;METADATA ;title{नानार्थोदयसागरकोष} ;author{घासीलालजी} ;bookFullName{जैनाचार्य पूज्यश्री घासीलालजी महाराज प्रणीत नानार्थोदयसागरकोषः हिन्दी व्याख्या समन्वित} ;bookSeriesDetails{संप्रेरक - ध्यानयोगी तपस्वी खानदेश केशरी पंडितरत्न मुनिश्री कन्हैयालाल जी महारज} ;editor{} ;editorQualifications{} ;publisher{आचार्य श्री घासीलाल जी महाराज साहित्य प्रकाशन समिति, ३०, जावरा कम्पाउण्ड, इन्दौर - ४५२००१ (मध्यप्रदेश)} ;pressDetails{श्रीचन्द सुराना के लिए, दिवाकर प्रकाशन, ७, अबागढ हाउस, एम। जी। रोड, आगरा - २८२००२ (उत्तर प्रदेश), मुद्रक - शक्ति प्रिण्टर्स, आगरा} ;publicationYear{July 1988 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SKGL} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. www.jainelibrary.org for putting the scanned book online. 3. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{none} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{} ;version0.0.2{22 May 2019} ;version0.0.3{10 June 2019} ;version0.0.4{10 June 2019} ;version0.1.0{11 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;c{नानार्थोदयसागर कोषः} ;p{0001} अंशुः प्रभायां किरणे लेशे वेशे विवस्वति । असमञ्जसपुत्रेऽर्केंऽशुमानंशुयुते त्रिषु ॥ १ ॥ अंहतिः स्त्री वितरणे रोगे त्यागेऽभिधीयते । अकूपारः कूर्मराजे पाषाणादि सरित्पतौ ॥ २ ॥ अगः सूर्ये भुजंगे च पर्वतेऽपि महीरुहे । अग्निर्भल्लातके स्वर्णे पित्तनिम्बुकवह्निषु ॥ ३ ॥ ;p{0002} अग्रोऽधिके प्रधाने च प्रथमेऽपि त्रिलिंगकः । अग्रजो ब्राह्मणे ज्येष्ठभ्रातर्यग्रजनौ त्रिषु ॥ ४ ॥ अङ्कः क्रोडेऽपवादे च चिह्ने भूषणरेखयोः । नाटकांशे चित्रयुद्धे समीपे स्थानदेहयोः ॥ ५ ॥ अंकुरो लोम्नि रुधिरे सलिलेऽभिनवोद्भिदे । अंगो देशान्तरे पुंसि निकटे कायचित्तयोः ॥ ६ ॥ अंगजस्तनये कामे मदे कुन्तलरोगयोः । अंगणं चत्वरे याने गमनेऽङ्गनमित्यपि ॥ ७ ॥ अंगना सार्वभौमाख्य दिग्गजस्त्रीस्त्रियोर्मता । अंसः स्कन्धे विभागेऽथ दुःखैनोव्यसनेष्वघम् ॥ ८ ॥ ;p{0003} अजपस्त्वसदध्येतृच्छागपालकयोर्द्वयोः । अतुलस्तिलवृक्षे स्यात्तुलना रहिते त्रिषु ॥ ९ ॥ अत्ययोऽतिक्रमे मृत्यौ दण्डे दोषे कलाकले । अत्याहितं जीवनाशाशून्यकृत्ये महाभये ॥ १० ॥ मान्ये पूज्ये श्लाघनीये स्मर्यतेऽत्रभवांस्त्रिषु । अथो अथेत्यव्यये द्वे प्रारम्भे प्रश्नकार्त्स्न्ययोः ॥ ११ ॥ विकल्पे संशये चार्थेऽधिकारेऽनन्तरे शुभे । अदृष्टं भागधेये स्याज्जलाग्नि जनिते भये ॥ १२ ॥ जन्मान्तरीयसंस्कारेऽवीक्षिते वाच्यलिंगभाक् । अद्रिः पुंसि गिरौ सूर्ये परिमाणान्ते च तरौ ॥ १३ ॥ ;p{0004} अधोऽव्ययं तलेऽनूर्ध्वे योनिपातालयोरपि । अधरस्त्रिषु हीने स्यादधोदेशाधऽरोष्ठयोः ॥ १४ ॥ अधिकारः प्रकरणे स्वामित्वे प्रक्रियादिके । तथाऽधिकृतदेशादौ दन्तरोगेऽधिमांसकः ॥ १५ ॥ अधिवासो निवासे स्यात् संस्कारे धूपनादिभिः । अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासने स्थितौ ॥ १६ ॥ ;p{0005} अधिक्षिप्तः प्रणिहिते प्रेरिते भर्त्सिते त्रिषु । अभिष्यन्दोऽतिवृद्धौ स्यात्स्रावे लोचनामये ॥ १७ ॥ अधीरश्चञ्चले भीरौ त्रिषु विद्युति तु स्त्रियाम् । अध्वगः पथिके सूर्ये खेसरे व क्रमेलके ॥ १८ ॥ अध्वरः सावधाने स्याद् वसुभेदे सवे पुमान् । अध्वा संस्थान-समय-स्कन्ध-शास्त्रेषु वर्त्मनि ॥ १९ ॥ अनो नपुंसकं जन्म-जनन्योः शकटेऽन्धसि । अनघो निर्मलेऽपापे मनोज्ञे वाच्यलिंगभाक् ॥ २० ॥ अनगं गगने चित्ते कामदेवे त्वसौ पुमान् । अनन्तो बलदेवे स्याच्चतुर्दशजिनेऽच्युते ॥ २१ ॥ ;p{0006} वासुकौ शेषनागे च सिन्दुवारतरौ पुमान् । अनन्तमभ्रके व्योम्नि निस्सीमे त्वभिधेयवत् ॥ २२ ॥ अनन्ताऽग्निशिखा वृक्ष-गुडूची-पिप्पलीषु च । पार्वती-भूमि-दुर्वासु यवासाऽनन्तमूलयोः ॥ २३ ॥ दुरालभाऽऽमलक्योश्च हरीतक्यामपि स्मृता । अनयो व्यसने दैवेऽमगंले ना विपद्यपि ॥ २४ ॥ अनलो वसुभेदेऽग्नौ पित्ते भल्लातके पुमान् । अनुबन्धः प्रकृत्यादौ बन्धे लेशे विनश्वरो ॥ २५ ॥ मुख्यानुगुशिशौ पश्चाद्बन्धने प्रकृतान्वये । दोषोत्पत्तौ तथाऽऽरम्भे सम्बन्धादिचतुष्टये ॥ २६ ॥ ;p{0007} अनुरागः पुमान् स्नेहे व्यासक्तावपि कीर्तितः ॥ २७ ॥ द्वेषेऽनुतापेऽनुशयोऽनुबन्धेपि पुमान् मतः । अनुकूलं स्वभावे स्यात्कुले च गतजन्मनि ॥ २८ ॥ अन्तःस्वरूपे सीमायां निश्चयेऽवयवेऽन्तिके । रम्ये समाप्तौ निधने स्वभावेऽवसितेऽपि च ॥ २९ ॥ अन्तरं छिद्र-तादर्थ्य-भेदेष्वन्तर्द्धि-मध्ययोः । आत्मीयेऽवसरे तुल्ये परिधानेऽन्तरात्मनि ॥ ३० ॥ बहिर्विनाऽवधि-प्रान्ता-वकाशेषु नपुंसकम् । अन्तरा वर्जने मध्ये विनार्थे निकटेऽव्ययम् ॥ ३१ ॥ अपकारोऽपक्रियायां द्रोहे निःक्षेपकर्मणि । पूजायां निष्कृतौ हानौ व्ययेऽप्यपचितिः स्त्रियाम् ॥ ३२ ॥ ;p{0008} चूर्णीकृते परित्यक्तेऽपध्वस्तो निन्दिते त्रिषु । शमी-शेफालिका-दुर्गा-शङ्खिनीष्वपराजिता ॥ ३३ ॥ विष्णुक्रान्ता-स्वप्नफला-हपुष्पेषु च कीर्तिता । अचलः कीलके शैले पुंस्यकम्पे त्रिषु स्मृतः ॥ ३४ ॥ अच्छो निर्मलः भल्लूक-स्फटिकेष्वच्छमव्ययम् । अञ्जनं म्रक्षणे व्यक्तीकरणे कज्जले गतौ ॥ ३५ ॥ अट्टस्त्वतिशये क्षौमे हट्टे हर्म्यादिवेश्मनि । अजो ब्रह्मणि कन्दर्पे शिवे विष्णौ रघोः सुते ॥ ३६ ॥ ;p{0009} मेषे माक्षिकधातौ च जन्महीने त्वसौ त्रिषु । अपवर्गः कर्मफले क्रियान्ते त्याग-मोक्षयोः ॥ ३७ ॥ क्रियावसानसाफल्ये पूर्णतायामपि स्मृतः । अपवादस्तु विश्वासे निदेशे गर्हणे तथा ॥ ३८ ॥ विशेषे बाधकेऽपष्ठु विपरीते च शोभने । अथापसर्जनं दाने परित्यागेऽपवर्गके ॥ ३९ ॥ अमृता तुलसी दूर्वा-पिप्पली-मदिरासु च । गो-रक्ष-दुग्धाऽतिविषाऽभया-रक्तत्रिवृत्स्वपि ॥ ४० ॥ अम्बरम् वस्त्र आकाशे कार्पासे गिरिजामले । अम्बरीषः शिवे विष्णौ भास्करे नरकान्तरे ॥ ४१ ॥ अनुतापे किशोऽरेऽपि सूर्यवंश्यनृपे पुमान् । क्लीबं भर्जनपात्रे स्यात्संग्रामेऽपि प्रकीर्तितः ॥ ४२ ॥ ;p{0010} अये सम्बोधने कोपे विषादे संभ्रमे स्मृतौ । अयोगो विधुरे कूटे विश्लेषे कठिनोधमे ॥ ४३ ॥ अयनं गमने शास्त्रे सूर्यसंक्रमणान्तरे । सूर्यगत्यन्तरे मार्गेऽनुनय-प्रश्नयोरपि ॥ ४४ ॥ अरः पुमान् कालचक्रद्वादशांशे जिनान्तरे । अरं नपुंसके शीघ्रे चक्रांगे शीघ्रगे त्रिषु ॥ ४५ ॥ अरिः पुमान् स्मृतश्चक्रे विपक्षे खदिरान्तरे । अरिष्टमशुभे मृत्युचिह्नोपद्रवयोरपि ॥ ४६ ॥ शुभे प्रसूतिकागेहे क्लीबमुक्तं मनिषिभिः । अरिष्टः पुंसि लशुने वायसे वृषभासुरे ॥ ४७ ॥ निम्बे फेनिलवृक्षे मद्यभेदे कङ्कपक्षिणि । अरिष्टनेमिर्द्वाविंशे तिर्थङ्करजिने पुमान् ॥ ४८ ॥ ;p{0011} अरुणो भास्करेऽनूरौ कुष्ठभेदेऽर्कपादपे । सन्ध्यारागेऽव्यक्तरागे पुन्नागे कपिले गुडे ॥ ४९ ॥ अरुणाऽतिविषा-गुञ्जा-मञ्जिष्ठा-त्रिवृतासु च । अलंबुषेन्द्रवारुण्योः श्यामायामपि कीर्तिता ॥ ५० ॥ अरोको दीप्तिरहिते रन्ध्रहीने त्रिलिंगकः । अर्कः पुरन्दरे ताम्रे पण्डिते स्फटिके रवौ ॥ ५१ ॥ ज्येष्ठभ्रातर्यर्कवृक्षे निर्यासे रविवासरे । अर्घः पूजाविधौ मूल्येऽर्चिष्मान् वैश्वानरे रवौ ॥ ५२ ॥ अर्जुनस्तु मयूरे स्यात् कार्तवीर्याऽर्जुने सिते । मध्यमे पाण्डवे मातुरेकपुत्रे द्रुमान्तरे ॥ ५३ ॥ अर्थः प्रयोजने वित्ते वाच्ये विषयवस्तुनोः । निवृत्तौ याचनायां च प्रकारे कारणेऽपि च ॥ ५४ ॥ ;p{0012} अर्थी सहाये धनिके विवादिनि च याचके । सेवकेऽपि बुधैः प्रोक्तः प्रयोजनवति त्रिषु ॥ ५५ ॥ याचने पीडने गत्यां हनने गमनेऽर्दनम् । अर्द्धचन्द्रश्चन्द्रखण्डे गलहस्ते नखक्षते ॥ ५६ ॥ पुमान् वाणविशेषेऽपि चन्द्रकेऽपि प्रयुज्यते । अर्भकः सदृशे स्वल्पे शिशौ मूर्खे कृशे पुमान् ॥ ५७ ॥ अर्हः पुरन्दरे पुंसि त्रिषु योग्योपयुक्तयोः । अलमत्यर्थपर्याप्त-निरर्थकनिवारणे ॥ ५८ ॥ शक्तिभूषणयोरेतदव्ययं विदुषां मतम् । अलिः स्त्रीपुंसयोः काके वृश्चिके भ्रमरे पिके ॥ ५९ ॥ ;p{0013} अलीकमप्रिये स्वर्गे ललाटे वितथेऽपि च । अवग्रहो वृष्टिरोधे स्वभावे प्रतिबन्धके ॥ ६० ॥ शापे ज्ञानविशेषे च गजता हस्ति-भालयोः । अवटो गर्तखिलयोः कूपे कुहकजीविनि ॥ ६१ ॥ अवनं रक्षणे शक्तौ कामेऽवगमने वधे । प्रीणने शोभने तृप्तौ स्पृहायां श्रवणे गतौ ॥ ६२ ॥ सत्तायां करणे बुद्धौ श्लेषे प्राप्तौ प्रवेशने । याचने ग्रहणे भागे स्वाम्यर्थे च नपुंसकम् ॥ ६३ ॥ अवलेपस्त्वहंकारे संगभूषणलेपने । अवश्यायो हिमे गर्वे कुज्झतौ च प्रयुज्यते ॥ ६४ ॥ अथोऽवष्टम्भ आरम्भे सुवर्णे स्तम्भ उच्यते । अवष्टब्धोऽन्तिके बद्ध आक्रान्ते रुद्ध आश्रिते ॥ ६५ ॥ ;p{0014} अवष्टम्भो स्तम्भ-हेम-प्रारम्भेषु च सौष्ठवे । अवष्टम्भस्तु प्रारम्भे स्तम्भे हेमनि सौष्ठवे ॥ ६६ ॥ प्रस्तावे वर्षणे मन्त्रविशेषे वत्सरे क्षणे । अवकाशेऽप्यवसरोऽवस्करो गुह्य-गूथयोः ॥ ६७ ॥ जिनकालविशेषे स्त्री चोत्सर्पिण्यवसर्पिणी । अवसानं विरामे स्यान्मृत्यौ सीमनि चेष्यते ॥ ६८ ॥ अवसायः पुमान् शेषे समाप्तौ निश्चयेऽपि च । अविर्मेषे गिरौ सूर्ये नाथे मूषिक-कम्बले ॥ ६९ ॥ प्राचीरे मारुते पुंसि पुष्पवत्यां स्त्रियां मता । अब्दः संवत्सरे मेघे मुस्तायां पर्वतान्तरे ॥ ७० ॥ अव्यक्तः पुंसि कन्दर्पे शिवे कृष्णेऽस्फुटे त्रिषु । अव्यक्तं महदादौ च प्रकृतौ परमात्मनि ॥ ७१ ॥ ;p{0015} अष्टापदं शारिफले स्वर्ण-धत्तूरयोर्द्वयोः । अचिरा स्त्र्यर्हतां मातृविशेषे कीर्तिता बुधैः ॥ ७२ ॥ अभीकः कामुके क्रूरे निर्भयोत्सुकयोस्त्रिषु । अभीषुः प्रग्रहे कामेऽनुरागे किरणे पुमान् ॥ ७३ ॥ अभ्यागमोऽन्तिके युद्धे वैराभ्युत्थान-मारणे । अभ्यासोऽभ्यसनाऽऽवृत्ति-शराभ्यासान्तिकेष्वपि ॥ ७४ ॥ अमरः पारदे देवेऽस्थिसंहारे मृत्युवर्जिते । अमरा नाभिनालायां दूर्वास्थूणाजरायुषु ॥ ७५ ॥ ;p{0016} गुडूच्याममरावत्यां महानीली वटीतरौ । अमृतं भेषजे स्वादु द्रव्ये हृद्येऽन्नवित्तयोः ॥ ७६ ॥ जले घृते यज्ञशेषद्रव्येऽयाचितवस्तुनि । कैवल्ये विषसामान्ये सुधायां पारदे घने ॥ ७७ ॥ क्षीरे स्वर्णे भक्षणीयद्रव्ये नित्यनपुंसकम् । पुमान् धन्वन्तरौ देवे वाराहीकन्दरुच्ययोः ॥ ७८ ॥ अपवर्गः कर्मफले क्रियान्ते त्यागमोक्षयोः । क्रियावसानसाफल्ये पूर्णतायामपि स्मृतः ॥ ७९ ॥ अपवादस्तु विश्वासे निदेशे गर्हणे पुमान् । विशेषे बाधकेऽपष्ठु विपरीते च शोभने ॥ ८० ॥ अथापसर्जनं दाने परित्यागेऽपवर्गके । अपहारस्त्वपचये चौर्ये संगोपनेपि च ॥ ८१ ॥ ;p{0017} अफेनो महिफेने स्यात्फेनहीने त्रिलिंगकः । अब्जं नपुंसकं पद्मे शतकोटावपि स्मृतम् ॥ ८२ ॥ पुमान् धन्वन्तरौ चन्द्रे शंखे निचुलपादपे । अभ्रमभ्रकधातौ स्यान्मेघे गगनमुस्तयोः ॥ ८३ ॥ अभियोगोऽपराधादि योजनाऽभिग्रहोद्यमे । अभिरूपः शिवे विष्णौ चन्द्रे कामे पुमान् स्मृतः ॥ ८४ ॥ पण्डिते रमणीये च कथितो वाच्यलिंगकः । अभिषंगस्तु शपथ आक्रोशे च पराजये ॥ ८५ ॥ मिथ्याऽपवादे संश्लेषे भूतावेशे पुमान् मतः । नाकः स्वर्गेऽन्तरिक्षे च खड्गे बाणे च सायकः ॥ ८६ ॥ ;p{0018} श्लोकः पद्ये यशसि च लोकस्तु विष्टपे जने । जम्बुको वरुणे नीचे श्रृगालेपि स्मृतो बुधैः ॥ ८७ ॥ पृथुकश्चिपिटे पुंसि शावके त्वभिधेयवत् । आलोको दर्शने द्योते बन्द्युक्तिजयशब्दयोः ॥ ८८ ॥ आनकस्तु मृदंगे स्यात् भेर्यां पटहमेघयोः । अंकः क्रोडेऽपवादे च रेखाचिह्नविभूषणे ॥ ८९ ॥ नाटकांगे चित्रयुद्धे समीपे स्थानदेहयोः । अर्कस्ताम्रे भास्करे च स्फटिकेऽर्कदलेऽपि च ॥ ९० ॥ कलंकश्चिह्नेऽपवादे कालायासमले स्मृतः । पुलाकोऽन्नावयवे रिक्तधान्ये ह्यविस्तरे ॥ ९१ ॥ करको दाडिमे पक्षिविशेषे च कमण्डलौ । वृश्चिकोऽष्टमराशौ च शूककीटे च कर्कटे ॥ ९२ ॥ ;p{0019} कोशातकः पटोल्यां च घोषके चिकुरेपि च । सोमवल्कः कट्फले च घबले खदिरे स्मृतः ॥ ९४ ॥ पिण्याकस्तिलकल्के च सिल्हकेपि प्रकीर्तितः । कौशिको नकुले शक्रे व्यालग्राहे च गुग्गुलौ ॥ ९५ ॥ उलूके कोशविज्ञे च विश्वामित्रेपि कीर्तितः । आतङ्को रोग-सन्ताप-शङ्कासु मुरजध्वनौ ॥ ९६ ॥ क्षुल्लकस्त्रिषु नीचेऽल्पे कनिष्ठे दुर्गतेऽपि च । आयुष्मतीन्दौ कर्पूरेऽगदे जैवातृकः सुते ॥ ९७ ॥ वर्तकः पक्षिभेदे च तुरगस्य शफेपि च । पुण्डरीकं सिताम्भोजे श्वेतच्छत्रेऽगदान्तरे ॥ ९८ ॥ ;p{0020} पुण्डरीको गणधरे सहकारे गजज्वरे । कोषकारान्तरे व्याघ्रे राजिले दिग्गजान्तरे ॥ ९९ ॥ कमण्डलौ कुष्ठभेदे तरौ दमनकाभिधे । शालावृकः शृगाले स्याद् वानरे कुक्कुरेपि च ॥ १०० ॥ अलीकमप्रियेऽसत्ये स्वर्गे भाले नपुंसकम् । व्यलीकं पीडनेऽकार्ये वैलक्ष्याप्रिययोरपि ॥ १०१ ॥ निष्कः पले च दीनारे वक्षःस्थलविभूषणे । अष्टाधिकशते स्वर्णकर्षाणां स्वर्णमात्रके ॥ १०२ ॥ कल्को बिभीतके दम्भे पापे विट्किट्टयोरपि । आरं मुण्डायसे कोणे पित्तल-प्रान्तभागयोः ॥ १०३ ॥ आरः कुजे वृक्षभेदे पित्तले च शनिग्रहे । आरम्भ उद्यमे दर्पे वध आद्यकृतावपि ॥ १०४ ॥ ;p{0021} प्रस्तावनायां शैघ्य्रे चाभ्यादानेऽपि पुमानयम् । आराधनं साधने स्यात्पचने प्राप्ति-तोषयोः ॥ १०५ ॥ आरोहस्तु गजारोहे वरस्त्रीश्रोणिदैर्घ्ययोः । परिमाणान्तरारोहनितम्बेषु समुच्छ्रये ॥ १०६ ॥ आरोहणं समारोहे सोपानेऽङ्कुरनिर्गमे । आर्तस्तु पीडितेऽसुस्थेऽप्यार्तिस्तु रोगपीडयोः ॥ १०७ ॥ धनुष्कोटावथाऽऽर्यस्तु संगते श्रेष्ठपूज्ययोः । बुद्धे सत्कुलजाते च त्रिषु मित्रे प्रभो पुमान् ॥ १०८ ॥ आलानं बन्धने रज्जौ गजबन्धनदारुणि । आलिः पंक्तौ वयस्यायां सतौ च संततौ स्त्रियाम् ॥ १०९ ॥ ;p{0022} पुमान् स्याद् वृश्चिके भृङ्गे त्रिषु स्याद् विशदाशये । आलोको दर्शने द्योते गवाक्षे वन्दिभाषणे ॥ ११० ॥ आवर्तः सलिलभ्रान्तौ चिन्ता मेघाधिपान्तरे । राजावर्ताऽख्योपरत्ने पुमान् आवर्तनेपि च ॥ १११ ॥ आदानं ग्रहणे रोगलक्षणेऽश्वविभूषणे । आदीनवः पुमान् दोषे दुरन्त-क्लेशयोरपि ॥ ११२ ॥ आधिर्व्यसनप्रत्याशामनःपीडासु बन्धके । आध्मातः संयते दग्धे वातरोगेपि शब्दिते ॥ ११३ ॥ आप्तः प्रत्ययिते प्राप्ते सम्बद्धे स्यात् त्रिलिंगकः । आप्तिर्लाभे च सम्बन्धेऽप्याऽऽप्यमम्मयोः ॥ ११४ ॥ आबन्धो भूषणे योक्त्रे बन्धन-स्नेहयोः पुमान् । आभोगे वरुणच्छत्रे परिपूर्णत्वयत्नयोः ॥ ११५ ॥ ;p{0023} आमिषं मञ्जुलाकार-रूपादौ भोग्यवस्तुनि । लोभ-संचय-उत्कोच-संभोगे मांसलाभयोः ॥ ११६ ॥ लाभे कामगुणे रूपे भोजनेऽस्त्री प्रयुज्यते । आमोदः सुमहद्गन्धे हर्षे गन्धेऽतिदूरगे ॥ ११७ ॥ आम्नाय आगमे वंशे सम्प्रदाये कुलक्रमे । आयो धनागमे लाभे पुमान् स्त्रीगृहरक्षिणि ॥ ११८ ॥ आयतिः प्रापणे दैर्घ्ये भविष्यत्काल-संगयोः । आयत्तिः शयने स्नेहे भविष्यत्कालदैर्घ्ययोः ॥ ११९ ॥ प्रभावे वासरे सीम्नि स्त्रियां शक्तिवशित्वयोः । आयोगो गन्धमाल्योपहारे व्यापार-रोगयोः ॥ १२० ॥ आकारः पुंसि सन्दोहे श्रेष्ठे खनौ बुधैः स्मृतः । आकर्षः शारिफलके देवने पाशके पुमान् ॥ १२१ ॥ ;p{0024} इन्द्रिये धनुरभ्यासवस्तुन्याकर्षणेऽपि च । आकल्पो मण्डने वेषे रोग-कल्पनयोः पुमान् ॥ १२२ ॥ आक्रन्दो रोदने नाथे भ्रातर्याह्वानमित्रयोः । ध्वनौ दारुण-संग्रामे पार्ष्णिग्राहात्परे नृपे ॥ १२३ ॥ आखुश्चौरे देवतालवृक्षे शूकर उन्दुरौ । आग्रहो ग्रहणासक्त्योराक्रमेऽनुग्रहे पुमान् ॥ १२४ ॥ आडम्बरस्तु पटहे तुर्ये कुञ्जरगर्जिते । आरम्भे पक्ष्मणि क्रोधे भुजंगे संमदे पुमान् ॥ १२५ ॥ आढ्यस्त्रिलिंगो धनिके विशिष्टेपि च वाच्यवत् । आतङ्कः पुंसि शंकायां सन्तापे मुरजध्वनौ ॥ १२६ ॥ आमये ज्वर आणिस्तु सीम्न्यऽश्र्यऽक्षाग्रकीलयोः । आत्मभूर्ब्रह्मणि शिवे कन्दर्पे गरुडध्वजे ॥ १२७ ॥ ;p{0025} आत्मा जीवे धृतौ बुद्धौ पुत्रे ब्रह्मणि मानसे । यत्ने स्वभावे मार्तण्डे परव्यावर्तनेऽनले ॥ १२८ ॥ आदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके । अष्टापदस्तु शरभे लूतायां कीलके कृमौ ॥ १२९ ॥ कैलासपर्वते चन्द्रमल्ल्यां शाखामृगे पुमान् । असत् मूर्खेऽविद्यमानेऽनित्येऽसाधौ च निष्फले ॥ १३० ॥ निन्दिते जडवर्गेऽपि त्रिष्वसन् पुंसि वासवे । असितः कृष्णपक्षे च कृष्णवर्णे शनिग्रहे ॥ १३१ ॥ अस्त्वव्ययमसूयायां पीडा-स्वीकारयोरपि । अहाऽव्ययं प्रशंसायां नियोगे निग्रहेऽसने ॥ १३२ ॥ ;p{0026} अहहेत्यद्भूते खेदे परिक्लेश-प्रकर्षयोः । अहिर्विधुन्तुदे सूर्ये पथिके वृत्र-सर्पयोः ॥ १३३ ॥ अहोऽव्ययं प्रशंसायां संबोधन-विषादयोः । न्यक्कार-विस्मयाऽसूयावितर्क-पदपूरणे ॥ १३४ ॥ अक्षं सौवर्चले तुत्थ इन्द्रियेऽपि नपुंसकम् । अक्षो रुद्राक्ष इन्द्राक्षे शकटे सर्पचक्रयोः ॥ १३५ ॥ पाशके गरुडे ज्ञाने ज्ञातार्थे रावणात्मजे । कर्ष आत्मनि जातान्धे व्यवहारे बिभीतके ॥ १३६ ॥ आवापो वलये पात्रे परिक्षेपाऽऽलवालयोः । निम्नोन्नतावनौ भाण्डपचने शत्रु-चिन्तने ॥ १३७ ॥ संयोजने पानभेदे बीजवापोग्रयज्ञयोः । आविर्भावः प्रकाशे स्याद् देवावतरणेऽपि च ॥ १३८ ॥ ;p{0027} आविर्भूतो जन्मयुक्तेऽवतीर्णे च प्रकाशिते । आविर्भावविशिष्टे च त्रिलिंगोऽयमधिष्ठिते ॥ १३९ ॥ आवेशो भूतसंचारेऽहंकाराभिनिवेशयोः । अपस्मारे तथाऽऽसक्तौ संरम्भेऽपि पुमान् स्मृतः ॥ १४० ॥ आवेशनं शिल्पिगृहे भूतावेश-प्रवेशयोः । अमर्षे परिवेशे चाऽप्याशादिग्दीर्घतृष्णयोः ॥ १४१ ॥ आशयः पनसेऽजीर्णेऽदृष्टेऽभिप्रायचेतसोः । कोष्ठागारे किम्पचाने विभवाधारयोरपि ॥ १४२ ॥ आश्रमो ब्रह्मचर्यादिचतुष्के कानने मठे । आश्रयो व्यपदेशे च सामीप्याधारयोरपि ॥ १४३ ॥ ;p{0028} राज्ञां गुणान्तरे गेहे पुंसि संश्रयणेऽपि च । आसंगं क्लीबमासक्तौ सौराष्ट्रमृदि सन्तते ॥ १४४ ॥ आसत्तिः संगमे लाभे पदसन्निधिकारणे । आसनं कुञ्जरस्कन्धदेशे यात्रानिवर्तने ॥ १४५ ॥ राज्ञां गुणान्तरे पीठे योगांगेऽपि नपुंसकम् । आसनो ना जीवकद्रौ स्यात् स्त्रियां विपणौ स्थितौ ॥ १४६ ॥ आसन्दी लघुखट्वायां नासन्नो निकटे त्रिषु । आसारो धारासम्पाते सैन्यव्याप्तौ सुहृद्बले ॥ १४७ ॥ आस्कन्दनं शोषणेऽपि तिरस्कारे रणे त्रिषु । आस्था स्त्री यत्न आस्थानेऽपेक्षाऽऽलम्बनयोरपि ॥ १४८ ॥ ;p{0029} आस्पदं प्रभुताकृत्यस्थानेषु स्यान्नपुंसकम् । आहतो गुणिते ज्ञाते मिथ्योक्ते ताडिते त्रिषु ॥ १४९ ॥ आह्निकं भोजने नित्यकृत्य-ग्रन्थविभागयोः । आक्षेपो निन्दने काव्यालंकारे भर्त्सने पुमान् ॥ १५० ॥ निन्दकव्याधयोस्त्रिष्वाक्षेपको नाऽनिलाऽऽमये । इज्या दानेऽध्वरे संगे कुट्टन्यां गवि पूजने ॥ १५१ ॥ इडा भूमौ गवि स्वर्गे वाङ्नाड्योर्बुधयोषिति । हेतौ प्रकारे प्रकाश इति प्रकरणेऽव्ययम् ॥ १५२ ॥ आदौ समाप्तौ निदर्शे परकृत्यनुकर्षयोः । त्रिष्वित्वरः क्रूरकृत्ये दुर्विधेऽध्वग-नीचयोः ॥ १५३ ॥ ;p{0030} इद्धं नपुंसकं दीप्तौ विस्मयाऽऽतपयोरपि । त्रिषु स्यान्निर्मलेऽपीध्ममग्निदीपनदारुणि ॥ १५४ ॥ इनो नृपान्तरे सूर्ये प्रभौ पत्यावपीष्यते । इन्दिन्दिरो द्विरेफः स्यादिन्दिरा मन्दिरे हरौ ॥ १५५ ॥ इन्दुः सुधांशौ कर्पूर इन्दुरोऽपि च मूषिके । इन्द्रः पुमान् देवराजे कुटजे परमेश्वरे ॥ १५६ ॥ उपद्वीपान्तरे सूर्ये रजन्यामन्तरात्मनि । इन्द्रकोषस्तु निर्यूहे पर्यङ्केऽपि तमङ्गके ॥ १५७ ॥ इन्द्राणी सेन्दुवारे स्याद् दुर्गायां मातृकान्तरे । शची स्त्रीकरण-स्थूल-सूक्ष्मैलासु प्रयुज्यते ॥ १५८ ॥ इरा भूमौ सरस्वत्यां वाक्ये सलिल-मद्ययोः । कश्यपस्त्रीविशेषेऽपि गोभूवाक्येष्विला स्त्रियाम् ॥ १५९ ॥ ;p{0031} इषीका तूलिका-काशतृण-हस्त्यक्षिगोलके । इष्टं यथेप्सिते क्लीबं संस्कारे यज्ञकर्मणि ॥ १६० ॥ इष्टिर्यागेऽभिलाषेऽपि श्लोकसंग्रहणे स्त्रियाम् । ईतिः प्रवासे स्त्री डिम्बकृष्युपद्रवषड्कयोः ॥ १६१ ॥ ईशा लांगलदण्डे स्त्री दुर्गायामपि कीर्त्यते । ईश्वरः शिव-कन्दर्पकेशवैश्वर्यशालिषु ॥ १६२ ॥ ईश्वरा पार्वती-लक्ष्मी-सरस्वत्यादिशक्तिषु । उग्रः केरलदेशेऽपि शोभाञ्जनतरौ शिवे ॥ १६३ ॥ ;p{0032} उग्रगन्धस्तु लशुने चम्पकेऽर्जकपादपे । कट्फले च पुमानुक्तस्त्रिषु तूत्कटगन्धिनि ॥ १६४ ॥ उग्रगन्धाऽजगन्धायां यवान्यां चिक्किकौषधौ । वचायामजमोदायामुग्रगन्धा स्त्रियां मता ॥ १६५ ॥ उग्रा वचायां धान्याके उग्रजातिस्त्रियामपि । तीव्रस्वभावयोषायां यवन्यां छिक्किकौषधौ ॥ १६६ ॥ उचितं विदिते न्यस्ते ग्राह्ये परिमिते युते । उच्चता चक्रलागुञ्जाचर्यादम्भेषु कीर्तिता ॥ १६७ ॥ भूम्यामलक्यां नादेयी लशुनान्तरयोः स्त्रियाम् । उच्छ्रितं त्रिषु संजाते समुन्नद्ध-प्रवृद्धयोः ॥ १६८ ॥ उच्चे त्यक्तेऽथोडुपोऽस्त्री मेलके चन्दिरे पुमान् । उत्कटविषमे तीव्रे मत्ते त्रिषु गुडत्वचि ॥ १६९ ॥ ;p{0033} उत्कटो मदसंजातमदकुञ्जरयोः शरे । उत्कण्ठा कलिका-हेला-वीचिषूत्कलिका स्त्रियाम् ॥ १७० ॥ उत्तालो मर्कटे श्रेष्ठे करालत्वरितोत्कटे । उत्थानं पौरुषे युद्धे सैन्ये पुस्तक उद्गमे ॥ १७१ ॥ वास्त्वन्ते हर्ष उद्योगो गात्रोत्तोलन-चैत्ययोः । मालोत्सर्गेऽङ्गने तन्त्रे सन्निविष्टेऽपि दृश्यते ॥ १७२ ॥ उत्पलं नीलकमले कुष्ठौषध-हिमाब्जयोः । पुष्पे कुवलये क्लीबमांसशून्ये त्रिलिङ्गकम् ॥ १७३ ॥ उत्प्रेक्षाऽनवधाने च काव्यालंकरणान्तरे । उत्सर्गो वर्जने त्यागे सामान्यविधि-दानयोः ॥ १७४ ॥ ;p{0034} उत्साह उद्यमे सूत्रे कल्याणे ध्रुवकान्तरे । क्षेपणं तालवृन्ते स्याद् धान्यमर्दनवस्तुनि ॥ १७५ ॥ ऊर्ध्वप्रक्षेपणे क्लीबं पणे षोडशकेऽपि च । उदन्तः पुंसि वृत्तान्ते साधो स्याद् वृत्तिजायने ॥ १७६ ॥ उदयो मंगले दीप्तावुदयाद्रौ समुन्नतौ । उदर्क आगामिकालफले मदनकण्टके ॥ १७७ ॥ त्रिषूदात्तो दयायुक्ते हृद्ये महति दातरि । त्यागिन्यप्यथ दानेऽपि स्वरवाद्यान्तरे पुमान् ॥ १७८ ॥ उदान उदरावर्त्ते पक्ष्म सर्पविशेषयोः । पुंलिङ्गो नाभिदेशे स्यात् कण्ठदेशस्थमारुते ॥ १७९ ॥ उदारो दातृमहतोः दक्षिणेऽपि त्रिलिङ्गकः । उदास्थितः पुमान् नष्टसंन्यास-द्वारपालयोः ॥ १८० ॥ अध्यक्षे गूढपुरुषेऽथोद्गारः कण्ठगर्जने । शब्द उद्वमने चाथोद्ग्राहो विद्याविचारणे ॥ १८१ ॥ ;p{0035} उद्घाटनं घटीयन्त्र उत्तोलन-विकासयोः । उद्घातो मुद्गरे तुङ्गारम्भयोः समुपक्रमे ॥ १८२ ॥ शास्त्रे ग्रन्थपरिच्छेदे चरणस्खलने पुमान् । उद्दानं वाडवे चुल्ल्यां बंधने मध्यलग्नयोः ॥ १८३ ॥ उद्दामो वरुणे पुंसि स्वतन्त्रे महति त्रिषु । उद्धवो यज्ञवह्नौ स्यादुत्सवे यादवान्तरे ॥ १८४ ॥ उद्भटः कच्छपे सूर्ये महेच्छे प्रवरे त्रिषु । उद्यानं क्लीबमाक्रीडे निर्गमे च प्रयोजने ॥ १८५ ॥ उद्रस्तु जलमार्जारेऽथोद्रेकौ वृद्ध्युपक्रमौ । उद्वर्तनं स्याद्विलेपे घर्षणोत्पातयोः ॥ १८६ ॥ ;p{0036} उन्माथः कूटयन्त्रे स्यान्मारणे घातके पुमान् । उन्मादश्चित्तविभ्रान्तौ मनोरोगान्तरेपि च ॥ १८७ ॥ उपकण्ठन्तु निकटे ग्रामान्ते शीतगौ तु ना । कण्ठान्तिकास्कन्दितयोः क्लीबं हि सविधे पुमान् ॥ १८८ ॥ उपकारिकोपकर्त्र्यां कुशूले राजवेश्मनि । उपक्रमश्चिकित्सायां ज्ञात्वारम्भे पलायने ॥ १८९ ॥ उपधा-प्रथमारम्भ-विक्रमेषु पुमानयम् । उपतापोऽशुभे रोगे पीडोत्ताप-त्वरासु च ॥ १९० ॥ उपदंशो मेढ्ररोगविशेषे मद्यप्राशने । उपदेशस्तु दीक्षायां शिक्षायां हितभाषणे ॥ १९१ ॥ उपधानं विषे गण्डौ व्रतप्रणययोरपि । उपपत्तिः समाधाने सिद्धान्ते निर्वृतावपि ॥ १९२ ॥ ;p{0037} हेतौ युक्तौ संगतौ च स्त्रियां सद्भिरुदाहृता । उपरागः पुमान् राहुग्रस्ते चन्दिरसूर्ययोः ॥ १९३ ॥ दुर्णये ग्रहकल्लोले परीवाद-विगानयोः । व्यसनेऽथोपसर्गस्तु रोगभेद उपप्लवे ॥ १९४ ॥ उपस्थो निकटे लिंगे भगे क्रोडे गुदेऽपि च । उपस्थितः समीपस्थे मृष्ट-शोधितयोस्त्रिषु ॥ १९५ ॥ उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले । विशेषणे नामचिह्नेऽथोपायः साधने पुमान् ॥ १९६ ॥ ;p{0038} स्वार्थसम्पादके सामादिचतुष्के गतावपि । शुश्रूषाऽऽसनहिंसासु बाणाभ्यास उपासनम् ॥ १९७ ॥ उमा दुर्गाऽसती-कान्ति-हरिद्रा-कीर्तिषु स्त्रियाम् । उष्णीषोऽस्त्री शिरोवेष्टे चिह्नान्तर-किरीटयोः ॥ १९८ ॥ ऊतिर्लीलाजवनयोः स्यूतौ क्षारणरक्षणे । ऊर्जो बल-प्राणनयोरुत्साहे कार्तिके पुमान् ॥ १९९ ॥ ऊर्णा भ्रुवोरन्तरालाऽऽवर्त्ते मेषादिलोमनि । ऊर्णायुरूर्णनामे स्यान्मेषे तल्लोमकम्बले ॥ २०० ॥ ऊर्मिः स्त्रीपुंसयोः पीडावस्त्रसंकोच-रेखयोः । तरङ्गोत्कण्ठयोर्वेगे प्रकाशेऽथोर्मिका मुदि ॥ २०१ ॥ वीच्युत्कण्ठा भृङ्गनाद-भृङ्गेष्वप्यंगुलीयके । ऋतमुञ्छशिले सत्ये जले त्रिष्वर्च्यदीप्तयोः ॥ २०२ ॥ ;p{0039} ऋतिर्वर्त्मनि कल्याणे जुगुप्सा-स्पर्द्धयोर्गतौ । ऋतुः स्त्री-कुसुमे दीप्तौ मासे सुग्रीवकालयोः ॥ २०३ ॥ ऋद्धं समृद्धे सम्पन्नधान्य-सिद्धान्तयोरपि । ऋद्धिः समृद्धौ पार्वत्यां सिद्धिनामौषधे स्त्रियाम् ॥ २०४ ॥ ऋभुक्षः पुंसि कुलिशे सुरलोके पुरन्दरे । ऋषभः पुंसि वृषभे कर्णरन्ध्रे स्वरान्तरे ॥ २०५ ॥ आदितीर्थङ्करे विष्णोरवतारान्तरेऽपि च । वराहपुच्छकुम्भीरपुच्छयोः पर्वतान्तरे ॥ २०६ ॥ श्रेष्ठोऽप्यौषधभेदे स्यात्तथैवेप्सितवर्षिणि । ऋषिः पुंसि मुनौ वेदे ज्ञान-संसारपारगे ॥ २०७ ॥ ;p{0040} एकः साधारणे स्वल्पे केवले प्रथमाऽन्ययोः । प्रधानेऽप्यादिसंख्यायां विद्वद्भिस्त्रिषु कीर्त्यते ॥ २०८ ॥ एडमूकः शठे मूके बधिरेऽपि त्रिलिङ्गकः । एनः पापे च निन्दायामपराधे नपुंसकम् ॥ २०९ ॥ ऐन्द्रिः पुमान् जयन्ते स्याद् बालिन्यर्जुन-काकयोः । ऐन्द्री स्त्रियां शची दुर्गाऽलक्ष्मीपूर्वदिशासु च ॥ २१० ॥ एलायामिन्द्रवारुण्यामैन्द्रज्येष्ठावनार्द्रयोः । ऐरावतः पुमान् इन्द्रकुञ्जरे पूर्वदिग्गजे ॥ २११ ॥ लकुचद्रौ नागरंगे क्लीबन्त्विन्द्रायुधे मतम् । ऐरावती सरिद्भेदे वटपत्रीतरावपि ॥ २१२ ॥ ;p{0041} ऐरावतस्त्रियां विद्युद्विशेषे तडिति स्त्रियाम् । ओकमोको गृहे क्लीबमाश्रये यूक ओकणिः ॥ २१३ ॥ ओघः पुंस्युपदेशे स्यात् समूहे जलवेगयोः । परम्पायां शीघ्रनृत्य-गीतवाद्येऽपि कीर्त्यते ॥ २१४ ॥ ओजः प्रकाशेऽवष्टम्भे बले दीप्तौ नपुंसकम् । ओड्रो देशविशेषे स्याद् जपापुष्पतरौ पुमान् ॥ २१५ ॥ औशीरं चामरे दण्डे नपुंसकमुशीरजे । शयनासन औशीरः पुमान् चामरदण्डके ॥ २१६ ॥ कंसोऽस्त्री तैजसद्रव्ये पान-भाजन-कांस्ययोः । परिमाणविशेषेऽथ कंसः श्रीकृष्णमातुलो ॥ २१७ ॥ ककुदो राजचिह्नेऽस्त्री प्राधान्यवृषभाङ्गयोः । शैलाग्रेऽथ वृषे शैले ककुद्मानृषभौषधौ ॥ २१८ ॥ ;p{0042} ककुप् चम्पकमाला-दिक्प्रवेणीशास्त्रदीप्तिषु । ककुभो रागभेदेऽपि वीणाग्रेऽर्जुनपादपे ॥ २१९ ॥ कङ्कश्छद्मद्विजे कंसासुरभ्रातरि बाहुजे । लोहपृष्ठे महाराजचूते पुंसि युधिष्ठिरे ॥ २२० ॥ कङ्कणं करभूषायां हस्तसूत्रेऽपि मण्डने । शेखरे चाथ किङ्किण्यां कङ्कणीत्युच्यते स्त्रियाम् ॥ २२१ ॥ स्त्रियां कङ्कतिका नागवलायां केशमार्जने । कंकालः पुंसि देहास्थिपञ्जरे सद्भिरुच्यते ॥ २२२ ॥ कचः शुष्कव्रणे केशे बृहस्पतिसुते घने । कच्छो जलाशयप्रान्तदेशनौकाङ्गयोः पुमान् ॥ २२३ ॥ परिधानाञ्चले तुन्नवृक्षेऽनूपस्थलेऽपि च । कच्छपो मदिरायन्त्रविशेष-निधिभेदयोः ॥ २२४ ॥ मल्लबन्धान्तरे कूर्मे नन्दीवृक्षे पुमान् स्मृतः । कच्छपी भारती वीणा कूर्मीकच्छपिकागदे ॥ २२५ ॥ ;p{0043} कच्छुरा ग्राहिणीवृक्षे शूकशिम्बीयवासयोः । शट्यां दुरालभायां स्त्रीकच्छुरः पामनि त्रिषु ॥ २२६ ॥ कञ्चिका वेणुशाखायां क्षुद्रस्फोटे स्त्रियां मता । कञ्चुको वारबाणेऽस्त्री निर्मोके चोलकेपि च ॥ २२७ ॥ वर्द्धापकगृहीताङ्गवसने वस्त्रमात्रके । कञ्चुकी सौविदल्ले स्यात् चणके यवसर्पयोः ॥ २२८ ॥ खिङ्गे जोङ्गकवृक्षे च पुमान् सद्भिरुदाहृतः । कञ्जं पद्मेऽमृते कञ्जश्चिकुरे ब्रह्मणि स्मृतः ॥ २२९ ॥ कञ्जारः कुञ्जरे सूर्ये विरिञ्चौ जठरे मुनौ । कटः किलिञ्जके हस्तिगण्डदेशश्मशानयोः ॥ २३० ॥ ;p{0044} समयेऽतिशये पुंसि शवे शवरथे तृणे । कटौ तक्षितकाष्ठेपि क्रियाकारे च भेषजे ॥ २३१ ॥ कटकोऽस्त्री नितम्बेऽद्रेः सानौ वलयचकयोः । राजधान्यां नगरी-हस्तिदन्तमण्डनयोरपि ॥ २३२ ॥ सैन्ये सामुद्रलवणे पर्वतीयसमावनौ । कटप्रूः शंकरे विद्याधरे कीटेऽक्षदेवने ॥ २३३ ॥ कटभंगस्तु शस्यानां हस्तच्छेदे नृपात्यये । कटभी तरुभिज्ज्योतिष्मती कैडर्यपाडपे ॥ २३४ ॥ कटम्भरा राजवला-वर्षभू-रोहिणीषु च । मूर्वा प्रासरणी-गोला-कलम्बी-हस्तिनीष्वपि ॥ २३५ ॥ कटाहो नरके कूपे कर्बुरे कूर्मकर्पूरे । जायमानविषाणाग्रमहिषीशावकेऽर्भके ॥ २३६ ॥ ;p{0045} द्वीपप्रभेदे तैलादिपाकपात्रेऽपि कीर्तितः । कटुः कट्वीलतायां स्यात् पटोले चम्पकद्रुमे ॥ २३७ ॥ पुमान् कटुरसे चीनकर्पूरेऽथ कटु स्त्रियाम् । प्रियंगुवृक्ष-कटुकी-राजिकास्वथ मत्सरे ॥ २३८ ॥ तीक्ष्णेऽप्रिये कटुरसयुक्ते त्रिषु कटुः स्मृतः । कणोऽतिसूक्ष्मे धान्यांशे पुंसि स्यवनजीरके ॥ २३९ ॥ कणा स्त्री पिप्पली-श्वेतजीरकाऽल्पेषु जीरके । कणिकः शुष्कगोधूमचूर्णे शत्रौ कणे पुमान् ॥ २४० ॥ नीराजनविधौ स्यात्तु कणिका तण्डुलांशके । अग्निमन्थकणाऽत्यन्तसूक्ष्मवस्तुषु कीर्तिता ॥ २४१ ॥ ;p{0046} कण्टकोऽस्त्री क्षुद्रशत्रौ केन्द्ररोमाञ्चयोरपि । नैयायिकादिदोषोक्तौ मत्स्याद्यस्थिद्रुमाङ्गयोः ॥ २४२ ॥ पुमांस्तु लोमहर्षे स्यात् रेणु सूच्यग्रभागयोः । कर्मस्थाने क्षुद्रशत्रौ दोषे मकरकेन्द्रयोः ॥ २४३ ॥ कण्टकी वदरे मत्स्ये वंशे मदनपादपे । गोक्षुरे खदिरे पुंसि स्त्रियां तु कङ्गणे मता ॥ २४४ ॥ पुमान् कण्टकफलः क्षुद्र गोक्षुरे पनसेऽपि च । लता करञ्ज एरण्डे तेजः फलमहीरुहे ॥ २४५ ॥ कण्ठो ग्रीवापुरोभागे त्रिलिंगो निकटे ध्वनौ । पुमान् मदनवृक्षे स्यात् कुण्डाद्बाह्यस्थलेपि च ॥ २४६ ॥ कण्ठालः शूरणे गोणीप्रभेदे युद्धनौकयोः । क्रमेलके खनित्रेऽथ कण्ठिका कण्ठभूषणौ ॥ २४७ ॥ ;p{0047} कण्ठीरवः पुमान् सिंहे कपोते मत्तकुञ्जरे । प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ॥ २४८ ॥ कथाप्रसंगो वार्तायां वातूल-विषवैद्ययोः । कदनं मारणे युद्धे मर्दे पापे नपुंसकम् ॥ २४९ ॥ कदम्बः सर्षपे नीपे देवताड-समूहयोः । कदरः श्वेतखदिरे क्रकच-व्याधिभेदयोः ॥ २५० ॥ प्रकाशांकुशयोः पुंसि कदर्यः कृपणे त्रिषु । कदली स्त्री पताकायां रम्भायां हरिणान्तरे ॥ २५१ ॥ कनकः काञ्चनाले स्यात् लाक्षातरु-पलाशयोः । धुस्तूरे चम्पके नागकेशरे कणगुग्गुले ॥ २५२ ॥ कालीये कासमर्दे च पुमान् क्लीवन्तु काञ्चने । कन्था मृन्मयभित्तौ स्यात् स्त्रीलिंगः स्यूतकर्पटे ॥ २५३ ॥ ;p{0048} कन्दमस्त्री शस्यमूले गृञ्जने शूरणे स्मृतम् । योनिरोगान्तरे मेघे पुमानेव सदा मतः ॥ २५४ ॥ कन्दलन्तूपरागे स्यादपवादे नवांकुरे । कलध्वनौ कपाले च त्रिलिंगोऽथ मृधे पुमान् ॥ २५५ ॥ कपाले तपनीयेऽथ कन्दली हरिणान्तरे । पद्मबीजे वैजयन्त्यां रम्भा-गुल्मप्रभेदयोः ॥ २५६ ॥ कपिलः कुक्कुरे वह्नौ पिङ्गले सिह्लके मुनौ । कपिला पुण्डरीकाख्यदिग्गजस्त्रीनदीभिदोः ॥ २५७ ॥ गृहकन्या भस्मगर्भा रेणुका राजरीतिषु । गोविशेषेऽथ कपिशः पुमान् श्यावे च सिह्लके ॥ २५८ ॥ ;p{0049} कपीतने गर्दभाण्डवृक्षेऽश्वत्थ-शिरीषयोः । आम्रातके गुवाकद्रौ पुमान् बिल्वमहीरुहे ॥ २५९ ॥ कफः श्लेष्मणि हिण्डीरे लालायां कफकूर्चिका । कमठः कच्छपे वंशे शल्लकीदैत्यभेदयोः ॥ २६० ॥ मुनीनां जलपात्रेऽथ प्लक्षे कुण्ड्यां कमण्डलुः । कमलं सलिलो पद्मे क्लोम्नि भेषज-ताम्रयोः ॥ २६१ ॥ सारसे मृगभेदे तु कमलो ध्रुवकान्तरे । कमला निम्बुके लक्ष्म्यां श्रेष्ठनार्यामपीष्यते ॥ २६२ ॥ कम्बलो रल्लके नागराज-प्रवारयोः कृमौ । सास्नायामुत्तरासंगे मृगभेदे करस्त्वसौ ॥ २६३ ॥ करकायां वलौ हस्ते गभस्ति-गजशुण्डयोः । करको दाडिमे राजकरे लट्वा-पलाशयोः ॥ २६४ ॥ ;p{0050} नारिकेलास्थ्नि बकुले कोविदार-करीरयोः । वर्षोपले स्त्रियां क्लीबं कमण्डलु-करङ्कयोः ॥ २६५ ॥ करटो दुर्दुरूटे स्याद् वायसे निन्द्यजीवने । कुसुम्भे द्रविणे श्राद्धे वाद्यभेदेभगण्डयोः ॥ २६६ ॥ करणं साधने क्षेत्रे गात्रे कारण-कर्मणोः । तिथियोगे हस्तलेपेन्द्रिय-गीत-क्रियास्वपि ॥ २६७ ॥ मुन्यासने च सुरते कायस्थे तु पुमानसौ । करुणः करमर्दे ना स्याद् बुद्ध-रसभेदयोः ॥ २६८ ॥ कर्कटः पद्मकन्दे च तुम्ब्यां कर्के कुलीरके । वृक्षभेदे पक्षिभेदे क्षुद्रधात्र्यां भुजंगमे ॥ २६९ ॥ कर्कशस्त्रिषु दुःस्पर्शे कृपणे साहसान्विते । पुमानिक्षौ कासमर्दे खड्गे काम्पिल्य-पादपे ॥ २७० ॥ ;p{0051} कर्कोटको नागराज इक्षौ बिल्बे सुगन्धके । कर्णः कुन्तीसुते श्रोत्रे सुवर्णालिमहीरुहे ॥ २७१ ॥ कर्णिका कर्णभूषायां करिहस्तांगुलौ तथा । पूगच्छतांशे लेखन्यामग्निमन्थे वराटको ॥ २७२ ॥ कलशो मण्डने वाटे खड्गकोशे च विग्रहे । कला मूलधनोच्छ्राये शिल्पादावंशमात्रके ॥ २७३ ॥ चन्द्रषोडशभागे स्यादार्तवे कपटे तरौ । कलिर्बिभीतके शूरे विवादेऽल्पयुगे रणे ॥ २७४ ॥ कलिका कोरके वीणामूले पदनिबन्धने । कलितं घृत आप्ते च विदिते गणिते त्रिषु ॥ २७५ ॥ कलिंगः पूतिकरजे धूम्याटे प्लक्षपादपे । शिरीषे कुटजे देशविशेषे भूम्नि पुंसि च ॥ २७६ ॥ ;p{0052} कलिंगो भास्करे शैलविशेषे च बिभीतके । कल्को बिभीतके दम्भ घृततैलादिशेषयोः ॥ २७७ ॥ अस्त्री पुरीषे कलुषे त्रिषु पापाशये स्मृतः । कल्पो ब्राह्मदिने न्याये प्रलये विधिशास्त्रयोः ॥ २७८ ॥ विकल्पे कल्पवृक्षे च व्याकृतिप्रत्ययान्तरे । कल्पनाऽनुमितौ हस्तिसज्जना-गुम्फयोः स्त्रियाम् ॥ २७९ ॥ कल्माषो राक्षसे श्यामे गन्धशालौ च कर्बुरे । कल्यो निरामये सज्जे दक्षे वाक्श्रुतिवर्जिते ॥ २८० ॥ उपायवचने भद्रवचनेऽपि त्रिलिंगकः । कल्याणं मंगले स्वर्णे त्रिलिंगस्तु शुभान्विते ॥ २८१ ॥ ;p{0053} कल्लोलस्तु महावीच-हर्षयोस्त्रिषु वैरिणि । कवचोऽस्त्री कन्दराले सन्नाहे पटहे स्तुते ॥ २८२ ॥ कविः काव्यकरे सूर्ये वाल्मीकिमुनि-शुक्रयोः । विरिञ्चौ पण्डिते कल्किज्येष्ठभ्रातरि तस्करे ॥ २८३ ॥ कविका कवयीमीने खलीने केविका सुमे । कश्यं मद्येऽश्वमध्येऽपि कशार्हे तु त्रिलिंगकः ॥ २८४ ॥ कश्यपो मद्यपे मत्स्य-मृगभेदे मरीचिके । कषायोऽस्त्री पाचनादौ वङ्गरागे विलेपने ॥ २८५ ॥ निर्यासे तुवरेऽपि स्यात्त्रिषु तूवरवत्यपि । पुमान् श्योनाकवृक्षे स्याद् रागे कलियुगे स्मृतः ॥ २८६ ॥ ;p{0054} त्रिलिंगो लोहिते रक्त-पीत-मिश्रितवर्णके । सुरभौ धववृक्षेऽथ कसिपुर्वसनान्नयोः ॥ २८७ ॥ कक्षस्तृणे बाहुमूले कच्छे वीरुधि कल्मषे । वने शुष्कवने पार्श्वे भित्तौ शुष्कतृणे पुमान् ॥ २८८ ॥ कक्षा स्पर्द्धापदे काञ्च्यां भित्तौ गेहप्रकोष्ठके । क्षुद्ररोगान्तरे साम्ये कक्ष्या स्पन्दन-भागयोः ॥ २८९ ॥ स्याद् कक्षावेक्षको रङ्गाजीव-शुद्धान्तपालयोः । उद्यानरक्षके द्वारपालके कविषिङ्गयोः ॥ २९० ॥ कक्ष्या काञ्च्यां चर्मरज्जौ सादृश्येऽन्तर्गृहे स्त्रियाम् । कक्षरज्जौ वरत्रायां गुञ्जायामुद्यमे स्मृता ॥ २९१ ॥ काकोऽतिधृष्टे तिलके वायसे पादपान्तरे । शिरोऽवक्षालने द्वीपविशेषे पीठसर्पिणि ॥ २९२ ॥ ;p{0055} परिमाणविशेषेऽथ काकपक्षः शिखण्डके । काकरूकः पुमान् दम्भे स्त्रीजिते घूकपक्षिणि ॥ २९३ ॥ दिगम्बरे दरिद्रे च भीरुके स्यात्त्रिलिंगकः । काकिणी पणतुर्यांशे कृष्णला मानदण्डयोः ॥ २९४ ॥ काकोलो द्रोणकाके स्यात् काकोल्याख्यौषधान्तरे । भुजङ्गमे कुम्भकारे पुमान् स्यात् सूकरान्तरे ॥ २९५ ॥ काञ्चनं कनके वित्ते किञ्जल्के नागकेशरे । पुमांस्तु कोविदारे स्यान्नागकेशरपादपे ॥ २९६ ॥ उदुम्बरे च धुस्तूरे चम्पकेऽपि प्रयुज्यते । स्त्रीकट्याभरणे कांची मोक्षदायिपुरान्तरे ॥ २९७ ॥ काण्डोऽस्त्री कुत्सिते बाणे दण्डे नीरसमूहयोः । वर्गे रहसि प्रस्तावे श्लाघायां स्तम्ब-चन्द्रयोः ॥ २९८ ॥ ;p{0056} पापीयसि तरुस्कन्धे काणो विकललोचने । कादम्बः कलहंसे स्यात् कदम्बतरु-बाणयोः ॥ २९९ ॥ कादम्बरी सरस्वत्यां मदिरा-ग्रन्थभेदयोः । कोकिलायां शारिकाख्यपक्षिण्यामपि कीर्तिता ॥ ३०० ॥ काननं भवनेऽरण्ये ब्रह्मणो वदने स्मृतम् । कान्तः पुमान् चन्द्रमसि श्रीकृष्णे हिज्जलद्रुमे ॥ ३०१ ॥ पत्यौ वसन्ते क्लीवन्तु कुङ्कुमे त्रिषु शोभने । कान्ता नागरमुस्तायां रेणुका-स्त्रीविशेषयोः ॥ ३०२ ॥ पोषायां बृहदेलायां प्रियङ्गुपादपे स्त्रियाम् । कान्तार इक्षुभेदे स्याद् वंशे कुद्दालपादपे ॥ ३०३ ॥ कान्तारोऽस्त्री बिले दुःखगम्यम्यमार्गे महावने । कान्तिर्द्युतौ स्त्री शोभायां दुर्गायां वाञ्छनेपि च ॥ ३०४ ॥ ;p{0057} कामं रेतस्यनुमितौ निकामे काम्य-बाढयोः । कामोऽभिलाषे कन्दर्पे काम्ये संकर्षणे पुमान् ॥ ३०५ ॥ कामिनी गाढकन्दर्पयोषा-सामान्ययोषितोः । मदिरा-वन्दयोर्दारु-हरिद्रायामपि स्रियाम् ॥ ३०६ ॥ कामी पारावते चन्द्रे कामुके चटके पुमान् । चक्रवाके सारसाख्यपक्षि-भेषजभेदयोः ॥ ३०७ ॥ कायो मूलधने संघ-प्राजापत्यविवाहयोः । स्वभावे ब्राह्मतीर्थे च मूर्तौ लक्ष्ये पुमान् स्मृतः ॥ ३०८ ॥ कारो वधे तुषाराद्रौ निश्चये बलियत्नयोः । पत्यौ यतौ क्रियायां स्यादथ कारणमिन्द्रिये ॥ ३०९ ॥ ;p{0058} वाद्यभेदे वधे देहे कर्मगीतप्रभेदयोः । कायस्थे करणे हेतौ साधनेऽपि प्रयुज्यते ॥ ३१० ॥ कारा प्रसेवके दूत्यां पीडायां बन्धनालये । सुवर्णकारिकायां च बन्धनेऽपि स्त्रियां मता ॥ ३११ ॥ कारिका यातना-वृद्धि-शिल्पेषु नटयोषिति । कृतौ विवरणश्लोके क्लीबं कर्मादिकारके ॥ ३१२ ॥ कारुजो गैरिके शिल्पिचित्रे वल्मीक-फेनयोः । स्वयंजाततिले नागकेशरे करभे पुमान् ॥ ३१३ ॥ कार्तिकः कार्तिकेये स्याद् बाहुले हायनान्तरे । कार्मण मन्त्र-तन्त्रादियोजने मूलकर्मणि ॥ ३१४ ॥ कर्मठे तु त्रिलिंगः स्यादथ स्यात् पुंसि कार्मुकः । हिज्जले कदरे वंशे महानिम्बे क्रियाक्षमे ॥ ३१५ ॥ ;p{0059} कार्यं प्रयोजने हेतौ विवादे प्रत्ययादिषु । उन्मत्ते क्षपणेऽनर्थकरे कार्यपुटः पुमान् ॥ ३१६ ॥ कार्श्यः कचूर-लकुश-कृशता-सालपादपे । कार्षिके षोडशपणे प्रोक्तः कार्षापणेऽस्त्रियाम् ॥ ३१७ ॥ कालः क्षणादिसमये कासमर्दे शनौ यमे । मृत्यौ राले महाकाले कोकिले रक्तचित्रके ॥ ३१८ ॥ कृष्णवर्णे त्रिलिंगस्तु मतः कृष्णगुणान्विते । कालकण्ठोः महादेवे मयूर-कलविङ्कयोः ॥ ३१९ ॥ पीतसारे खंजरीटे पुमान् दात्यूहपक्षिणि । कालंजरो योगिचक्रमेलके पर्वतान्तरे ॥ ३२० ॥ ;p{0060} देशभेदे भैरवेऽथ कालज्ञः कुक्कुटे पुमान् । मंजिष्ठा-त्रिवृतोः सोमवल्ल्यां कालमषी स्त्रियाम् ॥ ३२१ ॥ कालरात्रिर्भीमरथी-शक्तिभेद-कल्पनिशास्वपि । कालस्कन्धो दुष्खदिरे तमाले जीवकद्रुमे ॥ ३२२ ॥ उदुम्बरे तिन्दुकेऽथ कालसूत्रं तु नारके । काला कुलिकवृक्षेऽश्वगन्धा-मंजिष्ठयोः स्त्रियाम् ॥ ३२३ ॥ नीलिनी पाटलावृक्ष-पालिन्दी-सुषवीष्वपि । कालानुनादी भ्रमरे कलविङ्के कपिंजले ॥ ३२४ ॥ चातकेऽप्यथ कालिङ्गं कालिन्दकफलं स्मृतम् । कालिङ्गो भूमिकूष्माण्डे सर्पे लोहान्तरे गजे ॥ ३२५ ॥ कावेरी स्त्री हरिद्रायां वेश्यायां सरिदन्तरे । ग्रन्थे रसात्मके वाक्ये काव्यं शुक्रे तु पुंस्ययम् ॥ ३२६ ॥ ;p{0061} काव्या स्त्री पूतनायां स्यात् धीषणायामपीष्यते । काष्ठा दारुहरिद्रायामुत्कर्षे स्थिति-सीमयोः ॥ ३२७ ॥ अष्टादशनिमेषात्मकाले दिशि मता स्त्रियाम् । कासः शोभाञ्जने काशतृणरोगविशेषयोः ॥ ३२८ ॥ कासूर्विकलवाग् बुद्धि-रोग-शक्त्यस्त्रदीप्तिषु । काहलस्तु पुमान् वाद्यभाण्डभेदविडालयोः ॥ ३२९ ॥ शब्दमात्रे कुक्कुटेऽथ भृशे शुष्के खले त्रिषु । काहारकस्तु शिविकावाहके किंकरः पुमान् ॥ ३३० ॥ घोटके कोकिले कामदेव इन्दिन्दिरेऽपि च । किङ्किरातः शुकेऽशोके कन्दर्पे पीतभद्रके ॥ ३३१ ॥ रक्ताम्लाने कोकिलेऽथ किञ्जल्कः केशरे पुमान् । किट्टालस्तु पुमान् ताम्रकलशे लोहगूहके ॥ ३३२ ॥ किणिः स्त्रियामपामार्गे मांसग्रन्थौ घुणे पुमान् । कितवौ वाचके मत्ते द्यूतकृत्-खलयोः पुमान् ॥ ३३३ ॥ ;p{0062} किन्नरोऽस्त्री किंपुरुषे स्याज्जिनोपासकान्तरे । किरणो भास्करे रश्मिसामान्ये सूर्यतेजसि ॥ ३३४ ॥ किरतोऽल्पतनौ म्लेच्छे भूनिम्बे वाजिरक्षके । किराती जाह्नवी-दुर्गा-स्वर्गङ्गा-कुट्टनीषु च ॥ ३३५ ॥ किशोरोऽश्वशिशौ तैलपर्ण्यां तरुणसूर्ययोः । किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सिते त्रिषु ॥ ३३६ ॥ कीचकोऽनिलसंम्बन्ध-ध्वनद्वंशे द्रुमान्तरे । नले विराट श्याले च राक्षसान्तर-दैत्ययोः ॥ ३३७ ॥ कीनाशः कर्षके क्षुद्रे पशुघातिनि वाच्यवत् । यमे वानरभेदेऽथ कीरः शुकविहङ्गमे ॥ ३३८ ॥ ;p{0063} कीर्तिर्यशसि विस्तारे प्रसादे मातृकान्तरे । शब्द-कर्दमयोर्दीप्तौ कीलो वैश्वानरार्चिषि ॥ ३३९ ॥ तम्भे कफोणिनिर्घाते कफोणौ शंकु-लेशयोः । कीशः सूर्ये खगे पुंसि वानरे त्रिष्ववाससि ॥ ३४० ॥ कुक्कुटोऽस्त्री तृणोल्कायां स्फुलिंग-चरणायुधे । कुक्कुभे शूद्रपुत्रेपि निषादतनये स्मृतः ॥ ३४१ ॥ कुक्कुरः सारमेये स्यात् कुक्कुरी कुक्कुरस्त्रियाम् । कुञ्चिका वंशशाखायां गुञ्जायां कृष्णजीरके ॥ ३४२ ॥ मत्स्यभेदे मिथिकायां कूर्चिका(कुञ्चिका)यामपि स्त्रियाम् । कुञ्जोऽस्त्रियां लतागेहे हनु-कुञ्जरदन्तयोः ॥ ३४३ ॥ ;p{0064} कुञ्जरो देशभेदे स्यात् केशे दन्तावले पुमान् । कुटः कोट्टे शिलाकुट्टे वृक्षपर्वतयोः पुमान् ॥ ३४४ ॥ कुटुम्बः पोष्यवर्गेऽस्त्री ज्ञाति-सन्ततिनामसु । कुट्टनं छेदने क्लीबं कुत्सने च प्रतापने ॥ ३४५ ॥ कुट्टिमोऽस्त्री कुटीरे स्यात् सुधाघटितभूतले । मणिभूमौ दाडिमेऽथ कुठारः परशौ द्वयोः ॥ ३४६ ॥ कुड्यं कौतूहले भित्तौ लेपने च नपुंसकम् । कुणपः शवे शस्त्रभेदे पूतिगन्धौ त्वसौ त्रिषु ॥ ३४७ ॥ कुण्डं मानान्तरे नीराधारभेदे नपुंसकम् । होमीयाग्न्यालये देवसलिलाशय इष्यते ॥ ३४८ ॥ स्थाल्यां क्लीबे स्त्रियां कुण्डः पत्यौ जीवति जारजे । कुण्डलं वलये पाशे श्रावणाऽऽभरणेऽपि च ॥ ३४९ ॥ ;p{0065} कुण्डली वरुणे सर्पे मयूरे चित्तले मृगे । त्रिषु कुण्डलयुक्तेऽथ कुण्डी स्थाल्यां कमण्डलौ ॥ ३५० ॥ कुतपोऽस्त्री कुशतृणे छागलोमजकम्बले । वाद्य-दौहित्रयोरह्नेऽष्टमांशेऽपि कीर्तितः ॥ ३५१ ॥ पुमान् सूर्येऽतिथौ वह्नौ भागिनेये द्विजे गवि । कुतुपश्चर्मरचिते लघूनि स्नेहभाजने ॥ ३५२ ॥ कुतूः स्त्री चर्मरचिते महति स्नेहभाजने । कुथो गजपृष्ठास्तरणे चासनेऽपि प्रकीर्तितः ॥ ३५३ ॥ कुद्दालः कोविदारद्रु-भूमिदारणशस्त्रयोः । कुन्ते भल्लास्त्रचण्डत्व-क्षुद्रजन्तु-गवेधुषु ॥ ३५४ ॥ ;p{0066} कुन्तलो लाङ्गले केशे ह्रीवेरे चषके यवे । कुन्ती स्त्री पाण्डुभार्यायां शल्लक्यां गुग्गुलुद्रुमे ॥ ३५५ ॥ ब्राह्मण्यामप्यथो कुन्थुश्चक्रवर्तिजिनान्तरे । कुन्दोऽस्त्री माध्यपुष्पे स्यात् निध्यन्तरे स्मृतः ॥ ३५६ ॥ कुन्दुरौ भ्रमियन्त्रेऽपि करवीरमहीरुहे । कुब्जस्त्रिलिंगो गडुले खड्गापामार्गयोः पुमान् ॥ ३५७ ॥ कुब्रं तन्तौ वने कुण्डे कुण्डले शकटेऽनसि । कुमारः कार्तिकेये स्यात् पञ्चवर्षीयबालके ॥ ३५८ ॥ शुक्रेऽश्ववारके सिन्धुनदे वरुणपादपे । जिनोपासकभेदेऽपि युवराजे प्रकीर्त्यते ॥ ३५९ ॥ ;p{0067} कुमारी पार्वती-सीता-सरिद्भेद-सहासु च । श्यामा-द्वादशवर्षीयकन्ययोस्तरुणीसुमे ॥ ३६० ॥ स्थूलैला-मेदिनी-पुष्पबन्ध्या-कर्कोटकीष्वपि । अपराजितायां वासन्त्यां जम्बुद्वीपेऽपि कीर्तिता ॥ ३६१ ॥ कुमुदं श्वेतोत्पले रक्तपद्मे रूप्ये नपुंसकम् । पुमान् नैरृतकोणस्य दिग्गजे वानरान्तरे ॥ ३६२ ॥ सितोत्पले दैत्यभेदे कर्पूरे ध्रुवकान्तरे । स्त्रियां कट्फल-गम्भारी-धातकी-कुम्भिकास्वपि ॥ ३६३ ॥ कुम्भो गजशिरःपिण्डे कुम्भकर्णसुते घटे । वेश्यापतौ राशिभेदे प्राणायामाङ्गकुम्भके ॥ ३६४ ॥ ;p{0068} राक्षसे द्रोणयुगलपरिमाणेऽप्यसौ पुमान् । गुग्गुलौ त्रिवृति क्लीवं कुम्भकारस्तु कुक्कुभे ॥ ३६५ ॥ कुलालेऽप्यथ कुम्भी स्त्री कट्फले पाटलोखयोः । दन्तीतरौ वृक्षभेदे हस्ति-कुम्भीरयोः पुमान् ॥ ३६६ ॥ कुरुर्वर्षान्तरे भक्ते कण्टकार्यां नृपान्तरे । कुरुविन्दः पुमान् माषे मुस्तकेऽथ नपुंसकम् ॥ ३६७ ॥ कुल्माषे काचलवणे पद्मरागमणावपि । कुलं वंशे स्वजातीयगणे गृह-शरीरयोः ॥ अग्रे जनपदे क्लीवं पुमान् कुलक-नागयोः ॥ ३६८ ॥ कुलकस्तु कुलश्रेष्ठे वल्मीके काकतिन्दुके । पिण्डीतके मरुबके हरिद्वर्णभुजङ्गमे ॥ ३६९ ॥ ;p{0069} कुल्माषे यावके रोगभेदे वोरवधान्ययोः । कृशराऽर्द्धस्विन्नधान्य-राजमाषेषु काञ्जिके ॥ ३७० ॥ कुल्यमामिषसूर्पाऽष्टद्रोणमानेषु कीकसे । कुल्यस्त्रिषु कुलीने स्यान् मान्ये कुलहितेऽपि च ॥ ३७१ ॥ कुल्या स्त्री कृत्रिमस्वल्पनद्यां जीवन्तिकौषधे । कुलस्त्रियां नदीमात्रे प्रणाल्यां स्थूलवङ्गणे ॥ ३७२ ॥ कुबेरो धनदे नन्दीवृक्षेऽर्हत्सेवकान्तरे । कुशो रामसुते द्वीपभेदे योक्त्रे पुमान् मतः ॥ ३७३ ॥ दर्भेऽस्त्रियां स्यात् पापिष्ठ-मत्तयोस्तु त्रिलिङ्गकः । कुशलं मंगलं पुण्ये पर्याप्ते शिक्षिते त्रिषु ॥ ३७४ ॥ ;p{0070} मधुकर्कटिका-रज्जु-बलासु च कुशा स्त्रियाम् । कुशिको मुनिभेदे स्यात् जरणद्रुमफालयोः ॥ ३७५ ॥ बिभीतके तैलशेषे सर्जेऽपि त्रिषु केकरे । कुशूलो व्रीह्यगारे स्यात् तुषवह्नावपि स्मृतः ॥ ३७६ ॥ कुष्ठं विषान्तरे रोगभेदे भेषजभेदयोः । कुष्माण्डोऽस्त्री भ्रूणभेदे कर्कारु-गणभेदयोः ॥ ३७७ ॥ कुष्माण्ड्युमा घृणावास-यज्ञकर्मान्तरौषधे । कुसुमं स्त्रीरजः-पुष्प-फल-नेत्राऽऽमयान्तरे ॥ ३७८ ॥ कुहरं विवरे कर्णे कण्ठशब्दे गलेऽन्तिके । कूटोऽस्त्री निश्चले दम्भे कैतवे लौहमुद्गरे ॥ ३७९ ॥ ;p{0071} यन्त्रेऽनृते भग्नशृङ्गे षण्डे पुञ्जेऽपि कीर्त्यते । कूपः पुंस्युदपाने स्याद् गर्तमृण्मानयोरपि ॥ ३८० ॥ कूपको गुणवृक्षे स्यात् तैलपात्रे ककुन्दरे । चितायामुदपानेऽथ कूपी पात्रान्तरे स्मृता ॥ ३८१ ॥ कूर्चोऽस्त्री कठिने दम्भे कुशमुष्टौ विकत्थने । मयूरपुच्छमुष्टौ च श्मश्रुणि भ्रूयुगान्तरे ॥ ३८२ ॥ हुंबीजे कैतवे क्षिप्रोपरिभागे च शीर्षके । कूर्चिका क्षीरविकृति-सूचिका-तूलिकास्वपि ॥ ३८३ ॥ कुञ्चिकायां कुड्मलेऽथ कूर्पासः कञ्चुके पुमान् । कूर्मो मुद्रान्तरे बाह्यवायुभेदेऽपि कच्छपे ॥ ३८४ ॥ ;p{0072} अवतारान्तरे विष्णोः कूलं स्तूप-तडागयोः । प्रतीरे सैन्यपृष्ठेऽथ कृकरः कृकणे शिवे ॥ ३८५ ॥ चव्यके करवीरेऽथ कूवरोऽस्त्री युगन्धरे । कृकवाकुस्तु सरटे मयूरे कुक्कुटे पुमान् ॥ ३८६ ॥ कृतं फलेऽलमर्थेऽपि पर्याप्त-युगभेदयोः । कृतान्तो यम-सिद्धान्त-दैवेष्वशुभकर्मणि ॥ ३८७ ॥ कृती साधौ पुण्यवति पण्डिते निपुणे त्रिषु । कृतिश्चर्मणि भुर्जत्वक्-कृत्तिका-तारकास्वपि ॥ ३८८ ॥ कृत्यो धनादिभिर्भेद्ये विद्विष्टे प्रत्ययान्तरे । कार्ये त्रिष्वथ कृत्या स्यात् क्रियायां देवतान्तरे ॥ ३८९ ॥ ;p{0073} कृपणस्तु कदर्ये स्यात् दीन-कुत्सितयोः कृमौ । कृपीटं विपिने नीरे कुक्षौ काष्ठे नपुंसकम् ॥ ३९० ॥ कृपीटपालः पवने केनिपात-समुद्रयोः । कृमिः कीटे खरे कुक्षिजातकीटाऽऽमये पुमान् ॥ ३९१ ॥ लाक्षायां कृमिलेऽथ स्यात् कृषका वृष-फालयोः । कृष्णं नीलाञ्जने लौहे कालागुरु-मरीचयोः ॥ ३९२ ॥ कृष्णः काकेऽर्जुने व्यासे केशवे करमर्दके । श्यामलेऽथ स्त्रियां द्राक्षा-पिप्पली-द्रौपदीषु च ॥ ३९३ ॥ गम्भारी-कटुका-नीलीवृक्षेषु राजसर्षपे । कृष्णजीरक-काकोली-पर्पटी-सारिकान्तरे ॥ ३९४ ॥ ;p{0074} चिह्ने निमन्त्रणे स्थाने ध्वजे वेश्मनि केतनम् । केदार आलवाले स्यात् क्षेत्रे शैलान्तरे शिवे ॥ ३९५ ॥ केवली केवलज्ञानी तीर्थङ्कर उदाहृतः । केशः कचे दैत्यभेदे ह्रीवेरे वरुणे हरौ ॥ ३९६ ॥ केशरी बकुले सिंहजटायां हिंगुपादपे । नागकेशरवृक्षेऽपि पुमान् पुन्नागपादपे ॥ ३९७ ॥ केशरी घोटके सिंहे पुंन्नागे बीजपूरके । नागकेशरवृक्षेऽपि हनुमज्जनके पुमान् ॥ ३९८ ॥ केतु द्युतौ पताकायामुत्पाते चिह्नरोगयोः । विपक्षे ग्रहभेदेऽथ केतुशब्दः पकीर्तितः ॥ ३९९ ॥ केवलं निश्चिते कृत्स्नेऽसहाये ज्ञानशुद्धयोः । केसरं हिंगु-कासीस-स्वर्णेषु नागकेसरे ॥ ४०० ॥ ;p{0075} केसरो वकुले सिंह-तुरंगस्कन्ध-कुन्तले (रोमणि) । पुन्नागवृक्षे किञ्जल्के नागकेशरपादपे ॥ ४०१ ॥ केसरी घोटके सिंहे पुन्नागे नागकेशरे । हनुमज्जनके रक्त-शिग्रौ च बीजपूरके ॥ ४०२ ॥ कैतवं द्यूत-वैदूर्यमणि-च्छद्मसु नद्वयोः । कोको विष्णौ बृके भेके खर्जूरी-चक्रवाकयोः ॥ ४०३ ॥ कोणो वाद्यप्रभेदे स्यात् लगुडे मंगलग्रहे । गृहादेरेकदेशेऽपि शनौ वीणादिवादने ॥ ४०४ ॥ दिशोर्मध्येऽथ मृदुले मञ्जुले कोमलस्त्रिषु । कोरकोऽस्त्री मृणाले स्यात् कक्कोले मुकुलेऽपि च ॥ ४०५ ॥ ;p{0076} कोलं घोण्टाफले चव्ये मरिचे तोलके स्मृतम् । कोलः शनौ प्लवे चित्रे क्रोड-देशविशेषयोः ॥ ४०६ ॥ अङ्कपाली-वराहाऽस्त्रभेद-जात्यन्तरेष्वपि । कोषोऽस्त्री चषके दिव्ये योनौ शब्दादिसंग्रहे ॥ ४०७ ॥ अण्डे खड्गपिधानेऽर्थसमूहे पात्रशिम्बयोः । जातीफले कुड्मले च भाण्डागारेऽपि कीर्तितः ॥ ४०८ ॥ पनसादिफलस्यान्ते हिरण्ये धनसंहतौ । कौतुकं भोगसमये नर्म-गीतादिभोगयोः ॥ ४०९ ॥ हर्षे परम्परायातमंगलेपि कुतूहले । वैवाहिके हस्तसूत्रेऽभिलाषोत्सवयोरपि ॥ ४१० ॥ कौपीनं कल्मषे चीरेऽकार्य-गुह्यप्रदेशयोः । कौमुदी चन्द्रिकायां स्यादुत्सवे कार्तिकोत्सवे ॥ ४११ ॥ ;p{0077} कार्तिकाऽऽश्विनमासीयपौर्णमास्यामपीष्यते । कौलीनं लोकवादे स्याद् जन्ये गुह्ये कुकर्मणि ॥ ४१२ ॥ कौलेयके कुलीनत्वे युद्धे पश्वहिपक्षिणाम् । कौशिको नकुले घूके व्यालग्राहिणि गुग्गुलौ ॥ ४१३ ॥ विश्वामित्रमुनौ शक्रे मज्जा-शृङ्गारयोरपि । अश्वकर्णतरौ कोशकार-कोशज्ञयोर्द्वयोः ॥ ४१४ ॥ कौस्तुभो विष्णुवक्षस्थमणि-मुद्राविशेषयोः । क्रकचः करपत्रे स्यात् अस्त्री ग्रन्थिलपादपे ॥ ४१५ ॥ क्रतुर्मुन्यन्तरे यज्ञ-विश्वदेवविशेषयोः । क्रन्दनं रुदिते योधसंरावाऽऽह्वानयोरपि ॥ ४१६ ॥ ;p{0078} क्रन्दितं रोदनाऽऽह्वान-योधचित्करणादिषु । क्रम आक्रमणे शक्तौ चरणेऽनुक्रमे विधौ ॥ ४१७ ॥ क्रमुकः पट्टिका लोध्रे पूगे कार्पासिका फले । ब्रह्मदारुतरौ भद्र-मुस्तके स्मर्यते पुमान् ॥ ४१८ ॥ क्रव्यादो राक्षसे सिंहे श्येने मांसाशिनि त्रिषु । क्रियाकर्मणि चेष्टायां पूजने सम्प्रधारणे ॥ ४१९ ॥ उपायारम्भशिक्षासु चिकित्सायां च निष्कृतौ । व्यवहारान्तरे श्राद्धे धात्वर्थे हेतु-शौचयोः ॥ ४२० ॥ क्रूरो नृशंसे कठिने घोर उष्णे त्रिलिंगकः । क्रोडं भुजान्तरोत्संगभागेषु स्त्रीनपुंसकम् ॥ ४२१ ॥ क्रोडः शनैश्चरे कोले वाराहीकन्द ईरितः । क्रोशो मुहूर्ते गव्यूते दण्डे युगसहस्रके ॥ ४२२ ॥ ;p{0079} क्रोष्ट्री शृगालिका कृष्ण-विदारी लाङ्गुलीषु च । क्रौञ्चो जिनध्वजे द्वीपे खगे राक्षसशैलयोः ॥ ४२३ ॥ क्रौञ्चादनन्तु घेञ्चुल्यां चिञ्चोटक-मृणालयोः । क्लेशोऽविद्यादिदुःखे स्यादमर्ष-व्यवसाययोः ॥ ४२४ ॥ व्यसने द्रव्यनिष्पाके दुःखेऽपि क्वाथ ईरितः । खगो वायौ ग्रहे बाणे शलभपक्षिणोः ॥ ४२५ ॥ खचरो राक्षसे मेघे वायौ सूर्येऽपि रूपके । खजा स्त्रियां प्रहस्ते स्याद् दर्व्यां मारणमन्थयोः ॥ ४२६ ॥ खटोऽन्धकूपतृणयोः प्रहारान्तरटङ्कयोः । कफलाङ्गलयोः प्रोक्तः कर्त्तणेऽपि पुमानसौ ॥ ४२७ ॥ ;p{0080} खट्वा प्रेङ्खा कोलशिंबी पर्यङ्केषूदिता स्त्रियाम् । खड्गोऽसौ गण्डके बुद्धभेद-गण्डकशृङ्गयोः ॥ ४२८ ॥ खण्डनं भञ्जने छेदे निराकरण-भेदयोः । खण्डपर्शुश्चूर्णलेप्यां भग्नदन्तगजे शिवे ॥ ४२९ ॥ राहौ परशुरामे च खण्डामलकभेषजे । खदिरो जिह्मशल्ये स्यात् चन्दिरे च पुरन्दरे ॥ ४३० ॥ खद्योतो भास्करे व्योमप्रकाशे ज्योतिरिङ्गणे । खनको भूमिवित्तज्ञे मूषिके सन्धितस्करे ॥ ४३१ ॥ खरस्तु निष्ठुरे कंके काके गर्दभघर्मयोः । दैत्ये कण्टकिवृक्षेऽपि कुररे राक्षसान्तरे ॥ ४३२ ॥ ;p{0081} खरुः शिवे सिते दर्पे कामे दन्ते तुरङ्गमे । त्रिषु श्वेते निषिद्धैकरुचौ निर्बोध-तीक्ष्णयोः ॥ ४३३ ॥ खर्जूरं रौप्य-खलयोः हरिताले फलान्तरे । खर्जूरीपादपेऽक्लीवं वृश्चिकेऽपि प्रकीर्त्यते ॥ ४३४ ॥ खर्परस्तस्करे छत्रे भिक्षापात्र-कपालयोः । धूर्तेऽथ कुब्जके खर्वो दशवृन्देऽपि शेवधौ ॥ ४३५ ॥ खलं कल्के खलाधाने भूमौ स्थाने नपुंसकम् । पुमान् तमालवृक्षे स्यात् सूर्य-धुस्तूरवृक्षयोः ॥ ४३६ ॥ त्रिलिंगो दुर्जने नीचे खल्वाटे खलतिः पुमान् । खल्लो वस्त्रप्रभेदे स्यात् जायुमर्दनभाजने ॥ ४३७ ॥ अवटे चर्मपुटके च चर्म-चातकपक्षिणोः । खुरः शफे कोलदले क्षुरे खट्वादिपादुके ॥ ४३८ ॥ ;p{0082} गन्धद्रव्ये नखीनाम्नि पुमान् छेदनवस्तुनि । खुल्लको निष्ठुरे निःस्वे खले नीच-कनिष्ठयोः ॥ ४३९ ॥ खुल्लतात पुमान् पितृकनिष्ठभ्रातरि स्मृतः । खेचरः पारदे विद्याधरे शम्भौ नभश्चरे ॥ ४४० ॥ खेटः ग्रहे पुमान् नीचे हये त्रिषु सुनन्दके । अस्त्रियां मृगया-ग्रामभेद-चर्म-कफेषु च ॥ ४४१ ॥ खेटको ग्रामभेदे स्यात् फलके वसुनन्दके । खोलकः शीर्षके पूगकोषे वल्मीक-पाकयोः ॥ ४४२ ॥ गज औषधपाकार्थ-गर्तभेदे मतङ्गजे । हस्तद्वयात्मके माने वास्तु स्थानान्तरे पुमान् ॥ ४४३ ॥ गञ्जो गोष्ठगृहे भाण्डागार-ऽवज्ञाऽऽकरेष्वपि । गञ्जा खनौ मद्यभाण्डे मदिरानीचवेश्मनि ॥ ४४४ ॥ ;p{0083} गडो देशान्तरे मत्स्यविशेष-व्यवधानयोः । परिखायामन्तराये गडुः शल्यास्त्र-कुब्जयोः ॥ गण्डूपदे पृष्ठगुडेऽसमग्रन्थौ पुमान् स्मृतः ॥ ४४५ ॥ गणो गणेशे प्रमथे सेनासंख्यान्तरे चये । गन्धद्रव्ये चोरनाम्नि संख्या-धातृसमूहयोः ॥ ४४६ ॥ गणिका यूथिका-वेश्या-कणिका-हस्तिनीषु च । गणितं गणने क्लीवमङ्कशास्त्रेऽपि युज्यते ॥ अङ्कशास्त्रे च संख्याते गणने गणितं विदुः ॥ ४४७ ॥ गणेशो विघ्नराजे च शिवेऽपि क्वचिदीरितः । गण्डः कपोले पिटके स्फोटके हयभूषणे । वीथ्यङ्गे बुद्बुदे ग्रन्थो कटे विक्रान्त-लक्ष्मणोः ॥ ४४८ ॥ ;p{0084} गण्डकस्त्वन्तराये स्यात् खड्गि-विद्याविशेषयोः । संख्याप्रभेदेऽवच्छेदे गण्डकी सरिदन्तरे ॥ ४४९ ॥ गतिर्नाडीव्रणे ज्ञाने मार्गे यात्राऽभ्युपाययोः । दशायां गमने प्राप्तौ गत्वरः शीघ्रगे त्रिषु ॥ ४५० ॥ गदं विषे गदो रोगे कृष्णभ्रातरि भाषणे । गन्धः शोभाञ्जने गर्वे सौरभे घृष्टचन्दने ॥ ४५१ ॥ आमोदे गन्धके लेशे सम्बन्धे गन्धमोदने ॥ गन्धनं सूचनोत्साह-हिंसासु च प्रकाशने ॥ ४५२ ॥ गन्धपत्रो मरुवके बर्बरे श्रीफलद्रुमे । नारंगे श्वेतवृन्दायां शटीभेदे त्वसौ स्त्रियाम् ॥ ४५३ ॥ गन्धपुष्पोऽङ्कोठतरौ वेतसे बहुवारके । स्त्रियान्तु केतकी-नीली-गणिकारीष्वसौ नतः ॥ ४५४ ॥ ;p{0085} गन्धर्वो मृगभेदे स्यात् पुंस्कोकिल-तुरङ्गयोः । अन्तराभवसत्वे च गायके दिव्यगायने ॥ ४५५ ॥ गान्धिको गन्धवणिजि गन्धविक्रेतरि स्मृतः । अथ गन्धवती पृथ्वी-वनमल्ली-सुरासु च ॥ ४५६ ॥ मुरायां वायुपुर्याञ्च व्यासमातरि कीर्तिता ॥ ४५७ ॥ गमो जिगीषुगमने प्रस्थानाक्षविवर्तयोः । अपर्यालोचिते मार्गे सदृक्पाठेऽपि कीर्तितः ॥ ४५८ ॥ गमकः स्वश्रुतिस्थानाच्छायां श्रुत्यन्तराश्रयाम् । स्वरो यो मूर्च्छनामेति गमकः स इहोच्यते ॥ ४५९ ॥ गयो राजर्षिभेदेऽपि भेदे वानर-दैत्ययोः । गया तु गयराजर्षिपुरी प्रोक्ता मनीषिभिः ॥ ४६० ॥ ;p{0086} गरलं परिमाणेऽपि विषे च तृणपूलके । गर्तः ककुन्दरे श्वभ्रे रोगभेद-त्रिगर्तयोः ॥ ४६१ ॥ गर्दभो रासभे गन्धे विडङ्गे कुमुदे द्वयोः । गर्दभाण्डः प्लक्षवृक्षे कन्दरालतरावपि ॥ ४६२ ॥ गर्भोऽपवरके भ्रूणे सन्धौ पनसकण्टके । कुक्षौ मध्येऽर्भके वह्नौ सरित्सन्निहितस्थले ॥ ४६३ ॥ गलः सर्जरसे कण्ठे वाद्यभेदे झषान्तरे । गलग्रहो मत्स्यघण्टे तिथिभेदेऽपि कीर्तितः ॥ ४६४ ॥ गल्वको मद्यपात्रे स्यादिन्द्रनीलमणावपि । गवेधुका नागवला-तृणधान्यविशेषयोः ॥ ४६५ ॥ गोहिते त्रिषु गव्यं स्यात् गोसम्बन्धिघृतादिषु । गव्या गोरोचना-गोत्रा-गव्यूति-ज्यासु कीर्तिता ॥ ४६६ ॥ ;p{0087} गव्यूतिः स्त्री क्रोशयुगे गव्यूतं गोरुतं तथा । गहनं कानने दुःखे कलिले (सघने) गह्वरेऽसुगे ॥ ४६७ ॥ गह्वरं रोदने दम्भे गुहायां वन-कुञ्जयोः । गांगेयो भद्रमुस्तायां स्कन्दे भीष्मे झषान्तरे ॥ ४६८ ॥ क्लीवं काञ्चन-धूस्तूर-मुस्तकेषु कशेरुणि । गातुर्गायन-गन्धर्व-रोषणाऽलि-पिकेष्वपि ॥ ४६९ ॥ गाथा श्लोके संस्कृतान्यभाषायां गेयवृत्तयोः । गान्धारी धृतराष्ट्रस्त्री-जिनशासनदेवता ॥ ४७० ॥ ;p{0088} गञ्जा दुरालभा प्रोक्ता गान्धारः स्वरदेशयोः । गालोडितस्त्रिषून्मत्ते मूर्ख-रोगार्तयोः स्मृतः ॥ ४७१ ॥ गिरिः पारददोषे स्यात् पर्वते गेण्डुके पुमान् । सन्न्यासिपद्धतौ चक्षुरोगभेदे स्त्रियान्त्वसौ ॥ ४७२ ॥ गिरिजं गैरिके लोहे शिलाजतुनि शैलजे । अभ्रके गौरशाकेऽथ गिरिजा पार्वती स्मृता ॥ ४७३ ॥ गिरीशः शङ्करे जीवे हिमालयगिरावपि । गिरिसारः पुमान् रगे लोहे मलयपर्वते ॥ ४७४ ॥ गीष्पतिः पण्डिते जीवे गुच्छः स्तम्बकलापयोः । द्वात्रिंशद्यष्टिके हारे मुक्ताहारे सुमोच्चये ॥ ४७५ ॥ ;p{0089} स्त्रियां गुच्छफला द्राक्षा-निष्पवी-कदलीषु च । वल्लिकण्टारिका-काकमाच्योरथ पुमान् असौ ॥ ४७६ ॥ रीठाकरञ्जे कतके राजादन्यामपि स्मृतः । गुञ्जा कलध्वनौ चर्चा-गोधूमद्वयमानयोः ॥ ४७७ ॥ काकचिञ्च्यां चतुर्धान्यमान-त्रियवमानयोः । पटहे मदिरागारे गुडो गोलेक्षुपाकयोः ॥ ४७८ ॥ कार्पासी हस्तिसन्नाह-ग्रासेषु च प्रयुज्यते । गुणो रूपादि-शुक्लादि-शौर्याद्या-ऽऽवृत्तिरज्जुषु ॥ ४७९ ॥ त्यागेऽप्रधाने सत्त्वादौ सन्ध्यादौ सूद-इन्द्रिये । मौर्व्यां तन्तौ भीमसेने दोषेतरविशेषणे ॥ ४८० ॥ ;p{0090} नृत्ये गुणनिका माल्ये शून्याङ्के पाठनिर्णये । गुण्डको धूलि-मलिन-स्नेहपात्र-कलोक्तिषु ॥ ४८१ ॥ गुप्तं स्याद् रक्षिते गूढे संगते वैश्यपद्धतौ । गुप्तिर्गोपन-भूगर्त-कारागारेषु रक्षणे ॥ ४८२ ॥ अन्तकेऽवकरस्थाने नौकाछिद्रेऽपि कीर्तिता । गुम्फः श्मश्रुणि सन्दर्भे भुजालंकरणेऽपि च ॥ ४८३ ॥ गुरुर्निषेकादिकरे गीष्पतौ धर्मदेशके । कपिकच्छौ द्विमात्रेऽपि मन्त्रदातरि दुर्भरे ॥ ४८४ ॥ दुर्जरेऽध्यापके श्रेष्ठे गुल्मी वसनवेश्मनि । आमलक्यां वनी-गृध्रनखी गुल्मयुतेष्वपि ॥ ४८५ ॥ गुहो विष्णौ कार्तिकेय-राममित्रे तुरङ्गमे । गुहा गर्ते सिंहपुच्छीलतायां गह्वरेऽपि च ॥ ४८६ ॥ ;p{0091} गृञ्जनो रक्तलशुने रसोनेऽथ नपुंसकम् । विषदिग्धपशोर्मांसे ग्रन्थिमूलेऽपि कीर्तितम् ॥ ४८७ ॥ गृहं कलत्रे भवने नामधेये बुधैः स्मृतम् । स्मृतो गृहपतिर्धर्मे गृहस्थे सचिवे पुमान् ॥ ४८८ ॥ गृहीतं स्वीकृते प्राप्ते धृते ज्ञाते त्रिलिंगकम् । गोकर्णोऽश्वतरे सर्पविशेषे हरिणान्तरे ॥ ४८९ ॥ तीर्थान्तरे मानभेद-गणदेवविशेषयोः । गोकुलं गोसमूहे स्याद् गोस्थाने नन्दसंस्थितौ ॥ ४९० ॥ जैनश्रमणभिक्षायां गोचरी गोचरक्षितौ । गोत्रं कुले धने छत्रे संघे वर्त्मनि कानने ॥ ४९१ ॥ ;p{0092} संभावनीयबोधेऽपि वृद्धौ क्षेत्राभिधानयोः । गोत्रः शैले स्त्रियामेषा-पृथिवी-गोसमूहयोः ॥ ४९२ ॥ गोधास्त्रियां निहाकाऽऽख्यजन्तौ ज्याघातवारणे । गोधूमो नागरंगेऽपि भेदे भेषजसस्ययोः ॥ ४९३ ॥ गोपो राजनि गोपाले बोले गोष्ठाधिपे स्मृतः । रक्षके बहुलग्रामाधिपतावुपकारके ॥ ४९४ ॥ गोपतिः शंकरे सूर्ये राज्ञि सण्ढेऽगदान्तरे । गोपनं व्याकुलत्वे स्यात् कुत्सनेऽपहवे द्युतौ ॥ ४९५ ॥ गोपी प्रकृति-गोपस्त्री-रक्षिका-शारिवासु च । गोपालकः शिवे कृष्णे गोपे गोरक्षकेऽपि च ॥ ४९६ ॥ ;p{0093} गोपुरं नगरद्वारे द्वारमात्रेऽपि कीर्तितम् । कैवर्तीमुस्तके दुर्गपुरद्वारे नपुंसकम् ॥ ४९७ ॥ गोमुखं कुटिलागारे वाद्यभाण्डे विलेपने । चौरकार्य-सुरंगायां वस्त्रनिर्मितयन्त्रके ॥ ४९८ ॥ पुमान् यक्षान्तरे नक्रे स्त्री तु स्यात् सरिदन्तरे । हिमाद्रिगंगापतनगोमुखाकारगह्वरे ॥ ४९९ ॥ गोरसो दध्नि दुग्धे च छच्छिकायामपि स्मृतः । गोलः खगोले भूगोले सर्ववर्तुल-बोलयोः ॥ ५०० ॥ मुचुकुन्दतरौ जाराद्विधवायाः सुतेऽपि च । गोलकोऽलिञ्जरे पिण्डे मृते भर्तरि जारजे ॥ ५०१ ॥ ;p{0094} गोला गोदावरी-दुर्गा-कुनटी-मण्डलेष्वपि । पत्राञ्जनेऽलिञ्जरे च बालक्रीडनदारुणि ॥ ५०२ ॥ गोलोमी श्वेतदुर्वायां षड्ग्रन्था-भूतकेशयोः । गोलोमिकाऽभिधक्षुद्रक्षुपे वारस्त्रियामपि ॥ ५०३ ॥ गोविन्दः परमब्रह्म-कृष्णयोर्गोधिपे गुरौ । गोष्ठी सभाया संलापे पोष्यवर्गेऽपि कीर्तिता ॥ ५०४ ॥ गोष्पदं गोखुर-श्वभ्रे क्लीबं गोसेवितस्थले । गौः पुमान् चन्दिरे सूर्ये किरणे स्वर्गवज्रयोः ॥ ५०५ ॥ क्रतुभेदे बलीवर्दे ऋषभाभिधभेषजे । स्त्री तु स्यात् लोचने भूमौ दिशि वाचि शरे जले ॥ ५०६ ॥ जनन्यां सौरभेय्यां च न स्त्रियां लोमनीरयोः । गोतमो गणभृद्भेदे शतानन्दे महामुनौ ॥ ५०७ ॥ गौरश्चैतन्यदेवे स्यात् चन्दिरे श्वेतसर्षपे । धववृक्षे श्वेत-पीतारुण-वर्णेषु कीर्तितः ॥ ५०८ ॥ ;p{0095} गौरी त्वसंजातरजःकन्यायां वरुणस्त्रियाम् । मल्लिका-तुलसी-दारु-हरिद्रा-वसुधासु च ॥ ५०९ ॥ सुवर्णकदली-श्वेतदूर्वा-गोरोचनास्वपि । आकाशमांसी-मञ्जिष्ठा-सरिद्भेद-प्रियङ्गुषु ॥ ५१० ॥ प्रसेनजित् स्त्रियां बुद्धशक्तिभेद-हरिद्रयोः । पार्वत्यां रागिणीभेदे गौरीजं क्लीवमभ्रके ॥ ५११ ॥ ग्रन्थः शास्त्रे धने गुम्फे ग्रन्थनायामनुष्टुभि । ग्रन्थिः पिण्डालु-रुग्भेद-भद्रमुस्तासु पर्वणि ॥ ५१२ ॥ वस्त्रदिबन्धे कौटिल्ये ग्रन्थिलो ग्रन्थिपर्णयोः । ग्रन्थिकं पिप्पलीमूले गुग्गुलु ग्रन्थिपर्णयोः ॥ ५१३ ॥ ;p{0096} पुमान् करीरे दैवज्ञे सदहेवाख्यपाण्डवे । ग्रन्थिलस्तु हितावल्यां विकङ्कतकरीरयोः ॥ ५१४ ॥ पिण्डालौ गणहासे च तुण्डलीये विकण्टके । ग्रन्थियुक्ते त्रिषु क्लीवं पिप्पलीमूल आर्द्रके ॥ ५१५ ॥ मालादूर्वा-गण्डदूर्वा-भद्रमुस्तासु तु स्त्रियाम् । ग्रहोऽनुग्रह-निर्बन्ध-सूर्यादिषु विधुन्तुदे ॥ ५१६ ॥ ग्रहणे पूतनादौ स्याद् उपरागे रणोद्यमे । ग्रहणं स्वीकृतौ शब्दे कर-आदर-इन्द्रिये ॥ ५१७ ॥ उपरागे चोपलब्धौ बन्दियपि प्रकीर्तितः । ग्रहराजः सूर्य-चन्द्र-बृहस्पतिषु कीर्त्यते ॥ ५१८ ॥ ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वके । ग्रामीणः केशवे यक्षे नापिते पुंस्यथ स्त्रियाम् ॥ ५१९ ॥ ;p{0097} वारस्त्रियां ग्रामनार्यां नीलिकायामपि स्मृता । त्रिलिंगस्तु प्रधाने स्याद् भोगिकेऽधिपतावपि ॥ ५२० ॥ ग्रामीणः कुक्कुरे ग्राम्यशूकरे वायसे पुमान् । ग्रामोत्पन्ने त्रिलिंगोऽथ स्त्रियां पालंक्य-नीलयोः ॥ ५२१ ॥ ग्राम्यो ग्रामेयकेऽश्लीले भण्ड्यादि वचने त्रिषु । ग्रावा पुमान् मेघ-शैल-प्रस्तरेषु दृढे त्रिषु ॥ ५२२ ॥ ग्राहोऽवराहे ग्रहणे शिशुमारेऽपि कीर्तितः । ग्राहको हिंस्रविहगे ग्रहीतरि सितावरे ॥ ५२३ ॥ व्यालग्राहिण्यथो गीष्मो निदाघेऽप्युष्ण आतपे । घटो हस्तिशिरःकूटे कुम्भे राश्यन्तरे स्मृतः ॥ ५२४ ॥ ;p{0098} कुम्भकाख्यसमाधौ च कुम्भमानेऽपि कीर्तितः । घटा समूहीकरणे सभायां घटने चये ॥ ५२५ ॥ घटिका तु मुहूर्ते स्यात् चरण-ग्रन्थिदण्दयोः । घट्टः तीर्थावतारेऽथ घट्टगा सरिदन्तरः ॥ ५२६ ॥ घण्टा स्त्रियां नागवला-कांस्यवाद्यविशेषयोः । घण्टा पाटलिवृक्षेऽथ घण्टाकर्णो गणान्तरे ॥ ५२७ ॥ घण्टापथो राजमार्गे दशधन्वन्तरे स्मृतः । घनं मध्यमनृत्ये स्यात् लौहवाद्यविशेषयोः ॥ ५२८ ॥ घनः शरीरे विस्तारे मुद्गरे वारिदेऽभ्रके । लोहे समूहे मुस्तायाः दृढे दार्ढ्ये निरन्तरे ॥ ५२९ ॥ सम्पुटे पूर्ण-कफयोः सजातीयाङ्कपूरणे । पुमान् घनरसो नीरे पीलुपर्ण्यां च मोरटे ॥ ५३० ॥ ;p{0099} सम्यक् सिद्धरसे सान्द्र-निर्यास-घनसारयोः । घनसारो वृक्षभेदे दक्षिणावर्तपारदे ॥ ५३१ ॥ कर्पूरे सलिलेचाऽथ वर्षुकाब्दे घनाघनः । अन्योन्यघट्टने शक्रे घातुकोन्मत्तकुञ्जरे ॥ ५३२ ॥ त्रिषु स्याद् घातुके काकमाच्यां घनाघना । घरट्टः पुंसिपेषण्यां घर्घटस्तु झषान्तरे ॥ ५३३ ॥ घर्घरः पर्वतद्वारे द्वारमात्रे तुषानले । उलूकध्वनिहास्येषु स्वरभेदे नदान्तरे ॥ ५३४ ॥ स्त्रियां घर्घरिका क्षुद्रघण्टिका-भृष्टधान्ययोः । नदीविशेषे वादित्रदण्डवाद्यप्रभेदयोः ॥ ५३५ ॥ घर्मः स्वेदाम्भसि ग्रीष्म आतपेऽप्यष्मणि स्मृतः । घर्षणालः शिलापुत्रे संघर्षे घर्षणं स्मृतम् ॥ ५३६ ॥ ;p{0100} घातोऽङ्कपूरणे काण्डे प्रहारे प्रतिघातने । घुणः काष्ठकृमौ घातिः प्रहारे पक्षिबन्धने ॥ ५३७ ॥ घुर्घुरो यमकीटेऽथ मृत्किरायां घुर्घुरी । घुसृणं कुंकुमे क्लीवं घृष्टन्तु त्रिषु शब्दिते ॥ ५३८ ॥ घूकारिर्वायसे घूक उलूके च प्रयुज्यते । घृणा स्त्रियां जुगुप्सायां कारुण्येऽथ घृणिः पुमान् ॥ ५३९ ॥ भास्करे किरणे नीरे घृतमाज्ये नपुंसकम् । त्रिषु स्यात् सेचके दीप्ते घृतपूरस्तु घार्तिके ॥ ५४० ॥ घोटकः पुंसि तुरगे तुरंगी पादपे स्त्रियाम् । घोण्टा गुवाकवृक्षे स्याद् घस्तिकोलितरावणि ॥ ५४१ ॥ ;p{0101} घोष आभीरपल्ल्यां स्याद् गोपाले ध्वनि-कांस्ययोः । मशके स्तनिते धामार्गवे कायस्थपद्धतौ ॥ ५४२ ॥ लोकविज्ञापनायोच्चैः शब्दिते घोषणा स्मृता । घोषयित्नुर्ब्राह्मणे स्यात् कोकिले स्तुतिपाटके ॥ ५४३ ॥ घ्राणं क्लीवं नासिकायां स्यात् त्रिलिंगस्तु शिंघिते । चकोरः चन्द्रिकापानशील-शालिविहङ्गमे ॥ ५४४ ॥ चक्रं सैन्ये जलावर्ते ग्रामजाल-रथाङ्गयोः । राष्ट्रे व्यूहविशेषेऽपि तैलयन्त्राऽस्त्रभेदयोः ॥ ५४५ ॥ कुम्भकारोपकरणे दम्भभेद-समूहयोः । चक्रवर्ती सार्वभौमे वास्तूकेऽथ स्त्रियामसौ ॥ ५४६ ॥ अलक्तके जटामांसी-गन्धद्रव्यविशेषयोः । चक्रवाको द्वयो रात्रिविश्लेषिणि विहंगमे ॥ ५४७ ॥ ;p{0102} चक्रवाटस्तु पर्यन्ते क्रियारोहे शिखातरौ । चक्रवातस्तु वात्यायां चक्रवालन्तु मण्डले ॥ ५४८ ॥ वृद्धेरपि पुनर्वृद्धौ चक्रवृद्धिरुदाहृता । चक्राङ्गी कटुरोहिण्यां हंसीमञ्जिष्ठयोरपि ॥ ५४९ ॥ हिलमोच्यां कुलिंग्यां वृषपर्ण्यामपि स्मृता । चक्री विष्णौ चक्रवाके वायसे ग्रामजालिके ॥ ५५० ॥ तिनिशे सूचके सर्पे चक्रवर्तिनि गर्दभे । चक्रमर्दे व्यालनखे तैलिके चक्रसंयुते ॥ ५५१ ॥ अजं च कुम्भकारेऽथ चङ्गः शोभन-दक्षयोः । चञ्चरीको मधुकरे चञ्चरी भ्रमरा स्त्रियाम् ॥ ५५२ ॥ चञ्चलं चपले क्लीबं मारुते तु पुमान् स्मृतः । चञ्चला कमला-विद्युत्-पिप्पली-पुंश्चलीषु च ॥ ५५३ ॥ चञ्चा तृणमये पुंसि स्त्रियां खलु प्रकीर्तिता । चञ्चुर्नाडी च शाके स्यात् मृगे पञ्चांगुले पुमान् ॥ ५५४ ॥ स्त्रियां त्रोटौ पत्रशाकविशेषेऽपि प्रयुज्यते । ;p{0103} चटकः कलविंके स्यात् चटका चटकस्त्रियाम् ॥ ५५५ ॥ श्यामायां पिप्पलीमूले चटुलः सुन्दरे चले ॥ ५५६ ॥ चटुः प्रियोक्तौ जठरे व्रतिनामासनान्तरे ॥ ५५७ ॥ चणको हरिमन्थाख्यशस्ये मुन्यन्तरे स्मृतः । चण्डो दैत्यविशेषे स्यात्तितिण्ड्यां यमकिंकरे ॥ ५५८ ॥ अर्धोरुके वरस्त्रीणामस्त्री चण्डातकः स्मृतः । चण्डालः पुक्कशे क्रूरकर्मण्यपि प्रकीर्तितः ॥ ५५९ ॥ चण्डिलो नापिते रुद्रे वास्तूके स्त्री नदीभिदि । चण्डी दाक्षायणीदेव्यां कोपनायामपि स्मृतः ॥ ५६० ॥ ;p{0104} मार्कण्डेयपुराणोक्तदेवीमाहात्म्य-हिंस्रयोः ॥ ५६१ ॥ चतुरो निपुणे दक्षे त्रिषु लोचनगोचरे । पुमांस्तु हस्तिशालायां चक्रगण्डावपीष्यते ॥ ५६२ ॥ चतुष्पथः पुमान् विप्रे क्लीवं शृङ्गाटके स्मृतम् । चतुष्पदी स्त्रियां पद्ये पुमांस्तु करणे पक्षौ ॥ ५६३ ॥ चन्दनाऽगरु-कस्तूरी-कुंकुमे तु चतुःसमम् । चदिरो भुजगे चन्द्रे कर्पूरे कुञ्जरे पुमान् ॥ ५६४ ॥ चन्दनोऽस्त्री भद्रसारे क्लीबन्तु रक्तचन्दने । चन्दिरः कञ्जरे चन्द्रे चन्दनी सरिदन्तरे ॥ ५६५ ॥ चन्द्रश्चन्द्रमसि स्वर्णे काम्पिल्ये बर्हचन्द्रके । शोणमुक्ताफले द्वीपविशेष-कमनीययोः ॥ ५६६ ॥ ;p{0105} आह्लादजनकद्रव्ये विसर्गे सलिले पुमान् ॥ ५६७ ॥ चन्द्रको मत्स्यभेदे स्यान्नखरे बर्हमेचके । अथ चन्द्रकला वाचमत्स्य-द्रगडवाद्ययोः ॥ ५६८ ॥ चन्द्रस्य षोडशे भागे भेदे भूषण-पुष्पयोः । चन्द्रकान्तश्चन्द्रमणौ कैरवे रजनौ स्त्रियाम् ॥ ५६९ ॥ चन्द्रपल्यामथो चन्द्रप्रभस्तीर्थङ्करान्तरे । चन्द्रशाला स्मृता ज्योत्स्ना-प्रासादोपरिगेहयोः ॥ ५७० ॥ चन्द्रशेखर ईशाने भैरवे पर्वतान्तरे । चन्द्रा गुडूच्यामेलायां वितानेऽपि स्मृतां स्त्रियाम् ॥ ५७१ ॥ ;p{0106} चन्द्रातपश्चन्द्रिकायामुल्लोचेऽपि प्रकीर्तितः । चन्द्रिका मल्लिका-ज्योत्स्ना-सूक्ष्मैलामेथिकासु च ॥ ५७२ ॥ स्थूलैलायां चन्द्रशूर-क्षुद्रवार्ताकिनीष्वपि । कर्णस्फोटा चन्द्रभागा चन्द्रकेषु प्रकीर्तिता ॥ ५७३ ॥ चपलश्चोरके मत्स्ये पारदे प्रस्तरान्तरे । क्षवेऽप्यथ त्रिलिंगस्तु विकले चिकुरे चले ॥ ५७४ ॥ क्लीबं स्यात् क्षणिके शीघ्रे चपेटः प्रतले पुमान् । चपला त्विन्दिरा-जिह्वा-विजया-मदिरासु च ॥ ५७५ ॥ सौदामिन्यां पांशुलायां पिप्पल्यामपि कीर्तिता । डमरौ चित्तविस्तारे चमत्कारो मयूरके ॥ ५७६ ॥ ;p{0107} चमसो लड्डुके पिष्टभेद-पर्पटयोरपि । चमसी मुद्गमाषादिशुष्कचूर्णेऽभिधीयते ॥ ५७७ ॥ चमूः सेनाविशेषेऽपि सेनामात्रेऽपि कीर्तिता । गद्यपदमयी वाणी चम्पूरित्यभिधीयते ॥ ५७८ ॥ चयः समूहे प्राकारे पीठे वप्रे समाहृतौ । चरः कपर्दके भौमे खञ्जरीटे स्पशे चले ॥ ५७९ ॥ अक्षद्यूतप्रभेदेऽथ चरकः पर्पटे मुनौ । चरणं गमनाऽऽचार-भक्षणेषु नपुंसकम् ॥ ५८० ॥ अस्त्रियां बह्वृचादौ स्यान्मूलेऽपि पद-गोत्रयोः । चराचरं स्याद् भुवने जङ्गमाजङ्गमे दिवि ॥ ५८१ ॥ इष्टे कपर्दके पुंसि चरित्रं चरिते स्मृतम् । चर्चरीको महाकाले केशविन्यास-शाकयोः ॥ ५८२ ॥ ;p{0108} चर्चा विचारणा-दुर्गा-चिन्तासु स्थासकेऽपि च । चर्माऽजिने च फलके शरीरावरणेन्द्रिये ॥ ५८३ ॥ पुंसि स्याच्चर्म पुटकश्चर्म निर्मितभाजने । ईर्य्यापथस्थितौ चर्या चर्वणं दन्तचूर्णने ॥ ५८४ ॥ चलं लोले चलः कम्पे कम्पयुक्ते त्वसौ त्रिषु । चषकोऽस्त्री सुरापात्रे मधु-मद्यविशेषयोः ॥ ५८५ ॥ चक्षा जीव उपाध्याये चक्षुः क्लीबं विलोचने । चक्षुष्पं खर्परीतुत्थ-सौवीराञ्जनयोरपि ॥ ५८६ ॥ प्रपौण्डरीकेऽथ पुमान् पुण्डरीके रसाञ्जने । शोभाञ्जने केतकेऽथ रम्ये चक्षुर्हिते त्रिषु ॥ ५८७ ॥ ;p{0109} औज्ज्वल्ये चाकचक्यं स्यात् चाक्रिको घाण्टिकार्थके । तैलकारे शाकटिके चाटश्चौरे प्रतारके ॥ ५८८ ॥ चाटुः स्त्रीपुंसयोर्मिथ्याप्रियवाक्ये प्रियोदिते । स्फुटवादिन्यथो चाटुपटुः कामुक-भण्डयोः ॥ ५८९ ॥ चारः स्पशे गतौ बन्धे कारागार-प्रियालयोः । चारकोऽश्वादिपाले स्याद् बन्धे संचारके पटे ॥ ५९० ॥ वस्त्रादौ कुंकुमादीनां छटा चार्चिक्यमुच्यते । चिकुरस्तरले केशे पक्षिभेदे भुजङ्गमे ॥ ५९१ ॥ गृहबभ्रौ वृक्षभेदे चपले तु त्रिलिंगकः । चितिश्चितायां दुर्गायां समूहाङ्कविशेषयोः ॥ ५९२ ॥ ;p{0110} चित्रं कुष्ठप्रभेदे स्यादालेख्ये तिलकेऽद्भुते । व्योम्नि कर्बुरवर्णेऽथ त्रिषु तद्वति कीर्तितः ॥ ५९३ ॥ चित्रो यमान्तरेऽशोके एरण्डे चित्रकद्रुमे । स्त्रियां चित्रफला मत्स्यभेद-चिर्भिटयोः स्मृतः ॥ ५९४ ॥ मृगेर्वारौ कण्टकारी-वार्ताकी-लिङ्गिनीषु च । महेन्द्रवारुणीवल्ल्यां चित्रभानुस्तु भास्करे ॥ ५९५ ॥ चित्रभानुः पुमान् सूर्येऽनले चित्रकपादपे । भैरवेऽर्कतरौ चित्ररथो गन्धर्व-सूर्ययोः ॥ ५९६ ॥ चित्राऽप्सरोविशेषे स्यात् मञ्जिष्ठा-गण्डदूर्वयोः । सुतश्रेणी मृगेर्वारु-सुभद्रादन्तिकासु च ॥ ५९७ ॥ सर्पान्तरे सरिद्भेदे माया छन्दोविशेषयोः । कृष्णसख्यां गवादन्यां ताराभेदेऽपि कीर्तिताः ॥ ५९८ ॥ ;p{0111} चित्राङ्गो भुजगे रक्तचित्रके चित्रकद्रुमे । हिंगुले हरितालेऽथ चित्रापूपश्चरुव्रणे ॥ ५९९ ॥ हृदयालौ ज्ञानमये चिद्रूपः स्फूर्तिमत्यपि । चित्रिणी स्त्रीविशेषे स्यात् चिंता वेश्यान्तरे स्मृता ॥ ६०० ॥ चिंतामणिः स्पर्शमणौ बुद्धे मण्यन्तरे विधौ । चिपिटो धान्यचमसे दीर्घसूत्रे चिरक्रियः ॥ ६०१ ॥ चिरजीवी पुमान् विष्णौ मार्कण्डेये हनूमति । व्यासे परशुरामे च कृपाचार्ये विभीषणे ॥ ६०२ ॥ अश्वत्थाम्नि बलौ काके शाल्मलौ जीवकद्रुमे । एष्वर्थेषु चिरञ्जीवी त्रिषु स्यात् चिरजीविनि ॥ ६०३ ॥ प्रसह्य चौरे चिल्लाभश्चिल्ल आतायिपक्षिणि । चिल्ली लोघ्रे झिल्लिकायामोष्ठाधाश्चिबुकं मतम् ॥ ६०४ ॥ ;p{0112} चिह्नमंके वैजयन्त्यां चिह्नितौ लक्षितेऽङ्किते । चीनो मृगान्तरे तन्तौ देशभेदेंऽशुकान्तरे ॥ ६०५ ॥ शस्यप्रभेदे क्लीबं तु पताकायां च सीसके । चीनकश्चीनकर्पूरे चीनधान्येऽपि कीर्तितः ॥ ६०६ ॥ चीरं वस्त्रे तद्विशेषे रेखाभेदे च गोस्तने । चूडायां सीसके जीर्णवस्त्रखण्डे तरुत्वचि ॥ ६०७ ॥ लेखभेदे चीरकस्तु विक्रियालेखने स्मृतः । चुक्रं सन्धानभेदे स्यात् तितिण्डीकेऽम्लवास्तुके ॥ ६०८ ॥ काञ्जिकेऽथ पुमान् अम्लवेतसेऽम्लरसेऽपि च । चुञ्चुली तिन्तिडीद्यूते चूचूकं तु कुचानने ॥ ६०९ ॥ चुम्बकः कान्त (लोहे स्यात्) पाषाणे घटस्योर्द्धावलम्बने । बहुग्रन्थैकदेशज्ञे धूर्ते चुम्बनतत्परे ॥ ६१० ॥ ;p{0113} चुलुको भाण्डभेदे स्यात् प्रसृतौ घनकर्दमे । चूडा शिखाग्रवडभी-कूप-बर्हिशिखासु च ॥ ६११ ॥ बाहुभूषण-संस्कारभेदयोरपि कीर्तिता । चूडामणिः शिरोरत्ने काकचिञ्चाफले पुमान् ॥ ६१२ ॥ वंगीयपण्डितोपाधौ योगभेदे स्मृतो बुधैः । चूर्णक्षोदे वासयोगे धूलि-क्षार-विशेषणे ॥ ६१३ ॥ चैत्यो देवतरौ बुद्धेऽश्वत्थे जिनसभातरौ । क्लीवश्चितागृहे यज्ञगृहे ज्ञानिनि तु त्रिषु ॥ ६१४ ॥ चैत्रं मृते देवकुले पुमांस्तु बुद्धभिक्षुके । वर्षपर्वतभेदे मासभेदे बुधात्मजे ॥ ६१५ ॥ ;p{0114} चोचं तालफले चर्म-वल्कयोः कदलीफले । उपभुक्तफलोद्वर्ते नारिकेले गुडत्वचि ॥ ६१६ ॥ चोरः स्तेने कृष्णशटी-गन्धद्रव्यविशेषयोः । चोलः कञ्चुलिकायां स्यात् प्रभेदे म्लेच्छदेशयोः ॥ ६१७ ॥ चोक्षस्तीक्ष्णे शुचौ गीते मनोज्ञे चतुरे त्रिषु । चौरी दस्यौ चोरपुष्पी-सुगन्धिद्रव्यभेदयोः ॥ ६१८ ॥ च्युतिर्भगे गुदद्वारे क्षरणेऽपि मता स्त्रियाम् । च्योतं घृतादिक्षरणे च्यौलस्त्याज्येऽण्डजे गमे ॥ ६१९ ॥ छटा दीप्तौ छटाभा स्यात् सौदामिन्यां बुधैः स्मृता । आतपत्रे स्मृतं छत्रमतिच्छत्रे तृणान्तरे ॥ ६२० ॥ ;p{0115} छत्रपत्रो मानकचौ भूर्जे सप्तच्छदद्रुमे । छत्रभंगस्तु वैधव्ये स्वातन्त्र्य-नृपनाशयोः ॥ ६२१ ॥ छत्रा शिलीन्ध्र-मञ्जिष्ठाऽतिच्छत्रासु धनीयके । छदः पत्रे ग्रन्थिपर्णे तमालतरु-पक्षयोः ॥ ६२२ ॥ छदनं तमालपत्रे स्यात् पक्षे दलपिधानयोः । छन्दोऽभिलाषेऽभिप्राये वशे रहसि तु त्रिषु ॥ ६२३ ॥ विषेऽथ सान्तछन्दस्तु वेदे पद्ये मनोरथे । छविर्दीप्तावजे छागश्छात्रोऽन्तेवासिनि स्मृतः ॥ ६२४ ॥ छादनं छदने पत्रेऽन्तर्द्धाऽऽच्छादनयोरपि । छाया कान्तौ सूर्यपत्न्यामुत्कोच-प्रतिबिम्बयोः ॥ ६२५ ॥ पालनेऽनातप-पङ्क्तौ तमः-सादृश्ययोरपि । कात्यायन्यां सुशोभायामथच्छायासुतः शनौ ॥ ६२६ ॥ ;p{0116} छित्वरश्छेदनद्रव्ये धूर्ते वैरिणि चेष्यते । छिदिरः परशौ रज्जौ निर्स्त्रिशे हव्यवाहने ॥ ६२७ ॥ छिदुरस्तु सपत्ने स्याच्छेदनद्रव्य-धूर्तयोः । छिद्रं बिले दूषणे च रन्ध्रे छिन्नस्तु खण्डिता ॥ ६२८ ॥ छुपो युद्धे क्षुपे स्पर्शे चपलेऽथ निगद्यते । छुछुन्दरी स्त्रियां गन्धमूषिकायामथो छुरा ॥ ६२९ ॥ चूर्णे सुधायां छुरिकाऽसिपुत्र्यां गदिता बुधैः । छेको गृहासक्ते खगमृगयोर्नागरे त्रिषु ॥ ६३० ॥ छेदनं कर्तने भेदे छोरणं परिवर्तने । जगत् क्लीवं च संसारे ना वायौ त्रिषु जंगमे ॥ ६३१ ॥ जगती भुवने छन्दोविशेषे धरणौ जने । जम्बूवप्रेऽथ जगलो धूर्ते मदनपादपे ॥ ६३२ ॥ ;p{0117} पिष्टमद्ये सुराकल्के कवचे गोमयेऽपि च । जग्धं भुक्ते स्त्रियां जग्धिभक्षणे सहभोजने ॥ ६३३ ॥ नारीकटिपुरोभागे क्लीवं जघनमुच्यते । जघन्यो मेहने शूद्रे गर्हिते चरमेऽधमे ॥ ६३४ ॥ जङ्गलं निर्जनस्थाने त्रिलिंगः पिशिते स्त्रियाम् । जंघालोऽतिजवे जंघात्राणन्तु मंक्षुणे स्मृतम् ॥ ६३५ ॥ जटा शतावरी-र्मासि-मूल-व्रतिशिखासु च । मूले रुद्रजटायां च कपिकच्छावपि स्मृतम् ॥ ६३६ ॥ जटाजूटे जटापुञ्जे कपर्देऽपि पिनाकिनः । जटालो वट-कर्चूर-क्षारवृक्षेषु गुग्गुलौ ॥ ६३७ ॥ त्रिलिंगस्तु जटायुक्ते जटिः प्लक्ष-समूहयोः । जटिलः पुंसि पञ्चास्ये जटायुक्ते त्रिषु स्मृतः ॥ ६३८ ॥ ;p{0118} जटिला राधिकाश्वश्रू-जटामांसी-वचासु च । पिप्पल्यामुच्चटायां च स्मृता दमनकद्रुमे ॥ ६३९ ॥ जठरं कठिने बद्धे त्रिषु स्यादुदरेद्वरोः । जडोऽप्रज्ञे हिमग्रस्ते मूके त्रिषु जलेऽद्वयोः ॥ ६४० ॥ इष्टानिष्टाऽपरिज्ञाने यत्र प्रश्नेष्वनुत्तरम् । दर्शनश्रवणाभावो जडिमा सोऽभिधीयते ॥ ६४१ ॥ जतुकाऽजिनपक्षायां पर्पटी-वल्लिभेदयोः । जनो लोके महर्लोकादूर्ध्वलोके च पामरे ॥ ६४२ ॥ जनकस्तु विदेहे स्यात् पितर्युत्पादके स्मृतः । जनता जनसमूहेऽपि जननं वंश जन्मनोः ॥ ६४३ ॥ ;p{0119} जननी मातृ-मञ्जिष्ठा-जटामांसी-दयास्वपि । कटुका-यूथिका-चर्मचटिकाऽलक्तकेषु च ॥ ६४४ ॥ देशे जने जनपदः किंवदन्त्यां जनश्रुतिः । जनिर्नार्यां जनीनामगन्धद्रव्ये च मातरि ॥ ६४५ ॥ जनी पुत्रवधू-नारी-जननेष्वौषधान्तरे । जन्यं क्लीबं परीवादे हट्ट-संग्रामयोरपि ॥ ६४६ ॥ जन्यो जनहिते ताते नवोढा ज्ञाति-भृत्ययोः । जामातृस्निग्धमित्रादातुत्पाद्येऽपि त्रिलिंगकम् ॥ ६४७ ॥ जन्या मातृवयस्यायां प्रीतावपि निगद्यते । जन्युर्वैश्वानरे धातृ-प्राणिनोः पुंस्यथो जपा ॥ ६४८ ॥ ओड्रपुष्पेऽथ जम्बालः शैवाले पङ्क-मेध्ययोः । जम्बीरः स्यान्मरुबकेऽर्जके जम्भे सितार्जके ॥ ६४९ ॥ ;p{0120} जम्बूको वरुणे नीचे शृगाले पादपान्तरे । जम्बूद्वीपो द्वीपभेदे जम्बूर्जम्बुफलद्रुमे ॥ ६५० ॥ जम्भोंऽशे भक्षणे दन्ते जम्बीरे हनुतूणयोः । दैत्यभेदेऽथ जम्भारिर्वह्नौ वज्रे पुरन्दरे ॥ ६५१ ॥ जयोऽग्निमन्थे विजये युधिष्ठिर-जयन्तयोः । इक्ष्वाकुवंश्यनृपतौ श्रीनारायणपार्षदे ॥ ६५२ ॥ जयन्तः शंकरे चन्द्रे पाकशासनि-भीमयोः । जयन्ती पार्वतीदेव्यामिन्द्रपुत्री-पताकयोः ॥ ६५३ ॥ नादेयीपादपे योगविशेषेऽपि प्रकीर्तिता । जयपत्रं विवादाप्तजयबोधकलेखने ॥ ६५४ ॥ ;p{0121} जयपालो विधौ विष्णौ भूपाले बीजरेचने । दुर्गायां पार्वतीसख्यां विजया-तिथिभेदयोः ॥ ६५५ ॥ शान्ता वृक्षे हरीतक्यामग्निमन्थे द्रुमान्तरे । नीलदूर्वा-वैजयन्तीभेदयोश्च जया स्मृता ॥ ६५६ ॥ जरठो जीर्ण-कठिन-जरा-कर्कश-पाण्डुषु । जरणो जीरके कासमर्दे सौवर्चले स्मृतः ॥ ६५७ ॥ जरद्गवो जीर्णवृक्ष-गृध्रपक्षिविशेषयोः । जरा स्याद् राक्षसीभेदे वार्द्धक्ये क्षीरिकाद्रुमे ॥ ६५८ ॥ जरन्तो महिषे वृद्धे जरसानस्तु मानवे । गर्भाशये जरायुः स्यात् अग्निजारमहीरुहे ॥ ६५९ ॥ जर्जरः शैलजे शक्रध्वजे शीर्णे जरातुरे । जर्जरीको बहुच्छिद्रद्रव्ये त्रिषु जरातुरे ॥ ६६० ॥ ;p{0122} जलं गोकलने नीरे ह्रीबेरेऽथ जडे त्रिषु । जलगुल्मो जलावर्ते कमठे नीरचत्वरे ॥ ६६१ ॥ जलजं कमले शंखे लवणाकरजेऽद्वयोः । पुमान् शैवाल-वानीर-मीन-शंख-कुपीलुषु ॥ ६६२ ॥ जलदो मुस्तके मेघे जलदानविधायिनि । मेघे जलधरः सिन्धौ मुस्तके जलधारिणि ॥ ६६३ ॥ जलप्रायमनूपेऽथ चातकेऽपि जलप्रियः ॥ जलयन्त्रगृहं प्रोक्तं जलयन्त्रनिकेतने ॥ ६६४ ॥ जलरुण्डो जलावर्ते पयोरेणौ भुजंगमे । जलव्यालोऽलगर्दे स्यात् क्रूरकर्मणि यादसि ॥ ६६५ ॥ ;p{0123} जलसूचिर्जलौकायां शृङ्गाट-शिशुमारयोः । कङ्कत्रोटेऽथ शैवाले स्रोतस्यापि जलाञ्चलम् ॥ ६६६ ॥ जलाशयो जलाधाते शृङ्गाटक समुद्रयोः । जलेन्द्रो वरुणे सिन्धौ जम्भलेऽपि निगद्यते ॥ ६६७ ॥ जवनो वेगयुक्ताश्वे वेग-देशविशेषयोः । म्लेच्छजात्यन्तरे पुंसि वेगयुक्ते त्वसौ त्रिषु ॥ ६६८ ॥ जातवेदाः स्मृतो वह्नौ चित्रकाख्यौषधे पुमान् । जातरूपन्तु धुस्तूरे काञ्चनोत्पन्नरूपयोः ॥ ६६९ ॥ जातिरश्मन्तिका-जन्म-सामान्याऽऽमलकीषु च । गोत्रे जातीफले छन्दोविशेषे मालतीसुमे ॥ ६७० ॥ काम्पिल्लतरु-गीत्वाद्योर्जात्यः श्रेष्ठ-कुलीनयोः । जावालस्त्रिष्वजाजीवे मुनिभेदे पुमानसौ ॥ ६७१ ॥ ;p{0124} जामाता दुहितुःपत्यौ सूर्यावर्ते धवेऽपि च । जाम्बूनदं स्वर्णभेदे धुस्तूर-स्वर्णमात्रयोः ॥ ६७२ ॥ जाया स्त्रियां जायकन्तु पीतगन्धाढ्यदारुणि । जायानुजीवीदुःस्थे स्याद् बके वेश्यापतौ नटे ॥ ६७३ ॥ जालं वातायने दम्भे इन्द्रजाल-समूहयोः । आनेये क्षारके क्लीवं कदम्बे तु पुमानसौ ॥ ६७४ ॥ जालकं कोरके दम्भे कुलाय-समुदाययोः । कूष्माण्डादिक्षुद्रफले क्षारकाऽऽनाययोरपि ॥ ६७५ ॥ स्याज्जालिको वागुरिके कैवर्ते ग्रामजालिनि । ऊर्णनाभे जालिका तु गिरिसारेंऽशुकान्तरे ॥ ६७६ ॥ भटानामश्मरचिताऽङ्गरक्षिण्यां जलौकसि । विधवास्त्रियामथो जाली स्मृता ज्यौत्स्नीपटोलयोः ॥ ६७७ ॥ ;p{0125} जाल्मस्तु पामरे क्रूरेऽप्यसमीक्ष्यविधायिनि । जाहको घोंघ-मार्जार-खट्वा-कारुण्डिकासु च ॥ ६७८ ॥ जिनोऽर्हति हृषीकेशे बुद्धेऽपि त्रिषु जित्वरे । जिष्णुर्विष्णौ शुनासीरेऽर्जुने जेतरि तु त्रिषु ॥ ६७९ ॥ जिह्मगो मन्दगे सर्पे जिह्मः कुटिलमन्दयोः । जिह्वलो लोलुपे लोले जिह्वा स्याद् रसनेन्द्रिये ॥ ६८० ॥ जिह्वापः कुक्कुरे व्याघ्रे भल्लूके वृषदंशके । जीमूतो वासवे मेघे देवताडद्रुमे गिरौ ॥ ६८१ ॥ कुरुविन्दे भृतिकरे घोषकेऽपि प्रकीर्तितः । जीरः स्याज्जीरके खड्गे जीर्णे वृद्धे पुरातने ॥ ६८२ ॥ ;p{0126} जीवोऽसुधारणे वृत्तौ शरीरिणि बृहस्पतौ । क्षेत्रज्ञ-कर्णयोर्वृक्षविशेषेऽथौषधान्तरे ॥ ६८३ ॥ प्राणके क्षपणे पीतशालेऽपि जीवकः पुमान् । जीवि-सेवक-वृद्धाशि-व्यालग्राहिष्वसौ त्रिषु ॥ ६८४ ॥ जीवंजीवश्चकोराख्यपक्षि-वृक्षविशेषयोः । जीवथः कच्छपे प्राणे मयूरे धार्मिकेऽम्बुदे ॥ ६८५ ॥ चिरायौ जीवदो वैद्ये रिपौ जीवनदातरि । जीवनं सलिले वृत्तौ मज्ज-हैयङ्गवीनयोः ॥ ६८६ ॥ जीवितेऽथ पुमान् वाते पुत्रे क्षुद्रफलद्रुमे । जीवन्तिका हरीतक्यां गुडुची जीवशाकयोः ॥ ६८७ ॥ ;p{0127} वन्दायामथ जीवन्ती शमी-वन्दास्रवासु च । जीवा वचायामवनौ शिञ्जिते जीवनीतरौ ॥ ६८८ ॥ मौर्वी जीवितयोरस्त्री जीवातुर्जीविनौषधौ । ओदने जीविते चाथो जीवात्मा स्यात् शरीरिणि ॥ ६८९ ॥ जिवितेशः सहस्रांशौ चन्दिरे जीवितेश्वरे । प्रिये कृतान्ते जीवातौ जूटककेशबन्धने ॥ ६९० ॥ जूर्णिर्ब्रह्मणि मार्तण्डे वेगे ज्वर-शरीरयोः । जृम्भस्त्रिषु विकाशे स्यात् जृम्भणे स्फारितेऽपि च ॥ ६९१ ॥ जृम्भितं तु प्रवृद्धे स्यात् स्फुटितं च विचेष्टिते । जृम्भे स्त्रीकरणे जैनो जिनोपासक-बौद्धयोः ॥ ६९२ ॥ आयुष्मतीन्दौ कर्पूरे सुते जैवातृकोऽगदे । ज्ञः स्मृतः पण्डिते सौम्ये सदानन्दे महीसुते ॥ ६९३ ॥ ;p{0128} ज्ञातिस्ताते सपिण्डादौ प्राग्जिने ज्ञानदर्पणः ॥ ६९४ ॥ ज्ञानं मोक्षधियि ज्ञानी दैवज्ञ-ज्ञानयुक्तयोः । ज्या शिञ्जिन्यां जनन्यां वसुधायामपि स्मृता ॥ ६९५ ॥ ज्यानिर्हानौ जीर्णतायां तटिन्यामपि कीर्तिता । ज्येष्ठोऽग्रजे ज्येष्ठमासि श्रेष्ठेऽधिकवयोयुते ॥ ६९६ ॥ ज्योतिः प्रकाशे नक्षत्रे दृष्टावपि नपुंसकम् । पुमान् वैश्वानरे सूर्ये मेथिकायामपीष्यते ॥ ६९७ ॥ ज्योतिश्चक्रं राशिचक्रे खद्योते ज्योतिरिङ्गणः । ज्योत्स्ना पटोलिका-दुर्गा-चन्द्रिकोल्लासिरात्रिषु ॥ ६९८ ॥ कौमुद्यां श्वेतघोषायां ज्वरो ज्वरण-रोगयोः । ज्वलो दीप्तियुते दीप्तौ ज्वालो वैश्वानरार्चिषि ॥ ६९९ ॥ ;p{0129} दीप्तियुक्तेऽथ दग्धान्ने ज्वाला वह्न्यर्चिषि स्त्रियाम् । झम्पः सम्पातपतने लम्फे झम्पी तु मर्कटे ॥ ७०० ॥ शैलावतीर्णसलिलप्रवाहे झरनिर्झरौ । झर्झरः स्यात् कलियुगे झल्लीवाद्ये नदान्तरे ॥ ७०१ ॥ झल्लकं कांस्यरचितकरतालक उच्यते । झल्लरी झल्लकी वाद्ये वालचक्र-हुडुक्कयोः ॥ ७०२ ॥ शुद्धं क्लेदेऽथ झल्लोलस्तर्कुलासक ईरितः । झषो वैसारिणे तापे मीनराशौ च कानने ॥ ७०३ ॥ झाटो निकुञ्जे कान्तारे व्रणादीनां च मार्जने । दग्धेष्टका झामकं स्यात् तर्कुशाणे तु झामरः ॥ ७०४ ॥ झिल्ली स्यात् झिल्लिकाकीटे वर्त्त्यामुद्वर्तनेंशुके । स्थाली संलग्नदग्धान्ने स्यादातपरुचावपि ॥ ७०५ ॥ ;p{0130} टङ्कोऽवलेपे जंघायां कोपे पाषाणदारणे । परिमाणान्तरे कोषे करवाले पुमान् स्मृतः ॥ ७०६ ॥ अस्त्री नीलकपित्थे टङ्कणे दर्प-खनित्रयोः । टङ्को रुप्यके टङ्कशाला रुप्यकालये ॥ ७०७ ॥ टङ्करस्तु प्रसिद्धौ स्यादाश्चर्ये शिञ्जिनीध्वनौ । टङ्गोऽस्त्रियां खनित्रे स्यात् जंघानिस्त्रिंशभेदयोः ॥ ७०८ ॥ टिट्टिभः पक्षिभेदे स्याद् इन्द्रारिदानवान्तरे । टीका विवरणग्रन्थे टीकायां टिप्पनी स्मृता ॥ ७०९ ॥ टुण्टुकः कृष्ण्खदिरे भेदे श्योनाकपक्षिणोः । क्रूरे नीचे त्रिलिंगोऽसौ टङ्गिणीपादपे स्त्रियाम् ॥ ७१० ॥ ठक्कुरो देवतायां स्याद् ठेरो वृद्धे त्रिलिंगकः । डमरुः स्याच्चमत्कारे कपालियोगिवाद्ययोः ॥ ७११ ॥ डल्लकं वंशरचितपात्रादौ लकुचे डहुः । डिङ्गरः सेवके धूर्ते क्षेप-डङ्गरयोः खले ॥ ७१२ ॥ ;p{0131} डिण्डिमो वाद्यभेदे स्यात् कृष्णपाकफलेऽपि च । डित्थो गजे काष्ठमये सुलक्षणयुते नरि ॥ ७१३ ॥ डिम्बो भयध्वनौ डिम्भे प्लीहायां विप्लवाण्डयोः । नपुंसकं तु कलले डमरे फुस्फुसे भये ॥ ७१४ ॥ डिम्बिका जलबिम्बे स्यात् कामुक्यां शोणकद्रुमे । डिम्भो मूर्खे शिशौ डीनं विहङ्गमगतौ मतम् ॥ ७१५ ॥ डुण्डुभो राजिले सर्पे क्षुद्रोलूके तु डुण्डुलः । डोमः स्वनामप्रथिताऽस्पृश्यजातौ प्रकीर्तितम् ॥ ७१६ ॥ ;p{0132} हस्तादिबन्धने सूत्रे डोरं डोरकमित्यपि । ढक्को देशविशेषे स्याद् ढक्का विजयमर्दले ॥ ७१७ ॥ ढालं तु फलके ढाली त्रिलिंगो ढालसंयुते । ढुण्ढिर्गणेशे ढोलस्तु स्वनामख्यातवाद्यके ॥ ७१८ ॥ तगरः पुष्पतरुभिन्मदनद्रुमयोः स्मृतः । तटं नपुंसकं क्षेत्रे तीरे तु स्याद् त्रिलिंगकः ॥ ७१९ ॥ पद्माकरे तडागोऽस्त्री यन्त्रकूटक इष्यते । उच्चैःकरिकराक्षेपे तडाघातं विदुर्बुधाः ॥ ७२० ॥ तडिद् विद्युल्लतायां स्यात् तडित्वान् मुस्तकेऽम्बुदे । तण्डकस्तु तरुस्कन्धे समासप्रायवाचि च ॥ ७२१ ॥ मायायां बहुले फेने खञ्जने गृहदारुणि । अस्त्रियां तु परिष्कारे तण्डुः शिवगणान्तरे ॥ ७२२ ॥ ;p{0133} तण्डुलो धान्यसारांशे तण्डुलीय-विडङ्गयोः । तण्डुलौघो वेष्टवंशे धान्यसारांशसंचये ॥ ७२३ ॥ ततं वीणादिके वाद्ये व्याप्त-विस्तृतयोस्त्रिषु । मारुते पुंसि तत्वं तु याथार्थ्ये परमात्मनि ॥ ७२४ ॥ स्वरूपे वाद्यभेदेऽपि नृत्ये वस्तुनि चेतसि । तनुस्त्वचि शरीरे च वनितायामपि स्त्रियाम् ॥ ७२५ ॥ त्रिलिङ्गस्तु अल्प-विरल-कृशेषु कथितो बुधैः । तनूरुहोऽस्त्री गरुति रोम्णि पुत्रे तु पुंस्यसौ ॥ ७२६ ॥ तन्तुः सूत्रे पुमान् ग्राहे संततावपि कीर्तितः । तन्तुभिः सर्षपे वत्से तन्तुवायः कुविन्दके ॥ ७२७ ॥ तन्त्रेऽपि तन्तुवायस्तु तन्त्रवायोर्णनाभयोः । तन्तुशाला गर्तिकायां स्यूते तु तन्तुसन्ततम् ॥ ७२८ ॥ ;p{0134} तन्त्रं परिच्छदे हेतौ तन्तुवायेऽर्थसाधके । सैन्ये स्वराष्ट्रचिन्तायां परच्छन्दे धने गृहे ॥ ७२९ ॥ कुटुम्बकृत्ये सिद्धान्ते कुले वपनसाधने । प्रधाने भेषजे तन्तु-श्रुतिशाखाविशेषयोः ॥ ७३० ॥ शपथे करणे राष्ट्र उभयार्थप्रयोजके । इतिकर्तव्यतायां च तन्त्रशास्त्र-प्रबन्धयोः ॥ ७३१ ॥ तन्त्रवापस्तन्त्रवायः कुविन्दे तन्त्रभूतयोः । तन्त्री वीणागुणे रज्जौ गुडूच्यां सरिदन्तरे ॥ ७३२ ॥ शिरायां युवतीभेदे तन्द्रा निद्रा-प्रमीलयोः । तन्वी कृश-शरीरायां शालपर्णीमहीरुहे ॥ ७३३ ॥ तपो लोकान्तरे धर्मे कृच्छ्रचान्द्रायणादिके । पुमानदन्तो ग्रीष्मेऽथ तपनः सूर्य-तापयोः ॥ ७३४ ॥ ;p{0135} सूर्यकान्तमणौ ग्रीष्मे नरकेऽर्कमहीरुहे । क्षुद्राग्निमन्थवृक्षे च भल्लातकतरावपि ॥ ७३५ ॥ तपस्या व्रतचर्यायां तपस्यः फाल्गुनेऽर्जुने । तपस्वी नारदे मत्स्यविशेषे घृतपर्णके ॥ ७३६ ॥ अनुकम्प्ये जैनसाधौ तापसेऽथ तपस्विनी । जैनसाध्वी-जटामांसी-कटुका-लोचनीषु च ॥ ७३७ ॥ तपाः शिशिरकाले च माघमास-निदाघयोः । तमो विधुन्तुदे पापे ध्वान्ते शोके तमोगुणे ॥ ७३८ ॥ तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे । वंशत्वक्-कृष्णखदिर-वृक्षभेदेषु कीर्तितः ॥ ७३९ ॥ तमालः कृष्णखदिरे तिलके वरुणद्रुमे । कालस्कन्धे च निस्त्रिंशे वंशत्वचि तु न स्त्रियाम् ॥ ७४० ॥ ;p{0136} तमिस्रं तिमिरे क्रोधे तमिस्रा तु तमस्ततौ । दशरात्रौ तमोयुक्तरात्रिमात्रोऽपि कीर्तिता ॥ ७४१ ॥ तमी रात्रौ हरिद्रायां तमोघ्नः सूर्य-चन्द्रयोः । नारायणे महादेवे बुद्धदेवे धनञ्जये ॥ ७४२ ॥ तमोनुद् भास्करे चन्द्रे दीपे वैश्वानरे पुमान् । तरोऽदन्तः पुमान् वृक्षे तरुणे जातवेदसि ॥ ७४३ ॥ तरः सान्तं बले कूले वेग-प्लवगयोरपि । तरङ्गो वसनेऽश्वादि-समुत्फाले जलोर्मिषु ॥ ७४४ ॥ तरणं पारगमने द्रुतप्लुतगतावपि । तरणिः किरणे सूर्ये भेलकेऽर्कमहीरुहे ॥ ७४५ ॥ तरणी पद्मचारिण्यां कुमारी-नौकयोः स्त्रियाम् । तरण्डोऽस्त्री प्लवे कुम्भतुम्बीरम्भादिसंचरे ॥ ७४६ ॥ ;p{0137} नौकायां वडिशीसूत्रबद्धकाष्ठादिके स्मृतः । आतरेतरपण्यं स्यात् फलभेदे तरम्बुजम् ॥ ७४७ ॥ तरलो हारतलयोर्हारमध्यमणौ पुमान् । त्रिषु स्याद् भास्वरे मध्यशून्यद्रव्ये चले द्रुते ॥ ७४८ ॥ षिंगेऽथ तरला मद्य-यवागू-सरघासु च । तरस्वी गरुडे वायौ त्रिषु स्याद्वेगि-शूरयोः ॥ ७४९ ॥ तरिर्दशायां लौकायां वस्त्रभूषादिपेटके । तरी गदा-दशा-द्रोणी-नौका-वस्त्रादिपेटके ॥ ७५० ॥ तरीषः शोभनाकारे समर्थव्यवसाययोः । स्वर्गे सिन्धौ भेलकेऽथ शक्रपुत्र्यामापि स्त्रियाम् ॥ ७५१ ॥ ;p{0138} तरुणो नूतने यूनिचित्रके स्थूलजीरके । तरुणी गृहकन्यायां युवत्यां सेवतीसुमे ॥ ७५२ ॥ गन्धद्रव्यान्तरे दन्तीपादपेऽपि प्रकीर्तिता । तर्को वितर्के ऊहादावाकांक्षा-हेतुशास्त्रयोः ॥ ७५३ ॥ न्यायशास्त्रे कर्मभेदे तर्दूः स्याद् दारुहस्तके । तर्पणं प्रीणने तृप्तौ यज्ञकाष्ठे जलार्पणे ॥ ७५४ ॥ तर्षोऽभिलाषे तृष्णायां सूर्ये प्लव-समुद्रयोः । तलं स्वरूपेऽनूर्ध्वेऽस्त्री क्लीवं ज्याघातवारणे ॥ ७५५ ॥ कार्यबीजे वने गर्ते मध्ये पादतलस्य च । तलः स्वभाव आधारे तन्त्रीघात-चपेटयोः ॥ ७५६ ॥ तालवृक्षे त्सरौ पुंसि तडागे तलकं स्मृतम् । तलिनो दुर्बले स्तोके विरल-स्वच्छयोस्त्रिषु ॥ ७५७ ॥ नपुंसकं तु शय्यायां तलुनो यूनि मारुते । तलिमं कुट्टिमे चन्द्रहासे तल्पे वितानके ॥ ७५८ ॥ ;p{0139} तल्पमट्टालिका-शय्या-दारेष्वस्त्री प्रकीर्तितम् । तस्करः श्रवणे चौरे स्पृक्कायां मदनद्रुमे ॥ ७५९ ॥ ताडोऽद्रौ ताडने शब्दे मुष्टिमेयतृणादिकौ । ताडङ्कः कर्णभूषायमाघते ताडनं स्मृतम् ॥ ७६० ॥ ताण्डवं तृणभेदेऽस्त्री नर्तनोद्धतनृत्ययोः । तातोऽनुकम्प्ये जनके पुमान् पूज्ये त्वसौ त्रिषु ॥ ७६१ ॥ तान्त्रिकस्तन्त्रशास्त्रज्ञे शास्त्रतत्वज्ञ इष्यते । तापनस्तापजनके सूर्यकान्तमणौ रवौ ॥ ७६२ ॥ कामवाणे तामरन्तु घृते सलिल इष्यते । अथ तामरसं स्वर्णे सारसे पद्मताम्रयोः ॥ ७६३ ॥ स्यात्तामसी जटामांसी-दुर्गा-कृष्णनिशासु च । ताम्रकूटं तमाखौ स्यात् ताम्रकारस्तु ताम्रिके ॥ ७६४ ॥ ;p{0140} ताम्रपट्टं ताम्रपत्रस्ताम्रनिर्मितपत्रके । ताम्रिकः कांस्यकारे स्यात् त्रिलिंगस्ताम्रनिर्मिते ॥ ७६५ ॥ ताम्बूलपात्रे ताम्बूलकरङ्कः सद्भिरीरितः । तारं रूप्ये च मुक्तायां तारः स्यात् शुद्धमौक्तिके ॥ ७६६ ॥ मुक्ता विशुद्धौ प्रणवे तरणे वानरान्तरे । कूर्चबीजे त्रिलिंगस्तु निर्मलाऽत्युच्चशब्दयोः ॥ ७६७ ॥ तारको भेलके कर्णधारे दैत्यान्तरे पुमान् । कनीनिकायां नक्षत्रे नना क्लीवं तु लोचने ॥ ७६८ ॥ ताराऽक्षिमध्ये नक्षत्रे मुक्तायां बालियोषिति । बृहस्पतिस्त्रियां बुद्धदेवताभेद-चीडयोः ॥ ७६९ ॥ उग्रताराभिधानायां शक्तौ तारापतिः शिवे । चन्दिरे बालि-सुग्रीव-बृहस्पतिषु कीर्तितः ॥ ७७० ॥ ;p{0141} तार्क्ष्यस्तुरङ्गमे सर्पे गरुडे गरुडाग्रजे । अश्वकर्णतरौ शालवृक्षे रथ-सुवर्णयोः ॥ ७७१ ॥ तालं तालफले तालीशपत्र-हरितालयोः । दुर्गासिंहासने क्लीवं पुमांस्तु तालपादपे ॥ ७७२ ॥ गीतकालक्रियामानेऽङ्गुष्ठमध्यमसंमिते । करास्फाले कांस्यवाद्यभाण्डे करतले त्सरौ ॥ ७७३ ॥ तालकं द्वारयन्त्रे स्यात् तुवरी-हरितालयोः । तालाङ्कः शंकरे शाकविशेष-करपत्रयोः ॥ ७७४ ॥ महालक्षणसम्पूर्णपुरुषे पुस्तके बले । तालिका ताम्रवल्ल्यां स्यात् तालमूली-चपेटयोः ॥ ७७५ ॥ प्रसारितांगुलिकर-काचनक्योस्त्वसौ पुमान् । ताली तुवरिका-तालमूलीपत्रद्रुमेषु च ॥ ७७६ ॥ ;p{0142} प्रतिताली-सुराभेद-कुञ्चिकाऽऽमलकीष्वपि । ताम्रवल्ल्यामथो तिक्तः सुगन्धे करुणद्रुमे ॥ ७७७ ॥ कुटजे रसभेदेऽपि त्रिषु तिक्तरसान्विते । तिक्तकः कृष्णखदिरे चिरतिक्त-पटोलयोः ॥ ७७८ ॥ इंगुदीपादपे तिक्ता षड्भुजा-पाठयोरपि । यवतिक्तालता-घ्राणदुःखदा-कटुकीषु च ॥ ७७९ ॥ तिथः कालेऽनले कामे प्रावृट् काले तिथिर्द्वयोः । कर्मवाट्यामथो मीने समुद्रेऽपि तिमिः स्मृतः ॥ ७८० ॥ तिरोऽन्तर्द्धौ तिरस्कारे तिर्यगर्थेऽव्ययं मतम् । तिर्यङ् त्रिषु विहङ्गादौ पशौ कुटिलगामिनि ॥ ७८१ ॥ तिलः शस्यविशेषेऽपि तिलकालक उच्यते । तिलकोऽश्वान्तरे रोगप्रभेदे तिलकालके ॥ ७८२ ॥ ;p{0143} वृक्षभेदे मरुवके प्रधाने ध्रुवकान्तरे । अस्त्रियां पुण्ड्रके क्लीवं क्लोम्नि सौवर्चलेऽसिते ॥ ७८३ ॥ तिष्यः कलियुगे पुष्यनक्षत्रे पौषमासि च । तीरं वाणे नदीकूले गङ्गातीरे च सीसके ॥ ७८४ ॥ तीर्णोऽभिभूत उत्तीर्ण-प्लुतयोस्त्रिषु कीर्तितः । तीर्थ पात्रेऽध्वरे क्षेत्रे पुण्यस्थान-निदानयोः ॥ ७८५ ॥ उपाये दर्शने घट्टे नारीरजसि मन्त्रिणि । ऋषिजुष्टजले शास्त्रे उपाध्यायावतारयोः ॥ ७८६ ॥ आगमे ब्राह्मणे योनौ साध्वादिसमुदायके । तीर्थङ्करस्तीर्थकरस्तीर्थकृद्भगवज्जिने ॥ ७८७ ॥ ;p{0144} तीव्रं त्रपुण्यतिशये तीरे तीक्ष्णाऽश्मसारयोः । त्रिलिङ्गस्तु मतोऽत्युष्णे हरे कटु-नितान्तयोः ॥ ७८८ ॥ तीव्रा स्यात् कटुरोहिण्यां तुलस्यां तरदीतरौ । महाज्योतिष्मतीवल्ल्यां राजिका-गण्डदूर्वयोः ॥ ७८९ ॥ तीक्ष्णं विषे खरे शस्त्रे मरणे युद्धलौहयोः । सामुद्रलवणे शीघ्रे घण्टापाटलि-चव्ययोः ॥ ७९० ॥ मरकेऽपि यवक्षारे श्वेतवर्हिषि कुन्दरौ । तीक्ष्णस्त्रिषु निरालस्ये सुबुद्धौ तिग्म-योगिनोः ॥ ७९१ ॥ आत्मत्यागिन्यथो तिक्ष्णकर्माऽऽयःशूलिके त्रिषु । तीक्ष्णगन्धा तु सूक्ष्मैला-जीवन्ती-राजिकासु च ॥ ७९२ ॥ कन्थारी-श्वेतवचयोर्वचायामपि कीर्तिता । तीक्ष्णा वचाऽत्यम्लपर्णीमहाज्योतिष्मतीषु च ॥ ७९३ ॥ ;p{0145} सर्पकङ्कालिकावृक्षे कपिकच्छावपि स्मृता । तुङ्गो बुधग्रहे शैले नारिकेले च गण्डके ॥ ७९४ ॥ योगप्रभेदे पुन्नागवृक्षेऽसौ त्रिषु तून्नते । उग्रे प्रधाने क्लीवं तु किंजल्के विबुधैः स्मृतः ॥ ७९५ ॥ तुच्छं पुलाकजे क्लीबं हीने शून्याल्पयोस्त्रिषु । तुत्थं नीलाञ्जने वह्नौ पाषाणे च रसाञ्जने ॥ ७९६ ॥ नीलीवृक्ष-महानीली-क्षुद्रैलासु स्त्रियां मता । अस्त्रियां तुम्बुरुः स्वर्गगायकेऽर्हदुपासके ॥ ७९७ ॥ गन्धर्वे फलवृक्षेऽथ तुरगश्चित्त-वाजिनोः । तुरुष्कः सिह्लके म्लेच्छजाति-देशविशेषयोः ॥ ७९८ ॥ ;p{0146} श्रीवासकद्रुमे तुर्य्यश्चतुर्थे वेगिते तुरः । तुला भाण्डे पलशते राशौ सादृश्य-मानयोः ॥ ७९९ ॥ तुलाकोटिर्मानभेदे मञ्जीरार्बुदयोः स्त्रियाम् । तुलाधरस्तुलाराशौ वाणिजे च तुलागुणे ॥ ८०० ॥ तुषारः सीकरे देशविशेषे शीतले हिमे । भेदे कर्पूर-हिमयोरथ तूर्णिः पुमान् मले ॥ ८०१ ॥ त्वरायां मनसि श्लोके तूलूः कार्पासतूलके । तूलं तूदतरौ व्योम्नि पिञ्जले तूलकार्मुकम् ॥ ८०२ ॥ शय्योपकरणे वर्त्त्यामीषिकायां च तूलिका । तूवरस्तु पुमान् कालेऽजातशृङ्गे गवादिके ॥ ८०३ ॥ पुरुषव्यञ्जनत्यक्ते निःश्मश्रुपुरुषेऽपि च । स्यात् कषायरसे प्रौढाशृङारेऽथ तृणद्रुमः ॥ ८०४ ॥ ;p{0147} खर्जूरे केतकी-ताल्योर्नारिकेल-गुवाकयोः । खर्जूरीवृक्ष-हिन्ताल-तालवृक्षेषु कीर्तितः ॥ ८०५ ॥ तृषा लांगलिकीवृक्षे कामकन्येच्छयोस्तृषि । तेजो वैश्वानरे दीप्तौ नवनीते पराक्रमे ॥ ८०६ ॥ रेतस्यसहने पित्ते प्रभावे मज्जिन-काञ्चने । महाभूरान्तरेऽपि स्यात् अथ तेजनकः शरे ॥ ८०७ ॥ तिलादिस्निग्धवस्तूनां स्नेहे तैलं च सिह्लके । तोयदो मुस्तके मेघे जलदातरि सर्पिषि ॥ ८०८ ॥ त्यागी वर्जनशीले स्याच्छूरे दातरि च त्रिषु । त्रपा स्त्रीपुंसयोर्लज्जा-कुलटा-कुलकीर्तिषु ॥ ८०९ ॥ त्रयी वेदत्रये दुर्गा-पुरन्ध्री-सुमतिष्वपि । सोमराजीतरौ त्रस्तो भीते त्रिषु द्रुतेऽद्वयोः ॥ ८१० ॥ ;p{0148} त्राणन्तु त्रायमाणायां रक्षणे त्रिषु रक्षिते । त्रिकं त्रिपथसंस्थाने पृष्ठवंशाधरे त्रये ॥ ८११ ॥ त्रिफलायां त्रिकटुनि त्रिमदे कण्टकत्रये । त्रिपुटो गोक्षुरे तीरे हस्तभेदे सतीनके ॥ ८१२ ॥ तालके त्रिपुटा तु स्यात् त्रिवृन्मल्लिकयोः स्त्रियाम् । कर्णस्फोटा रक्तत्रिवृद्देवीभेदेष्वपि स्मृता ॥ ८१३ ॥ त्रिमाया यमुना-नीली-हरिद्रा-रजनीषु च । त्रिशुंकुः सूर्यवंशीयनृपभेदे च चातके ॥ ८१४ ॥ मार्जारे शलभे पुंसि खद्योतेऽपि प्रकीर्तितः । त्रुटिरल्पे कालभेदे सूक्ष्मैलायां च संशये ॥ ८१५ ॥ ;p{0149} त्वगिन्द्रिये त्वचे चर्म-वल्कयोस्त्वक् गुडत्वचि । त्वक्सारो रन्ध्रवंशे स्याच्छोणवृक्षे गुडत्वचि ॥ ८१६ ॥ त्विट् जिगीषा-प्रभा-शोभा-व्यवसायेषु वाचि च । खड्गमुष्टौ त्सरुर्दीप्तौ त्विषा सूर्ये त्विषाम्पतिः ॥ ८१७ ॥ दंशः सर्पक्षते दोषे दन्ते मर्मणि खण्डने । अरण्यमक्षिका-वर्म-दंशनेषु मतः पुमान् ॥ ८१८ ॥ दंशितो वर्मिते दष्टे दंष्ट्री शूकर-सर्पयोः । त्रिषु दंष्ट्राविशिष्टेऽसौ सलिले दकमीरितम् ॥ ८१९ ॥ दण्डोऽस्त्री शरणापन्नरक्षणादौ दमे यमे । मन्थाने ग्रहभेदेऽश्वे चण्डांशोः पारिपार्श्वके ॥ ८२० ॥ प्रकाण्डे लगुडे सैन्ये व्यूहभेदाऽभिमानयोः । ऊर्ध्वस्थितौ मानभेदे कोण-कालविशेषयोः ॥ ८२१ ॥ ;p{0150} इक्ष्वाकुराज्यपुत्रेऽथ दण्डकः श्लोकवृत्तयोः । अथदण्डधरो राज्ञि यमे लगुडधारके ॥ ८२२ ॥ दण्डनीतिस्तु दुर्गायामर्थशास्त्रे स्त्रियां मता । दण्डपालः पुमानर्द्धशफर-द्वारपालयोः ॥ ८२३ ॥ दण्डयात्रा दिग्विजये संयान-वरयात्रयोः । दण्डयामो दिनेऽगस्त्ये यमेऽथ शरयन्त्रके ॥ ८२४ ॥ कुलालचक्रे दण्डारो वाहने मत्तकुञ्जरे । दण्डी जिनान्तरे द्वास्थे यमे दमनकद्रुमे ॥ ८२५ ॥ त्रिलिंगो दण्डयुक्तेऽसौ चतुर्थाश्रमिमानवे । दद्रूः कूर्मे दद्रुरोगे दद्रुणो दद्रुरोगिणि ॥ ८२६ ॥ दधिक्षीरोत्तरावस्थाभाव-श्रीवासयोः पटे । दन्तोऽद्रिकटके शैलशृङ्गे दशन-कुञ्जयोः ॥ ८२७ ॥ ;p{0151} स्मृतो दन्तशठो नागरंगके कर्मरंगके । अम्ले कपित्थे जम्बीरे चोङ्गरी-चिञ्चयोः स्त्रियाम् ॥ ८२८ ॥ दन्ती वृक्षान्तरे पुंसि कुञ्जरे तु द्वयोरसौ । तपःक्लेशसहिष्णुत्वे बहिरिन्द्रियनिग्रहे ॥ ८२९ ॥ दण्ड-कर्दमयोः पुंसि दम इत्यभिधीयते । वीरोपशान्तयोः कुन्दे दमनः पुष्पचामरे ॥ ८३० ॥ दम्भस्तु कपटे कल्के साटोपाहंकृतावपि । अभीष्टे दयितं पत्यौ दयितो दयिता स्त्रियाम् ॥ ८३१ ॥ दरोऽस्त्रियां भये गर्ते शंखेऽसौ कन्दरद्वयोः । दरत् स्त्रियां म्लेच्छजातौ प्रपाते भयतीरयोः ॥ ८३२ ॥ हृदि शैलेऽथ दरदो म्लेच्छे देशान्तरे भये । दर्दुरो राक्षसे भेक-वाद्यभाण्डविशेषयोः ॥ ८३३ ॥ ;p{0152} शैलभेदे दर्दुरा तु चण्डिकायां प्रयुज्यते । दर्प उच्छृङ्खलत्वे स्यात् कस्तूर्यां गर्व उष्मणि ॥ ८३४ ॥ दर्पणो मुकुरे शैलविशेष-नदभेदयोः । क्लीबं सन्दीपने नेत्रे दर्वो राक्षस-हिंस्रयोः ॥ ८३५ ॥ दर्विका स्यात् खजाकायां कज्जलेऽपि बुधैः स्मृता । दर्भः काशे कुशे दर्शोऽमवास्यायां विलोकने ॥ ८३६ ॥ दर्शको द्रष्टरि द्वास्थे दर्शयितृ-प्रवीणयोः । दर्शनं दर्पणे शास्त्रे बुद्धि-धर्मोपलब्धिषु ॥ ८३७ ॥ स्वप्ने निरीक्षणे वर्णे नयनेऽपि नपुंसकम् । दलं शस्त्रीच्छदे खण्डे घन उत्सेध-पत्रयोः ॥ ८३८ ॥ तमालपत्रेऽपद्रव्ये दलितं खण्डिते स्फुटे । दवो दावानलेऽरण्य उपतापेऽग्निमात्रके ॥ ८३९ ॥ ;p{0153} दशा चेतस्यवस्थायां दीपवर्ति-पटान्तयोः । दस्मो हुताशने स्तेने यजमाने खले पुमान् ॥ ८४० ॥ दस्युर्महासाहसिके तस्करे परिपन्थिनि । दहनश्चित्रके वह्नौ कपोते दुष्टचेतसि ॥ ८४१ ॥ भल्लातकेऽथ दहनं भस्मीकरणकर्मणि । दहरो भ्रातरि सूक्ष्मे बालके मूषिका-ऽल्पयोः ॥ ८४२ ॥ दह्रो दावानले कुक्षौ नरके वरुणेनऽले । दक्षो महेश्वरे वह्नि-प्रजापतिविशेषयोः ॥ ८४३ ॥ मुनिभेदे हरवृषे ताम्रचूडे द्रुमान्तरे । चतुरे तु त्रिलिंगोऽसौ दक्षा स्यादवनौ स्त्रियाम् ॥ ८४४ ॥ ;p{0154} दक्षिणो दक्षिणोद्भूते परच्छन्दानुवर्तिनि । आरामे सरले दक्षेऽपसव्ये नायकान्तरे ॥ ८४५ ॥ दक्षिणा नायिकाभेद-यज्ञादिविधिदानयोः । दिगन्तरे प्रतिष्ठायां दाडिमः करकैलयोः ॥ ८४६ ॥ स्त्रीपुंसयोः स्याद् दात्यूहश्चातके कलकण्ठके । जलकाके वारिवाहे लवित्रे दात्रमुच्यते ॥ ८४७ ॥ दानं गजमदे शुद्धौ छेदने त्याग-रक्षयोः । दानुर्दातरि विक्रान्ते मारुते शर्मणि त्रिषु ॥ ८४८ ॥ दान्तस्तपःक्लेशसहे दमिते दातरि त्रिषु । वित्तायत्तीकृते दाम रज्जु-संदानयोर्नना ॥ ८४९ ॥ दायो दाने यौतुकादौ स्थाने सोल्लुण्ठभाषणे । विभक्तव्यपितृद्रव्ये लय-खण्डनयोरपि ॥ ८५० ॥ दारदः पारदे सिन्धौ हिंगुले गरलान्तरे । दार्वी दारुहरिद्रयां देवदारु-हरिद्रयोः ॥ ८५१ ॥ ;p{0155} दारु काष्ठे नना क्लीवं पित्तले देवदारुणि । त्रिष्वसौ दारके दातृ-शिल्पिनोरथ दारुकः ॥ ८५२ ॥ श्रीकृष्णसारथौ क्लीवं देवदारुण्यथो स्त्रियाम् । दारुका शालभञ्ज्यां स्याद् दार्दुरं जतु-नीरयोः ॥ ८५३ ॥ दासः शूद्रे दानपत्रे धीवरे शूद्रपद्धतौ । ज्ञातात्म-प्रेष्ययोर्दासी भुजिष्या-काकजंघयोः ॥ ८५४ ॥ कैवर्तपत्नी-शूद्रस्त्री-वेदीष्वार्तगलेऽपि च । दासेरो दासिकापत्ये उष्ट्रे कैवर्त-दासयोः ॥ ८५५ ॥ दाक्षिण्यमनुकूलत्व-दक्षिणाचारयोरपि । दक्षिणार्हे त्रिलिंगोऽसौ दिक्पतिर्दिगधीश्वरे ॥ ८५६ ॥ ;p{0156} दिगम्बरः शिवे नग्ने तमः-क्षपणयोरपि । दिग्धो विषाक्तवाणेऽग्नौ प्रबन्ध-स्नेहयोरपि ॥ ८५७ ॥ दितिर्नृपविशेषे च खण्डने दैत्यमातरि । दिवं स्वर्गे वने व्योम्नि दिवसेऽथ दिवाकरः ॥ ८५८ ॥ सूर्यवायसयोरर्कवृक्ष-पुष्पविशेषयोः । दिवाकीर्तिस्तु चण्डाले नापितोलूकयोः पुमान् ॥ ८५९ ॥ दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे । स्याद् दिवौका दिवोकाश्च सुरे चातकपक्षिणि ॥ ८६० ॥ दिव्यं लवंगे शपथे मनोज्ञे हरिचन्दने । दिव्यो यवे दिविभवे गुग्गुलौ नायकान्तरे ॥ ८६१ ॥ भावभेदेऽप्यथो दिव्यचक्षुः सुन्दरलोचने । स्वर्गीयचक्षुषि ज्ञानचक्षुष्यन्धोपचक्षुषोः ॥ ८६२ ॥ ;p{0157} मनोरथप्रसिद्ध्यर्थं देवेभ्यो यत् प्रदीयते । उपयाचितकं दिव्यदोहदं तद्विदुर्बुधाः ॥ ८६३ ॥ दिव्या शतावरी-धात्री-वन्ध्या-कर्कोटकीषु च । श्वेतदूर्वा-गन्धकुटी-ब्राह्मीषु स्थूलजीरके ॥ ८६४ ॥ हरीतक्यां महामेदा-नायिकाभेदयोरपि । दिष्टो दारुहरिद्रायां काले भाग्ये नपुंसकम् ॥ ८६५ ॥ त्रिषूपदिष्टे दिष्टस्तु प्रमोद-परिमाणयोः । दीनं तगरपुष्पे स्यात् त्रिषु भीतदरिद्रयोः ॥ ८६६ ॥ दीनारः स्वर्णभूषायां मुद्रायां मानवस्तुनि । स्वर्णकर्षद्वये हेम्नि द्वात्रिंशद्रक्तिकामिते ॥ ८६७ ॥ निष्केऽथ दीपो वर्तिस्थज्वलद्वैश्वानरार्चिषि । दीपकं कुंकुमे वाक्यालंकारे दीप्तिकारके ॥ ८६८ ॥ दीपको रागभेदे स्याद् यमान्यां लोचमस्तके । दीपे शशादने दीपकिट्टं स्याद् दीपकज्जले ॥ ८६९ ॥ ;p{0158} दीपनो बर्हिचूडायां पलाण्डौ कासमर्दके । शालिञ्च शाके तगरमूल-कुंकुमयोरपि ॥ ८७० ॥ दीपनी मेथिका-पाठा-यमानीषु स्मृता स्त्रियाम् । दीप्तस्त्रिलिंगो ज्वलिते दग्धे निर्भासितेऽप्यसौ ॥ ८७१ ॥ क्लीवं स्याद् हिंगुनि स्वर्णे पुमान् निम्बूक-सिंहयोः । दीप्ता लाङ्गलिकावृक्षे सातलापिण्ययोः स्त्रियाम् ॥ ८७२ ॥ दीप्तिः प्रभायां लाक्षायां कांस्य-लावण्ययोरपि । वाणवेगस्य तीव्रत्वे गुणे स्त्रीणामयत्नजे ॥ ८७३ ॥ दीर्घग्रीवो हये नीलक्रौञ्चपक्षि-क्रमेलयोः । दीर्घदर्शी बुधे गृध्रे भल्लूके दूरदर्शके ॥ ८७४ ॥ ;p{0159} दीर्घपत्रो विष्णुकन्दे कुपीलु-हरिदर्भयोः । ताले राजपलाण्डौ च स्यादथो दीर्घपत्रकः ॥ ८७५ ॥ एरण्डे रक्तलशुने करवीरे च हिज्जले । जलजातमधूके च लशुने वेतसे पुमान् ॥ ८७६ ॥ दीर्घायुः शाल्मलीवृक्षे वायसे जीवकद्रुमे । मार्कण्डेयमुनौ पुंसि चिरजीविनि तु त्रिषु ॥ ८७७ ॥ दीक्षा स्याद् यजने पूजा-व्रतसंग्रहयोरपि । श्रीमद्गुरुमुखात् स्वेष्टदेवमन्त्रग्रहे स्त्रियाम् ॥ ८७८ ॥ दुःखं व्यथायां संसारे दुःस्थो दुर्गतमूर्खयोः । दुकूलं पट्टवसने सूक्ष्मवस्त्रेंऽशुके स्मृतम् ॥ ८७९ ॥ दुग्धं क्षीरे दोहनेऽपि कृतदोहे प्रपूरिते । दुग्धाम्रे दुग्धतालीयं दुग्धाग्र-क्षीरफेनयोः ॥ ८८० ॥ दुन्दुभिर्वरुणे रक्षोभेद-दैत्यविशेषयोः । अक्षे भेरी-गरलयोरक्षबिन्दुत्रिकद्वये ॥ ८८१ ॥ ;p{0160} दुरोदरः पणे द्यूतकृति द्यूते नपुंसकम् । दुर्गं कोट्टे पुमान् दैत्ये गुग्गुलौ त्रिषु दुर्गमे ॥ ८८२ ॥ दुर्गाऽपराजिता-नीली-पार्वती-शारिवासु च । दुर्जातं व्यसनेऽसम्यग्जाते त्रिष्वसमञ्जसे ॥ ८८३ ॥ दुर्दान्तः कलहे वत्सतरेऽशान्ते त्वसौ त्रिषु । मेघाच्छन्नदिने वृष्टौ दुर्दिनं कवयो विदुः ॥ ८८४ ॥ दुर्द्धरः पुंसि नरकप्रभेद ऋषभौषधौ । महिषासुरसेनानी-सूत-भल्लातकेषु च ॥ ८८५ ॥ त्रिषु स्याद् दुःखसन्धार्ये दुर्मुखोऽप्रियवादिनि । दुर्लभोऽतिप्रशस्ते स्यात् प्रिय-दुष्प्रापयोस्त्रिषु ॥ ८८६ ॥ दुर्विधो निर्द्धने मूर्खे दुर्जनेऽपि त्रिलिंगकः । दूतो वार्ताहरे दूती सारिकायां मता स्त्रियोः ॥ ८८७ ॥ ;p{0161} दौत्यव्यापारपारीण-दौत्यकर्मनियुक्तयोः । दूत्यं दूतस्वभावेऽपि दूतस्यभावकर्मणोः ॥ ८८८ ॥ दूतस्त्रिषूपतप्ते स्यादध्वजातश्रमान्विते । दूषिका तूलिकायां च मले स्याल्लोचनस्य च ॥ ८८९ ॥ दूष्यं वस्त्रे दूषणीये पूये वस्त्रगृहेऽपि च । दृक् दर्शने मतौ नेत्रे वीक्षके ज्ञातरि त्रिषु ॥ ८९० ॥ दृढं लोहे त्रिषु स्थूले प्रगाढे बलशालिनि । कठिनेऽतिशये पुंसि स्यादसौ रूपकान्तरे ॥ ८९१ ॥ दृढमूलो नारिकेले मुञ्जे मन्थानके तृणे । दृतिश्चर्मपुटे मत्स्ये दृन्भूः स्त्री सर्प-चक्रयोः ॥ ८९२ ॥ पुमानसौ सहस्रांशौ नृपतौ कुलिशेऽन्तके । दृशानः पुंस्युपाध्याये लोकपाले विरोचने ॥ ८९३ ॥ आचार्ये ब्राह्मणे क्लीवन्त्वसौ ज्योतिषि कीर्तितम् । दृषद् निष्पेषणशिलापट्ट-पाषाणयोः स्त्रियाम् ॥ ८९४ ॥ ;p{0162} दृष्टान्तः पुंसि मरण उदाहरण-शास्त्रयोः । दृष्टिर्विलोचने बुद्धौ ग्रहदृष्टौ च दर्शने ॥ ८९५ ॥ देवः स्याद् ब्राह्मणोपाधौ त्रिदशे पारदे घने । कायस्थपद्धतौ राज्ञि देवमाख्यातमिन्द्रिये ॥ ८९६ ॥ देवखातं गुहायां स्याद् अकृत्रिमजलाशये । देवालये देवगृहं ज्योतिर्बिम्बेऽर्कचन्द्रयोः ॥ ८९७ ॥ चैत्यवृक्षे देवतरुर्मन्दारे हरिचन्दने । सन्ताने पारिजाते च कल्पवृक्षमहीरुहे ॥ ८९८ ॥ देवताडोऽनले राहौ घोषे जीमूतकद्रुमे । देवदेवः पद्मनाभे महादेवे जिनेश्वरे ॥ ८९९ ॥ देवनं कमले द्यूते व्यवहारे गतौ द्युतौ । लीलोद्याने जिगीषायां क्रीडायां स्तुति-शोकयोः ॥ ९०० ॥ ;p{0163} कान्तौ विलापे स्यात् क्लीवं देवनः पाशके पुमान् । देवना वरिवस्यायां क्रीडायामपि कीर्तिता ॥ ९०१ ॥ देवयुर्धार्मिके लोकयातृके त्रिदशे स्मृतः । देवलो नारदे देवाजीवे मुन्यन्तरे पुमान् ॥ ९०२ ॥ देवोपजीविजीवे च धार्मिके देवरे स्मृतः । देववृक्षस्तु मन्दारे सप्तपर्णे च गुग्गुलौ ॥ ९०३ ॥ अथ देवश्रुतः शास्त्रे ईश्वरे नारदे मुनौ । देवी कृताभिषेकायां दुर्गायां देवयोषिति ॥ ९०४ ॥ स्पृक्कायां ब्राह्मणीनामोपपदे मुस्तकान्तरे । बन्ध्या-कर्कोटकी-मूर्वाऽऽदित्यभक्ताऽतसीषु च ॥ ९०५ ॥ शालपर्ण्यां हरीतक्यां लिङ्गिनी-पाठयोरपि । महाद्रोणी-मृगेर्वारु-शारिवा-पक्षिजातिषु ॥ ९०६ ॥ ;p{0164} दैत्या चण्डौषधौ मद्ये मुरायां दैत्ययोषिति । दोलो हिन्दोलके प्रेङ्खा-नीलिन्योरपि कीर्तिता ॥ ९०७ ॥ दोषो दूषण-गोवत्स-कल्मलेषु कफादिके । दोषज्ञः पण्डिते दोषज्ञानयुक्ते चिकित्सके ॥ ९०८ ॥ दोषा स्त्रियां भुजे रात्रौ रात्रौ रात्रिमुखेऽव्ययम् । दोषाकरश्चन्द्रमसि दोषाणामाकरेऽप्यसौ ॥ ९०९ ॥ दोस्थः स्यात् सेवके सेवा-क्रीडयोः क्रीडके पुमान् । दोःस्थिते तु त्रिलिंगोऽसौ दोहदो गर्भलक्षणे ॥ ९१० ॥ वाञ्छायां गर्भिणीच्छायां द्युस्वर्गे गगने दिने । द्युतिः प्रभायां शोभायां रश्मौ द्यौर्व्योमनाकयोः । द्रविणं काञ्चने वित्ते बले द्युम्नं धने बले ॥ ९११ ॥ ;p{0165} द्रावको हृदयग्राहि-षिङ्गयोर्द्रवकारके । रसभेदे विदग्धे च मोषके प्रस्तरान्तरे ॥ ९१२ ॥ क्लीवन्तु सिक्यक-प्लीहरोगभेषजभेदयोः । द्रुघणः द्रुहिणे भूमिचम्पके च परश्वधे ॥ ९१३ ॥ मुद्गरेऽस्त्रविशेषेऽथ द्रुणो वृश्चिक-भृङ्गयोः । द्रुतं जातद्रवीभावघृतस्वर्णादि-शीघ्रयोः ॥ ९१४ ॥ विद्राण-शीघ्रलययोर्द्रुमो वृक्ष-कुबेरयोः । द्रोणोऽस्त्रियामाढकेऽपि स्यात् आढकचतुष्तये ॥ ९१५ ॥ द्रोणाचार्ये दग्धकाके वृश्चिके मेघनायके । जलाशय-श्वेतवर्ण-क्षुद्रपुष्पद्रुमान्तरे ॥ ९१६ ॥ द्रोणी काष्ठाम्बुवाहिन्यां गवादन्यां सरिद्भिदि । शैलभेदे शैलसन्धौ द्विसूर्पपरिमाणके ॥ ९१७ ॥ ;p{0166} नीलीवृक्षे देशभेद-द्रोणीलवणयोरपि । इन्द्रचिर्भटिकायां च द्रोहाटो मृगलुब्धके ॥ ९१८ ॥ वैडालव्रतिके गाथाप्रभेदेऽपि मतः पुमान् । द्वन्द्वं रहस्ये कलहे युग्मे मिथुन-दुर्गयोः ॥ ९१९ ॥ पुमान् समासभेदे च रोगभेदेऽपि कीर्तितः । द्वारुपाये द्वारदेशे द्वापरः संशये युगे ॥ ९२० ॥ द्वारयन्त्रं तालकेऽपि द्विकः स्यात् काक-कोकयोः । द्विजो विप्रेऽण्डजे दन्ते द्विर्जाते तुम्बुरुद्रुमे ॥ ९२१ ॥ द्विजन्मा ब्राह्मणे दन्ते खगे क्षत्रिय-वैश्ययोः । द्विजराजस्तु कर्पूरे गरुडेऽनन्त-चन्द्रयोः ॥ ९२२ ॥ द्विजिह्वः सूचके सर्पे खले दुःसाध्य-चोरयोः । द्विजातिः ब्राह्मणे वैश्ये क्षत्रियाऽण्डजयोः पुमान् ॥ ९२३ ॥ ;p{0167} द्वितीया सहधर्मिण्यां तिथिभेदे पुमान् सुते । द्विपः स्त्रीपुंसयोर्नागे स्यात्पुमान् नागकेशरे ॥ ९२४ ॥ द्विपदस्त्रिदशे मर्त्ये राक्षसे च विहंगमे । द्वीपोऽस्त्रियामन्तरीपे जम्बुद्वीपादिके स्मृतः ॥ ९२५ ॥ नद्यां भूमौ द्वीपवती द्वीपी व्याघ्रे च चित्रके । द्वैमातुरो गणेशे स्यात् जरासन्धे द्विमातृजे ॥ ९२६ ॥ धटः तुलापरीक्षायां तुलायां च तुलाधरे । धटी स्त्री चीरवस्त्रे स्यात् कौपीनेऽपि प्रयुज्यते ॥ ९२७ ॥ धनं वित्ते स्नेहपात्र-जीवनोपाय-गोधने । धनञ्जयोऽर्जुने वह्नौ चित्रके देहमारुते ॥ ९२८ ॥ नागभेदेऽर्जुनतरौ धनदो गुह्यकेश्वरे । हिज्जले त्रिषु वित्तादिप्रदातरि प्रकीर्तितः ॥ ९२९ ॥ ;p{0168} धनाध्यक्षः किन्नरेश-धनाधिकृतयोरपि । धनिकः पुंसि धन्याके धवे धनवति त्रिषु ॥ ९३० ॥ साधौ च धनिका साधु स्त्रियां तरुणयोषिति । वध्वां प्रियंगुवृक्षेऽथ धनुराशौ च कार्मुके ॥ ९३१ ॥ भल्लातके धनुर्वृक्षो धन्वनेऽश्वत्थ-वंशयोः । धन्वन्तरिर्दिवोदासे देववैद्ये कवौ स्मृतः ॥ ९३२ ॥ धन्वी दुरालभा-पार्थ-बकुलेष्वर्जुनद्रुमे । क्रूरे भस्त्राध्मापके च त्रिषु स्याद् धमनो नले ॥ ९३३ ॥ ;p{0169} धमनी कन्धरा-नाडी-हरिद्रा-नलिकासु च । गुहा हट्टविलासिन्योर्धरः कार्पासतूलके ॥ ९३४ ॥ वसुभेदे कूर्मराजे शैलेऽथ धरणो रवौ । सेतावद्रिपतौ धान्ये लोक-वक्षोजयोः पुमान् ॥ ९३५ ॥ क्लीवन्तु धारणे माने दशमांशे पलस्य च । धरणी पृथिवी-नाडी-कन्दभेदेषु शाल्मलौ ॥ ९३६ ॥ नारायणे महीध्रे च कच्छपे धरणीधरः । धरा गर्भाशये भूमौ धमनी-मेदसोरपि ॥ ९३७ ॥ महादानविशेषेऽथ विष्णौ शैले धराधरः । धरुणो ब्रह्मणि स्वर्गे सम्मते सलिले पुमान् ॥ ९३८ ॥ धर्तव्यं धारणीये स्यात् स्थातव्य-पतनीययोः । धर्मोऽस्त्री स्यादहिंसायामाचारे न्याय-पुण्ययोः ॥ ९३९ ॥ ;p{0170} स्वभावोपमयोः सप्ततन्तूपनिषदोरपि । दानादिके त्वसौ क्लीवं पुमान् स्याद् भगवज्जिने ॥ ९४० ॥ कृतान्ते सोमपे चापे सत्संगे देवतान्तरे । धर्मराजो जिने दण्डधरे भूपे युधिष्ठिरे ॥ ९४१ ॥ मरीचे धर्मपुर्यां च धर्मपतनमीरितम् । धर्माध्यक्षः प्राड्विवाके कुल-शील-गुणान्विते ॥ ९४२ ॥ धर्मोऽमर्षे प्रगल्भत्वे हिंसायां शक्तिबन्धने । धर्षणिर्वृलेऽसत्यां धर्षणं रति-रीढयोः ॥ ९४३ ॥ धवः पत्यौ नरे धूर्ते स्वनामख्यातपादपे । धवलश्चीनकर्पूरे वृषश्रेष्ठे धवद्रुमे ॥ ९४४ ॥ शुक्ले रागविशेषेऽसौ त्रिषु सुन्दर-गौरयोः । क्लीवं स्याच्छ्वेतमरिचे धाः स्याद् ब्रह्मणि धारके ॥ ९४५ ॥ ;p{0171} धाता प्रजापतौ विष्णौ मरुद्भेदे भृगोः सुते । त्रिष्वसौ धारके रक्षाकरे सद्भिः प्रयुज्यते ॥ ९४६ ॥ धातुर्भूप्रभृतौ ग्रावविकृताविन्द्रियेऽस्थनि । श्लेष्मादौ रसरक्तादौ शब्दादौ काञ्चनादिके ॥ ९४७ ॥ महाभूतेषु लोहेषु धात्री स्यादुपमातरि । भूमावामलकीवृक्षे जनन्यामपि कीर्तिता ॥ ९४८ ॥ धाना भृष्टयवे भिन्ने धन्याकेऽभिनवेऽङ्कुरे । चूर्ण-सक्तुष्वथो धानी स्त्र्याधारे पीलुपादपे ॥ ९४९ ॥ धान्यं धनीयके व्रीहौ तिलमाने कुटन्नटे । धाम स्थाने गृहे देहे प्रभावे रश्मि-जन्मनोः ॥ ९५० ॥ धामार्गवस्त्वपामार्गे घोषके पीतघोषके । धारो जलधरासारवर्षणे प्रस्तरान्तरे ॥ ९५१ ॥ ;p{0172} ऋणे प्रान्ते च गम्भीरे स्यादथो धारणा मतौ । मर्यादायां च योगांगे ब्रह्मणि स्वान्तधारणे ॥ ९५२ ॥ धारणी नाडिकायां च श्रेणी-बुद्धोक्तमन्त्रयोः । धारा सैन्याग्रिमस्कन्धे समूह-रथचक्रयोः ॥ ९५३ ॥ सन्ततौ सदृशे कीर्तौ जीमूतासारवर्षणे । द्रवप्रपाते उत्कर्ष-खड्गादिनिशिताग्रयोः ॥ ९५४ ॥ अतिवृष्टौ घटच्छिद्रे वाजिनां पञ्चधा गतौ । धारांकुरः शीकरे स्यान्नाशीरे च घनोपले ॥ ९५५ ॥ धाराटो घोटके मेघे चातके मत्तकुञ्जरे । धाराधरो घने खड्गे धाराङ्गस्तीर्थ-खड्गयोः ॥ ९५६ ॥ धारिणी धरणौ देवस्त्रीगणे शाल्मलतरौ । धार्तराष्ट्रो हंस-सर्पभेदे दुर्योधनादिके ॥ ९५७ ॥ धावनं गमने शुद्धौ पृश्निपर्ण्यां तु धावनी । धारकी-कंटकार्योश्च धावितो मार्जिते गते ॥ ९५८ ॥ ;p{0173} धिषणो विबुधाचार्ये धिषणा तु मतौ मता । धिष्ण्यं शक्तौ गृहे स्थाने नक्षत्रे जातवेदसि ॥ ९५९ ॥ धीमान् बृहस्पतौ प्राज्ञे बुद्धिमत्यां तु धीमती । धीरस्त्रिषु बुधे मन्दे विनीते बलशालिनि ॥ ९६० ॥ स्वैरे धैर्यान्विते पुंसि बलौ क्लीवन्तु कुंकुमे । धीरा स्त्रीभेद-काकोली-महाज्योतिष्मतीषु च ॥ ९६१ ॥ धीवरी मत्स्यवेधिन्यां कैवर्त्यां धीवरस्त्रियाम् । धीवरः पुंसि कैवर्ते धुतस्त्यक्त-विधूतयोः ॥ ९६२ ॥ धुन्धुमारः शक्रगोपे बृहदश्वनृपात्मजे ॥ पदालिके गेहधूमे धुरीणे तु धुरन्धरः ॥ ९६३ ॥ ;p{0174} धववृक्षेऽप्यथो धुर्यो धूर्वहे वृषभे पुमान् । धूः स्त्री रथाद्यग्रभागे भार-चिन्तनयोरपि ॥ ९६४ ॥ कम्पिते भर्त्सिते त्यक्ते तर्किते धूत इष्यते । शुम्भासुरस्य सेनान्यां कपोते धूम्रलोचनः ॥ ९६५ ॥ धूर्तो द्यूतकरे षिङ्गे वञ्चके च त्रिलिंगकः । क्लीवं विड्लवणे लौह-किट्टे पुंसि तु चोरके ॥ ९६६ ॥ धुस्तूरे जम्बुके धूलीकदम्बो वरुणद्रुमे । नीपेऽथ धूसरः किञ्चित्पाण्डुवर्णे क्रमेलके ॥ ९६७ ॥ पारावते तैलकारे गर्दभे कीर्तितः पुमान् । त्रिष्वीषत्पाण्डुवर्णाढ्ये स्त्री तु स्यात् किन्नरीभिदि ॥ ९६८ ॥ धृतराष्ट्रो नागभेदे पक्षिभेदे सुराजनि । दुर्योधनस्य जनके स्त्रीष्वसौ हंसयोषिति ॥ ९६९ ॥ ;p{0175} धृतिर्योगान्तरे यज्ञे सन्तोषे धारणे सुखे । धारणा-धैर्ययोश्छन्दोविशेषे मातृकान्तरे ॥ ९७० ॥ धृष्टः प्रगल्भे निर्लज्जे पतिभेदे त्रिलिंगकः । धेनुका गवि हस्तिन्यां धैनुकं धेनुसंहतौ ॥ ९७१ ॥ ध्वाङ्क्षस्तु तक्षके काके बक-भिक्षुकयोरपि । ध्यानं ब्रह्मात्मचिन्तायां चिन्तने संप्रकीर्तितम् ॥ ९७२ ॥ ध्रुवः पुमान् शिवे विष्णौ नासाग्रे ध्रुवके वटे । शरारिपक्षिणि स्थाणौ प्रभेदे वसु-योगयोः ॥ ९७३ ॥ उत्तानपादतनये ताराभेदेऽप्यसौ स्मृतः । त्रिलिंगो निश्चिते नित्ये निश्चले सन्ततेऽपि च ॥ ९७४ ॥ नपुंसकन्तु गगने वितर्केऽथ ध्रुवा स्त्रियाम् । स्रुग्विशेषे शालपर्ण्यां मूर्वा-गीतिप्रभेदयोः ॥ ९७५ ॥ ;p{0176} साध्वी स्त्रियामथ स्थाणौ गीतांगे ध्रुवको मतः । ध्वंसनं स्यादधःपाते विनाशे गमने क्वचित् ॥ ९७६ ॥ ध्वजोऽस्त्री पूर्वदिग्गेहे खट्वांगे चिह्न-शेफसोः । शौण्डिके वैजयन्त्यां च पताकादण्ड-गर्वयोः ॥ ९७७ ॥ ध्वजी स्याद् ब्राह्मणे शैले मयूरे घोटके रथे । शोण्डिके भुजगे पुंसि ध्वनिः स्यात् काव्य उत्तमे ॥ ९७८ ॥ मृदंगादिस्वने शब्दे ध्वस्तं नष्टे च्युते त्रिषु । नकुलः शंकरे माद्रीतनये बभ्रु-पुत्रयोः ॥ ९७९ ॥ नकुली कुक्कुटी-मांसी-शङ्खिनी-कुंकुमेषु च । हकारे बभ्रुभार्यायां कुलहीने त्वसौ त्रिषु ॥ ९८० ॥ नक्तञ्चरो राक्षसे स्यात् गुग्गुलौ चौर-घूकयोः । अथ सिंहे च शार्दूले कुक्कुटे नखरायुधे ॥ ९८१ ॥ ;p{0177} नगौकाः पुंसि पञ्चास्ये शरभे वायसे खगे । त्रिषु स्यान्नगवास्तव्ये नग्नस्त्रिषु दिगम्बरे ॥ ९८२ ॥ पुमांस्तु स्यात् क्षपणके राजादिस्तुतिपाठके । नटः कुशीलवेऽशोके रागिण्यां किष्कुपर्वणि ॥ ९८३ ॥ शौचिक्यां शौण्डिकाज्जाते वर्णसंकरमानवे । नटी नटस्त्रियां वेश्या-गन्धद्रव्यविशेषयोः ॥ ९८४ ॥ नदीकान्तः समुद्रे स्यात् हिज्जले सिन्धुवारके । नदीनो वरुणे सिन्धौ नदीजोऽर्जुनपादपे ॥ ९८५ ॥ नदीजाते यावनालशर-हिज्जलवृक्षयोः । नन्दो नारायणे गोपविशेष-नृपभेदयोः ॥ ९८६ ॥ आनन्दे निधिभेदे च वेणुभेदेऽप्यसौ मतः । नन्दको विष्णुनिस्त्रिंशे हर्षके कुलपालके ॥ ९८७ ॥ ;p{0178} आनन्दे कृष्णजनके नन्दनं शक्रकानने । नन्दनः केशवे शैलप्रभेदे हर्षकारके ॥ ९८८ ॥ पुत्रे भेकेऽथ नन्दन्तः पुत्रे मित्रे महीपतौ । नन्दा सम्पदि पार्वत्यां तिथिभेदे ननान्दरि ॥ ९८९ ॥ विष्णौ द्यूताङ्ग आनन्दे नन्दिके नन्दिरस्त्रियाम् । नन्दिकाऽलिञ्जरे शक्रक्रीडास्थाने तिथौ स्त्रियाम् ॥ ९९० ॥ नन्दिनी पार्वती-गङ्गा-रेणुकासु ननान्दरि । वशिष्ठधेनौ नन्दी तु वटे शिवगणान्तरे ॥ ९९१ ॥ शालङ्कायनपुत्रे च गर्दभाण्डद्रुमेऽपि च । नन्दिवर्द्धन ईशाने पक्षान्ते मित्र-पुत्रयोः ॥ ९९२ ॥ नन्द्यावर्तो राजसद्मप्रभेदे तगरद्रुमे । नभश्चरो घने वायौ विद्याधर-विहङ्गयोः ॥ ९९३ ॥ ;p{0179} नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालतन्तौ च प्रावृट्-पलितशीर्षयोः ॥ ९९४ ॥ नमितो नामिते जातनमस्कारे मतस्त्रिषु । नमुचिर्मदने दैत्ये नयनं प्रापणेऽक्षिणि ॥ ९९५ ॥ नरन्तु रामकर्पूरे नरो नारायणेऽर्जुने । मनुष्ये पुरुषे शङ्कौ नरको निरयेऽसुरे ॥ ९९६ ॥ नरेन्द्रो विषवैद्ये स्याद् वार्तिके पृथिवीपतौ । नर्तकः केलके नागे नल-चारणयोर्नटे ॥ ९९७ ॥ नर्तकी करिणी-नृत्यकारिणी-नलिकासु च । नर्मठस्तु परीहासनिरते चूचुके विटे ॥ ९९८ ॥ नर्मदा नर्मसख्यां च स्पृक्का-मेकलकन्ययोः । नलः पोटगले दैत्यविशेषे वानरान्तरे ॥ ९९९ ॥ ;p{0180} नैषधे पितृदेवे च वीरसेननृपात्मजे । नपुंसकन्तु पद्मेऽथ नलदं सुमनोरसे ॥ १००० ॥ जटामास्यामुशीरे च त्रिलिंगो नलदातरि । नलिनं कमले नीरे नलिकायां पुमांस्त्वसौ ॥ १००१ ॥ विहंगमे सारसाख्ये कृष्णपाकफलद्रुमे । नलिनी व्योमगंगायामब्जिन्यां कमलाकरे ॥ १००२ ॥ पद्मसन्दोहनलिका-नारिकेल-सुरासु च । पद्मयुक्तप्रदेशे च सामान्यकमलेऽप्यसौ ॥ १००३ ॥ नवः पुनर्नवायां स्यात् स्तवेऽसौ त्रिषु नूतने । नष्टो नाशाश्रये नाशे मूर्च्छायां नष्टचेष्टता ॥ १००४ ॥ नस्यन्तु नासिकाग्राह्यचूर्णादौ भेषजान्तरे । नासिकाया हिते रज्जौ नासासम्बन्धिनि त्रिषु ॥ १००५ ॥ ;p{0181} नहुषो नागभेदे स्याच्चन्द्रवंश्यनृपान्तरे । नक्षत्रं मोक्तिके तारा-दाक्षायण्योश्च कीर्तितम् ॥ १००६ ॥ नक्षत्रनेमिर्विष्णौ स्याद् रेवत्यां ध्रुव-चन्द्रयोः । नाकः स्वर्गेऽन्तरिक्षे च नाकुर्वल्मीक-शैलयोः ॥ १००७ ॥ नाकुली कुक्कुटीकन्दे चविका-यवतिक्तयोः । क्षुद्रवार्ताकिनी-रास्ना-कन्दभेदेष्वपि स्त्रियाम् ॥ १००८ ॥ नागः पन्नग-पुन्नाग-क्रूराचारिषु कुञ्जरे । सीसके मुस्तके वंगे वारिदे नागदन्तके ॥ १००९ ॥ देहानिलप्रभेदे च ताम्बूल्यां नागकेशरे । नागजं त्रिषु नागोत्थे क्लीवं सिन्दूर-रंगयोः ॥ १०१० ॥ नागदन्तो हस्तिदन्ते भित्तिसंलग्नदारुणि । नागदन्ती तु वारस्त्री-श्रीहस्तिन्योः प्रकीर्तिता ॥ १०११ ॥ नागपुष्पस्तु पुंनागे चम्पके नागकेशरे । हस्तितुल्यबले भीमसेने नागबलो मतः ॥ १०१२ ॥ ;p{0182} नागरं मुस्तके शुण्ठ्यां रतिबन्धेऽक्षरान्तरे । नागरो नागरंगे स्याद् विदग्धे नगरोद्भवे ॥ १०१३ ॥ देवरे नागराजस्तु स्यादनन्ते च वासुकौ । नागरी तु विदग्धस्त्री-नागरस्त्री-स्नुहीषु च ॥ १०१४ ॥ नाटको नर्तके शैले नाटकं रूपकान्तरे । नाडी व्रणान्तरे नाले शिरा-कुहनचर्ययोः ॥ १०१५ ॥ षट्क्षणे गण्डदूर्वायां नाडीजङ्घस्तु वायसे । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ १०१६ ॥ नादः शब्देऽर्द्धेन्दुवर्णे ब्रह्मघोषान्तरे स्मृतः । नादेयः काशवानीरवृक्षयोः संप्रकीर्तितः ॥ १०१७ ॥ ;p{0183} नादेयी स्त्री काकजम्बू-नागरङ्ग-जवासु च । वैजयन्त्यां भूमिजम्ब्वामग्निमन्थेऽम्बुवेतसे ॥ १०१८ ॥ नाभिर्मुख्यनृपे गोत्रे प्रियव्रतनृपात्मजे । क्षत्रिये चक्रमध्ये च प्राण्यंगे तु द्वयोरसौ ॥ १०१९ ॥ कस्तूरिकायां स्त्रीलिंगो नाभीलं वंक्षणे स्त्रियाः । गर्भाण्डे नाभिगाम्भीर्ये कष्टेऽपि कवयो विदुः ॥ १०२० ॥ नाम लिंगे नामधेये नामशेषो मृतेऽत्यये । नायकोऽग्रेसरे सेनापतौ शृङ्गारसाधके ॥ १०२१ ॥ हारमध्यमणौ श्रेष्ठे नेतर्यपि बुधैः स्मृतः । नारं नरसमूहे स्यान्नरसम्बन्धिनि त्रिषु ॥ १०२२ ॥ नारस्तु तर्णके नीरे नरकस्थेऽपि नारकः । नारकीटोऽश्मकीटे स्यात्स्वदत्ताशाविहन्तरि ॥ १०२३ ॥ ;p{0184} नारङ्गो यमजे षिंगे सरंगे पिप्पली रसे । नारायणी शतावर्यां गौर्यां भागीरथीश्रियोः ॥ १०२४ ॥ श्रीमुद्गलमुनिभार्यायां, विष्णौ नारायणः स्मृतः । नालं पद्मादिदण्डे स्यान्मृणाले जलनिर्गमे ॥ १०२५ ॥ हरिताले गले काण्डे नालः पोटगले मतः । नाली घटी-हस्तिमर्णवेधनी-धमनीषु च ॥ १०२६ ॥ पद्मे शाककडम्बेऽथ नालिको महिषेऽम्बुजे । नालीको विशिखे शल्ये नालीकं कमले स्मृतम् ॥ १०२७ ॥ नाशो मृत्यौ परिध्वंसेऽनुपलम्भे पलायने । नासा तु नासिकायां स्यात्काष्ठे द्वारोपरि स्थिते ॥ १०२८ ॥ निःशेषं शेषरहिते समग्रेऽपि त्रिलिंगकम् । निःश्रेयसं शुभे भक्तौ मुक्तौ विद्याऽनुभावयोः ॥ १०२९ ॥ ;p{0185} निःसंगः संगरहिते फलाऽनभिनिवेशिनि । अथ निःसरणं मृत्यौ निर्वाणोपाययोरपि ॥ १०३० ॥ निर्गमे भवनादीनां प्रवेशादिपथेऽपि च । निःस्रावः स्याद् भक्तरसे मण्डे भक्तसमुद्भवे ॥ १०३१ ॥ निकरः शेवधौ सारे न्यायदेयधने चये । निकायो भवने लक्ष्ये संहतौ परमात्मनि ॥ १०३२ ॥ निकारः स्यात् खलीकारे धान्योऽर्ध्वक्षेपणेऽपि सः । धिक्कारे विप्रकारेऽथ मारणेऽपि निकारणम् ॥ १०३३ ॥ निकुञ्चकस्तु वानीरे तुर्यांशे कुडवस्य च । निकृतो वञ्चिते नीचे प्रत्याख्याते शठे त्रिषु ॥ १०३४ ॥ ;p{0186} निकृतिर्भर्स्तने दैन्ये क्षेपे शाठ्ये शठे स्त्रियाम् । निकृष्टस्त्रिषु नीचे स्यात् जात्याचारादिनिन्दिते ॥ १०३५ ॥ निकेतनः पलाण्डौ स्यात् आलये तु निकेतनम् । निगदस्तु जनैर्वेद्ये जपे च कथनेऽपि च ॥ १०३६ ॥ निगमो वाणिजे हट्टे पुरी-निश्चययोः कटे । वेदे मार्गेऽप्यथो होमधूमे निगरणो गले ॥ १०३७ ॥ निगुर्मूले मले चित्ते चित्रकर्म-मनोज्ञयोः । निग्रहोऽनुग्रहाभावे भर्त्सने सीम्नि बन्धने ॥ १०३८ ॥ नारायणे चिकित्सायां निघ्नोऽधीनेऽङ्कपूरणे । निचितं पूरिते व्याप्ते निचयो निश्चये चये ॥ १०३९ ॥ निघृष्वो मारुते मार्गे खर-शूकरयोः खुरे । निचुलः कविभेदे स्यान्निचोले स्थलबेतसे ॥ १०४० ॥ वानीरे हिज्जले चाथ निजं नित्य-स्वकीययोः । नितम्बः स्त्रीकटीपश्चाद्भागे कटक-रोधसोः ॥ १०४१ ॥ ;p{0187} स्कन्धे च कटिमात्रेऽथ स्त्रीमात्रेऽपि नितम्बिनी । नित्यः सदातने सिन्धौ नित्यन्त्वविरते मतम् ॥ १०४२ ॥ नित्या तु मनसादेव्यां दुर्गा-शक्तिविशेषयोः । निदर्शनन्तु दृष्टान्ते काव्यालंकरणे स्त्रियाम् ॥ १०४३ ॥ निदानमवसाने स्याद् वत्सदाम्न्याऽऽदिकारणे । तपःफलार्थने शुद्धौ कारणे कारणक्षये ॥ १०४४ ॥ रोगहेतावथैलायां कण्टकार्यां निदिग्धिका । निदेशः कथनोपान्तभाजनाऽऽज्ञासु कीर्तिता ॥ १०४५ ॥ निधनो वधतारायां निधनं कुल-नाशयोः । निधानं निधिः कार्यान्त-प्रवेशस्थानयोरपि ॥ १०४६ ॥ ;p{0188} आधारेऽथ निधिः सिन्धावाधारे जीवकौषधौ । अज्ञातस्वामिके पृथ्वीनिखातेऽर्थे च शेवधौ ॥ १०४७ ॥ अथो निधुवनं केलौ कल्पे नर्मणि मैथुने । निन्दाऽपवादे गर्हायां दुष्कृतौ सद्भिरीरिता ॥ १०४८ ॥ निपातः पतने मृत्यौ निपो घट-कदम्बयोः । निपातनं खलीकारेऽवनाये पदसाधने ॥ १०४९ ॥ क्लीवं निपातमाहावे स्याद् गोदोहन-भाजने । निबन्धो बन्धने ग्रन्थवृत्तावानाह-निम्बयोः ॥ १०५० ॥ निबन्धनं कारणे स्यादुपनाहे च बन्धने । निभः पुमान् मतो व्याजे प्रकाशे सदृशे त्रिषु ॥ १०५१ ॥ निमित्तं शकुने चिह्ने कारणेऽपि नपुंसकम् । निमिषः कालभेदे स्याद् विष्णौ चक्षुर्निमीलने ॥ १०५२ ॥ ;p{0189} निमीलनन्तु मरणे निमेषेऽथ निमीलिका । व्याजे निमीलने चाथो निमेषः समयान्तरे ॥ १०५३ ॥ नियतः संयति नित्ये नियतिर्नियमे विधौ । नियन्ता शासके सूते चार्गलिते नियन्त्रितः ॥ १०५४ ॥ नियमो निश्चये शौचे सन्तोषे तपसि व्रते । ईश्वरप्रणिधाने च सिद्धान्तश्रवणे जपे ॥ १०५५ ॥ मन्त्रणायां प्रतिज्ञायां स्वाध्याये हुतदानयोः । आस्तिक्ये ह्री-धीषणयोः कर्मण्यागन्तुसाधने ॥ १०५६ ॥ सत्यादिपञ्चकेऽर्चायां यज्ञ इन्द्रियनिग्रहे । नियामकः पोतवाहे कर्णधारे नियन्तरि ॥ १०५७ ॥ ;p{0190} निरञ्जना पूर्णिमायां स्त्री त्रिष्वञ्जनवर्जिते । वधे निरसनं प्रत्याख्याने निष्ठीवने स्मृतम् ॥ १०५८ ॥ निरस्तस्त्यक्तविशिखे निष्ठ्यूते त्वरितोदिते । प्रत्याख्याते प्रतिहते सन्त्यक्ते प्रेषिते त्रिषु ॥ १०५९ ॥ निरामयस्त्रिषूल्लाघे इडिक्के शूकरे पुमान् । निरीहो विष्णु-जिनयोरीहाशून्ये त्वसौ त्रिषु ॥ १०६० ॥ निरुक्तं वेदशास्त्रांगे कथिते पदभञ्जने । निरूपणं विचारे स्याद् आलोके च निदर्शने ॥ १०६१ ॥ निरूपितो नियुक्ते स्यादसौ कृतनिरूपणे । निरूहो निश्चिते तर्क-वस्तिभेदे च निग्रहे ॥ १०६२ ॥ ;p{0191} ऊहशून्ये निरोधस्तु निग्रहे रोध-नासयोः । निर्ऋतिः पुंस्यलक्ष्म्यां स्यात् नैर्ऋते निरुपद्रवे ॥ १०६३ ॥ निर्गुणः परमेशाने विद्यादिगुणवर्जिते । निर्ग्रन्थो वालिशे निस्स्वे मुनौ क्षपणके जिने ॥ १०६४ ॥ निर्वृत्तहृदयग्रन्थौ द्यूतकर्तरि नग्नके । निर्ग्रन्थकः क्षपणके निष्फले चापरिच्छदे ॥ १०६५ ॥ निर्घण्टने स्थान्निर्घन्टो निघण्टौ गणसंग्रहे । निर्जरस्त्रिदशे पुंसि सुधायां तु नपुंसकम् ॥ १०६६ ॥ त्रिलिंगः स्याज्जरात्यक्ते गुडुची-मुरयोः स्त्रियाम् । निर्जितस्त्रिषु विज्ञेयः पराभूते वशीकृते ॥ १०६७ ॥ निर्जीवः प्राणरहिते जीवात्मरहिते त्रिषु । निर्झरः सूर्यतुरगे झरे पुंसि तुषानले ॥ १०६८ ॥ निर्दटस्तु दयाशून्ये निष्रयोजन-तीव्रयोः । परापवादनिरते मतेऽपि कविभिः स्मृतः ॥ १०६९ ॥ ;p{0192} निर्दरः कठिने सारे निर्भये विगतत्रपे । निर्देशः कथनोपान्तशासनेषु पुमान् मतः ॥ १०७० ॥ निर्धूतं खण्डिते त्यक्ते कम्पिते च प्रकीर्तितम् । निर्बन्धोऽभिनिवेशे स्यात् शिशूनामाग्रहान्तरे ॥ १०७१ ॥ निर्मलं स्यात्तु निर्माल्येऽभ्रके त्रिषु मलोज्झिते । निर्माणं निर्मितौ सारे कर्मभेदे समञ्जसे ॥ १०७२ ॥ निर्मितं कृतनिर्माणे गठिते रचिते त्रिषु । निर्मुक्तस्त्यक्तसंयोगे त्यक्तनिर्मोकपन्नगे ॥ १०७३ ॥ त्रिषु स्यात्त्यक्तसंयोगे निर्मुटं तु कचङ्गने । निर्मुटः खर्परे सूर्येऽपुष्पवृक्षेऽपि कीर्तितः ॥ १०७४ ॥ निर्मोको व्योम्नि सन्नाहे मोचने सर्पकञ्चुके । निर्याणं कुञ्जराऽपाङ्गभागे मोक्षेऽध्वनिर्गमे ॥ १०७५ ॥ ;p{0193} निर्यातने वैरशुद्धौ दाने न्यासार्पणे वधे । ऋणादिशुद्धौ निर्यासे वृक्षक्षीर-कषाययोः ॥ १०७६ ॥ निर्यूहः शेखरे द्वारे निर्यासे नागदंतके । आपीड-क्वाथरसयो निर्लेपः पापवर्जिते ॥ १०७७ ॥ आसङ्गरहिते लेपशून्ये चासौ त्रिलिंगकः । निर्वाणं निर्वृतौ मोक्षे निश्चले गजमज्जने ॥ १०७८ ॥ विद्योपदेशने शून्ये विश्रान्तौ संगमेऽपि च । अस्तंगतौ नाभिजप्यमूलमंत्रे नपुंसकम् ॥ १०७९ ॥ त्रिष्वसौ वाणरहिते निमग्ने नष्ट-मुक्तयोः । निर्वादो निश्चिते वादेऽवज्ञा-कोलापवादयोः ॥ १०८० ॥ वादाभावे परीवादे दाने निर्वापणं वधे । नगरादेर्बहिष्कारे वधे निर्वासनं मतम् ॥ १०८१ ॥ कृताग्निहोत्रे निर्विष्टः स्थिते प्राप्ते विवाहिते । निर्वृत्तिः सुस्थितौ मृत्यौ मोक्षेऽस्तंगमने सुखे ॥ १०८२ ॥ ;p{0194} निर्वृत्तिर्जीविकाहीने निष्पत्तावपि कीर्तिता । निर्वेदः परवैराग्ये वैराग्ये स्वावमानने ॥ १०८३ ॥ निर्वेशो वेतने भोगे परिणीतौ च मूर्च्छने । निर्वेष्टनं नाडिचीरे त्रिष्वसौ वेष्टनोज्झिते ॥ १०८४ ॥ निर्हारो मलमूत्रादित्यागे चाभ्यवकर्षणे । यथेष्टविनियोगेऽपि दाहे सूरिभिरीरितः ॥ १०८५ ॥ वस्त्रे गृहे निवसनं निवहो मारुते चये । निवात आश्रयेऽवाते निवासेऽभेद्यवर्मणि ॥ १०८६ ॥ निवापः पितृदाने स्याद् दानमात्रेऽपि चेष्यते । निवीतमुपवीते स्यादाच्छादनपटे त्रिषु ॥ १०८७ ॥ निवृत्तिः स्यादुपरम-प्रवृत्ति-प्रागभावयोः । समर्पणाऽऽवेदनयोर्निवेदनमितीरितम् ॥ १०८८ ॥ ;p{0195} निवेशः शिविरोद्वाह-विन्यासेषु निवेशने । निवेशनं प्रवेशे स्यान्नगरे च निकेतने ॥ १०८९ ॥ निशा दारुहरिद्रायां वासतेयी-हरिद्रयोः । मेषे वृषे च मिथुने कर्कि-ध्वनि-मृगेष्वपि ॥ १०९० ॥ निशाचरश्चक्रवाके राक्षसे सर्प-भूतयोः । चोरके जम्बुके घूके रजनीचरमात्रके ॥ १०९१ ॥ निशाचरी तु राक्षस्यां कुलटायामपीष्यते । निशान्तं भवने कल्के क्लीवं शान्ते त्वसौ त्रिषु ॥ १०९२ ॥ आलोचन-श्रवणयोर्दर्शनेऽपि निशामनम् । निशारणं रात्रियुद्धे रात्रिशब्दे च मारणे ॥ १०९३ ॥ निशीथः स्यादर्धरात्रे रात्रिमात्रेऽपि कीर्त्यते । निश्चलाङ्गो बके स्पन्दरहिते पर्वतादिके ॥ १०९४ ॥ ;p{0196} निश्चुक्कणं दन्तशाणे निषङ्गः संग-तूणयोः । निषङ्गथिस्तृणे स्कन्धे संश्लेषे सारथौ रथे ॥ १०९५ ॥ आपणे क्षुद्रखट्वायां निषधा सद्भिरीरिता । निषधः कठिने शैले देशे राज्ञि स्वरान्तरे ॥ १०९६ ॥ निष्कः स्वर्णपले हेम्नि सौवर्णिकचतुष्टये । कंठभूषा-स्वर्णकर्ष-वक्षोलंकरणेषु च ॥ १०९७ ॥ दीनारे षोडश द्रव्ये स्वर्णसाष्टशते पले । आधारे नष्टवीर्ये च ब्रह्मणि त्रिषु निष्कलम् ॥ १०९८ ॥ निष्कला निष्कलीवत् स्याद् वृद्धा-विगतपुष्पयोः । निष्कासितो निर्गमितेऽधिकृताहितयोस्त्रिषु ॥ १०९९ ॥ कवाट-क्षेत्र-पत्न्याट-गृहारामेषु निष्कुटः । निष्क्रामो बुद्धिसामर्थ्ये निर्गमे दुष्कुले तथा ॥ ११०० ॥ ;p{0197} स्यान्निष्क्रमणसंस्कारे निस्तारेऽपि च निष्कृतिः । निष्क्रियो निर्गतौ बुद्धियोग-प्रत्युपकारयोः ॥ ११०१ ॥ भृतौ विनिमये शक्तौ निष्क्रियं ब्रह्मणि स्मृतम् । निष्ठा निर्वहणे नाशे निष्पत्तावन्त-याञ्चयोः ॥ ११०२ ॥ व्याकृतिप्रत्यये प्राप्ते श्रद्धायामपि कीर्तिता । निष्पक्वं पक्वताशून्ये क्वथितेऽपि त्रिलिंगकम् ॥ ११०३ ॥ सिद्धौ समाप्तौ निष्पत्तिर्विद्वद्भिः परिकीर्तिता । निष्पावो राजशिम्ब्यां स्यात् सूर्पवायौ समीरणे ॥ ११०४ ॥ धान्यादिनिस्तुषीकार्य-बहुलीकरणादिषु । राजमाषे शिम्बिकायां निर्विकल्पे कडङ्गरे ॥ ११०५ ॥ निसर्गस्तु स्वभावे स्यात्सर्गे रूपेऽति कीर्तितः । निसृष्टे न्यस्तमध्यस्थे निसृष्टार्थो नरोत्तमे ॥ ११०६ ॥ ;p{0198} धनायव्ययरक्षादिनियुक्ते दूत्यकृद्भिदि । त्रिषु निस्तुषितं त्यक्ते त्वग्विहीने लघूकृते ॥ ११०७ ॥ निस्त्रिंशो निर्दये खड्गे त्रिंशत्शून्येऽपि कीर्तितः । निह्नवोऽपह्नुतौ गुप्तेऽविश्वासे निकृतावपि ॥ ११०८ ॥ निक्षेपः क्षेपणे त्यागे स्यात् समर्पितवस्तुनि । नीकाश उपमायां स्यात् तुल्य-निश्चययोरपि ॥ ११०९ ॥ नीचः स्यात् पामरे नम्रे वामने चोरके स्मृतः । नीचगः पामरे नीरे क्लीवं सरिति नीचगा ॥ १११० ॥ नीडः कुलाये स्थानेऽस्त्री नीतिः स्त्रीप्रापणे नये । नीध्रं चन्द्रे वने नेमौ रेवती भ-वलीकयोः ॥ ११११ ॥ नीपः कदम्बे बन्धूकेऽशोक-धाराकदम्बयोः । नीरं जले रसेऽपि स्यात् नीरजन्तु सरोरुहे ॥ १११२ ॥ ;p{0199} कुष्ठौषधौ च मुक्तायां जलजाते त्वसौ त्रिषु । नीरजो जलमार्जारे लघुकाशेऽपि कीर्तितः ॥ १११३ ॥ नीरदो मुस्तके मेघे रदहीने त्वसौ त्रिषु । नीरन्ध्रं छिद्ररहिते सान्द्रेप्युक्तं त्रिलिंगकम् ॥ १११४ ॥ नीरसो दाडिमे पुंसि त्रिलिंगो रसवर्जिते । कुष्ठौषधौ नीरुजं स्यात् उल्लाघे नीरुजस्त्रिषु ॥ १११५ ॥ नीलं स्यात् काचलवणे सौवीराञ्जन-तुत्थयोः । नृत्याङ्गकरणे नील्यां विष-तालीशपत्रयोः ॥ १११६ ॥ नीलो नीलौषधौ शैलविशेषे वानरान्तरे । इन्द्रनीलमणौ श्यामे मञ्जुघोषे च लाञ्छने ॥ १११७ ॥ न्यग्रोधे निधिभेदेऽपि नीलवर्णवति त्रिषु । नीलकं काचलवणे वर्तलोहेऽसने पुमान् ॥ १११८ ॥ ;p{0200} नीलकण्ठः शिवे पीतसारे खञ्जन-बर्हिणोः । दात्यूहे ग्रामचटके मूलके तु नपुंसकम् ॥ १११९ ॥ नीलपत्रो गुण्डतृणे दाडिमेऽश्मन्तकद्रुमे । नीलासने नीलपद्मे त्रिषु नीलपलान्विते ॥ ११२० ॥ नीलंगुर्भम्भराल्यां स्त्री कृमौ च शुषिरे पुमान् । नीलाञ्जसाऽप्सरोभेदे सौदामिन्यां नदीभिदि ॥ ११२१ ॥ नीलाम्बरे नीलवर्णवस्त्र-तालीशपत्रयोः । नीलाम्बरः प्रलम्बघ्ने राक्षसे च शनिग्रहे ॥ ११२२ ॥ नीलिका नेत्ररोगे स्यात् क्षुद्ररोगे जलज्वरे । शेफाली-नीलिनी-नीलसिन्दुवारेषु कीर्तिता ॥ ११२३ ॥ नीवी स्त्रियां मूलधने राजपुत्रादिबन्धके । नारीकटीवस्त्रबन्धे पुंस्कटीवस्त्रबन्धने ॥ ११२४ ॥ ;p{0201} प्रच्छादने स्यान्नीशारो हिमानलनिवारणे । काण्डपट्टेऽथ पूजायां स्तुतौ च नुतिरिष्यते ॥ ११२५ ॥ नेता त्रिषु प्रभौ निम्बवृक्षे प्रापयितर्यपि । नेत्रं मन्थगुणे नाडी-वृक्षमूलजटाऽक्षिषु ॥ ११२६ ॥ रथे वस्तिशलाकायामंशुके त्रिषु नेतरि । नेत्री प्रापणकर्त्र्यां स्याल्लक्ष्मी-नाडी-नदीषु च ॥ ११२७ ॥ नेदिष्ठमन्तिकतमे विज्ञेऽङ्कोटतरौ पुमान् । नेपथ्यं स्यादलंकारे रंगभूमौ प्रसाधने ॥ ११२८ ॥ नेमो गर्तेऽवधौ काले सायंकालेऽर्द्धमूलयोः । प्राकारे कपटे खण्डे नाट्यादावूर्ध्व-भिन्नयोः ॥ ११२९ ॥ नेमिः स्त्री चक्रपरिधौ कूपान्तिकसमस्थले । कूपोपरिस्थपट्टान्ते त्रिकायामपि कीर्तितः ॥ ११३० ॥ ;p{0202} नेमिः पुमान् रथद्रौ स्याद् मतः तीर्थङ्करान्तरे । नैगमस्तूपनिषदि वाणिजे नागरे नये ॥ ११३१ ॥ न्यग्रोधः स्याद्वटे व्योमपरिमाणे शमीतरौ । विषपर्णीलतायां च मोहनाख्यौषधावपि ॥ ११३२ ॥ न्यङ् नीचे वामने निम्ने न्यंकुस्तु हरिणे मणौ । न्यक्षं कार्त्स्न्ये तृणे क्लीवं निकृष्टेऽसौ त्रिलिंगकः ॥ ११३३ ॥ जामदग्न्ये लुलापे च पुमान् सद्भिरुदाहृतः । न्यायो विष्णौ तर्कशास्त्रे वाक्यभेदे समंजसे ॥ ११३४ ॥ युक्तिमूलकदृष्टान्तविशेषेऽपि प्रकीर्तितः । न्यासो ग्रन्थान्तरे त्यागे सन्न्यासे स्थाप्यवस्तुनि ॥ ११३५ ॥ विन्यासेऽन्तर्बहिर्देहवर्णादिन्यास ईरितः । न्युब्जस्त्रिषु रुजाभुग्ने कुब्जा-धोमुखयोरपि ॥ ११३६ ॥ ;p{0203} पुमांस्त्वसौ दर्भमयस्रुचि स्रुचि कुशेऽपि च । न्यूनमूने तथा गर्ह्ये त्रिलिंगः परिकीर्तितः ॥ ११३७ ॥ पक्वं दृढे परिणत-प्रत्यासन्नविनाशयोः । पङ्कोऽस्त्री कर्दमे पापे पङ्कजं कमले मतम् ॥ ११३८ ॥ पङ्कारः सेतु-शैवाल-सोपानेष्वम्बुकुब्जके । पंक्तिर्दशाक्षरच्छन्दोविशेषे गौरवेऽवनौ ॥ ११३९ ॥ पाके पञ्चाक्षरच्छन्दो-दशसंख्याऽऽवलीषु च । पंगुः शनैश्चरे पुंसि जंघाहीने त्वसौ त्रिषु ॥ ११४० ॥ पाके स्यात्पचनं वह्नौ पचनः पाककर्तरि । पचेलिमोऽर्के ज्वलने स्वयं पक्वे त्वसौ त्रिषु ॥ ११४१ ॥ ;p{0204} पञ्चगुप्तस्तु चार्वाकदर्शने कच्छपे स्मृतः । अथ पंचजनो दैत्यविशेषे पुरुषे मतः ॥ ११४२ ॥ भण्डे पञ्चजनीयः स्यात् त्रिषु पञ्चजनीप्रभौ । पञ्चतत्वं स्मृतं पञ्चभूत-पञ्चमकारयोः ॥ ११४३ ॥ मरणे पञ्चभावे च पञ्चत्वं पञ्चता स्त्रियाम् । अथ पंचनखः कूर्मे शार्दूले कुञ्जरे पुमान् ॥ ११४४ ॥ पंचमो रुचिरे दक्षे पंचानां पूरणे त्रिषु । स्वरान्तरे रागभेदे तन्त्रीकण्ठोत्थितस्वरे ॥ ११४५ ॥ पञ्चमी शारिफलके द्रौपदी-तिथिभेदयोः । पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः ॥ ११४६ ॥ कण्डनी चोदकुम्भश्च वध्यते याश्च वाहयन् । पञ्चाङ्गं पंजिकायां स्यात् पुरश्चरणकर्मणि ॥ ११४७ ॥ ;p{0205} पंचाङ्गः पंचभद्राश्वे प्रणामान्तर-कूर्मयोः । पंचाननो महादेवे सिंहेऽत्युग्रे बुधैः स्मृतः ॥ ११४८ ॥ पंचामृतं सितादुग्धदध्याऽऽज्यमधुसंयुते । पंचाली शारिफलके पुत्तली-गीतभेदयोः ॥ ११४९ ॥ श्रोत्रत्वक्-नेत्ररसनघ्राणे पंचेन्द्रियं विदुः । पञ्जरः पुंसि कङ्काले गवां नीराजनाविधौ ॥ ११५० ॥ कलौ शरीरे क्लीवन्तु पक्ष्यादिबन्धनालये । पंजिका त्वग्रसन्धानी-तूलनालिकयोरपि ॥ ११५१ ॥ टीकाविशेषे पंचागे व्ययायलिपिपुस्तके । कायस्थे पंजिकाकारे पंजिकारक ईरितः ॥ ११५२ ॥ पंजी स्त्री पंजिकायां स्यात् नालिका-ग्रन्थभेदयोः । पटोऽस्त्री कर्पटे चित्रपटे शोभनवाससि ॥ ११५३ ॥ पुमान् प्रियालवृक्षेऽसौ त्रिलिंगः स्यात् पुरस्कृते । स्त्रियां पटकुटी वस्त्रगृहे प्राज्ञैः प्रयुज्यते ॥ ११५४ ॥ ;p{0206} पटच्चरं जीर्णवस्त्रे तस्करे तु पुमानसौ । शाटिकायां वस्त्रगेहे प्राज्ञाः पटमयं विदुः ॥ ११५५ ॥ पटलं तिलके चाले नेत्ररोगे परिच्छदे । समूहे पिटके ग्रन्थे दृष्टेरावरके तरौ ॥ ११५६ ॥ आडम्बरे समारम्भे हिंसने पटहः पुमान् । अस्त्रियां मानके वाद्ये पटिस्तु कुम्भिकाद्रुमे ॥ ११५७ ॥ वागुलौ पटभेदेऽथ काण्डपट्यां पटे पटी । पटीरं चन्दने तुङ्गे केदारे खदिरेऽम्बुदे ॥ ११५८ ॥ तितऔ वेणुसारे च मूलके वातिके स्मरे । उदरे हरणीयेऽथ छत्रा-लवणयोः पटुः ॥ ११५९ ॥ पटुः पुमान् पटोले स्यात् कारवेल्ले च चोरके । पटोलपत्रे काण्डीरलतायां च प्रयुज्यते ॥ ११६० ॥ ;p{0207} पटुस्तीक्ष्णे स्फुटे धूर्ते दक्ष-नीरोगयोस्त्रिषु । निष्ठुरेऽथ पटोलं स्याद् वस्त्रभेदे लताफले ॥ ११६१ ॥ पट्टः पेषणपाषाणे फलके ब्रणबन्धने । चतुष्पथे च कौशेये राजादेः शासनान्तरे ॥ ११६२ ॥ संव्यानोष्णीषयोः रक्तकौशेयोष्णीष-पीढयोः । पट्टी ललाटभूषायां कमुके तलसारके ॥ ११६३ ॥ पणः कार्षापणे द्यूते गृहे कार्षिकताम्रिके । निर्वेशे शौण्डिके मूल्ये धने विंशतिगण्डके ॥ ११६४ ॥ क्रय्यशाकाट्टिकायां च व्यवहारे भृतो ग्लहे । पणितं त्रिषु विक्रीते स्तुते व्यवहृतेऽपि च ॥ ११६५ ॥ पण्यविक्रयशालायां हट्टे स्यात् पण्यवीथिका । पतङ्गो भास्करे शालिप्रभेदे शलभे खगे ॥ ११६६ ॥ ;p{0208} पतनं कल्मषे पाते तथा नीचगतावपि । पताका नाटकांगेऽङ्के केतु-सौभाग्ययोर्ध्वजे ॥ ११६७ ॥ पतिर्धवे गतौ मूलेऽधिपतौ तु मतस्त्रिषु । पातित्ययुक्ते चलिते गलिते पतनाश्रये ॥ ११६८ ॥ स्वधर्मविच्युतेऽपि स्यात् पतितः सर्वलिंगभाक् । पत्तनं स्यान्महापुर्यां मृदङ्गे पुटभेदने ॥ ११६९ ॥ पत्तिः पदातिके नीरे गतौ सेनान्तरे स्त्रियाम् । पत्रं स्याद् वाहने पर्णे पत्रिका-शरपक्षयोः ॥ ११७० ॥ हैमपत्राकृतिद्रव्ये पक्षिपक्षेऽक्षराश्रये । पत्राङ्गं पद्मके भूर्जे रक्तचन्दनदारुणि ॥ ११७१ ॥ पत्री पुमान् गिरौ वाणे श्येने वृक्षे विहंगमे । रथिके श्वेतकिणिही-पाच्योः पत्रयुते त्रिषु ॥ ११७२ ॥ ;p{0209} पथ्यं त्रिषु हिते क्लीवं सैन्धवेऽथ पुमानसौ । हरीतकीद्रुमे पथ्या वन्ध्याकर्कोटकीद्रुमे ॥ ११७३ ॥ चिर्भिटायां मृगेर्वारौ हरीतक्यामपि स्मृता । पदं शब्दे श्लोकपादे वस्तुनि त्राण-चिह्नयोः ॥ ११७४ ॥ व्यवसाये पादचिह्ने प्रदेशे स्थान-वाक्ययोः । चरणेऽपि मतं क्लीवं किरणे तु पुमानसौ ॥ ११७५ ॥ पद्धतिर्वर्त्मनि श्रेण्यां ग्रन्थे ग्रन्थार्थबोधके । पद्मं स्यात् कमले व्यूहे पद्मकाष्ठौषधौ निधौ ॥ ११७६ ॥ पद्मके सीसके संख्याभेद-पुष्करमूलयोः । पद्मो दाशरथौ नागविशेष-बलदेवयोः ॥ ११७७ ॥ पद्मोत्तरात्मजे स्त्रीणां रतिबन्धान्तरे पुमान् । पद्मकं पद्मकाष्ठे स्याद् बिन्दुजालक-कुष्ठ्ययोः ॥ ११७८ ॥ ;p{0210} पद्मनाभो हृषीकेशे भावितीर्थङ्करान्तरे । पद्मप्रभः पद्मतुल्यप्रभायुक्ते जिनान्तरे ॥ ११७९ ॥ ब्रह्म-सूर्य-कुवेरेषु नृपतौ पद्मलाञ्छनः । इन्दिरायां सरस्वत्यां तारायां पद्मलाञ्छना ॥ ११८० ॥ पद्मा लक्ष्म्यां लवंगे च व्यतीतजिनमातरि । बृहद्रथसुता-पद्मचारिणी-पञ्जिकासु च ॥ ११८१ ॥ कुसुम्भपुष्पे मनसादेव्यामपि सतां मता । पद्यं कविकृतौ शाठ्ये पद्या मार्गे स्तुतावपि ॥ ११८२ ॥ पद्मिनी हस्तिनी-पद्म-मृणालेषु सरोवरे । स्त्रीविशेषे पद्मयुक्तदेश-पद्मसमूहयोः ॥ ११८३ ॥ पन्नगो भुजगे पद्मकाष्ठ-भेषजभेदयोः । पपीः स्याच्चन्दिरे सूर्ये पयः सलिल-दुग्धयोः ॥ ११८४ ॥ ;p{0211} पयस्विनी नदी-क्षीरविदारी-धेनु-रात्रिषु । जीवन्ती-क्षीरकाकोली-दुग्धफेनीषु कीर्तिता ॥ ११८५ ॥ पयोधरः स्तने मेघे नारिकेले कशेरुणि । परं स्यात्केवले मोक्षे परो ब्रह्मायु-वैरिणोः ॥ ११८६ ॥ परस्त्रिषूत्तरे श्रेष्ठे शत्रावितरदूतयोः । परञ्जस्तैलयन्त्रे स्यात् क्षुरिकाफल-फेनयोः ॥ ११८७ ॥ परभागो गुणोत्कर्षे शेषांशे च सुसम्पदि । आद्ये प्रधान उत्कृष्टेऽग्रसरे परमस्त्रिषु ॥ ११८८ ॥ नारायणे शिवे तीर्थंकरे च परमेश्वरः । परमेष्ठी जिने ब्रह्म-शालग्रामविशेषयोः ॥ ११८९ ॥ परम्परः प्रपौत्रादौ प्रपोत्रतनये मृगे । परम्परा स्त्री सन्ताने परिपाट्यां वधेऽपि च ॥ ११९० ॥ ;p{0212} परक्षेत्रं त्वन्यदेहे परभूमौ परस्त्रियाम् । पराकः क्षुद्र-निस्त्रिंश-रोग-जन्तु-व्रतेषु च ॥ ११९१ ॥ पराक्रमः समुद्योगे निष्क्रान्तौ विक्रमे बले । परागश्चन्दने रेणौ पुष्परेणू-परागयोः ॥ ११९२ ॥ स्वच्छन्दगमने ख्याति-स्नानीयद्रव्ययोर्गिरौ । आश्रये तत्परेऽभीष्ट आसंगे च परायणा ॥ ११९३ ॥ परिवारे समारम्भे विवेक-सहकारिणोः । प्रगाढ गात्रिकाबन्धे मञ्चे परिकरश्चये ॥ ११९४ ॥ परिकर्माऽङ्गसंस्कारे क्लीवं स्यात् सेवके पुमान् । विस्मृते वेष्टिते ज्ञाते प्राप्ते परिगतस्त्रिषु ॥ ११९५ ॥ परिग्रहः परिजने राहुवक्त्रस्थभास्करे । स्वीकारे शपथे कन्दे सैन्यपृष्ठे स्त्रियामपि ॥ ११९६ ॥ ;p{0213} परिघो मुद्गरे शूले गोपुरे कलशेऽर्गले । लोहसम्बद्धलगुडे योगे काचघटे गृहे ॥ ११९७ ॥ परिघोषस्तु शब्दे स्यात् अवाच्ये मेघगर्जिते । संस्तवे स्यात् परिचयः समन्ताच्चयने स्मृतः ॥ ११९८ ॥ परिच्छिन्नोऽवधिप्राप्ते परिच्छेदयुते त्रिषु । परिच्छेदोऽवधौ ग्रन्थाविच्छेदे कृतिनिश्चये ॥ ११९९ ॥ परिवारे परिजनः समीपस्थितसेवके । तिर्यग् दन्तप्रहारेभे पक्वे परिणतं त्रिषु ॥ १२०० ॥ परिणामस्तु चरमे विकारेपि मतः पुमान् । परितापो भये कम्पे नरकान्तर-दुःखयोः ॥ १२०१ ॥ अत्युष्णतायां शोके च परित्राणन्तु रक्षणे । परिधायः परिच्छेदे जनस्थान-नितम्बयोः ॥ १२०२ ॥ ;p{0214} परिधिस्तु पुमान् सूर्यचन्दिरासन्नमण्डले । यज्ञीयद्रुमशाखायां स्याद् भूगोलादिवेष्टने ॥ १२०३ ॥ नैपुण्ये परिपक्वत्वे परिपाकः प्रकीर्तितः । परिबर्हो राजयोग्यवस्तुजाते परिच्छदे ॥ १२०४ ॥ आलापे नियमे निन्दादुर्वादे परिभाषणम् । परित्राणे मलत्यागे परिमोक्षो बुधैः स्मृतः ॥ १२०५ ॥ मारणे च परित्यागे परिवर्जनमीरितम् । परिवर्तो विनिमये कूर्मराजेऽपवर्तने ॥ १२०६ ॥ युगान्ते ग्रन्थविच्छेदे मृत्युपौत्रान्तरेऽपि च । परिवादोऽपवादे स्यात् वीणावादनवस्तुनि ॥ १२०७ ॥ परिवापो जलस्थाने मुण्डने च परिच्छदे । परिवारः परिजने खड्गकोषे परिच्छदे ॥ १२०८ ॥ ;p{0215} अग्न्याधाने परिज्ञाने विवाहे परिवेदनम् । परिवेषः परिवृतौ परिधौ परिवेषणे ॥ १२०९ ॥ परिष्कारस्त्वलंकारे शुद्धि-संस्कारयोरपि । भूषिताऽऽहितसंस्कार-वेष्टितेषु परिष्कृतः ॥ १२१० ॥ पर्यन्तभूमौ मृत्यौ च विधौ परिसरो मतः । परिसर्याऽन्तसरणे सर्वतोगमने स्त्रियाम् ॥ १२११ ॥ परिस्पन्दः परिकरे रचना-परिवारयोः । परीवाहो जलोच्छ्वासे राजयोग्ये च वस्तुनि ॥ १२१२ ॥ परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणे स्त्रियाम् । परुः समुद्रे स्वर्लोके ग्रन्थि-पर्वतयोरपि ॥ १२१३ ॥ परुषं निष्ठुरे वाक्ये नीलझिण्ट्यां परूषके । परुषं त्रिषु रूक्षे स्याद् निष्ठुरोक्तौ च कर्बुरे ॥ १२१४ ॥ ;p{0216} मृते त्रिषु परेतः स्यात् भूतभेदे त्वसौ पुमान् । परैधितः पिके पुंसि परसंवर्धिते त्रिषु ॥ १२१५ ॥ पर्जन्यो वासवे मेघे स्तनिते ध्वनदम्बुदे । स्त्री स्याद् दारुहरिद्रायां पर्णं ताम्बूलपत्रयोः ॥ १२१६ ॥ पर्णसिः कमले शाके भूषणे जलसद्मनि । पर्दः केशचयेऽपानवायूत्सर्गेऽपि कीर्तितः ॥ १२१७ ॥ पर्पं गृहे खञ्जवाह्यशकटेऽभिनवे तृणे । पर्पटः पुंसि तृष्णारिवृक्ष-पिष्टकभेदयोः ॥ १२१८ ॥ पर्पटी जतुकृष्णायां सौराष्ट्रमृदि पिष्टके । पर्परीकः सहस्रांशौ पावके च जलाशये ॥ १२१९ ॥ पर्याप्तं वारणे तृप्तौ प्राप्तौ शक्ति-यथेष्ट्योः । पर्याप्तिः स्यात् स्त्रियां प्राप्तौ परित्राण-प्रकाशयोः ॥ १२२० ॥ ;p{0217} पर्यायोऽवसरे द्रव्यधर्म-निर्माणयोः क्रमे । प्रकार-सम्पर्कभिदोः पर्यासः पतने हतौ ॥ १२२१ ॥ पर्व क्लीवं क्षणे ग्रन्थौ प्रकारे लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ ग्रन्थविच्छेद ईरितम् ॥ १२२२ ॥ पर्वतोऽद्रौ तरौ मीने शाक-देवर्षि-भेदयोः । आकाशमांस्यां गायत्र्यां काल्यां पर्वतवासिनी ॥ १२२३ ॥ शरभे शैलवास्तव्ये पर्वताश्रय ईरितः । पर्वरीणोऽनिले गर्वे पर्णवृन्तरसे स्मृतः ॥ १२२४ ॥ पत्रचूर्णरसे द्यूतकम्बले मृतकेऽपि च । पलं विघटिकायां स्यात् साष्टरक्तिद्विमाषके ॥ १२२५ ॥ तोलकत्रितये मांसे चतुष्कर्ष-पलालयोः । मुण्डीरी-मक्षिका-लाक्षा-क्षुद्रगोक्षुरकेषु च ॥ १२२६ ॥ ;p{0218} किंशुके गुग्गुली-रास्नाद्रुमे स्त्री स्यात्पलंकषा । पललं तिलचूर्णे स्यात् सैक्षवे पङ्क-मांसयोः ॥ १२२७ ॥ पलाशः किंशुके शट्यां हरिते मगधेऽसुरे । क्लीवं पत्रे त्रिलिंगस्तु हरिद्वर्णयुतेऽदये ॥ १२२८ ॥ पलाशी क्षीरिवृक्षे स्यात् वृक्ष-राक्षसयोः पुमान् । पलाशी सुरपर्ण्यां स्याल्लाक्षायां स्त्री प्रकीर्तिता ॥ १२२९ ॥ पलिघः काचकलशे प्राकारे गोपुरे घटे । पलितं कर्दमे तापे केशपाशे च शैलजे ॥ १२३० ॥ केशादिशौक्ल्ये जरसा वृद्धयोः पलितो द्वयोः । पल्लवोऽस्त्री किसलये शृङ्गारे विस्तरे बले ॥ १२३१ ॥ विटपे नवपत्रादियुक्तशाखाग्रपर्वणि । अलक्तरागे वलये चापलेऽपि प्रकीर्तितः ॥ १२३२ ॥ ;p{0219} वेश्यापतौ मत्स्यभेदे पुमान् पल्लवको मतः । विस्तृते पल्लवाढ्ये च त्रिषु पल्लवितः स्मृतः ॥ १२३३ ॥ पल्ली स्त्री गृहगोधायां कुटी-नगरभेदयोः । स्थाने ग्रामटिकायां च गृह-ग्रामे कुटीचये ॥ १२३४ ॥ आपाके प्रयते नीरे पावने पवनं मतम् । पवनो मारुते राजमाषे पावयितर्यपि ॥ १२३५ ॥ पवमानो गार्हपत्यवह्नि-मारुतयोः स्मृतः । पवितस्त्रिषु पूते स्यात् क्लीवन्तु मरिचे मतम् ॥ १२३६ ॥ पवित्रं वर्षणे ताम्रे कुशे पयसि घर्षणे । मधुन्यर्घोपकरणे घृत-यज्ञोपवीतयोः ॥ १२३७ ॥ पवित्रः प्रयते शुद्धद्रव्ये त्रिषु प्रकीर्तितः । पुमांस्तु तिलवृक्षेऽसौ पुत्रजीवितरावपि ॥ १२३८ ॥ पवित्रको दमनकेऽश्वत्थे कुश उदुम्बरे । पवित्रकन्तु जाले स्याच्छणसूत्रेऽपि कीर्तितम् ॥ १२३९ ॥ ;p{0220} पवित्रा स्याद् हरिद्रायां तुलस्यां सरिदन्तरे । पशुः स्यात् प्रथमे देवे यज्ञोडुम्बर-यज्ञयोः ॥ १२४० ॥ सिंहादिजन्तौ छगले प्राणिमात्रेऽपि कीर्तितः । पक्षः सहाये मासार्धे चुल्लीरन्ध्रे विहङ्गमे ॥ १२४१ ॥ वर्गे विरोधे वलये देहाङ्गे राजकुञ्जरे । पिच्छे साध्ये बले पार्श्वे पतत्र-शरपक्षयोः ॥ १२४२ ॥ सख्यौ गृहे ग्रहे शुद्धे कल्पे केशात् परश्चये । पक्षकः पार्श्वमात्रे स्यात् पक्षद्वार-सहाययोः ॥ १२४३ ॥ पक्षतिः स्त्री पक्षिपक्षमूले च प्रतिपत्तिथौ । अन्याय्यसाहाय्यकृतौ पक्षपातः खगज्वरे ॥ १२४४ ॥ अमायां पौर्णमास्यां च पक्षान्तः कीर्तितो बुधैः । पक्षिणी शाकिनीभेदे पूर्णिमायां खगस्त्रियाम् ॥ १२४५ ॥ ;p{0221} आगामिवर्तमानाहर्युक्तायां रजनावपि । पक्ष्म क्लीवं नेत्रलोम्नि किञ्जल्क-खगपक्षयोः ॥ १२४६ ॥ सूत्रादेः स्वल्पभागेऽपि पांशवो लवणान्तरे । पांशुर्ना पर्पटे धूलौ चिरसंचितगोमये ॥ १२४७ ॥ दोषे कर्पूरभेदेऽथ पांशुरौ खञ्ज-दंशकौ । वर्द्धापके प्रशंसायां पिष्टाते धूलिगुच्छके ॥ १२४८ ॥ दूर्वाञ्चिततटीभूमौ पुरोटौ पांशुचामरः । पांशुलः पुंश्चले शम्भुखट्वाङ्गे-कलिमारके ॥ १२४९ ॥ हरे पापिन्यसौ पुंसि पांशुयुक्ते त्वयं त्रिषु । पांशुला केतकी-भूमि-पुष्पिणी-कुलटासु च ॥ १२५० ॥ पाकः परिणते दैत्ये रन्धने पेचके शिशौ । स्थाल्यादौ साध्वसे भंगे राष्ट्रादौ पानकर्तरि ॥ १२५१ ॥ ;p{0222} जरसा केशशौक्ल्येऽथ पाकलं कुष्ठभेषजे । पाकलो बोधनद्रव्ये पावके कुञ्जरज्वरे ॥ १२५२ ॥ मारुतेऽपि त्रिलिंगस्तु व्रणादेः पाककर्तरि । पाकलिः स्त्री वृक्षभेदे कर्कट्यां पाकली मता ॥ १२५३ ॥ पाक्यः पुमान् यवक्षारे क्लीवं विड्लवणोषयोः । पाचकः सूपकारेऽग्नौ पित्तभेदेषु पाचकम् ॥ १२५४ ॥ प्रायश्चित्ते पाचनं स्यात् त्रिषु पाचयितर्यसौ । पाचनोऽम्लरसे वह्नौ रक्तैरण्डे च टङ्कणौ ॥ १२५५ ॥ पाचनी स्याद् हरिद्रायां पाचलं पाचने मतम् । पाचलो रन्धनद्रव्ये पाचके मारुतेऽनले ॥ १२५६ ॥ पाञ्चजन्यो विष्णुशङ्खे जातवेदस्यपि स्मृतः । पांचालं नद्वयोः शास्त्रे त्रिषु पंचालदेशजे ॥ १२५७ ॥ ;p{0223} पांचाली शालभञ्ज्यां स्याद् द्रौपद्यामपि कीर्तिता । पाटकः स्यान्महाकिष्कौ वाद्य-ग्रामैकदेशयोः ॥ १२५८ ॥ अक्षादिचालने मूलद्रव्यापचय-रोधयोः । पाटलः स्यादाशुधान्य-श्वेतलोहितवर्णयोः ॥ १२५९ ॥ दुर्गायां कृष्णवृन्तायां रक्तलोध्रे च पाटला । आरोग्ये पटुतायां च पाटवं क्लीवमीरितम् ॥ १२६० ॥ धूर्ते पटौ पाटविकः पाटी वाट्यालके क्रमे । पाठीनः पाठके मत्स्यविशेषे गुग्गुलद्रुमे ॥ १२६१ ॥ कुलिकद्रौ करे पाणिः पाणिघः पाणिवादके । गैरिके कुन्दपुष्पे च पाण्डरं क्लीवमीरितम् ॥ १२६२ ॥ पुमान् मरुबके शुक्लवर्णे तद्वति तु त्रिषु । पाण्डुर्नृपान्तरे रोगे पटोले श्वेतकुञ्जरे ॥ १२६३ ॥ ;p{0224} वर्णे च पीतभागार्द्धे केतकीधूलिसन्निभे । सितवर्णे नागभेदे स्यात्पाण्डुरफलीक्षुपे ॥ १२६४ ॥ पाण्डुः स्त्री माषपर्ण्यां स्यात् पाण्डुवर्णस्त्रियामपि । श्वेतप्रावार-दृषदोः कम्बले पाण्डुकम्बलः ॥ १२६५ ॥ पातो विधुन्तुदे त्राते पतने पातकं त्वघे । पातालं नागलोके स्याद् विवरे वडवानले ॥ १२६६ ॥ लग्नाच्चतुर्थस्थाने व जायुपाकार्थयन्त्रके । पातालनिलयो दैत्ये सर्पे पातालवासिनि ॥ १२६७ ॥ पातिली स्त्री वागुरायां नारी-मृत्पात्रभेदयोः । पातुकः पतयालौ स्यात् प्रयाते जलहस्तिनि ॥ १२६८ ॥ पात्रं मापकमाने स्यात् स्रुवादौ राजमन्त्रिणि । तीरद्वयान्तरे पर्णे योग्ये नाट्यानुकर्तरि ॥ १२६९ ॥ भाजने पात्रटीरस्तु युक्तव्यापारमंत्रिणि । कांस्यपात्रे लौहपात्रे कङ्के राजतभाजने ॥ १२७० ॥ ;p{0225} सिंहाणे वायसे वह्नौ पिङ्गाशेऽपि प्रकीर्तितः । पाथोऽनले सहस्रांसौ पाथन्तु सलिले मतम् ॥ १२७१ ॥ पाथेयं शम्बले कन्याराशौ पाथोजमम्बुजे । पादः श्लोकचतुर्थांशे शैलप्रत्यन्तपर्वते ॥ १२७२ ॥ चतुर्थभागे चरणे किरण-द्रुममूलयोः । पारी स्त्रियां पानपात्रे परागे जलसंचये ॥ १२७३ ॥ दोहपात्रे प्रवाहे च कर्कर्यां करिशृंखले । पार्श्वो जिनविशेषे त्रिष्वन्तिकेऽथास्त्रियामसौ ॥ १२७४ ॥ पार्श्वास्थिसंघे कक्षाऽधोभागे पर्शुगणे तथा । पार्ष्णिः स्त्रियामुन्मदस्त्रीकुन्ती स्त्रीपुंसयोस्त्वसौ ॥ १२७५ ॥ पादग्रन्थ्यधरः पृष्ठे सैन्यपृष्ठे जयस्पृहा । पाशीना वरुणे व्याधे यमे पाशधरे त्रिषु ॥ १२७६ ॥ ;p{0226} पाक्षिकः स्यात् पक्षभवे पक्षपातिनि च त्रिषु । पक्षाघातान्विते पक्षसंयुते पक्षिघातके ॥ १२७७ ॥ पिङ्गलो नागभेदे स्यात् ना रुद्रेऽग्नौ कपिले कपौ । निधिभेदे स्थावराख्यविषभेदर्षिभेदयोः ॥ १२७८ ॥ क्षुद्रोलूके वर्षभेदे पिशङ्गे तद्वति त्रिषु । नाडीभेदे पक्षिभेदे बलाकायामसौ त्रिषु ॥ १२७९ ॥ शिंशया-कर्णिका-राजरीति-वेश्याभिदासु च । पिच्छा छटायां मोचायां चोलिका-फणिलालयोः ॥ १२८० ॥ भक्तमण्डे तथा पूगे पङ्क्तावश्वपदामये । शाल्मलीवेष्टने कोषे चामरे शिंशपातरौ ॥ १२८१ ॥ ;p{0227} पिञ्जरं हरिताले स्यात् सुवर्णे नागकेशरे । पक्ष्यादिबन्धनागारे शरीरास्थिकदम्बके ॥ १२८२ ॥ अश्वभेदे वर्णभेदे पुंसि तद्वत्यसौ त्रिषु । पिण्डो बोले बले सान्द्रे निवापे गोल-देशयोः ॥ १२८३ ॥ सिल्हके स्यात् जपापुष्पे वृन्दे मदनपादपे । गेहैकदेशे कवले देहमात्रे भ-कुम्भयोः ॥ १२८४ ॥ पिशाचे पुंसि पिण्डालुः पिण्डमूले तु न द्वयोः । पीयूषममृते दुग्धे नवदुग्धे तु पुंस्यपि ॥ १२८५ ॥ पुण्यं धर्मे व्रते सत्ये पावने शुद्धकर्मणि । सुगन्धौ सुन्दरे पूतात्मनि चोक्तं त्रिलिंगकम् ॥ १२८६ ॥ पुत्रकः शरभे धूर्ते शैल-पादपभेदयोः । पुराऽव्ययं चिरातीते भीरावासन्नभाविनि ॥ १२८७ ॥ पुलको गन्धर्वभेदे रोमाञ्चे पानभाजने । हरिताले रत्नदोषविशेषोपलभेदयोः ॥ १२८८ ॥ ;p{0228} पुष्करं कमले वाद्य भाण्डास्ये गगने जले । कोषे करिकराग्रे चौषधि-तीर्थविशेषयोः ॥ १२८९ ॥ पुष्करः सारसे नागभेदे नलसहोदरे । रोगद्वीपाद्रिभेदेषु जीमूते वरुणात्मजे ॥ १२९० ॥ करेणौ स्थलपद्मिन्यां खाते पुष्करिणी मता । सरोजिन्यां पुष्कराह्वतीर्थभू-कुष्ठमूलयोः ॥ १२९१ ॥ पुष्पकं मृत्तिकाऽङ्गारशकट्यां रत्नकङ्कणे । काशीसे श्रीदविमाने नेत्ररोगे रसाञ्जने ॥ १२९२ ॥ पुष्पदन्तस्तु दिङ्नागे जिनभेदे गणान्तरे । पुष्पः कलियुगे पौषमास-नक्षत्रभेदयोः ॥ १२९३ ॥ पूगः कण्टकिवृक्षे स्याद् गुवाके व्यूह-भावयोः । पूतना दानवीभेदे गन्धमांस्यां गदान्तरे ॥ १२९४ ॥ पूरणं पूरके पिण्डप्रभेदे वानतन्तुषु । पृथग्जनो भिन्नलोके मूर्खे नीचे च पापिनि ॥ १२९५ ॥ ;p{0229} पृदाकुर्भुगजे व्याघ्रे वृश्चिके कुञ्जरे तरौ । पेचको वायसारातौ पर्यङ्के मेघ-यूकयोः ॥ १२९६ ॥ पेशलः कोमले दक्षे धूर्त-सुन्दरयोस्त्रिषु । पोतो वस्त्रे गृहस्थाने दशवर्षीयहस्तिनि ॥ १२९७ ॥ पोत्रं शूकरवक्त्राग्रे लाङ्गलाग्र-वहित्रयोः । पौण्ड्र इक्षुप्रभेदे शंख-देशप्रभेदयोः ॥ १२९८ ॥ पौरुषं पुरुषस्योक्तौ भावे कर्मणि पौरुषे । पौरुषेयो वधे संघे पुरुषस्य पदान्तरे ॥ १२९९ ॥ प्रकाण्डो विटपे दण्डे शस्ते चोत्तरसंस्थिते । प्रकाशो अतिप्रसिद्धे स्यात् प्रहासे व्यक्त आतपे ॥ १३०० ॥ ;p{0230} विस्तारे चामरे ग्रन्थविच्छेदे च प्रकीर्णकम् । प्रकृतिः पञ्चभूतेषु प्रधाने पूलकारणे ॥ १३०१ ॥ प्रखरो हयसन्नाहे कुक्कुरेऽश्वतरे खरे । प्रघणस्ताम्रकुण्डे स्यात् प्रघाणे लौहमुद्गरे ॥ १३०२ ॥ प्रचालकः शराघाते भुजङ्गम-शिखण्डयोः । प्रजापतिर्महीपाले जामातरि दिवाकरे ॥ १३०३ ॥ पितरि त्वष्टरि ब्रह्म-दक्षादि-दहनेषु च । प्रज्ञानं लाञ्छने बुद्धौ पण्डिते तु त्रिषु स्मृतम् ॥ १३०४ ॥ प्रणयः प्रश्रये प्रेम्णि याञ्चा-निर्वाणयोरपि । प्रणाय्योऽसंमते साधावभिलाषविवर्जिते ॥ १३०५ ॥ प्रतापोऽर्कतरौ तापे कोषदण्डजतेजसि । प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ॥ १३०६ ॥ द्विजेभ्यो विधिवद्देये तद्ग्रह-ग्रहभेदयोः । प्रतिपद् द्रगडे वाद्ये धिषणा-तिथिभेदयोः ॥ १३०७ ॥ ;p{0231} प्रतिपन्नं तु विक्रान्तेऽङ्गीकृतेऽवगते त्रिषु । प्रतिपक्षस्तु सादृश्ये विपक्षे प्रतिवादिनि ॥ १३०८ ॥ बोधने प्रतिपत्तौ च दानेऽपि प्रतिपादनम् । प्रतिभा तु मतौ दीप्ति-प्रत्युत्पन्नमतित्वयोः ॥ १३०९ ॥ प्रतिमा गजदन्तस्य बन्धे प्रतिकृतावपि । प्रतियत्नो निग्रहादौ संस्कारे च प्रतिग्रहे ॥ १३१० ॥ प्रतिष्कसः सहाये स्याद् वार्ताहर-पुरोगयोः । प्रतिष्ठा गौरवे स्थाने पद्य-संस्कारभेदयोः ॥ १३११ ॥ प्रातःकाले चमूपृष्ठे माल्ये प्रतिसरः पुमान् । अस्त्रियां मण्डलाऽऽरक्ष-हस्तसूत्रेषु कीर्तितः ॥ १३१२ ॥ त्रिषु प्रतिहतौ द्विष्टे प्रतिस्खलित-रुद्धयोः । प्रतीकारश्चिकित्सायां वैरनिर्यातनेऽपि च ॥ १३१३ ॥ प्रतीतस्त्रिषु विख्याते सादरे ज्ञात-हृष्टयोः । प्रतीहारो द्वारपाले द्वार-सन्धिविशेषयोः ॥ १३१४ ॥ ;p{0232} प्रत्यक् पश्चिमदिक्देश-कालेष्वव्ययमीरितम् । प्रत्ययः शपथेऽधीने ज्ञानविश्वासहेतुषु ॥ १३१५ ॥ प्रत्यूषो भास्करे कल्ये वसुभेदेऽपि कीर्तितः । प्रधानं प्रकृतौ बुद्धौ प्रशस्ते परमात्मनि ॥ १३१६ ॥ प्रबुद्धस्त्रिषु संफुल्ले पण्डिते जागृतेऽपि च । प्रभवो मुनिभेदे स्याद् जन्महेतौ पराक्रमे ॥ १३१७ ॥ प्रभुर्नारायणे शब्दे जिन-पारदयोरपि । प्रमाणं नित्य-मर्यादा-शास्त्र-हेतु-प्रमातृषु ॥ १३१८ ॥ प्रमुखः प्रथमे मान्ये समवाय-प्रधानयोः । प्रयागस्तुरगे शक्रे यज्ञ-तीर्थविशेषयोः ॥ १३१९ ॥ प्रलम्बस्त्रपुषे दैत्ये हारभेदे प्रलम्बने । प्रवणः प्रगुणे प्रह्वे क्षीणे स्निग्धे प्लुते क्षणे ॥ १३२० ॥ ;p{0233} प्रसादोनुग्रहे स्वास्थ्ये प्रसन्नत्वे गुणान्तरे । प्रस्तावः स्यात् प्रकरणे प्रसंगेऽवसरे पुमान् ॥ १३२१ ॥ प्राप्तिः स्त्री प्रापणे भूतौ लाभेऽभ्युदय-संघयोः । प्रामाणिकस्तु शास्त्रज्ञे मर्यादार्हे च हैतुके ॥ १३२२ ॥ प्रायोऽनशनमृत्यौ स्यान्मृत्यौ बाहुल्य-तुल्ययोः । प्रार्थितो याचिते शत्रुसंरुद्धेऽभिहिते हते ॥ १३२३ ॥ प्रियो मृगान्तरे पत्यौ हृद्ये च जीवकौषधे । प्रियंवदस्तु गन्धर्वे खेचरे प्रियभाषिणि ॥ १३२४ ॥ प्रिया नार्यां मल्लिकायां वार्तायां मदिरैलयोः । प्रेङ्खा स्त्रियां स्याद् दोलायां नृत्ये संवेशनान्तरे ॥ १३२५ ॥ प्रेतो मृते नारकीयप्राणि-भूतप्रभेदयोः । प्रेक्षा नृत्यक्षणे बुद्धौ शाखायामीक्षणेऽपि च ॥ १३२६ ॥ ;p{0234} प्रोथः कट्यामश्वमुखे स्त्रीगर्भे भीषणे स्फिचि । प्लवः प्रतिगतौ भेके कपौ प्लवन-भेलयोः ॥ १३२७ ॥ अवौ जलान्तरे शत्रौ श्वपचे जलवायसे । प्लवगो वानरे भेके शिरीषे सूर्यसारथौ ॥ १३२८ ॥ प्लक्षो द्वीपान्तरेऽश्वत्थे पक्षके पर्कटिद्रुमे । फटा फणायां कितवे कपटेऽपि स्त्रियां मता ॥ १३२९ ॥ फलं जातीफले लाभे शस्ये वाणाग्र आर्तवे । कक्कोले फलके व्युष्टौ दाने फाले फलत्रिके ॥ १३३० ॥ फलोदयः फलोत्पत्तौ हर्षे लाभे सुरालये । फालः शिवे प्रलम्बघ्ने कृषिके त्रिषु वाससि ॥ १३३१ ॥ फाल्गुनस्तु गुडाकेशे नदीजार्जुनपादपे । तपस्यसंज्ञमासे तत्पूर्णिमायान्तु फाल्गुनी ॥ १३३२ ॥ ;p{0235} फेरवो राक्षसे फेरौ त्रिलिंगो हिंस्र-धूर्तयोः । वडवा वाडवाग्नौ स्याद् घोटक्यां तारकान्तरे ॥ १३३३ ॥ शृगालकोलौ वदरं कार्पासफल-कोलयोः । वधूर्नार्यां स्नुहायां च शारिवौषधि-पृक्कयोः ॥ १३३४ ॥ उद्दामनि वधे रज्जौ हिंसायां बन्धनं स्मृतम् । बन्धुः सगोत्रे बन्धूके मित्रे भ्रातरि कीर्तितः ॥ १३३५ ॥ बन्धूको बन्धुजीवे स्यात् खधूपे तु नपुंसकम् । बन्धूर-बन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः ॥ १३३६ ॥ बभ्रुर्विशाले नकुले केशवे पावके शिवे । बरो जामातरि श्रेष्ठे देवतादेरभीप्सिते ॥ १३३७ ॥ बलं गन्धरसे रूपे स्थौल्ये सामर्थ्य-सैन्ययोः । बलः संकर्षणे काके दैत्ये वरुणपादपे ॥ १३३८ ॥ ;p{0236} बलजं नगरद्वारे केदारे शस्य-युद्धयोः । बलभद्रः प्रलम्बघ्ने शेषे गवय-लोध्रयोः ॥ १३३९ ॥ बलाहको गिरौ मेघे दैत्य-नागविशेषयोः । बलिर्दैत्ये भागधेये पूजोपकरणेऽपि च ॥ १३४० ॥ बली तालाङ्क-महिष-क्रमेलक-कफेषु च । बल्यं प्रधानधातौ स्याच्छुक्रे बलकरे त्रिषु ॥ १३४१ ॥ अनेके विपुले त्र्यादिसंख्यायां च बहु त्रिषु । बहुकः कर्कटे सूर्ये दात्यूहे जलखातके ॥ १३४२ ॥ बहुरूपः शिवे विष्णौ कन्दर्पे केश-सर्जयोः । वाणी व्यूतौ सरस्वत्यां वाक्येऽपि क्वचिदिष्यते ॥ १३४३ ॥ बान्धवः सुहृदि ज्ञातौ बालो मूर्खेऽर्भके त्रिषु । बालोऽश्वशावके केशे तुरंगकरिवालधौ ॥ १३४४ ॥ ;p{0237} बालकोऽज्ञे शिशौ केशे वलये चांगुरीयके । बाला नार्यां हरिद्रायामेलायां भूषणान्तरे ॥ १३४५ ॥ बालिका बालुका-कन्या-त्रुटिषु श्रुतिभूषणे । बालुका कर्कटी-यन्त्रप्रभेद-सिकतासु च ॥ १३४६ ॥ बालेयो गर्दभे दैत्यभेदे चाणक्यमूलके । बीभत्सो विकृतौ क्रूरे घृणात्मनि रसान्तरे ॥ १३४७ ॥ बुधो वृन्दारके सौम्ये विपश्चिति नृपान्तरे । बुध्नः शिवे वृक्षमूले बुबुधानः सुरे बुधे ॥ १३४८ ॥ विज्ञापने वेदने च बोधनं गन्धदीपने । ब्रध्नः सूर्ये शिवे वृक्षमूल-रोगविशेषयोः ॥ १३४९ ॥ ब्रह्म वेदे च तपसि तत्त्वे विप्रे विधौ पुमान् । ब्रह्मण्यः केशवे ब्रह्मदारुवृक्षे शनैश्चरे ॥ १३५० ॥ ;p{0238} ब्रह्मपुत्रः क्षेत्रभेदे नदभेदे विषान्तरे । ब्रह्मबन्धुरधिक्षेपे निर्देशे निन्दितद्विजे ॥ १३५१ ॥ ब्राह्म्यं दृश्ये विस्मये च ब्रह्मसम्बन्धिनि त्रिषु । भक्तिर्विभागे श्रद्धायां गौणवृत्तौ च सेवने ॥ १३५२ ॥ भगं यशसि सौभाग्ये वैराग्ये ज्ञान-वीर्ययोः । श्रियां स्त्रियां सूर्य-चन्द्र-यत्न-माहात्म्य-कान्तिषु ॥ १३५३ ॥ योनौ धर्मे च कैवल्ये स्पृहा नक्षत्रभेदयोः । भटो वीरे म्लेच्छभेदे पामरे रजनीचरे ॥ १३५४ ॥ नाट्योक्त्या नृपतौ देवे पूज्ये भट्टारको मतः । भद्रः शिवे खञ्जरीटे वृषभे च कदम्बके ॥ १३५५ ॥ ;p{0239} हस्तिजातिविशेषे च भद्रं तु मंगले स्मृतम् । भद्रा प्रसारिणी रास्ना-नीली-व्योमनदीषु च ॥ १३५६ ॥ वचाऽपराजिताऽनन्ता-काकोदुम्बरिकासु च । तिथिभेदे हरिद्रायां कट्फले सारिवान्तरे ॥ १३५७ ॥ बुद्धशक्त्यन्तरे दन्त्यां काश्मरी-श्वेतदूर्वयोः । भयानकस्तु शार्दूले रसभेदे विधुन्तुदे ॥ १३५८ ॥ भरण्यं वेतने मूल्ये भरणं पोषणे भृतौ । भरतः शवरे क्षेत्रे दौष्मन्ति-मुनिभेदयोः ॥ १३५९ ॥ रामानुजे नाट्यशास्त्रे तन्तुवायेऽपि कीर्तितः । भर्म नाभौ च धुस्तूरे काञ्चने वेतनेऽद्वयोः ॥ १३६० ॥ भवो जन्मनि संसारे क्षेमे प्राप्तौ महेश्वरे । भव्यं त्रिषु शुभे योग्ये सत्ये भाविनि चेष्यते ॥ १३६१ ॥ ;p{0240} कर्मरङ्गतरौ पुंसि रसभेदेऽस्त्रियामसौ । भव्या स्याद् गजपिप्पल्यां दुर्गायां रम्यवस्तुनि ॥ १३६२ ॥ भसत् स्त्री भास्करे योनौ काले कारण्डवे प्लवे । भस्मकं कलधौते स्यात् रोगभेद-विडङ्गयोः ॥ १३६३ ॥ भस्मतूलं ग्रामकूटे तुषारे पांशुवर्षणे । भागो रूप्यार्धके भाग्ये राशेस्त्रिंशांशकेऽशके ॥ १३६४ ॥ भाग्ये क्लीवं भागधेयं दायादकरयोः पुमान् । योग्य आढकमाने च पात्रे भाजनमीरितम् ॥ १३६५ ॥ भाण्डं पात्रे भाण्डवृत्तौ वणिङ्मूलधने मतम् । भानुर्दिवाकरे रश्मौ वृत्तार्हज्जनके प्रभौ ॥ १३६६ ॥ भामः क्रोधे सहस्रांशौ दीप्तौ च भगिनीपतौ । भारती वाचि वृत्तौ च सरस्वत्यां खगान्तरे ॥ १३६७ ॥ ;p{0241} भारद्वाजः कुजेऽगस्त्ये द्रोणाचार्ये गुरोःसुते । भार्गवः कुञ्जरे पर्शुराम-देशविशेषयोः ॥ १३६८ ॥ भार्गवी पार्वती-लक्ष्मी-श्वेतदूर्वासु कीर्तिता । भालाङ्को रोहिते मीने शाकभित्करपत्रयोः ॥ १३६९ ॥ महालक्षणसम्पन्न-पुरुषे कच्छपे हरे । भावः स्वभावेऽभिप्राये पदार्थेऽभिनयान्तरे ॥ १३७० ॥ बुधे विभूतौ चेष्टायां सत्तायां योनि-लीलयोः । क्रियायां जनने जन्तौ रत्यादिव्यभिचारिणि ॥ १३७१ ॥ भावाटो भावके साधौ निवेशे कामुके नटे । ध्यानेऽधिवासने पर्यालोचने भावना मता ॥ १३७२ ॥ ;p{0242} भावितो वासिते प्राप्ते चिन्तिते मिश्रिते त्रिषु । भासो दीप्तौ शकुन्ते च कुक्कुटे गृध्र-गोष्ठ्ययोः ॥ १३७३ ॥ भासन्तः चन्दिरे सूर्ये नक्षत्रे भासपक्षिणि । भास्करेऽहस्करे वह्नौ भास्कराचार्य-वीरयोः ॥ १३७४ ॥ भासुरो दिवसे सूर्ये दीप्तियुक्ते त्वसौ त्रिषु । भास्वान् सूर्येऽर्कवृक्षे च वीरे दीप्तियुते त्रिषु ॥ १३७५ ॥ भित्तिः कुड्ये प्रदेश-संविभागा-ऽवकाशयोः । भिदुरं कुलिशे क्लीवं प्लक्षवृक्षे त्वसौ पुमान् ॥ १३७६ ॥ भिन्नो विदारिते फुल्ले संगते-तरयोस्त्रिषु । भिक्षा भृतौ च सेवायां याञ्चा-भिक्षितवस्तुनि ॥ १३७७ ॥ भिक्षुर्जैनमुनौ बुद्धप्रभेद-कोकिलाक्षयोः । भीमो भयानकरसे शिवे मध्यमपाण्डवे ॥ १३७८ ॥ ;p{0243} भीरुः स्त्री भयशीलायां स्त्रियां सामान्ययोषिति । शतावरी-कण्टकारी-छायाऽजासु प्रकीर्तिता ॥ १३७९ ॥ पुमान् शृगाले शार्दूले भयशीले त्वसौ त्रिषु । भीरुकः कातरे घूके काननेक्षुविशेषयोः ॥ १३८० ॥ शिवे कपोते हिन्ताले शल्लक्यां भीषणे रसे । भीष्मो भयानकरसे गाङ्गेये राक्षसे शिवे ॥ १३८१ ॥ भुक्तिः स्त्री भोजने भोगे भुजङ्गः षिङ्ग-सर्पयोः । भुजिष्यो हस्तसूत्रे स्याद् रोगे दास-स्वतन्त्रयोः ॥ १३८२ ॥ भुवनं सलिले व्योम्नि जन-विष्टपयोरपि । भुवन्युस्तु सहस्रांशौ वह्नौ चन्द्रमसि प्रभौ ॥ १३८३ ॥ भूः स्त्रियां पृथिवी-स्थानमात्र-यज्ञाग्निषु स्मृता । भूकाकः स्वल्पकङ्के स्यात् क्रौञ्च-नीलकपोतयोः ॥ १३८४ ॥ ;p{0244} भूतं क्ष्मादौ पिशाचादौ न्याये सत्ये नपुंसकम् । त्रिषु प्राणिन्यतीते च सदृशे चोत्तरस्थिते ॥ १३८५ ॥ भूतघ्नो लशुने भूर्जपादपे च क्रमेलके । भूतात्मा शंकरे विष्णौ शरीरे परमेष्ठिनि ॥ १३८६ ॥ भूतिर्भस्मनि सम्पत्तौ वृद्धिनामौषधे स्त्रियाम् । भूतिकं कत्फले प्रोक्तं यमानी-घनसारयोः ॥ १३८७ ॥ भूमिः क्षितौ स्थानमात्रे जिह्वायामपि कीर्तिता । भूमिका रचनायां स्याद् वेशान्तरपरिग्रहे ॥ १३८८ ॥ भूरिर्विष्णौ शिवे शक्रे ब्रह्मणि प्रचुरे त्रिषु । भृगुर्मुनिविशेषे स्यात् सानौ शुक्रग्रहे शिवे ॥ १३८९ ॥ भृङ्गः कलिंगविहगे भृङ्गारे भ्रमरे विटे । भृतिः स्त्री वेतने मूल्ये भरणेऽपि निगद्यते ॥ १३९० ॥ ;p{0245} भृशं त्वतिशये क्लीवं प्रकर्षे शोभनेऽव्ययम् । भेदो विदारणे द्वैधे उपजाप-विशेषयोः ॥ १३९१ ॥ भोगः सुखे भाटके च भुजंगफण-देहयोः । भोगवान् भुजगे नाट्ये गाने भोगयुते त्रिषु ॥ १३९२ ॥ भोगी सर्पे ग्रामपात्रे वैयावृत्तिकरे नृपे । भोग्यं धान्ये धने क्लीवं भागयोग्ये त्वसौ त्रिषु ॥ १३९३ ॥ भ्रामको जम्बुके धूर्ते सूर्यावर्ते शिलान्तरे । भ्रूणो गर्भेऽर्भके भ्रेषो गतौ भ्रंशे यथोचितम् ॥ १३९४ ॥ मकरन्दः पुष्परसे किंजल्के कुन्दपादपे । कुलालदण्डे वकुले दर्पणे मुकुरः स्मृतः ॥ १३९५ ॥ मंगला पार्वती-शुक्लदूर्वा-साध्वीषु कीर्तिता । मंगले कुशले क्लीवं मंगलोऽङ्गारके पुमान् ॥ १३९६ ॥ मंगल्यं चन्दने दध्नि स्वर्ण-सिन्दूरयोरपि । मज्जाऽस्थिसारे वृक्षादेरुत्तमस्थिरभागके ॥ १३९७ ॥ ;p{0246} कर्णवंशे च खट्वायां मञ्चः स्यादुच्चमण्डपे । मञ्जरी तुलसी-मुक्ता-लता-वल्लरीषु स्मृता ॥ १३९८ ॥ मठश्छात्रादिनिलये देवतायतनेऽपि सः । मणिः स्त्रीपुंसयोरश्मजातौ मुक्तादिकेऽपि च ॥ १३९९ ॥ विद्रुमेऽलिञ्जरे नागविशेष-मणिबन्धयोः । मणिमाला स्त्रियां लक्ष्म्यां दीप्तौ हारे रदक्षते ॥ १४०० ॥ मण्डो मस्तुनि भूषायामेरण्डे सार-पिच्छयोः । शाकभेदे भक्तरसे दर्दुरेऽपि पुमान् स्मृतः ॥ १४०१ ॥ देवादिदत्तभवने मण्डपोऽस्त्री जनाश्रये । मण्डलं परिधौ चक्रवाले द्वादशराजके ॥ १४०२ ॥ कोठरोगे जनपदे गोले बिम्बे त्वसौ त्रिषु । अथ मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ १४०३ ॥ ;p{0247} मण्डली जाहके सर्पे मार्जारे वटपादपे । मण्डूकः शोणके भेके मुनि-बन्धविशेषयोः ॥ १४०४ ॥ मण्डूकी भेकभार्यायां ब्राह्मी-धृष्टस्त्रियोरपि । मतिर्बुद्धौ शाकभेदे स्पृहायां स्मरणे स्त्रियाम् ॥ १४०५ ॥ मत्तो लुलाये धुस्तूरे क्षरन्मदमतङ्गजे । कोकिले च पुमान् क्षीब-मत्तयोस्तु त्रिषु स्मृतः ॥ १४०६ ॥ प्रांगणावरणे पूगचूर्णे स्यान्मत्तवारणम् । मत्स्यो नारायणे मीने राशौ देश-पुराणयोः ॥ १४०७ ॥ मदो रेतसि कस्तूर्यां हस्तिगण्डजले नदे । मद्येऽभिमाने कल्याणवस्तु-मत्ततयोरपि ॥ १४०८ ॥ मदनः सिक्यके कामे वसन्ते पिचुकद्रुमे । धुस्तूरे खदिरे माषे श्वसने बकुलद्रुमे ॥ १४०९ ॥ ;p{0248} मदयित्नुः पुमान् कामे शौण्डिके मत्त-मेघयोः । मदारः कुञ्जरे धूर्ते कामुके शूकरे मृगे ॥ १४१० ॥ मदिरा मादकद्रव्यविशेषे मत्तखञ्जने । मधु मद्ये जले क्षीरे क्षौद्रे पुष्परसे स्मृतम् ॥ १४११ ॥ पुमान् मधुद्रुमे दैत्येऽशोके चैत्र-वसन्तयोः । मधुको वन्दिभेदे स्याद् यष्टयाह्वे विहगान्तरे ॥ १४१२ ॥ मधुरो जीरके शालौ गुडे मिष्ठरसे प्रिये । स्त्रियां मधुरसा द्राक्षा-गम्भारी-दुग्धिकासु च ॥ १४१३ ॥ मध्यं दशान्त्यसंख्यायां लयभेद-विरामयोः । अस्त्री शरीरमध्ये स्यात् त्रिषु न्याय्येऽन्तरेऽधमे ॥ १४१४ ॥ मन्तुः पुमान् मनुष्ये स्यादपराधे प्रजापतौ । मन्थो दिवाकरे मन्थदण्डके साक्तवे करे ॥ १४१५ ॥ ;p{0249} नेत्रामये नेत्रमले मारणे च विलोडने । मन्थरः सूचकेऽमर्षे मन्थाने मन्दगामिनि ॥ १४१६ ॥ मन्दोऽतीव्रे खले स्वल्पे रोगिणि स्वैर-मूर्खयोः । मन्दरो मन्थशैले स्यात् स्वर्गे मन्दारपादपे ॥ १४१७ ॥ मन्दारोऽर्कतरौ धूर्ते पारिभद्रतरौ शये । मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ १४१८ ॥ मन्मथः कामचिन्तायां कपित्थद्रुम-कामयोः । मन्युर्दैत्ये क्रतौ क्रोधे शोका-हंकारयोः पुमान् ॥ १४१९ ॥ मयूखः किरणे दीप्तौ ज्वालायां कील-शोभयोः । मरालः कज्जले राजहंसे कारण्डवे हये ॥ १४२० ॥ मरुर्दशेरके धन्वदेशे मरुवकद्रुमे । मरुतस्त्रिदशे वायौ घण्टापाटलिपादपे ॥ १४२१ ॥ ;p{0250} मरुद् वायौ मरुवके त्रिदश-ग्रन्थिपर्णयोः । अथ मर्कटकः शस्यभेदे वानर-लूतयोः ॥ १४२२ ॥ मर्कटी स्यादपामार्गे कपिकच्छू-करञ्जयोः । मर्करी स्त्री दरी-भाण्ड-सुरङ्गा-निष्कलासु च ॥ १४२३ ॥ संवाहने चूर्णने च मर्दनं क्लीवमीरितम् । मर्म क्लीवं स्वरूपे स्यात् संधिस्थान-सतत्त्वयोः ॥ १४२४ ॥ मलोऽस्त्री पाप-विट्-किट्ट-वात-पित्त-कफेषु च । मलयश्चन्दनगिरौ शैलांगे नन्दनवने ॥ १४२५ ॥ मलिनं दूषिते कृष्णे मलसंयुक्तवस्तुनि । मलिम्लुचोऽनले चौरे मलमासे प्रभञ्जने ॥ १४२६ ॥ मल्लः कपोले पात्रे च बलिष्ठे बाहुयोधिनि । मल्लिर्जिनान्तरे पुंसि मल्लिकायां त्वसौ स्त्रियाम् ॥ १४२७ ॥ ;p{0251} मल्लिका भूपदीपुष्पे मीन-मृत्पात्रभेदयोः । मसिः शेफालिकावृन्त-लेखनद्रव्ययोर्द्वयोः ॥ १४२८ ॥ महोऽध्वरे च महिषे तेज-उत्सवयोः पुमान् । महाधनं चारुवस्त्रे बहुमूल्ये च वस्तुनि ॥ १४२९ ॥ महानादो महाशब्दे वर्षुकाम्बुद-हस्तिनोः । महानीलो भृङ्गराजे मणिनाग-विशेषयोः ॥ १४३० ॥ महामुनिर्जिनेऽगस्त्ये व्यासे तुम्बुरुपादपे । महारसः पारदेक्षु-खर्जूरेषु कशेरुणि ॥ १४३१ ॥ महालयो विहारे स्यात् तीर्थे च परमात्मनि । महावीरस्तु गरुडे हनुमति मखानले ॥ १४३२ ॥ चतुर्विंशजिने सिंहे शूरे वज्रे धनुर्धरे । महाशङ्खो बृहत्कम्बौ निधिभेदे नरास्थनि ॥ १४३३ ॥ ;p{0252} महानुभावेऽकूपारे त्रिलिंगः स्यान्महाशयः । महासाहसिकः स्तेने बलपूर्वापहारके ॥ १४३४ ॥ महासेनः कार्तिकेये महासेनापतौ शिवे । मातंगः कुञ्जरेऽश्वत्थे श्वपचेऽर्हदुपासके ॥ १४३५ ॥ मात्रा परिच्छदे स्वल्पे वित्ते श्रवणभूषणे । अक्षरावयवे कालविशेष-परिमाणयोः ॥ १४३६ ॥ मादो दर्पे मत्ततायां प्रमोदेऽपि प्रकीर्तितः । वसन्ते कृष्णमुद्गे च वैशाखे माधवो हरौ ॥ १४३७ ॥ दुर्गायां पुण्ड्रके मद्ये कुट्टन्यां माधवी मता । मानसं सरसि स्वान्ते त्रिलिंगन्तु मनोभवे ॥ १४३८ ॥ माया कृपायां पद्मायां कपटे बुद्धमातरि । दुर्गायां विष्णुमायायां मायः पीताम्बरेऽसुरे ॥ १४३९ ॥ ;p{0253} मारोऽन्तराये कन्दर्पे धुस्तूरे मारणे मृतौ । मारुण्डः पथि सर्पाण्डे पुमान् गोमयमण्डले ॥ १४४० ॥ मार्गो मृगमदे मार्गशीर्षमासे गवेषणे । अध्वन्यपाने नक्षत्रे विष्टरश्रवसि स्मृतः ॥ १४४१ ॥ मार्तण्डः स्यात् सहसांशौ शूकरेऽर्कमहीरुहे । मालं क्षेत्रे च कपटे वन उन्नतभूतले ॥ १४४२ ॥ मालती जातिकुसुमे युवतीज्योत्स्नयोर्निशि । माला पंक्तौ पुष्पदाम्नि जपमालादिकेऽपि च ॥ १४४३ ॥ मालाकारे पक्षिभेदे रञ्जके मालिकः स्मृतः । मिहिरोऽर्कतरौ सूर्ये चन्द्रे मेघे च मारुते ॥ १४४४ ॥ मीनो राश्यन्तरे मत्स्ये मुकुन्दः केशवे निधौ । मुकुरो मल्लिकापुष्पवृक्षे बकुलपादपे ॥ १४४५ ॥ ;p{0254} कुलालदण्ड आदर्शे कोरके कुलपादपे । मुक्ताफलं स्यात् कर्पूरे मौक्तिके लवलीफले ॥ १४४६ ॥ मुखं प्रधाने प्रारम्भे वक्त्रे शब्दे च नाटके । उपाये सन्धिभेदे च वेदे निःसारणाऽऽद्ययोः ॥ १४४७ ॥ मुण्डो राहुग्रहे दैत्ये नापित-स्थाणुवृक्षयोः । अस्त्रियां मस्तके प्रोक्तस्त्रिषु मुण्डितमूर्द्धनि ॥ १४४८ ॥ मुद्रा प्रत्ययकारिण्यां रुप्यके सीसकाक्षरे । मुनिर्जिने वशिष्ठादौ पियाले किंशुकद्रुमे ॥ १४४९ ॥ मुष्कोऽण्डकोशे संघाते तस्करे मोक्षकद्रुमे । मुष्टिः पलवमाने स्यात् त्सरौ संपिण्डितांगुलौ ॥ १४५० ॥ ;p{0255} मुहूर्तमल्पकाले स्याद्घटिकाद्वितयेऽस्त्रियाम् । मूर्तिः स्वरूपे काठिन्ये प्रतिमान-शरीरयोः ॥ १४५१ ॥ मूलं ब्रध्ने मूलवित्ते निजे कुञ्ज-समीपयोः । मृगो मृगमदे राशौ मार्गशीर्ष-कुरङ्गयोः ॥ १४५२ ॥ पशुमात्रे हस्तिभेदे याञ्चा-नक्षत्रभेदयोः । मृगायुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ॥ १४५३ ॥ मृगाङ्कश्चन्दिरे वायौ कर्पूर-मृगचिह्नयोः । मृगारिः सिंह-शार्दूल-कुक्कुरेषु मतः पुमान् ॥ १४५४ ॥ मृगी पुलहभार्यायां छन्दोभेदे मृगस्त्रियाम् । मृतं स्यात् प्राप्तपञ्चत्वे त्रिषु याचितवस्तुनि ॥ १४५५ ॥ मृतकं मरणाशौचे कुणपेऽपि नपुंसकम् । मृत्युः पुमान् यमे कंसे त्रिषु प्राणवियोजने ॥ १४५६ ॥ शिवे बिल्वद्रुमे दण्डकाके च मृत्युवञ्चनः । मृदुच्छदो भूर्जवृक्षे श्रीताले कुक्कुरद्रुमे ॥ १४५७ ॥ ;p{0256} मेघनादस्तु वरुणे स्तनिते रावणात्मजे । मेचकः श्यामले बर्हिचन्द्रिके मेघ-धूमयोः ॥ १४५८ ॥ मेधावी पण्डिते व्याडौ मदिरा-शुकपक्षिणोः । मेषो राश्यान्तरे मेढ्रे लग्न-भेषजभेदयोः ॥ १४५९ ॥ मेहः प्रमेहरोगे स्यान्मेष-प्रस्रावयोरपि । मोचनं कल्कने दम्भे शाठ्य-कैवल्ययोरपि ॥ १४६० ॥ कस्तूर्यामजमोदायां मल्लिकायां च मोदिनी । मोहो दुःखे च मूर्च्छायामविद्यायामपि स्मृतः ॥ १४६१ ॥ मोक्षः पाटलिवृक्षे स्यान्मुक्तौ मृत्यौ च मोचने । मौलिः किरीटे धम्मिल्ले चूडायामनपुंसकम् ॥ १४६२ ॥ म्रक्षणं स्नेहने तैले राशीकरण इष्यते । म्लेच्छोऽपभाषणे पापरक्त-पामरभेदयोः ॥ १४६३ ॥ ;p{0257} यतिर्जितेन्द्रियग्रामे निकारे विरतौ पुमान् । यतिः स्त्री पाठविच्छेदे विधवा-रागयोरपि ॥ १४६४ ॥ यन्ता हस्तिपके सूते प्रोक्तो विरतिकारके । यन्त्रं देवाद्यधिष्ठाने दारुयन्त्रे नियन्त्रणे ॥ १४६५ ॥ यमो दण्दधरे ध्वाङ्क्षे संयमे यमनेऽपि च । यमकः संयमे शब्दालंकारे यमजे त्रिषु ॥ १४६६ ॥ यवनो जातिभेदे स्याद् वेग-वेगाधिकाश्वयोः । प्लक्षवृक्षे जटामांस्यां वंशे यवफलो मतः ॥ १४६७ ॥ दुरालभायां खदिरे यवासः कण्टकीक्षुपे । यशः शक्रग्रहे श्रीदे गुह्यके धनरक्षके ॥ १४६८ ॥ याज्ञिको दर्भभेदे स्यात् पलाशे यज्ञकर्तरि । उपायोत्सवयोर्यात्रा प्राणने यापने गतौ ॥ १४६९ ॥ ;p{0258} त्रिषु याप्यो ऽधमे निन्द्ये यापनीये रुगन्तरे । संयमे प्रहरे यामो याम्योऽगस्त्ये च चन्दने ॥ १४७० ॥ यावत् तावच्चाव्ययं स्यान्माने कार्त्स्न्येऽवधारणे । पक्षान्तरे प्रशंसायामवधौ निश्चये तथा ॥ १४७१ ॥ परिच्छेदे तु वत्वन्तारेतौ स्तो वाच्यलिंगकौ । त्रिषु युक्तो न्याययुक्ते मिलिते योगशालिनि ॥ १४७२ ॥ युगं कृतादौ युगले रथाद्यङ्गे त्वसौ पुमान् । गिरिभेदे रथादीनां युगकाष्ठे युगन्धरः ॥ १४७३ ॥ युतकं यौतुके मैत्रीकरणे चलनाग्रके । संशये संश्रये युक्ते नारीवस्त्राञ्चले युगे ॥ १४७४ ॥ ;p{0259} युवराजो भाविबुद्धभेदे राजात्मजोत्तमे । योगो नैयायिके द्रव्ये कार्मणे धन-सूत्रयोः ॥ १४७५ ॥ उपाये संगतौ युक्तौ ध्याने सन्नहने तथा । चारेऽपूर्वार्थसम्प्राप्तौ वपुःस्थैर्ये च भेषजे ॥ १४७६ ॥ विश्रब्धघाते विष्कम्भाऽऽदौ प्रयोगेऽपि कीर्तितः । योगिनी योगयुक्ता स्यात् तथाऽऽवरणदेवता ॥ १४७७ ॥ योग्यः प्रवीणे योगार्हे संशक्तोपाययोस्त्रिषु । सम्बन्धबाधाभावे च क्षमतायां च योग्यता ॥ १४७८ ॥ योनिः स्त्रीपुंसयोरम्भस्याकरे कारणे भगे । प्राचीनाऽऽमलके रक्तं रुधिरे पद्म-ताम्रयोः ॥ १४७९ ॥ सिन्दूरे कुंकुमे हिंगुले कुसुम्भे च हिज्जले । रक्तवर्णो दाडिमे स्याद् बन्धूके च निशाद्वये ॥ १४८० ॥ ;p{0260} कुसुम्भपुष्पे लाक्षायां मञ्जिष्ठायाञ्च किंशुके । रक्तबीजो दाडिमे स्यात् शुम्भासुरचमूपतिः ॥ १४८१ ॥ रक्ताङ्गो मत्कुणे किञ्च प्रवाते मंगलग्रहे । रक्ताक्षो महिषे क्रूरे पारावत-चकोरयोः ॥ १४८२ ॥ सारसे रक्तवर्णाक्षे मानवे वाच्यलिंगवान् । रजो रजोगुणे क्लीवं परागार्तवरेणुषु ॥ १४८३ ॥ रजतं धवले रूप्ये ह्रदे हारे च शोणिते । शैले स्वर्णे हस्तिदन्ते शुक्लवर्णिनि तु त्रिषु ॥ १४८४ ॥ रागे गुह्ये रते कामपत्न्यामपि रतिः । रत्नं मुक्ताद्यश्मजातौ स्वजातिप्रवरेऽपि च ॥ १४८५ ॥ रथ्या रथसमूहे स्यात् प्रतोल्यामपि चत्वरे । रन्तुः स्त्री वर्त्मसरितो रदो दन्ते विलेखने ॥ १४८६ ॥ ;p{0261} औत्सुक्य-वेग-हर्षेषु रभसो निर्विचारणे । पटोलमूले जघने मैथुने रमणे स्मृतम् ॥ १४८७ ॥ गर्दभे वृषणे पत्यौ रमणौ मीनकेतने । रमा लक्ष्मी-कल्किराजपत्नी-शोभासु कीर्तिता ॥ १४८८ ॥ काले कामे नायके ना रमतिः स्वर्ग-काकयोः । रम्भा तु कदली-गौर्योर्वेश्याभेदे च गोध्वनौ ॥ १४८९ ॥ मृगभेदे कम्बले च रल्लको रवणस्त्वसौ । चञ्चले भण्डके तीक्ष्णे शब्दने कोकिले त्रिषु ॥ १४९० ॥ रविरर्केऽर्कवृक्षे च रश्मिर्ना प्रग्रहोस्रयोः । रसो वीर्ये गुणे रागे द्रवे गन्धरसे जले ॥ १४९१ ॥ पारदे षड्रसे शृङ्गारादि-काव्यरसे विषे । रसा स्त्रियां रसमयी-द्राक्षा-कंगूषु कीर्तिता ॥ १४९२ ॥ ;p{0262} पृथिवी-रसना-पाठा-काकोली-शल्लकीष्वपि । रसाल इक्षावाम्रे च गोधूमे कण्टकीफले ॥ १४९३ ॥ रसाला रसना-दूर्वा-द्राक्षा-शिखरिणीष्वपि । राग इन्दौ रवौ प्रीतौ रतौ राजनिरञ्जने ॥ १४९४ ॥ क्लेशादौ लोहितादौ च गानरागेषु मत्सरे । धानस्यादौ विदग्धायामिन्दिरायां च रागिणी ॥ १४९५ ॥ राघवो रामचन्द्रे स्यान्मत्स्यभेदे सरित्पतौ । राजन्यः क्षीरिकावृक्षे क्षत्रियेऽग्नौ नृपात्मजे ॥ १४९६ ॥ करिण्यां क्षत्रियाज्जाते राजपुत्रो बुधग्रहे । राजपुत्री राजसुता-जात्योर्मञ्जुलताजुषि ॥ १४९७ ॥ मालती-रेणुका-राजरीति-च्छुच्छुन्दरीष्वपि । इन्द्रे चन्द्रे प्रभो पक्षे राजा क्षत्रिय-भूभृतोः ॥ १४९८ ॥ ;p{0263} रेखा-केदारयोः पंक्तौ राजिका कृष्णसर्षपे । राज्ञी राजप्रिया-सूर्यपत्न्योर्नील्यां च कांस्यके ॥ १४९९ ॥ राढा सूक्ष्मे पुरीभेदे शोभायामपि कीर्तिता । विष्णुक्रान्ताऽऽमलक्योः स्याद् राधा धानुष्कचित्रके ॥ १५०० ॥ गोपीविशेषे नक्षत्रभेदे विद्युति हिंसने । तमालपत्रे वास्तूके कुष्ठे रामं नपुंसकम् ॥ १५०१ ॥ सितेऽसिते मनोज्ञे च त्रिषु रामः पुमान् हये । भार्गवे पशुभेदे च राघवे हलि-पाशिनोः ॥ १५०२ ॥ रासः कोलाहल-ध्वान-क्रीडा-भाषासु शृङ्खले । परिहासे रसावासे रासे रासे रसः पुमान् ॥ १५०३ ॥ षष्ठीजागरके गोष्ठ्यां शृङ्गारोत्सवयोरपि । रससिद्धौ चाथ राहुस्त्याग-ग्रहविशेषयोः ॥ १५०४ ॥ ;p{0264} राक्षसी कौणपी दंष्ट्रा-चण्डा-सन्ध्यासु कीर्तिता । रिष्टं शुभाशुभभावपापेषु खड्गे स्यात्पुमान् पुनः ॥ १५०५ ॥ रीतिः स्त्रियां लोहकिट्टे स्यन्दे गत्यारकूटयोः । प्रचारे स्रवणे सीम्नि परिपाटी-स्वभावयोः ॥ १५०६ ॥ रुचकं सर्जिकाक्षरे माङ्गल्यद्रव्य-माल्ययोः । विडङ्गोत्कट्योः स्वाद्यरसेऽश्वभरणे तथा ॥ १५०७ ॥ सौवर्चले रोचनायां लवणे रुचकस्त्वयम् । दन्ते पारावते बीजपूरे निष्केऽपि कीर्तितः ॥ १५०८ ॥ रुचा दीप्तौ तथेच्छायां शारिका-शुकवाच्यपि । रुचिः स्त्रियामभिष्वङ्गानुरागेच्छा-गभस्तिषु ॥ १५०९ ॥ शोभा-बुभुक्षयोः किञ्च रोचनाऽऽलिंगभेदयोः । रुद्रः शिवे वृक्षभेद-गणदेवविशेषयोः ॥ १५१० ॥ ;p{0265} रूपं स्वभावे सौन्दर्ये पशावाकार-शब्दयोः । ग्रन्थाऽऽवृत्तौ नाटकादौ श्लोक-शुक्लादिवर्णयोः ॥ १५११ ॥ रूपकं नाटके मूर्ते संख्याऽलंकारभेदयोः । रेको भेके च तथा शंकायां नीचे विरेचने ॥ १५१२ ॥ छद्मोल्लेखनयो रेखा स्यादाभोगाल्पयोरपि । तिलके जयपाले च यवक्षारेऽपि रेचकः ॥ १५१३ ॥ जलनिःक्षेपयन्त्रे च प्राणायामविधावपि । रेणुका भस्मगान्धिन्यां जमदग्नेश्च योषिति ॥ १५१४ ॥ पुच्छे प्रधाने भूषायां रम्ये चिह्ने ध्वजे हये । पुण्ड्रे प्रभावे शृङ्गेऽश्वे ललामञ्च ललाम च ॥ १५१५ ॥ अभीप्सिते सुन्दरे च चलिते ललितस्त्रिषु । ललिता सप्तमीभेदे कस्तूर्यां सरिदन्तरे ॥ १५१६ ॥ ;p{0266} लामज्जके लवङ्गेऽल्पे लवं जातीफलेऽपि च । लवो लेशे रामपुत्रे विलासे छेद-नाशयोः ॥ १५१७ ॥ कालभेदे पक्षिभेदे लवणस्तु रसान्तरे । रक्षाभेदे सिन्धुभेदे छेदके लवणासुरे ॥ १५१८ ॥ क्रीडायुक्ते शिल्पयुक्ते श्लिष्टे लस्तस्त्रिलिंगकः । दशायुत प्रसंख्यायां लक्षं स्याद् व्याज-लक्ष्ययोः ॥ १५१९ ॥ लक्षणं दर्शने वस्तुस्वरूपे नामचिह्नयोः । लक्षणा शक्यसम्बन्धे हंस्यां सारसयोषिति ॥ १५२० ॥ सौमित्रौ सारसे च स्याल्लक्ष्मणो लक्षणस्थथा । सारस्यां लक्ष्मणा श्वेतकण्टकारीवनस्पतौ ॥ १५२१ ॥ दुर्योधनस्य कन्यायां पुत्रकन्दौषधावपि । लक्ष्मी-दुर्गा-शमी-मुक्ता-सीता-सम्पत्तिषूच्यते ॥ १५२२ ॥ ;p{0267} स्थलाब्जायां हरिद्रायां मोक्षाऽऽप्तौ फलनीतरौ । ऋद्ध्यौषधे तथा द्रव्ये गुणाढ्यवरयोषिति ॥ १५२३ ॥ लक्ष्मीतालस्तालभेदे श्रीतालाऽख्यमहीरुहे । शौरो लवंगे नृपतौ पूगे लक्ष्मीपतिः पुमान् ॥ १५२४ ॥ लक्ष्मीपुत्रः कामदेवे घोटके च कुशे लवे । त्रिषु लक्ष्यो दर्शनीये लक्ष्यार्थोद्देश्ययोरपि ॥ १५२५ ॥ ला स्त्रियां ग्रहणे दाने लांगलन्तु हले तथा । लिंगे तालतरौ पुष्पभेदे च गृहदारुणि ॥ १५२६ ॥ बलरामे नारिकेले सर्पे स्याल्लांगली पुमान् । शेफे कुशूले लांगूलं पुच्छे लांगुलमित्यपि ॥ १५२७ ॥ लाटो देशान्तरे जीर्ण-भूषणादौ च वाससि । लालाविशिष्टे व्यासक्तियुक्ते लालायितस्त्रिषु ॥ १५२८ ॥ ;p{0268} लवणत्वे सुन्दरत्वे लावण्यमपि कीर्तितम् । लासकं सट्टके लास्यकरे बर्हिणि लासकः ॥ १५२९ ॥ लिगुर्मूर्खे भूप्रदेशे मृगे लिगु तु मानसे । लिंगं सामर्थ्येऽनुमाने प्रकृतौ शेफ-चिह्नयोः ॥ १५३० ॥ शिवमूर्तिविशेषे च व्याप्ये पुंस्त्वादिलक्षणे । त्रिषु लिप्तं लेपयुक्ते भक्षिते मिलितेऽपि च ॥ १५३१ ॥ लीनस्त्रिषु लयप्राप्ते श्लिष्टे किञ्च तिरोहिते । लीला केलौ विलासे च खेलायामपि कीर्तिता ॥ १५३२ ॥ लोकनाथो जिने विष्णौ शिवे बुद्धे प्रजापतौ । राज्ञि लोकस्तु भुवने जने च परिकीर्तितः ॥ १५३३ ॥ लोकेशः स्याद् बुद्धभेदे तथा ब्रह्मणि पारदे । लोचकः कज्जले कर्णपूरे निर्बुद्धि-रम्भयोः ॥ १५३४ ॥ ;p{0269} स्त्रीभालाऽभरणे मूर्व्यां निर्मोके श्लथचर्मणि । मांसपिण्डेऽक्षितारायां तथा नीलवाससि ॥ १५३५ ॥ मयूरे जैनसाधौ च स्याद्द्वयोर्लोचमस्तकः । लोतश्चिह्नेऽश्रुपाते च लवणे लोचनाम्भसि ॥ १५३६ ॥ लोमशो मुनिभेदे स्यात् मेषेऽपि परिकीर्तितः । लोला लक्ष्म्यां च जिह्वायां किञ्च चञ्चलयोषिति ॥ १५३७ ॥ लोहोऽस्त्री जोङ्गके लौहे रुधिरे सर्वतैजसे । लोहार्गलस्तीर्थभेदे लौहकीले त्वसौ नना ॥ १५३८ ॥ रेत्रं रेतसि पीयूषे पटवासे च सूतके । रेतः शुक्रे पारदे च रेपः क्रूर-कदर्ययोः ॥ १५३९ ॥ रेफस्त्रिष्वधमे क्रूरे तथा दुष्ट-कदर्ययोः । रेवटः शूकरे रेणौ वातूले विषवैद्यके ॥ १५४० ॥ ;p{0270} रेवती नक्षत्रभेदे स्त्रीगव्यां बलयोषिति । दुर्गायां मातृकाभेदे शैलभेदे तु रैवतः ॥ १५४१ ॥ स्वर्णालूपादपे शम्भौ रोकस्तु क्रय-रोचिषोः । रोकं छिद्रे चले नावि रोचकस्तु पुमान् क्षुधि ॥ १५४२ ॥ कदल्यामवदंशे च त्रिषु स्याद् रुचिकारके । आरग्वधे करञ्जे च रोचनः कूटशाल्मलौ ॥ १५४३ ॥ पलांड्वङ्गोठ-करक-रोचक-श्वेतशिग्रुषु । रोचना रक्तह्लारे गोपिते वरयोषिति ॥ १५४४ ॥ रोदः क्लीवं स्वर्गभुवो रोदनं क्रन्दनेऽश्रुणि । विमोहे रोपणं प्रादुर्भावे स्याज्जननेऽञ्जने ॥ १५४५ ॥ ;p{0271} रोमकं पांशुलवणेऽयस्कान्तेऽपि प्रकीर्तितम् । पिण्डालौ शूकरे कुम्भि-मेषयोः पुंसि रोमशः ॥ १५४६ ॥ रोहिनी धार्मिके बीजे वृक्षे स्यादथ रोहिणः । भूतृणे वटवृक्षे च तथा रोहितकद्रुमे ॥ १५४७ ॥ कालभेदे त्वसौ क्लीवो मञ्जिष्ठायां तु रोहिणी । सोमवल्के लोहितायां विद्यादेव्यां तडित्यपि ॥ १५४८ ॥ कटुम्भरायां स्त्रीगव्यां काश्मर्यां बलमातरि । ताराभेदे हरीतक्यां कन्या-रोगविशेषयोः ॥ १५४९ ॥ रोहितं कुंकुमे रक्ते ऋजुशक्रशरासने । वर्णभेदे मत्स्यभेदे रोहित् पुंसि दिवाकरे ॥ १५५० ॥ स्त्रियां रोहिल्लताभेदे मृग्यामप्यथ रोहितः । वृक्षभेदे वर्णभेदे मीनभेदे मृगान्तरे ॥ १५५१ ॥ ;p{0272} रोही ना रोहिताश्वत्थ-वटवृक्षेषु कीर्तितः । हेमन्ते ना यमे रौद्रो रसभेदेऽर्कतेजसि ॥ १५५२ ॥ तीव्रे विभीषणे किञ्च रुद्रसम्बन्धिनि त्रिषु । त्रिषु धूर्ते चञ्चले च रौरवो नरके पुमान् ॥ १५५३ ॥ लग्नं राश्युदये लग्नः सूते बन्दिन्यथ त्रिषु ॥ आसक्ते लज्जिते च स्याल्लघुः पृक्कौषधौ स्त्रियाम् ॥ १५५४ ॥ अल्पिष्ठे ह्रस्व-निःसार-मनोज्ञागुरुषु त्रिषु । कृष्णागुरुणि शीघ्रे च तथा लामज्जके लघु ॥ १५५५ ॥ लट्वो नर्तकभेदे स्याद् रागभेदे तुरङ्गमे । लञ्जे पुच्छे पदे कच्छे लट्वा तु स्यात् करञ्जके ॥ १५५६ ॥ कुसुम्भे चटके वाद्यभेदे भ्रमरकेऽपि च । रतिभेदे देशभेदे लतावेष्टः प्रकीर्तितः ॥ १५५७ ॥ ;p{0273} लम्बः क्षेत्रफले दीर्घे कान्तेऽङ्गे नर्तके तथा । उत्कोचे लम्बनेऽपि स्याल्लम्बकेशस्तु विष्टरे ॥ १५५८ ॥ त्रिषु दीर्घकचे लम्बा तु लक्ष्मी-दक्षकन्ययोः । लम्बमानस्त्रियां गौर्यां तिक्ततुम्ब्याञ्च लम्बने ॥ १५५९ ॥ संसिते शब्दिते लम्बान्विते स्याल्लम्बितस्त्रिषु । तौर्यत्रिकस्य साम्ये स्याल्लयः श्लेषे विनाशने ॥ १५६० ॥ वाच्यलिंगो ललत् क्षेपविशिष्टे भाषणान्विते । वीप्साविशिष्टे जिह्वाले विलासोन्मन्थनान्विते ॥ १५६१ ॥ ललज्जिह्वः कुक्कुरे स्यात् उष्ट्रे हिंस्रे त्वसौ त्रिषु । ललनं चालने केलौ तथेप्सायामपीष्यते ॥ १५६२ ॥ ;p{0274} बाले साले प्रियाले च ललनः कामनान्विते । लोहितो भुजगे भौमे रक्तवर्णे मृगान्तरे ॥ १५६३ ॥ रक्तशालौ मसूरे च रक्तालू-बलभेदयोः । रोहिताख्यझषे तद्वद् नदभेदे सुरान्तरे ॥ १५६४ ॥ वंश इक्षौ सालवृक्षे वाद्यभाण्डान्तरे कुले । स्यात् पृष्ठावयवे वेणु-गानस्वरविशेषयोः ॥ १५६५ ॥ वक्रः शनैश्चरे चन्द्रे रुद्रे पर्पट-भौमयोः । वक्रं च स्यान्नदीवंके त्रिषु तु क्रूर-भुग्नयोः ॥ १५६६ ॥ वचण्डी शारिका-वर्ति-शस्त्रभेदेषु च स्त्रियाम् । वज्रं धात्र्यां लौहभेदे काञ्जिके बालिके पवौ ॥ १५६७ ॥ वज्रपुष्पे हीरकेऽथ वज्रः सेहुण्दपादपे । कोकिलाक्षतरौ कृष्णप्रपौत्रे श्वेतबर्हिषि ॥ १५६८ ॥ स्नुहीवृक्षे कोकिलाक्षवृक्षे स्याद् वज्रकण्टकः । गणेशे मशके वज्रतुण्डो गरुड-गृध्रयोः ॥ १५६९ ॥ ;p{0275} इन्द्रे जिनेन्द्रप्रभेदे पुमान् वज्रधरः स्मृतः । वञ्जुलः स्थलपद्मे स्यादशोके तिनिशद्रुमे ॥ १५७० ॥ वेतसे पक्षिभेदे च वटुको भैरवे शिशौ । वठरः पुंसि मूर्खे स्याद् वक्रेऽम्बष्ठे त्रिषु त्वसौ ॥ १५७१ ॥ शठे मन्देऽथ वडभी वडिशाऽऽगारचूडयोः । वण्टो भागे दात्रमुष्टावकृतोद्वहकर्मणि ॥ १५७२ ॥ वण्ठः कुम्भायुधे खर्वे निर्विवाहक्रियेऽपि च । वण्ठरः स्थगिकारज्जौ श्वपुच्छे तालपल्लवे ॥ १५७३ ॥ पयोधरे चाश्वमारकोषेऽपि परिकीर्तितः । वण्ठालः शूरसंग्रामे खर्वे नावि खनित्रके ॥ १५७४ ॥ ;p{0276} वण्डोऽनावृतमेढ्रे ना त्रिषु हस्तादिवर्जिते ॥ १५७५ ॥ बतेत्यव्ययं खेद-सन्तोषयोः स्याद् दयायां तथाऽऽमन्त्रणे विस्मये च । वतूः पुंसि मार्गेऽक्षिरोगे प्रयुक्तो वरैः सत्यवाग्देवनद्योः सुधीभिः ॥ १५७६ ॥ स्याद्वत्सो गोशिशौ वर्षे पुत्रादौ वाच्यलिंगकः । वधूः स्नुषायां शट्यां च पृक्कायां शारिवौषधौ ॥ १५७७ ॥ वनं निवासे विपिने जले प्रस्रवणे गृहे । वनजो मुस्तके दन्ताबले च वनशूरणे ॥ १५७८ ॥ वन्दनी याचने वट्यां जीवितौ प्रणतावपि । वपा स्यान्मेदसि च्छिद्रे वप्ता तु जनके कवौ ॥ १५७९ ॥ प्राकाराधःस्थले वप्रं पाटीर-क्षोणि-रेणुषु । तटेऽथ वप्रः प्राकारे जनके च प्रजापतौ ॥ १५८० ॥ ;p{0277} वयः पतङ्गे बाल्यादौ यौवनेऽपि नपुंसकः । वयःस्था सोमवल्लर्यां गुडूच्यां शाल्मलिद्रुमे ॥ १५८१ ॥ सूक्ष्मेलाऽऽली-हरीतक्यामलकी-युवतीष्वपि । अत्यम्लपर्णी-मत्स्याक्षी-काकोलीष्वप्युदीर्यते ॥ १५८२ ॥ कुसुम्भबीजे हंस्याञ्च वरटा वरला तथा । वेष्टनाऽर्चनयोः कन्यादिवृतौ वरणं न ना ॥ १५८३ ॥ प्राकारे वृक्षभेदे च वरणः संक्रमोष्ट्रयोः । वरण्डस्त्वन्तरावेद्यां समूहे च मुखाऽऽमये ॥ १५८४ ॥ वरण्डको हस्तिवेद्यां भित्तौ यौवनकण्टके । वर्तुले त्रिषु तु क्षुद्रे विपुले भयसंकुले ॥ १५८५ ॥ वर्ति-सार्योः शस्त्रभेदे वरण्डा गृहपार्श्वके । वरदा त्वादित्यभक्ताऽश्ववगन्धा-कन्यकास्वपि ॥ १५८६ ॥ ;p{0278} वरा फलत्रिके ब्राह्मी-पाठा-मेदा-ऽमृतासु च । विडङ्गे रेणुकागन्धे हरिद्रा-श्रेष्ठयोरपि ॥ १५८७ ॥ वराङ्गं मस्तके योनौ तथा गुह्ये गुडत्वचि । वराङ्गः कुञ्जरे विष्णौ सुन्दरांगे त्वसौ त्रिषु ॥ १५८८ ॥ वराटकः पद्मबीजे रज्जौ किञ्च कपर्दके । वर्णः कुथे ब्राह्मणादौ शुक्लादावक्षरे गुणे ॥ १५८९ ॥ भेदे गीतक्रमे चित्रे तालभेदांग-रागयोः । रूपे स्वर्णे व्रते कीर्तौ स्तवने च विलेपने ॥ १५९० ॥ वर्णकं लेपनद्रव्ये हरितालेऽपि चन्दने । वर्णनं दीपने वर्णीकृतौ विस्तरणे स्तुतौ ॥ १५९१ ॥ वर्णमाला जातिमाला-ऽक्षरश्रेण्योः प्रकीर्तिता । पुमान् वर्णी चित्रकरे लेखके ब्रह्मचारिणि ॥ १५९२ ॥ ;p{0279} स्तुतियुक्ते च शुक्लादिवर्णसम्बन्धिनि त्रिषु । वर्तनं तूलनालायां तर्कुपीढे च जीवने ॥ १५९३ ॥ वर्तरुको नदीभेदे काकनीडे जलाऽऽवटे । द्वारपालो वर्तनी तु स्यात् पदव्यां च पेषणे ॥ १५९४ ॥ वर्तिः स्त्रियां दीपदशा-लेखयोर्नयनाञ्जने । द्वीपे भेषजनिर्माणे तथा गात्रानुलेपने ॥ १५९५ ॥ वर्द्धनं छेदने वृद्धौ वर्द्धिष्णौ वर्द्धनास्त्रिषु । वर्द्धनी शोधनी-घट्योः सनालजलभाजने ॥ १५९६ ॥ वर्धमानो देशभेदे धनिनां भवनान्तरे । विष्णौ शरावेऽन्त्यजिने पशुभेदोरुवूकयोः ॥ १५९७ ॥ वर्वरः पामरे मत्ते केश-देशविशेषयोः । चक्रले पञ्जिकायां च गन्धपत्रतरावपि ॥ १५९८ ॥ ;p{0280} क्लीवं स्याद् वर्वरं बोले हिंगूले पीतचन्दने । पुष्पभेदे शाकभेदे वर्वरा मक्षिकान्तरे ॥ १५९९ ॥ वर्षं संवत्सरे वृष्टौ जम्बूद्वीपे च वार्दले । पुनर्नवायां भेक्यां स्त्री वर्षाभूस्तद्भवे त्रिषु ॥ १६०० ॥ वलयो गलरोगे स्याद् वेला-कङ्कणयोरपि । वला विद्याविशेषे स्यात् तथा वाट्यालकौषधौ ॥ १६०१ ॥ वलाहको गिरौ मेघे मुस्ते कृष्णहयान्तरे । दैत्यभेदे नागभेदे वल्गुस्तुच्छाग-कान्तयोः ॥ १६०२ ॥ वल्गुकं चन्दनेऽरण्ये पणे स्याद् रुचिरे त्रिषु । निशाचरी पतंगे च वाकुच्यामपि वल्गुला ॥ १६०३ ॥ वल्मीकोऽस्त्री वामलूरे ना वल्मीकौ गदान्तरे । वल्लरे मञ्जरौ कृष्णागुरौ कुञ्जे च कानने ॥ १६०४ ॥ ;p{0281} भीमे गोपे वल्लवो ना सूपकारे त्वसौ त्रिषु । वल्लिः स्याद् वह्निदमनीक्षुपे क्ष्मा-लतयोः स्त्रियाम् ॥ १६०५ ॥ वल्ली कैवर्तिका-चव्या-जमोदा-व्रततिष्वपि । वल्लूरं मञ्जरी-क्षेत्र-कुञ्जारण्येषु शाद्वले ॥ १६०६ ॥ त्रिषूषरक्षितौ शुष्कमांस-सूकर-मांसयोः । वाहने च वशं त्विच्छा-प्रभुताऽऽयत्ततास्वपि ॥ १६०७ ॥ वशो वेश्यागृहे स्वेच्छाऽऽयत्ततैश्वर्यजन्मसु । वशा बन्ध्या-सुता-योषा-स्त्रीगवी-करिणीषु च ॥ १६०८ ॥ वशिरो गजपिप्पल्यां वचाऽपामार्गयोस्तथा । चव्येऽथ वशिनी वन्दा-शमीपादपयोः स्त्रियाम् ॥ १६०९ ॥ यामिन्यां सदने वासे वसतिर्वसतीत्युभे । वसन्तदूत आम्रे स्यात् पिक-पञ्चमरागयोः ॥ १६१० ॥ ;p{0282} वसु वृद्धौषध-श्याम-धन-रत्नाऽम्बुभर्मसु । वसुकोऽर्कतरौ पाशुपतेऽथ वसुदः पुमान् ॥ १६११ ॥ कुबेरे वाच्यलिङ्गस्तु धन-धान्यप्रदातरि । वसुधारा जैनशक्ति-चेदिराजाऽऽज्य-धारयोः ॥ १६१२ ॥ अलकायां च वस्तिस्तु नाभ्यधो-वस्त्रखण्डयोः । वस्नं मूल्ये भृतौ द्रव्ये वेतने वसने धने ॥ १६१३ ॥ त्वचि वस्वौकसारा तु पुर्यामिन्द्र-कुबेरयोः । वहो वृषस्कन्धदेशे वायावश्वे नदे पथि ॥ १६१४ ॥ सचिवे पवने किञ्च गवि स्याद् वहतिः पुमान् । वह्निर्भल्लातके निम्बावग्नौ चित्रक-रेफयोः ॥ १६१५ ॥ वागरो वारके शाणे निर्णये वाडवे वृके । वावदूके त्यक्तभये मुमुक्षौ पण्डितेऽपि च ॥ १६१६ ॥ ;p{0283} वाङ्मती मिथिलानद्यां वाङ्न्यासयुतयोषिति । वाचकः कथके शब्दे वाचनं तूक्ति-पाठयोः ॥ १६१७ ॥ कुत्सिते वचनार्हे च स्याद् वाच्यं शक्य-हीनयोः । अन्ने यज्ञे घृते तोये वाजं वाजस्तु निस्वने ॥ १६१८ ॥ शरपक्षे मुनौ वेग-पक्षयोर्गमनेऽपि च । वाजी पुमान् हये बाणे वासके च विहंगमे ॥ १६१९ ॥ वाटो मार्गे वृतिस्थाने गमने धारणेऽपि च । वाटी वाट्यालके कुट्यां तथा वास्तुनि च स्त्रियाम् ॥ १६२० ॥ त्रिषु बाढं दृढेऽत्यन्ते स्वीकारे त्वेतदव्ययम् । बाणोऽग्नौ गोस्तने दैत्यभेदे कविवरे शरे ॥ १६२१ ॥ ;p{0284} काण्डाद्यवयवे भद्रमुञ्जे तद्वच्च केवले । वाणी स्त्री वाग्देवतायां वचने वपनेऽपि च ॥ १६२२ ॥ वातघ्नी शालपर्ण्यश्वगन्धयोः शिमृडीक्षुपे । वातपुत्रो महाधूर्ते भीमसेने हनूमति ॥ १६२३ ॥ वातरायण उन्मत्ते निष्प्रयोजनपूरुषे । करपात्रे कूटकाण्ड-द्विट्-क्रान्ति-सरलद्रुषु ॥ १६२४ ॥ वातरूषस्तु वातूलोत्कोचयोरिन्द्रधन्वनि । वाताटः स्याद् वातमृगे सूर्याश्वे पन्नगेऽपि च ॥ १६२५ ॥ वातारिरेरण्डतरौ शतमूल्यां च शूरणे । भल्लातके पुत्रदात्र्यां भार्ग्यां स्नुह्यां विडङ्गके ॥ १६२६ ॥ शैफालिकायां यवान्यां जतुका-तैलभेदयोः । वातिः पुमान् वायु-सूर्य-चन्द्रेषु गमने स्त्रियाम् ॥ १६२७ ॥ ;p{0285} वातूलः पुंसि वात्यायां मत्ते वातासहे त्रिषु । वानं शुष्कफले शुष्के वनसम्बन्धिनि त्रिषु ॥ १६२८ ॥ क्लीवं वाटे सुरङ्गायां स्यूतिकर्मणि सौरभे । जलसंप्लुतवातोर्मौ तवक्षीरे गतावपि ॥ १६२९ ॥ वानप्रस्थो मधूकद्रौ तृतीयाश्रम-पर्णयोः । वानीरः स्यात् परिव्याधद्रुमे वेतसपादपे ॥ १६३० ॥ वापितं मुण्डिते बीजाकृते त्रिषु मतं सताम् । वामं वास्तूक-धनयोः क्लीवं पुंसि पयोधरे ॥ १६३१ ॥ महादेवे कामदेवे त्रिषु वल्गु-प्रतीपयोः । सव्येऽधमे वामगते वक्रेऽथो वामनो हरौ ॥ १६३२ ॥ अङ्कोठपादपे खर्वे स्मृतो दक्षिणदिग्गजे । वामा स्मृतेह दुर्गायां तथा सामान्ययोषिति ॥ १६३३ ॥ वामी शृगाल्यां करभी-रासभी-वडवासु च । वायसोऽगुरुवृक्षे स्यात् काक-श्रीवासयोरपि ॥ १६३४ ॥ ;p{0286} महाज्योतिष्मती-काकतुण्ड्योः स्त्री वायसादनी । काकादनी-काकमाची-महाज्योतिष्मतीषु च ॥ १६३५ ॥ काकोदुम्बरिकायां च वकवृक्षेऽपि वायसी । वारः समूहेऽवसरे द्वारे सूर्यादिवासरे ॥ १६३६ ॥ हरे क्षणे कुब्जवृक्षे वारं मैरेयभाजने । वारकोऽश्वविशेषेऽश्वगतौ त्रिषु निषेधके ॥ १६३७ ॥ नपुंसकं स्यात् ह्रीवेरे कष्टस्थानेऽपि कीर्तितः । सिन्धौ सपत्ने चित्राश्वे पर्णाजीविनि वारकी ॥ १६३८ ॥ वारकीरस्तु यूकायां वाडवे च जलौकसि । नीराजितहये श्याले वारग्राहिणि तु त्रिषु ॥ १६३९ ॥ वारणः कुञ्जरे बाणवारे क्लीवं निषेधने । वारिः स्त्री गजबन्धिन्यां सरस्वत्यामुपग्रहे ॥ १६४० ॥ ;p{0287} नपुंसकं स्यात् सलिले ह्रीवेरेऽपि प्रकीर्तितम् । वारिजं तु लवङ्गे स्यात् पद्म-गौरसुवर्णयोः ॥ १६४१ ॥ वारिजौ कम्बु-शम्बूकौ सूर्याब्दौ वारि-तस्करौ । वारिदो मुस्तके मेघे बालायां तु नपुंसकम् ॥ १६४२ ॥ वारिनाथो वारिवाहे वरुणे यादसांपतौ । पद्मे वारिरुहं क्लीवं जलजाते त्रिलिंगकम् ॥ १६४३ ॥ लवङ्गोशीरसौवीराञ्जनेषु वारिसंभवम् । वारुण्डोऽस्त्री श्रोत्रनेत्रमले नौसेकभाजने ॥ १६४४ ॥ आरोग्याऽसारयोर्वार्तण् वृत्तिमत्कल्पयोस्त्रिषु । वार्ता वातिङ्गणे वृत्तौ वृत्तान्ते च जनश्रुतौ ॥ १६४५ ॥ वार्तावहो वैवधिके त्रिषु संवादवाहके । वार्तिकः स्यात् प्रवृत्तिज्ञे वैश्ये वार्तिकपक्षिणि ॥ १६४६ ॥ ;p{0288} वार्दरं कृष्णलाबीजे काकचिञ्चाऽम्रबीजयोः । भारती-दक्षिणावर्तशंखयोः कृमिजे जले ॥ १६४७ ॥ वार्दलं दुर्दिने क्लीवं मसीपात्रे पुमानसौ । वार्द्धकं वृद्धसंघाते वृद्धस्य भावकर्मणोः ॥ १६४८ ॥ बार्हस्पत्यो नास्तिके स्यात् नीतिशास्त्रे नपुंसकम् । वार्क्ष्यमुक्तं वने क्लीवं वृक्षसम्बन्धिनि त्रिषु ॥ १६४९ ॥ वालकोऽस्त्री पारिहार्ये त्रिलिंगस्त्वङ्गुलीयके । चतुष्पथे मन्दिरे च वाश्रं घ्रस्रे त्वसौ पुमान् ॥ १६५० ॥ वाष्पो नेत्रजले लोह उष्मण्यपि बुधैः स्मृतः । वासोऽवस्थानगृहयोः सुगन्धौ वासके पटे ॥ १६५१ ॥ वासनं धूपने वस्त्रे निक्षेपाधार-वासयोः । तथा ज्ञाने वारिधान्यां वस्त्रसम्बन्धिनि त्रिषु ॥ १६५२ ॥ ;p{0289} वासना भावना-ज्ञान-प्रत्याशासु निगद्यते । दुर्गा-देहात्म-बुद्धिजन्ममिथ्यासंस्कारयोरपि ॥ १६५३ ॥ वासन्तः कोकिले कृष्णमुद्गे मलयमारुते । उष्ट्रे मुद्गे च मदनद्रुमेऽप्यवहिते त्रिषु ॥ १६५४ ॥ वासन्ती माधवी-यूथी-पाटलासु मधूत्सवे । नैपाली-गणिकार्योश्च वासरो दिन-नागयोः ॥ १६५५ ॥ वासितं ज्ञानमात्रे स्याद् विहंगमरवे रुते । त्रिलिंगः ख्यात-सुरभीकृतयोर्वस्त्रवेष्टिते ॥ १६५६ ॥ स्त्री धेनुकायां स्त्रीमात्रे वाहो भारचतुष्टये । तुरङ्गमे भुजे वायौ वृषे त्रिषु तु वाहके ॥ १६५७ ॥ वाहसो वारिनिर्याणेऽजगरे सुनिषण्ण्के । वाहिको भारिके ढक्का-गोवाह-शकटादिषु ॥ १६५८ ॥ ;p{0290} सेना-तद्भेदयोर्नद्यां वाहिनी प्रोच्यते स्त्रियाम् । सेनापतौ समुद्रे च कीर्तितो वाहिनीपतिः ॥ १६५९ ॥ वाहुलः कार्तिकेमासि तथा शाक्यमुनेः सुते । वाह्यं याने मतं क्लीवं वहनीये बहिस्त्रिषु ॥ १६६० ॥ विकचः क्षपणे केतौ खलति-स्फुटयोस्त्रिषु । विस्फोटके साकुरुण्डपादपे विकटः पुमान् ॥ १६६१ ॥ विशाले विकराले च विकृते दन्तुरे त्रिषु । बौद्धदेवी प्रभेदे तु कीर्तिता विकटा स्त्रियाम् ॥ १६६२ ॥ त्रिषु स्वभावरहिते विह्वले विकलः स्मृतः । विकला विकली च द्वे ऋतुवर्जितयोषिति ॥ १६६३ ॥ विकल्पो भ्रान्ति-विविधकल्पयोः समुदाहृतः । विकषा मांसरोहिण्यां मञ्जिष्ठायामपि स्त्रियाम् ॥ १६६४ ॥ ;p{0291} विकारो विकृतौ रोगे विकाशो रहसि स्फुटे । विकृतं त्रिषु बीभत्सेऽसंस्कृते रोगसंयुते ॥ १६६५ ॥ डिम्भे विकारे मद्यादौ रोगे च विकृती स्त्रियाम् । विक्रमः केशवे शक्तौ चरण-क्रान्तिमात्रयोः ॥ १६६६ ॥ विक्रमादित्यनृपतौ शौर्यातिशय-वर्षयोः । विक्लिन्नो जरसा जीर्णे शीर्ण आर्द्रे त्रिलिंगभाक् ॥ १६६७ ॥ विग्रहः पुंसि विस्तारे शरीर-प्रविभागयोः । समासवाक्ये युद्धे तु विग्रहोऽस्त्री मतः सताम् ॥ १६६८ ॥ मल्लीभेदे मदनकद्रुमे विचकिलः पुमान् । विच्छित्तिः स्त्री हारभेदे गेहावधि-विनाशयोः ॥ १६६९ ॥ अंगरागोऽङ्गहारे च विच्छदेऽपि प्रकीर्तिता । विच्छिन्नस्त्रिषु वक्रे स्यात् समालब्ध-विभक्तयोः ॥ १६७० ॥ ;p{0292} विच्छेदो विरहे भेदे विच्युतः क्षरिते गते । विजयः कल्कितनये कल्पराजसुतेऽर्जुने ॥ १६७१ ॥ विमाने बलदेवे च केशवानुचरे जये । विज्ञानं कर्मणि ज्ञाने कार्मणे द्विजलक्षणे ॥ १६७२ ॥ विटः शैलान्तरे धूर्ते नारङ्गतरु-षिङ्गयोः । कामुकानुचरे कामतन्त्रविज्ञे च मूषिके ॥ १६७३ ॥ विटपोऽस्त्री स्तम्ब-शाखा-विस्तारेषु च पल्लवे । पुमान् विटाधिप-पारदारिकाग्रेसरेऽपि च ॥ १६७४ ॥ प्रवेशे मनुजे वैश्ये विट् कन्या-विष्ठयोः स्त्रियाम् । प्रतारणेऽनुकरणे स्त्रियां क्लीवे विडम्बनम् ॥ १६७५ ॥ विडालो नेत्रपिण्डे स्यात् मार्जारे लोचनौषधौ । विततं त्रिषु वीणादिवाद्ये व्याप्ते च विस्तृते ॥ १६७६ ॥ ;p{0293} वितर्कः संशय-ज्ञानसूचकाऽध्याहारयोरपि । अस्त्री वितानमुल्लोचे यज्ञ-विस्तारयोः स्मृतम् ॥ १६७७ ॥ क्लीवन्त्ववसरे वृत्तौ त्रिलिंगो मन्द-शून्ययोः । वित्तो विचारिते लब्धे विज्ञाते न द्वयोर्धने ॥ १६७८ ॥ वित्तिः संभावना-लाभ-विचारेषु स्त्रियां मता । विदग्धो नागरे विज्ञे पण्डिते त्रिषु कीर्तिता ॥ १६७९ ॥ विदर्भजाऽगस्त्यपत्न्यां दमयन्त्यामपि स्मृता । विदारः स्याद् जलोच्छ्वासे युंगेऽपि च विदारणे ॥ १६८० ॥ विदारणं मारणे स्याद् विडंगे भेदने मतम् । स्त्रीपुंसयोः सम्पराये कर्णिकारतरौ पुमान् ॥ १६८१ ॥ विदारी भूमिकुष्माण्डे शालपर्ण्यां गलाऽऽमये । विदुरो नागरे धीरे कौरवाणां च मन्त्रिणि ॥ १६८२ ॥ ;p{0294} विद्धः क्षिप्ते कृतच्छिद्रे बाधिते ताडिते त्रिषु । विद्या ज्ञेया ज्ञान-दुर्गा-शास्त्राष्टादशकेषु च ॥ १६८३ ॥ विद्रवः क्षरणे बुद्धौ निन्दायां च पलायने । रत्नवृक्षे किशलये प्रवाले विद्रुमः पुमान् ॥ १६८४ ॥ विधः प्रकारे हस्त्यन्ने विमान-वेधनर्द्धिषु । विधा स्त्री गजदेयान्न ऋद्धौ कर्म-प्रकारयोः ॥ १६८५ ॥ वेधने वेतने चाथो विधानं करणे विधौ । विधिर्ब्रह्मणि गोविन्दे विधाने क्रम-भाग्ययोः ॥ १६८६ ॥ गजान्ने विधिवाक्ये च नियोगे काल-कर्मणोः । यागोपदेशकग्रन्थे प्रकारे च चिकित्सके ॥ १६८७ ॥ विधुर्नारायणे चन्द्रे कर्पूरे वायु-रक्षसोः । विधुरं तु प्रविश्लेषे कैवल्ये विकले त्रिषु ॥ १६८८ ॥ ;p{0295} विनतस्त्रिषु भुग्ने स्यात् प्रणते शिक्षितेऽपि च । स्त्रियां स्यात् पिटकाभेदे तथा गरुडमातरि ॥ १६८९ ॥ विनयः प्रणतौ दण्डे शिक्षायामपि कीर्तितः । विनायकस्तु रम्बे गुरौ गरुड-बुद्धयोः ॥ १६९० ॥ विनिपातो निपतने दैवे व्यसन-रीढयोः । विनीतः सुवहाश्वे स्याद् वणिग्-दमनवृक्षयोः ॥ १६९१ ॥ त्रिष्वसौ निभृते क्षिप्ते कृतदण्डे जितेन्द्रिये । विनीयः कल्मषे कल्के विनेता राज्ञि देशके ॥ १६९२ ॥ विनेयस्त्रिषु नेतव्ये दण्डनीयेऽपि कीर्तितः । विनोदः कौतुके क्रीडा-परिष्वङ्गविशेषयोः ॥ १६९३ ॥ बिन्दुः पुमान् रूपकार्थप्रकृति-ज्ञानशीलयोः । अनुस्वारे भ्रुवोर्मध्ये दशनक्षत-विप्रुषोः ॥ १६९४ ॥ ;p{0296} त्रिलिंगोऽसौ वेदितव्ये दातरि ज्ञातरि स्मृतः । विन्ध्यः शैलान्तरे व्याधे लवलीपादपे स्त्रियाम् ॥ १६९५ ॥ विन्नस्त्रिषु स्थिते ज्ञाते तथा प्राप्ते विचारिते । आपणे पण्यवीथ्यां च पण्येऽपि विपणद्वयोः ॥ १६९६ ॥ विपत्तिः स्त्री यातनायां विनाशे विपदि स्मृतः । विपन्नो विपदाक्रान्ते विनष्टे वाच्यलिंगभाक् ॥ १६९७ ॥ विपाको दुर्गतौ भोगे कर्मणो विसदृक्फले । परिणामे च पचने स्वादौ स्वेदे च जीविते ॥ १६९८ ॥ विप्रकारस्तिरस्कारेऽपकारेऽपि स्मृतः पुमान् । रोषेऽनुतापे कौकृत्ये विप्रतीसार उच्यते ॥ १६९९ ॥ विप्रलापो विरोधोक्तौ वाक्ये चानर्थकेऽप्यसौ । विप्लवः परचक्रादिभये राष्ट्राद्युपद्रवे ॥ १७०० ॥ ;p{0297} विप्रलम्भो विसंवाद-शृङ्गाररसभेदयोः । प्रतारणे विप्रयोगे विच्छेदेपि पुमानयम् ॥ १७०१ ॥ विफलं वाच्यवद् व्यर्थे केतव्यां विफला स्मृता । पर्याहारेऽयने भावे विवधो वीवधोऽपि च ॥ १७०२ ॥ विबुधश्चन्दिरे देवे पण्डितेऽपि स्मृतो बुधैः । विभवो मोक्ष ऐश्वर्ये द्रविणे वत्सरान्तरे ॥ १७०३ ॥ विभा प्रकाशे शोभायां किरणेऽपि स्त्रियां मता । विभाकरः सूर्यवह्नि-चित्राकाऽर्कद्रुमेषु च ॥ १७०४ ॥ विभावरी हरिद्राभ्यां कुट्टन्यां वक्रयोषिति । रात्रौ मौखर्यनिरतस्त्रियां मेदामहीरुहे ॥ १७०५ ॥ विभावसुः सूर्यचन्द्रमसोश्चित्रकपादपे । वैश्वानरेऽर्कवृक्षे च हारभेदेऽपि कीर्तितः ॥ १७०६ ॥ विभुर्विष्णो सुरज्येष्ठे शिवे सर्वगते जिने । प्रभौ नित्ये व्यापके च दृढे भृत्ये प्रकीर्तितः ॥ १७०७ ॥ ;p{0298} विभ्रमः संशये हारभेदे भ्रमण-शोभयोः । विमानोऽस्त्री व्योमयाने यानमात्रे तुरङ्गमे ॥ १७०८ ॥ बिम्बन्तु प्रतिबिम्बे स्यात् तुण्डिकेर्यां कमण्डलौ । अस्त्रियां सूर्य-शुभ्रांशुमण्डले विबुधैः स्मृतः ॥ १७०९ ॥ विरोचनो भास्करेऽर्कद्रुमे चन्द्रे धनञ्जये । प्रह्लादतनये रोहिद्रुम-श्योनाकभेदयोः ॥ १७१० ॥ बिलं गुहायां विवरे शक्राश्वे वेतसे पुमान् । विलासी केशवे चन्द्रे हरे वैश्वानरे स्मरे ॥ १७११ ॥ भुजङ्गमे भोगिनि च विलासो हारलीलयोः । बिलेशयः शशे सर्पे गोधाऽऽखु-शल्लकीषु च ॥ १७१२ ॥ विवरं तु बिले दोषे विवर्तः संघ-नृत्ययोः । विवस्वान् भास्करेऽर्कद्रौ वैवस्वतमनौ सुरे ॥ १७१३ ॥ ;p{0299} विवक्षा वक्तुमिच्छायां शक्तावपि निगद्यते । विवक्षितो वक्तुमिष्टे शक्यार्थेऽपि मतस्त्रिषु ॥ १७१४ ॥ विविक्तं निर्जने पूतेऽसंपृक्ते वाच्यलिङ्गयुक् । विवेकः पृथगात्मत्वे जलद्रोणी-विचारयोः ॥ १७१५ ॥ विशदो निर्मले व्यक्ते शौक्ल्यवत्यभिधेयवत् । विशल्याऽग्निशिखावृक्षे दन्तीवृक्षाऽजमोदयोः ॥ १७१६ ॥ कलिकारी-गुडुच्योश्च विशाखौ स्कन्द-याचकौ । विशारदस्त्रिषु श्रेष्ठे प्रगल्भे विश्रुते बुधे ॥ १७१७ ॥ बकुलेऽसौ पुमान् स्त्री तु दुरालभामहीरुहे । विशालः पक्षि-नृपति-मृग-वृक्षभिदासु च ॥ १७१८ ॥ विशाला त्विन्द्रवारुण्यां तीर्थभिद्-दक्षकन्ययोः । उज्जयिन्यामुपोदक्यां विशालं बृहति त्रिषु ॥ १७१९ ॥ ;p{0300} विशालाक्षः शिवे तार्क्ष्ये सुनेत्रे त्वभिधेयवत् । विशालाक्षी तु पार्वत्यां नागदन्त्यां वरस्त्रियाम् ॥ १७२० ॥ विशिखस्तोमरे बाणे शिखाहीने त्वसौ त्रिषु । विशाखा नालिकायां स्यात् खनित्री-रथ्ययोः स्त्रियाम् ॥ १७२१ ॥ विशुद्धं विशदे सत्ये चक्रे च निभृते त्रिषु । विशेषस्तिलके व्यक्तौ काव्यालंकरणेऽपि च ॥ १७२२ ॥ प्रकारे च प्रभेदे च पदार्थान्तर एव च । विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ १७२३ ॥ विश्रुतस्त्रिषु संहृष्टे प्रसिद्ध-ज्ञातयोरपि । विश्वं तु भुवने शुण्ठ्यां बोले पुंसि तु नागरे ॥ १७२४ ॥ गणदेवविशेषे च मानभेदेऽखिले त्रिषु । विश्वकर्मा सहस्रांशौ त्रिदशानां च शिल्पिनि ॥ १७२५ ॥ ;p{0301} विश्वंभरो हरौ शक्रे पृथिव्यां तु स्त्रियामसौ । विषं जले वत्सनाभे गरले पद्मकेशरे ॥ १७२६ ॥ नियामके जनपदे कान्तादौ नित्यसेविते । रूपादौ विषयोऽव्यक्ते आरोपाश्रय-शुक्रयोः ॥ १७२७ ॥ विषयी राज्ञि कन्दर्पे ध्वनौ वैषयिके पुमान् । त्रिलिंङ्गो विषयासक्ते हृषीके तु नपुंसकम् ॥ १७२८ ॥ विषाणं गजदन्ते स्यात् कुष्ठभेषज-शृङ्गयोः । विषाणिका मेषशृङ्गी-सातलाऽऽवर्तकीषु च ॥ १७२९ ॥ विष्कम्भः प्रतिबन्धे स्यात् विस्तारेऽर्गल-वृक्षयोः । योगिबन्धान्तरे योग-रूपकाङ्गप्रभेदयोः ॥ १७३० ॥ विष्टम्भः प्रतिबन्धे स्याद् आनाहरुजि कीर्तितः । विष्टरो दर्भमुष्टौ स्यात् पीठाद्यासन-शाखिनोः ॥ १७३१ ॥ विष्टिः स्त्री वेतने वृष्टौ भद्राऽऽजू-कर्मसु स्मृता । त्रिषु कर्मकरे विष्टिर्दूरस्थाने तु बिष्ठलम् ॥ १७३२ ॥ ;p{0302} विष्णुर्नारायणे वह्नौ शुद्धे मुन्यन्तरे वसौ । पद्मेऽन्तरिक्षे क्षीरोदे क्लीवं विष्णुपदे स्मृतम् ॥ १७३३ ॥ विसरः प्रसरे संघे विसर्गो मलनिर्गमे । विसर्जनीये कैवल्ये दाने त्याग-विसृष्ट्ययोः ॥ १७३४ ॥ विसर्जनं परित्यागे दाने सम्प्रेषणे मतम् । विसृत्वरो विसरणे गतिभेदे त्रिलिंगभाक् ॥ १७३५ ॥ विस्तरो वाक्प्रपञ्चे विस्तारे प्रणये चये । विस्तारो विटपे स्तम्बे विस्तीर्णत्वेऽपि कीर्तितः ॥ १७३६ ॥ विस्मापनस्तु कुहके गन्धर्वनगरे स्मरे । विहगो भास्करे चन्द्रे ग्रहेभे पक्षि-वाणयोः ॥ १७३७ ॥ ;p{0303} विहङ्गश्चन्दिरे सूर्ये मेघे वाणे पतत्रिणि । विहङ्गमा भारयष्टौ स्त्री खगे तु विहंगमः ॥ १७३८ ॥ उक्तं विहननं हिंसा-विघ्नयोस्तूलपिञ्जरे । विहस्तः पुंसि पण्डे स्यात् पण्डिते व्याकुले त्रिषु ॥ १७३९ ॥ विहारो भ्रमणे स्कन्धे विन्दुरेखकरक्षिणि । परिक्रमे वैजयन्ते च लीलायां सुगतालये ॥ १७४० ॥ विहेठनं विबाधायां हिंसायां च विडम्बने । विक्षेपः प्रेरणे त्यागे पुमान् विक्षेपणेऽप्यसौ ॥ १७४१ ॥ वीको वायौ खगे चित्ते वीकाशो रहसि स्फुटे । वीङ्खा स्त्री शूकशिम्ब्यां स्यात् सन्धौ नृत्ये गतेर्भिदि ॥ १७४२ ॥ वीचिः स्त्रीपुंसयोः स्वल्पतरङ्गे किरणाल्पयोः । अवकाशे सुखे भंगे वीची वीचिरिमावपि ॥ १७४३ ॥ ;p{0304} बीजं शुक्रेऽङ्कुरे मन्त्रे कारणे गणितान्तरे । तत्त्वाधाने बीजकस्तु सर्जके मातुलुंगके ॥ १७४४ ॥ वीजनं व्यजने क्लीवं पुमान् कोक-चकोरयोः । वीजी पितरि ना बीजविशिष्टे त्वभिधेयवत् ॥ १७४५ ॥ सुसज्जीकृतताम्बूले वीटी वीटिश्च वीटिका । विपञ्ची-विद्युतोर्वीणावीतः शान्तगते त्रिषु ॥ १७४६ ॥ वीतरागो जिने बुद्धे रागहीने त्वसौ त्रिषु । वीतशोकोऽशोकवृक्षे शोकहीने त्वसौ त्रिषु ॥ १७४७ ॥ वीतिः स्त्री प्रजने दीप्तौ भोजने धावने गतौ । वीतिः पुमान् हये वीतिहोत्रो वह्नौ दिवाकरे ॥ १७४८ ॥ गृहांगे वर्त्मनि श्रेण्यां वीथिर्वीथी च वीथिका । वीध्रं व्योम्न्यनले वायौ निर्मले तु त्रिलिंगभाक् ॥ १७४९ ॥ ;p{0305} वीरं तु तगरो-शीर-काञ्जिकेषु विषौषधौ । आरूके मरिचे पोटगल-पुष्करमूलयोः ॥ १७५० ॥ वीरः पुंसि जिने विष्णौ हनूमति रसान्तरे । करवीरे यज्ञवह्नावर्जुने सुभटे नटे ॥ १७५१ ॥ लताकरञ्जे वाराहकन्द-तान्त्रिकभावयोः । वाच्यलिंगस्त्वसौ श्रेष्ठ-वीराचारविशिष्टयोः ॥ १७५२ ॥ वीरा स्त्रियां तामलकी-शिंशपाऽतिविषासु च । पतिपुत्रवती-क्षीरकाकोली-कदलीष्वपि ॥ १७५३ ॥ एलावालुक-गम्भारी-गृहकन्या-सुरासु च । मुरो-दुम्बरिका-क्षीरविदारी-दुग्धिकास्वपि ॥ १७५४ ॥ काकोदुम्बरिका-ब्राह्मी-विदारीष्वपि कीर्तिता । काकिलाक्षे नदीसर्जे वह्नौ वीरतरुः पुमान् ॥ १७५५ ॥ ;p{0306} वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे त्रिदिग्गणे । वीर्यं बले प्रभावे च शक्तौ चेतसि रेतसि ॥ १७५६ ॥ दीप्तावतिशयोत्साहे वीक्ष्यं विस्मय-दृश्ययोः । वीक्ष्यो ना लासके वाहे दर्शनीये त्वसौ त्रिषु ॥ १७५७ ॥ वृकः शृगाले सरलद्रवे काके वकद्रुमे । ईहामृगेऽनेकधूपे क्षत्रियेऽपि पुमानसौ ॥ १७५८ ॥ अम्बष्ठायां वृका प्रोक्ता पाठायां तु वृकी मता । वृजिनाश्चकुरे पुंसि कुटिले तु त्रिलिंगकः ॥ १७५९ ॥ कल्मषे कुटिले रक्तचर्मण्यपि नपुंसकम् । वृतिः स्त्री वेष्टने गुप्तौ वरणे प्रार्थनान्तरे ॥ १७६० ॥ वृत्तं पद्ये चरित्रे च शास्त्रोक्ताचारपालने । वृत्तस्त्रिषु दृढेऽतीते मृतेऽधीते च वर्तुले ॥ १७६१ ॥ ;p{0307} कृताऽऽवृतौ च कूर्मे तु पुल्लिंगोऽथ स्त्रियामसौ । प्रियंगौ मांसरोहिण्यां रेणुका-झिञ्झिरिष्टयोः ॥ १७६२ ॥ शिरीषे कुब्जके वृत्तपुष्पो वानीर-नीपयोः । वृत्तान्तः प्रक्रिया-भाव-कार्त्स्न्येष्वेकान्तवाचके ॥ १७६३ ॥ वार्ताप्रभेदे संवादे प्रस्तावेऽवसरे तथा । वृत्तिः स्त्रियां विवरणे जीविकायां प्रवर्तने ॥ १७६४ ॥ कौशिक्यादौ च विधृतौ वार्तायामपि कीर्तिता । वृत्रः पुरन्दरे मेघे सपत्ने दानवान्तरे ॥ १७६५ ॥ शैलभेदेऽन्धकारे च शब्देऽपि कथितः क्वचित् । वृत्तं प्रसवबन्धे स्याद् घटीधारा-कुचाग्रयोः ॥ १७६६ ॥ वृन्दारकः पुंसि यूथपातरि त्रिदशे स्मृतः । त्रिलिंगः सुन्दरे श्रेष्ठे वृशो वासक उन्दरौ ॥ १७६७ ॥ ;p{0308} वृश्चिकः शूककीटेऽलौ कर्कटे भेषजानतरे । आग्रहायणिके हाले हालिके मदनद्रुमे ॥ १७६८ ॥ राशौ गोमयकीटे ना नखपर्ण्यां स्त्रियामसौ । वृषो ना वृषभे धर्मे मूषिके शुक्रले रिपौ ॥ १७६९ ॥ श्रीकृष्णे मदने वास्तुस्थानभेदे च वासके । वलिष्ठ ऋषभौषध्यां श्रेष्ठे चोत्तरसंस्थिते ॥ १७७० ॥ वृषध्वजो हरे विघ्नराजे च पुण्यकर्मणि । वृषपर्वा शिवे दैत्यभेदे भृङ्गारुपादपे ॥ १७७१ ॥ वृषभो ना बलीवर्द-वैदर्भीरीतिभेदयोः । आद्यतीर्थंकरे श्रेष्ठे कर्णरन्ध्रेऽगदान्तरे ॥ १७७२ ॥ ;p{0309} वृषलोऽधार्मिके शूद्रे चन्द्रगुप्तनृपे हये । शूद्र्यां सार्तवकन्यायां वृषली परिकीर्त्यते ॥ १७७३ ॥ वृषा पुमान् शुनाशीरे वेदनाज्ञान-दुःखयोः । घोटके श्रवणे भद्रे कपिकच्छ्वां वृषा स्त्रियाम् ॥ १७७४ ॥ वृशाकपायी गौरी-श्री-शची-स्वाहासु कीर्तिता । वृषाकपिः शिवे विष्णौ शक्रे वैश्वानरे पुमान् ॥ १७७५ ॥ वृषाङ्कः शंकरे षण्डे साधौ भल्लातके स्मृतः । वृष्णिः कृष्णे यदौ गोपे मेषे पाषण्ड-चण्डयोः ॥ १७७६ ॥ बृहती स्त्री वारिधानी-भण्टाकी-महतीषु च । संव्याने कण्टकारी-वाक्-छन्दोभेदेषु कीर्तिता ॥ १७७७ ॥ कटुतुम्बी-महाजम्बू-कूष्माण्डीषु बृहत्फला । इन्द्रे मन्त्रे यज्ञपात्रे सामांशेऽपि बृहद्रथः ॥ १७७८ ॥ ;p{0310} बृहन्नलो गुडाकेशे महानड उदुम्बरे । वृक्षादनो मधुच्छत्रे कुठारे वृक्षभेदिनि ॥ १७७९ ॥ प्रियाले पिप्पलेऽसौ स्त्री विदारीकन्द-वन्दयोः । वेगो महाकालफले जवे रेतः-प्रवाहयोः ॥ १७८० ॥ वेगी शशादने जंघाकरिके च त्रिलिंगकः । वेडा स्त्री नावि वेडं तु सान्द्रविच्छिन्नचन्दने ॥ १७८१ ॥ वेणिः स्त्रियां विहरिणीबद्धकेशे जलोच्चये । वेणी स्त्री देवताऽद्रौ प्रवाहे सरिदन्तरे ॥ १७८२ ॥ प्रवेण्यामथ वेणुर्ना वंशे वंश्यां नृपान्तरे । वेतनं जीवनोपाये रुप्य-कर्मण्ययोरपि ॥ १७८३ ॥ वेतालो मल्लभेदे स्यात् द्वास्थे शिवगणाधिपे । भूताधिष्ठितकुपणे वेत्रोऽसुर-सुदण्डयोः ॥ १७८४ ॥ ;p{0311} वेदो नारायणे वृत्ते यज्ञाङ्काऽऽम्नाययोरपि । वेदना स्त्री परिणयेऽनुभवे ज्ञान-दुःखयोः ॥ १७८५ ॥ वेदिः पुमान् बुधे वेदिर्वेदी स्त्री संस्कृतावनौ । अपि चांगुलिमुद्रायां सरस्वत्यामपि स्मृता ॥ १७८६ ॥ वेदी पुमान् कोविदे स्याद् ब्रह्मणि ज्ञातरि त्रिषु । वेधो व्यधे गभीरत्वे वेधकं धान्यके मतम् ॥ १७८७ ॥ चन्द्रेऽम्लवेतसे पुंसि वेधकर्तरि तु त्रिषु । वेधनी मेथिका-हस्ति-कर्णवेधनशस्त्रयोः ॥ १७८८ ॥ वेधा ब्रह्मणि गोविन्दे सहस्रांशौ विपश्चिति । अनन्तपुत्रे श्वेतार्कपादपेऽपि पुमानयम् ॥ १७८९ ॥ वेरं कुंकुम-वार्ताकु-शरीरेषु नपुंसकम् । बेला क्षणादिसमये मर्यादा-दन्तमांसयोः ॥ १७९० ॥ ;p{0312} अक्लिष्टमरणे वाचि रोगे रागे बुधस्त्रियाम् । अब्ध्यम्बुविकृतौ सिन्धुकूले चेश्वरभोजने ॥ १७९१ ॥ वेल्लमस्त्री विडङ्गे स्याद् गमने तु पुमानसौ । वेल्लनं लुण्ठनेऽश्वादेः रोढी निर्माणदारुणि ॥ १७९२ ॥ वेल्लितं गमने क्लीवं कुटिले कम्पिते त्रिषु । वेशः प्रवेशे नेपथ्ये वेश्यावेश्मनि सद्मनि ॥ १७९३ ॥ वेशको भवने पुंसि त्रिलिंगो वेशकारके । वेशन्तः पल्लवे वह्नौ वेशरोऽश्वरतेऽपि च ॥ १७९४ ॥ वेष्टः श्रीवेष्ट-निर्यास-वेष्टनेषु निगद्यते । वेष्टनं कर्णशष्कुल्यां गुग्गुलौ मुकुटे वृतौ ॥ १७९५ ॥ उष्णीषेऽप्यथ रुद्धे स्याद् वेष्टितं करणान्तरे । वैकुण्ठस्तु हृषीकेशे विडौजसि सितार्जके ॥ १७९६ ॥ ;p{0313} वैजयन्तो गुहे शक्रप्रासाद-ध्वजयोरपि । पताकायामग्निमन्थे नादेय्यां वैजयन्तिका ॥ १७९७ ॥ वैजयन्ती पताकायामग्निमन्थे जपाद्रुमे । मालाभेदे वैजिकन्तु शिग्रुतैलाऽऽत्महेतुषु ॥ १७९८ ॥ पुमान् सद्योऽङ्कुरे बीजसम्बन्धिनि तु वाच्यवत् । वैतालिकः खेट्टिताले पुंसि बोधकरे त्रिषु ॥ १७९९ ॥ वैदेहकः सार्थवाहे शूद्राद् वेश्यासुतेऽपि च । वैदेही पिप्पली-सीता-रोचनासु वणिक्स्त्रियाम् ॥ १८०० ॥ वैद्यो बुधेऽगदंकारे सम्बन्धीये श्रुतेस्त्रिषु । वैनतेयोऽरुणे तार्क्ष्ये विद्वद्भिः परिकीर्तितः ॥ १८०१ ॥ वैनाशिकः पराधीने लूतायां क्षणिके स्मृतः । वैरोचनिर्बलौ बुद्धे सिद्धे सूर्याऽनलात्मजे ॥ १८०२ ॥ ;p{0314} वैल्वं बिल्वफले क्लीवं विल्वसम्बन्धिनि त्रिषु । वैवस्वतो यमे रुद्रे शनौ च सप्तमे मनौ ॥ १८०३ ॥ दक्षिणाशा-यमुनयोः स्मृता वैवस्वती स्त्रियाम् । वैशाखः पुंसि मन्थानदण्ड-माधवमासयोः ॥ १८०४ ॥ कुबेरपुर्यां न्यग्रोधे स्मृतो वैश्रवणालयः । वैश्वानरो वीतिहोत्रे चित्रकाख्यौषधावपि ॥ १८०५ ॥ वैष्णवो विष्णुभक्ते ना विष्णुसम्बन्धिनि त्रिषु । वैष्णवी स्याद् विष्णुशक्ति-दुर्गा-भागीरथीषु च ॥ १८०६ ॥ अपराजिता-तुलस्योः शतवर्यामपि स्त्रियाम् । बीडी स्त्री पणतुर्यांशे बोड्रो गोनासमत्स्ययोः ॥ १८०७ ॥ वोढा पुमान् बलीवर्दे सारथौ परिणेतरि । ऋषभे भारिके मूढे व्यक्तः प्राज्ञे स्फुटे त्रिषु ॥ १८०८ ॥ व्यक्तिः स्त्री पृथगात्मत्वे स्पष्टतायां जनेऽपि च । न्यग्रो नारायणे पुंसि व्यासक्ते व्याकुले त्रिषु ॥ १८०९ ॥ ;p{0315} व्यङ्गो मण्डूक-हीनाङ्ग-मुखरोगभिदासु च । व्यञ्जनं सूप-शाखादौ दिने चिह्नेऽर्धमात्रिके ॥ १८१० ॥ स्त्रीपुंसयोर्गुह्यदेशे श्मश्रुण्यऽवयवे स्मृतम् । व्यतिषङ्गे व्यतिकरः सम्बन्धे व्यसने चये ॥ १८११ ॥ व्यतीपातो महोत्पाते योगभेदापयानयोः । व्यपदेशो नामधेये छल-वाक्यविशेषयोः ॥ १८१२ ॥ व्यभिचारः कदाचार-शास्त्रान्तर्गतदोषयोः । व्यलीकमप्रियेऽकार्य-कामजन्यापराधयोः ॥ १८१३ ॥ वैलक्ष्ये पीडने व्यंग्ये तथा गतिविपर्यये । व्यवच्छेदः पृथक्त्वे स्याद् व्यावृत्तौ बाणमोक्षणे ॥ १८१४ ॥ व्यवसायो जीविकायामनुष्ठाने च निश्चये । व्यवहारः पणे न्याये विवादे पादपे स्थितौ ॥ १८१५ ॥ ;p{0316} शोधन्यां लोकयात्रायामिंगुदे व्यवहारिका । व्यवायो मैथुनेऽन्तर्द्धौ शुद्धौ क्लीवन्तु तेजसि ॥ १८१६ ॥ व्यसनं किल्विषे भ्रंशे विपत्तौ निष्फलोद्यमे । दैवानिष्टफलेऽभद्रे दोषे कामज-कोपजे ॥ १८१७ ॥ विपरीते त्रिषु व्यस्तः प्रत्येकं व्याकुले तते । व्याघातः प्रहृतौ विघ्ने योगे साहित्यभूषणे ॥ १८१८ ॥ व्याघ्रः करञ्जे शार्दूले चञ्चौ श्रेष्ठपुरःस्थिते । व्याजोऽपदेशे कपटे व्याडोऽहौ वञ्चके हरौ ॥ १८१९ ॥ व्याधो मृगवधाजीवे दुष्टेऽथ व्याधिरामये । कुष्ठे कामव्यथतापजन्यकार्श्येऽप्यसौ पुमान् ॥ १८२० ॥ ;p{0317} व्यापी व्यापक-गोविन्दाऽऽच्छादकेषु त्रिलिंगकः । व्यापृतः कर्मसचिवे त्रिषु व्यापारसंयुते ॥ १८२१ ॥ व्याप्तं पूर्णे समाक्रान्ते स्थापितेऽपि त्रिलिंगभाक् । व्याप्तिः साध्यवदन्यस्मिन्न सम्बन्धे च लम्भने ॥ १८२२ ॥ व्यापने भूतिभेदेऽपि स्त्रियां सद्भिरुदाहृता । व्यायतं तु दृढे दैर्घ्ये व्यापृतेऽतिशये त्रिषु ॥ १८२३ ॥ व्यायामो दुर्गसंचार-मल्लक्रीडा-श्रमेषु च । विषमे पौरुषे व्यामे श्रमेऽपि कथितः पुमान् ॥ १८२४ ॥ व्यालो दुष्टगजे व्याघ्रे श्वापदेऽहौ च चित्रके । नृपेऽपि त्रिष्वसौ तुच्छठे धूर्तेऽपि कीर्तितः ॥ १८२५ ॥ व्यावृत्तिः स्त्री व्यवच्छेदेऽवृत्ति-खण्डनयोरपि । व्यासो द्वैपायने मानविशेषे पाठकद्विजे ॥ १८२६ ॥ गोलस्य मध्यरेखायां विस्तारेऽपि प्रयुज्यते । व्यासक्तस्त्रिषु संसक्ते विशेषासंगवत्यपि ॥ १८२७ ॥ ;p{0318} विरोधाचरणे नृत्यप्रभेदे प्रतिरोधने । समाधिपारणे स्वैरवृत्तौ व्युत्थानमीरितम् ॥ १८२८ ॥ शक्तिज्ञाने च संस्कारे व्युत्पत्तिः स्त्री प्रकीर्तिता । व्युदासो ना व्यवच्छेदे परित्याग-निवासयोः ॥ १८२९ ॥ व्युष्टं प्रभाते दिवसे फले क्लीवं त्रिषु त्वसौ । मतः पर्युषिते दग्धे व्युष्टिः स्त्री स्यात्फले स्तुतौ ॥ १८३० ॥ ऋद्धौ व्यूढस्तु विन्यासे पृथुले संहते त्रिषु । व्यूहो ना सैन्यविन्यासे तर्के देहे कृतौ चये ॥ १८३१ ॥ व्योमनीरेऽभ्रकेऽभ्रे च भास्करस्यार्चनाश्रये । व्योमचारी खगे देवे द्विजाते चिरजीविनि ॥ १८३२ ॥ व्योमचारी पुमान् देवे विहंगे चिरजीविनि । वज्रे ना निवहे मार्गे गोष्ठ-देशप्रभेदयोः ॥ १८३३ ॥ व्रज्या स्त्री गमने रङ्ग-विजिगीषुप्रयाणयोः । वर्गे पर्यटने ज्ञेया व्रणोऽस्त्री स्यात् क्षतेऽरुषि ॥ १८३४ ॥ ;p{0319} वल्ली-विस्तारयोर्बोध्ये व्रततिर्व्रतती स्त्रियौ । व्रश्चनः पत्रपरशु-द्रुमनिर्यासयोः पुमान् ॥ १८३५ ॥ आशुधान्ये धान्यमात्रे पुमान् व्रीहिरुदाहृतः । प्रियुंगु-धान्ये चीनाके कथितो व्रीहिराजिकः ॥ १८३६ ॥ शम्बो ना मुशलाग्रस्थलोहमण्डल-वज्रयोः । लोहमय्यां शृङ्खलायां त्रिलिंगस्तु शुभान्विते ॥ १८३७ ॥ शम्बरं सलिले क्लीबं दैत्यभेदे त्वसौ पुमान् । शंसा वाक्ये प्रशंसायां वाच्छायामप्यसौ स्त्रियाम् ॥ १८३८ ॥ शंसितस्त्रिषु निर्णीते स्तवने हिंसितेऽप्यसौ । शको देशान्तरे म्लेच्छजातौ च शालिवाहने ॥ १८३९ ॥ शकटोऽस्त्री विष्णुवध्यासुरेऽनः शाकटीनयोः । शकलं वल्कले शल्के खण्ड-त्वग्-रागवस्तुषु ॥ १८४० ॥ ;p{0320} अस्त्रियामेकदेशेऽसौ भित्तेऽपि शकली झषे । शुभशंसि निमित्ते स्यात् शकुनं फललक्षणे ॥ १८४१ ॥ शकुनः पुंसि विहगे महगीते द्विजान्तरे । शकुनिः पुंसि विहगे चिल्लपक्षिणि सौवले ॥ १८४२ ॥ विकुक्षिपत्रे करणप्रभेदे दुस्सहात्मजे । शकुन्तः कीटभेदे ना विहगे भासपक्षिणि ॥ १८४३ ॥ कट्फले जलपिप्पल्यां मांसी-कश्चटशाकयोः । चक्राङ्गी-गजपिप्पल्योः स्यात् स्त्रियां शकुलादनी ॥ १८४४ ॥ शक्वरी स्त्री सरिद्भेदे मेखला-वृत्तभेदयोः । शक्तिः स्त्री प्रकृति-गौर्यां लक्ष्म्यामस्त्रान्तरे बले ॥ १८४५ ॥ शक्रः पुरन्दरे ज्येष्ठानक्षत्रे कुटजद्रुमे । शक्रिर्ना कुलिशे मेघे मतङ्गज-महीघ्रयोः ॥ १८४६ ॥ ;p{0321} शंकरो ना महादेवे त्रिषु मंगलकारके । कर्पूरभेदे कैलाशे शङ्करावास ईरितः ॥ १८४७ ॥ शंकरी स्त्री शक्तुफला-मञ्जिष्ठा-पार्वतीषु च । शङ्कितस्तर्किते भीते त्रिषु पुंसि तु चोरके ॥ १८४८ ॥ शंका त्रासे वितर्के च संशये समुदाहृता । शंकुर्ना स्थाणु-शल्यास्त्र-संख्याभेदेषु कीलके ॥ १८४९ ॥ कीले पत्रशिराजाल-द्वादशांगुलमानयोः । गन्धद्रव्ये नखीसंज्ञे मेढ्र-मत्स्यान्तरेऽस्रपे ॥ १८५० ॥ महादेवे च कलुषे यादस्यप्यथ शंकुला । कथिता पूगकर्तन्यां पत्र्यां कुवलयस्य च ॥ १८५१ ॥ शंखोऽस्त्रियां ललाटास्थ्नि कम्बौ संख्यान्तरे निधौ । दन्तिदन्तान्तराले च रणवाद्यान्तरे मुनौ ॥ १८५२ ॥ ;p{0322} शंखकं वलयेऽस्त्री तु कम्बौ पुंसि शिरोरुचि । क्षुद्रशंखे बृहन्नख्यां स्मृतः शंखनखः पुमान् ॥ १८५३ ॥ शंखनी श्वेतपुन्नागे स्त्रीभेद-यवतिक्तयोः । चोरपुष्पी-श्वेतवृन्दा-श्वेतचुक्रासु कीर्तिता ॥ १८५४ ॥ उपदेवताविशेषे बुद्ध-शक्त्यन्तरेऽप्यसौ । शंखी ना केशवे सिन्धौ शांखिके त्रिषु शंखिनि ॥ १८५५ ॥ शची स्त्री शक्रभार्यायां वर्यां स्त्रीकरणान्तरे । शठं तु तगरे लोहे कुंकुमेऽपि नपुंसकम् ॥ १८५६ ॥ शठी ना धूर्त-धुस्तूर-मध्यस्थपुरुषेषु च । शण्द-शण्ढौ समौ वन्ध्यपुरुषेऽन्तर्महल्लिके ॥ १८५७ ॥ उन्मत्ते गोपतौ क्लीवे शतकुम्भोऽचलान्तरे । कुलिशो वृन्दसंख्यायां शतकोटिः पुमान् स्मृतः ॥ १८५८ ॥ ;p{0323} शतघ्नी स्त्री कण्ठरोगे शस्त्रभेदे करञ्जके । वृश्चिकाल्यामथो काष्ठकुट्टे पद्मे शतच्छदः ॥ १८५९ ॥ अथ ब्रह्मणि सूत्राम्णि स्वर्गे शतधृतिः पुमान् । शतपत्रं पद्मे स्यात् शतपत्रः शिखावले ॥ १८६० ॥ पुष्कराह्वे राजकीरे दावीघाटविहंगमे । कर्णकीटी-शतावर्योः प्रोक्ता शतपदी स्त्रियाम् ॥ १८६१ ॥ शतपर्वा पुमान् इक्षुविशेष-त्वचिसारयोः । स्त्रियां त्वसौ वचा-दूर्वा-शारदी-कटुकासु च ॥ १८६२ ॥ यवे वचायां दूर्वायां स्यात् स्त्रियां शतपर्विका । काकोल्यां कर्णकीट्यां च स्यात् स्त्रियां शतपादिका ॥ १८६३ ॥ शतपुष्पा सितच्छत्रा-सूक्ष्मपत्रिकयोः स्त्रियाम् । कुलिशे दक्षकन्यायां विद्युति स्त्री शतह्रदा ॥ १८६४ ॥ ;p{0324} शतानन्दः सुरज्येष्ठे देवकीनन्दने मुनौ । गौतमे केशवरथे शताङ्गस्तिनिशे रथे ॥ १८६५ ॥ शतानीको राजभेदे प्रवयो-मुनिभेदयोः । सुदासराजपुत्रेऽथ शक्रपत्न्यां शतावरी ॥ १८६६ ॥ इन्दीवरी-गन्धशट्योः शतेरः शत्रु-हिंसयोः । शताह्वा शतपुष्पायां शतावर्यामपि स्त्रियाम् ॥ १८६७ ॥ शताक्षी शतपुष्पायां पार्वत्यां रजनावपि । शपो निर्भत्सने गालिप्रदाने शपथे पुमान् ॥ १८६८ ॥ सत्यावधारणे दिव्ये कारे च शपथः पुमान् । शपनं शपथे गालौ वृक्षमूले खुरे शफम् ॥ १८६९ ॥ शब्दभेदी शब्दवेधी समौ दाशरथेऽर्जुने । शमः शान्तौ करे मुक्तावन्तरिन्द्रियनिग्रहे ॥ १८७० ॥ ;p{0325} विक्षेपकर्मोपरमे क्रियायां चित्तसंयमे । शमनं चर्वणे शान्तौ यज्ञार्थपशुघातने ॥ १८७१ ॥ हिंसायां चाथ शमनः कृतान्ते हरिणान्तरे । शमथः सचिवे शान्तौ समलं गूथ-पापयोः ॥ १८७२ ॥ शमी स्त्रियां वल्गुलिका-शिम्बा-शक्तुफलासु च । शम्पाको ना यावके स्यात् आरग्वध-विपाकयोः ॥ १८७३ ॥ शम्बो ना मुशलाग्रस्थलोहमण्डलेऽधने । वज्रेऽनुलोमकृष्टौ च लौहकाञ्च्यामपीष्यते ॥ १८७४ ॥ शुभान्विते भाग्यवति त्रिलिंगोऽयमुदाहृतः । शम्बरं सलिले चित्रे वित्ते बौद्धव्रते व्रते ॥ १८७५ ॥ शम्बरो ना जिने शैले दैत्ये मत्स्येऽर्जुनद्रुमे । चित्रकद्रौ मृगे लोध्रे युद्धे श्रेष्ठे त्वसौ त्रिषु ॥ १८७६ ॥ ;p{0326} पाथेयेऽन्यशुभद्वेषे कूले च शम्बलोऽस्त्रियाम् । शम्बूको ना दैत्यभेदे शूद्रतापस-शंखयोः ॥ १८७७ ॥ गजकुम्भान्तरेऽथ स्त्रीपुंसयोर्जलशुक्तिषु । शम्भुर्ना शंकरे विष्णौ विरिञ्चौ बुद्ध-सिद्धयोः ॥ १८७८ ॥ शम्भुप्रिया तु पार्वत्यामामलक्यामपि स्मृतः । कार्तिकेये गणेशे च कीर्तितः शम्भुनन्दनः ॥ १८७९ ॥ शयो भुजंगे शय्यायां निद्रायां पणहस्तयोः । शयथस्त्रिषु निद्रालौ पुमान् अजगरे मृतौ ॥ १८८० ॥ शयनं मैथुन स्वापे शय्यायामपि कीर्तितम् । शयनीयं तु शय्यायां शयनार्हे त्वसौ त्रिषु ॥ १८८१ ॥ शयानकस्त्वजगरे कृकलासे च कीर्तितः । शयालुस्त्रिषु निद्रालौ कुकरेऽजगरे पुमान् ॥ १८८२ ॥ शयितस्त्रिषु निद्राणे वसन्तकुसुमे पुमान् । शयने तु स्मृतं क्लीवमथ क्लीवं शरं जले ॥ १८८३ ॥ ;p{0327} शरो ना गुन्द्रके बाणे हिंसा-दध्यग्रभागयोः । सन्तानिकायां नलदे महापिण्डीतरावपि ॥ १८८४ ॥ हैयङ्गवीने शरजं नवनीतेऽपि कीर्तितम् । कुसुम्भशाके शरटः कृकलासेऽप्यसौ स्मृतः ॥ १८८५ ॥ शरणे रक्षके गेहे रक्षणे घातके वधे । शरणा तु प्रसारिण्यां शरणिः स्त्री क्षितौ पथि ॥ १८८६ ॥ शरणी स्त्री प्रसारिण्यां जयन्ती-मार्गयोरपि । शरण्डः कामुके धूर्ते शरटे भूषणे खगे ॥ १८८७ ॥ शरणुः पुंसि जीमूते भरण्यौ मातरिश्वनि । शरत् स्त्री वत्सरे कालप्रभाते स्त्रीरजस्यपि ॥ १८८८ ॥ शरभो वा महासिंहे करभे वानरान्तरे । क्रमेलके च शलभे शरमल्लस्तु पक्षिणि ॥ १८८९ ॥ ;p{0328} शरवाणिः पुमान् पद्मे बाणाग्रे चिरजीविनि । शालाजिरे शेटके च शरावोऽस्त्री प्रकीर्तितः ॥ १८९० ॥ शरीरजः स्मरे पुत्रे रोगे त्रिषु तु देहजे । शरीरावरणं चर्म-कायवेष्टनयोरपि ॥ १८९१ ॥ शरुर्ना कुलिशे क्रोधे विशिखाऽऽयुधयोरपि । शर्करा स्त्री कर्परांशे शकल-व्याधिभेदयोः ॥ १८९२ ॥ सितोपलायां पाषाण-शर्करान्वितदेशयोः । शर्वः शिवे हृषीकेशे शर्वरं तमसि स्मरणे ॥ १८९३ ॥ शर्वरी स्त्री हरिद्रायां नारी-सन्ध्या-निशासु च । शर्शरीकः खले हिंस्रे वीतिहोत्रे तुरंगमे ॥ १८९४ ॥ शलो ब्रह्मणि कुन्तास्त्रे क्षेत्रभेदे क्रमेलके । भृङ्गरीटेऽथ शलली शल्लकीलोम्नि शल्यके ॥ १८९५ ॥ ;p{0329} शलाका शारिकाऽऽलेख्यकूर्चिका-शल्लकीषु च । छत्रादिकोष्ठी-मदनद्रु-शल्येषु शरेऽस्थ्नि च ॥ १८९६ ॥ शलाटुर्ना मूलभेदे बिल्वेऽपक्वफले त्रिषु । शल्कं स्याद् वल्कले मत्स्यत्वचि खण्डेऽपि नद्वयोः ॥ १८९७ ॥ शल्यं कीकस-दुर्वाक्य-बाणेषु किल्विषे विषे । तोमरे दुःसहे वंशकम्बिकायां नपुंसकम् ॥ १८९८ ॥ शल्यो ना शल्लकी-सीमा-शलाका-मदनद्रुषु । मत्स्यप्रभेदे मालूरद्रुमे पाण्डवमातुले ॥ १८९९ ॥ कुन्तास्त्रे त्वस्त्रियां श्वाविन्मदनद्रवोश्यस्तु शल्यकः । शल्लकीगजभक्ष्यायां शल्यकेऽपि स्त्रियामसौ ॥ १९०० ॥ शबं स्यात् सलिले क्लीवं कुणपे पुंनपुंसकम् । शबरः सलिले म्लेच्छजातौ शास्त्रान्तरे करे ॥ १९०१ ॥ ;p{0330} शशो मृगान्तरे लोध्रे बोले चन्दिरलाञ्चने । पुंविशेषेऽथ कर्पूरे चन्द्रे शशधरः स्मृतः ॥ १९०२ ॥ शशविन्दुः पुमांश्चित्ररथपुत्रे त्रिविक्रमे । चन्दिरे घनसारे च शशाङ्कः समुदाहृतः ॥ १९०३ ॥ शशिकान्तं तु कुमुदे चन्द्रकान्तमणौ तु ना । मौक्तिके कुमुदे चन्द्रप्रभायुक्ते शशिप्रभम् ॥ १९०४ ॥ शशिलेखा वृत्तभेद-गुडूचीन्दुकलासु च । महादेवे बुद्धभेदे शशिशेखर ईरितः ॥ १९०५ ॥ शष्कुली स्त्री कर्णरन्ध्रे यवागू-मत्स्यभेदयोः । शष्पः स्यात् प्रतिभाहानौ शष्पं बालतृणे स्मृतम् ॥ १९०६ ॥ शस्तं देहे शुभे शस्तस्त्रिषु शंयु-प्रशस्तयोः । शस्त्रं प्रहरणे लोहे निस्त्रिंशे तु पुमानसौ ॥ १९०७ ॥ ;p{0331} शस्त्री स्त्री छुरिकायां स्यात् नान्तस्त्रिष्वस्त्रधारिणि । शस्यं क्षेत्रस्य धान्यादौ वृक्षादीनां फले तथा ॥ १९०८ ॥ शाको द्वीपान्तरे शक्तौ शरपत्र-शिरीषयोः । नृपान्तरे शकाब्देऽसौ पत्रपुष्पादिकेऽस्त्रियाम् ॥ १९०९ ॥ शाखश्छित्तौ कार्तिकेये शाखा पक्षान्तरेऽन्तिके । वेदभागे ग्रन्थभेदे पादपाङ्गे विधुन्तुदे ॥ १९१० ॥ शाखी वेदे राजभेदे तुरुष्काख्यजने तरौ । निकषे करपत्रे च शाणो माषचतुष्टये ॥ १९११ ॥ शाण्डिल्यो मुनिभेदे स्यात् बिल्ववृक्षेऽनलान्तरे । शाणी स्त्री छिद्रवस्त्रे स्यादिङ्गे प्रावरणान्तरे ॥ १९१२ ॥ शातः स्यात् पुंसि धुस्तूरे सुखे तु स्यान्नपुंसकम् । दुर्बले निशिते शर्मशालिनि त्रिषु कीर्तितः ॥ १९१३ ॥ ;p{0332} शात्रवं शत्रुसंघाते शत्रुभावे पुमान् रिपौ । शातनं नाशने कार्श्ये शादः कर्दम-शष्पयोः ॥ १९१४ ॥ रसान्तरेऽभियुक्ते ना शान्तस्त्रिषु शमान्विते । शान्तिः स्त्री प्रशमे भद्रे दुर्गायां गोपिकान्तरे ॥ १९१५ ॥ शापो ना दिव्य आक्रोशे शामनं मारणे शमे । घनसारे शम्भुपुत्रे गुग्गुलौ शम्भुपूजके ॥ १९१६ ॥ विषभेदे शाम्भवो ना शम्भुसम्बन्धिनि त्रिषु । शाम्भवी नीलदूर्वायां दुर्गायामपि कीर्तिता ॥ १९१७ ॥ शिवमल्ल्यां शम्भुभक्ते शाम्भवं देवदारुणि । शारो नाऽक्षोपकरणे हिंसने शबलेऽनिले ॥ १९१८ ॥ शारङ्गो ना मृगे भृङ्गे मयूरे चातके गजे । शारङ्गी स्त्री वाद्यनन्त्रे शारङ्गस्त्रिषु चित्रिते ॥ १९१९ ॥ ;p{0333} शारदो ना हरिन्मुद्गे कासेऽब्दे बकुलेऽगदे । पीतमुद्गे सप्तपर्णे क्लीवं शस्ये सिताम्बुजे ॥ १९२० ॥ त्रिष्वसौ नूत्न-शालीनाऽप्रतिभेषु शरद्भवे । शारदा स्यात् सरस्वत्यां दुर्गा-वीणाविशेषयोः ॥ १९२१ ॥ सारिवा शाक-वैधात्रीशाकयोरपि कीर्तिता । शारदी तोयपिप्पल्यां कौमुदीचार ईरिता ॥ १९२२ ॥ शारिः स्यात् सारिकायां व्यवहारान्तरे छले । युद्धार्थगजपर्याणे शारिपट्टे त्वसौ पुमान् ॥ १९२३ ॥ शारिका पीतपादायां तथा वीणादिवादने । शार्ककः शर्करापिण्डे दुग्धफेने त्वसौ पुमान् ॥ १९२४ ॥ शार्करो ना क्षीरफेन-शर्करान्वितदेशयोः । शार्दूलो राक्षसे व्याघ्रे सरभे विहगान्तरे ॥ १९२५ ॥ ;p{0334} चित्रके पुरतः स्थोऽसौ मतः श्रेष्ठेऽन्यलिंगभाक् । शालो मत्स्ये वृक्षमात्रे प्राकारे शस्यसम्बरे ॥ १९२६ ॥ शालिवाहनराजे च नदभेदेऽप्यसौ मतः । पाञ्चालिकायां वेश्यायां कीर्तिता शालभञ्जिका ॥ १९२७ ॥ शालागृहे स्कन्धशाखा-गेहैकदेशयोः । शालाकी नापिते शैलधारकेऽस्त्रचिकित्सके ॥ १९२८ ॥ आरोहणे हस्तनखे शालारं पक्षिपञ्जरे । शालावृको मृगे कीशे मार्जारे जम्बुके शुनि ॥ १९२९ ॥ शालि र्ना गन्धमार्जारे षष्टिका-कलमादिके । शालीनः कथितोऽधृष्टे शालासम्बन्धिनि त्रिषु ॥ १९३० ॥ ;p{0335} जातीफलेऽब्जादिकन्दे शालूकं दर्दुरे पुमान् । शावः शिशौ पुमान् बोध्यः शवसम्बन्धिनि त्रिषु ॥ १९३१ ॥ शावरः शवरस्वामिकृतभाष्ये च किल्विषे । तन्त्रान्तरे लोध्रवृक्षेऽपराधेपि पुमानसौ ॥ १९३२ ॥ राजदत्तक्षितौ शास्त्रे लेखा-शास्त्योश्च शासनम् । शास्ता बुद्ध उपाध्याये पितरि क्षितिलालके ॥ १९३३ ॥ शास्त्रं ग्रन्थे निदेशेऽथ शिखण्डो बर्ह-चूडयोः । शिखण्डकः काकपक्षे बर्हिपिच्छे तु नद्वयोः ॥ १९३४ ॥ शिखण्डकस्ताम्रचूडे शिखायां तु शिखण्डका । शिखण्डिनी यूथिकायां मयूरी-गुञ्जयोरपि ॥ १९३५ ॥ शिखण्डी पुंसि गोविन्दे विशिखे चरणायुधे । गांगेयारौ स्वर्णयूथी-गुञ्जयोः प्रचलाकिनि ॥ १९३६ ॥ ;p{0336} छन्दोभेदे शिखरिणी रोमवल्यां वरस्त्रियाम् । मृद्वीका-मल्लिका-मूर्वा-रसाला-सप्तलासु च ॥ १९३७ ॥ शिखरी ना तरौ शैले वन्दाके जलकुक्कुभे । कोट्टेऽपामार्गे-कौलीरा-यावनालेषु कुन्दुरौ ॥ १९३८ ॥ शिखा मयूरचूडायां केशपाश्यां स्मरज्वरे । प्रधाने प्रपदे रश्मौ शाखायां लाङ्गलीतरौ ॥ १९३९ ॥ अग्रमात्रे शिफायां व कीर्तिता दहनार्चिषि । शिखावान् चित्रके केतुग्रहेऽग्नौ शिखिनि त्रिषु ॥ १९४० ॥ शिखी ना ब्राह्मणे वह्नौ घोटके कुक्कुटे शवे । केतुग्रहे बलीवर्दे मयूरे चित्रकद्रुमे ॥ १९४१ ॥ पर्वते पादपे दीपे मेथिकायां सितावरे । अजलोमद्रुमे चासौ शिखायुक्ते तु वाच्यवत् ॥ १९४२ ॥ ;p{0337} शिग्रुः शोभाञ्जने शाके पुमान् प्राज्ञैः प्रयुज्यते । काचपात्रे तु शिंघाणं नासिका-लोहयोर्मले ॥ १९४३ ॥ शिञ्जा शरासनज्यायां तथाऽलंकरणध्वनौ । शिञ्जिनी नूपुरे चापगुणेऽपि भणिता बुधैः ॥ १९४४ ॥ शितं वाच्यवदाख्यातं दुर्बले निशिते कृशे । शितिर्भूर्जद्रुमे पुंसि सारे कृष्णे सिते त्रिषु ॥ १९४५ ॥ संयोगभेदे मान्थर्ये शिथिलं मन्दबन्धने । श्लथे वाच्यवदाख्यातं शिपिस्तु किरणेऽपि ना ॥ १९४६ ॥ शिपिविष्टः शिवे विष्णौ खलतौ दुष्टचर्मणि । शिफा वृक्षजटाकारमूले सरिति मातरि ॥ १९४७ ॥ पद्मकन्दे हरिद्रायां मांसिका-शतपुष्पयोः । शिरो ना पिप्पलीमूले शय्यायां मस्तके शयौ ॥ १९४८ ॥ सेनाग्रे शिखरे मूर्ध्नि प्रधाने च नपुंसकम् । शिरस्कं तु शिरस्त्राणे शिरःसम्बन्धिनि त्रिषु ॥ १९४९ ॥ ;p{0338} शिरि र्ना विशिखे हिंस्रे निस्त्रिंशे शलभे मतः । शिलं स्याज्जीवनोपायभेदे उच्छे तु न स्त्रियाम् ॥ १९५० ॥ शिला मनःशिला-ग्राव-द्वाराधःस्थितदारुषु । कर्पूरे स्तम्भशीर्षेऽथ शिलाजं गिरिजेऽयसि ॥ १९५१ ॥ शिलासनं तु शैलेये पाषाणरचितासने । शिलीन्ध्रं करका-रम्भा-कुसुम-त्रिपिटासु च ॥ १९५२ ॥ शिलीन्ध्री मृत्तिका-गण्डूपद्योः शकुनिकान्तरे । शिलीमुखो जडिभूते विशिखे भ्रमरे मृधे ॥ १९५३ ॥ शिवं शुभे सुखे नीरे सैन्धवे श्वेतटङ्कणे । शिवो महेश्वरे वेदे पारदे कीलकग्रहे ॥ १९५४ ॥ वालुके कृष्णधुस्तूरे पुण्डरीकद्रुमे सुरे । मोक्षे योगान्तरे लिंगे गुग्गुलौ च प्रकीर्तितः ॥ १९५५ ॥ ;p{0339} विष्णौ शैवे भृङ्गरीटे शिवकीर्तन ईरितः । शिवा गौर्यां हरीतक्यां मुक्तौ दूर्वा-हरिद्रयोः ॥ १९५६ ॥ गोरोचना-तामलकी-शृगालेषु शमीतरौ । आमलक्यां बुद्धशक्तिविशेषे च प्रकीर्तिता ॥ १९५७ ॥ शिविर्नृपान्तरे भूर्जतरौ हिंस्रपशौ च ना । शिबिरो ना विशेषे स्यात् क्लीवन्तु रणसद्मनि ॥ १९५८ ॥ शिशिरो ना हिमे प्रोक्तः शीतर्तौ त्वस्त्रियामसौ । शिशुकः शिशुमारे स्याद् वृक्षभेदे च बालके ॥ १९५९ ॥ शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते । सभ्ये शान्ते सुबुद्धौ च धीरे शिष्टस्त्रिषु स्मृतः ॥ १९६० ॥ शिक्षा वेदाङ्गभेदे स्यात् शिक्षणे शोणकद्रुमे । शिक्षितास्त्रिषु निष्णाते शिक्षायुक्तेऽप्यसौ मतः ॥ १९६१ ॥ ;p{0340} शीकरो मारुते वायुप्रेरिताम्बुकणासु च । शीघ्रं लामज्जके तूर्णे शिघ्रगो नाऽनिले हये ॥ १९६२ ॥ असौ वाच्यवदाख्यातस्त्वविलम्बितगामिनि । शीतं हिमगुणे नीरे त्वचेऽपि क्लीवमीरितम् ॥ १९६३ ॥ शीतो ना पर्पटे निम्बे कर्पूरे बहुवारके । वेतसेऽशनपर्ण्यां च हेमन्तेऽपि प्रकीर्तितः ॥ १९६४ ॥ वाच्यवदुदितः सद्भिः शीतले क्वथितेऽलसे । शीतकः सुस्थिते शीतसमये दीर्घसूत्रिणि ॥ १९६५ ॥ प्रदीपे दर्पणे सद्भिः प्रोक्ता ना शीतचम्पकः । महासमंगा-काकोल्याः प्रोक्ता स्त्री शीतपाकिनी ॥ १९६६ ॥ शीतलं पुष्पकासीसे शैत्य-चीरणमूलयोः । मौक्तिके पद्मके शीतशिवे श्रीखण्ड-चन्दने ॥ १९६७ ॥ ;p{0341} शीतलः पुंसि कर्पूरप्रभेदे बहुवारके । चम्पकेऽशनपर्ण्यां च चन्द्रे तीर्थंकरान्तरे ॥ १९६८ ॥ राले व्रतान्तरे चासौ त्रिषु शीतगुणान्विते । शीता मन्दाकिनी-दूर्वा-ऽतिबला-जानकीषु च ॥ १९६९ ॥ कुटुम्बिनी शिल्पिकाऽख्यतृणयोर्हलपद्धतौ । शीनं त्रिषु घनाऽऽज्यादौ वैधेयेऽजगरे पुमान् ॥ १९७० ॥ शीर्णं स्थौणेयके क्लीवं वाच्यवत् कृश-शुष्कयोः । शीर्णपत्रः कर्णिकारे पट्टिकालोध्र-निम्बयोः ॥ १९७१ ॥ शिरोरक्षणसन्नाहे मस्तके च शिरोऽस्थनि । जय-पराजयपत्रे शीर्षकं ना विधुन्तुदे ॥ १९७२ ॥ शीर्षण्यं शीर्षरक्षेऽसौ पुंल्लिगो विशदे कचे । शीलं भावे ब्रह्मचर्ये रागद्वेषविवर्जने ॥ १९७३ ॥ ;p{0342} ब्रह्मण्यतादौ सद्वृत्ते शीलो नाऽजगरे स्मृतः । शुकं वस्त्रे शिरस्त्राणे ग्रन्थिपर्णे पटाञ्चले ॥ १९७४ ॥ शोणकेऽथ शुकः कीरे व्यासपुत्रे द्रुमान्तरे । शिरीषपादपे लंकापतिमन्त्रिण्यपि स्मृतः ॥ १९७५ ॥ शुक्तं मांसे द्रवद्रव्यविशेषे काञ्जिकेऽपि च । त्रिष्वसौ निष्ठुरे श्लिष्टे पूतेऽम्ले निर्जने मतः ॥ १९७६ ॥ चुक्रिकायां तु शक्ता स्त्रीशुक्तिमौक्तिकमातरि । मुक्तास्फोटे चुक्रिकायां शुक्तिका कीर्तिता स्त्रियाम् ॥ १९७७ ॥ शुक्रो दैत्यगुरौ वह्नौ ज्येष्ठे चित्रकपादपे । शुक्रं तु लोचनव्याधिविशेषे रेतसि स्मृतम् ॥ १९७८ ॥ शुक्लं स्याद् रजते नेत्ररोगविशेष-नवनीतयोः । शुक्लो ना धवले शक्रयोग-पाण्डरपक्षयोः ॥ १९७९ ॥ ;p{0343} असौ वाच्यवदाख्यातः सद्भिः शुक्लगुणान्विते । शुक्लपक्षे श्वेतवर्णे शुक्लकः परिकीर्तितः ॥ १९८० ॥ रजते नवनीतेऽक्षिरोगे शुक्लं नपुंसकम् । शुक्लो ना धवले शक्रयोगाऽतिस्वच्छपक्षयोः ॥ १९८१ ॥ श्वेतैरण्डे ध्यानभेदे त्रिषु शुक्लगुणान्विते । शुक्ला विदार्यां काकोली-भारती-शर्करासु च ॥ १९८२ ॥ स्नुहायां धवलवर्णायां शुङ्गस्तु वट-शूकयोः । आम्रातकेऽथ शुङ्गा स्यात् प्लक्ष-धान्यादिशूकयोः ॥ १९८३ ॥ नवपल्लवकोश्यां च शुङ्गी-प्लक्षे वटेऽपि ना । शुचिर्ग्रीष्मे ज्येष्ठमासे सौराग्नौ चित्रकद्रुमे ॥ १९८४ ॥ शुद्धमन्त्रिणि शृङ्गाररसे भास्कर-चन्द्रयोः । आषाढमासे शुक्रे च शुक्लवर्णे द्विजन्मनि ॥ १९८५ ॥ शुद्धेऽनुपहते शुक्लवर्णयुक्ते शुचिस्त्रिषु । शुण्डा नलिन्यां कुट्टन्यां मदिरा-वारयोषितोः ॥ १९८६ ॥ ;p{0344} हस्तिहस्तेऽम्बुहस्तिन्यां मद्यपानगृहेऽपि च । मरिचे सैन्धवे शुद्धे शुद्धस्तु त्रिषु केवले ॥ १९८७ ॥ मरिचे सैन्धवे शुद्धं शुद्धस्तु त्रिषु केवले । शुक्ले पवित्रे निर्दोषे रागे रागान्तरायुते ॥ १९८८ ॥ शुन्यं शूनीसमूहे स्याद् रिक्तेऽसौ वाच्यवत् स्मृतम् । शुभं श्वःश्रेयसे पद्मकाष्ठे योगान्तरे तु ना ॥ १९८९ ॥ त्रिष्वसौ व्योमसंचारिपुरे कल्याणशालिनि । शुभा देवसभा-शोभा-वाञ्छा-गोरोचनासु च ॥ १९९० ॥ शमीद्रुमे श्वेतदूर्वा-वंशरोचनयोरपि । प्रियंगौ पार्वतीसख्यां मांगलिक्यामपि स्मृता ॥ १९९१ ॥ शुभमभ्रक-कासीस-रोप्य-गड्लवणेषु च । शुभ्रो ना चन्दने शुक्लवर्णेऽसौ वाच्यवत् सिते ॥ १९९२ ॥ शुक्लोऽस्त्रियां वरादर्थग्रह-घट्टादिदेययोः । शुल्वं तामे जलासन्ने रज्ज्वावध्वरकर्मणि ॥ १९९३ ॥ ;p{0345} शुश्रूषा श्रोतुमिच्छायामुपास्तौ कथनेऽप्यसौ । शुषो ना शोषणे गर्ते शुषिः स्त्री बिल-शोषयोः ॥ १९९४ ॥ वंश्यादिवाद्ये विवरे शुषिरं छिद्रिते त्रिषु । शुषिरः पुंसि दहने मूषिकेः शुषिरा क्षितौ ॥ १९९५ ॥ तरंगिण्यां नलीनामगन्धद्रव्येऽप्यसौ मता । शुष्मः सूर्येऽनले वायावर्चिष्यपि विहंगमे ॥ १९९६ ॥ शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे जलजन्तावनुग्रहे । शूनोऽधोजिह्विकायां स्यात् वधस्थाने शरीरिणाम् ॥ १९९७ ॥ शून्यं नभसि विन्दौ च शून्यो निर्जन-रिक्तयोः । शून्यमध्यो नले शून्यगर्भवस्तुनि तु त्रिषु ॥ १९९८ ॥ शून्यवादी सौगते ना नास्तिके च प्रयुज्यते । शून्या महाकण्टकिन्यां नलिका-बन्ध्ययोरपि ॥ १९९९ ॥ ;p{0346} शूरः सूर्ये भटे सिंहे श्रीकृष्णस्य पितामहे । शूकरे लकुचे साले मसूरे चित्रकद्रुमे ॥ २००० ॥ शूर्पेऽस्त्रियां द्रोणयुग्ममाने प्रस्फोटनेऽपि च । शूर्पी शूर्पणखायां स्यात् लघुशूर्पेऽप्यसौ मता ॥ २००१ ॥ शूला वारस्त्रियां दुष्टवधार्थे कीलकेऽप्यसौ । शूलिकः शशके पुंसि शूलयुक्ते त्वसौ त्रिषु ॥ २००२ ॥ शृङ्गन्तु शिखरे चिह्ने वाद्यभेद-विषाणयोः । शृंगजो विशिखे पुंसि क्लीवन्त्वगरुणि स्मृतम् ॥ २००३ ॥ शृंगाटकं खाद्यभेदे जलसूच्यां चतुष्पथे । शृङ्गारमार्दके चूर्णे कालागुरु-लवंगयोः ॥ २००४ ॥ सिन्दूरेऽसौ तु पुंल्लिंगः सुरते गजभूषणे । तथा नाट्यरसेऽप्युक्तः शृङ्गारी गज-पूगयोः ॥ २००५ ॥ ;p{0347} शृंगिणी मल्लिकावृक्षे गवि ज्योतिष्मतीतरौ । शृंगी गजे गिरौ वृक्षे शृंगयुक्ते त्वसौ त्रिषु ॥ २००६ ॥ शृंगी स्त्री मद्गुरीमत्स्यां तथा मण्डनहेमनि । शेखरस्तु शिखामाल्ये तथा गीत-ध्रुवान्तरे ॥ २००७ ॥ शेखरं तु लवंगे स्यात् शिग्रुमूलेऽपि कीर्तितम् । शेषः संकर्षणेऽनन्ते वधेऽपि मतंगजे ॥ २००८ ॥ शैलाटो देवले सिंहे शुक्लकाच-किरातयोः । शूलोऽस्त्री केतने योग-रोग-शस्त्रान्तरेषु च ॥ २००९ ॥ मृत्यौ शूली तु ना शम्भौ शशे शूलास्त्रधारके । शूलरोगयुते चासौ वाच्यवत् कथितो बुधैः ॥ २०१० ॥ शृगालो जम्बुके भीरौ निष्ठुरे पिशुने मतः । शृगालजम्बूः स्त्री घोण्टाफले ज्ञेया तरम्बुजे ॥ २०११ ॥ ;p{0348} शृगालिका क्षुद्रफेरौ शृगाल्यां च पलायने । भूकूष्माण्डे शृगाली विदारी-कोकिलाक्षयोः ॥ २०१२ ॥ त्रासात्पलायने क्रोष्टुस्त्रियामपि प्रकीर्तिता । शृङ्खलस्त्रिषु विज्ञेयः पुंस्कुटीवस्त्रबन्धने ॥ २०१३ ॥ अंदुके लौहरज्जौ च बन्धनेऽपि प्रकीर्तितः । शृंगे तु शिखरे सानौ विषाणे चिह्न-तीक्ष्णयोः ॥ २०१४ ॥ क्रीडार्थजनीरयन्त्रेऽपि प्रभुत्वे सरसीरुहे । उत्कर्षे वाद्यभेदे च शृङ्गो मुन्यन्तरे द्रुमे ॥ २०१५ ॥ शैलूषः श्रीफले धूर्ते नटे च तालधारके । शैलेयं सैन्धवे तालपर्ण्यां च गिरिपुष्पके ॥ २०१६ ॥ शैलेयो भ्रमरे सिंहे शैलेयी शंकरस्त्रियाम् । शैवो धुस्तूर आचारविशेषे वसुके पुमान् ॥ २०१७ ॥ ;p{0349} शैवं शिवपुराणे स्यात् शैवालेऽपि बुधैः स्मृतः । शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानसौ ॥ २०१८ ॥ शोठो मूर्खेऽलसे धूर्ते नीचे पापरते त्रिषु । शोणं रक्ते च सिन्दूरे शोणो वह्नौ नदान्तरे ॥ २०१९ ॥ श्योनाके लोहिताश्वे च रक्तोत्पलनिभच्छवौ । समुद्रभेदे रक्तेक्षौ श्योनाकभिदि कीर्तितः ॥ २०२० ॥ शोणझिण्टी कुरुबके शोणितं कुंकुमेऽसृजि । कंकुष्ठे शोधनं क्लीवं त्रिलिंगः शुद्धिकारके ॥ २०२१ ॥ शोधनं शौचविष्ठायां कासीसे विहिताविहित- मासादिविचारणे धातुनिर्दोषीकरणे व्रणादि- परिष्करणे लिखितपत्रादेः प्रमाणीकरणे विरुद्धलिखितस्य शुद्धीकरणेऽङ्कपूरणे ॥ २०२२ ॥ ;p{0350} शोधनः पुंसि निम्बूके त्रिलिंगः शुद्धिकर्तरि । शोधनी जैनसाधूनां प्रमार्जन्यां प्रयुज्यते ॥ २०२३ ॥ संमार्जन्यां ताम्रवल्ल्यां नील्यामपि बुधैः स्मृता । शोभनं पङ्कजे क्लीवं ग्रहे ना सुन्दरे त्रिषु ॥ २०२४ ॥ स्त्रियां गोरोचनायां च हरिद्रायामपि स्मृता । शोभा गोरोचनायां स्यात् कांतौ गोपी-हरिद्रयोः ॥ २०२५ ॥ शोषणे यक्ष्मरोगे च शेषो ना परिकीर्तितः । शोषणः स्नेहरहितीकरणे च महौषधौ ॥ २०२६ ॥ पुमांस्तु कामविशिखे तथा श्योनाकपादपे । शोषापहा क्लीतनके त्रिष्वसौ शोषनाशके ॥ २०२७ ॥ शौकं शुकगुणे स्त्रीणां करणे च प्रकीर्तितम् । शौक्तेयं स्यात्तु मुक्तायां शुक्तिसम्बन्धिनि त्रिषु ॥ २०२८ ॥ वीरे त्यागिनि शौटीरो ना स्याद् गर्वान्विते त्रिषु । पिप्पली-चव्ययोः शौण्डी शौटीर्यं वीर्य-गर्वयोः ॥ २०२९ ॥ ;p{0351} शौनिको मृगयायां स्यात् मांसविक्रयकर्तरि । शौभं हरिश्चन्द्रपुरे शौभो देव-गुवाकयोः ॥ २०३० ॥ शौर्यमारभटी-शक्त्योः शौरिर्विष्णौ शनैश्चरे । श्यामं तु सिन्धुलवणे मरिचेऽपि नपुंसकम् ॥ २०३१ ॥ श्यामो वटे प्रयागस्य वारिदे वृत्तदारके । पिके हरिति कृष्णे च श्यामाके पीलुपादपे ॥ २०३२ ॥ धुस्तूरे स्याद् दमनकद्रुमेऽपि परिकीर्तितः । श्यामकण्ठः शिवे पक्षिविशेषे च शिखावले ॥ २०३३ ॥ श्यामलः पिप्पले कृष्णवर्णे कृष्णगुणान्विते । श्यामला कटभी-जम्बू-कस्तूरीष्वपि कीर्तिता ॥ २०३४ ॥ श्येनः शशादने यागप्रभेदे पाण्डुरेऽपि ना । श्रथनं मोक्षणे यत्ने शिथिलीकरणे वधे ॥ २०३५ ॥ ;p{0352} श्रद्धा संप्रत्यये शुद्धौ स्पृहायामादरे तथा । चेतःप्रसादे श्रद्धालुः स्त्री दोहदवती स्त्रियाम् ॥ २०३६ ॥ श्रद्धायुक्ते त्वसौ प्राज्ञैर्वाच्यवत् परिकीर्तितः । श्रन्थितो ग्रथिते बद्धे मुक्ते कृतवधे त्रिषु ॥ २०३७ ॥ श्रमः परिश्रमे खेदे शस्त्राभ्यासे तपस्यपि । श्रमणो जैनसाधौ ना निन्द्यजीविन्यसौ त्रिषु ॥ २०३८ ॥ सुदर्शनायां मुण्डीरी-शवर्योः श्रमणा मता । श्रवणं न स्त्रियां कर्णे नक्षत्रे श्रवणाभिधे ॥ २०३९ ॥ क्लीवं कर्णेन्द्रियज्ञाने श्रवः क्षरण-कर्णयोः । श्रान्तो जितेन्द्रिये शान्ते श्रमयुक्ते त्वसौ त्रिषु ॥ २०४० ॥ श्रामो मासे च काले च मण्डपेऽपि प्रकीर्तितः । श्रायस्त्वाश्रयणे पुंसि श्रीसम्बन्धिन्यसौ त्रिषु ॥ २०४१ ॥ ;p{0353} श्रमणोपासके काके श्रावाकः श्रोतरि त्रिषु । श्रावणः पुंसि पाखण्डे मासे श्रावणिकाभिधे ॥ २०४२ ॥ श्रीर्बिल्ववृक्षे नलिने वृद्धिनामौषधौ मतौ । वृत्तार्हज्जननी-कीर्त्योः प्रभायां सरलद्रुमे ॥ २०४३ ॥ सिद्धौ वृद्धौ विभूतौ च लक्ष्म्यां शोभा-त्रिवर्गयोः । श्रीधरो माधवे शालग्रामेऽतीतजिनान्तरे ॥ २०४४ ॥ श्रीपतिः पृथिवीनाथे केशवेऽपि प्रकीर्तितः । श्रीपर्णी शाल्मलीवृक्षे गम्भारी-कट्फलदुमे ॥ २०४५ ॥ हठवृक्षेऽग्निमन्थद्रौ श्रीपर्णं कमलेऽपि च । श्रीमान् पुंसि शिवे विष्णौ पिप्पले तिलकद्रुमे ॥ २०४६ ॥ आसौ वाच्यवदाख्यातो मनोज्ञे धनिके बुधैः । श्रीवत्सोऽर्हद्ध्वजे विष्णौ तद्वक्षःस्थितलाञ्चने ॥ २०४७ ॥ ;p{0354} श्रीवासो माधवे शम्भौ कमले सरलद्रवे । श्रुतिः स्त्री श्रवणे वेदे वार्ता-नक्षत्रभेदयोः ॥ २०४८ ॥ षड्जाद्यारम्भिकायां च श्रोत्रकर्मण्यपि स्मृता । प्रोक्तः श्रुतिकटः प्राञ्चल्लोहेऽहौ पापशोधने ॥ २०४९ ॥ कठोरशब्दे साहित्यदोषे श्रुतिकटुः पुमान् । श्रेणिः स्त्रीपुंसयोः पंक्तौ समान शिल्पिसंहतौ ॥ २०५० ॥ श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते त्वसौ त्रिषु । श्रेयसी स्त्री हरीतक्यां रास्ना-कल्याणयुक्तयोः ॥ २०५१ ॥ पाठायां करिपिप्पल्यां श्रेयान् श्रेष्ठे शुभान्विते । श्रेष्ठो विष्णौ महीपाले कुबेरे च द्विजन्मनि ॥ २०५२ ॥ त्रिषु ज्येष्ठे वरे वृद्धे क्लीवं गोपयसि स्मृतम् । श्रेष्ठा स्त्री स्थलपद्मिन्यां मेदायामुत्तमस्त्रियाम् ॥ २०५३ ॥ ;p{0355} श्रेष्ठी व्याह्रियते धीरैरोसवालवणिग्जने । श्रोतः क्लीवं नदीवेगे कर्ण इन्द्रियमात्रके ॥ २०५४ ॥ श्रोत्रं श्रोत्रियतायां स्यात् कर्णेऽपि क्लीवमीरितम् । श्रोत्रं श्रोत्रियतायां स्यात्कर्णे च श्रोत्रकर्मणि ॥ २०५५ ॥ श्लक्ष्णं मनोहरे सूक्ष्मे दुर्बले शिथिले श्लथः । श्लाघा स्त्री परिचर्यायामभिलाषे प्रशंसने ॥ २०५६ ॥ श्लिकुर्ना किंकरे षिंगे ज्योतिःशास्त्रे श्लिकु स्मृतम् । श्लेष आलिंगने दाहे संयोगेऽलंकृतौ कवेः ॥ २०५७ ॥ श्लोको यशसि पद्येऽथ शुभे श्वश्रेयसं विदुः । परमात्मनि कल्याणे कल्याणवति तु त्रिषु ॥ २०५८ ॥ श्वशुर्यो देवरे श्याले श्वसनो वायु-शल्ययोः । श्वासो रोगविशेषे स्यात् श्वसिते च समीरणे ॥ २०५९ ॥ ;p{0356} श्वेतः शुक्रे द्वीपभेदे शुक्लवर्णे कपर्दके । श्वेताभ्रे जीरके शंखे शैलभेदे नृपान्तरे ॥ २०६० ॥ शिवाववतारभेदेऽसौ क्लीवं तु रजते स्मृतम् । शुक्लवर्णयुते चायं कथितो वाच्यलिंगकः ॥ २०६१ ॥ केतुग्रहे तथा बुद्धे श्वेतकेतुः पुमान् मतः । श्वेतधामा पुमानिन्दौ कर्पूरेऽब्धिकफे स्मृतः ॥ २०६२ ॥ अर्जुने मकरे चन्द्रे पुंल्लिगः श्वेतवाहनः । श्वेता वराटिका-काष्ठपाटलाऽतिविषासु च ॥ २०६३ ॥ शंखिनी क्षुरिकापत्री-तुगा-पाषाणभेदिषु । वलक्षबृहती-श्वेतकण्टकार्योरपि स्मृता ॥ २०६४ ॥ इन्दिन्दिरे च यूकायां पुमान् षट्चरणो मतः । षट्पदोऽलिनि यूकायामलिन्यां षट्पदी स्मृता ॥ २०६५ ॥ षट्प्रज्ञः कामुके धर्म-काम-शास्त्रज्ञमानवे । षण्डः स्याद्गोपतौ वर्षवरे पद्मादिसंहतौ ॥ २०६६ ॥ ;p{0357} गजे धान्यविशेषे च कथितः षष्टिहायनः । षाडवो ना रसे गाने रागजात्यन्तरेऽपि च ॥ २०६७ ॥ संग्राही पुंसि कुटजद्रुमे त्रिषु तु धारके । संज्ञं क्लीवं पीतकाष्ठे त्रिष्वसौ लग्नजानुके ॥ २०६८ ॥ विज्ञापने मारणे च क्लीवं संज्ञपनं विदुः । संज्ञा स्यात् चेतना-नाम्नोर्हस्ताद्यैश्चार्थसूचने ॥ २०६९ ॥ संयतो वाच्यवल्लिंगो बद्धे च कृतसंयमे । वाग्यते जन्तुनिवहे संयत्वर उदीरितः ॥ २०७० ॥ चतुःशाले व्रते बन्धे क्लीवं संयमनं स्मृतम् । संयमी ना मुनौ प्रोक्तो निगृहीतेऽन्द्रिये त्रिषु ॥ २०७१ ॥ संयोजनं तु संयोगे मैथुनेऽपि प्रकीर्तितम् । संरम्भः क्रोध उत्साह आटोपे च निगद्यते ॥ २०७२ ॥ ;p{0358} आलोचने वशीकारे प्राज्ञैः संवेदनं स्मृतम् । संरोधो रोधने क्षेपे संलयः प्रलयेऽपि च ॥ २०७३ ॥ संवरं सलिले दैत्यभेदे बौद्धव्रतान्तरे । जैनानां षष्ठतत्त्वे च तथैव हरिणान्तरे ॥ २०७४ ॥ संवर्तो मुनिभेदे स्यात् कल्पे कर्षफलद्रुमे । मेघनायकभेदे च वारिवाहेऽपि कीर्तितः ॥ २०७५ ॥ आलये संनिवेशे च संवासः सद्भिरीरितः । संवाहनं तु भारादिवहनेऽप्यङ्गमर्दने ॥ २०७६ ॥ संवित्तिस्तु स्त्रियां बुद्धौ प्रतिपत्तावपीष्यते । संवित् स्त्री तोषणे नाम्नि ज्ञाने संभाषणे रणे ॥ २०७७ ॥ प्रतिज्ञायां क्रियाकारे संकेते संयमेऽपि च । संवेशः सुरते पीठे निद्रायामपि कीर्तितः ॥ २०७८ ॥ संव्यानं वस्त्रमात्रे स्यात् उत्तरीये च वाससि । संसिद्धिः स्त्रीस्वभावे स्यान्मोक्ष-सिद्धिविशेषयोः ॥ २०७९ ॥ ;p{0359} संस्कारः प्रतियत्नेऽनुभवे मानसकर्मणि । संस्कृतः कृत्रिमे शस्ते पक्वभूषितयोस्त्रिषु ॥ २०८० ॥ संस्त्यायो विस्तृतौ गेहे संस्थाने संनिवाशके । संस्था व्यक्तौ व्यवसाये सादृश्ये निधने स्थितौ ॥ २०८१ ॥ समाप्तौ क्रतुभेदे च नाशे कल्पचतुष्टये । संस्थानं निधने चिह्ने संनिवेशे चतुष्पथे ॥ २०८२ ॥ संस्थितिः स्त्रीगृहे मृत्यौ संस्थानेऽपि निगद्यते । दृढसन्धौ च मिलिते दृढे स्यात् त्रिषु संहतः ॥ २०८३ ॥ संघातने शरीरे च प्राज्ञैः संहननं स्मृतम् । संहर्षो ना प्रमोदे स्यात् स्पर्द्धायां मातरिश्वनि ॥ २०८४ ॥ संहारो नरकेऽपि स्यात् संक्षेपे प्रलये ह्रतो । सखा मित्रे सहायेऽथ सगरो भूपतौ जिने ॥ २०८५ ॥ ;p{0360} संकटस्त्रिषु संबाधे दुःखे तु क्लीवमीरितम् । संकरोऽग्निचटत्कारे मिश्रत्वेऽवकरे तथा ॥ २०८६ ॥ वर्णसंकरजातौ च संकरी दूषितस्त्रियाम् । संकर्षणः प्रलम्बघ्ने क्लीवन्त्वाकर्षणे स्मृतम् ॥ २०८७ ॥ संकीर्णे दुर्बले मन्देऽस्थिरे संकसुकस्त्रिषु । संकुलं समरे वाक्ये परस्परपराहते ॥ २०८८ ॥ संकीर्णे वाच्यचत् प्रोक्तं संकोचं स्यात्तु कुंकुमे । संकोचो ना मत्स्यभेदे जडीभावे च बन्धने ॥ २०८९ ॥ संक्रन्दनः पुमान् इन्द्रे रोदने तु नपुंसकम् । संक्रमः क्रमणे सम्यग्राशिसंचारवस्तुनि ॥ २०९० ॥ संख्यं तु समरे क्लीवं संख्येये त्वभिधेयवत् । संख्यकत्वादिके बुद्धौ चर्चायां गणिते त्रिषु ॥ २०९१ ॥ ;p{0361} संगः स्याद् मेलने रागे संगतिर्ज्ञान-संगयोः । नद्यादिमेलके संगे संगमोऽस्त्री प्रकीर्तितः ॥ २०९२ ॥ संगरोऽङ्गीकृतौ युद्धे क्रियाकारे च संविदि । गरले संगरं तु स्यात् शमीवृक्षफलेऽद्वयोः ॥ २०९३ ॥ संगुप्तो बुद्धभेदे ना त्रिषु संगोपनाश्रये । संग्रहो ग्रहणे मुष्टौ महोद्योगे समाहतौ ॥ २०९४ ॥ बृहत्-संक्षेपयोरङ्गीकृतौ संचय-तुङ्गयोः । संघट्टोऽन्यविमर्दे स्याद् गठनेऽपि निगद्यते ॥ २०९५ ॥ संघाटिका युगे घ्राणे कुट्टिन्यां जलकण्टके । संघातो हनने व्राते कफे च नरकान्तरे ॥ २०९६ ॥ सचिवः कृष्णधत्तूरे सहाये मन्त्रिणि स्मृतः । सन्नद्धे निभृते सज्जो वाच्यवत् संभृतेऽपि च ॥ २०९७ ॥ सज्जा वेशे च सन्नाहे संचयः संग्रहे गणे । संचारो गमने दुर्गसंचरे ग्रहसंक्रमे ॥ २०९८ ॥ ;p{0362} कुट्टन्यां युगले घ्राणे दूत्यां संचारिका स्मृता । सटा तु स्त्री शिखायां स्यात् जटा-केशरयोरपि ॥ २०९९ ॥ सती पतिव्रता-दुर्गा-सौराष्ट्री-मृत्तिकासु च । सावित्र्यां विद्यमानायां तथा दानाऽवसानयोः ॥ २१०० ॥ सतीलो मारुते वंशे कलायेऽपि प्रकीर्तितः । सत्ये धीरे विद्यमाने साधौ शस्ते च सत् त्रिषु ॥ २१०१ ॥ संमाने संस्क्रियायां च सत्क्रिया स्त्री निगद्यते । सत्रं गृहे धने दाने कानने कपटेऽध्वरे ॥ २१०२ ॥ सत्कृतः कृतसत्कारे पूजितेऽप्यभिधेयवत् । सत्वं बले पिशाचादौ व्यवसाय-स्वभावोः ॥ २१०३ ॥ द्रव्ये चित्ते च प्राणेषु गुणे जन्तौ तु न स्त्रियाम् । सत्यं कृते च सिद्धान्ते यथार्थे तद्वति त्रिषु ॥ २१०४ ॥ सदस्यः पुंसि सभ्ये स्यात् तथैव विधिदर्शिनि । सदाप्रसूनो नाऽर्कद्रौ कुन्दे रोहितकद्रुमे ॥ २१०५ ॥ ;p{0363} सदाफलो नारिकेले बिल्बे स्कन्दफले तथा । सदृशस्तूचिते तुल्ये वाच्यलिङ्ग उदाहृतः ॥ २१०६ ॥ देशान्विते सन्निकृष्टे सदृशस्त्रिषु कीर्तितः । सनातनः शिवे विष्णौ ब्रह्म-दिव्यमनुष्ययोः ॥ २१०७ ॥ असौ वाच्यवदाख्यातो नित्ये तद्वत् सुनिश्चले । दुर्गायामिन्दिरायां सरस्वत्यां सनातनी ॥ २१०८ ॥ सनाभिः स्यात् सपिण्डे ना तूल्ये स्नेहयुते त्रिषु । सन्ततिर्गोत्रविस्तार-पंक्ति-कन्यासुतेषु च ॥ २१०९ ॥ सन्धिर्ना भेद-संश्लेष-सुरुङ्गासु भगे तथा । संघट्टने सावकाशेऽक्षरद्वितयमेलने ॥ २११० ॥ सन्धितो मिलिते सन्धियुक्ते त्रिष्वासवादिके । सन्धिला मदिरा-नद्योः सुरुङ्गायामपि स्मृता ॥ २१११ ॥ ;p{0364} प्रणतौ नम्रतायां च ध्वनौ स्यात् सन्ततिः स्त्रियाम् । पृष्ठस्थायिबले वृन्दे सन्नयः परिकीर्तितः ॥ २११२ ॥ आश्रये निकटे क्लीवं सन्निधानं प्रकीर्तितम् । सन्निधिः स्त्री सन्निकर्षे तद्वदिन्द्रियगोचरे ॥ २११३ ॥ सप्तला पाटला-चर्मकषा-गुञ्जासु कीर्तिता । सप्तार्चिर्नाऽनले तद्वद् शनौ चित्रकपादपे ॥ २११४ ॥ वाच्यवत्तु स्मृतोऽसौ च क्रूरचक्षुषि कोविदैः । सभा सामाजिके द्यूते समितौ निवहे गृहे ॥ २११५ ॥ सभ्यो ना सभिके साधौ सभासदि मतः सताम् । साधु-सर्व-समानेषु समो वाच्यवदीरितः ॥ २११६ ॥ समजो ना पशुव्राते मूर्खवृन्दे वनेऽद्वयोः । समज्या समितौ कीर्तावुचिते तु समञ्जसम् ॥ २११७ ॥ ;p{0365} समञ्जसः समीचीनेऽभ्यस्ते वाक्यवदीरितः । समयः शपथे काले क्रियाकारे च संविदि ॥ २११८ ॥ सिद्धान्तेऽवसरे सम्पद्-विपदोर्नियमे तथा । निर्देशाऽऽचार-भाषासु संकेते च बुधैः स्मृतः ॥ २११९ ॥ समया निकटे मध्ये कालविज्ञापनेऽव्ययम् । समर्थो हित-शक्तिष्ठ-सम्बन्धार्थेषु वाच्यवत् ॥ २१२० ॥ समर्यादः समीपे ना मर्यादासहिते त्रिषु । समलं त्रिष्वनच्छे स्याद् विष्ठायां तु नपुंसकम् ॥ २१२१ ॥ समवायस्तु सम्बन्धविशेषे निवहेऽपि च । समष्ठिलो ना भण्डीरे गण्डीरे तु समष्ठिला ॥ २१२२ ॥ समागमस्तु सम्प्राप्तौ सम्यगागमनेऽपि च । समाजः पशुभिन्नानां संघे समिति-हस्तिनोः ॥ २१२३ ॥ ;p{0366} समादानं समीचीनग्रहणे सौगताह्निके । ना समाधाः समाधाने विरोधस्य च भञ्जने ॥ २१२४ ॥ चित्तैकाग्रे समाधानं पूर्वपक्षोत्तरेऽपि च । समाधिः पुंसि नीवाके ध्यान इन्द्रियरोधने ॥ २१२५ ॥ समर्थनेऽङ्गीकरणे योगे काव्यगुणान्तरे । समापन्नं त्रिषु प्राप्ते वधे क्लिष्ट-समाप्तयोः ॥ २१२६ ॥ समाप्तिः स्त्री परिप्राप्ताववसाने समर्थने । समवाये समायोगः संयोगे च प्रयुज्यते ॥ २१२७ ॥ स्यात् समालम्भनं स्पर्शे मारणे च विलेपने । समासः स्यात्समाहारे संक्षेपे च समर्थने ॥ २१२८ ॥ ऐकपद्येऽथ संक्षेपे समाहारः समुच्चये । समाहितः समाधिस्थे निष्पन्नाऽऽहितयोस्त्रिषु ॥ २१२९ ॥ ;p{0367} प्रतिज्ञातोक्तसिद्धान्त-निर्विवादीकृतेष्वपि । आयोधने सभायां च संगेऽपि समितिः स्त्रियाम् ॥ २१३० ॥ समीरणो मरुवके पथिके मातरिश्वनि । सम्प्रेक्षणे सांख्यशास्त्रे समीक्षणमीतीरितम् ॥ २१३१ ॥ समीक्षा धिषणायां स्यात् तत्वे यत्ने निभालने । पर्यालोचन-मीमांसाशास्त्रयोरप्युदीरिता ॥ २१३२ ॥ समुच्छ्रय-समुच्छ्रायौ विरोधोत्सेधयोः स्मृतौ । समुद्गमे दिने युद्धे वृन्दे समुदयः स्मृतः ॥ २१३३ ॥ समुदायः समूहे स्यात् पृष्ठस्थायिबले रणे । समुद्धतः समुद्गीर्णे दुर्विनीतेऽपि वाच्यवत् ॥ २१३४ ॥ समुद्धतं समुत्कीर्णा-पनीतोत्थापिते त्रिषु । समुद्रनवनीतं तु चन्द्रमस्यमृते स्मृतम् ॥ २१३५ ॥ ;p{0368} कुम्भीरे सेतुबन्धे च समुद्रारुस्तिमिङ्गिले । गर्विते पण्डितम्मन्ये समुद्भूतोर्द्धबन्धयोः ॥ २१३६ ॥ प्रभौ च वाच्यवल्लिंगः समुन्नद्ध उदाहृतः । समूढो वाच्यवद् भुग्ने सद्योजाते विवाहिते ॥ २१३७ ॥ दमिते मूढसहिते शोधिते चानुपप्लुते । समुह्यः पुंसि यज्ञाग्नौ सम्यगूहोचिते त्रिषु ॥ २१३८ ॥ सम्पत् स्त्रियां गुणोत्कर्षे विभवोत्कर्ष-हारयोः । सम्पन्नस्त्रिषु सम्पत्तिशालि-शोधितयोः स्मृतः ॥ २१३९ ॥ सम्परायस्तु संग्राम आपदुत्तरकालयोः । सम्पर्कः पुंसि विज्ञेयः संसर्गे मेलके रतौ ॥ २१४० ॥ सम्पाको लम्पटे धृष्टे तर्ककेऽल्पे च वाच्यवत् । सम्प्रयोगस्तु सम्बन्धे मैथुने कार्मणेऽर्थिते ॥ २१४१ ॥ संप्रयोगी कलाकेलौ कामुके संप्रयोजके । सम्प्रहारस्तु गमने संग्रामे हननेऽपि च ॥ २१४२ ॥ ;p{0369} सम्बद्धस्त्रिषु सम्पर्के बद्ध-सम्बन्धयुक्तयोः । सम्बन्धो न्याय-सम्पर्क-समृद्धिषु निगद्यते ॥ २१४३ ॥ सम्बरं संयमे नीर-बौद्धव्रतविशेषयोः । भेदे दैत्यस्य मीनस्य हरिणस्य च पुंस्ययम् ॥ २१४४ ॥ सेतौ शैलान्तरे भावितीर्थकृत्यपि कीर्तितः । आखुपर्ण्यां शतवर्यां सम्बरी स्त्री प्रकीर्तिता ॥ २१४५ ॥ सम्बलं सलिले क्लीवं पाथेये सम्बलोऽस्त्रियाम् । संबाधः संकटे भीतौ भगे नरकवर्त्मनि ॥ २१४६ ॥ सम्बाधनं स्मरद्वारे शूलाग्र-द्वारपालयोः । सम्भवो मेलकेऽपाये संकेतोत्पत्ति-हेतुषु ॥ २१४७ ॥ आधारानतिरिक्तत्व आधेयस्य जिनान्तरे । सम्भावः सर्वपूर्णत्वे सम्भूति-समवाययोः ॥ २१४८ ॥ स्फुटने मेलने प्रोक्तः सम्भेदः सिन्धुसंगमे । सम्भोगः सुरते भोगे प्रमोदे केलिनागरे ॥ २१४९ ॥ ;p{0370} जिनशासन-शृङारभेदयोरप्युदीरितः । संम्भ्रमः स्याद्भये सूत्रे संवेगे च महाभ्रमे ॥ २१५० ॥ सम्मतिः स्यादनुज्ञायामात्मज्ञानाभिलाषयोः । संमिश्रस्त्रिषु संयुक्ते मिश्रितेऽपि प्रयुज्यते ॥ २१५१ ॥ संमूर्च्छनमभिव्याप्तौ तद्वदुच्छ्राय-मोहयोः । सम्यक् स्याद् वाच्यवल्लिंगः संगते सत्यवाच्यपि ॥ २१५२ ॥ रम्ये प्रथमकल्पादौ सम्यक् समुदयेऽव्ययम् । सरो ना लवणे बाणे दध्यग्रे च गतावपि ॥ २१५३ ॥ निर्झरे तु द्वयोः प्रोक्तः सारके गन्तरि त्रिषु । सरं स्यात् सरसा सार्द्धं तडागे सलिलेऽपि च ॥ २१५४ ॥ सरकोऽस्त्री शीधुपान-शीधुभाजनयोरपि । अच्छिन्नाध्वगपंक्तौ च स्यान्मद्य-परिवेषणे ॥ २१५५ ॥ ;p{0371} त्रिष्वसौ गतिशीले च क्लीवमभ्रे सरोवरे । सरणिः स्त्री प्रसारिण्यां पंक्तौ मार्गेऽपि चेष्यते ॥ २१५६ ॥ सरण्डः सरटे धूर्ते कामुके भूषणे खगे । सरण्युर्ना जले वायौ मेघे वह्नि-वसन्तयोः ॥ २१५७ ॥ सरलः पूतिकाष्ठे स्यात् बुद्धे वैश्वानरे पुमान् । वाच्यलिङ्गस्त्वसौ प्रौक्त उदारेऽकुटिलेऽपि च ॥ २१५८ ॥ सरस्वती स्याद् भारत्यां दुर्गायां सरिदन्तरे । मनुपत्न्यां सरिद्भेदे बुद्धशक्त्यन्तरे गवि ॥ २१५९ ॥ ज्योतिष्मती-सोमलता-नदीमात्रेषु वाचि च । सरस्वान् ना नदे सिन्धौ रसिके त्वभिधेयवत् ॥ २१६० ॥ सरोजिनी पद्मखण्डे कमले कमलाकरे । सर्गः स्यात् निश्चयेऽध्याये स्वभावे सृष्टि-मोहयोः ॥ २१६१ ॥ ;p{0372} उत्साहेऽनुमतौ त्यागे मोचनेऽपि प्रकीर्तितः । सर्जः शालद्रुमे पीतशाले सर्जरसे पुमान् ॥ २१६२ ॥ सृष्टौ विसर्गने सैन्यपश्चाद्भागेऽपि सर्जनम् । अथ सर्वरसो वीणाविशेषे धूनके बुधे ॥ २१६३ ॥ सवश्चन्द्रे सहस्रांशौ यज्ञ-सन्तानयोरपि । सवेशो वाच्यवल्लिंगो वेशान्वित-समीपयोः ॥ २१६४ ॥ सव्यस्तु त्रिषु वामे स्यात् दक्षिण-प्रतिकूलयोः । सस्यं धान्ये गुणे शस्त्रे वृक्षादीनां फलेऽपि च ॥ २१६५ ॥ साधनं मृतसंस्कारे कारके गमने वधे । उपाये दापने शिश्ने प्रमाणे सिद्धि-सैन्ययोः ॥ २१६६ ॥ निषेधेऽनुगमे वित्ते योनौ निष्पादने जवे । साधिष्ठो वाच्यवन्न्याय्येऽत्यार्ये दृढतमेऽप्यसौ ॥ २१६७ ॥ ;p{0373} साधुर्मुनौ जिने सभ्ये पुंस्युत्तमकुलोद्भवे । साधुवाहो विनीताश्वे तथा सुन्दरवाहने ॥ २१६८ ॥ साध्यः पुंसि सुरे योगविशेष-साधनीययोः ॥ २१६९ ॥ विधेयेऽनुमितेः पक्षे साधनार्हतया मते । सान्दन्दः स्यात्पुमान् गुच्छकरञ्जे ध्रुवकान्तरे ॥ २१७० ॥ वाच्यलिंगस्त्वसौ प्रोक्तः सद्भिराह्लादसंयुते । सानुः स्त्रीपुंसयोः प्रस्थे वात्यायां पल्लवे वने ॥ २१७१ ॥ अर्केऽगे कोविदे मार्गे दर्शितः शब्देवेदिभिः । सान्द्रं वने त्रिलिंगस्तु स्निग्धे रम्ये घने मृदौ ॥ २१७२ ॥ सामग्री कारणव्राते द्रव्ये च कथिता स्त्रियाम् । सायो दिनान्ते वाणे ना सायाह्ने सायमव्ययम् ॥ २१७३ ॥ ;p{0374} सारं न्याय्ये जले लौहे नवनीते वनेs धने । सारो दध्युत्तरे वायौ पाशकेऽतिदृढे बले ॥ २१७४ ॥ वज्रक्षारे स्थिरांशे च रुजायां मज्जिना स्मृतः । सारङ्गश्चातके भृंगे राजहंसे मतङ्गजे ॥ २१७५ ॥ मयूरे हरिणे सिंहे सुवर्णे चन्दने कचे । चापे चित्रमृगे वाद्यविशेषे च विभूषणे ॥ २१७६ ॥ कोकिले कमले पुष्पे छत्रे शंखे घनेंऽशुके । सारस्वतः कल्प-देशभेदे व्याकरणान्तरे ॥ २१७७ ॥ सारी स्त्री सारिकायां स्यात् सप्तलायां च पाशके । सार्थः समूहमात्रे स्यात् जन्तुसंघे वणिग्व्रजे ॥ २१७८ ॥ सार्वो बुद्धे जिने पुंसि सर्वसम्बन्धिनि त्रिषु । सालो राले तरौ सर्जे मत्स्य-प्राकारयोः पुमान् ॥ २१७९ ॥ ;p{0375} पाञ्चालिकायां वेश्यायां कथिता शालभञ्जिका । तरक्षौ कुक्कुरे फेरौ कपौ सालावृकः स्मृतः ॥ २१८० ॥ सावनो यज्ञकर्मान्ते भेदे दिवस-मासयोः । वरुणे यजमाने च वर्षभेदेऽप्यसौ मतः ॥ २१८१ ॥ लोध्रेऽपराधे पापे सावरः परिकीर्तितः । साहसं स्यात् बलात्कारकृतकार्यादिके दमे ॥ २१८२ ॥ अविमृश्यकृतौ द्वेषे धार्ष्ट्ये दुष्करकर्मणि । असत्यभाषणे स्तेये परदाराभिमर्षणे ॥ २१८३ ॥ पारुष्ये नरहिंसायां क्लीवं वह्न्यन्तरे पुमान् । सिंहलं स्यात्त्वचे रंगे रीतौ देशान्तरे द्वयोः ॥ २१८४ ॥ सिंघाणं नासिकालौहमले स्यात् काचभाजने । सिंहास्यो वासके पुंसि सिंहतुल्यमुखे त्रिषु ॥ २१८५ ॥ ;p{0376} सिंही राहुजनन्यां स्यात् मुद्गपर्ण्यां च वासके । वार्ताकी-बृहती-सिंहपत्नीषु परिकीर्तिता ॥ २१८६ ॥ सिकता बालुकायुक्तभूमि-बालुकयोः स्त्रियाम् । सिक्तं नील्यां मधूच्छिष्टे त्रिलिंगः कृतसेचने ॥ २१८७ ॥ ना ग्रासेऽथ पटे जीर्णपटे च सिचयः स्मृतः । चन्दने मूलके रौप्ये सितं क्लीवं प्रकीर्तितम् ॥ २१८८ ॥ शुक्राचार्ये शुक्लवर्णे विशिखे च पुमान् मतः । त्रिषु ज्ञाते निबद्धे च समाप्ते सैत्यवत्यपि ॥ २१८९ ॥ शुक्लपक्षे बके हंसे सितपक्षः उदाहृतः । तगरे सितपुष्पः स्यात् स्वेतरोहित-काशयोः ॥ २१९० ॥ सुग्रीवः शंकरे शक्रे तीर्थकृज्जनकेऽसुरे । राजहंसेऽस्त्रभेदेऽपि विशेषे नाग-शैलयोः ॥ २१९१ ॥ ;p{0377} वानराधिपतौ विष्णुरथाश्वे च पुमान् मतः । वाच्यलिंगस्त्वसौ चारुग्रीवाशालिनि संमतः ॥ २१९२ ॥ सुतीक्ष्णः श्वेतशिग्रौ ना मुनौ शोभाञ्जने खरे । सुदर्शनो विष्णुचक्रे सुमेरौ जम्बुपादपे ॥ २१९३ ॥ जिनानां बलदेवे च वृत्तार्हज्जनके पुमान् । असौ तु वाच्यवल्लिंगः सुदृश्ये संमतः समाम् ॥ २१९४ ॥ सुदर्शना सोमवल्ल्यामाज्ञायामौषधान्तरे । सुदामा स्यात्पुमान् मेघे गोपभेद-समुद्रयोः ॥ २१९५ ॥ ऐरावते च श्रीकृष्णशरणप्राप्तब्राह्मणे । सुधा गंगा-स्नुही-मूर्वा-धात्रीषु सलिलेऽमृते ॥ २१९६ ॥ सुन्दरो ना स्मरे वृक्षभेदे त्रिषु तु मञ्जुले । सुन्दरी स्याद् हरिद्रायां स्त्रीविशेषे द्रुमान्तरे ॥ २१९७ ॥ ;p{0378} सुपर्णो गरुडे स्वर्णचूडे तु कृतमालिके । सुपर्वा ना सुरे धूमे वंशे विशिख-पर्वणोः ॥ २१९८ ॥ सुपात्रं तु स्मृतं योग्यव्यक्तौ शोभनभाजने । सुपुष्पं क्लीवं बाहुल्य-लवङ्ग-स्त्रीरजस्सु च ॥ २१९९ ॥ प्रपौण्डरीके तुलेऽसौ पुंसि स्याद् रक्तपुष्पके । हरिद्रु-राजतरुणी-शिरीषेष्वपि विशेषयोः ॥ २२०० ॥ सिद्धो व्यासादिके योग-देवयोनिविशेषयोः । व्यवहारे गुडे कृष्णधुस्तूरे च पुमानयम् ॥ २२०१ ॥ वाच्यलिंगस्त्वसौ नित्ये प्रसिद्ध-परिपक्वयोः । मन्त्रसिद्धिविशिष्टे च मुक्त-निष्पन्नयोरपि ॥ २२०२ ॥ सिद्धियुक्ते सैन्धवे तु लवणे सिद्धमीरितम् ॥ सिद्धिः स्त्री मोक्ष-सम्पत्ति-दुर्गा-निष्पत्ति-बुद्धिषु ॥ २२०३ ॥ ऋद्धिनामौषधे योगभेदेऽन्तर्द्धावपि स्मृता । सिन्दूरो धातकी-रक्तचेलिका-रोचनीषु च ॥ २२०४ ॥ ;p{0379} सिन्धुः पुंसि समुद्रे स्यात् सिन्दुवारे नदान्तरे । रागे देशविशेषे च वमथौ श्वेतटङ्कणे ॥ २२०५ ॥ मतङ्गजमदे नद्यां त्वसौ स्त्रीलिंगतां गतः । सिप्रो निदाघसलिले घर्म-चन्द्रमसोरपि ॥ २२०६ ॥ सीता स्यात् जानकी-गंगाभेदयोर्हलपद्धतौ । सीरः पुंसि हले सूर्ये तद्वदर्कमहीरुहे ॥ २२०७ ॥ सुकुमारस्तु पुण्ड्रेक्षौ श्यामाके वनचम्पके । क्षवे दैत्यविशेषे ना कोमले त्वभिधेयवत् ॥ २२०८ ॥ कदली-मालती-जाती-पृक्कासु भणिता स्त्रियाम् । सुकृतं स्यात् शुभे पुण्ये क्लीवं सुविहिते त्रिषु ॥ २२०९ ॥ सुखाशो राजतिनिशे वरुणे सुखभोजने । सुगन्धं चन्दने क्षुद्रजीरक-ग्रन्थिपर्णयोः ॥ २२१० ॥ नीलोत्पले गन्धतृणे क्लीवं पुंसि तु गन्धके । सुप्तिः स्त्री स्पर्शता-स्वाप-विश्रम्भ-शयनेषु च ॥ २२११ ॥ ;p{0380} सुफलः पुंसि वदरे कर्णिकार-कपित्थयोः । मुद्ग-दाडिमयोः सुष्ठुफलयुक्ते त्वसौ त्रिषु ॥ २२१२ ॥ सुफला कपिलद्राक्षा-कूष्माण्डी-कदलीषु च । काश्मर्यामिन्द्रवारुण्यां सद्भिः स्त्री समुदाहृता ॥ २२१३ ॥ सुभगष्टङ्कणेऽशोके रक्ताम्लाने च चम्पके । वाच्यलिंगः सुदृश्ये च शोभनैश्वर्यशालिनि ॥ २२१४ ॥ सुभगा स्याद् हरिद्रायां प्रियङ्गौ तुलसीतरौ । वनमल्ली-शालपर्णी-सुवर्णकदलीष्वपि ॥ २२१५ ॥ पतिप्रियायां कस्तूर्यां कैवर्ती-नीलदूर्वयोः । सुरः स्यादमरे सूर्ये मदिरायां सुरा मता ॥ २२१६ ॥ सुरभिर्ना वसन्तर्तौ चैत्रे जातीफले गवि । सुगन्धौ चम्पके राले जातीफलमहीरुहे ॥ २२१७ ॥ ;p{0381} सुरसं तुलसी-बोल-त्वच-गन्धतृणेषु च । सुरसः स्यात् पुमान् सिन्धुवारे मोचरसे स्मृतः ॥ २२१८ ॥ सुरसा तुलसी-रास्ना-मिश्रेय-नागमातृषु । महाशतावरी-ब्राह्मी-दुर्गासु सरिदन्तरे ॥ २२१९ ॥ वाच्यलिंगस्त्वसौ स्वादौ स्यात् सुष्ठुरसवत्यपि । सुरूपः पण्डिते चारौ मेरौ स्वर्गे प्रकीर्तितः ॥ २२२० ॥ सुरालयः सुमेरौ स्यात् त्रिदिवे मदिरागृहे । सुवर्चला सूर्यमुखीपुष्पे सूर्यस्य योषिति ॥ २२२१ ॥ ब्राह्म्यामादित्यभक्तायां क्षुमायां पुंसि नीवृति । सुवर्णः पुंसि धुस्तूरे सुष्ठुवर्णे तु वाच्यवत् ॥ २२२२ ॥ हेम्नोऽक्षे त्वस्त्रियां प्रोक्तः काञ्चने तु नपुंसकम् । सूकः स्यात् पुंसि विशिखे मारुतोत्पलपुष्पयोः ॥ २२२३ ॥ सूचकः सीवनद्रव्ये विडाले वायसे शुनि । सूत्रधारे पिशाचे च कथके सिद्ध-बुद्धयोः ॥ २२२४ ॥ ;p{0382} सूचना व्यधने दृष्टौ गन्धनेऽभिनये स्त्रियाम् । सूचिर्नृत्यप्रभेदे च व्यधनी-शिखयोः स्त्रियाम् ॥ २२२५ ॥ सूतः स्यात् पारदे त्वष्ट-वन्दिनोः सारथौ पुमान् । असौ तु वाच्यवल्लिंगः प्रसूते प्रेरिते त्रिषु ॥ २२२६ ॥ सूत्रं तन्तौ व्यवस्थायां ग्रन्थे शस्त्रादिसूचके । सूत्रकण्ठः कपोते स्यात् खञ्जरीटेऽग्रजन्मनि ॥ २२२७ ॥ सूनः सूर्येऽनुजे पुत्रे तद्वदर्कमहीरुहे । सुनृतं मंगले सत्यप्रियवाक्ये च कीर्तितम् ॥ २२२८ ॥ सूपस्तु सिद्धदालौ स्यात् सूदे भाण्डे च शायके । सूमं क्षीरे जले व्योम्नि सूरः सूर्येऽर्कपादपे ॥ २२२९ ॥ सूक्ष्मं स्यात् कैतवेऽध्यात्मं सूक्ष्मोऽणौ कतकद्रुमे । सृष्टं स्याद् वाच्यवत्यक्ते निर्मिते निश्चिते युते ॥ २२३० ॥ सेचनं क्षरणे सेके नौकायाः सेकभाजने । सैरिभो महिषे स्वर्गे सोमं स्वर्गे च काञ्जिके ॥ २२३१ ॥ ;p{0383} सोमश्चन्द्रे कुबेरे च कर्पूरे मारुते यमे । वसुभेदे शिवे नीरे कीशे सोमलतौषधौ ॥ २२३२ ॥ सौगन्धिकं स्यात् कह्लारे पद्मरागे च कत्तृणे । नीलोत्पले पुमांस्तु स्यात् सुगन्ध-व्यवहारिणि ॥ २२३३ ॥ सौधोऽस्त्री राजसदने सुधासम्बन्धिनि त्रिषु । सौभाग्यं टंकणे योगभेद-सिन्दूरयोरपि ॥ २२३४ ॥ सौम्यो बुधग्रहे विप्रे सौम्यं कृच्छ्रव्रतेऽपि च । सौरभ्यं स्याद् मनोज्ञत्वे सौगन्ध्ये गुणगौरवे ॥ २२३५ ॥ सौरभं कुंकुमे बोले सद्गन्धेऽपि निगद्यते । स्कन्धः काये समूहेंऽशे प्रकाण्डे नृपतौ रणे ॥ २२३६ ॥ स्तननं कुन्थिते मेघगर्जित-ध्वनिमात्रयोः । स्तनयित्नुः पुमान् मेघे मुस्तके मृत्युरोगयोः ॥ २२३७ ॥ ;p{0384} स्तनितं मेघनिर्घोषे करतालिध्वनावपि । स्तम्बः प्रकाण्ड रहितद्रुमे गुच्छे तृणादिनाम् ॥ २२३८ ॥ स्तबको गुच्छके ग्रन्थपरिच्छेदे चये स्तुतौ । स्तोमः स्तबे समूहे च सप्ततन्तावपीष्यते ॥ २२३९ ॥ स्यानं स्निग्धे प्रतिध्वाने घनताऽलस्ययोरपि । स्थानं स्यान्निकटे ग्रन्थसन्धौ स्थित्यवकाशयोः ॥ २२४० ॥ सन्निवेशे च सादृश्ये वसतौ भाजने स्थितौ । स्थानेऽव्ययं कारणार्थे सत्ये सादृश्ययोग्ययोः ॥ २२४१ ॥ स्थितिः स्त्री धारणायां स्याद् अवस्थाने च सीमनि । स्थिरः पुंसि सुरे शैले कार्तिकेये द्रुमे शनौ ॥ २२४२ ॥ स्थिरदंष्ट्रो ध्वनौ सर्पे वराहाकृतिमाधवे । स्थेयो विवादपक्षस्य निर्णेतरि पुरोधसि ॥ २२४३ ॥ ;p{0385} स्पर्शनो मारुते पुंसि क्लीवं तु स्पर्श-दानयोः । हंसः सूर्ये शिवे विष्णौ निर्लोभनृपतौ गुरौ ॥ २२४४ ॥ पक्षिभेदे मन्त्रभेदे मत्सरे परमात्मनि । हंसकः पादकटके राजहंसे च तालके ॥ २२४५ ॥ हनुः कपोलावयवे स्त्रियां पुंसि च कीर्तितः । स्त्री स्याद् हट्टविलासिन्यां रोगेऽस्त्रे मरणेऽपि च ॥ २२४६ ॥ हरः शिवेऽनले पुंसि हरकः शिव-चौरयोः । हरिर्विष्णौ शिवे सूर्ये विरिञ्चौ चन्दिरेऽनले ॥ २२४७ ॥ इन्द्रे यमेऽनिले सिंहे किरणे तुरगेऽपि च । शुके भुजङ्गमे हंसे मयूरे मर्कटे प्लवे ॥ २२४८ ॥ हालिके बलदेवे च प्राज्ञैर्हलधरः स्मृतः । हला सख्यां जले मद्ये पृथिव्यामपि कीर्तिता ॥ २२४९ ॥ ;p{0386} हलाहलो ब्रह्मसर्पेऽञ्जना-बुद्धविशेषयोः । आज्ञायामध्वरे होमे आह्वानेऽपि हवः पुमान् ॥ २२५० ॥ हस्तिमल्लः शंखनाग ऐरावत-गणेशयोः । हायनोऽग्निशिखा-व्रीहिभेदयोर्वत्सरे पुमान् ॥ २२५१ ॥ हारो मुक्तावलौ युद्धे हरि सम्बन्धिनि त्रिषु । हारकः कितवे गद्यभेद-विज्ञानभेदयोः ॥ २२५२ ॥ तस्करे भाजकाङ्के च शाखोटेऽपि निगद्यते । हारीतः कैतवे पक्षिविशेष-मुनिभेदयोः ॥ २२५३ ॥ हालो हले प्रलम्बघ्ने शालिवाहनभूपतौ । हिंस्रा काकादनी-नाडी-जटामांसी-गवेधुषु ॥ २२५४ ॥ हितं त्रिषु गते मित्रे मंगले घृत-पथ्ययोः । हिमं स्यात्तुहिने रंगे पद्मकाष्ठे च मौक्तिके ॥ २२५५ ॥ ;p{0387} चन्दने नवनीते च क्लीवं शीते तु वाच्यवत् । हिमश्चन्द्रे च कर्पूरे हेमन्ते चन्दनद्रुमे ॥ २२५६ ॥ हिमजा क्षीरणी-गौरी-शटीषु कथिता स्त्रियाम् । हिमा नागरमुस्तायां सूक्ष्मैला-भद्रमुस्तयोः ॥ २२५७ ॥ पृक्कायां चणिकायां चरेणुकायामपि स्त्रियाम् । हिरण्यं काञ्चने वित्ते धुस्तूरे च वराटके ॥ २२५८ ॥ अक्षये मानभेदे च रजताऽकुप्ययोरपि । हिरण्यगर्भः श्रीविष्णौ प्राणात्मनि चतुर्मुखे ॥ २२५९ ॥ हिरण्यरेताः सूर्येऽग्नौ शंकरे चित्रकद्रुमे । हीनस्त्रिष्वधमे गर्ह्ये रहिते प्रतिवादिनि ॥ २२६० ॥ हुडुक्को मदमत्ते स्याद् दात्यूह-वाद्यभेदयोः । हुण्डः स्याद् राक्षसे व्याघ्रे वालिशे ग्राम्यशूकरे ॥ २२६१ ॥ हृदयं मानसे वुक्के वक्षस्यपि प्रकीर्तितम् । हृद्यो मनोरमे हृञ्जे हृत्प्रिये हृद् हिते त्रिषु ॥ २२६२ ॥ ;p{0388} औत्सुक्ये स्यात्तु हृल्लेखा हृल्लेखो ज्ञान-तर्कयोः । हृषितं वाच्यवल्लिंगं प्रणते हृष्टरोमणि ॥ २२६३ ॥ वर्मिते विस्मृते प्रीते प्रहतेऽपि बुधैः स्मृतम् । हृष्टस्त्रिषु प्रतिहते जातहर्षे च विस्मिते ॥ २२६४ ॥ रोमाञ्चिऽतेऽपहसित-प्रीतयोरप्युदाहृतः ॥ विहेठे बाधायां हृष्टिः स्त्री मानहर्षयोः ॥ २२६५ ॥ हेतिः स्त्री सूर्यकिरणे तेजोमात्रे च साधने । अस्त्रे बह्निशिखायां च कौशिकैः परिदर्शिता ॥ २२६६ ॥ हेम धुस्तूर-किञ्जल्क-काञ्चनेषु हिमेऽपि च । हेमः स्यात् कृष्णवर्णाश्वे बुध-माषकमानयोः ॥ २२६७ ॥ हेरम्बो महिषे शौर्यगर्विते गणनायके । अथ हैमवती गौरी-गंगा-श्वेतवचासु च ॥ २२६८ ॥ रेणुका-कपिलद्राक्षा-स्वर्णक्षीरी-क्षुमास्वपि । हरीतक्यामथो होत्रं होमे हविषि कीर्तितम् ॥ २२६९ ॥ ;p{0389} होरा लग्ने शास्त्रभेदे तथा राश्यर्द्धरेखयोः । ह्रस्वः खर्वे द्वयोरेकमात्रवर्णे त्वसौ पुमान् ॥ २२७० ॥ ह्रादिनी शल्लकी-विद्युत्-सरित्सु कुलिशे स्त्रियाम् । पर्वण्यवसरे मध्ये परतन्त्रत्व उत्सवे ॥ २२७१ ॥ निर्व्यापारस्थितौ कालविशेषेऽपि क्षणः पुमान् । क्षत्ता दासीसुते द्वाःस्थे नियुक्ते सारथौ विधौ ॥ २२७२ ॥ क्षत्रियायां द्विजात् जाते मीनेऽपि कथितो बुधैः । क्षमं युक्ते क्षमः शक्तौ हितेऽपि त्रिषु कीर्तितः ॥ २२७३ ॥ क्षमा रात्रौ क्षितौ क्षान्तौ दुर्गायां गोपिकान्तरे । क्षयो लये गृहे कासरोगेऽपचय-वर्गयोः ॥ २२७४ ॥ क्षरं जले क्षरो मेघे क्षरो नश्वरवस्तुनि । क्षवः क्षुधाभिजनने क्षुते कासेऽप्यसौ पुमान् ॥ २२७५ ॥ ;p{0390} कण्ठकण्डूयने कासे क्षुतेऽपि क्षवथुः पुमान् । क्षारः स्यात् टङ्कणे धूर्ते गुडे काचे च भस्मनि ॥ २२७६ ॥ लवणे सर्जिकाक्षारे रसभेदेऽप्यसौ पुमान् । क्लीवं विड्लवणे तद्वद् यवक्षारेऽपि कीर्तितम् ॥ २२७७ ॥ क्षारके जालके पक्षिमत्स्यादिपिटकेऽपि च । क्षितिर्वासे क्षये भूमौ रोचनायां लये स्त्रियाम् ॥ २२७८ ॥ क्षिप्तः स्याद् वाच्यवत् त्यक्ते वायुग्रस्तेऽप्यसौ मतः । क्षीरं स्यात् सलिले दुग्ध-सरलद्रव्ययोरपि ॥ २२७९ ॥ क्षुण्णं स्यात् वाच्यवत् चूर्णीकृत-प्रहतयोरपि । क्षुद्रस्त्रिषु लघौ क्रूरे दरिद्रे कृपणेऽधमे ॥ २२८० ॥ क्षुद्रा स्याद् स्त्री नटी हिंस्रा-व्यङ्गा-वादरतासु च । गवेधौ मक्षिकामात्र-कण्टकारिकयोरपि ॥ २२८१ ॥ ;p{0391} चाङ्गेरिकायां वेश्यायां सरघायामपीष्यते । क्षुपः शैलान्तरे कृष्णपुत्रे क्षुद्रद्रुमे पुमान् ॥ २२८२ ॥ क्षुभितश्चलिते भीते वाच्यलिंगः प्रकीर्तितः । क्षुमाऽतसी-लताभेद-नीलिकासु शणे स्त्रियाम् ॥ २२८३ ॥ क्षुरः शफे कोकिलाक्षे गोक्षुरे क्षुरकः पुमान् । क्षुल्लकस्त्रिषु निस्स्वेऽल्पे कनिष्ठे पामरे खले ॥ २२८४ ॥ दुःखिते नीचके क्षुद्रे कोशज्ञैः परिकीर्तितः । क्षेत्रं शरीरे नगरे सिद्धस्थाने च वेश्मनि ॥ २२८५ ॥ तथा कलत्रे केदारे प्राज्ञैः प्रोक्तं नपुंसकम् । क्षेत्रज्ञः पुंसि कृषके छेके वटुकभैरवे ॥ २२८६ ॥ देहाधिदैवते शेषद्वयार्थे त्वभिधेयवत् । क्षेपः स्यात् पुंसि निन्दायां च विलम्बने ॥ २२८७ ॥ लंघने प्रेरणे गुच्छे लेपने गर्व-हेलयोः । क्षेपणं यापने यन्त्रविशेषे प्रेरणेऽपि च ॥ २२८८ ॥ ;p{0392} क्षेमोऽस्त्री कुशले मोक्षे लब्धस्य परिरक्षणे । क्षेमं मठान्तर-प्लक्षद्वीपवर्षविशेषयोः ॥ २२८९ ॥ क्षोदः स्याद् पेषणे चूर्णे रजस्यपि पुमानतः । क्षोभः संचलने चित्तचाञ्चल्ये क्षोभणे पुमान् ॥ २२९० ॥ क्षोद्रं मधुनि पानीये क्षौद्रश्चम्पकपादपे । वर्णसंकरभेदे च क्षुद्रतायामपीष्यते ॥ २२९१ ॥ क्षौद्रेयं सिक्यके क्लीवं क्षौद्रसम्बन्धिनि त्रिषु । क्षौमोऽस्त्री स्याद् दुकूलेऽट्टेऽतसीजे शणजे पटे ॥ २२९२ ॥ क्ष्वेडः कर्णामये पीतघोषावृक्षे विषे ध्वनौ । वाच्यलिंगस्त्वसौ ज्ञेयः कुटिले च दुरासदे ॥ २२९३ ॥ क्ष्वेडा कोषातकी-सिंहनादयोर्भणिता स्त्रियाम् । समाप्तः खलु ग्रन्थोऽयं नानार्थोदयसागरः ॥ २२९४ ॥ ;c{नानार्थोदयसागरकोषः समाप्तः}