;METADATA ;title{नानार्थसङ्ग्रह} ;author{अजयपाल} ;bookFullName{Nānārthasaṇgraha of Ajayapāla} ;bookSeriesDetails{Madras University Sanskrit Series No. 10} ;editor{General Editor: Dr. C. Kunhan Raja; Editor: T. R. Chintamani} ;editorQualifications{T. R. Chintamani, M.A., Ph.D., Senior lecturer in Sanskrit, University of Madras} ;publisher{University of Madras} ;pressDetails{} ;publicationYear{1937 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{NSAP} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to do data entry and to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{none} ;version0.0.1{09 March 2019} ;version0.0.2{29 April 2019} ;version0.0.3{29 April 2019} ;version0.0.4{13 June 2019} ;version0.1.0{13 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{॥ श्रीः ॥} ;c{॥ नानार्थसङ्ग्रहः ॥} ;c{॥ अजयपालविरचितः ॥} ;preface{ जयन्ति शास्तुः पदपङ्कजाङ्कुराः नखांशवश्चन्द्रमरीचिकोमलाः । विनम्रदेवासुरमौलिषु श्रियं वहन्ति ये प्रस्फुटमालतीस्रजः ॥ १ ॥ वीक्ष्य पूर्वकविग्रन्थानकाराद्यादिभिः पदैः । क्रमादजयपालेन कृतो नानार्थसङ्ग्रहः ॥ २ ॥ सर्वत्रादावनेकार्थः प्रथमान्तोऽत्र दर्शितः । वर्तमानः सप्तम्यन्ते सप्तम्यन्तैरभेदिते ॥ ३ ॥ त्रिष्वेव बहुवचनं कृतं न चतुरादिषु । विना लिङ्गविशेषेण नैवात्र पुनरुक्तता ॥ ४ ॥ } ;k{अकारः} अमृतं हृद्ये पीयूषे यज्ञशेषेऽप्ययाचिते । मुक्तौ तोयेऽमृता धात्र्यां गुडूचीपथ्ययोरपि ॥ ५ ॥ अक्षो विभीतके नित्ये शकटव्यवहारयोः । रथस्यावयवे कर्षे पाशकेऽप्यक्षमिन्द्रिये ॥ ६ ॥ अरिष्टं सूतिकागारे मृत्युचिह्ने शुभेऽशुभे । तक्रेऽप्यरिष्टो लशुने काके फेनिलनिम्बयोः ॥ ७ ॥ अञ्जनं कज्जले दृष्टमञ्जनो दिग्गजान्तरे । गिरिभेदेऽञ्जनाम्बायां मारुतेश्च हलाहले ॥ ८ ॥ ;p{0002} अवहारो रणादीनां विश्रान्तौ ग्राहयादसि । निमन्त्रणोपनेतव्यद्रव्ये चौरे च भाषितः ॥ ९ ॥ अभिपन्नो विप्रकृष्टे स्वीकृतेऽभिद्रुते तथा । अपराध्येऽप्यभिग्रस्ते दक्षिणेऽपि प्रयुज्यते ॥ १० ॥ अनुबन्धो दोषोत्पादे प्रकृत्यादेर्विनश्वरे । प्रस्तुतस्यानुवृत्तौ च शिशौ श्रेष्ठानुयायिनि ॥ ११ ॥ अर्जुनी सौरभेय्यां स्यात् अर्जुनस्तु धनञ्जये । जनन्येकसुते शुक्ले तृणवृक्षप्रभेदयोः ॥ १२ ॥ अन्तरङ्गे च [अन्तरं भेदे] ताद स्थाने वा प्रे[बाह्य]क्षणेऽब्धिषु[ऽवधौ] । विनार्थे स्वीये स्वेऽन्तर्धौ वाक्य[वस्त्र]भेदेऽन्तमध्ययोः ॥ १३ ॥ अरुणोऽर्के सान्ध्यदीप्तौ रक्ते चानूरुपिङ्गयोः । अव्यक्तरागे निःसङ्गेऽप्यरुणातिविषौषधौ ॥ १४ ॥ अनन्तं खेऽनन्तो विष्णौ शेषेऽनन्ता मता भुवि । दुरालभायां दूर्वायाम् अपत्यं पुत्रधीदयोः [पुत्रकन्ययोः] ॥ १५ ॥ अर्थो धनेऽनुवृत्तौ च विषये हेतुवस्तुनोः । प्रयोजनेऽभिधेये स्यात् अवनं प्रीतिरक्षयोः ॥ १६ ॥ अजः पितामहे छागे केशवे च महेश्वरे । अथर्वाणिरथर्वज्ञे दृश्यते च पुरोहिते ॥ १७ ॥ अन्तशय्या श्मशाने स्यात् भूशय्यायामपि क्वचित् । अम्बरीशस्तैलिन्यां[स्तु राजन्ये] सूर्ये हयकिशोरके ॥ १८ ॥ ;p{0003} अभिशस्तिरभिशापे प्रार्थनायां च कीर्तिता । अनुभावो निश्चये स्यात् प्रभावे भावबोधके ॥ १९ ॥ आस्तेऽनुमतिरूनेन्दुपूर्णिमायां च सम्मतौ । अधिक्षिप्तः प्रणिहिते प्रेरिते[प्रेषिते] चैव भर्त्सिते ॥ २० ॥ अपाचीनं विपर्यस्तेऽप्यपागर्थे च कुत्रचित् । अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते ॥ २१ ॥ अनूचानो नयनम्रे षडङ्गश्रुतिवेदिनि । अर्को वृक्षान्तरे ज्येष्ठभ्रातरि स्फटिके रवौ ॥ २२ ॥ अयने दक्षिणोदीचीगतौ भानोस्तथा पथि । भवेदपचितिः पूजाव्ययहानिषु निष्कृतौ ॥ २३ ॥ अत्याहितं महाभीतौ जीवनापेक्षकर्मणि । अहिद्विड् गरुडे शक्रे मयूरे नकुले तथा ॥ २४ ॥ अनुकर्षो रथस्याधःकाष्ठेऽनुकर्षणेऽपि च । अघशब्दो भवेत्पापे दुःखव्यसनयोरपि ॥ २५ ॥ अवग्रहः प्रतिबन्धे वृष्टिरोघे गजालिके । अन्तः प्रान्ते स्वरूपे च समीपे निधनेऽपि च ॥ २६ ॥ अम्बरं वाससि व्योम्नि सुगन्धिद्रव्यभेदयोः । अभिजातो बुधे न्याय्ये समन्ताज्जातधन्ययोः ॥ २७ ॥ अभिषङ्गः स्यादाक्रोशे शापाभिभवयोरपि । अमरेन्द्रपुरीस्थूणागुडूचीष्वमरः सुरे ॥ २८ ॥ ;p{0004} अग्रमूर्ध्वे पुरः श्रेष्ठे परिमाणेऽधिकेऽपि च । अबलाख्या श्यालाकः स्त्री पूगरक्तमुखाम्भसोः ॥ २९ ॥ अभिख्या नाम्नि निर्दिष्टा शोभाविख्यातिकीर्तिषु । अवष्टम्भस्तु संरम्भे स्तम्भकाञ्चनयोरपि ॥ ३० ॥ अपवर्गः क्रियाशेषे साफल्यत्यागमुक्तिषु । अभिमानं वाग्विज्ञप्तौ गर्वे प्रणयहिंसयोः ॥ ३१ ॥ अवराङ्गे नतोद्गमाभाव द्रव्ये अ---म[?]तारयोः । अरुष्करं व्रणकृतिमतं भल्लातकेऽपि च ॥ ३२ ॥ अम्बष्ठा पृथ्व्यां पाठायां अम्बष्ठो वैद्यदेशयोः । अष्टापदं शातकुम्भे तथा शारिफले मतम् ॥ ३३ ॥ अत्ययः कृच्छ्रे विनाशे कथितो दोषदण्डयोः । अवधिः सीम्नि गर्ते च तथा कालावधानयोः ॥ ३४ ॥ अभिनिष्टान उद्दिष्टो विसर्जनीयवर्णयोः । अस्रः कोणे मूर्ध्निजे च अश्रुणि क्षतजेऽतथा ॥ ३५ ॥ अयनस्त्वृतुभेदे वै विपत्तौ व्यसनेऽपि च । पश्चात्तापेऽनुतापस्स्यादनुबन्धे मतोऽप्यसौ ॥ ३६ ॥ अरत्निः स्यात्सप्रकोष्ठकनिष्ठकरकीलयोः । अनीकस्थो नृपारक्षेऽयशिक्ष[हस्तिशिक्षा]विचक्षणे ॥ ३७ ॥ अभिहारोऽभियोगे च चौर्यसन्नाहयोरपि । अवतारणं भूताद्युपग्रहे वसनाञ्चले ॥ ३८ ॥ अवदानमतिवृत्ते खण्डने रक्षणेऽपि च । अङ्गजः सुतकन्दर्पशोणितेषु तथा रुजि ॥ ३९ ॥ ;p{0005} अजिरं विषये काये प्राङ्गणे दर्दुरेऽनिले । अभिनीतं न्याय्येऽपि स्यादमर्षवति संस्कृते ॥ ४० ॥ अध्यारूढमभ्यधिके समारूढेऽपि दृश्यते । भवेदभिमरो युद्धे स्वपक्षबलसाध्वसे ॥ ४१ ॥ अनुत्तरमवचने वाक्यभेदेऽपि दृश्यते । अङ्गे गात्रे तथोपायेऽप्यङ्गो देशेऽङ्गशालिनि ॥ ४२ ॥ भवेदभिषवः स्नाने बले च मद्यसंहतौ । अभिग्रहोऽभियोगे च समन्ताद्ग्रहणेऽपि चे ॥ ४३ ॥ अपाङ्गो नयनस्यान्ते तिलके चाङ्गहीनके । अंशुकं वसने सूक्ष्मे वस्त्रमात्रान्तरीययोः ॥ ४४ ॥ अनेडमूकशब्दोऽयं श्रुतिवाग्वर्जिते शठे । अवतारोऽवतरणे तीर्थे दूताद्युपग्रहे ॥ ४५ ॥ अन्तर्गतस्तु मध्ये विस्मृते प्राप्तेऽभिधेयवत् । अवध्वस्तो निन्दितेऽपि समुज्झितेऽवचूर्णिते ॥ ४६ ॥ भवेदवसितं ज्ञाते समाप्तिंगतवत्यपि । अन्तिकं सन्निधौ दृष्टमन्तिका चुल्लिकापि च ॥ ४७ ॥ अश्वीयमश्वसंघाते स्यादश्वानां तथा हिते । अपवर्जनं तु दाने च परित्यागेऽपि दृश्यते ॥ ४८ ॥ अधिष्ठानं रथस्याङ्गे तथा चागमनेऽपि च । अवगीतं तु निर्वादेऽनुक्तदृष्टेऽपि गर्हिते ॥ ४९ ॥ ;p{0006} अपभ्रंशोऽपशब्दे च भाषाभेदापवादयोः । अभिजनः स्यादभिख्याने जन्मभूमौ कुले तथा ॥ ५० ॥ अन्तावशायी चाण्डाले कथ्यते नापिते पुमान् । अनिमेषोऽनिमिषश्च पृथुरोमसुपर्वणोः ॥ ५१ ॥ अवतंसः स्यादापीडे तथा कर्णविभूषणे । अभयाख्या हरीतक्यामुशीरे भयवर्जिते ॥ ५२ ॥ अपह्नवो ह्नुतौ स्नेहेऽनीकः सैन्ये पुमानयम् । रणे दृष्टं द्युतावर्चिर्ज्वालेऽपि दृश्यते तथा ॥ ५३ ॥ अङ्कः क्रोडेऽन्तिके चिह्ने स्यादर्वा कुत्सिते हये । अहिभुक्तार्क्ष्यशिखिनोरभीषुः प्रग्रहे द्विषि ॥ ५४ ॥ अववादो विनिन्दायामवज्ञायां च दृश्यते । तरोर्मूलेऽप्यगाधोऽस्त्री तथा च श्लाघरन्ध्रयोः ॥ ५५ ॥ अतलस्पर्शने क्लीबमुक्तं बुधगणैरपि । अणुर्व्रीहिप्रभेदे च सूक्ष्मेऽहिर्वज्रसर्पयोः ॥ ५६ ॥ अध्यक्षसमक्षे मुक्तेऽवलेपो गर्भलेपयोः । अर्घ्यमर्घ्यार्थेऽर्घार्हे स्यान्मूल्येऽपि च बुधैर्मतः ॥ ५७ ॥ अवरोधो नीलोष्ठे स्यात् अव्यक्तश्चास्फुटात्मनोः । अभिमर्दो मृधे मर्दे अग्रजन्मा द्विजेऽग्रजे ॥ ५८ ॥ अणी रूप्येऽक्षकीलेऽश्रावन्वयोऽन्तकृते कुले । अण्डीरः पुंसि शक्ते स्यादर्घो मूल्ये च सत्कृतौ ॥ ५९ ॥ ;p{0007} अचलाचलौ भुव्यद्रावविर्मेषे गिरौ रवौ । अम्लिकाचिञ्चाचाङ्गार्योरभीकः कामुकेऽभये ॥ ६० ॥ अद्रिर्द्रुमे गिरावर्के अभ्रं मेधे विहायसि । अम्बिकोमामातृकयोरर्तिश्चापाग्रपीडयोः ॥ ६१ ॥ अकूपारो द्रुमे सिन्धावनीकं रणसैन्ययोः । अर्धं समांशेऽर्धः खण्डेऽप्यनलोऽग्नौ च चित्रके ॥ ६२ ॥ अम्बुजाख्या च निचुलेष्वब्जेऽप्यन्त्येऽधमेऽन्त्यजे । अधमो न्यूनेऽपि गर्ह्ये स्यादवटोऽपि निगद्यते ॥ ६३ ॥ प्रजापतिमयो गर्ते चानुमोदनभुक्तयोः । अनूकमन्वये शीलेऽप्यक्षरं ब्रह्मवर्णयोः ॥ ६४ ॥ अट्टः सद्मातिशययोरर्यस्तु प्रभुवैश्ययोः । अन्यः परस्मिन्निह च सदृशतेरस्मि[परस्मिन् सदशे] अशनिः पविबिद्युतोः । अवक्षरो गुह्ये गूथेऽर्दितः स्यात् प्रार्थिने हने ॥ ६५ ॥ अन्धं तमस्यन्धोऽनक्षेऽप्यलिर्वृश्चिकभृङ्गयोः । अयोगे विधुरे श्लेषे अलिशब्दः प्रकथ्यते ॥ ६६ ॥ अशिरस्को रुण्डे वांच्छौ[?]भिरूपो ज्ञरूपिणोः । अतोऽव्ययान्यपि प्रश्न शङ्कायां च समुच्चये ॥ ६७ ॥ संभावनायां गर्हायामन्तरेणान्तरा विना । अस्तु स्यादभ्यनुज्ञाने पीडेर्ष्ययोरपि स्मृतः ॥ ६८ ॥ ;p{0008} अलं भूषणसामर्थ्यपर्याप्तिष्ववधारणे । शीघ्रे कार्त्स्न्ये च अभितः समीप उभयोरपि ॥ ६९ ॥ अञ्जसा तु तथा तूर्णेऽप्यमा सह समीपयोः । अह द्रुते विनियोगेऽप्यहहाद्भुतखेदयोः ॥ अनु सादृश्येऽनन्तरेऽप्यधिः स्यादीश्वरेऽधिके ॥ ७० ॥ ;c{॥ इत्यकारः ॥} ;p{0009} ;k{आकारः} आशयो विभवाधारकिंपचानेषु चेतसि । अभिप्राये तथा जीर्णे कोष्ठागारे च सम्मतः ॥ १ ॥ आवेशनं स्यादावेशे शालायामपि शिल्पिनाम् । आर्तवं रजसि स्त्रीणां मृदूखे [ऋतूत्थे] च प्रकीर्तितम् ॥ २ ॥ आच्छादने संविधानवस्त्रवृतिषु दृश्यते । आकारो गोत्रविकृतावाह्वाने चाकृतौ तथा ॥ ३ ॥ आसुतीवलशब्दोऽयं कल्यपाले च यज्वनि । आधिर्व्यसनेऽधिष्ठाने मनःपीडे च बन्धके ॥ ४ ॥ आस्फोता विष्णुकान्तायां वनमाल्यर्कपर्णयोः । आश्रमो ब्रह्मचर्यादौ दृश्यते काननान्तरे ॥ ५ ॥ आनर्तो नृत्यशालायां जने जनपदान्तरे । आरोहः श्रोणौ द्रुमाङ्गे चोच्छ्राये हस्तिवाहयोः ॥ ६ ॥ आचितो भारदशके शकटोन्मेयवस्तुनि । आधारश्चाधिकरणेऽप्यालवालाम्बुधारयोः ॥ ७ ॥ आनद्धं कल्प[बद्ध]मात्रे च कथ्यते मुरजादिके । आयस्तः कुपिते क्षिप्ते ह्रेषिते विजिते तथा ॥ ८ ॥ भवेदकलनं बन्धे कलनायामपि स्मृतम् । आक्रन्दः क्रन्दनारावे भीमयुद्धे नृपे प्रभौ ॥ ९ ॥ ;p{0010} आत्मा बुद्धौ धृतौ शीले यत्ने हृद्ब्रह्मणोर्मुनौ । आतिथ्यमतिथेरर्थे स्यादातिथ्योऽतिथौ तथा ॥ १० ॥ आकर्षः पाशके द्यूते आकृष्टौ शारिपाठके[पट्टके] । आडम्बरः स्यादरम्भे हस्ते द्विरदगर्जिते ॥ ११ ॥ आहतं ताडिते ज्ञाते गुणितेऽनृतभाषिते । आशीरिष्टस्याशंसायां दंष्ट्रायामनिलाशिनाम् ॥ १२ ॥ आवापः स्यादालवाले प्रक्षेपे विप्रतिस्थले । आलीढं धनुषः स्थानं विशेषे स्वादिते तथा ॥ १३ ॥ आयोगो व्यापृतौ गन्धमाल्याद्युपहृतौ तथा । आस्थानं वाल आस्थाने प्रयत्ने च प्रयुज्यते ॥ १४ ॥ आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः । आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥ १५ ॥ आग्रहोऽनुग्रहे ख्यात असङ्गग्रहयोरपि । आसारः प्रसरे राज्ञो वेगिवर्षे सुहृद्बले ॥ १६ ॥ आयातिरागामिकाले दीर्घदृष्टिप्रभावयोः । आर्या च्छन्दसि दुर्गायामार्यः सुहृदि सङ्गते ॥ १७ ॥ आत्मनीनः सुते स्याले प्राणधारे विदूषके । आशितंभवः स्यात्तृप्तावोदनादौ च कथ्यते ॥ १८ ॥ आलानं करिणां स्तम्भे बन्धमात्रे च कीर्तितम् । आपन्नमाप्ते विपन्न आरम्भो वध उद्यमे ॥ १९ ॥ ;p{0011} आनकः पटहे भेर्यामाज्यं श्रीवाससर्पिषोः । आराधनं तोषणाप्स्योराप्तिः सम्बन्धलाभयोः ॥ २० ॥ आशा ककुभि तृष्णायामास्पदं पदकृत्ययोः । आलिः सेतौ सखीपङ्क्त्योयोरागमः शास्त्र आयतौ ॥ २१ ॥ आस्कन्दनं युध्यास्कन्दे आभीलं हृष्टभीष्मयोः । आपातः पाते तादथ्यें आगः पापापरावयोः ॥ २२ ॥ आप्लुतः स्नातके स्नाते आश्रयो विबुधे स्मरे । आमिषाख्योत्कोचे मांसे आजिर्युद्धे यमाबलौ[यमे बले] ॥ २३ ॥ आभोगो यत्ने पूर्णत्वे आदृतः सादरेऽर्जिते । आविद्धः कुटिले क्लिष्टे आकृतिर्देहरूपयोः ॥ २४ ॥ आलोको दर्शनोद्योतौ अकल्पो वेशकल्पयोः । आतङ्कस्तापे रुग्भीत्योराङभिव्याप्तिसीमयोः ॥ २५ ॥ क्रियायोगे ईषदर्थे आस्तापे क्रुधि चाव्ययम् । आराद्दूरे समीपे स्यादा तु स्मरणवाक्ययोः ॥ २६ ॥ ;c{॥ इत्याकारः ॥} ;p{0012} ;k{इकारः} इक्ष्वाकुः स्यात् कटुतुम्बीभूमिपालप्रभेदयोः । इन्द्राणी सिन्धुवारे तु शच्यां स्त्रीकरणान्तरे ॥ १ ॥ भवेदितिकथापार्थवचोऽश्रद्धेयवाक्ययोः । इरिणं निराश्रये भूभागे इरिणं कथितमूषरे ॥ २ ॥ इष्वाशो विशिखक्षेपे इष्वाशं धनुषि स्मृतम् । इला गवि च सौम्यस्त्रीभुवोर्वचनवारिणोः ॥ ३ ॥ ईष्टं यागे च दाने च वाञ्छिते च प्रयुज्यते । इरा वसुन्धरामद्यवचनेषु च वारिणि ॥ ४ ॥ इन्द्रियं हृषिके शुक्रे इन्द्रः पुरन्दरात्मनोः । इतरः पामरेऽन्यस्मिन् इज्या याजनपूजयोः ॥ ५ ॥ इनः प्रभौ दिवानाथे इष्टिरध्वरवाञ्छयोः । इति हेतौ प्रकारादौ समाप्तौ प्रक्रमेऽव्ययम् ॥ ६ ॥ ;c{॥ इतीकारः ॥} ;p{0013} ;k{ईकारः} ईहामृगो वृके रूपे ईहा तृप्ति[तृप्तौ] समुद्यमे । ईः स्वरेशौ प्रभौ रूढे ई दुःखे क्रुधि चाव्ययम् ॥ १ ॥ ;c{॥ इतीकारः ॥} ;p{0014} ;k{उकारः} उपकारश्चोपकृतौ प्रकीर्णकुसुमादिके । भवेदुपनिषद्धर्मे रहोवेदान्तयोरपि ॥ १ ॥ उदर्क उत्तरे काले तथोत्तरफले मतः । उन्माथः पाशयन्त्रे स्यात् वधे घाते च दृश्यते ॥ २ ॥ उर्वरा सर्वसस्याढया वसुधायां क्षितावपि । भवेदुल्लिखिताभिक्षासमुत्कीर्णे तनूकृते ॥ ३ ॥ स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमने मतम् । उत्थानमुद्गमे तन्त्रे पौरुषेऽङ्गन उद्यमे ॥ ४ ॥ उत्तरे श्रेष्ठे वाग्भेदे उदीच्योर्ध्वपरेषु च । उदारो महति ख्यातो दानशौण्डे च दक्षिणे ॥ ५ ॥ उपासनं शराभ्यासे शुश्रूषायां च दृश्यते । उपकुम्भं समीपे च निःशलाकेऽपि कीर्तितम् ॥ ६ ॥ उपागमोऽभ्युपगमे समीपगमने तथा । उदान उदरावर्ते वायुभेदे भुजङ्गमे ॥ ७ ॥ उत्तंसः कर्णपूरे तु शेखरेऽपि प्रकीर्तितः । उपाधिर्धर्मचिन्तायां कुटुम्बव्यामृतावपि ॥ ८ ॥ उद्यानं सङ्ग्रहे याने वनभेदे प्रयोजने । स्यादुद्धरणमुन्मूले संभुक्तोज्झित एव च ॥ ९ ॥ उत्थितं प्रोद्यते जाते वृद्धिमत्यपि दृश्यते । उदास्थितश्च रुग्भेदे प्रतीहारे च सम्मतः ॥ १० ॥ ;p{0015} उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । उग्रः स्यादुत्कटे क्षत्राच्छूद्रापुत्रे त्रिलोचने ॥ ११ ॥ उपग्रहो भवेद्वन्द्यामनुकूलित एव च । उपस्पर्शः स्नानाचान्त्योर्व्यवधिस्पर्शनेऽपि च ॥ १२ ॥ उचितो युक्तेऽनुमते निश्चिताभ्यस्तयोरपि । उपप्लवोऽध्यासे राहावुत्पाते च प्रयुज्यते ॥ १३ ॥ उपक्रमश्चिकित्सायामुपधारम्भयोरपि । उत्सवध्वनिरुत्सर्गे स्यादामर्षे क्षणेऽपि च ॥ १४ ॥ उपाहितो वह्न्युत्पाते दृश्यते निहतेऽपि च । उद्घातः पादस्खलिते क्षत्राङ्गे समुपक्रमे ॥ १५ ॥ उष्णीषं मूर्द्ध्न शिरोवेष्टने कथ्यते बुधैः । उपलब्धिर्भवेत्प्राप्तौ तथा ज्ञानमनीषयोः ॥ १६ ॥ उपनाहो वैरे स्यादुपाधि[व्रणालेपे वैरे] वीणानिबन्धने । उन्मत्त उन्मादवति धुस्तूरे च प्रकीर्तितः ॥ १७ ॥ उडुम्बरो द्रुदेहल्योरुदूढः पृथुलोढयोः । उषा निष्यव्यायान्ते [निशाया अन्ते] स्स्यात् उपोढो निकटोढयोः ॥ १८ ॥ उपरागः सङ्गे राहोरुदितं प्रोक्त उद्गते । उत्कलिकोत्कण्ठावीच्योरुपलः प्रस्तरे मणौ ॥ १९ ॥ उपधिर्व्याजे रथाङ्गे उरो वक्षसि सत्तमे । उत्कटः क्षीबोत्कटयोरुषः प्रत्यूषसन्ध्ययोः ॥ २० ॥ ;p{0016} उषितं व्युषिते दग्धे उदर्चिरुत्प्रभेऽनले । उत्सेध उन्नतौ काये उस्राख्या गवि दीधितौ ॥ २१ ॥ उद्धानमुद्गमे वृन्त्यां[?] उपस्थः क्रोडगुह्ययोः । उमातसीहैमवत्योरुडुपो भेलचन्द्रयोः ॥ २२ ॥ उपतापो गदे तापे उत्सर्गस्त्यागदानयोः । उररी चोररी चोरी विस्तारेऽङ्गीकृतेऽव्ययम् ॥ २३ ॥ उदक् काले देशदिशोरुदीच्ये स्यादनव्ययम् । उप हीनेऽधिके दृष्टमुत बाढविकल्पयोः ॥ २४ ॥ ;c{॥ इत्युकारः ॥} ;p{0017} ;k{ऊकारः} ऊर्णा स्यात् भ्रूमध्यलोम्नामावर्ते मेषलोमनि । ऊर्णायुरूर्णनाभे च मेषे च मेषकम्बले ॥ १ ॥ ऊर्जः कार्त्तिकमासेऽपि तथोत्साहेऽपि भाषितः । ऊर्मिर्वीचावुत्पीडायामूतिः स्मृतौ[स्यूतौ] च रक्षणे ॥ २ ॥ ;c{॥ इत्यूकारः ॥} ;p{0018} ;k{ऋकारः} ऋषभो वृषभे शृङ्ग्यां शब्दात् परोवरे स्वरे । कर्णरन्ध्रे नक्रपुच्छे ऋषिः स्यान्मुनिदेवयोः ॥ १ ॥ ऋक्षं नक्षत्रे ऋक्षः स्यात् भल्लूके शोणकद्रुमे । ऋतुः स्त्री पुष्पवर्षाद्योः ऋतं सत्ये शिलोञ्छयोः ॥ २ ॥ ;c{॥ इत्यृकारः ॥} ;p{0019} ;k{एकारः} एकाग्रमेकताने च स्यादनाकुल एव च । एकं श्रेष्ठाद्वयान्येषु एनः पापापराधयोः ॥ १ ॥ एतः कर्बुर आयाते एताभिधीयतेऽव्ययम् । एवं प्रकार औपम्ये एवौपम्येऽवधारणे ॥ २ ॥ ;c{॥ इत्येकारः ॥} ;p{0020} ;k{ऐकारः} ऐरावतो नागरङ्गेऽभ्रेभ ऐरावतं हरेः । दीर्घर्ज्वस्त्र ऐरावती विद्युद्भेदे च विद्युति ॥ १ ॥ ;c{॥ इत्यैकारः ॥} ;p{0021} ;k{ओकारः} ओजोऽवष्टम्भे हवने प्रकाशे द्विषि चेष्यते । ओघशब्दः समाख्यातः समूहजलवेगयोः ॥ १ ॥ ;c{॥ इत्योकारः ॥} ;p{0022} ;k{औकारः} औशीरश्चामरे दण्डे औशीरं स्वापपीठयोः । औडुम्बरं भवेत्ताम्रे फलादौ यज्ञशाखिनः ॥ १ ॥ ;c{॥ इत्यौकारादिः ॥} ;c{अजादिः समाप्तः} ;p{0023} ;k{ककारः} कृष्णो वर्णान्तरे ध्वाङ्क्षे विष्णौ व्यासे धनञ्जये । कृष्णा कलायां द्रौपद्यां कृष्णं मरिचलोहयोः ॥ १ ॥ कुमारो युवराजे तु शिशौ स्कन्देऽश्वदारके । वरुणे कुमारी बालाजम्बुद्वीपौषधीषु च ॥ २ ॥ कौतुकै विषयाभोगे मङ्गले च कुतूहले । विवाहसूत्रे विख्यातः क्वचित्कामेऽपि दृश्यते ॥ ३ ॥ कल्यं दिनमुखे सज्जे कल्यो दक्षे च नीरुजि । कल्या कल्याणभावायां मदिरायामपि क्वचित् ॥ ४ ॥ करणं कारणे काये साधनेन्द्रियकर्मसु । कायस्थे व्रतबन्धे च नृत्यगीतप्रभेदयोः ॥ ५ ॥ क्रिया कर्मणि पूजायां निष्कृतौ संप्रधारणे । आलम्बोपायशिक्षासु चिकित्सारम्भयोः कृतौ ॥ ६ ॥ काण्डं बाणाम्बुनालेषु रहोविटपयोः क्षणे । तरुशाखावधौ गर्ह्ये रत्ने स्कन्धे च शाखिनाम् ॥ ७ ॥ कूटो दम्भे समूहे च हलावयवयन्त्रयोः । आयोधनेऽद्रिशिखरे निश्चलेऽनृतमाययोः ॥ ८ ॥ कक्षो जन्तोरवयवे तृणकच्छलतासु च । कक्षा तु परिधानस्य पृष्ठतो विहिताञ्चले ॥ ९ ॥ ;p{0024} कालो मृत्यौ महाकाले समये यमकृष्णयोः । काली गौर्यां क्षारकीटे मातृभेदे नवाम्बुदे ॥ १० ॥ कला शिल्पे कालभेदे चन्द्रांशे कलनांशयोः । द्रव्यबुद्धौ कलो मृष्टमधुरध्वनिते तथा ॥ ११ ॥ कुहना दम्भचर्यायां मायायां कुहरस्तथा । कुहरं गह्वरे कर्णे कण्ठशब्दो गलेऽन्तिके ॥ १२ ॥ कामः काम्ये निकामे स्यादिच्छायामथ मन्मथे । कामं स्वीकरणेऽसंख्ये काव्याख्या ग्रन्थशुक्रयोः ॥ १३ ॥ कर्णिकाहस्तिहस्ताग्रेऽङ्गुलौ कर्णविभूषणे । सरोजबीजकोषे च कृती पण्डितयोग्ययोः ॥ १४ ॥ कोलं स्यादुदरे कोलो वृक्षभेदे फलध्वनौ । कटित्रं चर्मभेदे च वीक्षितं कटिचर्मणि ॥ १५ ॥ ककुभोऽर्जुनवृक्षे स्यात् कुशे वीणाप्रसेवके । कल्पो न्याये विधौ शास्त्रे संवर्ते ब्रह्मवासरे ॥ १६ ॥ काष्ठा काले प्रकर्षे च मर्यादायां दिशि स्मृता । कलापः सञ्चये बर्हे मेखलायां च दूनके ॥ १७ ॥ कटकं वलये पूर्यां नितम्बे पर्वतस्य च । कुशी फाले वल्लजायां कुशो दर्भे कुशं जले ॥ १८ ॥ क्रूरो भयंकरे दृष्टो नृशंसे कठिनेऽपि च । कटुस्तीक्ष्णे रसे गन्धे कट्वकार्ये तु मत्सरे ॥ १९ ॥ ;p{0025} कुशलं दीक्षिते क्षेमे समर्थे शिक्षिते स्मृतम् । केतनं च ध्वजे काये निमन्त्रणनिवासयोः ॥ २० ॥ ककुद्वत्ककुदं श्रेष्ठे वृषाङ्गे नृपलक्ष्मणि । कम्बलः प्रावरे भेदे सास्नायां कम्बलं जले ॥ २१ ॥ करो हस्तांशुशुण्डासु प्रत्यये च घनोपले । करहाटोऽब्जस्कन्दे स्यात् करहाटं प्रसूनके ॥ २२ ॥ कृत्यो विशुद्धिकार्ये च कृत्या क्रियादिवौकसः । कुलं सजातिसन्दोहे गोत्रे जनपदे गृहे ॥ २३ ॥ कम्पने वर्तने क्लृप्तौ कल्पना गजसजने । कर्कशः कापिल्लेपे[काम्पिल्यवृक्षे] साहसिकेऽभये दृढे ॥ २४ ॥ कौशिकः पेचके शके व्यालग्राहे च गुग्गुलौ । कायः कदैवते वृक्षे शरीरलक्षयोरपि ॥ २५ ॥ कुलायः पक्षिणां स्थाने तेषामेव च सद्मनि । कञ्चुको वारबाणे च निर्मोचे कवचेऽपि च ॥ २६ ॥ कुसुम्भो महारजने दृश्यतेऽथ कमण्डलौ । कूर्चः श्मश्रुणि दम्भे च भ्रुवोर्मध्ये विकत्थने ॥ २७ ॥ कणा मता तु पिप्पल्यां कणो धान्याङ्गलेशयोः । कौक्कुटिको दाम्भिके स्याद्दूरे प्रेरितचक्षुषि ॥ २८ ॥ कुकूलं शल्यगर्ते च कुकूलस्तु तुषानिले । कोणोऽसौ लगुडे दृष्टो वीणादेर्वादने तथा ॥ २९ ॥ कम्बुः शङ्खे च शम्बूके वलये च स्मृतः क्वचित् । कपोतः स्यात् पक्षिभेदे दृष्टः पारावते पुनः ॥ ३० ॥ ;p{0026} कल्कं पापाशये पापे दम्भे किट्टे च भाषितम् । कोष्ठः कुक्षौ कुसूले च मन्दिरावयवे निशि ॥ ३१ ॥ कूले तटे तडागे च स्तूपे सैन्यनितम्बयोः । कर्णान्दूरुत्क्षिप्तिकायां कर्णपाल्यामपि क्वचित् ॥ ३२ ॥ कुण्डली चित्रलमृगे सर्पकुण्डलधारिणोः । किल्बिषं दुरिते दृष्टं गरेऽपराध एव च ॥ ३३ ॥ कारिका विवृतिश्लोके वत[यात]नायां तथा कृतौ । कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ॥ ३४ ॥ कुम्भीलश्चौरे श्लोकादिछायायां शालमीनयोः । कुतपः कम्बले व्याले राज्यभेदे च बर्हिषि ॥ ३५ ॥ कण्टकः स्यादपाङ्गे च [स्यात्पादपाङ्ग] रोमाञ्चे क्षुद्रवैरिणि । केतुश्चिह्ने पताकायामुत्पातेऽपि प्रयुज्यते ॥ ३६ ॥ काचः शिक्येऽक्षिरोगे च मृद्विशेषेऽपि कीर्तितः । कुमुदं कैरवे ख्यातं कुमुदो दिग्गजे कपौ ॥ ३७ ॥ कोकनदस्तु रक्ताब्जे कथितं रक्तकैरवे । कृतान्तो दैवे सिद्धान्ते यमाकुशलकर्मणोः ॥ ३८ ॥ केवलं त्वेकके दृष्टं तथा कृत्स्नेऽवधारिते । करेणुः करिहस्तिन्योः कर्णिकारेऽपि दृश्यते ॥ ३९ ॥ क्रमुकः पट्टिकालोध्रे गुवाके ब्रह्मदारुणि । कोषः पेश्यां धने दिव्ये परिवारे च कुड्मले ॥ ४० ॥ कौलीनं स्यात् कुलीनत्वे प्राणिद्यूते जनोदिते । कार्मणं योगविद्यायां कर्मकारे कुपूरुषे ॥ ४१ ॥ ;p{0027} कीनाशः कर्षके दृष्टः कन्दर्पान्तकयोरपि । कान्ता स्त्रियां प्रियङ्गौ च कान्तः प्रियमनोज्ञयोः ॥ ४२ ॥ केशरो वकुले दृष्टः पुन्नागे नागकेसरे । कलिङ्गाख्या शक्रफले धूम्याटे तिक्तकेसरे ॥ ४३ ॥ किर्मी हाटकपुत्र्यां च शालापलालयोः[लाशयोः] क्वचित् । कुञ्जरा पाटलायां स्यात् धातक्यां कुञ्जरो गजे ॥ ४४ ॥ कुर्चिका तुलिकायां स्यात् शूचिपांगुडकेषु च[सूचिकाङ्कटयोरपि] । कक्ष्यापाल औपरिके शूरपाले च कीर्तितः ॥ ४५ ॥ कूपोऽन्धौ गुणवृक्षे च क्वचिद्गर्तेऽपि दृश्यते । कुल्याख्या जलप्रणालीसरितोः कुलजेऽस्थनि ॥ ४६ ॥ कलकण्ठः परपुष्टे दृश्यते कलवाचिनि । कौपीने त्वपकार्ये च गुह्यचीरे प्रभाषितम् ॥ ४७ ॥ कक्ष्या साम्ये गजरज्जौ मेखलायां प्रकोष्ठके । कमठः कच्छपे दृष्टो भाण्डभेदेऽपि कुत्रचित् ॥ ४८ ॥ काकाल्योषध्यां काकोलो द्रोणकाके विषान्तरे । कङ्कणं कथितं सूत्रे मण्डले करभूषणे ॥ ४९ ॥ कुषीदो जिगीषाशून्ये कुषीदं वृद्धिजीवने । कोटिरस्रौ प्रकर्षे च सङ्ख्याभेदेऽटनौ तथा ॥ ५० ॥ कीला कफोणिदेशेऽपि कोलः स्थाण्वर्चिषोरपि । कदली मृगभेदेऽपि पताकामोचयोरपि ॥ ५१ ॥ ;p{0028} कात्यायनी भवेद्गौर्यां भिक्षुकाधनयोषितोः । कामगुणः स्मृतो रागे विषयाभोगयोरपि ॥ ५२ ॥ कविर्विदुषि शुक्रे च स्यात्कवी तु खलीनके । किंशब्दः कथिते क्षेपे प्रश्ने कुत्सावितर्कयोः ॥ ५३ ॥ कनिष्ठश्च कनीयांश्च यून्यत्यल्पे च क्षुल्लके । करभः पाणेः कनिष्ठाया मणिबन्धान्तरुष्ट्रयोः ॥ ५४ ॥ कपाले मस्तकास्थ्नि स्यात् घटाद्यवयवे तथा । कुवलं कोले नीलाब्जे कलुषं पाप आविले ॥ ५५ ॥ केशवांश्च [केशटश्च] कणे विष्णौ कारणं हेतुघातयोः । कन्दलं करिणीवाल्यां कुलालं कुण्डशिक्ययोः ॥ ५६ ॥ कार्मुकं कमठे चापे केशवः केशिकृष्णयोः । करालो दन्तुरे तुङ्गे कान्तारं वनदुर्गयोः ॥ ५७ ॥ कितवो धूस्तूरे धूर्ते किष्कुर्वितस्तिहस्तयोः । क्लीबः क्षुद्रेऽलसे षण्डे कच्छपी त्वलिवीणयोः ॥ ५८ ॥ कर्षूर्नद्यां करीषाग्नौ केशरी सिंहवाजिनः । कृच्छ्रं प्रायश्चित्ते दुःखे कुजोऽङ्गारकभूरुहोः ॥ ५९ ॥ करजः करजे नखे कोकश्चक्राह्वये वृके । कञ्चुकी सर्पे स्थापत्ये कलङ्कोऽङ्कापवादयोः ॥ ६० ॥ ;p{0029} क्रन्दनं रोदने ह्वाने कदम्बः शरपक्षिणोः । कलत्रं जघने पत्न्यां कुञ्जो हनुनिकुञ्जयोः ॥ ६१ ॥ कलितं गृहीते ज्ञाते कर्बुरं हेमचित्रयोः । कैतवस्तु छले द्यूते कृष्टिर्विदुषि कर्षणे ॥ ६२ ॥ कृषकः कर्षके फाले करो नक्षत्रहस्तयोः । दिग्वस्तुनि तरौ वृन्दे कृपीटमुदरेऽम्भसि ॥ ६३ ॥ कृतं युगेऽपि पर्याप्ते क्रव्यान्मांसादरक्षसोः । कारुजः कलभे नाकौ कल्माषश्चित्रकृष्णयोः ॥ ६४ ॥ कन्दं मूले चार्शोघ्ने कृमिः स्यात् कीटलाक्षयोः । कुसुमं पुष्पे स्त्रीपुष्पे कौलेयकः श्वकुल्ययोः ॥ ६५ ॥ अतोऽव्ययानि कथ्यन्ते कु पापेऽल्पजुगुप्सयोः । किं प्रश्ने च जुगुप्सायां किमुत प्रश्नबाढयोः । कं शिरस्सुखतोयेषु किल संभाव्यवार्तयोः ॥ ६६ ॥ ;c{॥ इति कादिः ॥} ;p{0030} ;k{खकारः} खरस्तु गर्दभे तीक्ष्णे दुस्पर्शे राक्षसान्तरे । खलं भूस्थानकल्केषु खलस्तु क्रूरनीचयोः ॥ १ ॥ खनकश्चित्ततत्त्वज्ञे मूषिके चावदारके । खोलकः पाकभेदे तु पूगकोषशिरस्त्रयोः ॥ २ ॥ खिङ्खिकस्तु शिवाभेदे खट्वाङ्गे च खिखीरवे । खेटः कफे मृगव्ये च ग्रामभेदे च कुत्सिते ॥ ३ ॥ खटस्तु लाङ्गले कूपे खाते टङ्के च कत्तृणे । खाटिरेकग्रहे खर्वे किणे शवरथे तथा ॥ ४ ॥ खदिरी शाखभेदेऽपि खदिरो दन्तधावने । खेलिः काश्यां गीतस्तुतौ बाणार्कपक्षिजन्तुषु ॥ ५ ॥ पूराख्या पूगे वेष्टे खमाकाशे दिवीन्द्रिये । खड्गो गण्डके निस्त्रिंशे खर्जुरं फलरूप्ययोः ॥ खलु निषेधजिज्ञासावाक्यभूषासु सान्त्वने ॥ ६ ॥ ;c{॥ इति खकारः ॥} ;p{0031} ;k{गकारः} गोशब्दः कथितो बाणे वाचि दिग्वज्रयोर्जले । षण्डनेत्रमयूखेषु भूमौ स्वर्गे च दृश्यते ॥ १ ॥ गौरः कनकसंकाशे सिते शुद्धे च कीर्तितः । गौरी त्वष्टमवर्षीया [त्वष्टवर्ष]कन्या हिमालयतनूजयोः ॥ २ ॥ गुरुर्महति पित्रादौ दुर्जये सुरमन्त्रिणि । निषेकादिकरे चापि भवेल्लघुविपर्यये ॥ ३ ॥ गुणो मौर्व्यामप्रधाने सत्त्वादौ द्रव्यसंश्रिते । शुक्लादावपि सन्ध्यादौ स्तम्भे सौर्यादिसूदयोः ॥ ४ ॥ ग्रहणं स्यादुपालब्धौ चन्द्रसूर्यग्रहे तथा । स्वीकारादरवन्दीषु प्रत्यये ग्रहणी रुजि ॥ ५ ॥ गन्धर्वः पशुभेदे च गायने खचराश्वयोः । अन्तराभवसत्त्वे च ग्राहो ग्रहावहारयोः ॥ ६ ॥ गव्या गवां गणे गव्यं गोक्षीरादौ च गोहिते । रागवस्तुनि मौर्व्यां च गोधा तलनिहाकयोः ॥ ७ ॥ गुह्योऽस्वैरिणि पक्षे च गृहसक्तमृगाण्डजे । गृह्या शाखापुरे प्रोक्ता गुह्यं रह उपस्थयोः ॥ ८ ॥ गोपो गोष्ठनियुक्तेषु चलने ग्रामनिर्युते[?] । गोपी स्याच्छालिबायां तु गोपतिः षण्डसूर्ययोः ॥ ९ ॥ ;p{0032} गोत्रं कुले बले नाम्नि गोत्रस्तु धरणीधरे । गोत्रा भुवि गवां वृन्दे गृहं दारेषु वेश्मनि ॥ १० ॥ गात्रें गजाग्रजङ्घायामङ्गे वपुषि च स्मृतम् । गुच्छो हारप्रभेदे च कलापे स्तबके मतः ॥ ११ ॥ गर्भो भ्रूणे भवेत्कुक्षौ शिशौ पनसकण्टके । गन्धनं सूचनायां स्यादुत्साहे च प्रकाशने ॥ १२ ॥ ग्रामः पुरे जनावसे शब्दादिपूर्वको गणे । गन्धवहा तु नासायां गन्धवाहोऽनिले मृगे ॥ १३ ॥ गोपुरं पुरि पूर्द्वारि कैवर्तीमुस्तकेऽपि च । गन्धः सुगन्धिनि स्तोके सुरभौ घ्राणसङ्गते ॥ १४ ॥ गुल्मो घट्टेऽथ सेनायां विटपातङ्कभेदयोः । ग्रहो राहौ पूतनादौ निबन्धेऽर्कादिपात्रयोः ॥ १५ ॥ गणना रुजि विद्यायां खड्गे वटचतुष्टये । गञ्जः खनौ भाण्डगृहे गञ्जा तु मदिरालये ॥ १६ ॥ गणः सैन्यान्तरे वृन्दे संख्यायां प्रथमे बले । गोलको गुडके गोलो जारतो विधवासुते ॥ १७ ॥ गोरक्षजम्बुर्गोधूमे तथा गोरक्षतण्डुले । गोकर्णोऽनामिकाङ्गुष्ठमाने सर्पे मृगान्तरे ॥ १८ ॥ गोष्पदं तु गवां गम्ये गोपदेऽथ मिते तथा । गर्जितं मेघनिस्वाने गर्जितो मत्तदन्तिनि ॥ १९ ॥ ;p{0033} गुहः स्कन्दे गुहाज्ञायां पृश्निपर्ण्यां च गह्वरे । गण्डूषा मुखपूर्णे च गण्डूषः प्रसृतोन्मिते ॥ २० ॥ गतिर्वर्त्मनि यात्रायामुपायादेशयोरपि । अस्तं ग्रासीकृते दृष्टं विलुप्तपदवाचि च ॥ २१ ॥ गदोऽच्युतानुजे रोगे गदा शस्त्रान्तरे मता । ग्रामणीर्नापिते श्रेष्ठे भोगिकाधिपयोरपि ॥ २२ ॥ गुडा स्नुहीगुडिकयोः गुड ऐक्षवगोलयोः । गुञ्जा स्याद्वाद्यभाण्डे तु काकचिञ्च्यामपि क्वचित् ॥ २३ ॥ गिरिर्गैरेयके क्रीडागुडे शीर्णे महीधरे । गाण्डीवं गाण्डिवं चापि कोदण्डे पार्थधन्वनि ॥ २४ ॥ गणिका करिणीयूथ्योर्वेश्यायामग्निमन्थयोः । गेयो गते[गीते] विगातव्ये गरुत्मान् खगतार्क्ष्ययोः ॥ २५ ॥ गडुः कण्ठे गुडे कुञ्जे ग्रावा भूमिधराश्मनोः । गम्भीरो जम्बिरे बिम्बे[१] गाथा वाग्भेदपद्ययोः ॥ २६ ॥ गोप्यो दासीसुते रक्ष्ये गहनं गह्वरे वने । गोविन्दो विष्णौ गोऽध्यक्षे गाङ्गेयं हेमभीष्मयोः ॥ २७ ॥ गुन्द्राख्याब्दे शरे फल्यां गैरिकं धातुरुक्मयोः । गुणन्यभ्यासे तरुण्यङ्गे ग्रहराजोऽर्कचन्द्रयोः ॥ २८ ॥ ;p{0034} गोमुखं लेपने वाद्ये गह्वरं बिलदम्भयोः । गायत्री वृत्ते खदिरे गतं ज्ञाते गतौ तथा ॥ २९ ॥ ;c{॥ इति गकारः ॥} ;p{0035} ;k{घकारः} घनोऽब्दे दार्ढ्ये संघाते विस्तारे लोहमुद्भरे । मुस्ते घनं सान्द्रे वाद्ये घृतमिद्धेऽम्बुसर्पिषोः ॥ १ ॥ भवेद्धनरसो नीरे सान्द्रनिर्यासयोरपि । घर्घरिका वाद्यभेदे वादित्रे लगुडे तथा ॥ २ ॥ घनाघनो मत्तनागे वर्षुकाब्दमहेन्द्रयोः । घनसारस्तु कर्पूरे दक्षिणावर्तपारदे ॥ ३ ॥ घोषस्तु स्वरभेदे स्याद्गोपपल्लीनिनादयोः । घटा संघाघटनयोः करिसंघट्टनेऽपि सा ॥ घर्मः स्वेदोष्णयोर्ग्रीष्मे घृणा दयाजुगुप्सयोः ॥ ४ ॥ ;c{॥ इति घकारः ॥} ;p{0036} ;k{चकारः} चित्रा सुभद्राखुपर्ण्योः सरिन्नक्षत्रभेदयोः । गवाक्ष्यां चित्रतिलक आलेख्ये कर्बुरेऽद्भुते ॥ १ ॥ चक्रं सैन्ये रथाङ्गे च राष्ट्रे दम्भान्तरे तथा । आयुधे सलिलावर्ते चक्रो रथाङ्गनामनि ॥ २ ॥ चन्द्रं सुवर्णे कर्पूरे चन्द्रः काम्पिल्लसोमयोः । स्याद्बर्हिचन्द्रके काम्ये चेलं गर्हितवस्त्रयोः ॥ ३ ॥ चिलमीलिका तु खद्योते कण्ठीभेदे च विद्युति । चपलाख्या रसे लोले शीघ्रे चाप्यचिरद्युतौ ॥ ४ ॥ चमसः पर्पटे पात्रे पिष्टभेदे च लड्डुके । चिल्लन्तु सह चुल्लेन क्लिन्नाक्षे क्लिन्नलोचने ॥ ५ ॥ चैत्य उद्देशवृक्षे स्यात् चैत्यं चिह्ने जिनाण्डजे [जिनालये] । चटुश्चाटुनि विज्ञातः स्तुतावथ पिचिण्डके ॥ ६ ॥ चरणो वेदशाखादौ पादपादपमूलयोः । चलने भ्रमणे पादे दृष्टं वस्त्रान्तरेऽपि च ॥ ७ ॥ चतुरश्चक्रगण्डौ स्यात् दक्षे लोचनगोचरे । चतुष्की मशके हर्यां भवने यष्टिकान्तरे ॥ ८ ॥ ;p{0037} चामरपुष्पो माकन्दे काशकेतकयोरपि । चिरण्टी तु सुवासिन्यां यौवनान्वितयोषिति ॥ ९ ॥ चूर्णवाग्वासयोगे तु धूलिक्षारप्रभेदयोः । चन्द्रहासो रावणासौ खड्गमात्रे च दृश्यते ॥ १० ॥ चिपिटः पिष्टभेदे स्यात् तथा टिप्पितरि स्मृते [चिपिटकः स्मृतः] । चिकुरश्चञ्चले दृष्टः केशपादपभेदयोः ॥ ११ ॥ चर्चा देव्यां च चिन्तायां स्थासकेऽपि प्रकीर्तितः । चञ्चुः स्यात्त्रोटौ वेरण्डे चोक्षो गीतमनोज्ञयोः ॥ १२ ॥ चित्रभानू रवावग्नौ चक्री विष्णौ भुजङ्गमे । चित्रको भेषजे व्याघ्र चक्रपादो रथे गजे ॥ १३ ॥ चोद्यं चित्रे चोदनीये चारश्चरप्रवासयोः । चयो वृन्दे प्रबन्धे च चितिश्चित्यासमूहयोः ॥ १४ ॥ चूडा शिखायां वडभौ चरश्चारेऽथ चञ्चले । चर्म स्यात्त्वचि फलके चिह्नमङ्कपताकयोः ॥ १५ ॥ चराचरश्चरे लोके चरुर्हव्यान्नभाण्डयोः । अन्वाचये समाहारे चान्योन्यार्थे सुमुच्चये ॥ १६ ॥ ;c{॥ इति चकारः ॥} ;p{0038} ;k{छकारः} छत्रा मधुरिकायां स्यात् छत्रमातपवारणे । छाया पङ्क्तौ दीप्त्यभावे प्रतिमार्कस्त्रियोस्त्विषि ॥ १ ॥ छेको गृहासक्तपक्षिमृगयोर्नागरे तथा । छिकुरः पक्षिभेदेऽपि गृहबभ्रौ भुजङ्गमे ॥ २ ॥ छलं छद्मस्खलितयोश्छदनं पत्रपक्षयोः । छदो गरुति पत्रे च छन्दनं रहसि स्मृतम् ॥ ३ ॥ छन्दः श्रुतौ गायत्र्यादौ छद्म कैतवसाधने । छिद्रं स्याद्दूषणे गर्ते छन्दः स्यादाशये वशे ॥ ४ ॥ ;c{॥ इति छकारः ॥} ;p{0039} ;k{जकारः} जन्या नवोढाभृत्यादौ जामातुरपि वत्सले । जननीये जनितरि जन्यं कौलीनयुद्धयोः ॥ १ ॥ जगती पिष्टपे लोके पृथ्वीछन्दोविशेषयोः । जगतु जङ्गमे दृष्टं जिनोऽर्हति तथागते ॥ २ ॥ जीवको भैषज्यभेदे क्षपणे वृद्धिजीविनि । जन्तौ श्रेष्ठे पीतशाले जीवनं वर्तनाम्बुनोः ॥ ३ ॥ जीवातुः कथितो जीवे तथा जीवितभेषजे । जृम्भितं जृम्भणोत्फुल्लप्रवृद्धेषु विचेष्टिते ॥ ४ ॥ जीवो जन्तौ गुरौ जीवं प्राणे जीवा धनुर्गुणे । जिगीषाशब्द उद्दिष्टो व्यवसायजयेच्छयोः ॥ ५ ॥ जटा केशविकारे स्यान्मांसीपादपर्मूलयोः । जघनं तु कटीपूर्वभागे योषित्कटावपि ॥ ६ ॥ भवेज्जनपदो देशे जने च परिकीर्तितः । जयने तुरगादीनां सन्नाहे विजयेऽपि च ॥ ७ ॥ ज्योत्स्ना चन्द्रमसो भासि स्फुरज्ज्योतिर्निशि स्मृता । ज्योतिर्दीप्त्यग्नितारासु वेदाङ्गान्तरनेत्रयोः ॥ ८ ॥ जगलः पिष्टमद्ये स्यान्मोदके कितवे तथा । जैवातृकः सुधारश्मावायुष्मति कृषीवले ॥ ९ ॥ ;p{0040} जातिश्छन्दसि सामान्ये मालत्यां जन्मगोत्रयोः । ज्यायान् ज्येष्ठे चातिशये प्रशस्येऽतिजरत्यपि ॥ १० ॥ जालं कोरक आनाये दम्भे गवाक्षवृन्दयोः । जीवितेशो यमे ख्यातो वल्लभे च धनागमे ॥ ११ ॥ जम्भो दमे च जम्भीरे दैत्यदन्तप्रभेदयोः । जर्जरः कथितो जीर्णे शक्रध्वजे च कोकिले ॥ १२ ॥ जघन्यं गर्हिते पश्चात् जिष्णुः पार्थेन्द्रजेतृषु । जङ्गलं निर्जले मांसे ज्वलितं दग्धभास्वतोः ॥ १३ ॥ जठरं कठिने कुक्षौ जातं जन्मनि संभृतौ । जिह्मस्तु कुटिले मन्दे जामिः स्वसृकुलस्त्रियोः ॥ १४ ॥ जम्बुको वरुणे फेरौ जीमूतोऽब्दे नगान्तरे । जघन्यजोऽनुजे शूद्रे ज्या पृथिव्यां धनुर्गुणे ॥ १५ ॥ जया गौरीजयन्त्योश्च जवा पुष्पे जवा जपे । जम्बालः शैवले पङ्के जोषं तूष्णीं सुखेऽव्ययम् ॥ १६ ॥ ;c{॥ इति जकारः ॥} ;p{0041} ;k{झकारः} झल्लरिः केशचक्रे च शुद्धे क्लेदेऽपि दृश्यते । झिल्ली कीटान्तरे स्थालीलग्नदग्धान्धसि स्मृता । झषा नागवलायां स्यात् झषो मत्स्ये झषं खिले ॥ १ ॥ ;c{॥ इति झकारः ॥} ;p{0042} ;k{टकारः} टट्टरी वितथाख्याने लम्पापटहवाद्ययोः । टगरष्टङ्कणाक्षारे केकराक्षेऽपि स स्मृतः ॥ १ ॥ ;c{॥ इति टकारः ॥} ;p{0043} ;k{डकारः} डिग्भः शिशौ च मूर्खे च डिम्बः प्लीहनि विप्लवे ॥ १ ॥ ;c{॥ इति डकारः ॥} ;p{0044} ;k{तकारः} तलस्ताले चपेटे च तलं चाधःस्वरूपयोः । कार्यबीजे प्रकोष्ठे च ज्याघातवारणे मतः ॥ १ ॥ तारो गाढस्वने मुक्तशुद्धौ निर्मलमौक्तिके । तारं रूप्ये तार इव तारा च नेत्रमध्ययोः ॥ २ ॥ तालो गीतिक्रियामाने मध्यमाङ्गुष्ठनामिते । तृणराजे हस्ततले तालं तु हरितालके ॥ ३ ॥ तीर्थं क्षेत्रेऽध्वरे पात्रे शास्त्रे सलिलगोचरे । योषिद्रजस्युपाये स्यादुपाध्याये च मन्त्रिणि ॥ ४ ॥ तन्त्री वीणागुणे नाड्यां तन्त्रं द्व्यर्थे परिच्छदे । तन्तुवाये वरे जायौ सिद्धान्ते राष्ट्रवृद्धयोः ॥ ५ ॥ तरलो भास्वरे हारे हारमध्यमणौ चले । तरला सुरायवाग्वोस्त्रिदिवः खे सुरालये ॥ ६ ॥ तमोपहस्तमोनुच्च मार्तण्डे वह्निचन्द्रयोः । तृष्णातर्षतृषशब्दाः पिपासायामथेप्सिते ॥ ७ ॥ तपस्विनी जटामांस्यां तपस्वी तापसे मतः । तपो धर्मे व्रते चापि तपा माघे च दृश्यते ॥ ८ ॥ तुला पलशते माने सादृश्ये स्तम्भपीठके । तमो राहौ तमः शोके गुणभेदतमिस्रयोः ॥ ९ ॥ ;p{0045} तीक्ष्णं विषे रणे लोहे कथ्यते खरयोगिनोः । त्र्यङ्गटः शिक्यभेदेऽपि धौताञ्जन्यां च कुत्रचित् ॥ १० ॥ तालितं तौलितपटे वाद्यभाण्डे गुणे तथा । त्रुटिः कालप्रमाणे स्यादेलायां संशये लवे ॥ ११ ॥ तमिस्रा तामसीरात्रौ दृश्यते च तमस्ततौ । तल्पं कलत्रे शयने गृहभेदे च दर्शितम् ॥ १२ ॥ तातगुः क्षुद्रताते स्यात्तथा तातहिते मतः । तोक्ममभ्रे [तोक्मं यवे] हरिन्मात्रे कर्णयोर्मलकेऽपि च ॥ १३ ॥ तिलकं चित्रके क्लोन्नि जटुलद्रुमभेदयोः । ततं वीणादिवाद्ये स्याद्व्यासविस्तृतयोरपि ॥ १४ ॥ तितिलं नन्दके ज्ञातं करणे तिलपिच्चटे । तारलं तप्तमात्रे स्यात् तायनोऽपि व्रजे मतः ॥ १५ ॥ तिक्ता स्यात्कटुरोहिण्यां तिक्तस्तु सुरभौ रसे । तलिमं कुटिले तल्पे त्रपु रङ्गे च सीसके ॥ १६ ॥ त्रयी वेदे त्रिविद्यायां त्वक् चर्मणि प्रकथ्यते । तुङ्गो महति पुन्नागे तक्षकस्तक्षनागयोः ॥ १७ ॥ तरस्वी वेग अनिले त्याग उत्सर्गदानयोः । तृणता तृणचापे च त्रेता वह्नित्रये युगे ॥ १८ ॥ तरणिर्नौसहार्केषु तरुणं युवनव्ययोः । तोदनं व्यथने तोत्रे तलिने स्वच्छलेशयोः ॥ १९ ॥ ;p{0046} तुषोऽक्षधान्यत्वचोस्त्विट् कान्तौ च भासि च स्मृता । ताम्रं वर्णान्तरे शुद्धे तन्त्री निद्राप्रमीलयोः ॥ २० ॥ तेमनं व्यञ्जने क्लेदे तामो भीषणदोषयोः । तोकं स्यादात्मजे पुत्र्यां तुषारः शीकरे हिमे ॥ २१ ॥ तिष्यं नक्षत्रके मासे तार्क्ष्यः स्याद्गरुडाश्वयोः । तारा बले तथा वेगे तेजोंऽशौ बलशुक्रयोः ॥ २२ ॥ तावन्मानेऽवधौ कार्त्स्न्येऽवधारणे[..तथा]व्ययम् । तिरोऽन्तर्धौ तिर्यगर्थे तु स्याद्भेदेऽवधारणे ॥ २३ ॥ ;c{॥ इति तकारः ॥} ;p{0047} ;k{दकारः} दक्षिणा दानभेदे च दक्षिणो वामतोऽन्यतः । सरले दक्षिणोद्भूते परच्छन्दानुवर्तिनि ॥ १ ॥ दायः स्याद्धौतके द्रव्ये लयादिदानयोरपि । विभक्तव्यपितृद्रव्ये दृष्टः सोल्लुठभाषणे ॥ २ ॥ दृढं गाढे दृढः स्थूले दृढः स्याद्बलवत्यपि । द्वितीया कथ्यते पत्न्यां पूरण्यामपि च द्वयोः ॥ ३ ॥ दिग्धो विषाक्तविशिरवे लिप्ते स्नेहप्रबन्धयोः । दुग्धतालीयशब्दोऽयं दुग्धांशे दुग्धफेनके ॥ ४ ॥ दण्डो दमे च मन्थाने सेनायां लगुडे तथा । दशा वर्ताववस्थायां वसनान्तरचेतसोः ॥ ५ ॥ द्रोणोऽर्जुनगुरौ वृद्धे काकमनप्रभेदयोः । दशमीस्थो नष्टवीजे स्थविरे च स्मृताशने ॥ ६ ॥ दृग्दृष्टी दर्शने बुद्धौ लोचने दृक् च वीक्षके । दर्शनं स्वप्नधीज्यासु नेत्रशास्त्रोपलब्धिषु ॥ ७ ॥ दुरोदरं पणे द्यूते दुरोदरोऽक्षदेविनि । द्रविणं ह्यसुरद्रव्ये कथ्यते च पराक्रमे ॥ ८ ॥ द्रव्यं तु भेषजे भव्ये द्रविणे पित्तले तथा । दाक्षायणी स्मृता गौर्यामश्विनादौ प्रकथ्यते ॥ ९ ॥ ;p{0048} दिवाभीतो भवेच्चौरे पेचके कुमुदाकरे । दशनोच्छिष्ट उच्छ्राये चुम्बनाधरयोरपि ॥ १० ॥ दरो भये तथा गर्ते मनागर्थे दराव्ययम् । दिवाकीर्तिस्तु चण्डाले नापिते च प्रयुज्यते ॥ ११ ॥ दक्षस्तु निपुणे शंभुवृषे धातरि कुक्कुटे । दवदावौ वनाग्नै स्यात्कानने कथितः क्वचित् ॥ १२ ॥ दृष्टान्तशब्द उद्दिष्ट उदाहरणशास्त्रयोः । देवलं व्यवहारे च जिगीषाक्रीडयोरपि ॥ १३ ॥ दुन्दुभिः कथ्यते भेर्यामक्षबिन्दुत्रिकद्वये । दुर्जातं व्यसने दृष्टमसम्यग्जातस्तुनि ॥ १४ ॥ दर्शः पक्षान्तयोगे स्यात् दृष्टौ सूर्येन्दुसङ्गमे । द्वीपवती भवेन्नद्यां द्वीपवान् जलधौ नदे ॥ १५ ॥ दानं करिमदांहत्योः खण्डनावनशुद्धिषु । दुकूलं सूक्ष्मवसने क्षौमेऽपि परिकीर्तितम् ॥ १६ ॥ देवो राज्ञि सुरे देवी महिषीमूकयोरपि । द्वन्द्वं रहस्यमिथुनकलहेषु तथा युगे ॥ १७ ॥ द्योदिवौ नभसि स्वर्गे दमो दमनदण्डयोः । दायादस्तनये ज्ञातौ दीक्षा तु यजनेऽर्चने ॥ १८ ॥ दवो नर्मणि निर्यासे द्रुघणो मुकुरे विधौ । दिवौकाश्चातके देवे द्वापरः संशये युगे ॥ १९ ॥ द्विजो विप्रेऽण्डजे दन्ते द्युतिः कान्तित्विषोरपि । दस्युः शत्रौ च चौरे च द्रुतं शीघ्रविलीनयोः ॥ २० ॥ ;p{0049} द्रुमो वृक्षे पारिजाते द्विजिह्वो भुजगे खले । दुर्गतिर्नरके दुःखे दिष्टिरानन्दमानयोः ॥ २१ ॥ द्वारे तु द्वार्युपाये च दर्शको द्रष्टृद्वाःस्थयोः । दुर्वर्णं कुवर्णे रूपे दुर्विधौ भुजगे खेले ॥ २२ ॥ दलं पत्रे दलः खण्डे दिष्टाख्या विधिकोलयोः । दाला यानान्तरे नाल्यां दतोऽद्रिकटके वटे ॥ दीप्तं स्फुरत्प्रभे दग्धे दार्वेधोदेवदारुणोः ॥ २३ ॥ ;c{॥ इति दकारः ॥} ;p{0050} ;k{धकारः} धर्माख्या सोमपे न्याये यागाद्याधारकर्मसु । दयाहिंसास्वभावेषु सादृश्ये साधुसङ्गमे ॥ १ ॥ धातुः स्याद्रसरक्तादौ महाभूते च तद्गुणे । श्लेष्मादावश्मविकृतौ चक्षुरादौ च कीकसे ॥ २ ॥ ध्रुवं नित्ये शश्वत्तर्के ध्रुवश्च स्वान[स्थाणु]कीलयोः । निश्चितेऽपि ध्रुवा शालपर्ण्यां स्रग्गीतिभेदयोः ॥ ३ ॥ धावनी स्याद्धौताञ्जन्यां रजन्यां धावनं गतौ । शौचे शीघ्रगतौ चापि धनदो दातृयक्षयोः ॥ ४ ॥ धारा सन्ततौ सैन्याग्रे खड्वाङ्गे वाजिनां गतौ । धवली गोप्रभेदे च वरुणस्य फले तथा ॥ ५ ॥ धिष्ण्यं स्वाधा[स्थाना]ग्निदेहेषु नक्षत्रबलयोरपि । धनुः स्थलेऽथ कोदण्डे धन्वा तु मरुमण्डले ॥ ६ ॥ धराख्या कथिता भूमौ शैलकार्पासतूलयोः । धिषणः स्यात्सुराचार्ये धिषणा बुद्धिनिद्रयोः ॥ ७ ॥ धाम तेजसि गेहे च प्रभावजन्मनोरपि । धर्मराजो यमे बुद्धे कथ्यते च युधिष्ठिरे ॥ ८ ॥ धात्री त्वामलकीभूम्योरुपमातरि चेष्यते । धृतिः सौख्ये च धैर्ये च धारणे चाध्वरे स्थितौ ॥ ९ ॥ धवला गवि धवलश्चारौ शुभ्रे वृषे वरे । ध्वजो लिङ्गे पताकायां चिह्ने पूर्वदिशो गृहे ॥ १० ॥ ;p{0051} धने तु गोधने वित्ते धनञ्जयोऽग्निपार्थयोः । धीरः संख्यावति धैर्ययुक्ते च कथ्यते बुधैः ॥ ११ ॥ धूर्तः खले च धूस्तूरे धूतं त्यक्ते च कम्पिते । धमनी स्याच्छिवोषध्योर्धवो वृक्षे नवे प्रभौ ॥ १२ ॥ धेनुका धेनुहस्तिन्योर्धार्वाटश्चातके हये । धर्षणं रतातिभृत्योः ध्वाङ्क्षः काके बकेऽपि च ॥ १३ ॥ धाराङ्गमवतारेऽसौ धीदा सुताधियोरपि । धूमकेतुरुत्पातेऽग्नौ धिङ्निर्भर्त्सननिन्दयोः ॥ १४ ॥ ;c{॥ इति धकारः ॥} ;p{0052} ;k{नकारः} निष्कमष्टोत्तरस्वर्णशते हेम्नि च तत्पले । उरोविभूषणे कर्षे दीनारेऽपि प्रयुज्यते ॥ १ ॥ निस्सरणं भवेद्याने मारणे भवनिर्गतौ । उपाये निर्गमद्वारे नाकः स्वर्गान्तरिक्षयोः ॥ २ ॥ नागो गजे काद्रवये नागे सीसकरङ्गयोः । निर्देशो मूर्च्छने ख्यात उपभोगे च वेतने ॥ ३ ॥ नीवी जघनवस्त्रस्य ग्रन्थौ मूलधने तथा । नभाः प्रावृषि वृद्धे च श्रावणे च नभोऽम्बरे ॥ ४ ॥ निकायो लक्षसंघे च भूरिवस्तुचये गृहे । निगमो नगरे वेदे निश्चये च वणिक्पथे ॥ ५ ॥ निर्घटः परकौलीनप्रिये निर्दयभाषिणि । निर्वातो दृढसन्नाहे निवासे वातवर्जिते ॥ ६ ॥ निर्वृतिर्मनसस्तोषे मोक्षेऽस्तमयबाढयोः । नेत्रमङ्गे गुणे वस्त्रभेदेऽक्षिवृक्षमूल्योः ॥ ७ ॥ निर्यूहो नागदन्ते च निर्यासे द्वारि शेखरे । निष्क्रामो बुद्धिसामर्थ्ये निर्गमे दुष्कुले तथा ॥ ८ ॥ निर्भर्त्सनं खलीकारे दृष्टमेतदलक्तके । निह्नवस्त्वपलापे स्याद्विश्वासे निष्कृतावपि ॥ ९ ॥ ;p{0053} निशाचरी शिवासत्योर्निशाचरोऽहिरक्षसोः । निर्यातनं वैरशुद्धौ दाने न्यासार्पणे तथा ॥ १० ॥ निर्वासनं वधे दृष्टं नगरादेर्बहिष्कृतौ । नाशोऽनुपलम्भे दृष्टो निधने च पलायने ॥ ११ ॥ निर्देशः कथने दृष्ट आज्ञायां देशवर्जिते । न्युब्जं कर्मबद्धकाले न्युब्जोऽधोमुखकुब्जयोः ॥ १२ ॥ नाभीलं मेखलाबन्धे वरस्त्रीरक्षणेऽपि च । नियामकः पोतवाहे दृश्यते च नियन्तरि ॥ १३ ॥ नन्द्यावर्तो गेहभेदे तथा उपरि[तग]रपादपे । स्यान्नागराजिको राजहस्तिप्रासगणस्थयोः ॥ १४ ॥ नक्षत्रं मेघशीतांशौ रेवत्यामपि दृश्यते । निष्ठा नाशेऽन्तनिष्पत्त्योर्याच्ञानिर्वाहयोरपि ॥ १५ ॥ नासाद्वारोऽर्द्धकाष्ठे स्यान्नासिकायां च कीर्तिता । न्यूङ्खः सामवेदोङ्कारषट्के चात्यन्तसुन्दरे ॥ १६ ॥ निर्याणं हस्तिनेत्रान्ते निर्गमे मरणे तथा । नितम्बः स्त्रीकटीपश्चाद्देशे योषित्कटावपि ॥ १७ ॥ निह्नुतः स्याद्विप्रलब्धे तथा विप्रकृतेऽपि च । निरस्तं तु विरामे स्यात् तथा त्वरितभाषिते ॥ १८ ॥ नाभिः प्राण्यङ्गचक्रान्तक्षेत्रियेषु नृपोत्तमे । स्यान्निस्तरणमुपाये तरणेऽपि प्रयुज्यते ॥ १९ ॥ ;p{0054} निराकृतिर्नावाकार[तिरनध्याये] प्रत्यादेशेऽथ निर्जये । नाडी देहशिरायां स्यान्नालकालप्रभेदयोः ॥ २० ॥ भवेन्निरसनं घाते क्षेपणेऽपि प्रयुज्यते । निकारः स्यात्परिभवे धान्यस्थोत्क्षेपणे तथा ॥ २१ ॥ नियमो यन्त्रणायां तु व्रते संविदि निश्चये । निषधो देशेऽद्रिभेदे कठिने निषधाधिपे ॥ २२ ॥ निर्वाणं निवृतौ मोक्षे विनाशे गजमज्जने । न्यग्रोधस्तु वटे व्यासे न्यग्रोध्योषधिकान्तरे ॥ २३ ॥ निगद्यते निशमनमालोकने श्रुतावपि । निरूपणं विचारे तु दर्शनेऽपि प्रकीर्तितम् ॥ २४ ॥ नैगमः पौरवणिजे नग्नः क्षपणबन्दिनोः । नीलकण्ठः शिखिन्युग्रे नरेन्द्रो वार्तिके नृपे ॥ २५ ॥ निदेशः परिसंवादे निन्दापवादकुत्सयोः । निर्ग्रन्थः क्षपणे निःस्वे निःश्रेयसं शिवेऽमृते ॥ २६ ॥ नरः पार्थे मनुष्येषु[च] नालीकश्चाब्जबाणयोः । निसर्गश्च स्वभावेऽपि सृष्टानीकृशानु[सृष्टौ नीकाश]शोकयोः ॥ २७ ॥ निदाघः स्वेदोष्णोष्मेषु निग्रहो भर्त्सनेऽवधौ । निजं नित्ये तथात्मीये निशान्तं गृहशान्तयोः ॥ २८ ॥ नियतिः संयमे दैवे निबोधो बोधनाशयोः । निर्गुण्डीन्द्राणीशेफाल्योर्निस्त्रिंशः प्लवखड्गयोः ॥ २९ ॥ निह्नुतिस्तु शठे शाठ्ये निधनं वंशनाशयोः । निमित्तं कारणे चिह्ने न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ ३० ॥ ;p{0055} निषङ्गः सङ्गतौ तूणे निपाकः खेदपाकयोः । नलिनी पद्माकरेऽब्जे नतं बन्धनभुग्नयोः ॥ ३१ ॥ निभो व्याजे समाने च नगः पर्वतवृक्षयोः । नाम प्राकाश्यसंभाव्यकुत्सासु स्वीकृतेऽव्ययम् ॥ ३२ ॥ ननु प्रश्नेऽप्यनुज्ञायां संबुद्धाववधारणे । नु पृच्छायां विकल्पे नु नूनं निश्चिततर्कयोः । नानोभयस्मिन्नेकत्र निर्निश्चयनिषेधयोः ॥ ३३ ॥ ;c{॥ इति नकारः ॥} ;p{0056} ;k{पकारः} प्रत्ययः शपथे हेतौ ज्ञानाधीनगमादिषु । प्रथितत्वे च विश्वासे प्रख्याते परिकीर्तितः ॥ १ ॥ पद्मोऽम्बुजे च संख्याने नागे ना च प्रकीर्तितः । पद्म द्विरदवृन्दौ च पद्मा भोगश्रियोरपि ॥ २ ॥ परिग्रहः कलत्रे च मूलस्वीकारयोरपि । शपथे परिवारे च राहुवक्त्रस्थभास्करे ॥ ३ ॥ पदं भवेत् परित्राणे व्यवसायां[साये] च कीर्तितम् । वाक्ये वस्तुनि शब्दे च पताकश्चिह्नलक्षणम् ॥ ४ ॥ प्लवो भेके कूपे भेले गोनर्दे श्वपचे प्लुतौ । प्लवं निम्नमहीभागे पक्षिभेदे जनोत्तरे ॥ ५ ॥ भवेत्परिक वृन्दे परिवारविवेकयोः । प्रारम्भगात्रिकाबन्धपर्यङ्केषु परिच्छदे ॥ ६ ॥ प्रसवः शाखिनां पुष्पे फलेऽथ गर्भमोचने । परम्परा प्रसङ्गे च जननापत्ययोरपि ॥ ७ ॥ पणो विक्रय्यशाकादिमुष्टौ द्यूते भृतौ ग्रहे । व्यवहारे पुराणेऽर्थे मूल्ये गण्डकविंशतौ ॥ ८ ॥ ;p{0057} पक्षः सख्यौ बले साध्ये करिपार्श्वविरोधयोः । गरुत्सहाययोश्चुल्लीरन्ध्र केशात्परे चये ॥ ९ ॥ प्रतिग्रहः क्रियाकारे सैन्यपृष्ठे पतद्ग्रहे । द्विजदेयग्रहे तस्य स्वीकारे च प्रयुज्यते ॥ १० ॥ पुण्डरीकं सितच्छत्रे सिताम्भोजे च कीर्तितम् । पुण्डरीको व्याघ्रभेदे दिग्गजेक्षुप्रभेदयोः ॥ ११ ॥ पुष्करं हस्तिहस्ताग्रे तीर्थभेषजभेदयोः । व्योम्नि खड्गफले पद्मे तूर्यवक्त्रे जलेऽपि च ॥ १२ ॥ स्वभावे पङ्कजे चैव पौरामात्यादियोनिषु । सत्त्वरजस्तमःसाम्ये प्रत्ययात्प्रथमे तथा ॥ १३ ॥ पूर्णालकं पूर्णपात्रं वलयस्वीयकज्जितम् [बलेन स्वीयकं कृतम्] । यत्र तत्र यथासंख्ये पूर्णं पटहपात्रयोः ॥ १४ ॥ प्राक् प्रत्यग् द्वितये देशे दिशि कालेऽव्ययं स्मृतम् । प्राच्ये चैव प्रतीच्ये च वर्तमाने त्वनव्ययम् ॥ १५ ॥ पादोऽङ्घ्रौ च तुरीयांशे गिरेः प्रत्यन्तपर्वते । दीधितौ तरुमूले च पुराख्या गुग्गुलौ पुरि ॥ १६ ॥ पौरुषेयं भवेत्कार्ये पादान्तरेष्वपि कचित् । प्रदोषोऽपि निशाद्यायां कदाचिद्रात्रिमात्रके ॥ १७ ॥ ;p{0058} प्रभवो जन्महेतौ स्यात् पयोमूले पराक्रमे । आद्योपलवधायेष्टौ पचनं पाकडिम्बयोः ॥ १८ ॥ पक्ष्म सूत्रे च सूक्ष्मांशे नेत्रलोमनि वर्तते । दृष्टं पुष्पच्छदे चापि प्रतिबघा रोषघातयोः ॥ १९ ॥ प्रग्रहो भासि योक्त्रे च वन्द्यां च नियमे तथा । तुलासूत्रे सुवर्णालौ प्रतीकोऽङ्गप्रतीकयोः ॥ २० ॥ भवेत्प्रतिसरः सूत्रे व्रणशुद्धौ चमूकटौ । मण्डलारक्षयोः प्रैष्ये प्रकाशः स्फुटरोचिषोः ॥ २१ ॥ प्रमाणं कारणे माने शास्त्रे सम्यक्प्रवक्तरि । मर्यादायां तथा नित्ये पर्याख्या किंशुके दले ॥ २२ ॥ पालिः कर्णलतायां स्यात् प्रदेशे पङ्क्तिचिह्नयोः । दृष्टं श्वश्रु[दृष्टश्मश्रु]स्त्रियामसौ पर्यायेऽवसरे क्रमे ॥ २३ ॥ पर्व प्रतिपत्पक्षान्तसन्धौ विषुवदादिके । ग्रन्थिप्रस्तावयोश्चापि प्रीतिः प्रेमप्रमोदयोः ॥ २४ ॥ कुरङ्गे च प्रपौत्रे च तनयेऽपि निगद्यते । परम्परा सन्तानेऽपि पङ्कः पापे च कर्दमे ॥ २५ ॥ पाशः कर्णादिहेम्नि स्यात् समूहे केशपूर्वकः । खगादिबन्धने चापि प्रसूनं कुसुमे फले ॥ २६ ॥ परागः पुष्परेणौ स्यात् पानीयरजसोरपि । प्रतीतः प्रथितो दृष्टो हृष्टज्ञानमनीषिषु ॥ २७ ॥ ;p{0059} पौरुषं नृभुजोन्माने पुंसो भावे च कर्मणि । परिवेषो रवैर्बिभ्बे मण्डले[बिम्बमण्डले] वेष्टने तथा ॥ २८ ॥ पिप्पल्याख्या वृक्षभेदे वस्त्रच्छेदविशेषयोः । प्रकरः स्तबकपुष्पादौ [स्तबके पुष्पे] समूहेऽपि प्रयुज्यते ॥ २९ ॥ पाणिरुन्मत्तयोषायां सैन्यपृष्ठाङ्घ्रिमूलयोः । पिनाकः स्याद्रजोवर्षे शंभोधन्वनि शूलके ॥ ३० ॥ पाचनो रन्धनद्रव्ये पाचनं पचने मतम् । पातिनी रन्धनस्थाल्यांं वागुरायामपि क्वचित् ॥ ३१ ॥ पतङ्गः शलभे सूर्ये शालिभेदे च पक्षिणि । प्रसूतिः प्रसूते पुत्रे तनयायामपि स्मृता ॥ ३२ ॥ पवनं कुम्भकृत्पाकस्थाने स्यात्पवनोऽनिले । पक्षतिस्तु गरुन्मूले तथा प्रतिपदि स्मृता ॥ ३३ ॥ पर्याप्तं यथेष्टे शक्ते तृप्तौ निवारणे तथा । पटुस्तीक्ष्णे स्फुटे दक्षे पटोले निष्ठुरारुजोः ॥ ३४ ॥ परीष्टिः परिचर्यायां दृश्यते च गवेक्षणे । प्रदरो रोगभेदे स्याद्विदारे बाणभङ्गयोः ॥ ३५ ॥ पुलाकस्तुच्छधान्थे स्यात् संक्षेपे भक्तिसिक्थके[सक्थके] । पुलकिं चित्तवृत्ते च [?] पिशिते कर्दमान्तरे ॥ ३६ ॥ परिवारः परिजने दृष्टः खड्गपिधानके । पङ्को विनाशेऽभिमुखे जने परिणते तथा ॥ ३७ ॥ ;p{0060} पक्षचर एकचरे यूथभ्रष्टे विहङ्गमे । पादपः पादपीठेऽपि तरौ पादरथे तथा ॥ ३८ ॥ पीलुः पुष्पे गजे वृक्षे काण्डे तालास्थिखण्डके । प्रेतः परेते नामृते तथा भूतान्तरेऽपि च ॥ ३९ ॥ प्रतिश्रयः सभायां स्यादाश्रये मन्दिरेऽपि च । पिण्डमाजीवने देवे निवापे गोलके तथा ॥ ४० ॥ प्रायो मरणबाहुल्यतुल्येष्वनशनेऽपि च । परीबापो जनस्थाने स्थाप्ये बीजे परिच्छदे ॥ ४१ ॥ पल्लवो विस्तरे [विटपे] षिद्गे पात्रे किसलये तथा । परिधो मुद्रेऽस्त्रे च कथ्यते शूलघातयोः ॥ ४२ ॥ पुरस्कृतोऽभिशस्ते च पूजिते चाग्रतः कृते । प्रसिद्धः प्रजवख्यातकृतप्रसाधनेषु च ॥ ४३ ॥ प्रणीतः संस्कृताग्नौ स्याद्विहितेऽपि प्रवेशिते । पुलकः कृमिरोमाञ्चप्रस्तरेषु प्रयुज्यते ॥ ४४ ॥ पटलध्वनिः पिटके नेत्ररोगसमूहयोः । प्रियकः कदम्बफल्यां पीतशाले मृगान्तरे ॥ ४५ ॥ प्रकाण्डो विटपे शास्त्रे तरुशाखाशिफान्तरे । पृषच्च पृषतो बिन्दौ प्रायश्चित्रे प्रयुज्यते ॥ ४६ ॥ ;p{0061} प्रवणं क्रमनिम्ने च प्रह्वे चतुष्पथेऽपि च । प्रकोष्ठः कूर्परान्नीचे कक्षायामपि दृश्यते ॥ ४७ ॥ प्रघनोऽपि बहिर्द्वारेऽलिन्दके लोहमुद्गरे । पाटला गवि पुष्पे च पटलो व्रीहिवर्णयोः ॥ ४८ ॥ परिभाषणं च नियमे निन्दोपालम्भवाक्ययोः । प्रतिग्राहः[प्रग्राहस्तु] तुलासूत्रे रश्मावपि च वाजिनाम् ॥ ४९ ॥ पेचकः करिलाङ्गूलमूलकौशिकयोरपि । प्रतियत्नस्तु संस्कारे तथोपग्रहलिप्सयोः ॥ ५० ॥ पत्तिः सैन्यप्रभेदे स्यात् पदातौ गमने तथा । प्रणयः प्रेमविश्रम्भयाचनासु प्रकीर्तितः ॥ ५१ ॥ प्रथमं प्रमुखं चादौ प्रधाने परिकीर्तितम् । पारायणं भवेत् कार्त्स्न्ये समासङ्गेऽपि कीर्तितम् ॥ ५२ ॥ परिबर्हो नृपार्हे स्यात् दृश्यते च परिच्छदे । पार्श्वं चावयवे जन्तोर्वक्रोपाये च कीर्तितम् ॥ ५३ ॥ पराख्या केवले श्रेष्ठे रिपौ योग्ये स्वतोऽन्यतः । भवेत्प्रतिकृतिः ख्यातौ प्रतिमाप्रतिकारयोः ॥ ५४ ॥ अस्ति प्रतिहतो द्विष्टपुच्छि[प्रति]स्खलितयोरपि । भवेत्पिपलकं स्यूतिसूत्रे च स्तनचूचके ॥ ५५ ॥ पलाशाख्या हरिद्राक्षषटीषु [हरिद्रक्षःशटीषु] किंशुके कुले [दले] । भवेत्प्रणिहितं प्राप्ते न्यस्ते चापि ससंभृते ॥ ५६ ॥ प्लवङ्गमः प्लवङ्गश्च मतौ वानरभेकयोः । परमं स्वीकरेऽसंख्यं परमस्तु परेऽपि च ॥ ५७ ॥ ;p{0062} प्रतिमानं प्रतिमेभदन्तद्वितयमध्ययोः । भवेत्प्रवचनीयाख्या प्रवाक्ये च प्रवक्तरि ॥ ५८ ॥ प्रासादो विबुधावासे निवासे च महीभुजाम् । भवेत्प्रवचवादस्तु[वचनं वेदे]कल्याणभाषिते मतः ॥ ५९ ॥ पिण्याकः सिल्हके दृष्टस्तिलकल्के च कुत्रचित् । पराक्रमः समुद्योगे प्राणमात्रे च दृश्यते ॥ ६० ॥ पराभवः परिभवे नाशेऽपि परिकीर्तितः । प्रलयो मृत्युसंवर्तमूर्च्छासु परिकीर्तितः ॥ ६१ ॥ प्रणाय्यो लोभनिर्मुक्ते स्यादसम्मत एव च । भवेत्परिमलः ख्यातौ गन्धे जनमनोहरे ॥ ६२ ॥ प्रतिष्कषः सहाये च वार्ताहारे पुरोगमे । पिच्छलः[पित्सन्]पिपतिषन्नेतौ पतनेच्छुविहङ्गयोः ॥ ६३ ॥ पूर्वस्तु पूर्वपुरुषपुरस्तादग्रजेष्वपि । पिशुना मता स्पृक्कायां पिशुनः सूचके खले ॥ ६४ ॥ पुरस्तु गुग्गुलौ दृष्टः पुरं पूर्देहरश्मिषु । पवित्रं यज्ञोपवीते कुशे पूते च दृश्यते ॥ ६५ ॥ प्रतिपादने प्रतिपन्ने पिटो रोमपटे मृगे । पतिः प्रभौ गतौ मूले पारावतः खगे मृगे ॥ ६६ ॥ पुष्टो रोमणि पाषाणे पामरः खलनीचयोः । पारदः क्षपणीगुर्वोः पार्थिवो भुवने नृपे ॥ ६७ ॥ ;p{0063} प्रवेणी तु कुथे वेण्यां पुद्गलश्चात्मदेहयोः । प्रगाढे तु द्वये[दृढे] कृत्स्ने[कृच्छे] प्रवापो देहवेश्मनोः ॥ ६८ ॥ प्लक्षो जटयां गर्दभाण्डे पोतः शिशुवहित्रयोः । पद्धतिः पथि पङ्क्तौ स्यात् पूर्वश्च खण्डसाध्ययोः ॥ ६९ ॥ प्रतिष्ठा यशसि स्थाने पत्री श्येने खगे शरे । प्राणो वायौ वने जीवे पुङ्गवो वृषभे वरे ॥ ७० ॥ प्रज्ञः प्राज्ञे स्त्रियां बुद्धौ पिण्डितं गलिते घने । पृथग्जनोऽधमे मूर्र्खे पृथुकश्चिपिटेऽर्भके ॥ ७१ ॥ पुरुषो नाथतुङ्गेषु पटः प्रियालवस्त्रयोः । पयोधरः स्त्रीस्तनेऽब्दे पयः क्षीरे तथाम्भसि ॥ ७२ ॥ प्रयोजनं योगहेत्वोः प्रेम स्निग्धत्वनर्मणोः । पङ्क्तिः स्यात् गौरवे पाके प्रतिपत्तिथिसंविदोः ॥ ७३ ॥ प्रतीहारो द्वाःस्थद्वारोः प्रेक्षाधीनृत्यदर्शयोः । प्रस्थः सानुनि माने च प्रततिस्ततिवीरुधोः ॥ ७४ ॥ पत्रं पक्षे दले युग्ये प्रार्थितं याचिते हते । प्रपञ्चो बिस्तरे दम्भे पाताले क्ष्मातलौर्वयोः ॥ ७५ ॥ प्रकारो भेदसदृशोः प्रियङ्गुः कङ्कुवृक्षयोः । प्रभूतः क्षुण्णे व्युत्पन्न प्राप्तिर्लाभे तथोदये ॥ ७६ ॥ प्रविदारणं भिदाज्योः पीतिः पानतुरङ्गयोः । प्रज्ञानं धीलक्षणयोः पूगः क्रमुकवृन्दयोः ॥ ७७ ॥ प्रवृत्तिर्वृत्तौ वार्तायां पुरुषो मनुजात्मनोः । पुष्पं प्रसूनरजसोः पेशलश्चारुदक्षयोः ॥ ७८ ॥ ;p{0064} प्रोक्षणं तु वधे सेके प्रैष्यः प्रेषणपीडयोः । प्रसूरश्च जनन्योश्च प्रणिधिः प्रार्थने चरे ॥ ७९ ॥ प्रश्रयः प्रणये वेगे प्राप्तौ लब्धे जले कुशे । पिचिण्डः कुक्षौ पश्वङ्गे पौत्रं कौलाहलास्ययोः ॥ ८० ॥ पिल्लः क्लिन्नदृक्लिन्नाक्ष्णोः पुष्यो मासभयोः स्मृतैः । पलं माने च मांसे च पलाशी राक्षसे द्रुमे ॥ ८१ ॥ प्लक्षः पिप्पलपर्कट्योः पार्थिवो भूभवे नृपे । प्राप्तरूपोऽभिरूपे च पलिर्ग्रामनिवासयोः ॥ ८२ ॥ पर्युपोपर्युपर्यन्तः पूजा संमानलोकयोः । प्रत्याभिमुख्ये वीप्सायां लक्षणप्रतिदानयोः ॥ ८३ ॥ उग्रे हृतस्य [इतिवृत्तस्य] चाख्याने मात्रार्ये तुल्यभागयोः । पुरा प्रबन्धनिकटचिरन्तनेष्वनागते ॥ ८४ ॥ पूर्वेद्युः पूर्वदिवसप्रत्यूषयोरुदाहृतम् । पुरस्तात्प्रथमे प्राच्यां पुरार्थे च पुरस्तथा ॥ ८५ ॥ पुनरप्रथमे भेदे प्राक् तुल्येऽन्तरपूर्वयोः । पश्चात्प्रतीच्यां चरमे प्रादुः स्फुटे च संभवे ॥ ८६ ॥ ;c{॥ इति पकारः ॥} ;p{0065} ;k{फकारः} फलं लाभे फलोऽस्त्राङ्गे व्युष्टौ हेतूत्थसंपदोः । फली च फलके वृक्षे प्रियङ्गुमत्स्यभेदयोः ॥ १ ॥ फेनिलः फेनसंयुक्ते बदराविष्टयोरपि । फालः स्यात् कृषके फाले फल्गु मलप्वसारयोः ॥ २ ॥ ;c{॥ इति फकारः ॥} ;p{0066} ;k{बकारः} बलो रामेऽसुरे काके बला वाट्यालके बलम् । स्थौल्ये शक्तौ तथा रूपे पृतनायां बलान्विते ॥ १ ॥ बहुलः कृष्णपक्षेऽग्नौ मेचके बहुलं द्वयोः । बहुला त्रुटिमाहेयीकृत्तिकालु प्रकीर्तिता ॥ २ ॥ बलिः करे दैत्यभेदे पूजायां गृहदारुणि । जठरावयवे चापि जराशिथिलचर्मणि ॥ ३ ॥ बालिका वालुकायां तु कुमार्यां कर्णभूषणे । बालकं कटके दृष्टमङ्गुलीयेऽपि कुत्रचित् ॥ ४ ॥ बृत्तं छन्दसि वृतौ च निस्तलातीतयोरपि । दृढाधीतचरित्रेषु बल्लभोऽध्यक्षकान्तयोः ॥ ५ ॥ बडबा कुम्भदास्यां स्थादश्वायां योषिदन्तरे । बारवानिर्धर्माध्यक्षे भवेत्संवत्सरे क्वचित् ॥ ६ ॥ बाहुजः क्षत्रिये दृष्टो गृहाशक्तशुके क्वचित् । बभ्रुः स्यान्नकुले पिङ्गे विपुले गरुडध्वजे ॥ ७ ॥ बलजाख्या क्षेत्रे मत्स्ये पुरद्वारस्त्रियोर्मता । बन्धुलं बन्धुली नम्रे सुन्दरेऽपि प्रयुज्यते ॥ ८ ॥ बालिनी तु विदग्धायां नर्तकीमत्तयोषितोः । बिटपः पल्लवस्तम्बशालासु विटनायके ॥ ९ ॥ ;p{0067} बाल डिम्बार्भकेशेषु ह्रीबेरे श्वेतबालधौ । बाणो दानवभेदे तु शरे बाणं फलेऽपि च ॥ १० ॥ बलाकले विह्वले च मर्यादाम्बुविकारयोः । बृहती क्षुद्रवार्ताकीछन्दःक्षुद्राम्बरादिषु ॥ ११ ॥ बत्सं वक्षसि बत्सस्तु तन्तुशब्दसुतादिषु । बीभत्सो विकृते पापे क्रूरे पापिघृणात्मनोः ॥ १२ ॥ बराटकः सरोजस्य बीजकोषे कपर्दके । ब्रह्म बेदात्मतपःसु ब्रह्मा विप्रे प्रजापतौ ॥ १३ ॥ द्वादशाङ्गुले बितस्तिः स्यात् प्रशान्तेऽङ्कुशकर्मणि । बल्गुकं रुचिरे दृष्टं चन्दने विपिने पणे ॥ १४ ॥ ब्राह्मण्यं ब्रह्मणो भावे ब्रह्मविद्वेदवेत्तरि । मुखे चाभ्यवहारे च विप्रे च भाषिताप्तयोः ॥ १५ ॥ ;c{॥ इति बकारः ॥} ;p{0068} ;k{भकारः} भाण्डं मूलधने पात्रे भण्डवृत्तौ प्रकीर्तितम् । भिन्नं विदारिते दृष्टं व्यतिरिक्ते च मिश्रिते ॥ १ ॥ भुजिष्यः स्यादनायत्ते प्रेष्ये च हस्तघातयोः । भङ्गा गणशतने[क्षणतृणे] भङ्गो भेदे वीचौ पराजये ॥ २ ॥ भारः सहसद्वितये पलानां चापि वीवधे । भूजम्बूरपि गोधूमे वैकङ्कतफले तथा ॥ ३ ॥ भण्डनं कवचे युद्धे खलीकारे च दृश्यते । भेदो विदारणो दृष्ट उपजापविशेषयोः ॥ ४ ॥ भिक्षा सेवाप्रार्थनयोर्भृतौ भिक्षितवस्तुनि । भृङ्गमुक्तादिभृङ्गाश्च धूम्याटे षट्पदेऽपि च ॥ ५ ॥ भागधेयः करे भाग्ये दायादेऽपि च दृश्यते । भवो भद्राप्तिसत्तासु शिवसंस्कारजन्मसु ॥ ६ ॥ भोगवती तु नागानां नगर्यां च प्रकीर्तिता । रास्नायां भद्रवर्षे तु समाधौ च गजे शुभे ॥ ७ ॥ भूयोऽव्ययं पुनरर्थे भूयान् बहुतरे मतः । भव्यं योग्ये च कल्याणे भाविन्यपि श्रुतं क्वचित् ॥ ८ ॥ अङ्गः पराजये दम्भे गमने जलनिर्गमे । भीमो वृकोदरे शंभौ दृश्यते च भयानके ॥ ९ ॥ ;p{0069} भवेद् भोगवली गौर्यां भगवान् बुद्धपूज्ययोः । भूतिकं भूमिनिम्बे च यवान्यं च तृणे तथा ॥ १० ॥ भुवनं पिष्टपे तोये भ्रूणः स्त्रीगर्भपोतयोः । भेलो दिवाकरे चन्द्रे भुजङ्गं सिद्धसर्पयोः ॥ ११ ॥ भ्रातृव्यो भ्रातृजे शत्रौ भ्रमरोऽलिनि कामुके । भूतात्मा तु विधौ देहे भक्तिर्भावे च सेवने ॥ १२ ॥ भूमिर्भूश्च क्षितौ स्थाने भवोऽतिशयभावयोः । भीरुः शतावरी भीते भानुर्दिनकरे त्विषि ॥ १३ ॥ भागो भाग्य एकदेशे भेलः पर्वे च भीरुके । भित्तिः कुड्ये प्रदोषे च भूतिर्भस्मनि संपदि ॥ १४ ॥ भरणं वेतने भृत्ये भूभृद्भपालशैलयोः । भूमिस्पृग्वैश्यनरयोर्भर्ता स्वामिनि धारके ॥ भूरि प्राये सुवर्ण च भर्म चामीकरे भृतौ ॥ १५ ॥ ;c{॥ इति भकारः ॥} ;p{0070} ;k{मकारः} मध्यमा स्याद्दृष्टरजोनार्यां मध्याङ्गुलेऽपि च । मध्यमो हेतुमध्ये तु मध्यमाङ्गुलिगह्वरे ॥ १ ॥ मात्रा परिच्छदे माने तोके कर्णविभूषणे । अक्षरावयवे दध्ये[द्रव्ये] यात्रांशे कालभेदके ॥ २ ॥ मण्डलं ग्रामसन्दोहे प्रविधौ प्रतिबिम्बके । वृन्दे शुनि मृगे चापि बिम्बे द्वादशराजके ॥ ३ ॥ महावीरो मृगेन्द्रेऽपि तार्क्ष्ये शूरे मखाग्निषु । सुभटे वन्दिवरयोः श्वेताश्वे प्रवरे खगे ॥ ४ ॥ मत्सरः कृपणाढ्ये स्यात् परमे द्रोहकारिणि । महामुनिः कृपे काले मन्युर्दैन्ये क्रतौ क्रुधि ॥ ५ ॥ मधुर्दैत्यान्तरे चैत्रे मधुके सुरभौ मधु । क्षौद्रे पुष्परसे मद्ये मह उत्सवतेजसोः ॥ ६ ॥ मन्दो मूढे व रोगार्ते स्वैरे भाग्ये शनैश्चरे । प्रलये द्विपभेदे च मरुः शैले च धन्वनि ॥ ७ ॥ मणिर्दोले च मेढ्राङ्गे रत्ने चाजागलस्तने । मल्लिमत्स्यविशेषे च करङ्के च कपालके ॥ ८ ॥ मूर्धाभिषिक्तो राजन्ये प्रधाने पृथिवीपतौ । मन्थरः सूचके मन्दे तथा वैशाखकोपयोः ॥ ९ ॥ महामात्रः समृद्धे तु हस्त्यारोहाधिपेऽपि च । मौलिः संयतकेशे च चूडामुकुटयोरपि ॥ १० ॥ ;p{0071} माधवोऽपि वसन्ते च राधेये दृश्यते तथा । मदनाख्या स्मरे वृक्षे मधूच्छिष्टवसन्तयोः ॥ ११ ॥ मञ्जुलो रमणीये तु जलरङ्गविहङ्गमे । माणवको भवेद्बाले हारभेदे कुपूरुषे ॥ १२ ॥ मङ्गलं भविके दृष्टं तथा लब्धानुरक्षणे । महालयस्तु वीहारे वीक्षिते परमात्मनि ॥ १३ ॥ मागधी पिप्पलीशुण्ठ्योः वन्दियोषिति युज्यते । मृगः पशौ मार्गशीर्षे एणे यज्ञेभभेदयोः ॥ १४ ॥ मधुका मधुयष्टौ च मधुकः स्तुतिपाठके । माता तु गवि रेवत्यां सेनानीपितृयोषितोः ॥ १५ ॥ मिथुनं यूथदम्पत्योः मिथुन राशिभेदतः । मूलं निजे शिफायां स्यादृक्षभेदेऽपि सन्निधौ ॥ १६ ॥ माने प्रसूतिप्रस्थादौ मानश्चित्तसमुन्नतौ । मार्गो गवेषणे मासभेदे मृगपदाध्वनोः ॥ १७ ॥ भवेन्मदकलो मत्तद्विपे मदास्फुटोदिते । महासेनो बाहुलेये महासेनापतावपि ॥ १८ ॥ मेखला खड्गबन्धे स्यात् काञ्ची भूभृन्नितम्बयोः । मेचको विदितः कृष्णो बर्हिणां बर्हि बर्हिचन्द्रके ॥ १९ ॥ महिषी कृताभिषेकराजश्रीमहिषस्त्रियोः । महाकालः स्यात्किंपाके शङ्करे च मखान्तरे ॥ २० ॥ ;p{0072} मुखं मुख्ये च वक्त्रे स्यादादावुपाय एव च । मन्दारः पारिभद्रे स्यात् देवद्रुमार्कपर्णयोः ॥ २१ ॥ म्लिष्टं मानेऽप्यविस्पष्टे माःशब्दो मासचन्द्रयोः । मिषी शतपुष्पयोः स्यात् [मिसिर्मांसीशतपुष्प्योः] मरुद्वातदिवौकसोः ॥ २२ ॥ मर्यादा धारणासीम्नोः मातङ्गः श्वपचे द्विपे । मैथुनं रतिसङ्गे च मन्दिरं नगरे गृहे ॥ २३ ॥ मलयः शैलेऽप्यारामे मूर्च्छितो मूढवृद्धयोः । मूल्यं तु वेतने रम्ये मूर्तिः काठिन्यकाययोः ॥ २४ ॥ मृदुः स्यात् कोमलेऽतीक्ष्णे मृतं मृत्यौ च याचिते । मन्मथः कपिले कामे मार्गणो याचके शरे ॥ २५ ॥ मोचा शाल्मलिकदल्योः मधुरं स्वादरम्ययोः । मण्डो रसाग्र एरण्डे मध्ये नाभ्यवलग्नयोः ॥ २६ ॥ मोहस्तन्त्र्यामविद्यायां मूढस्तु तन्त्रिते जडे । मतिरार्ये च शाके च मयूखः करकीलयोः ॥ २७ ॥ माल्यं पुष्पे पुष्पदाम्नि मुण्डो मूर्धनि मुण्डिते । मोदको हर्षके खाद्ये महद्राज्यविशालयोः ॥ २८ ॥ मकराङ्कः स्मरे सिन्धावव्ययं स्यादतः परम् । मिथस्त्वन्योन्यरहसोः मुहुः स्याच्च क्षणे क्षणे ॥ २९ ॥ ;c{॥ इति मकारः ॥} ;p{0073} ;k{यकारः} युतकं यौतके युक्ते चलनाग्रे च संशये । स्त्रीणां वस्त्रान्तरे चैव युगले वसनाञ्चले ॥ १ ॥ योगो ध्याने जये लाभे युक्तौ विश्रब्धघातिनि । सङ्गे समुच्चये चापि युक्ते चैव गुरौ तथा ॥ २ ॥ योजनगन्धा तु वैदेहीकस्तूरीव्यासमातृषु । यातयामपदं जीर्णे परिभुक्तोज्झिते तथा ॥ ३ ॥ युगं युग्मे च सत्यादौ चतुर्हस्तरथाङ्गयोः । यमो नित्यशरीरार्थकृते यमजकालयोः ॥ ४ ॥ यष्टिः शस्त्रे मधूयष्ट्यां योनिराकरगुह्ययोः । यादःपतिः पाशिन्यब्धौ युतं युक्ते तथा पृथक् ॥ ५ ॥ याजनं वर्तने क्षेपे यन्ता हस्तिपयूथयोः । यागार्हे याजनीये च ययुरश्वमखाश्वयोः ॥ ६ ॥ यतिः करे तापसे च यक्षः श्रीदेवगुह्यके । योगाभ्यासे योगोऽयं यात्रा याचने च वर्तते[?] ॥ ७ ॥ यथाशब्दोऽव्ययं तुल्ये कथ्यते च निदर्शने । यावन्माने च साकल्ये सीमायां चावधारणे ॥ ८ ॥ ;c{॥ इति यकारः ॥} ;p{0074} ;k{रकारः} रूपं श्लोके ग्रन्थावृत्तौ नाटकादिस्वभावयोः । चक्षुर्ग्राह्ये पशौ शब्दे बालके सुन्दराकृतौ ॥ १ ॥ रामो दाशरथौ चारौ जामदग्न्ये हलायुधे । पशुभेदे सिते श्यामे रामा योषिति दृश्यते ॥ २ ॥ रसो वीर्ये द्रवे रागे शृङ्गारादौ च पारदे । तिक्तादौ देहधौते च विषस्वादे रसा भुवि ॥ ३ ॥ रथ्या पथि प्रतोल्यां च रथानामपि संहतौ । रथ्यं स्वस्मिद्रथस्येव [स्वांशे रथस्यैव] रथयो रथस्य वोढरि ॥ ४ ॥ रेवटः शूकरे रेणौ वातूलविषवैद्ययोः । रेवटं दक्षिणावर्तशङ्खेऽपि परिकीर्तितम् ॥ ५ ॥ रजतं धवले रूप्ये शोणिताह्रदहारयोः । रोहितो लोहिते मत्स्यभेदव्यक्तेन्द्रचापयोः ॥ ६ ॥ रङ्गो बुद्धे विरागे च खले रङ्गं त्रपुण्यपि । राका निशाकरे पूर्ण वीक्षितार्तवकल्पयोः ॥ ७ ॥ रुचिर्भास्यनुरागे स्यादतिष्वङ्गेऽपि कुत्रचित् । रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि संमतम् ॥ ८ ॥ राजा परिबृढे भूपे क्षत्रिये शशलाञ्छने । रजोऽयं रजसा सार्धं स्त्रीपुष्पगुणधूलिषु ॥ ९ ॥ रोचना रक्तकल्हारे गोपिण्डे वरयोषिति । रञ्जमाता तु कुट्टिन्यां लक्षायामपि दृश्यते ॥ १० ॥ ;p{0075} रसः केशरे वकुले नागपुष्पे च वेधके । राजिका पङ्क्तौ [च] राजसर्पयोरपि दृश्यते ॥ ११ ॥ रसनं निस्वने स्वादे रशना काञ्चिजिह्वयोः । रीतिर्दुग्धसुवर्णादिमले स्यात् पित्तले स्थितौ ॥ १२ ॥ रौहिषो लोहिततृणे मृगमत्स्यविशेषयोः । राजी वीथ्यां मृगे मत्स्ये पद्मे राजोपजीविनि ॥ १३ ॥ रागः केशादिके रक्तमात्सर्यलोहितादिषु । रौहिणेयः प्रलम्बघ्ने तन्तुके चन्द्रनन्दने ॥ १४ ॥ रोषणो रोषणे हेमघर्षणाश्मनि पारदे । रेवती गवि नक्षत्रे बलभद्रस्य योषिति ॥ १५ ॥ रोदसी रोदसा सार्धं पृथ्व्यां स्वर्गे दिवि क्षितौ । रतर्द्धिकं सुखस्नानदिनेऽष्टमङ्गले तथा ॥ १६ ॥ रूप्यं ताराहतं वणश्वेतयोः स्वप्तिरूपके । रश्मिर्भासि च रज्जौ च राशिर्मेषादिपुञ्जयोः ॥ १७ ॥ रथः स्यात्स्यन्दने नीरे रिष्टं स्यादशुभैनसोः । रुजा रोगे तथा भङ्गे रत्नं मणिप्रकोष्ठयोः ॥ १८ ॥ रम्भा कदल्यप्सरसो रणः संग्रामशब्दयोः । रहस्तु मैथुने गुह्ये रती रागस्मरस्त्रियोः ॥ १९ ॥ ;p{0076} रैशब्दो विभवे हेम्नि रोदने क्रन्दनाश्रुणोः । रोहिणी स्वरभावृक्षे राष्ट्रमुत्पातदेशयोः ॥ २० ॥ रदो दन्ते विलेखे च रभसो वेगहर्षयोः । रोकं रन्ध्रे रोको भासि रूक्षोऽस्निग्धे च निष्ठुरे । कुङ्कुमे चारुणो रक्तं रन्ध्रं दूषणगर्तयोः ॥ २१ ॥ ;c{॥ इति रकारः ॥} ;p{0077} ;k{लकारः} ललाम च ललामं च भूषावालधिवाजिषु । चिह्ने स्वभावपुण्ड्रेषु प्रधाने ध्वजशृङ्गयोः ॥ १ ॥ लोचको मांसपिण्डे स्यात् लीली रक्तांशुके तथा । भुवोश्चर्मणि निर्बुद्धौ लीलः कङ्खिनि चञ्चले ॥ २ ॥ लिङ्गं शेफसि चिह्ने च संख्योक्तप्रकृतावपि । लघुर्देव्यां लघ्वसारे दृष्टमगुरुशीघ्रयोः ॥ ३ ॥ लालाटिकः क्रियालस्ये प्रभुभावनिदर्शिनि । लक्षश्छद्मनि लक्षं च संख्याभेदशरव्ययोः ॥ ४ ॥ लेखः स्याद्देवते लेख्ये लेखा स्याद्राजिरेखयोः । लता वल्ल्यां शाखाकल्योः पूपिण्यामाधवीषु [?] च ॥ ५ ॥ लेपः स्याल्लेपने जग्धौ लङ्का पूर्भेदशाखयोः । लौहित्ये व्रीहिनदयोर्लुब्धौ व्याधसतृष्णयोः ॥ ६ ॥ लीला विलासक्रीडयोः लक्ष्मीपुत्रो हयाढ्ययोः । लक्षं युक्ते च लब्धव्ये लक्ष्म चिह्नप्रधानयोः ॥ ७ ॥ लक्षणं नाम्नि चिह्ने च लालाकं मुखरेऽपि च [?] । लोको जने पिष्टपे च नवश्छेदनलेशयोः ॥ ८ ॥ लग्नं राश्युदये युक्ते लक्ष्मीपतिर्हरौ नृपे । लक्ष्मी श्रीशोभासंपत्सु लोहितं कुङ्कुमासृजोः । लूता पिपलिकोर्णाय्वोः लालसौत्सुक्ययाच्ञयोः ॥ ९ ॥ ;c{॥ इति लकारः ॥} ;p{0078} ;k{वकारः} वार्ता वातिङ्गणोदन्तकृष्यादिषु च वर्तने । वार्तमारोग्यनिःसारवृत्तिशालिषु नीरुजि ॥ १ ॥ वर्णो यशसि विप्रादौ गुणाक्षारकुथासु च । शुक्लादिस्तुतिभेदेषु चित्रे रूप्ये विलेपने ॥ २ ॥ वरो जामातरि श्रेष्ठे दैवादेवाञ्छिते [दैवताद्वाञ्छिते] वृतौ । वरी मता शतावर्यां वरमल्पेप्सितेऽव्ययम् ॥ ३ ॥ वशागन्ध्या गरीमुख्योः करिणीयोषितोरपि । वशः प्रवेश आयातु [१] अभिलाषे च कथ्यते ॥ ४ ॥ विषयीध्वनिरुद्दिष्टो वैषायिकजने नृपे । इन्द्रिये कामदेवे च विषयासक्तपूरुषे ॥ ५ ॥ विधानं कविकरणे विधावभ्यर्चने धने । वेदनायामुपाये च कथ्यते वैरभेदयोः ॥ ६ ॥ वृषा मूषिकपर्ण्यां तु वृषः स्याद्वृषभौषधौ । धर्मप्रभेदराश्योश्च श्रेष्ठाम्बु[?]गोस्वशुक्रले [वासशुक्रले] ॥ ७ ॥ व्यसनं पापरागादिदैवारिष्टफलेषु च । विपत्तारः शुभे शक्तौ विधुः केशवचन्द्रयोः ॥ ८ ॥ विनीतो वाणिजे क्षिप्ते निभृते विजितेन्द्रिये । विनयं चापि दृष्टं च वृष्णिर्यादवमेषयोः ॥ ९ ॥ ;p{0079} वसुर्याक्त्रेऽग्नौ शुक्षेंऽशौ शिवमाल्यां स्वरान्तरे । वसू रत्ने धने स्वादौ जीववाशाश्मपक्षिषु ॥ १० ॥ विशिखा तु खनित्रे स्यात् प्रतोल्यां विशिखः शरे । विद्धं सूच्यादिनिम्ने स्यात् सादृश्ये ताडिते तथा ॥ ११ ॥ विहारः स्वगतावासक्रीडापरिभ्रमेषु[क्रमेषु] च । वर्वरः केशविन्यासे पारसीकजनेऽधमे ॥ १२ ॥ स्याद्द्व्यतिकरशब्दोऽयं व्यसनव्यतिषङ्गयोः । विवेकः सलिलद्रोण्यां पृथग्भावविचारयोः ॥ १३ ॥ विषयो गोचरे देशे रूपादौ नित्यसेविते । वितानः शुड[तुच्छ] उल्लोचे यागे विस्तारमन्दयोः ॥ १४ ॥ वर्ष्म देहे प्रमाणे च दृश्यते सुन्दराकृतौ । वामं सव्ये प्रतीपे च चारौ वामा च योषिति ॥ १५ ॥ विमानं देवतायाने सप्तभौमगृहे तथा । व्युत्थानं स्वातन्त्र्ये हृद्ये विरोधाचरणेऽपि च ॥ १६ ॥ वेकटः स्याद्विकटिके मत्स्यभेदे चमूनि च । वीवधो विवधः पाण्या पर्याहरेऽध्वभारयोः ॥ १७ ॥ विधिर्दैवे विधाने च काले धातरि चेष्यते । विष्टरः पादपे पीठे कुशमुष्टौ च दृश्यते ॥ १८ ॥ वप्रो रोधसि केदारे प्राकारे पितरि स्थितः । वेगः प्रवाहकिंपाकरेतस्सु कथितो जवे ॥ १९ ॥ वाहस्तुरङ्गमे याने वृषो वाहभुजेऽपि च । व्यलीकपीडनाकार्यविलक्षेषु च विप्रिये ॥ २० ॥ ;p{0080} विग्रहो विस्तरे युद्धे वाक्यभेदे कलेबरे । वरचन्दनं कालीये देवदारुमहीरुहे ॥ २१ ॥ वारि नीरेऽथ वा विन्दुकलसी कविवन्दयोः[?] । वालं कटे शतपले शुष्के सेचनकर्मणि ॥ २२ ॥ वीथिर्वर्त्मालिगेहाङ्गे पङ्क्तिरूपकयोरपि । वि[धुः] चन्द्रे चतूरङ्गे पाशके समुदाहृतः ॥ २३ ॥ विविक्तं स्यादसंबाधे पवित्रे विजनेऽपि च । विषाणं करिणां दन्ते पशुशृङ्गेऽपि कीर्तितम् ॥ २४ ॥ विलेपनं यवागु [यवाग्वायां] चारुभूषणयोरपि । व्यञ्जनं तेमने श्मश्रुचिह्नेष्ववयवेऽपि च ॥ २५ ॥ वर्तनं तर्करीपिण्डे जीवने वामने तथा । विश्वकर्मा दिवानाथे देवानामपि शिल्पिनि ॥ २६ ॥ भवेद्विहननं घाते वधे विघटने तथा । विस्रम्भः स्यात्परिचये विश्वासविप्रलम्भयोः ॥ २७ ॥ वेष्टनं मुकुटोष्णीषवाटेषु परिभाषितम् । वर्षाः प्रावृषि वर्षं तु लोकधाधाब्द[लोकद्वीपाब्द]वृष्टिषु ॥ २८ ॥ विम्बं तु प्रतिबिम्बे स्थान्मण्डले बिम्बिकाफले । वृजिनः कथितः केशे वृजिनं भुग्ने किल्विषे ॥ २९ ॥ व्याघ्रौषध्यां व्याघ्रः पशौ राजादिपूर्वको वरे । विनायको विघ्नराजे तथा देशबलेऽपि च ॥ ३० ॥ वृत्तान्तो विशेषे कार्त्स्न्ये वार्ता प्राक्तनयोरपि । वयस्था त्वभयाधात्र्योर्वयस्थो---वनच्ययोः[?] ॥ ३१ ॥ वयः पक्षिणि धान्यादौ दृश्यते यौवनेऽपि च । विपणिः पण्यवीथ्यां तु वीक्षि----[ते क्व]चिदापणे ॥ ३२ ॥ ;p{0081} वाच्ययुक्त वदे [वाच्योऽयुक्ते पदे ?] वाच्या हे सिते [वाच्यं हीने च कुत्सिते] । वार्धकं स्याद्वृद्धकार्ये वृद्धत्वे वृद्धसंहतौ ॥ ३३ ॥ विहायस्तु मतं व्योम्नि विहायश्चापि पक्षिणि । विधा विधाने हस्त्यन्ने प्रकारे वेतनर्द्धिषु ॥ ३४ ॥ विष्टिः कर्मकरे तस्य मूल्ये करणकर्मणाम् । भवेद्विदारणं भेदे तथा विद्धस्वनेऽपि च ॥ ३५ ॥ विस्रस्तो विश्वसनार्शे [विश्वासानर्हे] विश्वस्ता विधवा स्त्रियाम् । विवशो वेशप्रकृतावरिष्टे दुष्टधीगुणे ॥ ३६ ॥ वामनः केशवे खर्वे दृश्यते दिग्गजान्तरे । विद्रुमः स्यात्किसलये प्रवालमणिभूरुहोः ॥ ३७ ॥ व्यूढो विशाले विन्यस्ते संहतेऽपि प्रयुज्यते । वरिष्ठः स्याद्गुरुतमे तथा वत्से च दृश्यते ॥ ३८ ॥ विच्छिन्नस्तु समारब्धे कथ्यते च द्विधाकृते । वर्तिर्दीपदशायां तु दीपे गात्रानुलेपने ॥ ३९ ॥ वारुकी सिन्धौ चित्राश्वे पर्णजीवे च विद्विषि । वामिलो दाम्भिके चैव वृषाकपिः शिवे हरौ ॥ ४० ॥ विकारो रुजि विकृतौ विभुः परिवृढे दृढे । वृद्धिर्वर्धन आनन्दे वेधा विधिमनीषिणोः ॥ ४१ ॥ वपुः शस्ताकृतौ काये वञ्चकः फेरुधूर्तयोः । वर्षाभूर्भेकशीथघ्न्योर्वृद्धः स्थविरधीमतोः ॥ ४२ ॥ विवस्वान् मनौ सूर्ये वीजं रेतसि कारणे । विस्तारो विस्तृतस्तम्भे विकाशो विजने स्फुटे ॥ ४३ ॥ ;p{0082} व्यवायोऽन्तर्दुरितयोर्वहो[होऽपि] स्कन्धवाहयोः । वृष्टिः समृद्धिफलयोर्वृषयो व्यक्तशुक्रयोः ॥ ४४ ॥ वीरुद्विटपाल[वीरुल्लताविट]पयोर्वापाविवमेहयोः[?] । व्याप्तो-- व्यायते [गाढे व्यापृते च] वीचिः स्तोकतरङ्गयोः ॥ ४५ ॥ वृषाकपायी श्रीगौर्योः विन्दुर्दातरि विप्रुषि । वारुणी च सुराप्राच्योर्विभावसुः शुचौ रवौ ॥ ४६ ॥ विकटं पृथौ कराले विष्कम्भस्तरुरोधसोः । विशुद्धं निभृतौ सत्ये वृषभः पुङ्गवे वृषे ॥ ४७ ॥ विगतो निष्प्रभे वीते बुधः सौभ्ये कवौ सुरे । व्यालो व्याघ्रे खले सर्पे विस्मयश्चित्रदर्पयोः ॥ ४८ ॥ वाहिनी पूतनानद्योः वेल्लितं कुट्टिते धुते । वर्धनं छेदने वृद्धौ वीरस्तु सुभटे वरे ॥ ४९ ॥ विल्वं विचारिते लब्धे विट् च मानुषवैश्ययोः । विलग्नो मध्ये व्यायामः पौरुषे च श्रमे तथा ॥ ५० ॥ विश्वाख्या विषाजगतोर्व्यक्तः स्फुटे च पण्डिते । विशारदो बुधे श्रेष्ठे विवरं दोषरन्ध्रयोः ॥ ५१ ॥ वैदेही सीतापिप्पल्योर्व्यग्रो व्याहत आकुले । विकृतोत्पले बीभत्से वर्जनं त्यागहिंसयोः ॥ ५२ ॥ वर्त्म नेत्रच्छदे मार्गे वाष्प ऊष्मणि चाश्रुणि । विरोचनोऽर्के चन्द्राग्न्योर्वदान्यो दातृवाग्मिनोः ॥ ५३ ॥ वाग्यो निर्वेदने कल्ये वैशाखो मासमन्थयोः । विश्लेषो विधुरे योगे वरीयान् विपुले वरे ॥ ५४ ॥ ;p{0083} वद्धो रूपेऽपि विड्भासोः वने कानननीरयोः । विष्वक्सेनाख्या तु फल्यां विष्णौ प्रस्थानवर्गयोः ॥ ५५ ॥ व्यूहो वृन्दे बलन्यासे वज्रो हीरकशस्त्रयोः । विक्रमोऽतिशक्तिकान्त्योर्वीर्यं वत्सेंऽशुरेतसोः ॥ ५६ ॥ ॥ इति वकारः ॥ ;p{0084} ;k{शकारः} शृङ्गं विषाणेऽम्बुपात्रे पर्वताग्रप्रभुत्वयोः । शृङ्गी चातिविषामीनभेदयोर्वृषभौषधे ॥ १ ॥ शिवं भद्रे शिवः शंभौ कीले शिवा तु जम्बुके । पथ्यागौर्योः शमीधात्र्योः शुद्धः केवलपूतयोः ॥ २ ॥ श्रेयः शिवे प्रशस्ये च धर्मे चातिशयेऽपि च । श्रेयसी गजपिप्पल्यामभयापाठयोरपि ॥ ३ ॥ शम्बरे च जले दृष्टं मृगदैत्यविशेषयोः । शम्बरी मूषिकपर्ण्यां शैलूषो नटबिल्वयोः ॥ ४ ॥ शिखा शाखाशिफाग्रेषु चूडप्रवालयोरपि । ज्वालायां बर्हिचूडायां शिलीमुखोऽलिबाणयोः ॥ ५ ॥ शुचिः शुद्धाग्निशुक्रेषु तथाषाढेऽनुपद्रुते । उपधा शुद्धसचिवे शापः शपथनिन्दयोः ॥ ६ ॥ शेषोऽनन्ते गजे नागे स्वीकृतेतरवस्तुनि । शेषा निर्माल्यदाने च शितिर्धवलकृष्णयोः ॥ ७ ॥ शिखरं पङ्कदाडिम्बबीजे च रत्नखण्डके । अग्रकेवलयोश्चापि श्रीर्लक्ष्म्यां कान्तिसंपदोः ॥ ८ ॥ शिरो मूर्ध्नि पुरः सैन्ये प्रधाने चापि दृश्यते । शुक्रोऽसौ भार्गवे ज्येष्ठे शुक्रमक्षिरुजीन्द्रिये ॥ ९ ॥ ;p{0085} श्लेष्मघ्नी नसेल्लिकायां केतक्यामपि दृश्यते । शिखी हुताशने वृक्षे मयूरे कुक्कुटेऽपि च ॥ १० ॥ शङ्खो निधौ नागभेदे शङ्खं कम्बुललाटयोः । शारदोऽभिनवे वर्षे शालीनेऽपि शरोद्भवे ॥ ११ ॥ शोणो वल्लकवर्णाभे लोहिताश्वे नदान्तरे । शिपिविष्टः खलतिके दुश्चर्मणि महेश्वरे ॥ १२ ॥ शिलीन्द्रो वृक्षभेदेऽपि मत्स्यके चुलिकामृदि । श्रोणिः समानजातीनां संहतावावलौ तथा ॥ १३ ॥ शक्वरी मेखलायां स्यान्नदीछन्दोविशेषयोः । शर्कराक्षरभेदकुम्भादिशकलेषु च ॥ १४ ॥ शतह्रदाख्या शाल्मल्यां देशविद्युद्विशेषयोः । शीतं तुषारवानीरबहुवारद्रुमेषु च ॥ १५ ॥ शिशुमारः पयोजन्तौ तारकामयकेशवे । शय्या ग्रन्थस्य निर्माणे खट्वादिशयनीयके ॥ १६ ॥ शलो[शाला]वृकस्तु क्रूरारौ वलीमुखशुनोरपि । शुश्रूषा श्रोतुमिच्छायां स्यात्कथापरिचर्ययोः ॥ १७ ॥ शतपत्राख्याब्जे केकिदार्वाघाटेषु सारसे । श्यामः कृष्ण श्यामा रात्रौ शारिवायां फलीविशोः ॥ १८ ॥ शृङ्गारः करिभूषायां नाटयस्य च रसान्तरे । शुण्डा मलिनहस्तिन्यां मदिराहस्तिहस्तयोः ॥ १९ ॥ ;p{0086} शङ्कुः शस्त्रान्तरे कीले यादःसंख्याविशेषयोः । शिशुकः शिंशुमारे च बालद्रुमविशेषयोः ॥ २० ॥ शम्बुस्तु मुसलाग्रे च लौहे वज्रे च विष्णुजे । शरणं गृहरक्षित्रोः मारणे रक्षणेऽपि च ॥ २१ ॥ शरवाणिः शरमुखे पापिष्ठशरजीविनोः । शार्ङ्गः शृङ्गस्य कोदण्डे विष्णुचापे शरासने ॥ २२ ॥ शुषिरं वंशादिवाद्ये गर्ते गर्ते[गर्त]समन्विते । शाला तरुस्कन्धशाखागृहैकदेशयोर्गृहे ॥ २३ ॥ शौन्यासनिकश्चौरे स्यादौखितासनिकेऽपि च । शुल्को घट्टे विवाहाय वराद्ग्राह्यधनेऽपि च ॥ २४ ॥ शक्तिरायुधभेदे स्यादुत्साहादौ बले तथा । शीतचम्पकशब्दोऽयं दीपतर्पणयोर्मतः ॥ २५ ॥ शुद्धान्तान्तःपुरे गुह्यकक्षभेदे च भूपतेः । शिलाद्वाराधरस्तप्तदृषदः शिलमुञ्छके ॥ २६ ॥ शाक्वरं छन्दसि तथा शाक्वरो वृषभे मतः । श्राद्धः श्रद्धावति श्राद्धं शास्त्रतः पितृकर्मणि ॥ २७ ॥ शुक्तिद्रुनामिकामुक्तास्फोटयोरश्वलक्षणे । शकुनो विहगे गीते शकुनं फललक्षणे ॥ २८ ॥ ;p{0087} श्रवणः स्यूते नक्षत्रे श्रावणं श्रुतिकर्णयोः । शाल्याख्या मदनतरौ काण्डे श्वाविट्छलाकयोः ॥ २९ ॥ शासनं शास्त्र आज्ञायां लेखेऽपि परिभाषितम् । शारिरक्षोपकरणे ख्यातं पर्यायभेदयोः ॥ ३० ॥ शिशिरं शीतले दृष्टमृतुभेदतुषारयोः । शाखा वेदविभागे च तरोरवयवे भुजे ॥ ३१ ॥ शशो रोगे च पुंभेदे दृष्टं प्राण्यन्तरेऽपि च । शल्कस्तु वल्कले खड्गे शुक्रः कुटजवज्रिणोः ॥ ३२ ॥ शरः स्याच्छबले वायौ शमलाख्या वधे यमे । श्रुतिः श्रोत्रे च वेदे च शुक्रं सर्मणि निष्ठुरे ॥ ३३ ॥ कलं बन्धनेऽर्धे च शादः शस्पयोः[जम्बालशष्पयोः] । श्रीपर्णमग्निमन्थेऽब्जे शंसा वचसि वाञ्छिते ॥ ३४ ॥ शरदृत्वन्तरे वर्षे शूलो रुक्शस्त्रभेदयोः । श्वशुर्यो देवरे स्याले शिखण्डो बर्हचूडयोः ॥ ३५ ॥ शाको द्वीपान्तरे शक्तौ श्वेतस्तु रजते सिते । शास्त्रमागम आज्ञायां शान्तिरुक्ता समे शुभे ॥ ३६ ॥ शङ्का त्रासवितर्के च श्रद्धा श्रद्धानुकाङ्क्षयोः । शीलं प्रकृतौ सद्वृत्ते शयनं रतशय्ययोः ॥ ३७ ॥ ;p{0088} शस्त्रं प्रहरणे लोहे श्लोकपद्ये यशस्यपि । शालः कषे मानभेदे शूकोऽनुग्रहशोकयोः ॥ ३८ ॥ शुभ्रं शुक्रे प्रदीसे च शमः शान्तौ निवर्तने । श्येनो विहङ्गमे स्वेते[शुक्ले] शुषः शोषे तथाविले ॥ ३९ ॥ शुकाख्या कीरे स्थौणेये शस्तुब्रह्मार्हतोः शिवे । श्रीपलाख्या विल्वे नील्यां शिखरीद्रुमशैलयोः ॥ ४० ॥ ;c{॥ इति शकारः ॥} ;p{0089} ;k{षकारः} षण्डः स्मृतो बलीवर्दे षण्डं तु कानने भवेत् । षण्डाली तैलमाने च सरस्यामपि कीर्तिता ॥ १ ॥ ;c{॥ इति षकारः ॥} ;p{0090} ;k{सकारः} साधनं दापने सिद्धौ धनोपायनिवृत्तिषु । मोहने मृतसंस्कारे गतावनुगमे जवे ॥ १ ॥ स्यात्संसरणं संसारे नगरस्योपविक्रमे । रथादीनां च संकीर्णगमने संसृतावपि ॥ २ ॥ संविद्बुद्धौ प्रतिज्ञायामाचारे नाम्नि तोषणे । संभाषणे क्रियाकारे सङ्केतज्ञानयोरपि ॥ ३ ॥ सरस्वती स्यात् स्त्रीरत्ने नद्यां नद्यन्तरे गवि । भारत्यां तु रसज्ञायां नदसागरयोरपि ॥ ४ ॥ समयः शपथाचारे सिद्धान्तेषु च संपदि । क्रियाकारेऽथ निर्देशे संकेते कालभावयोः ॥ ५ ॥ सत्वं द्रव्ये चात्मभावे व्यवसायस्वभावयोः । पिशाचादौ गुणे प्राणे बले जन्तौ च वेतसि ॥ ६ ॥ सङ्गवः संश्रये युद्धे क्रियाकारे तथापदि । सङ्गरं वृषभेदे तु दृश्यते च शमीफले ॥ ७ ॥ स्थपतिः सौविदल्ले स्यात् बृहस्पतीष्टयाजिषु । धनदे शिल्पिभेदे च स्तननं कुन्तले ध्वनौ ॥ ८ ॥ संभवो मेलके हेतौ संकेतापाययोरपि । आधाराधेयतुल्यार्थे संबोधो बोधनाशयोः ॥ ९ ॥ ;p{0091} सैरन्धी परवेश्मस्थस्वतन्त्रशिल्पियोषिति । वर्णसंकरजातायां स्वामीपतिविशाखयोः ॥ १० ॥ स्फुटो व्यक्ते विकसिते व्याप्ते शुक्रेऽपि दृश्यते । समूढः पुञ्जे भव्ये च सद्योजाते निरुत्प्लुते ॥ ११ ॥ संकुलाख्या भवेद्व्यातौ युद्धविस्पष्टवाक्ययोः । सूनृतं स्यात् प्रिये सत्ये वचने मङ्गले तथा ॥ १२ ॥ सुमनाः पण्डिते पुष्पे मालतीदेवयोरपि । संभ्रमो भयसंवेगगौरवेषु महाद्रुमे ॥ १३ ॥ सूत्रे च [सूत्रश्च] सूचनादृष्टो व्यबधाने नये तथा । सौम्यः सोमात्मजे चारौ कथितः सोमदैवते ॥ १४ ॥ सुरभिर्गवि चैत्रे च सुगन्धे घ्राणतर्पणे । सार्वभौमो दिशां नागभेदे सर्वमहीभुजि ॥ १५ ॥ समुन्नद्धो गर्विते च पण्डितंमन्य ईश्वरे । सन्धिनामा नदीमद्यसुरङ्गासु च कथ्यते ॥ १६ ॥ साधृतं बर्हिसंघाते पण्यवीथ्यातपत्रके । समुदायः समूहे स्यात् समये च समुद्गमे ॥ १७ ॥ सालः सर्जतरौ वृक्षे प्राकारेऽपि प्रयुज्यते । स्पर्शो दाने रुजायां च स्पशके स्पर्शने तथा ॥ १८ ॥ संज्ञा संकेतगायत्रीचेतनासु च नामनि । सिन्धुर्नदे समुद्रे च मद्रदेशनदीषु च ॥ १९ ॥ ;p{0092} सर्गो निश्चये निर्माणे प्रोत्साहाध्याययोरपि । सौदामिनी पुरीभेदे चञ्चलायां प्रकीर्तिता ॥ २० ॥ समाहृयः समाघाते युद्धे च पशुपक्षिभिः । सरकं सीधुपानेक्षुसीधुनोर्मद्यभाजने ॥ २१ ॥ सम्बन्धः समृद्धे शक्ते हिते न्याये च कथ्यते । स्कन्दो महीपतावंशे समुच्चये च संहतौ ॥ २२ ॥ संपुटस्तु कुरबके तलिकायां च कीर्तितः । सन्धिः संघट्टने दृष्टः स्मरसंवसुरुङ्गयोः ॥ २३ ॥ स्पर्शनः प्रवणे दृष्टः स्पर्शनं स्पर्शदानयोः । भवेत्सुरतताली तु दूतिकायां शिरःस्रजि ॥ २४ ॥ सामुद्रन्तु समुखे कथितं देहलक्षणे । सूनाख्या पुष्पिते पुष्पे जिह्वातले वधालये ॥ २५ ॥ संवित्तिरविवादि[वादे स्यात्] प्रतिपत्तावपि स्मृता । संपरायः स्मृतो युद्धे विपदुत्तरकालयोः ॥ २६ ॥ संस्थानमाकृतौ चिह्ने सन्निवेशे चतुष्पथे । सन्तानः सन्ततौ गोत्रे देववृक्षे तथात्मजे ॥ २७ ॥ संस्त्यायः सन्निवेशे तु सङ्घातेऽपि प्रयुज्यते । साधीयोऽनुस्वराटे[ऽन्तिके बाढे] स्यात् तथैवात्यन्तशोभने ॥ २८ ॥ साधुर्वार्द्धुषिके दृष्टः सज्जने सुन्दरे तथा । संसिद्धे सङ्गमे युद्धे सभायामपि दृश्यते ॥ २९ ॥ ;p{0093} सिकता वालुकायां तु तयैवाच्छन्नभूतले । स्वयाम्बुनोरसराजे[?]प्रासादवासुदेवयोः ॥ ३० ॥ सिद्धरसः पारदेऽपि रससिद्धे च कीर्तितः । सह्ममारोग्ये सोढव्ये सह्यश्च पर्वतान्तरे ॥ ३१ ॥ समञ्जसं समाख्यातमभ्यस्तोचितयोरपि । सूदः स्यात् सह सूपेन सूपकारे च तेमने ॥ ३२ ॥ सावराख्यापराधे च लोध्रे पापे च पठ्यते । सङ्कीर्णं सङ्कटे व्याप्ते तथा च वर्णसङ्करे ॥ ३३ ॥ स्वशब्दो ज्ञातिधनयोः तथात्मात्मीययोरपि । संग्रहः स्यान्महोभुङ्गे [महोद्योगे] संक्षेपे ग्रहणे तथा ॥ ३४ ॥ भवेत्सारसनं काञ्च्यामुरस्थेऽपि निगद्यते । स्थासफोऽपि च चर्चायां जलादीनां च बुद्बुदे ॥ ३५ ॥ संमतिः स्यादभिलाषे तथात्मज्ञान एव च । साहसं तु बलात्कारे कृतकार्ये दमेऽपि च ॥ ३६ ॥ सिते प्राववसाने[?] च तथाधवलबद्धयोः । स्थिरदंष्ट्रध्वनिः ख्यातो भुजङ्गादिवराहयोः ॥ ३७ ॥ स्वस्तिको नृपतेर्गेहे गृहभेदे चतुष्पथे । सुदर्शनो मेरुजम्ब्वां शक्रपूर्विष्णुचक्रयोः ॥ ३८ ॥ ;p{0094} समुदायः समुदये पृष्ठस्थायिबलेऽपि च । स्थूलोच्चयस्त्वसाकल्ये करिमध्यगतौ तथा ॥ ३९ ॥ सूतः शूद्रात् क्षत्रियाजे बन्दिसारथितक्षसु । सत्रं वने सदादाने छदनाध्वरयोरपि ॥ ४० ॥ सवनं याजने स्नाने सोमनिर्दलनेऽपि च । सन् सत्ये विद्यमाने च प्रशस्तार्चितसाधुषु ॥ ४१ ॥ समाहितं समाधिस्थे प्रतिज्ञातेऽपि विश्रुते । समाधिर्नियमे ध्याने प्रयासे चापि युज्यते ॥ ४२ ॥ स्वधा गङ्गेष्टकाचूर्णमहीध्वमृतमूलयोः । सभा स्यान्मन्दिरे व्यूहे सभासदि च संपदि ॥ ४३ ॥ सारङ्गश्चातके ख्यातः सवले हरिणे तथा । सृष्टं भूरिणि मुक्ते च निर्मिते चाथ भूषिते ॥ ४४ ॥ समर्यादं समीपे स्यान्मर्यादासहिते तथा । सन्धिन्यकालदुग्धायां वृषाक्रान्तावपातयोः ॥ ४५ ॥ सन्निधिः सन्निधानेऽपि प्रत्यक्षेऽपि प्रयुज्यते । सर्वतोभद्राख्या निम्बे गम्भारीगृहभेदयोः ॥ ४६ ॥ ;p{0095} सहा स्यात्कुमारीमुद्गपर्ण्योः सहः सशक्तिके । संख्यमायोधने संख्या त्वेकत्वादिविचारयोः ॥ ४७ ॥ सोमवल्कस्तु धवलखदिरे कट्फले तथा । सारो न्याय्ये स्थिरांशे च बले श्रेष्ठे च भाषितः ॥ ४८ ॥ सन्ततिस्तनये पुत्र्यां विस्तारकुलयोरपि । समं सहसि सर्वस्मिन् साधौ समास्तु हायने ॥ ४९ ॥ सुनुर्भ्रातरि पुत्रे च संभोगः सुखभोगयोः । सुपर्णस्तार्क्ष्यसंपाके स्वेदः स्वेदनघर्मयोः ॥ ५० ॥ स्तनयित्नुस्तनितेऽब्दे समायातवधान्तयोः । संसिद्धिः स्वभावे सिद्धौ सातिर्दानावसानयोः ॥ ५१ ॥ स्थिरा भूमौ शालपर्ण्यां स्थूलो जडेऽथ पीवरे । सचिवः सहायेऽमात्ये सेव्यो नलदशस्ययोः ॥ ५२ ॥ सोमः स्यादोषधाविन्दौ सरणिः पङ्क्तिमार्गयोः । समीरणोऽनिलौषध्योः सुतः पार्थिवपुत्रयोः ॥ ५३ ॥ सती शैलसुतासाध्व्योः सायकः खड्गबाणयोः । सनातनो हरौ नित्ये सव्यं वामे च दक्षिणे ॥ ५४ ॥ स्नेहः प्रेमणि तैलादौ संप्रयोगो रतेऽर्थिते । स्वभूर्वेधसि विष्णौ च स्वादुर्मिष्टमनोज्ञयोः ॥ ५५ ॥ स्तिमितो निश्चिते क्लिन्ने संव्यानं छदनेंऽशुके । स्नानं वसने पानीये समाघातो वधे युधि ॥ ५६ ॥ सैन्धवो लवणेऽश्वे च स्तम्भनो जडमूर्खयोः । सौवीरं काञ्चिके शेलौ सूक्ष्मात्याध्यात्मलेशयोः ॥ ५७ ॥ ;p{0096} संस्कारः सङ्कल्पे यत्ने सेवकोऽर्थिप्रसेवयोः । सङ्घर्षो घर्षे स्पर्धायां सप्तार्चिदहनेऽशनौ ॥ ५८ ॥ संस्तवः संभवे यज्ञे सीमा क्षेत्रे वधौ स्थितौ । संबाधः सङ्कटे योनौ सेनानीः सैन्यपे शुके ॥ ५९ ॥ गुणोत्कर्षे विधातव्यं स्थानं याम्येऽन्तरे स्थितौ । संस्था स्थितौ परे नाशे स्वैरः स्वच्छन्दमन्दयोः ॥ ६० ॥ सिवथाख्यान्ने मधूच्छिष्टे सूतकं वसुजन्मनोः । स्थित ऊर्ध्वे सप्रतिज्ञे सिद्धार्थः सर्षपेऽजिने ॥ ६१ ॥ सुवर्णं हेम्नि उत्कर्षे सत्यं शपथतथ्ययोः । सहोत्थे सहजः सृष्टौ सामिधेनीयमृग्गृचि ॥ ६२ ॥ सामजो द्विपे सामोत्थे सहा मार्गे सहो बले । सेवनं सीवनोपस्त्योः सृतिर्गमनमार्गयोः ॥ ६३ ॥ संस्तरः शयने माने सारसाख्या खगेऽम्बुजे । स्थूणा सूर्म्यां तथा स्तम्भे सादी सूताश्ववारयोः ॥ ६४ ॥ सतमोऽतिसाधौ श्रेष्ठे स्वरुर्यूपाग्रवज्रयोः । रेवानद्यो समुद्रापः [?] सज्जनः साधुगुल्मयोः ॥ ६५ ॥ स्वरूपो रूपिणि प्राज्ञे सखा मित्रसहाययोः । स्वप्नः स्वापे सुप्तज्ञाने स्यन्दनस्तिलिशे रथे ॥ ६६ ॥ स्थानेऽव्ययं युक्ते हेतौ स्मातीते पादपूरणे । सांप्रतं युक्तेऽवधानार्थे स्वः स्वर्गपरलोकयोः ॥ ६७ ॥ ;p{0097} स्वित् पृच्छायां वितर्के च साक्षात्तुल्यसमक्षयोः । समिन्निन्दायां युद्धे च सह च तुल्ययोगयोः । स्वस्त्याशीःक्षेमपुण्येषु सकृत्सदैकवारयोः ॥ ६८ ॥ ;c{॥ इति दन्त्यसकारादिवर्णः समाप्तः ॥} ;p{0098} ;k{हकारः} हरिः सिंहार्कभेकेषु शुके विष्णौ यमेऽनिले । इन्द्रे चन्द्रे कपावीशे स्वर्णवर्णाहिराजिषु ॥ १ ॥ हंसो निर्लोभे भूपाले भास्करे विहगान्तरे । योनिभेदे विशुद्धे च श्रेष्ठे राजादिपूर्वकः ॥ २ ॥ हृषितः सह हृष्टेन जातहर्षेऽथ विस्मिते । मनोहरे च रोमाञ्चे हुतिः शास्त्रे तथार्चिषि ॥ ३ ॥ हिरणं च हिरण्यं च स्यादकुप्ये कपर्दके । धान्यमानान्तरे हेम्नि ह्रादिनी पविविद्युतोः ॥ ४ ॥ हृद्यं हृत्प्रिये हृज्जाते वशमन्त्रे च हृद्यते । हेरम्बो गजवक्त्रे च महिषे प्रथमान्तरे ॥ ५ ॥ हस्तिमल्ल इति ख्यातः शक्रनागे विनायके । हायनो वत्सरे प्रोक्तः तथा व्रीहिमयूखयोः ॥ ६ ॥ हस्तः शुण्डायां नक्षत्रे करे केशात्परे चये । हस्तनिर्यास उद्दिष्टं निम्बे हिङ्गुरसेऽपि च ॥ ७ ॥ हरिणी हेममये मृग्ये हरिद्रायामपि क्वचित् । हेषणः स्याच्छिलाभेदे स्वर्णकृत्कृकलासयोः ॥ ८ ॥ हरिचन्दनमाख्यातं कुङ्कुमे देवपादपे । हरिदस्वान्तरे वर्णे तृणे ककुभि कथ्यते ॥ ९ ॥ हृदयं वक्षसि स्वान्ते हेलावज्ञाभिलाषयोः । हैमवत्युमावचसोर्हवो हृद्याज्ञयोर्मुखे ॥ १० ॥ ;p{0099} हनू रङ्गान्तरौषध्योर्हरणं यौतके हृतौ । हठस्तु प्रसभे पार्ष्णौ हरिणः पाण्डरे मृगे ॥ ११ ॥ हविः सर्पिषि होतव्ये हिंसा चौर्यादिके वधे । हिमं शीतेऽपि शिशिरे हारौ मुक्तावलौ हृतौ ॥ १२ ॥ अतोऽव्ययानि कथ्यन्ते हन्तशब्दोऽनुकल्पने । वाक्यारम्भे विषादे च हर्षार्थे च प्रयुज्यते ॥ १३ ॥ हि कारणे विशेषे च तथावधारणेऽपि च । हा खेदेऽशुचिपीडायां हुं परिप्रश्नतर्कयोः ॥ १४ ॥ ;c{॥ इति हकारः ॥} ;p{0100} ;k{क्षकारः} क्षुद्रः क्रूराल्पनीचेषु दीने च क्षुद्रमस्त्रियाम् । गङ्गायां काशिकायां च नदीसरघयोरपि ॥ १ ॥ क्षेत्रियं क्षेत्रसंघाते तृणे साध्ये गदे तथा । परदेहचिकित्सार्हे क्षेत्रियः परिदारके ॥ २ ॥ क्ष्वेडा समिद्वीरसिंहनादवैणवशल्ययोः । क्ष्वेडो विषे निनादे च क्ष्माभृत्पर्वतभूभुजोः ॥ ३ ॥ क्षेमो योगे हिते युक्ते क्षमा भूमितितिक्षयोः । क्षत्ता शूद्रात्क्षत्रियाजे प्रतीहारे च सारथौ ॥ ४ ॥ क्षणस्तु व्यापृते ज्ञेयो मुहूर्तोत्सवपर्वसु । क्षेत्रं देहे कलत्रे च केदारे सिद्धधामनि ॥ ५ ॥ क्षयोपचये रोगार्तगेहेषु राजयक्ष्मणि । क्षेमस्तु कुशले दृष्टः तथा लब्धार्थरक्षणे । क्षुल्लकः क्षेत्रजे काले कण्टकण्डूयने क्षुति ॥ ६ ॥ ;c{॥ इति क्षकारः ॥} ;c{॥ इति अजयपालकृतो नानार्थसङ्ग्रहः समाप्तः ॥}