥ मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका । जलाशयो जलाधारस्तत्रागाधजलो ह्रदः ॥ २५ ॥ आहावस्तु निपानं स्यादुपकूपजलाशये । पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ २६ ॥ नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् । पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ २७ ॥ पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः । वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ २८ ॥ खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् । स्यादालवालमावालमावापोऽथ नदी सरित् ॥ २९ ॥ तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती । गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥ कालिन्दी सूर्यतनया यमुना शमनस्वसा । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२ ॥ करतोया सदानीरा बाहुदा सैतवाहिनी । शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट्स्त्रियाम् ॥ ३३ ॥ शोणो हिरण्यवाहः स्यात्कुल्याल्पा कृत्रिमा सरित् । शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४ ॥ कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः । द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ ३५ ॥ देविकायां सरय्वां च भवे दाविकसारवौ । सौगन्धिकं तु कल्हारं हल्लकं रक्तसंध्यकम् ॥ ३६ ॥ स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥ शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका । जलनीली तु शेवालं शैवलोऽथ कुमुद्वती ॥ ३८ ॥ कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ सहस्रपत्रं कमलं शतपत्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥ बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च । पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ ४१ ॥ रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम् । मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥ करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् । संवर्तिका नवदलं बीजकोशो वराटकः ॥ ४३ ॥ ;c{इति वारिवर्गः} ;c{काण्डसमाप्तिः ।} उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् । पातालभोगि नरकं वारि चैषां च सङ्गतम् ॥ ४४ ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥ ;c{अमरकोशे द्वितीयं भूम्यादिकाण्डम् ।} ;k{द्वितीयं काण्डम्} काण्ड -2 ;c{वर्गभेदाः ।} वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः । नृब्रह्मक्षत्रविट्शूद्रैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥ ;v{भूमिवर्गः} भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा । धरा धरित्री धरणिः क्षोणिर्ज्या काश्यपी क्षितिः ॥ २ ॥ सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा । भूतधात्री रत्नगर्भा जगती सागराम्बरा । मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका । उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका ॥ ४ ॥ ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली । समानौ मरुधन्वानौ द्वे खिलाप्रहते समे ॥ ५ ॥ त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् । लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ॥ ६ ॥ देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः । प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः ॥ ७ ॥ आर्यावर्तः पुण्यभूमिर्मध्यं विन्ध्यहिमालयोः । नीवृज्जनपदो देशविषयौ तूपवर्तनम् ॥ ८ ॥ त्रिष्वागोष्ठान्नडप्राये नड्वान्नड्वल इत्यपि । कुमुद्वान्कुमुदप्राये वेतस्वान्बहुवेतसे ॥ ९ ॥ शाद्वलः शादहरिते सजम्बाले तु पङ्किलः । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥ स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमावेववमुन्नेयाः सिकतावति ॥ ११ ॥ देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥ सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान् । गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥ पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् । वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम् ॥ १४ ॥ अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥ अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि । व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥ अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे । प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥ गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् । घण्टापथः संसरणं तत्पुरस्योपनिष्करम् ॥ १८ ॥ द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी । दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ॥ १९ ॥ ;c{इति भूमिवर्गः} ;v{पुरवर्गः} ;c{अथ पुरवर्गः} पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् । स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् ॥ १ ॥ तच्छाखानगरं वेशो वेश्याजनसमाश्रयः । आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥ रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् । प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥ भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् । गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥ निशान्तवस्त्यसदनं भवनागारमन्दिरम् । गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥ वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् । चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥ चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा । आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥ मठश्छात्रादिनिलयो गञ्जा तु मदिरागृहम् । गर्भागारं वासगृहमरिष्टं सूतिकागृहम् । कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ॥ ८ ॥ वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम् ॥ ९ ॥ सौधोऽस्त्री राजसदनमुपकार्योपकारिका । स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् । स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च स्यादट्टः क्षौममस्त्रियाम् । प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ॥ १२ ॥ गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे । अधस्ताद्दारुणिशिला नासा दारूपरि स्थितम् ॥ १३ ॥ प्रच्छन्नमन्तर्द्वारं स्यात्पक्षद्वारं तु पक्षकम् । वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥ गोपानसी तु वलभी छादने वक्रदारुणि । कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥ स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका । तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम् ॥ १६ ॥ कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥ आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी । संमार्जनी शोधनी स्यात्सङ्करोऽवकरस्तथा ॥ १८ ॥ क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् । समौ संवसथग्रामौ वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥ ग्रामान्तमुपशल्यं स्यात्सीमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात्पक्कणः शबरालयः ॥ २० ॥ ;c{इति पुरवर्गः} ;v{शैलवर्गः} ;c{अथ शैलवर्गः} महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥ लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ । अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥ हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् । कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः ॥ ४ ॥ कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः ॥ ५ ॥ दरी तु कन्दरो वा स्त्री देवखातबिले गुहा । गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः । खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः । उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥ धातुर्मनःशिलाद्यद्रेर्गैरिकं तु विशेषतः । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥ ;c{इति शैलवर्गः} ;v{वनौषधिवर्गः} ;c{अथ वनौषधिवर्गः} अटव्यरण्यं विपिनं गहनं काननं वनम् । महारण्यमरण्यानी गृहारामास्तु निष्कुटाः ॥ १ ॥ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३ ॥ वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः शालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥ वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः । ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ६ ॥ वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली । प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥ फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु । स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः ॥ ८ ॥ अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि ॥ ९ ॥ नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः । अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ॥ १० ॥ समे शाखालते स्कन्धशाखाशाले शिफाजटे । शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता ॥ ११ ॥ शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः । सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥ काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् । निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ ॥ १३ ॥ पत्रं पलाशं छदनं दलं पर्णं छदः पुमान् । पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥ वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् । आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ॥ १५ ॥ क्षारको जालकं क्लीबे कलिका कोरकः पुमान् । स्याद्गुच्छकस्तु स्तबकः कुङ्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् । मकरन्दः पुष्परसः परागः सुमनोरजः ॥ १७ ॥ द्विहीनं प्रसवे सर्वं हरीतक्यादयः स्त्रियाम् । आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदम्फले ॥ १८ ॥ बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले ॥ १९ ॥ विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला । बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥ अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ सप्तपर्णो विशालत्वक्शारदो विषमच्छदः । आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः ॥ २३ ॥ आरेवतव्याधिघातकृतमालसुवर्णकाः । स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः । पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥ पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥ वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ । आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥ वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः । पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥ अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः । पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे ॥ २९ ॥ रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः । द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥ बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि । प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः ॥ ३२ ॥ गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ । आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ ३३ ॥ कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः । शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः । गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः । कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले ॥ ३६ ॥ सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः । विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥ ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका । तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥ काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके । गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ ॥ ३९ ॥ तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ । श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ ॥ ४० ॥ क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च नीपप्रियककदम्बास्तु हलिप्रियः । वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥ गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः । प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके ॥ ४३ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः ॥ ४४ ॥ नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोऽर्जुनः । राजादनः फलाध्यक्षः क्षीरिकायामथ द्वयोः ॥ ४५ ॥ इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ४६ ॥ पिच्छा तु शाल्मलीवेष्टे रोचनः कूटशाल्मलिः । चिरबिल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥ प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः । करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ अरिमेदो विट्खदिरे कदरः खदिरे सिते । सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥ अल्पा शमी शमीरः स्याच्छमीसक्तुफला शिवा । पिण्डीतको मरुबकः श्वसनः करहाटकः ॥ ५२ ॥ शल्यश्च मदने शक्रपादपः पारिभद्रकः । भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥ पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः । पाटलिः पाटला मोघा काचस्थाली फलेरुहा ॥ ५४ ॥ कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सा । मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः ॥ ५६ ॥ स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकश्चारलौ तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः ॥ ५८ ॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः । अभया त्वव्यथा पथ्या कायस्था पूतनामृता ॥ ५९ ॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा । पीतद्रुः सरलः पूतिकाष्ठं चाथ द्रुमोत्पलः ॥ ६० ॥ कर्णिकारः परिव्याधो लकुचो लिकुचो डहुः । पनसः कण्टकिफलो निचुलो हिज्जलोऽम्बुजः ॥ ६१ ॥ काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला । अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ॥ ६२ ॥ पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा । कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः । भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ एतस्य कलिका गन्धफली स्यादथ केसरे । बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ ॥ ६४ ॥ चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ श्रीपर्णमग्निमन्थः स्यात्कर्णिका गणिकारिका । जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले । कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥ कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके । सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥ वेणी खरा गरी देवताडो जीमूत इत्यपि । श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥ भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥ सितासौ श्वेतसुरसा भूतवेश्यथ मागधी । गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता । सुमना मालती जातिः सप्तला नवमालिका ॥ ७२ ॥ माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः । सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥ तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः । नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥ सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे । पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः ॥ ७५ ॥ ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत् । प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥ करवीरे करीरे तु क्रकरग्रन्थिलावुभौ । उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥ मातुलो मदनश्चास्य फले मातुलपुत्रकः । फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥ समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः । जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥ सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः । अर्काह्ववसुकास्फोटगणरूपविकीरणाः ॥ ८० ॥ मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ । शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः ॥ ८१ ॥ वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । पाटाम्बष्टा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥ एकाष्ठीला पापचेली प्राचीना वनतिक्तिका । कटुः कटम्भराशोकरोहिणी कटुरोहिणी ॥ ८५ ॥ मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी ॥ ८६ ॥ ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी । चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥ प्रत्यक्श्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी । हञ्जिका ब्राम्हणी पद्मा भर्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः । मञ्जिष्टा विकसा जिङ्गी समङ्गा कालमेषिका ॥ ९० ॥ मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥ रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा । पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिवल्लिका ॥ ९२ ॥ क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी । अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ ॥ कालमेषी कृष्णफली बाकुची पूतिफल्यपि । कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥ चव्यं तु चविका काकचिञ्चीगुञ्जे तु कृष्णला । पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥ शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे । शतमूली बहुसुताभीरूरिन्दीवरी वरी ॥ १०० ॥ ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । अहेरुरथ पीतद्रुकालीयकहरिद्रवः ॥ १०१ ॥ दार्वी पचम्पचा दारुहरिद्रा पर्जनीत्यपि । वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥ शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका । वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥ आस्फोटा गिरिकर्णी स्याद्विष्णुक्रान्तापराजिता । इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥ शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः । मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा ॥ १०५ ॥ समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला । तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥ बला वाट्यालका घण्टारवा तु शणपुष्पिका । मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥ सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका ॥ १०८ ॥ काला मसूरविदलार्धचन्द्रा कालमेषिका । मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९ ॥ विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्टी च या सिता । अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥ लाङ्गली शारदी तोयपिप्पली शकुलादनी । खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ कदली वारणबुसा रम्भा मोचांशुमत्फला । काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥ वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी । नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ ॥ नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा । विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च । भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः ॥ ११६ ॥ गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका । धामार्गवो घोषकः स्यान्महाजाली स पीतकः ॥ ११७ ॥ ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका । स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका ॥ ११८ ॥ गोधापदी तु सुवहा मुसली तालमूलिका । अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे ॥ ११९ ॥ ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ एलावालुकमैलेयं सुगन्धि हरिवालुकम् । वालुकं चाथ पालङ्क्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥ बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च । कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥ शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा । गन्धिनी गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च । अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥ पृथ्वीका चन्द्रवालैला निष्कुटिर्बहिलाथ सा । सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १२५ ॥ व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् । शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६ ॥ झटामलाज्झटा ताली शिवा तामलकीति च । प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी । चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली ॥ १२९ ॥ धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी । शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ॥ काक्षी मृत्स्ना तुवरिका मृत्तालकसुराष्ट्रजे । कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥ प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥ मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ तपस्विनी जटामांसी जटिला लोमशा मिसी । त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥ कर्चूरको द्राविडकः काल्पको वेधमुख्यकः । ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥ शाकाख्यं पत्रपुष्पादि तण्डुलीयोऽल्पमारिषः । विशल्याग्निशिखानन्ता फलिनी शक्रपुष्पिका ॥ १३६ ॥ स्याद्दक्षगन्धा छगलान्त्र्यावेगी वृद्धदारकः । जुङ्गो ब्रम्ही तु मत्स्याक्षी वयस्था सोमवल्लरी ॥ १३७ ॥ पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती । हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥ तुण्डिकेरी रक्तफला बिम्बिका पीलुपर्ण्यपि । बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥ एलापर्णी तु सुवहा रास्ना युक्तरसा च सा । चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ॥ १४० ॥ सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि । नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि ॥ १४१ ॥ जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा । कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः ॥ १४२ ॥ किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला । विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥ वायसोली स्वादुरसा वयस्थाथ मकूलकः । निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥ अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका । मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥ अव्यथातिचरा पद्मा चारटी पद्मचारिणी । काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥ प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥ लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् । लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥ पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् । स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥ पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता । वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका ॥ १५० ॥ विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि । मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ॥ १५१ ॥ शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः । अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥ तस्यां कटम्भरा राजबला भद्रबलेत्यपि । जनी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि । कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ॥ १५४ ॥ सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः । कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥ इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे । चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ॥ अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला । कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका । सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥ गोलोमी शतवीर्या च गण्डाली शकुलाक्षका । कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा । वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥ शतपर्वा यवफलो वेणुमस्करतेजनाः । वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥ ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः । नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥ इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः । रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥ स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे । नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥ अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् । पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥ छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे । शष्पं बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥ तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ॥ घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ॥ १६९ ॥ खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः । ;c{इति वनौषधिवर्गः} ;v{सिंहादि वर्गः} ;c{अथ सिंहादि वर्गः ॥} सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः । पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः । शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥ वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ । लुलायो महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥ स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥ ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् । त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ॥ ६ ॥ श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् । वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥ मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥ कदली कन्दली चीनश्चमूरुप्रियकावपि । समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥ कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः । गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥ गन्धर्वः शरभो रामः सृमरो गवयः शशः । इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥ अधोगन्ता तु खनको वृकः पुंध्वज उन्दुरः । उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका । सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२ ॥ लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः । नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे ॥ १३ ॥ वृश्चिकः शूककीटः स्यादलिद्रुणौ तु वृश्चिके । पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥ पत्री श्येन उलूकस्तु वायसारातिपेचकौ । दिवान्धः कौशिको घूको दिवाभीतो निशाटनः । व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ लोहपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः । कलिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥ दार्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः । कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ चटकः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरः स्त्र्यपत्ये चटकैव सा ॥ १८ ॥ कर्करेटुः करेटुः स्यात्कृकणक्रकरौ समौ । वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥ काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः । ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥ स एव च चिरञ्जीवी चैकदृष्टिश्च मौकुलिः । द्रोणकाकस्तु काकोलो दात्यूहः कालकण्ठकः । आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥ क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः । कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥ कादम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥ राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ शरारिराटिराडिश्च बलाका बिसकण्ठिका । हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥ जतुकाजिनपत्रा स्यात्परोष्णी तैलपायिका । वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥ पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका । दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ २७ ॥ भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः । समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ मधुव्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥ मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ केका वाणी मयूरस्य समौ चन्द्रकमेचकौ । शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥ खगे विहङ्गविहगविहङ्गमविहायसः । शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः । नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥ नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः । तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥ तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः । कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् । स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥ प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः । पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥ पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ॥ ३८ ॥ समूहे निवहव्यूहसंदोहविसरव्रजाः । स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥ समुदायः समुदयः समवायश्चयो गणः । स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥ वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः । सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥ पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् । स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे । गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥ ;c{इति सिंहादिवर्गः} ;v{मनुष्यवर्गः} ;c{अथ मनुष्यवर्गः} मनुष्या मानुषा मर्त्या मनुजा मानवा नराः । स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥ स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः । प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ २ ॥ विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना । प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥ सुन्दरी रमणी रामा कोपना सैव भामिनी । वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥ कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः । पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥ भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी । पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥ कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा । पतिंवरा च वर्याथ कुलस्त्री कुलपालिका ॥ ७ ॥ कन्या कुमारी गौरी तु नग्निकानागतार्तवा । स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥ समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी । इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी ॥ ९ ॥ कान्तार्थिनी तु या याति संकेतं साभिसारिका । पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥ स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना । अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥ आलिः सखी वयस्याथ पतिवत्नी सभर्तृका । वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ॥ १२ ॥ शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च । आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥ अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि । उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥ आचार्यानी तु पुंयोगे स्यादर्यी क्षत्रियी तथा । उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ वीरपत्नी वीरभार्या वीरमाता तु वीरसूः । जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥ स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे । कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ १७ ॥ सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका । असिक्नी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी ॥ १८ ॥ वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः । सत्कृता वारमुख्या स्यात्कुट्टनी शम्भली समे ॥ १९ ॥ विप्रश्निका त्वीक्षणिका दैवज्ञाथ रजस्वला । स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥ ऋतुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् । श्रद्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥ आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी । गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ पुनर्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः । स तु द्विजोऽग्रे दिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥ कानीनः कन्यकाजातः सुतोऽथ सुभगासुतः । सौभागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥ पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः । सुता मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥ अथ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः । कौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥ तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः । आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥ आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे । स्वजाते त्वौरसोरस्यौ तातस्तु जनकः पिता ॥ २८ ॥ जनयित्री प्रसूर्माता जननी भगिनी स्वसा । ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥ भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् । प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥ पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः । पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥ श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ । स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥ पितामहः पितृपिता तत्पिता प्रपितामहः । मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥ समानोदर्यसोदर्यसगर्भ्यसहजाः समाः । सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥ ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः । धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥ अमृते जारजः कुण्डो मृते भर्तरि गोलकः । भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ । श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥ दम्पती जम्पती जायापती भार्यापती च तौ । गर्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ ३८ ॥ सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ । तृतीया प्रकृतिः शण्ढः क्लीबः पण्डो नपुंसके ॥ ३९ ॥ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे । स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ॥ ४० ॥ पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा । स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ॥ ४१ ॥ बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥ वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः । जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ॥ ४३ ॥ अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः । तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥ अवटीटोऽवनाटश्चावभ्रटो नतनासिके । केशवः केशिकः केशी वलिनो वलिभः समौ ॥ ४५ ॥ विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः । खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ॥ ४६ ॥ खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः । ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः ॥ ४७ ॥ स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः । पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥ वलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः । जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥ अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया । भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः । क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ स्त्री क्षुत्क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् । शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥ किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका । कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् ॥ ५३ ॥ व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् । कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥ आनाहस्तु निबन्धः स्याद्ग्रहणीरुक्प्रवाहिका । प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः । श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः । अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥ रोगहार्यगदङ्कारो भिषग्वैद्यौ चिकित्सके । वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥ ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः । आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥ दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः । वातकी वातरोगी स्यात्सातिसारोऽतिसारकी ॥ ५९ ॥ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी । उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥ न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ । किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ ॥ ६१ ॥ शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च । मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥ पिशितं तरसं मांसं पललं क्रव्यमामिषम् । उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥ रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६४ ॥ पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा । तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥ अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा । स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥ सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् । नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम् । मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ । स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥ स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका । शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥ अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥ कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः । पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥ तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः । जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥ सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः । गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥ कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती । पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४ ॥ कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे । स्त्रियाम्स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥ भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी । मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥ पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ । चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ॥ उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः । स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥ बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः । मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥ भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः । अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥ ८० ॥ मणीबन्धादाकनिष्ठं करस्य करभो बहिः । पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥ अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी । मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥ अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः । पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥ द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ । पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् ॥ ८५ ॥ प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया । स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥ व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् । ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥ कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि । कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ॥ ८८ ॥ वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् । क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥ ओष्ठाधरौ तु रदनच्छदौ दशनवाससी । अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः ॥ ९० ॥ रदना दशना दन्ता रदास्तालु तु काकुदम् । रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ॥ ९१ ॥ ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ । कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥ लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥ अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने । कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् । चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥ तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः । ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ ९६ ॥ कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः । शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥ वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे । पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥ तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे । आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः । प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥ विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया । अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥ मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् । चूडामणिः शिरोरत्नं तरलो हारमध्यमगः ॥ १०२ ॥ वालपाश्या पारितथ्या पत्रपाश्या ललाटिका । कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥ ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिकाथोरः सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥ हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका । हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥ अर्धहारो माणवक एकावल्येकयष्टिका । सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥ आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् । केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥ साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् । स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा ॥ १०८ ॥ क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु । पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥ हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका । त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥ वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् । कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥ अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे । तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥ पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् । क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः । दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४ ॥ पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ११५ ॥ सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः । निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥ अन्तरीयोपसंव्यानपरिधानान्यधोंशुके । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥ संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् । नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥ अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमस्त्रियाम् । स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥ अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि । प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥ परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा । उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥ स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् । अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥ तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥ काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने । रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १२४ ॥ लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः । लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ॥ कालीयकं च कालानुसार्यं चाथ समार्थकम् । वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् ॥ १२६ ॥ कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् । यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥ बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ । तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ॥ १२८ ॥ श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ । मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥ कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् । घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥ गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् । तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥ तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् । कुचन्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥ कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः । गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥ चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु । संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥ माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः । प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ १३५ ॥ प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् । यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥ रचना स्यात्परिस्यन्द आभोगः परिपूर्णता । उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥ शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः । गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥ समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः । प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ १३९ ॥ दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् ॥ १४० ॥ ;c{इति मनुष्यवर्गः} ;v{ब्रह्मवर्गः} ;c{अथ ब्रह्मवर्गः} सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २ ॥ महाकुलकुलीनार्यसभ्यसज्जनसाधवः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥ आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः । विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥ विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥ ५ ॥ धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः । दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि । वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि । नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः । चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ । उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः । मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥ यष्टा च यजमानश्च स सोमवति दीक्षितः । इज्याशीलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥ स गीर्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपाः । सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥ अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः । लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥ छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् । पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥ उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः । यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥ पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः । एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥ समज्या परिषद्गोष्ठी सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥ प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः । सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥ अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् । आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥ वेदिः परिष्कृता भुमिः समे स्थण्डिलचत्वरे । चषालो यूपकटकः कुम्बा सुगहना वृतिः ॥ १८ ॥ यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः । दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥ अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः । समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥ यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥ ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने । गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ २२ ॥ आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः । धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा ॥ २३ ॥ पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् । हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ॥ २४ ॥ ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः । उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५ ॥ परम्पराकं शमनं प्रोक्षणं च वधार्थकम् । वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥ सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् । दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥ त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् । अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥ त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निर्वपणमपवर्जनमंहतिः । मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ ३० ॥ पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः । अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥ पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा । सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना ॥ ३२ ॥ षट्तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि । क्रमादातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥ स्युरावेशिक आगन्तुरतिथिर्ना गृहागते । प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम् । पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥ वरिवस्या तु शुश्रूषा परिचर्याप्युपासना । व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः ॥ ३५ ॥ उपस्पर्शस्त्वाचमनमथ मौनमभाषणम् । प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः । वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः । व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः । आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥ पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः । नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥ औपवस्तं तूपवासो विवेकः पृथगात्मता । स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥ ३८ ॥ पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः । ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥ ३९ ॥ मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः । संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ समे तु पादग्रहणमभिवादनमित्युभे । भिक्षुः परिव्राट्कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥ तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः । तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥ ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती । ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥ ४३ ॥ यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ । स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥ पवित्रः प्रयतः पूतः पाषण्डाः सर्वलिङ्गिनः । पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥ ४५ ॥ अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी । अजिनं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥ स्वाध्यायः स्याज्जपः सुत्याभिषवः सवनं च सा । सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥ दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् । शरीरसाधनापेक्षं नित्यं यत्कर्म तद्यमः ॥ ४८ ॥ नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम् । क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु । उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥ प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् । अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥ मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् । स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥ देवभूयादिकं तद्वत्कृच्छ्रं सान्तपनादिकम् । संन्यासवत्यनशने पुमान्प्रायोऽथ वीरहा ॥ ५२ ॥ नष्टाग्निः कुहना लोभान्मिथ्येर्यापथकल्पना । व्रात्यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥ ५३ ॥ धर्मध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः । सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥ अंशुमानभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् । परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥ परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥ व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥ ५७ ॥ सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये । ;c{इति ब्रह्मवर्गः} ;v{क्षत्रियवर्गः} ;c{अथ क्षत्रियवर्गः} मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् । राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥ राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः । चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥ राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् । मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥ महामात्राः प्रधानानि पुरोधास्तु पुरोहितः । द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥ प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः । रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥ स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु । भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥ अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः । सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥ शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः । विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥ उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः । रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥ द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥ वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् । सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥ यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि । स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥ तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ । लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके ॥ १५ ॥ लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ । स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी ॥ १६ ॥ अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि । स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥ राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥ षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥ स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २० ॥ साहसं तु दमो दण्डः साम सान्त्वमथो समौ । भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥ पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु । समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥ अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् । युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥ न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम् । अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥ शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः । आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥ द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः । घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥ उपायनमुपग्राह्यमुपहारस्तथोपदा । यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥ तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः । सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९ ॥ अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् । महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥ प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् । नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥ हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् । भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ३२ ॥ निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥ दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥ इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः । मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥ प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ । हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥ गण्डः कटो मदो दानं वमथुः करशीकरः । कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥ अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् । अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥ अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् । आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् ॥ ३९ ॥ पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः । द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥ तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले । अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥ दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे । प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥ वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी । घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥ वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः । आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥ वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः । ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ४५ ॥ पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः । बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥ त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते । कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ॥ ४७ ॥ निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमश्ववत् । आस्कन्दितं धौरितकं रेचितम्वल्गितं प्लुतम् ॥ ४८ ॥ गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् । कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥ पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः । त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः । असौ पुष्परथश्चक्रयानं न समराय यत् ॥ ५१ ॥ कर्णीरथः प्रवहणं डयनं च समं त्रयम् । क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥ शिबिका याप्ययानं स्याद्दोला प्रेङ्खादिका स्त्रियाम् । उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली । रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥ त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे । धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥ चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् । पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ॥ ५६ ॥ रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः । अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगाद्युगः ॥ ५७ ॥ सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् । परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८ ॥ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः । नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ॥ ५९ ॥ सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः । रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ६० ॥ भटा योधाश्च योद्धारः सेना रक्षास्तु सैनिकाः । सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥ बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ॥ ६२ ॥ कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः । बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ॥ शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ॥ ६४ ॥ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः ॥ ६५ ॥ त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे । पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥ पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः । शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥ ६८ ॥ धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः । स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥ ६९ ॥ याष्टीकपारश्वधिकौ यष्टिपर्श्वधहेतिकौ । नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ७० ॥ चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः । अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ॥ ७१ ॥ पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः । पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥ जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ । तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥ जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके । जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥ सोऽभ्यमित्रोऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि । ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥ स्वादुरस्वानुरसिलो रथिरो रथिको रथी । कामङ्गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥ शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः । सांयुगीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥ ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः । वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥ व्यूहस्तु बलविन्यासो भेदादण्डादयो युधि । प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥ एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥ सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ । आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥ धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥ कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ । कोटिरस्याटनी गोधातले ज्याघातवारणे ॥ ८४ ॥ लस्तकस्तु धनुर्मध्यं मोर्वी ज्या शिञ्जिनी गुणः । स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥ लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् । पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥ कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः । प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥ निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ । तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥ तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥ त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् । फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥ द्रुघणो मुद्गरघनौ स्यादीली करवालिका । भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ९१ ॥ द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः । स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका ॥ ९२ ॥ वा पुंसि शल्यं शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम् । प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९३ ॥ सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः । लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥ ९४ ॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् । यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः ॥ ९५ ॥ स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् । अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥ वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः । स्युर्मागधास्तु मगधा बन्दिनः स्तुतिपाठकाः ॥ ९७ ॥ संशप्तकास्तु समयात्संग्रामादनिवर्तिनः । रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥ चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले । पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥ सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा । अहंपूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम् ॥ १०० ॥ आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि । अहमहमिका तु सा स्यात्परस्परं यो भवत्यहङ्कारः ॥ १०१ ॥ द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥ वीरपानं तु यत्पानं वृत्ते भाविनि वारणे । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥ मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् । अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥ सम्प्रहाराभिसम्पात कलिसंस्फोट संयुगाः । अभ्यामर्द समाघात संग्रामाभ्यागमाहवाः ॥ १०५ ॥ समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः । नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसङ्कुले ॥ १०६ ॥ क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा । क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥ विस्फारो धनुषः स्वानः पताहाडम्बरो समौ । प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥ अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम् । मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥ अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः । वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥ प्रद्रावोद्द्रावसंद्रावसंदावा विद्रवो द्रवः । अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥ पराजितपराभूतौ त्रिषु नष्टतिरोहितौ । प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् । निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ निस्तर्हणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥ उद्वासनप्रमथनक्रथनोज्जासनानि च । आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥ परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः । मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ ११७ ॥ कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥ प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये । पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥ आयुर्जीवितकालो ना जीवतुर्जीवनौषधम् । ;c{इति क्षत्रियवर्गः} ;v{वैश्यवर्गः} ;c{अथ वैश्यवर्गः} ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः । आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः । सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते । सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥ उद्धारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥ उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् । कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥ क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः । क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत् ॥ ६ ॥ यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् । तिल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता ॥ ७ ॥ मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् । शाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् । बीजाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥ त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् । द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥ द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः । खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥ पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु । कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे ॥ ११ ॥ लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः । प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥ दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् । निरीशं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥ गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः । ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥ पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने । आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥ तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः । हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥ मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ । वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥ सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ । स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥ द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले । क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥ स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा । मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान् ॥ २० ॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी । धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ नाडी नालञ्च काण्डोऽस्य पलालोऽस्त्री सनिष्फलः । कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥ शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे । ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥ माषादयः शमीधान्ये शूकधान्ये यवादयः । शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका । अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥ प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् । स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥ समानौ रसवत्यां तु पाकस्थानमहानसे । पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥ आरालिका आन्धसिकाः सूदा औदनिका गुणाः । आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥ अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् । क्लीबेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥ अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका । पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥ घटः कुटनिपावस्त्री शरावो वर्धमानकः । ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् । सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥ दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः । अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ॥ ३४ ॥ कलम्बश्च कडम्बश्च वेसवार उपस्करः । तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥ मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् । जीरको जरणोऽजाजि कणा कृष्णे तु जीरके ॥ ३६ ॥ सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका । आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् । स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ आरनालकसौवीरकुल्माषाभिषुतानि च । अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ सहस्रवेधि जतुकं बाल्हीकं हिङ्गु रामठम् । तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥ निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी । सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥ सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे । रौमकं वसुकं पाक्यं विडं च कृतके द्वयम् ॥ ४२ ॥ सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके । मत्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ४३ ॥ कूर्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता । स्यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥ शूलाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् । प्रणीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥ स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे । चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥ आपक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः । पृथुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः ॥ ४७ ॥ पूपोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः । भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः ॥ ४८ ॥ भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् । मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥ यवागूरुष्णिका श्राणा विलेपी तरला च सा । म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः । गव्यं त्रिषु गवां सर्वं गोविड्गोमयस्त्रियाम् ॥ ५० ॥ तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयस्समम् । पयस्यमाज्यदध्यादि द्रप्स्यं दधि घनेतरत् ॥ ५१ ॥ घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् । तत्तु हैयङ्गवीनं यद्ध्योगोदोहोद्भवं घृतम् ॥ ५२ ॥ दण्डाहतं कालशेयमरिष्टमपि गोरसः । तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥ मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः । अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् ॥ ५४ ॥ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् । उदन्या तु पिपासा तृट्तर्षो जग्धिस्तु भोजनम् ॥ ५५ ॥ जेमनं लेह आहारो निघासो न्याद इत्यपि । सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । गोपे गोपालगोसंख्यगोधुगाभीरवल्लवाः ॥ ५७ ॥ गोमहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे । गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥ त्रिष्वाशितङ्गवीनं तद्गावो यत्राशिताः पुरा । उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥ अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् । गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥ वृषो महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः । उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ६१ ॥ शकृत्करिस्तु वत्सस्याद्दम्यवत्सतरौ समौ । आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥ स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः । स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड्युगपार्श्वगः ॥ ६३ ॥ युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः । खनति तेन तद्वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥ धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः । उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥ स तु सर्वधुरीणः स्याद्यो वै सर्वधुरावहः । माहेयी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥ अर्जुन्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी । वर्णादिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ॥ द्विहायनी द्विवर्षा गौरेकाब्दा त्वेकहायनी । चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥ वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी । आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥ काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी । स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥ चिरप्रसूता बष्कयणी धेनुः स्यान्नवसूतिका । सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥ द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता । समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥ ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ । न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी ॥ ७३ ॥ वैशाखमन्थमन्थान मन्थानो मन्थदण्डके । कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे ॥ ७४ ॥ उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः । करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥ अजा छागी शुभच्छागबस्तच्छगलका अजे । मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके ॥ ७६ ॥ उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् । चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः ॥ ७७ ॥ वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् । पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥ विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ । वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥ नीवी परिपणो मूलधनं लाभोऽधिकं फलम् । परिदानं परीवर्तो नैमेयनियमावपि ॥ ८० ॥ पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् । क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु । क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥ विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु । विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ८३ ॥ संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः । पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥ यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः ॥ ८५ ॥ ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥ तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः । आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥ कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः । अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥ कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥ द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु । हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥ स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् ॥ ९१ ॥ गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥ मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् । रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥ चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः । दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् । शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च ॥ ९७ ॥ लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥ सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी । क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥ गवलं माहिषं शृङ्गमभ्रकं गिरिजामले । स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥ तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके । कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥ रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः । सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥ रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् । पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥ गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु । वोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥ डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् । नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम् ॥ १०५ ॥ रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् । स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥ मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि । मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥ पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः । सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥ शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् । ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥ गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् । त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥ ;c{इति वैश्यवर्गः} ;v{शूद्रवर्गः} ;c{अथ शूद्रवर्गः} शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः । आचण्डालात्तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥ शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः । शूद्राक्षत्रिययोरुग्रो मागधः क्षत्रियाविशोः ॥ २ ॥ माहिष्योऽर्याक्षत्रिययोः क्षत्तार्याशूद्रयोः सुतः । ब्राह्मण्यां क्षत्रियात्सूतस्तस्यां वैदेहको विशः ॥ ३ ॥ रथकारस्तु माहिष्यात्करण्यां यस्य संभवः । स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥ कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः । कुलकः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥ कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः । तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥ रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः । पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ॥ ७ ॥ नाडिन्धमः स्वर्णकारः कलादो रुक्मकारकः । स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ॥ ८ ॥ तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् । ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥ क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः । निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥ जाबालः स्यादजाजीवो देवाजीवस्तु देवलः । स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः ॥ ११ ॥ शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः । भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥ मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः । वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः ॥ १३ ॥ जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ । वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥ भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः । वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥ विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥ भृत्ये दासेरदासेयदासगोप्यकचेटकाः । नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥ पराचितपरिस्कन्दपरजातपरैधिताः । मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥ दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः ॥ १९ ॥ निषादश्वपचावन्तेवासिचाण्डालपुक्कसाः । भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥ व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥ शुनको भषकः श्वा स्यादलर्कस्तु स योगितः । श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥ विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः । आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम् ॥ २३ ॥ दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः । चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥ प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने ॥ २५ ॥ वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥ शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः । उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः । वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु । पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका ॥ २९ ॥ भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका । पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥ ३० ॥ नध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा । चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥ ३१ ॥ नाराची स्यादेषणिका शाणस्तु निकषः कषः । व्रश्चनःपत्रपरशुरीषिका तूलिका समे ॥ ३२ ॥ तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका । आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥ ३३ ॥ वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः । क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥ सूर्मी स्थूणायःप्रतिमा शिल्पं कर्म कलादिकम् । प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥ प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् । वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥ साधारणः समानश्च स्युरुत्तरपदे त्वमी । निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥ कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥ सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा । गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता ॥ ३९ ॥ मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् । शुण्डापानं मदस्थानं मधुवारा मधुक्रमाः ॥ ४० ॥ मध्वासवो माधवको मधु माध्वीकमद्वयोः । मैरेयमासवः सीधुर्मेन्दको जगलः समौ ॥ ४१ ॥ सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः । कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका ॥ ४२ ॥ चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् । धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥ ४३ ॥ स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः । द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥ ४४ ॥ पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते । परिणायस्तु शारीणां समन्तान्नयने स्त्रियाम् ॥ ४५ ॥ अष्टापदं शारिफलं प्राणिवृत्तं समाह्वयः । उक्ता भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः । ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४६ ॥ ;c{इति शूद्रवर्गः} इत्यमरसिंहकृतौ नामलिङ्गानुशासने । द्वितीयकाण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ ४७ ॥ ;k{तृतीयं सामान्यकाण्डम्} ;c{तृतीयं सामान्यकाण्डम् ।} ;v{विशेष्यनिघ्नवर्गः} ;c{अथ विशेष्यनिघ्नवर्गः} विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि । लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥ ;c{परिभाषा ।} स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः । गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥ ;c{विशेष्यनिघ्नवर्गः} सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः । हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥ प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥ पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः । दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥ परीक्षकः कारणिको वरदस्तु समर्धकः । हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥ दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः । दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥ तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥ गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥ अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥ स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् । वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥ निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा । अवाचि मूकोऽथ मनोजवसः पितृसन्निभः ॥ १३ ॥ सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः । लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः ॥ १४ ॥ स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः । स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ परतन्त्रः पराधीनः परवान्नाथवानपि । अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥ खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः । जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥ कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः । स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥ भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः । अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः ॥ १९ ॥ बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः । परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः ॥ २० ॥ आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ २१ ॥ सर्वान्नीनस्तु सर्वान्नभोजी गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौ लोलुपलोलुभौ ॥ २२ ॥ सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः । मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः ॥ २३ ॥ कम्रः कामयिताभीकः कमनः कामनोऽभिकः । विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥ वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः । धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५ ॥ स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते । अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥ आशंसुराशंसितरि गृहयालुर्ग्रहीतरि । श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥ लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके । शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः ॥ २८ ॥ उत्पतिष्णुस्तूत्पतितालङ्करिष्णुस्तु मण्डनः । भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥ निराकरिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः । ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥ विसृत्वरो विसृमरः प्रसारी च विसारिणि । सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥ क्रोधनोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः । जागरूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥ स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ । पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः ॥ ३३ ॥ देवानञ्चति देवद्र्यङ्विष्वद्र्यङ्विष्वगञ्चति । यस्सहाञ्चति सध्र्यङ्स स तिर्यङ्यस्तिरोऽञ्चति ॥ ३४ ॥ वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ । वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥ स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् । दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियम्वदे ॥ ३६ ॥ लोहलः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः । समौ कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥ रवणः शब्दनो नान्दीवादी नान्दीकरः समौ । जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे । निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥ आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ । प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥ निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः । मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ । आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः ॥ ४२ ॥ आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे । व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥ विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः । कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते ॥ ४४ ॥ द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ । विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५ ॥ शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ । दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥ कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः । नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः । कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ४८ ॥ निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥ अहङ्कारवानहंयुः शुभंयुस्तु शुभान्वितः । दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥ स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः । उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥ सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥ मलीमसं तु मलिनं कच्चरं मलदूषितम् । पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् । असारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥ क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥ परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् । श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥ स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥ अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने । विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥ वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे । स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥ स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः । अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२ ॥ प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥ परःशताद्यास्ते येषां परा संख्या शतादिकात् । गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥ विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् । समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ घनं निरन्तरं सान्द्रं पेलवं विरलं तनु । समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥ सदेशाभ्याशसविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ॥ संसक्ते त्वव्यवहितमपदान्तरमित्यपि । नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् । वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम् ॥ ६९ ॥ उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने । न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् । आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥ ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ । शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥ स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः । कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥ ७३ ॥ चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् । चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥ चञ्चलं तरलं चैव पारिप्लवपरिप्लवे । अतिरिक्तः समधिको दृढसन्धिस्तु संहतः ॥ ७५ ॥ खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः । प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु । अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥ प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् । एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ॥ ७९ ॥ अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः । पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥ अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः । मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥ साधारणं तु सामान्यमेकाकी त्वेक एककः । भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥ उच्चावचं नैकभेदमुच्चण्डमविलम्बितम् । अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥ प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च । वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥ सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे । सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥ ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् । अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे ॥ ८६ ॥ वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते । नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥ परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम् । प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥ निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते । द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे । वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते । स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥ वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः । प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ॥ ९२ ॥ संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः । विविधः स्याद्बहुविधो नानारूपः पृथग्विधः ॥ ९३ ॥ अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः । अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥ बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् । निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥ निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले । पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥ पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते । दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७ ॥ ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः । पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८ ॥ प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते । वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥ निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ । सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥ ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते । स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥ वरिवसिते वरिवस्यितमुपासितं चोपचरितं च । सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥ हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः । छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥ स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् । लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च ॥ १०५ ॥ त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च । अवगणितमवमतावज्ञातेऽवमानितं च परिभूते ॥ १०६ ॥ त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ॥ १०७ ॥ बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगते । उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥ सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥ अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि । भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ॥ ११० ॥ अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते । क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥ क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः । साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ ११२ ॥ बाढव्यायतबहुगुरुवामनवृन्दारकातिशये । ;c{इति विशेष्यनिघ्नवर्गः} ;v{सङ्कीर्णवर्गः} ;c{अथ सङ्कीर्णवर्गः} प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् । कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्यासङ्गवचने पारायणतुरायणे । यदृच्छा स्वैरिता हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥ शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः । अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥ वशक्रिया संवननं मूलकर्म तु कार्मणम् । विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥ पर्याप्तिः स्यात्परित्राणं हस्तधारणमित्यपि । सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥ आक्रोशनमभीषङ्गः संवेदो वेदना न ना । सम्मूर्च्छनमभिव्याप्तिर्याञ्चा भिक्षार्थनार्दना ॥ ६ ॥ वर्धनं छेदनेऽथ द्वे आनन्दनसभाजने । आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया ॥ ७ ॥ ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे । व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ ॥ ८ ॥ ओषः प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ । स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ॥ ९ ॥ विधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा । प्रसूतिः प्रसवे श्च्योते प्राधारः क्लमथः क्लमे ॥ १० ॥ उत्कर्षोऽतिशये सन्धिः श्लेषे विषय आश्रये । क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः । निगादो निगदे मादो मद उद्वेग उद्भ्रमे ॥ १२ ॥ विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः । निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥ मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ । बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥ निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् । परिणामो विकारे द्वे समे विकृतिविक्रिये ॥ १५ ॥ अपहारस्त्वपचयः समाहारः समुच्चयः । प्रत्याहार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥ अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम् । अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥ प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः । वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥ हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः । विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥ निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया । विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥ संक्षेपणं समसनं पर्यवस्था विरोधनम् । परिसर्या परीसारः स्यादास्यात्वासना स्थितिः ॥ २१ ॥ विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः । संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ॥ २२ ॥ संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् । नीवाकस्तु प्रयामः स्यात्सन्निधिः सन्निकर्षणम् ॥ २३ ॥ लवोऽभिलावो लवने निष्पावः पवने पवः । प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम् ॥ २४ ॥ प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ । धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसञ्चरः ॥ २५ ॥ प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः । स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा ॥ २६ ॥ प्रतिबन्धः प्रविष्टम्भोऽवनायस्तु निपातनम् । उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७ ॥ विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् । विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ २८ ॥ निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने । आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ ॥ २९ ॥ संवीक्षणं विचयनं मार्गणं मृगणा मृगः । परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥ निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् । प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥ उपशायो विशायश्च पर्यायशयनार्थकौ । अर्तनं च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥ स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये । पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् । स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः । स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥ आविधो विध्यते येन तत्र विष्वक्समे निघः । उत्कारश्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥ निगारोद्गारविक्षावोद्ग्राहास्तु गरणादिषु । आरत्यवरतिविरतय उपरामेऽथ स्त्रियां तु निष्ठेवः ॥ ३७ ॥ निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि । जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥ ३८ ॥ उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे । गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम् ॥ ३९ ॥ आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । माणवानां तु माणव्यं सहायानां सहायता ॥ ४० ॥ हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् । द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ॥ ४१ ॥ खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् । ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ ४२ ॥ अपि साहस्रकारीषवार्मणाथर्वणादिकम् । ;c{इति सङ्कीर्णवर्गः} ;v{नानार्थवर्गः} ;c{अथ नानार्थवर्गः} नानार्थाः केऽपि कान्तादि वर्गेष्वेवात्र कीर्तिताः । भूरि प्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १ ॥ आकाशे त्रिदिवे नाको लोकस्तु भुवने जने । पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २ ॥ जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ । आलोकौ दर्शनद्योतौ भेरीपटगहमानकौ ॥ ३ ॥ उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः । तक्षको नागवर्द्धक्योरर्कः स्फटिकसूर्ययोः ॥ ४ ॥ मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः । स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५ ॥ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ च करकः सुगते च विनायकः ॥ ६ ॥ किष्कुर्हस्ते वितस्तौ च शूककीटे च वृश्चिकः । प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥ स्याद्भूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च । ज्योत्स्निकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥ सिते च खदिरे सोमवल्कः स्यादथ सिह्लके । तिलकल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ९ ॥ महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः । रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु ॥ १० ॥ जैवातृकः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः । व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥ शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् । पीडार्थेऽपि व्यलीकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ ॥ शीलान्वयावनूके द्वे शल्के शकलवल्कले । साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥ दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः । दम्भेऽप्यथ पिनाकोऽस्त्री शूलशङ्करधन्वनोः ॥ १४ ॥ धेनुका तु करेण्वां च मेघजाले च कालिका । कारिका यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे । वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥ स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः । ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः । भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् । सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः । पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः । पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः । पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः । खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः । पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च । स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः । करिण्यां चापि गणिका दारकौ बालभेदकौ । अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ । मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके ॥ १७ ॥ मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ । शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥ धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ । आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १९ ॥ पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः । पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥ परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥ सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ॥ २२ ॥ भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः । चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ कपौ च प्लवगः शापे त्वभिषङ्गः पराभवे । यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥ स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रधृणिभूजले । लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥ शृङ्गं प्राधान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः । भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥ परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये । मूल्ये पूजाविधावर्घोऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥ त्रिष्विष्टेऽल्पे लघुः काचाः शिक्यभृद्भेददृग्रुजः । विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥ मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु । अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥ प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः । परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः । केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः । अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥ धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् । वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३१ ॥ समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्सन्ततौ जने । अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३३ ॥ काकेभगण्डौ करटौ गजगण्डकटी कटौ । शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥ देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः । रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥ रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥ अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् । सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ ३७ ॥ आर्त्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा । व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥ ३८ ॥ इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु । कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु ॥ ३९ ॥ पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥ निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि । त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥ दण्डोऽस्त्री लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः । सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ॥ ४२ ॥ क्ष्वेडा वंशशलाकापि नाडी कालेऽपि षट्क्षणे । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥ स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥ शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ । भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥ कणोऽतिसूक्ष्मे धान्यांशे सङ्घाते प्रमथे गणः । पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥ मौर्व्यां द्रव्याश्रिते सत्वशौर्यसन्ध्यादिके गुणः । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥ वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे । अरुणो भास्करेऽपि स्याद्वर्णभेदेऽपि च त्रिषु ॥ ४८ ॥ स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः । ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९ ॥ ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः । हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥ त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेऽपि वेश्मनः । तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥ वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी । करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ५२ ॥ शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च । विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥ प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥ प्राण्युत्पादे संसरणमसंबाधचमूगतौ । घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये ॥ ५५ ॥ अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः । प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६ ॥ सङ्कीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् । सेतौ च वरणो वेणी नदीभेदे कचोच्चये । देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदार्णवौ ॥ ५७ ॥ पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ । अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८ ॥ हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ । यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥ यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते । ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥ स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे । मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च ॥ ६१ ॥ विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ । व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ६२ ॥ क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे । वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ६३ ॥ आनर्तः समरे नृत्यस्थाननीवृद्विशेषयोः । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥ श्लेष्मादि रसरक्तादि महाभूतानि तद्गुणाः । इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥ कक्षान्तरेऽपि शुद्धान्तो नृपस्यासर्वगोचरे । कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ६६ ॥ विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः । क्षयार्चयोरपचितिः सातिर्दानावसानयोः ॥ ६७ ॥ आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः । प्रचारस्यन्दयो रीतिर्डिम्बप्रवासयोः ॥ ६८ ॥ उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे । वीणाभेदेऽपि महती भूतिर्भस्मनि सम्पदि ॥ ६९ ॥ नदी नगर्योर्नागानां भोगवत्यथ सङ्गरे । सङ्गे सभायां समितिः क्षयवासावपि क्षिती ॥ ७० ॥ रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः । जगती जगति च्छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥ पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः । पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ७२ ॥ प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः । सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥ वनिता जनितात्यर्थानुरागायां च योषिति । गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥ बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि । वासिता स्त्री करिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥ वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते । कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् । अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७७ ॥ युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु । वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥ महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु । श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥ त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च । अवदातः सिते पीते शुद्धे बद्धार्जुनौ सितौ ॥ ८० ॥ युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम् । कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥ ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे । विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥ द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी । वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ ८५ ॥ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । निपानागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥ ८६ ॥ समर्थस्त्रिषु शक्तिस्थे सम्बद्धार्थे हितेऽपि च । दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥ आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः । शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ । अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥ अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ । पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥ निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः । आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च । गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ९१ ॥ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥ धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् । पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥ गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् । त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ । प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥ व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः । पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः ॥ ९७ ॥ स्युः समर्थननीवाकनियमाश्च समाधयः । दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे ॥ ९८ ॥ मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ ९९ ॥ विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे । बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् । विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ १०१ ॥ वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा ॥ १०२ ॥ मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि । अतस्त्रिषु समुन्नद्धौ पण्डितम्मन्यगर्वितौ ॥ १०३ ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः । अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥ सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ । भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥ ग्रावाणौ शैलपाषाणौ पत्रिणौ शरपक्षिणौ । तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥ प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ । द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः ॥ १०७ ॥ कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः । वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥ क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः । आत्मायत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥ शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः । अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥ ११० ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे । इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी । ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥ त्वग्देहयोरपि तनुः सूनाधो जिह्विकापि च । क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥ मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे । वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥ उत्साहने च हिंसायां सूचने चापि गन्धनम् । आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥ व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि । स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम् ॥ ११६ ॥ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने । अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥ उत्थानं पौरुषे तन्त्रे सन्निविष्टोद्गमेऽपि च । व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८ ॥ मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥ निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥ पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि । तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥ अकार्यगुह्ये कौपीनं मैथुनं सङ्गतौ रते । प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः । क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥ गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे । सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥ आच्छादने संपिधानमपवारणमित्युभे । आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १२५ ॥ अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥ तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे । समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ ॥ १२७ ॥ हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ । अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥ कलापो भूषणे बर्हे तूणीरे संहतावपि । परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥ गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी । बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥ तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् । प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी । रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३२ ॥ कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके । अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने । कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥ पूर्वोऽन्यलिङ्गः प्रागाह पुम्बहुत्वेऽपि पूर्वजान् । कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥ स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ । कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ १३५ ॥ स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । स्यान्महारजते क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥ क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् । सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥ किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ । इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ ॥ १३८ ॥ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ वणिक्पथः पुरं वेदो निगमो नागरो वणिक् । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः । स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे ॥ १४१ ॥ उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः । गुल्मारुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ॥ १४२ ॥ क्षितिक्षान्त्योः क्षमायुक्ते क्षमं शक्ते हिते त्रिषु । त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा ॥ १४३ ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु । सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ॥ १४४ ॥ वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ । जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ १४५ ॥ तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ । श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४६ ॥ पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः । तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४७ ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु । रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥ स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते । समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४९ ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः । अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि ॥ १५० ॥ युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च । पस्चादवस्थायि बलं समवायश्च सन्नयौ ॥ १५१ ॥ सङ्घाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी । विस्रम्भयाञ्चाप्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ १५२ ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि । निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥ प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि । रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥ वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये । धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम् ॥ १५५ ॥ कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकापि च । वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ॥ १५६ ॥ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् । उपायः कर्म चेष्टा च चिकित्सा च नवक्रियाः ॥ १५७ ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः । कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ १५८ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः । जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ १५९ ॥ गृह्याधीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ । आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ॥ १६० ॥ रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि । न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ १६१ ॥ निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ । गुरू गीर्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६२ ॥ प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती । किंशारू सस्यशूकेषु मरू धन्वधराधरौ ॥ १६३ ॥ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ । ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६४ ॥ प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि । अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ ॥ १६५ ॥ स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः । मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥ कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः । वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि ॥ १६७ ॥ मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः । आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६८ ॥ अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च । स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे ॥ १६९ ॥ विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् । द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे ॥ १७० ॥ विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु । सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७१ ॥ दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् । महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम् ॥ १७२ ॥ मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु । देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये ॥ १७३ ॥ वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना । ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७४ ॥ यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७५ ॥ शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ । इरा भूवाक्सुराप्सुस्यात्तन्द्रा निद्राप्रमीलयोः ॥ १७६ ॥ धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥ आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः । योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १७९ ॥ निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः । स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ॥ १८० ॥ मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च । सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १८१ ॥ अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि । चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८२ ॥ स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् । गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ॥ १८३ ॥ पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् । मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८४ ॥ दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ । तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥ १८५ ॥ औशीरश्चामरे दण्डेऽप्यौशीरं शयनासने । पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ १८६ ॥ व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः । अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥ छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च । मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम् ॥ १८८ ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् । गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ १८९ ॥ जठरः कठिनेऽपि स्यादधस्तादपि चाधरः । अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ १९० ॥ उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः । एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः ॥ १९१ ॥ स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ । उदारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ १९२ ॥ मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः । चूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ १९३ ॥ द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः । कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ॥ १९४ ॥ स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ॥ १९५ ॥ स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः । वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ १९६ ॥ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः । मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ॥ १९७ ॥ शङ्कावपि द्वयोः कीलः पालिस्त्र्यश्र्यङ्कपङ्क्तिषु । कला शिल्पे कालभेदेप्याली सख्यावली अपि ॥ १९८ ॥ अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि । बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ॥ १९९ ॥ लीला विलासक्रिययोरुपला शर्करापि च । शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ॥ २०० ॥ जालं समूह आनायगवाक्षक्षारकेष्वपि । शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ॥ २०१ ॥ छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना । अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ॥ २०२ ॥ और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु । कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ २०३ ॥ निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः । पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०४ ॥ प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च । करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ॥ २०५ ॥ मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः । कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः । स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः । हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम् । तूलिश्चित्रोपकरणशलाकातूलशय्ययोः । तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि । दवदावौ वनारण्यवह्नी जन्महरौ भवौ ॥ २०६ ॥ मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः । अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ २०७ ॥ भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ २०८ ॥ अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः । उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ॥ २०९ ॥ अनुभावः प्रभावे च सतां च मतिनिश्चये । स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ २१० ॥ शूद्रायां विप्रतनये शस्त्रे पारशवो मतः । ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु ॥ २११ ॥ स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने । स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ २१२ ॥ शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः । द्रव्यासु व्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥ क्लीबं नपुंसकं षण्डे वाच्यलिङ्गमविक्रमे । द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ ॥ २१४ ॥ द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ । रहः प्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ २१५ ॥ कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु । पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ॥ २१६ ॥ दशावस्थानेकविधाप्याशा तृष्णापि चायता । वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु ॥ २१७ ॥ स्यात्कर्कशः साहसिकः कठोरामसृणावपि । प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ २१८ ॥ कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । नाशः क्षये तिरोधाने जीवितेशः प्रिये यमे । नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः । आश्वाख्या शालिशीघ्रार्थे पाशो बन्धनशस्त्रयोः । सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥ २१९ ॥ काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ । अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥ २२० ॥ पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः । शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२१ ॥ कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥ २२२ ॥ ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे । कर्षूर्वार्त्ता करीषाग्निः कर्षूः कुल्याभिधायिनी ॥ २२३ ॥ पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च । उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥ २२४ ॥ स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२५ ॥ त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः । प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे । व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ । कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश्चषकः सुरा । दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे । शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे ॥ २२६ ॥ रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू । वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥ २२७ ॥ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेऽपि शेखरे ॥ २२८ ॥ देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥ २२९ ॥ लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च । प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥ २३० ॥ ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु । पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ २३१ ॥ तेजः पुरीषयोर्वर्चो महस्तूत्सवतेजसोः । रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥ २३२ ॥ छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च । सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ॥ २३३ ॥ ओकः सद्माश्रयश्चौकाः पयः क्षीरं पयोम्बु च । ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥ २३४ ॥ तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु । विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी ॥ २३५ ॥ वृद्धप्रशंसयोर्ज्यायान्कनीयांस्तु युवाल्पयोः । वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ २३६ ॥ दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः । द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ॥ २३७ ॥ तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३८ ॥ दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः । व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः ॥ २३९ ॥ परिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे । आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥ २४० ॥ आ प्रगृह्यस्स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः । पापकुत्सेषदर्थे कु धिङ्निर्भत्सननिन्दयोः ॥ २४१ ॥ चान्वाचयसमाहारेतरेतरसमुच्चये । स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥ २४२ ॥ स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे । सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥ २४३ ॥ प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः । पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ २४४ ॥ खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २४५ ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ २४६ ॥ प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४७ ॥ मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ॥ २४८ ॥ नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु । प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४९ ॥ गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि । उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥ २५० ॥ अमा सह समीपे च कं वारिणि च मूर्धनि । इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥ २५१ ॥ तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने । नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ॥ २५२ ॥ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् । हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥ २५३ ॥ पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः । स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥ २५४ ॥ ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् । स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल ॥ २५५ ॥ निषेधवाक्यालङ्कारजिज्ञासानुनये खलु । समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः ॥ २५६ ॥ नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि । तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ॥ २५७ ॥ अहहेत्यद्भुते खेदे हि हेताववधारणे । ;c{इति नानार्थवर्गः} अव्ययवर्गः । अथाव्ययवर्गः ॥ २५८ ॥ चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥ द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने । यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥ कदाचिज्जातु सार्धं तु साकं सत्रा समं सह । आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥ आहो उताहो किमुत विकल्पे किं किमूत च । तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥ दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि । तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः ॥ ६ ॥ स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक् । अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ ७ ॥ स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा । किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥ व वा यथा तथेवैवं साम्येऽहो ही च विस्मये । मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥ दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥ युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते । अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥ पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् । प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥ समन्ततस्तु परितः सर्वतो विष्वगित्यपि । अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥ ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने । निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम् ॥ १४ ॥ मृषा मिथ्या च वितथे यथार्थं तु यथातथम् । स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ १५ ॥ प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् । संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥ अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः । सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥ अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि । हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥ पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने । सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ॥ १९ ॥ परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति । अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥ तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः । उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि ॥ २१ ॥ ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि । तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥