;METADATA ;title{पञ्चतत्त्वप्रकाश} ;author{वेणीदत्त} ;bookFullName{अथ षट्कोशानां संग्रहः} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{श्रीकाशीजी में ज्ञानवापी के पूर्व फाटक पर श्री विश्वनाथजी के पास श्री३युत महाराज शिवलाल दुबेजी के मकान में छपी ।} ;pressDetails{जिनको लेना होय उन्होने इस् छापेखाने के कार्यसंपादक बाबू वाराणसीप्रसाद या कचौरी गली मेम् भाई प्रतापसिंहजी के दुकान पर मिलेगी ।} ;publicationYear{1930 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{PTVD} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri Kailasasagarasuri Gyanamandira for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{varga} ;version0.0.1{26 February 2019} ;version0.0.2{20 May 2019} ;version0.0.3{30 May 2019} ;version0.0.4{30 May 2019} ;version0.1.0{30 May 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{पञ्चतत्त्वप्रकाश} ;c{श्रीगणेशाय नमः ॥} ;c{Numbers seem missing or duplicated on and off. Therefore, we have numbered them consecutively. Does not match the published version.} अद्वयं द्वयमाभाति लक्ष्मीनारायणात्मकम् । अपूर्ब्बं तन्महःपूर्वं कोटिसूरं मुहुर्न्नुमः ॥ १ ॥ ;k{भूमिभानुः} ;v{मनुष्यमरीचिः} भूर्भूमिः पृथिवी पृथ्वी मेदिनी काश्यपी मही । धरा वसुमती धात्री क्षमा विश्वम्भरावनिः ॥ २ ॥ धरित्री क्ष्मा लोकधात्री वसुधा कुर्वसुन्धरा । सर्व्वंसहा गौर्जगती रत्नगर्भा स्थिरा क्षितिः ॥ ३ ॥ मृन्मृत्तिका प्रशस्ता मृन्मृत्सा मृत्स्ना महीपलम् । नीवृज्जनपदो देशविषयावुपवर्त्तनम् ॥ ४ ॥ प्राच्यः प्राक् पूर्व्व इन्द्राख्य उदगुत्तरधानदाः । आगस्त्यो दक्षिणो याम्यः प्रत्यक्पाश्चात्यपश्चिमाः ॥ ५ ॥ पूः पुरी नगरी गेहि नगरं पुटभेदनम् । स्थानीयं निगमो वासो गोपुरं पत्तनं पुरम् ॥ ६ ॥ आपणो विपणिः पण्यवीथिका हट्टकोऽट्टकः । पल्लीग्रामो गृहं गेहं वेश्म सद्म निकेतनम् ॥ ७ ॥ सदनं भवनागारे मन्दिरं तल्पमाशया । शय्या पर्य्यङ्कगः? खट्वाऽऽस्तरणं तूलिका सुवा? ॥ ८ ॥ सुजनी गुणिनी गुण्या वस्त्रोर्णं चित्रभूस्तरः । उपधानं गेन्दुककं गवाक्षो जालमार्गतः ॥ ९ ॥ काश्मीरलोमं काश्मीरं कम्बलो वर्णकम्बलः । कौशेयं पट्टकूल्लाह्वं क्षौमं कीटान्त्रतन्तुजम् ॥ १० ॥ वातायनं वाजिशाला मन्दुरा वेशनं कलम् । शिल्पशाला शिल्पगृहं गजशाला गजालयम् ॥ ११ ॥ गोस्थानं गोगृहं गोष्ठं शस्त्रशालाऽस्त्रमन्दिरम् । महानसः पाकशाला देवशालाऽमरालयम् ॥ १२ ॥ मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः । ना पुमान् पुरुषो गोध्मः पाञ्चजन्यजपूरुषौ? ॥ १३ ॥ राजा भट्टारको देवो भूपतिः क्ष्मापतिर्नृपः । राज्ञी राजप्रिया देवी महिषी नृपवल्लभा ॥ १४ ॥ राजपुत्रो राजसूनुर्युवराजो नृपात्मजः । ;p{0002} कुमारोऽमात्यसचिवौ मन्त्री राज्यप्रचारकः ॥ १५ ॥ महामात्रः सुप्रधानो नृपपूज्यः पुरोहितः । पुरोधा भूपतिगुरुर्गृहाध्यक्षो गृहाधिकृत् ॥ १६ ॥ सम्भारपालः सम्भारी सर्व्वसम्भाररक्षकः । दिल्लीपतिः सार्व्वभौमोऽधीशो भूपपुरन्दरः ॥ १७ ॥ पातिसाहः शाककर्त्ता सेनानी सैन्यचारकः । सेनाध्यक्षश्च सूनेता कोष्ठपो दण्डवासिकः ॥ १८ ॥ कोष्ठपालः कोशपतिर्धनपालो धनाधिपः । भाण्डारिको द्रव्यरक्षो दैवज्ञो गणको भवित् ॥ १९ ॥ सांवत्सरो ज्योतिषिको मौहूर्तो गदहा भिषक् । चिकित्सको भेषजविद्वैद्यो व्यासः पुराणकृत् ॥ २० ॥ पौराणिकः कथाकर्त्ता वीणाविद्वैणिकस्तनाट्? । गेयको गायको रागी तानज्ञो गीतवर्त्तनः ॥ २१ ॥ नाट्यविन्नटको नाट्यो नर्त्तको लास्यकृन्नटः । चित्रविच्चित्रकृच्चित्रकर्मा चित्रविलेखकः ॥ २२ ॥ लास्यं नृत्तं नर्त्तनकं नाट्यं नर्त्तनताण्डवे । विपञ्ची तुंबिनी तन्त्री वीणा सप्तस्वरस्वना ॥ २३ ॥ लिपिरक्षरविन्यासः पङ्क्तिर्वर्णपरम्परा । पत्राञ्जनं मसिर्मेला मसी कज्जलकन्यका ॥ २४ ॥ अर्णःशब्दोऽक्षरं वर्णः श्लोकः पद्यं सुभाषितम् । मसीधेनुर्मषीपात्रं लेखनी वर्णतूलिका ॥ २५ ॥ वर्णदूतस्वस्तिवक्त्रोलेखो वाचिकहारकः । पत्रमुद्रा काचनकाऽनङ्गलेखः स्मरेन्थिहा? ॥ २६ ॥ उपाध्यायोऽध्यापनकृत् पाठकोऽध्यापको गुरुः । शिष्यः छात्रः पार्श्ववासी पवित्रः प्रयतः शुचिः ॥ २७ ॥ अपूतोऽविमलोऽशुद्धो मलिनोऽप्रयतोऽशुचिः । लिपिकारोऽक्षरवणो लेखको द्वारपालकः ॥ २८ ॥ ;p{0003} प्रतीहारो द्वारगोप्ता द्वास्थो वेत्रलताधरः । स्थापन्यः कञ्चुकी षण्ठः सौविदुल्लो नपुंसकः ॥ २९ ॥ सांदेशिको दौत्यकरो दूतः पान्थः प्रवासधृक् । प्रवासी पथिकोऽध[ध्व]न्योऽध्वगो? मित्रं सखा सुहृत् ॥ ३० ॥ शत्रुर्वैरी सपत्नोऽरिर्द्वेषणो दुर्हृदो द्विषत् । द्विट्विपक्षोऽहितोऽराति[भि]रमित्रं सख्यहा रिपुः ॥ ३१ ॥ प्रत्यर्थी परिपथ्यस्व? आप्तः प्रत्ययितश्चरः । चारो गूढनरो तर्वे? वशिकोऽन्तःपुराधिकृत् ॥ ३२ ॥ भटोऽनुजीव्यनुचरः पदातिः पदगोऽनुगः । पत्तिर्भृत्यः शस्त्रजीवी किङ्करः सेवको जनः ॥ ३३ ॥ उपायनमुपग्राह्यमुपहारोपढौकिते । शाणेयं कर्गलं शाद्वं पत्रमर्णावनिः सुधम् ॥ ३४ ॥ सिंहासनं भद्रपीठं भद्रासननृपासने । हैमं छत्रमातपत्रमववादो? निदेशकः ॥ ३५ ॥ शासनं नृपनिर्देश आज्ञा तेजः प्रतापकः । प्रभावः कीर्त्तिः सच्छ्लोकः प्रशस्तिः शुभ्ररुग्यशः ॥ ३६ ॥ स्त्री नारी ललना योषा मुग्धा सीमन्तिनी वधूः । भामिनी वनिता भीरुरङ्गना वामलोचना ॥ ३७ ॥ वामा तनूदरी श्यामा योषित् पत्नी प्रियाऽबला । महिला मानिनी भार्य्या बाला प्रणयिनी गृहम् ॥ ३८ ॥ गृहिणी गेहिनी दाराः पुरन्ध्री रमणीकुलम् । प्रेमा मदयिनी कुल्या सुन्दरी स्वा नितम्बिनी ॥ ३९ ॥ वल्लभा प्रमदा कान्ता प्रेयसी दयितान्तरा । सती पतिव्रता साध्वी चण्डा निष्कारणक्रुधा ॥ ४० ॥ मनस्विनी बहुमना आर्य्योदारस्वभाविनी । बन्धकी कुनटा मुक्ता पुनर्भूः पुंश्चली खला ॥ ४१ ॥ कुट्टिनी मेलिकी योषिद्योगिनी स्त्रीप्रतारिणी । दूती संचारिका कन्या कन्यका बालिकाऽमदा ॥ ४२ ॥ ;p{0004} कामुकीच्छा[युक्ता] स्याद्वृषस्यन्ती नरान्तरा । अवीरा निष्पतिसूता विश्वस्ता विधवाऽधवा ॥ ४३ ॥ आलिः सखी सहचरी वयस्याम्बा रहस्यगाः । पुंचिह्ना पुंकचा पुंस्त्री पोटा स्त्रीपुंसलक्षणा ॥ ४४ ॥ सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिणी । सामान्यवनिता वेश्या पण्यस्त्री वारसुन्दरी ॥ ४५ ॥ वाराङ्गना वसुरता गणिका सर्व्ववल्लभा । लोभिनी काञ्चनी वेश्या हौडिकी म्लेच्छगायिका ॥ ४६ ॥ कानीनः कन्यकापुत्रो बन्धुलः कुलटासुतः । कौलटेयः कौलटेरो भागिनेयः स्वसुः सुतः ॥ ४७ ॥ स्वसृजो भगिनीपुत्रः सोदर्य्यः सोदरात्मजः । भ्रातृव्यो भ्रातृतनयः पितृव्यः पितृसोदरः ॥ ४८ ॥ मातुलो जननीभ्राता भगिनी सहजा स्वसा । शालको गृहिणीबन्धुः श्यालः पत्नीसहोदरः ॥ ४९ ॥ गृहिणीभगिनी श्याली श्यालिका गृहिनीस्वसा । पाणिपीडनमुद्वाहो विवाहो मैथुनं रतम् ॥ ५० ॥ पशुधर्म्मो निधुवनं सम्भोगः कामसङ्गरः । श्वशुरो दयितातातः श्वश्रू श्वशुरवल्लभा ॥ ५१ ॥ प्रजावती भ्रातृजाया ननन्दा श्व[स्व]श्रुजस्वसा । जनयित्री प्रसूर्माता जननी जन्मदायिनी ॥ ५२ ॥ धाविका दुग्धदा धात्री धाविको दुग्धदापतिः । धात्रीपुत्रो धाविकेयो जनेता जनकः पिता ॥ ५३ ॥ तातो द्वितो जनुकरो भ्राता बन्धुः सहोदरः । सहजन्मा सहजनु सहजो बान्धवोऽनुजः ॥ ५४ ॥ कनिष्ठोऽग्रजनु? ज्येष्ठो देवरः पतिसोदरः । धवः प्रियः पतिर्भर्त्ता वल्लभो दयितोऽसुपः? ॥ ५५ ॥ जार उपपतिः कुण्डो जारजो गोलकोऽन्यजः । ;p{0005} गर्भो दोहदकं भ्रूणः पोतो बालोऽर्भकः शिशुः ॥ ५६ ॥ पुत्रः सुतः स्वजः सूनुरात्मजस्तनयौरसौ । पौत्रो नप्ता पुत्रपुत्रः पौत्री नप्त्री सुतात्मजा ॥ ५७ ॥ दौहित्रो दुहितुः पुत्रो दुहिता तनया सुता । दौहित्री दुहितुः पुत्री मातुली मातुलप्रिया ॥ ५८ ॥ मातुलेयो मातुलभूर्जामाता तनयापतिः । पितृष्वसा पित्रनुजा तत्पुत्रः पितृस्वसृजः ॥ ५९ ॥ सम्बन्धी सामरसिको मङ्गल्यो मङ्गलब्रुवः । द्विजातिर्ब्राह्मणो विप्रो वाडवो भूसुरो द्विजः ॥ ६० ॥ सुधी[धि]र्विद्वान्बुधः सूरिर्विपश्चित्पण्डितः कविः । अनक्षरः कुधीर्मूर्खो बुद्धिर्द्धीर्धिषणा मतिः ॥ ६१ ॥ विषवैद्यो जाङ्गलिको गारुडिः सर्पमन्त्रवित् । गोपो दासेरको दासो दासेयः परिचारकः ॥ ६२ ॥ चेटः प्रे[प्र]ष्यः परिस्कन्दो भूजिष्यः प्रपराचितः । चेटी दासेरिका दासी प्रेष्या योज्या भुजिष्यिका ॥ ६३ ॥ कारुः शिल्पी शिल्पकर्त्ता कुम्भकारः कुलालकः । तन्तुवायस्तन्त्रवायः पटकर्त्ता कुविन्दकः ॥ ६४ ॥ मालाकारः पुष्पमालो मालिको वाटिकाद्रुपः । रञ्जको रागकृद्वस्त्ररञ्जको राजकौण्डिकः ॥ ६५ ॥ शौण्डिको मदिराकर्त्ता गञ्जावा सोमदक्षितिः । शस्त्रमार्गोऽस्त्ररुक्कर्त्ता शस्त्रोल्लेखोऽसिधावकः ॥ ६६ ॥ चर्माजीवश्चर्मकारः पादूकृच्चर्ममर्द्दकः । लोहकारो लोहकर्त्ताऽयःकृल्लोहविघुट्टकः ॥ ६७ ॥ नाडिन्धमः स्वर्णकारः पश्यतोहरहैमिकौ । कलादो रुक्मकृद्रुक्मकारको रुप्यकुट्टकः ॥ ६८ ॥ रत्नज्ञो रत्नरुक्कर्त्ता जटितो रत्नविक्रयी । शाङ्खिकः काम्बुकः काम्बः शौल्बिकस्ताम्रकुट्टकः ॥ ६९ ॥ रथकारः काष्ठतक्षस्तष्टाऽक्षारुवार्द्धकी । अन्तवासी क्षुरमुण्डी नापितो बालकर्त्तकः ॥ ७० ॥ ;p{0006} निर्णेयकः पाटक्षाली रजको वस्त्रधौतकः । अजाजीवच्छागपालो जाबालिर्मेषमाण्डलिः ॥ ७१ ॥ कृशाश्वी भरतो जायाजीवः पत्नीप्रवर्त्तकः । मायाकारः छद्मनाट्यो मायिक ऐन्द्रजालिकः ॥ ७२ ॥ मार्द्दङ्गिको मौरजिको वेणुध्मा वेणुवादकः । जालिको वागुराबन्धो मांसिको मांसविक्रयी ॥ ७३ ॥ जीवान्तकः कौरिकिकः शाकुनिः सत्त्वशब्दवित् । मोषकः स्तेनकश्चौरः स्तैन्यं पैशुन्यकं हृतिः ॥ ७४ ॥ मातङ्गः श्वपचोऽस्पृश्यश्चण्डालः पुक्कसः प्लवः । म्लेच्छः तुरुष्को यवनो विद्धकर्णो वराहभुक् ॥ ७५ ॥ बाहुजः क्षत्रियः क्षत्री राजन्यो मौलिसिंचितः । ऊरुजः पीतरुग्वैश्यो विड्वाणिज्याऽवनिस्पृशः ॥ ७६ ॥ शूद्रोऽन्त्यवर्णोऽङ्घ्रिभवः श्यामः सेवनजीवनः । भिल्लः किरातः शबरो निषादो वेणुकल्मषः ॥ ७७ ॥ मूर्द्धोत्तमाङ्गं मौलिः कं मस्तकं शीर्षकं शिरः । शिरोरुहः शिरसिजः कुन्तलश्चिकुरः कजः ॥ ७८ ॥ बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः । कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥ आननं वदनं वक्त्रं मुखमास्यं रदालयम् । काकपक्षं शिखा वेणिर्वेणी कुन्तलशृङ्खला ॥ ८० ॥ जूटीबन्धः केशगुच्छो धम्मिलः कबरी कचा । कर्णः श्रवः श्रुतिः श्रोत्रं श्रवणं शाब्दिकेन्द्रियम् ॥ ८१ ॥ दृक् दृष्टिर्नयनं नेत्रं लोचनं चक्षुरक्षिणी । अपाङ्गो लोचनप्रान्तः कटाक्षः कुटिलेक्षितम् ॥ ८२ ॥ गोधिर्ललाटमलिकं निटिलं भालमर्द्धकम् । घ्राणं गन्धेन्द्रियं घोणा नासिका गन्धवाहिनी ॥ ८३ ॥ रसज्ञा रसना जिह्वा रसाऽप्यारसनेन्द्रियम् । रदनो दशनो दन्तो द्विजो भ्रूर्भ्रुकुटिः कुटिः ॥ ८४ ॥ गण्डस्थलं गण्डफलं कपोलो गल्लपालिका । ;p{0007} गल्लो वक्त्रपुटं वक्त्राजिरं वदनसम्पुटम् ॥ ८५ ॥ निमेषो नयनोन्मेषः पक्ष्म तारकृतोरणम् । ओष्ठोऽधरो वक्त्रपर्णं[र्ण] हनुश्चिबुकपोत्रकम् ॥ ८६ ॥ शिरोधरा गलो ग्रीवा कण्ठो घाटा कृकाटिका । अंसः स्कन्धो बाहुशीर्शं कक्षास्पृक् बाहुमूलकम् ॥ ८७ ॥ पृष्ठवंशो मेरुदण्डः पृष्ठं पृष्ठस्थलं त्रिकम् । कुचस्तनो हृदयजो नीलवक्त्रः पयोधरः ॥ ८८ ॥ रोमावली रोमराजी रोमसृक् त्रिवलिर्वलिः । जठरं कुक्षिरुदरं पार्श्वमुभयपक्षकम् ॥ ८९ ॥ चित्तं चेतो मनः स्वान्तं तालुः काकुदतालुके । मध्योऽवलग्नं क्षीणाङ्गं नाभिर्नालपयोरुहम् ॥ ९० ॥ हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः । अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥ अनामाऽनामिका मध्या मध्यमा दीर्घपर्विका । कनिष्ठिका कनिष्ठान्त्या करजो नखरो नखः ॥ ९२ ॥ शिश्नः प्रजननं मेढ्रं मेहनं चर्मकीलकम् । स्मरालयं भगं योनिरुपस्थं गूढमोहनम् ॥ ९३ ॥ वृषणोऽण्डोऽण्डकं मुष्को नितम्बः कटिमण्डनम् । जघनोरू तालवृष्ठं कटिः काञ्चीगुणास्पदम् ॥ ९४ ॥ नीविकावसनं ग्रन्थिर्जङ्घा जानुः प्रसारिणी । घुटिका चरणग्रन्थिः गुल्फः प्रार्ष्णिः प्रपार्श्विका ॥ ९५ ॥ चरणोऽङ्घ्रिः पदः पादः पादाग्रं प्रपदं कुधम् । शङ्खावर्त्तं गुदं पायुरपानं गुह्यगोपने ॥ ९६ ॥ मूत्रं लिङ्गोदकोद्गारौ शकृद्विष्ठा पुरीषका । कलेवरं वपुर्वर्ष्म प्रतीको देहविग्रहौ ॥ ९७ ॥ आत्मा गात्रं तनुः पिण्डं शरीरं पाञ्चभौतिकम् । पर्वलेखाऽङ्गुलिग्रन्थिः पार्वी मुद्राङ्गुलीयके ॥ ९८ ॥ कङ्कणं वलयं चूली चूलिका वलयोर्मिका । बाह्वटं बाहुवलयं केयूरं कटकाङ्गदे ॥ ९९ ॥ पादाङ्गदं तुलाकोटिः हंसो मञ्जीरनूपुरे । ;p{0008} पादाटनोऽङ्घ्रिवलयं नवटोऽङ्गुष्ठमौद्रिकम् ॥ १०० ॥ आदर्शिका दर्पणिका षड्मुद्र्याङ्घ्र्यङ्गुलीयिका । ताटङ्कः कर्णवलयं कुण्डलं कर्णपाशिका ॥ १०१ ॥ कर्णपत्रं श्रुतिद[ढ]लमूत्तंसः कर्णभूषणम् । अवतंसो मौलिमणिः कीरिटं मुकुटं कपम् ॥ १०२ ॥ मुक्तावली हारलता हारो माला प्रसूनस्रक् । तरलो मध्यमाणिक्यं नायको हारभूपतिः ॥ १०३ ॥ मेखला सप्तकी काञ्ची रसना क्षुद्रघण्टिका । अञ्जनं कज्जलं दैपं सिन्दूरं[र] स्त्रीविभूषणम् ॥ १०४ ॥ पत्रावली पत्रलेखा देहरागोऽङ्गलेपनम् । उद्वर्त्तनं गन्धचूर्णं हृन्माणिक्यचतुष्किका ॥ १०५ ॥ केशाटनी मौलिसिंहिकेशसंमार्ज्जनी फणी । अम्बरं वसनं वासो वस्त्रं चेलं गुणी पटः ॥ १०६ ॥ कबन्धनं मौलिवस्त्रमेकावर्त्तः कबन्धधृक् । कञ्चुकं गात्रवसनं कञ्चुकी कुचगोपिका ॥ १०७ ॥ धौत्रं दशाधरं काच्छमंसवस्त्रोत्तरीयके । दर्पणं मुकुरादर्शौ यन्त्रं कीलीमुखं पुटम् ॥ १०८ ॥ यूपस्तम्भो गेहबाहुर्द्वारं द्वार्मन्दिराननम् । कपाटमररं वारमर्गला द्वारमुद्गरः ॥ १०९ ॥ गेहच्छत्रं गृहोष्णीषं देहली गेहनासिका । कैशोरं शैशवं बाल्यं तारुण्यं यौवनं वयः ॥ ११० ॥ मध्यमं यौवनं प्रान्तं वार्द्धक्यं प्रान्तिमं जरा । उपवीतं ब्रह्मसूत्रं तिलकं द्विजभूषणम् ॥ १११ ॥ पितृयज्ञः स्वधावर्त्तः श्राद्धं पिण्डनिपातनम् । सप्ततन्तुः क्रतुर्यज्ञोऽध्वरो यागोऽग्नितर्पणम् ॥ ११२ ॥ पितृमन्त्रः स्वधा स्वाहा हविस्सागोऽग्निवल्लभा । मनुर्मन्त्रः ऋषिर्मन्त्रदर्शको मन्त्रचारकः ॥ ११३ ॥ वर्णी तीर्थार्पको ब्रह्मचारी गेही गृहस्थकः । वानप्रस्थो वन्यभोजी दण्डी तुर्याश्रमी यतिः ॥ ११४ ॥ ;p{0009} ;c{इति मनुष्यमरीचिः ।} ;v{शैलमरीचिः} महीध्रः पर्वतः शैलः शिलावान् गोत्रभृद्गिरिः । शिलोच्चयः क्ष्माभृदचलः पविपातवित् ॥ ११५ ॥ अश्मा दृष[श]त् शिला लोष्ठः पाषाणः प्रस्तरोपलौ । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ११६ ॥ हिमालयो गिरिपतिर्गौरीतातो हिमाचलः । उदयाद्रिः पूर्वशैलो नीलाद्रिः शक्रदिग्गिरिः ॥ ११७ ॥ अस्तशैलः पश्चिमाद्रीरस्ताद्रीर्वारुणी गिरिः । भुजगाद्रिर्गन्धशैलो मलयश्चन्दनाचलः ॥ ११८ ॥ विन्ध्योऽगस्त्यगिरिरष्टभुजाद्रिर्दक्षिणाचलः । दरी गिरिगुहा देवखातं पर्वतगह्वरम् ॥ ११९ ॥ निषधो हिमवान् विन्ध्यो माल्यवान् गन्धमादनः । हेमकूटः पारिभद्रः सप्तैते कुलपर्वताः ॥ १२० ॥ शैलाग्रं‌ शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् । क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥ उपत्यकाद्रिसम्बन्धा भूरूर्द्ध्वाधित्यकाऽद्रिका । गैरिकं शैलरुधिरं पादाः प्रत्यन्तपर्वताः ॥ १२२ ॥ मनःशिला मर्मशिला रत्नभूराकरः खनिः । हरितालं पीतरसं कर्चूरं गिरिपित्तकम् ॥ १२३ ॥ खटिका खटिनी सौधा शैलेयं मर्कटप्रियम् । स्फाटिकः स्फाटिकोकीश्मा? चन्द्राश्मा चन्द्रकान्तकः ॥ १२४ ॥ रत्नं मणिर्ललामाख्यो हीरको वज्रनामकः । नीलं गारुत्मतं पद्मरागं शोणललामकम् ॥ १२५ ॥ ;c{इति शैलमरीचिः} ;v{चतुःपदमरीचिः} हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी । द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥ कुञ्जरो वारणो नागो हस्ति स्तम्बेरमो द्विपः । इभः पद्मी सामयोनिः पीलुः कुम्भी महामृगः ॥ १२७ ॥ गण्डाः कटः मदो दानं कलभः करिशावकः । पोत्री कोलो घृणीर्द्दंष्ट्री वराहो भूमिदारकः ॥ १२८ ॥ उक्षा वृषो बलीवर्द्दो वृषभो गौर्विषाणभृत् । ;p{0010} धेनुर्गौः सुरभिर्गृष्टिर्वत्सकस्तर्णकोऽर्णकः ॥ १२९ ॥ गन्धर्वोऽश्वो हरिर्वाजी तुरङ्गः सैन्धवोऽर्कजः । एणः कुरङ्गो हरिणो मृगः श्वसनवाहनः ॥ १३० ॥ गण्डकः खड्गकः खड्गी सैरिभो महिषोऽश्वहा । ईहामृगो वृकः कोकः श्वा कौलेयकुक्कुरौ ॥ १३१ ॥ शीतलाश्वो लम्बकर्णो रासभो धूसरः खरः । उष्ट्रवामी वेसराख्यो लम्बग्रीवः क्रमेलकः ॥ १३२ ॥ ओतुर्बिडालो मार्जारो दुग्धारिर्मूषकान्तकः । गोमायुर्वञ्चकः क्रोष्टा शृगालो मृगधूर्त्तकः ॥ १३३ ॥ प्लवङ्गमो वृक्षमृगो मर्कटो वानरः कपिः । शल्यः श्वाविच्छरलोमा मृदुकः शशकः शशः ॥ १३४ ॥ ऋक्षो भल्लो दीर्घवालो नकुलोऽहिरिपुर्द्विभुक् । शूकविषः शूककीटो वृश्चिकोऽलिः सरीसृपः ॥ १३५ ॥ उन्दुरुर्मूषको बालमूषिका गिरिकाऽऽखुका । पल्ली लूताशिनी तुण्डो सरटः कृकलासकः ॥ १३६ ॥ ऊर्णनाभो मर्कटकः तन्तुकीटः पटकृमिः । खर्जूरः शतपात्कर्णजलौकाऽऽज्यमृतिप्रजः ॥ १३७ ॥ उरगः पन्नगो भोगी व्यालोऽहिर्जिह्मगोऽयभुक् । दर्वीकरो विषधरः फणी सर्पो मुखामृतः ॥ १३८ ॥ जलौका शोणितरुचिर्दध्न्यमृततुण्डिके । जूका केशजनुर्लिक्षा लिक्षिका कृमिकः कृमिः ॥ १३९ ॥ सिं[सि]ही पञ्चाननी श्वेता गण्डकी फलकत्वचा । दन्तिनी करिणी नागी महामृगनितम्बिनी ॥ १४० ॥ करेणुका द्विपा व्याली वडवा तुरगी तुरी । शार्दूली द्वीपिनी व्याघ्री नखघ्नी मृगशामनी ॥ १४१ ॥ वाराही शूकरी कोली वृकी कोकमृगाङ्गना । ग्रामसिंही शुनी व्याघ्री मार्ज्जारी शशकी शशी ॥ १४२ ॥ शृगाली वञ्चकी क्रोष्ट्री वानरी मर्कटी प्लवी । ;p{0011} एणी कुरङ्गी हरिणी महिषी सैरिभी बला ॥ १४३ ॥ उरगी सर्पिणी व्याली वृश्चिकी विषपुच्छिका । पिपीलिका तीक्ष्णदंशा मत्कुणो राक्तबीजकः ॥ १४४ ॥ दिवान्धिका दीर्घतुण्डा छुछुन्दर्यहिबन्धिका । गुडप्रियस्तीक्ष्णदंष्ट्रः शक्रगोपोऽम्बुशोणितम् ॥ १४५ ॥ ब्राह्मी विप्राणिका विप्रा प्रावृट्कीटो महीकृमिः । दन्तकृमिर्दंष्ट्रिकाख्यः शिरःशूली शिरःकृमिः ॥ १४६ ॥ आरोहयन्त्रं पल्याणं कशा ताडनपाशिका । वग्लुः खलीनं गोपाशो नाथिकाऽऽरोहकुण्डिका ॥ १४७ ॥ ;c{इति चतुःपदमरीचिः} ;v{वृक्षलतौषधिमरीचिः} विपिनं काननारण्ये गहनं गह्वरं वनम् । आक्रीडो वातिकोद्यानमारामो राजकाननम् ॥ १४८ ॥ तरुर्महीरुहो वृक्षः पादपो विटपी कुटः । पलाशी मूलपः शालो दुर्द्रुमो वल्लरीपतिः ॥ १४९ ॥ प्रतानिनी लता वीरुद्गुल्मिनी व्रततिर्द्रुगा । अङ्कुरो द्विदलः काण्डः प्रकाण्डो मूलमस्तकम् ॥ १५० ॥ मूलपाग्रं शिफाप्रान्तं शिफा शाखावरोहकः । उत्सेध उच्छ्रय[यः] इध्म दारु काष्ठेन्धनं गुडम् ॥ १५१ ॥ पलाशः पल्लवः पर्णं दलं पत्रं छदोऽङ्घ्रिकम् । कलिका कोरकः कुड्मी प्रफुल्लो विकचः स्फुटः ॥ १५२ ॥ मुकुलः कुलमानाग्रो गुच्छस्तबकगुच्छलौ । प्रसूनं कुसुमं पुष्पं वृन्तं प्रसवबन्धनम् ॥ १५३ ॥ मधुर्मरन्दः पुष्परजः परागो मकरन्दकः । अश्वत्थः कुञ्जरसुधा पिप्पलश्चलपत्रकः ॥ १५४ ॥ जटी वटो जटापादो न्यग्रोधः प्लक्ष आश्रितः । कद्रुः पलाशस्त्रिदलः किंशुको वक्रपुष्पकः ॥ १५५ ॥ हेमदुग्धः कीटफलो यज्ञदारुरुदुम्बरः । श्रीफलः श्रीद्रुमो बिल्वः बकुलो हिज्जलोऽम्बुकः ॥ १५६ ॥ गन्धपत्रो नीलफलो जम्बू नीरान्तराजरः । आम्रो रसालः कामाङ्गो माकन्दः पिकवल्लभः ॥ १५७ ॥ चूतोऽतिसौरभः सीधुरसो माधवपादपः । ;p{0012} शाल्मलिः कीरनिलयः पिच्छिलो रक्तपुष्पकः ॥ १५८ ॥ हयमारः शंभुपुष्पः[प] करवीरो जटाविषः । सोमसारः कुष्ठरिपुः खदिरो व्रणपूरकः ॥ १५९ ॥ शमी भद्रा सूक्ष्मपत्रा शुभा रामप्रियङ्करी । वर्चूरः शृङ्गिफलको दृढबीजस्त्रिकण्टकः ॥ १६० ॥ शाखाकण्टः क्षीरकाण्डः स्नुही निस्त्रिंशपत्रिका । कन्थारी रक्तग्रन्थिघ्नी तीक्ष्णगन्धा धात्रिधारिका ॥ १६१ ॥ उरुबूको दीर्घदण्ड एरण्डः पाणिपत्रकः । हिन्तालः स्थूलतालाह्वः तालस्तृणनराधिपः ॥ १६२ ॥ अङ्कोलः कटुकः स्निग्धो गुप्तस्नेहो विषापहः । वल्लीवृक्षश्चीरपर्णः सर्ज्जः कुलटजोद्भवः ॥ १६३ ॥ चिरबिल्वो रक्तमालः करञ्जः कृमिमर्द्दनः । आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः ॥ १६४ ॥ पिचुमन्दुः पारिभद्रो निम्बोऽरिष्टोष्ट्रवल्लभौ । कुरुवीरो नदीसर्ज्जः ककुभोऽर्ज्जुनवृक्षकः ॥ १६५ ॥ भूर्ज्जो वल्कद्रुमो बिन्दुपत्रो रक्षादलोऽवलः । झाउको मञ्जरिदलो नदीकेशोऽम्बुवल्लभः ॥ १६६ ॥ आरामसारो भूकेशः सरोवन्ध्यः शिफारुहः । अन[नं]नासो विष्णुकन्दो वीहिकोऽमृतसारकः ॥ १६७ ॥ पुत्रजीवः पवित्राक्षः कुटजीवोऽर्भकप्रदः । उन्मत्तः काहलापुष्पो धत्तूरः कनकाह्वयः ॥ १६८ ॥ अर्कः क्षीरदलस्तूलफलः शङ्करपुष्पकः । तिलकः पुण्ड्रकः छिन्नरुहो वदनभूषणः ॥ १६९ ॥ पाटला कुम्भिका मोघा ताम्रपुष्पी जलस्थितिः । मुनिद्रुमः शीघ्रपुष्पोऽगस्त्यो लम्बफलो मुनिः ॥ १७० ॥ पिण्डीपुष्पो नटोऽशोकः कङ्केलिः शोकनाशनः । केतकी कण्टकिदला मेध्या शङ्करदूषिता ॥ १७१ ॥ दीपपुष्पः स्वर्णपुष्पः चम्पको भ्रमराहितः । करकन्दो वीरपुष्पः सिन्दूरी बाणनामकः ॥ १७२ ॥ प्रियजीवो बन्धुजीवो बन्धूको बिन्दुपुष्पकः । शिंशिपा धूमिका धीरा सारस्तिन्दुकस्फूर्ज्जकौ ॥ १७३ ॥ ;p{0013} कादम्बर्यः सिन्धुकलः कदम्बो वृत्तपुष्पकः । बृहद्बलो भीषणकस्तमालो बहुकण्टकः ॥ १७४ ॥ उद्दानकः शुकतरुः शिरीषो मृदुपुष्पकः । पनसः कण्टकीफलो महासर्ज्जः फलद्रुमः ॥ १७५ ॥ अरण्यलक्ष्मीः कदली मोचा रम्भा सकृत्फला? । लाङ्गली त्र्यम्बकफलो नारिकेलो दुरारुहः ॥ १७६ ॥ भल्लातकः[क] स्फोटबीजोऽरुष्करस्तापनोबलः । राजादनी निम्बबीजः शुकेष्टो राजवल्लभः ॥ १७७ ॥ दन्तबीजः कुचफलो दाडिमः फलशाडवः । अक्षोटकः फलस्नेहः कन्दरालो गुडाशयः ॥ १७८ ॥ दम्बरो बदरी कोलः कर्कन्धूश्च क्रकण्टकः । स्तनबीजो राजकोलो मधुरो हिमफेनिलः ॥ १७९ ॥ केसराम्लो बीजपूरो रुचको मातुलिङ्गकः । चिञ्चा चुचुक्रिका चुक्रा कोशा कचुक्राऽम्लमञ्जिका ॥ १८० ॥ गन्धपत्रो नागरङ्गो नारङ्गो मधुराम्लकः । निम्बूकोऽम्लरसो निम्बू लिम्पाको बीजषंढकः ॥ १८१ ॥ जम्बीरको दन्तशठो जम्भो जम्बीरजम्भलौ । मधुरो मधुजं वीरो माधवी मधुजम्बकः ॥ १८२ ॥ कपित्थो ग्रन्थिफलको दधित्थो दन्तशाठ्यकृत् । रुद्राक्षो नीलकण्ठाक्षः शर्वाक्षो भूतनाशनः ॥ १८३ ॥ पाटीरं मलयोद्भूतं चन्दनं शिशिरद्रवम् । माहिषं रक्तपाटीरं लोहितं रक्तचन्दनम् ॥ १८४ ॥ स्निग्धपात्रो गन्धसारो गुग्गुलुर्धूपभूरुहः । आमोदसारो गन्धद्रुरगुरुर्नीललोहितः ॥ १८५ ॥ बिभीतकस्तैलफलो भूतावासः कलिद्रुमः । घोण्टा वल्कतरुः पूगः क्रमुको दीर्घपादपः ॥ १८६ ॥ काश्मीरं घुसृणं शोणं कुङ्कुमं केसरं शठम् । मदगन्धः सप्तपर्णः शुक्तिपर्णोऽग्निभूसितः? ॥ १८७ ॥ दीपतरुः स्निग्धदारु सरलः पूतिकाष्ठकः । श्रीपुष्पं देवकुसुमं लवङ्गं तीक्ष्णपुष्पकम् ॥ १८८ ॥ सप्तशिखा नागवल्ली ताम्बूली भक्षपत्रिका । गन्धोत्कटो दमनको दण्डी तापसपत्रकः ॥ १८९ ॥ ;p{0014} तुलसी सुभगा तीव्रा भूतघ्नी विष्णुवल्लभा । फणिज्जको मरुवकः खरपत्रः सुराह्वयः ॥ १९० ॥ छिन्नोद्भवा मृतलता गुडूची मधुपर्णिका । मूर्वा दूर्वा मधुरसा मोरटा तेजिनी मिरा ॥ १९१ ॥ सोमवल्ली यज्ञलता मधुपुष्पी सुरोषिता । मृगादनी शक्रलता हेमपुष्पी विषापहा ॥ १९२ ॥ तेजोवती वह्निफला वायसी कनकप्रभा । ताम्रिका कृष्णला गुञ्जा शिखण्डी कृष्णचूडिका ॥ १९३ ॥ बृहती‌ सिंहिका व्याघ्री वार्त्ताकी क्षुद्रकण्टिका । महाबला रङ्गपत्री नीली व्यञ्जनकेशिनी ॥ १९४ ॥ शरपुङ्खा काण्डपुङ्खा वीषापुङ्खेषु पुष्पिका । निशावनो दीर्घशाखः शणोऽम्लो दीर्घपल्लवः ॥ १९५ ॥ अपामार्गः सैकरिको मर्कटी पक्तिकण्टकः । वराहकर्णी तुरगी हयगन्धा हयप्रिया ॥ १९६ ॥ शतावरी सूक्ष्मपत्रा बहुमूला महौदनी । शरपत्रो दीर्घशर इक्षुः पर्वी मधुद्रवः ॥ १९७ ॥ गुडपुष्पो मधुरसो मधूकः स्निग्धपत्रकः । हारिद्रा रजिनी श्यामा पिङ्गला वरवर्णिनी ॥ १९८ ॥ लाक्षाजतुः खदिरका पलाशी गन्धमादनी । अलक्तको जतुरसो रोगो निर्भर्त्सनाह्वयः ॥ १९९ ॥ वह्निपुष्पी ताम्रपुष्पी धातकी मघवासिनी । शङ्खमूलं तीक्ष्णरसं मूलकं तीक्ष्णकन्दकम् ॥ २०० ॥ ग्रन्थिमूलं शिखाकन्दं गृञ्जनं यवनप्रियम् । शृङ्गाटकः शृङ्गकन्दो जलवल्ली विषाणिकः ॥ २०१ ॥ रसोनो लसुनो रिष्फो म्लेच्छकन्दः सिताण्डकः । वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ॥ २०२ ॥ शूद्रप्रियस्तीक्ष्णकन्दः पलाण्डुर्मुखदूषकः । वास्तूकं वसु वस्तुकं वास्तूकी श्वानचिह्लिका ॥ २०३ ॥ क्षुरपत्रा स्निग्धपत्रा पालक्यं ग्रामवल्लभा । कर्कोटका कुम्भफला कूष्माण्डी मूत्रकृच्छ्रहा ॥ २०४ ॥ कोशातकी दीर्घफला पीतपुष्पी महीफला । घृणाफलश्चित्रफलः कलिङ्गो मांसलान्तरः ॥ २०५ ॥ ;p{0015} धरा कोशातकी स्निग्धा मधुरा कफपित्तनुत् । बुद्धिध्री शोणितरुचिर्बिम्बी जीरकवीजिका ॥ २०६ ॥ वैशाखजं कटुरसं षड्भुजं हिमकर्कटम् । कण्टालुः त्रपुसी शीता कर्कटी हस्तिकर्णिका ॥ २०७ ॥ सुगन्धाढ्या वृत्तपुष्पा मल्लिका वटपत्रिका । वसन्तदूती वासन्ती माधवी मधुमल्लिका ॥ २०८ ॥ यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका । युवतीष्टा हेमयूथी शिखण्डी नागपुष्पिका ॥ २०९ ॥ मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसाऽमृता । मालतीसुमना जातिर्मुनिला नवमल्लिका ॥ २१० ॥ इला चन्द्रवला पृथ्वी बहुला गन्धवीजिका । अभयं नलदोशीरौ वीरतं वीरणाह्वयम् ॥ २११ ॥ घासः शष्पं बालतृणं यवसं गिरिवालकम् । नीलत्वक् नीलरुक्कोषः पिस्ताकः पिच्छिलद्रुमः ॥ २१२ ॥ मिहिकाम्रकोषफलो दन्तद्विट् द्रव्यनामकः । विषाभा मिष्टफलिनी पित्तहा महिषी स्तनी ॥ २१३ ॥ पुष्पवासो रागनालिर्भद्राक्षाभफलोऽङ्गुलिः । दशपत्रं पीतरसं शतत्वक् पीतकेसरम् ॥ २१४ ॥ सदाफलं मिष्टरसममृ[म्रू]तं मिहिकाम्रकम् । आर्द्रकं नागरं तीक्ष्णं शुण्ठ्युष्मा? विश्वभेषजम् ॥ २१५ ॥ कटुकं मरिचं रूक्षं पिप्पली श्यामला कणा । आमली धात्रिका धात्री सेंविका नखवीजिका ॥ २१६ ॥ अञ्जीरकं कीटफलं मिहिकोदुम्बराह्वयम् । जीरकं शीतलं गन्धि मेथिका कटुवीजिका ॥ २१७ ॥ किराततिक्तो भूनिम्बो ग्रन्थिला बुद्धिदा वचा । ;c{इति श्रीपञ्चतत्त्वप्रकाशे वृक्षलतौषधिमरीचिः ।} ;k{भूमिभानुः} चमूरनीकिनी सेना पृतना वाहिनी बलम् ॥ २१८ ॥ सैन्यं वरूथिनी चक्रं ध्वजिनी चतुरङ्गिणी । पताकिका ध्वजः केतुर्नासीरः पृतना मुखम् ॥ २१९ ॥ क्रोशतालः क्रोषरवो ढक्का विजयमर्द्दलः । आताड्यो दुन्दुभिः भेरी भेरिका पटहानकौ ॥ २२० ॥ ;p{0016} मृदङ्गो मुरजो झिल्ली झिल्लिका कांस्यतालिका । वेणुर्वंशी मुरलिका सुर्नाईकाष्टभेरिका ॥ २२१ ॥ शस्त्रमस्त्रं प्रहरणं हननं हेतिरायुधम् । धनुः शरासनं चापः कोदण्डः कार्मुकेषुमुक् ॥ २२२ ॥ प्रत्यञ्चा सिञ्जिनी मौर्वी ज्या जीवा चापडोरकः । चापाग्रमटिनी कोटिर्गोधा ज्याघातवारणम् ॥ २२३ ॥ कोदण्डमध्यं तलकः छुरिका खड्गधेनुका । बाणः कलम्बो विशिखः शरः पत्री शिलीमुखः ॥ २२४ ॥ सायकेषू कङ्कपत्रो नाराचो मार्गणाभिधः । तूणीर इषुधिस्तूणी निषङ्गः सायकाश्रयः ॥ २२५ ॥ लक्षं वेधनकं शक्यं कुठारः परशुः स्वधिः । करवालो मण्डलाग्रः खड्गोऽसिर्ल्लोहपन्नगः ॥ २२६ ॥ तरवारिस्तीव्रमार्गः कृपाणः कोषमन्दिरः । प्रासः कुन्तो लोहविद्युत् फलकं चर्म चार्मिकम् ॥ २२७ ॥ वारबाणः कण्टककः कवचो वर्मकञ्चुकः । खड्गस्वसा लोहदंष्ट्रा तोमरं नागयोधनम् ॥ २२८ ॥ परिघो लोहलगुडो मुद्गरो द्रुघनः सृगः । भुशुण्डी लोहनलिका नाडिकाऽतिभुशुण्डिका ॥ २२९ ॥ दारुका वह्निचूर्णाख्या सुरङ्गा दुर्गसर्पिणी । समरः प्रधनं युद्धं जन्यमायोधनं मृधम् ॥ २३० ॥ सङ्ग्रामः संयुगः सख्यं स्कन्दनं संपरायकम् । हस्तिपको हस्तिपालो निषादी गजकर्मवित् ॥ २३१ ॥ अश्वारोहो वाजिपालः सादी गन्धर्वधर्मवित् । गोयानं शकटं षाड्गं हयगं स्यन्दनं रथः ॥ २३२ ॥ नृयानं दोलिका दोली भूपयानं चतुष्किका । अपराधो मन्तुरागो दण्डो भूपवलिः करः ॥ २३३ ॥ निवेशः शिबिरं वस्त्रमन्दिरमुपकारिका । वितानं मण्डपाच्छादो वस्त्रभित्तिस्तिरष्किका ॥ २३४ ॥ मध्यालोका जवनिका कीलकं भूमिशङ्कुकम् । ;p{0017} सन्नद्धो दंशितः सज्झो वर्म्मितः कल्पितास्त्रकः ॥ २३५ ॥ धनुर्धनो धनुर्जीवो धानुष्कश्चापजीवनः । निर्याणं गमनं यात्रा प्रस्थानमभिषेणनम् ॥ २३६ ॥ पांशुर्धूली रजो रेणुः केतुमद्वैजयन्तिका । अग्रेसरः पुरोयायी वभयं? विजयो जयः ॥ २३७ ॥ पराजयः परिभवः कश्मलं मोहमूर्च्छने । जेयः शक्योऽभिगन्तव्यः पराभूतः पराजितः ॥ २३८ ॥ निःकाशनं निराकारो गलहस्तः परासनम् । निर्वापनं निहननं मारणं परिवर्ज्जनम् ॥ २३९ ॥ मृतः परासुर्निर्ज्जिवः प्रमीतस्त्यक्तजीवनः । आसुः प्राणो वसुर्जीव आयुर्जीवितजीवने ॥ २४० ॥ कबन्धः शीर्षरहितः श्मशानं पितृकाननम् । चिता चित्या चितिः काष्ठशय्या मृतकमन्दिरम् ॥ २४१ ॥ विपत्तिरापद्दुःखाधिः कुणपः शवकः शवः । प्रग्रहोपग्रहौ बन्धः कारा बन्धनमन्दिरम् ॥ २४२ ॥ सिंहनादो वीरनादः क्ष्वेडा विजयनिःस्वनः । आतो मृगव्यं मृगया मांसं पललमामिषम् ॥ २४३ ॥ विहङ्गिका पक्षिपेटी वागुरा मृगबन्धिनी । मञ्जूषा पेटिका पेटी जालं जालकजालिके ॥ २४४ ॥ खगासनं खगसभा खगयष्टिर्विहङ्गिका । भूतिर्विभूतिः संपत्तिः कोशो वसुसमुच्चयः ॥ २४५ ॥ जीविका वेतनं वृत्तिः द्रव्यं द्युम्नं धनं वसु । कार्त्तस्वरम् शातकुम्भं हिरण्यं हेमहाटकम् ॥ २४६ ॥ रूप्यं श्वेतम् दर्पणकं रजतं तारशुक्लगू । उदुम्बरं म्लेच्छमुखं वरिष्ठं शुल्बताम्रके ॥ २४७ ॥ हेमरुक्पित्तलं रीतिः लोहोऽयस्तीक्ष्णमायसम् । सूतो रसः शम्भुशुक्रं पारदो रसराजकः ॥ २४८ ॥ रङ्गं चङ्गं त्रपुः शीतं नागं सर्पाह्वसीसके । अभ्रकं गगनाकाशौ गन्धकं शक्तिशुक्रकम् ॥ २४९ ॥ ;p{0018} बाह्लीकं रामठं हिङ्गुः कर्पूरं चन्द्रनामकम् । सर्वस्वादुरसं क्षारं लवणं रोचकं बलम् ॥ २५० ॥ फाण्टं तक्रं दधिसुता नवनीतं सुधासितम् । आज्यं रेतो घृतं हव्यं तेजो ज्योतिः सुधान्तिकम् ॥ २५१ ॥ रसातलं बलिग्रहं पातालं शेषवेशनम् । तलातलाधोभुवने नागलोकोऽहिभूमिका ॥ २५२ ॥ गर्त्तो वटो भूमिखातो भूककुद्भूच्चकस्थलम् । रन्ध्रं रोकं बिलं छिद्रं सुषिरं विवरं वषा ॥ २५३ ॥ दुर्गं कोटो गढो वप्री परिखा गर्त्तमालिका । अश्मक्षेपणिका गोफ्णा तमिस्रं तिमिरं तमः ॥ २५४ ॥ विष्वक्तमः संतमसं गाढध्वान्तान्धतामसे । क्षीणंतमोऽवतमसं? कद्रूरुरगजन्मदा ॥ २५५ ॥ व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः । कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥ गोधूमो वर्हणो वल्पः तीक्ष्णशूको यवोऽवलः । स्नेही तिलो वलीमाषः स्निग्धः सन्तर्पणः सरः ॥ २५७ ॥ पथ्यः कुलत्थः कुलथो मुष्टिको धूलिभूनिकः । तीक्ष्णतैलः सर्षपकः चपला बहुला तसी? ॥ २५८ ॥ मसूरो मृदुलो वाती मुद्गो हव्योऽज्ञभूर्लघुः । आढकी वातकी धन्या मारीचश्चणकः पुटी ॥ २५९ ॥ जवारिका दीर्घदण्डा कोद्रवः कठिनो सरः । ग्राही घनो मटरको मरुधान्यकबाजरौ ॥ २६० ॥ वलायुधं हलं कुट्टं सीता लाङ्गलपद्धतिः । लाङ्गलाग्रं फलं फालः क्षेत्रं धान्याकरक्षितिः ॥ २६१ ॥ सीत्यं हल्यं हलाकृष्टं क्षेत्राजीवः कृषीवलः । बुसं कडङ्गरः शूकस्तुषो दण्डपलालकः ॥ २६२ ॥ धान्योच्चयः खललको राशिर्निस्तुषधान्यकः । अयोग्रं मुसलः शूर्पः प्रस्फोटनमुलूखलम् ॥ २६३ ॥ ;p{0019} दात्रं लवित्रं मन्थानो वैशाखो मन्थदण्डकः । चालनी तितउश्चुल्ही चुल्हिकाऽग्नी हसन्तिका ? ॥ २६४ ॥ भ्राष्ट्रोऽम्बरीषं तत्कम्बिः कन्दुर्दर्विः खजाकिका । ऋचीषकं लोहपृष्ठं कटाहः स्नेहपाचिका ॥ २६५ ॥ मलिकोऽलिञ्जरो वेल्लः चरुपाशी सनासिका । कम्बुग्रीवो घटः कुम्भः शरावो वर्द्धमानकः ॥ २६६ ॥ कमण्डलुर्गण्डुकोऽब्दो भाण्डं पात्रममत्रकम् । चषकश्चन्द्रभाण्डाह्वः स्थाली भोजनपात्रिका ॥ २६७ ॥ भक्तौदनावन्नमन्धः पायसं क्षीरिका जरा । मण्डकः पोलिका पोली काकडाऽङ्गारमण्डकः ॥ २६८ ॥ अङ्गारकर्कर्याङ्गारी कृशरा खिच्चिका वला । द्वैदलं सूपकः सूपो सूपपूषः कटुः सरः ॥ २६९ ॥ मण्डो ग्राही भक्तयूषो घृतपूरो निलापहः । लड्डुको मोदकः फेणी फेणिका पूपपूपकौ ॥ २७० ॥ मधुशीर्षः खाजलाह्वो लप्सिका गुडपिष्टिका । वटको माषघोण्टाको वटिका मासनग्निका ॥ २७१ ॥ पैष्टिका काञ्जिका काञ्जी पर्पटो माषमण्डकः । तैलं तिलद्रवः स्नेहः शाकस्तेमनतैमलौ ॥ २७२ ॥ रसालाह्वा शिखरिणी पयस्यं दधि द्रप्सकम् । दुग्धं पयः क्षीरसञ्ज्ञं क्वथिका तक्रमण्डिका ॥ २७३ ॥ आसुरी राजिका राजी राजितैमनराघते? । कचूरिकाङ्गजवरा शष्कुल्याह्वा जलेम्बिका ॥ २७४ ॥ सोहालिका पूरिकाख्या गुञ्झः पक्वान्नगुच्छलः । मन्थः सक्तुः चिपिटकः पृथुकः क्षुत्क्षु[क्षु]धाभिधा ॥ २७५ ॥ लाजास्तण्डुलपुष्पाणि तृषोदन्या पिपासिका । आहारो जैमनं लेयः केला भुक्तसमुज्झितम् ॥ २७६ ॥ ;p{0020} गोमेदजं पल्युलनं? चूर्णं क्षारः सुधाह्वयः । कृष्णकन्दो गुडो ग्रन्थी शर्करा खण्डकः सिता ॥ २७७ ॥ ;c{इति श्रीयाज्ञिकवंशावतंसनीलकण्ठात्मजजगज्जीवनसूनुवेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे भूमिभानुः प्रस्फूर्त्तिमगमत् ।} ;k{जलभानुः} समुद्रः सागरः सिन्धुः सरस्वानर्णवोऽम्बुधिः । अकूपारो जलनिधिः पारावारः पयोनिधिः ॥ २७८ ॥ रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः । सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥ अमृतं जीवनं वारि सलिलं भुवनं पयः । कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥ शम्बरं कमलं नीरं कीलालं पुष्करं नलम् । जलपर्यायपतिः पाशी जनपर्यायधरोऽम्बुदः ॥ २८१ ॥ जलपर्यायनिधिर्वाधिर्जलपर्यायभवं कजम् । ऊर्मिस्तरङ्गो लहरी वीचिर्भङ्गिर्जलोद्गतिः ॥ २८२ ॥ महाकल्लोल उल्लोलो जलावर्त्तोऽम्बुसम्भ्रमः । नदी धुनी द्वीपवती निम्नगा तटिनी सरित् ॥ २८३ ॥ आपगा वाहिनी सिन्धुः स्रवन्ती वक्रगामिनी । गङ्गा भागीरथी देवनदी त्रिपथगामिनी ॥ २८४ ॥ भीष्मसूर्जह्नुतनया त्रिस्रोता विष्णुपज्जनुः । कालिन्दी यमुना श्यामा सूर्यपुत्री यमस्वसा ॥ २८५ ॥ नर्मदा सोमसम्भूता रेवा मेकलकन्यका । विपाशा व्यासतनया करतोया सदाजला ॥ २८६ ॥ महास्रोतस्वतः सिन्धुरटको विप्रनिन्दितः । ब्रह्मपुत्रो ब्रह्मभद्रो नैलाद्रेयो हरित्प्रभः ॥ २८७ ॥ स्वर्णबाहुर्गुप्तकरः शोणो वेलाप्रवाहकः । जलबिन्दुर्जलकणो विप्रुषः पृषतः पृषत् ॥ २८८ ॥ कूलं तीरं तरो वप्रो जलसीमोपकण्ठभूः । वैखानसः पृथुकचा मत्स्यो मीनो झषस्तिमिः ॥ २८९ ॥ निर्निमेषोऽण्डजः प्रोष्ठः शफरः शकुलः कजः । कच्छपः कमठो लोष्टो मण्डूको वारिवालकः ॥ २९० ॥ द्वीपोऽन्तरीपं तोयोत्थं शादो जंवीनकर्द्दमौ । अगाधमतलस्पर्शं गभीरं निम्नकान्तरे ॥ २९१ ॥ ;p{0021} फेनो जलकफो वारिशोफको जलबुद्बुदः । अन्धुः कूपः प्रहीर्वापी वापिका दीर्घिका युका ॥ २९२ ॥ निर्झरो झरणं शैलप्रस्रवोऽम्बुकणाकरः । सरोवरं पल्वलकं कासारः सरसी सरः ॥ २९३ ॥ पद्माकरः पद्मखनिस्तडागः पुष्कराश्रयः । कुमुद्वती कुमुदिनी कुमुच्चन्द्रप्र[प]योजिनी? ॥ २९४ ॥ पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् । पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥ इन्दीवरं नीलपद्मं पुण्डरीकं सितोत्पलम् । रक्तोत्पलं कोकनदं शतपत्रं कुशेशयम् ॥ २९६ ॥ शालूरः पद्मिनीकन्दो मृणालं विसदोरकम् । किञ्जल्कः केसरोऽज्वांशु नैरं शेवालशैवले ॥ २९७ ॥ सिन्धुवल्ली रागतालिः प्रवालं विद्रुमाद्रुमे । सार्द्धत्रिवलयः कम्बुः शङ्खः सूचीमुखोऽम्बुजः ॥ २९८ ॥ शुक्तिर्मौक्तिकमञ्जूषा मुक्तास्फोटोऽम्बुसूर्पिका । मौक्तिकं शौक्तिकं मुक्ता स्वातिबिन्दुसमुद्भवम् ॥ २९९ ॥ कैवर्तो धीवरो दासो नौका नौस्तरणिस्तरिः । नौवाहकः कर्णधारो नाविकोऽरित्रचालकः? ॥ ३०० ॥ आसेचनं सेकपात्रमरित्रं केनिपातनम् । क्षुद्रतीरः प्रकूः कोलो वर्षाभ्वी कमठी डुलिः ॥ ३०१ ॥ सैहरिचक्त्रौ? मकरो राजीवः शकुलस्तिमिः । सहस्रदंष्ट्रः पाठीनः सुसिको घटिकोत्प्लवः ॥ ३०२ ॥ जलसत्त्वपतिर्ग्राहः उलूपी शिशुमारकः । मत्स्यपाशी गुणनिका बडिशं मत्स्यवेधनम् ॥ ३०३ ॥ नभश्चरो वायुदारुः खतमालः पयोधरः । व्योमधूमो जलमसिर्जलमुग्गगनध्वजः ॥ ३०४ ॥ जीमूतो मुदिरो मेघो घनो धाराधरोऽम्बुदः । कादम्बरी मेघमाला जैमूतं मेघसम्भवम् ॥ ३०५ ॥ सुस्वादो मधुरो मिष्टः चुक्रोऽम्लः कटुकः कटुः । ;p{0022} कषायस्तूबरः क्षारी लवणः तिक्ततीक्ष्णकौ ॥ ३०६ ॥ वारुणी मदिरा हाला सुरा मैरेयमासवौ । ;c{इति पञ्चतत्त्वप्रकाशे जलभानुः प्रस्फूर्त्तिमगमत् ।} ;k{तेजोभानुः} भानुः सूर्यो दिनपतिः सविता भास्करोंऽशुमान् ॥ ३०७ ॥ हेलिः प्रभाकरादित्यौ द्वादशात्मा नभोमणिः । हरिः पतङ्गस्तरणिः सहस्रांशुर्विरोचनः ॥ ३०८ ॥ ग्लौरिन्दुरेणतिलको नीहारांशुर्निशापतिः । चन्द्रः सुधांशुः शुक्लांशुरोषधीशो भनायकः ॥ ३०९ ॥ द्विजराजः पक्षजन्मा कुह्वन्तो? रोहिणीधवः । वह्निरग्निर्वायुसखः कृष्णवर्त्मा तनूनपात् ॥ ३१० ॥ धनञ्जयो वीतिहोत्रो धूमकेतुर्विभावसुः । हिरण्यरेता हुतभुक् ज्वलनो हव्यवाहनः ॥ ३११ ॥ कान्तिः छविः प्रभा दीप्तिः त्विट् रुचिर्भा प्रकाशिका । अर्च्चिर्ज्वाला वह्निशिखा कीला जिह्वा स्फुलिङ्गिनी ॥ ३१२ ॥ सन्तापः सञ्ज्वरस्तापो मण्डलं चक्रवालकम् । विस्फुलिङ्गो वह्निकणो घर्मोष्मोष्मातपाहिमाः ॥ ३१३ ॥ अभ्यन्तरमन्तरालं परिधिः परिवेषकः । तडित्शतहृदा शम्पा ह्रादिनी चञ्चलाऽल्पभा ॥ ३१४ ॥ विद्युत्सौदामिनी कृष्णस्वसा जलदवल्लिका । महेन्द्रशस्त्रं कुलिशं शम्बो वज्रं पविस्वरुः ॥ ३१५ ॥ जटा ज्वालो गृहमणिः स्नेही दीपोऽञ्जनध्वजः । वर्षाम्बुदं शक्रधनुश्चित्रं रुगृजुरोहितम् ॥ ३१६ ॥ गृणिर्गभस्तिः किरणो दीधितिश्चरणो वसुः । रश्मिर्मरीचिरुस्रोंऽशुः करो भानुः प्रकाशकः ॥ ३१७ ॥ अर्कसूतेऽरुणोऽनूरुस्तार्क्ष्यभ्राताऽरुणद्युतिः । कौमुदी चन्द्रिका ज्योत्स्ना कलङ्को लक्ष्मलाञ्छनम् ॥ ३१८ ॥ नक्षत्रं तारका तारा भमृक्षमुडुरत्निका । मङ्गलो भूमितनयो रक्ताङ्गो मेषवाहनः ॥ ३१९ ॥ ज्ञो बुधश्चन्द्रतनयो सौम्यो वैबोधनाह्वयः । गुरुर्जीवः पीतवर्नो धिषणो देवतार्चितः ॥ ३२० ॥ काव्यो दैत्यगुरुः शुक्रः षोडशार्चिर्मघाभवः । ;p{0023} मन्दः शनैश्चरः क्रोडः पातङ्गिः क्रूरलोचनः ॥ ३२१ ॥ अहिर्विधुन्तुदो राहुः स्वर्भानुः सिंहिकासुतः । अश्लेषाभू राहुशिरो ग्रहोल्का केतुराविकः ॥ ३२२ ॥ ग्रहाधारो ध्रुवो ज्योतीरथ उत्तानपादजः । ज्योतिर्मुखी दीपशिखा दीपलेखा प्रदीपिका ॥ ३२३ ॥ दीपदारुणिका दीपयष्टिकाऽकरयष्टिका । उत्पातमद्भुतं ज्वाला जालोल्केभ्रपिणचिका? ॥ ३२४ ॥ भूकम्पः पृथिवीबालो दिग्दाहो रिदुल्मुकः? । सितो वलक्षो धवलः पाटलः श्वेतरक्तकः ॥ ३२५ ॥ नीलः श्यामः शितः कृष्णः पीतो गौरोऽतिपिङ्गलः । अरुणो लोहितो रक्तः कृष्णलोहितधूम्रकौ ॥ ३२६ ॥ हरित्पालाशहरितौ चित्रकल्माषाकर्बुराः । ;c{इति श्रीयाज्ञिकनीलकण्ठात्मजगज्जीवनसूनुवेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे तेजोभानुः ।} ;k{वायुभानुः} वायुः समीरणोऽरूपो गन्धवाहः[ह] प्रभञ्जनः ॥ ३२७ ॥ नभस्वाननिलो वातः पवमानः सदागतिः । मातरिश्वा जगत्प्राणः पृषदश्वोऽग्निसख्यभृत् ॥ ३२८ ॥ हिमं तुषारो मिहिका प्रालेयं रजनीजलम् । घनोपलो मेघकफः करका वारिशर्करः ॥ ३२९ ॥ इष्टगन्धोऽतिसुरभिः सुगन्धि घ्राणतर्पकः । आमोदः सुखकृद्गन्धो दुर्गन्धः पूतिगन्धकः ॥ ३३० ॥ स्पर्शः संस्पर्शनं तग्जो जगत्प्राणेन्द्रियोद्भवः । ;c{इति श्री या०वं०नी० वेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे वायुभानुः प्रस्फूर्त्तिमगमत् ।} ;k{आकाशभानुः} ;v{दिक्पालमरीचिः} आकाशो गगनं नाकः स्वर्गस्त्रिदिवमम्बरम् ॥ ३३१ ॥ अन्तरिक्षं वियद्व्योम खं विहायो महाविलम् । इन्द्रः शचीपतिर्वज्री सुत्रामा पाकशासनः ॥ ३३२ ॥ वृत्रहा वासवः शक्रः शतमन्युः सहस्रदृक् । वास्तोष्पतिर्नाकिपतिर्वृषाजिष्णुर्दिवस्पतिः ॥ ३३३ ॥ पुलोमतनयेन्द्राणी शची सुरपतिप्रिया । जयन्तः शक्रतनयः शक्रपूरमरावती ॥ ३३४ ॥ नन्दनं वज्जिविपिनं? सुधर्मा मघवत्सभा । हरिदाशा ककुब्काष्ठा दिशा दिक् व्योमपत्रिका ॥ ३३५ ॥ ऐन्द्री प्राची पूर्वककुबुदीची हरिदुत्तरा । ;p{0024} पूर्वयाम्यान्तराग्नेयी वायवीयाऽवमातिका? ॥ ३३६ ॥ अवाची दक्षिणा याम्यां प्रतीची पश्चिमास्तदिक् । ऐशी पूर्वोत्तरान्तर्द्दिक् नैरृती राक्षसार्चिता ॥ ३३७ ॥ आन्तरिक्षोऽर्द्धदिक् ब्राह्मी पाताली फणिराजदिक् । शक्रो वह्निर्यमो रक्षः पाशी वायुः शशीश्वरौ ॥ ३३८ ॥ ब्रह्मा शेष इति प्रोक्ताः पूर्वाचार्यैर्दिगीश्वराः । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३३९ ॥ पुष्पदन्तः सार्वभौमः सुप्रतीको हरिद्गजाः । यमः कृतान्तः शमनः समवर्त्ता परेतराट् ॥ ३४० ॥ प्रेतराजः पितृपतिः कालो महिषवाहनः । निशाचरः पललभुग्राक्षसः कर्बुरोऽस्रपः ॥ ३४१ ॥ नैरृतः कौणपः क्रव्यादाशरो निकषात्मजः । पाशी प्रचेता वरुणो यादसांपतिरप्पतिः ॥ ३४२ ॥ पौलस्त्यः किन्नराधीशो गुह्यकेशो गदायुधः । कुबेरस्त्र्यम्बकसखो राजराजो धनाधिपः ॥ ३४३ ॥ मनुष्यधर्मा धनदो यक्षराट् नरवाहनः । तुरङ्गास्यः किंपुरुषो मयुः किन्नरयक्षकौ ॥ ३४४ ॥ श्रीदोद्यानं चैत्ररथमलका यक्षराट्पुरम् । विमानं देवतायानं गुह्यकेशस्य पुष्पकम् ॥ ३४५ ॥ कै[कौ]लासाद्रिः स्थलं पुत्रः श्रीदस्य नलकूबरः । शेवधिर्निधिभण्डारौ दीनारं स्वर्णकाम्बिकम् ॥ ३४६ ॥ कल्पवृक्षः समुद्रद्रुः सन्तानः पारिजातकः । देवेन्द्रवैद्यौ नासत्यावाश्विनेयौ भिषग्वरौ ॥ ३४७ ॥ उच्चैःश्रवोऽब्धितुरगो मातलिः शक्रसारथिः । देवोऽमरो दितिसुतो निर्ज्जरः त्रिदशः सुरः ॥ ३४८ ॥ विबुधः सुमना लेखो गीर्वाणो मृतभोजनः । अस्वप्नोऽग्निमुखो नाकी क्रतुभुग्व्योमयानगः ॥ ३४९ ॥ दैत्योऽसुरो दितिसुतः पूर्वदेवः सुराहितः । आदित्या भास्करा विश्वेवसवस्तुषितानिलाः ॥ ३५० ॥ महाराजिकरुद्राद्याः साध्याः प्रोक्ता गणेश्वराः । ;p{0025} किन्नराप्सरसःसिद्धा रक्षोभूतपिशाचकाः ॥ ३५१ ॥ विद्याधरा गुह्यकाख्याः शास्त्रेऽमी देवयोनयः । षडभिज्ञो जिनो बुद्धः सुगतोऽद्वयवादकः ॥ ३५२ ॥ तथागतो दशबलो मायादेवीसुतो मुनिः । नारदः पर्वतसखः सुरर्षिर्युद्धदर्यकः ॥ ३५३ ॥ नाकिवेश्या स्वर्गणिकाऽप्सरा वारनितम्बिनी । तिलोत्तमोर्वशी रम्भा सुकेशी मञ्जुघोषिका ॥ ३५४ ॥ घृताची चित्रलेखाख्या मेनकेत्यप्सरोवराः । ;c{इति दिक्पालमरीचिः ।} ;v{शब्दमरीचिः} शब्दो निनादो निनदो ध्वनिः ध्वानः स्वनो रवः ॥ ३५५ ॥ निःस्वानो निस्वनो नादो ह्रादनिर्घोषरावकाः[कः] । मर्मरो वस्त्रपर्णोत्थः सिञ्जितं भूषणारवः ॥ ३५६ ॥ वीणाशब्दः क्वणः क्वाणो निक्वाणः प्रक्वणाक्वणौ । प्रतिशब्दः प्रतिध्वानं गीतं रागो रसारवः ॥ ३५७ ॥ वासितं पाशवारावो ह्रेषितं वाजिनिस्वनः । कोलाहलः कलकलो बृंहितं गजगर्जितम् ॥ ३५८ ॥ स्तनितं मेघनिनदो गर्जितं वारिदारवः । बिब्बोकः क्रीडनरवो भणितं रतजल्पितम् ॥ ३५९ ॥ प्रच्छा प्रश्नोऽनुयोगाख्यः प्रत्युक्तिः प्रतिवाचिकम् । जनःश्रुतिः किंवदन्ती कुत्सा निन्दाविगर्हणे ॥ ३६० ॥ सुप्तिङन्तं पदं वाक्यं वचनं भाषितं वचः । प्रणवादिः श्रुतिर्वेद आम्नायः कण्डिका तनुः ॥ ३६१ ॥ स्मृतिर्वेदार्थगुटिका मुनिवाक् धर्मसंहिता । इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् ॥ ३६२ ॥ भीतिः शोकारवः काकुरुपन्यासोऽतिवाङ्मयम् । आम्रेडितं द्विस्त्रिरुक्तमुच्चैर्घुष्ट[ष्ठ]नघोषणे ॥ ३६३ ॥ कथा प्रबन्धकलना नुतिः स्तोत्रं स्तुतिः स्तवः । शपनं शपथः शापो क्रोधाद्दुष्टविकत्थनम् ॥ ३६४ ॥ आह्वानाकारणाऽहूतिर्विवादो वल्गनं द्वयोः । ;c{इति शब्दमरीचिः ।} ;p{0026} ;v{अण्डजमरीचिः} पतङ्गः पतगः पक्षी खगः पत्ररथोऽण्डजः ॥ ३६५ ॥ हंसः श्वेतगरुत्श्वेतपक्षो मानसमन्दिरः । राजहंसो रक्तवक्त्रचरणोऽण्डजनायकः ॥ ३६६ ॥ खञ्जरीटः खञ्जनकः चक्रवाको रथाङ्गकः । तार्क्ष्यो गरुत्मान् गरुडो वैनतेयोऽण्डजेश्वरः ॥ ३६७ ॥ नागान्तकः पक्षिसिंहः[ह्वः] काश्यपिर्विष्णुवाहनः । गृध्रो दाक्षाय्यको दाक्षः पत्त्री शेनः शशादनः ॥ ३६८ ॥ निशाटनो दिवाभीत उलूको वायसान्तकः । आतापी चिल्हिनी चिल्ही टिट्टिभो रटको रटः ॥ ३६९ ॥ नीलकण्ठो मणिग्रीवोऽशोकश्चाषः किकीदिविः । ताम्रचूडः कुक्कुटकः कृकवाकुः पदायुधः ॥ ३७० ॥ काकः करटकोऽरिष्टो द्विको ध्वाङ्क्षः सकृत्प्रजः । श्यामकाको द्रोणकाकः काकोलः काकनायकः ॥ ३७१ ॥ काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ । शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥ पक्षिव्याघ्रस्तीक्ष्णतुण्डो नखशस्त्रः खगान्तकः । चटकद्विट् क्रूरपातः क्रूरदृक् खगचित्रकः ॥ ३७३ ॥ कुक्कुभस्तित्तिरो लावो जीवो वाटेयको कटिः । श्यामा कुमारी दुर्गोमा पोदकी भूमिदारिका ॥ ३७४ ॥ कपिञ्जलः पक्षिमल्लः चकोरो रक्तलोचनः । कुरङ्गलीलोऽनिलजः पिङ्गलो रात्रिसञ्चरः ॥ ३७५ ॥ कृष्णचूडः कृमिरिपुर्वुल्वुलो नीलपिङ्गलः । सारिका स्मारिका सारी पारावतकपोतकौ ॥ ३७६ ॥ कीरः शुकः खगबुधः कैदारः शाल्मलिप्रियः । हंसस्त्री वरटा हंसी कादम्बः कलहंसकः ॥ ३७७ ॥ भारद्वाजः पक्षिमुनिर्दधित्थः पाण्डुपक्षतिः । अलिर्मिलिन्दो भ्रमरो लम्बो मधुपोऽसितः ॥ ३७८ ॥ शिलीमुखो मधुकरः षट्पदः पुष्पधूलिपः । ;p{0027} दीपप्रियः शलभकः पतङ्गो ज्योतिरन्तकः ॥ ३७९ ॥ भम्भरा मक्षिका नीला खद्योतो ज्योतिरिङ्गणः । अरण्यमक्षिका दंशः सरघा मधुमक्षिका ॥ ३८० ॥ छदःपत्रं गरुत्पक्षं पतत्रं पुङ्खमाण्डजम् । चञ्चुस्त्रोटिः चञ्चुकिका पक्षतिः पक्षमूलकम् ॥ ३८१ ॥ संडीनोड्डानकोड्डीना उड्डियानं खगेरिताम् । स्तोकसङ्घातनिकरव्रातव्यूहसमूहकाः ॥ ३८२ ॥ आवलिर्वीथिका पङ्क्तिः श्रेणी लेखा परम्परा । कोशा[श]ण्डं पेशिका पेशी कुलायो नीडकोटरे ॥ ३८३ ॥ गृहासक्ताः खगाः छेकाः गुह्यका गृहवासिनः । ;c{इति अण्डजमरीचिः ।} गणेशः पार्वतीपुत्रो हेरम्बो गणनायकः ॥ ३८४ ॥ द्वैमातुरो विघ्नराजो लम्बोदरगजाननौ । षडाननः शक्तिधरः शरजन्माऽग्निभूर्गुहः ॥ ३८५ ॥ कार्त्तिकेयस्तारकजित्कुमारः क्रौञ्चदारणः । झषकेतुः स्मरो मारः पुष्पधन्वा मनोभवः ॥ ३८६ ॥ शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः । अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥ अपर्णोमा हैमवती शिवाऽम्बा गिरिशप्रिया । शिवः शम्भुर्महादेवो रेरिहाणोऽन्धकद्विषत् ॥ ३८८ ॥ गङ्गाधरस्त्रिनयनः शङ्करश्चन्द्रशेखरः । रुद्रः स्थाणुः पशुपतिर्भगः शूली पिनाकधृक् ॥ ३८९ ॥ वृषाङ्को नीलकण्ठेशौ भगाली त्रिपुरान्तकृत् । पिनाकः शम्भुकोदण्डो जटाजूटः कपर्द्दकः ॥ ३९० ॥ प्रमथाद्याः पारिषदाः नन्दिभृङ्ग्यादयो गणाः । ब्राह्मी माहेश्वरी काली कौमारी शक्रवल्लभा ॥ ३९१ ॥ अपराजिता नारसिंही चामुण्डेत्यष्टमातरः । शतधामा पृष्णिगर्भः पाञ्चजन्यधरोऽच्युतः ॥ ३९२ ॥ गदी नारायणो विष्णुर्वैकुण्ठो विष्टरश्रवाः । त्रिविक्रमो वासुदेवः कौस्तुभी गरुडध्वजः ॥ ३९३ ॥ हृषीकेशो हरिः शौरिः श्रीवत्साङ्को रमापतिः । ;p{0028} कौमोदकी विष्णुगदा शौरिचक्रं सुदर्शनम् ॥ ३९४ ॥ शारङ्गाच्युतकोदण्डौ पृष्णिगर्भासिनन्दकौ । इन्दिराऽब्धिसुता लक्ष्मी कमला कमलालया ॥ ३९५ ॥ विष्णुप्रिया लोकमाता रमा मा श्रीः शशिस्वसा । हलायुधः कामपालो रेवतीरमणो बलः ॥ ३९६ ॥ बलभद्रः प्रलम्बारिर्बलदेवोऽच्युताग्रजः । आत्मभूः सृष्टिकृद्ब्रह्मा चतुर्वक्त्रः प्रजापतिः ॥ ३९७ ॥ हिरण्यगर्भो द्रुहिणो विरञ्चिः सुरपूर्वजः । अजः पितामहः स्रष्टा पद्मयोनिः श्रुतीक्षकः । सावित्री वेदजननी गायत्री ब्रह्मवल्लभा ॥ ३९८ ॥ इति निगदित एषः शाब्दिकानन्दकारि- रुचिरुचिरसुवर्णोद्भासमानः प्रकाशः । क्षितिगगनतुरङ्गक्षोणिसङ्ख्येऽर्कवर्षे (१७०१) शुचिधवलसुषष्ठ्यां भानुवारे च हस्ते ॥ ३९९ ॥ पञ्चतत्त्वप्रकाशोऽयं वेणीदत्तेन धीमता । प्रकाशितः प्रकाशार्थः श्रीविश्वेशकृपाज्ञया ॥ ४०० ॥ ;c{इति श्रीयाज्ञिकवंशावतंसनीलकण्ठात्मजजगज्जीवनसूनुवेणीदत्तविरचिते पञ्चतत्त्वप्रकाशे आकाशभानुः ।} ;c{समाप्तश्चायं पञ्चतत्त्वप्रकाशो नाम ग्रन्थराजः ।} श्रीमन्माधवसूनुना सुविलसच्छास्त्रज्ञताशालिना । सच्छीलैकगुणाब्धिना गिरिधरेणासादितः साधुना ॥ ४०१ ॥ काश्यां वंशीधराज्ञाप्रकलनपटुना जायतां तत्सुखाय । श्रीमद्वेणीप्रसादाद्बहुतरसमयं पञ्चतत्त्वप्रकाशः ॥ ४०२ ॥