;METADATA ;title{नानार्थशब्दकोश or मेदिनीकोश} ;author{मेदिनिकर} ;bookFullName{Nānārthaśabdakoṣa or Medinīkoṣa by Śrī Medinīkara, Edited with an Introduction, Index etc.} ;bookSeriesDetails{Kāshī Sanskrit Series (Haridās Sanskrit Granthamālā) 41. (Lexicography Section, No. 1)} ;editor{Pt. Jagannāth Śāstri Hoshing} ;editorQualifications{Sāhityāchārya} ;publisher{Published by Jaya Krishna Dās Haridās Gupta, The Chowkhambā Sanskrit Series Office, Benares City} ;pressDetails{Vidya Vilas Press, Benaras City} ;publicationYear{1940 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{NSMK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{04 July 2019} ;version0.0.2{04 August 2019} ;version0.0.3{04 September 2019} ;version0.0.4{04 September 2019} ;version0.1.0{04 September 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{॥ श्रीगणेशाय नमः ॥} ;c{अथ नानार्थशब्दकोशो नाम } ;c{मेदिनीकोशः ।} वृषाङ्काय नमस्तस्मै यस्य मौलिविलम्बिनी । जटावेष्टनजां शेाभां विभावयति जाह्नवी ॥ १ ॥ पातु(१) वो मदकालिम्ना धवलिम्ना रदस्य च । गङ्गायमुन्योः सङ्गं वहन्निव गजाननः ॥ २ ॥ पूर्वाचार्यकृतीर्वीक्ष्य शब्दशास्त्रं निरूप्य च । नानार्थशब्द्कोशोऽयं लिङ्गभेदेन कथ्यते ॥ ३ ॥ प्रायशो रूपभेदेन विशेषणवशात् क्वचित् । स्त्रीपुन्नपुंसकं ज्ञेयं विशेषोक्तेश्च कुत्रचित् ॥ ४ ॥ त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥ रूपाद्व्यक्तं लिङ्गमुक्तं लिपिभ्रान्तिच्छिदे क्वचित् । विशेष्यनिघ्नेऽनुक्तेऽपि विज्ञेया वाच्यलिङ्गता ॥ ६ ॥ गुणे शुक्लादिकट्वाद्याः पुंसि स्युस्तद्वति त्रिषु । तीक्ष्णाद्याश्च गुणे क्लीबे गुणिलिङ्गास्तु तद्वति ॥ ७ ॥ क्लीबपुंसोरपि स्त्रीत्वं क्वाप्यल्पत्वविवक्षया । जातिवाचकब्दानामपि तत् स्त्रीविवक्षया ॥ ८ ॥ उद्भिदः प्रसवे क्लीबे हरीतक्यादयः स्त्रियाम् । ;f{(१) इदं पद्यं क. पुस्तके नास्ति ।} ;p{0002} पुष्पे जातीप्रभृतयः स्वलिङ्गा व्रीहयः फले ॥ ९ ॥ प्राङ् नानार्थान्न (१) तल्लिङ्गं द्वयोर्द्वन्द्वेन चैकता । शब्दावृत्तिर्न लिङ्गैक्ये सप्तमी न विशेषणे ॥ १० ॥ क्लीबे नपुंसके पुंसि स्त्रियां योषिति च द्वयोः । त्रिषु चेत्यादि यद्रूपं तल्लिङ्गस्यैव वाचकम् ॥ ११ ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः । (२)सप्तम्यन्तोऽभिधेयेषु वर्तमानो विनिश्चितः ॥ १२ ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमात् कृतः । स्वरकाद्यादिकाद्यान्तवर्गैर्नानार्थसङ्ग्रहः ॥ १३ ॥ नानार्थकोशपुस्तकभारार्जनदुःखहानये कृतिनः । मेदिनिकरकृतकोशो विशुद्धलिङ्गोऽभिलिख्यतामेकः ॥ १४ ॥ ;k{कान्तवर्गः} ;v{कैकम्} ;c{कैकम्} को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे । कामग्रन्थौ चक्रिणि च (३)पतत्रिणि च पार्थिवे ॥ १५ ॥ मयूरेऽग्नौ (४)न पुंसि स्यात् सुखशीर्षजलेषु कम् । ;v{कद्विकम्} ;c{कद्विकम्} अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ १६ ॥ अङ्को रूपकभेदाङ्गचिह्नरेखाजिभूषणे । रूपकांशाऽन्तिकोत्सङ्गस्थानेऽकं पापदुःखयोः ॥ १७ ॥ एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु । कर्कः कर्केऽनिले वह्नौ शुक्लाश्वे दर्पणे घटे ॥ १८ ॥ कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः । कल्कोऽस्त्री घृततैलादिशेषे दम्भे बिभीतके ॥ १९ ॥ (५)विटविट्टयोश्च पापे च त्रिषु पापाशये पुनः । काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि ॥ २० ॥ ;f{(१) नानार्थोऽनु-ख. पु. ।; (२) सप्तम्यन्ताभिधेयेषु-क. पु.।; (३) पतत्रिपार्थिवे तथा-क. ।; (४) च-ख. ।; (५) किट्ट-ख. ।} ;p{0003} शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः । काका स्यात् काकनासायां काकोलीकाकजङ्घयोः ॥ २१ ॥ रक्तिकायां मलप्वां च काकमाच्यां च योषिति । काकं सुरतबन्धे स्यात् काकानामपि संहतौ ॥ २२ ॥ किष्कुर्द्वयेार्वितस्तौ च प्रकोष्ठेऽपि करेऽपि च । कोकश्चक्रे वृके ज्येष्ठ्यां खर्जूरीद्रुमदर्दुरे ॥ २३ ॥ छेको गृहाश्रितमृगपक्षिणोर्नागरे त्रिषु । टङ्को नीलकपित्थे च खनित्रे टङ्कनेऽस्त्रियाम् ॥ २४ ॥ जङ्घायां स्त्री पुमान् कोपे कोशासिग्रावदारणे । तर्कः काङ्क्षावितर्कोहहेतुशास्त्रेषु कथ्यते ॥ २५ ॥ त्रिका कूपस्य नेमौ स्यात् कं पृष्ठाधरे त्रये । तोकं पुत्रे सुतायां च द्विकः स्यात् काककोकयोः ॥ २६ ॥ न्यङ्कुर्मुनौ मृगे पुंसि नाकस्तु त्रिदिवेऽम्बरे । नाकुर्मुन्यन्तरे पृथ्वीधरवल्मीकयेाः पुमान् ॥ २७ ॥ निष्कमस्त्री साष्टहेमशतं दीनारकर्षयोः । वक्षेाऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥ २८ ॥ पङ्कोऽस्त्री कर्दमे पापे पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च ॥ २९ ॥ बकस्तु बकपुष्पे स्यात् कह्वे श्रीदे च रक्षसि । भूकं छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३० ॥ मुष्को मोक्षकवृक्षे स्यात् (१)संहते वृषणेऽपि च । मूकस्त्ववाचि ना दैत्ये रङ्कः (२)कृपणमन्दयोः ॥ ३१ ॥ राका नद्यन्तरे कच्छ्वां नवजातरजःस्त्रियाम् । सम्पूर्णेन्दुतिथौ रेकः शङ्कानीचविरेचने ॥ ३२ ॥ रोकस्तु क्रयभिद्दीप्त्यो रोकं नावि चले बिले । लङ्का रक्षःपुरीशाखाशाकिनीकुलटालु च ॥ ३३ ॥ ;f{(१) सङ्घाते-ख. ।; (२) रेकः-क. ।} ;p{0004} लोको जनेऽपि भुवने वल्कं वल्कलशल्कयोः । वङ्कः पर्याणभागे ना नदीपात्रे च भङ्गुरे ॥ ३४ ॥ शल्कं तु शकले वल्के शको जात्यन्तरे नृपे । शङ्कुः संख्याऽस्त्रयादोभित्कीलेशकलुषेषु ना ॥ ३५ ॥ शङ्का त्रासे वितर्के च शाको द्वीपान्तरेऽपि च । शक्तौ द्रुमविशेषे च पुमान् हरितकेऽस्त्रियाम् ॥ ३६ ॥ शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ॥ ३७ ॥ शुल्कं घट्टादिदेये स्याद्वरार्थग्रहेऽस्त्रियाम् । शूकोऽस्त्री शुङ्गदलयोः श्लोकः पद्ये यशस्यपि ॥ ३८ ॥ शौकं शुकगणे स्त्रीणां करणे सूक इत्यपि(१) । बाणवातोत्पले (२)स्तोकस्त्रिष्वल्पे चातके पुमान् ॥ ३९ ॥ ;v{कत्रिकम्} ;c{कत्रिकम्} अशोकस्त्रिषु निःशोके पुंसि कङ्केल्लिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम् ॥ ४० ॥ अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले । अभीकः कामुके क्रूरे निर्भये त्रिषु ना कवौ ॥ ४१ ॥ अनीकोऽस्त्री रणे सैन्येऽप्यणुको निपुणाल्पयोः । अलीकमप्रियेऽपि स्याद्दिव्यसत्ये नपुंसकम् ॥ ४२ ॥ अनूकं तु कुले शीले पुंसि स्याद् गतजन्मनि । अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ ४३ ॥ अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ । चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कथ्यतेऽन्तिका ॥ ४४ ॥ अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे । अम्बिका पार्वतीमात्रोर्धृतराष्ट्रस्य मातरि ॥ ४५ ॥ अन्धिका द्यूतभेदे च रजन्यामपि योषिति । ;f{(१) इत्ययम्-ख. ।; ( २ ) स्तोकं स्त्रि०-ख. ।} ;p{0005} अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ ४६ ॥ अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च । आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे ॥ ४७ ॥ आढकी तु तुवर्यां स्त्री परिमाणान्तरे त्रिषु । आलोकस्तु पुमान् द्योते दर्शने बन्दिभाषणे ॥ ४८ ॥ आह्निकं दिननिर्वर्त्यं त्रिलिङ्गमथ न द्वयोः । नित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च ॥ ४९ ॥ आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ । इक्ष्वाकुः कुटुतुम्ब्यां स्त्री सूर्यवंशनृपे पुमान् ॥ ५० ॥ उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि । उदर्क (१)एष्यत्कालीनफले मदनकण्टके ॥ ५१ ॥ उष्मकस्तु निदाघे स्यादातुरे क्षिप्रकारिणि । उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ ५२ ॥ ऊर्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः । कनकं हेम्नि पुंसि स्यात् किंशुके नागकेसरे ॥ ५३ ॥ धतूरे काञ्चनारे च कालीये चम्पकेऽपि च । करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च ॥ ५४ ॥ (२)द्वयोर्मेघोपले न स्त्री करङ्के च कमण्डलौ । क्रमुकस्तु पुमान् भद्रमुस्तके ब्रह्मदारुणि ॥ ५५ ॥ फले कार्पासिकायाश्च पट्टिकालोध्रपूगयोः । कटकोऽस्त्री नितम्बेऽद्रेर्दन्तिनां दन्तमण्डने ॥ ५६ ॥ सामुद्रलवणे राजधानीवलययोरपि । कटुका कटुरोहिण्यां स्त्रियां व्योषे नपुंसकम् ॥ ५७ ॥ कण्टको न स्त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे । नैयायिकादिदोषोक्तौ स्याद्रोमाञ्चद्रुमाङ्गयोः ॥ ५८ ॥ करङ्को मस्तकेऽशस्यनालिकेरफलास्थनि । ;f{(१) एष्यत्काले तत्फले-ख. ।; (२) द्वयोर्वर्षोपले-ख. ।} ;p{0006} कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ ५९ ॥ कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि । क्रमुकादिच्छटांशेऽब्जवराटे कर्णभूषणे ॥ ६० ॥ कणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्वग्निमन्थयोः । कचाकुस्तु दुराधर्षे दुःशीले च (१)बिलेशये ॥ ६१ ॥ कञ्चुको वारबाणे स्यान्निर्मोके करभेऽपि च । वर्धापकगृहीताङ्गस्थितवतस्त्रे च चोलके ॥ ६२ ॥ कञ्चुक्योषधिभेदेऽथ कारिका नटयोषिति । कृतौ विवरणश्लोके शिल्पयातनयोरपि ॥ ६३ ॥ नपुंसकं तु कर्मादौ कारकं कर्तरि त्रिषु । कार्मुकः कमनेऽशोकपादपे चातिमुक्तके ॥ ६४ ॥ कार्मुकं धनुषि स्यान्ना वेणी कर्मक्षमेऽन्यवत् । कावृकः कृकवाकौ स्यात् पीनमस्तककोकयोः ॥ ६५ ॥ क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च । कालिका चण्डिकाभेदे (२)कार्ष्ण्यवृश्चिकपत्रयोः ॥ ६६ ॥ क्रमदेयवस्तुमूल्ये धूसरीनवमेघयोः । पटोलशाखारोमालीमांसीकाकीशिवासु च ॥ ६७ ॥ मेघावलौ च किम्पाको महाकालफलाज्ञयोः । कीचको दत्यभिद्वाताहतसस्वनवंशयोः ॥ ६८ ॥ कीटकः कृमिजातौ ना निष्ठुरे पुनरन्यवत् । कुलकं तु पटोले स्यात् सम्बद्धश्लोकसंहतौ ॥ ६९ ॥ पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते । क्षुल्लकस्त्रिषु नीचेऽल्पे कुशिको मुनिसर्जयोः ॥ ७० ॥ कुषाकुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु । कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे ॥ ७१ ॥ क्षुरकः काकिलाक्षे स्याद् गोक्षुरे तिलकद्रुमे । ;f{(१) ना-ख. ।; (२) कार्त्स्न्य -क. ।} ;p{0007} कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ ७२ ॥ उदपानेऽच्यु(१)तायां तु कूपिकाऽम्भोगतोपले । कूलकं न स्त्रियां स्तूपे पुंसि स्यात् कृमिपर्वते ॥ ७३ ॥ कूर्चिका सूचिकायां च तूलिकायां च कुड्मले । (२)कपाटोद्भेदने क्षीरविकृतावपि योषिति ॥ ७४ ॥ कृषकः पुंसि फाले स्यात् कर्षके त्वभिधेयवत् । कारकोऽस्त्री कुड्मले स्यात् कक्कोलकमृणालयोः ॥ ७५ ॥ कौतुकं त्वभिलाषे स्यादुत्सवे नर्महर्षयोः । तथा परम्परायातमङ्गले च कुतूहले ॥ ७६ ॥ विवाहसूत्रगीतादिभोगयोरपि न द्वयोः । कौशिको नकुले व्यालग्राहे गुग्गुलुशुक्रयोः ॥ ७७ ॥ कोषज्ञोलूकयोश्च स्याद्विश्वामित्रमुनावपि । कौषिकी चण्डिकायां च नदीभेदे च योषिति ॥ ७८ ॥ खनको नोन्दुरौ सन्धिचौरे त्रिष्ववदारके । खड्गिको महिषीक्षीरे फेनशौनिकयोरपि ॥ ७९ ॥ स्यात् खोलकस्तु पाके शिरस्त्रवल्मीकपूगकोशेषु । गणिका यूथीवेश्येभीतर्कारीषु ना तु दैवज्ञे ॥ ८० ॥ ग्रन्थिकं पिप्पलीमुले गुग्गुलुग्रन्थिपर्णयोः । करीरे पुंसि दैवज्ञे सहदेवाख्यपाण्डवे ॥ ८१ ॥ गण्डकः पुंसि खड्गे स्यात् संख्याविद्याप्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ ८२ ॥ ग्राहको घातिविहगे व्या(३)धानां च ग्रहीतरि । गान्धिको लेखकेऽपि स्यात् सुगन्धिव्यवहारिणि ॥ ८३ ॥ गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः । गृह्यको निघ्नके छेके गैरिकं धातुरुक्मयोः ॥ ८४ ॥ ;f{(१) चितायां च-ख. ।; (२) कवाटकुटके-ख., कपाटाङ्कुट्टके-क. ।; (३) व्यालानां-ख., धान्यानां क. ।} ;p{0008} गोलको विधवापुत्रे जारात् स्यान्मणिके गुडे । गोरङ्कुः स्यात् पुमान् पक्षिभेदे लग्नकबन्दिनोः ॥ ८५ ॥ चषकोऽस्स्त्री सुरापात्रे मधुमद्यप्रभेदयोः । चलुकः प्रसृतौ भाण्डभेदे चुलुकवत् पुमान् ॥ ८६ ॥ चतुष्की मशकहर्यां पुष्करिण्यन्तरेऽपि च । चारकः पालकेऽश्वादेः स्यात् सञ्चारकबन्धयोः ॥ ८७ ॥ चित्रकं तिलके ना तु व्याघ्रभिच्चञ्चुपाठिषु । चुम्बकश्चुम्बनपरे धूर्तायस्कान्तयोरपि ॥ ८८ ॥ बहुग्रन्थैकदेशज्ञे घटस्योर्द्ध्वावलम्बने । चुल्लकी शिशुमारेऽपि कुण्डीभेदे कुलान्तरे ॥ ८९ ॥ चूलिका नाटकस्याङ्गे कर्णमूले च हस्तिनाम् । चूतकः कूपकेऽप्याम्रे जनकः पितृभूभुजोः ॥ ९० ॥ जम्बूकः फेरवे नीचे पश्चिमाशापतावपि । जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥ ९१ ॥ जाहको घोङ्घमार्जारखट्वाकारुण्डिकासु च । जालकं कोरके दम्भे कुलायानाययोरपि ॥ ९२ ॥ न पुंसि मोचकफले स्त्रियां तु वसनान्तरे । गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् ॥ ९३ ॥ भटानामश्मरचिताङ्गरक्षिण्यां च जालिका । जालिको वाच्यवद् ग्रामजालिजालोपजीविनोः ॥ ९४ ॥ जीवकः प्राणके पीतशाल(१)कृपणयोरपि । कूर्चशीर्षेऽपि पुंसि स्यादाजीवे जीविका मता ॥ ९५ ॥ त्रिषु सेविनि वृद्ध्याशिजीविराहितुण्डिके । (२)झल्लिकोद्वर्तनपटे स्त्रियां द्योते च झिल्लीका ॥ ९६ ॥ (३)आतपस्य रुचौ झिण्ट्यां टुण्टुकः शोणकाल्पयोः । ;f{(१) क्षपणयो-ख. ।; (२) झल्लिकोद्वर्तनमले पटे दीप्तौ च झिल्लिका-ख. ।; (३) उद्वर्तनांशुके झिण्ट्यां-ख. ।} ;p{0009} डिम्बिका जलबिम्बे स्यात् शो(१)णके कामुकस्त्रियाम् ॥ ९७ ॥ तण्डकः खञ्जने फेने समासप्रायवाचि च । गृहदारुतरुस्कन्धमायाबहुलकेष्वपि ॥ ९८ ॥ तक्षकस्तु पुमान् नागराजभेदे च वर्द्धकौ । तारको दैत्यभित्कर्णधारयोस्र्न द्वयोर्दृशि ॥ ९९ ॥ कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु । तिलको द्रुमरोगाश्वभेदेषु तिलकालके ॥ १०० ॥ क्लीबं सौवर्चलक्लेम्नोर्न स्त्रियां तु विशेषके । त्रिशङ्कुर्ना राजभेदे शलभे वृषदंशके ॥ १०१ ॥ तुरुष्कः सिल्हके म्लेच्छजातौ देशान्तरेऽपि च । तूलिका कुर्चिकायां च शय्योपकरणेऽपि च ॥ १०२ ॥ दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः । दारको बालकेऽपि स्याद् भेदके त्वभिधेयवत् ॥ १०३ ॥ द्रावको ग्रावभेदे स्याद्विदग्धे मोषकेऽपि च । दीपकं वागलङ्कारे वाच्यवद्दीप्तिकारके ॥ १०४ ॥ दीप्यकं चाजमोदायां यवानीबर्हिचूडयोः । दुच्छको गन्धकुट्यां स्याद्विहाराद्यवकाशके ॥ १०५ ॥ दूषिका तूलिकायां च मले स्याल्लोचनस्य च । धनिका साधुनार्यां ना धन्याके त्रिषु साधुधनिनोश्च ॥ १०६ ॥ स्याद्धेनुका करिण्यां धेनावपि ना तु दानवविशेषे । धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०७ ॥ नर्तकः केलके(२) पोटगलचारणयोर्नटे । नर्तकी लासिकायां च करेण्वामपि योषिति ॥ १०८ ॥ नग्निकाऽपि कुमार्यां स्यात् पुमान् क्षपणबन्दिनोः । नरकः पुंसि निरयदेवारातिप्रभेदयोः ॥ १०९ ॥ नन्दको हरिखड्गे च हर्षके कुलपालके । ;f{(१) मोणके-क. ख. ।; (२) केवले-क. ।} ;p{0010} नालीकः शरशल्याङ्गेष्वब्जखण्डे नपुंसकम् ॥ ११० ॥ नायको नेतरि श्रेष्ठे हारमध्यमणावपि । निर्मोको मोचने व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १११ ॥ नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च । पराकस्तु व्रते खड्गे प्रसेकः सेचने च्युतौ ॥ ११२ ॥ प्रतीकोऽवयवेऽपि स्यात् प्रतिकूलविलोमयोः । पद्मकं स्यात् पद्मकाष्ठबिन्दुजालकयोरपि ॥ ११३ ॥ पक्षकस्तु पुमान् पार्श्वद्वारे च पार्श्वमात्रके । पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च ॥ ११४ ॥ पताका वैजयन्त्यां च सौभाग्यनाटकाङ्गयोः । पातुकः पतयालौ स्यात् प्रपातजलहस्तिनोः ॥ ११५ ॥ प्राणकः सत्त्वजातीये जीवकद्रुमचोलयोः । पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ॥ ११६ ॥ अक्षादिचालने मूलद्रव्यापचयरोधसोः । पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ ११७ ॥ पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके । भल्लातके विडङ्गेऽथ प्रियकः पीतशालके ॥ ११८ ॥ नीपे चित्रमृगे चालौ प्रियङ्गौ कुङ्कुमेऽपि च । पिण्याकोऽस्त्री तिलकल्के हिङगुवाल्हीकसिल्हके ॥ ११९ ॥ पिनाकोऽस्त्री रुद्रचापे पांशुवर्षत्रिशूलयोः । पिटकस्त्रिषु विस्फोटे मञ्जूषायां पुनः पुमान् ॥ १२० ॥ पिष्टको घृतपूपादौ नेत्ररोगान्तरेऽपि च । पुलकः कृमिप्रभेदे प्रस्तरभेदे च मणिदोषे ॥ १२१ ॥ रोमाञ्चे हरिताले गजान्नपिण्डे च गन्धर्वे । पुलाकस्तुच्छधान्ये स्यात् सङ्क्षेपे भक्तसिक्थके ॥ १२२ ॥ पुष्पकं रीतिपुष्पे च विमाने धनदस्य च । नेत्ररोगे तथा रत्नकङ्कणे च रसाञ्जने ॥ १२३ ॥ लोहकांस्ये मृदङ्गारशकट्यां च नपुंसकम् । ;p{0011} स्यात् पुत्रिका पुत्तलिकादुहित्रोर्यावतूलके ॥ १२४ ॥ ना पुत्रे शरभे धूर्ते शैलवृक्षप्रभेदयोः । पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्यां तु पूर्णिका ॥ १२५ ॥ पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमान् । पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् ॥ १२६ ॥ पेचको गजलाङ्गुलमू्लोपान्ते च कौशिके । (१)पेटकं पुस्तकादीनां मञ्जूषायां कदम्बके ॥ १२७ ॥ वल्मीको रोगभेदे च नाकौ च पुन्नपुंसकम् । बन्धूकं बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ १२८ ॥ बन्धकः स्याद्विनिमये पुंश्चल्यां स्याच्च बन्धकी । बहुकः कर्कटे चार्के दात्यूहे जलखातके ॥ १२९ ॥ वराकः शङ्करे पुंसि शोचनीयेऽभिधेयवत् । बालकस्तु शिशावज्ञे वालधौ हयहस्तिनोः ॥ १३० ॥ अङ्गुलीयकह्रीबेरवलये पुंसि बालिका । बालायां बालुकापत्रकाहलाकर्णभूषणे ॥ १३१ ॥ वारकोऽश्वगतौ पुंसि वाच्यवत् स्यान्निषेधके । बालुका सिकतासु स्याद् बालुकं त्वेलबालुके(२) ॥ १३२ ॥ भर्मकं रोगभेदे स्याद्विडङ्गकलधौतयोः । भ्रामको जम्बुके धूर्ते सूर्यावर्त्ताश्मभेदयोः ॥ १३३ ॥ भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १३४ ॥ भूमिका रचनायां स्याद्वेशान्तरपरिग्रहे । भूतीकमपि भूनिम्बे दीप्यकर्पूरके तृणे ॥ १३५ ॥ मधुका मधुपर्ण्यां स्या(३)न्मधुकं क्लीतके खगे । वेल्यन्तरे ना मशको रोगकीटप्रभेदयोः ॥ १३६ ॥ ;f{(१) पेटकः–क. ।; (२) बालुकास्त्वेलवालुके - ख. ।; (३) स्त्री - ख. ।} ;p{0012} मण्डूकः शोणके मुन्यन्तरे स्याद् गूढवर्चसि । मण्डूकपर्ण्यां मण्डूकी मल्लिको हंसभिद्यपि ॥ १३७ ॥ माल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः । मामकं स्यान्मदीयार्थे त्रिषु पुंसि तु मातुले ॥ १३८ ॥ मातृका धातृकामात्रोर्देवीभिद्वर्णमालयोः । मालिका सप्तलापुत्रीग्रीवालङ्करणेषु च ॥ १३९ ॥ पुष्पमाल्ये नदीभेदे पक्षिभेदे तु मालिकः । मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् ॥ १४० ॥ तद्युक्ते वाच्यवत् क्लीबं स्रोतोञ्जनान्धकारयोः । मोचकः कदलीशिग्रुनिर्मोचकविरागिषु ॥ १४१ ॥ मोदकः खाद्यभेदेऽस्त्री हर्षुके पुनरन्यवत् । यमकं यमजे शब्दालङ्कारे पुंसि संयमे ॥ १४२ ॥ याजकस्तु गजे राज्ञो याज्ञिकेऽप्यथ याज्ञिकः । याजके च कुशे चाथ युतकं संशये युगे ॥ १४३ ॥ नारीवस्त्राञ्चले युक्ते चलनाग्रेऽपि यौतके । यूथिका म्लानके पुष्पविशेषेऽपि च योषिति ॥ १४४ ॥ रसिका स्त्री रसालेक्षुरसयोः सरसे त्रिषु । रक्तकोऽम्लानबन्धूकरक्तवस्त्रानुरागिषु ॥ १४५ ॥ राजिकाऽपि च केदारे राजसर्षपरेखयोः । रात्रकं पञ्चरात्रे ना वेश्यावेश्माब्दवासिनि ॥ १४६ ॥ रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः ॥ १४७ ॥ सौवर्चलेऽपि माङ्गल्यद्रव्ये चाप्युत्कटेऽपि च । रुण्डिका द्वारपिण्ड्यां च दूतिकायां रणक्षितौ ॥ १४८ ॥ रूपकं नाटके मूर्त्ते काव्यालङ्करणेऽपि च । रेणुकाऽपि हरेणौ च जामदग्न्यस्य मातरि ॥ १४९ ॥ रोहकः प्रेतभेदे ना रोढरि त्रिषु विश्रुतः(१) । ;f{(१) इदमर्धं पद्यं नास्ति - ख० ।} ;p{0013} लम्पाको लम्पटे देशे लासको लास्यकारिणि ॥ १५० ॥ मयूरे लसके चाथ लूनको भेदिते पशौ । लोचको मांसपिण्डेऽक्षितारकायां च कज्जले ॥ १५१ ॥ ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः । निर्बुद्धौ कर्णपूरे च मौर्व्यां भूश्लथचर्मणि ॥ १५२ ॥ वसुकं रौमके पुंसि शिवमल्ल्यर्कपर्णयोः । वर्णकश्चारणेऽस्त्री तु चन्दने च विलेपने ॥ १५३ ॥ द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे कथनस्य च । वर्तकस्तु खुरेऽश्वस्य विहगे वर्तकी द्वयोः ॥ १५४ ॥ वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके । व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडने ॥ १५५ ॥ ना नागरेऽथ बाल्हीकं बाल्हिकं धीरहिङ्गुनोः । द्वावेतौ पुंसि देशस्य प्रभेदे तुरगान्तरे ॥ १५६ ॥ वार्द्धकं वृद्धसङ्घाते वृद्धस्य भावकर्मणोः । वार्षिकं त्रायमाणायां क्लीबं वर्षाभवे त्रिषु ॥ १५७ ॥ बालकोऽस्त्री पारिहार्य्ये त्रिषु स्यादङ्गगुरीयके । वितर्कस्तु पुमानूहे संशये च निगद्यते ॥ १५८ ॥ विपाकः पचने स्वादे कर्मणो विसदृक्फले । विवेकः स्याज्जलद्रोण्यां पृथग्भावविचारयोः ॥ १५९ ॥ वृश्चिकश्च द्रुणे राशौ शूककीटौषधीभिदोः । वृषाङ्कः शङ्करे साधौ भल्लातकमहत्त्वयोः ॥ १६० ॥ वैजिकं शिग्रुतैले स्याद्धेतौ सद्योऽङ्कुरे तु ना । शलाका शल्यमदनशारिकाशल्लकीषु च ॥ १६१ ॥ छत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः । शम्बू्को गजकुम्भान्ते घोङ्गे च शूद्रतापसे ॥ १६२ ॥ जलजन्तुविशेषे च शम्बूका न नपुंसके । शङ्खं वलये कम्बावस्त्री पुंसि शिरोरुजि ॥ १६३ ॥ शार्ककः स्याद् दुग्धफेनशर्करापिण्डयोः पुमान् । ;p{0014} शिशुकः (१)शिशुमारे स्याद्वालकोलूपिनोरपि ॥ १६४ ॥ शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि । शूककः प्रावटेऽपि स्याद्रसेऽपि परिकीर्तितः ॥ १६५ ॥ सस्यको मणिभेदेऽसौ सम्पर्को मेलके रतौ । सम्पाकस्तर्कके धृष्टे त्रिषु ना चतुरङ्गुले ॥ १६६ ॥ स्यमीका नीलिकायां स्त्री स्यमीको नाकुवृक्षयोः । स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ॥ १६७ ॥ सरकोऽस्त्री शीधुपाने शीधुपात्रेक्षुशीधुनोः । अच्छिन्नाध्वगपङ्क्तौ च सायकः शरखड्गयोः ॥ १६८ ॥ स्थासकः पुंसि चार्चिक्ये जलादेरपि बुद्बुदे । सूचकः सीवनद्रव्ये बोधके पिशुने शुनि ॥ १६९ ॥ ओतौ काके सूतकोऽस्त्री पारदे न द्वयोर्जनौ । सृदाकुर्नाऽनिले वज्रे ज्वलने प्रतिसूर्यके ॥ १७० ॥ सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजीविनि । सेचकः स्यात् पुमान् मेघे वाच्यलिङ्गस्तु सेक्तरि ॥ १७१ ॥ सैनिकः सैन्यरक्षे च स्यात् सेनासमवेतके । हारकः कितवे चौरे गद्यविज्ञानभेदयोः ॥ १७२ ॥ हुडुक्को वाद्यभेदे च मत्तदात्यूहपक्षिणि । हेरुको बुद्धभेदे स्यान्महाकालगणेऽपि च ॥ १७३ ॥ ;v{कचतुष्कम्} ;c{कचतुष्कम्} भवेदलिमको भेके पिकेऽलौ पद्यकेसरे । मधूकेऽप्यथालिपको भृङ्गकोकिलकुक्कुरे ॥ १७४ ॥ अङ्गारकः कुजेऽपि स्यादुल्मुकांशे कुरुण्टके । भवेदङ्गारिका चेक्षुकाण्डे(२) किंशुककोरके ॥ १७५ ॥ स्यादश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च । आकल्पकस्तमोमोहग्रन्थावुत्कलिकामदोः ॥ १७६ ॥ ;f{(१) शूककः-ख. ।; (२) दण्डे-ख. ।} ;p{0015} आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च । भवेदाखनिकश्चौरे शूकरे मूषिकेऽपि च ॥ १७७ ॥ कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु । एडमूकोऽन्यलिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते ॥ १७८ ॥ कठिल्लकस्तु पर्णाशे वर्षाभूकारवेल्लयोः । कपर्दको वराटे स्याज्जटाजूटे च धूर्जटेः ॥ १७९ ॥ कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः । कलविङ्कः पुमान् ग्रामचटकेऽपि कलिङ्गके ॥ १८० ॥ कनीनिका तारकोऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि । कापटिकोऽन्यमर्मज्ञे छात्रे पुंसि शठे त्रिषु ॥ १८१ ॥ काकरूको नग्नदम्भस्त्राजितोलूकभीरुषु । निःस्वे कुरुबकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ॥ कुरण्टकः पीतपुष्पाम्लानझिण्टीकयोः पुमान् । कृकवाकुर्मयूरेऽपि सरटे चरणायुधे ॥ १८३ ॥ कोशातकः (१)कठे पुंसि पटोल्यां घोषके स्त्रियाम् । अथ कौक्कुटिकोऽदूरप्रेरिताक्षे च दाम्भिके ॥ १८४ ॥ कौलेयकः सारमेये कुलीनेऽथ खरालिकः । ग्रामणीभण्डिनाराचेऽप्युपधाने च पुंस्ययम् ॥ १८५ ॥ भवेद् गुणनिका नृत्यशून्याङ्के पाठनिश्चितौ । गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १८६ ॥ गोमेदकं पीतमणौ काकोले पत्रकेऽपि च । स्याद् गोकुलिको वलिरे पङ्कस्थगव्युपेक्षके ॥ १८७ ॥ अथ घर्घरिका क्षुद्रघण्टावादित्रदण्डयोः । चर्चरीको महाकाले केशविन्यासशाकयोः ॥ १८८ ॥ चण्डालिका किन्नरायामुमायामोषधीभिदि । अथ चातुरकश्चक्रगण्डौ पुंस्यभिधेयवत् ॥ १८९ ॥ ;f{(१) कचे-ख. ।} ;p{0016} गोचरे लोचनस्यापि चाटुकारे नियन्तरि । जर्जरीकं बहुच्छिद्रे जरातुरेऽपि वाच्यवत् ॥ १९० ॥ जीवन्तिका गुडूच्यां च जीवाख्यशाकवन्दयोः । जैवातृकः पुमान् सोमे दीर्घायुःकृशयास्त्रिषु ॥ १९१ ॥ तर्तरीकं वहित्रे स्यान्न द्वयोः पारगे त्रिषु । तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ १९२ ॥ त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके । दलाढकः स्वयं जाततिले पृश्न्यां च गैरिके ॥ १९३ ॥ फेनखातकयोर्नागकेसरे च महत्तरे । दन्दशूकस्तु पुल्लिङ्गो राक्षसे च सरीसृपे ॥ १९४ ॥ दासेरकस्तु करभे दासीपुत्रे च धीवरे । नियामकः कर्णधारे पोतवाहे नियन्तरि ॥ १९५ ॥ निश्चारकः पुरीषस्य क्षये स्वैरे समीरणे । निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९६ ॥ प्रचलाकः शराघाते शिखण्डे च भुजङ्गमे । प्रकीर्णकं चामरे स्याद्विस्तारे ना तुरङ्गमे ॥ १९७ ॥ पञ्चालिका स्त्रियां वस्त्रपुत्रिकागीतिभेदयोः । स्यात् पिप्पलकं वक्षोजवृन्ते सीवनसूत्रके ॥ १९८ ॥ पिण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे । अथ पुष्कलको गन्धमृगे क्षपणकीलयोः ॥ १९९ ॥ पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि च ॥ २०० ॥ भवेत् पूर्णानकं वर्द्धापने च पटहेऽपि च । फर्फरीकश्चपेटे स्यात् फर्फरीकं तु मार्दवे ॥ २०१ ॥ बलाहको गिरौ मेघे दैत्यनागविशेषयोः । वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ २०२ ॥ बकेरुका बलाकाभिद्वातावर्जितशाखयोः । वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ॥ २०३ ॥ ;p{0017} वर्त्तुलेऽथो वाणिजको वाडवाग्नौ वणिज्यपि । वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु ॥ २०४ ॥ अथ भ्रमरको भृङ्गे गिरिके चाऽलकान्तरे । भट्टारको नृपे नाट्यवाचा देवे तपोधने ॥ २०५ ॥ भयानकः स्मृतो व्याघ्रे रसे राहौ भयङ्करे । भार्याटिकः पुमान् भार्यानिर्जिते हरिणान्तरे ॥ २०६ ॥ भवेन्मरुबकः (१)पुष्पविशेषे मदनद्रुमे । मण्डोदकं चित्तरागे क्लीबमातर्पणेऽपि च ॥ २०७ ॥ भवेन्मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे । अथ मर्कटकः सस्यभेदे वानरलूतयोः ॥ २०८ ॥ मयूरकोऽप्यपामार्गे क्लीबं तुत्थाञ्जने पुनः । माणवको हारभेदे बाले कुपुरुषेऽपि (२)च ॥ २०९ ॥ मृष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि । रतर्द्धिकं स्याद्दिवसे सुखस्थानेष्टमङ्गले ॥ २१० ॥ (३)राधरेकः पुमान् सीरे सीरके च घनोपले । लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ॥ २११ ॥ कार्याक्षमे लेखनिकः कथितो लेखहारके । लेखेषु परहस्तेन स्वहस्तस्य च लेखके ॥ २१२ ॥ वर्तरूको नदीभेदे काकनीडे जलावटे । विनायकस्तु हेरम्बे तार्क्ष्ये विघ्ने जिने गुरौ ॥ २१३ ॥ वितुन्नकस्तु धान्याके झाटामलमयूरके । विशेषकोऽस्त्री तिलके विशेषयितरि त्रिषु ॥ २१४ ॥ विदूषकश्चाटुबटौ परनिन्दाकरेऽपि च । वैनाशिकः स्यात् क्षणिके परतन्त्रोर्णनाभयोः ॥ २१५ ॥ वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च । वैतालिकः पुमान् खेट्टिताले बोधकरे त्रिषु ॥ २१६ ॥ ;f{(१) पुष्पभिच्छल्यद्रुफणिज्झके-ख. ।; (२) बटौ-ख. ।; (३) राधरङ्कः-ख. ।} ;p{0018} शतानीकस्तु वृन्दे स्यान्मुनि(१)राजप्रभेदयोः । शालावृकः शृगाले स्यात् सारमेये वलीमुखे ॥ २१७ ॥ शिलाटकः पुमानट्टे (२)विलेपे परिकीर्तितः । शृगालिका शिवायां स्यात् त्रासादपि पलायने ॥ २१८ ॥ शृङ्गाटकं भवेद् वारिकण्टके च चतुष्पथे । सन्तानिकाऽपि क्षीरादिसारे मर्कटजालके ॥ २१९ ॥ सन्दंशिकाऽपि सुचुटीलोहयन्त्रविशेषयोः । सञ्चारिका तु युगले कुट्टनीघ्राणयोरपि ॥ २२० ॥ सङ्घाटिका स्त्रियां युग्मे कुट्टिन्यां जलकण्टके । सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २२१ ॥ अथ सकतिकं मातृयात्रामङ्गलसूत्रके । ना संन्यस्ते क्षपणके त्रिषु सन्देहजीविनि ॥ २२२ ॥ सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च । सौगन्धिकं तु कल्हारे पद्मरागेऽपि कत्तृणे ॥ २२३ ॥ पुंलिङ्गो गन्धपाषाणे सुगन्धिव्यवहारिणि । ;v{कपञ्चकम्} ;c{कपञ्चकम्} अनेडमूक उद्दिष्टः शठे वाक्श्रुतिवर्जिते ॥ २२४ ॥ स्यादाच्छुरितकं हासनखराघातभेदयोः । उपकारिकोपकर्त्र्यां पिष्टभेदे नृपालये ॥ २२५ ॥ कक्ष्यावेक्षक इत्येष शुद्धान्तोद्यानपालयोः । रङ्गाजीवे कणे(३) खड्गे द्वाःस्थेऽथ कटखादकः ॥ २२६ ॥ खादके काचकलशे बलिपुष्टे च जम्बुके । कृमिकण्टकं तु चित्राङ्गविडङ्गोदुम्बरेषु च ॥ २२७ ॥ गोजागरिकं मङ्गले पुंसि स्यात् कण्टकारके । चिलमीलिका तु कण्ठीभेदे खद्योतविद्युतोः ॥ २२८ ॥ ;f{(१) मणि-क. ।; (२) विलेऽपि-ख. ।; (३) कवौ-ख. ।} ;p{0019} अथो जलकरङ्कः स्यान्नालिकेरफलेऽम्बुजे । शङ्खे जललतायां च वारिवाहे च कीर्त्तितः ॥ २२९ ॥ जलतापिक इल्लीश(१)काकचीझषयोश्च पुंसि स्यात् । नवफलिका स्त्री नव्ये नवजातरजोऽङ्गनायाञ्च ॥ २३० ॥ नागवारिक उद्दिष्टो राजकुञ्जरहस्तिपे । गणस्थराजे गरुडे चित्रमेखलकेऽपि च ॥ २३१ ॥ स्याद् व्रीहिराजिकः कङ्गुधान्यचीनकधान्ययोः । व्यवहारिका स्याल्लोकयात्रासम्मार्जनीङ्गुदे ॥ २३२ ॥ शतपर्विका दूर्वायां वचायामपि योषिति । शीतचम्पक इत्येष स्यादातर्पणदीपयोः ॥ २३३ ॥ सुवसन्तक उद्दि(२)ष्टो वासन्त्यां मदनोत्सवे । स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २३४ ॥ ;v{कषट्कम्} ;c{कषट्कम्} ग्राममद्गुरिका ग्रामयुद्धे शृङ्गीझषे स्त्रियाम् । मदनशलाका कामोद्दीपकभैषज्यसारिकयोः ॥ २३५ ॥ मातुलपुत्रक इत्यपि मा(२)मकतनये फले च धूर्तस्य । वर्णविलोडक एष श्लोकस्तेने च सन्धिचौरे च ॥ २३६ ॥ सिन्दूरतिलक उक्तो मतङ्गजे स्त्री तु कामिन्याम् । ;c{इति कान्तवर्गः ।} ;k{खान्तवर्गः} ;v{खैकम्} ;c{खैकम्} खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि । संवेदने देवलोके शर्मण्यपि नपुंसकम् ॥ १ ॥ ;f{(१) इलीशकाकोचिमत्स्ययोः-ख. ।; (२) आख्यातो-ख. ।; (३) मातुल-ख. ।} ;p{0020} ;v{खद्विकम्} ;c{खद्विकम्} नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुन्नपुंसकम् । न्युङ्खः सम्यङ् मनोज्ञे च साम्नः षट्प्रणवेषु च ॥ २ ॥ प्रेङ्खा पर्यटनेऽप्यश्वगतौ संवेशनान्तरे । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥ ३ ॥ सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् । लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता ॥ ४ ॥ रिङ्खाऽश्वगतिभेदेऽपि शूकशिम्ब्यां च नर्तने । शङ्खः कम्बौ न योषिन्ना भालास्थिनिधिभिन्नखे ॥ ५ ॥ शाखा पक्षान्तरे बाहौ वेदभागद्रुमाङ्गयोः । शिखा शाखाबर्हिचूडालाङ्गलिक्यग्रमात्रके ॥ ६ ॥ चूडामात्रे शिखायां च ज्वालायां प्रपदेऽपि च । सखा मित्रे सहाये ना वयस्यायां सखी मता ॥ ७ ॥ सुखं शर्मणि नाके च सुखा पुर्यां प्रचेतसः । ;v{खत्रिकम्} ;c{खत्रिकम्} गोमुखं कुटिलागारे वाद्यभाण्डे च लेपने ॥ ८ ॥ पुंसि मातलिपुत्रे च महादेवगणान्तरे । त्रिशिखो राक्षसे क्लीबं त्रिशूले मण्डलान्तरे ॥ ९ ॥ दुर्मुखः कपिभिन्नागभिदोर्ना मुखरे त्रिषु । प्रमुखः प्रथमे श्रेष्ठे मयूखः किरणेऽपि च ॥ १० ॥ ज्वालायामपि शोभायां विशिखस्तामरे शरे । विशिखा तु खनित्र्यां च रथ्यानलिकयोरपि ॥ ११ ॥ विशाखस्तर्कके स्कन्दे स्त्रियामृक्षे कठिल्लके । वैशाखो मासभेदेऽपि मन्थाने च प्रकीर्तितः ॥ १२ ॥ सुमुखस्तार्क्ष्यतनयो शाकनागप्रभेदयोः । ;v{खचतुष्कम्} ;c{खचतुष्कम्} भवेदग्निमुखा देवे विप्रे भल्लातके स्त्रियाम् ॥ १३ ॥ ;p{0021} अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च । लाङ्गलिक्याख्यौषधौ च विशल्यायां च योषिति ॥ १४ ॥ इन्दुलेखाऽमृतासोमलताशशिकलासु च । अथ बद्धशिखा स्त्री स्यादुच्चटायां शिशौ त्रिषु ॥ १५ ॥ महाशङ्खो मानुषास्थिसङ्ख्याभेदालिकेषु च । भवेद्व्याघ्रनखं कन्दगन्धद्रव्यविशेषयोः ॥ १६ ॥ नखक्षतान्तरे क्लीबं शिलीमुखोऽलिकाण्डयोः । शशिलेखा कलाभागे गुडूचीवृत्तभेदयोः ॥ १७ ॥ भवेत् स्वस्तिमुखो लेखे ब्राह्मणे वन्दिनि त्रिषु । ;v{खपञ्चकम्} ;c{खपञ्चकम्} मलिनमुखोऽग्नौ गोलाङ्गूले पुंसि त्रिषु क्रूरे ॥ १८ ॥ शीतमयूखश्चन्द्रे घनसारे चापि पुंलिङ्गः । सर्वतोमुख उग्रे च क्षेत्रज्ञब्रह्मणोः पुमान् ॥ १९ ॥ नपुंसकं तु पानीये सुरवर्त्मन्यपि स्मृतम् । ;c{इति खान्तवर्गः ।} ;k{गान्तवर्गः} ;v{गैकम्} ;c{गैकम्} गौः स्वर्गे च बलीबर्दै रश्मौ च कुलिशे पुमान् । (१)स्त्री सौरभेयीदृग्बाणदिग्वाग्भूष्वप्सु भूम्नि च ॥ १ ॥ ;v{गद्विकम्} ;c{गद्विकम्} (२)अगः स्यान्नगवत् पृथ्वीधरपादपयोः पुमान् । अङ्गं गात्रे प्रतीकोपाययोः पुम्भूम्नि नीवृति ॥ २ ॥ ;f{(१) गायत्र्यामपि गम्भीरे जगत्यां भुवने जले । गो गणेशे च नाके च वियत्यपि पुमानयम् ॥ गः सुमेरौ समाख्यातो गायत्रीगीतयोः पुमान् । गन्धर्वे चापि गः ख्यातो गायके चाभिधेयवत् ॥ इति ख. पुस्तकेऽधिकम् ।; (२) अगो महीरुहे शैले भास्करे पवनाशने । ख. पु. पाठः ।} ;p{0022} क्लीबैकत्वे त्वप्रधाने त्रिष्वङ्गवति चान्तिके । इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि ॥ ३ ॥ खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे । खड्गो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके ॥ ४ ॥ गाङ्गस्तु गङ्गासम्भूते त्रिषु भीष्मे गुहे पुमान् । चङ्गस्तु शोभने दक्षे टङ्गोऽस्त्री स्यात् खनित्रके ॥ ५ ॥ खड्गभेदे च जङ्घायां त्यागो दाने च वर्जने । तुङ्गी निशाबर्बरयोः पुन्नागनगयोः पुमान् ॥ ६ ॥ उन्नते त्रिषु दुर्गोमानील्योः स्त्री दुर्गमे त्रिषु । नागं नपुसकं रङ्गे सीसके करणान्तरे ॥ ७ ॥ नागः पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुन्नागनागदन्तकमुस्तके ॥ ८ ॥ देहानिलप्रभेदे च श्रेष्ठे स्यादुत्तरस्थितः । पिङ्गी गोरोचनाहिङ्गुनालिकाचण्डिकासु च ॥ ९ ॥ पिङ्गी शम्यां पिशङ्गे ना बालके तु नपुंसकम् । पूगस्तु क्रमुके वृन्दे फल(१)सारेऽभिधेयवत् ॥ १० ॥ नदीभेदे मलप्वां स्त्री भङ्गो जयविपर्यये । भेदरोगतरङ्गेषु भङ्गा सस्यान्तरे स्त्रियाम् ॥ ११ ॥ भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । महात्म्यैश्वर्ययत्नेषु धर्मे मोक्षे च ना रवौ ॥ १२ ॥ भागो रूपार्द्धके भाग्यैकदेशयोर्भृगुः पुमान् । मुनौ हरे तटे शुक्रे भृङ्गो धूम्याटषिड्गयोः ॥ १३ ॥ मधुव्रते भृङ्गराजे पुंसि भृङ्गं गुडत्वचि । भोगः सुखे धने चाहेः शरीरफणयोरपि ॥ १४ ॥ पालनेऽभ्यवहारे च योषिदादिभृतावपि । मार्गो मृगमदे मासप्रभेदेऽन्वेषणध्वनोः ॥ १५ ॥ ;f{(१) फल्गु-ख. ।} ;p{0023} मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । अन्वेषणे च याच्ञायां मृगी तु वनितान्तरे ॥ १६ ॥ युगो रथहलाद्यङ्गे न द्वयोस्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च ॥ १७ ॥ योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु । वपुःस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ १८ ॥ विश्रब्धघातके द्रव्योपायसन्नहनेष्वपि । कार्मणेऽपि च रङ्गो ना रागे नृत्ये रणक्षितौ ॥ १९ ॥ अस्त्री त्रपुणि रागस्तु मात्सर्ये लोहितादिषु । क्लेशादावनुरागे च गान्धारादौ नृपेऽपि च ॥ २० ॥ रोगः कुष्ठौषधे व्याधौ लङ्गस्तु सङ्गषिड्गयोः । लिङ्गे चिह्नेऽनुमाने च साङ्ख्योक्तप्रकृतावपि ॥ २१ ॥ शिवमूर्तिविशेषेऽपि मेहनेऽपि नपुंसकम् । व्यङ्गो भेके च हीनाङ्गे वङ्गं सीसकरङ्गयोः ॥ २२ ॥ वात्तोकेऽपि च कार्पासे पुम्भूम्नि नीवृदन्तरे । वल्गुः स्याच्छगले पुंसि सुन्दरे चाभिधेयवत् ॥ २३ ॥ वेगो जवे प्रवाहे च महाकालफलेऽपि च । शार्ङ्गः कार्मुकमात्रेऽपि विष्णोरपि शरासने ॥ २४ ॥ शुङ्गो वटाम्रातकयोः पर्कट्यामपि चास्त्रियाम् । शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ॥ २५ ॥ विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात् कूर्चशीर्षके । स्त्री विषायां स्वर्णमीनभेदयो ऋषभौषधौ ॥ २६ ॥ सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु । ;v{गत्रिकम्} ;c{गत्रिकम्} अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ॥ २७ ॥ अनङ्गे मदनेऽनङ्गमाकाशमनसोरपि । अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ॥ २८ ॥ आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि । ;p{0024} आयोगो व्यापृतौ गन्धमाल्योपहाररोधयोः ॥ २९ ॥ आशुगो मारुते बाणेऽप्युद्वेगं क्रमुकीफले । उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च ॥ ३० ॥ उत्सर्गः पुंसि सामान्ये न्याये च त्यागदानयोः । कलिङ्गः पूतिकरजे धूम्याटे भूम्नि नीवृति ॥ ३१ ॥ न द्वयोः कौटजफले महिलायां तु योषिति । कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः ॥ ३२ ॥ कालिङ्गी राजकर्कट्यां चक्राङ्गो मानसौकसि । चक्राङ्गी कटुरोहिण्यां जिह्मगोऽहौ च मन्दगे ॥ ३३ ॥ तडागोऽस्त्री जलाधारविशेषे यन्त्रकूटके । तातगुः क्षुद्रताते ना जनकस्य हिते त्रिषु ॥ ३४ ॥ त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके । वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ॥ ३५ ॥ तुरगी चाश्वगन्धायां तुरगश्चित्तवाजिनोः । धाराङ्गोऽसौ च तीर्थे च नरङ्गस्तु वरण्डके ॥ ३६ ॥ मेहने न द्वयोश्चाथ नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गद्रुमेऽपि च ॥ ३७ ॥ निषङ्गः सङ्गते तूणे निसर्गो रूपसर्गयोः । नीलङ्गुः स्यात्कृमौ पुंसि भम्भराल्यां तु योषिति ॥ ३८ ॥ पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने । पन्नगश्चौषधीभेदे तथैव पवनाशने ॥ ३९ ॥ प्लवगो वानरे भेके सारथौ चोष्णदीधितेः । परागः सुमनोरेणौ धूलिस्नानीययोरपि ॥ ४० ॥ गिरिप्रभेदे विख्यातावुपरागे च चन्दने । प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः ॥ ४१ ॥ प्रयोगः कार्मणेऽपि स्यात् प्रयुक्तौ च निदर्शने । पतङ्गः शलभे शालिप्रभेदे पक्षिसूर्ययोः ॥ ४२ ॥ क्लीबं सूते प्रियङ्गुः स्त्री राजिकाकणयोरपि । ;p{0025} फलिन्यां कङ्गुसस्ये च पुन्नागस्तु सितात्पले ॥ ४३ ॥ जातीफले नरश्रेष्ठे पाण्डुनागे द्रुमान्तरे । वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वचि ॥ ४४ ॥ भुजङ्गोऽहौ च षिड्गे च मातङ्गः श्वपचे गजे । मृदङ्गः पटहे घोषे रक्ताङ्गस्तु महीसुते ॥ ४५ ॥ कम्पिल्ले स्त्री तु जीवन्त्यां क्लीबं विद्रुमधीरयोः । रथाङ्गं न द्वयोश्चक्रे ना चक्राङ्गविहङ्गमे ॥ ४६ ॥ वातिगः पुंसि भण्टाक्यां धातुवादिनि चान्यवत् । विडङ्गस्त्रिष्वभिज्ञे स्यात् कृमिघ्ने पुन्नपुंसकम् ॥ ४७ ॥ विसर्गस्तु पुमान् दाने त्यागे च मलनिर्गमे । विसर्जनीयेऽप्ययनभेदेऽपि च विभावसोः ॥ ४८ ॥ विहङ्गतु त्रिलिङ्गः स्यादाशुगे च विहङ्गमे । सर्वगं सलिले क्लीबं सर्वगः शङ्करे विभौ ॥ ४९ ॥ सम्भोगस्तु पुमान् भोगे सुरते जिनशासने । सारङ्गः पुंसि हरिणे चातके च मतङ्गजे ॥ ५० ॥ शबले त्रिषु हेमाङ्गो गरुडे परमेष्ठिनि । ;v{गचतुष्कम्} ;c{गचतुष्कम्} स्यादपवर्गस्त्यागे मोक्षे कार्यावसानसाफल्ये ॥ ५१ ॥ अभिषङ्गः पुंलिङ्गः पराभवाक्रोशशपथेषु । ईहामृगस्तु पुंसि स्यात् कोकरूपकभेदयोः ॥ ५२ ॥ उपरागस्तु पुंसि स्याद्राहु(१)ग्रस्तार्कचन्द्रयोः । दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते ॥ ५३ ॥ उपसर्गः पुमान् रोगभेदोपप्लवयोरपि । कटभङ्गस्तु शस्यानां हस्तच्छेदे नृपात्यये ॥ ५४ ॥ छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः । दीर्घाध्वगः पुमानुष्ट्रे लेख्यहारे तु भेद्यवत् ॥ ५५ ॥ ;f{(१) राहुग्रासेऽर्कचन्द्रयोः-ख. ।} ;p{0026} मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि । समायोगस्तु संयोगे समवाये प्रयोजने ॥ ५६ ॥ सम्प्रयोगो रतेऽपि स्यादन्वितौ कार्मणेऽपि च । ;v{गपञ्चकम्} ;c{गपञ्चकम्} कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् ॥ ५७ ॥ नाडीतरङ्गः काकोले हिण्डके रतहिण्डके । ;c{इति गान्तवर्गः ।} ;k{घान्तवर्गः} ;v{घैकम्} ;c{घेकम्} घो घण्टायां घर्घरे ना स्त्रियां तु काञ्चिधातयोः । ;v{घद्विकम्} ;c{घद्विकम्} अघं तु व्यसने दुःखे दुरिते च नपुंसकम् ॥ १ ॥ अर्घः पूजाविधौ मूल्येऽप्युद्घः स्याद्देहजानिले । अग्नौ हस्तपुटे शस्तेऽप्योघो वेगे जलस्य च ॥ २ ॥ वृन्दे परम्परायां च द्रुतनृत्योपदेशयोः । मघा मघी च नक्षत्रे धान्यभेदे यथाक्रमम् ॥ ३ ॥ मघो द्वीपान्तरे मेघो मुस्ताजलदयोः पुमान् । मोघा स्त्री पाटलायां स्याद्धीननिष्फलयोस्त्रिषु ॥ ४ ॥ लघुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् । शीघ्रे कृष्णागुरुणि च पृक्कानामौषधौ तु स्त्री ॥ ५ ॥ श्लाघा स्त्रियां प्रशंसायां परिचर्याऽभिलाषयोः । ;v{घत्रिकम्} ;c{घत्रिकम्} अनघो निर्मलापापमनोज्ञेष्वभिधेयवत् ॥ ६ ॥ अमोघः सफले वाच्यवत् स्त्री पथ्याविडङ्गयोः । उल्लाघोऽपि शुचौ कृष्णे दक्षनीरोगयोस्त्रिषु ॥ ७ ॥ काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च । निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥ ८ ॥ पलिघः काचकलशे घटे प्राकारगोपुरे । ;p{0027} परिघो योगभेदेऽस्त्रविशेषेऽर्गलघातयोः ॥ ९ ॥ प्रतिघः प्रतिघाते स्यात् क्रोधेऽपि परिकीर्तितः । महार्घस्तु महामूल्ये त्रिषु स्याल्लावके पुमान् ॥ १० ॥ सर्वौघो गुरुभेदे च सर्वसन्नहने पुमान् । ;c{इति घान्तवर्गः ।} ;k{ङान्तवर्गः} ;v{ङैकम्} ;c{ङैकम्} ङः पुमान् विषये ख्यातः स्पृहायां विषयस्य च । ;c{इति ङान्तवर्गः ।} ;k{चान्तवर्गः} ;v{चैकम्} ;c{चैकम्} चश्चण्डेशे पुमानुक्तः कच्छपे चन्द्रचौरयोः । ;v{चद्विकम्} ;c{चद्विकम्} अर्चा पूजाप्रतिमयोः कचः केशे गुरोः सुते ॥ १ ॥ बन्धे शुष्कव्रणे पुंसि करिण्यां तु कचा स्त्रियाम् । काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे ॥ २ ॥ काञ्चा स्यान्मेखलादाम्नि प्रभेदे नगरस्य च । कूर्चमस्त्री भ्रुवोर्मध्ये कठिनश्मश्रुकैतवे ॥ ३ ॥ क्रौञ्चो द्वीपविशेषे स्यात् पक्षिपर्वतभेदयोः । चर्चा चिन्तास्थासकयोश्चर्चिकायां तु योषिति ॥ ४ ॥ चञ्चा तु नलनिर्माणे तृणनिर्मितपूरुषे । चञ्चुस्त्रोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके ॥ ५ ॥ त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः । न्यङ् नीचनि(१)म्नयोर्नीचः पामरे वामनेऽपि च ॥ ६ ॥ प्राच्छब्दो दिशि देशे च काले च वाच्यलिङ्गकः । पिचुर्ना कुष्ठभेदे च कर्षे तूलेऽसुरान्तरे ॥ ७ ॥ मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः । ;f{(१) मन्दयो-ख. ।} ;p{0028} रुचिः स्त्री दीप्तौ शोभायामभिष्वङ्गाभिलाषयोः ॥ ८ ॥ रुक् स्त्री शोभाद्युतीच्छासु वचः कीरे वचौषधौ । शारिकायां च वाग्वाचे भारत्यां वचने स्त्रियौ ॥ ९ ॥ वीचिः स्वल्पतरङ्गे स्यादवकाशे सुखे द्वयोः । शचीन्द्राण्यां शतावर्यां तथा स्त्रीकरणान्तरे ॥ १० ॥ शुचिर्ग्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु ॥ ११ ॥ सूची तु सीवनद्रव्येऽप्याङ्गिकाभिनयान्तरे । ;v{चत्रिकम्} ;c{चत्रिकम्} उदग्दिग्देशकालेषु वाच्यवत् त्रितयेऽव्ययम् ॥ १२ ॥ कणीची पुष्पितलतागुञ्जयोः शकटे स्त्रियाम् । कवचो गर्दभाण्डे च सन्नाहे पटहेऽपि च ॥ १३ ॥ क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान् । नमुचिस्तु पुमान् दैत्यभेदे कुसुमकार्मुके ॥ १४ ॥ नाराच्येषणिकायां ना लोहबाणाम्बुहस्तिनोः । प्रपञ्चः सञ्चयेऽपि स्याद्विस्तारे च प्रतारणे ॥ १५ ॥ प्रत्यग्दिग्देशकालेषु वाच्यवत्त्रितयेऽव्ययम् । मरीचिर्मुनिभेदे ना गभस्तावनपुंसकम् ॥ १६ ॥ मारीचो रक्षसो भेदे कक्कोले याजकद्विजे । मारीची देवताभेदे विपञ्ची केलिवीणयोः ॥ १७ ॥ विकचः क्षपणे केतौ नाऽकेशे स्फुटितेऽन्यवत् । विरञ्चिर्ना विरिञ्चश्च वैकुण्ठे परमेष्ठिनि ॥ १८ ॥ सङ्कोचो मीनभेदे स्याद् बन्धे क्लीबं तु कुङ्कुमे । सम्यक् स्याद्वाच्यलिङ्गं तु मनोज्ञे सङ्गतेऽपि च ॥ १९ ॥ ;v{चचतुष्कम्} ;c{चचतुष्कम्} जलसूचिः कङ्कत्राटिमत्स्यशृङ्गाटयोरपि । शिशुमारे च पुंलिङ्गो जलौकायां तु योषिति ॥ २० ॥ मलिम्लुचो मासभेदे चौरज्वलनयोः पुमान् । ;p{0029} ;v{चपञ्चकम्} ;c{चपञ्चकम्} रतनारीचो नारीणां सीत्कारे च शुनि स्मरे ॥ २१ ॥ ;c{इति चान्तवर्गः ।} ;k{छान्तवर्गः} ;v{छैकम्} ;c{छैकम्} छा(१) छादने स्त्रियां ख्याता निर्मलेऽन्यवदिष्यते । ;v{छद्विकम्} ;c{छद्विकम्} अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ॥ १ ॥ आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाङ्गे पुसि वाराह्यां चीरिकायां च योषिति ॥ २ ॥ स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः । पिच्छा पूगच्छटाकोशमोचाशाल्मलिवेष्टके ॥ ३ ॥ भक्तसम्भूतमण्डे च पङ्क्तावश्वपदामये । स्त्रियां पुंसि तु लाङ्गूले न द्वयोर्बर्हचूडयोः ॥ ४ ॥ पुच्छः पश्चात्प्रदेशे स्याल्लाङ्गूले पुच्छमिष्यते । म्लेच्छः पामरभेदे च पापरक्तेऽपभाषणे ॥ ५ ॥ ;v{छचतुष्कम्} ;c{छचतुष्कम्} महाकच्छस्तु पुंसि स्यात् समुद्रं च प्रचेतसि । ;c{इति छान्तवर्गः ।} ;k{जान्तवर्गः} ;v{जैकम्} ;c{जैकम्} जा ना मृत्युञ्जये जन्यां तातमात्रे जनार्दने । (२)जूस्त्वरागमने प्रोक्ता सामान्यगमने स्त्रियाम् ॥ १ ॥ जूराकाशसरस्वत्यां पिशाच्यां जवने स्त्रियाम् । ;v{जद्विकम्} ;c{जद्विकम्} अजश्छागे हरिब्रह्मविधुस्मरहरे नृपे ॥ २ ॥ ;f{(१) तरले छं प्रकीर्तितं माहात्म्ये परमेऽपि च - ख. पुस्तकेऽधिकम् ।; (२) त्वरिते जः समाख्यातो जयने जिः प्रकीर्तितः - ख. पुस्तकेऽधिकम् ।} ;p{0030} अब्जोऽस्त्री शङ्खे ना विचुले धन्वन्तरौ च हिमकिरणे । क्लीबं पद्मेऽथाजिः स्त्री समभूमौ च संग्रामे ॥ ३ ॥ ऊर्ज्जस्तु कार्त्तिकोत्साहवलेषु प्राणनेऽपि च । कञ्जः केशे विरिञ्चे च कञ्जं पीयूषपद्मयोः ॥ ४ ॥ कुजा कात्यायनीदेव्यां कुजो रनकभौमयोः । कुब्जो वृक्षप्रभेदे ना न्युब्जे स्याद्वाच्यलिङ्गकः ॥ ५ ॥ कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्तेऽपि हस्तिनाम् । खञ्जा छन्दःप्रभेदे स्त्री कुटिलाङ्घ्रौ तु वाच्यवत् ॥ ६ ॥ खजा मन्थे प्रहस्तेऽथ खर्जूः कीटान्तरे स्मृता । खर्जूरापादपे कण्ड्वां गजो माने मतङ्गजे ॥ ७ ॥ वास्तुनः स्थानभेदेऽपि गञ्जा खनौ सुरागृहे । गञ्जः स्यात् पुंसि रीढायां भाण्डागारे तु न स्त्रियाम् ॥ ८ ॥ गुञ्जा तु काकचिञ्चायां पटहे च कलध्वनौ । द्विजः स्याद् ब्राह्मणक्षत्रवैश्यदन्ताण्डजेषु ना ॥ ९ ॥ द्विजा भार्ग्यां हरेणौ च ध्वजः स्याच्छौण्डिके पुमान् । न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः ॥ १० ॥ निजं स्वीये च नित्ये च न्युब्जो दर्भमयस्रुचि । कर्मरङ्गफले क्लीबं कुब्जाधोमुखयोस्त्रिषु ॥ ११ ॥ प्रजा लोके च सन्ताने पिञ्जा तूलहरिद्रयोः । बले क्लीबे वधे पुंसि व्याकुले त्रिष्वथो भुजा ॥ १२ ॥ द्वयोर्बाहौ करे मर्जूः स्त्री शुद्धौ धावकेऽपि च । रजो रेणौ परागे स्यादार्तवे च गुणान्तरे ॥ १३ ॥ रज्जुर्वेण्यां गुणे योषिद्राजिः स्त्री पङ्क्तिलेखयोः । रुजा रागे च भङ्गेऽथ लाजः स्यादार्द्रतण्डुले ॥ १४ ॥ नपुंसकमुशीरे च स्त्रियां पुम्भूम्नि चाक्षते । व्रजो गाष्ठाध्ववृन्देषु वाजो निःस्वनपक्षयोः ॥ १५ ॥ वेगे पुमानथ क्लीबे घृतयज्ञान्नवारिषु । व्याजः शाठ्येऽपदेशेऽथ बीजमङ्कुरकारणे ॥ १६ ॥ ;p{0031} हेतुतत्त्वाधानशुक्रे सर्जूर्वणिजि विद्युति । स्त्रियां स्वञ्जो विधौ रुद्रे स्वजः प्रस्वेदपुत्रयोः ॥ १७ ॥ क्लीबं रक्तेऽथ सज्जः स्यात् सन्नद्धे सम्भृते त्रिषु । ;v{जत्रिकम्} ;c{जत्रिकम्} अण्डजो मृगनाभौ स्यात् सरटेऽहौ खगे झषे ॥ १८ ॥ अङ्गजं रुधिरेऽनङ्गकेशपुत्रगदेषु ना । अम्बुजो निचुले पुंसि कमले तु नपुंसकम् ॥ १९ ॥ असृक् स्याद्योगभेदे ना रक्तेऽपि स्यान्नपुंसकम् । कम्बोजो हस्तिभेदेऽपि शङ्खदेशविशेषयोः ॥ २० ॥ करजं स्याद्व्याघ्रनखे करञ्जनखयोः पुमान् । कारुजः शिल्पिनां चित्रे वामलूरे गजार्भके ॥ २१ ॥ काम्बोजोऽश्वान्तरे सोमवल्के पुन्नागपादपे । काम्बोजी माषपर्ण्यां च वलक्षखदिरे स्त्रियाम् ॥ २२ ॥ कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि । गिरिजं त्वभ्रकेऽपि स्याच्छिलाजतुनि शैस्लजे ॥ २३ ॥ लोहेऽपि गिरिजागौरीमातुलुङ्ग्योश्च योषिति । जलजं कमले शङ्खे नीरजं कुष्ठपद्मयोः ॥ २४ ॥ परञ्जस्तैलयन्त्रे स्याच्छुरिकाफलसेनयोः । वलजं गोपुरे क्षेत्रे शस्यसङ्गरयोरपि ॥ २५ ॥ वलजा वरयोषायां यूथ्यामथ वणिक् स्त्रियाम् । वणिज्यायां पुमान् वाणिज्यके च करणान्तरे ॥ २६ ॥ बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च । भूमिजो नरकेऽङ्गारे सीतादेव्यां तु भूमिजा ॥ २७ ॥ वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे । सहजस्तु निसर्गे ना सहोत्थे पुनरन्यवत् ॥ २८ ॥ समजः पशुवृन्दे ना विपिने तु नपुंसकम् । सामजस्तु गजे पुंसि सामोत्थे पुनरन्यवत् ॥ २९ ॥ हिमजा तु शचीगौर्योः पुंसि मैनाकपर्वते । ;p{0032} ;v{जचतुष्कम्} ;c{जचतुष्कम्} अहिभुग् बर्हिणे तार्क्ष्ये पुंसि काश्मीरजं पुनः ॥ ३० ॥ कुष्ठकुङ्कमयोः क्लीबेऽतिविषायां तु योषिति । क्षीराब्धिजं तु सामुद्रलवणे मौक्तिकेऽपि च ॥ ३१ ॥ पुमांस्तुषारकिरणे कमलायां तु योषिति । ग्रहराजो रवौ चन्द्रे जघन्यजः कनीयसि ॥ ३२ ॥ वृषले द्विजराजस्तु चन्द्रेऽनन्ते गरुत्मति । धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान् ॥ ३३ ॥ भरद्वाजो गुरोः पुत्रे व्याघ्राटाख्यविहङ्गमे । भारद्वाजी वनकार्पास्यां ना द्रोणऋषिभेदयोः ॥ ३४ ॥ अथ भृङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे । यक्षराट् पुंसि धनदे मल्लानां रङ्गचत्वरे ॥ ३५ ॥ राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे । ;v{जपञ्चकम्} ;c{जपञ्चकम्} ऋषभध्वज एषोऽपि शङ्करे चार्हदन्तरे ॥ ३६ ॥ (१)मुनिभेषजमागस्त्यहरीतक्यां च लङ्घने । ;c{इति जान्तवर्गः ।} ;k{झान्तवर्गः} ;v{झैकम्} ;c{झैकम्} झो झण्टीशे सुरगुरौ दैत्यराजे ध्वनावपि । ;v{झद्विकम्} ;c{झद्विकम्} झञ्झा वाते तारवायौ नष्टेऽपि कीर्त्यते बुधैः ॥ १ ॥ झञ्झा ध्वनिविशेषे च स्यादम्बुकणवर्षणे । ;c{इति झान्तवर्गः ।} ;k{ञान्तवर्गः} ;v{ञैकम्} ;c{ञैकम्} ञः पुमान् स्याद् बलीवर्दे शुके वाममतावपि । ;f{(१) वसुन्धरीशजश्चन्द्रे पद्मेऽपि परिकीर्तितः - ख. पुस्तकेऽधिकम् ।} ;p{0033} ;v{ञद्विकम्} ;c{ञद्विकम्} ज्ञो ब्रह्मबुधविद्वत्सु स्यादज्ञो जडमूर्खयोः ॥ १ ॥ प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ च योषिति । राज्ञी राजप्रियायां च भार्यायां भास्करस्य च ॥ २ ॥ संज्ञा नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च हस्ताद्यैरपि योषिति ॥ ३ ॥ ;v{ञत्रिकम्} कृतज्ञः कुक्कुरे पुंसि मर्यादिन्यभिधेयवत् । क्षेत्रज्ञ आत्मनि च्छेके दैवज्ञो गणके पुमान् ॥ ४ ॥ दैवज्ञेक्षणिकायां स्त्री सर्वज्ञः शिवबुद्धयोः । ;c{इति ञान्तवर्गः ।} ;k{टान्तवर्गः} ;v{टैकम्} ;c{टैकम्} (१)टः पुमान् वामने पादे निःस्वनेऽपि क्वचिन्मतः । ;v{टद्विकम्} ;c{टद्विकम्} अट्टं भक्ते च शुष्के ना क्षौमेऽत्यर्थे गृहान्तरे ॥ १ ॥ इष्टमाशंसितेऽपि स्यात् पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे ऋतुकर्मणि ॥ २ ॥ इष्टिर्मताऽभिलाषेऽपि सङ्ग्रहश्लोकयागयोः । कटः श्रोणौ द्वयोः पुंसि किलिञ्जेऽतिशये शिवे(२) ॥ ३ ॥ समये गजगण्डे च पिप्पल्यां तु कटी मता । कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि ॥ ४ ॥ नपुंसकमकार्ये स्यात् पुंलिङ्गो रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ॥ ५ ॥ ;f{(१) टा पृथिव्यां करङ्के टी ध्वनौ च परिकीर्तितः । टो महेश्वर आख्यातः ख्याते त्रिभुवनेऽपि च । इदं पद्यं ख. पुस्तकेऽधिकम् ।; (२) शरे-ख., शिरे-क. ।} ;p{0034} कष्टं तु गहने कृच्छ्रे क्रुष्टं रोदनरावयोः । कुटः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे ॥ ६ ॥ कुटी स्यात् कुम्भदास्यां च मुरायां चित्रगुच्छके । कूटोऽस्त्री निश्चलं राशौ लोहमुद्गरदम्भयोः ॥ ७ ॥ मायाद्रिशृङ्गयोस्तुच्छे सीरावयवयन्त्रयोः । अनृते चाथ कृष्टिः स्यादाकर्षे स्त्री बुधे पुमान् ॥ ८ ॥ काटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेदप्रकर्षयोः । खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ॥ ९ ॥ खाटिस्त्वसद्ग्रहेऽपि स्यात् किणे शवरथे स्त्रियाम् । खेटः कफे ग्रामभेदे चर्मण्यस्त्र्यर्वति त्रिषु ॥ १० ॥ अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम् । घटः समाधिभेदेभशिरःकूटकुटेषु च ॥ ११ ॥ घटा घटनगोष्ठीभघटनासु च योषिति । घृष्टिः स्त्री घर्षणस्पर्द्धाविष्णुक्रान्तासु ना किरौ ॥ १२ ॥ घोण्टा तु बदरीपूगवृक्षयोरपि योषिति । चटुश्चाटौ पिचिण्डे(१) च व्रतिनामासने पुमान् ॥ १३ ॥ जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी । जुष्टं तु क्लीबमुच्छिष्टे सेविते वाच्यलिङ्गकम् ॥ १४ ॥ झाटो निकुञ्जे कान्तारे व्रणादीनां च मार्जने । तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिषु ॥ १५ ॥ त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि । त्रुटिः स्त्री संशये स्वल्पे सूक्ष्मैलाकालमानयोः ॥ १६ ॥ त्रोटिः स्त्री कट्फले चञ्च्वां खगे मीनान्तरेऽपि च । दिष्टं दैवै पुमान् काले दिष्टिर्मुत्परिमाणयोः ॥ १७ ॥ स्त्रियां दृष्टिः स्त्रियां बुद्धौ लोचने दर्शनेऽपि च । धटो दिव्यतुलायां स्याद्धटी चीरे च वाससः ॥ १८ ॥ नटी नल्यौषधे स्त्री स्यात् शैलूषाशीकयोः पुमान् । ;f{(१) ऽथ-ख. ।} ;p{0035} पटश्चित्रपटे वस्त्रेऽस्त्री प्रियालद्रुमे पुमान् ॥ १९ ॥ पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रालवणयोरपि ॥ २० ॥ पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतुष्पथे च राजादिशासनान्तरपीठयोः ॥ २१ ॥ पटिः स्त्री पटभेदे स्याद्वागुलौ कुम्भिकाद्रुमे । पुष्टिः स्त्री पोषणे वृद्धौ फटा तु फणदन्तयोः ॥ २२ ॥ बटी त्रिषु गुणे पुंसि स्यान्न्यग्रोधकपर्दयोः । भटः स्यात् पुंसि वीरे च विशेषे पामरस्य च ॥ २३ ॥ भृष्टिः स्याद्भर्जने शून्यवाटिकायां च योषिति । म्लिष्टं त्रिष्वव्यक्तवाचि म्लाने मुष्टिर्द्वयोः फले ॥ २४ ॥ बद्धपाणौ त्सरौ यष्टिः पुंसि स्याद् भुजदण्डके । द्वयोर्हारलताभार्ग्योर्मधुकाशस्त्रभेदयोः ॥ २५ ॥ रिष्टं क्षमाशुभाभावे पुंसि खड्गे च फेनिले । रिष्टिः खड्गे ना शुभे स्त्री लाटो देशान्तरेंऽशुके ॥ २६ ॥ वाटो मार्गे वृतिस्थाने स्यात् कुटीवास्तुनोः स्त्रियाम् । विटोऽद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ॥ २७ ॥ विष्टिस्त्रिषु कर्मकरे स्त्र्याजूवेतनकर्मसु । व्युष्टिः फले समृद्धौ स्त्री व्युष्टं कल्ये त्रिषूषिते ॥ २८ ॥ सटा जटाकेसरयोः स्फुटो व्यक्तप्रफुल्लयोः । व्याप्ते त्रिषु स्फुटिर्योषित् पादस्फोटामयेऽपि च ॥ २९ ॥ निर्भिन्नकर्कटीशस्येऽपि स्यात् सृष्टं तु निर्मिते । युक्तनिश्चितयोः प्राज्ये त्रिषु सृष्टिस्तु निर्मितौ ॥ ३० ॥ स्वभावे चापि कथिता हृष्टो रोमाञ्चितेऽपि च । जातहर्षे प्रहसिते विस्मितेऽप्यभिधेयवत् ॥ ३१ ॥ ;v{टत्रिकम्} ;c{टत्रिकम्} अवटः स्यात् खिले गर्ते कूपे कुहकजीविनि । अरिष्टो लशुने निम्बे फेनिले काककङ्कयोः ॥ ३२ ॥ ;p{0036} अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने चादिष्टमादेशिते त्रिषु ॥ ३३ ॥ आज्ञप्तोच्छिष्टयोः क्लीबमुत्कटतीव्रमत्तयोः । उद्भटः कच्छपे(१) शूर्पे कर्कटो विहगान्तरे ॥ ३४ ॥ राशिभेदे कुलीरे च वालुङ्क्यां शाल्मलीफले । कर्दटः करहाटे स्यात् पङ्कपङ्कारयोरपि ॥ ३५ ॥ करटो गजगण्डे स्यात् कुसुम्भे निन्द्यजीवने(२) । एकादशाहादिश्राद्धे दुर्दुरूढेऽपि वायसे ॥ ३६ ॥ करटो वाद्यभेदेऽथ कार्पटो जतुकार्यिणोः । कीकटः कृपणे निःस्वे त्रिषु पुम्भूम्नि नीवृति ॥ ३७ ॥ कुरुण्टो दारुपुत्र्यां ना झिण्ट्यम्लानप्रभेदयोः । कुक्कुट्यनृतचर्यायां पुंसि स्याच्चरणायुधे ॥ ३८ ॥ निषादशूद्रयोः पुत्रे तृणील्कायां च कुक्कुभे । कुनटी मनःशिलायां नैपाल्यामपि योषिति ॥ ३९ ॥ कृपीटमुदरे तोये केशटो हर्यजोत्कटे । चर्पटः स्फारविपुले चपेटे पर्पटेऽपि च ॥ ४० ॥ चक्राटो विषवैद्येऽपि धूर्तदीनारयोरपि । चिपिटः खाद्यभेदे ना त्रिषु पिट्टितविस्तृते ॥ ४१ ॥ चिरटी तु सुवासिन्यां स्याद् द्वितीयवयःस्त्रियाम् । जकुटं वार्त्ताकुपुष्पे जकुटो मलये शुनि ॥ ४२ ॥ त्र्यङ्कटं शिक्यभेदेऽपि धौताञ्जन्यां च न द्वयोः । त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे ॥ ४३ ॥ त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम् । सतीनके च तीरे च त्रिपुटः समुदाहृतः ॥ ४४ ॥ द्रोहाटः कथितो गाथाप्रभेदे मृगलुब्धके । वैडालव्रतिके चाऽथ धाराटश्चातकाश्वयोः ॥ ४५ ॥ ;f{(१) सूर्ये-ख. ।; (२) जीविनि-ख. ।} ;p{0037} निर्दटस्तु दयाशून्ये कथितो निष्प्रयोजने । परापवादरक्ते च वाच्यलिङ्गोऽयमिष्यते ॥ ४६ ॥ निष्कुटस्तु गृहोद्याने स्यात् केदारकपाटयोः । पर्कटी नूतनफले पूगादेः प्लक्षपादपे ॥ ४७ ॥ परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम् । पर्पटी पिष्टभेदे स्यात् पर्पटो भेषजान्तरे ॥ ४८ ॥ पात्रटः (१)कर्परे पुंसि कृशे स्यादभिधेयवत् । पिच्चटो नेत्ररोगे स्यात् क्लीबं सीसकरङ्गयोः ॥ ४९ ॥ वरटा द्वयोर्वरट्यां स्त्री हंस्यां तत्पतौ पुमान् । बर्वटी पण्ययोषायां व्रीहिभेदे च योषिति ॥ ५० ॥ वेकटः स्याद्वैकटिके मत्स्यभेदे च यूनि च । भावाटो भावके साधुनिवेशे कामुके नटे ॥ ५१ ॥ भाकूटः शैलझषयोर्भेदे स्यादथ मर्कटी । करञ्जभिच्छूकशिब्योः पुंसि वानरलूतयोः ॥ ५२ ॥ मोचाटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे । मोरटं तु भवेदिक्षुमूलाङ्कोठप्रसूनयोः ॥ ५३ ॥ सप्तरात्रात्परक्षीरे मूर्विकायां तु मोरटा । वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने ॥ ५४ ॥ चिकटा वज्रवाराह्यां त्रिषूरुविकरालयोः । शाकटं शकटस्येदमित्यर्थे तस्य वोढरि ॥ ५५ ॥ शैलाटो देवले सिंहे शुक्लकाचकिरातयोः । संसृष्टं त्रिषु संसर्ग संशुद्धे वसनादिना ॥ ५६ ॥ ;v{टचतुष्कम्} ;c{टचतुष्कम्} उच्चिङ्गटस्तृणगडमत्स्ये(२) कोपनपूरुषे । करहाटः शिफाकन्दे पद्मस्य मदनद्रुमे ॥ ५७ ॥ स्यात् कार्यपुटः कृपणोन्मत्तानर्थकरेषु च । ;f{(१) कर्पटे-ख. ।; (२) मत्स्यकोपनयोः पुमान्-ख. ।} ;p{0038} कामकूटस्तु वेश्यायाः प्रियविभ्रमयोः पुमान् ॥ ५८ ॥ कुटन्नटं तु कैवर्ते मुस्तके पुंसि शोणके । कुण्डकीटस्तु चार्वाकवचनाभिज्ञपूरुषे ॥ ५९ ॥ पतितब्राह्मणीपुत्रदासीकामुकयोरपि । खड्गारीटस्तु फलकासिधाराव्रतधारिणोः ॥ ६० ॥ गाढमुष्टिः कृपाणे ना कृपणे त्वभिधेयवत् । चक्रवाटः क्रियारोहे पर्य्यन्ते च शिखातरौ ॥ ६१ ॥ चतुःषष्टिः कलासंख्याभेदयोर्बह्वृचि स्त्रियाम् । नारकीटोऽश्मकीटे स्यात् स्वदत्ताशाविहन्तरि ॥ ६२ ॥ परपुष्टः परभृते वानरार्यां तु योषिति । प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते ॥ ६३ ॥ प्रतिसृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् । वर्कराटः कटाक्षे स्यात्तरुणादित्यरोचिषि ॥ ६४ ॥ नारीपयोधरोत्सङ्गकान्तदत्तनखक्षते । शिपिविष्टस्तु खलतौ शिवे दुश्चर्मणि स्मृतः ॥ ६५ ॥ अथ श्रुतिकटः प्राञ्चल्लोहेऽहौ पापशोधने । ;v{टपञ्चकम्} ;c{टपञ्चकम्} दशनोच्छिष्टः पुंसि स्यान्निश्वासाधरचुम्बयोः ॥ ६६ ॥ ;c{इति टान्तवर्गः ।} ;k{ठान्तवर्गः} ;v{ठैकम्} ;c{ठैकम्} ठो मण्डले चन्द्रबिम्बे शून्ये च लोकगोचरे । ;v{ठद्विकम्} ;c{ठद्विकम्} कठो मुनौ तदाख्यातवेदाध्येतृज्ञयोः स्वरे ॥ १ ॥ कण्ठो गले सन्निधाने ध्वनौ मदनपादपे । काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः ॥ २ ॥ ;p{0039} स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् । कुष्ठं रोगे पुष्करेऽस्त्री कुण्ठोऽकर्मण्यमूर्खयोः ॥ ३ ॥ कोष्ठः कुसूले चात्मीये मध्ये कुक्षेर्गृहस्य च । गोष्ठं गोस्थानके गोष्ठी सभासंलापयोः स्त्रियाम् ॥ ४ ॥ ज्येष्ठः श्रेष्ठेऽतिवृद्धे च त्रिषु मासान्तरे पुमान् । ज्येष्ठा तु गृहगोधाऽऽख्यजन्तुनक्षत्रभेदयोः ॥ ५ ॥ निष्ठा निष्पत्तिनाशान्तयाञ्चानिर्वहणेषु च । प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ ॥ ६ ॥ पाठश्च पठने ख्याते विद्धकर्ण्यां तु योषिति । पृष्ठं परमगात्रेऽपि देहस्यावयवान्तरे ॥ ७ ॥ वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च । शठो मध्यस्थपुरुषे धूर्त्तधूस्तूरयोरपि ॥ ८ ॥ श्रेष्ठो वरे कुबेरे च शोठो मुर्खेऽलसेऽपि च । षष्ठी कात्यायनीतिथ्योस्त्रिषु षण्णां च पूरणे ॥ ९ ॥ हठः स्यात् प्रसभे पृश्न्यां हेठो बाधापिहेठयोः । ;v{ठत्रिकम्} ;c{ठत्रिकम्} अपष्ठुः पुंसि काले च वामे स्यादन्यलिङ्गकः ॥ १० ॥ अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूथिकयोरपि ॥ ११ ॥ कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकम् । कनिष्ठोऽतियुवात्यल्पानुजे स्त्री दुबलाङ्गुलौ ॥ १२ ॥ जरठः कर्कशे पाण्डौ कठिनेऽप्यभिधेयवत् । नर्मठश्चिबुके षिड्गे प्रतिष्ठा गौरवे क्षितौ ॥ १३ ॥ स्थाने च यागनिष्पत्तिचतुरक्षरपद्ययोः । प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्तरेऽपि च ॥ १४ ॥ भूपकक्षान्तरेऽपि स्याद्वरिष्ठं मरिचेऽपि च । ताम्रे क्लीबं तित्तिरौ ना वरोरुतमयोस्त्रिषु ॥ १५ ॥ मकुष्ठो व्रीहिभेदे ना मन्थरे पुनरन्यवत् । ;p{0040} लघिष्ठोऽत्यल्पके भेले वैकुण्ठः कृष्णशक्रयोः ॥ १६ ॥ श्रीकण्ठो देशभिद्युग्रे साधिष्ठोऽतिदृढार्थयोः । ;v{ठचतुष्कम्} ;c{ठचतुष्कम्} कलकण्ठः कलध्वाने हंसे पारावते पिके ॥ १७ ॥ कालकण्ठश्च दात्यूहे कलविङ्के च खञ्जने । मयू्रे पीतसारे च स्यात् खण्डपरशौ पुमान् ॥ १८ ॥ कालपृष्ठं कर्णचापे पुंसि कङ्कविहङ्गमे । स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके ॥ १९ ॥ नागरङ्गेऽपि च पुमान् स्याच्चाङ्गेर्यां तु योषिति । पूतिकाष्ठं च सरलदेवदारुमहीरुहोः ॥ २० ॥ सूत्रकण्ठः पुमान् विप्रे खञ्जरीटकपोतयोः । हारिकण्ठः पिके पुंसि हारान्वितगले त्रिषु ॥ २१ ॥ ;c{इति ठान्तवर्गः ।} ;k{डान्तवर्गः} ;v{डैकम्} ;c{डैकम्} डः पुमान् वाडवाग्नौ स्याड्डाकिन्यां स्त्री निगद्यते । ;v{डद्विकम्} ;c{डद्विकम्} अण्डं मुष्के च पेश्यां स्यादिडा तु बुधयोषिति ॥ १ ॥ सौरभेय्यां च वचने वसुमत्यामपि स्त्रियाम् । काण्डः स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः ॥ २ ॥ कुत्सिते वृक्षभिन्नाडीवृन्दे रहसि न स्त्रियाम् । क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ ३ ॥ कुण्डमग्न्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात् पतिवत्नीसुते पुमान् ॥ ४ ॥ पिठरे तु न ना क्ष्वेडो ध्वनौ कर्णामये विषे । क्ष्वेडा वंशशलाकायां सिंहनादे च योषिति ॥ ५ ॥ लोहितार्कपर्णफले घोषपुष्पे नपुंसकम् । ;p{0041} दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः ॥ ६ ॥ क्रोडः शनौ शूकरे ना न पुमानङ्करक्षसोः । खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः ॥ ७ ॥ खण्डः पानान्तरे भेदे गण्डः स्यात् पुंसि खड्गिनि । ग्रहयोगप्रभेदे च वीथ्यङ्गे पिटकेऽपि च ॥ ८ ॥ चिह्नवीरकपोलेषु हयभूषणबुद्बुदे । गडुः पृष्ठगुडे कुब्जे गडो मीनान्तराययोः ॥ ९ ॥ गुडः स्याद् गोलके हस्तिसन्नाहेक्षुविकारयोः । गुडा स्नुह्यां च कथिता गुडिकायां च योषिति ॥ १० ॥ गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति । चण्डो ना तिन्तिडीवृक्षे यमकिङ्करदैत्ययोः ॥ ११ ॥ चण्डी कात्यायनीदेव्यां हिंस्रकोपनयोषितोः । चण्डा धनहरीशङ्खपुष्प्योस्त्रिष्वतिकोपने ॥ १२ ॥ तीव्रेऽपि चूडा वडभौ शिखायां बाहुभूषणे । चोडः प्रावरणे भूम्नि देशभेदे जडा स्त्रियाम् ॥ १३ ॥ शूकशिंब्यां हिमग्रस्तमूकाप्रज्ञेषु तु त्रिषु । ताडस्तु ताडने घोषे मुष्टिमेयतृणादिषु ॥ १४ ॥ ताडी पत्रद्रुमे चाथ दण्डोऽस्त्री लगुडे पुमान् । व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १५ ॥ सैन्ये काले मानभेदे चण्डांशोः पारिपार्श्विके । दमे यमेऽभिमाने च नाडी नाले व्रणान्तरे ॥ १६ ॥ शिरायां गण्डदूर्वायां चर्यायां कुहनस्य च । तथा षट्क्षणकालेऽपि नीडं स्थानकुलाययोः ॥ १७ ॥ पण्डः षण्डे धियि स्त्री स्यात् पाण्डुर्ना नृपतौ सिते । पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः ॥ १८ ॥ देहमात्रे निवापे च गोलसिह्लकयोरपि । आड्रपुष्पे च पुंसि स्यायात् क्लीबमाजीवनायसोः ॥ १९ ॥ पिण्डी तु पिण्डीतगरेऽलाबुखर्जूरभेदयोः । ;p{0042} पीडा कृपाशिरोमालाऽपमर्दसरलद्रुषु ॥ २० ॥ भाण्डं पात्रे वणिङ्मूलधने भूषाऽश्वभूषयोः । मण्डः पञ्चाङ्गुले शाकभेदे क्लीबं तु मस्तुनि ॥ २१ ॥ आमलक्यां स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः । मुण्डो दैत्यान्तरे राहुग्रहे ना मुण्डिते त्रिषु ॥ २२ ॥ मुण्डा मुण्डीरिकायां स्यात् स्त्रियामस्त्री तु मूर्द्धनि । रण्डा मूषिकपर्ण्यां च विधवायां च योषिति ॥ २३ ॥ रोडः क्षोदे भवेत् पुंसि तृप्ते तु वाच्यलिङ्गकः । (१)रण्डा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्ज्जिते ॥ २४ ॥ व्याडो हिंस्रपशौ सर्पे शुण्डा पानगृहे मता । अप्यम्बुहस्तिनीवेश्याहस्तिहस्तमुरासु च ॥ २५ ॥ शौण्डो मत्ते च विख्यातः पिप्पल्यां च भवेत् स्त्रियाम् । षण्डं पद्मादिसङ्घाते न स्त्री स्याद् गापतौ पुमान् ॥ २६ ॥ ;v{डत्रिकम्} ;c{डत्रिकम्} करण्डो मधुकोशासिकारण्डेषु दलाढके । कुष्माण्ड्युमायां स्त्री पुंसि कर्कारौ च गणान्तरे ॥ २७ ॥ भ्रूणान्तरेऽथ कोदण्डं चापे ना नीवृदन्तरे । भ्रुव्यथो गरुडं क्ष्वेडमन्त्रे मरकतेऽपि च ॥ २८ ॥ तरण्डो बडिशीसूत्रबद्धकोष्ठादिके प्लवे । नौकायामपि न स्त्री स्यात्तिन्तिडीडिम्बचिञ्चयोः ॥ २९ ॥ द्राविडो देशभिज्जाते संख्याभिद्वेधमुख्ययोः । निर्गुण्डी नीलशेफाल्यां सिन्धुवारद्रुमेऽपि च ॥ ३० ॥ प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि । प्रकाण्डो न स्त्री विटपे मूलशाखान्तरे तरोः ॥ ३१ ॥ शस्ते पिचण्ड उदरे पशोरवयवे पुमान् । पूत्यण्डो गन्धकीटेऽपि तथा जन्त्वन्तरे पुमान् ॥ ३२ ॥ ;f{(१) वण्डा-ख. ।} ;p{0043} वरण्डोऽप्यन्तरावेदौ समूहमुखरोगयोः । वारुण्डी द्वारपिण्ड्यां स्त्री फणिनां राजके पुमान् ॥ ३३ ॥ न स्त्रियां सेकपात्रे च मलेऽक्ष्णः श्रवणस्य च । भेरुण्डा देवताभेदयक्षिण्यन्तरयोः स्त्रियाम् ॥ ३४ ॥ भयानके वाच्यवत्स्यान्मार्त्तण्डः क्रोडसूर्ययोः । मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३५ ॥ वरण्डा सारिकावर्त्तिशस्त्रभेदे च योषिति । वितण्डा वादभेदे स्यात् कच्चीशाके शिलाह्वये ॥ ३६ ॥ करवीर्यामपि स्त्री स्याच्छिखण्डो बर्हचूडयोः । (१)शरण्डस्तु पुमान् धूर्ते शरटे भूषणान्तरे ॥ ३७ ॥ ;v{डचतुष्कम्} ;c{डचतुष्कम्} (२)अपोगण्डस्तु बलिभे विकलाङ्गशिशावपि । (३)अतिगण्डो योगभेदे बृहद्गण्डे तु वाच्यवत् ॥ ३८ ॥ चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डले । जलरुण्डो जलावर्ते पयोरेणौ भुजङ्गमे ॥ ३९ ॥ देवताडः सैंहिकेये जीमूते च हुताशने । अथ वातहुडा(४) वात्यावातशोणितयोरपि ॥ ४० ॥ पिच्छिलस्फोटिकायां च वामायामपि योषिति । ;c{इति डान्तवर्गः ।} ;k{ढान्तवर्गः} ;v{ढैकम्} ;c{ढैकम्} ढो ढक्कायां पुमानुक्तः शुनि तस्य च लाङ्गुले । ;v{ढद्विकम्} ;c{ढद्विकम्} गूढं रहसि गुह्ये च न द्वयोः संवृते त्रिषु ॥ १ ॥ दृढं स्थूले नितान्ते च प्रगाढबलवत्यपि । ;f{(१) सरण्डस्तु पुमान् धूर्ते सरटे-ख. ।; (२) अपोगण्डं तु-ख, ।; (३) इदं पद्यार्थं ख. पुस्तके नास्ति ।; (४) वातथुडा-ख. ।} ;p{0044} माढिः स्त्री पत्रभङ्गे च दैन्यस्यापि प्रकाशने ॥ २ ॥ मूढस्तु तन्द्रिते बाले राढा स्त्री सुह्मशोभयोः । रूढं जाते प्रसिद्धे च बाढे दृढप्रतिज्ञयोः ॥ ३ ॥ व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत् । षोढा ना भारिके सूते षण्ढः स्यात् पुंसि गोपतौ ॥ ४ ॥ आकृष्टाण्डे वर्षवरे तृतीयाप्रकृतावपि । सोढा तितिक्षासंयुक्ते शक्ते चाप्यभिधेयवत् ॥ ५ ॥ ;v{ढत्रिकम्} ;c{ढत्रिकम्} अध्यूढा कृतसापत्न्यनार्यामध्यूढ ईश्वरे । आषाढो व्रतिनां दण्डे मासे मलयपर्वते ॥ ६ ॥ स्त्री पूर्णिमायामालीढं पादन्यासेऽशिते त्रिषु । उदू(१)ढमूढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥ प्रगाढः कृच्छ्रदृढयोः प्रमीढो मूत्रिते घने । प्ररूढो जठरे बद्धमूले वारूढ इत्ययम् ॥ ८ ॥ वस्त्राञ्चले कपाटेऽग्नौ पञ्जरे शम्बलेऽपि च । विरूढोऽङ्कुरिते जाते विगूढो गर्हितेऽपि च ॥ ९ ॥ गुप्तेऽपि त्रिषु संरूढः प्रौढे चाङ्कुरिते त्रिषु । समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ॥ १० ॥ ;v{ढचतुष्कम्} ;c{ढचतुष्कम्} अध्यारूढं समारूढेऽभ्यधिके चाभिधेयवत् । खट्वारूढः श्रिते खट्वामविनीते च वाच्यवत् ॥ ११ ॥ प्रत्यालीढं तु चरणन्यासभेदेऽशिते त्रिषु । ;c{इति ढान्तवर्गः ।} ;k{णान्तवर्गः} ;v{णैकम्} ;c{णैकम्} णः पुमान् बिन्दुदेवे स्याद् भूषणे गुणवर्जिते । ;f{( १ ) उदूढ ऊढे-ख. ।} ;p{0045} पानीयनिलयेऽपीति केचिदूचुर्विपश्चितः ॥ १ ॥ ;v{णद्विकम्} ;c{णद्विकम्} अणुर्व्रीहिविशेषे स्यात्पुंसि सूक्ष्मेऽभिधेयवत् । अणिराणिवदक्षाग्रकीलाश्रिसीमसु द्वयोः ॥ २ ॥ उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः । ऊर्णा मेषादिलोम्नि स्यादन्तरावर्तके भ्रुवोः ॥ ३ ॥ कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि । क्षणः पर्वोत्सवव्यापारेषु मानेऽप्यनेहसः ॥ ४ ॥ कणा जीरककुम्भीरमक्षिकापिप्पलीषु च । कणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥ ५ ॥ कीर्णं (१)दत्ते च विक्षिप्ते हिंसितेऽप्यभिधेयवत् । कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत् ॥ ६ ॥ कृष्णः सत्यवतीपुत्रे वायसे केशवेऽर्जुने । कृष्णा स्याद् द्रौपदीनीलीकणाद्राक्षासु योषिति ॥ ७ ॥ मेचके वाच्यलिङ्गं स्यात् क्लीबे मरिचलोहयोः । कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने ॥ ८ ॥ एकदेशे गृहादीनामश्रौ च लगुडेऽपि च । गणः प्रमथसंख्यौघे चण्डासैन्यप्रभेदयोः ॥ ९ ॥ गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागशौर्यादिसत्त्वादिसन्ध्याद्यावृत्तिरज्जुषु ॥ १० ॥ शुक्लादावपि वट्यां च गेष्णुर्ना गायने नटे । घ्राणं क्लीबं नासिकायां घ्राते स्याद्वाच्यलिङ्गकम् ॥ ११ ॥ घृणा जुगुप्साकृपयोरथ चूर्णी कपर्दके । चू्र्णो धूलौ क्षारभेदे चूर्णानिवासयुक्तिषु ॥ १२ ॥ जर्णश्चन्द्रे च वृक्षे च जिष्णुर्ना वासवेऽर्जुने । जित्वरे वाच्यवज्जीर्णं परिपक्वपुराणयोः ॥ १३ ॥ ;f{(१) छन्ने-ख. ।} ;p{0046} झणिः क्रमुकभेदेऽपि दुष्टदैवश्रुतौ स्त्रियाम् । त्राणं तु त्रायमाणायां रक्षणे रक्षिते त्रिषु ॥ १४ ॥ तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्कके । क्लीबं, यवाग्रजे पुंसि तिग्मात्मत्यागिनोः त्रिषु ॥ १५ ॥ तूणी नील्यां निषङ्गे ना तृष्णा स्यात्तर्षलिप्सयोः । दीर्णं विदारिते भीते द्रुणं चापेऽलिनि द्रुणः ॥ १६ ॥ द्रुण्यम्बुद्रोणीकच्छप्योर्देष्णुर्दातरि दुर्गमे । द्रोणोऽस्त्रियामाढके स्यादाढवापचतुष्टये ॥ १७ ॥ पुमान् कृपीपतौ दग्धकाके स्त्री नीवृदन्तरे । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपीष्यते ॥ १८ ॥ पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे । क्रय्यशाकाट्टिकाद्यूतव्यवहारे भृतौ धने ॥ १९ ॥ पर्णं पत्रे किंशुके ना पार्ष्णिः स्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ॥ २० ॥ प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः पूरिते वाच्यलिङ्गः पुम्भूम्नि चासुषु ॥ २१ ॥ पूर्णः शक्ते समग्रे ना पूरिते त्वभिधेयवत् । फाणिर्गुडे करम्बे च स्त्रियां बाणी तु योषिति ॥ २२ ॥ व्यूतावपि सरस्वत्यां भ्रूणः स्त्रीगर्भडिम्भयोः । मणिः स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च ॥ २३ ॥ कण्ठदेशस्तनेऽजायलिङ्गाग्रेऽलिञ्जरेऽपि च । मोणः शुष्कफले नक्रे मक्षिकाऽहिकरण्डयोः ॥ २४ ॥ रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम् । रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः ॥ २५ ॥ वर्णो द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने ॥ २६ ॥ बाणः स्याद् गोस्तने दैत्यभेदे केवलकाण्डयोः । बाणा तु बाणमूले स्त्री नीलझिण्ट्यां पुनर्द्वयोः ॥ २७ ॥ ;p{0047} वीणा विद्युति वल्लक्यां वृष्णिः पाखण्डचन्द्रयोः । त्रिषु ना यादवे मेषे वेणी केशस्य बन्धने ॥ २८ ॥ नद्यादेरन्तरे देवताले(१) वेणुर्नुपान्तरे । त्वक्सारेऽपि च पुंसि स्याच्छाणो मासचतुष्टये ॥ २९ ॥ लोहादीनां च निकषे शाणी प्रावरणान्तरे । श्राणं पक्वे यवाग्वां स्त्री शीर्णं तनुविशीर्णयोः ॥ ३० ॥ श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समानशिल्पिसंहतौ । शोणः कृशानौ श्योनाके लोहिताश्वे नदे पुमान् ॥ ३१ ॥ त्रिषु काकनदच्छाये स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवेऽथ स्थूणा स्यात् सूर्म्यां स्तम्भे गृहस्य च ॥ ३२ ॥ ;v{णत्रिकम्} ;c{णत्रिकम्} अरुणोऽव्यक्तरोगेऽर्के सन्ध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु ॥ ३३ ॥ अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च । अरणिर्वह्निमन्थे ना द्वयोर्निर्मन्थ्यदारुणि ॥ ३४ ॥ अभीक्ष्णं तु भृशे नित्यतद्युक्तक्रिययोस्त्रिषु । इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ३५ ॥ ईरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि । ऊषणं मरिचे क्लीबं कणायामूषणा स्त्रियाम् ॥ ३६ ॥ एषणी व्रणमार्गानुसारिण्यां च तुलाभिदि । करुणस्तु रसे वृक्षे कृपायां करुणा मता ॥ ३७ ॥ कत्तृणं तृणभित्पृश्न्योः करणं हेतुकर्मणोः । (२)वीणजादौ हस्तलेपे नृत्यगीतप्रभेदयोः ॥ ३८ ॥ क्रियाभेदेन्द्रियक्षेत्रकायसंवेशनेषु च । कायस्थे साधने क्लीबं पुंसि शूद्राविशोः सुते ॥ ३९ ॥ कल्याणमक्षयस्वर्गे मङ्गलेऽपि नपुंसकम् । ;f{(१) देवताडे-ख. ।; (२) बालवादी-ख. ।} ;p{0048} कङ्कणं करभूषायां सूत्रमण्डनयोरपि ॥ ४० ॥ करेणुर्गजयोषायां स्त्रियां पुंसि मतङ्गजे । कार्मणं मन्त्रतन्त्रादियोजने कर्मठेऽपि च ॥ ४१ ॥ काकिणी पणतुर्यांशे मानदण्डे च दृश्यते । कृष्णलैकवराट्योः स्यादुन्मानस्यांशकेऽपि च ॥ ४२ ॥ कारणं करणे हेतुवधयोश्च नपुंसकम् । स्त्री यातनायां कुर्वाणो भृत्यकारकयोस्त्रिषु ॥ ४३ ॥ कृपाणः खाडगे छुरिकाकर्त्तर्योरपि योषिति । कृपणस्तु कृमौ पुंसि मन्दकुत्सितयोस्त्रिषु ॥ ४४ ॥ क्षेपणं प्रेरणे नौकादण्डजालभिदोः स्त्रियाम् । ग्रहणं स्वीकारादरकरोपरागोपलब्धिवन्दिषु (च) ॥ ४५ ॥ स्याद् ग्रामणीः प्रधानेऽधिपतौ त्रिषु नापिते पुंसि । ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत् ॥ ४६ ॥ गोकर्णोऽश्वतरे सर्पे सारङ्गे च गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ ॥ ४७ ॥ चरणोऽस्त्री बह्वृचादौ मूले गोत्रे पदेऽपि च । भ्रमणे भक्षणे चा(१)पि नपुंसक उदाहृतः ॥ ४८ ॥ जरणं जीरके(२)ऽजाजीहिङ्गुसौवर्चलेऽपि च । तरुणं कुब्जपुष्पे ना रुबुके यूनि तु त्रिषु ॥ ४९ ॥ तरणिर्द्युमणौ पुंसि कुमारीनौकयोः स्त्रियाम् । दक्षिणो दक्षिणोद्भूतसरलच्छन्दवर्त्तिषु ॥ ५० ॥ आरामे त्रिषु यज्ञादिविधिदाने दिशि स्त्रियाम् । द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे ॥ ५१ ॥ दारुणो रसभेदे ना त्रिषु तु स्याद्भयावहे । द्रुघणो मुद्गरेऽपि स्यात् द्रुहिणे च परश्वधे ॥ ५२ ॥ दुर्वर्णं त्रिष्वसद्वर्णे क्लीबमैलेयरूप्ययोः । ;f{(१) वापि-ख. ।; (२) जीरकेऽपि स्यात् कृष्ण०-ख. ।} ;p{0049} दौर्वीणं मृष्टपर्णं स्याद् दूर्वायां स्वरसेऽपि च ॥ ५३ ॥ धर्मणस्तु पुमान् वृक्षभेदसर्पप्रभेदयोः । धरणं मानभेदेऽपि धारणे धरणी भुवि ॥ ५४ ॥ धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षिणी । धरुणः सम्मते नीरे स्वर्लोके परमेष्ठिनि ॥ ५५ ॥ धारणी नाडिकायां स्याद् बुद्धोक्तमन्त्रभिद्यपि । धारणाऽङ्गे च योगस्य न पुंसि स्याद् विधारणे ॥ ५६ ॥ धिषणस्त्रिदशाचार्ये धिषणा धियि योषिति । निःश्रेणिरधिरोहिण्यां खर्जूरीपादपे स्त्रियाम् ॥ ५७ ॥ निर्याणं वारणापाङ्गदेशे मोक्षेऽध्वनिर्गमे । निर्माणं निर्मितौ सारे समञ्जसे नपुंसकम् ॥ ५८ ॥ निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने । सङ्गमेऽप्यपवर्गे च प्रवणो ना चतुष्पथे ॥ ५९ ॥ क्रमनिम्नमहीभागोदरप्रह्वेषु च त्रिषु । प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ६० ॥ प्रमाणं नित्यमर्यादाशास्त्रेषु सत्यवादिनि । इयत्तायां च हेतौ च क्लीबैकत्वे प्रमातरि ॥ ६१ ॥ पत्रोर्णं धौतकौशेये क्लीबं स्याच्छोणके पुमान् । पक्षिणी पूर्णिमायां स्याद्विहङ्ग्यां शाकिनीभिदि ॥ ६२ ॥ आगामिवर्त्तमानाहर्युक्तरात्रावपि स्त्रियाम् । प्रवेणिः स्त्री कुथावेण्योः पुराणं पञ्चलक्षणे ॥ ६३ ॥ पणे पुंसि त्रिषु प्रत्ने पूरणः पूरके त्रिषु । क्लीबं पिण्डप्रभेदे च पूरणी शाल्मलिद्रुमे ॥ ६४ ॥ पटारम्भकसूत्रेषु प्रोक्षणं सेचने वधे । वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि ॥ ६५ ॥ वरणस्तु पुमान् तिक्तशाकप्राकारयोरपि । क्लीबं कन्यादिवरणे वेष्टने स्त्री नदीभिदि ॥ ६६ ॥ वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे । ;p{0050} ब्राह्मणं ब्रह्मसङ्घाते वेदभागे नपुंसकम् ॥ ६७ ॥ भूमिदेवे तु पुंलिङ्गः फञ्जिकापृक्कयोः स्त्रियाम् । वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि ॥ ६८ ॥ भरणी घोषके ऋक्षे भरणं वेतने भृतौ । भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ॥ ६९ ॥ भीषणो रसे सल्लक्यां ना गाढे दारुणे त्रिषु । मसृणोऽकर्कशे स्निग्धे त्रिषूमायां तु योषिति ॥ ७० ॥ मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च । उद्देशे नारिकेले च मार्गणो याचके शरे ॥ ७१ ॥ याच्ञाऽन्वेषणयोः क्लीबं यन्त्रणं रक्षणे स्मृतम् । बन्धने स्यान्नियमने रवणः शब्दने खरे ॥ ७२ ॥ रमणं पटोलमूले नार्यां स्त्री ना धवे स्मरे । रोषणः पारदे हेमहर्षणोपलयोः पुमान् ॥ ७३ ॥ क्रोधने वाच्यलिङ्गः स्याद्रोहिणी कण्ठरुग्भिदि । तडित्कटम्भरासोमवल्केषु लोहितागवोः ॥ ७४ ॥ लवणं सैन्धवादो ना सिन्धुरक्षोभिदो रसे । तद्युक्ते वाच्यलिङ्गः स्यान्नदीभेदत्विषोः स्त्रियाम् ॥ ७५ ॥ लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् । लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति ॥ ७६ ॥ रामभ्रातरि पुंसि स्यात् सश्रीके चाभिधेयवत् । विषाणी क्षीरकाकोल्यामजशृङ्ग्यां च योषिति ॥ ७७ ॥ कुष्ठनामौषधे क्लीबं पशुशृङ्गेभदन्तयोः । विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः ॥ ७८ ॥ शरणं गृहरक्षित्रोर्वधरक्षणयोरपि । स्त्रियां सुदर्शनामांस्योर्मुण्डीरीशबरीभिदोः ॥ ७९ ॥ श्रवणं च श्रुतौ कर्णे नक्षत्रे न नपुंसकम् । श्रमणो यतिभेदे ना निन्द्यजीविनि तु त्रिषु ॥ ८० ॥ श्रावणो मासि पाषण्डे दध्याल्यां श्रावणा स्त्रियाम् । ;p{0051} शिङ्घाणं काचपात्रे च लोहनासिकयोर्मले ॥ ८१ ॥ श्रीपर्णी काश्मरीकुम्भ्योः क्लीबं पद्माग्निमन्थयोः । सङ्कीर्णं निचितेऽपि स्यादशुद्धे चापि भेद्य(१)वत् ॥ ८२ ॥ सरणिः पङ्क्तौ मार्गे च सारणो राक्षसान्तरे । रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणी ॥ ८३ ॥ सुषेणः करमर्दे स्याद्विष्णुसुग्रीववैद्ययोः । सुवर्णो ना स्वर्णकर्षे सुवर्णाख्यमखान्तरे ॥ ८४ ॥ श्रीकृष्णागुरुणि क्लीबे काञ्चने हरिचन्दने । सुपर्णः स्वर्णचूडे च गरुडे कृतमालके ॥ ८५ ॥ सुपर्णा कमलिन्यां च वैनतेयस्य मातरि । हरेणुर्ना सतीले स्त्री रेणुकाकुलयोषितोः ॥ ८६ ॥ हरणं यौतकादीनां द्रव्ये भुजे हृतावपि । हरिणः पुंसि सारङ्गे विषदे त्वभिधेयवत् ॥ ८७ ॥ हरिणी हरितायां च नारीभिद्वृत्तभेदयोः । सुवर्णप्रतिमायां च हर्पणोऽक्षिरुगन्तरे ॥ ८८ ॥ हर्षके योगभेदे च श्राद्धदेवेऽपि च क्वचित् । हिरणं रेतसि स्वर्णे वराटे च नपुंसकम् ॥ ८९ ॥ ;v{णचतुष्कम्} ;c{णचतुष्कम्} अङ्गारिणी हसन्त्यां च भास्करत्यक्तदिश्यपि । अथर्वणिर्नाऽथर्वज्ञब्राह्मणे च पुरोधसि ॥ ९० ॥ आतर्पणं प्रीणने स्यान्मङ्गलालेपनेऽपि च । आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ९१ ॥ उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि । स्यादुद्धरणमुद्धारवान्तान्नोन्मूलनेष्वपि ॥ ९२ ॥ कार्षापणोऽस्त्री कार्षिके पणषोडशकेऽपि च । अथ कामगुणो रागे विषयाभोगयोरपि ॥ ९३ ॥ ;f{(१) वाच्यवत्-ख. ।} ;p{0052} चीर्णपणस्तु निम्बेऽपि खर्जूरीभूरुहे पुमान् । चूडामणिः शिरोरत्ने काकचिञ्चाफले पुमान् ॥ ९४ ॥ जुहु(६)वाणोऽपि चाध्वर्यावपि स्याज्जातवेदसि । तण्डुरीणः कीटमात्रे बर्बरे तण्डुलोदके ॥ ९५ ॥ त्रायमाणा वार्षिके स्त्री रक्ष्यमाणेऽभिधेयवत् । तैलपर्णी मलयजे श्रीवासे सिह्लकेऽपि च ॥ ९६ ॥ दाक्षायणी त्वपर्णायामश्विन्याद्युडुषु स्त्रियाम् । अथ देवमणिर्भगऽश्वावर्ते कौस्तुभेऽपि (२)च ॥ ९७ ॥ नारायणोऽच्युते भीरुगौर्योर्नारायणी मता । अथो निगरणं क्लीबं भोजने स्याद्गले पुमान् ॥ ९८ ॥ अथ निःसरणं मृत्यूपायमोक्षेषु निर्गमे । स्यान्निस्तरणमुपाये निस्तारे तरणेऽपि च ॥ ९९ ॥ निरूपणं स्यादालोके विचारे च निदर्शने । पर्परीणश्च पर्णस्य शिरायां द्यूतकम्बले ॥ १०० ॥ पर्णचूर्णरसेऽपि स्यात् पर्परीणं तु पर्वणि । प्रवारणं निषेधे स्यात् काम्यदाने च न द्वयोः ॥ १०१ ॥ परीरणः स्यात् कमठे दण्डे च पट्टशाटके । परायणमभीष्टे स्यात्तत्पराश्रययोरपि ॥ १०२ ॥ परवाणिः पुमान् धर्माध्यक्षवत्सरयोरपि । पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि ॥ १०३ ॥ पीलुपर्णी बिम्बिकायां मू्र्वायामोषधीभिदि । अथ पुष्करिणी चेभ्यां सरोजिन्यां जलाशये ॥ १०४ ॥ मधुपर्णी तु गाम्भीर्यां नीलीसंज्ञौषधावपि । मीनाम्रीणस्तु पुंलिङ्गो दर्दुराम्रे च खञ्जने ॥ १०५ ॥ रक्तरेणुस्तु सिन्दूरे पलाशकोरके पुमान् । रागचूर्णः पुमान् दन्तधावने मकरध्वजे ॥ १०६ ॥ ;f{(१) जुहुराणोऽपि-ख. ।; (२) ना–ख. ।} ;p{0053} रेरिहाणस्तु पुंसि स्यान्महादेवेऽम्बरेऽपि च । लम्बकर्णः स्मृतोऽङ्कोठपादपे छगलेऽपि च ॥ १०७ ॥ विदारणं विडम्बे च भेदे क्लीबं रणे द्वयोः । अथ वैतरणी दद्यां प्रेतानां यातुमातरि ॥ १०८ ॥ शरवाणिः शरमुखे पायिके शरजीविनि । पुमानथो शिखरिणी रसालवृत्तभेदयोः ॥ १०९ ॥ नारीरत्ने मल्लिकायां रोमावल्यामपि स्त्रियाम् । अथ संसरणं क्लीबमसम्बाधचमूगतौ ॥ ११० ॥ घण्टापथे च संसारे रणारम्भे च कुत्रचित् । समीरणः स्यात् पवने पथिके च फणिज्जके ॥ १११ ॥ हस्तिकर्णश्चोरुबूके पलाशगणभेदयोः । ;v{णपञ्चकम्} ;c{णपञ्चकम्} अवग्रहणमित्येतत् प्रतिरोधेऽप्यनादरे ॥ ११२ ॥ अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्चने । प्रविदारणमाख्यातं सम्परायेऽवदारणे ॥ ११३ ॥ परिभाषणं सनिन्दोपालम्भे नियमेऽपि च । उक्तो मत्तवारणस्तु प्रक्लिन्नकटकुञ्जरे ॥ ११४ ॥ क्लीबं प्रासादवीथीनां कुन्दवृक्षवृतावपि । मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योर्ना तु शोणके ॥ ११५ ॥ रोम(१)हर्षणं रोमाञ्चे ना सूते च बिभीतके । वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ॥ ११६ ॥ काण्डे च करपत्रे च कूटे च परसङ्क्रमे । ;v{णषष्ठकम्} ;c{णषष्ठकम्} दोहदलक्षणमुक्तं वयसः सन्धौ च गर्भे च ॥ ११७ ॥ यौवनलक्षणमप्याख्यातं लावण्यकुचयोश्च । ;c{इति णान्तवर्गः ।} ;f{(१) लोमहर्षणं-ख. ।} ;p{0054} ;k{तान्तवर्गः} ;v{तैकम्} ;c{तैकम्} तश्चौरामृतपुच्छेषु क्रोडे म्लेच्छे च कुत्रचित् । अपुमांस्तरणे पुण्ये कथितः शब्दवेदिभिः ॥ १ ॥ ;v{तद्विकम्} ;c{तद्विकम्} अस्तं क्षिप्तेऽप्यवसिते त्रिषु ना पश्चिमाचले । अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ २ ॥ आर्त्तिः पीडाधनुष्कोट्योः स्त्र्याप्तो लब्धे स्वसत्ययोः । आप्तिः स्त्री योगसम्प्राप्त्योरितं स्मृते गते त्रिषु ॥ ३ ॥ ईतिर्डिम्बे प्रवासेऽतिवृष्ट्यादिषट्सु च स्त्रियाम् । उक्तमेकाक्षरच्छन्दस्युक्तं स्याद्भाषिते त्रिषु ॥ ४ ॥ ऊतिः स्त्री रक्षणे स्यूतावृतिः कल्याणवर्त्मनोः । जुगुप्सास्पर्द्धयोः स्त्री स्याद्रुतमुञ्छशिले जले ॥ ५ ॥ सत्ये दीप्ते पूजिते स्याद्रुतुर्वर्षादिषट्सु च । आर्तवे भासि च पुमानेतः कर्बुर आगते ॥ ६ ॥ क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोः पुमान् ॥ ७ ॥ कर्त्ता तु कारके वाच्यलिङ्गो ना परमेष्ठिनि । ऋतुर्यज्ञे मुनौ पुंसि कान्तिः शोभेच्छयोः स्त्रियाम् ॥ ८ ॥ कान्ता नार्यां प्रियङ्गौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्यायःपर्यायान्तःशिलासु च ॥ ९ ॥ क्षितिर्निवासे मेदिन्यां कालभेदे क्षये स्त्रियाम् । कीर्तिः प्रसादयशसोर्योषित् कुन्तो गवेधिकायां स्यात् ॥ १० ॥ प्रासायुधे च कुन्ती गुग्गुलुपृथयोश्च शल्लक्याम् । कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु ॥ ११ ॥ कृत्तं तु चेष्टिते छन्ने कृतिः करणहिंसयोः । कृत्तिश्चर्मत्वचोर्भूर्जे कृत्तिकायां द्वयं स्त्रियाम् ॥ १२ ॥ केतुर्ना रुक्पताकाविग्रहोत्पातेषु लक्ष्मणि । गर्तस्त्रिगर्त्तभेदे स्यादवटे च कुकुन्दरे ॥ १३ ॥ ;p{0055} ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदेऽपि च । गतिः स्त्री मार्गदशयोर्ज्ञाने यात्राऽभ्युपाययोः ॥ १४ ॥ नाडीव्रणसरण्यां च गतं विज्ञानयातयोः । गातुर्ना कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे ॥ १५ ॥ गीतिश्छन्दसि गाने स्त्री गीतं शब्दितगानयोः । गुप्तिः स्त्र्यवकरस्थाने कारागारे च रक्षणे ॥ १६ ॥ गुप्तं स्याद्रक्षिते गूढे घातः काण्डप्रहारयोः । घृतमाज्ये जले क्लीबं प्रदीप्ते त्वभिधेयवत् ॥ १७ ॥ चितं छन्ने त्रिषु चिता चित्यायां संहतौ स्त्रियाम् । चितिश्चित्यावृन्दयोः स्त्री जातं व्यक्तौघजन्मसु ॥ १८ ॥ क्लीबं त्रिलिङ्गमुत्पन्ने जातिः स्त्री गोत्रजन्मनोः । अश्मन्तिकामलक्योश्च सामान्यच्छन्दसोरपि ॥ १९ ॥ जातीफले च मालत्यां ज्ञातिस्तातसगोत्रयोः । पुमानथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् ॥ २० ॥ क्लीबं वीणादिवाद्ये स्यात् पुंलिङ्गस्तु समीरणे । तातोऽनुकम्प्ये जनके तिक्तो रससुगन्धयोः ॥ २१ ॥ तिक्ता तु कटुरोहिण्यां पर्पटे तु नपुंसकम् । तूस्तं रेणौ च विख्या(१)तं जटायां च नपुंसकम् ॥ २२ ॥ त्रेता युगेऽग्नित्रितये दत्तं विश्राणितेऽर्चिते । दन्तोऽद्रिकटके कुञ्जे दशनेऽथौषधौ स्त्रियाम् ॥ २३ ॥ दान्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे त्रिषु । दितिर्दैत्यजनन्यां च खण्डनेऽपि च योषिति ॥ २४ ॥ दीप्तं निर्भासिते दग्धे ज्वलितेऽथ द्रुतं त्रिषु । शीघ्रे विलीने विद्राणे द्युतिः स्त्री रश्मिशोभयोः ॥ २५ ॥ दृतिश्चर्मपुटे मत्स्ये ना धातुर्नेन्द्रियेषु च । शब्दयोनिमहाभूततद्गुणेषु रसादिषु ॥ २६ ॥ ;f{(१) पापे. च. ख. ।} ;p{0056} मनःशिलादौ श्लेष्मादौ विशेषाद् गैरिकेऽस्थ्नि च । धाता हिरण्यगर्भे ना पालके त्रिष्वथो धुतम् ॥ २७ ॥ त्यक्ते विधूते धूतं तु कम्पिते भर्त्सिते त्रिषु । धूर्त्तं तु खण्डलवणे धुस्तूरे ना विटे त्रिषु ॥ २८ ॥ धृतिर्नेष्टौ स्त्रियां तुष्टौ योगभिद्धैर्यधारणे । नतं तगरपाद्यां स्यात् क्लीबं कुटिलनम्रयोः ॥ २९ ॥ त्रिषु नीतिर्नयेऽपि स्यात् प्रापणेऽपि च योषिति । पक्तिः स्त्री गौरवे पाके पत्तिर्ना पदगे स्त्रियाम् ॥ ३० ॥ गतावेकरथैकेभत्र्यश्वपञ्चपदातिके । पङ्क्तिर्दशाक्षरच्छन्दोदशसंख्यालिषु स्त्रियाम् ॥ ३१ ॥ पतिर्धवे ना त्रिष्वीशे प्राप्तं लब्धे समञ्जसे । पातो ना पतने त्राते त्रिषु प्राप्तिर्महोदये ॥ ३२ ॥ लाभेऽपि च स्त्रियां प्रातिः पूर्त्तिप्रादेशयोः स्त्रियाम् । पीतिर्नाऽश्वे स्त्रियां पाने प्रीतं हृषितनर्मणोः ॥ ३३ ॥ पीतं पाने हरिद्रायां स्त्रियां गौरेऽभिधेयवत् । प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ॥ ३४ ॥ पुस्तं क्लीबे पुस्तके च लेप्यादिशिल्पकर्मणि । प्लुतं तुरङ्गमगतौ क्लीबं पुंसि त्रिमात्रके ॥ ३५ ॥ पूतं त्रिषु पवित्रे च शठिते बहुलीकृते । पूर्त्तं त्रिषु पूरिते स्यात् क्लीबं खातादिकर्मणि ॥ ३६ ॥ प्रोतं नपुंसकं वस्त्रे खचिते वाच्यलिङ्गकम् । प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः ॥ ३७ ॥ पोतः शिशौ वहित्रे च गृहस्थाने च वाससि । वृतिस्तु वरणेऽपि स्याद्वेष्टनेऽपि च योषिति ॥ ३८ ॥ भर्त्ता स्वामिनि पुंसि स्यात् त्रिषु धातरि पोष्टरि । भक्तिर्विभागे सेवायां स्त्रियां भ्रान्तिस्तु योषिति ॥ ३९ ॥ मिथ्यामतौ च भ्रमणे भित्तिः कुड्यप्रदेशयोः । भीतिर्भये स्त्रियां भीतं भयेऽथ भीयुते त्रिषु ॥ ४० ॥ ;p{0057} भूतिर्भस्मनि सम्पत्तौ हस्तिशृङ्गारयोः स्त्रियाम् । भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ॥ ४१ ॥ प्राप्ते वित्ते समे सत्ये देवयोन्यन्तरे तु ना । कुमारेऽपि भृतिः स्त्री स्यान्मूल्येऽपि भरणेऽपि च ॥ ४२ ॥ मतं तु सम्मते ज्ञाते मतिः स्त्रीच्छाधियोः स्मृतौ । मन्तुः पुंस्यपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ ४३ ॥ माता गौर्यादिजननीगोब्रह्माण्यादिभूमिषु । (१)मातिर्मानेऽप्यवच्छेदे मुक्तिर्मोक्षे च मोक्षणे ॥ ४४ ॥ मात्रादयः स्त्रियां मुक्तः प्राप्तमोक्षे च मोचिते । त्रिषु स्त्री मौक्तिके मूर्त्तिः कायकाठिन्ययोः स्त्रियाम् ॥ ४५ ॥ मूर्त्तं स्यात् त्रिषु मूर्च्छाले कठिने मूर्त्तिमत्यपि । मृतं तु याचिते मृत्यौ क्लीबं मृत्युमति त्रिषु ॥ ४६ ॥ यतिः स्त्री (२)पाठविक्छेदे निकारयतिनोः पुमान् । यन्ता (३)मेठे च सूते ना युक्तिः स्त्री न्याययोगयोः ॥ ४७ ॥ युतो युक्तोऽपृथग्भूते क्लीबं हस्तचतुष्टये । रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु ॥ ४८ ॥ क्लीबं तु कुङ्कुमे ताम्रे प्राचीनामलके सृजि । रतिः स्त्री स्मरदारेषु रागे सुरतगुह्ययोः ॥ ४९ ॥ रत्नं वर्त्मनि नद्यां स्त्री रतं सुरतगुह्ययोः । रतस्त्रिष्वनुरक्ते स्यात् तत्परे चाभिधेयवत्(४) ॥ ५० ॥ रिक्तं शून्ये वने रीतिः स्त्रियां स्यन्दप्रचारयोः । पित्तले लोहकिट्टे च लता प्रियङ्गुशाखयोः ॥ ५१ ॥ पृक्काज्योतिष्मतीवल्लीलताकस्तूरिकासु च । माधवीदूर्वयोर्लिप्तं विलिप्तविषदिग्धयोः ॥ ५२ ॥ भुक्ते लूता तूर्णनाभे पिपीलिकागदान्तरे । ;f{(१) मितिः-ख.।; (२) पाद-क. ।; (३) यन्ता हस्तिपके सूते-ख. ।; (४) अधिकं पद्यार्धमिदम्-ख. ।} ;p{0058} वप्ता तु जनके पुंसि वापकेऽप्यभिधेयवत् ॥ ५३ ॥ वक्ता तु पण्डितेऽपि स्याद्वाग्मिन्यप्यन्यलिङ्गकः । व्यस्तं तु व्याकुले व्याप्ते व्यक्तः स्फुटमनीषिणोः ॥ ५४ ॥ वस्तिर्द्वयोर्निरूहे नाभ्यधोभूम्नि दशासु च । वर्त्तिभैषजनिर्माणे नयनाञ्जनलेखयोः ॥ ५५ ॥ गात्रानुलेपनीदीपदशादीपेषु योषिति । वार्त्ता तु वर्त्तने वातिङ्गणे कृष्याद्युदन्तयोः ॥ ५६ ॥ निःसारारोग्ययोः क्लीबं वृत्तिर्मल्लीरुजोः स्त्रियाम् । व्याप्तं ख्याते समाक्रान्ते व्याप्तिर्व्यापनरम्भयोः ॥ ५७ ॥ स्त्रियां वित्तिर्विचारे च लाभसम्भावयोः स्त्रियाम् । वित्तं क्लीबं धने वाच्यलिङ्गं ख्याते विचारिते ॥ ५८ ॥ वीतमसारगजे स्यादङ्कुशकर्मण्यसारतुरगेऽपि । वीतिर्गतौ च दीप्तौ प्रजनाशनधावनेषु स्त्री ॥ ५९ ॥ वृत्तिर्विवरणाजीवकैशिक्यादिप्रवर्तने । वृन्तं प्रसबन्धेऽस्त्री घटीधाराकुचाग्रयोः ॥ ६० ॥ वृत्तोऽधीतेप्यतीतेऽतिवर्तुलेऽपि वृते मृते । दृढेऽन्यलिङ्गं वा क्लीबं छन्दश्चारित्रवृत्तिषु ॥ ६१ ॥ शक्तिरस्त्रान्तरे गौर्यामुत्साहादौ बले स्त्रियाम् । शस्तं क्षेमे प्रशस्ते च शान्तिः स्त्री मङ्गले शमे ॥ ६२ ॥ शास्ता समन्तभद्रे ना शासने पुनरन्यवत् । शान्तोऽभियुक्तरसयोः पुंसि त्रिषु शमान्विते ॥ ६३ ॥ अव्ययं वारणे शान्तं शान्तं शितं च दुर्बले । निशिते च शितिर्भूर्जे ना सितासितयोस्त्रिषु ॥ ६४ ॥ शीतं हिमगुणे क्लीबं शीतलालसयोस्त्रिषु । वानीरे बहुवारे ना शुक्तं पूताम्लनिष्ठुरे ॥ ६५ ॥ श्रुतिः श्रौत्रे च तत्कर्मण्याम्नायवा(१)तयोः स्त्रियाम् । ;f{(१) वार्तयोः-ख. ।} ;p{0059} शुक्तिः कपालशकले शङ्खे शङ्खनखेऽपि च ॥ ६६ ॥ नख्यश्वावर्तदुर्नाममुक्तास्फोटेषु च स्त्रियाम् । श्रुतमाकर्णिते शास्त्रे श्वेतो द्वीपाद्रिभेदयोः ॥ ६७ ॥ श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीबं रूप्येऽन्यवच्छुक्ले सन् साधौ धीरशस्तयोः ॥ ६८ ॥ मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम् । सातिर्दानेऽवसाने स्त्री स्वान्तं चेतसि गह्वरे ॥ ६९ ॥ स्थितं प्रतिज्ञातवति चोर्ध्वनिश्चलयोस्त्रिषु । स्थितिः स्त्रियामवस्थाने मर्यादायां च सीमनि ॥ ७० ॥ सितमवसिते च बद्धे धवले त्रिषु धवलायां स्त्री । सीता लाङ्गलपद्धतिवैदेहीस्वर्गगङ्गासु ॥ ७१ ॥ सुतस्तु पार्थिवे पुत्रे स्त्र्यपत्ये तु सुता स्मृता । सुप्तिः स्पर्शाज्ञतानिद्राविश्रम्भे शयने स्त्रियाम् ॥ ७२ ॥ सूतस्तु सारथौ तक्ष्णि क्षत्रियाद् ब्राह्मणीसुते । बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु ॥ ७३ ॥ स्यूतिः सीवनसन्तत्योः स्त्रियां स्यूतः प्रसेवके । ना त्रिषूते स्मृतिर्धर्मशास्त्रस्मरणयोः स्त्रियाम् ॥ ७४ ॥ सृतिः स्त्री गमने मार्गे हेतुर्नाऽऽलौ कुमारके । हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च ॥ ७५ ॥ ऋक्षे केशात् परो व्राते हितं पथ्ये गते धृते । हेतिः स्यादायुधज्वालासूर्यतेजःसु योषिति ॥ ७६ ॥ ;v{तत्रिकम्} ;c{तत्रिकम्} अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ॥ ७७ ॥ अमृता मागधीपथ्यागुडूच्यामलकीषु च । अनृतं कृषावसत्येऽप्यजितो ना हरौ त्रिषु ॥ ७८ ॥ अनिर्जिते चाच्युतस्तु हरौ पुंसि त्रिषु स्थिरे । अर्दितं याचितेऽपि स्याद्वातव्याधौ च हिंसिते ॥ ७९ ॥ ;p{0060} अक्षतं न द्वयोः पण्डे लाजेषु त्रिष्वहिंसिते । यवेऽपि क्वचिद्व्यक्तो हरौ स्मरहरे पुमान् ॥ ८० ॥ परमात्ममहदाद्योः क्लीबं स्यादस्फुटे त्रिषु । अनन्तः केशवे शेषे पुमाननवधौ त्रिषु ॥ ८१ ॥ अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च ॥ ८२ ॥ विश्वम्भरागुडूच्योः स्यादनन्तं सुरवर्त्मनि । आश्मन्तमशुभे चुल्यां मरणेऽनवधावपि ॥ ८३ ॥ क्षेत्रेऽप्यथायतिः पुंसि हिमदीधितिकालयोः । अर्हस्तु क्षपणे बुद्धे पुंसि मान्येऽन्यलिङ्गकः ॥ ८४ ॥ अर्हन्तश्चापि सुगते क्षपणेऽपि च दृश्यते । अगस्तिः कुम्भयोनौ च (१)वङ्कसेनतरौ पुमान् ॥ ८५ ॥ अर्वती कुम्भदास्यां च व वडवायां च योषिति । अङ्गतिः पुंस्यग्निहोतृब्रह्मवह्निष्वथादितिः ॥ ८६ ॥ भूदेवमात्रोरंहतिस्त्यागे रोगेऽप्युभे स्त्रियौ । आपातः पुंसि पतने तदात्वे च प्रकीर्तितः ॥ ८७ ॥ अघ्रातं शिङ्घिते क्रान्तेऽप्याख्यातं भाषिते तिङि । आध्मातः शब्दिते दग्धे वातरुग्भेदसंयुते ॥ ८८ ॥ आप्लुतः स्नातके स्नातेऽप्यादृतः सादरेऽर्चिते । आचितः शकटोन्मेये पलानामयुतद्वये ॥ ८९ ॥ पुंलिङ्गः सङ्गृहीतेऽपि छन्नेऽपि स्यात्त्रिलिङ्गकः । आहतं गुणिते चापि ताडिते च मृषाऽर्थके ॥ ९० ॥ स्यात् पुरातनवस्त्रेऽपि नववस्त्रे च नाऽऽनके । आनतों देशभेदेऽपि नृत्यस्थाने जले रणे ॥ ९१ ॥ आवर्तश्चिन्तने वारिभ्रमे चावर्तने पुमान् । आस्फोतं तु पुमानर्कपर्णे स्यात् कोविदारके ॥ ९२ ॥ ;f{(१) वङ्गसेन०-ख. ।} ;p{0061} आस्फोता गिरिकर्ण्यां च वनमल्ल्यां च योषिति । आयस्तस्तेजिते क्षिप्ते क्लेशिते कुपिते हते ॥ ९३ ॥ आयतिस्तु स्त्रियां दैर्घ्ये प्रभावागामिकालयोः । आयत्तिस्तु स्त्रियां स्नेहे वशित्वे वासरे बले ॥ ९४ ॥ आकृतिस्तु स्त्रियां रूपे सामान्यवपुषोरपि । आसत्तिः सङ्गमे लाभे स्त्रियामापत्तिरोपदि ॥ ९५ ॥ प्रापणेऽपि च योषित्स्यादुदन्तः साधुवार्तयोः । उषितं व्युषिते दग्धेऽप्युदात्तस्तु स्वरान्तरे ॥ ९६ ॥ दयात्यागादिसम्पन्ने काव्यालङ्कारकृत्ययोः । उत्तप्तं शुष्कमांसेऽथ त्रिषु तप्ते परिप्लुते ॥ ९७ ॥ उचितं तु भवे न्यस्ते मिते ज्ञाते समञ्जसे । उद्धृतं स्यात्त्रिषूत्क्षिप्ते परिभुक्तोज्झितेऽपि च ॥ ९८ ॥ उत्थितं स्यात्त्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि । उद्घातस्तु पुमान् पादस्खलने समुपक्रमे ॥ ९९ ॥ (१)पवनाभ्यासयोगस्य कालभेदे च कीर्तितः । उत्तुङ्गे मुद्गरेऽपि स्यादुदितं तूक्त आगते ॥ १०० ॥ उच्छ्रितं त्रिषु सञ्जाते समु(२)न्नद्धप्रवृद्धयोः । उन्मत्त उन्मादवति धूस्तूरमुचुकुन्दयोः ॥ १०१ ॥ उद्वान्तो निर्मदगजे पुमानुद्वमिते त्रिषु । एधतुः पुरुषेऽग्नौ ना कलितं विदिताप्तयोः ॥ १०२ ॥ कपोतः स्याच्चित्रकण्ठपारावतविहङ्गयोः । अथ क्रन्दितमाह्वाने रुदितेऽपि नपुंसकम् ॥ १०३ ॥ क्षारितः स्राविते क्षारे चाभिशस्तेऽपि च त्रिषु । कापोतो रुचके क्लीबे कपोतौघेऽञ्जनान्तरे ॥ १०४ ॥ किरातो म्लेच्छभेदे स्यात् भूनिम्बेऽल्पतनावपि । स्त्रियां चामरधारिण्यां कुट्टिनीदुर्गयोरपि ॥ १०५ ॥ ;f{(१) पवनाभ्यासयोगाय कुम्भकादित्रयेऽपि च-ख.।; (२) समुन्नत-ख.} ;p{0062} कृतान्तो यमसिद्धान्तदवाकुशलकर्मसु । गर्जितं वारिवाहादिध्वनौ ना मत्तकुञ्जरे ॥ १०६ ॥ ग्रथितं गुम्फिते क्रान्ते हिंसिते च त्रिलिङ्गकम् । गभस्तिः किरणे सूर्ये ना स्वाहायां तु योषिति ॥ १०७ ॥ गर्मुत् स्त्री स्वर्ण(१)लतयोर्गोपतिः शिवषण्ढयोः । नृपभास्करयोः पुंसि चेष्टितं गतिचेष्टयोः ॥ १०८ ॥ जगत् स्यात् विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ॥ १०९ ॥ जयन्ती वृक्षभिद्गौर्योरिन्द्रपुत्रीपताकयोः । पुमानैन्द्रे हरे भीमे ज्वलितं दुग्ध उज्वले ॥ ११० ॥ जामाता दुहितुः पत्यौ सूर्यावर्त्ते धवे पुमान् । जीमूतोऽद्रौ धृतिकरे देवताडे पयोधरे ॥ १११ ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे । जीवन्ती जीवनीशम्योर्गुडूचीवृन्दयोरपि ॥ ११२ ॥ जृम्भितं करणे स्त्रीणामीहास्फोटितयोरपि । त्वरितं प्रजवे शीघ्रे त्रिगर्तो गणितान्तरे ॥ ११३ ॥ देशेऽपि ना घुर्घुरिकाकामुकाङ्गनयोः स्त्रियाम् । तृणता धनुषि तृणत्वे दंशितमपि जातदंशे स्यात् ॥ ११४ ॥ कवचाचिते द्विजातिर्विप्राण्डजयोश्च पुंलिङ्गः । दुर्जातं व्यसने क्लीबे सम्यग्जातेऽन्यलिङ्गकम् ॥ ११५ ॥ दुर्गतिर्नरके नैस्स्व्ये स्त्री दृष्टान्त उदाहृतौ । शास्त्रे च मरणे धीमान् पण्डिते च बृहस्पतौ ॥ ११६ ॥ निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिशापालान्तरे पुमान् । निकृतं विप्रलम्भे (२)स्यान्नीचे विप्रकृतेऽपि च ॥ ११७ ॥ निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि । निरस्तस्त्रिषु निष्ठ्यूते प्रेषितेषौ द्रुतोदिते ॥ ११८ ॥ ;f{(१) नडयोः-ख. । (२) स्यात् शठे विप्रकृते त्रिषु-ख. ।} ;p{0063} सन्त्यक्ते च प्रतिहते निमित्तं हेतुलक्ष्मणोः । निवातो दृढसन्नाहे वातशून्येऽपि चाश्रये ॥ ११९ ॥ निशान्तं त्रिषु शान्ते स्यात् क्लीबं तु भवनोषसोः । निकृतिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् ॥ १२० ॥ निर्वृतिः सुस्थितावस्तगमने च सुखे स्त्रियाम् । नियतिर्नियमे दैवे स्त्री पतन् पातुके खगे ॥ १२१ ॥ प्रहतं वितते क्षुण्णे पर्यस्तः पतिते हते । प्रभूतमुद्गते प्राज्ये पण्डितः सिल्हके कवौ ॥ १२२ ॥ पलितं शैलजे तापे केशपाके च कर्दमे । प्रसृतः सुप्रसारे स्याद्विनीते वेगिते त्रिषु ॥ १२३ ॥ अर्द्धाञ्जलौ तु पुंलिङ्गो जङ्घायां प्रसृता मता । प्रसूतं कुसुमे क्लीबं त्रिषु सञ्जातसूतयोः ॥ १२४ ॥ प्रणीतः संस्कृताग्नौ ना यज्ञपात्रान्तरे स्त्रियाम् । त्रिषु क्षिप्तोपसम्पन्नविहितेषु प्रवेशिते ॥ १२५ ॥ प्रतीतः सादरे ज्ञाते हृष्टप्रख्यातयोस्त्रिषु । प्रमीतं वाच्यलिङ्गं स्यात् प्रोक्षितेऽपि मृतेऽपि च ॥ १२६ ॥ परेतो वाच्यलिङ्गः स्यान्मृते भूतान्तरे पुमान् । पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः ॥ १२७ ॥ देवमुन्यन्तरे शैले प्रपातो निर्झरे तटे । पर्याप्तं तु यथेष्टे स्यात्तृप्तौ शक्ते निवारणे ॥ १२८ ॥ पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति । पक्षतिश्च भवेत् पक्षमूले च प्रतिपत्तिथौ ॥ १२९ ॥ प्रसूतिरुद्भवेऽपि स्यात्तनये दुहितर्यपि । प्रततिर्विस्तृतौ वल्यां पद्धतिः पङ्क्तिवर्त्मनोः ॥ १३० ॥ प्रवृत्तिस्तु प्रवाहे स्यादुदन्ते च प्रवर्त्तने । अवन्त्यादौ च पर्याप्तिः प्रकामप्राप्तिरक्षणे ॥ १३१ ॥ प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गे पौरवर्गेऽमी पक्षत्यादयः स्त्रियाम् ॥ १३२ ॥ ;p{0064} पार्वती सल्लकीदुर्गागोपालपुत्रिकासु च । प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहते त्रिषु ॥ १३३ ॥ पित्सन् विहङ्गमे पुंसि पतनेच्छौ पुनस्त्रिषु । पिशितं मांसे मांस्यां स्त्री पिण्डितं गुणिते घने ॥ १३४ ॥ पीडितं करणे स्त्रीणां यन्त्रिते बाधितेऽपि च । पुटितं स्या(१)दहिपुटे पाटितस्यूतयोरपि ॥ १३५ ॥ पृषन् मृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु श्वेतबिन्दुयुक्तेऽप्युभाविमौ ॥ १३६ ॥ प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे । छन्दोभित्क्षुद्रवार्ताकीवारिधानीषु वाचि च ॥ १३७ ॥ कण्टकारीमहत्योश्च भवेद्युष्मत्सतोस्त्रिषु । स्त्री बाणभेदे भरतो नाट्याशास्त्रमुनौ तटे ॥ १३८ ॥ रामानुजे च दौष्यन्तौ भास्वान् भास्वरसूर्ययोः । भारतं ग्रन्थभेदे स्याद्वर्षभेदेऽथ भारती ॥ १३९ ॥ वचने च सरस्वत्यां पक्षिवृत्तिप्रभेदयोः । भासन्तः सुन्दराकारे त्रिषु ना भासपक्षिणि ॥ १४० ॥ भावितं वासिते प्राप्ते भूभृन्नाऽद्रौ महीपतौ । महती वल्लकीभेदे राज्ये स्यात्तु नपुंसकम् ॥ १४१ ॥ तत्त्वभेदे पुमान् वृद्धे वाच्यवन्मथितं पुनः । क्लीबं निर्जलघोले स्यात् त्रिष्वालोडितघृष्टयोः ॥ १४२ ॥ मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम् । मुषितं हृतखण्डितयोर्मूर्च्छितमपि सोच्छ्रये च मूढे च ॥ १४३ ॥ रजतं त्रिषु शुक्ले स्यात् क्लीबं हारे च दुर्वर्णे । रमतिर्नायके नाके पुंसि स्याद्रसितं पुनः ॥ १४४ ॥ रुतस्तनितयोः क्लीबं स्वर्णादिखचिते त्रिषु । रेवती हलिपत्न्यां स्यात्ताराभिन्मातृभेदयोः ॥ १४५ ॥ ;f{(१) स्यात् हस्तपुटे-ख. ।} ;p{0065} रैवतस्तु सुवर्णालौ शैलभेदे च शङ्करे । रोहितं कुङ्कुमे रक्ते ऋजुशक्रशरासने ॥ १४६ ॥ पुंसि स्यान्मीनमृगयोर्भेदे रोहितकद्रुमे । रोहिन् मृग्यां लताभेदे स्त्री नाऽर्के ललितं त्रिषु ॥ १४७ ॥ ललिते चेशितेऽपि स्याद्धारभेदे तु न द्वयोः । लोहितं रक्तगोशीर्षे कुङ्कुमे रक्तचन्दने ॥ १४८ ॥ पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति । वर्द्धितं प्रसिते छिन्ने पूरिते वहतिर्गवि ॥ १४९ ॥ सचिवे पुंसि वहतुः पथिके वृषभे पुमान् । वनिता जातरागस्त्रीस्त्रियोस्त्रिषु च याचिते ॥ १५० ॥ सेविते वापितं बीजाकृतमुण्डितयोस्त्रिषु । वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतने ॥ १५१ ॥ व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् । व्याघातो योगभेदे स्यादन्तरायप्रहारयोः ॥ १५२ ॥ वासिता करिणीनार्योर्वासितं भाविते रुते । वासन्ती माधवीयूथ्योरुष्ट्रे नाऽवहिते त्रिषु ॥ १५३ ॥ विविक्तं त्रिष्वसम्पृक्ते रहःपूतविवेकिषु । वसुनन्दे ना विहस्तः पण्डिते व्याकुले त्रिषु ॥ १५४ ॥ विनीतः सुवहाश्वे स्याद्वणिज्यपि पुमांस्त्रिषु । जितेन्द्रियेऽपनीते च निभृते विनयान्विते ॥ १५५ ॥ विश्वस्तो जातविश्वासे विश्वस्ता विधवास्त्रियाम् । विद्युत्तडिति सन्ध्यायां स्त्रियां त्रिषु तु निष्प्रभे ॥ १५६ ॥ विवृता क्षुद्ररुग्भेदे विस्तृते त्वभिधेयवत् । विनेताऽदेशके राज्ञि ना विधाता तु वेधसि ॥ १५७ ॥ स्मरे ना विनता तार्क्ष्यजनन्यां पटकाभिदि । विनतः प्रणते भुग्ने शिक्षिते चाभिधेयवत् ॥ १५८ ॥ विकृतं त्रिषु बीभत्सरागिते संस्कृतेऽपि च । विच्छित्तिरङ्गरागे विच्छेदे हारभेदे स्त्री ॥ १५९ ॥ ;p{0066} विदितं बुधितार्थितयोर्विपत्तिरपि यातनाऽऽपदोर्योषित् । वृत्तान्तः प्रक्रियायां स्यात् कार्त्स्न्यवार्त्ताप्रभेदयोः ॥ १६० ॥ प्रस्तावे वेष्टितं रुद्धे लासके करणान्तरे । वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु ॥ १६१ ॥ (१)विवर्त्तः समुदाये स्यादपवर्तननृत्ययोः । शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः ॥ १६२ ॥ श्रीमांस्तिलकवृक्षे ना मनोज्ञे धनिके त्रिषु । श्रीपतिः पुंसि पृथिवीनाथे च मधुसूदने ॥ १६३ ॥ शुद्धान्तोऽन्तःपुरे क्ष्माभृद्रहःकक्षान्तरेऽपि च । स्रवन्ती तु तरङ्गिण्यां गुल्मस्थानौषधीभिदोः ॥ १६४ ॥ संवर्त्तः प्रलये मुन्यन्तरे कर्षफलेऽपि च । स्खलितं चलिते भ्रेषे संहतं सङ्गते दृढे ॥ १६५ ॥ संस्कृतः कृत्रिमे शस्ते भूषितेऽष्वन्यलिङ्गकः । क्लीबं तु लक्षणोपेते स्थपतिः कञ्चुकिन्यपि ॥ १६६ ॥ जीवेष्टियाजके शिल्पिभेदे ना सत्तमे त्रिषु । सङ्घातः पुंसि घाते च संहतौ नरकान्तरे ॥ १६७ ॥ संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च । सन्ततिः स्यात् पंक्तौ गोत्रे पारम्पर्ये च पुत्रयोः ॥ १६८ ॥ (२)सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतौ ध्वनौ । समितिः सम्पराये स्यात्सभायां सङ्गमेऽपि च ॥ १६९ ॥ समाप्तिरवसाने स्यात्समर्थनेऽथ सम्मतिः । अभिलाषेऽप्यनुज्ञायां संवित्याद्यास्तु योषिति ॥ १७० ॥ स्थापितं निश्चिते न्यस्ते (३)स्तिमितोऽचञ्चलार्द्रयोः । सिकता स्त्री सिकतिले वालुकायां तु भूमनि ॥ १७१ ॥ सुरतं स्यान्निधुवने देवत्वे सुरता स्मृता । ;f{(१) इदमर्धं नास्ति-ख. ।; (२) इदमर्धं पद्यं नास्ति-ख. ।; (३) निश्चला-ख. ।} ;p{0067} सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु ॥ १७२ ॥ सुव्रता सुखसन्दोह्याशोभनव्रतयोरपि । सुनीतिः शोभननये ध्रुवमातरि योषिति ॥ १७३ ॥ सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि । हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः ॥ १७४ ॥ अस्त्रियां स्यात्तृणे चाथ हर्मितं क्षिप्तदग्धयोः । हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत् ॥ १७५ ॥ हसन्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः । हारीतः पक्षिभेदे स्यान्मुनिभेदे च कैतवे ॥ १७६ ॥ हृषितं विस्मिते प्रीते प्रहते हृष्टलोमनि । ;v{तचतुष्कम्} ;c{तचतुष्कम्} अवसितमृद्धे ज्ञातेऽप्यवसानगते च वाच्यलिङ्गं स्यात् ॥ १७७ ॥ (१)अर्थपतिः पुंलिङ्गो धनाधिनाथे च नरनाथे । अवदातः सिते गौरे विशुद्धेऽप्यन्यलिङ्गकः ॥ १७८ ॥ अवगीतं तु निर्वादे दु(२)ष्टगर्हितयोरपि । अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च वाच्यवत् ॥ १७९ ॥ अङ्गारितं तु दग्धे स्यात्पलाशकलिकोद्गमे । (३)हसन्त्यां च लतामात्रे नदीभेदे च योषिति ॥ १८० ॥ अपावृतस्तु पिहिते स्वतन्त्रेऽपि च वाच्यवत् । अत्याहितं महाभीतौ जीवानपेक्षिकर्मणि ॥ १८१ ॥ अभिनीतं त्रिषु न्याय्ये संस्कृतामर्षिणोरपि । अभिजातः कुलीने स्यात् न्याय्यपण्डितयोस्त्रिषु ॥ १८२ ॥ अभियुक्तः परै रुद्धे तत्परेऽप्यभिधेयवत् । अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च ॥ १८३ ॥ अवध्वस्तः परित्यक्ते निन्दितेऽप्यवचूर्णिते । ;f{(१) इदमर्धं नास्ति-क. पु. ।; (२) त्वव्द-क. ।; (३) इदमर्धं नास्ति-ख. ।} ;p{0068} अधिक्षिप्तः प्रsणिहिते कुत्सिते भर्त्सिते त्रिषु ॥ १८४ ॥ अंशुमान् भास्करे शालपर्ण्यामंशुमती स्मृता । भवेदपचितिः पूजाव्ययनिष्कृतिहानिषु ॥ १८५ ॥ अथानुमतिरूनेन्दुपूर्णिमाऽनुज्ञयोरपि । अभिशस्तिः प्रार्थनाऽपवादयोश्च त्रयं स्त्रियाम् ॥ १८६ ॥ आयुष्मान् योगभेदे ना वाच्यवच्चिरजीविनि । उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ॥ १८७ ॥ उपाकृतोऽध्वरहतपशौ नोपद्रुते त्रिषु । उदास्थितः प्रतीहारे प्रव्रज्याऽवसिते चरे ॥ १८८ ॥ स्यादुल्लिखितमुत्कीर्णे तनूकृते च वाच्यवत् । उद्ग्राहितमुदीर्णे स्याद्बद्धग्राहितयोस्त्रिषु ॥ १८९ ॥ भवेदुपचितं दग्धे समृद्धे वाच्यलिङ्गकम् । उज्जृम्भितं त्रिषूत्फुल्ले चेष्टायां तु नपुंसकम् ॥ १९० ॥ उपरक्तो व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः । उपसत्तिः सङ्गमात्रे सेवायामपि योषिति ॥ १९१ ॥ ऋष्यप्रोक्ता शतावर्यतिबलाशूकशिबिषु । ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रमे ॥ १९२ ॥ नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १९३ ॥ कलधौतं सुवर्णे स्याद्रजते च नपुंसकम् । भवेत् कुहरितं क्लीबं पिकालापे रतध्वनौ ॥ १९४ ॥ कुमुद्वान् कुमुदप्रायदेशे स्याद्वाच्यलिङ्गकः । कुमुद्वती कुमुदिन्यां कुशपत्न्यां च योषिति ॥ १९५ ॥ कृष्णवृन्ता पाटलायां माषपर्ण्यां च योषिति । अथ गन्धवती पृथ्वीपुरीभिद्व्यासमातृषु ॥ १९६ ॥ सुरायां च गरुत्मांश्च पक्षिमात्रे खगाधिपे । भवेद् गृहपतिः पुंसि गृहस्थेऽपि च मन्त्रिणि ॥ १९७ ॥ चन्द्रकान्तस्तु पुंसि स्यान्मणिभेदे च कैरवे । ;p{0069} चर्मण्वती नदीभेदे कदलीपादपे स्त्रियाम् ॥ १९८ ॥ चित्रगुप्तस्तु पुंसि स्याद्यमे तस्य च लेखके । दिवाभीतः कुम्भिले स्यादुलू्के कुमुदाकरे ॥ १९९ ॥ दिवाकीर्तिस्तु पुंसि स्यान्नापितान्तावसायिनोः । द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः ॥ २०० ॥ दृषद्वती नदीभेदे कात्यायन्यामपि स्त्रियाम् । स्याद् धूमकेतुरुत्पातभेदे वैश्वानरे पुमान् ॥ २०१ ॥ नन्द्यावर्तः पुमान् वेश्मप्रभेदे भगवद्द्रुमे । नदीकान्तः समुद्रे स्याद् हिज्जले सिन्दुवारके ॥ २०२ ॥ नदीकान्ता स्त्रियां जम्ब्वां काकजङ्घौषधावपि । नागदन्तो द्विपरदे गृहान्निर्गतदारुणि ॥ २०३ ॥ नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपि स्त्रियाम् । निष्कासितो निर्गमितेऽप्याहितेऽधिकृतेऽपि च ॥ २०४ ॥ अथ निस्तुषितं त्यक्ते त्वग्निहीने लघूकृते । निराकृतिरनाकारेऽस्वाध्याये त्रिषु वारणे ॥ २०५ ॥ स्त्रियां परिगतं प्राप्ते विस्मृतज्ञानचेष्टिते । अथ प्रणिहितं न्यस्ते प्राप्तेऽपि च समाहिते ॥ २०६ ॥ अथ पल्लवितं लाक्षारक्ते सपल्लवे तते । भवेत् प्रतिहितं द्विष्टे प्रतिस्खलितरुद्धयोः ॥ २०७ ॥ प्रतिक्षिप्तं वारिते स्यात्प्रेषिते पञ्चकं त्रिषु । परिवर्तो विनियमे कूर्मराजेऽपवर्तने ॥ २०८ ॥ परिस्रुता स्त्री वारुण्यां स्यन्ने स्यादभिधेयवत् । प्रधूपिता क्लेशितायां सूर्यगन्तव्यदिश्यपि ॥ २०९ ॥ पञ्चगुप्तस्तु चार्वाकदर्शने कमठे पुमान् । प्रजापतिश्च दक्षादौ महीपाले विधातरि ॥ २१० ॥ प्रतिपत्तिः प्रवृत्तौ च प्रागल्भ्ये गौरवेऽपि च । सम्प्राप्तौ च प्रबोधे च पदप्राप्तौ च योषिति ॥ २११ ॥ अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च । ;p{0070} प्रतिकृतिरथार्चायां प्रतिनिधिप्रतीकारयोश्च स्त्री ॥ २१२ ॥ पाशुपतो बकपुष्पे स्यात् पशुपत्यधिदैवते च तद्भक्ते । पारिजातः सुरतरौ पारिभद्रतरावपि ॥ २१३ ॥ पारावती गोपगीते नदीभिल्लवलीफले । पारावतः कलरवे तथा मर्कटतिन्दुके ॥ २१४ ॥ पुष्पदन्तस्तु दिङ्नागभेदे विद्याधरान्तरे । पुरस्कृतोऽभिशस्तारिग्रस्ताग्रे कृतपूजिते ॥ २१५ ॥ भगवान्ना जिने गौर्यां स्त्रियां पूज्ये तु वाच्यवत् । अथ भोगवती नागपुरीनद्योरहौ पुमान् ॥ २१६ ॥ रङ्गमाता तु कुट्टन्यां वृक्षरोगान्तरे स्त्रियाम्(१) । लक्ष्मीपतिः पुमान् वासुदेवे नरपतावपि ॥ २१७ ॥ व्यतीपातो महोत्पाते योगभेदापमानयोः । वनस्पतिर्ना द्रुमात्रे विना पुष्पफलद्रुमे ॥ २१८ ॥ विनिपातो निपाते स्याद् दैवादिव्यसने पुमान् । विजृम्भितं तु चेष्टायां क्लीबं त्रिषु विकस्वरे ॥ २१९ ॥ विवस्वान् विबुधे(२) सूर्ये तन्नगर्यां विवस्वती । वैजयन्तो महेन्द्रस्य ध्वजप्रासादयोः पुमान् ॥ २२० ॥ वैजयन्ती पताकायां जयन्तीपादपे (३)स्त्रियाम् । भवेच्छतधृतिः पुंसि शुक्रे च परमेष्ठिनि ॥ २२१ ॥ शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति । समुद्धतं समुत्कीर्णेऽप्यपनीते च वाच्यवत् ॥ २२२ ॥ सदागतिर्नाकवातनिर्वाणेषु सदीश्वरे । सरस्वांश्च नदे चाब्धौ मान्यवद्रसिके स्त्रियाम् ॥ २२३ ॥ वाणी स्त्री रत्नवाग्देवीगोनदीषु नदीभिदि । मनुपत्न्यामपि सत्यवती व्यासस्य मातरि ॥ २२४ ॥ नारदर्चीकयोः पत्न्यां स्त्रियां पुंसि नृपान्तरे । ;f{(१) पुमान्-ख. ।; (२) विवस्वांतु सुरे सूर्ये-ख. ।; (३) पुमान्-क. ।} ;p{0071} समुद्रान्ता तु कार्पासीपृक्कादुरालभासु च ॥ २२५ ॥ समाहितः समाधिस्थेऽप्युक्तसिद्धान्त आहिते । निर्विवादीकृतेऽपि स्यात्प्रतिज्ञाते च वाच्यवत् ॥ २२६ ॥ समाघातो वधे युद्धे संख्यावान् पण्डिते पुमान् । संख्यायुक्तेऽन्यलिङ्गोऽथ सुधासूतिः पुमान् मखे ॥ २२७ ॥ चन्द्रे सुभाषितो बुद्धे पुमान् सूक्ते नपुंसकम् । सूर्यभक्तस्तु बन्धूके पुंसि त्रिष्वर्कपूजके ॥ २२८ ॥ सेनापतिः कार्तिकेयेऽप्यनीकाधिपतौ पुमान् । हिमारातिः पुमान् वीतिहोत्रे किरणमालिनि ॥ २२९ ॥ हैमवत्यभयास्वर्णक्षीर्योः श्वेतवचोमयोः । ;v{तपञ्चकम्} ;c{तपञ्चकम्} अवलोकितो ना लोकनाथे त्रिषु निरीक्षिते ॥ २३० ॥ अपराजित ईशाजेष्ट्यन्तरे नाऽजिते त्रिषु । गिरिकर्णीजयादुर्गाशनपर्णीषु योषिति ॥ २३१ ॥ उपधूपित आसङ्गमरणे परिधूपिते । स्याद्गणाधिपतिः पुंसि शङ्करेऽपि गजानने ॥ २३२ ॥ भवेत् पिपतिषन् पित्सौ त्रिषु पुंसि विहङ्गमे । पृथिवीपतिस्तु भूपे ऋषभाख्यौषधौ पुमान् ॥ २३३ ॥ मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रियेऽपि च । यादसाम्पतिरम्भोधौ पश्चिमाशापतावपि ॥ २३४ ॥ वसन्तदूतश्चैत्रे स्यात् पिकपञ्चमरागयोः । वसन्तदूती पाटल्यामभियुक्ते च योषिति ॥ २३५ ॥ ;v{तषट्कम्} ;c{तषट्कम्} अर्धपारावतश्चित्रकण्ठे तित्तिरिपक्षिणि । ;v{तसप्तकम्} ;c{तसप्तकम्} समुद्रनवनीतं स्यात् क्लीबं पीयूषचन्द्रयोः ॥ २३६ ॥ ;c{इति तान्तवर्गः ।} ;p{0072} ;k{थान्तवर्गः} ;v{थैकम्} ;c{थैकम्} थं रक्षणे मङ्गले च साध्वसे च नपुंसकम् । शिलोच्चये पुमानेव क्वचित्तु भयरक्षके ॥ १ ॥ ;v{थद्विकम्} ;c{थद्विकम्} अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने ॥ २ ॥ आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति । कन्था मृण्मयभित्तौ च तथा प्रावरणान्तरे ॥ ३ ॥ क्वथः स्यादतिदुःखेऽपि निष्पाकेऽपि द्रवस्य च । कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषि ॥ ४ ॥ कोथो ना नेत्ररोगस्य भेदे च शठिते त्रिषु । ग्रन्थो ग्रन्थनाधनयोः स्याच्छास्त्राक्षरसंख्ययोः ॥ ५ ॥ ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः । गाथा श्लोके संस्कृतान्यभाषायां गेयवृत्तयोः ॥ ६ ॥ तीर्थं शास्त्राध्वरक्षेत्रोपायनारीरजःसु च । अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु ॥ ७ ॥ तुत्थमञ्जनभेदे स्यान्नीलसूक्ष्मैलयोस्त्रियाम् । दुःस्थः स्याद् दुर्गते मूर्खे दुःखेन तिष्ठति त्रिषु ॥ ८ ॥ प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि । पाथोऽर्केऽग्नौ जले क्लीबं पृथुः स्यान्महति त्रिषु ॥ ९ ॥ त्वक्पर्ण्यां कृष्णजीरे स्त्री पुमानग्नौ नृपान्तरे । प्राथोऽस्त्री हयघोणायां नाकट्यामध्वगे त्रिषु ॥ १० ॥ मन्थः स्यात्पुंसि मन्थाने साक्तवे च दिवाकरे । यूथं तिर्यक्समूहेऽस्त्री पुष्पभेदे च योषिति ॥ ११ ॥ रथः पुमानवयवे स्यन्दने वेतसेऽपि च । वीथी पङ्क्तौ गृहाङ्गे च रूपकान्तरवर्त्मनोः ॥ १२ ॥ संस्थश्चरेऽवस्थिते स्त्री स्थितौ सादृश्यनाशयोः । सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके ॥ १३ ॥ ;p{0073} सिक्यो भक्तपुलाके ना मधूच्छिष्टे नपुंसकम् । ;v{थत्रिकम्} ;c{थत्रिकम्} अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु ॥ १४ ॥ अश्वत्थः पिप्पलद्रौ स्यादश्वत्था पूर्णिमातिथौ । अव्यथो निर्व्यथे सर्पे चारटीपथ्ययोः स्त्रियाम् ॥ १५ ॥ उन्माथः कूटयन्त्रे स्यान्मारणे घातके पुमान् । उपस्थः शेफसि क्रोडे तथा मदनमन्दिरे ॥ १६ ॥ उद्रथो रथकीले स्यात्ताम्रचूडाख्यपक्षिणि । क्षवथुर्ना क्षुते कासे कायस्थः परमात्मनि ॥ १७ ॥ नरजातिविशेषे ना हरीतक्यां तु योषिति । कापथः कुत्सितपथे उशीरे क्लीबमिष्यते ॥ १८ ॥ गोग्रन्थिर्ना करीषे स्याद् गोष्ठगोजिह्विकौषधौ । दमथस्तु पुमान् दण्डे दामे च परिकीर्तितः ॥ १९ ॥ निशीथस्तु पुमानर्धरात्रे स्याद्रात्रिमात्रके । निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि ॥ २० ॥ प्रमथा स्याद् हरीतक्यां हरपारिषदे पुमान् । वरूथो रथगुप्तौ स्यात् वरूथं चर्मवेश्मनोः ॥ २१ ॥ मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे । वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च ॥ २२ ॥ सूक्ष्मैलायां च काकोल्यां पथ्या(१)लीतरुणे त्रिषु । वमथुः पुंसि वमने गजस्य करशीकरे ॥ २३ ॥ विदथो योगिकृतिनोः शमथः शान्तिमन्त्रिणोः । षड्ग्रन्था तु वचायां स्त्री स्यात्करञ्जान्तरे पुमान् ॥ २४ ॥ समर्थस्तु हिते शक्ते सम्बद्धेऽप्यन्यलिङ्गकः । सिद्धार्थस्तु पुमान् शाक्यसिंहे च सितसर्षपे ॥ २५ ॥ ;f{(१) पथ्यायां तरुणे त्रिषु-ख. ।} ;p{0074} ;v{थचतुष्कम्} ;c{थचतुष्कम्} अनीकस्थो रणगते हस्तिशिक्षाविचक्षणे । राजरक्षिणि चिह्ने च वीरमर्दनकेऽपि च ॥ २६ ॥ भवेदितिकथाऽपार्थवाच्यश्रद्धेयनष्टयोः । चतुष्पथं चतुर्मार्गे सङ्गमे ब्राह्मणेऽपि ना ॥ २७ ॥ अथ चित्ररथः सूर्यगन्धर्वान्तरयोः पुमान् । दशमीस्थो नष्टवीर्ये स्थविरेऽप्यन्यलिङ्गकः ॥ २८ ॥ प्राणनाथो यमे ना स्यादिष्टे प्राणाधिके मतः । वानप्रस्थो मधूकेऽपि स्यात् तृतीयाश्रमे पुमान् ॥ २९ ॥ भवेदुदरथिः पुंसि समुद्रे च वियन्मणौ । ;c{इति थान्तवर्गः ।} ;k{दान्तवर्गः} ;v{दैकम्} ;c{दैकम्} दः पुमानचले दत्ते स्त्रियां शोधनदानयोः । छेदोपतापरक्षासु पुमांस्तु दातरि स्मृतः ॥ १ ॥ ;v{दद्विकम्} ;c{दद्विकम्} अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् । अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च ॥ २ ॥ कन्दोऽस्त्री सूरणे शस्यमूले जलधरे पुमान् । कुन्दो माघ्येऽस्त्री मुकुन्दभ्रमिनिद्ध्यन्तरेषु ना ॥ ३ ॥ क्षोदः स्यात्पुंसि रजसि पेषणे च प्रकीर्तितः । गदो भ्रातरि विष्णोः स्यादामये ना युधे गदा ॥ ४ ॥ छदः पलाशे गरुति ग्रन्थिपर्णतमालयोः । छन्दो वशेऽप्यभिप्राये धीदा पुत्रीमनीषयोः ॥ ५ ॥ नन्दिर्द्यूताङ्ग आनन्देऽस्त्री नन्दिकेश्वरे पुमान् । नदी सरिति शोणादौ ना नन्दा स्यादलिञ्जरे ॥ ६ ॥ ;p{0075} गौर्यां तिथिविशेषे स्त्री निधिराजभिदोः पुमान् । निन्दा स्यादपवादेऽपि कुत्सायामपि योषिति ॥ ७ ॥ पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ ८ ॥ श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः । पादो ब्रध्ने तुरीयांशे शैलप्रत्यन्तपर्वते ॥ ९ ॥ चरणे च मयूखे च वन्दा लतान्तरे स्मृता । भिक्षुक्यामपि वन्द्यां च विन्दुर्दन्तक्षतान्तरे ॥ १० ॥ भ्रुवोर्मध्ये रूपकार्यप्रकृतौ पृषते पुमान् । वेदितर्यन्यलिङ्गः स्यात् भद्रं कल्याणशर्मणोः ॥ ११ ॥ भेदा द्वैधे विशेषे स्यादुपजापे विदारणे । मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः ॥ १२ ॥ मन्दोऽतीक्ष्णे च मूर्खे च स्वैरे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ ॥ १३ ॥ मृदुः स्यात्कोमलेऽतीक्ष्णे रदो दन्ते विलेखने । विदा ज्ञाने च निर्दिष्टा मनीषायां च योषिति ॥ १४ ॥ वेदः श्रुतौ च वृत्ते च वेदिः स्यात्पण्डिते पुमान् । स्त्रियामङ्गुलिमुद्रायां स्यात्परिष्कृतभूतले ॥ १५ ॥ शादः स्यात्कर्दमे शष्पे स्वादुर्मिष्टमनोज्ञयोः । सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे ॥ १६ ॥ स्वेदस्तु स्वेदने घर्मे हृत् क्लीबं बुक्कचित्तयोः । ;v{दत्रिकम्} ;c{दत्रिकम्} अङ्गदः कपिभेदे ना केयूरे तु नपुंसकम् ॥ १७ ॥ अङ्गदा याम्यदिग्दन्तिहस्तिन्यामपि योषिति । अर्द्धेन्दुरर्द्धचन्द्रे स्याद्गलहस्तनखाङ्कयोः ॥ १८ ॥ अर्द्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने । (१)अर्बुदो मांसकीले स्यात्पुरुषे दशकोटिषु ॥ १९ ॥ ;f{(१) अर्बुदो मांसपुरुषे दशकोटिषु न स्त्रियाम्-ख. ।} ;p{0076} महीधरविशेषे नाऽथास्पदं पदकृत्ययोः । आसन्दो वासुदेवे स्यात् खट्वाभेदे च योषिति ॥ २० ॥ आक्रन्दः क्रन्दने ह्वाने मित्रदारुणयुद्धयोः । भ्रातर्यपि च पुंसि स्यादामोदो गन्धहर्षयोः ॥ २१ ॥ ककुद् स्त्री ककुदोऽप्यस्त्री वृषाङ्के राड्ध्वजे वरे । क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ २२ ॥ कपर्दः खण्डपरशौ जटाजूटे वराटके । कर्णान्दुरुत्क्षिप्तिकायां कर्णपाल्यामपि स्त्रियाम् ॥ २३ ॥ क्रव्याद्रक्षसि पुंसि स्यान्मांसाशिन्यन्यलिङ्गकः । कामदा कामधेनौ स्त्री कामदातरि वाच्यवत् ॥ २४ ॥ कुमुद् त्रिषु स्यात्कृपणे कैरवे तु नपुंसकम् । कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकौषधौ ॥ २५ ॥ गाभ्यार्यां पुंसि दिङ्नागे नागे शाखामृगान्तरे । कुसीदं जीवने वृद्ध्या क्लीबं त्रिषु कुसीदके ॥ २६ ॥ कौमुदः स्यात्कार्तिकिके चन्द्रिकायां तु कौमुदी । गोष्पदं गोपदश्वभ्रे गवाञ्च गतिगोचरे ॥ २७ ॥ गोविन्दा वासुदेवे स्याद् गवाध्यक्षे बृहस्पतौ । गोनर्दमपि कैवर्तीमुस्तके पुंसि सारसे ॥ २८ ॥ जलदो मुस्तके मेघे जीवदो वैद्यविद्विषोः । तरद् स्त्रियां प्लवेऽपि स्यात् कारण्डे च विहङ्गमे ॥ २९ ॥ तोयदो मुस्तके मेघे पुमानाज्ये नपुंसकम् । दरद् स्त्रियां प्रपातेऽपि भयपर्वतयोरपि ॥ ३० ॥ दारदो विषभेदे स्यात्पारदे हिङ्गुले पुमान् । दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च ॥ ३१ ॥ दृषद् निष्पेषणशिलापट्टप्रस्तरयोः पुमान् । धनदस्तु कुबेरे स्यात्पुंलिङ्गो दातरि त्रिषु ॥ ३२ ॥ नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः । नर्मदः केलिसचिवे नर्मदा सरिदन्तरे ॥ ३३ ॥ ;p{0077} निर्वादः स्याल्लोकवादे परिनिष्ठितवादयोः । निषादः स्वरभेदे स्याच्चण्डाले धीवरान्तरे ॥ ३४ ॥ प्रमदः सम्मदे मत्ते स्त्रियामुत्तमयोषिति । प्रसादोऽनुग्रहे काव्यगुणस्वास्थ्यप्रसत्तिषु ॥ ३५ ॥ प्रणादस्तु पुमांस्तारशब्दे च श्रवणामये । प्रासादो देवनृपयोर्गृहेऽथ वरदा स्त्रियाम् ॥ ३६ ॥ कन्यायां वाच्यलिङ्गस्तु प्रसन्ने च समर्द्धके । भसद् स्त्री भास्वरे योनौ मर्यादा सीमनि स्थितौ ॥ ३७ ॥ माकन्दः सहकारेऽस्त्री धात्रीनगरभेदयोः । मुकुन्दो निधिभिद्विष्णुरत्नभेदे च कुन्दुरौ ॥ ३८ ॥ मेनादस्तु पुमान् केकिमार्जारच्छागलेषु च । विशदः पाण्डुरे रक्ते शरद् स्त्री वत्सरेऽप्यृतौ ॥ ३९ ॥ शारदोऽब्दे स्त्रियां तोयपिप्पलीसप्तपर्णयोः । शस्ये क्लीबं शरज्जातनूतनाप्रतिभे त्रिषु ॥ ४० ॥ षड्बिन्दुः स्यात्कीटभेदपुण्डरीकाक्षयोः पुमान् । सम्पद् भूतौ गुणोत्कर्षे हारभेदेऽपि च स्त्रियाम् ॥ ४१ ॥ संविद् स्त्रियां प्रतिज्ञायामाचारज्ञानसङ्गरे । सम्भाषणे क्रियाकारे सङ्केते नाम्नि तोषणे ॥ ४२ ॥ सम्भेदः स्फुटने सङ्गे सुनन्दा रोचनोमयोः । ;v{दचतुष्कम्} ;c{दचतुष्कम्} अभिष्यन्दोऽतिवृद्धौ स्यादास्रावेऽक्षिगदेऽपि च ॥ ४३ ॥ अष्टापदोऽस्त्री कनके शारीणां फलकेऽपि च । अष्टापदी चन्द्रमल्ल्यां शरभे मर्कटे पुमान् ॥ ४४ ॥ अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि । अभिमर्दस्तु पुंसि स्यादवमर्दे सम्पराये च ॥ ४५ ॥ एकपदं तत्काले नपुंसकं वर्त्मनि स्त्री स्यात् । कटुकन्दः पुमान् शिग्रौ शृङ्गवेररसोनयोः ॥ ४६ ॥ कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान् । ;p{0078} अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे ॥ ४७ ॥ चतुष्पदी तु पद्ये ना पशौ च करणान्तरे । भवेज्जनपदो जानपदोऽपि जनदेशयोः ॥ ४८ ॥ तमोनुदग्नीन्द्वर्के ना प्रतिपद् स्त्री तिथौ मतौ । परिवादोऽपवादे स्याद्वीणावादनवस्तुनि ॥ ४९ ॥ प्रियंवदः खेचरे ना प्रियवाचि तु वाच्यवत् । पीठमर्दोऽतिधृष्टे स्यान्नायकस्य प्रियेऽपि च ॥ ५० ॥ पुटभेदो नदीवक्रपतनातोद्ययोरपि । महानादः कुञ्जरे स्याद् वर्षुकाब्दे महास्वने ॥ ५१ ॥ मुचुकुन्दो वृक्षभेदे मान्धातृतनयेऽपि च । मेघनादस्तु वरुणे तनये रावणस्य च ॥ ५२ ॥ विशारदः पण्डिते च धृष्टे विष्णुपदं तु खे । क्षीरोदे च स्त्रियां गङ्गारविसङ्क्रान्तिभेदयोः ॥ ५३ ॥ शशबिन्दुः पुमान्वासुदेवे राजान्तरेऽपि च । शतानन्दो मुनेर्भेदे देवकीनन्दनेऽपि च ॥ ५४ ॥ शतह्रदा स्त्रियां वज्रे सौदामिन्यां च कीर्तिता । समर्यादः समीपे ना मर्यादासहिते त्रिषु ॥ ५५ ॥ ;v{दपञ्चकम्} ;c{दपञ्चकम्} भवेदुपनिषद् धर्मे वेदान्ते विजने स्त्रियाम् । सहस्रपादः कारुण्डे मार्तण्डे यत्नपूरुषे ॥ ५६ ॥ ;c{इति दान्तवर्गः ।} ;k{धान्तवर्गः} ;v{धैकम्} ;c{धैकम्} धा ना धर्मे कुबेरे च क्लीबं तु वसुनि स्मृतम् । धो धा च ब्रह्मणि ख्यातो धा तु स्याद् धारकेऽपि च ॥ १ ॥ धीर्ज्ञानभेदे बुद्धौ च धूः स्मृता धूनने स्त्रियाम् । ;v{धद्विकम्} ;c{धद्विकम्} अर्द्धं समांशे खण्डे नाऽब्धिर्ना सरसि वारिधौ ॥ २ ॥ ;p{0079} अन्धं स्यात्तिमिरे क्लीबं चक्षुर्हीनेऽभिधेयवत् । आधिः पुमांश्चित्तपीडाप्रत्याशाबन्धकेषु च ॥ ३ ॥ व्यसने चाप्यधिष्ठानेऽपीद्धमातपदीप्तयोः । ऋद्धं सम्पन्नधान्ये च सुसमृद्धे च वाच्यवत् ॥ ४ ॥ ऋद्धिः स्यादौषधीभेदे समृद्धावपि योषिति । गन्धः प्रतिवेश्यामोदलेशसम्बन्धगन्धके ॥ ५ ॥ गाधः स्थाने च लिप्सायां गोधा तलनिहाकयोः । दधि क्षीरोत्तरा(१)वस्थाभावे श्रीवासस(२)र्जयोः ॥ ६ ॥ दग्धं प्लुष्टेऽन्यलिङ्गं स्यात् स्थितार्कदिशि च स्त्रियाम् । दिग्धा विषाक्तबाणे स्यात्पुंसि लिप्तेऽन्यलिङ्गकः ॥ ७ ॥ दुग्धं प्रपूरिते क्षीरे दुग्धी क्षीराविकौषधौ । दोग्धाऽर्थोपजीविकवौ वत्सगोपालयोः पुमान् ॥ ८ ॥ नद्धो बद्धे तथोद्वृत्ते बन्ध आधौ च बन्धने । बन्धुः स्यात्पुंसि बन्धूके मित्रे त्रातरि बान्धवे ॥ ९ ॥ बाधा दुःखे निषेधे च बुधः सौम्ये च पण्डिते । बुद्धो जिने लब्धवर्णे पुंसि स्याद् बुधितेऽन्यवत् ॥ १० ॥ बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे । मधुपुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे ॥ ११ ॥ वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति । मिद्धं चित्ताभिसङ्क्षेपे क्लीबमालस्यनिद्रयोः ॥ १२ ॥ मुग्धस्तु सुन्दरे मूढे मेधा बुधौ क्रतौ पुमान् । राधो मासान्तरे राधा चित्रभेदे च धन्विनाम् ॥ १३ ॥ गोपीविशाखामलकीविष्णुकान्तासु विद्युति । लुब्ध आकाङ्क्षिणि व्याधे वधूः स्त्री शारिवौषधौ ॥ १४ ॥ स्नुषाशटीनवोढासु चार्यापृक्काङ्गनासु च । व्याधिः कुष्ठे च रोगे ना व्याधो मृगयुदुष्टयोः ॥ १५ ॥ ;f{(१) क्षीरान्तरावस्था०-ख. ।; (२) श्रीवासवासयोः-ख. ।} ;p{0080} तारामयेशे च विधुर्ना कर्पूरेन्दुविष्णुषु । विद्धं स्याद्वेधिते क्षिप्ते सदृशे बाधिते त्रिषु ॥ १६ ॥ विधिर्ना नियतौ काले विधाने परमेष्ठिनि । विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ॥ १७ ॥ वृद्धो जीर्णे प्रवृद्धे ज्ञे त्रिषु क्लीबं तु शैलजे । वृद्धिस्तु वर्द्धने योगेऽप्यष्टवर्गौषधान्तरे ॥ १८ ॥ कालान्तरे चाभ्युदये समृद्धावपि योषिति । श्रद्धाऽऽदरे च काङ्क्षायां श्राद्धं श्रद्धाऽन्विते त्रिषु ॥ १९ ॥ हव्यकव्यविधौ क्लीबं शुद्धं स्यात्त्रिषु केवले । निर्दोषे च पवित्रे च सन्धा स्थितिप्रतिज्ञयोः ॥ २० ॥ स्पर्द्धा संहर्षणेऽपि स्यात्साम्ये क्रमसमुन्नतौ । सन्धिः पुमान् सुरुङ्गायां भगे सङ्घटनेऽपि च ॥ २१ ॥ रूपकाणां मुखाद्यङ्गे सावकाशेऽपि कीर्तितः । स्कन्धः स्यान्नृपतावंसे सम्परायसमूहयोः ॥ २२ ॥ कार्ये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि । साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् ॥ २३ ॥ सिद्धो ना व्यासादौ भेदे योगस्य देवयोनेश्च । त्रिषु निष्पन्ने स्निग्धं स्नेहयुते चिक्कणेऽपि स्यात् ॥ २४ ॥ सिन्धुर्वमथुदेशाब्धिनदे ना सरिति स्त्रियाम् । सिद्धिः स्त्री योगनिष्पत्तिपादुकान्तर्द्धिवृद्धिषु ॥ २५ ॥ सुधा स्त्री लेपने मूर्व्यां स्नुहीगङ्गष्टकामृते । ;v{धत्रिकम्} ;c{धत्रिकम्} अवधिस्त्ववधाने स्यात्सीम्नि काले बिले पुमान् ॥ २६ ॥ अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् । आनद्धं मुरजादौ च क्लीबं स्यात्सन्दिते त्रिषु ॥ २७ ॥ आविद्धो वाच्यलिङ्गः स्यात्कुटिले च पराहतम् । आबद्धो दृढबन्धे स्यात्प्रेमालङ्कारयोक्त्रयोः ॥ २८ ॥ उत्सेधस्तूच्छ्रये न स्त्री क्लीबं संहननेऽपि च । ;p{0081} उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले ॥ २९ ॥ विशेषणे पुंस्युपधिः पुंसि व्याजरथाङ्गयोः । कबन्धोऽस्त्री क्रियायुक्तव्यपमूर्धकलेवरे ॥ ३० ॥ क्लीबं जले पुंस्युदरे बाहुरक्षोविशेषयोः । दुर्विधो वाच्यलिङ्गः स्याद् दुर्गतेऽपि खलेऽपि च ॥ ३१ ॥ न्यग्रोधस्तु पुमान् व्यामवटयोश्च शमीतरौ । न्यग्रोधो तूपचित्रायां निरोधो नाशरोधयोः ॥ ३२ ॥ निषधः कठिने देशे तद्राजे पर्वतान्तरे । परिधिर्ना यज्ञियद्रुशाखायामुपसूर्यके ॥ ३३ ॥ प्रसिद्धो भूषिते ख्याते प्रणिधिर्नाऽर्थने चरे । मागधी स्त्री कणायूथ्योर्वाच्यवन्मगधोद्भवे ॥ ३४ ॥ पुंसि वैश्यात् क्षत्रियाजे शुक्लजीरकबन्दिनोः । विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः ॥ ३५ ॥ विश्रब्धोऽनुद्भटेऽपि स्याद् गाढविश्वस्तयोस्त्रिषु । विबुधो ज्ञे सुरे वीरुध् लताविटपयोः स्त्रियाम् ॥ ३६ ॥ सन्नद्धो बर्मिते व्यूढे सम्बाधः सङ्कटे भगे । सन्निधिः सन्निधानेऽपि पुमानिन्द्रियगोचरे ॥ ३७ ॥ संसिद्धिः प्रकृतौ सिद्धौ मदोग्रायामपि स्त्रियाम् । सम्बोधो बोधने क्षेपे समाधिर्ना समर्थने ॥ ३८ ॥ ध्याननीवाकनियमे काव्यस्य च गुणान्तरे । (१)सुगन्धिः स्यादिष्टगन्धे त्रिषु क्लीबं तु वालुके ॥ ३९ ॥ ;v{धचतुष्कम्} ;c{धचतुष्कम्} अवरोधस्तिरोधाने राजदारेषु तद्गृहे । अवष्टब्धो विदूरे स्यादाक्रान्ते चावलम्बिते ॥ ४० ॥ अनुबन्धस्तु बन्धे स्याद्दोषोत्पादे विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्त्तने ॥ ४१ ॥ ;f{(१) इदमर्धं नास्ति क. ।} ;p{0082} अनुबन्धी तु हिक्कायां तृष्णायामपि योषिति । अनिरुद्ध उषानाथे पुंसि (१)चाबन्धनेऽन्यवत् ॥ ४२ ॥ आशाबन्धः समाश्वासे पुंसि मर्कटजालके । इष्टगन्धः सुगन्धौ स्यात् त्रिषु क्लीबं तु बालुके ॥ ४३ ॥ इक्षुगन्धा कोकिलाक्षे क्रोष्ट्यां काशे च गोक्षुरे । उपलब्धिर्मितौ प्राप्तावपि ज्ञाने च योषिति ॥ ४४ ॥ उग्रगन्धाऽजमोदायां वचायां छिक्किकौषधौ । कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ॥ ४५ ॥ तीक्ष्णगन्धा वचाराजिकयोः शोभाञ्जने पुमान् । तृणगोधा चित्रकोले कृकलासेऽपि योषिति ॥ ४६ ॥ पारिव्याधस्तु पुंसि स्याद्वेतसे च द्रुमोत्पले । ब्रह्मबन्धुरधिक्षिप्ते निर्देशे ब्राह्मणस्य ना ॥ ४७ ॥ महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेऽपि च । समुन्नद्धः समुद्भूते पण्डितम्मन्यगर्विते ॥ ४८ ॥ ;v{धपञ्चकम्} ;c{धपञ्चकम्} योजनगन्धा कस्तूर्यां सितायां व्यासमातारि ॥ ४९ ॥ ;c{इति धान्तवर्गः ।} ;k{नान्तवर्गः} ;v{नैकम्} ;c{नैकम्} नः पुमान् सुगते बन्धे द्विरण्डे प्रस्तुतेऽपि च । ;v{नद्विकम्} ;c{नद्विकम्} अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १ ॥ अन्नं भक्ते च भुक्ते स्यादिनः पत्यौ नृपार्कयोः । उन्नं क्लिन्ने च सुरते कृत्स्नं सर्वाम्बुकुक्षिषु ॥ २ ॥ घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्धौघदार्ढ्येषु विस्तारे लोहमुद्गरे ॥ ३ ॥ ;f{(१) चानर्गले-ख. ।} ;p{0083} त्रिषु सान्द्रे दृढे चाथ चिह्नं लक्ष्मपताकयोः । चीनो देशांशुकव्रीहिभेदे तन्तौ मृगान्तरे ॥ ४ ॥ छन्नं तु रहसि क्लीबं छादिते वाच्यलिङ्गवत् । छिन्नं कृत्ते त्रिलिङ्गं स्याद् गुडूच्यामपि योषिति ॥ ५ ॥ जनो लोके महर्लोकात्परलोके च पामरे । जनी सीमन्तिनीवध्वोरुत्पत्तावौषधीभिदि ॥ ६ ॥ जह्नुः स्यात् पुंसि राजर्षिभेदे च मधुसूदने । ज्यानिर्जीर्णे च हानौ च तटिन्यामपि योषिति ॥ ७ ॥ जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु । ज्योत्स्ना चन्द्रातपेऽपि स्याज्ज्योत्स्नायुक्तनिशि स्मृता ॥ ८ ॥ ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तनिशि स्त्रियाम् । तनुः काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे ॥ ९ ॥ दानं गजमदे त्यागे पालनच्छेदशुद्धिषु । दानुर्दातरि विक्रान्ते दीना स्त्री मूषिकस्त्रियाम् ॥ १० ॥ वाच्यवद् दुर्गते भीते द्युम्नं वित्ते बलेऽपि च । धनुः पुमान् पियालद्रौ राशिभेदे शरासने ॥ ११ ॥ धनं तु गोधने वित्ते धाना भृष्टयवेऽपि च । धन्याकेऽभिनवोद्भिन्ने धुनी नद्यां नदे पुमान् ॥ १२ ॥ नग्नो बन्दिक्षपणयोः पुंसि त्रिषु विवाससि । न्यूनं गर्ह्योनयोः पानं पीतिभाजनरक्षणे ॥ १३ ॥ भानुर्ना किरणे सूर्य भिन्नः स्यात्त्रिषु दारिते । सङ्गतेऽन्यत्र फुल्ले च मानश्चित्तोन्नतौ ग्रहे ॥ १४ ॥ क्लीबं प्रमाणे प्रस्थादौ मीनो राश्यन्तरे झषे । मुनिः पुंसि वसिष्ठादौ वङ्कसेनतरौ जिने ॥ १५ ॥ मृत्स्ना मृत्सातुवर्योः स्त्री यानं स्याद्वाहने गतौ । योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे ॥ १६ ॥ रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम् । रास्ना च स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्त्रियाम् ॥ १७ ॥ ;p{0084} लग्नं राश्युदये क्लीबं सक्तलज्जितयोस्त्रिषु । वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसकम् ॥ १८ ॥ वनं नपुंसकं नीरे निवासालयकानने । वह्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १९ ॥ वानं शुष्कफले शुष्कस्यूतिकर्मकटे गतौ । विन्नं विचारिते लब्धे बुध्नो ना मूलरुद्रयोः ॥ २० ॥ श्वा पुमान् कुक्कुरे ख्यातः स्थानभेदे च वास्तुनः । शीनो मूर्खे चाजगरे श्येनः पक्षिणि पाण्डुरे ॥ २१ ॥ स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् । सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रकोविदे ॥ २२ ॥ स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतरे । स्त्यानं स्निग्धे प्रतिध्वाने धनत्वालस्ययोरपि ॥ २३ ॥ स्नानं स्नानीयेऽभिषवे सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थाने गलशुण्डिकयोः स्त्रियाम् ॥ २४ ॥ सूनुः पुत्रेऽनुजेऽर्के ना सूनुः किरणसूर्ययोः । हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् ॥ २५ ॥ द्वयोः कपोलावयवे हीनं गर्ह्योनयोस्त्रिषु । ;v{नत्रिकम्} ;c{नत्रिकम्} अञ्जनं कज्जले चाक्तौ सौवीरे च रसाञ्जने ॥ २६ ॥ पुंसि ज्येष्ठादिग्गजयोरञ्जना वानरीभिदि । अञ्जनी लेप्यनार्यां चावनं प्रीतौ च रक्षणे ॥ २७ ॥ अयनं पथि भानोरप्युदग्दक्षिणतो गतौ । अपानं तु गुदे क्लीबं पुंसि स्यात्तस्य मारुते ॥ २८ ॥ असनं क्षेपणे क्लीबं पुंसि स्याञ्जीवकद्रुमे । अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता ॥ २९ ॥ अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्यात् पुंलिङ्गो धवलेऽन्यवत् ॥ ३० ॥ नपुंसकं तृणे नेत्रगदे चाप्यर्जुनी गवि । ;p{0085} उषायां बाहुदानद्यां कुट्टिन्यामपि च क्वचित् ॥ ३१ ॥ अम्लानो महासहायां नान्यलिङ्गस्तु निर्मले । अर्शोघ्नी तालमूल्यां स्यादर्शोघ्नः सूरणेऽपि च ॥ ३२ ॥ असिक्नी स्यादवृद्धान्तःपुरप्रेष्यानदीभिदोः । असनिः स्त्रीपुंसयोः स्याच्चञ्चलायां पवावपि ॥ ३३ ॥ अरत्निर्ना सप्रकोष्ठतताङ्गुलिकरेऽपि च । कफोणावप्यथालौ स्याद् वृश्चिके भ्रमरे पुमान् ॥ ३४ ॥ अर्थी पुमान् याचके स्यात् सेवके च विवादिनि । अध्वा ना पथि संस्थाने स्यादवस्कन्दकालयोः ॥ ३५ ॥ अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः । आसनं द्विरदस्कन्धे पीठे यात्रानिवर्तने ॥ ३६ ॥ आसनी विपणौ स्थित्यामासनो (१)जीवकद्रुमे । आदानं ग्रहणेऽपि स्यालङ्कारे च वाजिनाम् ॥ ३७ ॥ sआपन्नः सविपत्तौ च प्राप्ते वाच्यवदीरितः । आत्मा पुंसि स्वभावेऽपि प्रयत्नमनसोरपि ॥ ३८ ॥ धृतावपि मनीषायां शरीरब्रह्मणोरपि । आलानं करिणां बन्धस्तम्भे रज्जौ च न स्त्रियाम् ॥ ३९ ॥ ईशानं ज्योतिषि क्लीबं पुंलिङ्गः स्यात् त्रिलोचने । उत्तानमगभीरे स्यादूर्ध्वास्यशयिते त्रिषु ॥ ४० ॥ उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे । प्राङ्गणोद्गमहर्षेषु मलरोगेऽपि न द्वयोः ॥ ४१ ॥ उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने । उदानोऽप्युदरावर्ते वायुभेदे भुजङ्गमे ॥ ४२ ॥ उद्धानमुद्गते वाच्यलिङ्गं चुल्यां नपुंसकम् । ओदनं न स्त्रियां भक्ते बलायोमोदनी स्त्रियाम् ॥ ४३ ॥ कमनः कामुके कामेऽभिरूपेऽशोकपादपे । ;f{(१) जीरकद्रुमे-ख., ना तु जीरके - क. ।} ;p{0086} कम्पनं न द्वयोः कम्पे कम्प्रे स्यादभिधेयवत् ॥ ४४ ॥ कठिनमपि निष्ठुरे स्यात्स्तब्धेऽपि त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायां च ॥ ४५ ॥ क्रन्दनं रोदनेऽपि स्यादाह्वानेऽप्यथ कल्पना । करिणः सज्जनायां स्त्री क्लीबं लुप्तौ च कल्पने ॥ ४६ ॥ कर्त्तनं न द्वयोश्छेदे नारीणां सूत्रनिर्मितौ । कर्मास्त्री व्याप्यक्रिययोः कदनं मर्दपापयोः ॥ ४७ ॥ काञ्चनः काञ्चनाले स्याच्चम्पके नागकेसरे । उदुम्बरे च धत्तूरे हरिद्रायां च काञ्चनी ॥ ४८ ॥ क्लीबेऽब्जकेसरे हेम्नि कामिनी भीरुवन्दयोः । कामी तु कामुके चक्रवाके पारावतेऽपि च ॥ ४९ ॥ कानीनः कन्यकाजाततनये व्यासकर्णयोः । काकिनी पणपादेऽपि मानपादे वराटके ॥ ५० ॥ काननं विपिने गेहे परमेष्ठिमुखेऽपि च । कुहनं मृत्तिकाभाण्डविशेषे काचभाजने ॥ ५१ ॥ कुहना दम्भचर्यायामीर्ष्यालौ कुहनं त्रिषु । कृती स्यात् पण्डिते योग्ये केतनं तु निमन्त्रणे ॥ ५२ ॥ गृहे केतौ च कृत्येऽथ केशी केशवति त्रिषु । दैत्ये ना चौरपुष्प्यां स्त्री कौलीनं गुह्यजन्ययोः ॥ ५३ ॥ कुकर्मणि कुलीनत्वे युद्धे पश्वहिपक्षिणाम् । कौपीनं स्यादकार्ये च चीरगुह्यप्रदेशयोः ॥ ५४ ॥ खलिनी खलवृन्दे स्यात्तालपर्ण्यामपि स्त्रियाम् । खञ्जनः खञ्जरीटे स्त्री सर्षप्यां खञ्जनं गतौ ॥ ५५ ॥ खड्गी ना गण्डके मञ्जुघोषे खड्गधरे त्रिषु । गर्जनं निनदे कोपे गहनं कलिले त्रिषु ॥ ५६ ॥ नपुंसकं गह्वरे स्याद्दुःखकाननयोरपि । गन्धनमुत्साहे स्यात्प्रकाशने सूचनेऽपि हिंसायाम् ॥ ५७ ॥ ग्रामीणः शुनि काके पुंसि त्रिषु सम्भृते ग्रामैः । ;p{0087} ग्रावा तु प्रस्तरे पृथ्वीधरे पुंस्यथ गृञ्जनम् ॥ ५८ ॥ विषदग्धपशोर्मांसे क्लीबं पुंसि रसोनके । गोस्तनो हारभेदे ना द्राक्षायां गोस्तनी स्त्रियाम् ॥ ५९ ॥ गोमी शृगाले पुंसि स्यात्त्रिषु गोमत्युपासके । घट्टना चलनावृत्त्योश्चन्दनी तु नदीभिदि ॥ ६० ॥ चन्दनोऽस्त्री मलयजे भद्रकाल्यां नपुंसकम् । चलनं भ्रमणे कम्पे कम्प्रे तु वाच्यलिङ्गकम् ॥ ६१ ॥ चलनी वस्त्रयोधिन्यां वारिभेदेऽपि च क्वचित् । चक्री तैलिकभित्कोककुलालाजाहिसूचके ॥ ६२ ॥ चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गरिटावपि । चर्मकृत्तौ च फलके चेतना संविदि स्त्रियाम् ॥ ६३ ॥ वाच्यवत्प्राणयुक्तेऽथ छद्म व्याजापदेशयोः । छर्दनं वमने क्लीबं निम्बालम्बुषयोः पुमान् ॥ ६४ ॥ छदनं च दले पक्षे पिधाने छेदनं भिदि । कर्तने च जनुः पुंसि जन्तौ वैश्वानरेऽपि च ॥ ६५ ॥ जवनं तु स्यदे वेगे हये ना वेगिनि त्रिषु । जननी तु दयामात्रोर्जननं वंशजन्मनोः ॥ ६६ ॥ जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च । जघनं च स्त्रियाः श्रेणिपुरोभागे कटावपि ॥ ६७ ॥ ज्ञानी स्यात्पुंसि दैवज्ञे ज्ञानयुक्तेऽन्यलिङ्गकः । जीवनं वर्त्तने जीवप्राणधारणयोर्जले ॥ ६८ ॥ जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात् । तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे ॥ ६९ ॥ तलुनः पवने यूनि युवत्यां तलुनी स्मृता । तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम् ॥ ७० ॥ तमोघ्नः सूर्यवह्नीन्दुबुद्धशङ्करविष्णुषु । त्यागी दातरि शूरेऽथ तेवनं केलिकानने ॥ ७१ ॥ क्रीडायां तेमनं त्वार्द्रीकरणे व्यञ्जनेऽपि च । ;p{0088} तेजनः पुंसि वंशे स्यात्तेजनी तृणपूलके ॥ ७२ ॥ तोदनं व्यथने तोत्रे दंशनं दंशवर्मणोः । दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ॥ ७३ ॥ शास्त्रदर्पणयोश्चाथ दमनः पुष्पवीर(१)योः । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ ७४ ॥ दहनश्चित्रके भल्लातकेऽग्नौ दुष्टचेष्टिते । दृशानं ज्योतिषि क्लीबं पुंलिङ्गः स्याद्विरोचने ॥ ७५ ॥ देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि । देवनोऽक्षेषु पुंसि स्याद् ध्वजी तु पृथिवीधरे ॥ ७६ ॥ रथब्राह्मणयोश्चापि भुजङ्गमतुरङ्गयोः । धन्वी धनुर्धरेऽपि स्यादर्जुने ककुभद्रुमे ॥ ७७ ॥ धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च । धमनो नाऽनले भस्त्राऽध्मापकक्रूरयोस्त्रिषु ॥ ७८ ॥ धमनी तु शिराहट्टविलासिन्योश्च योषिति । धावनं गमने शुद्धौ पृश्निपर्ण्यां तु धावनी ॥ ७९ ॥ धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः । नन्दनं वासवोद्याने नन्दने हर्षके सुते ॥ ८० ॥ नन्दी हरप्रतीहारे गर्दभाण्डे वनद्रुमे । नन्दिन्युमायां गङ्गायां ननान्दृधेनुभेदयोः ॥ ८१ ॥ नलिनी पद्मिनीव्योमनिम्नगाकमलाकरे । नपुंसकं नीलिकायां न पुंसि सरसीरुहे ॥ ८२ ॥ निदानं कारणे वत्सदामादिकारणक्षये । निधनं स्यात्कुले नाशे प्रधनं दारणे रणे ॥ ८३ ॥ पवनं कुम्भकारस्य पाकस्थाने नपुंसकम् । निष्पावमरुतोः पुंसि प्रज्ञानं बुद्धिचिह्नयोः ॥ ८४ ॥ प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । ;f{(१) धीरयोः- क ।} ;p{0089} प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा ॥ ८५ ॥ पद्मिनी पद्मसङ्घाते स्त्रीविशेषे सरोरुहे । प्रसन्ना स्त्री सुरायां स्यात्स्वच्छसन्तुष्टयोस्त्रिषु ॥ ८६ ॥ प्रसूनो वाच्यवज्जाते क्लीबं तु फलपुष्पयोः । पत्री श्येने पत्ररथे काण्डद्रुरथिकाद्रिषु ॥ ८७ ॥ पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि ॥ ८८ ॥ पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि । पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुद्रुमे ॥ ८९ ॥ पावनं तु जले कृच्छ्रे ना व्यासे पावकेऽपि च । पाचनं दशमूल्यादौ प्रायश्चित्ते च नाऽनले ॥ ९० ॥ वाच्यवत्पाचयितरि हरीतक्यां तु योषिति । पाशी व्याधे च वरुणे पिशुनं कुङ्कुमेऽपि च ॥ ९१ ॥ कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात् पीतनं पीतदारुणि ॥ ९२ ॥ कुङ्कुमे हरिताले च पुमानाम्रातके मतः । पूतना तु हरीतक्यां दानवीरोगभेदयोः ॥ ९३ ॥ पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः । प्रेमा ना वासवे वाते प्रेमास्त्री स्नेहनर्मणोः ॥ ९४ ॥ फलिन्यग्निशिखायां च फल्यां स्त्री फलिनि त्रिषु । फाल्गुनस्तु गुडाकेशे नदीजार्जुनभूरुहे ॥ ९५ ॥ तपस्यसंज्ञामासे तत्पूर्णिमायां तु फाल्गुनी । ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि ॥ ९६ ॥ ऋत्विग्यागभिदोर्विप्रे बन्धनं वधबन्धयोः । बन्दनी नतिजीवातुकुटीयाचनकर्मसु ॥ ९७ ॥ वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः । वाणिनी नर्त्तकीमत्ताविदग्धवनितासु च ॥ ९८ ॥ बुधानस्तु गुरौ विज्ञे बोधनं गन्धदीपने । ;p{0090} बोधनी बोधपिप्पल्योर्भर्म स्यात् काञ्चने भृतौ ॥ ९९ ॥ भण्डनं कवचे युद्धे खलीकारेऽपि न द्वयोः । भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषिति ॥ १०० ॥ भवनं स्याद् गृहे भावे भाजनं योग्यपात्रयोः । भावना तु न ना ध्याने पर्यालोचेऽधिवासने ॥ १ ॥ भुवनं विष्टपेऽपि स्यात् सलिले गगने जने । भोगी भुजङ्गमेऽपि स्याद् ग्रामपात्रे नृपे पुमान् ॥ २ ॥ विहाय महिषीमन्यराजयोषिति भोगिनी । मदनः स्मरवसन्तद्रुभिद्धूस्तूरसिक्थके ॥ ३ ॥ मलनः पटवासे ना मर्दने तु नपुंसकम् । मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति ॥ ४ ॥ मण्डनं भूषणे क्लीबं स्यात्त्रिष्वलङ्करिष्णुनि(१) । मार्जनं न द्वयोर्मार्ष्टौ पुंसि स्याल्लोध्रशाखिनि ॥ ५ ॥ मालिनी मातृकावृत्तभिदोर्मालिकयोषिति । गौरीचम्पानगर्योश्च मन्दाकिन्यां नदीभिदि ॥ ६ ॥ मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु । मिथुनं न द्वयो राशिभेदे स्त्रीपुंसयुग्मके ॥ ७ ॥ मुण्डनं वपने त्राणे मेहनं मूत्रशिश्नयोः । मैथुनं सुरतेऽपि स्यात् सङ्गतेऽपि नपुंसकम् ॥ ८ ॥ यमनं बन्धने चोपरतौ क्लीबं यमे पुमान् । यवनो देशभेदे ना वेगिवेगाधिकाश्वयोः ॥ ९ ॥ यवान्यौषधिभेदे स्त्री वाच्यवद्वेगिनि स्मृता । यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ १० ॥ ;f{(१) इतः परं सार्धमिदं पद्यं नास्ति-क. । मसनं गण्डगोले स्यात्तपस्ये परमेष्ठिनि । मड्डनं तार्किके रम्ये गृहे देहे जलाशये ॥ मसूनोऽस्त्री जित्वरे स्यान्मेषादौ महिषेऽपि च ।} ;p{0091} युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि । युञ्जानः सारथौ विप्रे योजनं परमात्मनि ॥ ११ ॥ चतुष्क्रोश्यां च योगेऽथ रसनं स्वदने ध्वनौ । जिह्वायां तु न पुंसि स्याद्रास्नायां रसना स्त्रियाम् ॥ १२ ॥ रञ्जनो रागजनने रञ्जनं रक्तचन्दने । शुण्डारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी ॥ १३ ॥ रजनी नलिनीरात्रिहरिद्राजतुकासु च । राधनं साधने प्राप्तौ राधना भाषणे स्त्रियाम् ॥ १४ ॥ राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ । यक्षे शक्रे च पुंसि स्याद्रागी रक्तेऽपि कामुके ॥ १५ ॥ रेचनी त्रिवृतादन्त्यो रोचनी कर्कशे स्त्रियाम् । रोचना रक्तकल्हारे गोपित्तवारयोषितोः ॥ १६ ॥ रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु । रोदनं क्रन्दनेऽस्रेऽपि दुरालभौषधौ स्त्रियाम् ॥ १७ ॥ रोही रोहितकेऽश्वत्थवटपादपयोः पुमान् । लङ्घनं तूपवासे स्यात् (१)क्रमणे प्लवनेऽपि च ॥ १८ ॥ ललना कामिनीनारीभेदजिह्वासु योषिति । लक्ष्म चिह्ने प्रधाने च लाञ्छनं नामचिह्नयोः ॥ १९ ॥ लेखनं छर्दने भूर्जे लिपिन्यासेऽथ वर्जनम् । हिंसात्यागयोर्वपनं बीजाधाने च मुण्डने ॥ २० ॥ वसनं छादने वस्त्रे वमनं छर्दनेऽर्दने । वर्द्धनं वृद्धिवर्द्धिष्णुच्छेदे घट्यां तु वर्द्धनी ॥ २१ ॥ व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽहनि । व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ॥ २२ ॥ दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे । वर्तनो वामने क्लीबं वृत्तौ स्त्री प्रेषणाध्वनोः ॥ २३ ॥ ;f{(१) चङ्क्रमे-ख. ।} ;p{0092} न पुंसि तूलनालायां तर्कुपीठे च जीवने । वर्त्तिष्णौ त्रिषु वज्री तु बुद्धे देवाधिपे पुमान् ॥ २४ ॥ वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयवत् । वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ २५ ॥ वर्ष्म देहप्रमाणातिसुन्दराकृतिषु स्मृतम् । वर्त्म नेत्रच्छदे मार्गे वाजी बाणाश्वपक्षिषु ॥ २६ ॥ वामनोऽप्यतिखर्वे च त्रिषु पुंसि तु दिग्गजे । हरावङ्कोटवृक्षेऽथ वासनं धूपनेऽपि च ॥ २७ ॥ वारिधान्यां च वस्त्रे च प्रत्याशाज्ञानयोः स्त्रियाम् । वाग्मी पटौ सुराचार्ये विज्ञानं ज्ञानकर्मणोः ॥ २८ ॥ वितुन्नं सुनिषण्णे च शैवाले च नपुंसकम् । वितानो यज्ञ उल्लोचे विस्तारे पुन्नपुंसकम् ॥ २९ ॥ क्लीबं वृत्तविशेषे स्यात्त्रिलिङ्गो मत्ततुच्छयोः (१) । विमानो व्योमयाने च सार्वभौमगृहेऽपि च ॥ ३० ॥ घोटके यानपात्रे च पुन्नपुंसकयोर्मतः । विक्लिन्नो जरसा जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥ ३१ ॥ विपन्नं विपदाक्रान्ते त्रिषु पुंसि भुजङ्गमे । विच्छिन्नं च समालब्धे विभक्तेऽप्यभिधेयवत् ॥ ३२ ॥ विलग्नं न स्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके । विषघ्नस्तु शिरीषे ना गुडूचीत्रिवृतोः स्त्रियाम् ॥ ३३ ॥ व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च । वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु ॥ ३४ ॥ वृषा कर्णे महेन्द्रे ना वेदना ज्ञानदुःखयोः । वेष्टनं कर्णशकुल्यामुष्णीषे मुकुटे वृतौ ॥ ३५ ॥ व्योम वारिणि चाकाशे भास्करस्यानाश्रये । शकुनिः पुंसि विहगे सौबले करणान्तरे ॥ ३६ ॥ ;f{(१) मन्द- ख. ।} ;p{0093} शयनं सुरते निद्राशय्ययोश्च नपुंसकम् । शमनं शान्तिवधयोः शमनः श्राद्धदैवते ॥ ३७ ॥ श्वसनं स्वसिते पुंसि मारुते मदनद्रुमे । शकुनस्तु पुमान् पक्षिमात्रपक्षिविशेषयोः ॥ ३८ ॥ शुभशंसिनिमित्ते च शकुनं स्यान्नपुंसकम् । शङ्खिनी श्वेतवृन्दायां चौरपुष्प्यां वधूभिदि ॥ ३९ ॥ शङ्खी हरौ समुद्रे ना शङ्खवत्यभिधेयवत् । शतघ्नी शस्त्रभेदे स्यात् वृश्चिकाल्यां करञ्जके ॥ ४० ॥ शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्तिषु । शाखी स्यात् पादपे वेदे तुरुष्काख्यजने पुमान् ॥ ४१ ॥ शिखी वह्नौ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः ॥ ४२ ॥ शिल्पी तु वाच्यवत् कारौ स्त्रियां कोलदलौषधौ । शूली स्याच्छङ्करे पुंसि शूलरोगिणि वाच्यवत्(१) । शृङ्गी शृङ्गयुते नागे वृषपर्वतयोरपि ॥ ४३ ॥ श्लेष्मघ्नी मल्लिकायां च ज्योतिष्मत्यां च योषिति । शोभनो योगभेदे ना सुन्दरे वाच्यलिङ्गकः ॥ ४४ ॥ सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च । स्तननं ध्वनिमात्रे स्यान्मेघशब्दे च कुन्थिते ॥ ४५ ॥ समानः सत्समैकेषु त्रिषु ना नाभिमारुते । सन्तानः सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ४६ ॥ स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम् । संस्थानमाकृतौ मृत्यौ सन्निवेशे चतुष्पथे ॥ ४७ ॥ स्यन्दनं तु स्रुतौ नीरे तिनिशे ना रथेऽस्त्रियाम् । सज्जनं तु भवेत् क्लीबमुपरक्षणघट्टयोः ॥ ४८ ॥ वाच्यलिङ्गं कुलीने स्यात् कल्पनायां तु योषिति । ;f{(१) इदमर्धं नास्ति-क. ।} ;p{0094} सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥ ४९ ॥ सम्पन्नं साधितेऽपि स्यात् सम्पत्तिसहितेऽन्यवत् । सन्धिनी वृषभाक्रान्ताकालदुग्धोस्रयोः स्त्रियाम् ॥ ५० ॥ सद्म स्यान्मन्दिरे नीरे संव्यानं छादनेंऽशुके । सदनं मन्दिरे तोये स्वामी प्रभुविशाखयोः ॥ ५१ ॥ सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते । स्थापनं रोपणे पुंसवने पाठौषधौ स्त्रियाम् ॥ ५२ ॥ सावनो यज्ञकर्मान्ते यजमानप्रचेतसोः । साधनं मृतसंस्कारे सैन्ये सिद्धौषधौ गतौ ॥ ५३ ॥ निर्वर्तनोपायमेढ्रे दापनेऽनुगमे धने । साम क्लीबमुपायस्य भेदे वेदान्तरेऽपि च ॥ ५४ ॥ सीमा घाटस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् । सूचना व्यधने दृष्टौ गन्धनेऽभिनयेऽपि च ॥ ५५ ॥ सेचनं रक्षणे सेके नौकायाः सेकभाजने । सेनानीः स्यात्पुमान् कार्तिकेये सेनापतावपि ॥ ५६ ॥ सेवनं सीवनोपास्त्योर्हली रामे च कर्षके । हस्तिनी गजयोषायां जातिभेदे च योषितः ॥ ५७ ॥ हसनं न द्वयोर्हासेऽङ्गारधान्यां तु योषिति । हायनो न स्त्रियां वर्षे पुंस्यर्चिर्व्रीहिभेदयोः ॥ ५८ ॥ ह्रादिनी वज्रतडितोर्हिण्डनं भ्रमणे रते । ;v{नचतुष्कम्} ;c{नचतुष्कम्} अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके ॥ ५९ ॥ अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे । अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् ॥ ६० ॥ अभिपन्नोऽपराधेऽभिग्रस्ते चापद्गते त्रिषु । अवदानं खण्डने स्यादतिवृत्ते च कर्मणि ॥ ६१ ॥ अभिमानोऽर्थादिदर्पेऽज्ञाने प्रणयहिंसयोः । ;p{0095} अनीकिनी स्त्रियां सेनामात्रसेनाविशेषायोः(१) ॥ ६२ ॥ अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च । अन्वासनं स्नेहवस्तावुपास्तावनुशोचने ॥ ६३ ॥ अर्यमा तु पुमान् सूर्ये पितृदेवान्तरेऽपि च । अथर्वा ब्राह्मणे पुंसि वेदे तु स्यान्नपुंसकम् ॥ ६४ ॥ भवेदभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमानायोधनं युद्धे वधेऽपि च ॥ ६५ ॥ स्यादाकलनमाकाङ्क्षा परिसङ्ख्यानबन्धने । आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥ ६६ ॥ आराधनं च पचने प्राप्तौ सन्तेाषणेऽपि च । आच्छादनं सम्पिधाने वस्त्रेऽपवृतिमात्रके ॥ ६७ ॥ आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च । आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः ॥ ६८ ॥ आत्मयोनिः पुमान् कामदेवे च परमेष्ठिनि । उपधानं विषे गण्डौ प्रणयेऽपि नपुंसकम् ॥ ६९ ॥ उत्सादनं समुल्लेखोद्वाहनोद्वर्तनेषु च । स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमनेऽपि च ॥ ७० ॥ उद्वर्त्तनमुत्पतने विलेपने घर्षणे क्लीबम् । उदयनमुदये क्लीबं वत्सेशागस्त्ययोः पुंसि ॥ ७१ ॥ उद्वाहनं (२)द्विसीत्ये स्याद्रज्ज्वामुद्वाहनी मता । उपासनं शराभ्यासेऽप्युपास्तावासनेऽपि च ॥ ७२ ॥ कपीतनो गर्दभाण्डशिरीषाम्रातकेषु च । अश्वत्थे च कलापी तु प्लक्षबर्हिणयोः पुमान् ॥ ७३ ॥ कलध्वनिः पुमान् पारावते पिकमयूरयोः । कञ्चुक्यन्तःपुराध्यक्षे षिड्गेऽहौ जोङ्गकद्रुमे ॥ ७४ ॥ कात्यायनो वररुचौ विशेषे च मुनेः पुमान् । ;f{(१) प्रभेदयोः-ख.; (२) प्रणीते-क. ।} ;p{0096} काषायवस्त्रे विधवार्द्धजरत्युमयोः स्त्रियाम् ॥ ७५ ॥ कुम्भयोनिरगस्त्ये स्याद्वसिष्ठद्रोणयोः पुमान् । कुचन्दनं च पत्राङ्गे द्रुभेदे रक्तचन्दने ॥ ७६ ॥ कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले । केसरी तुरगे सिंहे पुन्नागे नागकेसरे ॥ ७७ ॥ क्रौञ्चादनं तु पिप्पल्यां चिञ्चोटकमृणालयोः । खड्गधेनुः स्त्रियां खड्गपुत्रिकागण्डकस्त्रियोः ॥ ७८ ॥ गवादनीन्द्रवारुण्यां गवां घासादनाश्रये । गदयित्नुः पुमान्कामे जल्पाके कामुकेऽपि च ॥ ७९ ॥ घनाघनो वर्षुकाब्दे मत्तधातुककुञ्जरे । चक्रे च घोषयित्नुस्तु विप्राकोकिलयोः पुमान् ॥ ८० ॥ चित्रभानुः पुमान् वैश्वानरे चाहस्करेऽपि च । चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि ॥ ८१ ॥ जलाटनो लोहपृष्ठे जलौकायां जलाटनी । तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति ॥ ८२ ॥ मांसिकाकटुरोहिण्योस्तरस्वी शूरवेगिनोः । तपोधनस्तापसे स्यान्मुण्डीर्यां तु तपोधना ॥ ८३ ॥ द्विजन्मा दशने विप्रे दुर्नाम क्लीबमर्शसि । स्याद्दीर्घकोषिकायां स्त्री देवसेना तु वज्रिणः ॥ ८४ ॥ सुतायामपि सेनायां देवतानां च योषिति । नागाञ्जनेभसुन्दर्यां नागयष्टौ च योषिति ॥ ८५ ॥ भवेन्निधुवनं कम्पे सुरते च नपुंसकम् । निर्वासनं हिंसने स्यान्नगरादेर्बहिष्कृतौ ॥ ८६ ॥ निर्भर्त्सनं खलीकारेऽलक्तकेऽपि नपुंसकम् । निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च ॥ ८७ ॥ निशामनं दर्शने स्यादालोचने च न द्वयोः । निशमनमुक्तं दृष्टौ श्रुतौ निरसनं वधे प्रतिक्षेपे ॥ ८८ ॥ निष्ठीवने प्रजननं योनौ जन्मन्यपि क्लीबम् । ;p{0097} प्रसहनमपि भङ्गे स्यात् क्षेपे पञ्चाननः शिवे सिंहे ॥ ८९ ॥ प्रहसनमपि प्रहासे रूपकभेदे च परिहासे । प्रणिधानं प्रयत्ने स्यात् समाधौ च प्रवेशने ॥ ९० ॥ प्रयोजनं कार्यहेत्वोः पलाशी वृक्षरक्षसोः । अथ प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥ ९१ ॥ प्रतिपन्नोऽन्यलिङ्गः स्याद्विज्ञातेऽङ्गीकृतेऽपि च । प्रस्फोटनं तु शूर्पे स्यात्ताडने च विकाशने ॥ ९२ ॥ प्रतिमानं प्रतिच्छायागज(१)कुम्भान्तरालयोः । प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च ॥ ९३ ॥ प्रत्यर्थी वाच्यलिङ्गः स्याच्छत्रौ च प्रतिवादिनि । परिज्वा तु पुमानिन्दौ याज्ञिके परिचारके ॥ ९४ ॥ प्रसाधनी तु कङ्कत्यां सिद्धौ वेशे प्रसाधनम् । पयस्विनी नदीधेन्वोर्विभावर्यां च योषिति ॥ ९५ ॥ अथ पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च । पृथग्जनस्तु पुंलिङ्गः कथितो नीचमूर्खयोः ॥ ९६ ॥ फलकी मत्स्यभेदे ना वाच्यवत्फलकान्विते । वारकी शत्रुचित्राश्वपर्णीजीवपयोधिषु ॥ ९७ ॥ भूतात्मा पुंसि निर्दिष्टो देवे च परमेष्ठिनि । महाधनं महामूल्ये (२)सुवर्णे सिल्हकेऽपि च ॥ ९८ ॥ महासेनः कार्त्तिकेये महासैन्यपतावपि । मदयित्नुर्मद(३)युते पुमान् मद्ये नपुंसकः ॥ ९९ ॥ महामुनिरगस्त्ये ना कुस्तुम्बुरुणि न द्वयोः । मातुलानी कलाये स्याद्भङ्गायां मातुलस्त्रियाम् ॥ १०० ॥ मालुधानो मातुलाहौ मालुधानी लताऽन्तरे । मेधावी ना शुके ब्राह्म्यां स्त्रियां मेधाऽन्विते त्रिषु ॥ १०१ ॥ रसायनं विषेऽपि स्याज्जराव्याधिजिदौषधौ । ;f{(१) दन्त-ख.; (२) सुवस्त्रे-ख.; (३) कामदेवे-ख. ।} ;p{0098} पुंलिङ्गः पक्षिराजे च विडङ्गाख्यौषधेऽपि च ॥ १०२ ॥ राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च । ललाम स्यात् प्रभावे च लाञ्छनध्वजवाजिषु ॥ १०३ ॥ शृङ्गे प्रधाने भूषायामपि बालधिपुण्ड्रयोः । लाङ्गली नालिकेरद्रौ रेवतीरमणे पुमान् ॥ १०४ ॥ वनश्वा गन्धमार्जारे वञ्चकव्याघ्रयोः पुमान् । वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु ॥ १०५ ॥ विस्मापनः स्यात्कुहके गन्धर्वनगरे स्मरे । विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च ॥ १०६ ॥ विरोचनः प्रह्लादस्य तनयेऽर्केऽग्निचन्द्रयोः । विहेठनं तु हिंसायां मर्दने च विडम्बने ॥ १०७ ॥ भवेद्विहननं विघ्नहिंसयोस्तूलपिञ्जने । विषयी विषयासक्ते वाच्यवत् क्लीबमिन्द्रिये ॥ १०८ ॥ पुंसि स्यान्नृपतौ कामदेवे वैषयिकेऽपि च । विष्वक्सेना फलिन्यां स्याद्विष्वक्सेनो जनार्दने ॥ १०९ ॥ विलेपनी सुवेषस्त्रीयवाग्वोरपि योषिति । विलासी भोगिनि व्याले विस्वप्सा नाऽग्निचन्द्रयोः ॥ ११० ॥ वृक्षादनश्चलदले मधुच्छत्रकुठारयोः । वृक्षादनी तु वन्दायां विदारीकन्दकेऽपि च ॥ १११ ॥ वैरोचनिस्तु सुगते बलिदैत्यार्कपुत्रयोः । शिखरी स्यादपामार्गे शैलपादपयोः पुमान् ॥ ११२ ॥ शिखण्डिनी यूथिकायां गुञ्जायामपि योषिति । शिखण्डी ना कलापे स्याद् गाङ्गेयारिमयूरयोः ॥ ११३ ॥ शृङ्गारी पूगगजयोः सशृङ्गारसुवेशयोः । अथ श्लेष्मघना मल्ल्यां केतक्यामपि योषिति ॥ ११४ ॥ सम्मूर्च्छनमभिव्याप्तावुच्छ्रायमोहयोरपि । समुत्थानं समुद्योगे व्याधीनां निर्णयेऽपि च ॥ ११५ ॥ सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि । ;p{0099} स्यात्संवदनमालोचे वशीकारे नपुंसकम् ॥ ११६ ॥ समादानं समीचीनग्रहणे सौगताह्निके । संवादनं वाहने स्याद्धारादेरङ्गमर्दने ॥ ११७ ॥ समापनं परिच्छेदे समाप्तिवधयोरपि । सनातनः शाश्वतेऽजे पित्रतिथ्यन्तरे हरे ॥ ११८ ॥ स्तनयित्नुः पुमान् वारिधरेऽपि स्तनितेऽपि च । सरोजिनी तु कमलाकरे पद्मे च योषिति ॥ ११९ ॥ समापन्नं समाप्ते स्यात् प्राप्ते क्लिष्टे वधेऽपि च । सम्बाधनं द्वाःसदने शूलाग्रद्वारपालयोः ॥ १२० ॥ संयमनी यमपुर्य्य्यां संयमनं बन्धने व्रतेऽपि स्यात् । सारसनमप्युरस्त्रे तनुत्रिणां मेखलायाञ्च ॥ १२१ ॥ सामधेनी तु धाय्यायां समिध्यपि च योषिति । समयोनिस्तु सामोत्थे ब्रह्मकुञ्जरयोरपि ॥ १२२ ॥ सुदर्शनो हरेश्चक्रे मेरुजम्बुद्रुमे पुमान् । न द्वयोः शक्रनगरे आज्ञौषधिभिदोः स्त्रियाम् ॥ १२३ ॥ सुयामुनो वत्सराजे प्रासादेऽभ्रान्तरेऽच्युते । सुकर्मा तु पुमान् योगभेदे स्याद् देवशिल्पिनि ॥ १२४ ॥ सुधन्वा प्रौढधानुष्के त्रिषु ना विश्वकर्मणि । सुपर्वा ना शरे वंशे पर्वधूमसुरेष्वपि ॥ १२५ ॥ सुदामा तु पुमान् वारिधरपर्वतभेदयोः । सौदामन्यप्सरोभेदे तडित्तद्भेदयोः स्त्रियाम् ॥ १२६ ॥ हर्षयित्नुः पुमान् पुत्रे काञ्चने च नपुंसकम् । ;v{नपञ्चकम्} ;c{नपञ्चकम्} अथातिसर्जनं दाने वधेऽपि च नपुंसकम् ॥ १२७ ॥ अपवर्जनन्तु दाने निर्वाणत्यागयोरपि । अपसर्जनमाम्नाते परिवर्जनदानयोः ॥ १२८ ॥ अग्रजन्मा द्विजे ज्येष्ठे भ्रातरि ब्रह्मणि स्मृतः । अथानुवासनं स्नेहवस्तिधूपनयोरपि ॥ १२९ ॥ ;p{0100} अभिनिष्णानोऽप्यक्षरमात्रे विसर्जनीयेऽपि । अन्तेवासी शिष्येऽपि स्याच्चण्डाले प्रान्तगेऽपि च ॥ १३० ॥ स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि । उपसम्पन्नमुद्दिष्टं निहते च सुसंस्कृते ॥ १३१ ॥ कारन्धमी कांस्यकारे धातुवादरतेऽपि च । कामचारी कामुके स्यात् स्वच्छन्दकलविङ्कयोः ॥ १३२ ॥ किष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च । कृष्णवर्त्मा पुमानग्नौ दुराचारे विधुन्तुदे ॥ १३३ ॥ स्याद् गन्धमादनो भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री चिरजीवी ककाकयोः ॥ १३४ ॥ तिक्तपर्वा हिलमोचीगुडूचीयष्टिषु स्त्रियाम् । दन्तधावनः खदिरे दन्तशुद्धौ नपुंसकम् ॥ १३५ ॥ स्याद् धूमकेतनः पुंसि केतुग्रहहुताशयोः । स्यान्नन्दिवर्द्धनोः भर्गे पक्षान्ते तनयेऽपि च ॥ १३६ ॥ प्रतिपादनन्तु दाने प्रतिपत्तौ च बोधने । स्यात् पृष्ठहायनो धान्यविशेषे च मतङ्गजे ॥ १३७ ॥ प्रचलाकी मयूरे स्याद् भुजङ्गे चापि दृश्यते । स्यात् पद्मलाञ्छना लोकेश्वरे ब्रह्मणि भास्करे ॥ १३८ ॥ धनदे च स्त्रियां तारालक्ष्मीवाग्देवतासु च । पीतचन्दनमुद्दिष्टं कालीयकहरिद्रयोः ॥ १३९ ॥ पृष्ठशृङ्गी पुमान् दंशभीरौ षण्डे वृकोदरे । वरचन्दनमाख्यातं कालीये देवदारुणि ॥ १४० ॥ वरवर्णिनी तु लाक्षाहरिद्रारोचनासु च । स्त्रीरत्ने च फलिन्याञ्च साधीयस्यामपि स्त्रियाम् ॥ १४१ ॥ मधुसूदनस्तु पुंसि स्याद् भ्रमरे वनमालिनि । महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः ॥ १४२ ॥ स्यान्मृत्युवञ्चनः शम्भौ श्रीफलद्रोणकाकयोः । वनमाली च गोविन्दे वाराह्यां वनमालिनी ॥ १४३ ॥ ;p{0101} विषायी स्यात् पुमान् राज्ञि वैषयिकजनेऽपि च । इन्द्रिये कामदेवे च विषयासक्तपूरुषे ॥ १४४ ॥ विश्वकर्मा सहस्रांशौ मुनिभिद्देवशिल्पिनोः । विघ्नकारी स्मृतो घोरदर्शनेऽपि विघातिनि ॥ १४५ ॥ वृषपर्वा पुमान् दैत्यभेदेऽप्यन्धकसूदने । व्योमचारी तु निर्दिष्टो देवतायां विहङ्गमे ॥ १४६ ॥ शकुलादनी स्त्रियां कृष्णभेदीकटुकशाकयोः । शालङ्कायन उद्दिष्टो मुनिभेदे च नन्दिनि ॥ १४७ ॥ शिवकीर्त्तनस्तु पुंसि (स्याद्) भृङ्गरीटेऽसुरद्विषि । श्वेतवाहन इत्येष सुधाधाम्नि धनञ्जये ॥ १४८ ॥ श्वेतधामा पुमानिन्दौ घनसाराब्धिफेनयोः । स्यात् षष्टिहायनो धान्यविशेषे कुञ्जरे पुमान् ॥ १४९ ॥ सम्प्रयोगी कलाकेलौ कामुके सम्प्रयोजके । हरिचन्दनमस्त्री स्याद् देवतानां महीरुहे ॥ १५० ॥ नपुंसकन्तु गोशीर्षे ज्योत्स्नाकुङ्कमयोरपि । हरिवाहनस्तु पुंसि स्यात् शचीपतिविवस्वतोः ॥ १५१ ॥ ;v{नषट्कम्} ;c{नषट्कम्} अन्तावसायी श्वपचे मुनिभेदे च नापिते । कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ १५२ ॥ जायानुजीवी पुंसि स्यान्नटे च बकपक्षिणि । सहस्रवेधि क्लीबं स्याद् रामठे नाम्बुवेतसे ॥ १५३ ॥ ;c{इति नान्तवर्गः ।} ;k{पान्तवर्गः} ;v{पैकम्} पा ना वाताण्डपूतेषु पाने पातरि कीर्त्तितः । स्त्रियान्तु रक्षणे पाने पूते पूरितके च सः ॥ १ ॥ ;p{0102} ;v{पद्विकम्} ;c{पद्विकम्} कल्पः शास्त्रे विधौ न्याये संवर्त्ते ब्रह्मणो दिने । कपिर्ना सिह्लके शाखामृगे च मधुसूदने ॥ २ ॥ कूपः कूपकमृण्माने गर्त्ताम्बुगुणवृक्षके । कृपो द्रोणश्यालके स्याद् द्रोणपत्न्यां कृपी मता ॥ ३ ॥ कृपा दयायां क्षेपस्तु निन्दाविक्षेपलेपने । विलम्बप्रेरणे गर्वे खष्पः क्रोधे बलात्कृतौ ॥ ४ ॥ गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि । ग्रामौघाधिकृते पुंसि शारिवाख्यौषधौ स्त्रियाम् ॥ ५ ॥ छुपः क्षुपस्पर्शनयोस्त्रपु सीसकरङ्गयोः । तल्पमट्टे कलत्रे च शयनीये च न द्वयोः ॥ ६ ॥ त्रपा लज्जाकुलटयोस्तापः सन्तापकृच्छ्रयोः । तापी नद्यन्तरे दर्पः कस्तूर्य्यामप्यहङ्कृतौ ॥ ७ ॥ नीपः कदम्बबन्धूकनीलाशोकद्रुमेष्वपि । पुष्पं विकाशकुसुमस्त्रीरजःसु नपुंसकम् ॥ ८ ॥ रूपं स्वभावे सौन्दर्य्ये नामगे पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥ ९ ॥ रेपः स्यान्निन्दिते क्रूरे रोपो रोपणबाणयोः । लेपः प्रलेपने जग्धौ वपा विवरमेदसोः ॥ १० ॥ बाष्प ऊष्मणि नाऽस्रेऽथ शष्पं बालतृणे स्मृतम् । पुंसि स्यात् प्रतिभाहानौ शाप अक्रोशदिव्ययोः ॥ ११ ॥ शिल्पं स्रुवे क्रियायोग्ये स्वापः शयननिद्रयोः । स्पर्शाज्ञतायामज्ञाने सूपो व्यञ्जनसूदयोः ॥ १२ ॥ ;v{पत्रिकम्} ;c{पत्रिकम्} अनूपो महिषे नाऽम्बुप्रायदेशे तु वाच्यवत् । अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना ॥ १३ ॥ आवापो भाण्डे वपने परिक्षेपालवालयोः । आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः ॥ १४ ॥ ;p{0103} काकल्पः कल्पने वेशे उडुपन्तु प्लवेऽस्त्रियाम् । चन्द्रे पुंस्युलपो न स्त्री गुल्मिन्यां ना तृणान्तरे ॥ १५ ॥ कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे । पुंसि निध्यन्तरे कूर्मे मल्लबन्धान्तरेऽपि च ॥ १६ ॥ कलापः संहतौ बर्हे काञ्च्यां भूषणतूणयोः । चन्द्रे विदग्धे व्याकरणभेदेऽपि कथ्यते बुधैः ॥ १७ ॥ कशिपुर्भक्ताच्छादनयोरेकोक्त्या पृथक् तयोः पुंसि । कश्यप उक्तो मुनिमृगयोर्भेदे काश्यपी क्ष्मायाम् ॥ १८ ॥ कुतपोऽस्त्रियां दौहित्रे वाद्ये छागजकम्बले । कुशे दिनस्याष्टमांशे ना सूर्य्ये कुणपी पुनः ॥ १९ ॥ विट्शारिकायां कुणपः पूतिगन्धौ शवेऽपि च । जिह्वापः शुनि मार्जारे प्रतापस्तापतेजसोः ॥ २० ॥ पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा । रक्तपा स्याज्जलौकायां डाकिन्यां ना तु राक्षसे ॥ २१ ॥ विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे । विटाधिपे ना विकल्पः पुंसि भ्रान्तौ च कल्पने ॥ २२ ॥ ;v{पचतुष्कम्} ;c{पचतुष्कम्} अभिरूपो बुधे रम्येऽपलापः प्रेम्ण्यपह्नवे । अवलेपस्तु गर्वे स्याल्लेपने भूषणेऽपि च ॥ २३ ॥ उपतापस्त्वरायां स्यादुत्तापगदयोरपि । जलकूपी कूपगर्त्ते पुष्करिण्याञ्च योषिति ॥ २४ ॥ नागपुष्पस्तु पुन्नागनागकेशरचम्पके । परिवापस्तु पर्य्युप्तौ जलस्थाने परिच्छदे ॥ २५ ॥ परितापस्तु पुंसि स्याद् दुःखे च नरकान्तरे । परिकम्पो भये कम्पे प्राप्तरूपो ज्ञरम्ययोः ॥ २६ ॥ पिण्डपुष्पमशोके च जवायाञ्च कुशेशये । बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ॥ २७ ॥ मेघपुष्पं पिण्डाभ्राम्बुनादेये ना हरेर्हये । ;p{0104} विप्रलापो विरोधोक्तावपार्थवचनेऽपि च ॥ २८ ॥ बीजपुष्पं मरुबके तथा मदनकेऽपि च । वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः ॥ २९ ॥ वृषाकपिः पुमान् कृष्णे शङ्करे जातवेदसि । हेमपुष्पमशोकेऽपि जपापुष्पे नपुंसकम् ॥ ३० ॥ ;v{पपञ्चकम्} ;c{पपञ्चकम्} भवेच्चामरपुष्पन्तु पूगे काशाम्रकेतके । ;c{इति पान्तवर्गः ।} ;k{फान्तवर्गः} ;v{फैकम्} ;c{फैकम्} फो यज्ञसाधने स्फाने झञ्झावाते च पुंस्ययम् । फं रूक्षोक्तौ च फूत्कारे तथा निष्फलभाषणे ॥ १ ॥ ;v{फद्विकम्} ;c{फद्विकम्} गुम्फस्तु गुम्फने बाहोरलङ्कारे च कीर्त्त्यते । रेफो वर्णे च पुंसि स्यात् कुत्सिते पुनरन्यवत् ॥ २ ॥ शफं मूले तरूणां स्याद् गवादीनां खुरेऽपि च । शिफा जटायां सरिति मांसिकायाञ्च मातरि ॥ ३ ॥ ;c{इति फान्तवर्गः ।} ;k{बान्तवर्गः} ;v{बैकम्} ;c{बैकम्} बः पुमान् वरुणे सिन्धौ भगे तोये गेतेऽपि च । गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥ १ ॥ ;v{बद्विकम्} ;c{बद्विकम्} कम्बुः शङ्खेऽस्त्रियां पुंसि शम्बूके बलये गजे । कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् ॥ २ ॥ क्लीबं स्यात् पण्डके न स्त्री वाच्यलिङ्गस्त्वविक्रमे । खर्बं सङ्ख्यन्तरे क्लीबं नाचे वामनके त्रिषु ॥ ३ ॥ ;p{0105} गर्वोऽभिमानेऽवलेपे जम्बुः स्यात् पादपान्तरे । तथा सुमेरुसरिति द्वीपभेदेऽपि च स्त्रियाम् ॥ ४ ॥ डिम्बो भयध्वनावण्डे फुप्फुसप्लीहविप्लवे । दर्बिः स्त्रियां खजाकायां फणायामुरगस्य च ॥ ५ ॥ पूर्वे तु पूर्वजेषु स्युः पूर्वः प्रागाद्ययोस्त्रिषु । लम्बा पद्मालयागौर्य्योस्तिक्ततुम्ब्यामपि स्त्रियाम् ॥ ६ ॥ बिम्बस्तु प्रतिबिम्बे स्यन्मण्डले पुन्नपुंसकम् । विम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान् ॥ ७ ॥ शम्बः स्यान्मुसलाग्रस्थलोहमण्डलके पवौ । शुभान्विते त्रिषु स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः ॥ ८ ॥ ;v{बत्रिकम्} ;c{बत्रिकम्} कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान् । कलम्बी शाकभेदे स्यात् कदम्बशरयोः पुमान् ॥ ९ ॥ कादम्बः स्यात् पुमान् पक्षिविशेषे सायकेऽपि च । गजाह्वा गजपिप्पल्यां गजाह्वं हस्तिनापुरे ॥ १० ॥ गन्धर्वः पशुभेदे स्यात् पुंस्कोकिलतुरङ्गयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च ॥ ११ ॥ गोडुम्बः शीर्णवृन्ते गवादन्यान्तु योषिति । द्विजिह्वस्तु खले सर्पे नितम्बः स्कन्धरोधसोः ॥ १२ ॥ स्त्रियाः पश्चात् कटावद्रेः कटके कटिमात्रके । प्रलम्बो दैत्यभेदे स्यात् त्रपुषेऽपि पयोधरे ॥ १३ ॥ लताङ्कुरे च शाखायां हारभेदे प्रलम्बने । भूजम्बूरपि गोधूमे विकङ्कतफले स्त्रियाम् ॥ १४ ॥ हेरम्बो विघ्नराजे स्यान्महिषे शौर्य्यगर्विते । ;v{बचतुष्कम्} ;c{बचतुष्कम्} राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोः स्त्रियाम् ॥ १५ ॥ ललजिह्वाऽन्यवत् हिंस्रे क्रमेलकशुनोः पुमान् । शतपर्वा तु दूर्वायां वचाभार्गवयोषितोः ॥ १६ ॥ ;p{0106} ;v{बपञ्चकम्} धूलीकदम्बो नीपे स्यात् तिनिशे वरुणद्रुमे । शृगालजम्बू्र्गोडुम्बे तथा घोण्टाफले स्त्रियाम् ॥ १७ ॥ ;c{इति बान्तवर्गः ।} ;k{भान्तवर्गः} ;v{भैकम्} ;c{भैकम्} भं नक्षत्रे गभस्तौ स्त्री पुंसि स्याद् भृगुनन्दने । भूः स्थानमात्रे कथिता धरण्यामपि योषिति ॥ १ ॥ ;v{भद्विकम्} ;c{भद्विकम्} कुम्भो राश्यन्तरे हस्तिमूर्द्धांशे राक्षसान्तरे । कामुके वारनार्य्याञ्च घटे क्लीबन्तु गुग्गुलौ ॥ २ ॥ स्त्रियामुखाकट्फलयोः पृश्निकायाञ्च पाटलौ । गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ ३ ॥ जम्भो दैत्यविशेषे ना दन्ते जम्बीरभक्ष्ययोः । जृम्भा विकाशजृम्भणयोस्त्रिषु डिम्भोऽपि बालिशे बाले ॥ ४ ॥ दम्भस्तु कैतके कल्के दृन्भूः स्त्री सर्पचक्रयोः । नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् ॥ ५ ॥ द्वयोः प्राणिप्रतीके स्यात् स्त्रियां कस्तूरिकामदे । निभस्तु कथितो व्याजे पुंलिङ्गः सदृशे त्रिषु ॥ ६ ॥ रम्भा कदल्यप्सरसोर्ना वेणौ बानरान्तरे । विभुः प्रभौ सर्वगते शङ्करब्रह्मणोस्तु ना ॥ ७ ॥ शम्भुः पुंसि महादेवे परमेष्ठिनि चाऽर्हति । शुभो योगे शुभं क्षेमे वाच्यवत् क्षेमशालिनि ॥ ८ ॥ खसञ्चारिपुरे स्त्री तु शोभा कान्तीच्छयोर्मता । सभा सामाजिके गोष्ठ्यां द्यूतमन्दिरयोरपि ॥ ९ ॥ स्वभूर्ना ब्रह्मणि हरौ स्तम्भः स्थूणाजडत्वयोः । ;v{भत्रिकम्} ;c{भत्रिकम्} आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः ॥ १० ॥ ;p{0107} आत्मभूर्ना विधौ कामेऽप्यृषभस्त्वौषधान्तरे । स्वरभिद्वृषयोः कर्णरन्ध्रकुम्भीरपुच्छयोः ॥ ११ ॥ उत्तरस्थः स्मृतः श्रेष्ठे स्त्री नराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता ॥ १२ ॥ ककुभ् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि । ककुभो रागभेदेऽपि वीणाङ्गेऽर्जुनपादपे ॥ १३ ॥ कटभी वृक्षभेदेऽपि ज्योतिष्मत्यामपि स्त्रियाम् । करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते ॥ १४ ॥ कुसुम्भं हेमनि महारजते ना कमण्डलौ । गर्दभं श्वेतकुमुदे गर्दभो गन्धभिद्यपि ॥ १५ ॥ रासभे गर्दभी क्षुद्ररोगजन्तुविशेषयोः । दुर्लभस्त्रिषु दुष्प्रापे कर्चूरे दुन्दुभिः पुमान् ॥ १६ ॥ वरुणे दैत्यभेर्य्योश्च स्त्र्यक्षबिन्दुत्रिकद्वये । निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ ॥ १७ ॥ वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरङ्गमे । वर्षाभूः स्त्री च शेाथघ्न्यां भूलताप्लवयोः पुमान् ॥ १८ ॥ विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः । रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥ १९ ॥ विश्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च । विष्टम्भः प्रतिबन्धे स्यात् प्रभेदे चामयस्य च ॥ २० ॥ वृषभः श्रेष्ठवृषयोर्वैदर्भी रीतिभिद्यपि । वैदर्भं वाक्यवक्रत्वे शरभस्तु पशोर्भिदि ॥ २१ ॥ करभे वानरभिदि सनाभिर्ज्ञातितुल्ययोः । सुरभिः शल्लकीमातृभिन्मुरागोषु योषिति ॥ २२ ॥ चम्पके च वसन्ते च तथा जातीफले पुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु ॥ २३ ॥ विख्याते सचिवे धीरे चैत्रेऽपि च पुमानयम् । ;p{0108} ;v{भचतुष्कम्} ;c{भचतुष्कम्} अनुष्टभ् स्यात् सरस्वत्यां छन्दोभेदे च योषिति ॥ २४ ॥ अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि । शातकुम्भं सुवर्णे स्यात् शातकुम्भोऽश्वमारके ॥ २५ ॥ ;c{इति भान्तवर्गः ।} ;k{मान्तवर्गः} ;v{मैकम्} ;c{मैकम्} मो यमे समयेऽपि स्यात् विषे च मधुसुदने । मा स्त्री पद्मालयायां स्यात् पुंलिङ्गश्चन्द्रशेखरे ॥ १ ॥ ;v{मद्विकम्} ;c{मद्विकम्} आमो रुक्तद्भिदोः पुंसि स्यादपक्वेऽन्यलिङ्गकः । उमाऽतसीहैमवतीहरिद्राकीर्त्तिकान्तिषु ॥ २ ॥ ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसङ्कोचरेखायां वेदनापीडयोरपि ॥ ३ ॥ क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च । क्षमा भूमौ तितिक्षायां स्त्रियां युक्ते नपुंसकम् ॥ ४ ॥ वाच्यवत् शक्तहितयोः कामः स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् ॥ ५ ॥ कामिर्ना कामुके रत्यां स्त्री किम् क्षेपवितर्कयोः । निन्दायाञ्च परिप्रश्ने वाच्यलिङ्गमुदाहृतम् ॥ ६ ॥ कृमिर्ना कृमिवत्कीटे लाक्षायां कृमिले खरे । किर्मी पलाशे शालायां हेमपुत्र्याञ्च योषिति ॥ ७ ॥ क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्याञ्च योषिति ॥ ८ ॥ क्षौममट्टे दुकूलेऽस्त्री क्षौमं वल्कलजांशुके । शणजेऽतसीजे खर्मं पौरुषे कोषजांशुके ॥ ९ ॥ गमो नाऽक्षविवर्त्ते स्यादपर्य्यालोचनेऽध्वनि । ग्रामः स्वरे संवसथे ग्रीष्म ऊष्मर्त्तभेदयोः ॥ १० ॥ ;p{0109} गुल्मः सेनाघट्टभिदोः सैन्यरक्षणरुग्भिदोः । स्तम्बे स्त्रियामामलक्येलावनीवस्त्रवेश्मसु ॥ ११ ॥ घर्मः स्यादातपे ग्रीष्मेऽप्यूष्मस्वेदाम्भसोरपि । चमूः सेनाविशेषे च सेनामात्रे च योषिति ॥ १२ ॥ जाल्मः स्यात् पामरे क्रूरेऽसमीक्ष्यकारिणि त्रिषु । जिह्मस्तु कुटिले मन्दे क्लीबं तगरपादपे ॥ १३ ॥ तोक्मं कर्णमले पुंसि हरिते च हरिद्यवे । दमस्तु दमथे दण्डे कर्दमे दमने पुमान् ॥ १४ ॥ दस्मस्तु यजमाने स्यादपि चौरे हुताशने । द्रुमो महीरुहे पारिजाते किम्पुरुषेश्वरे ॥ १५ ॥ धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ । अहिंसोपनिषन्न्याये ना धनुर्यमसोमपे ॥ १६ ॥ ध्यामं दमनके गन्धतृष्णेऽथ श्यामले त्रिषु । नेमिर्ना तिनिशे कूपत्रिकाचक्रान्तयोः स्त्रियाम् ॥ १७ ॥ नेमः कीलेऽवधौ गर्त्ते प्राकारे कैतवेऽपि च । पद्मोऽस्त्री पद्मके व्यूहनिधिसङ्ख्यान्तरेऽम्बुजे ॥ १८ ॥ ना नागे स्त्री फञ्जिकाश्रीचारटीपन्नगेषु च । ब्रह्मी तु फञ्जिकायां स्यात् शाकमत्स्यप्रभेदयोः ॥ १९ ॥ ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दभ्रमणयोरपि ॥ २० ॥ भामः क्रोधे रवौ दीप्तौ भीष्मो गाङ्गेयघोरयोः । भीमोऽम्लवेतसे घोरे शम्भौ मध्यमपाण्डवे ॥ २१ ॥ भूमिर्वसुन्धरायां स्यात् स्थानमात्रेऽपि च स्त्रियाम् । भौमः कुजे च नरके पुंसि भूमिभवे त्रिषु ॥ २२ ॥ यमोऽन्यलिङ्गो यमजे ना काके शमने शनौ । शरीरसाधनापेक्षनित्यकर्मणि संयमे ॥ २३ ॥ यामस्तु पुंसि प्रहरे संयमे च प्रकीर्त्तितः । यामिः कुलस्त्रीस्वस्रोः स्त्री युध्मो धनुषि संयुगे ॥ २४ ॥ ;p{0110} रश्मिः पुमान् दीधितौ स्यात् पक्ष्मप्रग्रहयोरपि । रमा लक्ष्म्यां रमः कान्ते रक्ताशोकद्रुमे स्मरे ॥ २५ ॥ रामा योषाहिङ्गुनद्योः क्लीबं वास्तूककुष्ठयोः । ना राघवे च वरुणे रैणुकेये हलायुधे ॥ २६ ॥ हये च पशुभेदे च त्रिषु चारौ सितेऽसिते । रुमा सुग्रीवदारेषु विशिष्टलवणाकरे ॥ २७ ॥ रुक्मञ्च काञ्चने लोहे लक्ष्मीः सम्पत्तिशोभयोः । ऋद्धौषधे च पद्मायां वृद्धिनामौषधेऽपि च ॥ २८ ॥ फलिन्यां स्त्री वमिर्वान्तौ स्त्रियां पुंसि हुताशने । वामं धने पंसि हरे कामदेवे पयोधरे ॥ २९ ॥ वल्गुप्रतीपसव्येषु त्रिषु नार्य्यां स्त्रियामथ । वामी शृगालीवडवारासभीकरभीषु च ॥ ३० ॥ शमी शक्तुफलायाञ्च शिम्बिकायाञ्च वाग्गुलौ । श्यामो वटे प्रयागस्य वारिदे वृद्धदारके ॥ ३१ ॥ पिके च कृष्णहरितोः पुंसि स्यात् तद्वति त्रिषु । मरीचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ॥ ३२ ॥ अप्रसूताङ्गनायाञ्च प्रियङ्गावपि बागुजौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ ॥ ३३ ॥ नीलिकायामथ श्रामी मासे मण्डपकालयोः । शुष्मं तेजसि सूर्य्ये ना समा संवत्सरे स्त्रियाम् ॥ ३४ ॥ सर्वसाधुसमानेषु समं स्यादभिधेयवत् । सीमाऽऽघाटस्थितिक्षेत्रेऽष्वण्डकोषेऽपि च स्त्रियाम् ॥ ३५ ॥ सूक्ष्मं स्यात् कैतवेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके । सूमं क्षीरे च नभसि सोमस्तु हिमदीधितौ ॥ ३६ ॥ वानरे च कुबेरे च पितृदेवे समीरणे । वसुप्रभेदे कर्पूरे नीरे सोमलतौषधौ ॥ ३७ ॥ हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गोऽथ होमिर्ना पावके घृते ॥ ३८ ॥ ;p{0111} ;v{मत्रिकम्} ;c{मत्रिकम्} अधमः स्याद् गर्ह्यजनेऽप्यागमः शास्त्र आगतौ । आश्रमो ब्रह्मचर्यादौ वानप्रस्थे मठे वने ॥ ३९ ॥ अस्त्रियामुत्तमा दुग्धिकायां स्त्री त्रिषु भद्रके । उद्दामो बन्धरहिते स्वतन्त्रे च प्रचेतसि ॥ ४० ॥ कलमः पुंसि लेखन्यां शालौ पटच्चरेऽपि च । कुसुमं स्त्री रजोनेत्ररोगयोः फलपुष्पयोः ॥ ४१ ॥ कृत्रिमं लवणभेदे ना सिह्लके रचिते त्रिषु । गोलोमी श्वेतदूर्वायां स्याद् वचाभूतकेशयोः ॥ ४२ ॥ गोधूमो नागरङ्गे स्यादोषधिव्रीहिभेदयोः । गोतमो ना मुनौ बुद्धे रोचनीदुर्गयोः स्त्रियाम् ॥ ४३ ॥ तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके । दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु ॥ ४४ ॥ निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च । निगमो वाणिजे पुर्य्यां कटे वेदे वणिक्पथे ॥ ४५ ॥ नियमो मन्त्रणायाञ्च प्रतिज्ञानिश्चये व्रते । नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च ॥ ४६ ॥ परमं स्यादनुज्ञायामव्ययं परमं परे । प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत् ॥ ४७ ॥ प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि । पञ्चमो रागभेदे स्यात् स्वरभेदेऽथ पञ्चमी ॥ ४८ ॥ पाण्डवानाञ्च पत्न्यां स्त्री पञ्चानां पूरणे त्रिषु । प्रक्रमः क्रमेऽवसरे मध्यमो मध्यजेऽन्यवत् ॥ ४९ ॥ पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्य्यां कर्णिकाङ्गुलिभेदयोः ॥ ५० ॥ त्र्यक्षरच्छन्दसि तथा ललामं लाञ्छने ध्वजे । शृङ्गे प्रधाने भूषायां तथा बालधिपुण्ड्रयोः ॥ ५१ ॥ तुरङ्गे च प्रभावेऽथ व्यायामः पौरुषे श्रमे । ;p{0112} विषमे दुर्गसञ्चारे विभ्रमो भ्रान्तिहावयोः ॥ ५२ ॥ विद्रुमो रत्नवृक्षेऽपि प्रबालेऽपि पुमानयम् । विलोमस्तु प्रतीपे स्याद्भुजङ्गे वरुणे शुनि ॥ ५३ ॥ आमलक्यां विलोमी च विलोमञ्चारघट्टके । विक्रमस्तु पुमान् क्रान्तिमात्रे स्यात् शक्तिसम्पदि ॥ ५४ ॥ संक्रमः क्रमणे पुंसि न स्त्री स्याद् दुर्गसञ्चरे । सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि ॥ ५५ ॥ सत्तमः स्यात् पूज्यतमे साधीयस्युत्तमे त्रिषु । सरमा कुक्कुरीदेवशुन्योः स्याद् राक्षसीभिदि ॥ ५६ ॥ सुषमाऽत्यन्तशोभायां स्त्री चारौ च समे त्रिषु । सुषीमः शीतले चारौ त्रिषु ना पन्नगान्तरे ॥ ५७ ॥ ;v{मचतुष्कम्} ;c{मचतुष्कम्} भवेदनुपमा सुप्रतीकिन्यां स्त्री त्रिषूत्तमे । अभ्यागमो विरोधाजिघाताभ्युद्गमनान्तिके ॥ ५८ ॥ उपक्रमस्तूपधायां ज्ञात्रारम्भे च विक्रमे । चिकित्सायामुपगमः स्वीकारेऽन्तिकसर्पणे ॥ ५९ ॥ जलगुल्मो जलावर्त्ते कच्छपे जलजत्वरे । दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ॥ ६० ॥ प्लवङ्गमस्तु मण्डूके तथा शाखामृगेऽपि च । पराक्रमो विक्रमे स्यात् सामर्थ्योद्योगयोरपि ॥ ६१ ॥ महापद्मः पुमान् नागनिधिसङ्ख्यान्तरेषु च । यातयामोऽन्यवज्जीर्णे परिभुक्तोञ्झितेऽपि च ॥ ६२ ॥ सार्वभौमस्तु दिङ्नागे सर्वपृथ्वीपतावपि । ;v{मपञ्चकम्} ;c{मपञ्चकम्} अभ्युपगमस्तु पुंसि स्वीकारे निकटगमने च ॥ ६३ ॥ नक्षत्रनेमिरुक्ता रेवत्यां ना ध्रुवे चन्द्रे । ;c{इति मान्तवर्गः ।} ;p{0113} ;k{यान्तवर्गः} ;v{यैकम्} ;c{यैकम्} यो ना वायौ यमने या यात्राप्तिधूमितत्यागेषु । वारणयोगसमज्ञायानेषु पुमांस्तु गन्तरि विख्यातः ॥ १ ॥ ज्या मातरि वसुधायां मौर्व्यां द्यु क्लीबमह्नि गमने च । ना ज्वलने द्यौस्त्रिदशालयत्रिदशवर्त्मनोर्योषित् ॥ २ ॥ ;v{यद्विकम्} ;c{यद्विकम्} अव्यः स्यात् पङ्कजे पुंसि त्रिषु रम्ये च नाविके । अर्थ्यं शिलाजतुन्यार्थ्ये बुधे न्याय्ये च वाच्यवत् ॥ ३ ॥ अन्त्यस्तु पुंसि मुस्तायामन्तोद्भूतेऽधमे त्रिषु । अर्घ्यमर्घस्य योग्ये स्यादर्घार्थेऽपि च वाच्यवत् ॥ ४ ॥ अन्योऽसदृशेतरयोरर्य्यः स्यात् स्वामिवैश्ययोः । आस्यं मुखे च तन्मध्ये तद्भवे च स्त्रियां स्थितौ ॥ ५ ॥ इज्या दानेऽध्वरेऽर्च्चायां सङ्गमे स्त्री गुरौ त्रिषु । इभ्या करेणुशल्लक्योः स्त्रियामाढ्ये तु वाच्यवत् ॥ ६ ॥ कश्यं त्रिषु कशार्हे स्यात् क्लीबं मद्याश्वमध्ययोः । कन्या कुमारिकानार्य्योरोषधीराशिभेदयोः ॥ ७ ॥ क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च । कल्यं प्रभाते क्लीबं स्यात् कल्यो वाक्श्रुतिवर्जिते ॥ ८ ॥ सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च । उपायवचनेऽपि स्यात् त्रिषु मद्ये तु योषिति ॥ ९ ॥ कक्ष्यो बृहतिकायां स्यात् काञ्च्यां मध्येभबन्धने । हर्म्यादीनां प्रकोष्ठेऽपि कार्य्यं हेतौ प्रयोजने ॥ १० ॥ काव्यं ग्रन्थे पुमान् शुक्रे काव्या स्यात् पूतनाधियोः । कांस्यं वाद्यायन्तरे पानपात्रे स्यात् तैजसान्तरे ॥ ११ ॥ कायः कदैवते मूर्त्तौ सङ्घे लक्ष्यस्वभावयोः । मनुष्यतीर्थे कायं स्यात् क्रिया तूपायचेष्टयोः ॥ १२ ॥ आरम्भे निष्कृतौ पूजासम्प्रधारणकर्मसु । शिक्षाचिकित्साकरणे कुड्यं स्यात्तु नपुंसकम् ॥ १३ ॥ ;p{0114} विलेपने च भित्तौ च तथा कौतूहलेऽपि च । कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च ॥ १४ ॥ कुल्या पयःप्रणाल्याञ्च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान् ॥ १५ ॥ कृत्या क्रियादेवतयोस्त्रिषु विद्विष्टकार्य्ययोः । गयः स्यात् पशुराजर्ष्योर्भेदे तीर्थे पुनर्गया ॥ १६ ॥ गव्यं नपुंसकं ज्यायां रागद्रव्येऽप्यथ स्त्रियाम् । गोसमूहे त्रिलिङ्गन्तु गोदुग्धादौ च गोहिते ॥ १७ ॥ ग्राम्यं स्त्रीकरणे क्लीबेऽश्लीलप्राकृतयोस्त्रिषु । गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः ॥ १८ ॥ गृह्यं गुदे ग्रन्थभेदे क्लीबं शाखापुरे स्त्रियाम् । गृहासक्ते मृगादौ ना त्रिषु चास्वैरिपक्षयोः ॥ १९ ॥ गेयन्तु गीते गेयः स्याद् गातव्ये गायने त्रिषु । गोप्यो दासीसुते पुंसि रक्षणीयेऽभिधेयवत् ॥ २० ॥ चव्यन्तु चविके क्लीबं वचायामपि योषिति । चयः समूहे प्राक्रारे मूलबन्धे समाहृतौ ॥ २१ ॥ चित्यं मृतकचैत्ये स्याच्चित्रामृतचितौ स्त्रियाम् । चैत्यमायतने बुद्धबिम्बे नोद्देशपादपे ॥ २२ ॥ चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत् । छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥ २३ ॥ पालनोत्कोचयोर्दीप्तिसच्छोभापङ्क्तिषु स्त्रियाम् । जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च ॥ २४ ॥ अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे । जन्यं हट्टे परीवादे सङ्ग्रामे च नपुंसकम् ॥ २५ ॥ जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः ॥ २६ ॥ वरस्निग्धेऽथ जन्युः स्यात् पुंसि प्राण्यग्निधातृषु । त्रयी त्रिवेद्यां त्रितये न ना तार्क्ष्योऽश्वशालयोः ॥ २७ ॥ ;p{0115} गरुडाग्रजे सुपर्णे पुंसि क्लीबं रसाञ्जने । तिष्यो नक्षत्रभेदे स्यात् कलौ धात्र्याञ्च योषिति ॥ २८ ॥ द्रव्यन्तु पित्तले वित्ते पृथिव्यादौ विलेपने । क्लीबे च भेषजे भव्ये द्रुतिकारे च वाच्यवत् ॥ २९ ॥ दस्युश्चौरे रिपौ पुंसि दायः सेाल्लुण्ठभाषणे । विभक्तव्यपितृद्रव्ये तथा हरणदानयोः ॥ ३० ॥ दिव्यं लवङ्गे धात्र्यां स्त्री वल्गौ दिवि भवे त्रिषु । दूष्यं त्रिषु दूषणीये क्लीबं वस्त्रे च तद्गृहे ॥ ३१ ॥ दूत्यं दूतस्य भागे च भावे कर्मण्यपि स्मृतम् । दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि ॥ ३२ ॥ धन्या धात्र्यामलक्योः स्याद् धन्यं पुण्यवति त्रिषु । धान्यं व्रीहिषु धन्याके धिष्ण्यं स्थानाग्निसद्मसु ॥ ३३ ॥ शक्तावृक्षेऽप्यथ नयो नीतिद्यूतविशेषयोः । नाट्यं तौर्य्यत्रिके लास्ये नित्यं स्यात् सततेऽपि च ॥ ३४ ॥ शाश्वते त्रिषु पथ्या स्त्री हरीतक्यां हिते त्रिषु । पद्यं श्लोके पुमान् शूद्रे पद्या वर्त्मनि कीर्त्तिता ॥ ३५ ॥ पाक्यं विटाख्यलवणे यवक्षारे पुनः पुमान् । प्रायो मरणानशने मृत्यौ बाहुल्यतुल्ययोः ॥ ३६ ॥ प्रियो हृद्येऽन्यवत् पुंसि वृद्धिनामौषधे धवे । पीयुः काले रवौ घूके ना पुण्यं शोभने त्रिषु ॥ ३७ ॥ क्लीबं धर्मे च सुकृते पुष्यः कलियुगे स्मृतः । नक्षत्रमासयोर्भेदे पूज्यः श्वशुरवन्द्ययोः ॥ ३८ ॥ पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः । बन्ध्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजः स्त्रियाम् ॥ ३९ ॥ वर्य्या पतिंवरायां स्त्री वरेण्ये त्रिषु ना स्मरे । बल्यं प्रधानधातौ स्यात् क्लीबं बलकरे त्रिषु ॥ ४० ॥ वीर्य्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि । भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च ॥ ४१ ॥ ;p{0116} भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु । कर्मरङ्गतरौ पुंसि स्त्रियां करिकणोमयोः ॥ ४२ ॥ क्लीबमस्थनि भाग्यन्तु स्यात् शुभाशुभकर्मणोः । भृत्यो दासे भृतौ भृत्या मयुर्ना किन्नरे मृगे ॥ ४३ ॥ मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च । मध्यं वलग्ने न स्त्री स्यान्न्याय्येऽन्तरेऽधमेऽन्यवत् ॥ ४४ ॥ मत्स्यो मीनेऽथ पुंभूम्नि देशे मन्युः पुमान् क्रुधि । दैन्ये शोके च यज्ञे च माल्यं कुसुमतत्स्रजोः ॥ ४५ ॥ माया स्यात् शाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे । मूल्यं स्याद् वेतने प्रश्ने मृत्युर्ना मरणे यमे ॥ ४६ ॥ मेध्यं त्रिषु शुचौ रक्तवचारोचनयोः स्त्रियाम् । ययुः पुमानश्वमेधतुरङ्गे च तुरङ्गमे ॥ ४७ ॥ याय्यस्तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत् । याम्याऽवाच्यां भरण्याञ्च पुंस्यगस्त्ये च चन्दने ॥ ४८ ॥ योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् । क्लीबमृद्ध्यौषधे पुष्ये ना स्त्र्यभ्यासार्कयोषितोः ॥ ४९ ॥ रम्या रात्रौ चम्पके ना मनोज्ञे त्वभिधेयवत् । नपुंसकं पटोलस्य मूले सूरिभिरिष्यते ॥ ५० ॥ रथ्या रथौघविशिखावर्त्तनीषु च योषिति । रथवोढरि पुंलिङ्गो रूप्यः स्यात् सुन्दरे त्रिषु ॥ ५१ ॥ आहतस्वर्णरजते रजते च नपुंसकम् । लयो विनाशे संश्लेषे साम्ये तौर्य्यत्रिके मतम् ॥ ५२ ॥ लक्ष्यं स्यादपदेशेऽपि शरव्येऽपि नपुंसकम् । लभ्यं युक्ते च लब्धव्ये लास्यं तौर्य्यत्रिके मतम् ॥ ५३ ॥ नृत्ये च व्रज्या प्रस्थाने वर्गे पर्य्यटनेऽपि च । वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः ॥ ५४ ॥ वाच्यन्तु कुत्सिते हीने वचनार्हे च वाच्यवत् । विन्ध्या स्त्रियां लवल्यां स्यात् पुंसि व्याधाद्रिभेदयोः ॥ ५५ ॥ ;p{0117} वीक्ष्यन्तु विस्मये दूश्ये पुंसि लासकवाजिनोः । वेश्यं वेश्यागृहे क्लीबं गणिकायान्तु योषिति ॥ ५६ ॥ शल्यन्तु न स्त्रियां शङ्की क्लीबं क्षेडेषु तोमरे । मदनद्रुश्वाविधोर्ना शयः शय्याहिपाणिषु ॥ ५७ ॥ शय्या स्यात् शयनीये च गुम्फनेऽपि च योषिति । शून्यं स्यान्निर्जने वाच्यलिङ्गं नल्यान्तु योषिति ॥ ५८ ॥ शौर्य्यमारभटीशक्त्योः सह्यः शैलान्तरे पुमान् । सोढव्ये वाच्यलिङ्गः स्यादारोग्ये तु नपुंसकम् ॥ ५९ ॥ सङ्ख्यं समिति सङ्ख्या स्यादेकाद्यादिविचारयोः । सन्ध्या पितृप्रसूनद्यन्तरयोर्युगसन्धिषु ॥ ६० ॥ सत्यं कृते च शपथे तथ्ये त्रिषु तु तद्वति । सव्यं वामे प्रतीपे च स्मयो नाऽद्भुतगर्वयोः ॥ ६१ ॥ सायः काण्डे दिनान्ते च साध्यो योगान्तरे शरे । गणदेवविशेषे च साधनीये तु वाच्यवत् ॥ ६२ ॥ सूर्य्योऽर्कपणें तपने स्त्री तद्भार्य्यौषधीभिदोः । स्थेयो विवादपक्षस्य निर्णेतरि पुरोहिते ॥ ६३ ॥ सेव्यं क्लीबमुशीरे स्यात् सेवार्हे पुनरन्यवत् । सैन्यं क्लीबं बले सेनासमवेते तु वाच्यवत् ॥ ६४ ॥ सौम्यो ज्ञे ना त्रिष्वनुग्रे मनोज्ञे सोमदैवते । हार्य्यो बिभीतकतरौ हर्त्तव्ये पुनरन्यवत् ॥ ६५ ॥ हृद्यं जवनेऽथ त्रिषु हृज्जहृद्धितहृत्प्रिये । वशकृद्वेदमन्त्रे ना वृद्धिनामौषधे स्त्रियाम् ॥ ६६ ॥ ;v{यत्रिकम्} ;c{यत्रिकम्} अनयस्तु विपद्दैवाशुभयोर्व्यसनेषु च । अत्ययाऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयोः ॥ ६७ ॥ अश्वीयमश्वसङ्घाते क्लीबमश्वहितेऽन्यवत् । अधृष्या तटिनीभेदे प्रगल्भे वाच्यलिङ्गकः ॥ ६८ ॥ अभिख्या त्वभिधाने स्यात् शोभायाञ्च यशस्यपि । ;p{0118} अभया तु हरीतक्यामुशीरे तु नपुंसकम् ॥ ६९ ॥ निर्भये वाच्यलिङ्गं स्यादपत्यं पुत्रयोर्मतम् । अगस्त्यः स्यात् कुम्भयोनौ वङ्गसेनतरावपि ॥ ७० ॥ अवध्यमवधार्हे स्यादनर्थकवचस्यपि । अव्ययोऽस्त्री शब्दभेदे ना विष्णौ निर्व्यये त्रिषु ॥ ७१ ॥ अहल्या त्वप्सरोभेदे भार्य्यायां गौतमस्य च । अहार्य्यः पर्वते ना स्यादहर्त्तव्ये तु वाच्यवत् ॥ ७२ ॥ आशयः स्यादभिप्राये पनसाधारयोरपि । स्यादातिथ्यमतिथ्यर्थ्ये त्रिलिङ्गमतिथौ पुमान् ॥ ७३ ॥ आत्रेयी पुष्पवत्यां स्यात् नदीभेदे च ना मुनौ । आदित्यो भास्करे देवेऽप्याम्नायो निगमेऽपि च ॥ ७४ ॥ उपदेशेऽपीन्द्रियन्तु हृषीके चेतसि स्मृतम् । उदयस्तु पुमान् पूर्वपर्वते च समुन्नतौ ॥ ७५ ॥ उपायः सामभेदादौ तथैवोपगतौ पुमान् । ऊर्णायुर्ना क्षणभङ्गे मेषकम्बलमेषयोः ॥ ७६ ॥ औचित्यमुचितत्वे स्यात् सत्येऽपि च नपुंसकम् । कषायो रसभेदेऽपि निर्य्यासे च विलेपने ॥ ७७ ॥ अङ्गरागे च न स्त्री स्यात् सुरभौ लोहिते त्रिषु । कालेयो दैत्यभेदे स्यात् कालखण्डे नपुंसकम् ॥ ७८ ॥ क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गकः । कुलायस्तु पुमान् स्थानमात्रे स्यात् पक्षिवासके ॥ ७९ ॥ क्षेत्रियं क्षेत्रजतृणे परदेहचिकित्सयोः । परदाररतासाध्यरोगयोः क्षेत्रियः पुमान् ॥ ८० ॥ कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च । गाङ्गेयः स्यात् पुमान् भीष्मे क्लीबं स्वर्णकशेरुणोः ॥ ८१ ॥ चक्षुष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत् ॥ ८२ ॥ चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे । ;p{0119} जघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् ॥ ८३ ॥ जटायुः पुंसि सम्पातेः कनीयसि च गुग्गुलौ । जरायुरपि तत्पक्षिराजे गर्भाशये पुमान् ॥ ८४ ॥ तपस्या व्रतचर्य्यायां तपस्यः फाल्गुने पुमान् । द्वितीया तिथिभित्पत्न्योः पूरणे तूभयोस्त्रिषु ॥ ८५ ॥ देवयुर्वाच्यलिङ्गः स्याद्धार्मिके लोकयात्रिके । नादेयो नागरङ्गे स्याज्जयायामम्बुवेतसे ॥ ८६ ॥ भूमिजम्ब्बां जवायाञ्च व्यङ्गुष्ठेऽपि च योषिति । निकायस्तु पुमान् लक्ष्ये सधर्मिप्राणिसंहतौ ॥ ८७ ॥ समुच्चये संहतानां निलये परमात्मनि । नेपथ्यं स्यादलङ्कारे रङ्गज्यायां नपुंसकम् ॥ ८८ ॥ प्रणयः प्रश्रये प्रेम्णि याञ्चाविश्रम्भयोरपि । निर्वाणेऽप्यथ पर्य्यायः प्रकारेऽवसरे क्रमे ॥ ८९ ॥ प्रलयो मृत्युकल्पान्तमूर्च्छापायेषु पुंस्ययम् । प्रत्ययः प्रथितत्वे च मत्वादिज्ञानयोरपि ॥ ९० ॥ आचारे शपथे रन्ध्रविश्वासाधीनहेतुषु । पर्ज्जन्यो मेघशब्देऽपि ध्वनदम्बुदशक्रयोः ॥ ९१ ॥ प्रसव्यं वाच्यलिङ्गं स्यात् प्रतिकूलानुकूलयोः । प्रकीर्य्यः पूतिकरजे विनिकीर्य्यं तु वाच्यवत् ॥ ९२ ॥ प्रणाय्योऽसम्मतेऽपि स्यादभिलाषविवर्जिते । पयस्यन्तु पयोजातहितयोर्वाच्यलिङ्गकम् ॥ ९३ ॥ दुग्धिकाक्षीरकाकोल्योः स्वर्णक्षीर्य्यामपि स्त्रियाम् । पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीष्पतौ ॥ ९४ ॥ पानीयन्तु जले क्लीबं पातव्ये वाच्यलिङ्गकम् । पौलस्त्यस्तु कुबेरे स्याद् दशग्रीवेऽपि पुंस्ययम् ॥ ९५ ॥ वलयः कण्ठरोगे ना कटके पुन्नपुंसकम् । ब्रह्मण्यः स्याद् ब्रह्मसाधुब्रह्मदारुशनैश्चरे ॥ ९६ ॥ बालेयो गर्दभे पुंसि मृदौ बालहिते त्रिषु । ;p{0120} ब्राह्मण्यं ब्राह्मणत्वे च समूहे च द्विजन्मनाम् ॥ ९७ ॥ भुवन्युः स्यात् पुमान् भानौ ज्वलने शशलाञ्छने । भुजिष्यस्तु स्वतन्त्रे च हस्तसूत्रकदासयोः ॥ ९८ ॥ स्त्रियां दासीगणिकयोर्मलयः पर्वतान्तरे । शैलांशे देश आरामे त्रिवृतायान्तु योषिति ॥ ९९ ॥ मङ्गल्यः स्यात् त्रायमाणाश्वत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्पीमिसीशुक्लवचासु च ॥ १०० ॥ रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु । मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ॥ १०१ ॥ रहस्या स्त्री नदीभेदे गोपनीयेऽभिधेयवत् । लौहित्यं लोहितत्वे च क्लीबं पुंसि नदान्तरे ॥ १०२ ॥ वदान्यो दानशौण्डे च चारुवादिनि वाच्यवत् । व्यवायः सुरतेऽन्तर्द्धौ पुंसि क्लीबन्तु तेजसि ॥ १०३ ॥ वक्तव्यं कुत्सिते हीने वचनार्हे तु वाच्यवत् । विजयः स्याज्जये पार्थे स्त्रियां तिथ्यन्तरे स्मृता ॥ १०४ ॥ उमासख्यां विस्मयः स्यादाश्चर्य्यगर्वयोः पुमान् । विनया तु बलायां स्त्री शिक्षायां प्रणतौ पुमान् ॥ १०५ ॥ विषये गोचरे देशे तथा जनपदेऽपि च । प्रबन्धाद् यस्य यो ज्ञातस्तत्र रूपादिके पुमान् ॥ १०६ ॥ विशल्योऽग्निशिखादन्तीगुडूचीत्रिपुटासु च । श्वशुर्य्यो देवरे श्याले शाण्डिल्यः पावकान्तरे ॥ १०७ ॥ मुनिभेदे च मालूरे शालेयः स्यान्मिसौ पुमान् । त्रिषु शाल्युद्भवे क्षेत्रे स्यात् शीर्षण्यन्तु शीर्षके ॥ १०८ ॥ सुकेशे पुंसि शैलेयं तालपर्ण्याञ्च सैन्धवे । शैलजे ना तु मधुपे शिलातुल्येऽन्यलिङ्गकम् ॥ १०९ ॥ संस्त्यायः सन्निवेशे च संस्थाने विस्तृतावपि । सन्नयः समचाये स्यात् पृष्ठस्थायिबले पुमान् ॥ ११० ॥ समयः शपथाचारसिद्धान्तेषु तथा धियि । ;p{0121} क्रियाकारे च निर्देशे सङ्केते कालभाषयोः ॥ १११ ॥ सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिश्वनि । सामर्थ्यं योग्यतायां स्याच्छक्तावपि नपुंसकम् ॥ ११२ ॥ सौरभ्यन्तु मनेाज्ञत्वे सौगन्धे गुणगौरवे । सौभाग्यं सुभगत्वे स्याद् योगभेदे नपुंसकम् ॥ ११३ ॥ हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे स्यदकुप्ये च नपुंसकम् ॥ ११४ ॥ हृदयं मानसे वुक्कोरसोरपि नपुंसकम् । ;v{यचतुष्कम्} ;c{यचतुष्कम्} भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः ॥ ११५ ॥ अवश्यायस्तु नीहारेऽप्यभिमानेऽपि पुंस्ययम् । अथावसायः शेषे स्यात् समाप्तौ निश्चयेऽपि च ॥ ११६ ॥ अपसव्यं त्रिलिङ्गस्तु दक्षिणप्रतिकूलयोः । अन्तशय्या मृतौ भूमिशय्यायां पितृकानने ॥ ११७ ॥ उपकार्य्या राजसद्मन्युपकारोचितेऽन्यवत् । जलाशयो जलाधारे स्यादुशीरे नपुंसकम् ॥ ११८ ॥ तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः । तृणशून्यं मल्लिकायां तथा स्यात् केतकीफले ॥ ११९ ॥ दाक्षिणात्यो नारिकेले त्रिषु दक्षिणदिग्भवे । धनञ्जयोऽर्जुने वह्निनागभिद्देहमारुते ॥ १२० ॥ निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजि । परिधायो जनस्थाने परिच्छेदनितम्बयोः ॥ १२१ ॥ प्रतिश्रयः सभायाञ्चाश्रये प्रतिभयं भये । घोरेऽपि पाञ्चजन्यस्तु विष्णुशङ्खे हुताशने ॥ १२२ ॥ प्रावृषेण्यः पुमान् नीपे प्रावृट्कालभवे त्रिषु । पौरुषेयः कृते पुंसां विकारे पुरुषस्य च ॥ १२३ ॥ त्रिषु ना सङ्घवधयोः पुरुषस्य पदान्तरे । फलोदयः पुमान् लाभे त्रिदिवेशालयेऽपि च ॥ १२४ ॥ ;p{0122} भागधेयं मतं भाग्ये भागप्रत्याययोः पुमान् । महालयो विहारे स्यात् तीर्थे च परमात्मनि ॥ १२५ ॥ महोदयः कान्यकुब्जे चाधिपत्यापवर्गयोः । महामूल्यः पद्मरागे ना महार्घ्येऽन्यलिङ्गकः ॥ १२६ ॥ मार्जारीयः स्मृतः शूद्रे विडाले कायशोधने । रौहिणेयोऽन्यवद् वत्से ना बुधे च हलायुधे ॥ १२७ ॥ बिलेशयस्तु पुंलिङ्गो मूषके च भुजङ्गमे । वैनतेयस्तु गरुडे स्यात् प्रभाकरसारथौ ॥ १२८ ॥ सम्परायः समीके स्यादापदुत्तरकालयोः । समाह्वयस्तु पशुभिः खगैर्द्यूते च सङ्गरे ॥ १२९ ॥ भवेत् समुदयः सङ्घे सङ्गमे च समुद्गमे । समुदायः समूहे स्याद् युद्धे समुच्छ्रयः पुमान् ॥ १३० ॥ विरोधोत्सेधयोः स्थू्लोच्चयोर्गण्डोपलेऽपि च । गजानां मध्यमगतेऽप्यसाकल्यवरण्डयोः ॥ १३१ ॥ हिरण्मयः सुरज्येष्ठे ना सुवर्णमये त्रिषु । ;v{यपञ्चकम्} ;c{यपञ्चकम्} कालानुसार्य्यं शैलेये कालीये शिंशपाद्रुमे ॥ १३२ ॥ दुग्धतालीयमित्येतद् दुग्धाम्रक्षीरफेनयोः । अथ प्रवचनीयञ्च स्यात् प्रवक्तृप्रवाच्ययोः ॥ १३३ ॥ वृषाकपायी श्रीगौरीवरीजीवन्तिकासु च । ;v{यषट्कम्} ;c{यषट्कम्} प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये ॥ १३४ ॥ विश्वक्सेनप्रिया लक्ष्म्यां वाराह्यामपि योषिति । ;c{इति यान्तवर्गः ।} ;k{रान्तवर्गः} ;v{रैकम्} ;c{रैकम्} रः स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः । श्रीर्वेशरचनाशोभाभारतीसरलद्रुमे ॥ १ ॥ ;p{0123} लक्ष्म्यां त्रिवर्गसम्पत्तिविधोपकरणेषु च । विभूतौ च मतौ च स्त्री स्रुः स्त्रियां निर्ज्झरे स्रवे ॥ २ ॥ ;v{रद्विकम्} अरं शीघ्रे च चक्राङ्गे शीघ्रगे पुनरन्यवत् । अग्रं पुरस्तादुपरि परिमाणे पलस्य च ॥ ३ ॥ आलम्बने समूहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत् ॥ ४ ॥ अस्रः कोणे कचे पुंसि क्लीबमश्रुणि शोणिते । अस्त्रं प्रहरणे चापे करबाले नपुंसकम् ॥ ५ ॥ अभ्रं मेघे च गगने धातुभेदे च काञ्चने । अद्रिः शैलद्रुमार्के नाथाङ्घ्रिर्ना पादमूलयोः ॥ ६ ॥ आरा चर्मप्रभेदिन्यां पुंसि भौमे शनैश्चरे । आर्द्रा नक्षत्रभेदे स्यात् स्त्रियां क्लिन्नेऽभिधेयवत् ॥ ७ ॥ आरुः पुंसि तरोर्भेदे तथा कर्कटदंष्ट्रिणोः । इन्द्रः शक्रादित्यभेदे योगभेदान्तरात्मनि ॥ ८ ॥ इन्द्रा फणिञ्झके स्त्री स्यादिरा भूवाक्सुराम्बुषु । उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिषूत्कटे ॥ ९ ॥ स्त्री वचाक्षुद्रयोरुष्ट्री कर्कर्य्यां करभे पुमान् । उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः ॥ १० ॥ ऐन्द्रिः काके जयन्ते नाऽथौड्राः पुंभूम्नि नीवृति । ओड्रस्तु तरुभेदे स्यात् क्षरं नीरे क्षरोऽम्बुदे ॥ ११ ॥ करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः । कद्रुस्त्रिषु स्वर्णपिङ्गे नागानां मातरि स्त्रियाम् ॥ १२ ॥ करो वधे निश्चये च वलौ यत्ने यतावपि । तुषारशैलेऽपि पुमान् स्त्रियां दूत्यां प्रसेवके ॥ १३ ॥ सुवर्णकारिकायाञ्च बन्धनागारबन्धयोः । क्षारो रसान्तरे धूर्त्ते लवणे काचभस्मनोः ॥ १४ ॥ कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनि । ;p{0124} कारुर्विश्वकर्मणि ना त्रिषु कारकशिल्पिनोः ॥ १५ ॥ क्षीरं दुग्धे जले कीरः शुके पुंभूम्नि नीवृति । कुरुर्नृपान्तरे भक्ते पुमान् पुंभूम्नि नीवृति ॥ १६ ॥ क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च ॥ १७ ॥ चाङ्गेरीवेश्ययोर्हिंस्रामक्षिकामात्रयोरपि । क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ॥ १८ ॥ क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत् । कृच्छ्रमाख्यातमाभीले पापसान्तपनादिनोः ॥ १९ ॥ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः । क्रोष्ट्री शृगालिकाकृष्णविदारीलाङ्गलीषु च ॥ २० ॥ क्षौद्रं मधुनि पानीये खरः स्यात्तीक्ष्णधर्मयोः । गर्दभे स्त्री देवताडे खरुर्दर्पे हरे हये ॥ २१ ॥ दन्ते पुंसि त्रिषु श्वेते खुरः कोलदले शफे । गरी खरायां करणे क्लीबं नोपविषे विषे ॥ २२ ॥ गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे । गीः स्त्री भाषासरस्वत्योर्गिरिर्ना नेत्ररुग्भिदि ॥ २३ ॥ अद्रौ गिरियके योषिद् गीर्णौ पूज्ये पुनस्त्रिषु । गुन्द्रस्तेजनके स्त्री तु प्रियङ्गौ भद्रमुस्तके ॥ २४ ॥ गुरुस्त्रिलिङ्ग्यां महति दुर्जरालघुनोरपि । पुमान् निषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥ २५ ॥ गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके । गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः ॥ २६ ॥ सम्भावनीयबोधे च काननच्छत्रवर्त्मसु । गौरः श्वेतेऽरुणे पीते विशुद्धे चाभिधेयवत् ॥ २७ ॥ ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेशरे । गौरी त्वसञ्जातरजःकन्याशङ्करभार्य्ययोः ॥ २८ ॥ रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च । ;p{0125} आपगाया विशेषे च यादसांपतियोषिति ॥ २९ ॥ घस्रस्तु दिवसे हिंस्रे घोरो भीमे हरेऽपि च । चरोऽक्षद्यूतभेदे च भौमे चारे त्रसे चले ॥ ३० ॥ चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु । चक्रः कोके पुमान् क्लीबं वज्रं सैन्यरथाङ्गयोः ॥ ३१ ॥ राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः । जलावर्त्तेऽप्यथ चरुः पुमान् हव्यान्नभाण्डयोः ॥ ३२ ॥ चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः । चारुर्बृहस्पतौ पुंसि शोभने त्वभिधेयवत् ॥ ३३ ॥ चित्राखुपर्णीगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् ॥ ३४ ॥ तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गं चीरी झिल्ल्यां नपुंसकम् ॥ ३५ ॥ गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः । चुक्रं वृक्षाम्ले चाङ्गेर्य्यां स्त्री पुंस्यम्लेऽम्लवेतसे ॥ ३६ ॥ चैत्रं मृतदेवकुले ना भूभृन्मासभेदयोः । चौरः पाटच्चरेऽपि स्यात् चोरपुष्पौषधावपि ॥ ३७ ॥ क्षत्रा मिसावतिच्छत्रे कुस्तुम्बुरुशिलीन्ध्रयोः । नपुंसकञ्चातपत्रे छिद्रं दूषणरन्ध्रयोः ॥ ३८ ॥ जारी स्यादोषधीभेदे स्त्रियामुपपतौ पुमान् । जीरस्तु जरणे खड्गे टारो लङ्गतुरङ्गयोः ॥ ३९ ॥ तरस्तु जरणे पुंसि कृशानौ पेटके तरी । तन्त्रं कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे ॥ ४० ॥ प्रधाने तन्तुवाये च शास्त्रभेदे परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके ॥ ४१ ॥ इतिकर्त्तव्यतायाञ्च तन्त्री वीणागुणे मता । अमृतादेहशिरयोस्तन्द्री निद्राप्रमीलयोः ॥ ४२ ॥ तारो वानरभिन्मुक्ताविशुद्ध्योः शुद्धमौक्तिके । ;p{0126} ना नक्षत्रेऽक्षिमध्ये च न ना रूप्यं नपुंसकम् ॥ ४३ ॥ स्त्री बुद्धदेवताभेदे बालिगीष्पतिभार्य्ययोः । त्रिलिङ्गोऽत्युच्चशब्दे च ताम्रं शूल्वेऽरुणेऽपि च ॥ ४४ ॥ तीव्रा तु कटुरोहिण्यां राजिकामण्डदूर्वयोः । त्रिष्वत्युष्णे नितान्ते च कटौ तीरन्तु रोधसि ॥ ४५ ॥ पुंसि त्रपुणि तोत्रन्तु प्राजने वेणुकेऽपि च । दरोऽस्त्री साध्वसे गर्त्ते कन्दरे तु दरी मता ॥ ४६ ॥ दराव्ययं मनागर्थे दस्रः खरेऽश्विनीसुते । दारुः स्यात् पित्तले काष्ठे देवदारौ नपुंसकम् ॥ ४७ ॥ द्वारं निर्गमनेऽपि स्यादभ्युपाये धरो गिरौ । कार्पासतूलके कूर्मराजे वस्वन्तरेऽपि च ॥ ४८ ॥ धरा विश्वम्भरायाञ्च स्त्री गर्भाशयमेदसोः । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ ४९ ॥ धारा सैन्याग्रिमस्कन्दे तुरङ्गगतिपञ्चके । घटादिच्छिद्रसन्तत्योः प्रपाते स्याद् द्रवस्य च ॥ ५० ॥ खड्गादेर्निशितमुखे धारो ग्रावान्तरेऽप्यृणे । धीरा धैर्य्यान्विते स्वैरे बुधे क्लीबन्तु कुङ्कुमे ॥ ५१ ॥ स्त्रियां प्रवणतुल्यायां नरोऽजे मनुजेऽर्जुने । क्लीबन्तु रामकर्पूरे नक्रं स्यादग्रदारुणि ॥ ५२ ॥ नासायां पुंसि कुम्भीरे नारस्तर्णकनीरयोः । नीब्रं नेमौ वलीकेन्द्वोः रेवतीभेऽपि कानने ॥ ५३ ॥ नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्याञ्च नेत्री नाड्याञ्च योषिति ॥ ५४ ॥ परः श्रेष्ठोरिदूरान्योत्तरे क्लीबन्तु केवले । पत्रन्तु वाहने पर्णे स्यात् पक्षे शरपक्षिणोः ॥ ५५ ॥ पारं परतटे प्रान्ते न स्त्री पारा नदीभिदि । पारी पूरे च कर्कर्य्यां पादरज्जौ च दन्तिनः ॥ ५६ ॥ पात्रं स्रुवादौ पर्णे च भाजने राजमन्त्रिणि । ;p{0127} तीरद्वयान्तरे योग्ये पुरुः प्राज्येऽभिधेयवत् ॥ ५७ ॥ पुंसि स्याद् देवलोके च नृपभेदपरागयोः । पुरं नपुंसकं गेहे देहपाटीलपुत्रयोः ॥ ५८ ॥ पुष्पादीनां दलावृत्तौ ना गुग्गुलौ न ना पुरि । पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके ॥ ५९ ॥ चित्रे कृमौ पुण्डरीके पुंभूम्नि नीवृदन्तरे । पूरो जलसमूहे स्याद् व्रणसंशुद्धिखाद्ययोः ॥ ६० ॥ पोत्रं वज्रे मुखाग्रे च शूकरस्य हलस्य च । पौरं त्रिषु पुरोद्भूते कत्तृणे तु नपुंसकम् ॥ ६१ ॥ वरो जामातरि वृतौ देवतादेरभीप्सिते । षिड्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् ॥ ६२ ॥ वरी प्रोक्ता शतावर्य्यां वरा च स्यात् फलत्रिके । मनागिष्टे वरं क्लीबे केचिदाहुस्तदव्ययम् ॥ ६३ ॥ बभ्रुर्वैश्वानरे शूलपाणौ च गरुडध्वजे । विशाले नकुले पुंसि पिङ्गले त्वभिधेयवत् ॥ ६४ ॥ वक्रः शनैश्चरे पुंसि पुटभेदे नपुंसकम् । त्रिषु क्रूरे च कुटिले वारः सू्र्य्यादिवासरे ॥ ६५ ॥ द्वारे हरे कुब्जवृक्षे वृन्दावसरयोः क्षणे । वारी स्याद् गजबन्धन्यां कलस्यामपि योषिति ॥ ६६ ॥ वारिर्वाग्गजबन्धन्योः स्त्री क्लीबेऽम्बुनि बालके । वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिषु ॥ ६७ ॥ स्त्री सुराक्षीरकाकोलीतामलक्येलवालुके । पतिपुत्रवतीरम्भागम्भारीदुग्धिकासु च ॥ ६८ ॥ मलपूक्षीरविदार्य्योः क्लीबं शृङ्ग्यां नलेऽपि च । भरुः स्वर्णे हरे पुंसि भरोऽतिशयभारयोः ॥ ६९ ॥ भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः ॥ ७० ॥ काञ्चने च स्त्रियां रास्नाकृष्णाव्योमनदीषु च । ;p{0128} तिथिभेदे प्रसारिण्यां कट्फलानन्तयोरपि ॥ ७१ ॥ त्रिषु श्रेष्ठे च साधौ स्यान्न पुंसि करणान्तरे । भारः स्याद् वीवघे विष्णौ पलानां द्विसहस्रके ॥ ७२ ॥ भीरुरार्त्ते त्रिलिङ्गः स्याद् वरयोषिति योषिति । भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि ॥ ७३ ॥ नपुंसकं सुवर्णे च प्राज्ये स्याद् वाच्यलिङ्गकः । मन्त्रो वेदविशेषे स्याद् देवादीनाञ्च साधने ॥ ७४ ॥ गुह्यवादेऽपि च पुमान् मरुर्ना गिरिधन्वनोः । मात्रा कर्णविभूषायां वित्ते माने परिच्छदे ॥ ७५ ॥ अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे । मारा मृत्यौ स्मरे विघ्ने मारी चण्ड्यां जनक्षये ॥ ७६ ॥ मारिः स्त्री मारणे वर्षे मित्रं सुहृदि न द्वयोः । सूर्य्ये पुंसि मुरा गन्धद्रव्ये दैत्यान्तरे पुमान् ॥ ७७ ॥ यात्रा तु यापनेऽपि स्याद् गमनोत्सवयोः स्त्रियाम् । रन्ध्रन्तु दूषणे छिद्रे राष्ट्रं स्यादुपवर्त्तने ॥ ७८ ॥ उपद्रवे क्लीबपुंसोः रुरुर्ना मृगदैत्ययोः । रेत्रं रेतसि पीयूषे पटवासे च सूतके ॥ ७९ ॥ रोध्रो ना सावरे क्लीबमपराधे च किल्विषे । रौद्रो धर्मे रसे चण्ड्यां स्त्री तीव्रे भीषणे त्रिषु ॥ ८० ॥ वज्रं स्याद् बालके धात्र्यां क्लीबं योगान्तरे पुमान् । वज्रा स्नुह्यां गुडूच्याञ्च वज्री स्नुह्यन्तरे स्मृता ॥ ८१ ॥ दम्भोलौ हरिकेऽप्यस्त्री बध्रं त्रपुवरत्रयोः । वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे ॥ ८२ ॥ वक्त्रं मुखे वृत्तभेदे व्यग्रो व्यासक्त आकुले । वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे ॥ ८३ ॥ व्याघ्रः स्यात् पुंसि शार्दूले रक्तैरण्डकरञ्जयोः । श्रेष्ठे नराद्युत्तरस्थः कण्टकार्य्यान्तु योषिति ॥ ८४ ॥ वृत्रो रिपौ धने ध्वान्ते तैलभेदे च दानवे । ;p{0129} वेरं कलेवरे क्लीबं वार्ताकौ कुङ्कुमेऽपि च ॥ ८५ ॥ वोड्री स्त्री पणपादे ना गोनसाहौ झषान्तरे । शरस्तेजनके बाणे दध्यग्रे ना शरं जले ॥ ८६ ॥ शस्त्रं लौहास्त्रयोः क्लीबं छुरिकायान्तु योषिति । शक्रः पुमान् देवराजे कुटजार्जुनभूरुहोः ॥ ८७ ॥ शद्रिर्नाऽम्भोधरे जिष्णौ शरुर्ना कोषवज्रयोः । शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे ॥ ८८ ॥ युद्धार्थगजपर्य्याणे व्यवहारान्तरेऽपि च । शारः स्यात् शबले वाच्यलिङ्गः पुंसि समीरणे ॥ ८९ ॥ अक्षोपकरणे शास्त्रं न द्वयोरागमाज्ञयोः । शिग्रुर्ना शाकमात्रे च शेाभाञ्जनमहीरुहे ॥ ९० ॥ शिरो ना पिप्पलीमूले स्याद् धमन्याञ्च योषिति । शीघ्रं नलदे चक्राङ्गे क्लीबं द्रुतगतौ त्रिषु ॥ ९१ ॥ शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोस्त्रिषु । शुक्रः स्याद् भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् ॥ ९२ ॥ रेतोऽक्षिरुग्भिदोः क्लीबं शूरः स्याद् यादवे भटे । स्वरुः पुंसि यूपखण्डे भिदुरेऽप्यधरे शरे ॥ ९३ ॥ सत्रं यज्ञे सदादानाच्छादनारण्यकेतवे । सरो दध्यग्रगत्योर्ना स्वरो नासासमीरणे ॥ ९४ ॥ उदात्तादावकारादौ षड्रजादौ च ध्वनौ पुमान् । सारो बले स्थिरांशे च मज्ज्नि पुंसि जले धने ॥ ९५ ॥ न्याय्ये क्लीबं त्रिषु वरे सान्द्रं वने घने मृदौ । स्फारः स्यात् पुंसि विकटे कनकादेश्च बुद्बुदे ॥ ९६ ॥ सिप्रो निदाघसलिले सिप्रा तु सरिदन्तरे । स्थिरा भूशालपर्ण्योर्ना शनौ मोक्षेऽचले त्रिषु ॥ ९७ ॥ सीरोऽर्कहलयोः पुंसि सुरा चषकमद्ययोः । पुंलिङ्गस्त्रिदिवेशे स्यात् सूत्रं तन्तुव्यवस्थयोः ॥ ९८ ॥ शास्त्रादिसूत्रणाग्रन्थे स्वैरः स्वच्छन्दमन्दयोः । ;p{0130} हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु ॥ ९९ ॥ कपौ सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत् पिङ्गहरितोर्हारो मुक्तावलौ युधि ॥ १०० ॥ हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम् । हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्याद् घातुकेऽन्यवत् ॥ १०१ ॥ हीरा तैलाम्बुकालक्ष्म्योः पुंसि शङ्करवज्रयोः । होरा लग्नेऽपि राश्यर्द्धे रेखाशास्त्रभिदोरपि ॥ १०२ ॥ ;v{रत्रिकम्} ;c{रत्रिकम्} अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे । स्त्री गुडूच्यमरावत्योः स्थूणादूर्वाजरायुषु ॥ १०३ ॥ अपरं गजपश्चार्द्धे स्याज्जरायौ तु योषिति । इतरस्मिन्नपि तथाऽर्वाचीनेऽप्यन्यलिङ्गकम् ॥ १०४ ॥ अधरस्तु पुमानोष्ठे हीनेऽनूर्द्ध्वे वाच्यचत् । अध्वरः सावधाने स्याद् वसुभेदे क्रतौ पुमान् ॥ १०५ ॥ अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये । छिद्रात्मीयविनावहिरवसरमध्यात्मसदृशेषु ॥ १०६ ॥ अवरं गजान्त्यजङ्घादिदेशे चरमे त्रिषु । अम्बरं न द्वयोर्व्योम्नि सुगन्ध्यन्तरवस्त्रयोः ॥ १०७ ॥ अङ्गारमुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते । अङ्कुरो रुधिरे लोम्नि पानीयेऽभिनवोद्भिदि ॥ १०८ ॥ अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ । स्त्री चण्ड्यामक्षरं ब्रह्मवर्णयोः पुंसि शङ्करे ॥ १०९ ॥ अशिरो वीतिहोत्रे स्याद्राक्षसे भास्करे पुमान् । अण्डीरः पुरुषे शक्तेऽररं छदकपाटयोः ॥ ११० ॥ अवीराऽपतिपुत्रायां स्त्री सत्त्वरहिते त्रिषु । अगुरु क्लीबं जोङ्गकशिंशपयोर्वाच्यवल्लघुनि ॥ १११ ॥ असुरा रजनीराश्योरसुरो देवारिभास्करयोः । आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ॥ ११२ ॥ ;p{0131} आधारश्चाधिकरणेऽप्यालबालेऽम्बुधारणे । आसारः स्यात् प्रसरणे वेगवृष्टौ सुहृद्वले ॥ ११३ ॥ आहारः स्यादाहरणे भोजने च पुमानयम् । आशरस्तु पुमान् वैश्वानरे च रजनीचरे ॥ ११४ ॥ आकार इङ्गिताकृत्योरितरोऽन्यत्र पामरे । इत्वर्य्यसत्यां पथिके क्रूरकर्मणि च त्रिषु ॥ ११५ ॥ ईश्वरो मन्मथे शम्भौ नाऽऽढ्ये स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायामुदरं जठरे युधि ॥ ११६ ॥ उदारो दातृमहतोर्दक्षिणे चाभिधेयवत् । उर्वरा सर्वशस्याढ्यभूमौ स्याद् भूमिमात्रके ॥ ११७ ॥ उत्तरा दिग्विशेषे च स्नुषायामर्जुनस्य च । विराटस्य सुते ना स्यादूर्द्ध्वोदीच्योत्तमे त्रिषु ॥ ११८ ॥ नपुंसकं प्रतिवाक्येऽथोद्धारश्चोद्धृतावृणे । ऋक्षरं वारिधारायामृक्षरश्चर्त्विजि स्मृतः ॥ ११९ ॥ एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्यनाकुले । औशीरं शयनासनचामरदण्डेऽप्युशीरजे प्रोक्तम् ॥ १२० ॥ क्रकरः करीरवृक्षे दीने क्रकचे च पक्षिभेदे च । कदरः श्वेतखदिरे क्रकचव्याधिभेदयोः ॥ १२१ ॥ कर्बुरं सलिले हेम्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत् ॥ १२२ ॥ कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोः । कन्धरो वारिवाहे स्याद् ग्रीवायां कन्धरा मता ॥ १२३ ॥ कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी । कञ्जरो जठरे सूर्य्ये विरिञ्चौ वारणे मुनौ ॥ १२४ ॥ करीरो वंशाङ्कुरेऽस्त्री वृक्षभिद्घटयोः पुमान् । करीरी चीरिकायाञ्च दन्तमूले च दन्तिनाम् ॥ १२५ ॥ कटित्रं रशनायाञ्च चर्माङ्गे कीटवाससि । कच्छुरा शूकशिम्ब्याञ्च शटीदुष्पर्शयोरपि ॥ १२६ ॥ ;p{0132} कच्छुरः पुंश्चले कच्छुयुक्ते च कवरी पुनः । पृथ्वीतुङ्गयोः केशवेशे कवरं लवणाम्लयोः ॥ १२७ ॥ कवर्य्युमायां ना रक्षःपापयोर्भेषजान्तरे । कर्मारो जातिभेदे च त्वचिसारे च पुंस्ययम् ॥ १२८ ॥ कणेरुः कर्णिकारे च करिणीवेश्ययोः स्त्रियाम् । कच्चरं कुत्सिते वाच्यलिङ्गं तक्रे नपुंसकम् ॥ १२९ ॥ कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिषु । कडारः पिङ्गले दासे कलत्रं श्रोणिभार्य्ययोः ॥ १३० ॥ दुर्गस्थाने नृपादीनां कटप्रूः पुंसि राक्षसे । विद्याधरे महादेवे तथा स्यादक्षदेवते ॥ १३१ ॥ कन्दरस्त्वङ्कुशे पुंसि गुहायाञ्च नपुंसकम् । कर्बुरः स्यात् पुमान् शट्यां सुवर्ण तु नपुंसकम् ॥ १३२ ॥ काश्मीरं कुङ्कुमेऽपि स्यात् टङ्कपुष्करमूलयोः । कावेरी स्यात् सारिद्भेदे पुण्यनारीहरिद्रयोः ॥ १३३ ॥ कान्तारोऽस्त्री महारण्ये विले दुर्गमवर्त्मनि । पुंसि स्यादिक्षुभेदेऽथ किशोरोऽश्वस्य शावके ॥ १३४ ॥ तैलपर्ण्योषधौ च स्यात् तरुणावस्थसूर्य्ययोः । किर्मीरो नागरङ्गे च कर्बुरे राक्षसान्तरे ॥ १३५ ॥ किंशारुर्ना शस्यशूके विशिखे कङ्कपक्षिणि । कुहरं गह्वरे छिद्रे क्लीबं नागान्तरे पुमान् ॥ १३६ ॥ कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम् । कूर्परः स्यात् कफोणौ च जानुन्यपि च पुंस्ययम् ॥ १३७ ॥ कुञ्जरोऽनेकपे केशे स्त्री धातक्याञ्च पाटलौ । कुमारः स्यात् शुके स्कन्दे युवराजेऽश्वचारके ॥ १३८ ॥ बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने । कुमारी शैलतनयानवमाल्योर्नदीभिदि ॥ १३९ ॥ सहापराजिताकन्याजम्बुद्वीपेषु च स्त्रियाम् । कुठारुर्ना द्रमे कीशे कुट्टारं केवले रते ॥ १४० ॥ ;p{0133} कुबेरः स्यात् पुंसि नन्दीवृक्षे पुण्यजनेश्वरे । कूबरस्त्रिषु चारौ ना कुब्जके स्त्री युगन्धरे ॥ १४१ ॥ केशरं हिङ्गुले क्लीबं किञ्जल्के न स्त्रियां पुमान् । सिंहसटायां पुन्नागे बकुले नागकेशरे ॥ १४२ ॥ केदारोऽद्रौ शिवे क्षेत्रे भूमिभेदालवालयोः । केनारः कुम्भिनरके शिरःकपोलसन्धिषु ॥ १४३ ॥ कोटिरः पुंसि नकुले शत्रुगोपकशक्रयोः । कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ॥ १४४ ॥ खपुरः क्रमुके भद्रमुस्तके कलशेऽपि च । खर्परस्तस्करे धूर्त्ते भिक्षाभाण्डकपालयोः ॥ १४५ ॥ खर्जूरं रूप्यखलयोर्वृश्चिके ना द्रुमे द्वयोः । खदिरी शाकभेदे स्त्री ना चन्द्रे दन्तधावने ॥ १४६ ॥ खण्डाभ्रमभ्रलेशे स्यात् तथा दन्तक्षतान्तरे । खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिबालके ॥ १४७ ॥ गणेरुः कर्णिकाराद्रौ करिणीवेश्ययोः स्त्रियाम् । गर्गरो मीनभेदे स्त्री मन्थन्यामथ गह्वरम् ॥ १४८ ॥ गुहागहनदम्भेषु निकुञ्जे तु पुमानयम् । गान्धारः पुंसि सिन्दूरे रागदेशप्रभेदयोः ॥ १४९ ॥ गायत्री त्रिपदादेवीच्छन्दोभित्खदिरेषु च । गोपुरं द्वारि पूर्द्वारि कैवर्त्तीमुस्तकेऽपि च ॥ १५० ॥ घर्घरो ना चलद्वारिध्वानोलूकनदान्तरे । स्त्री क्षुद्रघण्ट्यां वीणाया भेदे स्वरान्तरे त्रिषु ॥ १५१ ॥ चमरं चामरे स्त्री तु मञ्जरी मृगभेदयोः । चन्दिरोऽनेकपे चन्द्रे चत्वरं स्थण्डिलेऽङ्गने ॥ १५२ ॥ चङ्कुरः स्याद्रथे वृक्षे चातुरो नेत्रगोचरे । चाटुकारिनियन्त्रोश्च त्रिषु दाक्ष्ये तु चातुरी ॥ १५३ ॥ चक्रगण्डौ च पुंसि स्याच्चामरं चमरापि च । दण्डे च बालव्यजने चिकुरस्तरलागसोः ॥ १५४ ॥ ;p{0134} पक्षिवृक्षभिदोः केशे गृहबभ्रौ सरीसृपे । छिदिरः पावके रज्जौ करबाले परश्वधे ॥ १५५ ॥ छिदुरश्छेदनद्रव्ये धूर्त्ते वैरिणि च त्रिषु । जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु ॥ १५६ ॥ जर्जरः शैवले शक्रध्वजे त्रिषु जरातुरे । जम्बारः प्रस्थपुष्पे स्यात् तथा दन्तशठद्रुमे ॥ १५७ ॥ जलेन्द्रः पुंसि वरुणे जम्भले च महोदधौ । झर्झरः स्यात् कलियुगे वाद्यभाण्डे नदान्तरे ॥ १५८ ॥ झल्लरी झलरी च द्वे हुडक्के बालचक्रके । टट्टरी स्यान् मृषावादे लम्पापटहवाद्ययोः ॥ १५९ ॥ टङ्कारो विस्मये पुंसि प्रसिद्धौ शिञ्जिनीध्वनौ । टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे ॥ १६० ॥ नाऽन्यवत् केकराक्षे स्याद् डिङ्गरी डङ्गरेऽपि च । क्षेपे तमिस्रं तिमिरे कोपे स्त्री तु तमस्ततौ ॥ १६१ ॥ कृष्णपक्षनिशायाञ्च त्वक्पत्रन्तु वराङ्गके । स्त्री कारव्याञ्च तिमिरं ध्वान्ते नेत्रामयान्तरे ॥ १६२ ॥ धीवरो नाऽम्बुधौ व्याधे तुम्बुरी कुक्कुरस्त्रियाम् । धन्याकेऽपि तुषारस्तु शीतले शीकरे हिमे ॥ १६३ ॥ तुवरस्तु कषाये स्यात् काक्ष्याढक्योस्तुवर्य्यपि । तूवरोऽश्मश्रुपुरुषेऽप्रौढशृङ्गगवेऽपि च ॥ १६४ ॥ पुरुषव्यञ्जनत्यक्ते स्यात् कषायरसेऽपि च । दहरो भ्रातरि स्वल्पे भूषिकायाञ्च बालके ॥ १६५ ॥ दन्तुरस्तून्नतरदे तथोन्नतानते त्रिषु । दर्दरः पर्वते पुंसि त्रिष्वीषद्भग्नभाजने ॥ १६६ ॥ दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद् ग्रामजाले नपुंसकम् ॥ १६७ ॥ दण्डारो वहने मत्तवारणे शरयन्त्रके । कुम्भकारस्य चक्रे च द्वापरः संशये युगे ॥ १६८ ॥ ;p{0135} दासेरो दासिकापत्ये त्रिषु पुंसि क्रमेलके । दुर्द्धरः पुंसि नरकान्तरे स्वादृषभौषधे ॥ १६९ ॥ दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे । धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे ॥ १७० ॥ नरेन्द्रस्तु महीपाले विषवैद्ये च पुंस्ययम् । नर्मरा तु दरीभस्त्रासरलानिष्कलासु च ॥ १७१ ॥ नागरं मुस्तके शुण्ठ्यां विदग्धे नगरोद्भवे । निकरो निवहे सारे न्यायदेयधने निधौ ॥ १७२ ॥ निर्जरः स्यात् पुमान् देवे जरात्यक्ते तु वाच्यवत् । निर्जरा तु गुडूच्याञ्च तालपर्ण्यामपि स्त्रियाम् ॥ १७३ ॥ निर्झरस्तु सहस्रांशुतुरङ्गे तुषपावके । निकारः स्यात् परिभवे धान्यस्योत्क्षेपणेऽपि च ॥ १७४ ॥ निर्दरं निर्भरे सारेऽन्यवत्तु कठिनेऽत्रपे । स्यान्नीवरो वाणिजके वास्तव्ये च पुमानयम् ॥ १७५ ॥ प्रवरं सन्ततौ गोत्रे क्लीबं श्रेष्ठे तु वाच्यवत् । प्रखरं हयसन्नाहे कुक्कुरेऽश्वतरेऽपि च ॥ १७६ ॥ पुंसि त्रिष्वत्यन्तखरे पवित्रं वर्षणे कुशे । ताम्रे पयसि च क्लीबं मेध्ये स्यादभिधेयवत् ॥ १७७ ॥ प्रदरो रोगभेदे स्याद् विदारे शरभङ्गयोः । प्रकरः स्यात् पुमान् सङ्घे विकीर्णकुसुमादिषु ॥ १७८ ॥ नपुंसकं जोङ्गके स्त्री नाट्याङ्गे चत्वरावनौ । पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ॥ १७९ ॥ प्रस्तरो ग्राव्णि च मणौ प्रकारस्तुल्यभेदयोः । पदारः पादधूलौ स्यात् पादालिन्देऽपि पुंस्ययम् ॥ १८० ॥ प्रसरः प्रणये वेगे स्यात् पटीरस्तु मूलके । केदारे वेणुसारे च वारिदे तितउन्यपि ॥ १८१ ॥ स्याद्रङ्गे वातिके पुंसि पामरः खलनीचयोः । पाण्डुरः स्यान्मरुबके वर्णो ना तद्वति त्रिषु ॥ १८२ ॥ ;p{0136} पार्परो भक्तशिक्थे स्यात् कीनाशे राजयक्ष्मणि । जराटेऽपि कदम्बस्य केशरे च गदान्तरे ॥ १८३ ॥ प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे । पिठरः स्थाल्यां ना क्लीबं मुस्तामन्थानदण्डयोः ॥ १८४ ॥ पिञ्जरोऽश्वान्तरे पीते क्लीबं स्वर्णे च पीतने । पिण्डारः क्षपणे गोपे महिषीरक्षके द्रुमे ॥ १८५ ॥ पीवरः कच्छपे स्थूले पुष्करं खेऽम्बुपद्मयोः । तुर्य्यवक्त्रे खड्गफले हस्तिहस्ताग्रकाण्डयोः ॥ १८६ ॥ कुष्ठौषधे द्वीपतीर्थभेदयोश्च नपुंसकम् । ना रोगनागविहगनृपभेदेषु वारुणौ ॥ १८७ ॥ बण्ठरः स्थगिकारज्जौ लाङ्गूले कुक्कुरस्य च । करीरकोषे तालस्य पल्लवे च पयोधरे ॥ १८८ ॥ बन्धुरं मुकुटे पुंसि स्त्रीचिह्नतैलकल्कयोः । बन्धूके बधिरे हंसे त्रिषु स्याद्रम्यनम्रयोः ॥ १८९ ॥ बन्धूरा पण्ययोषायां स्त्रियां पुंभूम्नि शक्तुषु । बन्धूरः शोभने नम्रे वरत्रा वर्द्धीकक्षयोः ॥ १९० ॥ भ्रमरः कामुके भृङ्गे भ्रामरं मधुनि स्मृतम् । पुंसि प्रस्तरभेदेऽथ भास्करोऽग्नौ प्रभाकरे ॥ १९१ ॥ भार्य्यारुः शैलभेदे स्यान् मृगभेदे च तत्र च । क्रीडया परभार्य्यायां पुत्रो येनोपपादितः ॥ १९२ ॥ भृङ्गारी झिल्लिकायां स्यात् कनकालौ पुनः पुमान् । मत्सरा मक्षिकायां स्यान् मात्सर्य्यक्रोधयोः पुमान् ॥ १९३ ॥ असह्यपरसम्पत्तौ कृपणे चाभिधेयवत् । मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः ॥ १९४ ॥ मधुकर्कटिकाभेदामधुलीयष्टिकासु च । क्लीबं विषे पुंसि रसे तद्वत् स्वादुप्रियेऽन्यवत् ॥ १९५ ॥ मन्दरस्तु पुमान् मन्थशैले मन्दारपादपे । वाच्यवद् बहले मन्दे मन्दारः स्यात् सुरद्रुमे ॥ १९६ ॥ ;p{0137} पारिभद्रेऽर्कपर्णे च मदारो हस्तिधूर्त्तयोः । मन्दिरं नगरेऽगारे क्लीबं ना मकरालये ॥ १९७ ॥ मन्थरः कोषफलयोर्बाधमन्थानयोः पुमान् । कुसुम्भ्यां न द्वयोर्मन्दे पृथौ वक्रेऽभिधेयवत् ॥ १९८ ॥ मकरो यादसो भेदे निधिराशिप्रभेदयोः । मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि ॥ १९९ ॥ महेन्द्रः पर्वते शक्रे मधुद्रोऽलौ च कामुके । मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ २०० ॥ मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ॥ २०१ ॥ मर्मरो वस्त्रपर्णादिस्वने स्त्री पोतदारुणि । मञ्जरी तिलकद्रूरुमुक्तयोर्वल्लरी द्वयोः ॥ २०२ ॥ मकुरः स्यात् मुकुरवद् दर्पणे बकुलद्रुमे । कुलालदण्डे माठरो व्यासेऽर्कपारिपार्श्विके ॥ २०३ ॥ मार्जार ओतौ खट्टाशे मिहिरः सूर्यवृद्धयोः । मुद्गरं कल्लिकाभेदे पुंसि लोष्ट्रादिभेदने ॥ २०४ ॥ मुदिरः कामुके मेघे मुहिरः काममूर्खयोः । मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ॥ २०५ ॥ मृगारिः स्यात् पुंसि कण्ठीरवशार्दूलयोरपि । रुधिरोऽङ्गारके पुंसि क्लीबन्तु कुङ्कुमासृजोः ॥ २०६ ॥ वदरा गृष्टिकार्पास्योरेलापर्ण्यां स्त्रियां पुमान् । कार्पासस्यास्थ्नि बदरी कोलौ क्लीबन्तु तत्फले ॥ २०७ ॥ वटरः कुक्कुटे वस्त्रे शठे च वशिरः पुमान् । किनिहीहस्तिपिप्पल्योः क्लीबेऽब्धिलवणे स्मृतः ॥ २०८ ॥ वर्वरः पामरे केशे चक्रले नीवृदन्तरे । फञ्जिकायां पुमान् शाकभेदपुष्पभिदोः स्त्रियाम् ॥ २०९ ॥ वर्करः परिहासे स्याच्छागे युवपशावपि । वल्लुरं स्याद् वनक्षेत्रे गहनोषरयोरपि ॥ २१० ॥ ;p{0138} वल्लुरो त्रिषु संशुष्कमांसशूकरमांसयोः । वार्दरं कृष्णलाबीजदक्षिणावर्त्तशङ्खयोः ॥ २११ ॥ नीरे च काकचिञ्चायां भारत्याञ्च नपुंसकम् । वागरस्तु गतातङ्के मुमुक्षौ वातवेष्टके ॥ २१२ ॥ विशारदे विषाणेऽपि निर्णये वारकेऽपि च । वासरस्तु पुमान् नागविशेषे दिवसेऽस्त्रियाम् ॥ २१३ ॥ वासुरा वासितायां स्याद् वासतेयभुवि स्त्रियाम् । विष्टरः कुशमुष्टौ स्यादासने च महीरुहे ॥ २१४ ॥ विस्तरो वाक्प्रपञ्चे स्याद् विस्तारे प्रणयेऽपि च । विदुरो नागरे धीरे कौरवाणाञ्च मन्त्रिणि ॥ २१५ ॥ विधुरं स्यात् प्रविश्लेषे न द्वयोर्विकले त्रिषु । रसालायां स्त्री विदारो जलोच्छ्वासाजिदारणे ॥ २१६ ॥ विदारी शीलपर्ण्याञ्च रोगभेदेक्षुगन्धयोः । विवरं दूषणे गर्त्ते विसरः प्रसरे व्रजे ॥ २१७ ॥ विस्तारो विस्तृतौ स्तम्बे विकारो विकृतौ रुजि । विहारी भ्रमणे स्कन्धे लीलायां सुगतालये ॥ २१८ ॥ शबरो म्लेच्छभेदे च पानीये शङ्करेऽपि च । शम्बरं सलिले पुंसि मृगदैत्यविशेषयोः ॥ २१९ ॥ शम्बरी चाखुपर्ण्यां स्यात् शर्वरी यामिनीस्त्रियोः । शर्करा खण्डविकृतावुपलाकर्परांशयोः ॥ २२० ॥ शर्कराऽन्वितदेशेऽपि रुग्भेदे सकलेऽपि च । शक्वरी छन्दसो भेदे नदीमेखलयोरपि ॥ २२१ ॥ शणीरं शीणमध्यस्थपुलिने दर्दरीतटे । श्वशुरः पूज्ये स्त्री ब्राह्म्यां शारीरं देहजे वृषे ॥ २२२ ॥ शार्करः स्याद् दुग्धफेनशर्करान्वितदेशयोः । शाङ्करस्तु बलीवर्दे छन्दोभेदे नपुंसकम् ॥ २२३ ॥ शार्वरन्त्वन्धतमसे घातुके भेद्यलिङ्गकम् । शालारं स्याद् हस्तिनखे सोपने पक्षिपञ्जरे ॥ २२४ ॥ ;p{0139} शावरी शूकशिम्ब्यां स्यात् पुंसि पापापराधयोः । लोध्रे च शाङ्करिः पुंसि कार्त्तिकेये गणाधिपे ॥ २२५ ॥ शिखरोऽस्त्री द्रुमाग्रेऽद्रिशृङ्गे पुलककक्षयोः । पक्वदाडिमबीजाभमाणिक्यशकलाऽग्रयोः ॥ २२६ ॥ शिशिरो ना हिमे न स्त्री ऋतुभेदे जडे त्रिषु । शिलीन्द्रं कन्दलीपुष्पे करके ना झषान्तरे ॥ २२७ ॥ द्रुभेदे स्त्री तु विहगीभेदे गण्डूपदीमृदोः । शीकरं शरले वातसृताम्बुकणयोः पुमान् ॥ २२८ ॥ शुषिरं वंश्यादिवाद्ये विवरे च नपुंसकम् । मूषिके ना स्त्रियां नल्योषधौ रन्ध्रान्विते त्रिषु ॥ २२९ ॥ शृङ्गारः सुरते नाट्यरसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसम्भवचूर्णयोः ॥ २३० ॥ शम्बरो दैत्यहरिणमत्स्यशैलजिनान्तरे । नपुंसकन्तु सलिलबौद्धव्रतविशेषयोः ॥ २३१ ॥ सङ्कारोऽग्निचटत्कारे सम्मार्जन्यवपुञ्जिते । नवदूषितकन्यायां सङ्कारी पुनरुच्यते ॥ २३२ ॥ संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । संस्तरः प्रस्तरे यज्ञे सङ्गरो युधि चापदि ॥ २३३ ॥ क्रियाकारे विषे चाङ्गीकारे क्लीबं शमीफले । सम्भारः सम्भृतौ सङ्घे सामुद्रं देहलक्षणे ॥ २३४ ॥ समुद्रजेऽन्यलिङ्गोऽथ सावित्रः शङ्करे वसौ । सावित्री सत्यवत्पत्न्यां ब्रह्मपत्न्युमयोरिपि ॥ २३५ ॥ सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके । सिन्दूरी रोचनारक्तचेलिकाधातकीषु च ॥ २३६ ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः । सुन्दरी तरुभिन्नारीभिदोः स्त्री रुचिरेऽन्यवत् ॥ २३७ ॥ सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् । वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ॥ २३८ ॥ ;p{0140} सौवीरं काञ्जिके स्रोतेाऽञ्जने च बदरीफले । ना तु नीवृति हारिद्रं हरिद्रारञ्जिते त्रिषु ॥ २३९ ॥ ना नीपवृक्षे हिण्डीरः फेनवार्त्ताकुपूरुषे । ;v{रचतुष्कम्} ;c{रचतुष्कम्} अरुष्करो व्रणकृति त्रिषु भल्लातके पुमान् ॥ २४० ॥ भवेदभिमरो युद्धे वधे स्वबलसाध्वसे । अनुत्तरं त्रिषु श्रेष्ठे प्रतिजल्पविवर्जिते ॥ २४१ ॥ अलङ्कारस्तु हारादावुपमादावलङ्कृतौ । अवहारः पुमान् चौरे द्यूतयुद्धादिविश्रमे ॥ २४२ ॥ निमन्त्रणोपनेतव्यद्रव्ये ग्राहाक्षयादसि । अवतारोऽवतरणे पुष्करिण्यादितीर्थयोः ॥ २४३ ॥ अवस्कारोऽपि वर्चस्के गुह्येऽथावसरः पुमान् । प्रस्तावे मन्त्रभेदे च वर्षणे चापि कीर्त्तितः ॥ २४४ ॥ उपलादावकूपारः कूर्मराजे महोदधौ । असिपत्रः खड्गकोषे पुमानिक्षौ च नारके ॥ २४५ ॥ भवेदश्वतरो वेगसरे नागान्तरेऽपि च । अभिहारोऽभियोगे च चौर्य्ये सन्नहनेऽपि च ॥ २४६ ॥ अग्निहोत्रोऽग्निहविषोरर्द्धचन्द्रोचन्द्रो नखक्षते । गलहस्ते बाणभेदे कृष्णत्रिवृति तु स्त्रियाम् ॥ २४७ ॥ आडम्बरस्तूर्य्यपक्ष्मसंरम्भे गजगर्जिते । आत्मवीरः प्राणवति श्यालके च विदूषके ॥ २४८ ॥ इन्दीवरं कुवलये शतावर्य्यान्तु योषिति । उदुम्बरस्तु देहल्यां वृक्षभेदे च षण्डके ॥ २४९ ॥ कुष्ठभेदेऽपि च पुमान् ताम्रे तु स्यान्नपुंसकम् । उपह्वरं समीपे स्यादेकान्ते च नपुंसकम् ॥ २५० ॥ उद्दन्तुरस्त्रिषूत्तुङ्गे करालोत्कटदण्डयोः । उपकारश्चोपकृतौ विकीर्णकुसुमादिषु ॥ २५१ ॥ औदुम्बरः श्राद्धदेवे रोगभेदे नपुंसकम् । ;p{0141} अथ कर्मकरो भृत्ये वेतनाजीविनि त्रिषु ॥ २५२ ॥ कीनाशे पुंसि मूर्वायां बिम्बिकायामपि स्त्रियाम् । कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ २५३ ॥ कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले । कर्णपूरः शिरीषे स्यान्नीलोत्पलावतंसयोः ॥ २५४ ॥ करवीरः कृपाणे स्याद् दैत्यभेदाश्वमारयोः । करवीर्य्यदितिश्रेष्ठगवीपुत्रवतीषु च ॥ २५५ ॥ कटम्भरा प्रसारण्यां रोहिण्यां गजयोषिति । कलविङ्कायां गोलायां वर्षाभूमूर्वयोरपि ॥ २५६ ॥ कादम्बरस्तु दध्यग्रे मद्यभेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीशारिकासु च ॥ २५७ ॥ कालञ्जरो योगिचक्रमेलके भैरवे गिरौ । कुम्भकारी कुलत्थ्याञ्च पुंलिङ्गो घटकारके ॥ २५८ ॥ कृष्णसारा शिंशपायां पुंसि स्नुह्यां मृगान्तरे । गिरिसारः पुमान् लोहे वङ्गे मलयपर्वते ॥ २५९ ॥ घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे । चराचरं वाच्यलिङ्गमिङ्गे जगति न द्वयोः ॥ २६० ॥ चर्मकारः पादुकृति स्त्रियां चर्मकषौषधौ । अथ चक्रधरोऽजेऽहौ ना त्रिषु ग्रामजालिनि ॥ २६१ ॥ चित्रटीरो विधौ भालमङ्कितं येन तत्र च । घण्टाकर्णोपहाराय हतच्छागास्रबिन्दुभिः ॥ २६२ ॥ तालपत्रन्तु ताडङ्के रण्डायां तालपत्र्यपि । तुङ्गभद्रा नदीभेदे स्त्रियां पुंसि मदोत्कटे ॥ २६३ ॥ तुण्डिकेरी तु कार्पास्यां बिम्बिकायामपि स्त्रियाम् । तुलाधारस्तुलाराशौ पुंसि वाणिजके त्रिषु ॥ २६४ ॥ अथ तोयधरो मुस्तासुनिषण्णौषधीघने । दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥ २६५ ॥ अथो दशपुरं देशे प्लवेऽपि स्यान्नपुंसकम् । ;p{0142} दण्डधरः पुमान् पृथ्वीनाथे प्रेताधिपेऽपि च ॥ २६६ ॥ दिगम्बरः स्यात् क्षपणे नग्ने तमसि शङ्करे । दुरोदरं द्यूतभेदे कृतकृत्पणयोः पुमान् ॥ २६७ ॥ देहयात्रा यमपुरीगमने भोजनेऽपि च । द्वैमातुरो जरासन्धवारणाननयोः पुमान् ॥ २६८ ॥ धराधरो हरौ शैले धाराधरोऽसिमेघयोः । धाराङ्कुरस्तु नासीरे शीकरेऽपि घनोपले ॥ २६९ ॥ धार्त्तराष्ट्रोऽसितास्याङ्घ्रिहंसे कौरवसर्पयोः । धुन्धुमारः शक्रगोपे गृहधूमे पदालिके ॥ २७० ॥ धुरन्धरो धवद्रौ ना वाच्यलिङ्गस्तु धूर्वहे । धृतराष्ट्रः सुराज्ञि स्यान्नागक्षत्रियभेदयोः ॥ २७१ ॥ धृतराष्ट्री हंसपत्न्यां नभश्चरो विहङ्गमे । विद्याधरो घने वाते निशाचरस्तु रक्षसि ॥ २७२ ॥ फेरुपेचकसर्पेषु पांशुलायां निशाचरी । निषद्वरस्तु जम्बाले निशायान्तु निषद्वरी ॥ २७३ ॥ नीलाम्बरः प्रलम्बघ्ने कौणपे च शनैश्चरे । भवेत् परिकरः सङ्घे पर्य्यङ्कपरिवारयोः ॥ २७४ ॥ प्रगाढगात्रिकाबन्धे समारम्भविवेकयोः । अथ पक्षचरश्चन्द्रे पृथक्चारिगजेऽपि च ॥ २७५ ॥ भवेत् प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डने ॥ २७६ ॥ आरक्षे करसूत्रे च नियेाज्ये त्वन्यलिङ्गकः । भवेत् परिसरो मृत्यौ विधावपि च पुंस्ययम् ॥ २७७ ॥ परम्परो मृगभेदे प्रपौत्रे तनयस्य च । परम्परा परिपाट्यां हिंसासन्तानयोरपि ॥ २७८ ॥ पयोधरः कोषिकारे नारिकेले स्तनेऽपि च । कशेरुमेघयोः पुंसि प्रभाकराऽग्निसूर्य्ययोः ॥ २७९ ॥ प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थितायान्तु योषिति । ;p{0143} परिवारः परिजने खड्गकोषे परिच्छदे ॥ २८० ॥ पारावारः समुद्रे ना तटद्वये नपुंसकम् । पात्रटीरस्तु पुंलिङ्गो युक्तव्यापारमन्त्रिणि ॥ २८१ ॥ लोहकांस्यरजतपात्रे सिंहाणे पावकेऽपि च । पारिभद्रस्तु मन्दारे निम्बद्रौ देवदारुणि ॥ २८२ ॥ पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने । पीतसारो मलयजे गोमेदकमणावपि ॥ २८३ ॥ पूर्णपात्रं वस्तुपूर्णपात्रे वर्द्धापकेऽपि च । बलभद्रा त्रायमाणाकुमार्य्योः पुंसि सीरिणि ॥ २८४ ॥ ब्रह्मपुत्रः क्षेत्रभेदे नदभेदे च पुंस्ययम् । वक्रनक्रस्तु पिशुने तथैव शुकपक्षिणि ॥ २८५ ॥ वार्वटीरो रङ्ग आम्रास्थ्न्यङ्कुरे गणिकासुते । वारकीरस्तु पुंसि स्याद् भारग्राहिणि वाडवे ॥ २८६ ॥ यूकायां वेणिवेधन्यां नीराजितहयेऽपि च । बिन्दुतन्त्रः पुमान् शारिफलके च तुरङ्गके ॥ २८७ ॥ वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे । स्याद् वीरतरं वीरणे वीरश्रेष्ठे शरे च ना ॥ २८८ ॥ महावीरस्तु गरुडे शूरे सिंहे मखानले । वज्रे श्वेततुरङ्गे च सञ्चानविहगेऽपि च ॥ २८९ ॥ महामात्रः समृद्धे चामात्ये हस्तिपकाधिपे । मणिच्छिद्रा तु मेदायामृषभाख्यौषधेऽपि च ॥ २९० ॥ महेश्वरो महादेवे कथितोऽधीश्वरेऽपि च । मृगनेत्रा रात्रिभेदे विशेषे योषितस्तथा ॥ २९१ ॥ रथकारस्तु माहिष्यात् करणीजे च तक्षणि । रागसूत्रं तुलासूत्रे पट्टसूत्रे नपुंसकम् ॥ २९२ ॥ लम्बोदरः स्यादुद्धाने गणानामधिपेऽपि च । लक्ष्मीपुत्रस्तु पुंलिङ्गः कामदेवे तुरङ्गमे ॥ २९३ ॥ व्यवहारो द्रुभेदे स्यान्न्यायेऽपि च पणे स्थितौ । ;p{0144} अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ॥ २९४ ॥ वातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरोऽच्युते शक्रे पुंसि विश्वम्भरा भुवि ॥ २९५ ॥ विश्वकद्रस्त्रिषु खले ध्वानाखेटशुनोः पुमान् । विभावरी निशारात्र्योः कुट्टन्यां वक्रयोषिति ॥ २९६ ॥ विवादवस्त्रगुण्ठ्याञ्च विभाकरोऽग्निसूर्य्ययोः । वीतिहोत्रोऽनलेऽर्के च शतपत्रः शिखण्डिनि ॥ २९७ ॥ दार्वाघाटे सारसे च कमले तु नपुंसकम् । शतावरी तु शुण्ट्यां स्यादिन्दीवर्य्यामपि स्त्रियाम् ॥ २९८ ॥ शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते । भवेत्सहचरो झिण्ट्यां द्वयोरनुचरे त्रिषु ॥ २९९ ॥ समुद्रारुः पुमान् ग्राहे सेतुबन्धे तिमिङ्गिले । सम्प्रहारो गतौ युद्धे खिरदंष्ट्रो भुजङ्गमे ॥ ३०० ॥ वराहाकृतिविष्णौ च सुकुमारो मृदौ त्रिषु । पुंसि पुण्ड्राभिधानेक्षौ सूत्रधारः शचीपतौ ॥ ३०१ ॥ नान्द्यनन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः । ;v{रपञ्चकम्} तमालपत्रं तापिच्छे तिलके पत्रकेऽपि च ॥ ३०२ ॥ तालीशपत्रं भूम्यामलकीतालीशयोः स्मृतम् । स्यात् पांशुचामरः पुंसि दुर्वाञ्चिततटीभुवि ॥ ३०३ ॥ वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके । स्यात् पादचत्वरश्छागे सैकते पिप्पलेऽपि च ॥ ३०४ ॥ करके परदोषैकप्रवक्तृपुरुषेऽपि च । पीतकावेरमित्येतत् कुङ्कुमे पित्तलेऽपि च ॥ ३०५ ॥ स्याद्राजवदरं रक्तामलके लवणेऽपि च । वस्वोकसारेन्द्रपुरे कुबेरनलिनीपुरोः ॥ ३०६ ॥ विप्रतीसार उद्दिष्टः कौकृत्येऽनुशये रुषि । भवेत् समभिहारस्तु पौनःपुन्यभृशार्थयोः ॥ ३०७ ॥ ;p{0145} सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बे ना सर्वतोभद्रा गाम्भारीनटयोषितोः ॥ ३०८ ॥ ;c{इति रान्तवर्गः ।} ;k{लान्तवर्गः} ;v{लैकम्} लः शक्रे ला तु दाने स्याद् ग्रहणेऽपि निगद्यते । ली श्लेषणे च चपले ग्लौर्धरण्यां निशापतौ ॥ १ ॥ ;v{लद्विकम्} ;c{लद्विकम्} अम्लो रसस्य भेदे स्यादाम्ली चाङ्गेरिकौषधौ । अलिः सुरापुष्पलिहोः पुंस्यालिर्विशदाशये ॥ २ ॥ त्रिषु स्त्रियां वयस्यायां सेतौ पङ्क्तौ प्रकीर्त्तिता । आलुर्गलन्तिकायां स्त्री क्लीबं मूले च भेलके ॥ ३ ॥ इला कलवे सौम्यस्य धरित्र्यां गवि वाचि च । ओल्लस्तु शूरणे पुंसि स्यादार्द्रे वाच्यलिङ्गकः ॥ ४ ॥ कला स्यान् मूलविवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः ॥ ५ ॥ कलं शुक्रे त्रिष्वजीर्णे चाव्यक्तमधुरध्वनौ । कलिः स्त्री कलिकायां ना शराजिकलहे युगे ॥ ६ ॥ कालो मृतौ महाकाले समये यमकृष्णयोः । काला तु कृष्णात्रिवृतामञ्जिष्ठानीलिनीषु च ॥ ७ ॥ काली गौर्य्यां क्षीरकीटे कालिकामातृभेदयोः । कीलो लेशे द्वयोः स्तम्भज्वालाकफोणिशङ्कुषु ॥ ८ ॥ कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने च तनौ क्लीबं कण्टकार्य्यौषधौ कुली ॥ ९ ॥ अथ कूलं तटे स्तूपे सैन्यपृष्ठतडागयोः । कोलं कोलिफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम् ॥ १० ॥ नाऽङ्कपालौ शनौ चित्रे वराहोत्सङ्गमेलके । खलं भूस्थानकल्केषु नीचक्रूराधमे त्रिषु ॥ ११ ॥ ;p{0146} खल्लो वस्त्रप्रभेदे स्याद् गर्त्ते चर्मणि चातके । खल्ली तु हस्तपादावमर्दनाख्यरुजि स्त्रियाम् ॥ १२ ॥ खिलमप्रहतेऽपि स्यात् सारसंक्षिप्तवेधसोः । गलः सर्जरसे कण्ठे गुलः स्यादैक्षवे पुमान् ॥ १३ ॥ गली तु गुटिकोरोगभिदोः स्नुह्यां गुला स्मृता । गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् ॥ १४ ॥ पत्राञ्जने मण्डले चालिञ्चरे बालखेलने । चला लक्ष्म्यां पुमान् कम्पे कम्पयुक्तेऽभिधेयवत् ॥ १५ ॥ चिल्लः पुमान् क्लिन्ननेत्रे क्लिन्नाक्षेऽप्यभिधेयवत् । आततायिनि सम्प्रोक्तश्चिल्लं स्यात् क्षुद्रवास्तुके ॥ १६ ॥ चुल्ली चितायामुद्धाने स्त्रियां चेलोऽधमे त्रिषु । नपुंसकन्तु वसने छलं स्खलितशाठ्ययोः ॥ १७ ॥ छल्ली वीरुधि सन्ताने वल्कले कुसुमान्तरे । जलं गोकलने नीरे ह्रीवेरेऽप्यन्यवज्जडे ॥ १८ ॥ जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः । जालो नीपद्रुमे जाली पटोलिकौषधौ स्त्रियाम् ॥ १९ ॥ झला स्यादातपस्योर्मौ दुहितर्य्यपि च स्त्रियाम् । झिली चीर्य्यातपरुचोर्वर्त्त्यामुद्वर्त्तनांशुके ॥ २० ॥ तलं स्वरूपेऽनूर्ध्वेऽस्त्री क्लीबं ज्याघातवारणे । कानने कार्य्यबीजे च पुंसि तालमहीरुहे ॥ २१ ॥ चपेटे च त्सरौ तन्त्रीघाते सव्येन पाणिना । तल्ली तरुण्यां तल्लस्तु जलाधारान्तरे पुमान् ॥ २२ ॥ तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते । गीतकालक्रियामाने करास्फाले द्रुमान्तरे ॥ २३ ॥ वाद्यभाण्डे च कांस्यस्य त्सरौ ताल्यजटौषधौ । क्लीबन्तु हरिताले स्यात् तुला सादृश्यमानयोः ॥ २४ ॥ गृहाणां दारुबन्धाय पीठिकायामपीष्यते । राशौ पलशते भाण्डे तूलं स्यात् ब्रह्मदारुणि ॥ २५ ॥ ;p{0147} आकाशेऽथ पिचौ न स्त्री दलमुत्सेधखण्डयोः । शस्त्रीच्छेदेऽप्यपद्रव्ये पत्रेऽप्यथ दुलिः स्त्रियाम् ॥ २६ ॥ कमठ्यां ना मुनौ दोला नील्यां यानान्तरेऽपि च । नलः पोटगले राज्ञि पितृदेवे कपीश्वरे ॥ २७ ॥ कमलेऽपि च नट्याञ्च क्रमेण क्लीबयोषितोः । नाला न ना पद्मदण्डे नाली शाककडम्बके ॥ २८ ॥ नीलन्तु नीलरक्ते ना निध्यद्रिवानरान्तरे । नीली रुग्भेदनीलिन्योः पलमुन्मानमांसयोः ॥ २९ ॥ पल्ल्यल्पग्रामकुट्योः स्त्री पल्लः स्थूलकुसूलके । पालिः कर्णलताग्रेऽश्रौ पङ्क्तावङ्कप्रभेदयोः ॥ ३० ॥ छात्रादिदेये स्त्री पालो यूकासश्मश्रुयोषितोः । पिल्लः पुमान् क्लिन्ननेत्रे क्लिन्नाक्षे पुनरन्यवत् ॥ ३१ ॥ पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपादपभेदयोः ॥ ३२ ॥ पुलः स्यात् पुलके पुंसि विपुलेऽप्यन्यलिङ्गकः । फलं जातीफले शस्ये हेतूत्थे व्युष्टिलाभयोः ॥ ३३ ॥ त्रिफलायाञ्च कक्कोले प्रियङ्गौ तु फली स्मृता । फालः पुंसि महादेवे कालिन्दीभेदनेऽपि च ॥ ३४ ॥ क्लीबं सीरोपकरणे त्रिषु कार्पासवाससि । बलिर्दैत्यप्रभेदे च करचामरदण्डयोः ॥ ३५ ॥ उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि च ॥ ३६ ॥ बले गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसेऽपि च ॥ ३७ ॥ बलयुक्तेऽन्यलिङ्गः स्याद् वाट्यालके तु योषिति । वल्ली स्यादजमोदायां व्रतत्यामपि योषिति ॥ ३८ ॥ बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । नारिकेले हरिद्रायां मल्लिकाभिद्यपि स्त्रियाम् ॥ ३९ ॥ ;p{0148} वाच्यलिङ्गोऽर्भके मूर्खे ह्रीबेरे पुन्नपुंसकम् । अलङ्कारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम् ॥ ४० ॥ वेला काले च सीमायमब्धेः कूलविकारयोः । अक्लिष्टमरणे रागे ईश्वरस्य च भोजने ॥ ४१ ॥ भल्लः स्यात् पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः । भल्लातक्यां स्त्रियां भल्ली भालं तेजोललाटयोः ॥ ४२ ॥ भेलः प्लवे मुनौ पुंसि भीरावज्ञे च वाच्यवत् । भोलो मीनान्तरे पुंसि त्रिषु कामादिविह्वले ॥ ४३ ॥ मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत् । मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि ॥ ४४ ॥ मालं क्षेत्रे स्त्रियां पृक्कास्रजोर्जात्यन्तरे पुमान् । मालुः पत्रलतानार्य्योः स्त्रियां मूलं शिफाद्ययोः ॥ ४५ ॥ मूलवित्तेऽन्तिके वा ना भे मेला मेलके मसौ । मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् ॥ ४६ ॥ नाऽशोकद्रौ स्त्रियां भूमौ लीला केलिविलासयोः । शृङ्गारभावचेष्टायां लोलः स्याद् वाच्यलिङ्गकः ॥ ४७ ॥ सतृष्णे चञ्चले लोला जिह्वाकमलयोः स्त्रियाम् । व्यालो दुष्टगजे सर्पे श्वापदे नान्यवत् खले ॥ ४८ ॥ बिलं छिद्रे गुहायाञ्च पुमानुच्चैःश्रवोहये । शलन्तु शलले पुंसि भृङ्गिक्षेत्रभिदोविधौ ॥ ४९ ॥ शालुः कषायद्रव्ये स्यात् चौरकाख्यौषधौ पुमान् । शालिस्तु कलमादौ च गन्धमार्जारके पुमान् ॥ ५० ॥ शाला दुस्कन्धशाखायां गृहगेहैकदेशयोः । ना झषे शिलमुञ्छे स्याद् गण्डूपद्यां शिली मता ॥ ५१ ॥ स्तम्भशीर्षे शिलाशिल्यौ शिला तु प्रस्तरे मता । तथा मनःशिलायाञ्च द्वाराधःस्थितदारुणि ॥ ५२ ॥ शीलं स्वभावे सद्वृत्ते शुक्लो योगान्तरे सिते । नपुंसकन्तु रजते शूलोऽस्त्री रोग आयुधे ॥ ५३ ॥ ;p{0149} मृत्युकेतनयोगेषु शुक्ला स्यात् पण्ययोषिति । शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके ॥ ५४ ॥ सालः पादपमात्रे स्यात् प्राकारे सर्जपादपे । स्थूलं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः ॥ ५५ ॥ स्थूलं कूटेऽथ निष्प्रज्ञे पीवरेऽप्यन्यलिङ्गकः । हालो हले पुमान् हाला मदिरायाञ्च योषिति ॥ ५६ ॥ हेला स्त्रियामवज्ञायां विलासे वीरयोषिताम् । ;v{लत्रिकम्} ;c{लत्रिकम्} अनलो वसुभेदेऽग्नावनिलो वसुवातयोः ॥ ५७ ॥ अर्गला त्रिषु कल्लोलेऽन्तर्दण्डवारयोर्न ना । अरालः कुटिले सर्जरसे समददन्तिनि ॥ ५८ ॥ अङ्गुली करशाखायां कर्णिकायां गजस्य च । अचला वसुधायां स्यादचलः शैलकीलयोः ॥ ५९ ॥ अमलन्त्वभ्रके क्लीबं लक्ष्म्यां स्त्री निर्मले त्रिषु । अञ्जलिस्तु पुमान् हस्तसम्पुटे कुडवेऽपि च ॥ ६० ॥ अवेलस्त्वपलापे स्यादवेला पूगचर्विते । आभीलं न द्वयोः कृच्छ्रे वाच्यलिङ्गं भयानके ॥ ६१ ॥ इल्वला तारकाभेदे ना भेदे दैत्यमत्स्ययोः । उत्पली तुषचर्पट्यां क्लीबं कुष्ठप्रसूनयोः ॥ ६२ ॥ उपलः प्रस्तरे रत्ने शर्करायान्तु योषिति । उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ॥ ६३ ॥ उत्फुल्लं करणे स्त्रीणामुत्तानेऽपि विकस्वरे । उत्ताल उत्कटे श्रेष्ठे विकराले प्लवङ्गमे ॥ ६४ ॥ कमलं सलिले ताम्रे जलजे क्लोम्नि भेषजे । मृगभेदे तु कमलः कमला श्रीवरस्त्रियोः ॥ ६५ ॥ कपिला रेणुकायाञ्च शिंशपागोविशेषयोः । पुण्डरीककरिण्यां स्त्री वर्णभेदे त्रिलिङ्गकम् ॥ ६६ ॥ नाऽनले वासुदेवे च मुनिभेदे च कुक्कुरे । ;p{0150} कम्बलो नागराजे स्यात् सास्नाप्रावारयोरपि ॥ ६७ ॥ कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् । करालो दन्तुरे तुङ्गे भीषणे चाभिधेयवत् ॥ ६८ ॥ ससर्जरसतैले ना क्लीबं कृष्णकुठेरके । कन्दलं त्रिषु कपालेऽप्युपरागे नवाङ्कुरे ॥ ६९ ॥ कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः । कदला कदलौ पृश्न्यां कदली कदलौ पुनः ॥ ७० ॥ रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कला डिम्बिकायाञ्च शाल्मलीभूरुहेऽपि च ॥ ७१ ॥ कपालोऽस्त्री शिरोऽस्थ्नि स्याद् घटादेः शकले व्रजे । कण्ठाला तु द्वयोर्द्रोणीप्रभेदे ना क्रमेलके ॥ ७२ ॥ कल्लोलः पुंसि हर्षे स्यादुल्लोलवैरिणोरपि । कामला रोगभेदे वा ना ना मरुवसन्तयोः ॥ ७३ ॥ कामुके वाच्यलिङ्गोऽथ काकोलं नरकान्तरे । ना कुलाले द्रोणकाके विषभेदे तु न स्त्रियाम् ॥ ७४ ॥ काहला वाद्यभाण्डस्य भेदे चाप्सरसां भिदि । काहली तु तरुण्यां स्यात् कालश्चरणायुधे ॥ ७५ ॥ शब्दमात्रेऽपि पुंलिङ्गस्त्रिषु शुष्के भृशे खले । किट्टालः पुंसि ताम्रस्य कलसे लोहगूथके ॥ ७६ ॥ कीलालं रुधिरे तोये कुशलः शिक्षिते त्रिषु । क्षेमे च सुकुते चापि पर्य्याप्तौ च नपुंसकम् ॥ ७७ ॥ कुवलञ्चोत्पले मुक्ताफले च बदरीफले । कुड्मलो मुकुले पुंसि न द्वयोर्नरकान्तरे ॥ ७८ ॥ कुटिला तगरपाद्यां स्त्री भुग्ने च वाच्यलिङ्गकः । कुन्तलश्चषके बाले यवे पुंभूम्नि नीवृति ॥ ७९ ॥ कुलालः कुक्कुभे कुम्भकारे स्त्री त्वञ्जनान्तरे । कुम्भीलः शालमीने च चौरश्लोकार्थचौरयोः ॥ ८० ॥ कुद्दालः स्यात् पुमान् भूमिदारणे युगपत्रके । ;p{0151} कुचेला विद्धकर्ण्यां स्त्री वाच्यवत्तु कुवाससि ॥ ८१ ॥ कुकूलं शङ्कुसङ्गीर्णश्वभ्रे ना तु तुषानले । कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च ॥ ८२ ॥ काञ्चनद्रुगुडूच्योः स्त्री केवलः कुहने पुमान् । नपुंसकन्तु निर्णीते वाच्यवच्चैककृत्स्नयोः ॥ ८३ ॥ केवली ज्ञानभेदेऽथ कोमलं मृदुले जले । कोहलो वाद्यभेदे स्यान् नाट्यशास्त्रप्रवक्तरि ॥ ८४ ॥ ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् । संग्रन्थौ त्रिषु गन्धोलिर्भद्राशट्योश्च योषिति ॥ ८५ ॥ गरलं तृणपूले च विषे माने नपुंसकम् । गोपालो नृपगोपेशे गोकीलो मुसले हले ॥ ८६ ॥ गौरिलस्तु पुमान् लौहचूर्णे स्याद् गौरसर्षपे । चपलः पारदे मीने चौरके प्रस्तरान्तरे ॥ ८७ ॥ चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च । नपुंसकन्तु शीघ्रे स्याद् वाच्यवत् तरले चले ॥ ८८ ॥ चत्वालो होमकुण्डे स्यात् पुंसि दर्भेऽपि दृश्यते । चन्दिलः पुंसि वास्तूकशाके भगे च नापिते ॥ ८९ ॥ चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलः कामुकेऽनिले । चूडाली तूच्चटायां स्त्री चूडावति च वाच्यवत् ॥ ९० ॥ छगलं नीलवस्त्रे ना छागे स्त्री वृद्धदारके । जम्बालः शैवले पङ्के जगलो मदनद्रुमे ॥ ९१ ॥ मेदके पिष्टमद्ये च पुंसि धूर्त्तेऽभिधेयवत् । जटिला पिप्पलीमांस्योर्जटायुक्ते च वाच्यवत् ॥ ९२ ॥ जङ्गलं निर्जनस्थाने त्रिलिङ्ग्यां पिशितेऽस्त्रियाम् । जम्भलः पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च ॥ ९३ ॥ जम्बूलस्तु पुमान् जम्बूविटपे क्रकचच्छदे । जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले ॥ ९४ ॥ जाङ्गली शूकशिम्ब्यां स्त्री जाङ्गलो ना कपिञ्जले । ;p{0152} तरलं चञ्चले षिड्गे भास्वरेऽपि त्रिलिङ्गकम् ॥ ९५ ॥ हारमध्यमणौ पुंसि यवागूसुरयोः स्त्रियाम् । तण्डुलः स्याद् विडङ्गे च धान्यादिनिकरे पुमान् ॥ ९६ ॥ तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे । ताम्बूली नागवल्ल्यां स्त्री क्रमुके तु नपुंसकम् ॥ ९७ ॥ तातलो रुजि पाके च लोहकूटे मनोजवे । तुमुलः कलिवृक्षे ना क्लीबन्तु रणसङ्कुले ॥ ९८ ॥ तैतिलो गण्डके पुंसि क्लीवन्तु करणान्तरे । दुकूलं श्लक्ष्णवस्त्रे स्यात् क्षौमे च धवला गवि ॥ ९९ ॥ वृषश्रेष्ठे पुमान् वाच्यलिङ्गः शुक्ले च सुन्दरे । नकुली कुक्कुटीमांस्योः पशुपाण्डवयोः पुमान् ॥ १०० ॥ नाकुली कुक्कुटीकन्दे रास्नायां चविके स्त्रियाम् । नाभीलं वङ्क्षणे नार्याः कृच्छ्रगर्भाण्डयोरपि ॥ १०१ ॥ निचुलस्तु निचोले स्यादिज्जलाख्यमहीरुहे । निर्मलं स्यात्तु निर्माम्ये चाभ्रके च नपुंसकम् ॥ १०२ ॥ मलहीनेऽन्यलिङ्गञ्च निस्तलं वर्त्तुले चले । निष्कलस्तु कलाशून्ये नष्टवीर्य्ये च वाच्यवत् ॥ १०३ ॥ नेपाली तु नवमालीकुनटीसुवहासु च । पक्षले तिलचूर्णे च पङ्के मांसे नपुंसकम् ॥ १०४ ॥ ना राक्षसेऽथ पटलं पिटके च परिच्छदे । छर्दिर्दृग्रोगतिलके क्लीबं वृन्दे पुनर्न ना ॥ १०५ ॥ प्रतलं पातालभेदे तताङ्गुलिकरे पुमान् । पटोलं वस्त्रभेदे नौषधौ ज्योत्स्न्यां तु योषिति ॥ १०६ ॥ प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे । पाञ्चाली पुत्रिकागीत्योः स्त्रियां पुम्भूम्नि नीवृति ॥ १०७ ॥ पांशुलः पुंश्चले शम्भोः खट्वाङ्गे स्त्र्यसतीभुवोः । पाकलं कुष्ठभैषज्ये पुंसि स्यात् कुञ्जरज्वरे ॥ १०८ ॥ पाचलं पाचने नाग्नौ राधनद्रव्यवातयोः । ;p{0153} पाटला पाटलौ स्त्री स्यादस्य पुष्पे पुनर्न ना ॥ १०९ ॥ आशुधान्ये पुमान् श्वेतरक्तवर्णेऽपि वाच्यवत् । पातालं नागलोके स्याद्विवरे वडवानले ॥ ११० ॥ पातिली वागुरायां स्यान्नारीपात्रप्रभेदयोः । पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ ॥ १११ ॥ निरंशुके पक्षिभेदे कणायां पिप्पली मता । पिचुलो झावुकेऽपि स्यादिज्जले जलवायसे ॥ ११२ ॥ पिङ्गलो नागभिद्रुद्रचण्डांशुपारिपार्श्विके । निधिभेदे कपावग्नौ पुंसि स्यात् कपिलेऽन्यवत् ॥ ११३ ॥ स्त्रियां वेश्याविशेषे च करिण्यां कुमुदस्य च । पित्तला तोयपिप्पल्यां स्त्र्यन्यवत् पित्तसंयुते ॥ ११४ ॥ क्लीबन्तु तैजसद्रव्ये पिच्छलो विजिलेऽन्यवत् । स्त्री पोतिकोशिंशपयोः शाल्मलीसिन्धुभेदयोः ॥ ११५ ॥ पुद्गलः सुन्दराकारे त्रिषु पुंस्यात्मदेहयोः । पेषलो रुचिरे दक्षे फेनिलोऽरिष्टपादपे ॥ ११६ ॥ नासफेने त्रिषु क्लीबं कोलीमदनयोः फले । बहुला नीलिकायां स्यादेलायां गवि योषिति ॥ ११७ ॥ कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुंसकम् । पुंस्यग्नौ कृष्णपक्षे च वाच्यवत् प्राज्यकृष्णयोः ॥ ११८ ॥ बरला वारला चापि गन्धोलीहंसकान्तयोः । बार्द्दलं दुर्द्दिने मेलानन्दायां वार्द्दलः स्मृतः ॥ ११९ ॥ मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे । नपुंसकन्तु कल्याणे सर्व्वार्थरक्षणेऽपि च ॥ १२० ॥ मण्डलं परिधौ कोठे देशे द्वादशराजसु । क्लीबेऽथ निवहे बिम्बे त्रिषु पुंसि तु कुक्कुरे ॥ १२१ ॥ मञ्जुलं त्रिषु मञ्जौ ना जलरङ्कौ नपुंसकम् । जलाञ्चले निकुञ्जे च महिला फलिनीस्त्रियोः ॥ १२२ ॥ मातुलो व्रीहिभिन्मातृभ्रात्रोश्च मदनद्रुमे । ;p{0154} धूस्तूरे माचलो वन्दिचौरे च ग्राहरागयोः ॥ १२३ ॥ मूषलं स्यादयोऽग्रे च पुन्नपुंसकयोः स्त्रियाम् । तालमूल्यामाखुपर्णीगृहगोधिकयोरपि ॥ १२४ ॥ मृणालं नलदे क्लीबं पुन्नपुंसकयोर्बिसे । मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः ॥ १२५ ॥ यमलं युगले क्लीबं यमली चोटिकाद्वये । रसाला रसनादूर्व्वाविदारीमार्जितासु च ॥ १२६ ॥ रसालं सिह्लके बोले रसालश्चेक्षुचूतयोः । रामिलो रमणे कामे लाङ्गुलं पुच्छशेफयोः ॥ १२७ ॥ लाङ्गली तोयपिप्पल्यां क्लीबन्तु कुसुमान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः ॥ १२८ ॥ लोहलः शृङ्खलाचार्य्येऽव्यक्तवाचिनि च त्रिषु । वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि ॥ १२९ ॥ वण्टालो युद्धभेदे च नौकायाञ्च खनित्रके । वातलः पुंसि वात्यायां वाच्यवन्मारुतासहे ॥ १३० ॥ वामिलो दाम्भिके वामे त्रिषु स्याद् विमला स्त्रियाम् । शातलायां भुवो भेदे निर्म्मले त्वभिधेयवत् ॥ १३१ ॥ विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे । विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च ॥ १३२ ॥ विडालो नेत्रपिण्डे स्याद् वृषदंशकके पुमान् । विशाला त्विन्द्रावारुण्यामुज्जयिन्यान्तु योषिति ॥ १३३ ॥ मृगपक्षिभिदोः पुंसि पृथुले त्वभिधेयवत् । वृषलो गृञ्जने शूद्रे चन्द्रगुप्तेऽपि राजनि ॥ १३४ ॥ शकलं त्वचि खण्डे स्याद् रागवस्तुनि वल्कले । शम्बलोऽस्त्री सम्बलवत् कुलपाथेयमत्सरे ॥ १३५ ॥ शयालुः स्यादजगरे निद्राशीले च कुक्कुरे । श्रद्धालुर्दोहदिन्यां स्त्री श्रद्धायुक्ते तु याच्यवत् ॥ १३६ ॥ श्यामलः पिप्पले कृष्णे शार्दूलो राक्षसान्तरे । ;p{0155} व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ १३७ ॥ शाल्मलिस्तरुभेदे स्याद् द्वीपभेदेऽपि च द्वयोः । श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ॥ १३८ ॥ शीवलं स्याच्च शैवाले शैलेये च नपुंसकम् । शीतलं पुष्पकाशीशे शैलजे मलयोद्भवे ॥ १३९ ॥ पुमानसनपर्ण्यां स्यात् शिशिरे वाच्यलिङ्गकम् । शृगालो वञ्चके दैत्यभेदे ना डमरे स्त्रियाम् ॥ १४० ॥ शृङ्खला पुंस्कटीवस्त्रबन्धे च निगडे त्रिषु । शैवलं पद्मकाष्ठे स्यात् शैवालेऽपि पुमानयम् ॥ १४१ ॥ शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि । षण्डाली तैलमाने च सरसीकामुकस्त्रियोः ॥ १४२ ॥ सरलः पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु । सङ्कुलं त्रिषु विस्पष्टवाचि व्याप्तेऽथ सप्तला ॥ १४३ ॥ नवमालीचर्मकषागुञ्जासु पाटलौ स्त्रियाम् । सन्धिला तु सुरुङ्गायां नदीमदिरयोः स्त्रियाम् ॥ १४४ ॥ सिध्मला मत्स्यविकृतौ वाच्यवत्तु किलासिनि । सुवेलः प्रणते शान्ते त्रिषु ना पर्वतान्तरे ॥ १४५ ॥ सुतलोऽट्टलिकाबन्धनागलोकप्रभेदयोः । हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यान्तु हिङ्गुली ॥ १४६ ॥ हेमलः स्वर्णकारे स्यात् कृकलासे शिलान्तरे । ;v{लचतुष्कम्} ;c{लचतुष्कम्} अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्त्रियाम् ॥ १४७ ॥ अङ्कपाली परीरम्भे धात्रीवेदिकयोः स्त्रियाम् । अथातिबलः प्रबले त्रिषु स्त्री त्वौषधीभिदि ॥ १४८ ॥ उदूखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः । एकाष्ठीला वनतिक्तिकौषधौ पुंसि बकपुष्पे च ॥ १४९ ॥ कलकल उक्तः कोलाहले तथा सालनिर्य्यासे । अथ कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ १५० ॥ ;p{0156} कन्दरालः पुमान् गर्दभाण्डे प्लक्षतरावपि । कमण्डलुः स्यात् करके न स्त्री ना प्लक्षपादपे ॥ १५१ ॥ कुतूहलं कौतुके स्यात् प्रशस्तेऽपि च दृश्यते । खतमालस्तु पुंलिङ्गो धूमेऽपि च बलाहके ॥ १५२ ॥ गण्डशैलो ललाटे स्यात् च्युतस्थूलोपले गिरेः । गन्धफल्यपि गुन्द्रायां चम्पकस्य च कोरके ॥ १५३ ॥ चक्रवालोऽद्रिभेदे स्यात् चक्रवालन्तु मण्डले । जलाञ्चलं स्वतो वारिनिर्गमे शैवलेऽपि च ॥ १५४ ॥ दलामलं मरुबके दमनेऽपि नपुंसकम् । ध्वनिनाला तु वीणायां वेणुकाहलयोरपि ॥ १५५ ॥ स्यात् परिमलोऽतिमर्दातिमनेाहरगन्धयोश्चापि । सुरतोपमर्दविकसच्छरीररागादिसौरभे पुंसि ॥ १५६ ॥ अथ पोटगलः पुंसि नले च काशमत्स्ययोः । भवेद् बहुफलो नीपे नामलक्यान्तु योषिति ॥ १५७ ॥ भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च । भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रियाम् ॥ १५८ ॥ महाकालो महादेवे किम्पाके प्रमथान्तरे । भवेन्मदकलो मत्तेभमदाव्यक्तवाचिनोः ॥ १५९ ॥ महाबलं सीसकेऽतिबलायां स्त्री बलोत्तरे । त्रिलिङ्गं मणिमाला तु हारे दन्तक्षतान्तरे ॥ १६० ॥ महानीलो भृङ्गराजे मणिनागविशेषयोः । मुक्ताफलन्तु कर्पूरे मौक्तिके लवलीफले ॥ १६१ ॥ स्यान् मृत्युफला कदल्यां महाकालफले पुमान् । भवेद् यवफलो वेणौ मांसीकुटजयोरपि ॥ १६२ ॥ रजस्वला पुष्पवत्यां स्त्रियां स्यात् सौरभे पुमान् । वातकेलिः कलालापे षिड्गदन्तक्षते पुमान् ॥ १६३ ॥ अथ वायुफलं शक्रकार्मुके करकेऽपि च । भवेद् विचकिलो मल्लीप्रभेदे मदने पुमान् ॥ १६४ ॥ ;p{0157} बृहन्नला गुडाकेशे महापोटगले पुमान् । सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे ॥ १६५ ॥ सिनीवाली तु दृष्टेन्दुकलामादुर्गयोरपि । अथ सौवर्चलं सर्जक्षारे च लवणान्तरे ॥ १६६ ॥ हस्तिमल्लोऽभ्रमातङ्गे शङ्खनागे विनायके । हरितालं धातुभेदे स्त्री दुर्वाकाशरेखयोः ॥ १६७ ॥ हलाहलो ब्रह्मसर्पेऽञ्जनायां ना विषेऽस्त्रियाम् । ;v{लपञ्चकम्} ;c{लपञ्चकम्} आसुतीवल आख्यातः कन्यापालकयज्वनोः ॥ १६८ ॥ उद्दण्डपालः पुंसि स्यात् सर्पमत्स्यप्रभेदयोः । एककुण्डल आख्यातो बलभद्रे धनाधिपे ॥ १६९ ॥ कृपीटपाल उद्दिष्टः केनिपातसमुद्रयोः । स्यात् पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः ॥ १७० ॥ भवेत् सुरतवाली तु दूतिकायां शिरःस्रजि । ;c{इति लान्तवर्गः ।} ;k{वान्तवर्गः} ;v{वैकम्} ;c{वैकम्} वः सान्त्वने च वाते च वरुणे च निगद्यते । वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ॥ १ ॥ स्वः स्यात् पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीये धनेऽस्त्रियाम् । ;v{वद्विकम्} ;c{वद्विकम्} अविर्नाथे रवौ मेषे शैलमूषिककम्बले ॥ २ ॥ अश्वः पुञ्जातिभेदे च तुरगे च पुमानयम् । उर्द्ध्वं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् ॥ ३ ॥ क्षवः क्षुते राजकायां कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि स्यात् खलीने तु योषिति ॥ ४ ॥ कण्वं पापे मुनौ पुंसि किण्वं बीजे च शीधुनः । ;p{0158} पापे क्लीबं नपुंसके षण्डेऽन्यवदविक्रमे ॥ ५ ॥ स्यात्तु ग्रीवा कन्धरायां तच्छिरायाञ्च योषिति । चार्वी तु शोभनाबुद्ध्योर्ज्योत्स्नाधनदभार्य्ययोः ॥ ६ ॥ छविः शोभारुचोर्योषिज्जवो वेगवति त्रिषु । पुंलिङ्गस्तु भवेद् वेगे चोण्ड्रपुष्पे जवा स्मृता ॥ ७ ॥ जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृहस्पतौ । जीवा जीवन्तिकामौर्वीवचाशिञ्जितभूमिषु ॥ ८ ॥ न स्त्री तु जीविते तत्त्वं स्वरूपे परमात्मनि । स्याद् विलम्वितनृत्ये च द्रवः प्रद्रावनर्मणेाः ॥ ९ ॥ रसेऽपि दवदावौ तु वनवह्नौ वनेऽप्युभौ । द्वन्द्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥ १० ॥ दार्वी दारुहरिद्रायां तथा गोजिह्विकौषधौ । द्यौः स्त्री स्वर्गे च गगने दिवं क्लीबं तयोः स्मृतम् ॥ ११ ॥ देवो मेघे सुरे राज्ञि स्यान् नपुंसकमिन्द्रिये । देवी कृताभिषेकायां तेजनीपृक्कयोरपि ॥ १२ ॥ धवः पुमान् नरे धूर्त्ते पत्यौ वृक्षान्तरेऽपि च । ध्रुवः शङ्कौ हरे विष्णौ वटे चेात्तानपादजे ॥ १३ ॥ वसुयोगभिदोः पुंसि क्लीबं निश्चिततर्कयोः । स्त्री मूर्वाढ्योः शापर्ण्यां गीतिस्रुग्भेयोस्त्रिषु ॥ १४ ॥ सन्तते शाश्वते चाथ नवं नव्ये पुमान् स्तुतौ । नीवी परिपणे स्त्रीणां कटीवसनवन्धने ॥ १५ ॥ पक्वं परिणतेऽपि स्याद् विनाशाभिमुखे त्रिषु । प्लवः स्यात् प्लवने भेले भेकेऽवौ श्वपचेऽपि च ॥ १६ ॥ शाखामृगे च कुलके प्रवणे पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्लुतगतौ पुमान् ॥ १७ ॥ कैवर्तीमुस्तके गन्धतृणेऽपि स्यान् नपुंसकम् । पार्श्वं कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च ॥ १८ ॥ प्राध्वन्तु प्रणते चातिदूरवर्त्मनि बन्धने । ;p{0159} पृथ्वी भूमौ महत्याञ्च त्वक्पत्र्यां कृष्णजीरके ॥ १९ ॥ भवः क्षेमेशसंसारे सत्तायां प्राप्तिजन्मनोः । भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २० ॥ क्रियालीलापदार्थेषु विभूतिबुधजन्तुषु । रत्यादौ चाथ रेवा स्यान् नील्यां रत्यां नदीभिदि ॥ २१ ॥ लवो लेशे विनाशे च छेदने रामनन्दने । लट्वा करञ्जभेदे स्यात् फले वाद्ये खगान्तरे ॥ २२ ॥ लघ्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च । विश्वा त्वतिविषायां स्त्री जगति स्यान् नपुंसकम् ॥ २३ ॥ न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु । बिल्वं फले श्रीफले ना शवः स्यात् कुणपे पुमान् ॥ २४ ॥ नपुंसकन्तु पानीये शिविर्भूर्ज्जे नृपे पुमान् । शिवो मोक्षे महादेवे कीलकग्रहयोगयोः ॥ २५ ॥ बालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखक्षेमजले क्लीबं शिवा झाटामलौषधौ ॥ २६ ॥ अभयामलकीगौरीफेरुसक्तुफलास्वपि । शुल्बं ताम्रे यज्ञकर्म्मण्याचारे जलसन्निधौ ॥ २७ ॥ सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वे व्यवसायाऽसुचित्तेष्वस्त्री तु जन्तुषु ॥ २८ ॥ सवो यज्ञे च सन्ताने सान्त्वं दाक्षिण्यसामनोः । स्रुवा द्वयोर्यज्ञपात्रे शल्लकीमूर्व्वयोः स्त्रियाम् ॥ २९ ॥ हव आज्ञाध्वराह्वाने ह्रस्वो न्यक्खर्व्वयोस्त्रिषु । ;v{वत्रिकम्} ;c{वत्रिकम्} अक्षीवं वशिरे शिग्रौ नाऽमत्ते पुनरन्यवत् ॥ ३० ॥ अभावो मरणेऽसत्त्वे आहवो युद्धयज्ञयोः । आर्त्तवं स्त्रीरजःपुष्पे क्लीबं स्यादृतुजे त्रिषु ॥ ३१ ॥ आश्रवोऽङ्गीकृतौ क्लेशे नाऽन्यवत् वचनस्थिते । उद्धवो यादवभिदि महे च क्रतुपावके ॥ ३२ ॥ ;p{0160} उत्सवो मह उत्सेके इच्छाप्रसवकोपयोः । कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ॥ ३३ ॥ कितवस्तु पुमान् मत्ते वञ्चके कनकाह्वये । केशवोऽजे च पुन्नागे पुंसि केशवति त्रिषु ॥ ३४ ॥ कैतवं तु छले द्यूते कैरवः कितवे रिपौ । नपुंसकञ्च कुमुदे चन्द्रिकायान्तु कैरवी ॥ ३५ ॥ गाण्डीवो गाण्डिवश्चास्त्री कामुकेऽर्जुनकार्मुके । गालवस्तु मुनौ लोध्रे ताण्डवोऽस्त्री तृणान्तरे ॥ ३६ ॥ भवेदुद्धतनृत्ये च त्रिदिवा सरिदन्तरे । पुंसि स्वर्गे दीदिविर्ना धिषणेऽन्ने तदस्त्रियाम् ॥ ३७ ॥ निष्पावः शूर्पपवने राजमाषे कडङ्गके । पवने शिम्बिकायां ना निर्विकल्पेऽन्यलिङ्गकः ॥ ३८ ॥ निह्निवः पुंसि निकृतावविश्वासापलापयोः । पल्लवोऽस्त्री किसलये विटपे विस्तरे वने ॥ ३९ ॥ शृङ्गारेऽलक्तरागे च प्रभावः शान्तितेजसोः । पञ्चत्वं पञ्चानां भावे प्राणानामत्ययेऽपि च ॥ ४० ॥ प्रभवो जन्ममूले स्याज्जन्महेतौ पराक्रमे । ज्ञानस्य चादिमस्थाने प्रसवो गर्भमोचने ॥ ४१ ॥ उत्पादे स्यादपत्येऽपि फले च कुसुमेऽपि च । प्रसेवः पुंसि वीणाऽङ्गे स्यूते च पार्थिवे नृपे ॥ ४२ ॥ पार्थिवी तु सीतायां स्त्री पृथिव्या विकृतौ त्रिषु । पुङ्गवः स्याद् बलीवर्दे प्रभेदेऽप्यौषधस्य च ॥ ४३ ॥ उत्तरस्थः पुनः श्रेष्ठे फेरवो जम्बुकेऽस्रपे । बल्लवः सूपकारे स्याद् भीमसेने च गोद्रुहि ॥ ४४ ॥ बान्धवो ज्ञातिसुहृदोर्भार्गवो गजधन्विनोः । शुक्रे परशुरामे च भार्गवी पार्वतीश्रियोः ॥ ४५ ॥ दूर्वायां भैरवः पुंसि शङ्करे भीषणे त्रिषु । माधवोऽजे मधौ राधे यादवे ना स्त्रियां मिसौ ॥ ४६ ॥ ;p{0161} मधुशर्करावासन्तीकुट्टनीमदिरासु च । गोमहिष्यादिसम्पत्तौ यादवः पुंसि केशवे ॥ ४७ ॥ राजीवं नलिने ना तु भेदे हरिणमीनयोः । राघवोऽब्धेर्महामीनभेदे च रघुवंशजे ॥ ४८ ॥ रौरवो नरके घोरे वडवा द्विजयोषिति । अश्वायां कुम्भदास्याञ्च नारीजात्यन्तरेऽपि च ॥ ४९ ॥ वाडवं करणे स्त्रीणां घोटकौघे नपुंसकम् । पाताले न स्त्रियां पुंसि ब्राह्मणे वडवानले ॥ ५० ॥ विभवो रैमोक्षैश्वर्य्ये विद्रवो विद्रुतौ धियि । विभावः स्यात् परिचये रसस्योद्दीपनादिषु ॥ ५१ ॥ शात्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि । षाडवो गानरसयोः सचिवो मन्त्रिणि स्मृतः ॥ ५२ ॥ सहाये सम्भवो हेतावुत्पत्तौ मेलकेऽपि च । आधारानतिरिक्तत्वेऽप्याधेयस्य निगद्यते ॥ ५३ ॥ सुग्रीवो वासुदेवस्य हये शाखामृगेश्वरे । सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः ॥ ५४ ॥ सैन्धवोऽस्त्री माणिमन्थे नाऽश्वे सिन्धुभवे त्रिषु । ;v{वचतुष्कम्} ;c{वचतुष्कम्} अनुभावः प्रभावे स्यान्निश्चये भावबोधके ॥ ५५ ॥ भवेदभिषवः स्नाने मद्ये सन्धानयज्ञयोः । अपह्नवस्तु पुंलिङ्गः स्मृतः स्नेहापलापयोः ॥ ५६ ॥ आदीनवः पुमान् दोषे परिक्लेशदुरन्तयोः । उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि ॥ ५७ ॥ कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि । जलबिल्वः कर्कटे स्यात् पञ्चाङ्गे जलचत्वरे ॥ ५८ ॥ जीवञ्चीवश्चकोरे स्याद् द्रुमभेदेऽपि पुंस्ययम् । धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके ॥ ५९ ॥ पारिप्लवश्चाकुले स्याञ्चञ्चले च पराभवः । ;p{0162} तिरस्कारे विनाशे च पुंसि पारशवः पुमान् ॥ ६० ॥ परस्त्रीतनये शस्त्रे द्विजात् शूद्रासुतेऽपि च । पुटग्रीवस्तु पुंलिङ्गो गर्गरीताम्रकुम्भयोः ॥ ६१ ॥ बलदेवो बले वाते त्रायमाणौषधौ स्त्रियाम् । रतिदेवस्तु नृपतेर्भेदे च गरुडध्वजे ॥ ६२ ॥ रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे । अथ शीतशिवं क्लीबं शलेयमाणिमन्थयोः ॥ ६३ ॥ पुंसि शक्तुफलावृक्षे तथा मधुरिकौषधौ । सहदेवा बलादण्डोत्पलयोः शारिवौषधौ ॥ ६४ ॥ सहदेवी तु सर्पाक्ष्यां पुंसि स्यात् पाण्डवे पुनः । ;v{वपञ्चकम्} ;c{वपञ्चकम्} आशितम्भवमन्नाद्ये तृप्तौ स्यादाशितम्भवः ॥ ६५ ॥ ;c{इति वान्तवर्गः ।} ;k{शान्तवर्गः} ;v{शैकम्} ;c{शैकम्} शं वदन्ति बुधाः श्रेयः शश्च शस्त्रं निगद्यते । शीश्च शयनमित्याहुः शास्त्रं शा च निगद्यते ॥ १ ॥ ;v{शद्विकम्} ;c{शद्विकम्} अंशुरर्कप्रभोस्रेषु नाऽऽशा तृष्णादिशोः स्त्रियाम् । आशुर्धान्यान्तरे शीघ्रेऽपीशा लाङ्गलदण्डके ॥ २ ॥ ईशः प्रभौ महादेवे काशी वाराणसीपुरे । न स्त्रियां तृणभेदे स्यात् कीशो दिगम्बरे कपौ ॥ ३ ॥ कुशी फाले कुशा रज्ज्वां त्रिषु पापिष्ठमत्तयोः । योक्त्ररामसुतद्वीपे ना दर्भेऽस्त्री कुशं जले ॥ ४ ॥ केशः स्यात् पुंसि वरुणे ह्रीबेरे कुन्तलेऽपि च । क्लेशो दुःखेऽपि कोपेऽपि व्यवसायेऽपि दृश्यते ॥ ५ ॥ कोशोऽस्त्री कुद्मले पात्रे दिव्ये खड्गपिधानके । ;p{0163} जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥ ६ ॥ दर्शस्तु स्यादमावस्यायागभेदावलोकने । दंशः कीटविशेषे च वर्मदंशनयोः पुमान् ॥ ७ ॥ दशाऽवस्थादीपवर्त्त्योर्वस्त्रान्ते भूम्नि योषिति । दृक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके ॥ ८ ॥ नाशः पलायनेऽपि स्यान्निधानानुपलम्भयोः । निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः ॥ ९ ॥ पशुर्मृगादिदेवाजे नाव्ययं पशु दर्शने । पाशः केशादिपूर्वः स्यात् तत्सङ्घे कर्णपूर्वकः ॥ १० ॥ सुकर्णे च स्वसामर्थ्यान् मृगपक्ष्यादिबन्धने । पांशुर्धूलौ च शस्यार्थचिरसञ्चितगोमये ॥ ११ ॥ पेशी सुपक्वकलिके मांस्यां खड्गपिधानके । मांसपिण्ड्यामण्डभेदे राशिर्मेषादिपुञ्जयोः ॥ १२ ॥ वंशः पुंसि कुले वेणौ पृष्ठावयववर्गयोः । वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ॥ १३ ॥ त्रिष्वायत्ते क्लीबमायत्तत्त्वे चेच्छाप्रभुत्वयोः । विट् पुंसि मनुजे वैश्ये वेशो वेश्यागृहे गृहे ॥ १४ ॥ नेपथ्ये च शशो वोले लोध्रे नृपशुभेदयोः । स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च ॥ १५ ॥ स्पर्शः स्यात् सम्पराये च प्रणिधावपि पुंस्ययम् । ;v{शत्रिकम्} ;c{शत्रिकम्} आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि ॥ १६ ॥ उड्डीशो ग्रन्थभेदे स्यादुड्डीशश्चन्द्रिकापतौ । उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ॥ १७ ॥ कपिशस्त्रिषु श्यावे स्त्री माधव्यां सिह्वके पुमान् । कर्कशः काशमर्द्देक्षुकाम्पिल्येष्वप्यसौ पुमान् ॥ १८ ॥ त्रिषु साहसिके क्रूरे दृढामसृणनिर्द्दये । ;p{0164} कीनाशः कर्षकक्षुद्रोपांशुघातिषु वाच्यवत् ॥ १९ ॥ यमे ना कुलिशो न स्त्री दम्भोलौ ना झषान्तरे । गिरिशोऽद्रिपतौ वाचस्पतिशङ्करयोः पुमान् ॥ २० ॥ तुङ्गीशस्तु पुमान् गौरीवल्लभे हिमदीधितौ । दुःस्पर्शो धन्वयासे ना कण्टकार्य्यां स्त्रियां त्रिषु । खरस्पर्शेऽथ निस्त्रिंशः खण्डे ना निर्द्दये त्रिषु ॥ २१ ॥ निर्वेशस्तु पुमान् भोगे वेतने मू्र्च्छनेऽपि च । निवेशः पुंसि विन्यासे शिबिरोद्वाहयोरपि ॥ २२ ॥ निदेशः शासनेऽपि स्यात् कथनोपान्तयोरपि । नीकाशो निश्चये तुल्ये पलाशं छदने मतम् ॥ २३ ॥ शटीकिंशुकरक्षःसु पुंसि स्याद् हरिते त्रिषु । प्रकाशस्तु स्फुटे ख्याते प्रहासातपयोरपि ॥ २४ ॥ प्रदेशो देशमात्रे स्यात् तर्जन्यङ्गुष्ठसम्मिते । भित्तावपि च पिङ्गाशी नीलिकायां नपुंसकम् ॥ २५ ॥ जात्यस्वर्णे पुमान् पल्लीपतौ मत्स्यान्तरेऽपि च । वालिशश्च शिशौ मूर्खे भूकेशः शैवले वटे ॥ २६ ॥ भूकेश्यवल्गुजेऽपि स्यात् लोमशो मुनिमेषयोः । लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च ॥ २७ ॥ शूकशिम्बामहामेदाकाशीशे शाकिनीभिदि । विवशस्त्रिष्ववश्यात्मारिष्टदुष्टधियोरपि ॥ २८ ॥ विकाशः पुंसि विजने प्रकाशे सदृशं समे । उचिते चाथ संवेशः स्वापस्त्रीरतबन्धयोः ॥ २९ ॥ सुखाशो वरुणे राजतिनिशे सुखभोजने । हताशो निर्द्दये चाशारहिते पिशुनेऽपि च ॥ ३० ॥ ;v{शचतुष्कम्} ;c{शचतुष्कम्} अपदेशः पुमान् लक्ष्ये निमित्तव्याजयोरपि । अपभ्रंशस्तु पतने भाषाभेदापशब्दयोः ॥ ३१ ॥ आश्रयाशः पुमान् वह्नौ त्रिषु चाश्रयनाशके । ;p{0165} उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि ॥ ३२ ॥ उपदंशो विदंशे च मेढ्ररोगान्तरेऽपि च । क्रूरदृक् पिशुने वाच्यलिङ्गः पुंसि शनैश्चरे ॥ ३३ ॥ खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि । खण्डामलकभैषज्ये सिंहिकातनयेऽपि ना ॥ ३४ ॥ जीवितेशो यमे पुंसि त्रिषु स्याज्जीवितेश्वरे । नागपाशः पुमान् स्त्रीणां करणे वरुणायुधे ॥ ३५ ॥ पञ्चदशी त्वमावास्यापौर्णमास्योश्च योषिति । प्रतिस्पर्शः सहाये स्याद् वार्त्ताहरपुरोगयोः ॥ ३६ ॥ परिवेशो वेष्टने स्यात् परिधावपि पुंस्ययम् । पादपाशी खड्डुकायां शृङ्खलायामपि स्त्रियाम् ॥ ३७ ॥ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । हुतशेषे च भूमिस्पृक् पुंसि मानुषवैश्ययोः ॥ ३८ ॥ ;c{इति शान्तवर्गः ।} ;k{षान्तवर्गः} ;v{षैकम्} ;c{षैकम्} षः कचे पुंसि विज्ञेयः श्रेष्ठे स्यादभिधेयवत् । क्षः संवर्त्ते राक्षसे च नरसिंहे च विद्युति ॥ १ ॥ क्षेत्रे नाशे क्षेत्रपाले क्षिर्निवासे गतौ क्षये । ;v{षद्विकम्} ;c{षद्विकम्} अक्षो ज्ञातार्थशकटव्यवहारेषु पाशके ॥ २ ॥ रुद्राक्षेन्द्राक्षयोः सर्पे बिभीतकतरावपि । चक्रे कर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये ॥ ३ ॥ उषा बाणसुतारात्र्योरुषः कामिनि गुग्गुलौ । रात्रिशेषे उषायान्तु केचिदाहुस्तदव्ययम् ॥ ४ ॥ उषः क्षारमृत्तिकायां प्रभातेऽपि पुमानयम् । तत्सन्धायाञ्च रन्ध्रे च चन्दनाद्रौ श्रवोविले ॥ ५ ॥ ;p{0166} ऋषिर्वेदे वशिष्ठादौ दीधितौ च पुमानयम् । ऋक्षः पर्वतभेदे स्याद् भल्लूके शोणके पुमान् ॥ ६ ॥ कृतवेधनेऽन्यलिङ्गो नक्षत्रे पुन्नपुंसकम् । कक्षा स्यादन्तरीयस्य पश्चादञ्चलपल्लवे ॥ ७ ॥ स्पर्द्धास्पदे ना दोर्मूले कच्छवीरुत्तृणेषु च । कर्णो न कर्षणे मानप्रभेदे पुन्नपुसंकम् ॥ ८ ॥ कर्षो पुमान् करीषाग्नौ स्त्रियां कुल्येष्टिखातयोः । काक्षी तुवरिकायाञ्च सौराष्ट्रमृद्यपि स्त्रियाम् ॥ ९ ॥ कोषोऽस्त्री कुद्मले पात्रे दिव्ये खड्गपिधानके । जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥ १० ॥ घोष आभीरपल्ल्यां स्याद् गेापालध्वनिघोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकौषधौ ॥ ११ ॥ चोक्षो गीते शुचौ दक्षे तथा तीक्ष्णमनोज्ञयोः । झषा नागबलायां स्त्री तापमत्स्याटवीषु ना ॥ १२ ॥ तर्षो लिप्सोदन्ययोस्त्विट् कान्तौ वाचि रुचौ स्त्रियाम् । तुषो धान्यत्वगक्षद्रोस्तृषा लिप्सातृषोः स्त्रियाम् ॥ १३ ॥ तृट् लिप्सायामुदन्यायां स्मरपुत्र्यामपि स्त्रियाम् । दक्षस्त्रिषु पटौ पुंसि ताम्रचूडे प्रजापतौ ॥ १४ ॥ मुनिभेदे हरवृषे द्रुमभेदे स्त्रियां भुवि । दोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च ॥ १५ ॥ ध्वङ्क्षो मत्स्यात् खगे काके तक्षके भिक्षुकेऽपि च । ध्वाङ्क्षी कक्कोलिकायां स्यान्न्युक्षं कार्त्स्न्ये तृणेऽपि च ॥ १६ ॥ क्लीबेऽथ पुंसि महिषे निकृष्टे पुनरन्यवत् । प्लक्षो जटीगर्दभाण्डद्वीपभित्कुञ्जराशने ॥ १७ ॥ पक्षो मासार्द्धके पार्ष्णिग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसहाययोः ॥ १८ ॥ चुल्लीरन्ध्रे पतत्त्रे च वाजे कुञ्जरपार्श्वयोः । प्रेक्षा नृत्येक्षणे बुद्धौ प्रैषः क्लेशे च मर्दने ॥ १९ ॥ ;p{0167} उन्मादे प्रेषणे पौषो मासे तत्पूर्णिमातिथौ । स्त्रियां भिक्षा भृतौ याञ्चासेवाभिक्षितवस्तुषु ॥ २० ॥ माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः । मिषं व्याजे स्पर्द्धने ना मेषो राश्यन्तरे हुडे ॥ २१ ॥ भैषज्यभिदि मोक्षस्तु मुक्तिपाटलिमोचने । यक्षो गुह्यकमात्रे च गुह्यकाधीश्वरेऽपि च ॥ २२ ॥ रक्षा जतुरक्षणयोः रूक्षस्त्वप्रेम्ण्यचिक्कणे । लक्षा न पुंसि सङ्ख्यायां क्लीबं व्याजशरव्ययोः ॥ २३ ॥ वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु । प्रावृट्काले स्त्रियां भूम्नि विट् स्त्री व्यापनविष्ठयोः ॥ २४ ॥ विषं जलेऽतिविषायां स्त्रियां क्ष्वेडे तु न स्त्रियाम् । वृषो धर्मे वलीवर्दे शृङ्ग्यां पुंराशिभेदयोः ॥ २५ ॥ श्रेष्ठे स्यादुत्तरस्थश्च वासामूषिकशुक्रले । तथा वास्तुस्थानभेदे पुमानयं प्रकीर्तितः ॥ २६ ॥ वृषा मूषिकपर्ण्याञ्च यतीनामासने वृषी । व्योषं स्यात् त्रिकटुद्रव्ये करिभेदे पुमानयम् ॥ २७ ॥ शुषिः शोषे बिले स्त्री स्यात् शेषः सङ्कर्षणे वधे । अनन्ते ना प्रसादे न स्वनिर्माल्यार्पणे स्त्रियाम् ॥ २८ ॥ उपयुक्तेतरे न स्त्री शोषो यक्ष्मणि शोषणे । ;v{षत्रिकम्} ;c{षत्रिकम्} अध्यक्षोऽधिकृते पुंसि प्रत्यक्षे त्वभिधेयवत् ॥ २९ ॥ अभिषुः प्रग्रहे रश्मौ नाकर्षो द्यूत इन्द्रिये । पाशके शारिफलके कोदण्डाभ्यासवस्तुनि ॥ ३० ॥ आकर्षणेऽपि पुंसि स्यादामिषं पुन्नपुंसकम् । भोग्यवस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च ॥ ३१ ॥ उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे । उत्प्रेक्षाऽनपधानेऽपि काव्यालङ्करणान्तरे ॥ ३२ ॥ कल्मषं किल्विषे क्लीबं पुंसि स्यान् नरकान्तरे । ;p{0168} कल्माषो यातुधाने च कृष्णपाण्डरकृष्णयोः ॥ ३३ ॥ कलुषं त्वाविले पापे किल्विषं पापरोगयोः । अपराधेऽपि कुल्माषं काञ्जिके यावके पुमान् ॥ ३४ ॥ गण्डूषो मुखपूर्त्तीभपुष्करप्रसृतोन्मिते । गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥ ३५ ॥ गोरक्षो नागरङ्गे स्याद् गवाञ्च परिरक्षके । जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ॥ ३६ ॥ तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः । तरीषी शक्रकन्यायां पुंसि स्वर्गे महोदधौ ॥ ३७ ॥ तारीषी चेन्द्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने । नहुषो नागभेदे स्यात् सोमवंशनृपेऽपि च ॥ ३८ ॥ निकषः शाणफलके निकषा यातुमातरि । निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ॥ ३९ ॥ परुषं कर्बुरे रूक्षे निष्ठुरोक्तौ च वाच्यवत् । प्रदोषः समये दोषे प्रत्युषोऽहर्मुखे वसौ ॥ ४० ॥ पीयूषं सप्तदिवसावधिक्षीरे तथाऽमृते । पुरुषः पूरुषे साङ्ख्यज्ञे च पुन्नागपादपे ॥ ४१ ॥ पौरुषं पुरुषस्य स्याद् भावे कर्मणि तेजसि । ऊर्ध्वविस्तृतदोःपाणिनृमाने त्वभिधेयवत् ॥ ४२ ॥ महिषी कृताभिषेकासैरिभ्योरोषधीभिदि । मारिषः शाकभिद्यार्य्ये नाट्योक्तौ पुंसि योषिति ॥ ४३ ॥ दक्षाम्बायां मृगाक्षी तु विशालामृगनेत्रयोः । रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ ४४ ॥ रौहिषं कत्तृणे क्लीबं पुंसि स्याद् हरिणान्तरे । विश्लेषो विधुरेऽयोगे शुश्रूषा स्यादुपासने ॥ ४५ ॥ कथने श्रोतुमिच्छायां शैलूषो नटबिल्वयोः । संहर्षस्तु प्रमोदेऽपि स्पर्द्धायाञ्च प्रभञ्जने ॥ ४६ ॥ सङ्घर्षः स्यात् पुमान् घृष्टौ स्पर्द्धायामपि दृश्यते । ;p{0169} समीक्षा तु स्त्रियां तत्त्वे बुद्धावपि निभालने ॥ ४७ ॥ ;v{षचतुष्कम्} ;c{षचतुष्कम्} अनुकर्षो रथाधःस्थदारुण्यप्यनुकर्षणे । अम्बरीषं रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे ॥ ४८ ॥ नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुतापे चानिमेषो मत्स्यदेवयोः ॥ ४९ ॥ अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः । अहिद्विड् गरुडे शक्रे मयूरे नकुले पुमान् ॥ ५० ॥ अलम्बुषः प्रहस्ते च छर्दने राक्षासान्तरे । अलम्बुषा तु मुण्डीर्य्यां स्वर्गवाराङ्गनान्तरे ॥ ५१ ॥ अथ किम्पुरुषो लोकभेदकिन्नरयोः पुमान् । देववृक्षः सप्तपर्णीमन्दारादिषु गुग्गुली ॥ ५२ ॥ नन्दिघोषोऽर्जुनरथे घोषे बन्दिजनस्य च । परिवेषस्तु पुंलिङ्गः परिधौ परिवेषणे ॥ ५३ ॥ परिघोषो निनादे स्यादवाच्ये जलदध्वनौ । पलङ्कषा गोक्षुरके रास्नागुग्गुलुकिंशुके ॥ ५४ ॥ मुण्डीरीलाक्षयोश्च स्त्री राक्षसे तु पलङ्कषः । वीरवृक्षो भल्लातकककुभद्रुमयोः पुमान् ॥ ५५ ॥ भूतवृक्षस्तु शाखेटद्रुमे श्योनाकपादपे । महाघोषा तु कर्कटशृङ्ग्या पुंस्यतिघोषणे ॥ ५६ ॥ क्लीबं हट्टे राजवृक्षः सुवर्णाकपियालयोः । वातरूषस्तु वातू्लोत्कचयोः शक्रकार्मुके ॥ ५७ ॥ (१)विशालाक्षो हरे तार्क्ष्ये ना सुनेत्रेऽभिधेयवत् । सकटाक्षो वराक्षे ना कटाक्षसहिते त्रिषु ॥ ५८ ॥ ;c{इति षान्तवर्गः ।} ;f{(१) विशालाक्षं-ख. ।} ;p{0170} ;k{सान्तवर्गः} ;v{सैकम्} ;c{सैकम्} स जीवेच्छे पञ्चवक्त्रे भृगौ भसि निशापतौ । शक्तौ तु सा स्त्रियां सुस्तु प्रसवे गर्भमोचने ॥ १ ॥ ;v{सद्विकम्} ;c{सद्विकम्} कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तु ना । कासूर्विकलवाचि स्यात् तथा शक्त्यायुधे स्त्रियाम् ॥ २ ॥ गुत्सः स्यात् स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः । गोसो बोलोषसोश्चास इक्षुपक्षिभिदोः पुमान् ॥ ३ ॥ त्रासो भये मणेर्दोषे दासी बाणाभुजिष्ययोः । दासो भृत्ये च शूद्रे च ज्ञातात्मनि च धीवरे ॥ ४ ॥ नासा तु नासिकायाञ्च द्वारोर्द्ध्वदारुणि स्त्रियाम् । प्रसूरश्वाजनन्योश्च कन्दलीवीरुधोः स्त्रियाम् ॥ ५ ॥ वसुर्ना देवभेदाग्निभायोक्त्रबकराजसु । क्लीबे वृद्ध्यौषधे श्यामरैरत्ने मधुरे त्रिषु ॥ ६ ॥ भासः पुंसि प्रभायां स्याद् विशेषे विहगस्य च । भास् प्रभावे मयूखे स्त्री भाश्चन्द्रमासयोः पुमान् ॥ ७ ॥ मांसं स्यादामिषे क्लीबं कक्कोलीजटयोः स्त्रियाम् । मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥ ८ ॥ मृत्सा काक्ष्यां श्रेष्ठमृदि रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्य्ये तिक्तादौ द्रवरागयोः ॥ ९ ॥ देहधातुप्रभेदे च पारदस्वादयोः पुमान् । स्त्रियान्तु रसनापाठाशल्लकीकङ्गुभूमिषु ॥ १० ॥ रासः कोलाहले ध्वाने भाषाशृङ्खलकेऽपि च । क्रीडाभेदे च गोपानां वत्सः पुत्रादिवर्षयोः ॥ ११ ॥ तर्णके नोरसि क्लीबं व्यासो ना विस्तृतौ मुनौ । शंसा वचसि वाञ्छायां हंसः स्यान् मानसौकसि ॥ १२ ॥ निर्लोभनृपविष्ण्वर्के परमात्मनि मत्सरे । योगिभेदे मन्त्रभेदे शरीरमरुदन्तरे ॥ १३ ॥ ;p{0171} तुरङ्गमप्रभेदेऽपि हिंसा चौर्य्यादिघातयोः । ;v{सत्रिकम्} ;c{सत्रिकम्} अलसा हंसपद्यां ना पादरोगद्रुभेदयोः ॥ १४ ॥ क्रियामन्दे त्रिष्वथार्चिर्मयूखशिखयोर्न ना । अदस् परस्मिन्नत्र स्यादभ्यासोऽभ्यसनेऽन्तिके ॥ १५ ॥ आगोऽपराधे पापे स्यादाश्वासः पुंसि निर्वृतौ । आख्यायिकापरिच्छेदे चाशीर्दन्ते मरुद्भुजाम् ॥ १६ ॥ हितस्याशंसने स्त्री स्यादिष्वासः कार्मुके पुमान् । त्रिषु स्यात् क्षेपके चेषोरुच्छ्वासः प्राणनेऽपि च ॥ १७ ॥ आख्यायिकापरिच्छेदेऽप्याश्वासेऽपि पुमानयम् । उत्तंसः कर्णपूरेऽपि शिखरेऽपि च न स्त्रियाम् ॥ १८ ॥ उषस् प्रत्यूषसि क्लीबं पितृप्रस्वाञ्च योषिति । उरस् वक्षसि च श्रेष्ठेऽप्येनः पापापराधयोः ॥ १९ ॥ ओजस् दीप्ताववष्टम्भे प्रकाशबलयोरपि । ओकस् आश्रयमात्रे च मन्दिरे च नपुंसकम् ॥ २० ॥ कीकसः कृमिजातौ स्यात् पुंसि कुल्ये नपुंसकम् । चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रियाम् ॥ २१ ॥ छन्दस् पद्ये च वेदे च स्वैराचाराभिलाषयोः । ज्यायान् वृद्धेऽतिप्रशस्ते ज्योतिरग्नौ दिवाकरे ॥ २२ ॥ पुमान् नपुंसकं दृष्टौ स्यान् नक्षत्रप्रकाशयोः । तरो बले च वेगे च तपो लोकान्तरेऽपि च ॥ २३ ॥ चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः । तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुन्तुदे ॥ २४ ॥ तामसी निशि दुर्गायां तामसी भुजगे खले । तेजो दीप्तौ प्रभावे च स्यात् पराक्रमरेतसोः ॥ २५ ॥ धनुः पियाले ना न स्त्री राशिभेदे शरासने । धनुर्द्धरे त्रिषु नभः क्लीबं पुमान् घने ॥ २६ ॥ घ्राणश्रावणवर्षासु बिसतन्तौ पतद्ग्रहे । ;p{0172} पनसः कण्टकीफले कण्टके वानरान्तरे ॥ २७ ॥ स्त्रियां रोगप्रभेदे स्यात् पयः स्यात् क्षीरनीरयोः । पायसस्तु क्लीबपुंसोः श्रीवासपरमान्नयोः ॥ २८ ॥ पुक्कसी कलिकानील्योः पुक्कसः श्वपचेऽधमे । बीभत्सो नाऽर्ज्जुने क्रूरघृणात्मविकृते त्रिषु ॥ २९ ॥ भूयान् त्रिषु बहुतरे पुनरर्थे त्वदोऽव्ययम् । मनस् चित्ते मनीषायां मह उत्सवतेजसोः ॥ ३० ॥ मानसं सरसि स्वान्ते रभसो वेगहर्षयोः । रहस् तत्त्वे रते गुह्ये रजस् क्लीबं गुणान्तरे ॥ ३१ ॥ आर्त्तवे च परागे च रेणुमात्रे च दृश्यते । राक्षसो यातुधाने स्याच्चण्डयां राक्षसी स्मृता ॥ ३२ ॥ रेपाः स्यादधमे क्रूरे कृपणेऽप्यभिधेयवत् । रेतस् शुक्रे पारदे च रोदश्च रोदसीति च ॥ ३३ ॥ दिवि भूमौ पृथक् च स्यात् सह्योक्त्याप्येतयोस्तथा । लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः ॥ ३४ ॥ वयस् पक्षिणि बाल्यादौ यौवने च नपुंसकम् । वर्च्चो नपुंसकं रूपे विष्ठायामपि तेजसि ॥ ३५ ॥ पुंसि चन्द्रस्य तनये वर्हिस् पुंसि हुताशने । न स्त्री कुशे वपुस् क्लीबं तनौ शस्ताकृतावपि ॥ ३६ ॥ वतंसस्तु पुमान् कर्णपूरशेखरयोरपि । वाहसो जलनिर्याने शयालौ सुनिषण्णके ॥ ३७ ॥ वायसोऽगुरुवृक्षे च श्रीवासध्वाङ्क्षयोः पुमान् । काकोडुम्बरिकायाञ्च काकमाच्याञ्च वायसी ॥ ३८ ॥ विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् । विलासो हारभेदे स्याल्लीलायामपि पुंस्ययम् ॥ ३९ ॥ वीतंसो बन्धनोपाये मृगाणां पक्षिणामपि । तेषामपि च विश्वासहेतोः प्रावरणेऽपि च ॥ ४० ॥ वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि । ;p{0173} शिरस् प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च ॥ ४१ ॥ श्रीवासो वृकधूपे स्यात् पङ्कजे मधुसूदने । श्रेयो मुक्तौ शुभे घर्मेऽतिप्रशस्ते च वाच्यवत् ॥ ४२ ॥ श्रेयसी करिपिप्पल्यामभयापाठयोरपि । सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः ॥ ४३ ॥ सरसी विल्ले कासारे सरो नीरतडागयोः । स्यात् समासस्तु पुंलिङ्गः सङ्क्षेपे च समर्थने ॥ ४४ ॥ सारसः पक्षिभेदेन्द्वोः क्लीबन्तु सरसीरुहे । साहसन्तु बलात्कारकृतकार्य्ये दमेऽपि च ॥ ४५ ॥ सुरसन्तु त्रिषु स्वादौ पर्णासे तु नपुंसकम् । स्त्री रास्नानागमात्रोश्च स्रोतोऽम्बुवेग इन्द्रिये ॥ ४६ ॥ हविर्होतव्यमात्रे च सर्पिष्यपि नपुंसकम् । ;v{सचतुष्कम्} ;c{सचतुष्कम्} अधिवासो निवासे स्यात् संस्कारे धूपनादिभिः ॥ ४७ ॥ अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने । अवतंसो न स्त्रियां स्यात् कर्णपूरे च शेखरे ॥ ४८ ॥ अगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि । उदर्च्चिरुत्प्रभे वाच्यलिङ्गः पुंसि हुताशने ॥ ४९ ॥ कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे । कनीयानतियूनि स्यादत्यल्पानुजयोस्त्रिषु ॥ ५० ॥ कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि । भवेद् घनरसः सान्द्रनिर्य्यासे मोरटेऽम्बुनि ॥ ५१ ॥ कर्पूरे पीलुपर्ण्याञ्च सम्यक् सिद्धरसेऽपि च । चन्द्रहासो दशग्रीवकरबालेऽसिमात्रके ॥ ५२ ॥ जटायुस् पुंसि सम्पातेः कनीयसि च गुग्गुलौ । अथ तामरसं पद्मे ताम्रकाञ्चनयोरपि ॥ ५३ ॥ त्रिस्रोता जह्नुकनयायां स्रोतस्वत्यन्तरेऽपि च । दिवोकाश्च दिवौकाश्च पुंसि देवे च चातके ॥ ५४ ॥ ;p{0174} दीर्घायुः शाल्मलीवृक्षे वायसे जीवकद्रुमे । मार्कण्डेये च पुंसि स्याच्चिरजीविनि वाच्यवत् ॥ ५५ ॥ नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि । निःश्रेयसन्तु कल्याणमोक्षयोः शङ्करे पुमान् ॥ ५६ ॥ नीलाञ्जसाऽप्सरोभेदे सरिद्भेदे च विद्युति । प्रचेताः पाशिनि मुनौ ना प्रहृष्टहृदि त्रिषु ॥ ५७ ॥ पुनर्वसुर्ना मुनिभिद्यजे द्वित्वे तु भान्तरे । पौर्णमासः पुमान् यज्ञभेदे स्त्री पूर्णिमातिथौ ॥ ५८ ॥ महारसः स्यात् खर्जुरे कोषकारकशेरुणोः । मलीमसस्तु मलिने पुष्पकाशीशलोहयोः ॥ ५९ ॥ भवेन्मधुरसा द्राक्षामूर्विकादुग्धिकासु च । यमस्वसा तु दुर्गायां यमुनायामपि स्त्रियाम् ॥ ६० ॥ यवीयाननुजेऽपि स्यादतियूनि च वाच्यवत् । रासेरसस्तु गोष्ट्यां स्याद् रासशृङ्गारयोरपि ॥ ६१ ॥ रससिद्धौ रसावासे षष्ठीजागरकेऽपि च । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ६२ ॥ वरीयान् योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च । विहायाः शकुनौ पुंसि गगने पुन्नपुंसकम् ॥ ६३ ॥ विभावसुः पुमान् सूर्य्ये हारभेदे च पावके । श्वःश्रेयसन्तु कल्याणे परमात्मनि शर्म्मणि ॥ ६४ ॥ अथ सर्वरसो वाद्यभाण्डभेदे च धूनके । सप्तार्च्चिः पावके पुंसि क्रूरचक्षुषि तु त्रिषु ॥ ६५ ॥ साधीयानतिबाढे स्यादतिसाधौ तु वाच्यवत् । सिद्धरसो रसे पुंसि धातुप्रभृतिषु त्रिषु ॥ ६६ ॥ सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः । सुमेधास्तु स्त्रियां ज्योतिष्मत्यां त्रिषु सुबुद्धिनि ॥ ६७ ॥ ;v{सपञ्चकम्} दिव्यचक्षुः सुगन्धस्य भेदे नाऽन्धे सुलोचने । ;p{0175} स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ॥ ६८ ॥ हिङ्गुनिर्य्यास इत्येष निम्बे हिङगुरसेऽपि च । ;v{सषट्कम्} ;c{सषट्कम्} हिरण्यरेताः पुंसि स्याद् दिवाकरहविर्भुजोः ॥ ६९ ॥ ;c{इति सान्तवर्गः ।} ;k{हान्तवर्गः} ;v{हैकम्} ;c{हैकम्} हः शिवे सलिले शून्ये धारणे मङ्गलेऽपि च । गगने नकुलीशे च रक्ते नाके च वर्ण्यते ॥ १ ॥ ;v{हद्विकम्} ;c{हद्विकम्} अहिर्वृत्रासुरे सर्पे पुंसीहोद्यमवाञ्छयोः । कुहूः स्त्री कोकिलालापनष्ठेन्दुकलदर्शयोः ॥ २ ॥ ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्य्यादौ पूतनादौ च सैंहिकेयपरागयोः ॥ ३ ॥ ग्राहो ग्रहेऽवहारे च गुहः षण्मातुरे गुहा । सिंहपुच्छ्यां च गर्त्ते च पर्वतादेश्च गह्वरे ॥ ४ ॥ गृहं गृहाश्च पुंभूम्नि कलत्रेऽपि च सद्मनि । नाहस्तु बन्धने कूटे प्रोहो गजाङ्घ्रिपर्वणोः ॥ ५ ॥ वाच्यवन्निपुणे तर्के बर्हं पिच्छे दलेऽस्त्रियाम् । बहु स्यात् त्र्यादिसङ्ख्यासु विपुलेऽप्यभिधेयवत् ॥ ६ ॥ मही नद्यन्तरे भूमौ मह उत्सवतेजसोः । अथ मेाहो नृलिङ्गः स्यादविद्यायाञ्च मुर्च्छने ॥ ७ ॥ लोहोऽस्त्री शस्त्रके लौहे जोङ्गके सर्वतैजसे । वहः स्याद् वृषभस्कन्धे वाहे गन्धवहेऽपि च ॥ ८ ॥ वाहो भुजे पुमान् मानभेदाश्ववृषवायुषु । व्रीहिः सामान्यधान्ये स्यादाशुधान्ये तु पुंस्ययम् ॥ ९ ॥ व्यूहः स्याद् बलविन्यासे निर्माणे वृन्दतर्कयोः । ;p{0176} सहो बले न स्त्रियां स्यात् स्त्रियान्तु नखभेषजे ॥ १० ॥ दण्डोत्पलामुद्गपर्णीकुमारीपृथिवीषु च । सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः ॥ ११ ॥ सिंही तु कण्टकार्य्यां स्याद् वार्त्ताकौ वासकेऽपि च । स्नेहः स्यात् पुंसि तैलादिरसद्रव्ये च सौहृदे ॥ १२ ॥ ;v{हत्रिकम्} ;c{हत्रिकम्} अत्यूहा नीलिकायां स्त्री कालकण्ठखगे पुमान् । आग्रहोऽनुग्रहासक्त्योराक्रमे ग्रहणेऽपि च ॥ १३ ॥ आरोहस्त्ववरोहे च वरारोहाकटावपि । आरोहणे गजारोहे दीर्घत्वे च समुच्छ्रये ॥ १४ ॥ उत्साहस्तूद्यमे सूत्रे कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे स्यात् तैलादेः पाकभाजने ॥ १५ ॥ जायमानविषाणाग्रमहिषीशावकेऽपि च । कलहं युधि वाटे नां खड्गकोषे च भण्डने ॥ १६ ॥ दात्यूहस्तु पुमान् कालकण्टचातकपक्षिणोः । निग्रहो भर्त्सनेऽपि स्यान् मर्य्यादायाञ्च बन्धने ॥ १७ ॥ निर्य्यूहः शिखरे द्वारे निर्य्यासे नागदन्तके । निरूहो बस्तिभेदे स्यादूहशून्ये च निश्चिते ॥ १८ ॥ प्रग्राहस्तु तूलासूत्रे वृषादिप्रग्रहेऽपि च । पटहो ना समारम्भे आनके पुन्नपुंसकम् ॥ १९ ॥ प्रवहस्तु वहिर्यात्रमातरिश्वप्रभेदयोः । प्रग्रहस्तु तूलासूत्रे वन्द्यां नियमने भुजे ॥ २० ॥ हयादिरश्मौ रश्मौ च सुवर्णालुमहीरुहे । प्रवाहस्तु प्रवृत्तौ स्यादपि स्रोतसि वारिणः ॥ २१ ॥ वराहः शूकरे विष्णौ मानभेदेऽद्रिमुस्तयोः । वाराही मातृभेदे स्याद् विश्वक्सेनप्रियौषधा ॥ २२ ॥ राजार्हजोङ्गके क्लीबं राजयोग्येऽभिधेयवत् । विग्रहः कायविस्तारविभागे ना रणेऽस्त्रियाम् ॥ २३ ॥ ;p{0177} विदेहः कायशून्ये स्याज्जनकान्वयभूमिपे । वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च ॥ २४ ॥ सङ्ग्रहो बृहत्युत्तुङ्गे ग्रहसङ्क्षेपयोरपि । सुवहा शल्लक्येलापर्णीगोधापदीषु वीणायाम् ॥ २५ ॥ रास्नाशेफालिकयोः स्त्री सुखवाह्येऽन्यलिङ्गः स्यात् । ;v{हचतुष्कम्} ;c{हचतुष्कम्} अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ॥ २६ ॥ अभिग्रहोऽभिग्रहणेऽभियोगेऽपि च गौरवे । अवरोहोऽवतरणेऽप्यारोहे च लतोद्गमे ॥ २७ ॥ अश्वारोहाऽश्वगन्धायां स्त्रियां त्रिष्वश्ववाहके । उपनाहो व्रणालेपपिण्डे वीणानिबन्धने ॥ २८ ॥ उपग्रहः पुमान् वन्द्यामुपयागेऽनुकूलने । स्याद् गन्धवहा नासायां पुंलिङ्गो मातरिश्वनि ॥ २९ ॥ तनूरुहन्तु लोम्नि स्यात् पतत्रे च नपुंसकम् । तमोऽपहः सहस्रांशुमृगाङ्कजिनवह्निषु ॥ ३० ॥ प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ ३१ ॥ परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः । शापे परिवर्हो राजयोग्यद्रव्ये परिच्छदे ॥ ३२ ॥ परीवाहो जलोच्छ्वासे महीभृद्योग्यवस्तुनि । पितामहो विरिञ्चौ स्यात् तातस्य जनकेऽपि च ॥ ३३ ॥ महासहा मासपर्ण्यामम्लानेऽपि च योषिति । ;v{हपञ्चकम्} प्रपितामह इत्येष विधौ पितृपितामहे ॥ ३४ ॥ ;c{इति हान्तवर्गः ।} ;p{0178} ;k{अव्ययानि} ;c{अथाव्ययानि ।} अथाव्ययानि वक्ष्यन्ते व्यक्तं पूर्वोदितैः क्रमैः । अकाराद्यन्तता चास्मिन् तस्मादप्यतिरिच्यते ॥ १ ॥ ;v{अ} ;c{अ} अशब्दः स्यादभावेऽपि स्वल्पार्थप्रतिषेधयोः । अनुकम्पायाञ्च तथा वासुदेवे त्वनव्ययम् ॥ २ ॥ ;v{आ} ;c{आ} आ प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये । ;v{इ} ;c{इ} इ खेदे च रुषोक्तौ चापाकरणानुकम्पयोः ॥ ३ ॥ ;v{ई} ;c{ई} ई विषादेऽनुकम्पायां लक्ष्म्यां पुनरनव्ययम् । ;v{उ} ;c{उ} उ सम्बोधनरोषोक्त्योरनुकम्पानियोगयोः ॥ ४ ॥ पदस्य पूरणे पादपूरणेऽपि च दृश्यते । ;v{ऊ} ;c{ऊ} ऊ वाक्यारम्भरक्षानुकम्पास्वपि च दृश्यते ॥ ५ ॥ ;v{ऋ} ;c{ऋ} ऋशब्दो गर्हणे वाक्ये देवाम्बायां त्वनव्ययम् । ;v{ॠ} ;c{ॠ} ॠ वाक्यारम्भे रक्षायां वक्षःस्मृत्योरनव्ययम् ॥ ६ ॥ देवाम्बायां दनौ चापि भैरवे दनुजे गतौ । ;v{लृ} ;c{लृ} लृकारो देवताम्बायां भुवि कुध्रे च कीर्त्तितः ॥ ७ ॥ ;v{लॄ} ;c{लॄ} लॄकारो देवनार्य्यां स्यान्नार्य्यात्मन्यपि मातरि । ;v{ए} ;c{ए} ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु ॥ ८ ॥ ;v{ऐ} ;c{ऐ} ऐशब्दो दृश्यते हूतौ स्मृत्यामन्त्रणयोरपि । ;p{0179} ;v{ओ} ;c{ओ} ओ सम्बोधन आह्वाने स्मरणे चानुकम्पने ॥ ९ ॥ ;v{औ} ;c{औ} औशब्दः कथितो हूतौ तथा सम्बोधनेऽपि च । स्त्री तु विश्वम्भरायां स्यात् पुमांस्तु निस्वने स्मृतः ॥ १० ॥ ;v{कैकम्} ;c{कैकम्} कु पापे चेषदर्थे च कुत्सायाञ्च निवारणे । ;v{कद्विकम्} ;c{कद्विकम्} धिक् भर्त्सने च निन्दायाम् ;v{कत्रिकम्} ;c{कत्रिकम्} मनागप्यल्पमन्दयोः ॥ ११ ॥ हिरुक्शब्दो विनार्थे च मध्यार्थेऽपि च दृश्यते । ;v{गद्विकम्} ;c{गद्विकम्} अङ्ग सम्बोधने हष सम्भ्रमासूययोरपि ॥ १२ ॥ ;v{ङद्विकम्} ;c{ङद्विकम्} आङ् सीमायामभिव्याप्तौ क्रियायोगेषदर्थयोः । ;v{चैकम्} ;c{चैकम्} चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये ॥ १३ ॥ पक्षान्तरे तथा पादपूरणेऽप्यवधारणे । ;v{चद्विकम्} ;c{चद्विकम्} किञ्चारम्भे च साकल्ये प्राक् पूर्वस्मिन्नवान्तरे ॥ १४ ॥ अग्रे प्रभातेऽतीते च देशे दिक्कालयोरपि । ;v{चत्रिकम्} ;c{चत्रिकम्} तिर्य्यक् तिरोऽर्थे वक्रे च विहङ्गादौ त्वनव्ययम् ॥ १५ ॥ ननुच प्रश्नदुष्टोक्त्योः सम्यक् दृढप्रशंसयोः । ;v{ञद्विकम्} ;c{ञद्विकम्} नञभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे ॥ १६ ॥ ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः । ;v{ठद्विकम्} ;c{ठद्विकम्} सुष्ठु प्रशंसनेऽपि स्यादत्यर्थे च निगद्यते ॥ १७ ॥ ;p{0180} ;v{ठत्रिकम्} ;c{ठत्रिकम्} अपष्ठु निरवद्ये च शोभनार्थे च दृश्यते । ;v{णचतुष्कम्} ;c{णचतुष्कम्} अन्तरेणपदं विद्याद् विनामध्यार्थयोरपि ॥ १८ ॥ ;v{तैकम्} ;c{तैकम्} तु पादपूरणे भेदे समुच्चयेऽवधारणे । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ॥ १९ ॥ ;v{तद्विकम्} ;c{तद्विकम्} अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽपि च । नितान्तासम्प्रतिक्षेपवाचकोऽप्येष दर्शितः ॥ २० ॥ अस्तु स्यादभ्यनुज्ञानेऽप्यसूयापीडयोरपि । प्रतिक्षेपे प्रशंसायां प्रकर्षे लक्षणेऽपि च ॥ २१ ॥ असम्प्रत्यर्थ उद्दिष्टमिति हेतौ प्रकाशने । निदर्शने प्रकारे स्यात् परकृत्यनुकर्षयोः ॥ २२ ॥ समाप्तौ च प्रकरणेऽप्युताऽत्यर्थविकल्पयोः । समुच्चये वितर्के च प्रश्ने च पादपूरणे ॥ २३ ॥ उत् स्यात् प्रश्ने वितर्के च चेत् कुत्सितप्रशंसयोः । पक्षान्तरेऽप्यसाकल्ये जातुशब्दो विगर्हणे ॥ २४ ॥ कदाचिदर्थेऽपि तथा नेत् विकल्पनिषेधयोः । प्रति प्रतिनिधावित्थम्भूताख्यानाभिमुख्ययोः ॥ २५ ॥ मात्रार्थभागवीप्सासु लक्षणप्रतिदानयोः । बतामन्त्रणसन्तोषखेदानुक्रोशविस्मये ॥ २६ ॥ स्वस्ति स्यान्मङ्गले पुण्येऽप्याशंसायामपि क्वचित् । स्वित् प्रश्ने च वितर्के च तथैव पादपूरणे ॥ २७ ॥ हन्त वाक्यारम्भखेदविषादहर्षसम्भ्रमे । ;v{तत्रिकम्} ;c{तत्रिकम्} आराद् दूरे समीपे च कच्चित् कामप्रवेदने ॥ २८ ॥ प्रश्ने हर्षे मङ्गले च किमुत प्रश्नतर्कयोः । ;p{0181} विकल्पेऽतिशयेऽपि स्यात् तावत् मानेऽवधारणे ॥ २९ ॥ सम्भ्रमे च परिच्छेदे तथा कार्त्स्न्याधिकारयोः । पश्यत् स्याच्च प्रशंसायां विस्मये च निगद्यते ॥ ३० ॥ पश्चात् प्रतीच्यां चरमेऽप्यधिकारेऽपि दृश्यते । यद्वत् प्रश्ने वितर्के च यावत् कार्त्स्न्येऽवधारणे ॥ ३१ ॥ प्रशंसायां परिच्छेदे मानाधिकारसम्भ्रमे । पक्षान्तरे च शश्वत् स्यादनुप्रासे च मङ्गले ॥ ३२ ॥ पुराकल्पे सदार्थे च पुनरर्थे च दृश्यते । सकृत् सहैकवारे स्यात् साक्षात् प्रत्यक्षतुल्ययोः ॥ ३३ ॥ ;v{तचतुष्कम्} ;c{तचतुष्कम्} अहोबताऽनुकम्पायां खेदे सम्बोधनेऽपि च । पुरस्तात् प्रथमे प्राच्यामग्रतोऽर्थपुरार्थयोः ॥ ३४ ॥ ;v{थद्विकम्} ;c{थद्विकम्} अथाथो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकार्त्स्न्यारम्भसमुच्चये ॥ ३५ ॥ तथाऽभ्युपगमे पृष्टप्रतिवाक्ये समुच्चये । सदृशे निश्चयेऽपि स्याद् यथा तुल्याथमानयोः ॥ ३६ ॥ प्रशंसायां वृथा वन्ध्ये निष्कारणे- ;v{थत्रिकम्} ;c{थत्रिकम्} ऽन्यथा पुनः । वितथे चापरार्थे च सर्वथा हेतुबाढयोः ॥ ३७ ॥ ;v{दद्विकम्} ;c{दद्विकम्} उद् प्रकाशे विभागे च प्राबल्यास्वास्थ्यशक्तिषु । प्राधान्ये बन्धने भावे मोक्षे लाभोर्ध्वकर्मणोः ॥ ३८ ॥ यद् गर्हाहेत्ववधृत्योर्यदि गर्हाविकल्पयोः । ;v{धद्विकम्} ;c{धद्विकम्} अधि स्यादधिकारे चापीश्वरे च निगद्यते ॥ ३९ ॥ ;v{नैकम्} ;c{नैकम्} न स्यान्निषेधोपमयोर्नि निवेशभृशार्थयोः । ;p{0182} नित्यार्थसंशयक्षेपकौशलोपरमेषु च ॥ ४० ॥ सामीप्याश्रयदानेषु मोक्षान्तर्भावबन्धने । राश्यधोभावविन्यासे नु वितर्कापमानयोः ॥ ४१ ॥ विकल्पानुनयातीते प्रश्ने हेत्वपदेशयोः । ;v{नद्विकम्} ;c{नद्विकम्} अनु हीने सहाथ च पश्चात्सादृश्ययोरपि ॥ ४२ ॥ लक्षणेत्थम्भूताख्यानभागवीप्सास्वनुक्रमे । आयामे च समीपे च किन्नु प्रश्नवितर्कयोः ॥ ४३ ॥ चन विस्मये साकल्ये ननुशब्दो विनिग्रहे । अनु प्रश्ने परकृताधिकारे च सम्भ्रमे ॥ ४४ ॥ आमन्त्रणेऽप्यनुनये प्रश्नानुज्ञावधारणे । नानाशब्दो विनार्थेऽपि तथानेकोभयार्थयोः ॥ ४५ ॥ स्थाने तु करणार्थे स्याद् युक्तसादृश्ययोरपि । ;v{पद्विकम्} ;c{पद्विकम्} अप स्यादपकृष्टार्थे वर्जनार्थवियोगयोः ॥ ४६ ॥ विपर्य्यये च विकृतौ चौर्य्ये निर्देशहर्षयोः । अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये ॥ ४७ ॥ तथा युक्तपदार्थेऽपि कामकारक्रियासु च । उप स्यादधिकार्थे च हीनार्थासन्नयोरपि ॥ ४८ ॥ ;v{भद्विकम्} ;c{भद्विकम्} अभीत्थम्भूतकथने चाभिमुख्याभिलाषयोः । ;v{मैकम्} ;c{मैकम्} मा वारणे विकल्पे च स्मातीते पादपूरणे ॥ ४९ ॥ स्यान् मङ्गले परकृतौ ;v{मद्विकम्} ;c{मद्विकम्} अमाऽन्तिकसहार्थयोः । आम् ज्ञाननिश्चयस्मृत्योरुम् रोषेऽङ्गीकृतावपि ॥ ५० ॥ प्रश्नेऽपि स्यादूम् रुषोक्तौ पृच्छायामोमुपक्रमे । ;p{0183} प्रणवे चाभ्युपगमे चापाकृतौ च मङ्गले ॥ ५१ ॥ कम् पादपूरणे तोये मस्तके च सुखेऽपि च । किम् कुत्सायां वितर्के च निषेधप्रश्नयोरपि ॥ ५२ ॥ किमु सम्भावना स्याद् विमर्शे चापि दृश्यते । नाम कोपेऽम्युपगमे विस्मये स्मरणेऽपि च ॥ ५३ ॥ सम्भाव्यकुत्साप्राकाश्यविकल्पेऽपि च दृश्यते । सम् कल्याणे सुखे सन्तु शोभनार्थसमार्थयोः ॥ ५४ ॥ सङ्गार्थे च प्रहृष्टार्थे सामि निन्द्रार्द्धयोर्मतम् । हम् रुषोक्तावनुनये हुम् स्मृतावप्यपाकृतौ ॥ ५५ ॥ अनुप्रश्नेऽभ्यनुज्ञायां हूम् स्यात् प्रश्नवितर्कयोः । ;v{मत्रिकम्} ;c{मत्रिकम्} अलम् भूषणपर्य्याप्तिवारणेषु निरर्थके ॥ ५६ ॥ शक्तावेवम् प्रकारे स्यादङ्गीकारेऽवधारणे । अनुप्रश्ने परकृतावुपमापृच्छयोरपि ॥ ५७ ॥ कथम् हर्षे च गर्हायां प्रकारार्थे च सम्भ्रमे । प्रश्ने सम्भावनायाञ्च कामम् चाऽनुमतौ स्मृतम् ॥ ५८ ॥ प्रकामे चाप्यसूयायां तथाऽनुगमनेऽपि च । जोषम् सुखे प्रशंसायां तूष्णींलङ्घनयोरपि ॥ ५९ ॥ नूनन्तु निश्चिते तर्के स्मरणे वाक्यपूरणे । परम् नियोगे क्षेपे च प्राध्वम् नर्मानुकूलयोः ॥ ६० ॥ सत्यम् प्रश्नेऽभ्युपगमे- ;v{मचतुष्कम्} ;c{मचतुष्कम्} ऽवश्यम् नित्यप्रयत्नयोः । अभीक्ष्णम् मुहुरश्रान्ते शीघ्रप्रकर्षयोरपि ॥ ६१ ॥ इदानीम् वाक्यभूषायां सम्प्रत्यर्थे च दृश्यते । तद्दिनम् दिनमध्ये स्यात् तथैव प्रतिवासरे ॥ ६२ ॥ साम्प्रतम् चाधुनार्थे स्यादुचितार्थे च दृश्यते । ;p{0184} ;v{यद्विकम्} ;c{यद्विकम्} अयि प्रश्नानुनययोस्तथा सम्बोधनेऽपि च ॥ ६३ ॥ अये क्रोधे विषादे च सम्भ्रमे स्मरणेऽपि च । दिष्ट्या हर्षे मङ्गले च पश्यशब्दस्तु विस्मये ॥ ६४ ॥ प्रशंसायामपि तथा ;v{यत्रिकम्} ;c{यत्रिकम्} समयाऽन्तिकमध्ययोः । ;v{रैककम्} ;c{रैककम्} प्र प्रकर्षे गताद्यर्थेऽपि- ;v{रद्विकम्} ;c{रद्विकम्} अरेऽपाकृत्यसूययोः ॥ ६५ ॥ उर्य्यूरी चाप्युभौ शब्दौ विस्तारेऽङ्गीकृतावपि । दुर्निषेधे च कष्टे च निर्निर्णयनिषेधयोः ॥ ६६ ॥ परि स्यात् सर्वतोभावे वर्जने व्याधिशेषयोः । इत्थम्भूताख्यानभागवीप्सालिङ्गनलक्षणे ॥ ६७ ॥ दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे । परा विमोक्षप्राधान्यप्रातिलोम्येषु धर्षणे ॥ ६८ ॥ आभिमुख्ये भृशार्थे च विक्रमे च गतौ वधे । पुरा पुराणे निकटे प्रबन्धातीतभाविषु ॥ ६९ ॥ स्वः प्रेत्य व्योम्नि नाके चापि- ;v{रत्रिकम्} ;c{रत्रिकम्} अन्तः स्वीकारमध्ययोः । अन्तरा तु विनार्थे स्यान्मध्यार्थनिकटार्थयोः ॥ ७० ॥ उरर्यूरुर्य्यूररी च विस्तारेऽङ्गाकृतौ त्रयम् । नकिर्निषेधोपमयोः प्रादुः प्राकाश्य इष्यते ॥ ७१ ॥ सम्भाव्ये च प्रवृत्तौ च पुनरप्रथमे मतम् । अधिकारे च भेदे च तथा पक्षान्तरेऽपि च ॥ ७२ ॥ ;v{लद्विकम्} ;c{लद्विकम्} किलशब्दस्तु वार्त्तायां सम्भाव्यानुनयार्थयोः । ;p{0185} खलु स्याद् वाक्यभूषायां जिज्ञासायाञ्च सान्त्वने ॥ ७३ ॥ वीप्सामाननिषेधेषु पूरणे पदवाक्ययोः । ;v{वैकम्} ;c{वैकम्} वा स्याद् विकल्पोपमयोर्वितर्के पादपूरणे ॥ ७४ ॥ समुच्चये च विस्रम्भे ननार्थातीतयोरपि । वै स्यात् सम्बोधने पादपूरणेऽनुनयेऽपि च ॥ ७५ ॥ वि निग्रहे नियोगे च तथैव पादपूरणे । निश्चयेऽसहने हेतावव्याप्तिविनियोगयोः ॥ ७६ ॥ ईषदर्थे परिभवे शुद्धावालम्बनेऽपि च । विज्ञाने- ;v{वद्विकम्} ;c{वद्विकम्} अथैव चौपम्ये नियोगे वाक्यपूरणे ॥ ७७ ॥ अवधारणे च चारनियोगे च विनिग्रहे । ;v{षद्विकम्} ;c{षद्विकम्} उषा रात्रौ तदन्ते च दोषा रात्रौ च तन्मुखे ॥ ७८ ॥ मङ्क्षु शीघ्रे भृशार्थे च ;v{षत्रिकम्} ;c{षत्रिकम्} निकषाऽन्तिकमध्ययोः । ;v{सैकम्} ;c{सैकम्} सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिषु ॥ ७९ ॥ ;v{सद्विकम्} ;c{सद्विकम्} आस् स्मरणेऽपाकरणे कोपसन्तापयोरपि । ईस् दुःखभावने कोपे निस् निषेधे च निश्चये ॥ ८० ॥ साकल्यातीतयोर्भोस्तु सम्बोधनविषादयोः । ;v{सत्रिकम्} ;c{सत्रिकम्} अञ्जसाशब्द आख्यातस्तत्त्वतूर्णार्थयोरपि ॥ ८१ ॥ तिरोऽन्तर्द्धौ तिर्यगर्थे नीचैः स्वैराल्पयोर्मतम् । पुरोऽग्रे प्रथमे भूयोऽधिकारे च पुनः पुनः ॥ ८२ ॥ ;p{0186} मिथोऽन्योन्ये रहोऽर्थे च शनैः स्वैरे शनैश्चरे । ;v{सचतुष्कम्} ;c{सचतुष्कम्} अभितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके ॥ ८३ ॥ अग्रतः प्रथमे चाग्रे पुरतः प्रथमाग्रयोः । पूर्वेद्युः प्रातःकाले स्यात् तथैव धर्मवासरे ॥ ८४ ॥ ;v{हैकम्} ;c{हैकम्} ह स्यात् सम्बोधने पादपूरणे च विनिग्रहे । नियेागे च क्षिपायां स्यात् कुत्सायामपि दृश्यते ॥ ८५ ॥ हा विषादे च शोके च कुत्सा दुःखार्थयोरपि । हि पादपूरणे हेतौ विशेषेऽप्यवधारणे ॥ ८६ ॥ प्रश्ने हेत्वपदेशे च सम्भ्रमासूययोरपि । ही दुःखे हेतावाख्यातो विषादे विस्मयेऽपि च ॥ ८७ ॥ हे सम्बोधन आह्वानेऽप्यसूयादौ च दृश्यते । है सम्बोधन आह्वाने होहौशब्दौ तथैतयोः ॥ ८८ ॥ ;v{हद्विकम्} ;c{हद्विकम्} अह प्रशंसाक्षिपयोर्नियोगे च विनिग्रहे । अहो धिगर्थे शाके च करुणार्थविषादयोः ॥ ८९ ॥ सम्बोधने प्रशंसायां विस्मये पदपूरणे । असूयायां वितर्के स्यादाह क्षेपनियोगयोः ॥ ९० ॥ आहो प्रश्ने वितर्के च सह साकल्य इष्यते । विद्यमाने च सादृश्ययौगपद्यसमृद्धिषु ॥ ९१ ॥ सम्बन्धे च तथा हीहीशब्दो विस्मयहास्ययोः । हेहै सम्बोधने हूतौ होहौशब्दौ तथैतयोः ॥ ९२ ॥ ;v{हत्रिकम्} ;c{हत्रिकम्} अहहेत्यद्भुते खेदे परिक्लेशप्रकर्षयोः । सम्बोधनेऽपि चोताहो परिप्रश्नविचारयोः ॥ ९३ ॥ ;c{अव्ययानेकार्थवर्गः समाप्तः ।} ;k{उपसंहारः} ;c{उपसंहारः ।} उत्पलिनीशब्दार्णवसंसारावर्तनाममालाख्यान् । भागुरिवररुचिशाश्वतवोपालितरन्तिदेवहरकोषान् ॥ उमरशुभाङ्कहलायुधगोवर्धनरभसपालकृतकोषान् । रुद्रामरदत्ताजयगङ्गाधरधरणिकोषांश्च ॥ हारावल्यभिधानं त्रिकाण्डशेषं च रत्नमालां च । अपि बहुदोषं विश्वप्रकाशकेाषं च सुविचार्य ॥ वाग्भटमाधववाचस्पतिधर्मव्याडितारपालाख्यान् । अपि विश्वरूपविक्रमादित्यनामलिङ्गानि सुविचार्य ॥ कात्यायनवामनचन्द्रगोमिरचितानि लिङ्गशास्त्राणि । पाणिनिपदानुशासनपुराणकाव्यादिकं च सुनिरूप्य ॥ षट्शतगाथाकोषप्रणयनविख्यातकौशलेनाऽयम् । मेदिनिकरेण कोषः प्राणकरसूनुना रचितः ॥ ;c{इति श्रीप्राणकरसूनुश्रीमेदिनिकरनिर्मितो नानार्थशब्दकोशाख्यो मेदिनीकोशः समाप्तः ।}