;METADATA ;title{नानार्थमञ्जरी} ;author{राघव} ;bookFullName{Nānārthamanjarī of Rāghava} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography Vol. 9} ;editor{Prof. K. V. Krishnamoorthy Sharma} ;editorQualifications{Vyākaraṇa Vidvān (Mysore), Śāstrī} ;publisher{Published by Dr. S. M. Katre, for the Deccan College Post-Graduate and Research Institute, Yervada, Poona 6.} ;pressDetails{M. N. Chapekar, Aryasamskriti Mudranalay, Poona 2.} ;publicationYear{1954 A.D.} ;dataEntryBy{Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html} ;dataEntryEmail{kasturinsahiti@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{NNMR} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Dr. Dhaval Patel for proof reading the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{19 February 2019} ;version0.0.2{04 September 2019} ;version0.0.3{08 September 2019} ;version0.0.4{08 September 2019} ;version0.1.0{08 September 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{श्रीराघवविरचिता} ;c{नानार्थमञ्जरी} समस्तविद्यावेत्तारं सुमुखं श्रीविनायकम् । अज्ञानतिमिरादित्यं विघ्नघ्नं नौमि सन्ततम् । विश्वादीनि समाहृत्य बालानां ज्ञानसिद्धये । कविना राघवेणाद्य कृता नानार्थमञ्जरी । ;l{0005} विश्वप्रकाशो गोपालः शेषकारो धनंजयः । शब्दार्णवो वैजयन्ती सूर्यो रुद्रश्च यादवः । प्रतापो भागुरिर्दण्डी रभसश्च हलायुधः । सुभूतिर्हरिविष्णू च वररुच्यमरोत्पलाः । अजयः शाश्वतश्चैते उच्यन्ते पण्डितैः पुरा । ;k{अजन्तवर्गः} ;l{0010} ऊँ प्रश्नेऽङ्गीकृते रोषे प्रौढे ब्रह्मणि चाव्ययम् । अः स्याद् ब्रह्मणि विष्ण्वीशकूर्माङ्कणरणेषु च । गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः । आ प्रगृह्ये स्मृतौ वाक्ये परितापे पितामहे । घटे भावे च आस्तु स्यादव्ययं कोपपीडयोः । ;l{0015} आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे । इर्वितर्के स्मरे हारे फणरत्नद्युतौ पुमान् । ;p{0002} अग्रे करेणुकक्ष्यान्ते गुहायां शशितेजसि । ईर्वारिजदले लक्ष्म्यां वाण्यां कमलकेसरे । उः शंभौ क्षत्रिये नेत्रे हरमौलौ हरावपि । ;l{0020} ऊः स्याच्छुचीन्द्वोः पुरुषे राजपुत्रे गले सुरे । प्राङ्क(ङ्ग)णोपमयोः पूर्णकुम्भे वणिजि रक्षणे । ऋः कुञ्जरे शिखरिणि विभेदे देवमातरि । भावे देवरिपौ नद्यां सुरायां विवरे दिवि । ऋ दृष्ट्यां चिकुरे वाताशने विगतसंपदि । ;l{0025} हिमपद्मदितिस्वर्गधनभूषाभुजाम्बुषु । लृः कुलीरे कपेर्दन्ते हस्तिनामपि दंष्ट्रके । स्वर्गादित्योर्लिप्तगात्रे गतनप्तरि रक्षसि । लॄ तु स्यात्कृकलासेन्द्रावङ्केऽक्ष्णि मकरे सुरे । लीलागते लोचनास्थ्नि नागमातरि मातरि । ;l{0030} एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ । व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे । ऐ हस्ते दिङ्मुखे वाते हरेऽद्रिशिखरे त्वचि । ओ वारिजे जले कुड्ये श्रीदमेघेन्दुयोनिषु । शक्रे जीवे विरिञ्चे स्यादौः स्कन्दे गणनायके । ;l{0035} विशुद्धाङ्गेन्दुकलयोरनन्ते सिद्धपुष्पके । अंशब्दो वक्रवाक्येऽतिदीर्घेऽञ्जलिनियोगयोः । सप्तस्वरादिमाने च परज्योतिषि च स्मृतम् । अः शिखायां सिद्धमन्त्रे प्रगाहेऽर्के रथार्वणि । ;p{0003} चक्रे कुक्कटमूर्ध्नीन्दुबिम्बे ब्रह्मेशविष्णुषु । ;c{इति राघवीयनानार्थमञ्जर्यां अज्वर्गः परिसमाप्तः ।} ;k{कान्तवर्गः} ;v{एकाक्षरकान्ताः} ;l{0040} को ब्रह्मण्यर्कवाय्वग्निशमनस्वर्गकेकिषु । विष्णावाहतशब्देऽब्धौ धियां शुक्ले वसौ द्युतौ । कं शिरोम्बुसुखेषु स्यात्तत्रैव च कमव्ययम् । किं प्रश्नाक्षेपकुत्सासु वितर्के क्लीबमव्ययम् । कुः स्त्री भूम्यां च पापेऽल्पे कुत्सायां वारणेऽव्ययम् । ;c{इत्येकाक्षरकान्ताः ।} ;v{द्व्यक्षरकान्ताः} ;l{0045} अर्कोऽर्कपर्णे स्फटिके ताम्रे सूर्ये दिवस्पतौ । ज्येष्ठभ्रातरि शुक्लेऽर्कपादपे च पुमान्भवेत् । मर्कस्तु काङ्क्षोहाकर्मभेदे पुष्करवायुषु । कर्की कर्कटके राशौ स्त्रियां कर्कस्तु मल्लके । घटभेदाग्निमुकुरसिताश्वकृपणेष्वपि । ;l{0050} कङ्कस्तरङ्गे गुप्ते च गृध्रे काके युधिष्ठिरे । कूले मधुरिपौ कोके पिके वैवस्वतेऽप्यथ । मुनिवल्मीकयोः शैले नाकुः स्यात्पुंसि कथ्यते । त्रिलिङ्गे काकुशब्दस्तु ध्वनिवैरूप्यसंभवे । गायकानां कण्ठदोषे कच्चिदर्थेऽव्ययं पुनः । ;l{0055} अङ्कः स्थानान्तिकक्रोडभूषणोत्सङ्गलक्ष्मसु । मन्तौ नाटकविच्छेदे चित्रयुद्धे च रूपके । टङ्कोऽस्त्री टङ्कणे गुल्फे काणान्तरखनित्रयोः । ;p{0004} कोशेऽश्मदारणेऽपि स्याज्जङ्घायां मासि कथ्यते । न्यङ्कुर्गुरुकुलस्थायिशिष्ये नेममुनौ मृगे । ;l{0060} शङ्कुः पर्णसिराजाले यादोभेदसुसंख्ययोः । स्थाणौ शक्तित्रये कीले मेहने च पुमानयम् । शङ्कातिरेकयो रेकः पाको जरसुनिष्ठयोः(?) । अर्भके पचनेऽपि स्याल्लोकस्तु भुवने जने । श्लोको यशसि पद्ये च शोकः शृङ्गानुक्रोशयोः । ;l{0065} दुःखे पादरसेऽपि स्यान्नाकः स्वर्गान्तरिक्षयोः । चक्रवाके वृके कोकः शक्रो गोमयदेशयोः । किकी चाषे द्रव्यभेदे स्त्रियां केका शिखिस्वने । मुष्कोऽण्डकोशे मोक्षे द्रौ रोको रश्मौ बिलेऽपि च । शङ्का वितर्कभययोरस्पर्शनविनाशयोः । ;l{0070} लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च । ढक्का कुल्याशीघ्रवाद्यामृगाङ्काङ्गेषु गौरवे । अकोऽद्रौ दुरिते क्लेशे ओकोऽस्त्री मन्दिरेऽऽश्रमे(ये) । शल्कोऽस्त्री शमले पापे डम्भे च शकलेऽपि च । निष्को निर्गमदीनारस्वर्णोरोभूषणेषु च । ;l{0075} साष्टे शते सुवर्णानां गाङ्गेयेऽपि पुमान्पले । वल्कं तु वल्कलेऽपि स्याच्छौकं गतिशुकौघयोः । भेकस्तु कातरे भेको मण्डूकेऽपि च कथ्यते । चन्द्रे भूम्यां त्रिकः पुंसि त्रये पृष्ठाधरे त्रिकम् । ;p{0005} पुष्पभेदे बको रक्षःपक्षियक्षानलेषु च । ;l{0080} कीरे दुःशासनापत्ये शोणके व्यासनन्दने । शुकः शुकं तु शैरीषकुसुमग्रन्थिपर्णयोः । त्रिष्वल्पे चातके पुंसि स्तोको राकस्तु पूषणि । राका नवरजाकान्त्योः पूर्णचन्द्रतिथावपि । शाकः पक्तौ वृक्षभेदे भूपद्वीपविशेषयोः । ;l{0085} काका तु स्त्री हरीतक्यां पङ्कोऽस्त्री कर्दमैनसोः । किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे कुत्सितेऽपि च । नल्वेऽथ पापे कल्कोऽस्त्री गुल्मे विट्किट्ट(?)दम्भयोः । छेकोऽभिज्ञप्रासगृहासक्तपक्षिमृगेषु च । अवाचि वानरे मूक एके मुख्यान्यकेवलाः । ;l{0090} शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च । ;c{इति व्द्यक्षरकान्ताः ।} ;v{त्र्यक्षरकान्ताः} आलोको दर्शने द्योते प्रबोधे वन्दिभाषणे । करकः पक्षिभेदे स्यात्कमण्डलुकरङ्कयोः । डाडिमाक्रोशहस्तेषु पुं स्त्रियां तद्घनोपले । करङ्को मस्तकास्थ्नि स्यान्नाळिकेरफलास्थनि । ;l{0095} क्षेप्त्यसातकयोः (?) खड्गे कङ्कपत्रे च सायकः । जम्बुकः क्रोष्टृवरुणनीचेष्वप्यथ पेचकः । उलूके करिणः पुच्छमूलोपान्ते च कथ्यते । पृथुकश्चिपिटे बाले चानकः स्वनदम्बुदे । भेर्यां मृदङ्गे पटहेऽप्यथ लोहापवादयोः । ;l{0100} कलङ्कोऽङ्के कीटके स्यात्तक्षकस्तु भुजंगमे । ;p{0006} वर्धकावथ पिण्याकस्तिलकल्के च कुङ्कुमे । हिङ्गौ च सिल्हकेऽपि स्याद्बाह्लीको विषयाश्वयोः । देशभेदे च तत्क्लीबं हिङ्गौ कुङ्कुमवीरयोः । गाण्डीवेऽपि पुलाकस्तु संक्षेपे भक्तसिक्थके । ;l{0105} तुच्छधान्ये वृश्चिकस्तु राश्योषधिविशेषयोः । शूककीटेऽपि प्रतीकः प्रतिकूले स्त्रियामयम् । एकदेशे तु पुंस्येव भूतिकं तु नपुंसके । स्याद्भूनिम्बे भूस्तृणे च खर्जूरतृणदीप्ययोः । [ ज्योत्स्निकायां च घोषे च कोशातक्यध्वनि स्मृतम् । ] ;l{0110} कौशिको मुनिभेदे च नकुले शक्रघूकयोः । उद्गातरि कुशाजीवे कोशवत्यहितुण्डिके । गुग्गुलावप्यथ नदीकात्यायिन्योस्तु कौशिकी । रुक्तापशङ्कास्वातङ्कः स्तबकोऽध्यायगुच्छयोः । स्वल्पे दरिद्रे नीचे स्यात्क्षुल्लकस्तु त्रिलिङ्गके । ;l{0115} स्याद्वर्तिके नवदले वर्तकोऽश्वखुरे विशि । दीपकः स्यादलंकारे यवान्यां जीरकेऽपि च । दीपे च दीपनीयां(?) चाजमोदशिखिचूडयोः । पीडार्थेऽपि व्यलीकं स्यादपराधेऽप्रियेऽनृते । कामजे पीनसे क्रौर्येऽकार्ये वैलक्ष्यतथ्ययोः । ;l{0120} अलीकं त्वप्रिये स्वर्गे संघेऽनृतललाटयोः । अनूकमस्त्रियां वंशे शीले च गतजन्मनि । पिनाकः शिवशूले स्यात्तस्य बाणासनेऽपि च । स्त्रियां स्याद्धेनुका वाजियोषित्यपि पशौ गवि । ;p{0007} भवान्यां च कृपाण्यां च प्रसूताकरियोषितोः । ;l{0125} क्षुरिकायां कालिका तु दिवाकीर्त्यां च शिल्पके । मेघजाले यातनायां वृत्तौ नटनयोषिति । दोषे स्वर्णादिधातूनां कृष्णावृद्धिसुरासु च । क्रमदेये वस्तुमूल्ये योगिन्यम्बिकयोरपि । पटोलशाखारोमालिमांसीज्याकालिमाचिषु(?) । ;l{0130} धूसर्यां नवमेघे च ततः कर्णविभूषणे । कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि । सूक्ष्मवस्तुन्यग्निमान्द्ये क्रमुकादिच्छटांशुके । ताटङ्के वर्तुले पद्मबीजकोश्यां त्रिषूत्तरे । कटकोऽस्त्री राजधान्यां राशौ सानुनितम्बयोः । ;l{0135} सूच्यग्रे वलये दन्तावलानां दन्तमण्डले । सामुद्रलक्षणे चाथ जल्पाको मुकुरे पुमान् । मेचकस्तिमिरे कृष्णवर्णे स्याद्वाच्यलिङ्गकः । ताटङ्कोऽस्त्री परीणाहे विटङ्के कर्णवेष्टने । लम्पाको लम्पटे देशे ज्योतिषग्रन्थसंज्ञिते । ;l{0140} किंपाकस्तु फले मूले पावकः पावनेऽनले । विपाकः कीर्त्यते स्वादौ परिणामे च दुर्गतौ । निपाकः पचने स्वेदेऽप्यसत्कर्मफलेऽपि च । पालिकाङ्कुरपात्रे स्यादुलूको राजघूकयोः । बालिका पिञ्छजाले स्यात्कन्यायां कर्णभूषणे । ;p{0008} ;l{0145} मोचकः कदलीशिग्रुनिर्मोचकविरागिषु । अशोको वञ्जुले माने द्रमनिःशोकयोर्मतः । वर्तते कटुरोहिण्यामथ क्रूरे च कामुके । भयहीने कलौ पुं स्यादभीकः प्रोच्यते ततः । आह्निकं नित्यवृत्तौ स्याद्भोजने नित्यकर्मणि । ;l{0150} हुडुको वाद्यभेदे स्याद्दात्यूहे मदवर्तने । सृदाकुरनिले वज्रे दवाग्नौ प्रतिसूर्यके । तूलिका कथिता लेख्यकूर्चिकातूलशय्ययोः । अनीकस्तु रणे सैन्ये संदेहेऽपि च कथ्यते । नवके दुर्जनेऽपि स्यादंशुकं नेत्रवस्त्रयोः । ;l{0155} वार्धकं वृद्धसंघाते वृद्धत्वे भाववृन्दयोः । कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः । हस्तसूत्रे च कुतुके तवकः कपटेऽपि च । भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे । नायको नेतरि श्रेष्ठे हारमध्यमणावपि । ;l{0160} पताकोऽस्त्री वैजयन्त्यां तत्पटश्रेष्ठयोरपि । आशङ्का नाशसंकोचभयतर्कग्रहेषु च । कोरकं कुड्मलेऽपि स्यात्तक्कोलकमृणालयोः । शङ्खकं वलये कम्बुनिधिसंख्यानखेषु च । मणौ शीथौ शिथुवने नरकं मद्यभाजने । ;p{0009} ;l{0165} निरये चाथ पुंसि स्याद्रासिको दक्षिणेऽपि च । वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । चन्द्रको मेचके चन्द्रे भूषणे बर्हबिन्दुके । नालीकं कमले शल्ये बाणेऽपि स्यादथोच्यते । वंशनाले च द्रोणीको निर्मोकः परिमोचने । ;l{0170} तमालपत्रे श्रेष्ठे च पादपे तिलकः पुमान् । स्याद्दाम्भिकः कौक्कुटिके वञ्चकेऽप्यथ गैरिकम् । स्वर्णेष्टकादावलकः पुरोलम्बनकुन्तले । कलिका कोरके हर्षे लासकः पञ्जरेऽस्त्रियाम् । नटयोषित्कुथो(?) धूर्ते जम्बुके भाषितेऽपि च । ;l{0175} अव्यक्तमधुरे श्रेष्ठे वञ्चकः परिकीर्तितः । घुटिका तु महारत्ने पिण्डे बद्धरसे मणौ । लुब्धकः पुंसि शबरे चान्द्रायामभिलाषिणि । पर्यङ्कश्चापि पर्यङ्के मञ्चे परिकरेऽपि च । कलङ्कः कृष्णवर्णे स्यात्तमाले तिलकेऽपि च । ;l{0180} अंशुकं सूक्ष्मवस्त्रे स्यात्परिधानोत्तरीययोः । किरणानां समूहे च मुखवस्त्रे तदिष्यते । जालकं पद्मके व्यूहे आनाये भूषणेऽनृते । बिन्दौ वागुरिके पुंसि गवाक्षे क्षारकेऽपि च । कनीनिकायां नक्षत्रे मोक्षे स्यात्तारका स्त्रियाम् । ;l{0185} पिटकस्त्रिषु बृन्देऽपि पेटके चाथ जालिकः । किराते धीवरे हर्म्येन्द्रजालादियुतेऽपि च । खेटकौ ग्रामफलकौ गुरौ देश्ये च देशिकः । किञ्जल्कः पद्मरेणौ स्यात्केसरेऽपि च कथ्यते । ;p{0010} अन्धेऽप्यनेडमूकः स्यात्कीचको दैत्यवंशयोः । ;l{0190} कुलिकः स्यात्कुलश्रेष्ठेऽप्यंशभागौ तु वण्टकः । कूर्चिका क्षीरविकृतौ कर्पर्यां दार्विकापि च । भूतिका चापि भूनिम्बे पुष्पकं कुसुमाञ्जने । पुष्पकं तु रथे वृक्षे चातको हरिणे खगे । कुञ्चुकी वारवाणेऽहावुत्सुको द्वेषगर्वयोः । ;l{0195} स्यान्मृगाङ्कः कालकण्ठे सितकैरवचन्द्रयोः । प्रतीकोऽवयवेऽपि स्यात्प्रतिकूलेऽपि चार्थवत् । गुलिको मन्दतनये रसबद्धास्त्रदेशयोः । दिङ्नागे चाथ गणको ज्योतिषज्ञलिपिज्ञयोः । गणिका वृक्षभेदे स्यात्स्त्रियां वारस्त्रियामपि । ;l{0200} कटुतुम्ब्यां शुभ्रवेणाविक्ष्वाकुर्नृपतौ स्मृतः । ;c{इति त्र्यक्षरकान्ताः ।} ;v{चतुरक्षरकान्ताः} कलहंसे च कारण्डे चातुरीकः पुमानयम् । माताङ्गिकः करिशिशौ भवान्यामपि तत्स्त्रियाम् । ज्योत्स्निकायां पटोले च घोषे कोशातकी ततः । सालावृकः कपिकोष्टुश्वानेषु खदिरे सिते । ;l{0205} श्रीपर्ण्यां सोमवल्कः स्यादथ बुद्धे विनायकः । गुरौ च गरुडे विघ्नराजेऽप्युत्कलिकः पुमान् । स्यात्कल्लोले कुड्मले च वल्लर्युत्कण्ठयोरपि । लालाटिकः प्रभोर्भावदर्शी कार्याक्षमश्च यः । ;p{0011} पुण्डरीको व्याघ्रभेदे दिग्गजेक्षुद्रुभेदयोः । ;l{0210} पुंनपुंसि सितच्छत्रे सिताम्भोजेऽपि कीर्तितम् । जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि । सौगन्धिकं तु चाक्षुष्ये(?) कल्हारेऽपि प्रचक्ष्यते । नर्मवाक्परिहासे च स्त्रियामेव मधूलिका । ;c{इति चतुरक्षरकान्ताः ।} ;k{खान्तवर्गः} ;v{एकाक्षरखान्ताः} अथ कामजले(?) खः स्यात्खा स्त्री नखरतीक्ष्णयोः । ;l{0215} खमिन्द्रिये सुखे स्वर्गे शून्यबिन्दौ विहायसि । कृपानक्षत्रसंवेशतन्द्रीशान्तरसेषु च । कुणिसंभेदगरुडक्षेत्रखड्गपुरीष्वपि । ;c{इत्येकाक्षरखान्ताः ।} ;v{द्व्यक्षरखान्ताः} शिखा स्यादग्रमात्रेऽग्निज्वालायां च स्त्रियां भवेत् । लाङ्गलक्यां शिफायां च केकिमौलिशिखण्डयोः । ;l{0220} शैलपादपयोरग्रे कचबन्धे घृणावपि । शङ्खो निधौ ललाटास्थ्नि कम्बौ सानौ भुजंगमे । नखरे वलयेऽपि स्यात्संख्यायां पुंनपुंस्यथ । शिबिरे मन्दिरे वह्नौ मयूरे कुक्कुटे द्रुमे । पोत्रिमूषिकयोराखुः शाखी पादपवेदयोः । ;l{0225} शाखा स्कन्धे सूत्रभेदे वृक्षे पक्षान्तरे भुजे । ;p{0012} निकटे छन्दसां भेदे पादपाङ्गेऽपि च स्त्रियाम् । पुङ्खः श्येने शरादौ च सुखं स्वर्गम्बुशर्मसु । रेखा लेखा श्रेणिदेवलिपिलेखनराजिषु । सूक्ष्मांशके सुन्दरे च मर्यादायां च पुंसि वा । ;l{0230} वरुणस्य नगर्यां तु स्त्रियां द्रव्ये सुखे नपुम् । सुखहेतौ सुखं क्लीबे लिङ्खस्तु गतिनाट्ययोः । प्रेङ्खः पर्यटने वाजिगतौ निःसरणे मुखम् । प्रारम्भे द्वारि बाणाग्रे प्रधाने ताम्रवक्त्रयोः । उपायेऽपि ततो मित्रे सहायेऽपि सखा त्रिषु । ;l{0235} नखोऽस्त्री नखरेऽक्लीबे षण्डे कोलदलेऽपि च । न्युङ्खो मनोऽज्ञेन्यलिङ्गः साम्नि षट्प्रणवेषु च । ;c{इति व्द्यक्षरखान्ताः ।} ;v{त्र्यक्षरकान्ताः} सुमुखस्तार्क्ष्यतनये फणिभेदे च पण्डिते । मनोज्ञवदने विघ्नराजेऽपि स्याच्च दुर्मुखः । नागराजे च मकरे तुरंगे च प्लवंगमे । ;l{0240} विशिखस्तोमरे बाणे परिव्राज्यग्निसूर्ययोः । स्त्री रथ्या शारिकायां च खनित्रे पुंनपुंसके । गोमुखं कुटिलाकारे वाद्याभाण्डे विलेपने । मयूखस्त्विट्करज्वालास्वपि स्कन्देऽपि षण्मुखः । ;c{इति त्र्यक्षरखान्ताः ।} ;v{चतुरक्षरखान्ताः} शिवे सिंहे पञ्चमुखो अलिबाणौ शिलीमुखौ । ;l{0245} बर्हिर्मुखो द्विजे देवे भल्लाते चित्रकेऽपि च । कुहूमुखं तु दर्शादौ कोकिलोत्पातयोरपि । ;p{0013} ;c{इति चतुरक्षरखान्ताः ।} ;v{पञ्चाक्षरखान्ताः} स्यात्सर्वतोमुखं यज्ञे चान्तरिक्षे च पाथसि । क्षेत्रज्ञविधिरुद्रेषु पुंसि तत्परिकीर्तितम् । ;c{इति पञ्चाक्षरखान्ताः ।} ;k{गान्तवर्गः} ;v{एकाक्षरगान्ताः} स्वर्गदृग्बाणवज्राम्बुदिग्वाग्भूधेनुलोमसु । ;l{0250} चन्द्रार्कवृषनागेषु पशौ करणवस्त्रयोः । कृत्वार्जुनीप(?)अर्वार्थमृगस्त्रीश्रवणेषु च । लक्ष्यदृष्ट्योः स्त्रियां पुंसि गौर्गं गमनगीतयोः । गा च गाथायां स्त्रीलिङ्गो गो गन्धर्वगणेशयोः । ;c{इत्येकाक्षरगान्ताः ।} ;v{द्व्यक्षरगान्ताः} भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु । ;l{0255} क्लीबे स्त्रीयोनौ धर्मेच्छातपःसंपत्सु पुंस्ययम् । ज्ञानवैराग्ययोः कान्त्यां मोक्षे चाप्यथ पन्नगे । नगा अगाः पर्वतेऽर्के पादपे स्यान्मृगो गजे । कुरङ्गपशुऋक्षेषु स्त्री याच्ञा तस्य योषितोः (?) । भोगः सुखे स्त्र्यादिरतौ भुजंगफणकाययोः । ;l{0260} कौटिल्ये पालने राज्ये भोग्ये च द्रविणेऽपि च । निर्वेशे पण्यनारीणामुत्साहाभ्यवहारयोः । प्रबन्धे रूपकार्थे चार्धलेशे भोज(भञ्ज?)नेऽपि च । चतुर्थांशेऽथ सर्वार्थप्राप्तौ क्षेमार्थसिद्धयोः । योगः संनहनोपायध्यानसंगतियुक्तिषु । ;l{0265} योगसूत्रे द्रव्यलाभे विष्कम्भादौ च भेषजे । ;p{0014} वपुःस्थैर्ये प्रयोगे कार्मणे विस्रब्धघातिनि । इङ्गं स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि । भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये । रागभेदे च खड्गे च भङ्गा तु शणसंज्ञिके । ;l{0270} भङ्गी प्रकारे तुङ्गस्तु शैलपुंनागयोस्त्रिषु । उन्नतेऽप्यथ गोनाभे भेके हिंसार्थके त्रिषु । अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके । देशभेदे तु पुंसि स्यादङ्गेत्यामन्त्रणेऽव्ययम् । लिङ्गं संगमने चिह्ने माने शेफेभ(श)मूर्तिषु । ;l{0275} सांख्योक्तप्रकृतौ हेम्नि शिवमूर्तौ प्रचक्षते । शृङ्गं विषाणे सानौ च प्रभुत्वे कूर्चशीर्षयोः । क्रीडाम्बुयन्त्रे शिखरे स्यादुत्कर्षप्रधानयोः । शृङ्गी विषायां वृषभे विषभोज्ये वटेऽपि च । गजमीनसुवर्णेषु कुरङ्गेऽपि च कथ्यते । ;l{0280} रङ्गो रणे खले रागे नृत्तादौ च त्रपुण्यपि । जले रथे क्षेत्रभेदेऽप्यथ भृङ्गं तु कुन्तले । अळिधूम्याटषिद्गेषु पुंसि वर्गस्तु संततौ । देशभेदे नपुंसि स्यात्सीसभेदकरङ्गयोः । भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि । ;l{0285} रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः । [ सारङ्गादौ च माधुर्ये प्रणयेऽनुत्तरेच्छयोः । ] गान्धारादौ रञ्जने च वल्गुश्छागमनोज्ञयोः । भाषितेऽपि च भोगी स्याद्राजपन्नगयोरपि । ;p{0015} मार्गो मृगमदे मासप्रभेदेऽन्वेषणेऽध्वनि । ;l{0290} बौद्धौक्तज्ञानभेदे च गुदसौम्यर्क्षयोरपि । नागः सर्पे गजे वृक्षे मृगे मुस्तकमेघयोः । नागकेसरपुंनागक्रूराचारानिलेषु च । श्रेष्ठे च नागदन्तेऽक्षसीसे रङ्गे रतान्तरे । खगः शरार्कविहगामरमेघेन्दुवायुषु । ;l{0295} राजहंसे ग्रहेऽपि स्यान्मृगभूदेशयोर्लगुः । वेगः प्रवाहजवयोर्महाकालफलेऽपि च । जले स्वर्गे प्रियेऽपि स्याद्विण्मूत्रादिविनिर्गमे । पूगः स्यात्क्रमुके वृन्दे नृपाधिकृतरेखयोः । सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु । ;l{0300} उत्साहत्यागयोश्चाथ त्यागो वर्जनदानयोः । यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु । अपि हस्तचतुष्के स्यादौषधे वर्षपञ्चके । खड्गो मृगान्तरे हेत्यां गण्डकेऽथ शिवे रुचाम्(चि?) । लोके वागग्निलिपिषु शिल्पौ भर्गः प्रव(च)क्ष्यते । ;l{0305} दुर्गा गौर्यां कालिकायां दुर्गं तु नरके पुरे । शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे । ;c{इति व्द्यक्षरगान्ताः} ;v{त्र्यक्षरगान्ताः} परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि । गिरिप्रभेदे विख्यात उपरागे च चन्दने । मतङ्गस्तु गजेऽपि स्याच्चण्डालमुनिभेदयोः । ;l{0310} अपाङ्गो नेत्रयोरन्ते तिलकाङ्गविहीनयोः । ;p{0016} सारङ्गः पुंसि हरिणे चातके गजभृङ्गयोः । रागभेदे भृगौ नृत्ते शबले तु त्रिषूच्यते । वराङ्गं स्याद्गजे मूर्ध्नि स्त्रीयोनौ च गुद(ड?)त्वचि । पतङ्गः शालिभेदेऽग्नौ मार्जाले पारदे शरे । ;l{0315} विहंगे शलभे सूर्ये त्रिवर्गस्तु दिनत्रये । वृद्धौ च धर्मकामार्थे त्रिफलायां त्रिपूरुषे । स्थानक्षये सत्त्वरजस्तामसेषु पुमानयम् । उत्सर्गो वर्जने त्यागे सामान्यन्यायदानयोः । रक्ताङ्गो विद्रुमे भौमे विधौ कम्पिल्लधरियोः । ;l{0320} जीवन्तीशूकधान्येषु रोचन्यां तन्नपुंसकम् । उद्वेगः स्तिमिते क्लेशे भयेऽमन्थरगामिनि । सुन्दरेऽधिकभाग्यांशे दुर्दिनेतरवासरे । प्लवंगो वानरे भेके सारथौ चोष्णदीधितौ(तेः) । संवत्सरेऽपि सुभगस्तुरीयांशेऽपि श्रीमतौ । ;l{0325} आशुगः पवने बाणे जङ्घालेऽपि पुमान्भवेत् । उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वकलाङ्कयोः । भुजंगोऽहौ विटे वृक्षे तरङ्गो वीचिकम्पयोः । अनङ्गो मन्मथे वायौ पिशाचच्छाययोरपि । ;c{इति त्र्यक्षरगान्ताः ।} ;v{चतुरक्षरगान्ताः} अभिषङ्गस्तु शपथे शापे सङ्गे पराभवे । ;l{0330} आक्रोशेऽथ गजश्रेष्ठे महामृग इतीरितः । ;c{इति चतुरक्षरगान्ताः ।} ;k{घान्तवर्गः} ;v{एकाक्षरघान्ताः} मेघे निदाघे किङ्किण्यां घण्टायां घट्टने च घः । घं वाद्यामृतयोर्घा भूवार्ताघोरेषु च त्रिषु । ;p{0017} ;c{इत्येकाक्षरघान्ताः ।} ओघः प्रवाहनिवहोपदेशातिशयेषु च । वेण्यां परंपरानृत्तद्रुतेष्वपि पुमानथ । ;l{0335} त्रिष्विष्टेऽल्पे मनोज्ञे च निःसारेऽगुरुशीघ्रयोः । कृष्णागरुणि स्पृक्कायामोजःक्षपणयोर्लघुः । मोघा स्त्रियां पाटलायां त्रिषु निष्फलदीनयोः । नीरदेऽथ मघो यज्ञे पुं नक्षत्रे स्त्रियामपि । इच्छाप्रशंसयोः श्लाघा भे मघा भेषजे मघी । ;l{0340} अर्घः पूजाविधौ मूल्येंऽहोदुःखव्यसनेष्वघम् । ;c{इति व्द्यक्षरघान्ताः ।} ;v{त्र्यक्षरघान्ताः} परिघः काचकलशे घट्टे प्राकारगोपुरे । परिघाते योगभेदे मुद्गरार्गलयोरपि । प्रतिबन्धे निदाघस्तु ग्रीष्मोष्णस्वेदवारिषु । [ सरघा स्यात्कण्टकारिमधुक्षुद्रनटीषु च । ] ;c{इति त्र्यक्षरघान्ताः ।} ;k{ङान्तवर्गः} ;v{एकाक्षरङान्ताः} ;l{0345} ङं क्लीबमञ्जने ना तु भैरवे विषये जने । ;c{इति ङान्ताः ।} ;c{इति राघवीये कवर्गान्तवर्गाः परिसमाप्ताः ।} ;c{ङान्तव्द्यक्षराद्यप्रसिद्धम् ।} ;k{चान्तवर्गः} ;v{एकाक्षरचान्ताः} चस्तुलुष्केश्वरे चापे चकारे चन्द्रमस्यपि । ;p{0018} चा स्त्री शोभाशोणितयोश्चं क्लीबे विमले त्रिषु । चान्वाचये समाहारेतरेतरसमुच्चये । ;c{इत्येकाक्षरचान्ताः ।} ;v{द्व्यक्षरचान्ताः} शुचिः पावकचन्द्रार्कशुक्रशृङ्गारमन्त्रिषु । ;l{0350} षण्डशुद्धहरश्वेतग्रीष्मानुपहतेषु च । स्थिताद्युपधमासेषु(?) त्रिष्वर्चिः शोचिषि स्मृतम् । ज्वालामरीचयोः काचाः शिक्यमृद्भेददृग्रुजः । रुचिः स्पृहायां कान्तौ स्यादभिषङ्गमयूखयोः । अर्चा पूजाप्रतिमयोश्चर्चा स्थासकचिन्तयोः । ;l{0355} पुं स्याज्ज्वालाभासविट्सु शोचिः शुद्धशुगंशुषु । सूचिः सुरतभेदेऽभिनये सीवनधावने (?) । केतकीमुकुलाग्रे च भेदके दुर्जनेऽपि च । क्रौञ्चो द्वीपे खगे शैले काञ्ची मेखलपट्टयोः । पिचुः सुरान्तरे तूले कर्षे च वृषभाश्वयोः । ;l{0360} प्रपन्नगुदकुष्ठेषु भैरवेऽप्यथ कुन्तले । वीचिः स्वल्पेऽवकाशे च तरङ्गे नरके सुखे । वीथ्यां कचः शुष्कव्रणे बन्धे केशे व्रणेऽपि च । कुष्ठे गुरोः सुते दन्तावलयोषिति तु स्त्रियाम् । नीचः प्लवेऽधमे खर्वे मोचा शल्मलिरम्भयोः । ;l{0365} मोचः शोभाञ्जने मोक्षे कूर्चं कैतवपीतयोः । भ्रुवोर्मध्ये कुथे श्मश्रौ कुशग्रन्थिविशेषणे । चञ्चुस्त्रोटौ च वेदान्ते मञ्चः क(ख?)ट्वेऽपि कथ्यते । ;c{इति व्द्यक्षरचान्ताः ।} ;p{0019} ;v{त्र्यक्षरचतुरचान्ताः} विपर्यासे विस्तरे च प्रपञ्चः संचयेऽपि च । ;v{चतुरक्षरचान्ताः} श्वेतरोचिस्तु लावण्ये चन्द्रे गर्भे हलायुधे । ;c{इति त्र्यक्षरचतुरक्षरचान्तौ ।} ;k{छान्तवर्गः} ;v{एकाक्षरछान्ताः} ;l{0370} छ इत्याच्छादनेऽब्जे च छं क्लीबे संवृतौ पुमान् । त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च । ;c{इत्येकाक्षरछान्ताः ।} ;v{द्व्यक्षरछान्ताः} गुच्छस्तु स्तबके स्तम्बे हारभेदकलापयोः । कच्छस्तटेऽम्बरप्रान्ते प्रस्थेऽनूपस्थलेऽपि च । गुह्ये पार्श्वे नपुंसि स्याद्बृहन्मत्स्ये च कूर्चके । ;l{0375} स्कन्धे कूर्मेऽप्यथो मूर्छा मोहव्यापारयोः स्त्रियाम् । तदेव वल्लकीनादे त्रिष्वच्छो निर्मले तु ना । भल्लूकेऽप्यव्ययं(?) स्वच्छः स्याच्छुद्धजलमेघयोः । पुच्छः शून्येऽवसाने च पश्चाद्भागेऽपि वालधौ । तुच्छं तु दुःखे क्षुद्रे च शून्ये स्याद्गर्हिते त्रिषु । ;l{0380} पिच्छा शाल्मलिनिर्यासेऽप्यन्धे(?)श्वचरणामये । पिच्छं खड्गच्छदे बर्हे उञ्छस्तु स्यात्परिग्रहे । ;c{इति द्वच्यक्षरछान्ताः ।} ;c{त्र्यक्षरचतुरक्षरछान्तावप्रसिद्धौ ।} ;k{जान्तवर्गः} ;v{एकाक्षरजान्ताः} जो जये विजये मेरौ शब्दे जेतरि मत्सरे । जा स्त्रियां देववाहिन्यां योनिसागरवेलयोः । ज्या भूमिमौर्व्योः शम्यायां वाहिन्याः पृष्ठभागके । ;l{0385} जं कटीभूषणे पत्न्यां तेजस्यम्बुनि जन्मनि । ;p{0020} जुः कीर्त्यां संगरे व्योम्नि जवपैशाचयोरपि । जूराकाशे बृहद्ध्वाने भारत्या जीवनेऽपि च । ;c{इत्येकाक्षरजान्ताः ।} ;v{द्व्यक्षरजान्ताः} मासोत्साहबलेषूर्जो व्याजः साक्षापदेशयोः । छद्मन्यथ कुजो वृक्षे नरकेऽङ्गारकेऽपि च । ;l{0390} व्रजो गोपे च गोष्ठे च समूहेऽध्वनि पुंस्ययम् । अजो हरौ हरे कामे विधौ छागे रघोः सुते । अब्जस्तु निचुले शङ्खे पद्मे धन्वन्तरावपि । वेद्येन्द्वोरपि तेजस्तु पुंसि दीप्तिप्रभावयोः । कुञ्जो दन्ते निकुञ्जेऽपि न स्त्रियां संततौ जने । ;l{0395} प्रजा स्यादथ दन्ते च विप्रेऽहौ पक्षिणि द्विजः । स्त्रियां भासारेणुकयोराजिः पङ्क्त्यु(?)द्धभूमिषु । क्षणेऽपि स्यान्निजं नित्ये स्वके धर्मेऽपि च त्रिषु । गाम्भीर्येऽपि च बीजं हेतावङ्कुरकारणे । वीर्येन्द्रिये च वाजं स्यादाज्ययज्ञान्नयोरपि । पुं यवागौ जले कीर्त्यां मुनौ निस्वनपक्षयोः । ;l{0400} जवे च वाजी तुरगे कङ्कपत्रे च पक्षिणि । पिञ्जस्त्वाधानपटलव्याकुलेषु हरिद्रके । तूले बले वधे युग्मे कञ्जः केशविरिञ्चयोः । पीयूषपद्मयोः क्लीबं ध्वजश्चिह्नपताकयोः । ;l{0405} कीर्तिशौण्डिकशेफेषु श्रेष्ठखड्गाङ्गयोरपि । ;p{0021} न्युब्जं तु कमठेऽपि स्यात्पुंनपुंसि कुशस्रुचि । अधोमुखे च कुब्जे च वक्रे वाच्यवदिष्यते । गुञ्जोऽस्त्री गह्वरे बृन्दे घण्टायामथ कथ्यते । रजो गुणे च धूल्यां च राजा चन्द्रे नृपे प्रभौ । ;l{0410} उपचारार्कहंसेन्द्रयक्षेष्वपि पुमानयम् । पुञ्जस्तु बहले तुल्ये गञ्जा तु मदिरागृहे । ;c{इति व्द्यक्षरजान्ताः ।} ;v{त्र्यक्षरजान्ताः} अम्भोजं कमले मत्स्ये विश्वामित्रसुतेऽपि च । जलजः कौस्तुभे मीने तत्क्लीबे शङ्खपद्मयोः । मुरजस्तु मृदङ्गे च ढक्कामुरवयोरपि । ;l{0415} बलजः स्यात्त्रिषु क्षेत्रे पूर्द्वारे धान्यराशिषु । तत्क्लीबे गोपुरे सस्ये संगतावपि तत्स्त्रियाम् । वल्गुदर्शनभूसव्यजोत्तमस्त्रीषु कथ्यते । वणिक्करणभेदेऽपि वाणिज्यायामपीष्यते । अङ्गजं रुधिरेऽनङ्गे केशे पुत्रे मदे पुमान् । ;l{0420} नागरे नखरेऽपि स्यात्सामजस्तु गजे स्मृतः । काम्बोजो हस्तिभेदे च शङ्खदेशविशेषयोः । अश्वे पुंनागवृक्षे च सोमवल्के तदिष्यते । काम्बोजी माषपर्ण्यां च हिङ्गुपर्ण्यामपि स्मृतम् । ;c{इति त्र्यक्षरजान्ताः ।} ;v{चतुरक्षरजान्ताः} रागराजो रतिपतौ दिवानाथनिशेशयोः । ;p{0022} ;l{0425} राजराजः कुबेरे स्यात्सार्वभौमे धनाधिपे । द्विजराजस्तु विप्रेन्द्रे शशाङ्के तार्क्ष्यशेषयोः । धर्मराजः कृतान्ते स्याद्बुद्धदेवे तदिष्यते । ;c{इति चतुरक्षरजान्ताः ।} ;k{झान्तवर्गः} ;v{एकाक्षरझान्ताः} झः पुमान्भ्रमणे नष्टे प्रतापे हंसचोरयोः । धातरि स्यादथो झा तु मदवाय्वोरपि स्त्रियाम् । ;c{इत्येकाक्षरझान्ताः ।} ;c{द्वयक्षरादयोऽप्रसिद्धाः ।} ;k{ज्ञान्तवर्गः} ;v{एकाक्षरज्ञान्ताः} ;l{0430} ज्ञः प्राज्ञे चन्द्रतनये विषये चात्मगर्वयोः । व्यूहे लेपे मूर्ध्नि खरध्वाने क्ली भयपद्ययोः । उत्ताने मूढरूपे च पण्डितैस्त्रिषु कथ्यते । ;c{इत्येकाक्षरज्ञान्ताः ।} दक्षिणे सरले प्राज्ञो विदग्धोदारयोरपि । संज्ञा स्याद्भानुभार्यायां गायत्र्यां चैव नामनि । ;l{0435} चेतनायां च हस्तादेः सूचनायां च वस्तुनः । ;c{इति व्द्यक्षरज्ञान्तः ।} ;v{त्र्यक्षरज्ञान्ताः} नामस्मृत्योरभिज्ञा स्यात्क्षेत्रज्ञो निपुणात्मनोः । ;c{इति त्र्यक्षरज्ञान्तौ ।} ;c{चतुरक्षरमप्रसिद्धम् ।} ;c{इति राघवीयनानार्थमञ्जर्यां चवर्गान्तवर्गाः परिसमाप्ताः ।} ;p{0023} ;k{टान्तवर्गः} ;v{एकाक्षरटान्ताः} टः पुमान्करटे धूमे चापेऽर्ककिरणे ध्वनौ । कवाटावर्तयोः सूनौ भूव्यावृत्त्योस्तु टा स्त्रियाम् । ;c{इत्येकाक्षरटान्ताः ।} देवशिल्पिनि सूर्ये च त्वष्टा दिष्टं तु दैवते । ;l{0440} दिष्टः साक्षात्स्थिते काले मुष्टिर्दैत्ये प्रमाणजे । अट्टं भित्तिचतुष्के स्यात्क्षामेऽत्यर्थे गृहान्तरे । यष्टिर्दामनि दण्डे स्याद्व्याप्यवत्फलकेऽपि च । जटा सटा लग्नकचे लतामूलेऽपि केसरे । कोटिरग्राश्रचापाग्रसंख्योत्कर्षाश्रयेषु च । ;l{0445} व्युष्टिः फले समृद्धौ च स्तोत्रे दृष्टिस्तु दर्शने । ज्ञानेऽक्ष्णि सृष्टं क्लीबे स्यात्प्राज्यनिश्चितयोरपि । त्रिषु स्यान्निर्मिते मुक्ते कष्टं गहनकृच्छ्रयोः । दक्षामन्दागदेषु स्यात्पटुः कूटं तु न स्त्रियाम् । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । ;l{0450} अयोघने शैलशृङ्गे सीराङ्गेऽप्यथ शोभने । अभावक्षेमयो रिष्टमिष्टिर्यागेच्छयोरपि । इष्टं संस्कारयोगे च यागे पूज्यतमेऽपि च । आशंसिते प्रियतमे वाटो वृतौ स्थलाध्वनोः । गृहारामप्रदेशे चावटे रोधसि पुंस्ययम् । ;l{0455} कुटी तु स्यात्कुम्भदास्यामल्पवेश्मनि पुंसि च । पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । ;p{0024} चतुष्पथे च राजादिशासनान्तरपीठयोः । पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने । विटोऽद्रौ लवणे षिद्गे मूषिके खदिरेऽपि च । ;l{0460} कूटो यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे । मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः । दिवाकरे तत्किरणे पुरद्वारे मतङ्गजे । त्रुटी लेशे संशये च कालाल्पैलाप्रमाणयोः । कटोऽतिरेकशवयोः क्रियाकारिश्मशानयोः । ;l{0465} गजगण्डे शवरथे शय्यायां च स्त्रियां मतः । किलिञ्जे समये पुंसि कटिः श्रोण्यां कटी स्त्रियाम् । वर्षे चावरणे क्लीबे कटुर्मत्सरतीक्ष्णयोः । मधुरादिरसे कट्वकार्याकार्य(?)प्रियेषु च । क्षवे प्रियङ्गौ गन्धे स्यात्त्रिषु स्त्रीलिङ्गकेऽप्ययम् । ;l{0470} रोहिण्यां पूतनायां च रटस्तु गतिशब्दयोः । घटः कुम्भे राशिभेदे मणौ ह्रादिनि(?)वृन्दयोः । स्त्रियां तु घण्टालम्बिन्योश्चटुश्चाटुः प्रियंवदे । छटा समूहे कान्तौ च वेष्टने च वटस्तरौ । पिष्टादिना त्वमाङ्गल्यधामकुड्याङ्कणेषु च । ;c{इति व्द्यक्षरटान्ताः ।} ;v{त्र्यक्षरटान्ताः} ;l{0475} धूर्जटिर्धूर्तचिह्ने स्याच्छंकरे चाथ संपुटः । समुद्गके कुरबके चारिष्टं सूतिकागृहे । ;p{0025} अशुभे निम्बवृक्षे च शुभे तक्राङ्कयोः पुमान् । काके च फेनिले नीचे व्यसनेऽनर्थलम्बयोः । भाग्यहीनेऽथ करटः कुसुम्भगजगण्डयोः । ;l{0480} काके च वाद्यभेदे च श्राद्धे चैकादशेऽपि च । सृगाले निन्द्यजीवे च कपटः कैतवेऽपि च । ;c{इति त्र्यक्षरटान्ताः ।} ;v{चतुरक्षरटान्ताः} शिपिविष्टस्तु दुश्चर्मखल्वाटहरिशंभुषु । तुलाकोटिस्तु मञ्जीरे क्रकचे कृकरच्छटः । ;c{इति चतुरक्षरपञ्चाक्षरटान्ताः ।} ;k{ठान्तवर्गः} ;v{एकाक्षरठान्ताः} ठः शंकरे बृहद्ध्वाने वृत्ते वर्णेऽपि वाच्यवत् । ;l{0485} स्तम्भने साहसे चन्द्रमण्डले कर्णवेष्टने । ;c{इत्येकाक्षरठान्ताः ।} ;v{द्व्यक्षरठान्ताः} ज्येष्ठोऽग्रजे स्त्रियां ज्येष्ठा देव्यां नक्षत्रशस्तयोः । काष्ठा दिक्कालहारिद्रस्थित्युत्कर्षेषु तु स्त्रियाम् । दारौ क्लीबमथो निष्ठा निष्पत्तौ यज्ञकर्मणि । नाशान्तयोश्च निष्कर्षे कोष्ठोऽन्तर्जठरेऽपि च । ;l{0490} कुसूलेऽन्तर्गृहे कण्ठोऽन्तिके शब्दे गलेऽपि च । कामवृक्षे च मूर्खे च गूढविप्रियकारिणि । अलसे धुस्तुरे धूर्ते मध्यस्थपुरुषे शठः । मठश्छात्रादिनिलये बलात्कारे हठः पुमान् । ;c{इति द्व्यक्षरठान्ताः ।} ;p{0026} ;v{त्र्यक्षरठान्ताः} मञ्जिष्ठो वृक्षभेदे स्यात्कनिष्ठोऽतियुवाल्पयोः । ;l{0495} जरठः कठिने जीर्णे शिथिले चोन्नतानते । ;c{इति त्र्यक्षरठान्ताः ।} ;v{चतुरक्षरठान्ताः} कलकण्ठः कलध्वाने हंसे पारावतेऽपि च । नीलकण्ठः शिवे काके खञ्जरीटमयूरयोः । लोहपृष्ठस्तु कङ्के स्यात्कालपृष्ठं शरासने । ;c{इति चतुरक्षरठान्ताः ।} ;k{डान्तवर्गः} ;v{एकाक्षरडान्ताः} डः पुमान्विषये शंभौ हासे त्रासे जये ध्वनौ । ;l{0500} शङ्खस्वने रौद्ररसे वृथावाचि तु डा स्त्रियाम् । त्रिषु दृढे शठे शून्ये केल्यान्दोलिकयोरपि । डं क्लीबे डामरे दुर्गे वधे डमरुकेऽपि च । ;c{इत्येकाक्षरडान्ताः ।} ;v{द्व्यक्षरडान्ताः} दण्डोऽस्त्री लगुडे मानभेदे सैन्ये दमे यमे । मन्थानोपाययो राज्ञां शासने मद्यकोणयोः । ;l{0505} धनप्रकाण्डहिंसासु चण्डांशोः पारिपार्श्वके । अश्वे स विंशतिशताङ्गुलौ यष्ट्यां प्रकीर्तितः । पिण्डो देहे जपापुष्पे निवासे सिल्हकेऽपि च । काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु । अश्वे मन्द्रे न पुं नाले तरुस्कन्धे रहस्यपि । ;p{0027} ;l{0510} इभस्तम्बेऽपि च स्त्री वा तु स्यात्पिप्पलिचव्ययोः । भाण्डमस्त्री नदीपात्रे भाजने चामरेऽपि च । स्यादश्वाभरणे मूलवणिग्द्रव्ये च मन्त्रके । चण्डा धनहरीशङ्खपुष्प्योः पुंस्यतिकोपने । चण्डी कात्यायनीहिंस्रकोपनस्त्रीषु संमता । ;l{0515} क्रीडा केलिप्रकारे स्यात्खेलावज्ञानयोरपि । गुडः स्याद्गोलके हस्तिसंनाहेक्षुविकारयोः । व्याळः(डः) सर्पे पशौ मांसे भूगोवाक्षु त्विडा इळा । बुधपत्न्यां यज्ञपात्रे क्ष्वेडा वंशशलाकयोः । दन्तोष्ठवाद्ये शब्देऽस्त्री पुंसि कर्णमले विषे । ;l{0520} नाडी काले षट्क्षणे स्यात्सिरायां मरुदादिषु । ;c{इति व्द्यक्षरडान्ताः ।} ;v{त्र्यक्षरडान्ताः} वरण्डस्त्वन्तरावेद्यां युध्यतोर्गजयोर्द्वयोः । संदोहे मुखरोगे च काल्यावर्ता(र्त्य?)सिधेनुषु । करण्डो मकुटे पात्रे कारण्डस्तु खगान्तरे । ;v{चतुरक्षरडान्ताः} कोदण्डो राशिभेदे स्यात्कार्मुके च न तु स्त्रियाम् । ;l{0525} तुलादण्डो मानदण्डे चर्ममुण्डा तु चर्चिका । ;c{इति त्र्यक्षरचतुरक्षरडान्ताः ।} ;k{ढान्तवर्गः} ;v{एकाक्षरढान्ताः} ढः पिशाचे भये काले जडे गायकरागयोः । ध्वनौ पान्थे नपुंसि स्यात्तूर्ये च ज्ञानमूर्खयोः । ढक्कायां स्त्री गुणे सर्पे त्रिषु स्याद्गूढसौम्ययोः । ;c{इत्येकाक्षरढान्ताः ।} ;p{0028} ;v{द्व्यक्षरढान्ताः} बाढोऽण्डजे दृढे पुंस्त्री प्रतिज्ञायां भृशे नपुम् । ;l{0530} शुभावहेऽनुमाने च गूढं तु त्रिषु ना दृढः । शक्ते स्थूले च व्यूढस्तु विन्यस्ते संहतावपि । ब्राह्मणे पृथुलेऽपि स्याद्गाढं ध्वान्ते दृढेऽपि च । ;c{इति व्द्यक्षरढान्ताः ।} ;v{त्र्यक्षरढान्ताः} प्रगाढं तु भृशे कृच्छ्रे मुसृण्ढिः शस्त्रमूर्खयोः । समूढः पुञ्जिते भुग्नेऽपस्मारे च धुरंधरे । ;c{इति त्र्यक्षरढान्ताः ।} ;c{चतुरक्षरमप्रसिद्धम् ।} ;k{णान्तवर्गः} ;v{एकाक्षरणान्ताः} ;l{0535} णशब्दस्तु पुमाञ्जारे भैरवे कण्टके ध्वनौ । णा स्त्रियां ध्वजिनीशय्याधेनुनासाकृपासु च । णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि । ;c{इत्येकाक्षरणान्ताः ।} ;v{द्व्यक्षरणान्ताः} गुणोऽप्रधाने ज्यासूतरूपादिषु वृकोदरे । स्तम्भे संध्यादिसत्त्वादिशब्दादिहरितादिषु । ;l{0540} अभ्यासेन्द्रियविद्यादिपटुत्वाद्यर्जुनेषु च । द्रव्याश्रिते नीतिशास्त्रे सांख्यादिविनयादिषु । शौर्ये धैर्ये च गाम्भीर्ये कूपके दधिलक्षणे । न स्त्रियां स्यादौदनिके चाथ द्रोणस्तु पर्वते । आढकानां चतुष्के च वायसे नीवृदन्तरे । ;l{0545} कृपीपतौ च द्रोणी तु गवां घासपरिस्थले । ;p{0029} स्त्रियां काष्ठाम्बुवाहिन्यामथ भ्रूणोऽर्भकेऽपि च । स्त्रैणगर्भेऽथ बाणस्तु बलिसूनौ शरे पुमान् । कणोऽतिसूक्ष्मे धान्यांशे पिप्पल्यां जीरके शरे । वेणी स्यात्कचबन्धे च जलस्रोतसि चाल्पके । ;l{0550} घोणी भूदारकेऽपि स्यादेणी तु मृगयोषिति । गणः समूहे प्रमथे गणनायामपि स्त्रियाम् । सेनाविशेषे वितते मणी रत्नेऽपि कथ्यते । पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च । ताम्रिके कार्षिके कुक्कुटायुधादिपरिग्रहे । ;l{0555} कुणिस्त्वौषधभेदे च कुकरेऽपि च पुंस्ययम् । स्थाणुः शर्वे स्थावरादौ स्थिरे कीले प्रकीर्तितः । वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे । विलेपने कथायां च गुणरूपयशःसु च । निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः । ;l{0560} रवे युद्धे रणः पुंसि ध्वनिमात्रे कणक्कणौ । ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः । स्थूणा स्तम्भे गुहस्य स्याल्लोहादिप्रतिमासु च । स्पृहापिपासयोस्तृष्णा जुगुप्सा करुणा घृणे । तीक्ष्णं समुद्रलवणे विषे लोहादिसैन्ययोः । ;l{0565} युद्धे त्रिषु खरे क्षारे कटौ चात्मघ्नि पुंसि वा । प्राणो हृन्मारुते बोले काव्ये जीवेऽनिले बले । तार्णं तु तृणजाले स्यात्क्लीबे त्राणं तु रक्षणे । कृष्णस्तु केशवे व्यासे कोकिलेऽर्जुनकाकयोः । ;p{0030} शूद्रे तामिस्रपक्षेऽग्निकलिनीलगुणेषु च ;l{0570} कृष्णा तु द्रौपदीनीलीहरक्रूरेष्वपि त्रिषु । पिप्पल्यां च तुलस्यां च क्लीबे लोहमरीचयोः । दुरिते मेचके द्रव्येऽथो श्रेणिः कारुसंहतौ । रथ्यापङ्क्तौ सेकपात्रे नितम्बे श्रोणिरिष्यते । वृष्णिस्तु यादवे मेषे जयन्तेऽपि च कथ्यते । ;l{0575} कर्णः श्रोत्रे सूर्यपुत्रे तूर्णं शीघ्रे तदव्ययम् । जिष्णुर्जेतरि देवेन्द्रे विष्टरश्रवसि स्मृतम् । ;c{इति व्द्यक्षरणान्ताः ।} ;v{त्र्यक्षरणान्ताः} तरुणस्तु नवे यूनि मद्ये प्रथम उत्कटे । अरुणः कपिले कुष्ठे संध्यारागेऽर्कसारथौ । अव्यक्तरागे निःशब्दे द्रव्ये त्रिषु निरूपितः । ;l{0580} स्त्रियामतिविषाश्यामामञ्जिष्ठात्रिवृतासु च । द्रविणं तु बले वित्ते काञ्चनग्रहभेदयोः । शरणं गृहरक्षित्रोर्वधे च करणः शिशौ । शूद्राविशोः सुतेऽपि स्यात्करणं रतिबन्धने । प्राणे च साधकतमे नृत्तसंस्थानकर्मणोः । ;l{0585} क्षेत्रगात्रेन्द्रियेषु स्याद्ववादावङ्गहारयोः । संवेशेऽप्यथ यन्त्राणां बन्धने रक्षणेऽपि च । ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामधिपे त्रिषु । हरिणः स्यात्कुरङ्गे च पाण्डरेऽपि प्रकीर्तितः । हरिणी स्यान्मृगीहेमप्रतिमाहरितादिषु । ;l{0590} वृत्तभेदे यूथिकायां दूर्वादौ सुरयोषिति । दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु । ;p{0031} दानद्रव्ये हर्षणं तु योगभेदे मदेऽपि च । श्राद्धदेवे विषाणं तु पशुशृङ्गेभदन्तयोः । क्रोधे वराहदंष्ट्रे च पुंनपुंसकयोरपि । ;l{0595} प्रवणः क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे । संकीर्णौ निचिताशुद्धौ श्रीपर्णं कमलेऽपि च । बिल्वेऽथ ईरणं शून्ये ऊषरेऽपि प्रचक्ष्यते । प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । प्रतीच्यां च सुरायां च वारुणी स्याद्वणिक्पथे । ;l{0600} विपणिश्च करेणुस्तु वारणानां च योषिति । कारणं करणे हेतुवादयोः शेखरेऽपि च । यातनायां हस्तिसूत्रे मण्डनाङ्कणयोरपि । मार्गणो याचके बाणे प्रार्थनेऽन्वेषणेऽपि च । लवणो रसरक्षोब्धिभेदेषु त्विषि चेष्यते । ;l{0605} करिणी हस्तिपिप्पल्यामभिप्रायगजस्त्रियोः । सारिणी अल्पसरितां(ति?) रोहणो रत्नपर्वते । निर्वाणं निर्विते मोक्षे सुखे नग्नेऽपि हर्षणे । सुवर्णप्रतिमायां च नाशे च गजमज्जने । चारणो नित्यसंचारे पुंसि स्याद्देवगायके । ;l{0610} लक्षणं नाम्नि चिह्ने च गुणे निर्वाचनेऽपि च । पद्यादौ सुन्दरे भाग्ये भूषणादावपीष्यते । ;c{इति त्र्यक्षरणान्ताः ।} ;v{चतुरक्षरणान्ताः} तमोमणिस्तु खद्योते नीलमण्यामुडौ शशौ । परायणमभिप्रीतौ तत्पराश्रययोरपि । ;p{0032} पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि । ;l{0615} सरोजिन्यां पुष्करिणी हस्तिन्यां च जलाशये । रोमावल्यां शिखरिणी वृत्तभेदरसालयोः । स्त्रीरत्ने मल्लिकायां च स्यादुद्गिरणमुन्नये । वान्तान्नेऽथ रणारम्भे गोपुरे पुरनिर्गमे । घण्टापथे संसरणमसंबाधे चमूगतौ । ;l{0620} प्राण्युत्पादे मेघमणिर्मेलाम्बुमलिनाम्बुनोः । ;c{इति चतुरक्षरणान्ताः ।} ;v{पञ्चाक्षरणान्ताः} परिभाषणमालापे नियमे प्रतिभाषणे । निन्दोपलम्भवचने ग्रन्थभेदावलम्भयोः । क्रोडीकरणमश्लेषे आलिङ्गनवराहयोः । ;c{इति पञ्चाक्षरणान्ताः ।} ;c{इति राघवीयनानार्थमञ्जर्यां टवर्गान्तवर्गाः परिसमाप्ताः ।} ;k{तान्तवर्गः} ;v{एकाक्षरतान्ताः} तः पुंसि कोपे पुच्छे च संभोगे निश्चयेऽपि च । ;l{0625} धातुवादविधौ चोरे प्रकृतार्थे तु त्रिष्वयम् । करुणायां तु ता स्त्री स्याद्धातुवादे तदव्ययम् । ते क्रीडने चाभिधेये तृट् पिपासेहयोः स्त्रियाम् । स्वित्प्रश्ने च वितर्के च तुः स्याद्भेदेऽवधारणे । ;c{इत्येकाक्षरतान्ताः ।} ;p{0033} ;v{द्व्यक्षरतान्ताः} रीतिः प्रचारे स्यन्दे च प्रकारे लोहकीटके । ;l{0630} आरकूटे प्रवासे च डिम्बे गमनदुःखयोः । अतिवृष्टावनावृष्टौ शलभे मूषिके शुके । अत्यासन्ने च राजानश्चाथो जातिस्तु जन्मनि । छन्दोलंकारसामान्यधात्रीगोत्रेषु कीर्तितः । परार्ध्यजन्मनि श्रेष्ठे मालत्यां स्यादथो रतिः । ;l{0635} स्मरप्रियायामिच्छायां सुरते क्रीडरागयोः । जातः स्यादुन्नते वृद्धेऽप्युच्छ्रितोन्नद्धयोरपि । रीतिः स्वभावे स्रवणे दृति(?)प्रकृतिसौख्ययोः । धृतिर्योगे धारणे च प्रवृद्धौ प्रीतिसौख्ययोः । प्रज्ञानाध्वरधैर्येषु पुष्टे स्याच्छन्दसि स्त्रियाम् । ;l{0640} भूतिर्भस्मनि मातङ्गशृङ्गारे जन्मसंपदोः । सत्तायामपि वृत्तस्तु वर्तुलेऽतिदृढे पुमान् । स्वरूपे चरिते पद्ये जीवने वर्तनेऽपि च । स्याद्वृत्तिर्नाट्येन्द्रजाले कौशिक्यादिकृषीषु च । विचारे स्तम्भने ज्ञाने स्नेहे वर्तनजीवने । ;l{0645} लो(ला?)भे कवीनां रचनाभेदे क्लीबे ज्ञाते विचारिते । वित्तं ख्याते धने लब्धे क्लीबे ज्ञाते विचारिते । ऋतिर्गतौ जुगुप्सायां स्पर्धामङ्गलसाधके । गतिर्मातृपणायां(?)च ज्ञाने यात्राभ्युपाययोः । धूर्तः स्यात्खण्डलवणे शठधुर्धूरयोरपि । ;p{0034} ;l{0650} दन्त उन्नतपाषाणे सानौ दंष्ट्रनिकुञ्जयोः । दन्ती तु वारणे क्रोडे श्वाने व्याघ्रे मृगाधिपे । ओषधीनागहेरम्बसोमेष्वप्यथ गौरवे । प्रस्तावादौ च सेवायां भक्तिः स्याद्भागपङ्कयोः । अन्तस्तु भागेऽवसिते रचनायां च तत्परे । ;l{0655} मृतौ निषेवणे रम्ये समाप्तावग्रमध्ययोः । स्वरूपे च समीपे च पुंलिङ्गेऽपि प्रकीर्तितः । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः । लिप्तं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते । भ्रान्तिर्भ्रमणमिथ्यानवस्थितास्वथ ब्रह्मणि । ;l{0660} मन्तुर्ज्ञाने मनुष्यापराधयोः स्यात्ततोऽव्ययम् । बतामन्त्रणसंतोषखेदानुक्रोशविस्मये । हरिद्वर्णविशेषेऽश्वे दिशि तृणदिनेशयोः । तिक्तो रसे मदे गन्धे रोहिण्यां च कषायके । सेतुः स्थलविशेषे स्याज्जलबन्धेऽपि पुंस्ययम् । ;l{0665} हेतिर्ज्वालांशुखड्गेषु तुरङ्गे हेतु चास्त्रियाम् । यावत्तावत्परिच्छेदे स्यात्साकल्यनिपातयोः । केतुर्ध्वजे द्युतौ श्रेष्ठे ग्रहोत्पाताग्निलक्ष्मसु । वार्तं फल्गुन्यरोगे तु स्त्री कृष्यां द्यूतदन्तयोः । वार्ता वृत्तिजनश्रुत्योत्रिष्वप्सु च घृतामृते । ;l{0670} पत्तिः पदातौ पुंसि स्यात्सैन्यभेदे गतौ स्त्रियाम् । पङ्क्तिश्छन्दसि वीथ्यां च दशकेऽपि प्रचक्ष्यते । स्यात्प्रभावे प्रकरणे धारणे प्रियसौख्ययोः । ;p{0035} श्रुतिः श्रोत्रे श्रुते वेदे वार्तायां श्रौतकर्मणि । श्रुतं शास्त्रावधृतयोः स्मृतिर्ज्ञानपुराणयोः । ;l{0675} हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि । व्यक्तः प्राज्ञेऽपि स्पष्टार्थे प्रपञ्चे विशदे पुमान् । व्यक्तिः स्वरे च बीजे च श्रेष्ठे मूर्तौ दृढेऽपि च । यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि । पतौ पोतो यानपात्रे शिशौ चापि पुमान्भवेत् । ;l{0680} मृते प्राण्यन्तरे प्रेतः पार्थिवे तनये सुतः । भूभृद्राजनि शैले स्यादनन्ते कमठेऽपि च । ऋतुः स्त्रीकुसुमे हेमन्तादिष्वप्यथ पारदे । सूतः स्यात्त्वष्टृसारथ्योर्वन्दिसुष्ठूतयोरपि । ब्राह्मण्यां क्षत्रियाज्जाते क्षत्ता स्यात्सारथावपि । ;l{0685} क्षत्रियायां शूद्रजेऽथ शक्तिः प्रभ्वादिषु स्मृतम् । कासूसामर्थ्ययोश्चाथ मूर्तिः काठिन्यकाययोः । सातिर्दानेऽवसाने स्यादार्तिश्चापाग्रपीडयोः । धातुर्वागादिशब्दादिगैरिकादिबकादिषु । श्लेष्मादिरसरक्तादिभूवादिकनकादिषु । ;l{0690} महाभूतादि त(स?)द्भावे योनौ च स्यात्पुमानयम् । उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे । क्षितिर्भूम्यां गृहे नाशे द्वयोः स्याद्गुप्ति रक्षणे । शौर्ये दीर्णे च भूगर्ते युगपर्याप्तयोः कृतम् । फले क्रियायां विहिते हते वाच्यवदिष्यते । ;l{0695} भूतं क्ष्मादावृते युक्ते प्राण्यतीते समे त्रिषु । पुंसि देवलके प्राप्ते कल्पिते गुह्यकेऽपि च । ;p{0036} न्यायोपमानयोस्तृप्तौ महत्पृथुलपूजयोः । राज्ये चातः शुक्लवर्णे श्वेतं रजतनागयोः । द्वीपाद्रिकुष्ठकुम्भीषु पुंलिङ्गे स्याद्वराटके । ;l{0700} कपर्दिकायां स्त्रीलिङ्गे स्याज्जगद्विष्टपे पुमान् । इङ्गे वायौ ना जङ्गमे मृगषण्डेऽप्ययं त्रिषु । रक्तं नील्यादिरागे स्यादसृक्कुङ्कुमयोरपि । भृत्ये वर्णे त्रिषु सितः शुक्रे श्वेतेऽर्जुने पुमान् । बद्धेऽपि स्त्री शर्करायां कर्पूरे कथ्यते त्रिषु । ;l{0705} शुक्तस्तु परुषे चाम्ले शुक्तिः कज्जलभाजने । मुक्तासंभवपात्रे स्यात्कीर्तिर्यशसि वार्तयोः(?) प्रदेशे कर्दमेऽपि स्याच्छिती धवलमेचकौ । सत्ये साधौ विद्यामाने प्रशस्तेऽभ्यर्हिते च सत् । भवान्यां तु सती स्त्री स्यान्नक्षत्रे तु नपुंसकम् । ;l{0710} भास्वान्कान्तिमति सूर्ये वीरुत्स्त्री गुल्मवातयोः । प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । इति हेतुप्रकरणप्रकारादिसमाप्तिषु । स्वस्त्याशीःक्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति । सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः । ;l{0715} प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः । पुनः सदार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः । कुतस्तु निह्नवे प्र पञ्चम्यर्थेषु साधु तत् । अलिङ्गं प्रतिशब्दादौ नित्यं सूरिभिरीरितम् । ;c{इति द्वचक्षरतान्ताः ।} ;p{0037} ;v{त्र्यक्षरतान्ताः} अमृतं वारिसुरयोर्निर्वाणे चातिसुन्दरे । ;l{0720} अयाचिते यज्ञशेषे पुंसि धन्वन्तरेऽपि च । पीयूषे च घृते दीप्तावाचार्ये विबुधेऽपि च । हरीतक्यामामलक्यां गळूच्यामपि तत्स्त्रियाम् । ग्रथितं गुम्भिताक्रान्तसंहितेषु समीरितम् । अनन्तः शेषविष्ण्वोश्चानवधौ क्लीबमम्बरे । ;l{0725} स्त्रियां स्याच्छारिबादूर्वाविशल्यालाङ्गलीषु च । हैमवत्यां गळूच्यां च निशान्तं गृहशान्तयोः । उषःकाले नपुंसि स्याद्वनिता जनिता च ते । अबलात्यर्थरागेषु क्लीबं याचितदुर्गयोः । स्त्रैणे जलाशये चाथ गोपतिः शंकरे वृषे । ;l{0730} सूर्यमेघेन्द्रकृष्णेषु षण्डे भर्तरि पार्थिवे । आकृतिस्तु शरीरे स्याद्रूपसामान्ययोरपि । समितिः समरे साम्ये सभायामपि च स्त्रियाम् । आहतं गुणिते नाट्ये ताडिते च मृषार्थके । नववस्त्रेऽङ्गभेदे च नामके चाथ रोहितः । ;l{0735} रुधिरे शक्रधनुषि धीरे वर्णे कुचन्दने । गोशीर्षे च मदे भौमे कुङ्कुमे च ऋजौ तरौ । अस्त्रियां मीनमृगयोः प्रकृतिः पाञ्चभूतिके । प्रधाने कारणे गुह्ये जन्तौ छन्दसि मातरि । अमात्ये च स्वभावे च पूजायां परमात्मनि । ;l{0740} विभूतिः संगृहीते स्याद्भस्मनि छन्नसंपदोः । विविक्तः स्यादसंपृक्ते रहस्यूर्जितपूतयोः । अव्यक्तः शंकरे विष्णौ क्लीबे तु महदादिके । परमात्मन्यात्मनि च त्रिषु स्यादस्फुटेऽजितः । ;p{0038} अपराजितविष्ण्वीशपरमात्मसु कथ्यते । ;l{0745} मनोज्ञतथ्यसुस्पष्टप्रियवाक्येषु सूनृतः । क्लीबं तु मङ्गलेऽपि स्यादुदन्तः साधुवार्तयोः । उद्धते स्याद्विधूतं तु प्रतीतो ज्ञातहृष्टयोः । सुकेतुः सुपताकायां यक्षसेनानिवेशयोः । प्रवृत्तिस्तु प्रवाहे स्याद्व्यापारे भ्रान्तिवार्तयोः । ;l{0750} मुहूर्तमल्पकाले च घटिकाद्वितयेऽपि च । ललितं त्रिषु ना भावभेदे सुन्दरनृत्तयोः । अस्त्रियां प्रमदारामे क्रीडिते जातपल्लवे । संपातस्तु वशे योगे प्रवेशे वेदसंविदोः । आसारे विजनेऽभ्यस्ते याचनाधारणार्थयोः । ;l{0755} पुंसि स्यादुचितं न्याये सीमन्तः केशवेशने । स्मार्तकर्मणि सीमान्तः प्रमाणे ग्रामभूमिनाम् । किरातो लुब्धके देववाहिनीमत्स्यभेदयोः । सरस्वान्नदमात्रेऽब्धौ कुरुक्षेत्रकुबेरयोः । रसिके च विवस्वांस्तु देवतासूर्ययोरपि । ;l{0760} पक्षिमात्रे च गरुडे गरुत्मानथ कीर्तितः । जीमूतः पर्वते मेघे शकुन्तौ भासपक्षिणौ । मरुतः पवने देवे स्पृक्कायां तु स्त्रियामपि । स्थपतिः कारुभेदे च कञ्चुकिन्यपि वर्तते । वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः । ;l{0765} आनर्तः समरे नृत्तस्थाननीवृद्विशेषयोः । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु । शुद्धान्तः कक्ष्यभेदे च नृपस्यासर्वगोचरे । गुह्ये चान्तःपुरे दृष्टान्तः शास्त्रे च निदर्शने । ;p{0039} विस्तारवल्ल्योर्व्रततिः वसती रात्रिवेश्मनोः । ;l{0770} महती पूजने वीणाभेदे स्यान्नारदस्य तु । जगती छन्दसि भुवि पक्षतिः पक्षभेदयोः । मूले हंसमयूरादौ(देः?) सिकता वालुका अपि । आयतिस्तूत्तरे काले स्याद्दीर्घत्वप्रभुत्वयोः । बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि । ;l{0775} वासिता स्त्रीकरिण्योश्च कृतवासे नपुंसकम् । भाविते स्तम्भितेऽपि स्याच्छादिते च त्रिषूच्यते । निमित्तं कारणे चिह्ने रजतं हेमरूप्ययोः । सिते त्रिषु स्यान्नक्षत्रे हारवारणदन्तयोः । संस्कृतं लक्षणोपेते कृत्रिमे च प्रकीर्तितम् । ;l{0780} निवातस्त्वाश्रयेऽवाते शस्त्राभेद्ये च वर्म यत् । जातोन्नद्धप्रवृद्धेषु द्वौ स्यादुच्छ्रित उत्थितः । वृद्धिमत्प्रोद्यतोत्पन्नावा(०न्नेष्वा)दृतौ सादरार्चितौ । लोहितोङ्गारके रक्ते विहितं युक्तकर्मणोः । अभ्यस्तेऽप्युचितं न्याये तथा परिचितेऽपि च । ;l{0785} आवर्तः सलिलभ्रान्तौ संभ्रान्तौ तुरगागमे । प्रचेता वरुणे श्रेष्ठे धीमत्यपि च वर्तते । उद्वर्तोत्तानितेऽपि स्यात्कीलितं बन्धितेऽपुमान् । पुरस्तात्प्रथमे प्राच्यां पुरोर्थेऽग्रत इत्यपि । अभितः शीघ्रसाकल्योभयता(तो?)भिमुखेषु च । ;l{0790} समीपे च पुरस्ता(?)दावलिङ्गं स्यात्ततः पुमान् । मूर्छितस्तु मूढे स्यात्सोच्छ्रये च तदीरितम् । ;p{0040} दशान्तस्त्वतिवृद्धे च वर्त्यग्रेऽपि च पुंसि वा । ;c{इति त्र्यक्षरतान्ताः ।} ;v{चतुरक्षरतान्ताः} वेण्यङ्कुरे वंशपोतः स्यान्महाकुलसंभवे । भगदत्तबृहद्दत्तौ क्षितिपालकनामनी । ;l{0795} अवधूतोपेक्षिते च कम्पिते चाश्रमान्तरे । अपक्रान्ते भूचलितः प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये कर्तव्यज्ञान उच्यते । उन्मीलितं समुत्कीर्णे समग्रोन्मेषयोरपि । दिवाकीर्तिस्तु चण्डाले नापितोलूकयोरपि । ;l{0800} सरस्वती नदीभेदे गोवाग्देवतयोर्गिरि । स्त्री पूजायामपचितिर्द्वयोश्च स्यात्क्षयार्चयोः । नदीनगर्योर्नागानां भोगवत्यथ काञ्चने । रौप्येऽपि कलधौतं स्यादवगीतं तु गर्हिते । जन्योपश्लिष्टयोर्वाच्यलिङ्गः कुत्सितकूजिते । ;l{0805} अत्याहितं महाभीतौ कर्म जीवानपेक्षि च । अवदातः सिते पीतेऽभिजातः कुलजे बुधे । पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतःकृते । युक्ते तु संस्कृतेऽमर्षिण्यभिनीतः प्रचक्ष्यते । ;c{इति चतुक्षरतान्ताः ।} ;k{थान्तवर्गः} ;v{एकाक्षरथान्ताः} थः पुंसि भङ्गे शैलेन्दौ तरङ्गिण्यामपि स्त्रियाम् । ;l{0810} क्लीबे भयहरे शुक्ले श्यामले पृथुलेऽपि च । ;c{इत्येकाक्षरथान्ताः ।} ;v{द्व्यक्षरथान्ताः} अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । ;p{0041} मोक्षकारणयोश्चास्था स्थानालम्बनयत्नयोः । अपेक्षायां च संस्था तु स्थितौ नाशे चरेऽपि च । मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । ;l{0815} कथमादौ तथाप्यन्ते यत्ने गौरवबाढयोः । पथ्या स्त्री स्याद्धरीतक्यां पुंनपुंसकयोर्हिते । तीर्थं पात्रे दर्शने च पुण्यक्षेत्रे च पावने । योनौ जलावतारे च स्त्रीरजस्यध्वरेऽपि च । अष्टादशेऽमात्यसेनापतिपौरोहितेषु च । ;l{0820} निपानागमयोर्मूले ऋषिजुष्टजले गुरौ । वीथिः पङ्क्तावश्वगतौ नाट्यभेदे गृहाङ्कणे । मार्गे प्रस्थस्तु सानौ स्यान्मानभेदे नपुंसके । ;c{इति द्व्यक्षरथान्ताः ।} ;v{त्र्यक्षरथान्ताः} सत्पथं दिवि सन्मर्गे तारमार्गे च विश्रुतम् । समर्थस्त्रिषु शक्तिष्ठे संबन्धार्थे हितेऽपि च । ;l{0825} खण्डार्थं(?) तु समांशे स्याद्व्यवस्था कृत्यनिर्णये । ;c{इति त्र्यक्षरथान्ताः ।} ;v{चतुरक्षरथान्ताः} कर्णीरथः प्रवहणे मञ्चे राज्ञां स्वयंवरे । दशमीस्थः क्षीणरागे वृद्धे मरणसंशये । ;c{इति चतुरक्षरथान्ताः ।} ;k{दान्तवर्गः} ;v{एकाक्षरदान्ताः} दः पुंसि दातरि छेदे दा स्त्रियां क्षान्तिदानयोः । ;p{0042} शुद्धौ दूः परितापे स्त्री दुष्टे दिः क्षय उच्यते । ;l{0830} दं क्लीबे दानवैराग्यकलत्रेष्ववलोकने । भेद्यलिङ्गस्त्वयं मूढे ग्रहान्ते द्रावके शुचौ । दर्शनज्ञाननेत्रेषु दृक् स्त्री द्रष्टरि तु त्रिषु । ;c{इत्येकाक्षरदान्ताः ।} ;v{द्व्यक्षरदान्ताः} वादी मङ्गलवाद्ये संख्यायां वैतालिके ध्वनौ । नन्दी वन्दी द्वौ वृषभे वंशजे स्तुतिपाठके । ;l{0835} कन्दस्तु सूरणे सस्ये मूले जलधरेऽपि च । छन्दोऽभिप्रायवशयोर्हृदाख्याचित्तवित्तयोः । उक्तादौ वृत्तशास्त्रे स्याद्वेदे च परिकीर्तितम् । स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु । प्रतिज्ञायां च संकेते तोषणाचारयोरपि । ;l{0840} भेदो द्वैते विशेषे च उपजाते विदारणे । मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः । कृष्णवस्तुनि मद्येऽपि पादः प्रत्यन्तपर्वते । तुरीयांशे वृक्षमूले चांशौ चरणभ्रंशयोः । पूज्ये चाथ पदं शब्दे व्यवसायोपदेशयोः । ;l{0845} वाक्ये पद्ये पदन्यासे स्थाने स्याद्वाच्यलिङ्गकः । त्राणे व्यवसिते चिह्ने वस्तुन्यथ गुणाधिके । संपद्भूतौ हारभेदे वैभवे च गदोऽस्त्रियाम् । आयुधे धनदे रोगे पुंसि कृष्णानुजेऽपि च । स्वेदस्तु घर्मसलिले अब्दो मेघे च दर्पणे । ;p{0043} ;l{0850} प्रभवादौ पर्वते च शादो जम्बालशष्पयोः । सूदस्तु व्यञ्जने पुंसि हिंसासंहारयोः स्त्रियाम् । ककुच्छ्रेष्ठे वृषस्याङ्गे राजचिह्नेऽपि कीर्तितम् । स्वाद्विष्टे मधुरे हृद्ये मृदू चातीक्ष्णकोमलौ । मन्दः शनौ तामसे च कुण्ठेभस्वैरकारिणोः । ;l{0855} निर्भाग्ये चापटौ पुंसि चाल्पपूरुषमूढयोः । ;c{इति व्द्यक्षरदान्ताः ।} ;v{त्र्यक्षरदान्ताः} दायादौ बन्धुतनयौ तमोनुच्चन्द्रसूर्ययोः । वैश्वानरे च निर्वादो जनवादे च निश्चिते । वादाभावे चाप्ययं स्यादामोदो हर्षगन्धयोः । गोविन्दः स्यात्सुरगुरौ गोष्ठाध्यक्षमुकुन्दयोः । ;l{0860} गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् । शारदः सप्तपर्णे स्याच्छरत्कालोद्भवेऽपि च । लाङ्गल्यां शारदी नव्ये वाण्यां कान्तौ च शारदा । प्रसादोऽनुग्रहे कार्ये प्राणस्वास्थ्यप्रशस्तिषु । नैर्मल्यहर्षयोश्चाथ आक्रन्दो दारुणे रणे । ;l{0865} आरावे रोदने त्रातर्यङ्गदो वालिनन्दने । नपुंसि बाहुवलये नर्मदः परिहासके । नदीभेदे विषादस्तु दुःखे गरलदायके । विषादी शंकरे दुःखयुक्ते गरलभोजने । कुमुदः प्लवगाधीशे कैरवेऽपि पुमान्भवेत् । ;l{0870} विनोदः शास्त्रतात्पर्ये परिहासे च धन्वनि । निषादस्तु स्वरे व्याधे त्र्यक्षरं चापि कीर्तितम् । ;c{इति त्र्यक्षरदान्ताः ।} ;p{0044} ;v{चतुरक्षरदान्ताः} मेघनादो मेघशब्दे ओषधौ रावणात्मजे । मुचुकुन्दो नृपे वृक्षे चापवादस्तु निन्दने । आज्ञायां स्यात्परीवादस्तन्त्रीनादापवादयोः । ;l{0875} धर्मे रहस्युपनिषत्सुप्रगल्भौ विशारदौ । विनोदबिन्दुः शास्त्राणां तात्पर्यज्ञे च लुब्धके । मेळमन्दो मषिघटे मेळामन्दमपि स्मृतम् । ;c{इति चतुरक्षरदान्ताः ।} ;k{धान्तवर्गः} ;v{एकाक्षरधान्ताः} धः पुं शिलीध्रेन्द्वोर्ध्याने श्रीदे धन्वन्तरे घटे । धं वेश्मनि घने धान्ये बुधे धीस्तु धियि स्त्रियाम् । ;l{0880} धूर्ना धूपे स्त्री तु कम्पे वित्ते भारे युगाभ्रयोः । शंभोर्जटायां हेरम्बे धिङ् निर्भर्त्सननिन्दयोः । ;c{इत्येकाक्षरधान्ताः ।} ;v{द्व्यक्षरधान्ताः} सिद्धं नित्ये प्रसिद्धे च निष्पन्नापन्नदीप्तिषु । गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः । मृत्यौ च सरभेऽपि स्यात्संधिः सङ्गसुरङ्गयोः । ;l{0885} भेदे संघट्टने मोक्षे लाभे नाट्याङ्गहर्षयोः । धेनौ रन्ध्रे च सिद्धिस्तु योगभेदसुरेड्ययोः । सुधा पयसि पीयूषे मूर्वायां स्नुहिलेपयोः । गङ्गायामिष्टकायां च साधुः सज्जनयोग्ययोः । पात्रे पूज्ये पाचके चामात्ये पूजाविधावपि । ;l{0890} प्रागल्भ्ये चाव्ययं क्लीबं चारौ वार्धुषिकेऽपि च । सिन्धुर्नद्यां नदे स्त्री स्याद्देशभेदेऽम्बुधौ गजे । ;p{0045} मोक्षे समाप्तौ लाभे च पुंसि निष्पत्तियोगयोः । मधु मद्ये पुष्परसे वैशाखे माक्षिके गुडे । क्षीरे जले दैत्यभेदे मदवृक्षविशेषयोः । ;l{0895} वसन्ते जातिमधुरे जपाकोशे द्वयोरपि । विधुर्विष्णौ चन्द्रमसि कर्पूरे राक्षसेऽपि च । विधिर्विधाने नियतौ दैवे काले विधातरि । कल्पे नेमौ प्रवृद्धौ स्यात्पश्चाद्भागनितम्बयोः । वृद्धिरानन्दने वृद्धौ वर्धनेऽपि कलान्तरे । ;l{0900} वधूर्जायास्नुषास्त्रीषु प्रियङ्गौ शटिनामनि । स्पृक्कायां च नवोढायां बन्धुर्बन्धूकपुष्पके । वल्लभेष्टे भ्रातरि च पुंसि तत्परिकीर्तितः । स्निग्धस्तु त्रिषु सान्द्रे च क्लीबे मसृणतेजसोः । इद्धं स्याद्वर्धने कान्तौ मुग्धः सुन्दरमूढयोः । ;l{0905} सौम्ये नवेऽबलाभेदे चार्धं खण्डे समांशके । बुद्धस्तु सुगते वृद्धः पण्डिते च वयोधिके । स्कन्धः समुदये वृक्षे सैन्ये रूपादिपञ्चके । समीहने शीर्षभुजप्रकाण्डगमनेष्वपि । विधावृद्धिप्रकारेषु गजान्ने वर्तने विधा । ;l{0910} संधा प्रतिज्ञामर्यादासंधानेष्वपि च स्त्रियाम् । स्पृहायां प्रत्यये श्रद्धा स्यादन्धस्तिमिरान्नयोः । चक्षुर्हीनेऽप्यलिङ्गः स्यान्मिथोऽन्योन्ये रहस्यपि । वृधा निरर्थकाविध्यो (ग्रन्थि?) पर्वण्यनार्जवे । ;c{इति द्व्यक्षरधान्ताः ।} ;p{0046} ;v{त्र्यक्षरधान्ताः} विवधो विषये पुंसि पर्याहारा(रे?)ध्वभारयोः । ;l{0915} न्यग्रोधः काष्ठवेण्वोश्च व्यामे वटतरावपि । विबुधौ सुरविद्वांसावुत्सेधः काय उन्नतौ । अवधिस्त्ववसाने स्यात्सीम्नि काले बिलेऽपि च । उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे । कुडुम्बव्रतवक्रेषु व्याजे पुं प्रणिधिः पुमान् । ;l{0920} अतिनिक्षेपचरयोः प्रार्थितेऽथ रथस्थिते । वरूथो रथगुप्तौ स्यात्तिरोधत्ते(?) विवर्तने । समाधिर्नियमे स्थाने निपाते च समर्थने । प्रसिद्धः स्याद्भूषिते च ख्याते तूर्यतृतीयके । परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । ;l{0925} कबन्धोऽस्त्री जले दैत्येऽप्यपमूर्धकलेवरे । ;c{इति त्र्यक्षरधान्ताः ।} ;v{चतुरक्षरधान्ताः} अवरोधस्तिरोधाने राजदोरेषु तद्गृहे । समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः । अनुबन्धः प्रकृत्यादौ दोषोत्पादे विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । ;l{0930} अनुबन्धेऽपि हिक्कायां भ्रष्टायामपि कथ्यते । गजबन्धस्तु सुरते आलाने ग्रहणेऽपि च । ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बने । ;p{0047} अविदूरेऽप्यवष्टब्ध रुन्धे(द्धे?) क्रान्ते तिरस्कृते । ;c{इति चतुरक्षरधान्ताः ।} ;k{नान्तवर्गः} ;v{एकाक्षरनान्ताः} नः पुंसि नाभौ हेरम्बे क्लीबे नं ज्ञानवाद्ययोः । ;l{0935} सूक्ष्मपद्यापरिक्लिष्टशून्यभिन्नेषु तत्त्रिषु । धनुःशब्दे स्तुतौ स्त्री स्यान्नौः काले तरणावपि । नु पृच्छायां विकल्पे च निर्निश्चयनिषेधयोः । ;c{इत्येकाक्षरनान्ताः ।} ;v{द्व्यक्षरनान्ताः} गमने वाहने यानं भिन्नं मिश्रे पृथक्कृते । जनस्तु पामरे लोके घनं स्याल्लोहमुद्गरे । ;l{0940} कांस्ये तालादिके नृत्ते विस्तारेऽभ्रे दृढेऽधिके । सान्द्रे स्त्रियां तु मुस्तायां त्रिषु मूर्तिगुणे भरे । दानं गजमदे त्यागे पालनच्छेदबुद्धिषु । स्थानं स्थितौ च सादृश्ये संनिवेशावकाशयोः । युक्तार्थे कारणार्थे च युद्धनृत्तार्थयोरपि । ;l{0945} तनुस्तु विरले काये कृशेऽल्पे च क्वचित्त्रिषु । सूनुः सुतेने सहजे वधस्थानोपजिह्वयोः । गळशुण्ठिकभेदे च सूनः स्याद्वाच्यलिङ्गकः । पुष्पप्रसवयोः क्लीबं स्वप्नः सुप्तस्य संस्मृतौ । ननु प्रश्नानुनययोस्तोके संबोधनेऽपि च । ;l{0950} मानं कोपेऽभिभाने च विमाने मददण्डयोः । शून्ये प्रमाणे प्रस्थादौ पुंसि चित्तोन्नतावपि । ;p{0048} स्नानीयेऽभिषवे स्नानं योनिः स्यात्तान्त्रिके पणे । स्त्रीणां गुह्ये कारणे च जन्मस्थानेऽपि कीर्तितः । नाम क्लीबे नामधेयेऽव्ययं स्यादवधारणे । ;l{0955} स्यात्प्रकाशे प्रसिद्धे च क्रोधोपगमकुत्सने । भानुर्दिवाकरे रश्म्यां ग्रावाणेऽद्रौ पुमान्भवेत् । पत्री बाणे पक्षिभेदे वृक्षादौ वाहयुक्तके । शिखी वह्नौ मयूरे च ओषधौ पर्वते द्विजे । कुक्कुटध्वजयोश्चाथ सादी स्यात्सारथावपि । ;l{0960} गजारोहे हयारोहे वाजी तुरगबाणयोः । विहङ्गेऽथ धृतौ बुद्धिस्वभावब्रह्मवर्ष्मसु । यत्ने जीवेन्द्रिये वायौ चात्मा स्यादथ भूपतौ । राजा चन्द्रे क्षत्रियेन्द्रे क्षयरोगे पतौ द्रुमे । इनः सूर्ये प्रभौ पुंसि ब्रह्मा वेदे द्विजेऽपि च । ;l{0965} तत्त्वे तपसि योगेन्दौ सूर्ये ब्रह्मणि वेधसि । वर्त्म नेत्रच्छदे मार्गे मीनो राशौ झषेऽपि च । पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेऽप्यणौ गुरौ । पर्वस्तु तिथिभेदे स्यादुत्सवे लक्षणान्तरे । दर्शप्रतिप्रदोः संधौ विषुवत्प्रभृतावपि । ;l{0970} ग्रन्थिप्रस्तावयोश्चापि वर्ष्म देहप्रमाणयोः । धाम त्विषि प्रभावे च गृहे देहे च जन्मनि । लक्ष्म चिह्ने प्रधाने च रत्नं श्रेष्ठे मणावपि । स्वजाते पद्मरागादौ वनं काननवारिणौ । ;p{0049} हीनन्यूनावूनगर्ह्यौ ज्ञानी सर्वज्ञसौम्ययोः । ;l{0975} दाम रज्जौ राक्षसे च कर्म सत्कृत्यपापयोः । जीवस्थानेऽथावसाने संयोगप्रतिलोमयोः । स्थाने गतौ चानुशब्दः पश्चात्सादृश्ययोरपि । पुनरप्रथमे भेदे नूनं तर्केऽर्थनिश्चये । अनः प्राणयुतेऽपि स्यान्नानानेकोभयार्थयोः । ;c{इति द्व्यक्षरनान्ताः ।} ;v{त्र्यक्षरनान्ताः} ;l{0980} भुवनं विष्टपे लोके सलिलेऽपि वियत्यपि । शयनं सुरते निद्राशय्ययोरपि बोधितम् । मदनः सिक्थके मारे दुर्धूरे शक्रपादपे । वसन्तशत्रुमूल्येषु कठिनो दुर्जने दृढे । जीवनं जीविते तोये संदानं दामदानयोः । लोचनं स्यान्मुकुलिते सुखिते शूषणे दृशि । {0985} यत्ने निरूपणेऽपि स्यान्मननं त्ववबोधने । कर्तनं छेदने प्राह नारीणां तूलसेवने । शकुनिः पक्षिभेदे च नरभेदेऽपि चेष्यते । अवनं खण्डने त्राणे गतौ तृप्तौ च याचने । ;l{0990} श्रवणे च क्रियायां च अवाप्तिप्रीतिदीप्तिषु । तलिनं विरले स्तोके स्वच्छे तुच्छेऽपि वाच्यवत् । तलुनः पावने यूनि स्त्रियां तु तलुनीं विदुः । अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुते वृक्षे धवले नयनामये । ;l{0995} तृणभेदे गवि स्त्री स्यान्नयनं लोचने गतौ । ;p{0050} उमायां करतोये च कुट्टनायामपि स्त्रियाम् । वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदेऽवसाने च त्रिषु स्यात्तुच्छमन्दयोः । प्रधाने पटले चाथ मर्दनं तु विलोलने । ;l{1000} मालिनी तु नदीभेदे छन्दोभेदेऽपि च स्त्रियाम् । मालाकारस्त्रियां चापोनगर्यां गौरिगङ्गयोः । प्रधानं स्यान्महापात्रे प्रकृते परमात्मनि । सदोत्तमे प्रतिज्ञायामेकत्वे धारणे रणे । मुख्ये मतौ मन्त्रिणि स्याद्गन्धनं सूचने द्युतौ । ;l{1005} उत्साहेऽपि च हिंसायां मन्थनं लोडनेऽपि च । शासनं राजदत्तोर्व्यां लेखाज्ञापत्रनीतिषु । शिक्षके रक्षके मर्यादाबुद्ध्योश्चान्यलिङ्गकः । दर्शनं नयने स्वप्नबुद्धिधर्मोपलब्धिषु । दर्शवर्मज्ञानशास्त्रदर्पणेष्वक्षिसंविदि । ;l{1010} समये चाथ पिशुनं कुङ्कुमे सूचके खले । घ्राणे च स्यात्कटीवस्त्रे स्पृक्कायां पिशुना मता । संतानः संततौ गोत्रे स्यादपत्ये सुरद्रुमे । चालनी तु शतच्छिद्रे पुंश्चल्यामपि च स्त्रियाम् । नलिनी स्यात्सरोजिन्यां व्योम्नि सिन्धौ सरोवरे । ;l{1015} नालिकायामपि स्त्री स्यान्नलिनं कमले जले । पद्मिनी स्त्रीविशेषे च सरस्यामम्बुजे स्त्रियाम् । निधनं सामभक्तौ च बहिर्मुष्टौ कुलक्षये । जघनं स्यात्कटेः पूर्वे श्रोणिभागापराधयोः । विमानोऽस्त्री देवयाने सप्तभूमिकसद्मनि । ;l{1020} प्रार्थना याचने नाम्नि चाथ मत्ताविदग्धयोः । वाणिनी दूतिकायां च नर्तक्यां माननोऽस्त्रियाम् । ;p{0051} स्तम्भने मानभेदे संमाने मत्तनिकृन्तयोः । सीमन्तिन्यां मदस्यन्द्यां मानना मानिनी समा । वन्दिनी क्षेपणे नग्ने क्षुद्रे प्रेते दिगन्तरे । ;l{1025} भूतात्मा धातरि तनौ शिखरी तरुशैलयोः । अपामार्गे हायनस्तु व्रीहिभेदेऽर्चिवर्षयोः । वृजिनं कल्मषे क्लीबं क्लेशे ना कुटिले त्रिषु । वाहिनी तु स्त्रियां नद्यां सेनायां कीर्तियुक्तके । रजनी नीलिकालाक्षाहरिद्रायामिनीषु च । ;l{1030} ह्वादिनी वज्रतटितोः कामिनी योषिति स्त्रियाम् । श्यामापारावतीचक्रवाकीवन्दासु चेष्यते । केतनं तु गृहे कृत्ये ध्वजे चोपनिमन्त्रणे । व्यञ्जनं लाञ्छने श्मश्रुनिष्ठानावयवेष्वपि । कादिक्षान्तेऽथ राजानां द्यूतलोकापवादयोः । ;l{1035} कौलीनं स्यात्कुलीनत्वगुह्यजन्यकुकर्मसु । कौलेयकविहगाहिपशूनां संगरेऽपि च । स्यादुद्यानं निःसरणे वनभेदे प्रयोजने । देवनं व्यवहारे च द्युतौ मोदे मदेऽपि च । स्तुतौ च विजिगीषायां क्रीडास्वप्नगतिष्वपि । ;l{1040} उत्थानं पौरुषै तन्त्रे संनिविष्टोद्गमे मुदि । मलत्यागे समाप्तौ च व्युत्थानं वैरपूजयोः । समाधौ च निवृत्तौ च प्रतिरोधेऽथ मारणे । साधनं मृतसंस्कारे गतौ द्रव्येऽर्थदापने । निर्वर्तनोपकरणानुव्रज्यासु च मेहने । ;l{1045} चिह्ने सैन्ये च करणे व्यसनं किल्बिषेऽशुभे । निष्परोद्यमने सक्तौ दोषे भ्रंशे विपद्यपि । ;p{0052} कामजे कोपजे चाथ मैथुनं संगतौ रतौ । मिथुनं राशिभेदे स्याद्युगं स्त्रीपुंसयोगयोः । कौपीनं चीरखण्डे स्याद्गुह्ये कार्ये तदिष्यते । ;l{1050} प्रसूनं पुष्पफलयोः प्रज्ञानं बुद्धिचिह्नयोः । क्रन्दने रोदनाह्वाने संस्थानं तु चतुष्पथे । संनिवेशे च मृत्यौ स्यादाकृतौ केतनेऽपि च । समानो वायुभेदे च समे चैके च सज्जने । तरस्वी वेगिनि शूरे वृद्धौ छेदे च वर्धनः । ;l{1055} आसनं तु गजस्कन्धे पीठेऽपि च नपुंसके । ;c{इति त्र्यक्षरनान्ताः ।} ;v{चतुरक्षरनान्ताः} वैरोचनस्तु सुगते बलिकर्णयमेषु च । शनौ विरोचनस्तु स्यात्प्रह्लादतनयार्कयोः । अग्नौ चन्द्रे च कान्तौ स्यादथ नेत्रे विलोचनः । अन्धके विषये क्लीबे अभिज्ञानं स्मृतावपि । ;l{1060} गर्वे ज्ञाने च हिंसायां प्रणवे च समीरितम् । उपासनं शराभ्यासे शुश्रूषायां च हिंसने । अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतम् । निबन्धनं तु संसर्गे हेतौ संयमनेऽपि च । कौतुके चानुरागे च लक्ष्येऽभिज्ञान उच्यते । ;l{1065} उपधानं विशेषे स्याद्गड्डुके प्रणयेऽपि च । रसायनं विहङ्गे स्याद्व्याधीनां च कृतौषधे । प्रतियत्नस्तु संस्कारे चोपग्रहणलिप्सयोः । शक्रघातुकमत्तेभनीरदेषु घनाघनः । निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । ;p{0053} ;l{1070} संपिधानं तु वस्त्रे चाच्छादनेऽपि प्रकीर्तितम् । आराधनं साधने स्यादवाप्तौ तोषणेऽपि च । अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । अभिपन्नोऽपराद्धेऽभिग्रस्ते व्यापद्गतावपि । विश्वकर्मा दिनकरे सुरशिल्पिनि पुंस्ययम् । ;l{1075} महासेनस्तु सेनान्यां षण्मुखे वासवेऽपि च । दुःशासनस्तु दुर्दण्डे सुयोधनसुते पुमान् । विकर्तनश्चोद्वलने मार्ताण्डे नृपतावपि । संकेतनं लालने च संज्ञाध्वजगृहेषु च । आतञ्चनं प्रतीवापे जवनाप्यायनार्थयोः । ;l{1080} आलोचनं दर्शने स्याद्यतिबुद्ध्या निरीक्षणे । विष्वक्सेनोऽच्युतः पुंसि घृष्टिगन्धफलिन्ययोः । ;c{इति चतुरक्षरनान्ताः ।} ;v{पञ्चाक्षरनान्ताः} इन्द्रे तु गोत्रोद्दलनः कुलघ्ने गिरिदारणे । लाक्षायां च हरिद्रायां फलिन्यां वरवर्णिनी । स्त्रीरत्ने रोचनेऽपि स्यादुपस्पर्शनमुच्यते । ;l{1085} स्पर्शे स्नानाचमनयोश्छादने त्वपवारणम् । ;c{इति राघवीयनानार्थमञ्जर्यां तवर्गान्तवर्गाः परिसमाप्ताः ।} ;k{पान्तवर्गः} ;v{एकाक्षरपान्ताः} पः पुमान्पचने शैले प्रकाशे कौस्तुभे क्षणे । शुभलग्ने च पं क्लीबे हेम्नि पाः पातृपानयोः । स्यात्स्त्रियामम्बुधारायां सुधायां समितावपि । पुस्त्रिष्वार्ते प्रपन्ने च पूः स्त्री पुरशरीरयोः । ;p{0054} ;l{1090} पूरणे चाथ पुंशब्दः पुरुषे परमात्मनि । ;c{इत्येकाक्षरपान्ताः ।} ;v{द्व्यक्षरपान्ताः} रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ सितादिषु । रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ सितादिषु । सौन्दर्ये च स्वभावे च मृगे स्थाने च नाविके । आकारवपुषोश्चाथ गोपो गोष्ठपतौ शिवे । ग्रामौघकृतकीटेषु(?) वल्लभाब्धीन्दुराजसु । ;l{1095} गोपी गोपालमहिलाशारिबारक्षिकासु च । कल्पः स्यात्प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ । क्षेपो विलम्बे निन्दायां बाष्पो नेत्रजलोष्मणोः । नीपः कदम्बे निम्बायां पुलके च हरिप्रिये । अन्ववायप्रभेदे स्यादपिः प्रश्नविरोधयोः । ;l{1100} संभावनायां गर्हायां समुच्चयवितर्कयोः । तल्पं शव्याट्टदारेषु पापः कुत्सेषदर्थयोः । ;c{इति द्व्यक्षरपान्ताः ।} ;v{त्र्यक्षरपान्ताः} कलापो भूषणे बर्हे तूणीरे संहतावपि । आच्छादनेऽन्ने कशिपुरावापः परिचिन्तने । वृक्षस्कन्धोर्ध्वशाखायां तृणगुच्छे द्रुविस्तृतौ । ;l{1105} पल्लवे विटमुख्ये च विटपः पुंनपुंसकम् । सुकृपा मञ्जुबुधयोर्यद्यपीत्यवधारणे । कच्छपी कूर्मयोषायां वीणाभेदेऽपि च स्त्रियाम् । ;c{इति त्र्यक्षरपान्ताः ।} ;v{चतुरक्षरपान्ताः} अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च । ;p{0055} वित्ताधिपः कुबेरे स्यात्प्रभौ धनिकयक्षयोः । ;l{1110} परिवापः परिच्छेदे पर्याप्तौ सलिलस्थितौ । वृषाकपिः शिवे विष्णौ जिष्णावञ्जलिनी पुमान् । प्राप्तरूपाभिरूपौ द्वौ विद्वांसे सुन्दरेऽपि च । वंशदीपो यष्टिदीपे परिधापी तु वत्सरे । ;c{इति चतुरक्षरपान्ताः } ;k{फान्तवर्गः} ;v{एकाक्षरफान्ताः} स्फो जञ्झानिल आस्फोटे फूत्कारे वारणेऽपि च । ;l{1115} फा स्त्रियां निष्ठुरोक्तौ च कलाकेलीकुटीषु च । अथ स्फारे परोक्षे च फः शब्दो वाच्यलिङ्गकः । ;c{इत्येकाक्षरफान्ताः ।} ;v{द्व्यक्षरफान्ताः} शिफा तरुजटायां च शाखामांसीनदीषु च । शफं तरूणां मूले च गवादीनां खुरेऽपि च । रेफः शब्दे रवर्णे स्यादधमे क्षयकामयोः । ;l{1120} कफः श्लेष्मे कफी तु स्यात्श्लेष्मलेऽपि पुमान्भवेत् । ;c{इति व्द्यक्षरफान्ताः । त्र्यक्षराद्यप्रसिद्धम् ।} ;k{बान्तवर्गः} ;v{एकाक्षरबान्ताः} बः कुम्भे वरुणे बिन्दौ विकले च गुरौ मदे । विभूतिकारे कलहे पक्षे गर्भे च पर्वणि । बा स्त्रियां काहलीवल्लीशृङ्खलास्वमले त्रिषु । ;c{इत्येकाक्षरबान्ताः ।} ;v{द्व्यक्षरबान्ताः} निम्बस्तु पिचुमन्दे च पारिभद्रतरावपि । ;l{1125} बिम्बोऽस्त्री मण्डले सोमसूर्ययोर्मुखलक्ष्मणोः । प्रतिबिम्बे प्रतिकृतौ स्त्रियां स्याद्बिम्बिकाफले । शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पवौ । शुभान्विते शुभंयौ च कम्बुर्वलयशङ्खयोः । ;p{0056} क्लीबं नपुंसके षण्डे वाच्यलिङ्गमविक्रमे । ;c{इति व्द्यक्षरबान्ताः ।} ;v{त्र्यक्षरबान्ताः} ;l{1130} कादम्बः कलहंसेक्ष्वोर्द्विजिह्वे मार्गणेऽपि च । कदम्बः पुंसि नीपे स्यात्तिनिशे वरुणद्रुमे । धूल्यां समूहे गन्धे च विडम्बस्त्यागनिन्दयोः । नितम्बः पश्चिमश्रोणीभागेऽद्रिकटकेऽपि च । ;c{इति त्र्यक्षरबान्ताः । चतुरक्षरमप्रसिद्धम् ।} ;k{भान्तवर्गः} ;v{एकाक्षरभान्ताः} भः शंभौ भ्रमरे भावे शुक्रेंऽशे जलदे पुमान् । ;l{1135} भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ । भं क्लीबे गगने राशौ नक्षत्रे च सुदर्शने । भीः स्त्री भीत्यां खगे पुंसि स्थानभूम्योस्तु भूः स्त्रियाम् । ;c{इत्येकाक्षरभान्ताः ।} ;v{द्व्यक्षरभान्ताः} जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च । कुम्भः स्यात्कुम्भकर्णस्य पुत्रे वेश्यापतौ घटे । ;l{1140} गुग्गुलौ गजमूर्धांशे राशौ त्रिवृतमानयोः । कुम्भीभपाटलावारिपर्णीपिठरकट्फले । शिशुबालिशयोर्डिम्भः स्तम्भस्तु स्थूणजाड्ययोः । निश्चेष्टालानकाष्ठेषु शंभुर्ब्रह्मेशविष्णुषु । गर्भोऽपवरकेऽन्तःस्थे सुते नग्ने च कन्दरे । ;l{1145} कुक्षौ कुक्षिस्थजन्तौ च भ्रूणे पनसकण्टके । सुम्भो दैत्ये बालके च नाभिः प्राण्यङ्गजे पुमान् । क्षत्रिये मध्यकोष्ठे च शुक्रास्तचक्रवर्तिनोः । क्षेत्रे प्रधाने चक्रस्य मध्ये कस्तूरिकामदे । सभा संसदि सभ्येन्दीवरसामाजिकेष्वपि । ;l{1150} द्यूते दुरोवरे कान्तियुक्ते त्रिष्वपि विश्रुतम् । ;p{0057} कदल्यप्सरसो रम्भा शोभा स्त्री कान्तिरागयोः । ;c{इति व्द्यक्षरभान्ताः ।} ;v{त्र्यक्षरभान्ताः} कौस्तुभः स्याद्देवमणौ कण्ठावर्तेऽपि वाजिनाम् । आलम्भमवसाने च कलभः करिपोतके । अङ्गलेपनवस्तूनां विशेषेऽपि पुमान्भवेत् । ;l{1155} सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोपले कामधेनौ सल्लकीमातृभेदयोः । सुगन्धे च मनोज्ञे च विद्वांसे घ्राणतर्पणे । विष्कम्भो योगभेदे स्यात्संरम्भः संभ्रमे क्रुधि । ककुभस्त्विन्द्रवृक्षे स्याद्दिक्षु पक्षिण्यपि द्वयोः । ;l{1160} आरम्भस्तु त्वरायां च दर्पे चोद्यमने वधे । शरभः शलभे चाष्टपादे वनमृगान्तरे । वल्लभो दयितेऽध्यक्षे पतौ सर्वकलावति । अतिप्रीतेऽतिसौन्दर्ये कुलीनेऽश्वे मनोहरे । प्रधानेऽल्पे च वीरेऽथ प्रणये चापि हिंसने । ;l{1165} विस्रम्भः केकि(लि?)कलहे विश्वासे च प्रकीर्तितः । दुन्दुभिर्दैत्यभेदे च वाद्ये वर्षे त्रिकद्वये । कुसुम्भं सोमनि क्लीबे स्यान्महारजने घटे । संनिभं तु समीपे च पुंसि वा साम्यवस्तुनि । ;c{इति त्र्यक्षरभान्ताः ।} ;v{चतुरक्षरभान्ताः} अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि । ;c{इति चतुरक्षरभान्ताः ।} ;p{0058} ;k{मान्तवर्गः} ;v{एकाक्षरमान्ताः} ;l{1170} मः शंभौ धातरीन्द्रे च चन्द्रे मासे च पुंस्ययम् । मा स्त्री माने मृतौ वेलामेघापद्मासु च स्त्रियाम् । अव्ययं प्रतिषेधे च जने तु स्यान्नपुंसकम् । मुः पुंसि बन्धनेऽपि स्यात्पिङ्गलाभिधवर्णयोः । ;c{इत्येकाक्षरमान्ताः ।} ;v{द्व्यक्षरमान्ताः} दमस्तु दमथे दण्डे कर्दमे दमनेऽपि च । ;l{1175} क्रमः शक्तौ परीपाट्यां रीत्यां चलनकम्पयोः । ग्रन्थे च पादक्षेपे च पर्याये च पराक्रमे । क्षेमं स्यान्मङ्गले लब्धे क्षेमः कुशलचोरयोः । क्षेमा द(ध)नहरीगौर्योः क्षमः पुंसि क्षमान्विते । क्षमा धरित्रीक्षान्त्योः स्त्री युक्ते शक्ते हिते सहे । ;l{1180} युक्तादौ वाच्यलिङ्गः स्यात्कामः काम्ये मनोभवे । इच्छायां रेतसि क्लीबे निकामे व्यसनेऽव्ययम् । रागाभ्यनुज्ञयोश्चापि त्रिषु श्यामस्तु मेचके । हरित्प्रयागान्यग्रोधघटवृद्धेषु दारके । मारे शुके पिके कृष्णे मरीचे लवणे नपुम् । ;l{1185} अप्रसूताङ्गनायां स्त्री सोमवल्ल्यां महौषधौ । कृष्णाप्रियङ्ग्वोर्गुन्द्रायां निशाशारिबयोरपि । नील्यां शोभात्रिवृतयोस्तृणभेदेऽपि कथ्यते । भामः क्रोधे रवौ दीप्तौ नरकग्रहभेदयोः । धर्मः पुण्ये यमे न्याये स्वभावाचारयोः कृतौ । ;p{0059} ;l{1190} उपमायामहिंसायां भावे चापे च यज्वनि । स्वरेषूपनिषद्राज्ञोर्वामं सव्येऽतिसुन्दरे । प्रतीपे द्रविणे पुंसि वामस्थे रम्यचक्रयोः । गर्हिते योषिति हरे वामी तु बडबासृजोः । रासभीकरभीभृङ्गेष्वथ सोमो धनाधिपे । ;l{1195} दिव्यौषधौ श्यामलताचन्द्रयोर्वासरे जले । वसुभेदे च कर्पूरे समे स्त्री योषितीति च (?) । स्यात्पद्मा लाञ्छनेऽभिख्याविध्योर्लोकेश्वरार्कयोः । धनदे च सरस्वत्यां तारालक्ष्म्योश्च वाच्यवत् । पद्मं स्यात्पद्मकव्यूहे निधौ संख्यान्तरेऽम्बुजे । ;l{1200} ऊर्मिस्तरङ्गे पीडायां वेगे भङ्गप्रकाशयोः । उत्कण्ठवस्त्रसंकोचरेखेषु परिचक्ष्यते । लक्ष्मीः संपत्कान्तिरमारूपभेदप्रियङ्गुषु । रामो मनोज्ञे शरभे जामदग्नौ (ग्न्ये?) बले सिते । त्रिषु नीले राघवे च परशौ रमणेऽपि च । ;l{1205} क्लीबे तु वास्तौ कुष्ठे स्त्री स्याद्रमायां च योषिति । शुष्मा तेजोर्कयोः पुंसि शुष्मं क्षीरे नभस्यपि । पद्मके बिन्दुजाले च पद्मा भार्ङ्गीश्रियोरपि । भ्रमोऽम्बुनिर्गभे भ्रान्तौ कान्ताख्ये शिल्पयन्त्रके । भीमो भये भीमसेने सूक्ष्ममध्यात्मदभ्रयोः । ;l{1210} श्रमोऽभ्यास उपाये च सूर्मिः स्यात्सालभञ्जिके । यमः कृतान्ते यमने युग्मजाते हिते त्रिषु । आनृशंस्यक्षमासत्याहिंसार्जवदमेषु च । ज्ञानप्रसादमाधुर्यमार्दवे पुंनपुसकम् । ;p{0060} आमोऽपक्वे रोगभेदे समस्तक्राटकार्धयोः(?) । ;l{1215} यामो दिनस्याष्टमांशे ध्वाङ्क्षे संयमनेऽपि च । घर्मः स्यादातपे ग्रीष्मे प्रवर्ग्ये देवतान्तरे । किरणे प्रग्रहे रश्मिर्ग्रामः शब्दादिवृन्दयोः । षड्जादौ स्यात्संवसथे चाथ सेनामुखे रुजि । स्तम्बेऽपि गहने गुल्म ऊष्म स्वेदाम्भसोरपि । ;l{1220} धाम कान्त्यामथालस्ये जामी स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे रसनायां तु तत्स्रियाम् । न पुंसि कपटे वक्रे सिंहः श्रेष्ठमृगेन्द्रयोः । अमा सह समीपे च सामि त्वर्धे जुगुप्सने । नाम प्रकाश्यसंभाव्यक्रोधोपगमकुत्सने । ;c{इति व्द्यक्षरमान्ताः ।} ;v{त्र्यक्षरमान्ताः} ;l{1225} ललाम च ललामं च भूषाप्राधान्यवाजिषु । चिह्नप्रभावपुण्ड्रेषु पुच्छे कान्तौ त्रिषु ध्वजे । शृङ्गे च पुरुषश्रेष्ठे मध्यमस्तु त्रिलिङ्गके । मध्यदेशे स्वरे रात्रौ छन्दोभेदेऽन्तरे नले । अङ्गुलौ कर्णिकायां च तथा दृष्टरजःस्त्रियाम् । ;l{1230} सत्तमश्चान्यवत्पूज्ये श्रेष्ठसाधीयसोरपि । नियमो यन्त्रणायां च प्रतिज्ञायां च संयमे । शौचाध्वरतपःसत्यस्वाध्यायेषु व्रतेऽपि च । उपस्थनिग्रहे स्नाने पुंसि मौनोपवासयोः । कुट्टिमं बद्धभूमौ स्याद्विभ्रमो भ्रान्तिशोभयोः । ;p{0061} ;l{1235} संशये भयसौन्दर्यविलासेषु प्रकीर्तितः । निगमोऽस्त्री पुरे वेदे वाणिज्ये च वणिग्धने । नैगमो नागरे वैश्ये पुंसि स्याच्छ्रौतकर्मणि । परमः स्यात्प्रधानाद्योरोंकारेऽपि पुरातने । अनुज्ञाने च कुमुमं नेत्ररोगे फले सुमे । ;l{1240} स्त्रीणां रजस्यथो तल्पे ता(च)न्द्रभासे वितानके । कुट्टिमे तलिम प्रोक्तं सुषमा परमद्युतौ । सुषीमः शिशिरे चारौ सुषिरे पन्नगान्तरे । सुषमं चारुसमयोरजिह्मः सत्कृतावृजौ । व्यायामो मानभेदे स्याद्दीर्घव्यापारयोः कृतौ । ;l{1245} आगमः शास्त्रभेदे स्यात्कल्पागमनयोरपि । अधमः कुत्सिते न्यूने अधःस्थध्यानयोरपि । विक्रमः स्याद्वर्षभेदे चाक्रान्तौ च पराक्रमे । पूर्वे तिथौ च प्रथमः सुकर्म पुण्ययोगयोः । ;c{इति त्र्यक्षरमान्ताः ।} ;v{चतुरक्षरमान्ताः} परिणामस्तु संतोषे वायिके नमनेऽपि च । ;l{1250} सार्वभौमो दिग्गजे च चक्रवर्तिनिशीशयोः । प्लवंगमः कपौ भेके शौर्योद्योगौ पराक्रमौ । उपक्रमश्चिकित्सायां प्रारम्भे विक्रमेऽपि च । उपायपूर्वोपधासु वत्सरेऽपि इहैषमः । जीर्णे च परिभुक्ते च यातयामं प्रकीर्तितम् । ;l{1255} अथ प्रियङ्गुश्यामा स्यात्स्त्रियामसुरयोषिति । ;c{इति चतुरक्षरमान्ताः ।} ;c{इति राघवीयनानार्थमञ्जर्यां पवर्गान्तवर्गाः परिसमाप्ताः ।} ;p{0062} ;k{यान्तवर्गः} ;v{एकाक्षरयान्ताः} यस्त्यागे निलये वायौ यामे दातरि यातरि । या स्त्रियां यानमञ्जर्योः शोभालक्ष्म्योश्च निर्मितौ । त्रिषु स्यात्सर्वनामाख्ये व्यये हेतावथो स्त्रियाम् । ख्या ख्यातौ च प्रकथने ज्या मौर्वीमातृभूमिषु । ;l{1260} द्यौर्ना दिव्यह्नि वह्नौ च स्वर्व्योम्नोः पुंसि च स्त्रियाम् । ;c{इत्येकाक्षरयान्ताः ।} ;v{द्व्यक्षरयान्ताः} संध्या तु कालभेदे स्याव्द्यवहारात्मनोरपि । काव्यासुरस्त्रियां स्त्री स्यात्पुंसि रामायणादिषु । स्मयो बले प्रवत्से च दर्पशौण्डीर्ययोरपि । मृत्युः किंपाकमरणलक्षणेषु यमेऽपि च । ;l{1265} नयो नीत्यां षट्पवर्णे(?) वेध्यं लक्ष्येऽपि कीर्तितम् । चित्यं चैत्यं चिताकम्ब्वोरुद्देशे द्रौ सुरालये । संख्या युद्धे हस्तिबिन्द्वोर्निधिव्यूहान्तरादिषु । गणनायां वयो यूनि कथ्योद्गमकथार्हयोः । कक्ष्या वैकक्ष्यके काञ्च्यां रज्जौ मध्येभबन्धने । ;l{1270} हर्म्यादेश्च प्रकोष्ठे च स्त्रियां बृहतिकच्छयोः । वरत्रायां शयस्तु स्याच्छयालौ सुखहस्तयोः । भुजंगमेऽपि शय्यायां दायो वित्ते च यौतके । भाषणे सोल्लुण्ठने च विभक्तव्यपितुर्धने । जनितव्ये रणे क्लीबेऽपवादजनजल्पयोः । ;l{1275} अस्त्री वरवधूज्ञातिप्रियतुल्यहितेषु च । जन्यस्त्रिषु जने साधौ जनितोत्पादनीययोः । जन्या तु मातृसख्यां च मदे हट्टे जनेऽपि च । ;p{0063} लोके जन्तावथो वीर्यं प्रभावे शुक्लतेजसोः । सामर्थ्येऽपि च गुह्यं तु योनौ रहसिदम्भयोः । ;l{1280} कूर्मे शैलान्तरारोग्यसोढव्येषु नपुंसकम् । पुंसि स्यादङ्गभेदे च कुमार्गेऽस्वैरिपक्षयोः । स्त्रियां तु शाखानगरे छेकरूषितयोरपि । सत्यं तु शपथे तथ्ये साधुसप्तमलोकयोः । चोद्यं तु चोदनार्हे स्याद्द्भुतेऽपि व तत्त्रिषु । ;l{1285} पद्यः शूद्रे पुंनपुंसि सृतौ श्लोकेऽपि गद्यते । भव्यं सत्ये शुभेऽरोगे कर्मरङ्गतरौ स्त्रियाम् । शुद्धे करिकणायां च भेद्यवद्योग्यभाविनोः । छाया स्त्री सूर्यभार्यायां प्रतिबिम्बे अनातपे । पालनोत्कोचयोः कान्तिसच्छोभाकाव्यपङ्क्तिषु । ;l{1290} मध्यस्तु मध्यभागेऽल्पेऽवलग्नोपरिदेशयोः । न्याय्येऽपि प्रायस्तुल्ये च बाहौ मृत्यौ क्षये मृते । वयस्यनशने भूम्नि पण्यं विक्रयवस्तुनि । अट्टे च व्यभिचारे च पुण्यं धर्ममनोज्ञयोः । कृत्या क्रियादेवतयोः कुटिले कीर्त्यते त्रिषु । ;l{1295} सामन्ते परसेनायाः पतौ चापि पुमानयम् । शल्यं शङ्कौ शरे वंशे योग्याभ्यासार्कयोरपि । अयि प्रश्नानुनययोश्चैत्यमायतने पुमान् । उद्यानपादपे बिम्बे बुघ्न्ये चार्यस्तु बाहुजे । मुख्यं भूपालान्त्यमण्योरयः पुंसि गतावपि । ;l{1300} शुभावहे चाभ्युदये तार्क्ष्यश्च गरुडाश्वयोः । ;p{0064} रथेऽनूरावश्वकर्णे पुंसि स्यान्न रसाञ्जने । क्षयो रोगे गतौ हिंसागृहहानिषु कथ्यते । तिष्यः पुष्ये कलियुगे दीप्त्यामलकयोः स्त्रियाम् । पूज्यस्तु श्वशुरे मान्ये मन्युर्दैन्ये क्रतौ क्रुघि । ;l{1305} द्रव्यं भव्ये त्रिषु द्युम्ने क्लीबे जतुनि भेषजे । गुणाश्रयेऽपि धिष्ण्यं तु शक्तौ भे निलयेऽनले । यज्ञे होत्रादिपुरतः स्थिते स्यात्पुंनपुंसकम् । क्रिया कर्मणि चेष्टायां चिकित्सायां च निष्कृतौ । आरम्भोपायशिक्षासु पूजनेऽपि च पुंसि वा । ;l{1310} संप्रधारणसंस्काररचनासु स्त्रियामपि । धात्वर्थाख्यातयोर्भाग्यं शुभे चाशुभकर्मणोः । कल्यो निरामये सज्ये दक्षे साधौ कलासु च । प्रभातेऽपि नपुंसि स्यादर्थ्यस्तु विबुधेऽपि च । आत्मवाननपेतार्थशिलाजतुषु पुंस्ययम् । ;l{1315} रूप्यः प्रशस्ते रूपेऽपि रजते तन्नपुंसकम् । सौम्यं तु सुन्दरे सोमदैवते पुंसि वा बुधे । दस्युः स्यात्तस्करे पुंसि द्वेषणेऽपि प्रकीर्तितम् । ;c{इति द्व्यक्षरयान्ताः ।} कुलायः परगेहे स्याल्लुलायो महिषेऽपि च । कौर्णेयो राक्षसे वायावीशानानलयोरपि । ;l{1320} तपःस्थिते फाल्गुनिके पुंस्येवाप्युच्छ्रयो नगे । उच्छ्रायेऽपि जघन्यस्तु सुरभे नीचकर्मणि । ;p{0065} अधमेऽन्त्ये च लिङ्गे च पुंनपुंसकयोरपि । कषायो मधुरे स्निग्धे तिक्तेऽपि सुरभिण्यपि । अङ्गरागे च निर्यासे लोहिते च विलेपने । ;l{1325} रञ्जकाश्मकशक्वाथविप्लवेषु च रूषिते । आश्चर्यहाहागन्धर्वनिगर्वेष्वपि विस्मयः । अनयो व्यसने दैवे चाशुभे चापदि स्मृतः । अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डविनाशयोः । अभिख्या कीर्तिमाहात्म्यनामशोभास्वपि स्त्रियाम् । ;l{1330} प्रलयो मृत्युकल्पान्तमूर्छालेषु प्रशस्यते । विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च । गोचरे च प्रबन्धादेर्यस्य ज्ञातस्य तस्य च । प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे च संनादावधीने ज्ञानशब्दयोः । ;l{1335} गाङ्गेयः षण्मुखे भीष्मे जातरूपकशेरुणोः । मुस्तायां पुंनपुंसि स्यान्मङ्गल्यस्तु मसूरके । बिल्वेऽश्वत्थे त्रायमाणे दधिकल्याणयोरपि । मनोज्ञे रोचनायां च प्रियङ्गुशतपुष्पयोः । अधःपुष्पे शङ्खपुष्पे शमीशुक्लवचासु च । ;l{1340} हृदयं जीविते वित्ते भावे मनसि वक्षसि । पुत्रे मातरि सौभाग्यं सौन्दर्ये शोभनेऽपि च । संपत्तिज्ञानमाहात्म्यपुण्यमुक्तिषु कथ्यते । शरव्यं सायके लक्ष्ये मृगयासाधनेऽन्यवत् । प्रणयः स्यात्परिचये याच्ञायां सौहृदेऽपि च । ;l{1345} निष्क्रिया बुद्धिसामर्थ्ये उन्मूले निर्गतेऽपि च । भुजिष्यः किंकरेऽपि स्याच्छ्वशुर्यौ स्यालदेवरौ । पर्जन्यौ रसदब्देन्द्रौ भ्रातृव्यौ भ्रातृजद्विषौ । स्यादर्यः स्वामिवणिजोः पर्यायोऽवसरे क्रमे । ;p{0066} निर्वाणे च प्रकारे च समयो नियमे पुमान् । ;l{1350} शपथाचारसिद्धान्तकालसंवित्सु पुंस्ययम् । संकेतेऽवसरे चाथ समवाये च संनयः । पश्चादवस्थायिबले संस्त्यायः संनिवेशने । संघातेऽवयवेऽपि स्याद्विशल्या तु महौषधे । त्रिपुटालाङ्गलीदन्तीगतशल्यामृतासु च । ;l{1355} वक्तव्यो वचनीयेऽपि गर्ह्येऽधीने नपुंसकम् । वार्तिके चावदानी तु वाचि वल्ग्ववलग्नयोः । ;c{इति त्र्यक्षरयान्ताः ।} ;v{चतुरक्षरयान्ताः} सां(सं)परायः स्मृतो युद्धे विपदुत्तरकालयोः । भयेऽप्यनुशयो द्वेषे पश्चात्तापानुबन्धयोः । ;l{1360} पौरुषेयो विकारे स्यात्पुरुषस्य पदान्तरे । पुंसां समूहवधयोः पुरुषेण कृतेऽपि च । व्यवसायः कारणे च व्यापारे कृषिकर्मणि । स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते । गन्धशीले चानुशयो दीर्घद्वेषानुतापयोः । समवायः समूहे स्यादथोर्ध्वश्रयणेऽपि च । ;l{1365} उन्नत्यां च विरोधे च स्यात्प्रतिश्रय आस्पदे । साधारणे चाश्रयणे सभायां च प्रकीर्तितः । करतोयः सदानीरे नदीभेदेऽपि कथ्यते । अवश्यायो हिमे गर्वे बहुधान्योऽब्दपट्णयोः । ;c{इति चतुरक्षरयान्ताः ।} ;v{पञ्चाक्षरयान्ताः} वृषाकपायी श्रीगौर्योरिन्द्राणीवह्निभार्ययोः । ;c{इति पञ्चाक्षरयान्ताः ।} ;k{रेफान्तवर्गः} ;v{एकाक्षररेफान्ताः} ;l{1370} रः पुमान्पावके कामे क्षये वज्रे शयेऽप्यरौ । रा स्त्रियां हेम्नि शालायामाशंसायां गतावपि । रं क्लीबे रुधिरे मूर्ध्नि ध्याने व्योमाण्डकुक्षिषु । ;p{0067} त्रिषु स्याद्वक्त्रभययोर्विरसे त्यागतीक्ष्णयोः । रास्तु द्वयोर्ध्वनौ स्वर्णे रिशब्दस्तु स्रवे क्षये । ;l{1375} स्त्री रुग्ज्वालेच्छयोः कान्तौ रुर्ना युद्धे भये ध्वनौ । स्त्री कामिनीवम्रिकयोर्द्रुः स्वर्णे पादपेऽपि च । श्रीर्वेषरचनावृक्षभासंपत्सरघासु च । वाणीलक्ष्मीलवङ्केषु विषे बिल्वेऽप्ययं त्रिषु । जटायां पूरणे स्रुक्स्त्री होमाङ्गे च गतौ स्त्रियाम् । ;l{1380} धूः स्याद्यानमुखे भारे कम्पने च तदिष्यते । दर्शनज्ञाननेत्रेषु दृक् स्त्री द्रष्टरि तु त्रिषु । ;c{इत्येकाक्षररान्ताः ।} ;v{द्व्यक्षररेफान्ताः} वारः समूहेऽवसरे सूर्यादिदिवसे क्रमे । संभागे वरणे शीघ्रे हरे कूपकवृक्षके । मद्यपात्रे कुन्तले च द्वारे करिणि पुंस्ययम् । ;l{1385} आवृत्तौ क्ली वारिघट्टे जलवारणवृन्दयोः । गजबन्धिनि वारी स्यान्मारौ मन्मथशात्रवौ । पत्रं तु वाहने पक्षे पर्णे स्याच्छरपक्षिणोः । पट्टे च तिलके पुंसि पात्रं भाजनयोग्ययोः । नाटकादिप्रवेशेर्हावध्वा(?) स्त्री राजमन्त्रिणि । ;l{1390} पर्णे स्रुवादौ विभवे न पुं तीरद्वयान्तरे । वित्तनिक्षिप्तपात्रे स्याच्चित्रमालेख्य अद्भुते । मङ्गले तिलके हेम्नि व्योम्नि पद्मे नपुंसकम् । ;p{0068} स्त्री त्वाखुपर्णीगोदुग्धासुभद्रादन्तिकासु च । नक्षत्राप्सरसर्पेषु पुंसि स्याद्वह्निसंज्ञके । ;l{1395} कर्बुरे च रिपौ वृत्ते घने ध्वान्ते च दानवे । शैले चक्रे सुपर्णे च चारः स्यात्पिप्पलिद्रुमे । गतौ सर्पे च मन्थाने प्रियालस्पर्श(श?)योरपि । नपुंस्युपाये रन्ध्रे च तारस्तरलशुद्धयोः । मुक्ताहारे नेत्रमध्ये नक्षत्रे शुद्धमौक्तिके । ;l{1400} गुरुसुग्रीवभार्यायां बुद्धयोषित्यपि स्त्रियाम् । पाते च शेखरे स्वर्णे पलानामयुतद्वये । विविधे पुंनपुंसि स्यात्प्रणवे रजतेऽपि च । उच्चस्वरेऽप्यनवचि मित्रः स्नेहितसूर्ययोः । शूरः पराक्रमे सूर्ये वीरः शूरे रतिप्रिये । ;l{1405} कविसामर्थ्ययोर्धीरश्चक्रं सैन्यरथाङ्गयोः । जलावर्ते च संसारे व्याजे यन्त्रान्तरेऽपि च । छद्मन्यस्त्रान्तरे संघे चक्रवाके पुमानयम् । तैलिकीये कौम्भकारे ग्रामजाले च राष्ट्रके । संग्रामे कुम्भकारस्य भाण्डे स्यात्साधनान्तरे । ;l{1410} चक्री तु पद्मनाभे च कुलाले चक्रवर्तिनि । परः स्यादुत्तमानाप्तवैरिदूरेषु केवले । पुंनपुंस्यव्ययेऽपि स्यात्परमात्मन्यनात्मनि । पुरं तु नगरे गेहे देहे पुंसि तु गुग्गुलौ । पुराव्ययं पूर्वकाले पुरस्तात्पाटलीसुते । ;l{1415} प्रबन्धेऽपि चिरातीते निकटागामिकेऽपि च । बभ्रुर्विशाले नकुले कृशानौ यादवेऽपि च । शूलिन्यब्जे पिङ्गले च यथावत्कथितो बुधैः । ;p{0069} चन्द्रः शशाङ्के कर्पूरकम्पिल्लस्वर्णवारिषु । रम्ये शुभकरे क्लीबे दरोऽस्त्री भयरन्ध्रयोः । ;l{1420} शङ्खे चालिङ्गमल्पार्थे मात्रा कर्णादिभूषणे । औषधेऽवधृते कार्त्स्न्येऽक्षरावयववृत्तयोः । परिच्छेदे च मानेऽल्पे प्रत्ययेंऽशेऽवधारणे । वरोऽभीष्टे देवतादेः श्रेष्ठे जामातृषिद्गयोः । अथ काश्मीरजे वृत्ते वोढरीषत्प्रिये त्रिषु । ;l{1425} त्रिफलायां शतावर्यां स्त्रीलिङ्गे स्याद्वरावरी । शरं दध्नि जले पुंसि बाणे शैलेऽम्बरे खगे । दन्ते तेजनके मूले काशे कमठवंशयोः । कार्पासे चास्त्रशस्त्राश्रुशोणितेषु प्रकीर्तितम् । नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने । ;l{1430} नद्यां रथे मत्कुणे च वल्के नाव्यन्तरेऽपि च । त्रिषु स्यान्नेतरि क्षेत्रं शरीरे पुरगेहयोः । केदारयोनिभार्यासु सिद्धस्थानेऽपि चेष्यते । कारो वेधे निश्चये च बले यत्ने पतावपि । तुषाराद्रेः स्त्रियां दूत्यां बन्धने बन्धनालये । ;l{1435} प्रसेवके कालिकायां हेतावथ करः पुमान् । नभांशुहस्तकरणोपधाघनशिलासु च । राजदेयेभशुण्डायां कर्तर्यथ कुलेऽचले । गोत्रं नाम्नि वने मार्गे चित्रे चोरे भुवि स्त्रियाम् । संभावनीये गोवृन्दे बले त्रातरि च त्रिषु । ;l{1440} सारं वरेण्ये वानीरे धने च क्वचिदिष्यते । द्वारं पुरान्निर्गमनेऽप्युपाये रन्ध्रमुच्यते । ;p{0070} गौरः पीतेऽरुणे श्वेते विरुद्धे मृगमोदयोः । आधिक्येऽपि नपुं पद्मकेसरे सितसर्षपे । स्त्रियां शशिनि गौरी तु नागकन्योमयोर्मता । ;l{1445} रोचनीरचनीपिङ्गीप्रियङ्गुवसुधासु च । नदीभेदे च वरुणयोषित्यथ मखे वने । आच्छादने सदादाने दम्भे सद्रक्षके त्रिषु । सादने च क्वचित्पात्रे संदेये सत्रमव्ययम् । गृहे पशौ च तन्त्रं तु करणे च परिच्छदे । ;l{1450} तन्तुवाये प्रधाने च शास्त्रसिद्धान्तयोरपि । तथाष्टीसायकोपाये श्रुतिशाखान्तरेऽपि च । कुडुम्बार्थे च कर्तव्यतायां मुख्ये घटोत्तमे । सिरायाममृतायां च तन्त्री वीणागुणे तनौ । शुक्रः काव्येऽनले ज्येष्ठे केतौ शुभ्राक्षिरोगयोः । ;l{1455} क्लीबं क्षेत्रे महेन्द्रे च कुटजेऽर्जुनभूरुहे । भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे । वृषे पुंसि तिथौ रुद्रे वाच्यवच्छ्रेष्ठसाधुनोः । गजभेदे नृभेदे च मन्दाकिन्यां स्त्रियामपि । कट्फलानन्तकृष्णासु रास्नायामथ कथ्यते । ;l{1460} क्षुद्रस्त्रिष्वधमे क्रूरे स्वल्पे कृपणवर्णयोः । व्यङ्गावेश्यानटीकण्टकारिकासरघासु च । स्त्रियां पुंसि दरिद्रे स्यात्क्षुद्रकर्मणि चेष्यते । क्षौद्रं मधुनि पानीये चेन्द्रः शतमखार्कयोः । योधेऽन्तरात्मनि पतौ श्रेष्ठेऽपि स्यात्फणिज्जके । ;l{1465} स्वरुर्वज्रे यूपखण्डे यज्ञपात्रे शिलीमुखे । ;p{0071} निषादादावुदात्तादावकारादावपि स्वरः । गुरुर्बृहस्पतौ पितृमात्रादौ दुर्भरेऽधिके । निषेकादिकृतिस्थूले त्रिषु मात्राद्वयेऽपि च । हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । ;l{1470} सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च । स्वर्णे मणौ च कपिले त्रिष्वथ प्राज्यहोमयोः । विधिदामोदरेशेषु भूरिश्चन्द्रेन्द्रयोरपि । धात्री जनन्यामलकीवसुमत्युपमातृषु । वप्रः प्रासादतटयोः साले सानौ विदारणे । ;l{1475} रन्ध्रं छिद्रे निम्नगेऽवकाशे समयदोषयोः । पार्श्वेऽथ कन्दलीतुलस्यो रिन्ध्रः(?) स्याद्भरो धरे । भारे लाभे दुर्भरे च रागभेदे रणेऽपि च । वज्रं तु कुलिशे शस्त्रेऽप्यशनौ रचनान्तरे । मणिभेदे सूचिभेदे योगे चामलके स्त्रियाम् । ;l{1480} वज्रवल्ल्यां गळूच्यां स्यात्सुरः सूर्येऽमरे पुमान् । सुरा देवस्त्रियां मद्ये शारिः पर्याणपक्षिणोः । क्लीबे द्यूतगुणेऽपि स्यादग्रमालम्बनेऽधिके । पुरोपरिप्रान्ताद्येषु न पुंसि प्रमिताशने । मरुर्निर्जलदेशेऽद्रावद्रिः शैलेऽर्कवृक्षयोः । ;l{1485} वृत्रस्तु दानवे शत्रौ ध्वान्ते चक्रघने गिरौ । अस्रस्तु कुन्तले कोणे रक्ते नेत्राम्बुनि समृतः । शारो वायौ नरी (?) पुंसि कर्बुरे वाच्यलिङ्गकः । मन्त्रो वेदे गुप्तवादे देवादीन्साधनेऽपि च । बभ्रुर्हिरण्यगर्भेऽग्नौ विपुले नकुलेऽपि च । ;l{1490} पिङ्गले त्रिषु विष्णौ चाथो सारस्तु वरे त्रिषु । ;p{0072} क्लीबे न्याये बले पुंसि स्थिरांशेऽपि तथा भवेत् । यात्रा स्याद्यापने याने देवतादिमहोत्सवे । इरा भूवाक्सुराप्सु स्यात्स्त्रियामप्सरयोषिति । तन्द्री निद्राप्रमीले च तन्द्रापि च समार्थके । ;l{1495} मात्रा परिच्छदेऽल्पे च परिमाणे च पुंसि वा । कार्त्स्न्येऽवधारणे क्लीबे स्त्रियां स्याद्भूषणे घने । वर्णवृत्तांशयोश्चापि खरो बालेयवर्षयोः । निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः । मुखाग्रे क्रोडहलयोः पोत्रं क्षीरं पयोम्बुनोः । ;l{1500} राष्ट्रेऽस्त्री विषये चोपद्रवे व्यग्रस्तु नाकुले । अव्यासक्ते च देशे च क्रूरौ कठिननिर्दयौ । मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः । धारा संपातपुरयोर्नरोऽजे मानवेऽर्जुने । तिरोऽन्तर्धौ तिर्यगर्थे ऊरी विस्तारसंमतौ । ;c{इति द्व्यक्षररेफान्ताः ।} ;v{त्र्यक्षररेफान्ताः} ;l{1505} शृङ्गारः सुन्दरे नाट्ये रसेऽपि गजमण्डने । नपुंसि चूर्णसिन्दूरलवङ्ककुसुमेषु च । गान्धारः स्वरभेदे स्यान्न स्त्री देशे रतान्तरे । मुर्मुरस्तु तुषाग्नौ च किशोरस्तुरगेऽर्भके । कुटीरं क्षुद्रभेदे स्याच्चत्वरं तु चतुष्पथे । ;l{1510} शीघ्रे च शम्बरो दैत्यभेदे क्लीबे जले पुमान् । विष्फारो धनुषः स्वाने प्रभूते जृम्भितेऽपि च । विधुरस्त्वरितेऽधीरे कष्टविश्लेषयोरपि । नागरे कौरवामात्ये विवशे विकलेऽन्यवत् । ;p{0073} अपत्नीके सुन्दरी तु पल्लवे विद्रुमस्त्रियोः । ;l{1515} सिन्दूरं तु शिलाभेदे नागसंभववृक्षयोः । केसरोऽस्त्री स्कन्धरोम्णि किञ्जल्के वकुले तु ना । पुंनागे च नपुंसि स्यान्नागकेसरहिङ्गुनोः । कर्परस्तु कपाले स्याच्छस्त्रे घटकपालके । कान्तारो दुर्गमे मार्गे दुर्भिक्षे पातके वने । ;l{1520} संस्तरः प्रस्तरे यज्ञे बर्बरः पामरे पुमान् । कुन्तलानां च विन्यासनीवृदन्तरयोरपि । स्त्रियां तु कञ्जिकायां च पुष्पदेवेन्द्रयोरपि । बन्धुरं मङ्गले रम्ये नम्रे हंसे तु पुंसि तत् । बन्धूके च विहङ्गे च बन्धुरापण्ययोरपि । ;l{1525} दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । करीरः कलशे वृक्षभेदे वंशाङ्कुरेऽपि च । करीरूश्चीरिकायां च दन्तमूले च दन्तिनाम् । करीरं कोणमध्यस्थपुलिने दर्दुरे तटे । शर्करा खण्डविकृतावुपलाकर्परांशयोः । ;l{1530} शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च । कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः । गाङ्गेरी बृहतीहिंसामक्षिकामातृकेषु च । पिञ्जरं कनके राजभेदे पीते च पुंसि तत् । शिखरं शैलवृक्षाग्रे रक्षापुलककोटिषु । ;l{1535} पक्वडाडिमबीजाभमाणिक्यकलशेषु च । पुंलिङ्गे तु शिवाभेदे खट्वाङ्गे द्वारपालके । ;p{0074} ईश्वरो दैवते चाढ्ये शंभौ स्वामिनि मन्मथे । समर्थेऽब्देश्वरीच्छायां पार्वत्यामीश्वरा मता । तमिस्रं तिमिरे रोगे तमिस्रा तामसीनिशि । ;l{1540} कुमारो बालके स्कन्दे पुत्रे नामनि वाच्यवत् । नमेरुः सुरपुंनागे सुमेरुः कनकाचले । आधार आलवालेऽम्बुबन्धे च किरणेऽपि च । स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिषु चान्तरम् । परिधानेऽवधौ मध्येऽन्तरात्मनि नपुंसके । ;l{1545} विनावसरबाह्येषु चाम्बरं व्योम्नि वाससि । सुगन्धिनि च कार्पासे गोपुरं द्वारमात्रके । पुस्तके च पुरद्वारे पुरे सौधेन्द्रियेऽपि च । शारीरः क्षोभकरणे शुके शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारे च वाच्यवत् । ;l{1550} आसारः स्यात्प्रहरणे वेगे वृष्टौ सुहृद्बले । प्रवेशे च प्रसारे च कुञ्जरः कुन्तले पुमान् । मस्तके भूषणे नागे पुष्करो द्वीपसर्पयोः । तीर्थे खड्गफले तोयकरिहस्ताग्रयोरपि । वाद्यभाण्डमुखे पद्मे व्योम्नि मार्गे तिथावपि । ;l{1555} विहारो भ्रमणे स्पन्दे लीलायां सुरतालये । रुधिरोऽङ्गारके छागे कुङ्कुमे शोणिते पुमान् । प्रकारो भेदसादृश्यकृतिष्वस्त्रीङ्गितेऽपि च । द्वापरो युगभेदे स्यात्संशयेऽपि पुमान्भवेत् । किंशारुर्धान्यशूकेषुकङ्कपक्षिषु कथ्यते । ;l{1560} प्रदरो भङ्गनारीरुग्बाणभीर्दारणेषु च । दीर्णे स्वयं चावटे स्यात्तूवरस्तु प्रचक्षते । ;p{0075} अजातशृङ्गेऽप्यश्मश्रौ संगरस्तु विषापदोः । शमीफले क्रियाकारे प्रतिज्ञासंविदाजिषु । विष्टरो विटपौ दर्भमुष्टौ पीठाद्य आसने । ;l{1565} मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु । क्रोधे च मक्षिकायां कलत्रं श्रोणिभार्ययोः । नृपतिप्रभृतीनां तु दुर्गस्थानेऽपि च स्मृतम् । अजीरं विषये काये चाङ्गणेऽपि तदिष्यते । अक्षरं स्याद्ब्रह्मणि च वर्णे मोक्षेऽप्यनाशने । ;l{1570} गह्वरं तु गुहादम्भनिकुञ्जगहनेष्वपि । औशीरं चामरे दण्डे चासने शयने भवेत् । पिठरो मन्थदण्डे स्यात्स्थाल्यां स्त्री मुस्तहिंस्रयोः । नागरः सुरते संज्ञा चान्तर्जाते नपुंसकम् । राजीवकन्दे चर्यां(?) प्रवीणाकुत्सितयोर्विना । ;l{1575} शार्वरं त्वन्धतमसि घातुके भेद्यलिङ्गकम् । शबरे कुञ्जरे वाच्यलिङ्गः स्याद्धिंसनेऽपि च । कुक्षौ तु जठरो न स्त्री त्रिषु वृद्धकठोरयोः । अधरस्तु निकृष्टोष्ठायादेशेष्वपि(?) वाच्यवत् । एकाग्रमेकतानेऽनाकुले चोत्तरमुच्यते । ;l{1580} उपर्युदीच्यश्रेष्ठेषु प्रतिवाक्येऽप्यपुङ्गके (?) । विराटतनये ऋक्षे स्त्रियां पुंसि च शस्यते । मधुरस्तु प्रिये स्वादौ रसभेदे पुरे स्त्रियाम् । उदारो दातृमहतोरितरस्त्वन्यनीचयोः । उररी चोररी द्वे च विस्तारेऽङ्गीकृतेऽपि च । ;l{1585} विकारि (री?) वर्षेऽङ्गहीने शर्वरी रात्रिवर्षयोः । कबरी केशपाशे च हिङ्गुपत्रेऽपि च द्वयोः । ;c{इति त्र्यक्षररेफान्ताः ।} ;p{0076} ;v{चतुरक्षररेफान्ताः} अर्धचन्द्रस्तदाकारे बाणे बर्हे शिखण्डिनः । शतपत्रं पक्षिभेदे दारुघाते कुशेशये । घनसारस्तु कर्पूरे महामेघे च चन्दने । ;l{1590} अलंकारः शास्त्रभेदे मण्डनेऽथ जवे पुमान् । उच्छ्राये चातिमात्रः स्यान्मद्गुरौ तु भयंकरः । भये सहचरी तु स्यादनुचारे सहाशने । तुलाधरस्तु वणिजि श्लक्ष्णराशौ दिवाकरे । संप्रहारो हृते युद्धेऽश्वतरः सुरवाजिनोः । ;l{1595} कुलाङ्कुरो मूलदेशे चोरे करवटेऽपि च । धार्तराष्ट्रो हंसभेदे दुर्योधनकुलेऽपि च । गिरिसारं तु लोहेऽपि लक्ष्मीपुत्रस्तु मन्मथे । धनाढ्येऽश्वे परिकरः पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे व्राते चारम्भसंज्ञयोः । ;l{1600} हस्तसूत्रे प्रतिसरो माल्यमन्त्रविशेषयोः । विभूषणे सैन्यपृष्ठे प्राणशुद्धौ च कङ्कणे । पयोधरः स्तने मेघे नाळिकेरे च सागरे । इक्षुभेदे कशैरौ च धेनौ च परिचक्ष्यते । अवस्करस्तु विष्ठायां गुह्ये चाडम्बरोऽस्त्रियाम् । ;l{1605} तूर्यशब्दे च संरम्भे गजेन्द्राणां च गर्जिते । अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च । स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे । ;l{1610} द्वारि द्वाःस्थे प्रतीहारः प्रतिहार्यप्यनन्तरे । राजस्त्रीणामलंकारः कृतायामपि च स्त्रियाम् । दुरोदरो द्यूतकारे पणे द्यूते नपुंसि वा । ;p{0077} अरुष्करो घातुके च व्रणकार्येऽप्यनुत्तरः । नोदीच्यां नोपरि श्रेष्ठे चोपह्वरमुदाहृतम् । हायने सर्वधारी स्याद्रुधिरोद्गारि वत्सरे । ;c{इति चतुरक्षररेफान्ताः ।} ;k{लान्तवर्गः} ;v{एकाक्षरलान्ताः} लः खण्डने त्रिष्वाधाने स्त्री नेन्द्रे लवणे तु लम् । ;c{इत्येकाक्षरलान्ताः ।} ;v{द्व्यक्षरलान्ताः} ;l{1615} हली कृषीकले पुंसि कृष्णस्यैवाग्रजन्मनि । पलं स्यान्मत्सरे मांसे मल्लो मल्लकशक्तयोः । स्थली खनित्रे कुद्दाले क्षेत्रभेदे नपुंस्यपि । खलो नीचे दुर्जने च कुलटायामपि स्त्रियाम् । हर्षितेऽव्यक्तमधुरे रवे स्याद्वाच्यलिङ्गकः । ;l{1620} कला शिल्पे कालभेदे चन्द्रांशे शकलेऽपि च । वित्तवृद्धौ च मूले च सुषुमाविद्ययोस्तथा । तत्तदागमसिद्धासु गुरुणि स्त्रीरजस्यपि । कलं शुक्रे वाच्यलिङ्गमव्यक्तमधुरे ध्वनौ । कामशास्त्रे च संगीते मन्त्रशास्त्रेऽपि च स्त्रियाम् । ;l{1625} कलिः स्यात्कलहे शूरे देशेऽप्यन्तयुगे पुमान् । पापे च कैतवे शोके कालस्तु यमकृष्णयोः । महाकालेऽपि समये मृत्युमञ्जिष्ठयोः पुनः । काली गौर्यां क्षीरकीटे नील्यां त्रिद्यति(?)च स्त्रियाम् । तलं क्लीबे तालतरौ पेटे ज्याघातवारणे । ;l{1630} खड्गमुष्टौ वितस्तौ च स्वरूपेऽधरपृष्ठयोः । तालः कालक्रियामाने करास्फोटद्रुभेदयोः । वाद्यभाण्डेऽपि कांस्ये च तालं तु हरितालके । ;p{0078} बलं गन्धे रसे धूपे स्वामिनि स्थौल्यसैन्ययोः । शक्त्याभिमानयोः क्लीबे पुंसि तु स्याद्धलायुधे । ;l{1635} बलिस्तु दैत्यभेदे च बलवत्काकयोः पुमान् । अस्त्री चामरदण्डे च त्वक्कोचे गृहदारुणि । नैवेद्ये गन्धके पाणौ वली चापि प्रकीर्तितः । वाट्यालके बला तूक्ता वलं चोन्मादमानयोः । बालो मूर्खेऽर्भके व्यालग्राहावश्वेभपुच्छयोः । ;l{1640} ह्रीबेरकेशयोर्बाला योषिद्भूषात्रुटीषु च । शुक्लः शुभ्रे रेतसि च रोगभेदे च वत्सरे । कुलं वर्गे समूहे च देहे गोत्रे गुणेऽपि च । सजातीये जनपदे मन्दिरे च नपुंसकम् । मूलं तु रोगे नक्षत्रे शिफायामन्तिकाद्ययोः । ;l{1645} स्वीये वशीकृते चाथ जालमानायवृन्दयोः । गवाक्षे क्षारके दम्भे कोशतक्यां स्त्रियां भवेत् । वेला काले जलनिधेस्तीरनीरविकारयोः । अक्लिष्टमरणे रागे सीम्नि वारिबुधस्त्रियोः । मर्यादायां चाथ फलं फले मांसे धनेऽपि च । ;l{1650} भोगे लाभे च निष्पत्तौ बीजबाणाग्रयोरपि । सस्ये हेतुकृते जातिफले च फलकेऽपि च । कर्कोले त्रिफलावार्क्षु मुक्ताधान्यकणेषु च । मुष्टौ कर्षचतुष्के स्यात्पलं चापि प्रयोजने । लीला तु विभ्रमे हेतौ क्रियायां भाविलासयोः । ;l{1655} कीलो धूर्ते रथाक्षे च शङ्कौ ज्वालामहीध्रयोः । स्त्रियां कपोणिनिर्घाते प्रहारे रतिसंभवे । पुलः स्यात्पुलके चापि विशाले महतीष्यते । ;p{0079} खिलमप्रहते शून्ये उत्तप्तौ केवले त्रिषु । मौलिः किरीटे चूडायामशोके संयते कचे । ;l{1660} पीलुर्गजे शरे पुष्पे परमाणुद्रुभेदयोः । व्यालः पुंसि शठे सर्पे श्वापदे दुष्टकुञ्जरे । मलोऽस्त्री पापविट्किट्टकृपणेषु त्रिषूच्यते । वसायामपि शूलं तु ध्वजे योगान्तरे रुजि । आयुधे विक्रये वध्याशङ्कौ गर्भेऽपि योषिताम् । ;l{1665} आलिः पङ्क्तौ वयस्ये स्याद्भृङ्गे पालिस्तु पुंसि वा । अंशभेदे च पङ्क्तौ च संजातश्मश्रुयोषिति । अस्रे च कर्णतालाग्रे यूके प्रस्थे च कथ्यते । शील स्वभावे सद्वृत्ते चेलं वस्त्रेऽधमे त्रिषु । जिषि (?) स्त्रियामथ स्थूलं पीवरे च जडेऽपि च । ;l{1670} एला सूक्ष्मे त्रुटौ स्त्री स्याल्लोलश्चलसतृष्णयोः । भल्लो भल्लूकशरयोर्वार्तासंभाव्ययोः किल । अलं भूषणपर्याप्तिशक्तिवारणवाचके । निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु । ;c{इति व्द्यक्षरलान्ताः ।} ;v{त्र्यक्षरलान्ताः} कुण्डलं वलये पाशे क्लीबे कर्णविभूषणे । ;l{1675} गळूच्यां स्त्री काञ्चनाद्रौ सर्पे पुंसि तु कुण्डली । मण्डलं वर्तुले राष्ट्रे कुष्टे द्वादशराजके । देवतायतने बिम्बे स्थले वृन्दे पुमाञ्शुनि । मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः । मुञ्जरज्जौ शाड्वलस्तु पुंसि कर्दमदेशयोः । ;p{0080} ;l{1680} अचलः पर्वते वृक्षे कीलावसुधयोः स्त्रियाम् । चञ्चलः कामुके वायौ लक्ष्म्यां तटिति च स्त्रियाम् । जाङ्गलं मांसमिलिते स्त्रियां स्याच्छारदीजले । शृङ्खला त्रिषु संदर्भविशेषे निगलेऽपि च । गोपालः पशुपाले स्याद्वैकुण्ठे च जितेन्द्रिये । ;l{1685} सृगालो दैत्यभेदे च क्षुद्रशत्रौ च जम्बुके । न्यूने हीने च विकलो दुष्टे च ननियन्त्रके । नकुलः पाण्डुतनये सर्पभुक्कुलहीनयोः । उत्तालो भीषणे मत्ते विलालो विकटस्थले । लाङ्गली नालिकेरे च जामदग्नौ च पुंस्ययम् । ;l{1690} लाङ्गूलं वानरे पुच्छे फल्गुन्यां लवली स्त्रियाम् । अनलं राज्ञि नाले च पुंस्यग्न्यौषधिभेदयोः । दुकूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके । उपलः प्रस्तरे रत्ने चाश्मरूपमृदि स्त्रियाम् । ऐक्षवे चपलः शीघ्रे दुर्नीतावस्थिते रसे । ;l{1695} स्त्रियां विद्युति चाभीलः कृच्छ्रे भीतेऽथ वातुलः । वातसहेऽपि वात्यायां पुंस्युन्मत्तेऽपि च त्रिषु । कमलं सलिले ताम्रे जलजे क्लोम्नि भेषजे । कुरङ्गभेदे कमलः स्त्रियां तु श्रीवरस्त्रियोः । कम्बलो नागराजे च सास्नायां मृगरोमजे । ;l{1700} गजप्रवरणे चैव निष्कला विगतार्तवा । कलाहीने चावलिस्तु रेखायामपि कथ्यते । बहुलो वह्न्यसितयोः कृत्तिकायां गवि स्त्रियाम् । बलायां कृष्णपक्षे च कीलालं शोणितेऽम्भसि । ;p{0081} पटलं नेत्ररोगे च परिच्छेदसमूहयोः । ;l{1705} तिलके पुंनपुंसि स्याच्छदिः स्त्री पटलीति च । पातालं वडवाग्नौ स्याद्बलिसद्मनि चेष्यते । कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले । निर्णीते केवलमिति स्त्रीलिङ्गं त्वेककृत्स्नयोः । पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु । ;l{1710} भारवाहे प्रवालं तु वीणादण्डे च विद्रुमे । अङ्कुरे स्यात्किसलये करालो दन्तुरे पुमान् । तुङ्गेऽथ पेशलो दक्षे चारौ च मुसले हरे । मुदुले कोकिले प्रोक्त अनिलस्तु प्रभञ्जने । विमलो निर्मले शुभ्रे हिन्तालः पादपान्तरे । ;l{1715} उन्नते उत्थितेऽपि स्यादुत्तालः परिकीर्तितः । शाण्डिल्यो मुनिभेदे च शिल्पे च परिकीर्तितः । ;c{इति त्र्यक्षरलान्ताः ।} ;v{चतुरक्षरलान्ताः} गण्डशैलः कपोले च द्रोणपाषाणभेदयोः । महानीलो भृङ्गराजे मणिनागविशेषयोः । उत्कोचेऽस्त्री कटफलः कर्मशीलस्तु कर्मठे । ;l{1720} अनुकूलस्त्वनादेशे विधेयेऽनुगुणेऽपि च । महाबली दैत्यभेदे बलवत्यपि कथ्यते । वनपङ्क्तौ विष्णुदाम्नि वनमाला प्रकीर्तिता । गोलाङ्गूलः कृष्णकपौ पशुपुच्छे नपुंसकम् । तृणशालो राजताल्यां वेणौ रतिकिलः शुनि । ;c{इति चतुरक्षरलान्ताः ।} ;p{0082} ;k{वान्तवर्गः} ;v{एकाक्षरवान्ताः} ;l{1725} वः पुमान्सान्त्वने वायौ संयमे वरुणे स्मरे । वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये । विश्चक्षुषि व्योम्नि वाते परमात्मनि पक्षिणि । विट् पुरीषे जने वैश्ये क्रमात्पुंसि द्वयोः स्त्रियाम् । स्वोऽस्त्री धने पुमाञ्ज्ञातौ त्रिष्वात्मीये स्वमात्मनि । ;l{1730} स्वः स्वर्गे परलोके च त्विट् कान्तिज्वालयोः स्त्रियाम् । वल्के लवङ्कवल्के त्वग्द्वार्द्वारोपाययोः स्त्रियाम् । रमायां देवपूजायां शक्तौ शोभावरेण्ययोः । ;c{इत्येकाक्षरवान्ताः ।} ;v{द्व्यक्षरवान्ताः} भवः संसारसंतप्तिश्रेयःशंकरजन्मसु । उपादाने भस्मनि च सत्ताप्राप्त्योश्च वत्सरे । ;l{1735} भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु । रतिवेगे शब्दवृत्तौ निमित्ते रसबन्धिनि । प्राप्तौ च भवसंबन्धे योनौ च स्याद्विकल्पने । त्रिषु भं भामवति भे (?) प्रभावे च पुमान्भवेत् । ;l{1740} नवस्तु नूतने सौम्ये संख्यायामपि तत्त्रिषु । सूर्ये समुद्रतरणौ पटे नावा स्त्रियामपि । जीवो वृक्षे सुरगुरौ तन्तौ प्राणे च जीविते । जीवा जीवन्तिकाभूम्योर्वचामौर्व्योस्त्रिषूच्यते । धवः पतौ नरे धूर्ते धूतपादपयोरपि । ;l{1745} हवो यज्ञे तथाह्वाने स्यान्निदेशाज्ञयोः पुमान् । ध्रुवः कीले शिवे शङ्कौ वंशे योगे वसौ मुनौ । निश्चिते निश्चले तर्के नक्षत्रे शाश्वते वटे । ;p{0083} स्रुचि मौर्व्यां तालभेदे स्त्रियामथ शिवं शुभे । मोक्षे सुखे च सलिले माने योगे मनोहरे । ;l{1750} शिवो हरे गुग्गुलौ च कीले चालुकि (?) वालुके । पुण्डरीकद्रुमे स्त्री तु भवान्यां जम्बुकेऽपि च । अभयायां नदीभेदे चामलक्यां महौषधौ । झाटाशम्योश्चाभयायां चाथ देवः सुरे घने । राज्ञि क्लीबं त्विन्द्रिये स्त्री तेजनीस्पृक्कयोरपि । ;l{1755} भट्टारिकायां द(दा?)र्वी तु देवदारुहरिद्रयोः स्रुचि दारुहरिद्रायां सत्त्वं द्रव्ये बले गुणे । स्वभावे च पिशाचादौ व्यवसायेऽपि प्राणिषु । चित्तसद्भावयोर्जन्तावैश्वर्यामोदयोरपि । विश्वं समस्ते जगति विश्वेदेवेषु नागरे । ;l{1760} वा पुंसि स्यात्स्त्रियां विश्वातिविषाकरशब्दयोः । द्वंद्वं रहस्ये कलहे युग्मे पात्रप्रसाधने । दिवं स्वर्गेऽन्तरिक्षे च लवो रामात्मजे कुशे । विनाशे छेदने दावदवौ वनवनानलौ । नीवी स्याद्बन्धनागारे धने स्त्रीवस्त्रबन्धने । ;l{1765} अविर्गिरौ रवे मेषे मूषिके कम्बलेऽपि च । पूर्वोऽन्यलिङ्गः प्राचि स्यात्पुं बहुत्वेऽपि पूर्वजे । प्लवो भेके कपौ वर्षे नावे चेवेत्थमर्थयोः । एवं चाथ युवो वर्षभेदे यूनि पुमान्भवेत् । ;c{इति व्द्यक्षरवान्ताः ।} ;v{त्र्यक्षरवान्ताः} कैरवः कुमुदे क्लीबे पुंसि स्यात्पिशुनेऽपि च । ;l{1770} सुग्रीवस्तु सुकण्ठे च वालिभ्रातरि कथ्यते । ;p{0084} गन्धर्वस्तुरगे दिव्यगायके शेखरेऽपि च । अन्तराभवसत्त्वे च मृगे पुरुषकोकिले । प्रभवो जन्ममूलेऽब्दे जन्मभूमौ पराक्रमे । आद्योपलब्धौ ज्ञाने च विभवोऽब्दे धने वृतौ । ;l{1775} पल्लवोऽस्त्री किसलये शृङ्गारपदगर्भयोः । पवने विटपे षिद्गे रत्नविस्तारयोरपि । कितवो धूर्त उन्मत्ते वञ्चके कनकाह्वये । प्रसवस्तु फले पुष्पे प्रभवे गर्भमोचने । माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे । ;l{1780} आहवो युद्ध आह्वानेऽध्वरे होमनिदेशयोः । निह्नवस्तु नमस्कारे विश्वासेऽपह्नवेऽपि च । निकृतौ चाथ सचिवः स्यात्सहाये च मन्त्रिणि । उत्सवः प्रसवेच्छाका(?)मर्षोत्सेधमहःसु च । द्विजिह्वः सूचके सर्पे पार्थिवो हायने नृपे । ;c{इति त्र्यक्षरवान्ताः ।} ;v{चतुरक्षरवान्ताः} ;l{1785} अनुभावः प्रभावे च सतां च मतिनिश्चये । घण्टारवः शणसुमे घण्टानादे च पुंसि वा । पराभवः प्रभावे च वर्षभेदेऽपि वर्तते । ;c{इति चतुरक्षरवान्ताः ।} ;c{इति राघवीयनानार्थमञ्जर्यां यवर्गादिवर्गान्ताः परिसमाप्ताः ।} ;k{शान्तवर्गः} ;v{एकाक्षरशान्ताः} शः परोक्षे त्रिलिङ्गे स्याच्छं सुखार्थाज्ञशक्तिषु । शिः शिवे शिवकान्तायां स्वापे निर्वाणहिंसयोः । ;c{इत्येकाक्षरशान्ताः ।} ;p{0085} ;v{द्व्यक्षरशान्ताः} ;l{1790} दशा वर्ताववस्थायां वस्त्रान्ते समयेऽपि च । पाशः क(के?)शान्ते संघार्थे कर्णान्ते शोभनार्थके । छिद्राद्यन्ते च निन्दार्थे पुमान्पक्ष्यादिबन्धने । पलायने च रज्जौ च निधानावु(?)पलम्भयोः । वशः प्रभुत्वेच्छायत्तगजेषु त्रिषु तद्वति । ;l{1795} स्ववशायां वशायां च स्पृहायां च जनेऽपि च । वशा वन्ध्यासुतयोषाज्ञानिकुञ्जरनारिषु । वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले । नासादण्डे चाथ कुशं जले दर्भान्तरे नपुम् । योक्त्रे रामात्मजे द्वीपे पुमानौदुम्बरे स्त्रियाम् । ;l{1800} छन्दोगस्तोत्रगणनाशङ्कास्वथ कुशीष्यते । पापिष्ठमत्तयोर्वाले भल्लायामयसि स्त्रियाम् । केशो दैत्ये भगे वाले ह्नीबेरे च प्रचेतसि । कोशोऽस्री मुकुले दिव्ये शस्त्रार्थौघे गृहे तिथौ । शिश्ने जातिफले खड्गपिधाने योनिवित्तयोः । ;l{1805} काशः साम्ये दर्भभेदे प्रकाशेऽपि पुमानयम् । आशा दिग्भूव्याप्तितृष्णास्वथ राशिस्तु पुंसि च । मेषादौ द्रव्यबाहुल्ये विशो वैश्ये नरे द्वयोः । स्पशस्तु चारे संग्रामे भीमरे पवनेऽपि च । बाधने प्रणिधौ शुद्धे पुंसि प्रांश उपाङ्गके । ;l{1810} निशा रात्रीशारिबयोरश्वादेस्ताडने कशा । ;c{इति व्द्यक्षरशान्ताः ।} ;v{त्र्यक्षरशान्ताः} प्रकाशोऽतिप्रसिद्धे स्यादातपे कोशवत्यपि । प्रहासेऽथ पलाशस्तु हरित्किंशुकयातुषु । ;p{0086} पत्रे नपुंसि कलशः पयस्यमृतमन्द्रयोः । घटे निवेशः शिबिरे वाहन्यासगृहेष्वपि । ;l{1815} कीनाशस्तु यमे पुंसि क्षुद्रकर्षकयोस्त्रिषु । उपांशुघातिनि कर्कशे निदेशस्तु भाषणे । शासनोपान्तयोश्चाथाभीशुः प्रग्रहरश्मिनोः । विमर्शः साध्वसाधुत्वविवेकेषु प्रशस्यते । कर्कशः कठिने क्रूरे कृप(पा?)णे निर्दये दृढे । ;l{1820} आयुर्वेदे द्रव्यभेदे कृष्णेक्षौ खर्वकाण्डयोः । अपीवरे साहसिके निस्त्रिंशः क्रूरखड्गयोः । निकाशस्तु प्रकाशे स्यात्सदृशे रहसि स्मृतः । निर्वेशो भोगभृतयोः शिशावज्ञेऽपि बालिशः । ;c{इति त्र्यक्षरशान्ताः ।} ;v{चतुरक्षरशान्ताः} जीवितेशः पतौ काले जीवातौ जीविताधिपे । ;l{1825} उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि । अपदेशः पदे लक्ष्ये स्यात्प्रसिद्धनिमित्तयोः । औदार्यशौर्यधैर्येषु निःसीमव्यपदेशयोः । आश्रयाशो वीतिहोत्रे पुमानाश्रयबाधके । लतावंशस्तु वेत्रे स्याद्वल्लीसंघेऽपि च त्रिषु । ;c{इति चतुरक्षरशान्ताः ।} ;k{षान्तवर्गः} ;v{एकाक्षरषान्ताः} ;l{1830} षः पुमान्विषये स्वर्गे षा श्रियां षं विरामके । गर्भमोक्षे मर्षणे च परोक्षश्रेष्ठयोस्त्रिषु । त्विड्दीप्तौ व्यवसाये च जिगीषायां च धन्वनि । ;c{इत्येकाक्षरषान्ताः ।} ;p{0087} ;v{द्व्यक्षरषान्ताः} वृषो धर्मबलीवर्दश्रेष्ठमूषिकराशिषु । शुक्रले च पुमान्स्त्री तु कपिकच्छ्वाटरूषयोः । ;l{1835} सुरसंघेऽक्ष्णि जिष्णौ च तुरंगे जलजेऽपि च । शृङ्ग्यामपि वृषा स्त्री स्याद्व्रतिनामासनं वृषी । कर्षूर्वार्ताकरीषाग्निलेखनेषु च खातने । कुल्यायां तु कर्षू चाथ कर्षस्तु कर्षणे फले । वर्षस्तु वृष्टावब्दे स्याल्लोके धात्र्यंशमेघयोः । ;l{1840} क्लैब्यजम्बूद्वीपयोश्च विषं गरलवारिणोः । उषानिरुद्धपत्न्यां च कालभेदेऽपि पुंसि वा । प्रेषः प्रैषः प्रेषणे स्यान्मर्दनोन्मानमानयोः । श्लेषः स्यादुभयार्थे च अलाताङ्गारयोः पुमान् । कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः । ;l{1845} दोषः स्याद्दूषणे पापे दोषा रात्रौ भुजेऽपि च । शेषोऽप्रधानेऽनन्ताख्ये त्रिषु स्यादवशेषिते । शेषा प्रसादनिर्माल्याक्षतादानेषु तु स्त्रियाम् । तूष्णीमर्थे सुखे जोषं पुण्यकालाब्दयोर्विषुः । ;c{इति व्द्यक्षरषान्ताः ।} ;v{त्र्यक्षरषान्ताः} महीषी राजपत्न्यां च महिषस्य च योषिति । ;l{1850} पुरुषो मानवे सांख्ये ज्ञे च पुंनागजीवयोः । पुराणपुरुषेऽपि स्यान्नृमाने पौरुषं त्रिषु । पुंभावे तत्क्रियायां च प्रभावे संततावपि । आमिषं सुन्दराकाररूपादिविषये भवेत् । संभोगलोप(भ?)योर्मांसे पुंसि चोत्कोचलाभयोः । ;l{1855} पारावारे च कनके निकषात्म(षोश्म)परीक्षके । ;p{0088} अभीषुः प्रग्रहे रश्मौ विषेशोऽवयवे नवे । निखिलातिशयाव्यक्तद्रष्टव्योत्तमवस्तुषु । उष्णीषस्तु शिरोवेष्टे किरीटे पुंनपुंसकम् । आकर्षः शारिफलके द्यूतेऽक्षे कार्मुकेऽपि च । ;l{1860} किल्बिषं त्वपराधे स्यान्नपुंसि दुरिते रुजि । शुश्रूषा श्रोतुमिच्छायां परिचर्याप्रधानयोः । शैलूषो दारजीवे स्यात्किराते नटबिल्वयोः । ;c{इति त्र्यक्षरषान्ताः ।} ;v{चतुरक्षरषान्ताः} सुरे मत्स्ये चानिमिषो नन्दिघोषो रथे पुमान् । अर्जुनस्य च शङ्खे च वृषभेन्द्रस्य गर्जने । ;l{1865} आत्मघोषो वायसे स्यादात्मस्तुतिपरेऽपि च । ;c{इति चतुरक्षरषान्ताः ।} ;k{सान्तवर्गः} ;v{एकाक्षरसान्ताः} सः पुंस्युमासुते वायौ देहभाःश्रीद्रुवाजिषु । सं पक्षिस्यन्दने क्लीबे ज्ञाने ध्याने निवारणे । सू प्रेरणे गर्भमोक्षे सेऽभिधेये च सेवने । सत्सत्ये विदुषि श्रेष्ठे साधौ क्लीबमुडौ त्रिषु । ;c{इत्येकाक्षरसान्ताः ।} ;v{द्व्येकाक्षरसान्ताः} ;l{1870} हंसः सूर्ये मरालेऽश्वे यतौ च परमात्मनि । श्रेष्ठे निर्लोभनृपतौ शरीरमरुदन्तरे । मत्सरे मन्त्रभेदे च विष्णौ राजादिपूर्वके । हिंसा चौर्ये ताडने स्यादन्योपद्रवबन्धयोः । वेधाश्चतुर्मुखे विष्णौ पण्डितेऽपि प्रचक्ष्यते । ;p{0089} ;l{1875} स्त्री त्वाशीः सर्पदंष्ट्रे हिताशंसायामनुग्रहे । हासो हास्यरसे शीघ्रगमनानन्दयोरपि । वसुर्वृद्धौ धने रत्नेऽनले मधुरहट्टयोः । योक्त्रे रश्मौ धनाध्यक्षे देवभेदे च वाच्यवत् । ज्योतिः प्रकाशनक्षत्रदृक्सूर्याग्निशिखासु च । ;l{1880} पुष्पार्थाध्वरपाषाणवेदाङ्गेषु विधावपि । धनुः प्रियालवृक्षे च राशिभेदे शरासने । धनुर्धरे च शूरे च छन्दः पद्याभिलाषयोः । वेदे वाक्ये वृत्तभेदे उत्सवेऽपि नपुंसकम् । रसो वीर्ये गुणे रागे शृङ्गारादौ द्रवे विषे । ;l{1885} जलेऽङ्गधातौ गन्धे च तिक्तादौ पारदे धने । आस्वादनेऽथ स्रोतः स्यादिन्द्रिये निम्नगारये । अर्चिर्मयूखशिखयोस्तमस्तिमिरवेलयोः । गणे राहौ च मायायां ज्ञानेऽपि परिकीर्त्यते । रजस्तु कौसुमे रेणौ गुणधूलीन्द्रियेषु च । ;l{1890} स्त्रीणामृतौ च न्यासस्तु निक्षेपार्पणसद्मसु । दाने च मन्त्रभेदेऽथ भाषितौषधयोर्वचः । तेजो बीजे प्रतापे च प्रभायां परमात्मनि । कोशदण्डे मयूखेऽग्नावंशे सूर्ये बलेऽपि च । वत्सस्तर्णकपुत्रादौ वर्षे च कुटजे पुमान् । ;l{1895} विष्णोर्वक्षसि वत्सं स्यात्तरश्च बलरहंसोः । तपश्चान्द्रायणादौ स्याद्धर्मे लोके हुताशने । माघे ग्रीष्मे धर्मराजे क्लेशे च शिशिरेऽपि च । वयः पक्षिणि बाल्यादौ सामर्थ्येऽवयवे नपुम् । रेतः स्यादिन्द्रिये स्वर्णे निर्यासे स्वादनेऽमृते । ;l{1900} शब्देऽथ ओजो दीप्तौ च बले तेजसि पुंस्ययम् । अवष्टम्भे च धातूनां विषमर्क्षेऽपि कथ्यते । प्रसूर्जनन्यां बडबायां लतायां स्त्रियां मता । ;p{0090} वर्चः पुरीषे दीप्तौ च रूपे विद्वांस्तु पण्डिते । प्राप्ते चात्मविदि स्याच्च महश्चोत्सवतेजसोः । ;l{1905} सहो बले सहा मार्गे हेमन्तज्योतिषोः पुमान् । हासयुक्ते चाथ नभाः श्रवणावपि कथ्यते । नभो व्योम्नि नपुं मेघे घ्राणे पुंसि पतद्ग्रहे । मृणालसूत्रे वर्षासु स्यादोकस्त्वाश्रये गृहे । पिके पयो जले क्षीरे ज्यायान्वृद्धप्रशस्ययोः । ;c{इति व्द्यक्षरसान्ताः ।} ;v{त्र्यक्षरसान्ताः} ;l{1910} सारसः कमले शुभ्रे हंसे च जलपक्षिणि । गोनर्दामैथुनीकामिष्वपुंसि तमसोऽस्त्रियाम् । नदीभेदेऽन्धकारे च श्रीवत्सस्त्वावृतौ बिले । आहसो ललिते कृष्णे सुमनाः कुसुमे बुधे । मालत्यां त्रिदशे चाथ कनीयाननुजाल्पयोः । ;l{1915} अतियूनि स्त्रियां कामिन्युत्के मेथुनिभूतयोः । कृष्णातीरे च वाञ्छायामौत्सुक्ये लालसा द्वयोः । याच्ञायामतिशङ्कायां रभसो वेगहर्षयोः । मानसस्तद्भवे स्वान्तेऽप्यञ्जसा तत्त्वतूर्णयोः । पुंस्युत्तंसः कर्णपूरे शेखरे वा नपुंसकम् । ;l{1920} दिवौकाश्चातके देवे स्यान्नक्षत्रकुरङ्गयोः । स्त्रीलिङ्गे रोदसी भूम्यामन्तरिक्षे नपुंसि वा । बीभत्सः स्याद्रौद्ररसे हिंस्रे च विकृतेऽपि च । वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः । पीनसं स्याद्रोगभेदे राक्षसोऽसृक्पवर्षयोः । ;c{इति त्र्यक्षरसान्ताः ।} ;p{0091} ;v{चतुरक्षरसान्ताः} ;l{1925} विश्वावसुर्वर्षभेदे गन्धर्वेऽपि च पुंस्ययम् । आङ्गीरसस्त्वब्दभेदे मुनिभेदे तदीरितम् । अवतंसः कर्णपूरे शेखरे पुंसि वा भवेत् । कुम्भीनसो भुजंगे स्यात्स्त्रियां लवणमातरि । मदालसा दैत्यवध्वां चन्द्रहासोऽसिमात्रके । ;l{1930} राजरावणयोश्चाथ सूर्ये वह्नौ विभावसुः । कुकलासोऽनेकवर्णे जन्तुभेदेऽपि कीर्तितः । ;c{इति चतुरक्षरसान्ताः ।} ;k{हान्तवर्गः} ;v{एकाक्षरहान्ताः} हः शंकरे हरे हंसे रणरोमाञ्चवाजिषु । गर्भे प्रचेतसि स्त्री तु हा त्यागे गतिवीणयोः । हं क्लीबमस्त्रसुखयोः क्वणिते मणिरोचिषि । ;l{1935} परब्रह्मामन्त्रणयोस्त्रिषु तून्मत्तहास्ययोः । हेतुसंबोधनेऽपि स्यात् हा स्त्रियां परिदेवने । हुं वितर्के परिप्रश्ने न्यासे च भयदानयोः । ही विस्मये विषादे च हि हेताववधारणे । ;c{इत्येकाक्षरहान्ताः ।} ;v{द्व्यक्षरहान्ताः} ग्रहोऽवग्रहनिर्बन्धग्रहणेषु रणोद्यमे । ;l{1940} सूर्यादौ पूतनादौ च सैंहिकेयेऽपि तत्त्रिषु । पत्नीमन्दिरयोश्चाथ स्नेहस्तु लेपसौहृदे । नवनीतेऽप्यहिर्वृत्रासुरे सर्पे च दुर्जने । बर्हः पर्णे मयूरस्य पिञ्छे हाहा निवारणे । खेदे मोदे च गन्धर्वे हूहू चापि प्रकम्पने । ;l{1945} व्यूहस्तु सेनाविन्यासे चोत्प्रेक्षावृन्दयोः पुमान् । ;p{0092} कुहूः स्यात्कोकिलालापनष्टेन्दुकलयोरपि । अहो बतानुकम्पायां खेदे संबोधनेऽह्नि च । सह साकल्यसादृश्ययौगपद्यसमृद्धिषु । गुहस्तु षण्मुखेऽपि स्याद्देवखातबिले गुहा । ;c{इति द्व्यक्षरहान्ताः ।} ;v{त्र्यक्षरहान्ताः} ;l{1950} विग्रहः कलहे देहे कोपे विस्तारभागयोः । तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके । वरस्त्रियां स्यादारोहो हलाहश्चित्रवर्णके । अहहेत्यद्भुते खेदे प्रवाहो जववेगयोः । ;l{1955} सहस्रबाहुर्बाणेऽर्के कृतवीर्यसुतेऽपि च । ;c{इति त्र्यक्षरहान्ताः ।} ;v{चतुरक्षरहान्ताः} परिबर्हस्त्रपार्हेऽर्थे पुंसि स्यात्तु परिच्छदे । पत्नीपरिजनादानमूलशापाः परिग्रहाः । तमोपहो दिवानाथे वीतिहोत्रे निशाकरे । ;c{इति चतुरक्षरहान्ताः ।} ;k{ळान्तवर्गः} ;c{एकाक्षरळान्तमप्रसिद्धम् ।} ;v{द्व्यक्षरळान्ताः} पाळिरश्रौ प्रदेशेऽङ्के रेखायां स्यात्त्सरुच्छदे । ;l{1960} नळस्तु तृणभेदेऽब्दे कपीन्द्रे भूपतावपि । काळिश्चामरदण्डे च जरादिश्लथचर्मणि । वळिर्मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु । निम्नोन्नते च वक्रे च रचनायामपीष्यते । मौळिः किरीटे धमिल्ले जटायामथ पन्नगे । ;p{0093} ;l{1965} दुष्टदन्तावळे व्याळ अळिः पङ्क्तौ च वृश्चिके । भृङ्गे वयस्यां भूमौ स्यात्केळिस्तु परिहासके । ;c{इति व्द्यक्षरळान्ताः ।} ;v{त्र्यक्षरळान्ताः} सरळो रसिके रज्जौ बहुळः कृष्णपक्षके । नक्षत्रेऽग्नौ पर्णभेदे गवि स्त्री मङ्गळः कुजे । शुभे तु मङ्गळं प्रोक्तं काहळो दुर्जनेऽपि च । ;l{1970} काहळी वाद्यभाण्डे स्यान्नपुंसि भृशशुष्कयोः । प्रवाळोऽस्त्री किसलये वीणादण्डे च विद्रुमे । कराळो दन्तुरे तुङ्गे विकृतोज्ज्वलयोरपि । विग्रहे भीषणे चाथ वञ्चुळः स्थलवेतसे । वानीरे द्रुमभेदे स्याद्विरळं तु तनावपि । ;l{1975} निचुळो हिञ्जुले पद्मेऽप्यस्त्री मधुफलेऽपि च । हिन्ताळ उल्लसत्पूगे वकुळोऽशोकपूगयोः । कर्पूरधूल्यां द्राक्षादिमधुपूरे तु दोहळम् । पिङ्गळो वर्णभेदे स्याद्वर्षभेदेऽपि कथ्यते । महिळा तु द्रुभेदे स्यात्स्त्रीभेदेऽपि च कथ्यते । ;l{1980} कदळी वैजयन्त्यां च रम्भायां च मृगेऽपि च । ;c{इति त्र्यक्षरळान्ताः ।} ;v{चतुरक्षरळान्ताः} बृहन्नळा तृणे पुंसां स्त्रीवेषे शतपर्वणि । वर्णावळी मातृकायां तथा स्याद्गमनेऽपि च । अरिकेळिः शत्रुलीलास्त्रीरत्योश्चापि कीर्तितः । सुगन्धे स्यात्परिमळो महानाळोऽञ्जनद्युतौ । ;c{इति चतुरक्षरळान्ताः ।} ;p{0094} ;k{क्षान्तवर्गः} ;v{एकाक्षरक्षान्ताः} ;l{1985} क्षः संरोधे विरोधे च क्षेमदुःस्वप्नयोश्च ना । क्षा स्त्री क्षमायां निद्रायां क्षं क्लीबे क्षेत्ररक्षसोः । ;c{इत्येकाक्षरक्षान्ताः ।} अक्षो द्यूते वरूथाङ्गे नयवादौ विभीतके । कर्षे व्याप्तौ कृषे चक्रे आधारव्यवहारयोः । आत्मजे पाशके दैत्यभेदे चेन्द्रियवालयोः । ;l{1990} ध्वाङ्क्षः काके बके वक्षः कर्षे वत्से विभूषणे । कक्षः पार्श्वे परीधाने पश्चादञ्चलपल्लवे । बाहुमूले तृणे सौरभे शुष्कनववीरुधोः । स्त्रियां ग्रहणिकाकाञ्चीप्रकोष्ठग्रहरज्जुषु । स्पर्धापदोः स्यान्दनस्य भागे दक्षः प्रजापतौ । ;l{1995} पटौ हरवृषे ताम्रचूडे वह्नौ द्रुमे मुनौ । स्त्रियां भुव्यधि(?)पक्षस्तु मासार्धे ग्रहपार्श्वयोः । केशादेः परतो वृन्दे बले सखिसहाययोः । पतत्रचुल्लिरन्ध्रेषु देहाङ्गे राजकुञ्जरे । साध्ये विरोधे भित्तौ स्यात्परतन्त्रे कुचेऽपि च । ;l{2000} प्रेक्षा तु नृत्ते प्रज्ञायामीक्षणे चाथ सेवने । भिक्षा भृतौ च याच्ञायां नपुं भिक्षितवस्तुनि । न्यक्षः परशुरामे स्यात्त्रिषु कार्त्स्न्यनिकृष्टयोः । रूक्षः स्यात्पादपेऽप्रेम्ण्यचिक्कणे पौरुषेऽपि च । शिक्षस्तु दण्डने चाथ चक्षुरीक्षणनेत्रयोः । ;c{इति व्द्यक्षरक्षान्ताः ।} ;p{0095} ;v{त्र्यक्षरक्षान्ताः} ;l{2005} प्रत्यक्षेऽधिकृतेऽध्यक्षो गवाक्षो जालके कपौ । रक्ताक्षी स्याद्वर्षभेदे ताम्रनेत्रस्त्रियामपि । ;c{इति त्र्यक्षरक्षान्ताः ।} ;v{चतुरक्षरक्षान्ताः} छायावृक्षो नमेरौ स्यान्महिषाक्षस्तु गुग्गुलौ । दिव्यचक्षुर्ज्योतिषिके पार्थात्मज्ञानिनोरपि । कमलाक्षः पद्मबीजे विष्णावपि पुमान्भवेत् । ;l{2010} मल्लिकाक्षः पक्षिभेदे नीलाक्षेन्द्रायुधे पुमान् । ;c{इति चतुरक्षरक्षान्ताः ।} ;c{इति राघवीयनानार्थमञ्जर्यामेवं वर्गाः परिसमाप्ताः ।} ;c{या राघवकृता श्रेष्ठा मातृकावर्गसंयुता ।} ;c{सैकाक्षरादिसंयुक्ता पूर्णा नानार्थमञ्जरी ।}