;METADATA ;title{नाममालिका} ;author{भोज} ;bookFullName{Nāmamālikā of Bhoja} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography 18} ;editor{Ekanath Dattatreya Kulkarni; Vasudeo Damodar Gokhale} ;editorQualifications{M. A., Ph. D.; M. a., B. T.} ;publisher{Published by Dr. S. M. Katre, for the Deccan College Post-Graduate and Research Institute, Yeravda, Poona 6} ;pressDetails{S. R. Sardesai, B.A., LL.B. at Navin Samarth Vidyalaya's Samarth Bharat Press, 41 Budhwar Peth, Poona 2} ;publicationYear{1955 A.D.} ;dataEntryBy{Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html} ;dataEntryEmail{} ;proofReadBy{Navya Sahiti Kasturi} ;proofReaderEmail{kasturinsahiti@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{NMMB} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Navya Sahiti Kasturi for proof reading the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{19 February 2019} ;version0.0.2{23 August 2019} ;version0.0.3{11 September 2019} ;version0.0.4{11 September 2019} ;version0.1.0{11 September 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{भोजसंगृहीता नाममालिका ।} ;k{स्वर्गादिनामधेयप्रकरणम्} ;c{शुभमस्तु} ;c{स्वर्गादिनामधेयप्रकरणम् ।} वागीशं वरलक्ष्मीशं गौरीशं गणनायकम् । कुमारं च हृदि ध्यात्वा क्रियते नाममालिका ॥ १ ॥ स्वर्गे नाकत्रिलोकाग्र्यसुधावासबुधालयाः । मन्दाकिनीधरो दिव्यः खपुरं तं नपुंसकम् ॥ २ ॥ ;l{0005} मेरुशृङ्गाग्रनगरं धाराधरपथस्थितम् । देवेष्वनिमिषामर्त्यनिलिम्पामृतभोजिनः ॥ ३ ॥ वैमानिका यज्ञभुजो जरामरणवर्जिताः । अनिद्राः खचरा नित्याः कनकाचलवासिनः ॥ ४ ॥ इन्द्रे स्युः प्राग्दिशानाथमहेन्द्रदनुजारयः । ;l{0010} सर्वाङ्गनयनागारिचिन्तामणिवरासनाः ॥ ५ ॥ गोपः पुलोमजाकान्तो भोगी यागी महायशाः । तत्पुरी लेखिनी तस्य सौधे च सुपताकिका ॥ ६ ॥ चिन्तामणौ महारत्नं श्यामोपल इतीर्यते । कामधेनौ तु सुरभिः श्वेतगौरिति कथ्यते ॥ ७ ॥ ;p{0002} ;l{0015} आयुधं च शतारं स्याद्वनं शृङ्गारनामकम् । पत्नी त्वस्य च पौलोमी देवेन्द्री दिविजेश्वरा ॥ ८ ॥ जयन्ते मोहनः स्वामी नलकूबरवल्लभः । उच्चैःश्रवसि दिव्याश्वो नीलवालः स हंसकः ॥ ९ ॥ ऐरावते चतुर्दन्तो मन्दकः पीलुनामकः । ;l{0020} मधुरो मञ्जुलतरुर्मन्दारतरुपञ्चके ॥ १० ॥ तत्प्रदेशे सुपर्णः स्यात्तत्पुष्पे गन्धिलं स्मृतम् । महामदस्तदामोदे तन्मूले रुचिरं स्मृतम् ॥ ११ ॥ तत्पर्णं विदलं प्राहुस्तत्फलं पुष्कलं विदुः । सुगन्धिस्तद्वितरणे तच्छाया चन्द्रिका स्मृता ॥ १२ ॥ ;l{0025} मन्दाकिन्यां हरिपदी कनकाम्बुजगन्धिला । दिव्यकेलिसरश्चन्द्री सुकलेति निगद्यते ॥ १३ ॥ तत्सैकते वसुरुचुस्तत्तीरे सुभगोदरम् । तदम्बुजानि हैमानि तन्मरन्दः करन्दकः ॥ १४ ॥ तदब्जगन्ध आनन्दस्तत्किञ्जल्कः करञ्जकः । ;l{0030} सुमेकस्तु सुधीरः स्याच्छिखरे तस्य बन्धुरः ॥ १५ ॥ ध्रुवावासो मणिशिलस्तदीयास्तरवः सुखाः । तत्पादः स्यात्कनखलस्तन्नितम्बे विशालकः ॥ १६ ॥ ;p{0003} अग्नौ पुरोहितः स्वैरी स्वाहानाथो मखी शिखी । हरिश्च शमने तु स्युरद्रिजक्षुद्रमुद्रकाः ॥ १७ ॥ ;l{0035} दण्डकः क्रूरदृष्टिश्च मुष्टिबन्धोऽसिताकृतिः । तस्य प्रिया तु धूमोर्णा सुकर्णेति च कथ्यते ॥ १८ ॥ तत्पाणिदण्डे तुमुलस्तत्पाशे वलनं स्मृतम् । तद्दूताः सूतकाः क्ष्वेलाः स्थाणवः प्राणिघातकाः ॥ १९ ॥ जीमूतनामकास्तस्य नगरी खरमालिनी । ;l{0040} वैतरण्यां त्वग्निधुनी पापभेदिन्यशीतला ॥ २० ॥ दुस्तरा दुर्मुखी भीमा तत्तटी त्वसिपत्रिका । तदीयास्तरवः कुण्टाः सूचिकामुखनामकाः ॥ २१ ॥ कोणपे तु कलङ्कः स्यादुषाचरवरः खरः । तस्य कान्ता दुरन्ता स्यान्निरन्ताद्याश्च वल्लभाः ॥ २२ ॥ ;l{0045} वरुणे तु महासारकशाधरकुशालयाः । तत्पुरं वरणं ज्ञेयं तस्य जाया जयेरिता ॥ २३ ॥ तत्पाशस्तु घनालीढस्तत्पुत्रो वरयूथपः । तत्सैन्यं जालयादः स्यात्तन्मन्त्री भुवनाधिपः ॥ २४ ॥ वायुः प्राणिधृतः प्राणो जगत्प्राणस्तु धूसरः । ;l{0050} तद्वाहे तु महावेगः संवेगस्तु तमोग्रजः ॥ २५ ॥ ;p{0004} राजराजः कुबेरः स्यात्तत्सुतो मणिकण्ठकः । तत्सेवधिः सुभाग्यः स्यात्पुरं भ्रमरकाह्वयम् ॥ २६ ॥ ईशाने कङ्कटीकः स्याज्जटाटीरकठोरकौ । रुम्बाकर्णः शम्बरारिभेदनः श्रीधरः सितः ॥ २७ ॥ ;l{0055} तदास्थानं शुभकरं तदगारं सतारकम् । तन्निष्कुटो घनकुटो भद्राख्यं तस्य वाहनम् ॥ २८ ॥ तद्गणा भीषणा घोणाः काणाः खञ्जाः करालकाः । तस्य प्रिया तु कौत्केली कालिकालीकलाधराः ॥ २९ ॥ विनेता विघ्नराजे स्यान्मुदिरो मोदकाशनः । ;l{0060} सुवर्णाब्जसरःस्वामी गुहो वेलायुधः स्मृतः ॥ ३० ॥ भैरवो भीरवो भीरो वटुनाथः पिशाचराट् । वेत्रिकर्णेजपहया नन्दिभृङ्गिऋडादयः ॥ ३१ ॥ शम्भुस्वयम्भूकविता मेषनामाष्टलोचनः । प्रधानी मुखजानिः स्यान्मेधावी नाभिभूर्भवः ॥ ३२ ॥ ;l{0065} तस्याङ्गना तु गीर्देवी शीर्षद्वारनिवासिनी । विशदा नीलचिकुरा वीणा तस्यास्तु कच्छपी ॥ ३३ ॥ ;p{0005} तद्वाहने तु मञ्जीरस्तदक्षसर ईक्षणम् । वर्णोदरं तदीयं स्यात्पुस्तकं तद्गतिर्नयः ॥ ३४ ॥ विष्णुर्हरिर्वनचरो विवाहो विहगध्वजः । ;l{0070} श्रीपर्णनयनः शृङ्गी भारतीमालिकाधरः ॥ ३५ ॥ तत्कौस्तुभे सुधासारः सुरागः सुन्दरः स्मृतः । श्रीवत्से तस्य शृङ्गारः सेव्या तु वनमालिका ॥ ३६ ॥ तच्चक्रं तु सहस्रारं वृत्तं शुभ्रमितीर्यते । तत्पाञ्चजन्ये सुग्रीवः षोडशावर्त ईर्यते ॥ ३७ ॥ ;l{0075} तत्कौमोदक्यविकला तत्खड्गो मकराननः । तस्य शार्ङ्गं गुणनिधिस्तद्दूताः श्यामलाः स्मृताः ॥ ३८ ॥ तदासनं मृगमुखं भुवनं तस्य शंकरम् । तत्केलीवनमाशास्यं तद्वेश्म नवमौक्तिकम् ॥ ३९ ॥ तदीयशयनं काशी वसनं तस्य काञ्चनम् । ;l{0080} लक्ष्मीस्तु लोकजननी सती सरसिजा मता ॥ ४० ॥ तत्कुमारस्तु कन्तः स्याददृश्यतनुरात्मजः । केलिनी तस्य वनिता केतुस्तस्य चलाचलः ॥ ४१ ॥ कार्मुकं तस्य कान्तारः शरास्तस्य तु पल्लवाः । रजको वाहनं तस्य रथो मलयजः स्मृतः ॥ ४२ ॥ ;c{इति नाममालिकायामहिराजेनैव संगृहीतायां स्वर्गादिनामधेयप्रकरणमिदमखिलसुकविमतम् ॥} ;p{0006} ;k{गगनादिनामधेयप्रकरणम्} ;c{गगनादिनामधेयप्रकरणम् ।} ;l{0085} आकाशं शब्दगुणकं नक्षत्रपदमच्युतम् । विद्याधराप्सरोयक्षरक्षोगन्धर्वमन्दिरम् ॥ १ ॥ छायायां तस्य तिमिरं तमिस्रं भ्रमरं तमः । पुंस्यन्धकारो मलिनो लोकान्धकर ईर्यते ॥ २ ॥ आकाशकुसुमं तारं कोरकं कारकण्टकम् । ;l{0090} निरकं निर्मलं संग्यं नक्षत्रेषु निगद्यते ॥ ३ ॥ दिवसे दृश्यमानेषु तारकेषु च केतवः । नभसि स्थाणुरूपेण दृष्टं यद्घोरनीलभम् ॥ ४ ॥ तद्धूमकेतुनाम स्यात्कालदूतः स एव हि । रक्तभे तूपरागः स्यात्कृष्णर्क्षे तु कुवेलयम् ॥ ५ ॥ ;l{0095} शुक्रे कविः शुचिः काव्यः पूर्वदेवपुरोहितः । गुरौ बृहस्पतिः सूर्यः सुरेज्यः सूरिवासवौ ॥ ६ ॥ चन्द्रो निशाकरः शौरिः कलशाब्धिभवो भवः । भवावतंसः कमली वार्धिसूनं नपुंसकम् ॥ ७ ॥ बिम्बे तस्य सुधासारः कलापूर्णं च मण्डलम् । ;l{0100} चन्द्रिका च सुधा छाया सुखा ज्योत्स्ना तु कौमुदी ॥ ८ ॥ वन्यलो विशदा शारदेन्दुकान्तिर्निगद्यते । हिमे च मधुपूरः स्यात्तुषारस्तुच्छशीकरः ॥ ९ ॥ ;p{0007} तत्समूहे हिमानी स्याच्छीतलानी तु शीतलम् । रात्रिर्निशीथिनी काली निशाकरकुटुम्बिनी ॥ १० ॥ ;l{0105} निशा स्याच्छुक्लपक्षे तु प्रसन्ना चन्द्रिकावती ॥ ११ ॥ पूर्णिमा पूर्णचन्द्रा स्यात्तत्क्षपा विमला भवेत् । कृष्णपक्षे निशाः कृष्णास्तामस्यस्तमसाप्लुताः ॥ १२ ॥ अमायां स्यादमावास्या पैतृकः पितृवासरः । तद्यामिन्यां तमोरात्रिः कालरात्रिः करालिका ॥ १३ ॥ ;l{0110} सूर्यः सूरिर्ग्रहधनो हरिदक्षीणलोचनः । हेलिः किरीटी पद्माप्तो हरिर्वासरवल्लभः ॥ १४ ॥ गता गतानुगतिका छाया जायांशुमालिनः । शताङ्गे कूबरी तस्य मरुच्चक्रो महाजवः ॥ १५ ॥ अमायुः पृतनाधीशो यन्ताहर्मुखसूचकः । ;l{0115} परिधिः परिवेषः स्यात्स सूर्यावरणोऽपि च ॥ १६ ॥ तेजोमयं मण्डलं स्यान्मूर्तित्रयनिरन्तरम् । मयूखजन्मजीमूतघनाब्दहरिघोटकाः ॥ १७ ॥ ;p{0008} इन्द्रचापे मणिधनुश्चित्रं वल्मिकसंभवम् । करको वर्षपाषाणो दन्तभेदी विमुक्तकः ॥ १८ ॥ ;l{0120} सौदामिनी तडिद्विद्युच्चञ्चच्चपलिका चला । मेघनादे महागर्जा घनाघननिनादकः ॥ १९ ॥ ;c{इति नाममालिकायामहिराजेनैव संगृहीतायां गगनादिनामधेयप्रकरणमिदमखिलसुकविमतम् ॥} ;k{भूम्यादिनामधेयप्रकरणम्} ;c{भूम्यादिनामधेयप्रकरणम् ।} वसुन्धरा रत्नगर्भा धारुणी धरणी धरा । धारिणी भूतधात्री च विश्वधात्री क्षमा सहा ॥ १ ॥ वर्तुलं वलयं वृत्तं मण्डलं चक्रवालकम् । ;l{0125} विन्ध्योत्तरपदे तु स्यादुत्तरापथसंज्ञिकः ॥ २ ॥ चोलस्तु दक्षिणे देशे काञ्चीदेशस्तु पल्लवः । समुद्रे तु नदीनाथः शैवलाकरनीरधी ॥ ३ ॥ वेलावलयकाण्डेशकान्तानयनसंनिभाः । आद्यब्धौ लवणोदश्च लावणः शङ्खकारणम् ॥ ४ ॥ ;l{0130} धीरश्च मुक्ताजनको लोलकल्लोलमालिकः । द्वितीयाम्बुनिधाविक्षुरसपूर्णो रसालयः ॥ ५ ॥ ;p{0009} कान्ताधरसखा कल्यः कश्याब्धौ तु सुरालयः । उन्मादको दुराधर्षः सर्पिरब्धौ तु सार्पिषः ॥ ६ ॥ तेजोनिधिर्मदकरो दधिवार्धिस्तु दौब्धिकः । ;l{0135} कलपुः प्रातराहारः कमलावल्लभप्रियः ॥ ७ ॥ क्षीरोदे कलशाब्धिः स्यान्मधुरो माधवालयः । लक्ष्मीगुरुर्वदान्यश्च हरिश्वशुर इष्यते ॥ ८ ॥ सुधाजनयिता साधुः सुराहारप्रदोऽनघः । शुद्धोदे निर्मलः शुद्धो मेघोन्मादकरोऽनघः ॥ ९ ॥ ;l{0140} जम्बूद्वीपे महाद्वीपः कुमारः पर्वतालयः । षट्पञ्चाशद्देशग्रहः समस्तद्वीपनायकः ॥ १० ॥ सुवर्णनिलयो रत्नी प्लक्षद्वीपे शिलामयः । सुवर्णवालुकाधारः सुस्थिरः सूर्यवल्लभः ॥ ११ ॥ कुशद्वीपे कुलीनः स्यात्कुसारनिधिरिष्यते । ;l{0145} कौशिकः कङ्कटीकः स्यात्कणादवसतिः स्मृतः ॥ १२ ॥ क्रौञ्चद्वीपे महाभोगः पञ्चास्यजननालयः । काञ्चनाद्रिः करीणः स्याच्चञ्चलानिलयः स्मृतः ॥ १३ ॥ ;p{0010} शाल्मलः शाल्मलीद्वीपे शाक्यः कौस्तुभसंभवः । अष्टादशेषु द्वीपेषु पर्यायेण जनाश्रयाः ॥ १४ ॥ ;l{0150} वस्तुसंभारनिलयाश्चीनसिंहलनामकाः । जाम्बूनदे तु कुलुकुगाल्वजाल्वातिमोहनम् ॥ १५ ॥ हाटकं भद्रकं चन्द्रं कर्णीकुसुमजप्रभम् । कनकं रसबीजं स्याद्गन्धकोद्भवमभ्रकम् ॥ १६ ॥ दशवर्णे सुवर्णे श्रीः पञ्चवर्णे तु रैः स्मृतम् । ;l{0155} तुङ्गं तु द्वादशे वर्णे कुदणं षोडशे स्मृतम् ॥ १७ ॥ शतवर्णे शातकुम्भं मेरु साहस्रवर्णके । रूप्ये तु रजतं शुभ्रं दुर्वर्णं कलधौतकम् ॥ १८ ॥ पादभूषार्हकं तारं वैढिकं विमलं स्मृतम् । आरकूटे तु रीतिः स्त्री सुवर्णवलिनं स्मृतम् ॥ १९ ॥ ;l{0160} नीचं द्राविडभूषार्हं पैत्तलं पित्तहेतुकम् । राजरीत्यां ब्रह्मरीतिः स्वर्णरीतिर्महेश्वरी ॥ २० ॥ वङ्गं सीसं च योगेष्टं त्रपु स्यान्मुखभूषणम् । अयः कृष्णायसं लोहं तीक्ष्णं कालायसं मतम् ॥ २१ ॥ मन्दप्रियं च कठिनमयस्कान्ते त्वयोमणिः । ;l{0165} रत्नं तु रत्नसामान्ये मणिर्माणिक्यमेव च ॥ २२ ॥ ;p{0011} मण्यं मणिकं शबलमनर्घं जीवरत्नकम् । दाक्षायणं रत्नवरं तत्तु जम्बूनदीभवम् ॥ २३ ॥ पद्मरागे रविमणिः कुरुविन्दं तु कोरकम् । पक्वदाडिमबीजाभं माणिक्यं शिखरं मतम् ॥ २४ ॥ ;l{0170} इन्द्रनीले मसारं स्यान्महानीलं महोपलम् । तद्भेदे तु तृणग्राही तत्पारावतमुच्यते ॥ २५ ॥ विडूरजे विडुरजं प्रावृड्जं वालवायजम् । श्यामं मरकतं पक्ष्यं स्निग्धं मसृणमुच्यते ॥ २६ ॥ गोमेधिकं मेधिकं स्याद्भुर्जरं घसृणं स्मृतम् । ;l{0175} मुक्तामणिः शौक्तिकेयं श्वेतद्वीपभवं वसुः ॥ २७ ॥ माणिक्यं पौष्यकं शङ्खः पुलको विमलादयः । शैलोऽगः पर्वतः क्ष्माभृत्सानुमान्दुर्गमो गिरिः ॥ २८ ॥ कुध्रः कुत्कीलबन्धाकी फलिगस्तु शिलोच्चयः । चित्रकूटः सुवेले स्यात्त्रिकूटस्त्रिककुत्समः ॥ २९ ॥ ;l{0180} परापरश्चक्रवालो लोकान्तो लोकवीक्षणः । मलयस्त्रिकलाषाढौ विन्ध्यस्तु जलवालकः ॥ ३० ॥ हिरण्यनाभो मैनाकः सुदारुः पारियात्रिकः । माल्यवांस्तु प्रस्रवणो हिमवांस्तु हिमालयः ॥ ३१ ॥ ;p{0012} रजताद्रिश्च कैलासो हराद्रिर्महिषश्च सः । ;l{0185} वेङ्कटो वृषभः सिंहः केसरः केशवप्रियः ॥ ३२ ॥ उदयः प्रातरद्रिः स्यात्पराद्रिः पश्चिमाचलः । गैरिकं पीतधातुः स्यात्कुनटी तु मनःशिला ॥ ३३ ॥ रोचनी रञ्जनी हृद्या रसनेत्रा महारसा । करवीरकरा विद्युन्नागजिह्वा मनोऽभिधा ॥ ३४ ॥ ;l{0190} कानने वृक्षकं वार्क्ष्यं जटिलो बहुपाद्वटे । कामाङ्कः स्त्रीप्रियश्चूतः कपिचूतः कपिप्रियः ॥ ३५ ॥ श्रीवृक्षः श्यामलोऽश्वत्थः प्लक्षश्चलदलोऽङ्गुलः । उदुम्बरः प्राणिफलो मशकी हेमदुग्धकः ॥ ३६ ॥ पलाशो किंशुकः पर्णो वातपोतस्त्रिपर्णकः । ;l{0195} बिल्वे मालूरमाङ्गल्यौ नारङ्गे तक्रवासनः ॥ ३७ ॥ बीजपूरे मातुलुङ्गो लुङ्गः सुफलपूरकौ । अथात्यम्ला मातुलुङ्गी पूतिपुष्पी वृकाम्लिका ॥ ३८ ॥ छन्ने तु करको वृक्षो मल्लिकाकुसुमप्रियः । स्त्रीप्रियो वञ्चुलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ३९ ॥ ;p{0013} ;l{0200} हेमपुष्पोऽप्यथोऽङ्कोलः सिद्धौषधफलोदयः । द्रोहग्राहे तु कतको द्रावणः स्रवरःसराः ॥ ४० ॥ उल्लेखनीयो लक्ष्मीवांस्तेरस्तोयप्रसूदनः । गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ॥ ४१ ॥ कामः पुरो जटायुश्च कुम्भोलूखलकं वरम् । ;l{0205} शोभाञ्जने तीक्ष्णगन्धः शिग्रुकाक्षिबमोचकाः ॥ ४२ ॥ कृष्णे मरुङ्गी रक्तेऽस्मिन्मधुशिग्रुः सुभञ्जनः । वासन्ते स्यात्कुरवको मदनो धूर्तनामकः ॥ ४३ ॥ बालपत्रे तिक्तसारः खदिरो दन्तधावनः । तिलके पुलकः श्रीमान्सुगन्धो मुखमण्डनः ॥ ४४ ॥ ;l{0210} निम्बे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः । हलिः पृथुच्छदः शाकः पुत्रजीव्यक्षकः फलः ॥ ४५ ॥ महामुनिः स्याद्रुद्राक्षे द्विमुखे तु पराङ्मुखः । एकास्ये त्वत्र महिमोऽमुख्यमक्षकमीर्यते ॥ ४६ ॥ चम्पके कमनीयः स्याद्गन्धफल्यस्य मञ्जरिः । ;l{0215} कपिला पिच्छिला भस्मगर्भा मण्डलपत्रिका ॥ ४७ ॥ जम्ब्वां त्रिसारा विरुजा महाजम्ब्वां महाफला । भल्लातक्यां त्रिलिङ्गोऽयमग्निमुख्यप्यरुष्करः ॥ ४८ ॥ ;p{0014} कोकिलाक्षे तु काण्डेक्षुरिक्षुरः क्षुरकः क्षुरः । सोमवल्लिः पूतिफलिः सोमराजिरवल्गुजा ॥ ४९ ॥ ;l{0220} मल्लिकायां विचकिलो मङ्गलं तस्य सौरभः । माङ्गल्यं तु वरारोहा कथ्यते नवमल्लिका ॥ ५० ॥ मालती राजपुत्री स्यात्सुगन्धा नवमालिका । भारती तुलसी सेव्या द्रोणो वैकुण्ठ ईश्वरी ॥ ५१ ॥ अल्पमाले तु वैकुण्ठो बिल्वगन्धो वचाच्छदः । ;l{0225} कालपर्ण्यां तु सुरभिः करालः कालमालिका ॥ ५२ ॥ ऋषिणी द्रोणिका छत्रा चक्षुष्या द्रोणिपुष्पिका । नागवल्ली तु ताम्बूली तथा ताम्बूलमल्लिका ॥ ५३ ॥ ब्राह्म्यां सत्यवती ब्रह्मी मत्स्याक्षी सोमवल्लरी । मारिषो जीवमारिषः काण्डमारीष ओलकः ॥ ५४ ॥ ;l{0230} जलजोऽसौ सञ्जटको भूस्फोटं भूमिकन्दकम् । हरिपर्णे मूलकोऽस्त्री सैरिमं नीलकण्ठिका ॥ ५५ ॥ ज्योत्स्ना स्वल्पफला ग्राम्या मृदङ्गः कृतवेधनः । अथ श्रृङ्ग्यां दीर्घफला मागधी मनलोत्तमा ॥ ५६ ॥ ;p{0015} तुम्ब्यलाभूः पिण्डफला गोतुम्बी तु नृपात्मजा । ;l{0235} शारद्यां लाङ्गली तोयपिप्पली शकुलादनिः ॥ ५७ ॥ गोलोम्यां जटिलोग्रोग्रगन्धा तीक्ष्णा जया वचा । वारं तु पिङ्गली वज्रं ह्रिबेरं दीर्घरोमकम् ॥ ५८ ॥ चामरश्चामरं ज्येष्ठं बर्हिष्ठं जटिलं जटी । शैलमूलं तु कच्चोरं पलाशो हिमजा शटिः ॥ ५९ ॥ ;l{0240} अर्शोघ्नी मुसली ताली तालमूली खलिन्यपि । खञ्जोऽरिष्टो ग्रहोच्छिष्टो रसोनो गृञ्जनः कटुः ॥ ६० ॥ लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधः । वेणौ तु वंशकर्मारौ मृत्युपुष्पस्तृणध्वजः ॥ ६१ ॥ तृणराजे तलस्तालो महापत्रः फलेरुहः । ;l{0245} क्रमुको वाटिको घण्टो गुवाङ्गुः क्रूर आसवः ॥ ६२ ॥ कषायो नागवाक्पूगः फले तस्य तु पर्कटम् । तच्छुष्के खरमित्युक्तं चिक्कणं चक्कणं मतम् ॥ ६३ ॥ दीर्घवृन्ते रामपूगो लतापूगे तु योजनः । भूपूगे तु लघूकः स्यात्क्षुद्रो भोधः कटुः खिलः ॥ ६४ ॥ ;p{0016} ;l{0250} हिन्तालस्तृणराजश्च नारिकेले तु लाङ्गली । दाक्षिणात्योऽफले बालः सुतङ्गः कृच्छ्रकेसरः ॥ ६५ ॥ खर्जूरे तु मधुक्षीरस्तस्मिन्खर्जूरिकाल्पके । केतक्यां गुप्तरागः स्याद्रजःपुष्पौ वलीनकः ॥ ६६ ॥ ताल्यां दृढदला ताली पत्रताली वराङ्गना । ;l{0255} इक्षुः पुष्यो मधुतृणः खड्गपत्रो महारसः ॥ ६७ ॥ मुञ्जस्तु मुञ्जको मेध्ये मृदुत्वग् ब्रह्ममेखलः । [ उल्लूकस्तूलपो ] दर्भमूर्ध्वमूलं खरच्छदः ॥ ६८ ॥ दूर्वा सहस्रवीर्या तु शतवीर्या तु सा सिता । शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ ६९ ॥ ;l{0260} सिंहः सुगन्धिः पारीन्द्रः शार्दूलः श्वेतपिङ्गलः । कण्ठीरवो महानादो हरिः शार्दूलविक्रमः ॥ ७० ॥ शार्दूलो हिंसरुश्चन्द्रश्चन्द्रकी दृङ्मृगादनः । पिण्डारकस्तु चित्राङ्गो महादंष्ट्रो वरोटकः ॥ ७१ ॥ ;p{0017} घोणी जलप्रियो वज्रदंष्ट्रो वाराहको हरिः । ;l{0265} कामरूपी स्तब्धरोमा पीनस्कन्धस्तलेक्षणः ॥ ७२ ॥ दीर्घरोमा च भल्लूको विकरालोऽच्छभल्लुकः । माहिषः सैरिभोऽश्वारिर्जरन्तो गद्गदस्वनः ॥ ७३ ॥ हेरम्बः कृष्णशृङ्गश्च तुलायः कासरो गुरुः । कृष्णः स्यात्कृष्णसारे तु निरञ्जननिरञ्जकौ ॥ ७४ ॥ ;l{0270} यज्ञार्हः शम्बरः स्वल्पे पृषदस्तु स बिन्दुमान् । महो रुरुः कृष्णसार एणको विपुलोन्नतः ॥ ७५ ॥ पोटरूपो गदाभासो रोहिषो बृहतिर्महान् । वातप्रमी गोजवी स्याद्वातायुः शिवविग्रहः ॥ ७६ ॥ मृदूच्चकरोमयुक्तः प्रियरो मसृणः स्मृतः । ;l{0275} श्वेतचन्द्रः श्वेतरेखो नीलः स श्वेतनीलकः ॥ ७७ ॥ बिलेशयः कदलिको मृदू रुक्षश्च कर्बुरः । श्यामला श्यामिका श्वेतबिन्दुः स्यात्षोडशायता ॥ ७८ ॥ ;p{0018} चतुरा चन्द्रका श्यामा स्निग्धरोमा वनप्रिया । कृष्णाथवा गोधूमाभा स्निग्धोच्चमृगरोहिका ॥ ७९ ॥ ;l{0280} मृगाद्याः कृष्णसाराद्यास्त एव पशवः स्मृताः । अष्टपादो गजारातिः शरभस्तूत्पदो रविः ॥ ८० ॥ गोवाही स्याद्वनगवो गवयो वाहवारणः । शिबेबः स्याद्गन्धमृगः कस्तूरी मृगवालका ॥ ८१ ॥ अण्डस्तु तस्याः कस्तूरी राजार्हं शितिचन्दनम् । ;l{0285} मदनी वेधमुख्या तु मार्जारी गन्धवेलिका ॥ ८२ ॥ श्वभीरुः सृगालो भेरुः क्रोष्टा च मृगमत्तकः । मर्कटः स्यान्महावेगः कुरङ्गो भल्लुकः पृथुः ॥ ८३ ॥ सौरभेयी शृङ्गिणी गौरर्घ्या महिरुषा शुभा । तम्पा तम्बा निलिम्पा चोस्रानड्वाहीनिलिम्पिकाः ॥ ८४ ॥ ;l{0290} रजःपूता रक्तवर्णा रोहिणी वायुसंभवा । शबली प्रक्षराङ्गी च सुमना व्योमसंभवा ॥ ८५ ॥ ;p{0019} वराङ्गा तु चतुर्वर्षा द्विवर्षा तु द्विहायनी । एकवर्षा तु सा धन्या बहुक्षीरा तु वञ्चुला ॥ ८६ ॥ नैचकी गौर्गृहश्रेष्ठा भद्रा गौर्गोमतल्लिका । ;l{0295} काल्योपसर्या प्रजनी पलिक्नी बालगर्भिणी ॥ ८७ ॥ चिरसूता बष्कयणी वशा वन्ध्या वृषस्वसा । दुःखदोह्या तु वरटा सुखदोह्या तु सुव्रता ॥ ८८ ॥ धेनुर्नवप्रसूतिर्गौर्बहुसूतिः परेष्टुका । अभिवन्यान्यवत्सा गौर्वृषाक्रान्ता तु सन्धिनी ॥ ८९ ॥ ;l{0300} आपीनमूधो वृन्तस्तु स्तनो वत्सस्तु तर्णकः । उक्षा गौर्वृषलोऽनड्वान्वाह्यः स्कन्धवहो वशी ॥ ९० ॥ शाक्वरो बाडबेयश्च वर्षभेयश्च वर्धकः । ककुदी गोवृषो घोषः ककुद्मान्वृषभो वृषः ॥ ९१ ॥ षण्डस्तु गोपतिः श्रीमान् स कर्मचर ईश्वरः । ;l{0305} कण्ठः कण्ठविहीनः स्यात्षण्डस्तु छिन्नपुच्छकः ॥ ९२ ॥ ;p{0020} गोमान्गोमी च गोस्वामी गोविन्दोऽधिकृतो गवाम् । नैचकी गोशिरोदेशः सास्ना तु गलकम्बलः ॥ ९३ ॥ गोशकृद्गोमयोऽप्यस्त्री गोग्रन्थिः शुष्कगोमयः । करिषं दोहलं हव्यं नकुलं गोधनं समे ॥ ९४ ॥ ;l{0310} गोमहिष्यादिकं जीवधनं स्यात्पादबन्धनम् । आरङ्गे लम्बकर्णश्च तच्छगस्तबकः पशुः ॥ ९५ ॥ छगी मञ्जी सर्वभक्षा चुलुम्बा च गलस्तनी । जटिलस्तु वनच्छागो बालविन्द्यो निरादनः ॥ ९६ ॥ एडकोऽप्युरणो मीथ उरभ्रो रोमजोऽप्यविः । ;l{0315} खररासभचक्रीवद्वाहवाहकगर्दभाः ॥ ९७ ॥ ईषस्वरो धूम्रकण्ठो नैकभारसहः शलः । चिरमेषी गर्दनकः कोलिण्टो बडबापतिः ॥ ९८ ॥ करभश्च मयस्तूष्ट्रो महाग्रीवस्तु वर्तकः । भषकः सारमेयः स्याच्छ्वा शुनो मृगदंशकः ॥ ९९ ॥ ;p{0021} ;l{0320} रतिकीलो गृहमृगः कुक्कुरः क्रोधनः शुनिः । यक्ष इन्द्रमृगः श्वालः कपिलो मण्डलः सुनः ॥ १०० ॥ जिह्वापानः पुरोगामी कृतज्ञो रात्रिजागरः । शुनी तु सरमा श्वाली विचरो ग्रामसूकरः ॥ १०१ ॥ जाहको गात्रसंकोची मण्डली नखरायुधः । ;l{0325} पशुस्तु मुलको मोकः कुवः शुद्धजडश्चरिः ॥ १०२ ॥ हिंस्रो व्याघ्रादिको व्यालः श्वापदो मरुलः शिरिः । मनुष्या मानवा मर्त्या मनुजा मानुषा नराः ॥ १०३ ॥ द्विपादो नहुषो गोधा व्राताः पञ्चजना नरः । ब्रह्मक्षत्रियविट्शूद्रा इति वर्णचतुष्टये ॥ १०४ ॥ ;l{0330} उपवर्णास्तु संकीर्णा विवर्णास्त्वन्त्यजातयः । एकवर्णाः स्ववर्णाः स्युर्हीनवर्णास्तु जुङ्गिताः ॥ १०५ ॥ भूदेवो ब्राह्मणो विप्रो मुखजो वेदसंभवः । अग्रजन्मा बाडबकः श्रेष्ठवर्णः कराग्निमान् ॥ १०६ ॥ उपनायस्तूपनय आनायश्च वटूकृतिः । ;l{0335} ब्रह्मचारी व्रती वर्णी नैष्ठिकस्तु स आश्रमी ॥ १०७ ॥ ;p{0022} गायत्रस्तूपकुर्वाणो वैदिकोऽधीतवेदकः । निःस्वाध्यायो निराकृतिर्वैवाही गृहमेधिकः ॥ १०८ ॥ उच्छिष्टभोजनो देवनिवेद्यबलिभोजनः । जातिमात्रोपजीवस्तु यः स स्याद्ब्राह्मणब्रुवः ॥ १०९ ॥ ;l{0340} अजपस्त्वसदध्येता देवाजीवस्तु देवलः । आघायवो वातरता विगीताः ख्यातगर्हणाः ॥ ११० ॥ अवगीताश्च हन्ता तु गुरूणां नरकीलकः । शश्विदानो दुराचारो निषिद्धैकरुचिः खरुः ॥ १११ ॥ त्यक्तात्मा त्यक्तसंवासोऽवकीर्णी तु क्षतव्रतः । ;l{0345} शाखारण्डोऽन्यशाखास्थो वर्णिलिङ्ग्यादयस्त्रिषु ॥ ११२ ॥ अग्नीन्धनं त्वग्निकार्यं चाग्निध्री चाग्निकारिका । ग्रासे तु पवनी भिक्षा पुष्कलं तच्चतुष्टयम् ॥ ११३ ॥ ते चत्वारो हन्तकारो हन्तकारद्वयं घनम् । मुष्ट्यष्टकोऽव्ययं किंचित्पुष्कलं तु तदष्टके ॥ ११४ ॥ ;p{0023} ;l{0350} पुष्कलानि तु चत्वारि पूर्णपात्रकमस्त्रियाम् । भिक्षाचरः कौकिटिकः कटिको [भि]क्षुकः पुमान् ॥ ११५ ॥ द्विजायिनी ब्रह्मसूत्रं सूत्रं यज्ञोपवीतिकम् । पवित्रं चोपवीतं तूपोद्धृते दक्षिणे भुजे ॥ ११६ ॥ प्राचीनावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् । ;l{0355} कृष्णाजिनं कर्णिकः स्यात्कृत्तिः स्त्री चर्म चाजिनम् ॥ ११७ ॥ परमाप्तो गुरुर्ब्रह्म आत्मलाभकरः शिवः । वरूथः प्रवरो ज्ञानी ब्राह्मणो ज्योतिरात्मवान् ॥ ११८ ॥ गृहस्थः स्नातकी चक्री गृहमेधी गृहीति च । पृथुचित्रः कुण्डधान्यो विघसाशी दिनत्रयी ॥ ११९ ॥ ;l{0360} यायावरश्चक्रवरः सद्यःप्रक्षालितान्नकः । उत्सवो मह उद्धर्ष उद्धवो हर्षवेणुकः ॥ १२० ॥ क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् । यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥ षट्कर्माणि महायज्ञो ब्रह्मयज्ञादिपञ्चकम् । ;l{0365} यष्टा तु यजुरादेष्टा यजमानश्च होत्रवित् ॥ १२२ ॥ ;p{0024} सोमे तु दीक्षितः सोम्यो यज्वा स्यादिष्टवानसौ । सर्ववेदाः स यो यागो दत्तसर्वस्वदक्षिणः ॥ १२३ ॥ यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः । याजका भारता यज्ञालिहः कुरव ऋत्विजः ॥ १२४ ॥ ;l{0370} पाकयज्ञाः पार्वणाद्या हविर्यज्ञास्त्वसोमकाः । पशुबन्धास्तु पशवः सोमसौम्याश्च सोमिनः ॥ १२५ ॥ सवनैस्त्रिभिरेकाहास्तैरावृतैरहर्गणाः । ते दीक्षितैः कृताः सत्राण्यहीना याजकैः कृताः ॥ १२६ ॥ अहीना द्वादशाहान्वान्सत्रादूर्ध्वं स तु द्वयम् । ;l{0375} सर्वेऽमी यज्ञक्रतवस्त एवैन्द्राः प्रजागमाः ॥ १२७ ॥ अग्निष्टोमश्चतुष्टोमो ज्योतिरानृण्यमित्यपि । अथ यज्ञोपकरणं यजत्रं यजनं च तत् ॥ १२८ ॥ होमधेनुस्त्वग्निहोत्री होमकाष्ठी तु नालिका । होमधूमस्तु निगणो होमभस्म तु वैष्णुतम् ॥ १२९ ॥ ;l{0380} होमेन्धनं स्यादिध्मोऽस्त्री पुमानेधः समित्स्त्रियाम् । पुरोडाशस्तु तृप्रको होमपात्रं हविश्चरुः ॥ १३० ॥ ;p{0025} वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् । त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १३१ ॥ विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् । ;l{0385} उत्सर्जनं प्रदेशनमपसर्जनमंहतिः ॥ १३२ ॥ अतोयं सात्त्विकं दानमुदपूर्वं तु पौष्टिकम् । आशिषा शान्तिकं दानं वरणं कामदं भवेत् ॥ १३३ ॥ आशासनेऽर्थना याच्ञा याचनाध्येषणार्दना । भिक्षार्चा सनिरक्ली स्यान्मार्गणा तु गवेषणा ॥ १३४ ॥ ;l{0390} पर्येषणा परीच्छा च मृगतान्वेषणा मृगः । चान्द्रायणं च चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३५ ॥ प्राजापत्यं तु गोकृच्छ्रं कृतं गोमूत्रयावकैः । उपवासस्तूपवस्तं संन्यासः स्यादनाशनम् ॥ १३६ ॥ द्वादशाहे तु पराकं षोडशाहे तुरायणम् । ;l{0395} तुरायणद्वयं सौम्यं चातुर्मास्ये परायणम् ॥ १३७ ॥ पञ्चरात्रं पयःपानं संगमं संगमश्च सः । योगपट्टस्तु गीता स्यात्पर्यस्तिरवसक्थिका ॥ १३८ ॥ ऋषिस्त्रिकालदर्शः स्यान्मौनी वाचंयमी मुनिः । तपनः कुम्भपुत्रः स्यादगस्त्यः पीतसागरः ॥ १३९ ॥ ;p{0026} ;l{0400} और्वशेयः कुम्भयोनिरगस्तिर्विन्ध्यकूटकः । मैत्रावरुणिराग्नेयो मुनिर्वातापिसूदनः ॥ १४० ॥ दक्षिणाशारतः क्वाथिरनसत्याग्निमारुतौ । अस्य कौषितकी भार्या लोपामुद्रा वरप्रदा ॥ १४१ ॥ तस्य ज्येष्ठस्तु सन्मौनी जन्मनक्षत्रनामकः । ;l{0405} प्राचेतसस्तु वाल्मीकिर्वल्मीकश्च कुशी कविः ॥ १४२ ॥ शालातुरीयको दाक्षिपुत्रः पाणिनिराहिकः । हलभूतिस्तूपवर्षः कृतकोटिकविश्च सः ॥ १४३ ॥ योगज्ञो याज्ञवल्के च वसिष्ठे ह्यायवः स्मृतः । पराशरे तु यज्ञास्यः शतानन्दस्तु गौतमे ॥ १४४ ॥ ;l{0410} यवक्रीतो रोहिते स्याज्जरत्कारुर्ययावरः । कुशारणिस्तु दुर्वासा ह्यष्टावक्रस्तु गर्भजः ॥ १४५ ॥ च्यवनो मत्स्यगुच्छश्च गोनर्दीयः पतञ्जलिः । अथ व्याडिर्विन्ध्यवासी नन्दनीनन्दनोऽपि च ॥ १४६ ॥ कात्यायनो वररुचिर्मेघजिच्च पुनर्वसुः । ;l{0415} वात्स्यायनस्तु कौटिल्यो विष्णुगुप्तो वराणकः ॥ १४७ ॥ ;p{0027} द्राविलः पक्षिलः स्वामी मल्लनागोऽङ्गुलोऽपि च । विद्वान्सन्कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ १४८ ॥ सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः । दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥ ;l{0420} ब्रह्मभूयं ब्रह्मभावे देवभूयादिकं तथा । अमृतत्वं तु कैवल्यं मुक्तिर्मोक्षो[ऽपुनर्]भवः ॥ १५० ॥ मोक्षावलम्बिनः प्रायः पाषण्डा बाह्यलिङ्गिनः । ते च हेरुकशोभाद्या प्रोक्ताः षण्णवतिः क्वचित् ॥ १५१ ॥ दशोत्तरशतं कैश्चित्पाषण्डानां प्रदर्शितम् । ;l{0425} शतत्रयं षष्ठ्यधिकमुक्तं चीनेशसंसदि ॥ १५२ ॥ वेषजीवकृतान्ताद्यैस्तेषां भेदाः परः शतम् । क्षत्रं बाहुजरादन्यौ भूशक्रः क्षत्रियो विराट् ॥ १५३ ॥ राजा तु पार्थिवो भूभृद्भूपो नरपतिर्नृपः । सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ १५४ ॥ ;l{0430} स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १५५ ॥ षट्कं कामो मदो मानो मोहोऽमर्षो रुषापि च । मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ १५६ ॥ ;p{0028} दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् । ;l{0435} देवी राजकुलोत्था चेत्परिवृत्ती तु पूजिता ॥ १५७ ॥ वावाता तु प्रियतमा स्वाधीनी तु नृपात्मजा । पालागली युद्धजिता नृपस्योढाः प्रिया इमाः ॥ १५८ ॥ अनूढा तु प्रिया राज्ञः कालज्ञा गणिका स्मृता । गणिका सा प्रगणिका यानाप्तपरिहारिका ॥ १५९ ॥ ;l{0440} अथालगणिकाप्याज्ञागणिका कुलसंभवा । शय्यास्रग्भूषणादौ तु नियुक्ता परिचारिका ॥ १६० ॥ शत्रुर्दस्युरमित्रोऽरिररातिरहितो द्विषत् । द्वेषणः प्रत्यनीको द्विड्जिघांसुर्हिंसनो रिपुः ॥ १६१ ॥ सैन्यं चक्रं बलं सेना पृतना ध्वजिनी चमूः । ;l{0445} अनीकिनीपताकिन्यौ वाहिनी च वरूथिनी ॥ १६२ ॥ सैन्यं तु भिन्नकूटं तन्नष्टावान्तरनायकम् । शून्यमूलं तदस्थानमन्तःशल्यं सदोषकम् ॥ १६३ ॥ हस्त्यश्वरथपादातं बलं स्याच्चतुरङ्गकम् । कुम्भो मतङ्गजो हस्ती दन्ती कुम्भी करी रदी ॥ १६४ ॥ ;p{0029} ;l{0450} स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः । दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥ महामृगः शूर्पकर्णः सामाजः सिन्दुरः कपिः । मन्दबृन्दः कुली कम्बुः शुण्डालः षष्टिहायनः ॥ १६६ ॥ वेगदण्डश्च वेदण्डो हस्तनासश्च पेचकी । ;l{0455} भद्रो मन्द्रो मृग इति गजाः संस्कारजास्तथा ॥ १६७ ॥ बिम्बकस्तु शिरोमध्यं पाकलौ तस्य पार्श्वयोः । विताने तद्बहिःपार्श्वौ कुम्भमध्ये विदुः पुमान् ॥ १६८ ॥ कर्णमूले वितलिका चूलिका पिप्पलीति च । विञ्जूषः कर्णपार्श्वेऽस्मिन्नारक्षौ कुम्भयोरधः ॥ १६९ ॥ ;l{0460} उरःपार्श्वे तु विक्षोभौ दर्दुरौ गलपार्श्वकौ । तल्पलं त्विभमध्याङ्गं स्कन्धदेशेऽग्र्यमासनम् ॥ १७० ॥ कटस्तु करटो गण्डो गात्रं पूर्वोऽङ्घ्रिरस्य तु । मू रोधः प्रतीकाशः क्षयश्च पलपादकः । ॥ १७१ ॥ कूर्मः संदानभागश्च प्रोह उत्सङ्ग इत्यपि । ;l{0465} विशेषभागो वैशाखी तद्गात्रेषु च पाकलः ॥ १७२ ॥ ;p{0030} पुष्पवंशोऽपदंशः स्यान्निष्कोशः कुक्षिमध्यकम् । अत्यूहः कुकुदं मेढ्रे करिका चूचुकान्तरम् ॥ १७३ ॥ अथ पुच्छे स्थिताः किल्ली संवालो वालपुष्करम् । दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ॥ १७४ ॥ ;l{0470} मुखे पृषन्ति पद्मानि वमथुः करशीकरः । चूला कक्ष्या वरत्रा स्यादङ्कुशोऽस्त्री शृणिः षणि ॥ १७५ ॥ अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः । शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ १७६ ॥ कुदुरो णेटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः । ;l{0475} पालकः पुरुलः पीतो माषाशी सिंहविक्रमः ॥ १७७ ॥ श्रीवृक्षकी प्रक्षिणी चेद्रोमावर्तो मुखेऽपि च । अश्वत्थपत्रसदृशपुण्ड्रः श्रीवत्सकी स्मृतः ॥ १७८ ॥ मल्लिकाक्षः सितैर्नेत्रैर्विष्णोरिन्द्रायुधो हयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ १७९ ॥ ;p{0031} ;l{0480} निहीनास्त्वब्जकारट्टशम्बला दोषिणः परे । तत्र शृङ्गी शृङ्गपदे मांसबुद्बुदवान्हयः ॥ १८० ॥ अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रेचितं वल्लितं प्लुतम् ॥ १८१ ॥ इत्येत्येषां तु पञ्चानां नामैकं बहुभेदकम् । ;l{0485} गत्यर्थास्तद्वदर्था हि सर्वे ते वाच्यलिङ्गकाः ॥ १८२ ॥ स तु वल्लभः पालेयो राजेष्टः परिवर्धकः । अमृताद्बाष्पतो वह्नेर्देवेभ्यः क्रोधतः फलात् ॥ १८३ ॥ साम्ना लक्ष्म्या हयोत्पत्तिः सप्तधेति प्रकीर्तिता । वाहनं यानं संयुग्यं वाह्यं धोरणमित्यपि ॥ १८४ ॥ ;l{0490} अस्मिंश्चक्रयुते गन्धः शताङ्गः स्यन्दनो रथः । वहित्रं वाहनं चास्मिंश्चतुरस्रे सकूबरे ॥ १८५ ॥ दीर्घद्विपक्षवहनमनः क्ली शकटोऽस्त्रियाम् । प्रवाहिर्ना वृत्तमध्ये पक्षकूबरवर्जिते ॥ १८६ ॥ देवतार्थो देवरथो युद्धार्थः साम्परायिकः । ;l{0495} क्रीडार्थः स्यात्पुष्यरथः कृतः कर्णिरथो मृदा ॥ १८७ ॥ ;p{0032} युगो द्वितीयः प्रासङ्गः पताका तु ध्वजोऽस्त्रियाम् । सेवका युधि योद्धॄणां भटा योधाश्च योधकाः ॥ १८८ ॥ पदातिपत्तिपादाताः पदातिकपदाजयः । पादिकः पदकः पत्तो राथिको रथिको रथी ॥ १८९ ॥ ;l{0500} सेनाधिपस्तु सेनानी साहस्रास्तु सहस्रिणः । धन्वी धनुष्मान्धानुष्कः पुरोगमपुरःसरौ ॥ १९० ॥ शूरो वीरश्च विक्रान्तो भटश्चारभटोऽपि च । अशूरो हतकः क्लीबो जिष्णौ तु जयजित्वरौ ॥ १९१ ॥ शिक्षितः कृतहस्ते तु सांयुगीनो रणेऽपि च । ;l{0505} जवने जवनिमा स्याज्जङ्घालोऽतिजवेति च ॥ १९२ ॥ धीरो मन्दगतिः कुट्टी स्यादुरस्वानुरस्तिकः । त्वक्त्रं तु दंसनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १९३ ॥ हिरिका स्यादयोवर्म जङ्घात्राणं तु मत्कुणम् । पट्टस्तु लिपिसंनाहो बाहुलं बाहुरक्षकृत् ॥ १९४ ॥ ;p{0033} ;l{0510} मर्दनी पादरक्षा स्यादङ्गुलत्रे कपिः पुमान् । शीर्षत्राणे तु शीर्षण्यमधिकाङ्गं तु कङ्कटे ॥ १९५ ॥ शस्त्रे स्यान्न क्लिको हेतीर्ऋष्टिः खङ्गे प्रचारकः । चन्द्रहासोऽर्धचन्द्राग्रेऽप्युली तु करवालिका ॥ १९६ ॥ हरकस्तरवारिः स्त्री पुलकास्त्वणुराजयः । ;l{0515} अथासिपुत्रच्छुरिका सातिदीर्घासिधेनुका ॥ १९७ ॥ कार्मुकं धन्व कोदण्डं धर्ममस्त्रं शरासनम् । कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यङ्गुलं विना ॥ १९८ ॥ कवटो लघुकाष्ठा स्यात्सयष्ठिर्यष्टिवारणः । लोहाविहार उद्योगे राज्ञां नीराजनाविधिः ॥ १९९ ॥ ;l{0520} यत्सेनायाभिनिर्याणं पत्यास्तदभिषेणनम् । विरतं तु भटोद्योगोऽभ्याक्रमो यानमभ्यरीन् ॥ २०० ॥ मृध आस्कन्दनं युद्धं समिदायोधनं रणम् । स्वक्षेत्रे सुकृतिकाङ्क्षी वीराङ्को वीरदर्शनः ॥ २०१ ॥ ;p{0034} वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका । ;l{0525} नाशस्त्वपक्रमोऽपायो विप्रयाणं पलायनम् ॥ २०२ ॥ पिञ्जस्तु घात उन्माथो विशरः प्रमथो वधः । उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २०३ ॥ रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् । शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥ ;l{0530} शिरो रूढं व्रणस्थाने व्रणशान्तिस्तु रोपणम् । आस्फेटो रणसंनाहस्तुमुलं रणसङ्कुलम् ॥ २०५ ॥ आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः । आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥ व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका । ;l{0535} व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥ सुगन्धिको महाशालिः षष्ठिकः सूक्ष्मतण्डुलः । कलावकास्तु कलमाः प्रवराः शालषष्ठिकाः ॥ २०८ ॥ माषस्तु मलदो मांसं घरी बीजवरो बली । मुद्गस्तु प्रथनो लोह्यो बलाङ्गो हरितो हरिः ॥ २०९ ॥ ;p{0035} ;l{0540} पीतेऽस्मिन्वसुखण्डीरप्रवालजयशारदाः । वनमुद्गे तु कुट्टः स्यान्निगूढकुलिकाकुलाः ॥ २१० ॥ खण्डी च राजमुद्गे तु मरुष्टकमयष्टकौ । जर्तिलोऽरण्यजतिलो जालकस्तूलकस्तिलः ॥ २११ ॥ तिलपुष्पं वज्रपुष्पं मसूरस्तु मसूरकः । ;l{0545} अलसान्द्रे राजमाषो निष्पावः श्वेतशिम्बिका ॥ २१२ ॥ आढकी तुवरी वल्गा सौराष्ट्री करवीरिका । छत्रा कुस्तुम्बुरी धान्या धान्यकं च धनीयिका ॥ २१३ ॥ गोधूमस्तु म्लेच्छभोज्यः सुमनाः सुमनो गुरुः । शतपर्वा बहवकः कोद्रवे कोरदूषकः ॥ २१४ ॥ ;l{0550} ऋद्धमावसितं धान्यं बहुलीकृतं संस्कृतम् । खलपूः स्याद्बहुकरश्छादितेयश्छदिस्तृणम् ॥ २१५ ॥ क्रयकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुके । क्रेये प्रसारितं क्रय्यं विक्रेयं पणितव्यकम् ॥ २१६ ॥ परिवर्तो विनिमयो वैमेयो विमयोऽपि च । ;l{0555} सत्यंकारः पुनः सत्याकृतिः सत्यापनं च तत् ॥ २१७ ॥ ;p{0036} पण्याजीवः सार्थवाहो नैगमो वणिजो वणिक् । वैदेहिकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ २१८ ॥ कोशमस्त्री हिरण्यं च हेमरूप्यं कृताकृतम् । ओषध्यो जातिमात्रं स्युरजातौ सर्वमौषधम् ॥ २१९ ॥ ;l{0560} स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटुः । पिप्पली मागधी शौण्डी ग्रन्थिनी तीक्ष्णतण्डुला ॥ २२० ॥ कपिवल्ल्यां कोलवल्ली गण्डिनी हस्तिपिप्पली । मरीचं च शिरावृत्ता भूषणं धर्मपत्तनम् ॥ २२१ ॥ लोभाख्यं श्यामवल्ली च त्र्यूषणं कटुकत्रयम् । ;l{0565} क्षारो गुडोऽस्य विकृतौ मत्स्या स्यात्खण्ड [ शर्करा ] ॥ २२२ ॥ फणितं क्षुद्रखण्डं च चत्कुलीखण्डमस्त्रियाम् । मधूकं तु मधुरस्त्री मधुकं तत्पुरातनम् ॥ २२३ ॥ भ्रामरं तु भ्रामरीकं क्षौद्रं सारसमाक्षिके । मदनं तु मधूच्छिष्टं मेणवं तु विलाकरम् ॥ २२४ ॥ ;p{0037} ;l{0570} स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् । घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥ हैयंगवीनं तक्रेजं नवनीतं घृताकरम् । दधि विप्रप्रियं हृद्यं श्रीघनं क्षीरजं शरः ॥ २२६ ॥ रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् । ;l{0575} पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥ गव्यं श्रेष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् । तदेव मधु यत्सद्योद्धृतं गोदोहजं घृतम् ॥ २२८ ॥ बोलं तराग्रं मोरट्टं गोरसं तक्रमित्यपि । शूद्रो जघन्यजोऽप्यन्त्यवर्णः संकरसंभवः ॥ २२९ ॥ ;l{0580} परिस्कन्दः परैर्जातः परैधितनियोज्यकौ । भरण्यं भरणं भर्म वैतनं निष्क्रयो भृतिः ॥ २३० ॥ कर्मण्या तु विधा भृत्या भारवाहस्तु भारिकः । वार्ताहरो वैवधिको हारयष्टिर्विभाङ्गिका ॥ २३१ ॥ शिक्यं विल्लम्बि काचश्च पाथेयं शम्बलोऽस्त्रियाम् । ;l{0585} कारवः शिल्पिनः सर्वे कुलिकास्ते कुलोत्तमाः ॥ २३२ ॥ ;p{0038} सौचिकस्तुन्नवायः स्यात्सूचिः सूचा च सीवनी । सूचिसूत्रं पिप्पलकमोतं प्रोतमुभे त्रिषु ॥ २३३ ॥ सीवनं सेवनं सूती रङ्गाजीवस्तु चित्रकृत् । लिखितं चित्तमालेख्यं पुस्तं लेख्यादिकर्मणि ॥ २३४ ॥ ;l{0590} धातुलेप्यमयी नारी सा स्यादञ्जलिकारिका । पाञ्चालिकादि वस्त्रादिपुत्रिका शालभञ्ज्यपि ॥ २३५ ॥ आर्या वृद्धा तु सा देवी या स्याद्गोमयपुत्रिका । पलगड्गो लेपकारः कल्पाणिः समलेखनी ॥ २३६ ॥ सुधा विलेपा घटिका वालुका घटिकारसः । ;l{0595} संवाहकोऽङ्गमर्दः स्यादथ देहस्य रक्षके ॥ २३७ ॥ आरक्षकः कङ्कटी च शस्त्रमार्जोऽसिधावकः । मणिकारो वैघटिकः शौल्बिकस्ताम्रकुट्टकः ॥ २३८ ॥ नाडिंधमः स्वर्णकारः कलादो दोष्ठिकः समः । कर्मकः स्यादयस्कारो वोकारो लोहकारकः ॥ २३९ ॥ ;l{0600} शाङ्खिकः स्यात्काम्बिविको भस्रा चर्मप्रसेविकः । धृतिः श्रुतिश्चोपध्मान्तः प्रसेवो दनायुधः ॥ २४० ॥ ;p{0039} संदंशः स्यात्कन्दमुखः काणा मूषा बुका स्त्रियाम् । विध्यते येन मण्यादिराविधोऽसौ निधोऽपि च ॥ २४१ ॥ आस्फोटनी वेधनिका भ्रमा कुण्डलयन्त्रकम् । ;l{0605} चण्डिलः क्षुरमर्दी स्यान्नापितोऽन्तवसाय्यपि ॥ २४२ ॥ क्षुरोऽस्य वपनं शस्त्रं कर्तिका कर्तनीत्यपि । शल्यस्कन्दिनी धार्या त्वक्ष्णाक्षूर्नखकृन्तनम् ॥ २४३ ॥ कुम्भकारः कुलालः स्याच्चक्री भार्गव इत्यपि । आपाकः पुटपाणः स्यात्पचनं पाकमण्डलम् ॥ २४४ ॥ ;l{0610} धूसरश्चाक्रिकस्तैली पिण्याकस्तिलकस्तिली । आभीरस्तु महाशूद्रो गोपा गोसंख्यगोदुहौ ॥ २४५ ॥ गोपालो वल्लबश्चाथ वत्सीयस्त्रिषु तत्स्थिते । जापालः स्यादजाजीवो लम्बनस्तु क्षपालकः ॥ २४६ ॥ अथ स्याद्दाण्डिको दण्डः काणोऽपि लकुटो लकुः । ;l{0615} सन्दानं दामनी दामा रज्जुः स्याद्वलिनीति च ॥ २४७ ॥ ;p{0040} गुणो वराटो रज्जुः स्त्री नना शुल्बा वटी त्रयम् । ग्रन्थिर्बन्धो व्रजो गोष्ठं गोष्ठीनं तु पुराव्रजः ॥ २४८ ॥ मन्थानं मन्थनं मन्था मन्थ्या मन्थनिकापि च । वैशाखोऽप्यस्य दण्डे तु वैशाखकविशाखकौ ॥ २४९ ॥ ;l{0620} कुठारो मदविष्कम्भो मन्थपात्रं तु गर्गरी । कलशः कलशी चापि पारिकुम्भी च कुम्भिका ॥ २५० ॥ घोष आभीरपल्ली स्यात्पक्कणोऽस्र्यन्तजातयः । मालाकारो माल्यजीवी मालिकः प्रतिहारिकः ॥ २५१ ॥ जायाजीवस्तु शैलषः शैलाली भरतो नटः । ;l{0625} यो यष्टिरज्जुखड्गेषु प्रनृत्यति स पूरकः ॥ २५२ ॥ करांस्तु तालं कृत्वा ये नृत्तं गानं च कुर्वते । ते तालवचनाः प्रोक्ता इति शास्त्रविशारदैः ॥ २५३ ॥ ;c{इति नाममालिकायामहिराजेनैव संगृहीतायां भूम्यादिनामधेयप्रकरणमिदमखिलसुकविमतम् ।} ;c{भोजनिघण्टुश्च समाप्तः ।}