;METADATA ;title{Nānārtharatnamālā} ;author{Irugapa Daṇḍādhinātha} ;bookFullName{Nānārtharatnamālā of Irugapa Daṇḍādhinātha} ;bookSeriesDetails{Sources of Indo-Aryan Lexicography - 8} ;editor{Bellikoth Ramachandra Sharma} ;editorQualifications{M.A., PhḌ., A.L.A., Vidvān, Professor, Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning, Darbhanga; formerly Curator, Anup Sanskrit Library, Bikaner} ;publisher{Deccan College, Post-Graduate & Research Institute, Poona} ;pressDetails{} ;publicationYear{1954 A.D.} ;dataEntryBy{Mr. Pradeep Kumar Rastogi} ;dataEntryEmail{pkrastogi.lko@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{NRMI} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Mr. Pradeep Kumar Rastogi for spending his valuable time to do data entry of the work. 5. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{03 March 2019} ;version0.0.2{30 April 2019} ;version0.0.3{04 August 2019} ;version0.0.4{04 August 2019} ;version0.1.0{04 August 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{इरुगपदण्डाधिनाथविरचिता नानार्थरत्नमाला} यत्पादाम्बुरुहाभाया (?) देवचूडामणीयते । यस्य ज्ञानादयोऽनन्ताः स देवः श्रेयसेऽस्तु नः ॥ अस्ति श्रीमान्निरुपमदण्डनाथः प्रचण्डधीः । सद्वृत्तौ चैव दण्डेशवंशमुक्तामणौ गुणः ॥ ;l{0005} द्वितीयमन्तःकरणं राज्ञो हरिहरस्य यः । राजकार्यं प्रजारक्षां द्वयं धत्ते कुलव्रतम् ॥ मारं हरिहराधीशो भुवः कूर्मादिदुर्वहम् । बुद्धौ कुशाग्रसूक्ष्मायां यस्य विन्यस्य मोदते ॥ विविधग्रन्थसंदर्भविमर्दविमलीकृतम् । ;l{0010} यस्य चेतः सरस्वत्या विलासमुकुरायते ॥ ;l{0010a} तिस्रो दधानश्चतुरः पञ्च षट् च यथोचितम् । ;l{0010b} प्रयुञ्जानो नयं बुद्धिं सप्ताष्टौ यो जिगीषति ॥ सोऽयं ग्रथ्नाति नानार्थरत्नमालां गुणोज्ज्वलाम् । ;p{0002} श्रीमानिरुगदण्डेशो नात्यल्पं नातिविस्तरम् ॥ काण्डैश्चतुर्भिरेकद्वित्रिचतुर्वर्णवर्णितैः । संकीर्णाव्ययकाण्डाभ्यामिति षड्भिरनुक्रमात् ॥ ;l{0015} कथ्यन्ते केऽपि नानार्थाः शब्दास्तन्त्रान्तराध्वना । अमी सलिङ्गनिर्लिङ्गभेदाद् द्वेधा भवन्ति हि ॥ सलिङ्गाः सप्तधा वृत्या स्त्रियां पुंसि नपुंसके । स्त्रीपुंसयोः क्लीबपुंसोः स्त्रीनपुंसकयोस्त्रिषु ॥ शब्दान्पुंसः स्त्रियः क्लीबान्नानालिङ्गांस्त्रिलिङ्गकान् । ;l{0020} प्रायः क्रमात्प्रवक्ष्यामि कान्तादीन्द्व्यक्षरादिषु ॥ रूपभेदात्साहचर्यात्कण्ठोक्त्या वा विभावयेत् । लिङ्गान्यथादि त्वन्तं वा पदं पूर्वेण नान्वयि ॥ त्रिष्विति त्रिषु लिङ्गेषु ज्ञेयं द्वंद्वे द्वयोरिति । लिङ्गान्तरनिषेधोऽत्र शेषलिङ्गविधायकः ॥ ;k{एकाक्षरकाण्डः} ;c{॥ एकाक्षरकाण्डः ॥} ;l{0025} अकारो ब्रह्मविष्ण्वीशकमठेष्वगणे रणे । गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्‌घ्रावुमेज्ययोः ॥ आकारस्तु घटे भावे परितापे पितामहे । इकारः फणिरत्नार्चिःष्वग्रतोऽर्थगुहार्थयोः ॥ हरे करेणौ कक्ष्यान्ते निशाकरकरे स्मरे । ;l{0030} ईकारोऽब्जदले लक्ष्म्यां वाण्यां कमलकेसरे ॥ ;p{0003} रशनायां शक्रचापे बाणे फणिनि कन्दरे । उकारः क्षत्रिये नेत्रे हरमौलौ हरे हरौ ॥ तापसे व्रतचर्यायां मेघे च सरिदन्तरे । ऊकारः पुरुषे चन्द्रे राजपुत्रे गजे सुरे ॥ ;l{0035} प्राङ्गणोपमयोः पूर्णकुम्भे वणिजि रक्षणे । ऋकारः कुञ्जरे शैले धीभेदे देवमातरि ॥ भावे देवे रिपौ नद्यां सुरायां विवरे दिवि । ॠक्रारश्चिकुरे सर्पदृष्ट्या विगतसंपदि ॥ हिमपद्मादितिस्वर्गधनभूषाभुजाम्बुषु । ;l{0040} लृकारो दन्तिनां दन्ते कुलीरकपिदन्तयोः ॥ स्वर्गादित्योर्लिप्तगात्रे गतनप्तरि वक्षसि । लॄकारः कृकलासेऽद्रावङ्गेऽक्ष्णि मकरे सुरे ॥ लीलागतौ लोचनास्थ्नि नागमातरि मातरि । एकारस्तेजसि जले रात्रौ हर्म्योदरे हरौ ॥ ;l{0045} व्योम्न्येकादशसंख्यायां दिनादौ मणिकुट्टिमे । ऐकारो दिङ्मुखे हस्ते हरेऽद्रिशिखरे त्वचि ॥ ओकारः पद्मकुड्याम्बुश्रीदमेघेन्दुयोनिषु । शक्रे जीवे विरिञ्चौ स्यादौकारस्त्वम्बिकासुते ॥ विशुद्धाङ्गेन्दुकलयोरनन्ते सिद्धपुष्पके । ;l{0050} अंशब्दो वक्रवाक्येऽतिदीर्धेऽञ्जलिनियोगयोः ॥ ;p{0004} सप्तस्वरान्तमाने च परंज्योतिषि च स्मृतः । अः शिखायां सिद्धमन्त्रे प्रग्रहेऽर्करथार्वणि ॥ चक्रे कुक्कुटमूर्ध्नीन्दुबिम्बे ब्रह्मेशविष्णुषु । को ब्रह्मात्मानिलार्काग्निचित्तधीयमकेकिषु ॥ ;l{0055} विष्णावाहतशब्देऽब्धौ सितवर्णे वसौ द्युतौ । कं शिरोऽम्बुसुखे क्लीबं तत्रैव च कमव्ययम् ॥ किं प्रश्नाक्षेपकुत्सासु वितर्के च त्रिलिङ्गकम् । किमव्ययं च कुत्सायां विकल्पप्रश्नयोरपि ॥ कुः स्त्री भुवि कु पापेऽल्पे कुत्सायां वारणेऽव्ययम् । ;l{0060} खः पुमान्गरुडे खड्गे स्वर्गे शान्तरसे कुणौ ॥ खमिन्द्रियसुखव्योमनक्षत्रक्षेत्रपत्तने । कृपाफलकयोः शून्ये बिन्दौ संदेशरन्ध्रयोः ॥ गं गीते गा च गाथायां गो गन्धर्वगणेशयोः । गौर्नागेऽर्के वृषे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् ॥ ;l{0065} द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु । मेघे निदाघे किङ्किण्यां घण्टायां घट्टने च घः ॥ घं वाद्यामृतयोर्घा भूर्वार्ता घोरे तु घस्रिषु । ङं क्लीबमञ्जने ना तु भैरवे विषये जने ॥ चस्तुरुष्के स्वरे चोरे चकोरे चन्द्रमस्यपि । ;p{0005} ;l{0070} चा स्त्री शोभा शोणिते तु चं क्लीबे विमले त्रिषु ॥ स्याल्लिप्साच्छादनाब्देषु छं क्लीबे संवृतौ पुमान् । त्रिष्वयं निर्मले नित्ये मलिने भेदकेऽपि च ॥ जो जवे विजये मेरौ शब्दे जेतरि मत्सरे । जा स्त्रियां देववाहिन्यां योनिसागरवेलयोः ॥ ;l{0075} जं कटीभूषणे पत्न्यां तेजस्यम्बुनि जन्मनि । जुः कीर्त्यां संगरे जूर्ना जीवे व्योमपिशाचयोः ॥ जूः स्त्री वाण्यां झशब्दस्तु पुमान्धातरि हंसके । प्रतापे भ्रमरे नष्टे चोरे झञ्झानिले मदे ॥ ञो व्यूहे विषये गर्वे लेपे मूर्ध्नि खरध्वनौ । ;l{0080} त्रिषूत्ताने मूढरूपे क्लीबे तु भयपद्ययोः ॥ ज्ञः प्राज्ञे त्रिषु ना चन्द्रसूनावात्मनि वेधसि । टः पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ ॥ कवाटावर्तयोः सूनौ भूम्यावृत्त्योस्तु टा स्त्रियाम्‌ । ठः शंकरे बृहद्ध्वाने ठं क्लीबे चन्द्रमण्डले ॥ ;l{0085} स्तम्भने शासने चाथ त्रिषु शून्ये शठे दृढे । डः पुमान्विषये शंभौ हासे त्रासे क्षये ध्वनौ ॥ शङ्खध्वनौ रौद्ररसे व्रीडावाचोस्तु डा स्त्रियाम् । डं क्लीबे डामरे दुर्गे वटे डमरुकेऽपि च ॥ ;p{0006} आन्दोलने च त्रिषु तु डशब्दो गायके जडे । ;l{0090} ढः पिशाचे भये काले रागे पान्थे ध्वनौ च ना ॥ ढक्कायां तु स्त्रियां क्लीबे ज्ञाने तूर्यमुखेऽपि ढम् । त्रिष्वयं निर्गुणे गूढे सौम्ये सव्यापसव्ययोः ॥ णशब्दस्तु पुमाञ्जारे भैरवे कण्टके ध्वनौ । ;l{0094} णा स्त्रियां रजनीशय्याधेनुनासाकृपासु च ॥ ;l{0094a} णं सरोजदले ज्ञाने त्रिषु निस्तुषवस्तुनि । ;l{0094b} तशब्दः पुंसि संभोगे निश्चये कोपपुच्छयोः ॥ ;l{0095} धातुवादविधौ चोरे करुणायां तु ता स्त्रियाम् । तच्छब्दः प्रकृतार्थोक्तौ त्रिषु हेतौ तदव्ययम् ॥ तेशब्दः क्रीडने स्त्री स्यात्क्रीडके त्वभिधेयवत् । तृट्पिपासेहयोः स्त्री स्यात् थः पुंस्यूर्मिगिरीन्दुषु ॥ स्त्रीलिङ्गोऽयं तरङ्गिण्यां क्लीबे भयनिवारणे । ;l{0100} वाच्यलिङ्गस्तु धवले श्यामले पृथुलेऽपि च ॥ दः पुंसि दातरि छेदे दा स्त्रियां क्षान्तिदानयोः । दं क्लीबे पानवैराग्यकलत्रेष्ववलोकने ॥ मेघलिङ्गस्त्वयं मूके गृहीते द्रावके शुचौ । दर्शनज्ञाननेत्रेषु दृक् स्त्री द्रष्टरि तु त्रिषु ॥ ;l{0105} धः पुंसीन्द्रे ध्वनौ ध्याने श्रीदे धन्वन्तरौ घटे । धं वेश्मनि धने धान्ये बुद्धौ स्त्री धा च धिश्च धीः ॥ ;p{0007} धूर्ना धूपे स्त्री तु कम्पे वित्ते भारे युगाग्रयोः । हेरम्बे नः पुमान् ना स्त्री नाभौ नं ज्ञानवाद्ययोः ॥ वध्यसूक्ष्मपरिक्लिष्टशून्यभिन्नेषु नस्त्रिषु । ;l{0110} नुशब्दस्तु स्तुतौ स्त्री स्यान्नौः स्त्री तरणिकालयोः ॥ पः पुमान्पवने शैले प्रकाशे कौस्तुमे क्षणे । शुभलग्नेऽथ पं क्लीबे हेम्नि पाः पातृपानयोः ॥ स्त्रीलिङ्गे त्वम्बुधारायां सुधायां संमतौ च पा । पुस्त्रिष्वार्ते प्रसन्ने च पूः स्त्री पुरशरीरयोः ॥ ;l{0115} पूरणे चाथ पुंशब्दः पुरुषे परमात्मनि । फो झञ्झानिल आस्फोटे फूत्कारे वारणे रणे ॥ फा स्त्रियां निष्ठुरोक्तौ च कलाकेलिकुटीषु च । अथ स्फारे परोक्षे च फशब्दो वाच्यलिङ्गकः ॥ बः कुम्भे वरुणे बिन्दौ विकल्पे खे गुरौ मदे । ;l{0120} विभूतिकारे कलहे पक्षे गर्भे च पर्वणि ॥ बा स्त्रियां काहलीवल्लीशृङ्खलास्वमले त्रिषु । भः शंभौ भ्रमरे भावे शुक्रेंऽशौ जलदे पुमान् ॥ भा भुव्यलंकृतौ दीप्तौ स्त्रियां भाः किरणे द्युतौ । क्लीबे तु गगने राशौ तारायां पुण्ड्रचक्रयोः ॥ ;l{0125} भीः स्त्री भीत्यां खगे पुंसि स्थानभूम्योस्तु भूः स्त्रियाम् । मः शंभौ धातरीन्द्रे ना चन्द्रे मासे च माः पुमान् ॥ ;p{0008} मा स्त्री माने मृतौ वेलामेधाश्रीमध्यमातृषु । माव्ययं प्रतिषेधे च जने तु स्यान्नपुंसकम् ॥ मुः पुंसि बन्धने पिङ्गकपिलाभिधवर्णयोः । ;l{0130} यस्त्यागे निलये वायौ यमे धातरि यातरि ॥ या स्त्रियां यानमञ्जर्योः शोभालक्ष्म्योश्च निर्वृतौ । यच्छब्दः सर्वनामाख्यस्त्रिषु हेतौ यदव्ययम् ॥ ख्या स्त्री ख्यातौ प्रकथने ज्या मौर्वीमातृभूमिषु । द्युर्नाकेऽप्यह्वि वह्नौ च स्वर्व्योम्नोर्द्योदिवौ स्त्रियाम् ॥ ;l{0135} रः पुमान्पावके कामे क्षये वज्रे शयेऽप्यरौ । रा स्त्रियां हेम्नि शालायामाशंसायां गतावपि ॥ रं क्लीबे रुधिरे मूर्ध्नि ध्यानव्योमाणुकुक्षिषु । वक्त्रे भये च त्रिषु तु विरसे त्यागतीक्ष्णयोः ॥ रास्तु द्वयोर्धने स्वर्णे रिशब्दस्तु स्रवे क्षये । ;l{0140} स्त्री रुर्जालेच्छयोः कान्तौ रुर्ना युद्धे भये ध्वनौ ॥ स्त्री कामिनीवम्रिकयोः रूः स्वर्णे कामरूपिणि । श्रीर्वेषरचनाशोभासंपत्सरलशाखिषु ॥ वाणीलक्ष्मीलवङ्गेषु विषे बिल्वेऽप्यथ त्रिषु । जटायां प्रा प्रूरणे स्त्री स्रुग्घोमाङ्गे गतौ स्त्रियाम् ॥ ;l{0145} लः खण्डने त्रिष्वदाने स्त्री नेन्द्रे लवणे तु लम् । श्रमैक्यनाशनश्रेष्ठसाम्यान्तलवणेषु लिः ॥ ;p{0009} वः पुमान्सान्त्वने वायौ संयमे वरुणे स्मरे । वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये ॥ विश्चक्षुषि व्योम्नि वाते परमात्मनि पक्षिणि । ;l{0150} वैश्ये जने पुरीषे विट् क्रमात्पुंसि द्वयोः स्त्रियाम् ॥ स्वोऽस्त्री धने पुमाञ्ज्ञातौ त्रिष्वात्मीये स्वमात्मनि । स्वरव्ययं च त्रिदिवे त्विट्‌ कान्तिज्वालयोः स्त्रियाम् ॥ वल्के लवङ्गवल्के त्वग्द्वार्द्वारोपाययोः स्त्रियाम् । शो वल्मीके शिवे कूर्मे भूपे शिष्ये तनूकृतौ ॥ ;l{0155} शा स्त्रियां देवपूजायां शक्तौ शोभावरेण्ययोः । रमायां चाथ शं क्लीबे शास्त्रे श्रेयसि मङ्गले ॥ कीर्तौ शक्रायुधे स्वर्गे शः परोक्षे त्रिलिङ्गकः । शमव्ययं च सौख्यार्थे शिः शंभौ शिवशान्तयोः ॥ निर्वाणहिंसास्वापेषु षः स्वर्गे विषये च ना । ;l{0160} षा स्त्री रमायां षं क्लीबे गर्भमोक्षावसानयोः ॥ मर्षणे च त्रिलिङ्गस्तु परोक्षश्रेष्ठयोरयम् । सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् ॥ सं क्लीबे स्यन्दनपथे ज्ञाने ध्याने निवारणे । सन्सत्ये विदुषि श्रेष्ठे साधौ भवति च त्रिषु ॥ ;l{0165} सत् क्लीबमृक्षे सूशब्दः प्रेरणे गर्भमोचने । सेशब्दः सेवने स्त्री स्यात्सेवके त्वभिधेयवत् ॥ ;p{0010} हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु । गर्वे प्रचेतसि स्त्री तु हा त्यागे गतिवीणयोः ॥ हं क्लीबमस्त्रसुखयोः क्वणिते मणिरोचिषि । ;l{0170} परब्रह्मामन्त्रणयोस्त्रिषु तून्मत्तहास्ययोः ॥ संबोधने च हेशब्दो हा स्त्रियां परिदेवने । हुं प्रश्ने रासभेदे च वितर्कहयदानयोः ॥ क्षः संरोधे विरोधे च क्षेमदुःस्वप्नयोश्च ना । क्षा स्त्री क्षमायां निद्रायां क्षं क्लीबे क्षेत्ररक्षसोः ॥ ;l{0175} अप्राचुर्यात्प्रयोगस्य लिङ्गं क्वचिदुपेक्षितम् । एकाक्षरेषु शब्देषु तदूह्यं लक्ष्यवेदिभिः ॥ ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायाम् ।} ;c{एकाक्षरपदकाण्डः पूर्णो नानार्थरत्नमालायाम् ॥} ;k{द्‌व्यक्षरकाण्डः} ;c{॥ अथ द्‌व्यक्षरकाण्डप्रारम्भः ॥} ;v{कान्ताः} अर्को मघोनि स्फटिके ज्येष्ठभ्रातरि भास्करे । ;l{0180} शुभ्रेऽर्कपादपे चाथ मर्को मनसि मारुते ॥ काङ्क्षोहकर्मभेदेषु तर्कः कर्कस्तु दर्पणे । घटभेदे सिताश्वेऽग्नौ रङ्कः कृपणमल्लयोः ॥ ;p{0011} अङ्को नाटकविच्छेदे संख्यायां युधि भूषणे । समीपे रूपके स्थाने मन्तावुत्सङ्गचिह्नयोः ॥ ;l{0185} वङ्कः पल्याणभागे च वक्रत्वे चाथ टङ्कणे । गर्वे खनित्रे जङ्घायामसिकोशेऽश्मदारणे ॥ बाणान्तरे च टङ्कः स्यात्कङ्कस्तु यमपक्षिणोः । न्यङ्कुर्गुरुकुलस्थायिशिष्ये मीने मृगे मुनौ ॥ शङ्कुः पर्णसिराजाले यादोभेदेऽस्त्रसंख्ययोः । ;l{0190} स्थाणौ कीले मेहने च रेकः शङ्काविरेकयोः ॥ काककोकौ पिकौ नाकुर्वल्मीके पर्वते मुनौ । पाको जरसि निष्ठायामर्भके पचनेऽपि च ॥ जनविष्टपयोर्लोकः श्लोकः पद्ये यशस्यपि । शृङ्गानुक्रोशयोः शोको नाकः स्वर्गान्तरिक्षयोः ॥ ;l{0195} चक्रवाके वृके कोकः शको गोमयदेशयोः । मुष्कोऽण्डकोशे मोक्षे द्रौ शङ्का त्रासवितर्कयोः ॥ लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च । अकं तु दुरिते क्लेशेऽप्योकसी मन्दिराश्रयौ ॥ शकले वल्कलेऽपि स्याच्छल्कं वल्कमिति द्वयम् । ;l{0200} रतिभेदे शुकव्यूहे शौकं भेकस्तु कातरे ॥ ;p{0012} त्रिषु वर्षाभ्वि पुंस्येव त्रिकं पृष्ठाधरे त्रये । त्रिकस्त्रयाणां संघे च नेमौ कूपस्य च त्रिका ॥ पुष्पभेदे बकं रक्षःपक्षियक्षाधिपा बकाः । कीरे दशाननामात्ये शोणके व्यासनन्दने ॥ ;l{0205} शुकः शुकं तु शैरीषकुसुमग्रन्थिपर्णयोः । त्रिष्वल्पे चातके पुंसि स्तोको राकस्तु पूषणि ॥ राका नवरजोनार्यां पूर्णचन्द्रतिथावपि । शाकः शक्तौ वृक्षभेदे भूपद्वीपविशेषयोः ॥ अयं त्वस्त्री हरितके पङ्कोऽस्त्री कर्दमैनसोः । ;l{0210} द्वयोः किष्कुर्वितस्तौ ना हस्ते निष्कस्तु न स्त्रियाम् ॥ हेम्न्युरोभूषणे कर्षे साष्टस्वर्णशते पले । दीनारे चाथ कल्कोऽस्त्री दम्भविट्‌किट्टपाप्मसु ॥ छेकोऽभिज्ञे त्रिषु गृहासक्तपक्षिमृगेषु ना । पथिकैर्मार्गरक्षिभ्यो जामात्रा श्वशुराय च ॥ ;l{0215} राज्ञे चाश्वादिविक्रेत्रा प्रदेयं शुल्कमस्त्रियाम् । त्रिष्ववाग्दीनयोर्मूक एके मुख्यान्यकेवलाः ॥ ;c{॥ इति कान्ताः ॥} ;v{खान्ताः} शिखी केतुग्रहे वह्नौ मयूरे कुक्कुटे द्रुमे । पोत्रिमूषकयोराखुः शाखी पादपवेदयोः ॥ पुङ्खः श्येने शराग्रे च रेखा तु श्रेणिलेखयोः । ;l{0220} प्रेङ्खा पर्यटने वाजिगतौ रिङ्खा तु नर्तने ॥ ;p{0013} गतिभेदे च शाखा तु पादे पक्षान्तरे भुजे । निकटे पादपाङ्गे च प्रभेदे छन्दसामपि ॥ शिखा शिफाकेकिमौल्योर्ज्वालाशाखाग्रमौलिषु । मुखं प्रधाने प्रारम्भे वक्त्रे निःसरणेऽपि च ॥ ;l{0225} उपाये द्वारि ताम्रेऽथ सुखं स्वर्गाम्बुशर्मसु । वरुणस्य नगर्यां तु सुखा द्रव्ये त्वयं त्रिषु ॥ राजौ लिपौ च लेखा स्त्री पुंस्ययं लेख्यदेवयोः । नखोऽस्त्री नखरे ना तु षण्डे कोलदले नखम् ॥ न्युङ्खो मनोज्ञेऽन्यलिङ्गः साम्नः षट्प्रणवेषु ना । ;l{0230} सखा त्रिषु सहाये ना मित्रे शङ्खस्त्वहौ निधौ ॥ ललाटास्थ्नि नखे कम्बौ सङ्ख्यावलयसानुषु ॥ ;c{॥ इति खान्ताः ॥} ;v{गान्ताः} अगो नगश्च भुजगे भानौ भूरुहि भूधरे । खगः सूर्येन्दुपक्षीषुग्रहगीर्वाणवायुषु ॥ असिगण्डकयोः खड्गो भूप्रदेशे मृगे लगुः । ;l{0235} भृगुर्दैत्यगुरौ शंभौ जमदग्निप्रतापयोः ॥ भागो भाग्ये रूपकार्थे चतुर्थांशैकदेशयोः । रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः ॥ गान्धारादौ रञ्जने च पूगस्तु क्रमुके गणे । ;p{0014} भोगस्तु भोजने वित्ते निर्वेशे पालने सुखे ॥ ;l{0240} वनितादिभृतौ राज्ये सर्पस्य फणकाययोः । योगः संनहने ध्याने युक्तौ संगत्युपाययोः ॥ प्रयोगे मेषजे विष्कम्भादौ विस्रब्धघातिनि । मार्गो मासे मृगमदेऽन्वेषणे पथि सौम्यभे ॥ सर्गो निश्चयनिर्मोकस्वभावाध्यायसृष्टिषु । ;l{0245} उत्साहत्यागयोश्चाथ त्यागो वर्जनदानयोः ॥ वेगाः प्रवाहकिंपाकजवाः स्वर्गः प्रियेऽपि च । शृङ्गी विषायां मीने च वृषभाख्यौषधे च ना ॥ शृङ्गं विषाणे प्राधान्ये सानौ क्रीडाम्बुयन्त्रके । पर्वताग्रे च शार्ङ्गं तु चापकेशवचापयोः ॥ ;l{0250} लिङ्गं स्यात्साध्यगमके शेफचिह्नेशमूर्तिषु । भर्गः शिवे तथा लोकेऽप्यागसी मन्तुकिल्बिषे ॥ भगः श्रीधर्मवैराग्ययत्नैश्वर्यार्कमुक्तिषु । इच्छावीर्यतपःकीर्तिमाहात्म्यज्ञानकान्तिषु ॥ योनौ तु स्याद्भगं क्लीबे युगं हस्तचतुष्टये । ;l{0255} युगले च कृतादौ च रथाद्यङ्गे तु ना युगः ॥ ;p{0015} दुर्गा गौर्यां कालिकायां दुर्गं तु नरके पुरे । शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे ॥ मृगः पशौ कुरङ्गे च गजभेदे शशाङ्कमे । याचने मृगयायां च मृगी तु वनितान्तरे ॥ ;l{0260} नागः सर्पे गजे मेघे पुंनागे नागकेसरे । देहान्तर्वायुभेदे च मुस्तके नागदन्तके ॥ ग्राहे श्रेष्ठेऽप्यथो नागं सीसे रङ्गे रतान्तरे । खड्गः खड्गमृगे खड्गे भङ्गः खण्डे पराजये ॥ तरङ्गे रोगभेदे च भङ्गा तु शणसंज्ञिके । ;l{0265} भङ्गी प्रकारे तुङ्गस्तु शैलपुंनागयोः पुमान् ॥ त्रिषून्नतेऽथ व्यङ्गो ना भेके हीनाङ्गके त्रिषु । अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ॥ देशभेदे तु पुंसि स्यादङ्गेत्यामन्त्रणेऽव्ययम् । वङ्गौ तु देशवृन्ताकौ वङ्गं सीसकरङ्गयोः ॥ ;l{0270} भृङ्गस्त्वलिनि धूम्याटे षिद्गे भृङ्गं तु कुन्तले । रङ्गं त्रपुणि रङ्गो ना रागे नृत्तस्थले रणे ॥ ;c{॥ इति गान्ताः ॥} ;v{घान्ताः} अर्घः पूजाविधौ मूल्ये दुःखैनोव्यसनेष्वघम् । इच्छाप्रशंसयोः श्लाघा भे मघा मेषजे मघी ॥ ;p{0016} मोघा स्त्री पाटलायां स्यात्त्रिषु निष्फलदीनयोः । ;l{0275} अगरुक्षिप्रनिःसारमनोज्ञेषु लघुस्त्रिषु । ओघः प्रवाहो निवहः द्रुतनृत्तपरंपराः ॥ ;c{॥ इति घान्ताः ॥} ;v{चान्ताः} क्रौञ्चो द्विपे खगे शैले पिचुस्तूलेऽसुरान्तरे । कुष्ठरोगेऽपि काचस्तु शिक्यमृद्भेददृग्रुजः ॥ अर्चा पूजाप्रतिमयोश्चर्चा स्थासकचिन्तयोः । ;l{0280} रुचिस्तु किरणे कान्तावभिषङ्गाभिलाषयोः ॥ सूचिः सुरतभेदेऽभिनये सीवनसाधने । वीचिः कुन्तलवक्रत्वे स्वल्पे पङ्क्तितरङ्गयोः ॥ काञ्ची पुरीमेखलयोर्नीचः खर्वेऽधमे त्रिषु । वर्चांसि ज्वालविट्भासः शोचिः शुद्धिशुगंशुषु ॥ ;l{0285} कदल्यां शाल्मलौ मोचा पुंस्ययं शिग्रुपादपे । शुचिर्ना शुक्रशृङ्गारचन्द्राषाढहराग्निषु ॥ उपधाशुद्धसचिवे ग्रीष्मे श्वेतगुणे रवौ । अयं तु श्वेतगुणिनि शुद्धेऽनुपहते त्रिषु ॥ स्त्री त्रोटौ चञ्चुरेरण्डे ना कूर्चस्त्वस्त्रियां कुशे । ;l{0290} श्मश्रुकैतवपीठेषु भ्रुवोर्मध्ये विकत्थने ॥ कचः शुष्कव्रणे बन्धे केशे सूनौ वृहस्पतेः । कचा करिण्यामर्चिस्तु न पुमाञ्ज्वालरोचिषोः ॥ ;c{॥ इति चान्ताः ॥} ;p{0017} ;v{छान्ताः} कच्छो गुह्याम्बरप्रान्ते पार्श्वे कूपस्थले तटे । गुच्छस्तु स्तबके स्तम्बे हारभेदकलापयोः ॥ ;l{0295} पिच्छा शाल्मलिनिर्यासे मण्डेऽश्वचरणामये । पिच्छं खगच्छदे बर्हे तुच्छं दुःखे नपुंसकम् ॥ शून्ये त्रिष्वथ पुच्छोऽस्त्री पश्चाद्भागेऽपि वालधौ । त्रिष्वच्छो निर्मले ना तु भल्लूके स्फटिकेऽव्ययम् ॥ ;c{॥ इति छान्ताः ॥} मासोत्साहबलेषूर्जो व्याजः शाठ्यापदेशयोः । ;l{0300} कुजा द्रुनरकाङ्गारा व्रजा गोष्ठाध्वसंचयाः ॥ राजा यक्षे नृपे शक्रे पत्यौ क्षत्रियचन्द्रयोः । वाजी खगशराश्वेषु वाजः पक्षे जवे स्वने ॥ वाजं घृते च यज्ञान्ने यवाग्वादियशःसु च । प्रजा संतानजनयोः स्याद्रुजा रोगभङ्गयोः ॥ ;l{0305} राजिस्तु पङ्क्तौ रेखायामाजिर्युद्धे समस्थले । खर्जूः कीटविशेषे स्यात्कण्ड्वां खर्जूरिकाद्रुमे ॥ गुञ्जा कलध्वनौ काकबिम्बवाद्यविशेषयोः । बीजं रेतसि तत्त्वेऽन्ने हेतावङ्कुरकारणे ॥ ओजः शब्दगुणे ज्ञाने बले गर्वप्रकाशयोः । ;l{0300} तेजो बले प्रतापेऽग्नौ त्विषि रेतस्यथो रजः ॥ ;p{0018} गुणे रेणावार्तवेऽथ द्विजो विप्रे खगे रदे । द्विजा भार्गीरेणुकयोः स्वजो ना स्वेदपुत्रयोः ॥ नपुंसकं शोणितेऽथ बाहौ पाणौ भुजो द्वयोः । पीयूषपद्मयोः कञ्जं कञ्जो मूर्धजवेधसोः ॥ ;l{0315} कुञ्जेाऽस्त्री दन्तिनां दन्ते निकुञ्जे कानने हनौ । गञ्जा खन्यां सुरागेहे भाण्डागारे तु पुंस्ययम् ॥ लवणाम्बुजयोरब्जं क्लीबे शङ्खे तु पुंसि वा । पुंस्येव निचुले शीतरश्मौ धन्वन्तरावपि ॥ पताकाचिह्नखट्वाङ्गमेढ्रेषु ध्वजमस्त्रियाम् । ;l{0320} कुब्जाधोमुखयोर्न्युब्जस्त्रिषु रोगान्तरे तु ना ॥ अजः शंभौ विष्णुधात्रोः कामे छागे रघोः सुते । त्रिषु त्वनादौ पिञ्जं तु बले क्लीबं वधे पुमान् ॥ हरिद्रातूलयोः स्त्री स्यादाकुले त्वभिधेयवत् । अथोत्तरे त्रिष्ववक्रेऽप्युत्पत्तिरहितेऽप्यृजुः ॥ ;l{0325} सज्जौ संभृतसंनद्धौ निजौ स्वीयाविनाशिनौ । ;c{॥ इति जान्ताः ॥} ;v{झान्ताः} झञ्झा ध्वनिविशेषे स्यादपि सूक्ष्माम्बुवर्षणे । ;c{॥ इति झान्ताः ॥} ;p{0019} ;v{ञान्ताः} संज्ञा नाम्न्यर्कजायायां चैतन्येऽप्यर्थसूचने । प्रज्ञा धीः स्त्री त्रिष्वभिज्ञे त्रिष्वज्ञो जडमूर्खयोः ॥ प्राज्ञी विदुष्यां प्राज्ञा तु प्रज्ञावत्यां त्वयं त्रिषु । ;c{॥ इति ञान्ताः ॥} ;l{0330} ;v{टान्ताः} वटौ वराटन्यग्रोधौ प्रियालुवसने पटौ । त्वष्टारौ देवशिल्प्यर्कौ नटौ नर्तकशोणकौ ॥ विटः स्याल्लवणे षिद्गे मूषके खदिरे गिरौ । चटुश्चाटुश्च राजादिस्तुतौ पशुपिचण्डके ॥ पट्टः पेषणदृषदि व्रणादिबन्धे चतुष्पथे पीठे । ;l{0335} लेख्यविशेषे राजाद्यभिषेचनयोग्यपट्टिकायां च ॥ सृष्टिः स्वभावे निर्माणे स्यात्पुष्टिर्वृद्धिपोषयोः । व्युष्टिः फले समृद्धौ स्याद्दृष्टिर्धीदर्शनाक्षिषु ॥ यष्टिर्दण्डे हारभेदे मधुकेऽप्यायुधान्तरे । दिष्टिर्दानसुखानन्दपरिणामेष्वथो जटा ॥ ;l{0340} मांस्यां मूले लग्नकचे विष्टिर्नरकपातने । बलात्कारे च भद्राख्यकरणे कर्मवेतने ॥ सटा जटाकेसरयोर्घोटा बदरपूगयोः । कोटिः प्रकर्षचापाग्रसंख्यापक्षान्तराश्रिषु ॥ ;p{0020} त्रुटिः स्यात्संशये लेशे सूक्ष्मैलाकालमानयोः । ;l{0345} त्रोटिश्चञ्चौ कट्फले च वाद्ये काललवे तुटिः ॥ रेटिर्वह्नेश्च रटितं वाणी चासंयतोत्कटा । पट्टिर्ललाटभूषायामपि लाक्षाप्रसाधने ॥ यागेच्छादानदेवार्चास्विष्टिः सृष्ट्यादयः स्त्रियाम् । व्युष्टं प्रभातदिवसफलपर्युषितेष्वपि ॥ ;l{0350} रिष्टं स्यादशुभक्षेमनाशनिस्त्रिंशपाप्मसु । कूटोऽस्त्री गिरिशृङ्गे यन्त्रे राशावयोघने व्याजे ॥ अनृते मायायामपि सीराङ्गे निश्चले च पापे च । खेटः कफकुत्सितयोर्ग्रामे फले गुडविकारे च ॥ श्रोण्यां भृशे कलिङ्गे गजगण्डे शवरथे शवे च कटः । ;l{0355} कटुस्तिक्तरसे क्षाररसे ना तद्वति त्रिषु ॥ सुगन्धिमत्सराकार्याप्रियतीक्ष्णेष्वपि त्रिषु । कटुः स्त्री कटुरोहिण्यां दूषणे तु नपुंसकम् ॥ घटः कुम्भे समाधौ च घटा तु गजसंहतौ । घटनायां च गोष्ठ्यां च कुटस्तु घटवेश्मनोः ॥ ;l{0360} कुटी तु स्त्री कुम्भदास्यामल्पवेश्मनि चापि सा । अट्टस्त्वट्टालके पूरे भृशे शुष्के त्वयं त्रिषु ॥ ;p{0021} अट्टं त्वन्नेऽथ कृष्टिः स्त्री कर्षणे कोविदे तु ना । एकवारप्रसूता गौर्गृष्टिः स्त्री सूकरे तु ना ॥ दिष्टं दैवपरीमाणानन्देषु समये तु ना । ;l{0365} अथ त्रिषु पटुस्तीक्ष्णे नीरोगे निपुणेऽपि च ॥ तटौ तीरभृगू सृष्टास्त्यक्तनिश्चितनिर्मिताः । इष्टमाशंसिते दत्ते हुतपूजितयोरपि ॥ म्लिष्टौ म्लानास्पष्टवाचौ व्यक्तसंफुल्लयोः स्फुटः । ;c{॥ इति टान्ताः ॥} ;v{ठान्ताः} कण्ठो वाचकशब्दे स्यात्संनिधाने गले ध्वनौ । ;l{0370} निष्ठा तु नाशे निष्पत्तावन्ते तात्पर्ययाच्ञयोः ॥ पृष्ठं चरममात्रे च वपुषश्चरमे च तत् । ज्येष्ठा त्वलक्ष्मीनक्षत्रगृहगोधासु मासि ना ॥ अयं वृद्धतमश्रेष्ठपूर्वजेषु त्रिलिङ्गकः । सभासंलापयोर्गोष्ठी गोष्ठं गोस्थानके भवेत् ॥ ;l{0375} श्रेष्ठौ ना तु नदे वर्ये त्रिषु काष्ठं च दारुणि । काष्ठा दर्व्यां कालभेदे प्रकर्षे दिशि सीम्नि च ॥ कुक्षेरन्तर्गृहस्यान्तः कुसूले कोष्ठमस्त्रियाम् । पाठो ना पठने पाठा विद्धकर्ण्यामथौषधे ॥ गदे च कुष्ठमस्त्री स्यात्प्रेष्ठस्रिष्वग्रगे वरे । ;l{0380} कुण्ठः स्यादकृतोद्वाहे खर्वेऽप्यनिशितायुधे ॥ ;c{॥ इति ठान्ताः ॥} ;p{0022} ;v{डान्ताः} गण्डो व्रणे कपोले पिटके गर्वे मृगान्तरे योगे । मूलादिदुष्टभागे हयभूषणबुद्बुदेऽप्यपाये च ॥ दण्डी द्वाःस्थे यमे पिण्डिस्तगरे तिलकल्कके । चोडौ कञ्चुलिकादेशौ व्याडौ हिंस्रपशूरगौ ॥ ;l{0385} पीडा व्यथाकरुणयोः शिरोमाल्यापमर्दयोः । नाडी नालघटीदूर्वाव्रणेष्वङ्गसिरासु च ॥ इडा वाग्गोद्युभूनाड्य इडा स्याद्बुधपत्न्यपि । शुण्डा करिकरे मध्ये नलिन्यां वारयोषिति ॥ गतभर्तृकनारी तु रण्डा मूषकपर्ण्यपि । ;l{0390} अण्डं मुष्के विहङ्गादिकोशे भाण्डं तु मार्जने ॥ नदीपात्रे वणिङ्‌मूलधने भूषाश्वभूषयोः । पाण्डुर्नृपे गदे श्वेतगुणे ना गुणिनि त्रिषु ॥ मुण्डो दैत्यान्तरे राहौ मूर्ध्नि त्रिषु तु मुण्डिते । मन्त्रविख्यातयोः शौण्डस्त्रिषु पुंसि तु कुक्कुटे ॥ ;l{0395} शौण्डी जलदपङ्क्तौ च पिप्पलीचव्ययोरपि । खण्डमस्त्री मणेर्दोषे शकलेक्षुविकारयोः ॥ गुडा स्नुहीगुलिकयोर्गुडः पिण्डेक्षुपाकयोः । जडः स्तब्धे बुद्धिहीने हिमग्रस्तेऽपि वाच्यवत् ॥ ;p{0023} शूकशिम्ब्यां जडा नीडमस्त्री स्थानकुलाययोः । ;l{0400} क्रोडो ना सूकरे क्लीबमुत्सङ्गे वक्षसि द्वयोः ॥ क्ष्वेडा वेणुशलाकायां सिंहनादेऽपि च स्त्रियाम् । अयं तु पुंसि गरले ध्वनौ रक्तार्कपादपे ॥ बाणावसरग्रन्थिस्तम्बरहोवाजिवारिवर्गेषु । स्कन्धे च भूरुहाणां गर्वे नाले बले च काण्डोऽस्त्री ॥ ;l{0405} चण्डो दैत्यविशेषे यमदासे त्रिषु तु तीव्रकोपनयोः । चण्डी गौर्यथ मस्तुनि मण्डमसौ सारपिच्छयोः पुंसि ॥ कुण्डं पिठरे तोयाधारविशेषे च वह्निगर्ते च । कुण्डो जाराज्जातः सभर्तृकायां कमण्डलुः कुण्डी ॥ दण्डोऽस्त्री दमहिंसासेनालगुडेषु शासने राज्ञाम् । ;l{0410} दण्डो मानविशेषे व्यूहे रविपारिपार्श्वके पुंसि ॥ पिण्डो वपुषि निवापे गोलेऽप्यथ पिण्डमयसि गर्भशिशौ । आजीवने गडुस्तु त्रिषु कुब्जे पुंसि पृष्ठगुडे ॥ ;c{॥ इति डान्ताः ॥} ;v{ढान्ताः} षण्ढः षण्डे वर्षधरे गोपतौ वन्ध्यपूरुषे । दाढा दंष्ट्रेच्छयोर्वोढा सूते ना धर्तरि त्रिषु ॥ ;l{0415} गूढं रहसि गुह्ये च क्लीबे त्रिषु तु संवृते । ;p{0024} बाढं त्रिषु दृढे क्लीबमनुमत्यामथ त्रिषु ॥ मूढोऽज्ञे मूर्छिते व्यूढं विन्यस्ते संहते पृथौ । दृढा बलिस्थूलगाढाः सोढा शक्तक्षमावतोः ॥ ;c{॥ इति ढान्ताः ॥} ;v{णान्ताः} मौर्वीसूदवृकोदरतन्त्वावृत्तीन्द्रियेषु रूपादौ । ;l{0420} सत्त्वादौ संध्यादौ त्यागादावप्रधानके च गुणः ॥ ;l{0420a} व्यवहारे भृतिधनयोर्मूलधने विक्रयार्हशाकादेः । मूल्ये वराटमाने द्यूते कार्षापणे ग्लहे च पणः ॥ व्यापारविकलतायामुत्सवपरतन्त्रतामुहूर्तेषु । परमाणुकालभेदे घटीषडंशे क्षणस्तथावसरे ॥ सैन्यभेदे समूहे च संख्यायां प्रमथे गणः । ;l{0425} श्रोत्रकौन्तेययोः कर्णः कोणोऽश्रौ लगुडेऽर्कजे ॥ वीणादिवादनोपाये वाद्यगेहैकदेशयोः । देवेऽर्के तर्णिरर्काग्न्योर्जूर्णिरग्न्यर्चिषोर्घृणिः ॥ वृष्णिस्तु यादवे मेषे पाषण्डे हिमदीधितौ । शाणः कर्षोपले माषचतुष्के करपत्रके ॥ ;l{0430} प्राणो देहान्तरनिले जीवात्मपरमात्मनोः । आयुरिन्द्रियसत्त्वेषु प्रणये कार्यमर्मणि ॥ ;p{0025} भ्रूणोऽर्भके स्त्रैणगर्भे गर्भिंण्यां श्रोत्रिये द्विजे । ऊर्णा भ्रूमध्यगावर्ते तन्तौ मेषादिलोमसु ॥ वेणी प्रवाहे सरितां मेलने केशबन्धने । ;l{0435} देवताडेऽप्यथ स्थूणा स्तम्भे च प्रतिमायसोः ॥ वीणा तटिच्च घोणा तु नासिका रथकर्णिका । घृणा जुगुप्साकृपयोस्तृष्णा त्वीहापिपासयोः ॥ वर्णः स्वर्णकथाकुथनुतिगुणशोभायशोविशेषेषु । गीतिक्रमे द्विजादौ शुक्लादौ चाक्षरे तु वर्णं वा ॥ ;l{0440} कणा जीरकपिप्पल्योः कणो धान्यांशलेशयोः । द्रोणः कृपीपतौ काकभेदवृश्चिकयोश्च ना ॥ अस्त्र्याढकचतुष्के च द्रोणी काष्ठाम्बुवाहिनी । बाणौ दैत्यशरौ बाणा द्वयोर्नीलकुरण्टके ॥ तीक्ष्णं क्लीबे विषे युद्धे समुद्रलवणायसोः । ;l{0445} त्रिषु तिग्मे क्षते क्षारे शोणस्त्वरलुपादपे ॥ नदेऽग्नौ रक्ततुरगे रागे ना तद्वति त्रिषु । चूर्णिर्गद्ये स्त्रियां चूर्णं क्षोदे क्षारान्तरेऽपि तत् ॥ पर्पाटके स्त्रियां रेणुर्द्वयोर्धूल्यामणुस्तु ना । धान्यभेदे त्रिषु त्वल्पे रणोऽस्त्री युधि ना ध्वनौ ॥ ;l{0450} मणिर्द्वयोरजाकण्ठस्तने रत्नेऽप्यलिञ्जरे । ;p{0026} मेहनाग्रे च नासा तु घ्राणं घ्राते त्वयं त्रिषु ॥ पार्ष्णिरुन्मत्तनार्यां स्त्री ना त्वयं गुल्फयोरधः । पश्चाद्भागे सैन्यपृष्ठे जिष्णुस्तु त्रिषु जित्वरे ॥ पार्थेन्द्रयोर्ना पर्णं तु पत्रे पुंसि तु किंशुके । ;l{0455} श्रेणिर्द्वयोः सजातीयशिल्पिसंहतिरावलिः ॥ द्वयोराणिरणिश्चासौ सीमन्यक्षाग्रकीलके । स्थाणुः पुमान्महादेवे शङ्कावस्री स्थिरे त्रिषु ॥ श्राणा यवाग्वां पक्वे तु त्रिषूष्णस्त्वातपोष्मणोः । वह्नौ तु पुंसि चतुरतिग्मयोस्त्वेष वाच्यवत् ॥ ;l{0460} व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रपक्षकलिनीलगुणेषु कृष्णः । द्रव्ये त्रिषु द्रुपदजा तटिनी कणा च कृष्णाथ लोहमरिचे दुरितं च कृष्णम् ॥ ;c{॥ इति णान्ताः ॥} ;v{तान्ताः} रसादयः सप्त कफादयस्रयो भूतानि पञ्च स्वगुणाश्च गैरिकम् । शिलाविकारेन्द्रियशब्दयोनयो लोहं स्वभावः कनकं च धातवः ॥ केतुर्ग्रहे ध्वजे चिह्ने किरणोत्पातवह्निषु । ;l{0465} मर्त्यापराधयोर्मन्तुः कन्तुः कामकुसूलयोः ॥ क्रतुर्मुन्यन्तरे यज्ञे हन्तुर्मृत्यौ महागदे । आलिप्रकारयोः सेतुर्हेतुः कारणकर्मणोः ॥ तातोऽनुकम्प्ये पितरि ग्रीष्मादौ स्त्रीरजरस्यृतुः । गातुः पुंस्कोकिले भृङ्गे यन्ता हस्तिपसूतयोः ॥ ;l{0470} क्षत्ता स्यात्सारथौ द्वाःस्थे शूद्रतः क्षत्रियासुते । ;p{0027} मूतमातञ्चनद्रव्ये तृणैर्व्रीह्यादिबन्धने ॥ दन्तोऽद्रिकटके कुञ्जे रदनेऽप्युन्नतोपले । हस्तः करे विस्तृतके प्रकोष्ठेऽप्युडुशुण्डयोः ॥ कचात्परः कलापार्थः पोतः शिशुवहित्रयोः । ;l{0475} सीता सस्ये नभोनद्यां जानक्यां लाङ्गलाध्वनि ॥ लता कस्तूरिकाशाखादूर्वावल्लीप्रियङ्गुषु । पिपीलिकायां माधव्यां ज्योतिष्मत्यूर्णनाभयोः ॥ आर्तिः पीडाधनुष्कोट्योर्मूर्तिः काठिन्यकाययोः । कीर्तिः प्रसादे यशसि कर्दमे विस्तृतावपि ॥ ;l{0480} वर्तिर्दीपदशागात्रलेपयोर्मणिरञ्जने । व्रणभेदे भेषजे च नयनाञ्जनलेखयोः ॥ शान्तिः कल्याणशमयोः कान्तिः शोभावरेण्ययोः । छन्दोऽपि दशमं पङ्क्तिर्भ्रान्तिर्मिथ्यामतावपि ॥ न्याययोजनयोर्युक्तिर्भक्तिः स्याद्भागसेवयोः । ;l{0485} शक्तिः कासूप्रभुत्वादिबलदुर्गादिदेवताः ॥ शुक्तिः कपालशकलं दुर्नामा नयनामयः । मुक्तास्फोटो हयावर्तः शङ्खः शङ्खनखो नखी ॥ कृत्तिश्चर्मणि भूर्जे च कर्तने कृत्तिकासु च । गुप्तिः स्याद्भूव्यूदासेऽपि कारावेश्मनि रक्षणे ॥ ;l{0490} आप्तिः संबन्धलाभौ द्वौ प्राप्तिस्तावुदयेऽपि च । ;p{0028} भित्तिः कुड्ये भेदने स्यादवकाशप्रकाशयोः ॥ वर्तनं जीवनं टीका कैशिक्याद्याश्च वृत्तयः । वित्तिर्विचारसद्भावज्ञानलाभेष्वथो रतिः ॥ रते कामप्रियाप्रीत्योः सृतिस्तु गतिमार्गयोः । ;l{0495} जातिश्छन्दो जन्म गोत्रं स्वव्याहृतिकरोत्तरम् ॥ सामान्यं मालती चाथ सातिर्दानावसानयोः । मितिर्माने परिच्छेदे श्रुतिराम्नायवार्तयोः ॥ कर्णेऽप्याकर्णने चाथ धर्मशास्त्रेऽपि च स्मृतिः । धृतिर्योगान्तरे धैर्ये धारणे प्रीतिसौख्ययोः ॥ ;l{0500} गीतिर्वृत्तान्तरे गाने नीतिः स्यात्प्रापणे नये । ईतिः स्यादतिवृष्ट्यादिषट्के डिम्भप्रवासयोः ॥ चितिश्चितास्तोमधीषु भृतिर्भरणमूल्ययोः । गतिस्तु गमने मार्गे दशायां बुद्ध्युपाययोः ॥ भूतिर्मातङ्गशृङ्गारजन्मसंपत्तिभस्मसु । ;l{0505} सीवने संततौ स्यूतिरूतिः स्यूतौ च रक्षणे ॥ भीतिः कम्पे भये प्रीतिः प्रेम्णि योगान्तरे मुदि । क्षितिः क्षयावासभूषु हेतिर्ज्वालायुधांशुषु ॥ रीतिः स्यन्दे लोहकिट्टे बैदर्भ्याद्यारकूटयोः । मर्यादायां प्रचारेऽथ खण्डने दैत्यमातरि ॥ ;l{0510} दितिः कृतिस्तु यत्ने च वर्गाख्यगणितेऽपि ना । मतिरिच्छाधिषणयोः स्थानमर्यादयोः स्थितिः ॥ सती दक्षसुतासाध्व्योस्त्रेता त्वग्नित्रये युगे ॥ ;p{0029} वृन्तं पयोधराग्रेऽपि स्याच्च प्रसवबन्धने । ज्योतिस्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु ॥ ;l{0515} स्रोतोऽम्बुनिर्गमे द्वारे प्रवाहेन्द्रिययोर्जले । रेतस्तु सलिले शुक्ले स्वान्तं गह्वरचित्तयोः ॥ स्त्रियां वीतिर्गतावग्नेः प्रभायां घोटके तु ना । पत्तिः पदातौ ना स्त्री तु गतिसेनाविशेषयोः ॥ यतिर्भिक्षौ पुमान्स्त्री तु संयमे श्लोकविश्रमे । ;l{0520} अन्तोऽस्त्री निश्चये नाशे स्वरूपेऽग्रेऽन्तिकेऽन्तरे ॥ वास्तुरस्त्री गृहं सीमा सुरुङ्गा गृहभूः पुरी । अनुक्तलिङ्गेष्वर्थेषु वाच्यलिङ्गत्वमाघृतात् ॥ ब्रह्माण्याद्या अकाराद्याः प्रसूर्गौरी च मातरः । स्त्रियां माता मापके ना धाता धर्तरि ना विधौ ॥ ;l{0525} शास्ता च शासके ना तु बुद्धे वप्ता तु वापके । पुमानयं स्यात्पितरि शीतावलसशीतलौ ॥ शीतं क्लीबे शैत्यगुणे शेलुवेतसयोः पुमान् । वृत्तिमन्नीरुजोर्वार्तं क्लीबे त्वारोग्यफल्गुनोः ॥ स्त्रियामुदन्ते वार्ताके कृष्यादौ वर्तनेऽपि च । ;l{0530} श्वेतो वलर्क्षे क्लीबे तु रूप्ये ना द्वीपवर्णयोः ॥ कृती कृतार्थविदुषोः शितिर्धवलनीलयोः । स्वामिपोषकयोर्भर्ता वक्ता पण्डितवाग्मिनोः ॥ पूतं पवित्रे वस्त्रादिशोधिते बहुलीकृते । युतौ युक्तपृथग्भूतौ मतौ संमतपूजितौ ॥ ;p{0030} ;l{0535} मितौ ज्ञातपरिच्छिन्नावेतावागतकर्बुरौ । यतौ तु बद्धनियतौ वक्रबन्धुरयोर्नतम् ॥ गतिहीनप्रतिज्ञातनिश्चितोर्ध्वज्ञुषु स्थितम् । अवाप्तन्याय्ययोः प्राप्तमाप्तः स्यात्सभ्यलब्धयोः ॥ गूढरक्षितयोर्गुप्तं लिप्तं भक्षितदिग्धयोः । ;l{0540} स्थापिते प्रेरिते क्षिप्तं हितं प्रहितपथ्ययोः ॥ शुक्ताः पूत्यम्लपरुषा मृतं स्याद्याचितेऽपि च । न्याय्येऽपि युक्तं ग्रस्तं तु लुप्तवर्णपदेऽपि च ॥ इतं गतं च ज्ञातेऽपि धुतं धूतं च कम्पिते । त्यक्तेऽप्यथ श्रुतं क्लीबे शास्रावधृतयोरपि ॥ ;l{0545} क्लीबे शातं शितं चापि सुखे च निशिते कृशे । श्वेते बद्धे सितं शर्करायां स्त्री ना गुणे कवौ ॥ ततं व्याप्ते विस्तृते च वीणादौ तु नपुंसकम् । क्लीबे कृतं युगेऽपि स्यात्फलपर्याप्तयोरपि ॥ द्रुतं विलीनावदीर्णवेगेष्वेष तु न द्वयोः । ;l{0550} शीघ्रे शीघ्रगतौ चाथ भवेदवितथेऽप्यृतम् ॥ शिलोञ्छसत्यसलिलसुशीलेषु तु न द्वयोः । प्लुतं त्रिमात्रकेऽप्यश्वगतौ तु स्यान्नपुंसकम् ॥ मृते नारकसत्वे च प्रेतो भूतान्तरे तु ना । भूतं न्याये समे प्राप्ते यथार्थातीतयोरपि ॥ ;p{0031} ;l{0555} क्लीबे त्वयं पिशाचादौ भूम्यादौ जन्तुसत्ययोः । उत्पन्नभूतयोर्जातं बृन्दजात्योस्तु न द्वयोः ॥ पीतं पीते हरिद्राभे गौरवर्णे तु पुंस्ययम् । पीता हरिद्रा पातस्तु रक्षिते पतने तु ना ॥ वीतं शान्ते दुर्गजाश्वे क्लीबे त्वङ्कुशकर्मणि । ;l{0560} सुतस्त्वभिषुते पुत्र्यां सुता ना त्वात्मजे नृपे ॥ प्रसूतेरितयोः सूतः स तु ना तक्ष्णि सारथौ । क्षत्राद्विप्रासुते व्यासशिष्ये पारदबन्दिनोः ॥ सुप्तेऽस्तं पश्चिमाद्रौ तु पुंसि शस्तं तु विश्रुते । क्लीबे क्षेमेऽथ भक्तः स्यात्तत्परेऽन्ने तु न द्वयोः ॥ ;l{0565} वृत्तं स्याद्वर्तुलातीतदृढेष्वथ नपुंसकम् । स्वरूपे चरिते पद्ये जीवने वर्तनेऽपि च ॥ उक्तं प्रोक्ते न द्वयोस्तु छन्दोभेदे च भाषणे । व्यक्तं स्पष्टे ना तु बुधे तिक्तस्तु रसभेदवान् ॥ तिक्ता स्त्री कटुरोहिण्यां सुगन्धरसयोस्तु ना । ;l{0570} रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहितेऽपि च ॥ वर्णे तु ना कुङ्कुमासृक्ताम्रेषु त्वेष न द्वयोः । परित्यक्तेऽपि मुक्तः स्यान्मुक्ता मुक्ताफले स्त्रियाम् ॥ कान्तं चारौ स्त्री तु योषित्प्रियङ्गावुपलेऽपि ना । क्लीबे रतं गुह्यरत्योः क्लीबमाज्याम्बुनोर्घृतम् ॥ ;l{0575} पूतादीनां त्रिलिङ्गत्वं निष्ठा चेत्कर्तृकर्मणोः । भावे चेत्त्क्लीब एवात्र सर्वतन्त्रेष्वयं विधिः ॥ ;c{॥ इति तान्ताः ॥} ;p{0032} ;v{थान्ताः} अर्थः प्रयोगे विषये व्यवहारे प्रयोजने । अभिधेये धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ गजपृष्ठास्तीर्णचित्रद्रव्ये वेण्यां कुशे कुथः । ;l{0580} रथो देहेऽपि सार्थस्तु वणिक्संघे च संहतौ ॥ मन्थौ साक्तवमन्थानौ ग्रन्थिः पर्वगदान्तरे । ग्रन्थो धने वाक्संदर्भे द्वाविंशद्वर्णसंहतौ ॥ आस्था प्रतिज्ञातात्पर्यगोष्ठीयत्नोपलम्भने । संस्था स्थितौ व्यवस्थायां समाप्त्याकारमृत्युषु ॥ ;l{0585} वीथिर्वर्त्मनि पङ्क्तौ च गृहाङ्गे रूपकान्तरे । वृत्तभाषितयोर्गाथा पाथोऽग्न्यर्कस्वरिन्दवः ॥ नवनीतं जलं पाथमन्नं तोयं च पाथसी । जलावतारो गुरुयोन्युपायशास्त्राणि यज्ञो मुनिजुष्टतोयम् ॥ मन्त्रादयोऽष्टादश पुण्यभूमिः पात्रं जलं स्त्रीकुसुमं च तीर्थम् । ;l{0590} पृथुर्नृपे स्त्री तु कृष्णजीरके महति त्रिषु ॥ कटीस्त्रीगर्भयोरश्वघोणायां प्रोथमस्त्रियाम् । सिक्थो भक्तपुलाके ना मधूच्छिष्टं तु न स्त्रियाम् ॥ नीलीसूक्ष्मैलयोस्तुत्था तुत्थः स्यादञ्जने पुमान् । नाथस्त्रिषु प्रभौ नेन्द्रे प्रस्थोऽस्त्री सानुमानयोः ॥ ;l{0595} त्रिष्वज्ञदुर्गतौ दुःस्थावर्थी धनिकयाचकौ । ;c{॥ इति थान्ताः ॥} ;p{0033} ;v{दान्ताः} शब्दोऽक्षरयशोगीतव्योमवाक्यध्वनिष्वपि । अब्दः संवत्सरे मेघे क्षोदो रेतसि पेषणे ॥ वशाभिप्राययोश्छन्दः स्यात्पर्णगरुतोश्छदः । गजदानं गर्वहर्षरेतोमृगमदा मदाः ॥ ;l{0600} वेदश्छन्दसि यज्ञाङ्गे रदो दन्ते विलेखने । भेदः स्यादुपजापे च विदारणविशेषयोः ॥ शादः पङ्के बालतृणे स्वेदः स्वेदनघर्मयोः । पादो बुध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ॥ चरणे किरणे चाथ क्लेदो रसशशाङ्कयोः । ;l{0605} कन्दो वृक्षादिमूले च सूरणाम्बुदयोरपि ॥ स्कन्दो गुहे नदीकूले साद्यश्वारोहसूतयोः । पादुकोपानहोः पादूश्छर्दिर्वमनरेतसोः ॥ पादभूषाशृङ्खलयोरन्दूस्रय इमे स्त्रियः । पदं व्याजाङ्घ्रितच्चिह्नस्थानत्राणांशुलक्ष्मसु ॥ ;l{0610} व्यवसाये सुप्तिङन्ते सायके वस्तुवाक्ययोः । छन्दांसि त्रिष्टुभादीनि श्रुतीच्छानुनया अपि ॥ नदः समुद्रे निनदे सरिद्भेदे नदी सरित् । गदो रोगहरिभ्रात्रोर्गदा स्यादायुधान्तरे ॥ कुन्दं माघ्ये च कुन्दो ना निधिभेदमुरद्विषोः । ;l{0615} मन्दः पुंसि रवेः सूनौ गजभेदे त्रिषु त्वयम् ॥ खलमूर्खजडस्वैरस्वल्पनिर्भाग्यरोगिषु । मृद्वनुष्णेऽपि मधुरं मृष्टं च स्वाद्विमौ त्रिषु ॥ ;c{॥ इति दान्ताः ॥} ;p{0034} ;v{धान्ताः} बुधः सूरौ सुरे सौम्ये वेधा विष्णौ विधातरि । विधुः सुधाकरे काले विष्णौ वातेऽग्निरक्षसोः ॥ ;l{0620} विधिर्विधाने नियतौ काले पद्मभवेऽप्यथ । अधिष्ठाने चित्तदुःखे व्यसने बन्धनेऽपि च ॥ आधिर्बोधिः समाधौ च कुक्कुटाश्वत्थबुद्धिषु । अब्धी सरःसरस्वन्तौ बन्धू बन्धूकबान्धवौ ॥ गन्धो गन्धकसंबन्धामोदलेशस्मयेषु च । ;l{0625} स्कन्धो वायुविभागेंऽसे प्रकाण्डे संहतौ नृपे ॥ विधा विधाने हस्त्यन्ने प्रकारे वेतनेऽपि च । सुधामृतं लेपभेदो मूर्वा सर्पाशनं स्नुही ॥ वधूर्नवोढास्नुषयोर्भार्यास्त्रीशारिबासु च । गोधा तले निहाकायां वृद्धिर्मोदसुखर्द्धिषु ॥ ;l{0630} संधावधौ प्रतिज्ञायां श्रद्धा त्वास्तिक्यकाङ्क्षयोः । आलस्यनिद्रयोर्मिद्धं खण्डेऽर्धोऽर्धं समांशके ॥ चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः । क्लीबे त्वम्बुनि दुग्धे मकरन्दे क्षौद्रमद्ययोस्त्वस्त्री ॥ राधा कर्णस्योपमाता विशाखा गोपिका तटित् । ;l{0635} ना वैशाखेऽथ बाधा स्याद्वा ना दुःखनिषेधयोः ॥ ;p{0035} सिद्धः पुमान्देवयोनौ नित्यनिष्पन्नयोस्त्रिषु । दिग्धो विषाक्तबाणे ना त्रिषु लिप्तप्रबुद्धयोः ॥ त्रिषु स्याद्बुधिते बुद्धं विद्वत्सुगतयोः पुमान् । श्रद्धावति त्रिषु श्राद्धः पितृकृत्ये तु न द्वयोः ॥ ;l{0640} साधुस्त्रिषूचिते चारौ सभ्ये बार्धुषिके तु ना । विनेत्रेऽन्धस्त्रिषु ध्वान्ते क्लीबे सिन्धुस्तु वारिधौ ॥ देशे नदे गजमदे ना नद्यां तु स्त्रियामयम् । दुग्धं नपुंसकं क्षीरे भेद्यलिङ्गं प्रपूरिते ॥ लुब्धो ना मृगयौ गृध्नौ त्रिलिङ्गः स्यादथ त्रिषु । ;l{0645} मुग्धः सौम्ये नवे मूढे विद्धस्ताडितनुत्तयोः ॥ समृद्धे स्थविरे वृद्धः शुद्धः केवलपूतयोः । ;c{॥ इति धान्ताः ॥} ;v{नान्ताः} जनो लोके लोकभेदे जिनावर्हतथागतौ । भेनौ भानुनिशानाथौ भानू किरणभास्करौ ॥ वह्निरुक्ष्णि हयेऽग्नौ च मुनिर्बुद्धद्रुमर्षिषु । ;l{0650} बुध्नः शिफायां मूले च सूनुः पुत्रेऽनुजे रवौ ॥ चीनो मृगान्तरे तन्तौ व्रीहिमेदेंऽशुकान्तरे । स्वप्नः सुप्तस्य धीर्निद्रा मीनो राश्यन्तरेऽपि च ॥ धाना भृष्टयवे वृक्षबीजे स्याद्धान्यकेऽपि च । परस्त्रीभार्ययोर्जानिर्जनिर्जन्म जनिः स्नुषा ॥ ;l{0655} ज्योत्स्नी पटोलिका सा च रात्रिश्चन्द्रिकयान्विता ॥ ज्योत्स्ना सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च । रत्नं मणौ च श्रेष्ठे च वनं कानननीरयोः ॥ ;p{0036} गतिवाहनयोर्यानं पानं पीतौ च रक्षणे । दानं गजमदे त्यागे शुद्धिखण्डनयोरपि ॥ ;l{0660} अवकाशे स्थितौ स्थानं स्थाने स्यादुचितेऽव्ययम् । चिह्नमङ्के पताकायां द्युम्नं वित्ते पराक्रमे ॥ स्नानीयसेकयोः स्नानमेनसी मन्तुकिल्बिषे । इनो भूपे रवौ पुंसि धनिकस्वामिनोस्त्रिषु ॥ योनिर्द्वयोर्भगे स्थाने कारणाकरयोरपि । ;l{0665} तनुस्त्वक्काययोः स्त्री स्याद्विरलस्वल्पयोस्त्रिषु ॥ कठिनाधिकसान्द्रेषु वाद्यमध्यमनृत्तयोः । मुस्तामुद्गरमेघेषु त्रिषु क्लीबे पुमान्घनः ॥ वानं शुष्के शुष्कफले वनसम्बन्धिनि त्रिषु । क्लीबे त्वयं सुरुङ्गायां सौरमे सीवने गतौ ॥ ;l{0670} मानः स्त्रीणां कोपभेदे गर्वे चित्तोन्नतावपि । मानं प्रमाणे प्रस्थादौ भक्तेऽन्नं भक्षिते त्रिषु ॥ नग्नो वन्दिक्षपणयोरयं विवसने त्रिषु । सूनं शून्ये त्रिषु क्लीबे पुष्पे सूना तु मेखला ॥ रश्मौ नद्यां वधस्थाने रसनाधःस्थलेऽपि सा । ;l{0675} स्याच्छन्नं रहसि क्लीबे छादिते तु त्रिलिङ्गकम् ॥ सन्नमल्पे विशीर्णादौ विन्नं लब्धे विचारिते । अन्यद्दारितमिश्रेषु भिन्नमेते त्रयस्त्रिषु ॥ ;c{॥ इति नान्ताः ॥} ;p{0037} ;v{पान्ताः} रोपो बाणे रोपणे च लेपो भोजनगर्वयोः । दर्पोऽहंकारकस्तूर्योर्बाष्पो नेत्रजलोष्मणोः ॥ ;l{0680} सूपो व्यञ्जनभेदे च सूपकारे च सूदवत् । शपथाक्रोशयोः शापः कपयोऽर्केभवानराः ॥ कूपः कुकुन्दरे गर्ते गुणवृक्षे प्रहावपि । कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ ॥ सुरद्रुमे विकल्पे च प्रत्ययश्चेत्समार्थकः । ;l{0685} निन्दाविलम्बयोः क्षेपो वपा विवरमेदसोः ॥ रूपं स्वभावे शुक्लादौ सौन्दर्ये नाणके पशौ । ग्रन्थावृत्तौ नाटकादावाकारे श्लोकशब्दयोः ॥ वपुः काये शुभाकारे त्रपु सीसकरङ्गयोः । स्त्रीणामृतौ विकासे च पुष्पं सर्पिर्घृताम्बुनोः ॥ ;l{0690} तल्पं शय्याट्टजायासु कृपः कश्चित्कृपा दया । माघे पुमान्व्रते क्लीबे तपो गोपस्तु वल्लवे ॥ गोष्ठाध्यक्षे महीशे च स्याद्गोपी शारिबासु च । ;c{॥ इति पान्ताः ॥} ;v{फान्ताः} शिफा तरुजटायां च शाखामांसीनदीषु च । शफं तरूणां मूलेऽपि गवादीनां खुरेऽपि च ॥ ;l{0695} रेफः शब्दे रवर्णे स्यादधमे तु त्रिलिङ्गकः । ;c{॥ इति फान्ताः ॥} ;p{0038} ;v{बान्ताः} स्तम्बो गुल्मेऽप्यशाखेऽद्रौ डिम्बः फ्लीहखगाण्डयोः । शम्बस्तु मुसलाग्रस्थलोहमण्डलके पवौ ॥ कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् । प्रतिबिम्बे तत्प्रकृतौ प्रतिकृत्यां च मण्डले ॥ ;l{0700} लाञ्छनेऽपि च बिम्बोऽस्त्री न द्वयोर्बिम्बिकाफले । कम्बुर्ना वलये शङ्खे संख्यायां जलशुक्तिषु ॥ नद्यां द्रुमे च जम्बूः स्त्री वा क्लीबे जाम्बवे फले । त्रिषु निर्विक्रमे क्लीबः षण्डे त्वेष नपुंसकः ॥ ;c{॥ इति बान्ताः ॥} ;v{भान्ताः} कुम्भः कुञ्जरमूर्धाग्रे कुम्भकर्णे घटे विटे । ;l{0705} भूपाद्री भूभृतौ जम्भा दम्भजम्बीरदानवाः ॥ दन्तेऽपि च पुमानेव भक्ष्यवाचिषु स त्रिषु । गर्भोऽर्भके नाट्यसंधौ कुक्षौ पनसकण्टके ॥ भ्रूणे प्रवरके चाथ स्वभूर्वेधाः स्मरो हरिः । शंभुर्धातृहरीशेषु डिम्भो बालकमूर्खयोः ॥ ;l{0710} नाभिः प्रधाने प्राण्यङ्गे कस्तूर्यां क्षत्रिये नृपे । स्तम्भोऽवष्टम्भ आलाननिश्चेष्टजडदारुषु ॥ स्तम्भो जाड्येऽप्यथ सभा समाजद्यूतसद्मसु । कदल्यामप्सरोभेदे रम्भा भाज्वालयोः प्रभा ॥ ;p{0039} वारिपर्ण्यां कट्फले च कुम्भी स्त्री कुम्भिनो गजाः । ;l{0715} भव्ये क्लीबे शुभं द्रव्ये त्रिषु जृम्भस्तु जृम्भणे ॥ त्रिषु ना तु विकासे स्यान्नभः खं श्रावणो नभाः । व्याजे निभो ना सदृशे त्रिष्वथो वाच्यलिङ्गकौ ॥ प्रभू शक्ताधिपौ नित्ये पत्यौ सर्वगते विभुः । ;c{॥ इति भान्ताः ॥} ;v{मान्ताः} द्रुमौ चैद्यसुहृद्वृक्षौ भ्रमौ भ्रान्त्यम्बुनिर्गमौ । ;l{0720} सोमः कुबेरे कर्पूरे लताभेदे निशाकरे ॥ ग्रामः पल्यां स्वरे वृन्दे त्वयं शब्दादिपूर्वकः । स्मराभिलाषयोः कामोऽनुज्ञायां काममव्ययम् ॥ शक्तौ चरणविक्षेपे परिपाट्यामपि क्रमः । आत्मा यत्नधृतिस्वान्तस्वभावपरमात्मसु ॥ ;l{0725} जीवबुद्धिशरीरेषु रश्मिस्तु प्रग्रहे द्युतौ । श्यामाकादौ द्रुमे गर्मुत् क्रिमिः स्यात्कीटलाक्षयोः ॥ ग्रीष्मोष्मबाष्पा उष्माण ऊमो व्योमनि पत्तने । साम वेदे साम्नि दमो दण्डे चेन्द्रियनिग्रहे ॥ गुल्मः स्तम्बे प्लीह्नि घट्टे रोगसैन्यविशेषयोः । ;l{0730} ष्ट्यूमस्यूमौ जले चन्द्रे यमस्तु यमलेऽन्तके ॥ शरीरसाधनापेक्षनित्यकर्मणि संयमे । उमा स्यादतसीगौरीहरिद्राकीर्तिकान्तिषु ॥ ;p{0040} सीमसीमे इमे क्षेत्रे कूलमर्यादयोरपि । ब्राह्मी तु ब्रह्मशक्तिः स्यान्मत्स्याक्षी भारती च सा ॥ ;l{0735} लक्ष्मीः संपद्रमा शोभा जामिः स्वसृकुलस्त्रियोः । रुमा सुग्रीवभार्यायां सैव स्याल्लवणाकरे ॥ रुक्मं तु काञ्चने लोहे हेम्नी काञ्चनवेतसे । सूक्ष्मप्रान्तेषु सूत्रादेः किञ्जल्के नेत्रलोमसु ॥ चुल्लीरन्ध्रे च पक्ष्म स्याल्लक्ष्म चिह्नवरिष्ठयोः । ;l{0740} धाम जन्मप्रभास्थानप्रभावसुखसद्मसु ॥ कर्म व्यासे क्रियायां च वर्त्म नेत्रच्छदाध्वनोः । हेमवेतनयोर्भर्म च्छद्म सद्मनि कैतवे ॥ तमो राहौ गुणे ध्वान्ते शोके व्योम नभोम्बुनोः । रामः पशौ जामदग्न्ये हलिराघवयोश्च ना ॥ ;l{0745} सितासितमनोज्ञेषु त्रिषु रामा तु भामिनी । श्यामा षोडशवर्षा स्त्री त्रिवृता शारिबा निशा ॥ नीलीप्रियङ्गुवर्णेषु पुंस्ययं तद्वति त्रिषु । क्षमा क्षोण्यां तितिक्षायां योग्यशक्तहितेषु तु ॥ त्रिष्वथ क्षेममस्त्री स्यान्मङ्गले लब्धरक्षणे । ;l{0750} पुंस्यामो रुज्यपक्के त्रिष्वामेत्यामन्त्रणेऽव्ययम् ॥ भीषणे त्रिषु भीष्मः स्याद्रुद्रगाङ्गेययोस्तु ना । क्षौमं दुकूले वा नाट्टे भीमः शंभौ वृकोदरे ॥ ;p{0041} घोरे त्रिष्वथ धर्मोऽस्त्री पुण्ये साम्यस्वभावयोः । चापन्यायाध्वराहिंसायज्वाचारयमेषु ना ॥ ;l{0755} हिमः शीते त्रिषु क्लीबे प्रालेये चन्दनेऽपि च । तोक्मं क्लीबे कर्णमले हरिते तु त्रिलिङ्गकः ॥ हरिद्यवे ना प्रेमा तु न स्त्रियां स्नेहनर्मणोः । वामा वध्वां सव्यरम्यप्रतीपेष्वेष वाच्यवत् ॥ वामी सृगालीबडवारासभीकरभीष्वथ । ;l{0760} क्रमात्संख्याहस्तिबिन्द्वोर्निधिव्यूहान्तराहिषु ॥ अब्जे भार्ङ्गीश्रियोः पद्मं क्लीबे पुंस्यस्त्रियां स्त्रियाम् । वर्ष्म न स्त्री शुभाकारे प्रमाणवपुषोरपि ॥ समा स्त्री वत्सरे साधुसर्वतुल्येषु तु त्रिषु । ऊर्मिर्द्वयोः स्यादुत्कण्ठा वस्त्रसङ्कोचरेखिका ॥ ;l{0765} तरङ्गश्चाथ नेमिः स्त्री चक्रान्ते भित्तिमूलके । कूपत्रिकायां ना त्वेष भवेत्तिनिशपादपे ॥ परमात्मा तपो वेदो ब्रह्म ब्रह्माब्जजे द्विजे । ऋत्विज्यथ कुजे दैत्ये भौमो ना भूद्भवे त्रिषु ॥ श्रीमांस्तिलकवृक्षेऽपि धीमान्वाचस्पतावपि । ;l{0770} स्वामी स्कन्देऽप्यथो जाल्मः स्तब्धेऽनालोच्यकारिणि ॥ निर्बुद्धावपि जिह्मस्तु मन्दे वक्रेऽप्युभौ त्रिषु । ;c{॥ इति मान्ताः ॥} ;p{0042} ;v{यान्ताः} चयः समूहे प्राकारे मूलबन्धे च संग्रहे । नयो नीतौ द्यूतभेदे तार्क्ष्योऽश्वे गरुडे रथे ॥ कलिनक्षत्रयोस्तिष्यः स्याद्वियुः कालघूकयोः । ;l{0775} मन्युः क्रोधे क्रतौ दैन्ये दस्युः प्रत्यर्थिचोरयोः ॥ क्षयो रोगान्तरे गेहे कल्पान्तेऽपचयेऽप्यथ । नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः ॥ दायो धने विभक्तव्यपितृद्रव्ये च यौतके । प्रायो वयोमृत्युतुल्यबाहुल्यानशनेषु ना ॥ ;l{0780} प्रायोऽव्ययं च बाहुल्ये स्यादर्यः स्वामिवैश्ययोः । कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठके ॥ संध्या संधौ पितृप्रस्वां प्रतिज्ञासीमयोरपि । छाया कान्तिः सूर्यजाया प्रतिबिम्बमनातपः ॥ त्रयी त्रिवेद्यां त्रितये व्रज्या वर्गे गतावपि । ;l{0785} क्रिया तु चेष्टाकरणसंप्रधारणकर्मसु ॥ शिक्षारम्भोपायपूजाचिकित्सानिष्कृतिष्वपि । शब्दगुम्फेऽपि शय्या स्यात्कन्या राश्यन्तरेऽपि च ॥ वीर्यं पराक्रमे शुक्रे द्रव्यं वित्ते गुणाश्रये । यक्षदेवजकूर्मेषु छेकदम्भाध्वस्वैरिषु ॥ ;l{0790} गुह्यश्च शाखानगरे गुह्या शैलान्तरोकयोः । गुह्यं रहस्युपस्थे च पयः पानीयदुग्धयोः ॥ वयः पक्षिणि बाल्यादौ वत्सरे यौवनेऽपि च । माल्यं पुष्पे पुष्पदाम्नि मूल्यं वेतनवस्नयोः ॥ ;p{0043} चैत्यमायतने बुद्धे बिम्बे चोद्देशपादपे । ;l{0795} कांस्यं वाद्यान्तरे पानपात्रे तैजसवस्तुनि ॥ नाट्यं तौर्यत्रिके नृत्तेऽप्याज्यं श्रीवाससर्पिषोः । पद्यं श्लोके पद्या मार्गे काव्यः शुक्रे काव्यं ग्रन्थे ॥ गव्यूतौ गोवृन्दे गव्या गव्यं ज्यायां रागद्रव्ये । रूप्यं स्यादाहतस्वर्णे रजते तद्विभूषणे ॥ ;l{0800} स्वरूपे त्रिषु पूज्यस्तु त्रिष्वर्च्ये श्वशुरे पुमान् । स्यात्तथ्ये शपथे सत्यं लोके ना त्रिष्वृतान्विते ॥ ययुर्नाश्वेऽश्वमेधीये दीर्घयष्ट्यां त्वयं स्त्रियाम् । ऋषितीर्थे भवेत्कायं कायो देहसमूहयोः ॥ कदेवताके त्रिष्वेष जयस्तु विजये पुमान् । ;l{0805} जया तु पथ्या तर्कारी तिथिभेद उमासखी ॥ वन्या वनसमूहे स्याद्वन्यं त्रिषु वनोद्भवे । एकत्वादौ विचारे च संख्या संख्यं तु संयुगे ॥ अस्त्री मध्यं समे न्यायेऽप्यवकाशावलग्नयोः । त्रिषु साध्यं साधनीये ना योगे गणदैवते ॥ ;l{0810} हृद्यं हृदो हिते हृज्जे हृत्प्रिये च त्रिलिङ्गकम् । वश्यकृद्वेदमन्त्रे तु हृद्यो हृद्यं विलेपने ॥ सौम्यः पुमान्बुधे विप्रे त्रिषु स्यात्सोमदैवते । रम्येऽनुग्रे च जन्यं तु रथ्याकलहयुद्धयोः ॥ जन्या माता पिता जन्यस्त्रिषु तूत्पाद्यनीचयोः । ;p{0044} ;l{0815} ज्ञातौ भृत्यां नवोढायां जन्याः स्निग्धा वरस्य ये ॥ अश्लीले सुरते ग्राम्यं ग्राम्यः पल्लीभवे जने । रथ्या रथौघविशिखे रथ्यस्तु रथवोढरि ॥ हरीतक्यां तु पथ्या स्याद्धिते पथ्यं त्रिलिङ्गकम् । कर्मावबोधके गृह्यमयं स्ववशगे त्रिषु ॥ ;l{0820} गृह्यं शाखापुरं गृह्या गृहासक्तमृगाः खगाः । सह्योऽद्रि ः सह्यमारोग्यं सोढव्ये त्वेष वाच्यवत् ॥ योग्यं क्लीबेऽपूपयानचन्दनाभ्यासवाचकम् । प्रवीणोपायवच्छक्तयोगार्हेषु त्वयं त्रिषु ॥ धर्माम्बुपुष्पस्वर्गेषु पुण्यं धर्मवति त्रिषु । ;l{0825} त्रिषु चोद्यं चोदनार्हे क्लीबे तु प्रश्नचित्रयोः ॥ धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने गृहे बले । कर्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ॥ भव्यं सत्ये शुभे क्लीबं त्रिषु स्याद्योग्यभाविनोः । सेव्यं त्रिलिङ्गं सेवार्हे क्लीबे तु स्यादुशीरके ॥ ;l{0830} इभ्या करेण्वां त्रिष्वाढ्ये भृत्यो दासे भृतौ स्त्रियाम् । कृत्रिमाऽल्पनदी कुल्या प्रणाल्यां च कुलोद्भवे ॥ कुल्यस्त्रिष्वस्थि कुल्यं स्यादथ कल्यमहर्मुखे । कल्या कल्याणवाचि स्यात्त्रिषु नीरोगदक्षयोः ॥ शल्यं वंशशलाकायां शङ्कुतोमरयोरपि । ;l{0835} शल्यः कश्चिन्महीपालः श्वाविन्मदनपादपः ॥ ;p{0045} आस्यं वक्त्रे वक्त्रबिले क्लीबे वक्त्रभवे त्रिषु । अश्वमध्यं सुरा कश्यं कश्यस्रिषु कशार्हके ॥ दूष्यं पटगृहं दूष्या कक्ष्या निन्द्ये त्वयं त्रिषु । शरव्यसंख्याव्याजेषु लक्ष्यं दृश्ये त्वयं त्रिषु ॥ ;l{0840} इज्या स्त्री यागदानार्चासङ्गेष्विज्यो बृहस्पतौ । गौर्यामार्या त्रिषु त्वेष कुलीनन्याय्यसाधुषु ॥ कृत्यं कार्ये देवतायां कृत्या स्त्री कुपिते त्रिषु । पुनरर्थेऽव्ययं भूयो भूयान्बहुतरे त्रिषु ॥ धर्मे मोक्षे शुभे श्रेयः सुप्रशस्ते त्वयं त्रिषु । ;l{0845} आद्य आदिभवे मुख्ये भक्ष्ये चापि त्रिलिङ्गकः ॥ पूर्वेऽप्याद्या विधात्राद्या उत्तरे वाच्यलिङ्गकाः । अर्थ्यो भवेदात्मवति प्रार्थनीयार्थयुक्तयोः ॥ अर्घाय क्लृप्ते चार्घार्हेऽप्यर्घ्योऽन्यो भिन्नतुल्ययोः । वामदक्षिणयोः सव्यमन्त्योऽन्त्यजनिकृष्टयोः ॥ ;l{0850} सभ्यः सामाजिके साधौ जात्यः श्रेष्ठकुलीनयोः । लभ्यौ तु न्याय्यलब्धव्यौ नित्यौ सततशाश्वतौ ॥ गर्हेऽपि याप्यो ज्यायांसो वृद्धशस्तवराग्रजाः । ;c{॥ इति यान्ताः ॥} ;v{रान्ताः} करो वर्षोपले पाणौ शुण्डायां किरणे बलौ । नरो मनुष्यार्जुनयोर्भरोऽतिशयभारयोः ॥ ;l{0855} भरो भारश्च लाभे स्याद्दुर्भरे भाररागयोः । ;p{0046} भारो भरे विवृद्धौ च पलानां द्विसहस्रके ॥ नासावायुप्राणिरवषड्जोदात्ताद्यचः स्वराः । क्षुरस्तु छेदनद्रव्ये गोक्षुरे कोकिलाक्षके ॥ चारस्तु पिप्पलीवृक्षे गतौ मन्थानसर्पयोः । ;l{0860} चारः स्पशे प्रियालौ च खुरः कोलदले शके ॥ वारः सूर्यादिदिवसे बृन्दावसरयोरपि । क्षारस्तु लवणे काचे रसभेदे च भस्मनि ॥ वृत्रोऽरिध्वान्तदैत्येषु शक्रः कुटजवज्रिणोः । मन्त्रौ गूढोक्तिवेदांशौ यूपांशे कुलिशे स्वरुः ॥ ;l{0865} कारुः शिल्पी विश्वकर्मा सुरमारुतयोर्मरुत् । मरुर्धन्वनि शैले च स्थालीहव्यान्नयोश्चरुः ॥ अद्रयो द्रुमशैलार्काः स्यादङ्‌घ्रिः पादबुध्नयोः । ऐन्द्रिः काकासुरेऽपि स्याज्जयन्तार्जुनयोरपि ॥ दंष्ट्री सदंष्ट्रग्राहेऽहौ शार्दूले मूषिके किटौ । ;l{0870} चक्री विष्णौ कुलालेऽहौ पत्री श्येनेषुपक्षिषु ॥ सम्राजोऽग्नीन्द्रविष्ण्वर्का यश्च स्यान्मण्डलेश्वरः । राजसूयेन येनेष्टं राज्ञः शास्त्याज्ञया च यः ॥ इन्द्रा वृषात्मशक्रार्काः हरा रुद्राग्निगर्दभाः । पुण्ड्रो देशेक्षुतिलकभेदे क्रिम्यतिमुक्तयोः ॥ ;l{0875} धारा पूः कापि सेनाग्रं पतदम्ब्वादिसंततिः । खड्गादिनिशितप्रान्तस्तुरङ्गगतिपञ्चकम् ॥ इरा सुराम्बुवाग्भूषु ऋतुवत्सरयोः शरत् । उपमाता च धात्री च भूमिरामलकी च सा ॥ ;p{0047} तरिर्दशायां नावि स्याद्वस्त्रादीनां च पेटके । ;l{0880} तन्द्री तन्द्रेत्युभौ शब्दौ स्यातां निद्राप्रमीलयोः ॥ वीरुधौ गुल्मगुल्मिन्यौ गीर्णौ स्त्री आचले गिरिः । तद्रू(र्दू)र्द्रोणिप्लवे दर्व्यां यात्रा गत्यां च यापने ॥ द्वारं तु द्वार्युपाये च क्षीरं स्यान्नीरदुग्धयोः । अग्रं पुरःशिखामानश्रेष्ठाधिकपलादिषु ॥ ;l{0885} कृच्छ्रं सांतपनादौ च कष्टे दुःखैनसोरपि । नभःस्वर्गाम्बुदेष्वभ्रमुरसी श्रेष्ठवक्षसी ॥ सरसी जलकासारौ तरसी बलरंहसी । शिरः प्रधाने सेनाग्रे द्रुमाद्यग्रेषु मस्तके ॥ गात्रं प्रतीके दन्त्यग्रजङ्घाभागे वपुष्यपि । ;l{0890} पत्रं पर्णे वाहने च छुरिकागरुतोरपि ॥ सीरः सूकरवक्त्राग्रं पोत्रं पात्रं तु भाजनम् । तीरद्वयान्तरे योग्ये द्रविणे राजमन्त्रिणि ॥ सत्रं यज्ञे यज्ञभेदे सदादाने वनेंऽशुके । सूत्रं तु सूचनग्रन्थभेदे तन्तुव्यवस्थयोः ॥ ;l{0895} नेत्रं विलोचने वस्त्रे तरुमूले मयोर्गुणे । क्षेत्रं भार्याङ्गकेदारपुण्यभूगृहयोनिषु ॥ ग्रन्थशासनयोः शास्त्रं शस्त्रमायुधचापयोः । छिद्रं रन्ध्रे दूषणे च वक्त्रं वृत्तान्तरेऽपि च ॥ रन्ध्रं तु द्विषतां मृग्यदोषे द्वारसुरङ्गयोः । ;l{0900} अरं तु शीघ्रे चक्राङ्गे शीघ्रगामिनि तु त्रिषु ॥ ;p{0048} श्रेष्ठान्यदूरज्येष्ठेषु परः स्याद्वाच्यलिङ्गकः । परोऽरिः परमात्मा च केवले परमव्ययम् ॥ देवप्रसादे वरणे जामातरि वरः पुमान् । क्लीबे तु कुङ्कुमे श्रेष्ठे त्रिष्विष्टे त्वव्ययं वरम् ॥ ;l{0905} शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे । शरं तु नीरे दूते तु चरो ना जङ्गमे त्रिषु ॥ दरोऽस्त्री शङ्खभययोर्गर्तेऽपि च गुहा दरी । दरेत्यव्ययमल्पार्थे गुग्गुलौ तु पुरः पुमान् ॥ गृहोपरिगृहे देहे नगरे च पुरं पुरी । ;l{0910} पुरोऽग्रे पूर्वकाले तु पुरा स्यादव्ययं द्वयम् ॥ सुरो देवे सुरा मद्ये धरः शैले धरा भुवि । कारो वधे बले यत्ने कारा स्याद्बन्धनालये ॥ वारिः स्त्री दन्तिनां पादरज्ज्वां सृणिगुणे क्वचित् । ;l{0913a} पारी पत्त्र्यां परतटे परमारस्तु भूसुते ॥ आरा चर्मप्रभेदिन्यां मित्रं सुहृदि ना रवौ । ;l{0915} तारोऽत्युच्चैःस्वरे मुक्ताविशुद्धौ शुद्धमौक्तिके ॥ तरणे चाथ तारा स्यात्सुग्रीवगुरुयोषितोः । कनीनिकर्क्षयोस्त्वेष द्वयोस्तारं तु रूप्यके ॥ मारो ना मरणे कामे मारी चण्ड्यां जनक्षये । मुक्ताल्यां हरणे हारो हरसंबन्धिनि त्रिषु ॥ ;l{0920} चक्रं चये जलावर्ते रथाङ्गे राष्ट्रसैन्ययोः । घटसाधनभेदेऽपि क्लीबे कोके तु पुंस्ययम् ॥ शुक्रं रेतस्यक्षिरोगे पुण्ये रुक्मे सुराम्बुनोः । ;p{0049} शुक्रोऽग्निमासकव्येषु वक्रो भौमेऽनृजौ त्रिषु । शूद्रायां क्षत्रजः शंभुश्चोग्रो घोरे त्वयं त्रिषु ॥ ;l{0925} सुखमङ्गलयोर्भद्रं स्याद्द्रव्यश्रेष्ठयोस्त्रिषु । भद्रा तु करणे तिथ्यां भद्रश्चापि गजान्तरे ॥ क्षुद्रस्तु त्रिषु हीनाङ्गे क्रूरे नीचाल्पयोरपि । क्षुद्रा निदिग्धिका वेश्या नटी च सरघा च सा ॥ रौद्रो रसान्तरे घोरे रुद्रसम्बन्धिनि त्रिषु । ;l{0930} इन्दुकर्पूरयोश्चन्द्रश्चन्द्रं स्वर्णमथास्त्रियाम् ॥ राष्ट्रं विषय उत्पाते वज्रोऽस्त्री पविहीरयोः । अश्रुशोणितयोरस्रमास्त्रं चाद्यस्तु ना कचे ॥ क्लेशे तूभौ नरौ स्यातामथ व्याघ्री निदिग्धिका । व्याघ्रो द्वीपिन्ययं श्रेष्ठवाची शब्दात्परस्थितः ॥ ;l{0935} पौरं तु कत्तृणे क्लीबमयं पुरभवे त्रिषु । गौरोऽरुणे सिते पीते त्रिषु गौरी तु पार्वती ॥ अनागतर्तुकन्या च ताम्रं शुल्बेऽरुणे त्रिषु । सारो बले स्थिरांशेऽर्थे पुमान् न्याय्ये वरे त्रिषु ॥ क्लीबमम्बुनि शारस्तु वायौ ना कर्बुरे त्रिषु । ;l{0940} बभ्रुः कृशानौ नकुले शंभौ ना त्रिषु पिङ्गले ॥ हरिर्यमार्काश्वाग्नीन्दुविष्ण्विन्द्रांशुशुकानिले । ;p{0050} भेकाहिकपिसिंहेषु हरिर्ना कपिले त्रिषु ॥ हीरः सिंहाहिवज्रेषु हीरा लक्ष्मीः पिपीलिका । शस्त्री तु छुरिका शस्त्रं शंसावाक्येऽस्त्रलोहयोः ॥ ;l{0945} गुरुर्निषेकादिकरे पुरोधसि बृहस्पतौ । पित्रादौ ना बृहत्ख्यातदुर्भरालघुषु त्रिषु ॥ भुजङ्गमाता कद्रूः स्त्री कद्रूः स्यात्पिङ्गले त्रिषु । शारिः पुंस्येव पर्याणे स्त्रियामेव खगान्तरे ॥ पुंसि स्त्रियां च द्यूताङ्गे भूरि स्वर्णे बहौ त्रिषु । ;l{0950} गजबन्धनभूमौ स्त्री वारी वारि तु पाथसि ॥ शूरो ना कुक्कुटे वीरे त्रिषु धीरस्तु ना बुधे । अम्बुधौ च त्रिषु त्वेष मन्थरे धैर्यवत्यपि ॥ हरित्क्लीबं तृणे नाश्वे वर्णे त्रिषु दिशि स्त्रियाम् । स्थिरा क्षोणीसालपर्ण्योरयं तु त्रिषु निश्चले ॥ ;l{0955} वप्रोऽस्त्रियां तीरसेतुप्राकारक्षेत्रवाचकः । आर्द्रा भे स्त्री त्रिषु क्लिन्ने गौरुस्रा किरणे तु ना ॥ गोत्रं नाम्नि कुले क्षेत्रे गोत्रा भुवि गवांगणे । गोत्रः शैलेऽथ मात्रं स्यादवधारणकार्त्स्न्ययोः ॥ मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे । ;l{0960} सैवाल्पपरिमाणे च छत्रमातपवारणे ॥ छत्रा मधुरिकायां स्यात्कुस्तुम्बर्यां शिलीन्ध्रके । ;p{0051} तन्त्रं स्वराष्ट्रचिन्तायां तन्तुवाये परिच्छदे ॥ यागप्रयोगे सिद्धान्ते शास्त्रमुख्यौषधेऽपि च । एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ ;l{0965} तन्त्री गुडूच्यां वीणादिगुणे देहसिरासु च । तिलकालेख्ययोश्चित्रं त्रिषु त्वाश्चर्यवर्णयोः ॥ चित्राखुपर्णी गोतुम्बा ताराभेदेऽप्यथोत्तरे । त्रिषु क्रूराः कर्कशोष्णनृशंसक्रुद्धभीषणाः ॥ सुभटोत्तमयोर्वीरः स्वैरः स्वच्छन्दमन्दयोः । ;l{0970} तीव्रः कटुभृशोष्णेषु व्यग्रो व्यापृत आकुले ॥ ;c{॥ इति रेफान्ताः ॥} ;v{लान्ताः} पीलुः प्रसूनकाण्डेभद्रुभेदपरमाणुषु । सालो द्रुमे मत्स्यभेदे प्राकारे सर्जकद्रुमे ॥ बलिः पूजोपहारे च करे दैत्यान्तरेऽपि सः । हेलिरालिङ्गनेऽर्के च कलहेऽन्त्ययुगे कलिः ॥ ;l{0975} नलः पोटगले राजविशेषे कपिनायके । तुला राशौ पलशते साम्येऽप्युन्मानसाधने ॥ गृहदार्वन्तरे भाण्डे हेलावज्ञाविलासयोः । शाला तु स्कन्धशाखायां गेहगेहैकदेशयोः ॥ वलिर्वली चाप्युदररेखाचामरदण्डयोः । ;l{0980} गृहदारुविशेषे च जराविश्लथकर्मणि ॥ ;p{0052} लीला केलिर्विलासश्च शृङ्गारप्रभवा क्रिया । पालिः कर्णलताग्रे च प्रदेशाङ्काश्रिपङ्क्तिषु ॥ त्सरुच्छदे च यूकायां संजातश्मश्रुयोषिति । आलिः सेतुः सखी पङ्क्तिः पल्ल्यल्पग्रामके कुटौ ॥ ;l{0985} वेलाब्धितीराब्धिवृद्ध्योः कालमर्यादयोरपि । बिलं रन्ध्रे गुहायां च पलमुन्मानमांसयोः ॥ फालं सीरोपकरणे कार्पासलपनेऽप्यथ । गेहे देहे जनपदे सजातीयगणेऽन्वये ॥ कुलं कूलं तु सेनायाः पृष्ठे स्तूपे च रोधसि । ;l{0990} मूलमादौ शिफायां च समीपे तारकान्तरे ॥ जालं जालकमित्येतौ गवाक्षानाययोर्गणे । दम्भकुट्मलयोश्चाथ शीलं वृत्तस्वभावयोः ॥ सैन्यास्थिरूपरेतःशक्तिस्थौल्येषु चेद् बलं क्लीबे । वाट्यालके स्त्रियां त्रिषु बलवति ना सीरिदैत्यकाकेषु ॥ ;l{0995} फलमिष्वग्रे सस्ये फलके जातीफले धने फाले । भोगे बीजे लाभे हेतूत्पन्ने फली तु फलिनी स्यात् ॥ दलः खण्डे दलं पर्णे जलं नीरे जडे त्रिषु । तलं स्वरूपाधरयोरस्त्री तालतरौ पुमान् ॥ क्लीबे च पेटे ज्याघातवारणे समभूतले । ;l{1000} व्रीह्याद्याघट्टनस्थाने खलो धूर्ते त्वयं त्रिषु ॥ ;p{0053} तालः कालक्रियामाने करास्फाले द्रुमान्तरे । स्याद्विस्तृताभ्यामङ्गुष्ठमध्यमाभ्यां मितावपि ॥ त्सरौ करतले चापि तालं तु हरितालके । कालोऽनेहा यमो मृत्युः श्यामे ना तद्वति त्रिषु ॥ ;l{1005} काला तु कृष्णत्रिवृति नीलिन्यां कृष्णजीरके । काली नवाम्बुदश्रेण्यां भवानीमातृभेदयोः ॥ मालमुन्नतभूर्माला पङ्क्तौ पुष्पादिदामनि । उखायां पाटलायां च स्थाली स्थालं तु भाजने ॥ व्यालः सर्पे दुष्टगजे श्वापदे ना शठे त्रिषु । ;l{1010} चेलं वस्त्रे बर्हिचन्द्रे त्रिषु त्वक्षमनिन्द्ययोः ॥ पिप्पलीचव्ययोः कोला सूकरोडुपयोः पुमान् । शैली रीत्यां गिरौ शैलः शैलेये तु नपुंसकम् ॥ नीलः कपीशेऽद्रिभेदे कृष्णे ना तद्वति त्रिषु । नीलिन्यां नीलिझण्ट्यां च नीली नीला तु मक्षिका ॥ ;l{1015} शूलमस्त्र्यायुधे रोगे स्याद्दुष्टवधकीलके । उपरागादिदोषे च शूला पण्याङ्गना भवेत् ॥ ब्रह्मदारुणि तु क्लीबे तूलं तुलस्तु ना पिचौ । वालः कचेऽश्वेभपुच्छे ह्रीबेरे तु नपुंसकम् ॥ मल्लो दृढाङ्गपुञ्जातौ मत्स्ये पात्रकपालयोः । ;l{1020} श्रेष्ठे तु त्रिषु मल्ली तु मृत्पात्रतृणशून्ययोः ॥ ;p{0054} भल्लो भल्लूकवाची स्याद्भल्ला भल्ली च सायके । क्लिन्नाक्षे स्युश्चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि च त्रिषु ॥ आतापिवाची चिल्लो ना स्त्री तु चुल्ल्यन्तिका भवेत् । ज्वाले स्थाणौ द्वयोः कीलः शङ्कुशङ्करयोः पुमान् ॥ ;l{1025} नालं तु न स्त्रियां काण्डे क्लीबे विवरशेफसोः । शिलमुञ्छं शिला ग्रावा शिली गण्डूपदी भवेत् ॥ साज्ये मधुनि तक्कोले बोलं बोलोऽम्भसां भ्रमे । कलांऽशमात्रे शिल्पादौ कलनाकालभेदयोः ॥ इन्दोश्च षोडशे भागे स्यान्मूलधनवर्धने । ;l{1030} कलमव्यक्तमधुरध्वनौ स्याद्वाच्यलिङ्गकम् ॥ मौलिः संयतकेशेषु चूडायां मकुटे द्वयोः । पापे पुरीषे किट्टे च मलमस्त्री ततस्त्रिषु ॥ जडपीवरयोः स्थूलो लोलश्चलसतृष्णयोः । मूर्खशाबकयोर्बालः खलचञ्चलयोश्चलः ॥ ;c{॥ इति लान्ताः ॥} ;l{1035} ;v{वान्ताः} भवः सत्ताभद्रशर्वप्राप्तिसंसारजन्मसु । द्रवः प्रद्रावगमनरसविद्रवनर्मसु ॥ वनवन्यानलौ दावदवौ वैश्वानरे हये । पविर्वज्रेऽस्त्रधारायां ग्रावाणौ पर्वतोपलौ ॥ हवा आज्ञाह्वानयज्ञा धवाः पतिनरद्रुमाः । ;p{0055} ;l{1040} क्रमनिम्नमहीभागे चण्डाले जलवायसे ॥ उडुपे वानरे भेके प्लुते कारण्डवे प्लवः । भावः पदार्थे सत्तायां क्रियाचेष्टात्मयोनिषु ॥ विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु । कण्ठतच्छिरयोर्ग्रीवा छविः स्यात्कान्तिशोभयोः ॥ ;l{1045} लघ्वी स्यन्दनभेदेऽपि दर्वी फणखजाकयोः । पृथ्वी तु पृथिवी कृष्णजीरकं हिङ्गुपत्रिका ॥ संवित्प्रतिज्ञाथ युद्धसंकेताचारनामसु । नीवी वार्धुषिमूले स्वे ग्रन्थौ जघनवाससः ॥ दार्वी दारुहरिद्रायां देवदारुहरिद्रयोः । ;l{1050} जिह्वा वाग्रसना ज्वाला रेवा नील्यां सरित्यपि ॥ तत्त्वं विलम्बमाने स्यात्स्वरूपे परमात्मनि । द्वंद्वं द्वयं हिमोष्णादि कलहो मिथुनं रहः ॥ सान्त्वं सामनि दाक्षिण्ये हविर्हव्ये घृते जले । पर्व ग्रन्थौ पञ्चदश्यामुत्सवे विषुवादिके ॥ ;l{1055} प्रस्तावे चाथ किण्वं स्यात्पिण्याको नग्नहूरघम् । ध्रुवः शङ्कौ वटे कीले योगे तारान्तरे पुमान् ॥ तर्कनिश्चितयोः क्लीबे नित्यनिश्चलयोस्त्रिषु । गीतिमूर्वासालपर्णीस्रुग्भेदेषु स्त्रियां ध्रुवा ॥ जीवो बृहस्पतिप्राणजीवनात्मद्रुमेषु ना । ;l{1060} मौर्व्यां वचायां जीवन्त्यां जीवा जीववति त्रिषु ॥ ;p{0056} लवो रामसुते लेशे विलासे छेदने च ना । लवं मेषादिलोम्नि स्याद्देवो राज्ञि सुरेऽम्बुदे ॥ राजाग्रमहिषी मूर्वा देवी स्याद्देवमिन्द्रियम् । सत्त्वं द्रव्ये पिशाचादौ व्यवसायस्वभावयोः ॥ ;l{1065} गुणप्राणबलस्वान्तसत्तास्वस्त्री तु जन्तुषु । विश्वं स्याज्जगति क्लीबे विषायां तु स्त्रियामयम् ॥ ;l{1066a} कृत्स्ने त्रिषु न ना शुण्ठ्यां पुमान्देवेषु भूम्नि च । ;l{1066b} बन्धने दूरमार्गे च क्लीबे प्राध्वं नते त्रिषु ॥ ;l{1066c} अविर्ना पर्वते सूर्ये मेषे मूषिककम्बले । प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः ॥ कविः पुमान्काव्यकर्तृशुक्रवाल्मीकिसूरिषु । खलीने तु कविः स्त्री स्यात्कण्वं पापे मुनौ तु ना ॥ ;l{1070} स्रुग्भेदे ना स्रुवः स्त्री तु मूर्वायामथ पूर्वजे । पूर्वदिग्देशकालस्थद्रव्ये पूर्वस्त्रिलिङ्गकः ॥ ऊर्ध्वं स्यादुपरि क्लीबे त्रिषु तूज्झिततुङ्गयोः । उपरिस्थे चाथ पार्श्वमस्त्री कक्षान्तरेऽन्तिके ॥ भास्वानर्के त्रिषूद्दीप्ते नार्वाऽश्वे कुत्सिते त्रिषु । ;l{1075} क्लीबे शिवं भद्रसुखोदकेषु द्रव्ये त्रिषु स्यद्गिरिशे तु पुंसि ॥ शिवा भवेदामलकी भवानी हरीतकी सक्तुफला सृगालः । धन्व चापे मरौ नाथ त्रिषु ह्रस्वोऽल्पखर्वयोः ॥ पक्कं भवेत्परिणते विनाशाभिमुखेऽपि च । ;c{॥ इति वान्ताः ॥} ;p{0057} ;v{शान्ताः} पाशो रज्जौ स निन्दार्थः क्षत्रादिभ्यः परो यदि । ;l{1080} कर्णात्परः सुवर्णार्थः कलापार्थः कचात्परः ॥ तिरोधाने क्षये नाशो राशिर्मेषादिपुञ्जयोः । इष्ट्यन्तरममावास्या दर्शश्चाराहवौ स्पशौ ॥ दंशो दोषो वर्ममर्मखण्डनं वनमक्षिका । वंशो वेणौ समूहे च पृष्ठास्थिनि कुलेऽपि च ॥ ;l{1085} अंशुस्तन्त्वादिसूक्ष्मांशे किरणे तरणावपि । वेशो वेश्यागृहे गेहमात्रनेपथ्ययोरपि ॥ वाशा भवेदाटरूषे वाशी तक्षणसाधने । पेशी त्वण्डे खगादीनां मांस्यां खड्गपिधानके ॥ आशीरुरगदंष्ट्रायां शुभवागभिलाषयोः । ;l{1090} वर्त्त्यवस्थांशुकान्तेषु दशाशा तु दिगीहयोः ॥ निशा रात्रौ हरिद्रायां अर्शो दुर्नामरोगयोः । त्रिष्वधीने वशो वाञ्छाप्रभुत्वाधीनतासु ना ॥ वशा वन्ध्यगवी योषा दुहिता करिणी च सा । दर्भेषु कुशमस्त्री स्याद्द्वीपे रामसुतेऽपि ना ॥ ;l{1095} अयोविकारे तु कुशी कुशा वल्गा कुशं जलम् । काशस्तृणविशेषे ना काशी वाराणसी मता ॥ कोशोऽस्त्री कुट्मलेऽर्थौघे गुह्येऽण्डे शास्त्रदिव्ययोः । गृहे देहे पुस्तकौघे पेश्यामसिपिधानके ॥ ईशः शंभौ प्रभौ तु त्रिष्वीशा लाङ्गलदण्डके । ;l{1100} रुजास्पर्शनदानेषु स्पर्शो ना स्प्रष्टरि त्रिषु ॥ ;c{॥ इति शान्ताः ॥} ;p{0058} ;v{षान्ताः} प्रेषणे मर्दने प्रैषः कर्षः कर्षणमानयोः । वृषाण इन्द्रोक्षनरास्तर्षो लिप्सापिपासयोः ॥ ऋषिर्वेदे वसिष्ठादौ ज्ञानवृद्धे दिगम्बरे । मानत्वग्दोषधान्येषु माषः शोषस्तु शोषणे ॥ ;l{1105} यक्ष्मण्यपि तुषस्तु स्याद्धान्यत्वचि विभीतके । पौषो मासे महे युद्धे तृषा लिप्सापिपासयोः ॥ दृषत्पाषाणमात्रं च निष्पेषणशिला च सा । मिषं तु स्पर्धने व्याजे वर्षोऽस्त्री भारतादिके ॥ वृष्टावब्दे प्रावृषि तु वर्षाः स्युर्भूमनि स्त्रियाम् । ;l{1110} वृषो धर्मोक्षपुंभेदरेतःशक्राखुवाजिषु ॥ राशौ शृङ्ग्यां बले ना स्याद्रेतस्विश्रेष्ठयोस्त्रिषु । वृषा स्त्रियामाटरूषः सैव मूषिकपर्ण्यपि ॥ विषा त्वतिविषायां स्त्री विषं तु गरले जले । उषा बाणसुता रात्रिर्न नोषः काल्यसंध्ययोः ॥ ;l{1115} सायं निश्यव्ययं दोषा स्त्री वा ना दूषणाघयोः । घोषो ध्वनिर्मेघनादः स एवाभीरपल्ल्यपि ॥ कांस्यं च घोषणा चाथ घोषा स्त्री शतपुष्पिका । झषा नागबलायां स्त्री ना मत्स्ये मकरे वने ॥ शेषोऽनन्तो हरिः शेषं त्रिष्वन्यदुपयुक्ततः । ;l{1120} प्रासादीकृतमाल्याक्षतादौ शेषा स्त्रियां मता ॥ कर्षूः पुमान् करीषाग्नौ स्त्री कुल्यातुषकाष्ठयोः । ;c{॥ इति षान्ताः ॥} ;p{0059} ;v{सान्ताः} हंसः स्मरे खगे विष्णौ यतौ निर्लेपभूभुजि ॥ जीवेऽर्केऽश्वे श्वेतवृषे स्यान्मन्त्रपरमात्मनोः । गोपक्रीडारवौ रासौ व्यासौ विस्तारतापसौ ॥ ;l{1125} कंसो दैत्ये पानपात्रे कांस्ये मानान्तरेऽपि च । भासो भासि खगे गोष्ठे त्रासो भीमणिदोषयोः ॥ हिंसा चौर्यादिवधयोरश्वायां मातरि प्रसूः । कासूर्बुद्धौ कुवाच्यस्त्री शंसा स्तुत्यभिलाषयोः ॥ दासी चेटी च झण्टी च दासः स्याद्भृत्यशूद्रयोः । ;l{1130} वत्सरे कुटजे वत्सः सुतादौ तर्णके त्रिषु ॥ वक्षस्यस्त्री चाथ मांसं क्रव्ये मांसी जटा स्मृता । वासो निवासाटरूषौ वासो वस्त्रे नपुंसकम् ॥ वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु । मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयोः ॥ ;l{1135} शृङ्गारमुख्यमधुरादिसुवर्णरेतोनिर्यासरागगरलद्रवपारदेषु । आस्वादनध्वनिसुधाम्बुरसाख्यधातुष्विष्टो रसोऽथ रसना धरणी रसा स्यात् ॥ ;c{॥ इति सान्ताः ॥} ;v{हान्ताः} गवां स्कन्धे गवां श्वासे वाहने पवने वहः । अर्काद्यादानोपरागपूतनाद्याग्रहा ग्रहाः ॥ अविद्यामूर्छयोर्मोहः स्यादहिर्वृत्रसर्पयोः । ;l{1140} प्रोहः प्रकृष्टतर्के च कुञ्जराङ्घ्रेश्च पर्वणि ॥ अब्विशेषे गुणे स्नेहस्तैलसौहार्दयोश्च सः । ;p{0060} व्यूहः स्याद्बलविन्यासे वृन्देऽपीहोद्यमेच्छयोः ॥ कुहूः स्त्री कोकिलालापे विनष्टेन्दुतिथावपि । लोहः शस्त्रे च कांस्यादिसर्वतैजसवस्तुनि ॥ ;l{1145} रहो रहस्ये सुरते बर्हं पर्णशिखण्डयोः । हेमन्तमासौ सहसौ नरौ क्लीबं सहो बले ॥ सहा कुमारीभूम्योः स्त्री साकमर्थे सहाव्ययम् । सिंहपुच्छीकन्दरयोर्गुहा स्त्री षण्मुखे तु ना ॥ कान्त्युत्सवौ तु महसी पुमांश्चेन्मह उत्सवे । ;l{1150} गृहं गृहाश्च पुंभूम्नि द्वाविमौ गेहभार्ययोः ॥ सिंहो मृगेन्द्रे राशौ च श्रेष्ठे राजादिकात्परः । सिंही सिंहस्त्रियामाटरूषे राहोश्च मातरि ॥ बाहा भुजे स्त्री बाहो ना यानेऽश्वे वृषभेऽपि च । बर्हिर्नाग्नौ कुशे क्लीबे त्रिष्वर्च्येऽर्हा जिने तु ना ॥ ;l{1155} बहुः स्याद्विपुले त्र्यादिसंख्यायां च त्रिलिङ्गकः । ;c{॥ इति हान्ताः ॥} ;v{क्षान्ताः} पक्षः सहायगरुदन्तिकसाध्यभित्तिमित्रेषु चुल्लिविवरे नृपकृञ्जरे च ॥ बृन्दे कचादुपरि मासदले च पक्षद्वारे बले च गजपार्श्वविरोधयोश्च । प्लक्षो द्वीपो गर्दभाण्डः पर्कटी पिप्पलद्रुमः ॥ मोक्षोऽपवर्गे मृत्यौ च मोचने मुष्ककद्रुमे । ;l{1160} ध्वाङ्क्षौ काकबकौ यक्षः कुबेरे गुह्यकेऽपि च ॥ भिक्षा तु भिक्षितान्नादौ याच्ञायां भृतिसेवयोः । बुद्धौ नृत्ते क्षणे प्रेक्षा रक्षा रक्षणलाक्षयोः ॥ ;p{0061} अक्षमिन्द्रियमक्षो ना रथाङ्गव्यवहारयोः । पाशके शकटे कर्षे द्यूतभेदे कलिद्रुमे ॥ ;l{1165} नक्षत्रमृक्षं भल्लूके शोणके च पुमानयम् । लक्षं शरव्ये व्याजे च न स्त्रियां नियुते तु ना ॥ न्यक्षस्तु पुंसि महिषे त्रिषु कार्त्स्न्यनिकृष्टयोः । कक्षो गुल्मे तृणे बाहुमूले स्त्री तूत्तरक्रमे ॥ दक्षः प्रजापतौ वह्नौ ताम्रचूडे हरे मुनौ । ;l{1170} त्रिष्वभिज्ञेऽप्यन्यवत्तु रूक्षं निष्प्रेम्ण्यचिक्कणे ॥ ;c{॥ इति क्षान्ताः ॥} ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायां द्व्यक्षरपदकाण्डोऽयं पूर्णो नानार्थरत्नमालायाम् ॥} ;k{त्र्यक्षरकाण्डः} ;c{॥ नानार्थरत्नमालायां त्र्यक्षरकाण्डः ॥} ;v{कान्ताः} संपर्कौ रतिसंसर्गौ वितर्कावूहसंशयौ । मरूकौ केकिमण्डूकावालोकौ दर्शनद्युती ॥ ;l{1175} उलूकौ घूकदेवेन्द्रौ जम्बूकौ पाशिफेरवौ । डुण्डुकौ शोणकक्रूरौ वृषाङ्कौ शिवसज्जनौ ॥ एष्यतोः कालफलयोरुदर्कः स्यादथात्मजे । मदालसायां श्वेतार्केऽप्यलर्को भ्रान्तशुन्यपि ॥ ;p{0062} कञ्चुकी वारवाणी च दिवौकाश्चातके सुरे । ;l{1180} मशकः क्षुद्ररोगेऽपि नरको दानवेऽपि च ॥ चुलकः प्रसृतौ भाण्डे पृथुकश्चिपिटे शिशौ । क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ रुचको मङ्गलद्रव्ये दन्ते कण्ठविभूषणे । एरण्डे मातुलुङ्गे च सौवर्चलविलङ्गयोः ॥ ;l{1185} शिशुकः शिंशुमारे स्याद्बालकोलुपिनोरपि । भेर्यां मृदङ्गे पटहे ध्वनन्मेघेऽपि चातकः ॥ चार्चिक्ये मदिरादीनां बुद्बुदे स्थासको भवेत् । क्रमुकः श्वेतलोध्रे च पूगे च ब्रह्मदारुणि ॥ प्रियकोऽलौ मृगे नीपे प्रियङ्गौ कुङ्कुमेऽसने । ;l{1190} पिण्याकः सिल्हके किण्वे श्रीवासतिलकल्कयोः ॥ स्यात्पुलाकस्तु संक्षेपे तुच्छधान्यान्नसिक्थयोः । गजलाङ्गूलमूलस्य प्रान्ते घूके च पेचकः ॥ वैधवेये भग्नभाण्डे शिरस्त्रे मणिके गुडे । कम्बले चेन्द्रियस्थाने पूगकोशे च गोलकः ॥ ;l{1195} कूपकोऽन्धौ तैलपात्रे गुणवृक्षे कुकुन्दरे । शम्बूको गजकुम्भान्ते जलशुक्तौ च दानवे ॥ कीचकः पवनापूरध्वनद्वेणौ निशाचरे । शूककीटे राशिभेदे वृश्चिकोऽथ गृहान्तरे ॥ मुग्धस्त्रीहस्तविन्यासभेदे च स्वस्तिको मतः । ;p{0063} ;l{1200} स्यात्कञ्चुको वारबाणे निर्मोके कवचेऽपि च ॥ निर्मोको वर्मणि व्योम्नि मोचने सर्पकञ्चुके । पुलको मणिदोषे स्त्री राज्यां रोमोद्गमे क्रिमौ ॥ हीरकेऽप्यथ पार्श्वं च पक्षद्वारं च पक्षकम् । कटुतुम्ब्यामपीक्ष्वाकुस्तुरुष्कः सिल्हकेऽपि च ॥ ;l{1205} भुजंगचित्रकव्याघ्रवृश्चिकाः स्युः पृदाकवः । मर्कटार्कपरोत्तापिहव्यवाहाः कुषाकवः ॥ तार्क्ष्यभूपालमार्जारशलभाः स्युस्त्रिशङ्कवः । बृसीमञ्चौ तु पर्यङ्कौ करङ्को मस्तकास्थिनि ॥ नारिकेलफले च स्यात्कलङ्कस्त्वङ्कनिन्दयोः । ;l{1210} आतङ्कः संज्वरे रोगे साध्वसे मुरजध्वनौ ॥ कण्टकः पुलके रेणौ द्रुमाङ्गे क्षुद्रवैरिणि । विपाकः परिणामे च स्वेदने दुर्गतावपि ॥ विपाकः पचने स्वेदे दुष्फलेऽप्यथ कौशिकः । गुग्गुलूलूकनकुलमुनिशक्राहितुण्डिकाः ॥ ;l{1215} अम्बिका मातुलीगौर्योः पाण्डुमातरि मातरि । पार्यां काले च घटिका कर्णिका कर्णभूषणे ॥ हस्तमध्याङ्गुलौ हस्तिहस्ताग्रेऽब्जवराटके । पिण्डिका पिण्डके जङ्घामांसे स्यादथ कालिका ॥ ;p{0064} कार्ष्ण्ये भवान्यां रोमालिधूमालिजलदालिषु । ;l{1220} पटोलशाखायोगिन्योर्नाले मांसे नवाम्बुदे ॥ कणिका वह्निमन्थे स्याल्लेशे गोधूमचूर्णके । स्याल्लेख्यकूर्चिकातूलशय्ययोरपि तूलिका ॥ शेफालिकायां नीलिन्यां क्षुद्ररोगेऽपि नीलिका । जमदग्निप्रियायां च तुषे रेणौ च रेणुका ॥ ;l{1225} मीने मृत्पात्रभेदे च तृणशून्ये च मल्लिका । कुट्मले तूलिकासूच्योर्मस्तुपिण्डे च कूर्चिका ॥ अङ्गुलीये तरङ्गे च वस्त्रभङ्गेऽपि चोर्मिका । मृद्भाण्डभेदे कान्तायां करभस्यापि चोष्ट्रिका ॥ धेनुका गौः करेणुश्च कामुका कामिनी वधूः । ;l{1230} भित्तिका तु शतावर्यां वज्रे चाप्यथ नाडिका ॥ नाले काले चुल्लिरन्ध्रे विवरे रेणुभाजने । यः संघः कर्म भावो वा वृद्धानां तत्र वार्धकम् ॥ धैनुकं धेनुबृन्दे स्याद्रतिबन्धान्तरेऽपि तत् । भूतिकं कत्तृणे दीप्ये भूनिम्बे भूस्तृणेऽपि च ॥ ;l{1235} पुष्पकं रत्नवलये श्रीदयाने रसाञ्जने । कासीसेऽङ्गारशकटे रीतिकानेत्ररोगयोः ॥ उत्तरीये वस्त्रमात्रे सूक्ष्मवस्त्रेऽपि चांशुकम् । अप्रियेऽप्यनृतेऽलीकं गजबिन्दौ च पद्मकम् ॥ व्यलीकं दुःखवैलक्ष्याप्रियकार्येष्वथान्वये । ;p{0065} ;l{1240} शीलेऽप्यनूकं शास्त्रेऽपि कार्मुकं कौतुकं त्विह ॥ कुतुकेच्छाहस्तसूत्रमङ्गलैतिह्यनर्मसु । प्रख्यातहर्षयोश्चाथ स्वर्णे धातौ च गैरिकम् ॥ कटुकं कटुरोहिण्यां व्योषे चाथार्भकस्त्रिषु । दरिद्रे बालके मूर्खे जडे भ्रूणे तु पुंस्ययम् ॥ ;l{1245} चित्रकं तिलके ना तु व्याघ्रे वह्न्याख्यभेषजे । एरण्डे सरकं त्वस्त्री शीधौ तत्पात्रपानयोः ॥ बालकं स्यादङ्गुलीये ह्रीबेरे वलयेऽपि च । शिशौ तु त्रिषु नालीकं त्वब्जे क्लीबं शरे पुमान् ॥ खे किञ्जल्कं केसरे ना सूतकः पारदे पुमान् । ;l{1250} आशौचे सूतकं चुल्ल्यामन्तिका निकटेऽन्तिकम् ॥ कनकं काञ्चने ना तु दुत्तूरे नागकेसरे । चम्पके काञ्चनाद्रौ च करकस्तु कमण्डलौ ॥ दाडिमे पक्षिभेदे च द्वयोरेष घनोपले । चटकः कलविङ्के स्यात्तस्य कान्तास्त्र्यपत्ययोः ॥ ;l{1255} चटका कुलकस्तु स्याद्वल्मीके काकतिन्दुके । क्लीबे त्वेकान्वयश्लोकबृन्देऽथ क्लोम्नि चित्रके ॥ तिलकं द्रुमरोगाश्वभेदेषु तु पुमानयम् । आढकं स्यान्मानभेदे तुवर्यामाढकी स्त्रियाम् ॥ ;p{0066} पिनाकोऽस्त्री पांसुवर्षे त्रिशूले शिवधन्वनि । ;l{1260} प्रतीकः स्यादवयवे प्रतिकूले त्वयं त्रिषु ॥ वल्मीकोऽस्त्री रोगभेदेऽप्यनीकोऽस्त्री रणे बले । मण्डूकपर्ण्यां मण्डूकी पुमांछोणकभेकयोः ॥ ग्रन्थिकं पिप्पलीमूले पुंस्ययं गुग्गुलुद्रुमे । बाल्हिकं कुङ्कुमे हिङ्गौ देशभेदाश्वयोस्तु ना ॥ ;l{1265} कन्यया यद्धनं लब्धं पित्रादेस्तत्र यौतकम् । युतकस्येदमित्यत्र त्रिष्वयं युतकं त्विह ॥ यौतके युगले युक्ते संश्रये वसनाञ्चले । शूर्पाग्रे वस्त्रभेदे च स्त्रीणां नद्यां तु गण्डकी ॥ स्याद्गण्डकः खड्गमृगे प्रत्यूहे शकुलार्भके । ;l{1270} मेचकश्चन्द्रके ध्वान्ते नीले ना तद्वति त्रिषु ॥ मधुकः स्याद्वन्दिजनो मधुकं मधुयष्टिका । जतुकाजिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥ कुमार्यां नग्निका वन्दिक्षपणौ नग्निकावुभौ । वालुका सिकतासु स्यात्क्लीबेऽयं हरिवालुके ॥ ;l{1275} मोचकः कदलीशिग्र्वोः सेचकोऽम्बुधरेऽपि च । जतुकाकश्वसूचीषु सूचको वाच्यवत्खले ॥ क्षारकः पक्षिमत्स्यादिपिटके पुष्पजालके । भक्ष्येऽपि मोदकः काव्यालंकारेऽपि च दीपकम् ॥ ;p{0067} रूपकं वागलंकारे नाटकेऽप्यथ जीवकः । ;l{1280} क्षपणे वृद्धिजीविन्यप्यसने चाहितुण्डिके ॥ स्यादाजीवे जीविका स्त्री तुन्नवाये च सौचिकः । जनको मैथिलेऽपि स्याद्रजको धावकेंऽशुके ॥ द्रावकस्रिष्वभिज्ञे ना शिलाभेदेऽथ लासकः । मयूरे लास्यकारे च तक्षकौ नागवर्धकी ॥ ;l{1285} पावकोऽग्नौ सदाचारे भल्लातकविडङ्गयोः । अग्निमन्थे चित्रके च दारकस्तु शिशावपि ॥ हारकौ चोरकितवौ कर्मादावपि कारकम् । स्यात्कारिका यातनायां श्लोके विवरणे कृतौ ॥ वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने । ;l{1290} लोचकस्त्वञ्जने मांसपिण्डे रक्तांशुके भ्रुवि ॥ नन्दको विष्णुखड्गेऽपि प्रतीहारेऽपि दर्शकः । वर्तकोऽश्वखुरः पक्षी सायकः शरखड्गयोः ॥ करेण्वसत्यौ बन्धक्यावाधिद्रव्ये तु बान्धकः । याजको राजमातङ्गेऽप्ययस्कान्तेऽपि चुम्बकः ॥ ;l{1295} राजकं राजबृन्देऽपि राजिका राजसर्षपे । केदाररेखयोश्चाथ करेण्वामपि नर्तकी ॥ गजवेश्या यूथिकासु(च) गणिका ना तु तान्त्रिके । आखुचोरौ तु खनकौ तारकौ दैत्यनाविकौ ॥ ;p{0068} कनीनिकायां भे चायं न ना चक्षुषि न द्वयोः । ;l{1300} मोचकाद्या अमी मोक्तृमोचयित्रादिषु त्रिषु ॥ नीचेऽल्पे क्षुल्लकोऽभीकः क्रूरे कामिनि निर्भये । ईर्ष्यायुते वञ्चके च कुहकस्रिष्वमी त्रयः ॥ ;c{॥ इति कान्ताः ॥} ;v{खान्ताः} मयूखोंऽशुज्वालभासु वैशाखो मासमन्थयोः । रथ्याखनित्र्योर्विशिखा विशिखस्तोमरे शरे ॥ ;l{1305} नक्रे ना लेपने क्लीबे वाद्मे न स्त्री च गोमुखम् । भे विशाखा गुहे पुंसि श्रेष्ठाद्योः प्रमुखस्त्रिषु ॥ ;c{॥ इति खान्ताः ॥} ;v{गान्ताः} प्लवंगौ कपिमण्डूकौ विहंगौ खगसायकौ । मातङ्गौ करिचण्डालौ भुजंगौ विटपन्नगौ ॥ ;p{0069} निषङ्गौ सङ्गतूणीरौ रक्ताङ्गौ भौमविद्रुमौ । ;l{1310} प्रियङ्गू फलिनीकङ्गू हेमाङ्गौ तार्क्ष्थवेधसौ ॥ पुंनागौ द्रुमपुंश्रेष्ठौ निसर्गौ शीलनिर्मिती । अपाङ्गौ तिलकाक्ष्यन्तावावेगौ कोपसंभ्रमौ ॥ आभोगौ पूर्णतायत्नावाशुगौ शरमारुतौ । आयोगो गन्धमाल्योपहारे च व्यापृतावपि ॥ ;l{1315} प्रयोगो यज्ञादितन्त्रे निदर्शनकुसीदयोः । भवेत्परागः स्नानीये रेणौ रेणौ च कौसुमे ॥ तटा(डा?)गस्तु जलाधारविशेषे कूटयन्त्रके । संभोगः करिशुण्डायां भोगे च सुरते च सः ॥ सामान्यन्याय उत्सर्गो दानवर्जनयोश्च सः । ;l{1320} त्यागे विसर्जनीये च विसर्गः स्यान्मलेऽपि सः ॥ त्रिवर्गो धर्मकामार्थाः स्थानापचयवृद्धयः । कटुत्रयं सत्वरजस्तमांसि त्रिफलापि च ॥ पतंगः शालिभेदेऽर्के बिडाले शलभे खगे । पन्नगः पद्मकाष्ठेऽहौ वराङ्गं योनिशीर्षयोः ॥ ;l{1325} जलावतारे खड्गे च धाराङ्गमथ चातके । ;p{0070} भृङ्गे कुरङ्गे मातङ्गे सारङ्गः शबले त्रिषु ॥ मानसौकसि चक्राङ्गश्चक्राङ्गी कटुरोहिणी । स्यात्पूगफलमुद्वेगमुद्वेगो भीतिरुद्गमः ॥ चक्रे रथाङ्गं कोके ना कलिङ्गं कौटजे फले । ;l{1330} कलिङ्गः पूतिकरजे देशधूम्याटयोरपि ॥ तातगुः शू(क्षु?)द्रताते ना ताताय तु हिते त्रिषु । ;c{॥ इति गान्ताः ॥} ;v{घान्ताः} प्रतिघो रुट्प्रतीघातौ परिघो मुद्गरेऽर्गले । घटके परिघाते स्त्री योगे प्राकारगोपुरे ॥ महार्घो लावकखगे महामूल्ये त्वयं त्रिषु । ;l{1335} अनर्घो निर्मलापापरम्येष्वथ निरामये ॥ शुचौ हृष्टे प्रवीणे स्यादुल्लाघो द्वाविमौ त्रिषु । ;c{॥ इति घान्ताः ॥} ;v{चान्ताः} प्रपञ्चो निष्कृतौ स्तोमे रचनायां विपर्यये । क्रकचः करपत्रे स्यादपि ग्रन्थिलपादपे ॥ मार्जारेऽपि पिशाचः स्यान्मारीचो याचकद्विजे । ;l{1340} दानवेऽप्यथ नाराचो बाणे जलकरिण्यपि ॥ ;p{0071} वीणा विपञ्ची या चाल्पदण्डा या नवतन्त्रिका । तयोश्च मणिचं तु स्यादग्रहस्तप्रसूनयोः ॥ मौक्तिकेऽपि मरीचिस्तु मुनौ ना किरणे द्वयोः । उदर्चिर्वाच्यलिङ्गः स्यादुत्प्रभे दहने पुमान् ॥ ;l{1345} अवीचिरूर्मिरहिते वाच्यवन्नरके तु ना । ;c{॥ इति चान्ताः ॥} ;v{जान्ताः} काम्भोजी माषपर्ण्यां च हिङ्गुपर्ण्यामपि स्त्रियाम् । काम्भोजस्तुरगे सोमवल्के पुंनागपादपे ॥ देशेभशङ्खाः काम्भोजाः पदाजिर्मार्गयुद्धयोः । स्वयंजाततिले कीरे क्षत्रियेऽपि च बाहुजः ॥ ;l{1350} द्रोणाचार्ये वृक्षभेदागस्त्ययोः कुम्भजो मतः । करजस्तु करञ्जाख्यद्रुमे व्याघ्रनखे नखे ॥ अण्डजः पतगे मीने कृकलासे भुजंगमे । कारुजः कलहे(भे?) फेने गैरिके नागकेसरे ॥ स्वयंजाततिले नाकौ जलजं त्वब्जशङ्खयोः । ;l{1355} भूमिजोऽङ्गारके दैत्यभेदे सीता तु भूमिजा ॥ शिलाजत्वभ्रकं लोहं गिरिजं गिरिजाप्युमा । क्लीबेऽब्जे वनजं मुद्गपर्ण्यां स्त्री कुञ्जरे पुमान् ॥ ;p{0072} अङ्गजो मन्मथे पुत्रे स क्लीबे रोम्णि शोणिते । वलजं गोपुरे क्षेत्रे सस्यसंगरयोरपि ॥ ;l{1360} चारुस्त्री भूश्च वलजा परञ्जस्तैलयन्त्रके । करवाले च फेने च परञ्जं छुरिकाफलम् ॥ सहजो ना निसर्गेऽपि सामजः कुञ्जरेऽपि ना । यौगिकार्थेष्वमी वाच्यलिङ्गाः स्युर्बाहुजादयः ॥ ;c{॥ इति जान्ताः ॥} ;v{ञान्ताः} सर्वज्ञः शंकरे बुद्धे दैवज्ञो गणकेऽपि च । ;l{1365} दोषज्ञौ सूरिभिषजौ कृतज्ञः कुक्कुरेऽपि च ॥ क्षेत्रज्ञोऽप्यात्मनि छेके त्रिष्वमी भेद्यगामिनः । ;c{॥ इति ञान्ताः ॥} ;v{टान्ताः} किरातसिंहौ शैलाटौ धाराटौ हयचातकौ । अवटः स्याद्‌बिले गर्ते कूपे कुहकजीविनि ॥ करटो वायसे बिल्वे दुर्दुरूटेभगण्डयोः । ;l{1370} चक्राटो विषवैद्येऽपि दीनारे दुर्जनेऽपि सः ॥ ;p{0073} गृहे कवाटे केदारे गृहारामे च निष्कुटः । सारमेये वह्निकणे ताम्रचूडे च कुक्कुटः ॥ अश्वे मितंपचे निःस्वे देशभेदे च कीकटः । रतिबन्धे राशिभेदे कुलीरेऽपि च कर्कटः ॥ ;l{1375} ऊर्णनाभौ कपौ कान्तारतिभेदे च मर्कटः । उर्वारौ शूकशिम्ब्यां च कर्कटी मर्कटी क्रमात् ॥ सूक्ष्मैला त्रिवृता चापि त्रिपुटा वरटा तु सा । गण्डोली हंसयोषा चाप्यवटुर्गर्तघाटयोः ॥ परिष्टिः परिचर्यायां प्राक्राम्येऽन्वेषणेऽपि सा । ;l{1380} चिरण्टी तु सुवासिन्यां स्याद्‌द्वितीयवयस्त्रियाम् ॥ पिच्छटो नेत्ररोगे ना क्लीबे च त्रपुसीसयोः । मोरटं गोरसे चेक्षुमूले मूर्वा तु मोरटा ॥ अशि(रि?)ष्टमशुभे तक्रे लशुने सूतिकागृहे । मृत्युचिह्ने च ना त्वेष काके फेनिलनिम्बयोः ॥ ;l{1385} रेवटं दक्षिणावर्तशङ्खे वेणौ तु रेवटः । वातूले विषवैद्ये च कृपीटमुदरे जले ॥ विकटः पृथुले रम्ये विशालविकरालयोः । स्यादुत्कटो बलवति क्षीबे च द्वाविमौ त्रिषु ॥ ;c{॥ इति टान्ताः ॥} ;p{0074} ;v{ठान्ताः} वैकुण्ठः केशवे शक्रे निर्मठश्चूचुके विटे । ;l{1390} प्रकोष्ठो विस्तृतकरेऽप्यलिन्दे कूर्परादधः ॥ कक्षान्तरे प्रतिष्ठा तु समाप्तौ गौरवेऽपि च । कार्यनिर्वाहसामर्थ्ये चतुर्थे छन्दसि स्थितौ ॥ कमठः कच्छपे खर्वे भिक्षापात्रे तु न द्वयोः । वरिष्ठं मरिचे ताम्रे त्रिषु तु प्रवरेऽत्युरौ ॥ ;l{1395} कनिष्ठोऽपूर्वजेऽत्यल्पे यूनि त्रिष्वङ्गुलौ स्त्रियाम् । अम्बष्ठो देशभेदे च विप्राद्वैश्यासुते च सः ॥ अम्बष्ठा यूथिका पाठा त्रिषु त्वतिलघुन्यपि । अत्यल्पेऽपि लघिष्ठः स्याज्जरठौ जीर्णकर्कशौ ॥ ;c{॥ इति ठान्ताः ॥} ;v{डान्ताः} पिचण्डः स्यात्पशोरङ्गे शय्यायां जठरेऽपि च । ;l{1400} तरण्डो बडिशे सूत्रे बद्धवस्तुनि वाससि ॥ वरण्डोऽप्यन्तरावेद्यां समुदाये मुखामये । मार्ताण्डः सूकरे सूर्ये शिखण्डः पिञ्छचूडयोः ॥ कूष्माण्डो गणभेदे स्यात्कर्कारुभ्रूणयोरपि । भेरुण्डो देवताभेदे पक्षिभेदे भयंकरे ॥ ;l{1405} निर्गुण्डी सिन्धुवारे च नीलशेफालिका च सा । वेणुचापे चतुर्हस्तचापे चापे भ्रुवोरपि ॥ ;p{0075} स्यात्कोदण्डः प्रचण्डस्तु ना श्वेतकरवीरके । त्रिषु प्रगल्भे दुर्धर्षे विषशास्त्रे तु गारुडम् ॥ मणिभेदेऽपि चायं तु तार्क्ष्यसंबन्धिनि त्रिषु । ;l{1410} प्रकाण्डोऽस्त्री प्रशस्ते च तरोश्चास्कन्धमादितः ॥ ;c{॥ इति डान्ताः ॥} ;v{ढान्ताः} आषाढो व्रतिनां दण्डे मासे मलयपर्वते । कृतसापत्निकाध्यूढा त्रिषु स्यादेष ईश्चरे ॥ त्रिषूत्तरे प्ररूढः स्याज्जठरे बद्धमूलके । संरूढोऽङ्कुरिते प्रौढे विरूढो बद्धजातयोः ॥ ;l{1415} समूढः पुञ्जिते सद्योजातेऽनुपहतेऽप्यथ । कृच्छ्रे दृढे प्रगाढः स्यादुपोढो निकटस्थिते ॥ ऊढेऽपि स्यादुदूढस्तु परिणीते दृढे पृथौ । ;c{॥ इति ढान्ताः ॥} ;v{णान्ताः} द्रुहिणौ हरिधातारौ गजोक्षाणौ विषाणिनौ । तताङ्गुष्ठानामिकाभ्यां कृतोन्माने मृगान्तरे ॥ ;l{1420} भुजगेऽश्वतरेऽपि स्याद्गोकर्णोऽप्यथ मत्कुणः । खट्‌वाकीटे निर्विषाणगजे निःश्मश्रुपूरुषे ॥ वरुणः स्याद्वृक्षभेदे भानौ पश्चिमदिक्पतौ । ;p{0076} द्रुघणो मुद्गरेऽलिन्दे ताम्रकुम्भे परश्वधे ॥ वेधसि प्रघणस्तु स्यादलिन्दे लोहमुद्गरे । ;l{1425} रोहिणी रोहिता पथ्या कन्योमा कटुरोहिणी ॥ गौस्तारा कण्ठरोगश्च सरणिः पङ्क्तिवर्त्मनोः । पूर्वापराहर्युग्रात्रिर्बन्दी राका च पक्षिणी ॥ इन्द्राणी स्यात्सिन्धुवारे पौलोमीरतिबन्धयोः । मूर्वासुराप्रतीचीषु वारुणी स्यादथारणिः ॥ ;l{1430} निर्मथ्यकाष्ठेऽग्निमन्थे काकिण्येकवराटके । मानदण्डस्य तुर्यांशे माषस्य च पणस्य च ॥ नौदण्डे जालभेदेऽपि क्षेपणिर्विपणिः पुनः । पण्यवीथ्यापणः पण्यं प्रवेणी वेणिका कुथा ॥ शरणं स्याद्रक्षितरि रक्षणे मन्दिरे वधे । ;l{1435} हरणं यौतकद्रव्ये तप्तशीतजले हृतौ ॥ प्रमाणं प्रमितीयत्तामर्यादाशास्त्रहेतुषु । आप्तेऽथ द्रविणं गेहे वित्ते स्वर्णे पराक्रमे ॥ निर्याणं हस्तिनेत्रान्ते मरणे निर्गतेऽपि च । निर्वाणं निर्वृतौ मोक्षे विनाशे गजमज्जने । ;l{1440} स्यात्कङ्कणं हस्तसूत्रे शेखरे हस्तमण्डने ॥ श्रवणं भे श्रुतौ कर्णे तर्पणं तृप्तिरिन्धनम् । प्रयाणं गजदृक्पूर्वप्रदेशे मरणे गतौ ॥ ;p{0077} करणमिह बबादौ कारणे क्षेत्रमुख्ये वपुषि सुरतबन्धे कर्मगीतेन्द्रियेषु । अतिशयितनिदाने ध्यानपद्मासनाद्योः स करण इति शूद्रावैश्ययोर्यस्तनूजः ॥ ;l{1445} अरुणोऽर्के तत्सूते वर्णे संध्याम्बुदेऽरुणं ताम्रे । अरुणातिविषा त्रिवृता त्रिषु रक्ता व्यक्तरागयोरेषः ॥ करुणो ना वृक्षभेदे रसे च करुणा कृपा । प्राकारे तिक्तशाके च वरणो वरणं वृतिः ॥ संचारे चरणं क्लीबे स्थण्डिले प्राङ्गणे तथा । ;l{1450} एकशाखाध्यायिषु ना न स्त्री मूले कुले पदे ॥ लवणः सागरे दैत्ये रसे ना तद्वति त्रिषु । उष्ट्रे भृङ्गे रासभे ना रवणः शब्दने त्रिषु ॥ मानभेदे धारणे च धरणं धरणी भुवि । दक्षिणः सरले याम्यदिक्स्थे छन्दानुवर्तिनि ॥ ;l{1455} अपसव्ये त्रिष्वयं तु देशभेदे दिशि स्त्रियाम् । धर्षणं सुरते धार्ष्ट्ये तिरस्कारेऽथ धर्षिणी ॥ कुलटायामूषणा तु कणा मरिचमूषणम् । धीगौर्योर्धिषणा ना तु गीष्पतावथ मार्गणम् ॥ याच्ञान्वेषणयोः क्लीबे पुमान्याचकबाणयोः । ;l{1460} चिह्ननाम्नोः सलक्ष्मीके सौमित्रौ सारसस्त्रियाम् ॥ ;p{0078} क्रमेण लक्ष्मणः क्लीबे त्रिषु पुंसि स्त्रियामपि । हरिणः स्यान्मृगे पाण्डुवर्णे ना तद्वति त्रिषु ॥ योषिद्वृत्ताप्सरोभेदाः सुवर्णप्रतिमा मृगी । हरिता च हरिण्यः स्युः प्रवणो ना चतुष्पथे ॥ ;l{1465} त्रिषु तु क्रमनिम्नोर्व्यां प्रह्वे तत्परदक्षयोः । कल्याणं मङ्गले स्वर्णे कल्याणी पार्वतीभुवोः ॥ कर्तर्यां छुरिकायां च कृपाणी स्यादसौ तु ना । पुराणं ग्रन्थभेदे च क्लीबे त्रिषु पुरातने ॥ रोषणस्त्रिषु सक्रोघे पुमांस्तु निकषोपले । ;l{1470} पारदे च निषेधे तु वारणं कुञ्जरे पुमान् ॥ मसृणं कर्कशे स्निग्धे वाच्यवन्मसृणा क्षमा । पूरणी शाल्मलिः पिष्टे पूरणं पूरके त्रिषु ॥ स्यात्करेणुः करिण्यां स्त्री कर्णिकारे गजे च ना । कृपणः कुत्सिते निःस्वे वाच्यलिङ्गः क्रिमौ पुमान् ॥ ;l{1475} सुवर्णं कनके वित्ते कर्षमात्रे च न द्वयोः । सुप्रभे त्रिषु रूप्ये तु दुर्वर्णं दुष्प्रभे त्रिषु ॥ सुपर्णा तार्क्ष्यजननी ना तार्क्ष्यकृतमालयोः । पत्रोर्णं धौतकौशेये पुंसि त्वरलुपादपे ॥ गम्भार्यां कट्फलेऽपि श्रीपर्णी पद्माग्निमन्थयोः । ;l{1480} क्लीबेऽथ भरणं भृत्यां वेतने भरणी तु भे ॥ ब्राह्मणी हञ्जिका वेदे ब्राह्मणं पुंसि तु द्विजे । तरणिः स्त्री नावि नद्यां कुमार्याख्यौषधावपि ॥ ;p{0079} ना त्वयं सागरे भानौ ग्रामणीः पतिमुख्ययोः । ग्रामेशे च त्रिष्वयं तु भोगीशे नापितेऽपि च ॥ ;l{1485} विषाणं क्रोडदंष्ट्रायां पशुशृङ्गेभदन्तयोः । हरिणं शून्यभूभाग ऊषरे द्वाविमौ त्रिषु ॥ ;c{॥ इति णान्ताः ॥} ;v{तान्ताः} पर्वतौ शैलदेवर्षी जीमूतौ मेघपर्वतौ । कुरङ्गबिन्दू पृषतौ हारीतौ मुनिपक्षिणौ ॥ कृतान्तौ यमसिद्धान्तौ प्रपातौ भृगुनिर्झरौ । ;l{1490} श्वेतस्तिलोऽपि जामाता विधाता वेधसि स्मरे ॥ प्रचेता वरुणे वह्नौ गभस्तिः किरणे रवौ । द्विजातिः पक्षिविप्राद्योः श्रीपतिर्विष्णुभूपयोः ॥ गोपतिर्वृषभे राज्ञि शक्रे षण्डे दिवाकरे । रमतिर्मन्मथे स्वर्गे स्थपतिः सौविदल्लकः ॥ ;l{1495} कारुः सूतोऽधिपो यष्टा बृहस्पतिसवस्य च । वृत्तान्तः स्यात्प्रकरणे प्रकारे कर्त्स्न्यवार्तयोः ॥ शुद्धान्तोऽन्तःपुरे राज्ञां कक्ष्यान्तररहस्ययोः । निवातो दृढसंनाह आश्रये वातवर्जिते ॥ भवेच्छास्त्रेऽपि दृष्टान्तः शकुन्तो भासपक्षिणोः । ;l{1500} कपोतस्तु भवेत्पक्षिभेदे पारावतेऽपि च ॥ आनर्तो नृत्तशालायां नीवृद्भेदे जने युधि । आवर्त आवर्तने स्याच्चिन्तने पयसां भ्रमे ॥ ;p{0080} संवर्तः प्रलये मेघे विभीतकतरावपि । भवेत्तदात्वेऽप्यापात आघातः सीमघातयोः ॥ ;l{1505} उपक्रमे स्यादुद्घातश्चरणस्खलनेऽपि सः । संघातो नरके बृन्दे व्याघातो विघ्नयोगयोः ॥ भरतः शबरे रामानुजे भारतवर्षके । दुष्यन्तजे नटे नाट्यशास्त्रकृत्तन्तुवाययोः ॥ सिकता स्याद्वालुकायां शर्करायां गदान्तरे । ;l{1510} सिकतावत्प्रदेशे ना तृणता तु धनुष्यपि ॥ संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः । वसतिः स्थाननिशयोर्जिनवेश्मनि वेश्मनि ॥ संततिः पङ्क्तिविस्तारे पारंपर्ये सुतान्वये । आयतिः स्याद्दीर्घतायां प्रभावागामिकालयोः ॥ ;l{1515} समितिः संगरे साम्ये सभायां संगमे च सा । प्रकृतिः पञ्चभूतेषु स्वभावे सचिवादिषु ॥ प्रधाने कारणे गृह्ये जन्तौ छन्दसि मातरि । निवृत्तिर्मनसस्तोषे मोक्षे प्रत्यागतावपि ॥ आकृतिर्गात्रसामान्यच्छन्दोरूपेष्वथादितिः । ;l{1520} उमा भूर्देवमाता च निकृतिः शाठ्यभर्त्सने ॥ नियती दैवनियमाविच्छानुज्ञे तु संमती । प्रसूती जन्मतनयौ पद्धती पङ्क्तिवर्त्मनी ॥ दुर्गती नैःस्व्यनरकौ व्रतती ततिवीरुधौ । ;p{0081} संवित्ती ज्ञानसंवादौ सुखनाशौ तु निर्वृती ॥ ;l{1525} प्रवृत्ती निर्झरोदन्तौ विच्छित्ती भावलेपने । पक्षमूले प्रतिपदि पक्षतिर्जगती भुवि ॥ वस्तौ छन्दसि लोकेऽथ रेवती सीरिपत्न्यपि । बृहती क्षुद्रवार्ताकीक्षुद्राछन्दःसु वाचि च ॥ मालती युवतीज्योत्स्नाजातीषु सरिदन्तरे । ;l{1530} जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि ॥ हसन्ती शाकिनीभेदो मल्लिकाङ्गारधान्यपि । वसन्ती माधवीयूथ्योः पाटलायां क्रमेलके ॥ वनिता जनितात्यन्तरागयोषिति योषिति । रसितं स्तनिते ध्वाने निमित्तं हेतुचिह्नयोः ॥ ;l{1535} क्रन्दितं रुदिते हूताविङ्गितं गतिचेष्टयोः । अनन्तं गगने क्लीबे पुमान्केशवशेषयोः ॥ अनन्ता पूर्णिमा दूर्वा विशल्या शारिबा मही । कृषावप्यनृतं मिथ्या विष्णावप्यजिताच्युतौ ॥ क्लीबं प्रधानेऽप्यव्यक्तं विष्णुशंकरयोः पुमान् । ;l{1540} निर्मुक्तो मुक्तसंसारे मुक्तकञ्चुकपन्नगे ॥ उन्मत्तः पुंसि दुत्तूरे दुर्जातं व्यसनेऽपि च । आख्यातं तिङि च क्लीब आप्लुतं स्नातके च ना ॥ अक्षतं तण्डुले धान्ये क्लीबं लाजेषु चेन्न ना । ;p{0082} यवेषु पुंस्यथोत्तप्तं शुष्कमांसेऽपि न द्वयोः ॥ ;l{1545} आचितः शकटोन्नेये पलानामयुतद्वये । अनन्ताद्या निरन्तादिष्वनुक्तार्थेषु वाच्यवत् ॥ त्रिष्वाहतं स्याद्गुणिते मृषार्थे ताडितेऽपि च । क्लीबे त्वयं जीर्णवस्त्रे रजतं धवले त्रिषु ॥ क्लीबं हारे दन्तिदन्ते नक्षत्रे हेमरूप्ययोः । ;l{1550} पलितं जरसा शौक्ल्ये शैलेये कर्दमे तु ना ॥ हारभेदे विलासे च ललिता चारुणि त्रिषु । गर्जितं बृंहिते मेघध्वनौ ना तु मदद्विपे ॥ जृम्भितं जृम्भणे क्लीबे त्रिषूत्फुल्लविवृद्धयोः । निरम्बु तक्रं मथितं क्लीबमालोडिते त्रिषु ॥ ;l{1555} प्रसृतोऽर्धाञ्जलौ जङ्घा प्रसृता वेगिते त्रिषु । क्लीबे स्यात्सुकृतं धर्मे त्रिषु सुष्टुकृते शुभे ॥ कुचन्दनासृग्गोशीर्षकुङ्कुमेषु तु लोहितम् । पुमान्भौमे रोहितं तु ऋजुशक्रायुधासृजोः ॥ ना तु मीने मृगे चैतौ त्रिषु द्रव्ये गुणे नरौ । ;l{1560} पुष्पे क्लीबं सारथौ ना प्रसूतं जनिते त्रिषु ॥ विनीतः सुखवाह्याश्ववणिजोर्ना त्रिषु त्वयम् । अपनीते शिक्षिते च निभृते निर्जितेन्द्रिये ॥ वाग्वृत्तिभेदौ भारत्यौ ग्रन्थे वर्षे च भारतम् । ;p{0083} किराती कुट्टनी म्लेच्छा भूनिम्बेऽल्पतनौ च ना ॥ ;l{1565} स्यादुदात्तः स्वरे पुंसि वदान्यमहतोस्त्रिषु । निशान्तस्त्रिषु शान्ते स्यात्क्लीबे तूषसि सद्मनि ॥ ;l{1566a} त्रिषूद्वान्तः समुद्गीर्णे पुमान्निर्मददन्तिनि । विश्वस्ता विधवायां स्याद्विश्वासार्हे तु वाच्यवत् ॥ जयन्ती स्पादपर्णायां तर्कारीतिथिभेदयोः । जयन्तः शक्रपुत्रेऽपि वासितं तु खगध्वनौ ॥ ;l{1570} वासिता करिणीनार्योस्त्रिष्वयं सुरभीकृते । निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिक्पाले तु पुमानयम् ॥ स्याद्यज्ञशेषाम्बुनभोरसायनक्षीराज्यमोक्षान्नसुधासु चामृतम् । पथ्यागुडूच्यामलकीष्वयं स्त्रियां देवेषु ना स्वाद्वविनाशिनोस्त्रिषु ॥ उषितौ व्युषितप्लुष्टावादृतौ सादरार्चितौ । ;l{1575} स्तिमितौ निश्चलक्लिन्नौ विदितौ ज्ञातसंश्रुतौ ॥ पिण्डितौ सान्द्रगणितौ फलितौ पक्वदारितौ । स्थापितौ निश्चलन्यस्तौ भावितौ लब्धवासितौ ॥ प्रोक्षितौ सिक्तनिहतौ मूषितौ हृतखण्डितौ । प्रभूतौ प्राज्यसंजातावुदितौ गदितोद्गतौ ॥ ;l{1580} वेल्लितौ कुञ्चितधुतौ ज्वलितौ दग्धभासुरौ । विधुतौ कम्पितत्यक्तौ प्रयतौ संस्कृतार्चितौ ॥ ;p{0084} प्रहतौ क्षुण्णव्युत्पन्नौ संगतौ दृढसंहतौ । विततौ विस्तृतव्याप्तौ प्रणतौ भुग्नशिक्षितौ ॥ भुक्तोज्झिते चोत्तुलितेऽप्युद्धृतं स्खलितं पुनः । ;l{1585} मत्ते प्रतिहते चाथ याचिते हिंसितेऽर्दितम् ॥ उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे । उत्थितं वृद्धिसंयुक्ते प्रोद्यतोत्पन्नयोरपि ॥ आयस्ताः कुपितक्षिप्तहृतक्लेशिततेजिताः । निरस्तास्त्यक्तनिष्ठ्यूतत्वरितोक्तनिराकृताः ॥ ;l{1590} मूर्छितं सोच्छ्रये मूढे दृढे व्याप्तेऽथ वर्धितम् । प्रसृते पूरिते छिन्ने संस्कृतं तु विभूषिते ॥ कृत्रिमे लक्षणोपेते प्रशस्ते निर्मलीकृते । प्रतीतः प्रथिते हृष्टे परिज्ञाते विभूषिते ॥ व्यायतं स्याद्दृढे दीर्घे व्यापृतेऽतिशयेऽपि च । ;l{1595} विविक्तं विजनेऽपि स्यादसंपृक्ते पवित्रिते ॥ बीभत्सरोगिदूरूपा विकृताः सूनृतं प्रियम् । प्रियसत्यवचश्चाथ कलितो ज्ञातबद्धयोः ॥ पर्याप्तं परिपूर्णे स्यात्तृप्ते शक्तप्रकामयोः । सुहितोऽतिहिते तृप्ते त्रिष्वमी उषितादयः ॥ ;c{॥ इति तान्ताः ॥} ;p{0085} ;l{1600} ;v{थान्ताः} क्षवथू क्षुतकासौ द्वौ रुवथू ध्वनिकुक्कुटौ । निशीथौ रात्र्यर्धरात्रौ पञ्चथौ काककोकिलौ ॥ दरिद्रनग्नौ निर्ग्रन्थौ सिद्धार्थौ बुद्धसर्षपौ । अतिथिः स्यात्प्राहुणिके कोपे कुशतनूभवे ॥ वमथुर्वमने कासे करिणां करशीकरे । ;l{1605} उन्माथः पाशयन्त्रेऽपि कपित्थेऽपि च मन्मथः ॥ वरूथो रथगुप्तौ ना क्लीबे सुकृतवेश्मनोः । शयथु(थ?)स्त्रिषु निद्रालौ मृतावजगरेऽपि ना ॥ पथ्यामलक्योः कायस्था ना नृजात्यात्मनोरयम् । करञ्जभेदः षड्ग्रन्थः षड्ग्रन्था ग्रन्थिकं वचा ॥ ;l{1610} वयःस्थो वाच्यवद्यूनि वयःस्था शाल्मलिद्रुमे । ब्राह्मीगुडूचिकाकोलसूक्ष्मैलामलकीषु च ॥ समर्थो वाच्यवच्छक्ते हितसंबन्धयोरपि । ;c{॥ इति थान्ताः ॥} ;v{दान्ताः} सौगन्ध्यहर्षावामोदौ जलदौ मुस्तकाम्बुदौ । दायादौ ज्ञातितनयौ निषादौ श्वपचस्वरौ ॥ ;l{1615} मुकुन्दः कुन्दुरौ विष्णौ पारदे निधिरत्नयोः । आक्रन्दो रोदनं त्राता मित्रं घोररणो ध्वनिः ॥ प्रसादोऽनुग्रहः काव्यप्राणः स्वास्थ्यं प्रसन्नता । ;p{0086} अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥ गलहस्ते नखाङ्के च प्रह्लादौ हर्षदानवौ । ;l{1620} संभेदः सिन्धुसङ्गेऽपि प्रासादो देवभूभुजाम् ॥ गृहे कपर्दस्त्वीशस्य जटाजूटे वराटके । निर्वादः स्यात्परीवादपरिनिष्ठितवादयोः ॥ श्रोत्रामये ताररवे प्रणादोऽथ बृहस्पतौ । गवाध्यक्षेऽपि गोविन्दो दारदौ विषपारदौ ॥ ;l{1625} मर्यादा धारणासीम्नो सुनन्दा रोचनास्त्रियोः । प्रमदः संमदे पुंसि त्रिषु मत्ते स्त्रियामयम् ॥ विशदो धवले व्यक्ते शुचौ त्रिषु गुणे तु ना । क्षणदो गणके रात्रौ क्षणदा क्षणदं जले ॥ कुसीदं जीवने वृद्ध्या वृद्धिजीविनि तु त्रिषु । ;l{1630} कुमुदं कैरवे ना तु दिग्गजे भुजगे कपौ ॥ कौमुदो ना कार्त्तिकिके ज्योत्स्नायां कौमुदी स्त्रियाम् । ककुदोऽस्त्री राजचिह्ने प्राधान्यवृषभाङ्गयोः ॥ शारदः पीतमुद्गे ना प्रत्यग्रेऽप्रतिभे त्रिषु । शारदी तोयपिप्पल्यां सप्तपर्णेऽप्यथाङ्गदः ॥ ;l{1635} कपौ क्लीबं तु केयूरेऽप्यास्पदं स्थानकृत्ययोः । गोष्पदं गोखुरश्वभ्रे मानगोगम्ययोरपि ॥ ;c{॥ इति दान्ताः ॥} ;p{0087} ;v{धान्ताः} पर्याहाराध्वभारेषु समौ विवधवीवधौ । विबुधौ देवविद्वांसौ संबाधौ योनिसंकटौ ॥ न्यग्रोधौ तु वटव्यामाबुत्सेधौ वपुरुन्नती । ;l{1640} प्रणिधी प्रार्थनाचारौ रथाङ्गं छद्म चोपधिः ॥ अवधाने परिच्छेदे सीम्नि काले बिलेऽवधिः । उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृतावपि ॥ व्याजे विशेषणे चाथ प्रत्यक्षेऽपि च संनिधिः । समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ ;l{1645} परिधिर्यज्ञसमिधिप्राकारपरिवेषयोः । निषधः पर्वते देशभेदे तस्यापि राजनि ॥ संरोधश्च निरोधश्च द्वावेतौ नाशरोधयोः । संसिद्धिः स्त्री मदोग्रायां सम्यक्‌सिद्धिस्वभावयोः ॥ उपधा सुपरीक्षायामुपधानेऽथ मागधः । ;l{1650} वैतालिके वैश्यतश्च क्षत्रियायां समुद्भवे ॥ मागधी पिप्पलीयूथ्योस्रिष्वयं मगधोद्भवे । सुगन्धिस्त्रिष्विष्टगन्धे क्लीबे तु हरिवालुके ॥ अगाधमतलस्पर्शे त्रिषु क्लीबे त्वयं बिले । आनद्धं मुरजादौ स्यात्त्रिष्वाबद्धेऽथ वाच्यवत् ॥ ;l{1655} विस्रब्धौ शान्तविश्वस्तौ संनद्धौ सज्जवर्मितौ । आविद्धौ कुटिलक्षिप्तौ प्रसिद्धौ ख्यातभूषितौ ॥ दुर्विधौ दुर्गतखलौ प्रबुद्धौ प्राज्ञजाग्रतौ । ;c{॥ इति धान्ताः ॥} ;p{0088} ;v{नान्ताः} सेनान्यौ स्कन्दसेनेशावीशान्यौ धातृशंकरौ । दहनौ वह्निभल्लातौ युञ्जानौ विप्रसारथी ॥ ;l{1660} मदनाः सिक्थदुत्तूरवसन्तद्रुममन्मथाः । तपना ग्रीष्मभल्लातनरकान्तरभास्कराः ॥ संतानाः स्युरविच्छित्तिवंशापत्यसुरद्रुमाः । तमोनुदोऽग्निचन्द्रार्काः शकुनिः करणे खगे ॥ अरत्निः कूर्परे सप्रकोष्ठोर्ध्वाङ्गुलिहस्तके । ;l{1665} उदान उदरावर्ते सर्पमारुतभेदयोः ॥ अद्मिनी स्त्री दारवाम्बुपात्रे च पशुभक्षणे । ह्रादिनी वज्रतटितोः शिञ्जिनी नूपुरज्ययोः ॥ रञ्जनी रोचनानील्योर्वन्दायामपि कामिनी । वाहिनी सैन्यसरितोर्वर्तनी वृत्तिमार्गयोः ॥ ;l{1670} पद्मिनी करिणीश्रीस्त्रीसरोब्जनलिनीषु च । वाणिनी नर्तकी मत्ता विदग्धाप्यथ मालिनी ॥ मालाकारस्त्रियां गौर्यां स्वर्णदीवृत्तभेदयोः । संधिन्यकालदुग्धा गौराक्रान्ता वृषभेण च ॥ पूतना राक्षसी पथ्या भावना ध्यानयत्नयोः । ;l{1675} भुवनं खाम्बुलोकेषु भवनं भाववेश्मनोः ॥ निधनं नाशकुलयोर्वसनं वासवस्त्रयोः । बन्धोपरत्योर्यमनं सेवनं स्यूतिसेवयोः ॥ ;p{0089} प्रज्ञानं लाञ्छनधियोर्दंशनं दंशवर्मणोः । क्रन्दनं रोदनाहूत्यो रोदनं क्रन्दनाश्रुणोः ॥ ;l{1680} प्रसूनं पुष्पफलयोर्लाञ्छनं नामलक्ष्मणोः । स्तननं गर्जितध्वन्योर्गहनं वनदुःखयोः ॥ बन्धनं बन्धवधयोर्भाजनं योग्यपात्रयोः । भेदनं कृन्तने भेदे तोदनं तोत्रतोदयोः ॥ प्रथनं दारुणे युद्धे मेहनं मूत्रशेफसोः । ;l{1685} उद्धानमुद्गमे चुल्ल्यामवनं प्रीतिरक्षयोः ॥ शासनं निष्करग्रामे निग्रहे वेदशास्त्रयोः । वाङ्‌नियोगे प्रहरणे स्याल्लेख्ये कर्मवाक्ययोः ॥ स्यान्निदानं वत्सदामन्यादिकारणखण्डयोः । कौलीनं तु कुलीनत्वे प्राणिद्यूतापवादयोः ॥ ;l{1690} स्यात्कौपीनमकार्ये च गुह्यचीरप्रभेदयोः । बीजावापेऽपि वपनं हिंसायामपि वर्जनम् ॥ वर्धनं छेदने चापि चतुःकोशे च योजनम् । राशिभेदेऽपि मिथुनं संगतावपि मैथुनम् ॥ तेमनं व्यञ्जने क्लेदे संव्यानं छादनेंऽशुके । ;l{1695} सवनं सोमनिष्पेषे जननस्नानयोरपि ॥ अयनं निलये मार्गे दक्षिणोदग्गतौ रवेः । जघनं कामिनीश्रोणीपुरोभागे कटिस्थले ॥ आसनं कुञ्जरस्कन्धे पीठे यात्रानिवर्तने । दर्शनं दर्पणस्वप्नबुद्धिशास्त्राक्षिदृष्टिषु ॥ ;p{0090} ;l{1700} केतनं गेहचिह्नाङ्गकृतामन्त्रणकेतुषु । उत्थानमुद्गमाकाङ्क्षातन्त्रपौरुषवस्तुषु ॥ व्युत्थानं तु स्वतन्त्रत्वकरणं प्रतिकूलता । प्रधानं परमात्मा धीर्मन्त्री प्रकृतिरुत्तमः ॥ प्रस्थापने निरसने कालक्षेपे च यापनम् । ;l{1705} उद्यानं स्यानिःसरणे वनभेदे प्रयोजने ॥ संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे । व्यसनं त्वशुभे सक्तौ विपत्तौ निष्फलोद्यमे ॥ दैवानिष्टफले पापे दोषे कामजकोपजे । स्याद्विधानं वेतनायामुपाये प्रेरणे धने ॥ ;l{1710} प्रकारे हस्तिकबले पूजायां वैरकर्मणि । व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽक्षरे ॥ वेष्टनं मुकुटोष्णीषे गन्धनं तु प्रकाशने । सूचने चापि हिंसायां परस्योत्साहने च तत् ॥ साधनमनुगमगत्योः शेफसि सिद्धौ निवृत्तिदापनयोः । ;l{1715} मृतसंस्कारे हेतौ धनहिंसायातनासु सेनाङ्गे ॥ जीवन्त्यां जीवनी चाथ क्रीडायामपि देवनम् । नाक्षेऽथ दशनं क्लीबे कवचे रदने पुमान् ॥ स्यन्दनं स्रवणे तोये ना तु नेमिद्रुमे रथे । गोस्तनो हारभेदेऽपि मृद्वीकायां तु गोस्तनी ॥ ;l{1720} वृजिनं किल्बिषे क्लीबे क्लेशे ना कुटिले त्रिषु । शय्यायां शयनं न स्त्री क्लीबे सुरतनिद्रयोः ॥ ;p{0091} शमनं शान्तिवधयोः क्लीबे वैवस्वते पुमान् । पाकस्थाने कुलालस्य पवनं मारुते पुमान् ॥ अपानो वायुभेदे स्यादपानं गुदमुष्कयोः । ;l{1725} निःश्वासे श्वसनं ना तु मारुते मदनद्रुमे ॥ अस्त्री वितानमुल्लोचविस्तारमखसद्मसु । शून्ये मन्दे त्रिष्वथास्त्री व्रीह्यब्दार्चिःसु हायनः ॥ शकुनं मङ्गलाशंसि निमित्ते शकुनः खगे । समानः प्राणभेदे ना त्रिष्वेकसमसाधुषु ॥ ;l{1730} मलिनी ऋतुमत्यां स्त्री कृष्णदूषितयोस्त्रिषु । स्पर्शे त्वगिन्द्रिये दाने स्पर्शनं मारुते पुमान् ॥ धावनं गमने शुद्धौ धावनी रजकस्त्रियाम् । वामनो वाच्यवत्खर्वे विष्णुदिग्गजयोः पुमान् ॥ अवलग्ने विलग्नोऽस्त्री संलग्ने त्रिष्वथ द्वयोः । ;l{1735} अशनिर्विद्युति पवौ रोचनः कूटशाल्मलौ ॥ रोचना रक्तकह्लारे गवां पित्ते वरस्त्रियाम् । पद्माकरेऽब्जवल्ल्यां स्त्री नलिनी नलिनं जले ॥ पद्मेऽथ कुहना दम्भचर्यायां त्रिष्वसूयके । प्रसन्ना मदिरायां स्त्री प्रसादवति वाच्यवत् ॥ ;l{1740} स्यान्मण्डनमलंकारेऽलंकरिष्णौ तु वाच्यवत् । नन्दनं वासवोद्याने सुते ना हर्षके त्रिषु ॥ अञ्जना वायुपत्नी ना दिग्गजे कज्जलेऽञ्जनम् । ;p{0092} सज्जना कल्पनायां स्यात्सज्जनं घट्टगुल्मके ॥ त्रिषु साधौ चेतना तु ज्ञाने स्त्री प्राणिनि त्रिषु । ;l{1745} विमानोऽस्त्री देवयाने सप्तभूमिकसद्मनि ॥ सुमनाः पुष्पमालत्योः स्त्रियां देवे बुधे च ना । अयं पुष्पे बहुष्वेव लोध्रवृक्षेऽपि मार्जनः ॥ रसनं स्नेहकषायद्रवविषहेमान्नरूप्यरास्नासु । ध्वनिफलनिर्यासेष्वथ काञ्च्यां स्त्री स्वादुजिह्वयोः स न ना ॥ ;l{1750} पार्थेऽर्जुनः केकिनि कार्तवीर्ये नेत्रामयेऽप्येकसुते च मातुः । वर्णे द्रुमे चाथ सिते त्रिलिङ्गो गव्यर्जुनी हेम्नि तृणेऽर्जुनं स्यात् ॥ वेदना स्त्री दुःखभोगे ज्ञाने क्लीबमथ त्रिषु । तलुनः पवने यूनि स्त्रियां तु तलुनी(नीं) विदुः ॥ तलिनं विरले चाल्पे विलीनौ लीनविद्रुतौ । ;l{1755} विक्लिन्नाः शीर्णजीर्णार्द्राः पिशुनौ खलसूचकौ ॥ स्यादुत्तानमगम्भीरे शयितोर्ध्वमुखेऽपि च । आपन्न आपत्प्राप्तेऽपि संपन्नः साधितेऽपि च ॥ ;c{॥ इति नान्ताः ॥} ;v{पान्ताः} कलापो भूषणे बर्हे काञ्च्यां संहतितूणयोः । आकल्पः कल्पने वेषे विकल्पो भ्रान्तिकल्पयोः ॥ ;l{1760} आवापः शत्रुचिन्तायां प्रक्षेपावालयोरपि । आक्षेपो भर्त्सनाकृष्ट्योः काव्यालंकारचोद्ययोः ॥ स्यात्पादपः पादपीठे पादयाने महीरुहे । ;p{0093} कश्यपौ मुनिमीनौ द्वौ प्रतापौ पौरुषातपौ ॥ प्रतिपज्ज्ञानतिथ्योः स्त्री कच्छपी डुलिवीणयोः । ;l{1765} विटपोऽस्त्री द्रुविस्तारे पल्लवे स्तम्बशाखयोः ॥ विटे तु ना स्यादुडुपस्विन्दौ ना न द्वयोः प्लवे । अस्त्री कशिपु शय्यायां वस्त्रेऽन्ने तद्व्ययेऽपि च ॥ कुतुपोऽर्के गवि विप्रे वह्नावतिथौ च भागिनेये च । अस्त्री दिनाष्टमांशे कुशतिलयोश्छागकम्बले वाद्ये ॥ ;c{॥ इति पान्ताः ॥} ;v{फान्ताः} ;c{॥ फान्ता अप्रसिद्धाः ॥} ;v{बान्ताः} ;l{1770} हेरम्बौ महिषेभारयौ प्रलम्बौ हारदानवौ । कादम्बौ कलहंसेषू कदम्बौ नीपसंहती ॥ कलम्बौ नीपविशिखौ शाकभेदे कलम्ब्यपि । नितम्बः स्त्रीकटेः पश्चात्तटेऽद्रिकटके कटौ ॥ बडबाश्वाकुम्भदास्योर्योषिद्भेदे द्विजस्त्रियाम् । ;l{1775} बाडबौ ब्राह्मणौर्वाग्नी बाडबं बडबागणे ॥ ;c{॥ इति बान्ताः ॥} ;v{भान्ताः} ऋषभोऽद्रौ कर्णरन्ध्रे वृषे मत्तगजे स्वरे । वराहस्यापि पुच्छेऽथ वृषभः पुंगवे वृषे ॥ विस्रम्भः केलिकलहे स्नेहविश्वासयोरपि । स्याद्विष्कम्भो नाटकाङ्गे विस्तारप्रतिबन्धयोः ॥ ;l{1780} योगभेदेऽथ शरभोऽष्टापदे च मृगान्तरे । ;p{0094} आत्मभूर्मन्मथे वेधस्यारम्भो वधदर्पयोः ॥ उद्यमे चाथ ककुभो वीणाङ्गेऽर्जुनपादपे । सनाभिः सदशज्ञात्योरालम्भः स्पर्शहिंसयोः ॥ कुसुम्भं कुङ्कुमे हेम्नि स्यान्महारजतेऽपि तत् । ;l{1785} कमण्डलौ पुमानेष सुरभिस्तु गवि स्त्रियाम् ॥ वसन्तचैत्रयोः पुंसि त्रिषु सौम्यसुगन्धिनोः । स्त्रियां पुनर्नवाभेक्योर्वर्षाभूर्दुर्दुरे तु ना ॥ पुमान्भेर्यां दुन्दुभिः स्त्री त्वक्षबिन्दुत्रिकद्वये । वल्लभो ना कुलीनाश्वे दयिताध्यक्षयोस्त्रिषु ॥ ;c{॥ इति भान्ताः ॥} ;v{मान्ताः} ;l{1790} निगमो निश्चये पुर्यां पथि वेदे वणिक्पथे । नैगमस्तूपनिषदि धृतौ वणिजि नागरे ॥ विक्रमः क्रमणे शौर्ये प्रक्रमोऽवसरे क्रमे । संक्रमो वारियन्त्रेऽपि धीसामर्थ्येऽपि निष्क्रमः ॥ विभ्रमः संशये भ्रान्तौ स्याद्भावान्तरशोभयोः । ;l{1795} संभ्रमोऽत्यादरे भीतावावेगे नियमस्त्विह ॥ प्रतिज्ञाज्ञायन्त्रणासु योगाङ्गे निश्चये व्रणे । कलमः शालिलेखिन्योश्चोरे लाक्षारसेऽङ्कुरे ॥ आगमस्त्वागतौ शास्त्रे विद्रुमो द्रुप्रवालयोः । त्रिधामा केशवे वह्नौ हरिमा मृत्युयोगयोः ॥ ;p{0095} ;l{1800} गरुत्मान् विहगे तार्क्ष्ये द्विजन्मा ब्राह्मणे खगे । व्यायामः पौरुषं व्यामः संचारो दुर्गसंभृतिः ॥ गोलोमी स्त्री वारनार्यां षड्ग्रन्थाश्वेतदूर्वयोः । कुसुमं पुष्पफल्योः स्त्रीरजोनेत्ररोगयोः ॥ तलिमं कुट्टिमे तल्पे चन्द्रहासेऽथ गौतमः । ;l{1805} मुनिभेदे शाक्यसिंहे गोदावर्यां तु गौतमी ॥ परमं स्यादनुज्ञानेऽप्ययं ना परमात्मनि । त्रिषूत्कृष्टे पञ्चमस्तु स्वरे ना पूरणे त्रिषु ॥ मुनिस्थाने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम् । सुषमोत्कृष्टशोभायां त्रिषु चारौ समेऽप्यथ ॥ ;l{1810} लक्ष्मभूषापुण्ड्रपुच्छश्रेष्ठशृङ्गाश्वलिङ्गिषु । ध्वजे प्रभावे पुरुषे ललामोऽस्त्री ललाम च ॥ स्वरे ना मध्यमो देहमध्ये मध्ये नपुंसकम् । मध्यस्थे वाच्यवत्स्त्री तु हस्तमध्याङ्गुलावपि ॥ छन्दोभेदे दृष्टरजःकन्यायामप्यथ त्रिषु । ;l{1815} सत्तमौ श्रेष्ठपूज्यौ द्वौ प्रथमौ प्रवरादिमौ ॥ अधमौ गर्हितन्यूनावुत्तमौ प्रवरान्तिमौ । ;c{॥ इति मान्ताः ॥} ;p{0096} ;v{यान्ताः} प्रणयः स्यात्परिचये संभ्रमे प्रेमयाच्ञयोः । विनयो नीतिशिक्षादिधर्माचारप्रशान्तिषु ॥ अनयस्त्वशुभे दैवे विपत्तौ व्यसनेऽप्यथ । ;l{1820} पश्चादवस्थायिबले समवाये च संनयः ॥ विषयो गोचरे देशे ज्ञातो यो यस्य तत्र च । प्रलयो मरणे श्लेषे मूर्छाकल्पावसानयोः ॥ प्रत्ययोऽधीनविश्वासधीरन्ध्राचारहेतुषु । ख्यातौ समाधौ शपथे चित्रगर्वौ तु विस्मयौ ॥ ;l{1825} व्यवायोऽन्तर्धिरतयोरुपायः स्यादुपागतौ । सामादावथ संस्त्यायः संनिवेशे गृहे गणे ॥ उदयः पूर्वशैले स्यादुन्नतावुद्गतावपि । अत्ययो मरणे दोषे कृच्छ्रेऽतिक्रमदण्डयोः ॥ निकायो निलये लक्ष्ये समुदाये सधर्मणाम् । ;l{1830} असंहतानामेकत्रकरणे परमात्मनि ॥ आशयौ स्थानतात्पर्ये कुलायः स्थाननीडयोः । पर्यायः क्रमनिर्माणप्रकारावसरेष्वपि ॥ एकार्थवाचिशब्दे च पौलस्त्यौ श्रीदरावणौ । पर्जन्यो मेघनिर्घोषे वासवे गर्जदम्बुदे ॥ ;l{1835} शाण्डिल्यौ मुनिमालूरौ श्वशुर्यौ स्यालदेवरौ । आदित्यौ रविगीर्वाणौ लौहित्यौ व्रीहिसागरौ ॥ स्यादाम्नायः संप्रदाये कुलेऽध्ययनवेदयोः । ऊर्णायुरूर्णनाभेऽपि मेषे तल्लोमकम्बले ॥ ;p{0097} सरण्युर्वारिदे वाते वह्नीन्द्वर्का विमन्यवः । ;l{1840} वायौ वसन्ते क्षी(!)पण्युर्भ्रातृव्यो भ्रातृजे रिपौ ॥ समयः कालसिद्धान्तप्रतिज्ञाशपथेषु च । संकेताचारयोश्चाथ स्वाध्यायो जपवेदयोः ॥ विशल्या त्रिपुटीदन्तीगुडूचीलाङ्गलीषु च । अभिख्या त्विड्यशोनामस्विन्द्रियं त्वक्षिरेतसोः ॥ ;l{1845} सामर्थ्यं योग्यताशक्त्योर्हृदयं चित्तवक्षसोः । चारुत्वमपि सौरभ्यं नेपथ्यं रङ्गभूरपि ॥ पुत्र्यां पुत्रेऽपि चापत्यमौचित्यं सत्ययोग्ययोः । स्याद्ब्राह्मण्यं ब्राह्मणानां भावसंहतिकर्मसु ॥ स्याद्धिरण्यं हेम्नि कुप्ये वित्तमानविशेषयोः । ;l{1850} वराटरेतसोश्चाथ मलयः पर्वतान्तरे ॥ पर्वतांशेऽप्यथोद्याने मलयं मलया त्रिवृत् । सैन्धवे तालपर्ण्यां च शैलेयं भ्रमरे पुमान् ॥ विजया पार्वतीतिथ्योर्विजयो जयपार्थयोः । अभयं नलदे स्त्री तु पथ्यायां निर्भये त्रिषु ॥ ;l{1855} कशेरुहेम्नोर्गाङ्गेयं गाङ्गेयो गुहभीष्मयोः । अस्त्री कषायो निर्यासे सौरभे रसरागयोः ॥ क्वाथे विलेपने चापि द्रव्ये स्यादेष वाच्यवत् । द्वितीया सहधर्मिण्यां द्वितीयं पूरणे त्रिषु ॥ त्रिष्वाहार्यः स्थिरे नाद्रौ नादेयी जलवेतसे । ;l{1860} तर्कार्यां भूमिजम्ब्वां च जपायां नागरङ्गके ॥ ;p{0098} नादेयं सिन्धुलवणे त्रिषु त्वेष नदीभवे । आतिथ्यमातिथेयार्थे न द्वयोरतिथौ पुमान् ॥ इन्द्रिये विषयि क्लीबं त्रिलिङ्गो विषयान्विते । पेये त्रिषु विहायस्तु व्योम्न्यस्त्री विहगे पुमान् ॥ ;l{1865} वेश्यादास्योर्भुजिष्या स्त्री प्रेष्यस्वच्छन्दयोस्त्रिषु । तपस्या व्रतचर्यायां तपस्यः फाल्गुने पुमान् ॥ क्षेत्रियं क्षेत्रजतृणे गरले परदारिके । चिकित्सार्हान्यदेहे च स्यादसाध्यगदेऽपि च ॥ प्रसव्यं सव्य आयत्ते प्रतिकूलानुकूलयोः । ;l{1870} वदान्यौ वाग्मिदातारौ जघन्यावन्त्यगर्हितौ ॥ कनीयाननुजेऽत्यल्पे वरीयान्सत्तमेऽत्युरौ । साधीयान् शोभनेऽत्यर्थसाधावनुमतेऽपि च ॥ प्रतीक्ष्यौ प्रतिपाल्यार्च्यौ त्रिष्वेते क्षेत्रियादयः । ;c{॥ इति यान्ताः ॥} ;v{रान्ताः} किरातशंभू शबरौ भास्करौ सूर्यपावकौ । ;l{1875} द्वापरौ युगसंदेहौ कुञ्जरौ करिकुन्तलौ ॥ दासीसुतोष्ट्रौ दासेरौ विष्किरौ शिखिकुक्कुटौ । रसेभभूषे शृङ्गारावङ्गारौ भूसुतोल्मुकौ ॥ ;p{0099} प्रकारौ भेदसादृश्ये विकारौ रोगविक्रिये । कुम्भीरौ चोरभुजगौ कुटीरौ कर्कटालयौ ॥ ;l{1880} दैत्यारी देवगोविन्दौ तित्तिरी मुनिपक्षिणौ । शांकरी स्कन्दहेरम्बौ सहुरी वृषभास्करौ ॥ हिमारी वह्नितपनौ जसुरी पविपावकौ । धान्योत्क्षेपतिरस्कारौ निकरावथ कूर्परः ॥ कपोणिजान्वोराकारस्त्वाकृतौ गात्रवैकृतौ । ;l{1885} मिहिरा वायुचन्द्रर्काः केसरी हयसिंहयोः ॥ प्रस्तरा मण्यश्मकुथाः संस्तरोऽध्वरशय्ययोः । आकराः स्थानखन्योधाः प्रदरा भङ्गरुक्शराः ॥ प्रकरः कीर्णपुष्पादौ संहतौ मकरस्त्विह । निधौ यादसि राशौ च चङ्‌कुरस्तु द्रुमे रथे ॥ ;l{1890} किंशारुः सस्यशूके स्यात्सायके कङ्कपक्षिणि । विष्टरः कुशमुष्टौ स्यात्पीठाद्यासनवृक्षयोः ॥ खपुरो लशुने पूगवेष्टे निर्यासपूगयोः । कपाले च कटाहे च भिक्षापात्रे च कर्परः ॥ मन्दारः पारिभद्रेऽर्कपर्णे कल्पमहीरुहे । ;l{1895} गान्धारस्तु स्वरे रागे देशसिन्दूरयोरथ ॥ कुलालदण्डे मुकुरो दर्पणादर्शयोश्च सः । आधार आलवालेऽम्बुबन्धेऽधिकरणेऽपि च ॥ स्यादासारो मित्रबले वेगवृष्टिप्रसारयोः । ;p{0100} केदारः शंकरक्षेत्रे शैलभेदालवालयोः ॥ ;l{1900} मयूरो बर्हिचूडायामपामार्गे शिखावले । नरेन्द्रो विषवैद्येऽपि महेन्द्रः पतिशक्रयोः ॥ आशिरः क्षीरविकृतौ भोजने पावके रवौ । विकिरो वालुकायां च विहारः सुगतालये ॥ क्रीडायां चाथ संस्कारः संकल्पप्रतियत्नयोः । ;l{1905} शर्करा तु गुडे रोगभेदे शर्करिलस्थले ॥ शिलाभेदे सितायां च शकलाल्पकपालयोः । गायत्री खदिरश्छन्दः कृपाण्यामपि कर्तरी ॥ सा सैरन्ध्री यान्यगेहे स्वायत्ता शिल्पकारिणी । वर्णसंकरजायां च काञ्च्यां छन्दसि शक्वरी ॥ ;l{1910} छत्रप्रान्तालम्बिवस्त्रे केशे वाद्ये च झल्लरी । उर्वरा सर्वसस्याढ्यभूमौ भूमात्रकेऽपि च ॥ शैलवृक्षाग्रयोः कोटौ कक्षायां शिखरं मतम् । कुहरं गह्वरे छिद्रे मन्दिरं नगरे गृहे ॥ ध्वान्तेऽक्षिरोगे तिमिरमम्बरं व्योम्नि वाससि । ;l{1915} औशीरश्चामरे दण्डे कटित्रं कटिवाससि ॥ मेखलायां गुहादम्भगहनेषु तु गह्वरम् । कटीरं कन्दरे कट्यां विषयेऽङ्गेऽङ्गणेऽजिरम् ॥ पुष्करमम्बुनि खेऽब्जे युधि वाद्यमुखे मदेऽसिधारायाम् । द्वीपे भेषजभेदे सारसतीर्थाहिकरिकराग्रेषु ॥ ;l{1920} दधिकलशगोमयाम्बुषु कुशताम्रब्रह्मसूत्रमन्त्रेषु । ;p{0101} हेम्न्यर्थे च पवित्रं त्रिषु पूते पुंसि शंभुपावकयोः ॥ कर्बुरं हेम्न्यघे तोये ना दैत्ये शबले त्रिषु । जर्जरो नापिते शक्रध्वजे जीर्णे तु वाच्यवत् ॥ दर्दुरो ना गिरौ भेके त्रिष्वीषद्भग्नवस्तुनि । ;l{1925} पिञ्जरं कनके क्लीबं पीते त्रिषु हये पुमान् ॥ ग्रीवायां कन्धरा मेघे पुमान् देवेऽपि निर्जरः । शार्वरं तमसि क्लीबं हिंस्रे त्रिष्वथ शार्वरः ॥ शशाङ्के ना निशासन्ध्याहरिद्रासु तु शर्वरी । स्थण्डिलाङ्गणयोः क्लीबं चत्वरं ना चतुष्पथे ॥ ;l{1930} क्रियाकारप्रतिज्ञापद्युद्धार्थे पुंसि सङ्गरः । क्लीबे शमीफले पान्थस्त्वित्वरः कुलटेत्वरी ॥ शाक्वरो ना वृषे क्लीबं छन्दोभेदेऽथ नागरम् । मुस्ताशुण्ठ्योस्त्रिषु त्वेष विदग्धे नगरोद्भवे ॥ प्रभौ त्रिष्वीश्वरः शंभौ ना गौर्यामीश्वरेश्वरी । ;l{1935} कान्तारोऽस्त्री वने दुर्गवर्त्मनीक्ष्वन्तरे तु ना ॥ कुमारो ना शुके स्कन्दे युवराजेऽश्ववारके । बाले वरुणवृक्षे च द्वीपे स तु नपुंसकम् ॥ कुमारी तु सहा गौरी कन्यका नवमालिका । ओष्ठे पुंस्यधरो नोर्ध्वे हीने च त्रिष्वथामरा ॥ ;l{1940} स्थूणागुडूचीन्द्रपुरीदूर्वासु स्त्री सुरे पुमान् । ;p{0102} अन्तरः परिधानीयस्वीयबाह्येषु वाच्यवत् ॥ अन्तरात्मनि पुंस्येष विनार्थेऽव्ययमन्तरा । अन्तरं विवरान्तर्धिभेदेष्ववधिमध्ययोः ॥ अवकाशावसरयोस्तादर्थ्यान्यार्थयोरपि । ;l{1945} प्रतिवाच्युत्तरं ना तु विराटतनये नले ॥ त्रिषूदीच्योत्तमोर्ध्वेषु ताराभेदे दिशि स्त्रियाम् । अक्षरं प्रणवे धर्मे प्रकृतौ तपसि क्रतौ ॥ वर्णे मोक्षे च ना त्वेष शिवविष्णुविरिञ्चिषु । मृगदानवबौद्धेषु शम्बरः शम्बरी वृषा ॥ ;l{1950} क्लीबे व्रताम्बुवित्तेषु सुषिरस्त्वनले पुमान् । त्रिषु रन्ध्रान्विते क्लीबे छिद्रवंशादिवाद्ययोः ॥ क्लीबं लोहे पुमान् सोमे कवाटार्थेऽररं न ना । करीरो ना घटे वृक्षे न स्त्रियां वैणवाङ्कुरे ॥ टगरष्टङ्कणे पुंसि त्रिषु केकरलोचने । ;l{1955} मत्सरोऽन्योदयद्वेषे तद्वत्कृपणयोस्रिषु ॥ असृक्कुङ्कुमयोः क्लीबं रुधिरं भूसुते पुमान् । मधुरो ना रसे तद्वत्सुन्दरस्वादुषु त्रिषु ॥ मधुरा शतपुष्पायां शिशिरः शीतले त्रिषु । ऋतौ ना जठरं क्लीबमुदरे कठिने त्रिषु ॥ ;l{1960} मराले बन्धुरः पुंसि त्रिषु स्यान्नम्ररम्ययोः । ;p{0103} धूसरो वर्णखरयोरीषत्पाण्डौ तु वाच्यवत् ॥ सिंहस्याश्वस्य केशेषु किञ्जल्के केसरोऽस्त्रियाम् । नागकेसरपुन्नागबकुलेषु पुमानयम् ॥ सामुद्रं लवणादौ त्रिष्वयं क्लीबेऽङ्गलक्षणे । ;l{1965} ध्वान्तरात्रौ च रात्रौ च तमिस्रं तिमिरे न ना ॥ चिकुरोऽहौ गेहबभ्रौ केशे त्रिषु तु चञ्चले । हिमशीकरयोः पुंसि तुषारः शीतले त्रिषु ॥ चामरो ना मृगे क्लीबं चामरेऽथ त्रिषूत्तरे । उदारो दक्षिणे ख्याते दानशौण्डे महत्यपि ॥ ;l{1970} कालेऽप्यशृङ्गो गौः श्मश्रुरहितो ना च तूबरः । धीरैकतानावेकाग्रौ भङ्गुरौ वक्रनश्वरौ ॥ विधुरौ कष्टविश्लिष्टावज्ञनीचौ तु पामरौ । चतुरौ दक्षधीमन्तावितरावन्यपामरौ ॥ ;c{॥ इति रेफान्ताः ॥} ;v{लान्ताः} उल्लोलहर्षौ कल्लोलौ देहात्मानौ तु पुद्गलौ । ;l{1975} कुन्तलौ देशचिकुरौ सृगालौ दैत्यजम्बुकौ ॥ कोकिलावुल्मुकपिकौ जम्बालौ पङ्कशैवलौ । सर्पभेदे च दुत्तूरे मातृभ्रातरि मातुलः ॥ जगलः पिष्टमद्ये स्यात्कितवे मोदकेऽपि च । ;p{0104} कुम्भीलस्तस्करे नक्रे श्लोकच्छायाहरेऽपि सा ॥ ;l{1980} काकोलस्तु द्रोणकाके विषभेदकुलालयोः । शार्दूलो दानवे व्याघ्रे श्रेष्ठे तूत्तरतः स्थितः ॥ वञ्जुलस्तु निशाशोकवेतसेष्वथ मेखला । काञ्चीदाम्न्यद्रिकटके श्रोणिस्थानासिबन्धयोः ॥ शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि कदली मृगे । ;l{1985} रम्भायां वैजयन्त्यां च महिला भीरुगुन्द्रयोः ॥ वृषल्यृतुमती वन्ध्या शूद्राकन्या मृतप्रजा । शकलं वल्कले खण्डे पललं पङ्कमांसयोः ॥ तिलचूर्णेऽथ पटलं बृन्दे छदिषि दृग्रुजि । कुवलं कन्दरे मुक्ताफले कुवलयेऽपि च ॥ ;l{1990} नाभीलं नाभिगण्डे च वङ्क्षणे चोत्तमस्त्रियाम् । पातालं बडबाग्नौ च कीलालमसृगम्भसोः ॥ फणभागे दुकूलं तु क्षौमे सूक्ष्मांशुकेऽपि तत् । लाङ्‌गूलं मेहने पुच्छे शमलं शकृदेनसोः ॥ कमलं छुरिकादीनां हेमाद्यैश्चित्रिताजिने । ;l{1995} क्लोम्न्यौषधेऽरुणाब्जे मृगे तु ना श्रीवरस्त्रियोः कमला ॥ तुषपावके कुकूलं ना क्लीबे शङ्कुसङ्कुलश्वभ्रे । वातूलस्त्रिषु वातुलवातासहयोः पुमांस्तु वात्यायाम् ॥ चपलः पारदे कीशे पुमांस्त्रिषु तु चञ्चले । दुर्विनीते द्रुते नीचे चपला श्रीस्तटित्कणा ॥ ;p{0105} ;l{2000} तरलो हारमध्यस्थमणौ ना चञ्चले त्रिषु । पर्याप्तौ सुकृते क्षेमे कुशलं निपुणे त्रिषु ॥ त्रिषु श्रेष्ठे सिते रम्ये धवलो ना वृषे गुणे । धवली गव्यथाश्वत्थे पक्षिभेदेऽपि पिप्पलः ॥ क्लीबं वस्रच्छेदभेदे सलिले पिप्पली कणा । ;l{2005} बहुलोऽग्नौ कृष्णपक्षे पुमांस्त्रिष्वसिते बहौ ॥ एलाभूकृत्तिकागोषु बहुला स्यादथोपला । शर्करायां दृषत्पुत्रे स्त्री न स्त्र्यश्मनि ना मणौ ॥ पिङ्गलोऽग्नौ मुनौ कीशे चण्डांशोः पारिपार्श्वके । त्रिष्वयं कपिले याम्यदिक्करिण्यां तु पिङ्गला ॥ ;l{2010} कम्बलोऽहिः कृमिः सास्ना प्रावारः कम्बलं जलम् । जङ्गलं निर्जनस्थाने त्रिषु मांसे नपुंसकम् ॥ कन्दली वृक्षमृगयोः कन्दलं तु नवाङ्कुरे । कुण्डलं वलयः पाशः कर्णभूषाथ कुण्डली ॥ भुजङ्गे चित्रकमृगे ना कुण्डलवति त्रिषु । ;l{2015} मण्डली ना राज्ञि सूर्ये शुक्रेऽहौ श्वबिडालयोः ॥ मण्डलं त्रिषु कुष्ठे स्यादुपसूर्यकदेशयोः । बिम्बे द्वादशराजौघे निकुरुम्बेऽथ फेनिलः ॥ पुमानरिष्ठे बदरे क्लीबे फेनवति त्रिषु । आशुव्रीहौ पाटलो ना पाटल्यां गवि पाटला ॥ ;l{2020} क्लीबं तु पाटलीपुष्पे श्वेतरक्ते त्वयं त्रिषु । ;p{0106} शृङ्गारे ना विकसिते स्वच्छे दीप्ते त्रिषूज्ज्वलः ॥ वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे । इन्द्रवारुण्युज्जयिन्योर्विशाला पृथुले त्रिषु ॥ अचलोऽद्रौ भुव्यचला कपिलाग्नेयदिग्गजे । ;l{2025} शिंशुपा रेणुका गोश्च मुनौ ना पिङ्गले त्रिषु ॥ रसाला मार्जिता दूर्वा जिह्वा ना त्विक्षुचूतयोः । निर्णीते केवलं क्लीबं त्रिषु स्यादेककृत्स्नयोः ॥ नीलीधात्र्योः श्रीफला स्त्री बिले पुंस्यथ चञ्चला । तटिल्लक्ष्म्योस्त्रिलिङ्गोऽयं चपलेऽथ त्रिषूत्तरे ॥ ;l{2030} करालो दन्तुरे तुङ्गे भीषणे चाथ संकुलम् । परस्पराहतवचस्याकीर्णेऽप्याकुलेऽपि च ॥ पेशलौ चारुचतुरौ पूर्णश्रेष्ठौ तु पुष्कलौ । उत्तालावुत्कटश्रेष्ठावाभीलौ कृच्छ्रभीषणौ ॥ अखिलौ गर्ह्यनिःशेषौ बहुलौ सान्द्रपुष्कलौ । ;c{॥ इति लान्ताः ॥} ;v{वान्ताः} ;l{2035} मन्त्री सहायः सचिवौ वृषश्रेष्ठौ तु पुंगवौ । वल्लवौ सूदगोपालौ मुनिलोध्रौ तु गालवौ ॥ कितवौ धूर्तदुत्तूरावाहवौ यागसङ्गरौ । ;p{0107} प्रसेवौ स्यूतिवीणाङ्गे प्रभावौ शक्तितेजसी ॥ त्रिदिवौ गगनस्वर्गौ सृहृद्बन्धू तु बान्धवौ । ;l{2040} प्रभवो विक्रमेऽम्बूनां मूले जननकारणे ॥ आद्योपलब्धयोः स्थाने विवस्वांस्तु सुरे रवौ । प्रसवः पुष्पफलयोर्जननानुज्ञयोः सुते ॥ पारम्पर्यप्रसङ्गे च प्राणिगर्भविमोचने । उत्सवः कोपमहयोरुत्सेकेच्छाप्रसारयोः ॥ ;l{2045} संभवो जन्म चाधेयस्याधारानतिरेचनम् । अविश्वासापह्नवयोर्निकृतावपि निह्नवः ॥ गजस्कन्धेऽपि पणवो गन्धर्वो गायके पशौ । अन्तराभवसत्त्वेऽश्वेऽथाश्रवो वचनस्थिते ॥ प्रतिज्ञाने चोद्धवस्तु स्यान्महे कृष्णमन्त्रिणि । ;l{2050} सुषवी स्त्री कारवेल्ल्यां जीरके कृष्णजीरके ॥ भैरवो ना क्षेत्रपालभर्गयोर्भीषणे त्रिषु । विष्णौ वसन्ते वैशाखे माधवो माधवी लता ॥ रमायामपि शोभायां मधुसम्बन्धिनि त्रिषु । सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिषु ॥ ;l{2055} आर्तवं स्त्रीरजः पुष्पं ऋतुसंबन्धिनि त्रिषु । शत्रुत्वे शात्रवं नारौ भार्गवी स्यादुमा रमा ॥ सितदूर्वा भार्गवस्तु रेणुकासुतशुक्रयोः । गाण्डीवगाण्डिवौ पार्थचापे चापे च न स्त्रियाम् ॥ ;p{0108} प्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च । ;l{2060} तपस्वी तापसे शोच्ये द्विजिह्वो भुजगे खले ॥ पार्थिवो भूपतौ भूत्थे क्रमात्पुंसि त्रिषु त्रयः । राजीवमब्जे राजीवो मृगे मत्स्येऽथ पल्लवः ॥ अस्त्री प्रवाले ना षिद्गे कैतवं द्यूतदम्भयोः । ;c{॥ इति वान्ताः ॥} ;v{शान्ताः} समप्रकाशौ नीकाशौ रक्षोवृक्षौ पलाशिनौ । ;l{2065} निवेशौ शिबिरोद्वाहौ गिरीशौ शंकराद्रिपौ ॥ आदर्शौ दर्पणष्टीका निदेशः कथनाज्ञयोः । निर्वेशः संमूर्छने स्यात्कर्मभृत्युपभोगयोः ॥ प्रकाशः किरणे भासि ना तुल्यस्फुटयोस्त्रिषु । यमे रक्षसि कीनाशः कर्षके कृपणे त्रिषु ॥ ;l{2070} पत्रे पलाशं हरिते राक्षसे किंशुके पुमान् । निस्त्रिंशोऽसौ त्रिषु क्रूरे मत्स्ये ना कुलिशं पवौ ॥ अथ त्रिष्वस्वतन्त्रात्मा विवशोऽरिष्टदुष्टधीः । कर्कशो निर्दयः क्रूरः खरस्पर्शश्च साहसी ॥ बालिशौ मूर्खपृथुकौ सदृशौ तु समोचितौ । ;c{॥ इति शान्ताः ॥} ;p{0109} ;v{षान्ताः} ;l{2075} निमेषनिमिषौ सूक्ष्मकाले पक्ष्मनिपातने । पुरुषो धातृपुन्नागनरात्मपरमात्मसु ॥ आकर्षः पाशकेशारिफलके द्यूत इन्द्रिये । विशेषोऽवयवे व्यक्तौ तिलकेऽत्यन्तभेदके ॥ प्रदोषौ दोषरात्र्यंशावभीषू पाशदीधिती । ;l{2080} संघर्षौ घर्षणस्पर्धे शैलूषौ बिल्वनर्तकौ ॥ आमिषं त्वस्त्रियां मांस उत्कोचे भोग्यवस्तुनि । पुमान् पत्यौ पुनर्भ्वां स्त्री दिधिषुर्दिधिषूरपि ॥ रोहिषं रक्तकतृणे क्लीबे मत्स्ये मृगे च ना । पौरुषं विक्रमे भावकर्मणोः पुरुषस्य च ॥ ;l{2085} उद्बाहुविस्तृतकरनरमाने तु वाच्यवत् । परिचर्यापि शुश्रूषा मञ्जूषा पेटिका पुरी ॥ नृपाग्रपत्नीसैरिभ्योर्महिषी किल्बिषं त्वघे । अपराधेऽप्यथोष्णीषं शिरोवेष्टकिरीटयोः ॥ नवसूतगवीदुग्धे पीयूषममृतेऽपि च । ;l{2090} वा ना दिव्यविषं नाब्धावविषो निर्विषे त्रिषु ॥ गण्डूषस्तु द्वयोरास्यपूर्तौ द्विरदपुष्करे । प्रसृतौ चाथ कलुषं क्लीबेंऽहस्याविले त्रिषु ॥ निकषः शाणफलके ना रक्षोमातरि स्त्रियाम् । ;p{0110} निकषाव्ययमभ्याशे कल्माषः कृष्णपाण्डरे ॥ कृष्णे च त्रिषु पुंस्येष दानवे पावके गुणे । परुषो निष्ठुरे रूक्षे कर्बुरे च त्रिलिङ्गकः ॥ ;c{॥ इति षान्ताः ॥} ;v{सान्ताः} श्रीवासो वृक्षधूपेऽब्जे रभसो वेगहर्षयोः । नभसः सागरे व्योम्नि विलासो भावलीलयोः ॥ वाहसोऽग्नावजगरे पर्यासोऽवसरे क्रमे । ;l{2100} सायकक्षेपके द्रोण्यामिष्वासः कार्मुकेऽप्यथ ॥ आख्ययिकापरिच्छेदेऽप्याश्वासो निर्वृतावथ । श्रेयसी गजपिप्पल्यामभयारास्नयोरपि ॥ जुगुप्सा तु घृणा निन्दा चित्ते सरसि मानसम् । साहसं तु बलात्कारकृतकर्म दमोऽपि तत् ॥ ;l{2105} अलसो ना पादरोगे वृक्षे मन्दे त्वयं त्रिषु । पुंसि वा लालसौत्सुक्ये दौहृदात्यभिलाषयोः ॥ पायसं परमान्ने स्याच्छ्रीवासे नाथ सारसम् । पद्मे ना तु खगे चन्द्रे कीकसं त्वस्थ्नि ना कृमौ ॥ रसेऽर्जुने ना बीभत्सो विकृतक्रूरयोस्त्रिषु । ;c{॥ इति सान्ताः ॥} ;v{हान्ताः} ;l{2110} निवहो वायुभेदेऽपि कलहो द्वन्द्वयुद्धयोः । निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके ॥ ;p{0111} क्वाथे रसेऽथ दात्यूहश्चातके कलकण्ठके । प्रवाहः पाथसां वेगे प्रकृष्टाश्वे प्रवर्तने ॥ प्रवहः स्याद्वायुभेदे वायुमात्रे बहिर्गतौ । ;l{2115} स्वीकारोच्छ्रायसंक्षेपमहोद्योगेषु संग्रहः ॥ आग्रहोऽनुग्रहासक्तिनिर्बन्धग्रहणेष्वथ । श्रोण्यामारोहणे दैर्घ्ये समुच्छ्राये निषादिनि ॥ आरोहः स्यात्कटाहस्तु कूर्मपृष्ठे च कर्परे । तैलादिपाकपात्रेऽथ निग्रहः सीम्नि भर्त्सने ॥ ;l{2120} वराहः सूकरे विष्णौ नाणके शैलमुस्तयोः । तुलासूत्रेऽश्वादिरश्मौ प्रग्राहप्रग्रहावुभौ ॥ अन्त्यस्तु संयमे बन्द्यां पूजायामर्गलेऽपि च । विग्रहः समरे देहे विस्तारेऽप्यथ निर्दहः ॥ भेद्यवत्परदोषोक्तिपरे निष्ठुरभाषिणि । ;l{2125} सुवहा सल्लकीगोधापदीशेफालिकासु च ॥ वैदेही स्याद्वणिग्योषित्पिप्पली जनकात्मजा । ;c{॥ इति हान्ताः ॥} ;v{क्षान्ताः} प्रत्यक्षोऽधिकृतेऽध्यक्षस्त्रिष्वारक्षस्तु रक्षणे । अधश्च दन्तिकुम्भस्य हर्यक्षः श्रीदसिंहयोः ॥ रक्ताक्षो महिषो दैत्ये पारावतचकोरयोः । ;l{2130} गोतुम्बायां गवाक्षी स्त्री गवाक्षो जालके पुमान् ॥ ;c{॥ इति क्षान्ताः ॥} ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायामेष त्र्यक्षरकाण्डः पूर्णो नानार्थरत्नमालायाम् ॥} ;p{0112} ;k{चतुरक्षरकाण्डः} ;c{॥ नानार्थरत्नमालायां चतुरक्षकाण्डः ॥} ;v{कान्ताः} पिकभृङ्गावलिपकौ पिकभेकौ वलासकौ । भृङ्गालकौ भ्रमरकौ श्रीवत्साङ्कौ वृषाच्युतौ ॥ ;l{2135} आखुक्रोडावाखनिकौ गिरिमेघौ बलाहकौ । कर्कोटकौ बिल्वसर्पौ दन्दशूकोऽहिरक्षसोः ॥ स्थूलरज्जौ बीजकोशे वराटे च वराटकः । भट्टारको भूमिपाले दिवौकसि तपोधने ॥ अङ्गारकस्तूल्मुकस्य खण्डे भौमे कुरण्टके । ;l{2140} सालावृकः सारमेये वृके क्रोष्टरि मर्कटे ॥ विनायकस्तु सुगते गरुत्मति गणाधिपे । हारभेदे माणवको बाले कुपुरुषे च सः ॥ पुण्डरीकं सितच्छत्रे कुष्टभेदे सिताम्बुजे । ना त्वाम्रे राजिले व्याघ्रे दिग्गजे कुञ्जरे ज्वरे ॥ ;l{2145} नियामकः पोतवाहे ना नियन्तरि तु त्रिषु । भयानकस्तु शार्दूले राहौ ना भीषणे त्रिषु ॥ पुमान्वृन्दारको देवे त्रिषु श्रेष्ठमनोज्ञयोः । कौलेयकः सारमेये ना कुलीने तु वाच्यवत् ॥ त्रयो मयूरसरटकुक्कुटाः कृकवाकवः । ;l{2150} स्यात्सोमवल्को धवलखदिरे कट्फलेऽपि च ॥ पाञ्चालिका पुत्रिकायां द्रौपदीरीतिभेदयोः । ;p{0113} कनीनिकाक्षितारायां स्यात्कनिष्ठाङ्गुलावपि ॥ वाद्यानां लगुडे वाद्यभेदे घर्घरिका भवेत् । जीवन्तिका तु जीवायां गुडूचीवन्दयोरपि ॥ ;l{2155} उत्कण्ठायामुत्कलिका सैव हेलातरङ्गयोः । कोशातकी ज्योत्स्निकायामपामार्गे च सा भवेत् ॥ सौगन्धिकं तु कल्हारे पद्मरागे च कत्तृणे । रक्तर्धिकं सुखे स्थाने दिवसे मङ्गलेऽपि च ॥ त्रिफलायां त्रिकटुकं त्रिगन्धे च त्रिपर्णकम् । ;l{2160} स्तनवृत्ते पिप्पलकमपि सीवनसूत्रके ॥ तिन्त्रिणीकं पादपाम्ले चिञ्चायामप्यथास्त्रियाम् । विशेषकं स्यात्तिलके विशेषाधायके त्रिषु ॥ शूद्राद्वैदेहको वैश्यासुते ना वणिजि त्रिषु । मयूरकस्त्वपामार्गे पुमान्क्लीबे तु तुत्थके ॥ ;l{2165} सुप्रतीको भेद्यलिङ्गः शुभाङ्गे दिग्गजे पुमान् । पलमाने षोडशिका न ना न स्त्री पलद्वये ॥ जैवातृकः कर्षकेन्द्वोर्वाद्ये नायुष्मति त्रिषु । त्रिषु वृद्धे शतानीको मुनौ पुंस्यथ वाच्यवत् ॥ कार्याक्षमः प्रभोर्भावदर्शी लालाटिकावुभौ । ;l{2170} अदूरेरितदृग्दम्भयुक्तः कौक्कुटिकावुभौ ॥ ;c{॥ इति कान्ताः ॥} ;v{खान्ताः} गजकूर्मौ पञ्चनखौ भृङ्गबाणौ शिलीमुखौ । महाशङ्खो निधौ संख्याप्रभेदे मानुषास्थिनि ॥ ;p{0114} द्विजदेवावग्निमुखौ भल्लातेऽग्निमुखी स्त्रियाम् । विशल्या लाङ्गली चाग्निशिखा क्लीबे तु कुङ्कुमे ॥ ;c{॥ इति खान्ताः ॥} ;v{गान्ताः} ;l{2175} अपवर्गः क्रियामुक्त्योः क्रियासाध्यफलागमे । उपरागः परीवादे चन्द्रसूर्यग्रहेऽपि च ॥ शापाक्रोशतिरस्कारेष्वभीषङ्गोऽथ रूपके । वृकोऽपीहामृगः स्यात्तु संप्रयोगो रतेऽन्वये ॥ ;c{॥ इति गान्ताः ॥} ;v{चान्ताः} मलिम्लुचौ वायुचोरौ ;c{॥ इति चान्ताः ॥} ;v{जान्ताः} ग्रहराजोऽर्कचन्द्रयोः । ;l{2180} भारद्वाजो मुनौ द्रोणे व्याघ्राटेऽथ युधिष्ठिरे ॥ यमे बुद्धे धर्मराजोऽनुजशूद्रौ जघन्यजौ । राजराजः कुबेरेऽपि द्विजराजः खगेश्वरे ॥ चन्द्रेऽपि भृङ्गराजाः स्युर्भृङ्गधूम्याटमार्कवाः । ;c{॥ इति जान्ताः ॥} ;v{टान्ताः} प्रत्याख्याते प्रेषिते च प्रतिसृष्टस्त्रिलिङ्गकः । ;l{2185} शिपिविष्टो महादेवे खलतौ दुष्टचर्मणि ॥ ;l{2185a} करहाटः पद्मकन्दे पुष्पभेदे द्रुमान्तरे । ;p{0115} खञ्जरीटः खञ्जने स्यादसिधाराव्रतस्थिते । बलिपुष्टौ बकध्वाङ्क्षौ ;c{॥ इति टान्ताः ॥} ;v{ठान्ताः} कलकण्ठस्तु कोकिले । हंसे पारावते चापि त्रिषु त्वेष कलस्वरे ॥ स्याज्जम्बीरे कपित्थेऽम्लरसे दन्तशठः पुमान्‌ । ;l{2190} आम्ले त्रिष्वाम्ललोण्यां स्त्री नीलकण्ठौ शिखीश्वरौ ॥ ;c{॥ इति ठान्ताः ॥} ;v{ढान्ताः} समारूढाभ्यधिकयोरध्यारूढस्त्रिलिङ्गकः । ;c{॥ इति ढान्ताः ॥} ;v{णान्ताः} कौस्तुभेऽश्वगलावर्ते शिवे देवमणिः पुमान् । शङ्कुकर्णो गर्दभे स्यादुष्ट्रेऽप्यथ समीरणः ॥ फणिज्जके मारुते स्यादथ नीलीविशल्ययोः । ;l{2195} मधुपर्णी तैलपर्णी श्रीवेष्टे श्वेतचन्दने ॥ दाक्षायणी भवानी भूरश्विन्याद्याश्च तारकाः । असंबाधचमूगत्यां संसारे पुरनिर्गमे ॥ घण्टापथे संसरणमथोद्धरणमुद्धृतौ । भुक्तोज्झिते निःसरणं तूपाये निर्गमेऽपि च ॥ ;l{2200} पारायणं पारगतावङ्कुशस्य च बन्धने । कार्त्स्न्येऽप्यथो काम्यदाने निषेधे च प्रवारणम् ॥ ;p{0116} सोपानेऽप्यारोहणं निःसरणं द्वारि निर्गमे । विदारणं स्यात्समरे द्वैधीभावे विडम्बने ॥ शब्दशास्त्रे व्याकरणं ज्याटङ्कारे स्फुटीकृतौ । ;l{2205} स्यादस्त्रियां वारवाणं कूर्पासे कवचेऽपि च ॥ परायणं क्लीबमिष्टाश्रययोस्तत्परे त्रिषु । नारायणी रमागौर्यौः शतावर्यां हरौ तु ना ॥ निरूपणं तु न पुमान् विलोकनविचारयोः । ;c{॥ इति णान्ताः ॥} ;v{तान्ताः} उदास्थितश्चरे द्वार्स्थे समाघातोऽवधारणे । ;l{2210} परिवर्तो विनिमये स्यात्कल्पान्ते परिभ्रमे ॥ नन्द्यावर्तस्तु भवनभेदे तगरपादपे । नागदन्तो द्विपरदे गृहान्निर्गतदारुणि ॥ नदीकान्तस्तु निचुले सिन्धुवारसमुद्रयोः । त्वष्टृराजाग्निजामातृब्रह्मार्केषु प्रजापतिः ॥ ;l{2215} अपुष्पफलवद्वृक्षे वृक्षमात्रे वनस्पतिः । अपि शंभौ पशुपतिरपि लक्ष्मीपतिर्नृपे ॥ अपि श्रीदे धनपतिरपि सेनापतिर्गुहे । उत्पातेऽग्नौ धूमकेतुर्विश्वगोप्ता हरीन्द्रयोः ॥ चोरोलूकौ दिवाभीतौ वासन्त्यां तिनिशद्रुमे । ;l{2220} अतिमुक्तः पारिजातौ पारिभद्रसुरद्रुमौ ॥ ;p{0117} स्त्रियामपचितिः पूजानिष्कृत्योः संक्षये व्यये । अथ हैमवती गङ्गा पथ्या शुक्लवचाप्युमा ॥ प्रतिमायां प्रतिकृतिः पूजनाप्रतिकारयोः । प्रत्याप्तिर्गौरवं बुद्धिः प्रागल्भ्यं प्रतिपत्तयः ॥ ;l{2225} अनुज्ञा स्यादनुमतिः कलाहीनेन्दुपूर्णिमा । शूकशिम्ब्यां शतावर्यामृश्यप्रोक्ताथ दूषणे ॥ प्रार्थने चाभिशस्तिः स्यात्समुद्रान्ता दुरालभौ । कार्पासी कृष्णवृन्ता तु पाटला माषपर्णिका ॥ प्रणिद्यूतं युद्धमात्रे प्राणियुद्धेऽपि तद्भवेत् । ;l{2230} अत्याहितं त्वतिभयं कर्म जीवानपेक्षि च ॥ उपोहितोऽग्न्युत्पाते ना स्यात्त्रिषूपनिवेशिते । ऐरावतोऽभ्रमातङ्गे लिकुचे नागरङ्गके ॥ ऋजुदीर्घेन्द्रचापे तु क्लीबमैरावती तटित् । कलधौतं हेम्नि रूप्ये क्लीबं त्रिषु कलध्वनौ ॥ ;l{2235} वैजयन्तो ध्वजे शक्रप्रासादे षण्मुखे च ना । वैजयन्ती पताकायां तर्कारीकेशवस्रजोः ॥ निराकृतिर्निरासे स्त्री स्वाध्यायरहिते त्रिषु । उत्तरे त्रिष्ववसितं समाप्ते निश्चितेऽपि च ॥ अवदातः सिते पीते प्रवरे शुद्धिमत्यपि । ;l{2240} अन्तर्गतं मध्यगते विस्मृतेऽप्यथ गर्हिते ॥ मुहुर्दृष्टेऽवगीतं स्यात्प्रतिक्षिप्तं तु धिक्कृते । ;p{0118} प्रोषिते चाभिजातास्तु कुलीनन्याय्यपण्डिताः ॥ अभिनीतः संस्कृते च न्यायामर्षवतोरपि । अधिक्षिप्तस्तु निहिते भर्त्सिते प्रेषितेऽपि च ॥ ;l{2245} अपध्वस्ताः परित्यक्तपरिचूर्णितनिन्दिताः । प्रतिज्ञाते विनिहिते समाधिस्थे समाहितः ॥ पुरस्कृतो रिपुग्रस्ते स्वीकृतेऽग्रेकृतेऽर्चिते । उपरक्तस्तु दुःखार्ते राहुग्रस्तेन्दुसूर्ययोः ॥ परिप्राप्ते परिवृते ज्ञाते परिगतं भवेत् । ;l{2250} उद्गाहितमुपन्यस्ते निबद्धे ग्राहितेऽपि च ॥ दिग्धवृद्धावुपचितौ निर्गतेऽपि समुद्गतः । उत्कीर्णतनूकृतयोरुल्लिखितं प्रणिहितं तु विन्यस्ते ॥ ध्यातेऽथ परिस्खलिते प्रतिरुद्धे प्रतिहतं द्विष्टे । ;c{॥ इति तान्ताः ॥} ;v{थान्ताः} वानप्रस्थो मधुष्ठीले तृतीयाश्रमवर्तिनि । ;l{2255} किंशुके प्राणनाथस्तु यमे प्राणेश्वरेऽपि च ॥ अनीकस्थो राजरक्षी गजरक्षणदक्षिणः । चतुष्पथं चतुर्मार्गसंगमे ब्राह्मणे तु ना ॥ दशमीस्थो नष्टबीजे स्थविरे च त्रिलिङ्गकः । ;c{॥ इति थान्ताः ॥} ;p{0119} ;v{दान्ताः} चक्रपादौ रथगजौ वह्नीन्द्वर्कास्तमोनुदः । ;l{2260} कुरुविन्दाः पद्मरागहिङ्गुलादर्शमुस्तकाः ॥ जने देशे जनपदोऽपवादो गर्हणाज्ञयोः । परिवादस्तु निर्वादे वीणावादनसाधने ॥ अभिष्यन्दो नेत्ररोगेऽप्यभिमर्दो रणेऽपि च । अजमोदा तूग्रगन्धा निर्यासः शाल्मलेरपि ॥ ;l{2265} भवेत्कोकनदं रक्तपद्मे रक्तोत्पलेऽप्यथ । शरभे ना हेम्नि शारिफलकेऽष्टापदोऽस्त्रियाम् ॥ गङ्गा विष्णुपदी क्लीबे त्वयं व्योमसमुद्रयोः । अथ प्रगल्भविदुषोर्वाच्यलिङ्गो विशारदः ॥ ;c{॥ इति दान्ताः ॥} ;v{धान्ताः} दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यानुवर्तने । ;l{2270} प्रकृत्यादेर्नश्वरांशे शिशौ मुख्यानुयायिनि ॥ अवरोधो राजगृहे शुद्धान्तेऽप्यवरोधने । भवेदतिविषाशुण्ठीलशुनेषु महौषधम् ॥ अनिरुद्ध उषानाथे चरे नानर्गले त्रिषु । वचाजमोदयोरुग्रगन्धा स्त्री लशुने च ना ॥ ;l{2275} उपलब्धिः स्त्रियां प्राप्तौ मनीषायामथ त्रिषु । अवष्टब्धं स्याददूरे समाक्रान्तेऽवलम्बने ॥ समुन्नद्धाः समुद्बुद्धपण्डितंमन्यगर्विताः । ;c{॥ इति धान्ताः ॥} ;p{0120} ;v{नान्ताः} स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च । अभिमानो गर्वबुद्ध्योर्हिंसाप्रणययोरपि ॥ ;l{2280} प्रतियत्नस्तु संस्कारे उपग्रहणलिप्सयोः । पारावते मयूरे च कोकिले च कलध्वनिः ॥ धातृस्मरावात्मयोनी मूर्खनीचौ पृथग्जनौ । जन्मभूमावभिजनो विख्यातावन्वये च सः ॥ वह्निभानू चित्रभानू वह्नीन्द्वर्का विरोचनाः । ;l{2285} पुण्यजनः सुजने स्याद्रक्षसि यक्षेऽथ गर्जिते मेघे ॥ स्तनयित्नुरनूचानः सुविनीते साङ्गवेदज्ञे । गुञ्जायूथ्यौ शिखण्डिन्यौ सौदामिन्यप्सरःस्वपि ॥ आतञ्चनं प्रतीवापजीवनाप्यायनार्थकम् । साधने तोषणे प्राप्तावाराधनमथांशुके ॥ ;l{2290} पिधानेऽप्याच्छादनं स्यात्कार्यहेत्वोः प्रयोजनम् । आस्कन्दनं तिरस्कारे गतिशोषणयोर्युधि ॥ प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः । आधिष्ठानं पूःप्रभावचक्रेष्वध्यासनेऽपि च ॥ जन्मोत्प्लुत्योरुत्पतनमथाभिव्याप्तिमूर्छयोः । ;l{2295} संमूर्छनं समुत्थानमुद्यमे रोगनिर्णये ॥ निर्यातनं वैरशुद्धौ दाने न्यासधनार्पणे । स्यादाकलनमाकाङ्क्षागणने ज्ञानबन्धने ॥ समूहे चावदानं तु वृत्तकर्मणि खण्डने । निर्भर्त्सनमलक्तेऽपि श्रुतिदृष्ट्योर्निशामनम् ॥ ;l{2300} उपासनं शराभ्यासे हिंसासेवनयोरपि । रते कम्पे निधुवनं स्यादुद्वर्तनमुद्गमे ॥ विलेपनेऽप्यथ वधे समाप्तौ च समापनम् । ;p{0121} आम्नायेऽपि प्रवचनं स्यादायोधनमाहवे ॥ वधे च प्रणिधानं तु समाधिप्रतियत्नयोः । ;l{2305} योन्युत्पत्योः प्रजननमथ प्रेषणदानयोः ॥ विसर्जनं विहननं वधवीजनवाचकम् । अभ्याधानमभिन्यासे वह्न्यर्थे चेध्मसंग्रहे ॥ निर्वासनं तु हिंसायां नगरादेर्बहिष्कृतौ । निष्ठ्यूतौ तु निरसनं संवाहनमङ्गमर्दनेऽपि स्यात् ॥ ;l{2310} शिल्पगृहेऽप्यावेशनमुद्वासनमपि च हिंसने प्रोक्तम् । कात्यायनो वररुचौ मुनौ कात्यायनीत्युमा ॥ या चार्धवृद्धा काषायवसना गतभर्तृका । त्रिष्ववलग्नं लग्ने मध्ये क्लीबं घनाघनस्त्विन्द्रे ॥ वार्षुकमेघे घातुकमत्तेभे च त्रिषु त्वयं सान्द्रे । ;l{2315} शाश्वते त्रिषु ना ब्रह्महरीशेषु सनातनः ॥ दीप्तौ प्रद्योतनं नार्के महासेनो गुहेऽपि च । अत्मनीनः सुते स्याले पुमानात्महिते त्रिषु ॥ विष्वक्सेना गन्धपल्यां ना तु विष्णावथ त्रिषु । अभिपन्नो द्रुते ग्रस्तेऽपराद्धे दक्षिणार्तयोः ॥ ;l{2320} विपन्ने प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च । अवाचीनं विपर्यस्तं यच्च दक्षिणदिग्भवम् ॥ ;c{॥ इति नान्ताः ॥} ;p{0122} ;v{पान्ताः} विप्रलम्भे विरोधोक्तावपार्थकवचस्यपि । विप्रलापोऽवलेपस्तु दूषणे गर्वलेपयोः ॥ परिवापस्तु पर्युप्तावालवाले परिच्छदे । ;l{2325} परिक्षेपः परिवृतौ पादपार्श्वे च दन्तिनाम् ॥ उपतापौ रोगतापौ शिवविष्णू वृषाकपी । ;c{॥ इति पान्ताः ॥} ;v{बान्ताः} जम्बूभेदे राजजम्बूः पिण्डखर्जूरकेऽपि सा । ;c{॥ इति बान्ताः ॥} ;v{भान्ताः} अवष्टम्भः स्तब्धतायां हेम्नि गर्वेऽवलेपने । ;c{॥ इति भान्ताः ॥} ;v{मान्ताः} अभ्यागमोऽभ्यागमने स्यात्संगरसमीपयोः । ;l{2330} सार्वभौमः सर्वपृथ्वीपालके दिग्गजान्तरे ॥ उपक्रमः स्यादुपधाचिकित्सारम्भवाचकः । महापद्मो नागभेदे निधिसंख्याविशेषयोः ॥ विश्वकर्मा सहस्रांशौ देवशिल्पिनि वेधसि । वातप्रमीर्मृगेऽश्वे च शौर्योद्योगौ पराक्रमौ ॥ ;l{2335} अङ्गीकृतावुपगमः समीपगमनेऽपि सः । ज्येष्ठभ्रातर्यग्रजन्मा ब्राह्मणे चाप्यथ त्रिषु ॥ यातयामं गतरसे जीर्णभुक्तोज्झितेऽपि च । ;c{॥ इति मान्ताः ॥} ;v{यान्ताः} हलीन्दुजौ रौहिणेयौ भल्लसिंहौ गुहाशयौ । दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥ ;p{0123} ;l{2340} समुदायः समुदयो द्वाविमौ वृद्धिबृन्दयोः । बाहुलेयो वृषे स्कन्दे बाडवेयोऽश्विनोर्द्विजे ॥ समाह्वयो नाम्नि युद्धे द्यूते च पशुपक्षिभिः । स्थूलोच्चयस्त्वसाकल्ये दन्तिनां मध्यमे गते ॥ धनंजयोऽर्जुने शक्रे दहने देहमारुते । ;l{2345} समुच्छ्रयः स्यादुत्सेधे विरोधे च प्रतिश्रयः ॥ सभायां चाश्रये चाथावश्यायो हिमगर्वयोः । सांपरायस्तु समरे विपदागामिकालयोः ॥ अन्तशय्या श्मशाने च भूशय्यायां मृतावपि । गौर्यश्विन्यौ दक्षकन्ये मदिरापि हलिप्रिया ॥ ;l{2350} अन्वाहार्यं भवेन्मासश्राद्धमिष्टेश्च दक्षिणा । भागे भाग्ये भागधेयं दायादे तु पुमानयम् ॥ गोधायां स्त्री पुमानाखौ नकुलेऽहौ विलेशयः । उशीरे न द्वयोः पुंसि जलाधारे जलाशयः ॥ भयंकरे प्रतिभयं त्रिषु भीतौ नपुंसकम् । ;l{2355} अपसव्यं भेद्यलिङ्गं दक्षिणप्रतिकूलयोः ॥ ;c{॥ इति यान्ताः ॥} ;v{रान्ताः} धाराधरौ खड्गमेघौ नृपशैलौ धराधरौ । विष्णुसर्पौ चक्रधरौ स्तनमेघौ पयोधरौ ॥ ;p{0124} यमभूपौ दण्डधरौ वीतिहोत्राविनानलौ । कूर्मेशाब्धी अकूपारौ लक्ष्मीपुत्रौ हयस्मरौ ॥ ;l{2360} द्वारद्वाःस्थौ प्रतीहारौ कामपङ्कौ निषद्वरौ । अवतारस्तु तीर्थेऽपि धन्वन्तरिरिनेऽपि च ॥ खड्गेऽपि करवीरः स्यादुपहारोऽप्युपायने । गरलेऽपि ब्रह्मपुत्रोऽलंकारोऽप्युपमादिषु ॥ लोहेऽपि गिरिसारोऽर्धचन्द्रोऽपि गलहस्तके । ;l{2365} परिवारोऽसिकोशे चावस्करो गूढगुह्ययोः ॥ नभश्चराः सुराम्भोदपक्षिविद्याधरग्रहाः । यूथभ्रष्टगजे पक्षचर एकचरद्विपे ॥ खगे चाथ व्यतिकरो व्यसनव्यतिषङ्गयोः । रथकारस्तक्षणि स्यान्माहिष्यात्करणीभवे ॥ ;l{2370} संक्षेपे तु समाहार एकत्रकरणेऽपि सः । जलग्रहे शिंशुमारस्तारारूपाच्युते च सः ॥ परिवारे परिकरः पर्यङ्कनिकुरुम्बयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि ॥ अवहारो भवेच्चोरे द्यूते ग्राहाख्ययादसि । ;l{2375} निमन्त्रणोपनेतव्यद्रव्ये युद्धादिविश्रभे ॥ व्यवहारो वाक्प्रयोगे द्यूते संबन्धदण्डयोः । अभिहारस्तु संनाहे तस्करत्वाभियोगयोः ॥ द्वैमातुरो जरासन्धे हेरम्बेऽथ परंपरा । ;p{0125} संताने परिपाट्यां च रहोऽन्तिकमुपह्वरम् ॥ ;l{2380} अरुष्करो ना भल्लाते व्रणकारिणि वाच्यवत् । पुण्ड्रेक्षौ ना त्रिषु मृदौ सुकुमारो निशाचरः ॥ फेरूलूकाहिरक्षःसु पुंस्यसत्यां निशाचरी । महावीरो यज्ञपात्रे वज्रे श्वेतहये हरौ ॥ सिंहेऽग्नौ गरुडे पुंसि त्रिषु प्रवरशूरयोः । ;l{2385} आडम्बरोऽस्त्री संरम्भे गर्जिते तूर्यनिस्वने ॥ महामात्रो हस्तिपके सचिवे त्रिषु तून्नते । शतपत्रो राजकीरे दार्वाघाटे शिखावले ॥ क्लीबे च कमले विश्वंभरा तु क्ष्मा हरौ पुमान् । उदुम्बरो द्रुदेहल्योर्ना क्लीबे कुष्ठताम्रयोः ॥ ;l{2390} क्लीबे दुरोदरं द्यूते पणे द्यूतकरे तु ना । शिरीषोत्पलयोः कर्णपूरं ना त्ववतंसके ॥ पुंसि प्रतिसरः सेनापृष्ठे मण्डनमालयोः । आरक्षे व्रणशुद्धौ च हस्तसूत्रे च न स्त्रियाम् ॥ श्रेष्ठेऽनुदीचि प्रतिवाग्घीने च त्रिष्वनुत्तरम् । ;c{॥ इति रेफान्ताः ॥} ;v{लान्ताः} ;l{2395} हेरम्बैरावतौ हस्तिमल्लौ परिमलः पुनः । विमर्दने विमर्दोत्थसुमनोहरसौरभे ॥ महाकालस्तु किंपाके शिवे प्रमथनायके । ;p{0126} गण्डशैलः स्याल्ललाटे गिरेश्च्युतमहोपले ॥ झषकाशनलाः पोटगलः कलकलः पुमान् । ;l{2400} अपि सर्जरसे लोकपालस्त्विन्द्रादिभूपयोः ॥ मणिमाला तु हारे स्यात्कान्तादन्तक्षतान्तरे । उमादृष्टेन्द्वमावास्ये सिनीवाल्यावुभे इमे ॥ अङ्कपालिर्द्वारिकायां कोटावालिङ्गनेऽपि सा । फलिनी स्याद्गन्धफली कलिका चम्पकस्य च ॥ ;l{2405} मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले । लोकालोकगिरौ चक्रवालः क्लीबे तु मण्डले ॥ अतिबलमहाबलौ द्वौ त्रिषु बलिनीमौ स्त्रियौ बलायां हि । अव्यक्तवाचि मदतस्त्रिषु मत्तगजे तु मदकलः पुंसि ॥ ;c{॥ इति लान्ताः ॥} ;v{वान्ताः} सवने मद्यसंघातेऽभिषवः स्नानयज्ञयोः । ;l{2410} कुशीलवस्तु वाल्मीकिनटयाचकवाचकः ॥ अपह्नवोऽपलापे च स्नेहे चाथ पराभवः । तिरस्कारे प्रणाशे च राहूत्पातावुपप्लवौ ॥ शस्त्रे पारशवो विप्राच्छूद्राजे मौक्तिकायसोः । सन्निश्चयेऽनुभावः स्यात्प्रभावे भावसूचके ॥ ;l{2415} आदीनवः पुमान्दोषे त्रिषु क्लिष्टदुरन्तयोः । ;p{0127} स्त्री शतपर्वा दूर्वावचयोर्वेणौ पुमान्बिसे क्लीबम् ॥ पारिप्लवः परिप्लव इत्येतौ वाच्यवच्चलाकुलयोः । ;c{॥ इति वान्ताः ॥} ;v{शान्ताः} अपदेशः पदे लक्ष्ये निमित्तव्याजयोरपि । उपस्पर्शस्त्वाचमने स्नानस्पर्शनयोश्च सः ॥ ;l{2420} अपभ्रंशो निपतने भाषाभेदापशब्दयोः । त्रिषु प्रिये जीवितेशो नायकेऽथ प्रतिष्कशः ॥ द्यूते ना त्रिष्वग्रगे स्याद्वार्ताहरसहाययोः । ;c{॥ इति शान्ताः ॥} ;v{षान्ताः} अनिमेषश्चानिमिषोऽप्येतौ द्वौ सुरमत्स्ययोः । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ ;l{2425} अनुकर्षो रथस्याधःस्थिते दारुणि कर्षणे । स्त्रियामुपनिषद्धर्मे निगमान्तरहस्ययोः ॥ अम्बरीषं तृणे वर्षे रणे भ्राष्ट्रे नपुंसकम् । ना किशोरे भूपभेदे शंभावाम्रातके रवौ ॥ ;c{॥ इति षान्ताः ॥} ;v{सान्ताः} अधिवासो निवसने गन्धधूपादिसंस्कृतौ । ;l{2430} राजहंसो नृपश्रेष्ठेऽग्नीन्द्वर्केषु विभावसुः ॥ चन्द्रहासः खड्गमात्रे खड्गे दशमुखस्य च । द्राक्षा मूर्वा मधुरसा भवेत्स्वादुरसा पुनः ॥ ;p{0128} द्राक्षायां मदिरायां च ततः स्वश्रेयसं सुखे । भद्रेऽप्यथो तामरसं ताम्रे स्वर्णे सरोरुहे ॥ ;l{2435} त्रिषु सान्द्रे घनरसः क्लीबेऽम्बुन्येष मोरटे । कर्पूरनिर्यासयोश्च सम्यक् सिद्धरसे तु वा ॥ मलीमसं तु मलिने त्रिषु लोहे नपुंसकम् । ;c{॥ इति सान्ताः ॥} ;v{हान्ताः} प्रतिग्रहः सैन्यपृष्ठे दानद्रव्ये परिग्रहे ॥ स्वीकारे चाब्जयोनौ पितृताते पितामहः । ;l{2440} उपनाहो व्रणे लेपे वीणायाश्च निबन्धने ॥ अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके । परिबर्हो राजयोग्यवस्तुन्यग्नौ परिच्छदे ॥ परीवाहो जलोच्छ्वासे क्षितिभुग् भोग्यवस्तुनि । अवरोहोऽवतरणं लता चाग्रं गताङ्ध्रितः ॥ ;l{2445} अभिग्रहोऽभियोगे च चन्द्राग्न्यर्कास्तमोपहः । उपग्रहस्तु ग्रहणे स्याद् बन्द्यामनुकूलने ॥ वरारोहा नितम्बिन्यां कट्यां गन्धवहः पुनः । वायौ वा नासिकायां स्त्री गरुर्लोम्नोस्तनूरुहम् ॥ ;c{॥ इति हान्ताः ॥} ;v{क्षान्ताः} देववृक्षः सप्तपर्णे कल्पभूरुहगुग्गुलौ । ;c{॥ इति क्षान्ताः ॥} ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायां चतुरक्षरकाण्डोऽयं पूर्णो नानार्थरत्नमालायाम् ॥} ;p{0129} ;k{सङ्कीर्णकाण्डम्} ;l{2450} अस्मिन् सम्भवतः शब्दान् पञ्चषट्सप्तवर्णकान् । विषमाक्षरपर्यायान्नानार्थानभिवर्णये ॥ ;v{कान्ताः} अवकरको गेहाङ्गे चित्राभ्रे नागवारको गरुडे च । जलकरकस्तु पयोधौ फलेऽव्ययं नारिकेलस्य ॥ गोक्षुरकविकङ्गतयोः काल्यां च स्वादुकण्टको ज्ञेयः । ;l{2455} चिलिमिलिका स्यात् तटिति च खद्योते कण्ठभूषायाम् ॥ उपकारिकोपकर्त्यां राजगृहे पिष्टभेदे च । आस्फुरितकं तु हाने स्त्रीणां नखरक्षतान्तरे चापि ॥ ;c{॥ इति कान्ताः ॥} ;v{खान्ताः} कुटिलमुखस्तु कृशानौ गोलाङ्गूले खले प्रेते । खेऽम्बुनि च सर्वतोमुखमीशानब्रह्मणोश्च पुंस्येषः ॥ ;c{॥ इति खान्ताः ॥} ;p{0130} ;v{गान्ताः} ;l{2460} वातव्याधिक्लिष्टे विषवैद्ये त्रिषु कथाप्रसङ्गः स्यात् । ;c{॥ इति गान्ताः ॥} ;v{जान्ताः} वृषभध्वजस्तु शंभावर्हद्भेदेऽ- ;c{॥ इति जान्ताः ॥} ;v{टान्ताः} -प्यथोष्ठनिःश्वासौ । दशनोच्छिष्टौ ;c{॥ इति टान्ताः ॥} ;v{णान्ताः} सूर्ये वह्नावप्याशुशुक्षणिः पुंसि ॥ मत्तेभे सौधानां वरण्डके मत्तवारणः प्रोक्तः । युद्धेऽपि प्रविदारणमवतरणं त्वञ्चलेऽपि वसनस्य ॥ ;l{2465} परिभाषणमालापे नियमे निन्दोपलम्भे च । ;c{॥ इति णान्ताः ॥} ;v{तान्ताः} अपराजितौ हरीशौ पृथिवीपतिरन्तके महीशेऽपि । चूते वसन्तदूतः पञ्चमनिनदेऽपि कोकिलेऽपि स्यात् ॥ मूर्धाभिषिक्तशब्दस्त्रिषु प्रभौ क्षत्रभूपयोः पुंसि । तौ ज्योतिषांपती द्वावशीतभानुश्च शीतभानुश्च ॥ ;c{॥ इति तान्ताः ॥} ;v{धान्ताः} ;l{2470} योजनगन्धा सीता कस्तूरी व्यासमाता च । ;c{॥ इति धान्ताः ॥} ;v{नान्ताः} अथ षष्टिहायनाः स्युर्मतङ्गजा धान्यभेदाश्च । ;p{0131} मधुसूदनावलिहरी कुसुम्भकनके महारजने ॥ हरिचन्दनं तु कुङ्कुमचन्दनमन्दारभूरुहेष्वस्त्री । वरवर्णिनी हरिद्रा वरनारी रोचना च लाक्षा च ॥ ;c{॥ इति नान्ताः ॥} ;v{पान्ताः} ;l{2475} चामरपुष्पः काशे सहकारे केतके चापि । ;c{॥ इति पान्ताः ॥} ;v{बान्ताः} धूलिकदम्बो निम्बे नीपे वरुणद्रुमे तिनिशे । गोरक्षतण्डुले गोधूमे गोरक्षजम्बूः स्त्री ॥ ;c{॥ इति बान्ताः ॥} ;v{यान्ताः} त्रिषु तु प्रवक्तुमर्हे प्रवक्तरि प्रवचनीयं स्यात् । क्लीबे तु दुग्धफेने दुग्धाम्ले दुग्धतालीयम् ॥ ;l{2480} धौतांशुकयोर्युगलेऽप्युद्गमनीयं हि नापितश्वपचौ । अन्तावसायिनावथ वृषाकपायी रमागौर्योः ॥ ;c{॥ इति यान्ताः ॥} चित्रागारविशेषे काव्यविशेषे च सर्वतोभद्रः । अलका च महेन्द्रस्य च नगरी वस्वौकसारा स्यात् ॥ तिलके तमालपत्रं पत्रकतापिञ्छयोरपि तत् । ;c{॥ इति रेफान्ताः ॥} ;p{0132} ;v{लान्ताः} ;l{2485} बलभद्रो वैश्रवणः शेषाहिश्चैककुण्डला एते । यज्वा च शौण्डिकश्च द्वावेतावासुतीवलौ ज्ञेयौ ॥ ;c{॥ इति लान्तौ ॥} ;v{वान्ताः} तृप्तौ चेत्पुंसि स्यादन्नादावाशितंभवं क्लीबे । ;c{॥ इति वान्तः ॥} ;v{सान्ताः} हिङ्गुद्रुमस्य च रसे निम्बेऽपि च हिङ्गुनिर्यासः । ;c{॥ इति सान्तः ॥} ;v{हान्ताः} एतौ हिरण्यबाहू शोणनदश्चन्द्रमौलिश्च । ;c{॥ इति हान्तः ॥} ;c{॥ इति पञ्चाक्षरनानार्थपदानि ॥} ;v{कान्ताः} ;l{2490} मातुलस्य सुते धूर्तफले मातुलपुत्रकः । ;c{॥ इति कान्तः ॥} ;v{णान्ताः} लावण्ये च स्तने च स्यात्क्लीबे यौवनलक्षणम् । ;c{॥ इति णान्तः ॥} ;v{यान्ताः} विष्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषधावपि । ;c{॥ इति यान्ताः ॥} ;c{॥ इति षडक्षरनानार्थपदानि ॥} ;p{0133} ;v{तान्ताः} समुद्रनवनीतं तु सुधायां च सुधाकरे । ;c{॥ इति नान्तः ॥} ;v{रेफान्ताः} क्रियासमभिहारः स्यात्पौनःपुन्यभृशार्थयोः । ;c{॥ इति रेफान्तः ॥} ;c{॥ इति सप्ताक्षरनानार्थपदे ॥} ;l{2495} ;v{पुंलिङ्गविषमाक्षराः} निदाघघर्मौ स्वेदोष्मग्रीष्मेष्वन्त्यस्तु वासरे । आतपे चाथ वरुणसमुद्रौ यादसांपतिः ॥ यादस्पतिश्च वृक्षेऽद्रौ शिखर्यगनगागमाः । वतंसोत्तंसावतंसाः कर्णपूरेऽपि शेखरे ॥ ;c{॥ इति पुंलिङ्गविषमाक्षराः ॥} ;v{स्त्रीलिङ्गविषमाक्षराः} दर्शनेऽभिनये सूचौ सूचनाव्यथने च ते । ;l{2500} मातङ्ग्युग्रेत्युमायां च सौम्यार्जुन्यौ तु निश्यपि ॥ ;c{॥ इति स्त्रीलिङ्गविषमाक्षराः ॥} ;v{क्लीबविषमाक्षराः} यज्ञोपवीतोपवीते ब्रह्मसूत्रोत्तरीययोः । शकुनं च निमित्तं च शुभादेः सूचकेऽपि च ॥ वारुणं धरुणं रत्नं गम्भीरं गहनं पुनः । सेव्यं दिव्यं स्वादु शुद्धं पातालं च जलेऽप्यमी ॥ ;c{॥ इति क्लीबविषमाक्षराः ॥} ;p{0134} ;v{नानालिङ्गविषमाक्षराः} ;l{2505} भगवान्बुद्धविष्ण्वीशपूज्येषु भगवत्युमा । महांस्त्रिष्वधिके पूज्ये महती कापि वल्लकी ॥ भोगी ग्रामाद्यधिकृते भूपतौ सुखिसर्पयोः । भोगिन्यः स्युर्नृपस्यान्याः कामिन्यो महिषीं विना ॥ सरस्वती नदीभेदनद्योः स्त्री देवतागिरोः । ;l{2510} गोभूगङ्गासु मत्स्याक्ष्यां सरस्वांस्तु नदेऽम्बुधौ ॥ भवेयुरणिमादौ च भूत्यैश्वर्यविभूतयः । द्वीपवन्तौ नदाम्भोधी द्वीपवत्यौ नदीभुवौ ॥ ककुदोऽस्त्री ककुत्क्लीबे द्वावेतौ नृपलक्ष्मणि । वृषभाङ्गे प्रधाने च भेद्यलिङ्गा इतः परे ॥ ;c{॥ इति नानालिङ्गविषमाक्षराः ॥} ;v{वाच्यलिङ्गविषमाक्षराः} ;l{2515} स्युः प्रदीप्तः प्रज्वलितो दीप्तो ज्वलित इत्यपि । तेजस्विदग्धयोर्वाच्यवक्तव्यौ निन्द्यहीनयोः ॥ सुरूपप्राप्तरूपाभिरूपाः पण्डितसौम्ययोः । प्राच्योदीच्यप्रतीच्यार्थाः प्रागुदक्‌प्रत्यगित्यमी ॥ त्रिषु पूर्वादिदिग्देशकालार्थेषु त्वलिङ्गकाः । ;c{॥ इति वाच्यलिङ्गविषमाक्षराः ॥} ;v{सङ्कीर्णवर्गः} ;l{2520} स्कन्दस्य शंभोर्धातुश्च पर्यायाः सकलाः क्रमात् । रुद्राक्षे षण्मुखे पञ्चमुखे चापि चतुर्मुखे ॥ निशायास्तु हरिद्रायां मेघस्याभ्रकमुस्तयोः । इन्द्रस्य गुग्गुलूलूककुटजेष्वथ चित्रके ॥ ;p{0135} भल्लातकेऽपि वह्नेः स्युरर्कस्यार्कतरावपि । ;l{2525} गौर्यास्त्वतस्यामिन्दोस्तु काम्पिल्यघनसारयोः ॥ वज्रस्य हीरके खस्य त्वभ्रके परमात्मनि । दृषदोऽद्रेश्च शैलेये कार्पासे वाससो नरः ॥ कनकस्य तु दुत्तूरनागकेसरयोर्नरः । शिरसः शिखरे चाथ नरः पद्मस्य सारसे ॥ ;l{2530} पर्णस्य गरुति क्लीबे नरः किंशुकपादपे । शस्त्रस्यायसि केशस्य बर्हिष्ठे च नपुंसकम् ॥ व्याधेः कुष्ठाख्यौषधे स्याच्छोणितस्य तु कुङ्कुमे । बिन्दोः सिध्मादिशरीरविकारेऽथ निधावपि ॥ कूर्मस्य मकरस्याथ शङ्खस्य निधिसंख्ययोः । ;l{2535} आयसो मरिचेऽपि स्युरपां बर्हिष्ठमुस्तयोः ॥ मातुर्नामानि पार्वत्यां रन्ध्रस्यागसि दूषणे । ध्वजधूममृगेन्द्राश्ववृषरासभदन्तिनाम् ॥ वायसस्यापि पर्यायाः क्रमात् पूर्वादिसद्मसु । अजवृषभमिथुनकर्कटमृगेन्द्रकन्यातुलालिचापानाम् ॥ ;l{2540} मकरकलशमीनानां द्वादशराशिष्वपि क्रमशः । ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायां संकीर्णशब्दकाण्डः पूर्णो नानार्थरत्नमालायाम् ।} ;p{0136} ;k{अव्ययकाण्डः} ;c{॥ अथ नानार्थरत्नमालायामव्ययकाण्डः ॥} ;v{एकाक्षरनानार्थाव्ययाः} अ स्यान्निषेधेऽप्यल्पार्थेऽप्यास्तु संतापकोपयोः । आङीषदर्थेऽभिव्याप्तौ क्रियायोगे च सीम्नि च ॥ ;l{2545} आ प्रगृह्यः स्मृतौ वाक्ये चाक्षेपेऽद्भुतहर्षयोः । इ चित्रखेदकोपोक्तिष्वी कोपे दुःखभावने ॥ उ संबुद्धौ क्रुधि तपस्यू वाक्यारम्भरक्षयोः । ऋकारश्चापि ॠकारो द्वावेतौ वाक्यकृत्स्नयोः ॥ ए दुःखभावने कोपे प्रत्यक्षे संनिधावपि । ;l{2550} स्मृत्याह्वानामन्त्रणार्थेष्वै तु स्मृत्यादिषु त्रिषु ॥ ओंकारः स्यादनुमतौ परमात्मन्यनुक्रमे । ओऔशब्दावुभौ स्यातां संबुद्ध्याह्वानयोरपि ॥ चान्वाचये समाहारे मिथोयोगे समुच्चये । भेदेऽवधारणे तु स्याद्दुरशोभनदुःखयोः ॥ ;l{2555} निर्भर्त्सने कुत्सने धिङ्‌नि न्यग् भावनिकामयोः । नञीषदर्थे चाभावे तद्विरुद्धतदन्ययोः ॥ प्रश्ने विकल्पे नु स्विच्च निषेधे निश्चये च निः । स्म निषेधे स्मृतौ वृत्ते प्र प्राधर्म्यप्रकर्षयोः ॥ वै संबुद्धावनुनये वाक्यारम्भप्रसिद्धयोः । ;p{0137} ;l{2560} वि निषेधे पृथग्भावे वा विकल्पोपमानयोः ॥ स्वर्नाके परलोके च शं कल्याणे सुखेऽपि च । समभेदे समीचीने सु स्याच्छोभनपूजयोः ॥ ह संबुद्धौ प्रसिद्धौ च हा विषादशुगार्तिषु । हि हिंशब्दाववधृतौ हेतौ चाद्यो विशेषणे ॥ ;l{2565} हि विस्मये विषादे च हुं संप्रश्नवितर्कयोः । हूं भर्त्सनामन्त्रणयोर्हू स्याद्विस्मयहर्षयोः ॥ हे है व्यस्तौ समस्तौ च हूतिसंबोधनार्थयोः । हो हौ तथैव तु हि च स्माह वै पादपूरणे ॥ ;c{॥ इत्येकाक्षरनानार्थाव्ययाः ॥} ;v{द्व्यक्षरनानार्थाव्ययाः} सहैकवारे च सकृदङ्ग संबुद्धिहर्षयोः । ;l{2570} कच्चित् प्रश्ने कामवादे वार्तासंभावनार्थयोः ॥ पश्चात्प्रतीच्यां चरमे किं चारम्भविशेषयोः । सुष्ठु प्रशंसनेऽत्यर्थे बाढं त्वनुमते दृढे ॥ हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोः । स्वस्त्याशीःक्षेमनिष्पापपुण्यमङ्गलवाचकम् ॥ ;l{2575} बतानुकम्पासंतोषखेदामन्त्रणविस्मये । आनन्तर्ये परिप्रश्ने पञ्चम्यर्थे भवेत्ततः ॥ कुतस्तु स्यात्परिप्रश्ने पञ्चम्यर्थापलापयोः । आदिप्रकारसंपूर्तिहेतुप्रकरणेष्विति ॥ अति स्यादधिकार्थोक्तौ प्रशंसायामतिक्रमे । ;p{0138} ;l{2580} प्रति प्रतिनिधावित्थंभूताख्यानाभिमुख्ययोः ॥ वीप्सायां लक्षणे भागे प्रतिदानेऽवधारणे । उत प्रश्ने वितर्के स्यात्समुच्चयविकल्पयोः ॥ पीडेर्ष्यानुमतिष्वस्तु स्यादतो हेतुचित्रयोः । अथो अथेत्युभे प्रश्नविकल्पारम्भमङ्गले ॥ ;l{2585} आनन्तर्ये च कार्त्स्न्ये च मिथोन्योन्यं रहस्यपि । कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च ॥ सादृश्यार्थेऽनतिक्रान्तौ वीप्सायोग्यत्वयोर्यथा । समुच्चयेऽप्यनुज्ञायां साम्यनिश्चययोस्तथा ॥ वृथा निरर्थकाविध्योः प्रादुर्जन्मप्रकाशयोः । ;l{2590} सत्यप्रत्यक्षयोरद्धा स्यादत्यधिक ईश्वरे ॥ नन्वनुज्ञैतिह्यपृच्छानुनयेष्ववधारणे । आमन्त्रणे च नाना तु विनानेकोभयार्थकः ॥ हेतुसादृश्ययोः स्थाने मनाक् तु स्वल्पमन्दयोः । अनु हीने च सादृश्ये पश्चादर्थेऽप्यनुक्रमे ॥ ;l{2595} लक्षणादौ समीपेऽथ किंनु प्रश्नवितर्कयोः । पुनरप्रथमप्रश्ने भेदावृत्त्यवधारणे ॥ ;p{0139} शनैः शनैश्चरे स्वैरे नूनं निश्चयतर्कयोः । ;l{2597a} उप हीनान्तिकारम्भेष्वाचार्यकरणेऽधिके ॥ ;l{2597b} अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये । सामि त्वर्धे जुगुप्सायाममान्तिकसहार्थयोः ॥ नाम प्रकाशे कुत्सायां संभाव्येऽङ्गीकृतौ क्रुधि । ;l{2600} अपापकृष्टे त्यागे स्यादभि लिप्साभिमुख्ययोः ॥ किमु संभावनायां च स्याद्विकल्पविमर्शयोः । कामं प्रकामेऽनुमतौ प्रश्नानुनययोरपि ॥ अये विषादस्मरणक्रोधसंभ्रमवाचकः । परा निहीनेऽनावृत्तौ पुरोऽग्रे प्रथमेऽपि च ॥ ;l{2605} पुरा प्रबन्धे प्रतने निकटागाम्यतीतयोः । परि स्यात्सर्वतोभावे लक्षणादिषु भूषणे ॥ आलिङ्गने वर्जने चाप्याराद्दूरसमीपयोः । तिरोऽन्तर्धौ तिरश्चीने पृथगर्थेऽन्तिके हिरुक् ॥ ऊरर्युरी चोररी च विस्तारेऽङ्गीकृतौ त्रयः । ;l{2610} संभावनायां वार्तायां स्मृतावनुनये किल ॥ निषेधवाक्यालंकारजिज्ञासानुनये खलु । शक्तिभूषणपर्याप्तिवारणानर्थकेष्वलम् ॥ एवं साम्याभ्यनुज्ञानप्रकारार्थाभिधायकः । अव ज्ञानालम्बनयोरेव साम्येऽवधारणे ॥ ;l{2615} यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । ;p{0140} यद्वा प्रश्ने वितर्के च प्राध्वं नम्रानुकूलयोः ॥ भूयःसदार्थयोः शश्वत्प्रकर्षात्यर्थयोर्भृशम् । तूष्णीमर्थे सुखे जोषमह क्षेपनियोगयोः ॥ सह साकल्यसादृश्ययौगपद्यसमृद्धिषु । ;l{2620} अहो धिगर्थ आश्चर्ये विषादकरुणार्थयोः ॥ तर्हि प्रश्ने चोत्तरे च क्षणानुक्षणयोर्मुहुः । आहो उताहो इत्येतौ विचारप्रश्नयोरपि ॥ हाहा स्यादद्भुते खेदे हीही विस्मयहर्षयोः । तुल्यप्रत्यक्षयोः साक्षान्मङ्क्षु शीघ्रभृशार्थयोः ॥ ;c{॥ इति द्व्यक्षराव्ययपदानि ॥} ;v{त्र्यक्षरनानार्थाव्ययाः} ;l{2625} अभीक्ष्णमनिशे शीघ्रे मुहुरर्थप्रकर्षयोः । पुरस्तात्प्रथमेऽग्रे च पुरार्थे पूर्वदिश्यपि ॥ किमुतातिशयप्रश्नविकल्पेष्वथ सांप्रतम् । युक्तार्थे चाधुनार्थे चाप्यन्ततोऽवयवान्तयोः ॥ अग्रतः पुरतश्चेति द्वावेतौ प्रथमाग्रयोः । ;l{2630} साकल्यशीघ्रोभयतःसामीप्याभिमुखेऽभितः ॥ सपदि क्षिप्रसद्योर्थ इदानीं वाक्यभूषणे । संप्रत्यर्थे च समयाशब्दस्त्वन्तिकमध्ययोः ॥ प्रातः पूर्वेऽह्नि पूर्वेद्युरन्तरान्तिकमध्ययोः । ;p{0141} विनार्थे स्यादथोपांशु रहस्यश्रुतिजल्पने ॥ ;l{2635} अञ्जसा त्वरिते तत्त्वे सहसा शून्यहेतुके । सद्योऽर्थेऽप्यहह क्लेशहर्षानुशयवाचकः ॥ अहहा अद्भुते खेदेऽप्यथ ;c{॥ इति त्र्यक्षराव्ययपदानि ॥} ;v{चतुरक्षरनानार्थाव्ययाः} मध्येविनार्थयोः । अन्तरेणाथ संबुद्धिकृपाखेदेष्वहो बत । समन्ततः सर्वतोर्थे शोभनान्तसुखान्तयोः ॥ ;c{॥ इति चतुरक्षराव्ययपदानि ॥} ;l{2640} ;c{इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायामव्ययपदकाण्डोऽयं पूर्णो नानार्थरत्नमालायाम् ॥} ;c{॥ इति नानार्थरत्नमाला संपूर्णा ॥}