THE KĀSHI SANSKRIT SERIES (HARIDÁS SANSKRIT GRANTHAMĀLĀ) NĀNĀRTHA S'ABDA KOSA BY S'RĪ MEDINIKARA नानार्थशब्दकोशापरपर्यायो मेदिनीकोशः श्रीमेदिनिकरनिर्मितः । BY Sāhityāchārya pt. Jagannath Slastri Hoshing PUBLISHED BY JAYA KRISHNA DĀS HARIDĀS GUPTA The Chowkhamba Sanskrit Series Office, 1940. All Rights Reserved by the Publishers. 1940. प्राप्तिस्थानम् चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी । उपोद्घातः । अथैतत्प्रकाश्यते मेदिनिकरविरचित'नानार्थशब्दकोशाभिधानं मुद्रयित्वा पुस्तकम् । विद्याविलासमुद्रणालयाधिपतिगोलोकवासिश्रेष्ठिवरश्रीहरिदासगुप्तात्मज श्रीजयकृष्णदा समहोदयैः प्रेरितोऽहं प्रावर्तिषि प्रस्तुत पुस्तकमुद्रणकर्मणि । तदिदं पुस्तकं कलि कातानगयोमुभयत्र काश्यामेकत्रात्रैव पुरा मुद्रितमभूत् । तत्र स्वीयमेक माधारभूतं कलिकातानगरीयेणापरेण सह समालोच्य सम्पादिताय प्रस्तुतावृत्त भूमिक, शब्दानुक्रमणिका, शुद्धिपत्रादिकच्चापि सन्निवेश्य तदुपयोक्तृणां विदुषां कृते प्रकाश्यमुपनियम् । . विद्याविलासाध्यक्षमहोदयान, बलवतीय मिच्छा जागर्ति-‘यथासम्भवं सर्वेषा मनेकेषां वा कोशान प्रकाशनं मुद्रणालयादस्माकं जायतामिति । तदनुकूल मेव प्रयतमानैस्तैः श्रेष्टिवरैः श्रीमती श्रीघनानन्दपाण्डेय-श्रीजनार्दनज्योतिर्विरप्रभृतीना मन्यैषां च विदुषी साहाय्येन सङ्गृहीतानि कोशपुस्तकान्यनेकानि स्वान्तिके न्यस्तानि, तान्यैव क्रमशः प्रकाशयितुं बद्धपरिकरैस्तैरिदानी द्वित्रा विद्वांसोऽत्र सम्प्रायें नियुक्ताः । तत्र साम्प्रतं यावत्-१ हेमचन्द्रकृतोऽनेकार्थसङ्ग्रहः, २ अमरसिंहरचितोऽमरकोशः, ३ श्रीक्षपणकस्यानेकार्थे ध्वनिमञ्जरी, ४ भट्टमलप्रणीताऽऽख्यातचन्द्रिका, ५ पुरुषो त्तमदेवनिर्मित एकाक्षरकोशः, ६ श्रीहर्षोंपज्ञो द्विरूपकोशः, ७ महेश्वरेण समुन्नीतो विश्वप्रकाश कोशश्चेति सप्त कोशा मुद्रिता विक्रयार्थ प्रस्तुताः सन्ति । अद्य पुनः ८ नानार्थ शब्दकोशापरपयोयो मेदिनिकर ग्रथितो मेदिनीकोशनाम्ना प्रसिद्धः कोशो ग्राहकानुप्राइकमहोदयानां सुधियां पुरस्तादुपायनीक्रियते । एतदुत्तरं च पुरुषो ३. हारावली हलायुधस्याऽभिधानरत्नमाला वा न चिराय प्रकाशमेव्यतीति समवशिष्टानो कोशानी कृते विद्वद्धौरेयै धैर्यमवश्यमभ्युपगन्तव्यम् । । ३दिनीकोशप्रणेतुः परिचयादिकं न विस्तरेण समुपलभ्यते । उपसंहारात्मक पौस्तकेण च यावानुपलभ्यते परिचयस्तावतैवाधस्तानिर्दिष्टेन सन्तोष्टदर्य सुधीभिः । षट्शतगाथाकोशप्रणयनविख्यातकौशलेनायम् । मेदिनिकरण कोशः सरसंनुना विरचितः ॥” इत्यन्तिमभागस्थेन पद्यनामुष्य पितुनम प्राणकर इति, स्वस्य नाम मेदिनिकर इति, षट्शतगाथात्मककोशप्रणेतेति च स्पष्टमवगम्यते । ॥ ॥ ( २ ) अस्य समयस्तु ने स्पष्टमवगन्तुं शक्यते । तथापि समालोचनविधया द्वादशी शताब्दीशवीयेति तर्कपदवीमारोहति । तथाच पञ्चदशशताब्यां वर्तमानो रायमुकुटः समुल्लिलेख मेदिनि रमिति न ततः परस्तात्तेन भवितुं शक्यते इति निर्विरोधम् । तथाच द्वादश शताब्याः पूर्व विद्यमानानामेव विदुषां कोश कर्तृणां ग्रन्थावलोकन मिषेण नामानि समुपन्यस्यतोऽस्य न ततः पूर्वंभावित्वं सुतरां सिद्ध यतीत्यपि न तिरोहितं केषामपि विदुषामितिहासविदाम् । चतुर्दशशताब्दीकेन पृषोदरादिवृत्ति कृता पद्मनाभदत्तेनाप्ययमुट्टङ्कित इति, शिशुपालवधस्य द्वितीय सर्गीयपश्चषष्टितमस्य पद्यस्य व्याख्यावसरे श्रीमतिलनाथोऽप्येतं प्रमाणवेनोपन्यस्त वानिति ततः पूर्व वर्ती चायमिति सिद्धमेव । श्रीषकेरियासम्पादिताय मङ्गटोकायां मेदिन्या उल्लेखा, द्वादशशताब्दीक एवायमिति निर्धारयितुं शक्यते, यतो हि तस्या रचनाकाल द्वादश शताब्द्या अन्तिमश्चतुर्थो भाग इति सम्मत समेषामितिहास परायणान लब्ध वर्णानामिति । । स्वपूर्ववर्तिनी कोशप्रणेतृणां नामान्युल्लिखन्नेष मेदिनि करो विश्वप्रकाशकोश बहुदोषं प्रख्यापयन्नपि नैकधा सामञ्जस्यमावहति तेनेति तदाधारः सुष्टु प्रणिनायेद प्रन्थरत्नमित्यपि नाविदितं बुद्धिमताम् । एवमयं कोशस्तोषयिष्यति विपश्चित मनसोति सम्पायमानोऽप्यक्षरसंयोजक दोषादस्माकं मतिमान्द्याद्वा क्वचन स्खलनं जनयैच्चेतहि गुणैकपक्षपातिनः क्षमि. घ्यन्तीति पूर्णो विश्वासः । येषां येषां विदुषां पुस्तकानां च साहाय्येनाऽपूयत कार्यमिदं, ते संस्मर्यन्ते साम्प्रतम् । संशोधनादिषु विशिष्टं साहाय्यं विदधतः पणशीकरश्रीरामचन्द्रशास्त्रिणः कया वा विधया सभा जनीया इति न ज्ञायते । नाधिकं किमप्यवशिष्यते वक्तु: मित्युपसँहारेऽस्माभिः श्रीमन्तो गुरुचरणा जगन्नियन्तारः काशीपतिश्रीविश्वनाथ चरणाश्च प्रणम्यन्ते, बिरम्यते च वृथा पत्कविताममु मादुरोद्धातप्रमादिति शिवम् । काशी । शी। १ ॥ १९९७ वैकमे वर्षे, मार्गशीर्ष शुक्ल षष्ट्याम् ) विद्वदनुप्रभाजनम् जगन्नाथशास्त्री होशिङ्गः ॥