;METADATA ;title{परमानन्दीयनाममाला} ;author{मकरन्ददास} ;bookFullName{Paramānandīyanāmamālā of Makarandadāsa Part I} ;bookSeriesDetails{Deccan College Building Centenary and Silver Jubilee Series 7} ;editor{Ekanath Dattatreya Kulkarni} ;editorQualifications{M.A., Ph.D., Reader in General Linguistics, University Department of Linguistics, Deccan College Post-Graduate and Research Institute, Poona} ;publisher{Dr. S. M. katre, Decan College Post-Graduate and Research Institute, Poona} ;pressDetails{C. S. Latkar, at Kalpana Mudranalaya, Tilak Road, Poona 2} ;publicationYear{1968 A.D.} ;dataEntryBy{1. Dr. P. Srinivas, Lecturer in Vyakarana, S.V.V.V.S.College, Bowenpally, Secunderabad, A.P.500011 as part of Sansknet Project - retrieved from https://www.wilbourhall.org/sansknet/index.html, 2. Anekārthasaṅgraha part typed by Mr. Manish Rajpara} ;dataEntryEmail{} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{PRMM} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. Sansknet project for providing us the data in custom font. 2. Mr. Manish Rajpara for typing Anekārthasaṅgraha part of the text. 3. Dr. Dhaval Patel for proof reading the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{23 August 2019} ;version0.0.2{27 February 2020} ;version0.0.3{08 March 2020} ;version0.0.4{08 March 2020} ;version0.1.0{08 March 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{परमानन्दीयनाममाला ।} ;c{श्रीशारदायै नमः ।} ;c{श्रीपरमात्मने नमः ।} ;k{प्रथमः परिच्छेदः} ;c{प्रथमः परिच्छेदः} यद्ध्यानात्प्राणिनां सद्यो भवन्ति विपुलाः श्रियः । चिदानन्दस्वरूपाय तस्मै गोस्वामिने नमः ॥ १ ॥ यत्स्वरूपेण संव्याप्तं समस्तं वाङ्मयं परम् । विष्णुनेव जगत्तस्यै नमस्कुर्मो गिरे सदा ॥ २ ॥ अन्येषामुपकाराय निजबोधाय च स्फुटम् । नामपारायणं वक्ष्ये नानावर्गैरहं मुदा ॥ ३ ॥ अः कृष्णे गरुडेऽथाश्च द्रुहिणे पुष्पकेतने । आ निपातः स्मृतौ वाक्ये कोपसंतापयोस्तथा ॥ ४ ॥ ;p{0002} ईषदर्थक्रियायोगसीमाभिव्याप्तिषूक्त आङ् । इः कामे कल्मषे चापि निपातः खेदकुब्वचोः ॥ ५ ॥ ईर्लक्ष्मीधरयोरुश्च शम्भौ मोक्षोर्ध्वशक्तिषु । भावे स्यादुत्प्रकाशे च निपातः क्रोधलोभयोः ॥ ६ ॥ विभागे बन्धने चापि ऊर्गुरौ पालनेऽवने । ऋर्देवमातरि क्ष्मायामॄकारो दैत्यमातरि ॥ ७ ॥ लृर्देव्यां लॄस्तु वाराह्यां लताभेदेऽपि कीर्तितः । एर्विष्णुशैलयोरैश्च श[2]म्भावोर्धातरि स्मृतः ॥ ८ ॥ अं वेधसि तथा रुद्रेऽप्यंकारः कथितो बुधैः । कं जले मस्तके सौख्ये कः स्वर्गे स्मरसूर्ययोः ॥ ९ ॥ ब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु । कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥ किमाश्चर्ये वितर्के च प्रश्ने क्षेपजुगुप्सयोः । कियत्यथ खमित्युक्तमिन्द्रियाकाशयोनये ? ॥ ११ ॥ चन्द्रबिम्बे वर्णखण्डसंवित्स्वर्गसुखेषु च । खो रवौ कथितं गीते गं गस्तु गणनायके ॥ १२ ॥ गीतगात्रोरथाख्यातो गौर्जले वज्रबाणयोः । वृषधेन्वोर्गिरौ वाचि नेत्रदिग्भूमुखेषु च ॥ १३ ॥ ;p{0003} रश्मिवह्न्योश्च सत्याक्षिस्वर्गमातृषु भाषितः । गीश्च वाण्यां दिशाब्राह्म्योर्दुर्गायामथ घो घटे ॥ १४ ॥ रुद्रे च हनने घा तु क्षुद्रघण्टौ घनध्वने । ङकारो विषये भीमे चस्तरौ चन्द्रचोरयोः ॥ १५ ॥ चाव्ययं च समाहारे पक्षान्तरसमानयोः । कारणे पादपूर्तौ च विनियोगसमस्तयोः ॥ १६ ॥ चुः कोकेऽप्यथ संस्थाने छश्चारे छेदके रवौ । छं वृत्ते निर्मले प्रोक्तं जोऽथ केशवजीवयोः ॥ १७ ॥ जूर्व्योमवाचि जवनपिशाच्योः कीटकेऽपि च । झो मञ्जुलसमीरे स्यान्नष्टेऽपि परिकीर्तितः ॥ १८ ॥ ज्ञो मुनौ चतुरे चन्द्रपुत्रे ब्रह्मणि ञः पुनः । गायने घर्घरध्वानगूढरूपकयोस्तथा ॥ १९ ॥ टो भूमिवायुशब्देषु शरीरास्थनि टं पुनः । गवि ठः सुस्तने रुद्रे चन्द्रमण्डलशून्ययोः ॥ २० ॥ डः शब्दभर्गयोर्ध्याने ढो ढक्काध्वविशेषयोः । णस्तु निःश्रेयसे स्पष्टे निष्कलेऽपि समर्थितः ॥ २१ ॥ तशब्दस्तस्करे पुच्छे क्रोडे युद्धेऽपि ता श्रियाम् । धरण्यामपि ताशब्दः त्वक्च वल्कलचर्मणोः ॥ २२ ॥ ;p{0004} त्विट् च वाण्यां प्रभायां च जिगीषाव्यवसाययोः । रुचौ तृट् च मता लोभतृष्णयोस्तुः स्मृतौ पुनः ॥ २३ ॥ अव्ययं तु समाहारसाकल्यकरणेष्वपि । थो भयाद्रक्षणे भूध्रे दम्पत्यां दा प्रदेशने ॥ २४ ॥ दाष्णुबन्धनयोर्दृक्स्यान्नेत्रदर्शनयोरपि । द्योः स्वर्गनभसोर्द्युस्तु व[3]ह्निवासरयोरथ ॥ २५ ॥ धः पुनर्धनदे धीरेऽश्ववारकसुचित्रयोः । धं पृक्ते धीस्तु बुद्धौ स्यान्निषङ्गे धा तु धातरि ॥ २६ ॥ गुह्यकेशेऽथ धूर्धूते भरे कम्परथास्ययोः । नो ज्ञानस्थानयोर्बुद्धे निर्बन्धेऽस्माकमप्यतः ॥ २७ ॥ अस्मानस्मभ्यमप्येवं नुः स्तवे न्वव्ययं पुनः । विकल्पप्रश्नयोस्तर्के निर्भरेऽनुशये नये? ॥ २८ ॥ निः क्रीते निश्चये व्यूहे निषेधे नोननाः पुनः । निपाताः प्रतिषेधार्था नीर्धून्यां नौस्तरी मता ॥ २९ ॥ न्यग्नीचकार्त्स्न्ययोर्निम्ने पोऽम्भःपाने च पातरि । समीरमार्गयोः प्रौढे पूस्तु देहपुरोरपि ॥ ३० ॥ फो झंझापवने फेने फूर्वातूलककुब्वचोः । विण्नरेऽवस्करे वैश्ये बः पद्मघटयोरपि ॥ ३१ ॥ विः पक्षिनभसोर्वस्तु प्रचेतसि च शंकरे । वाग्वचःश्रुतदेव्योः स्याद्वौपम्येऽव्ययमीरितम् ॥ ३२ ॥ भः काव्ये भ्रमरे भं तु धिष्ण्यराश्योश्च भाः करे । प्रभावे साध्वसे भीः स्यात्स्थित्युत्पत्तिमहीषु भूः ॥ ३३ ॥ ;p{0005} मः शिवे चन्द्रविध्योश्च मा लक्ष्म्यां मातृमानयोः । निषेधे माव्ययं ख्यातं मा निशाकरमासयोः ॥ ३४ ॥ मूर्बन्धवेश्मनोर्योऽथ ब्रह्मवातयमेषु च । यं जले या रमायात्रोः खट्वाङ्गरथयोरपि ॥ ३५ ॥ रः कामवह्निशब्देषु तीव्रे रामे नरे पवौ । राः स्वर्णधनयोर्मेघे स्थानके रुर्भये ध्वनौ ॥ ३६ ॥ रक्षणादित्ययो रीस्तु भ्रमे रूग् रुचिवाञ्छयोः । घृणिरुग्व्यथयोश्चपि रे हूतावव्ययं स्मृतम् ॥ ३७ ॥ लोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे । श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥ लक्ष्मीप्रभाभारतीषु शं सुखश्रेयसोरपि । शीः स्वापे शुर्निशानाथे षूः प्रसूतौ च षो वरे ॥ ३९ ॥ सा लक्ष्म्यां सः परोक्षे स्वो ज्ञातमात्मनि च स्मृतः । स्वरव्ययं स्वर्गभद्रपरलोकगतिष्वथ ॥ ४० ॥ सच्छब्दः पूजिते सत्ये साधूशोभनयोः सति । स्वं निजे द्रविणे होऽथ वीरे रुद्रे भयंकरे ॥ ४१ ॥ ह संबुद्धौ पादपूर्तौ हा दुःखे शुग्विषादयोः । ही विस्मये विषादे हुं स्वापे प्रश्नवितर्कयोः ॥ ४२ ॥ हे संबुद्धौ हं च खेदे क्रोधोक्तौ संस्मृतावपि । हि हेतौ पादपूर्तौ च क्षः क्षेत्रे रक्षसि क्षये ॥ ४३ ॥ ;p{0006} विश्वप्रकाशामरहेममुख्यनामाकरान्भूरितरान्निरीक्ष्य । शिशुप्रबोधाय कृतो विचारः श्रीमज्जगन्नाथपदप्रसक्त्या ॥ ४४ ॥ ;c{इति श्रीकायस्थचिरवारीयमाथुरवंशभूषणमणिश्रीगढमलपुत्रश्रीमत्परमा-} ;c{नन्दनन्दनविरचितायां परमानंदीयनाममालायां प्रथमः काण्डः} ;c{(परिच्छेदः) समाप्तः ॥} ;k{द्वितीयः परिच्छेदः} ;c{द्वितीयः परिच्छेदः} कृष्णो नारायणो विष्णुजिष्णुश्रीपतिकेशवाः । नरायणाजपुरुषतार्क्ष्यध्वजसनातनाः ॥ १ ॥ जनार्दनो जलशायो वासुदेवोऽप्यधोक्षजः । दामोदरः शौरिविधुपीताम्बरजिना हरिः ॥ २ ॥ मुकुन्दाच्युतदाशार्हगोविन्दपुरुषोत्तमाः । इन्द्रानुजो जह्नुविष्वक्सेनश्रीधरवेधसः ॥ ३ ॥ देवकीनन्दनः सोमसिन्धुश्रीवत्समाधवाः । पद्मनाभः पद्मशयो वनमाली पुनर्वसुः ॥ ४ ॥ मूञ्जकेशी ह्यषीकेशवृषाकपिगदाग्रजाः । त्रिविक्रमः शतावर्तयदुनाथचतुर्भजाः ॥ ५ ॥ मार्जविश्वम्भरी विश्वरूपः पृष्णिधरो हि यः । कुमोदकजलेशायिशङ्खभृद्धरणीधराः ॥ ६ ॥ ;p{0007} जगन्नाथश्च गोपेन्द्रविष्टरश्रवसौ स्वभूः । वध्याद्धेनुकचाणूरकालनेमिमुरादितः ॥ ७ ॥ वधकस्य च नामानि भवन्ति विपुलान्यपि । इति श्रीपरमानन्दः कृष्णनामान्यदर्शयत् ॥ ८ ॥ लक्ष्मीः क्षीरोदधिसुता श्रीः पद्मा कमला रमा । पद्मवासा हरेः कान्ता ता सा या मेन्दिरापि च ॥ ९ ॥ कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः । कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥ प्रद्युम्नः कमनः पुष्पकेतनो मकरध्वजः । शम्बरारिः स्मरः पुष्पधन्वा दर्पकमन्मथौ ॥ ११ ॥ मधुदीपमनोजन्मानन्यजा मधुसारथिः । तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥ ब्रह्मसूषेशऋष्याङ्का शृङ्गारात्ममनोमुखा । योनिरस्याहितौ प्रोक्तौ शम्बरः शूर्पकोऽपि च ॥ १३ ॥ अस्त्रचापेषवश्चास्य पुष्पाणि जगदुर्बुधाः । इति श्रीपरमानन्दः कामवर्गमभाषत ॥ १४ ॥ सुदर्शनो विष्णुचक्रं वाहनं वज्रजित्पुनः । पाञ्चजन्योऽस्य कम्बुः स्यादङ्कः श्रीवत्स एव हि ॥ १५ ॥ ;p{0008} नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा । शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥ भुजमध्ये पिता वास्य दुन्दुर्भूकश्यपोऽपि च । वसुदेवस्तथा पूर्वानको दुन्दुभिरेव सः ॥ १७ ॥ रौहिणेयो बलो रामो रेवतीरमणो हली । मुशली सात्वतः कामपालः प्रियमधुश्च सः ॥ १८ ॥ रुक्मिभिद्यमुनाभिच्च प्रलम्बभिदपि स्मृतः । संकर्षणो नीलवस्त्रो बलभद्रोऽच्युताग्रजः ॥ १९ ॥ ताललक्ष्मानन्तलक्ष्मा बलदेवः सितासितः । मुशलं त्वस्य सौनन्दं हलं संवर्तकाभिधम् ॥ २० ॥ गरुडः काश्यपिस्तार्क्ष्यः स्वर्णकायश्च शाल्मली । सौपर्णेयः सुपर्णोऽपि कामायुर्विष्णुवाहनम् ॥ २१ ॥ वज्रतुण्डः सर्पशत्रुररुणावरजो विराट् । वज्रजिद्वैनतेयौ च गरुत्मांश्च सुधाहरः ॥ २२ ॥ ब्रह्मा प्रजापतिर्धाता विधाता विधिवेधसौ । द्रुघणाजौ शतानन्दस्थविरौ कमनः कविः ॥ २३ ॥ परमेष्ठी जगत्कर्ता पद्मभूरात्मभूरपि । नाभिभूरष्टकर्णोऽपि पद्मासनचतुर्मुखौ ॥ २४ ॥ ;p{0009} स्वयंभूर्द्रुहिणो विश्वरेता हंसगसात्त्विकौ । ध्रुवः पुराणगः शंभुर्वेदगर्भः पितामहः ॥ २५ ॥ ....... सुरज्येष्ठो विरञ्चश्च भवान्तकृत् । हिरण्यगर्भलोकेशौ विरञ्चिश्च शतधृतिः ॥ २६ ॥ सरस्वती श्रुतदेवी ब्राह्मी गौर्गीश्च भारती । भाषा वाणी तु वाग्वाक्यं व्याहारवचने वचः ॥ २७ ॥ [6] ईश्वरः शंभुरीशानो महादेवो महानटः । महेश्वरमृडौ शर्वः स्थाणुः शंकरधूर्जटी ॥ २८ ॥ गिरीशो गिरिशो मृत्युंजयः षण्ढोग्रभैरवाः । एकदृग्भालदृग्नीललोहिताः शूलभृद्धरः ॥ २९ ॥ अहिर्बुध्नो विरूपाक्षो नीलकण्ठोऽष्टमूर्तिरुः । भर्गो भीमो वृषाङ्कोऽपि कपर्दी घनवाहनः ॥ ३० ॥ भूतपतिः पशुपतिः खण्डपर्शुः पिनाकभृत् । अट्टहासी त्रिनेत्रोऽपि श्रीकण्ठेशौ पुरासुहृत् ॥ ३१ ॥ गंगाधरो व्योमकेशो महाव्रतिकपालिनौ । कृत्तिवासा दिशावासाश्चन्द्रमौलिर्विषान्तकः ॥ ३२ ॥ ;p{0010} नाट्यप्रियोऽस्थिधन्वापि हर्ता पिङ्गेक्षणः शिवः । शिपिविष्टोऽपि सर्वज्ञभवौ पञ्चमुखोऽपि च ॥ ३३ ॥ कालासुहृन्मखानङ्गगजपूषान्धकासुहृत् । उमापतिस्तथा पिङ्गजटः प्रमथनायकः ॥ ३४ ॥ जटाजूटः कपर्दोऽस्य पिनाकः शांकरं धनुः । अजगावमजगवमजकावमपि क्वचित् ॥ ३५ ॥ ब्राह्मीप्रभृतयः सप्त मातरः प्रमथा गणाः । सुखंसुणस्तु खट्वाङ्गो अथाष्टैश्वर्यमेव हि ॥ ३६ ॥ गरिमा महिमा चैव अणिमा लघिमा तथा । ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमित्यपि ॥ ३७ ॥ गौरी दुर्गा महादेवी भवानी सर्वमङ्गला । मातृमाता शिवा रुद्राण्यपर्णा त्र्यम्बिका सती ॥ ३८ ॥ दक्षजार्या मृडानी च सिंहयानाद्रिजेश्वरा । कृष्णस्वसा कुमारी च शर्वाणी भूतनायिका ॥ ३९ ॥ मेनाकभगिनी शुम्भमथनी पार्वतीश्वरी । कात्यायनी कुमारी च चण्डी काली तथोच्यते ॥ ४० ॥ उमा निशुम्भमथनी महिषासुरनाशिनी । सिंहस्तस्या मनस्तालः सख्यौ च विजया जया ॥ ४१ ॥ ;p{0011} चामुण्डा कर्णमोटी च चर्चिका च कपालिनी । मार्जारकर्णिका चैव महागन्धा च भैरवी ॥ ४२ ॥ भृङ्गरीटिर्भृङ्गरिटिर्भृङ्गी नाड्यस्थिविग्रहः । [7] कूष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दिनौ ॥ ४३ ॥ विनायकः पर्शुपाणिद्वैमातुरगजाननाः । लम्बोदरैकदन्तौ च हैरम्बगणनायकौ ॥ ४४ ॥ आखुगो विघ्नराजश्च कार्तिकेयोऽथ षण्मुखः । षाण्मातुरो महासेनः ब्रह्मचारी च शक्तिभृत् ॥ ४५ ॥ गंगासुतो महातेजाः कुमारोमासुतौ गुहः । स्कन्दः स्वामी विशाखश्च सेनानीस्तारकान्तकृत् ॥ ४६ ॥ क्रौञ्चारिश्च महातेजा द्वादशाक्षः शराग्निभूः । इत्थं माहेश्वरो वर्गः सविस्तरमुदाहृतः ॥ ४७ ॥ स्वर्गः फलोदयो मेरुपृष्ठं तविषताविषौ । त्रिविष्टपं भुविर्गौः स्वः द्योदिवौ त्रिदिवं मतम् ॥ ४८ ॥ नाकोर्ध्वलोकौ दिदिविर्दीदिविश्च सुरालयः । देवा लेखाः सुपर्वाणः सुरनिर्जरनाकिनः ॥ ४९ ॥ ;p{0012} अमर्त्यत्रिदशास्वप्ना दैवतर्भुसुधाभुजः । बहिर्मुखामरस्वाहाभुग्गीर्वाणस्वधाभुजः ॥ ५० ॥ वृन्दारका निलिम्पाश्च आदितेयाश्च पूजिलाः । विबुधा मरुतो दानवारयोऽनिमिषा अपि ॥ ५१ ॥ तेषामन्धोऽमृतं पेयूषं पीयूषमपि स्मृतम् । समुद्रनवनीतं च सुधा यानमथोच्यते ॥ ५२ ॥ व्योमयानमपि प्रोक्तं विमानं बुधसत्तमैः । स्वर्गिवध्वोऽप्सरोरम्भाः स्वःकान्ताश्चोर्वशीमुखाः ॥ ५३ ॥ हूहूहाहामुखा देवगायनाः कथिता बुधैः । इन्द्रोऽच्युताग्रजो वज्रो विडौजा मधवान् हरिः ॥ ५४ ॥ सूत्रामा वासवो मेघवाहनोऽपि शतक्रतुः । वास्तोष्पतिर्वृषा दल्मिजिष्णू वरक्रतुः पुनः ॥ ५५ ॥ कौशिकः शक्रपर्जन्यहर्यश्वकसुरर्षभाः । शचीपतिः स्वर्गपतिपुरुहूतपुरंदराः ॥ ५६ ॥ आखण्डलः सहस्त्राक्षस्तुराषाण्मघवा पुनः । शुनासीरोग्रधन्वानौ सुत्रामा पूर्वदिक्पतिः ॥ ५७ ॥ ;p{0013} संक्रन्दनस्तपस्तक्षो ऋभुक्षो देवनायकः । वृत्रहा बाहुदन्तेयो द्विषः पाकादयः पुनः ॥ ५८ ॥ तेभ्यो जिद्धोदिकैः शब्दैः नामानि [8] स्युः शचीपतेः । जम्भपाकपुलोमाद्रिवृत्राश्च नमुचिर्बलः ॥ ५९ ॥ एते शक्रद्विषोऽथ स्यादिन्द्राणी जयवाहिनी । पौलोमी च शची सुनुर्जयदत्तो जयः पुनः ॥ ६० ॥ जयन्तोऽथ सुता तस्य जयन्ती ताविषी च सा । हयश्चोच्चैःश्रवा द्वाःस्थो नन्दी सारथिरप्यथ ॥ ६१ ॥ मातलिः सामजश्चास्य हस्तिमल्लोऽभ्रवारणः । ऐरावतश्चतुर्दन्तः श्वेतहस्त्यर्कसोदरः ॥ ६२ ॥ ऐरावणोऽभ्रमोः कान्तः पुरी तस्यामरावती । सुधर्मा शक्रसदसि नन्दनं वनमीक्ष्यते ॥ ६३ ॥ नन्दीसरः सरश्चापमृजु रोहितनामकम् । कल्पवृक्षश्च संतानः पारिजातः सुरद्रुमः ॥ ६४ ॥ हरिचन्दनमन्दारौ देववृक्षा भवन्त्यमी । वज्रं स्वरुः पविः शम्बः शतधाराशनी भिदुः ॥ ६५ ॥ शतारः कुलिशो दीर्घज्वैरावतमपीरितम् । शतकोटिश्च दम्भोलिर्व्याधामो ह्रादिनी स्त्रियाम् ॥ ६६ ॥ ;p{0014} शम्बार्चिरतिभीरुक्तः स्फूर्जथुर्वज्रनिःस्वेनः । विश्वकृद्विश्वकर्मापि त्वष्टा स्याद्देववर्धकिः ॥ ६७ ॥ अश्विनौ देववैद्यौ च नासिक्यौ वडवासुतौ । नासत्यावश्विनीपुत्रावर्कजावब्धिजौ यमौ ॥ ६८ ॥ दस्त्रौ चैतावता साङ्ग इन्द्रवर्गः समर्थितः । वरुणो जलपतिः पाशी प्रचेताश्चार्णवगृहः ॥ ६९ ॥ यादःपतिस्तथा मेघनादः पश्चिमदिक्पतिः । परञ्जनोऽथ धनदः कुबेरो नरवाहनः ॥ ७० ॥ श्रीदः शितोदरो रत्नाकरः किंपुरुषेश्वरः । एकपिङ्गश्चैलविलः कुहेश्वरसखौ पुनः ॥ ७१ ॥ पौलस्त्येच्छावसू यक्षः कैलासौका निधीश्वरः । पिशाचकी च त्रिशिरा हर्यक्षोऽपि धनाधिपः ॥ ७२ ॥ विमानं पुष्पकं चास्य वनं चैत्ररथं पुनः । प्रभा वस्वोकसारा च अलका च पुरी तथा ॥ ७३ ॥ नलकूबरः स्मृतः [9] पुंसि धनदस्य सुतोऽत्र तु । धनं वित्तं पृक्थमृक्णं स्वं द्रव्यं द्रविणं वसु ॥ ७४ ॥ ;p{0015} स्वापतेयं हिरण्यार्थौ रा निधाने तु शेवधिः । निधिः कुनाभिरप्येवं नवसंख्या भवन्त्यमी ॥ ७५ ॥ महापद्मः पद्मनामा शङ्खो मकरकच्छपौ । मुकुन्दो नीलकुन्दौ च चर्चाश्च नवमो मतः ॥ ७६ ॥ यक्षस्तु गुह्यकः पुण्यजनो राजा वटालयः । किंनरोऽश्वमुखश्चैव किंपुरुषमयू समौ ॥ ७७ ॥ असुराश्च शुक्रशिष्या दैत्या दनुसुता अपि । सुरारयः पूर्वदेवाः पातालनिलया अपि ॥ ७८ ॥ रोहिणीप्रमुखाः सन्ति विद्यादेव्यस्तु षोडश । यमः प्रेतपतिर्दण्डधरः कालोऽन्तकोऽर्कजः ॥ ७९ ॥ दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः । यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥ समवर्तिधर्मराजौ कालिन्दीसोदरोऽपि च । श्राद्धदेवश्च शमनो धूमोर्णा त्वन्तकप्रिया ॥ ८१ ॥ वैध्यतस्तु प्रतीहारो लेखकश्चित्रगुप्तकः । महाचण्डश्व चण्डश्च भुजिष्यौ द्वौ पुरी पुनः ॥ ८२ ॥ संयमन्यन्तकस्य स्यादेष वर्ग उदाहृतः । राक्षसः कौणपो रक्षो यातुधानः पलादनः ॥ ८३ ॥ ;p{0016} नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः । रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥ यात्वाशरस्तथासृक्पः कटप्रूश्चोच्यते बुधैः । सूर्योऽर्कः किरणः पूषा सविता तरणिः खगः ॥ ८५ ॥ मार्तण्डोऽहर्पतिर्भानुः पतंगश्चक्रबान्धवः । अर्यमा तपनः सूरो भास्वान्खरकरोऽपि च ॥ ८६ ॥ द्वादशात्मा चित्रभानुर्ब्रध्नहंसविवस्वतः । प्रज्ञोतनो ग्रहपुषः सहस्रांशू रविर्भगः ॥ ८७ ॥ कृतान्तजनको मित्रसप्तसप्ततिहेलयः । ध्वान्तारातिर्जगत्कर्मसाक्षी ग्रहपतिर्हरिः ॥ ८८ ॥ हरिदश्वो जगच्चक्षुःप्रभाकरदिवाकराः । विभावसुर्शुचीनौ च नभोमणिरहर्मणिः ॥ ८९ ॥ तीक्ष्णांशुररुणस्त्वष्टा [10] विकर्तननभोऽध्वगौ । पीथस्त्रयीतनश्चैव विरोचनविभाकरौ ॥ ९० ॥ भास्करो मिहिरोष्णांशू आदित्यो यमुनापिता । द्युपतिर्गोपतिश्चण्डभाः स्यादरुणसारथिः ॥ ९१ ॥ किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः । पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥ ;p{0017} द्योतिरंशुः छविः केतुमरीचिरुचिरोचिषः । अर्चिविरोकरुक्शोचिमयूखोस्रगभस्तयः ॥ ९३ ॥ अभीशुः शुचिभाभानुवसूपधृतयो विभा । प्रकाशो वर्च आलोकोद्योतावातपतेजसी ॥ ९४ ॥ परिवेषस्तु परिधिरुपसूर्यकमण्डले । मरीचिका मृगतृष्णा काश्यपिः सूर्यसारथिः ॥ ९५ ॥ विनतासूनुररुणोऽप्यनूरुर्गरुडाग्रजः । प्लवगस्त्वर्करेतोजो रेवन्तो हयवाहनः ॥ ९६ ॥ माठराद्यास्तथा भानोः पारिपार्श्विकनामकाः । चन्द्रो निशापती राजा निशारत्नकलाभृतौ ॥ ९७ ॥ जर्णो जैवातृकः सोमः श्वेतवाजी हिमद्युतिः । विधुरिन्दुः सुधासूश्च चन्द्रमा रोहिणीपतिः ॥ ९८ ॥ अत्रिदृग्जौषधीनाथदशवाजिनिशाकराः । अब्जोडुपतिकुमुदबान्धवाश्च तिथिप्रणीः ॥ ९९ ॥ ग्लौर्मृगाङ्को द्विजपत्तिः शशभृत्कौमुदीपतिः । छायाभृत्तारकानाथो निशानाथोऽपि कथ्यते ॥ १०० ॥ अभिज्ञानकलङ्काङ्काः लक्षणं लक्ष्म लाञ्छनम् । चन्द्रिका कौमुदी चन्द्रगोलिका ज्योत्स्नया सह ॥ १०१ ॥ ;p{0018} चन्द्रातपोऽथ तद्विम्बं मण्डलं परिकीर्तितम् । स्त्रियां प्रसन्नता सादः प्रपूर्वो नरि दृश्यते ॥ १०२ ॥ कला च षोडशो भागस्तारकाभोडवः पुनः । नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥ बालिनी चाश्वयुग्दस्रदेवताश्विकिनी तथा । यमदेवा तु भरणी [11] कृत्तिका चाग्निदेवता ॥ १०४ ॥ बाहुला रोहिणी ब्राह्मी मृगशीर्षं मृगस्तथा । मार्गो मृगशिरश्चान्द्रमसं चाथेल्वलाः पुनः ॥ १०५ ॥ इन्वकाश्च मृगशिरःशिरःस्थाः पञ्च तारकाः । आर्द्रा च कालिनी रौद्री यामकौ च पुनर्वसू ॥ १०६ ॥ आदित्यावथ पुष्यः स्यात्तिष्यः सिध्यस्तथा मतः । अश्लेषाप्यथ सार्पी स्यात्पित्र्याश्चैव तथा मघाः ॥ १०७ ॥ योनिभं फाल्गुनी पूर्वा अर्यम्णश्च तथोत्तरा । हस्तः सवितृदेवस्तु चित्रा स्यात्त्वष्ट्टभं स्मृतम् ॥ १०८ ॥ स्वातिस्तु वायुभं ख्यातं विशाखेन्द्राग्निभं मतम् । अनुराधाप्यनूराधा राधा ज्येष्ठा च मित्रभम् ॥ १०९ ॥ ;p{0019} मूलः स्यादाश्रवः पूर्वाषाढापी सोत्तरा पुनः । वैश्वी श्रवणनामाथ हरिदेवोऽपि कथ्यते ॥ ११० ॥ श्रविष्ठा तु धनिष्ठा स्याद्वसुभं चाथ वारुणी । शतभिषक्च तथा पूर्वोत्तरा भद्रपदा अपि ॥ १११ ॥ द्वय्यः प्रोष्ठपदाः पौष्ण्यं रेवती [च] विधुप्रियाः । मङ्गलो लोहिताङ्गारावाषाढाभूकुजावपि ॥ ११२ ॥ अङ्गारको नवार्चिश्च वक्रोऽपि कथितो बुधैः । बुधः प्रहर्षुलः सौम्यो रोहिणीतनयोऽपि च ॥ ११३ ॥ ज्ञः श्यामाङ्गः श्रविष्ठाभूः पञ्चार्चिः स्यादिलाप्रियः । बृहस्पतिर्गुरुर्जीवो धिषणद्वादशार्चिषौ ॥ ११४ ॥ सप्तर्षिजः सुराचार्यो गीष्पतिः फल्गुनीभवः । वाचस्पतिरुतथ्यानुजोऽङ्गिरा बृहतीपतिः ॥ ११५ ॥ शुक्रो दैत्यगुरुः काव्यः षोडशार्चिर्मघाभवः । भार्गवश्च कविर्ज्ञेय उशनाश्च शनैश्चरे ॥ ११६ ॥ धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः । नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥ ;p{0020} राहुर्विधुन्तुदः सैंहिकेयः स्वर्भानुरेव सः । तथैवाभ्रपिशाचोऽपि ग्रहकल्लोल इत्यपि ॥ ११८ ॥ भरणीभूस्तमोऽथ स्याच्छिखी केतुस्तथाहिकः । अश्लेषाभूरथोत्तानपादजो ध्रुव इत्यपि ॥ ११९ ॥ सप्तर्षयो मरीच्यत्रिमुखाश्वित्रशिखण्डिनः । अगस्तिः पीतसिन्धुः स्यादगस्त्यः कुम्भसम्भवः ॥ १२० ॥ वातापिद्विट् तथाग्नेयो मैत्रावरुणिरप्यथ । लोपामुद्रा च सा कौषीतकी चापि वरप्रदा ॥ १२१ ॥ पुष्पदन्तौ पुष्पवन्तौ चन्द्रसूर्यौ समोक्तितः । कालोऽनेहा दिष्टसर्वमूषकौ समयोऽपि च ॥ १२२ ॥ राहुग्रासोपरागौ च सूर्याचन्द्रमसोर्ग्रहः । उपप्लवस्त्वथारिष्टमुपलिङ्गमुपद्रवः ॥ १२३ ॥ उत्पातेती अजन्यं च बृहद्भानोरुपाहितः । अष्टादशनिमेषैः स्यात्काष्ठा ते द्वे लवो मतः ॥ १२४ ॥ लवैश्च पञ्चदशभिः कलैका परिकीर्तिता । कलाद्वयं तथा लेशो लेशपञ्चदश क्षणः ॥ १२५ ॥ ;p{0021} क्षणषट्केन घटिका नाडिका धारिकापि च । घटिके द्वे मुहूर्तः स्यात्त्रिंशता तैरहर्निशम् ॥ १२६ ॥ दिवसो वासरो घस्नोऽहर्दिनं द्युर्दिवं च तत् । प्रभातं च विभातं स्यात्प्रत्यूषाहर्मुखे पुनः ॥ १२७ ॥ व्युष्टं कल्योषसी गोसः प्रत्युषोऽथ निशा क्षपा । निशीथिनी तमी रात्रिस्तमा तुङ्गी विभावरी ॥ १२८ ॥ शर्वरी वसतिः श्यामा त्रियामोषा तमस्विनी । भौती दोषेन्दुकान्ता च वासतेयी च यामिनी ॥ १२९ ॥ मध्याह्नस्तु दिवामध्यं मध्यन्दिनमपीष्यते । सन्ध्या सायं च पितृसूर्विकालः सबलिस्तथा ॥ १३० ॥ उत्सूरोऽथ दिनान्ते स्यात्त्रिकालं चोपवैणवम् । कुतपः श्राद्धकाले चाष्टमोंऽशो वासरस्य सः ॥ १३१ ॥ दर्शरात्रिस्तमिस्राथ ज्योत्स्नी स्यात्पूर्णिमानिशा । निशागणो गणरात्रो गर्भकं यामिनीद्वयम् ॥ १३२ ॥ प्रदोषः शर्वरीचक्रमर्धरात्रो महानिशा । निशीथोऽप्यथ यामः स्यत्प्रहरोऽपि निशम्यते ॥ १३३ ॥ ;p{0022} अन्धकारस्तमो ध्वान्तं भूच्छाया तिमिरं त्वथ । तमिस्र[13]मन्धतमसं तथा संतमसं स्मृतम् ॥ १३४ ॥ तिथिः स्यात्कर्मवाटी च पक्षान्तौ पर्वणी तथा । विषुवं विषुवत्तुल्यदिनरात्रावनेहसि ॥ १३५ ॥ पक्षतिः प्रतिपत्पर्वसन्धिमानमुदाहृतम् । प्रतिपत्पञ्चदश्योश्चान्तरं स्यादथ पूर्णिमा ॥ १३६ ॥ राका सा पौर्णमासी तु पूर्णचन्द्रमसि स्मृता । पौर्णमास्यथ दर्शश्च संगमः सूर्यचन्द्रयोः ॥ १३७ ॥ अमावस्यामावसी च अमावास्याप्यमा मता । दृष्टेन्दुः सा सिनीवाली नष्टेन्दुश्च कुहुः कुहूः ॥ १३८ ॥ अथ मासः पक्षयुग्ममाग्रहायणिकः सहाः । मार्गशीर्षः सहश्चाथ पौषतैषौ सहस्यवत् ॥ १३९ ॥ तपा माघस्त्वथ फाल्गुनिकः फाल्गुन इत्यपि । तपस्योऽथ मधुश्चैत्रचैत्रिकौऽप्यथ माधवः ॥ १४० ॥ वैशाखे राध इत्येवं ज्येष्ठे शुक्रोऽपि कथ्यते । आषाढे च शुचिः श्रावणिकस्तु श्रावणो नभाः ॥ १४१ ॥ ;p{0023} भाद्रपदो नभस्यैव भाद्रप्रौष्ठपदावपि । अश्वयुक् चाश्विनेषौ तु कार्तिको बाहुलः समौ ॥ १४२ ॥ ऊर्जकार्तिकिकौ मासौ द्वावृतुः परिकीर्तितः । रौद्रः प्रशलहेमन्तौ शैषस्तु शिशिरोऽपि च ॥ १४३ ॥ वसन्तः पुष्पकालेष्यौ सुरभिश्च बलाङ्गकः । उष्णागमो निदाघोष्णौ तपो ग्रीष्मोष्मकावपि ॥ १४४ ॥ प्रावृड्वर्षाः क्षरी मेघकालो मेघागमस्तथा । तपात्ययोऽथ मुदिरात्ययः शरदपि स्मृतः ॥ १४५ ॥ ऋतुभिश्च त्रिभिश्चैकमयनं परिकीर्तितम् । अयने द्वे भवेद्वर्षं वत्सरो हायनः समाः ॥ १४६ ॥ संवत्संवत्सरौ तुल्यौ भूम्न्येव समाः स्त्रियाम् । अब्दं शरद्भवेत्पैत्रमहोरात्रं तु मासतः ॥ १४७ ॥ वर्षेण दैवतं तच्च प्राहुः पूर्वमुनीश्वराः । दैवे युगसहस्रे द्वे ब्राह्म्यं कल्पा तु ते नृणाम् ॥ १४८ ॥ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । कल्पान्तस्तु युगान्तः स्यात्संवर्तप्रलयक्षयाः ॥ १४९ ॥ कल्पोऽपि परिवर्तश्च समसुप्तिजिहानकौ । तत्काले च तदात्वं स्यात्फलं सान्दृष्टिकं मतम् ॥ १५० ॥ ;p{0024} आगामिसमये विद्यादायतिं तत्फलं पुनः । उदर्क इति संपूर्णः कालवर्गः क्रमोक्तितः ॥ १५१ ॥ आकाशोऽस्त्री नभो व्योमान्तरीक्षं खं मरुत्पथः । पुष्कराभ्रे तथा विष्णुपदं मेघाश्रयोऽपि च ॥ १५२ ॥ स्त्रीलिङ्गे द्योदिवौ देववर्त्मानन्ते विहायसि । अम्बरं तारकामार्गोऽभ्रमार्गोऽपि निरीक्ष्यते ॥ १५३ ॥ मेघस्तु जलमुग्नभ्राड् घनाघनघनौ पुनः । तडित्वान्मुदिरो धूमयोनिजीमूतशद्रयः ॥ १५४ ॥ जलदो जलवाहोऽभ्रं स्तनयित्नुर्बलाहकः । धाराधरो जलधरपर्जन्यगडयेरकाः ॥ १५५ ॥ विद्युदैरावती सौदामिनी च जलवालिका । शम्पाचिरप्रभा तुल्ये चपला चञ्चला तथा ॥ १५६ ॥ मेघानां तु या राजी कादम्बिन्यपि दृश्यते । दुर्दिनं वार्दलं वृष्टौ वर्षया सह ॥ १५७ ॥ वृष्टिविघ्नेऽवग्रहः स्यादवग्राहो मतो नरि । आसारस्तु घनावेगवर्षणं [च] दिशा हरित् ॥ १५८ ॥ ;p{0025} दिक्काष्टाशा ककुप्पूर्वा प्राच्यपाची तु दक्षिणा । पश्चिमा च प्रतीची स्यादुत्तरा त्वपरा स्मृता ॥ १५९ ॥ प्रदिग्विदिक्त्वपदिशं दिग्भवे दिश्यमिष्यते । तिर्यग्दिगीश्वरा इन्द्रवह्निकीनाशनैर्ऋताः ॥ १६० ॥ वरुणः पवनश्रीदावीशानोऽथ दिशां गजाः । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्ज[नः] ॥ १६१ ॥ सार्वभौमः सुप्रतीकः पुष्पदन्तोऽष्टमस्तथा । हस्तिन्योऽष्टौ तु तेषां स्युरभ्रमुप्रमुखाः स्त्रियः ॥ १६२ ॥ बुद्धः शास्ता महाबोधिर्धर्मधातुस्त्रिकालवित् । बोधिसत्त्वो जिनार्यौ च सुगतः श्रीघनाद्वयौ ॥ १६३ ॥ तथागतश्चतुस्त्रिंशज्जातकज्ञो विनायकः । द्वादशाक्षस्त्रिकायश्च दयाकूर्चो मुनीश्वरः ॥ १६४ ॥ बौद्धाप्तास्तु विपश्यी च शिखी स्याद्विश्वभूस्तथा । क्रकुच्छन्दः काञ्चनश्च काश्यपः शाक्यकेसरी ॥ १६५ ॥ सौगताः सकलाः शून्यवादिनोऽथार्हता अपि । स्याद्वादवादिनो यौगाक्षपादौ न्यायवेदिनि ॥ १६६ ॥ ;p{0026} लोकायतो दुर्दुरूटो बार्हस्पत्योऽपि नास्तिके । चार्वाकः स्यादथौलूक्यो वैशेषिककणाशनौ ॥ १६७ ॥ आन्वीक्षिकी न्यायवीद्या मीमांसा च विचारणा । ओंकारः प्रणवो वेदान्तः स्यादुपनिषत्तथा ॥ १६८ ॥ धर्मशास्त्रं स्मृतिः शिक्षा कल्पो व्याकरणं तथा । ज्योतिश्छन्दो निरुक्तिश्च षडङ्गानि यथाक्रमम् ॥ १६९ ॥ अङ्गषट्कं तथा वेदा मीमांसान्वीक्षिकी तथा । पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ १७० ॥ वाक्यं पदसमूहः स्यात्सुप्तिङन्तं पदं मतम् । आगमाप्तोक्तिराद्धन्ताः सिद्धान्तसमयावपि ॥ १७१ ॥ कृतान्तश्चाथ सूत्रं स्यात्सूचकं प्रस्तुतार्थतः । तद्भाष्यमुच्यते यत्तु सूत्रमात्रार्थबोधकम् ॥ १७२ ॥ प्रस्तावः स्यात्प्रकरणं वार्त्तिकं तत्प्रकीर्तितम् । उक्तानुक्तद्विरुक्तार्थचिन्तां यत्प्रकरोति हि ॥ १७३ ॥ पदभावसमासार्थनिरन्तरसुबोधिका । टीकाथ पञ्चिका सा स्यात्पदमात्रविभञ्जिका ॥ १७४ ॥ कारिका च स्वल्पवृत्तिः प्रचुरार्थविधायिनी । निघण्टुश्चापि निर्घण्टुः कथितौ नामसंग्रहे ॥ १७५ ॥ इतिहासः पुरावृत्तं सर्वविद्या कलन्दिका । संबोधनं तथाह्वानमामन्त्रणहवावपि ॥ १७६ ॥ ;p{0027} हूतिराकारणं चैवाभिमन्त्रणमपि स्मृतम् । बहुकृताथ संहूतिः शपथः शपनं शपः ॥ १७७ ॥ व्यवहारो विवादः स्यात्पृच्छा प्रश्नोऽनुयोजनम् । कथंकथिकता देवप्रश्ने तूपश्रुतिस्तथा ॥ १७८ ॥ उपन्यास उपोद्धात उदाहारश्च वाङ्मुखम् । वार्तोदन्तौ प्रवृत्तिश्च वृत्तान्तः सा पुरातनी ॥ १७९ ॥ ऐतिह्यं तु किंवदन्ती जनश्रुतिरुदाहृता । नामाभिधा गोत्रसंज्ञाख्याह्वाभिख्याह्वया अपि ॥ १८० ॥ नामधेयं प्रिये वाक्ये चटु चाटु यथाक्रमम् । सत्यं यथातथं तथ्यं सद्भूतं च यथास्थितम् ॥ १८१ ॥ समीचीनमृतं सम्यक् प्रियतथ्यं च सूनृतम् । क्लिष्टं तु संकुलं वाक्यं यदन्योन्यपराहतम् ॥ १८२ ॥ सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् । अनक्षरमवाच्यं स्याद् ग्रस्तं लुप्ताक्षरं पदम् ॥ १८३ ॥ अम्बूकृतं सथूत्कारं निरर्थकमबद्धकम् । मिथ्याभियोगोऽभ्याख्यानं हृदयंगमसंगते ॥ १८४ ॥ हृद्यं श्रव्यं मनोहारि सुस्पष्टं प्रकटोक्तिकम् । अनृतं वितथालीके परुषे रूक्षनिष्ठुरे ॥ १८५ ॥ ;p{0028} पृष्ठमांसादनं पृष्ठे परदोषविभाषणम् । स्तोत्रमीडा स्तवः श्लाघा प्रशंसा वर्णना नुतिः ॥ १८६ ॥ अर्थवादः स्तुति[र्मिथ्या]स्तवेऽपि स्याद्विकत्थनम् । वचनीयताविगाने निन्दाक्षेपौ जुगुप्सनम् ॥ १८७ ॥ परिवादापवादौ च निर्वादावर्णधिक्क्रियाः । कुत्साक्रोशौ तथा गालिं विरुद्धवचनं विदुः ॥ १८८ ॥ क्षारणा रतशापे स्यादाशीः परसुभाषणम् । कीर्तिर्यशः समाज्ञा चाभिख्याम्रेडितमेव तत् ॥ १८९ ॥ यद् द्विस्त्रिरुक्तमुल्लापः काकुवागपि कथ्यते । संलप्तिः संकथापि स्यादन्योन्योक्तिरुदीरिता ॥ १९० ॥ परिदेवनं विलापो विप्रलापो विरुद्धवाक् । रुशती त्वशुभा वाणी शुभा कल्याथ चर्चरी ॥ १९१ ॥ चर्भटी चापलापः स्यान्निह्नवोऽथ मुहुर्वचः । संभाषणं वाचिकं च संदेशवचनं विदुः ॥ १९२ ॥ उपालम्भः सनिन्दो यस्तच्च स्यात्परिभाषणम् । आज्ञादेशौ नियोगश्च निर्दिष्टिः शासनं तथा ॥ १९३ ॥ अङ्गीकाराभ्युपायास्थाः संधा संविच्च संश्रवः । प्रतिश्रवाभ्युपगमौ प्रतिज्ञासंगराश्रवाः ॥ १९४ ॥ ;p{0029} गीतं वाद्यं तथा नृत्तं तौर्यं नाट्यं प्रकीर्तितम् । संगीतमथ गीतं तु गेयं गान्धर्वमेव तत् ॥ १९५ ॥ नृत्तं लास्यं तथा नृत्यं ताण्डवं नाट्यनर्तने । नटनं चोच्चताले स्यात्पानगोष्ठ्यामपि स्मृतम् ॥ १९६ ॥ [17] यन्नृत्तं मण्डलेन स्यात्स्त्रीणां हल्लीसकं च तत् । नृत्तस्थानं तथा रङ्गो नान्दी द्वादशतौर्यकम् ॥ १९७ ॥ वाद्यं वादित्रमातोद्यं तूरतूर्ये स्मरध्वजः । वीणा च वल्लकी कण्ठकूणिका घोषवत्यपि ॥ १९८ ॥ विपञ्ची सप्ततन्तीका कथिता परिवादिनी । नारदस्य च या वीणा महती परिगीयते ॥ १९९ ॥ भारत्याः कच्छपी वीणानालम्बी शंकरस्य च । प्रभावती गणानां स्यात्तुम्बरोश्च कलावती ॥ २०० ॥ कोलम्बो वल्लकीदेहः प्रवालो दण्ड इष्यते । निबन्धनं तूपनाहः ककुभश्च प्रसेवकः ॥ २०१ ॥ ततं वीणादिकं वाद्यं वंशादि शुषिरं विदुः । घनं तालादिकं चाथानद्धं मुरजमुख्यकम् ॥ २०२ ॥ लयः साम्यं पुमस्तालः क्रियया कालसंमितिः । मुरजस्तु मृदङ्गोऽथ समावानकदुन्दुभी ॥ २०३ ॥ ;p{0030} भेरी ढक्का यशःपूर्वपटहः परिकीर्त्यते । वल्लकीवादनं कोणः शारिकापि तथोच्यते ॥ २०४ ॥ बुद्धिः प्रज्ञा मतिर्मेधा मनीषा धिषणा च धीः । चेतना प्रतिभा ज्ञप्तिशेमुषीदृष्टयस्तथा ॥ २०५ ॥ पण्डा तत्त्वानुगा बुद्धिर्धारणं ग्रहणं तथा । अर्थविज्ञानमूहादि तत्त्वज्ञानं च धीगुणाः ॥ २०६ ॥ मोक्षबुद्धिर्मता ज्ञानं विज्ञप्तिः शास्त्रशिल्पयोः । लज्जा व्रीडा त्रपा ह्रीश्च मन्दाक्षं चाथ संलयः ॥ २०७ ॥ निद्रासंवेशशयनप्रमीलाः श्वाससंहतिः । तन्द्रानन्दीमुखीस्वापाः सुप्तं निद्राधिका पुनः ॥ २०८ ॥ उत्कण्ठारतिरौत्सुक्यं हृल्लेखायल्लके अपि । तन्द्रा कौसीद्यमालस्यं जाड्यं मौर्ख्यं च मूढता ॥ २०९ ॥ विषादस्त्ववसादः स्यात्सादोऽपि च विषण्णता । शोकः शोचनखेदौ शुक् क्रोधः कोपक्रुधारुषाः ॥ २१० ॥ मन्युः प्रतिघरोषौ रुड् उद्योगः प्रौढिरुद्यमः । प्रगल्भताभियोगौ चोत्साहश्च कियदेति [18] का ॥ २११ ॥ ;p{0031} भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः । भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥ भीमं भयानकं घोरं भैरवं च भयावहम् । करवीरं प्रेतवनं स्मशानं प्रेतधाम च ॥ २१३ ॥ आश्चर्यमद्भुतं चित्रं विस्मयश्चोद्यमेव च । शमश्चोपशमः शान्तिः शमथोऽपि निगद्यते ॥ २१४ ॥ हासस्तु घर्घरो हास्यं हासिका हसनं हसः । अदृष्टरदहास्यं तु स्मितं वक्रोष्ठिका पुनः ॥ २१५ ॥ अट्टहासो महाहासोऽपहासोऽकारणोद्भवे । रोमाञ्चः पुलको रोमविकारो रोमहर्षणम् ॥ २१६ ॥ रोमोद्गमस्तूद्धुषणं कथितः कण्टकोऽपि च । आनन्दः प्रमदो हर्षानन्दथू प्रतिसंमदौ ॥ २१७ ॥ मुदामोदप्रमोदाश्च ह्लादश्चित्तप्रसन्नता । गर्वश्चित्तोन्नतिर्दर्पोऽभिमानश्चावलिप्तता ॥ २१८ ॥ अहंकारः स्मयो मानो मरदोऽपि विभाव्यते । परिश्रमः श्रमः क्लेशः क्लमो व्यायाम इत्यपि ॥ २१९ ॥ ;p{0032} आयासश्च प्रयासोऽपि दैन्यं कार्पण्यमुच्यते । नटो भरतपुत्रः स्याच्छैलाली भरतोऽपि च ॥ २२० ॥ शैलूषो नर्तको रङ्गाजीवो रङ्गावतारकः । कृशाश्वी सर्वकेशी च धर्मीपुत्रोऽपि दृश्यते ॥ २२१ ॥ सूचकः सूत्रधारः स्यान्नन्दी नान्द्याः प्रपाठकः । वेश्यासूरिः पीठमर्दश्चारणश्च कुशीलवः ॥ २२२ ॥ भ्रूकुंशश्च भ्रकुंशश्च भृकुंशो भीरुवेषभृत् । विदूषकः केलिकिलः प्रहासिप्रीतिदौ पुनः ॥ २२३ ॥ वासन्तिको विटश्चाथ षिङ्गपल्लवकौ समौ । पूज्यो भट्टारको भट्टो देवस्तत्रभवानपि ॥ २२४ ॥ भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ । भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥ पृथ्वी क्षोणी क्षमा गन्धमाता गोत्रा वसुंधरा । रत्नगर्भा स्थिरा भूतधात्रीला कुर्मही क्षितिः ॥ २२६ ॥ विश्वंभरा रत्नगर्भा [19] मेदिनी सागराम्बरा । विपुला काश्यपी रत्नबीजसूरचलावनिः ॥ २२७ ॥ ;p{0033} पृथ्वी पर्वताधारा गौर्या सागरमेखला । सर्वंसहा धरित्री च क्ष्मानन्ता धरणी तथा ॥ २२८ ॥ धरित्री (धात्रीरा?) वार्धिनेमी च द्यावाभूमी तु रोदसी । तथा द्यावापृथिव्यौ च ज्ञेये द्यावाक्षमे अपि ॥ २२९ ॥ सर्वसस्या मही च स्यादुर्वरा मृत्तु मृत्तिका । इरिणं तूषरं धन्वा स्थलं प्रोक्ता स्थली पुनः ॥ २३० ॥ मृत्सा मृत्स्ना च रम्या मृत्खिलं क्षेत्राहतं पदम् । लवणं वशिरोऽक्षीवं यत्समुद्रसमुद्भवम् ॥ २३१ ॥ सैन्धवं माणिमन्थं च नदीभवमपि स्मृतम् । रोमकं तु रुमाजातं वसूकं वसुकं तथा ॥ २३२ ॥ रुमा लवणखानिस्तु विडं पाक्यं च कृत्रिमे । सौवर्चलं शूलहरं दुर्गन्धरुचके पुनः ॥ २३३ ॥ श्यामे च तिलकं तस्मिन् टङ्कणो रसशोधनः । मालतीतीरजोऽथ स्याद्यवक्षारश्च पाचनः ॥ २३४ ॥ यवनालजस्तथा पाक्यो यवाग्रज इतीष्यते । स्वर्जिः सुवर्चिका योगवाही स्रुघ्नी निगद्यते ॥ २३५ ॥ ;p{0034} क्षेत्रं वर्षधराद्यङ्कं वर्षं देशोऽथ मण्डलम् । राष्ट्रं जनपदो निर्गो विषयो नीवृदीरितः ॥ २३६ ॥ उपवर्तमथार्योऽसावुत्तमोत्पत्तिर्विश्रुतः । अन्तर्वेदिस्तथा गङ्गाकालिन्द्योर्मध्यमुच्यते ॥ २३७ ॥ सरस्वतीदृषद्वत्योर्ब्रह्मावर्तोऽन्तरः स्मृतः । मध्यं विन्ध्यहिमाद्र्योश्चाचारवेदी तु पुण्यभूः ॥ २३८ ॥ अन्तरं च कुरुक्षेत्रपञ्चरामनदाह्वयोः । ब्रह्मवेदिः कुरुक्षेत्रं धर्मक्षेत्रं च कथ्यते ॥ २३९ ॥ मध्यं यद्धिमवद्विन्ध्यगिर्योः प्रत्यग्प्रयागतः । देशो विनशनात्प्राक्तु मध्यदेशोऽपि मध्यमः ॥ २४० ॥ प्राग्दक्षिणस्तथा प्राच्यो नदीं यावच्छरावतीम् । प्रत्यन्तो म्लेच्छदेशोऽथोदीच्यः स्यात्पश्चिमोत्तरः ॥ २४१ ॥ निर्जलो जङ्गलो देशः कच्छोऽनूपोऽम्बुमान्स्मृतः । कृष्णमृ[20]त्कृष्णभूमः स्यात्कुमुद्वान्कुमुदालयः ॥ २४२ ॥ ;p{0035} नड्वलश्च नडप्रायो नडकीयोऽपि कथ्यते । सपङ्कः पङ्किलो देशः शर्करावांश्च शार्करः ॥ २४३ ॥ नद्यम्बुजीवनो देशः स्यान्नदीमातृकः पुनः । शाड्वलः शादहरितो वेतस्वान्बहुवेतसः ॥ २४४ ॥ वृष्टिजीवन आख्यातो मण्डलं देवमातृकः । डाहलास्त्रैपुरा देशा मालवाश्चाप्यवन्तयः ॥ २४५ ॥ माधुमताश्च काश्मीरास्तर्जिकास्तायिका मताः । दशेरकाश्च मरवो वाहीकाष्टक्किसंज्ञिताः ॥ २४६ ॥ अङ्गाश्चम्पोपलक्ष्याः स्युर्मगधाः कीकटाः स्मृताः । कुमालकाश्च सौवीराश्चेदयश्चैद्यसंज्ञकाः ॥ २४७ ॥ केरला औड्रनामानो वाह्लीका वह्लिका मताः । मुरण्डाश्चापि लम्पाकाः शाखयश्च तुरुष्ककाः ॥ २४८ ॥ ग्रामो निवसथश्चापि तथा संवसथः स्मृतः । तदर्धे पाटकः प्रोक्तः सीमाघाटो घटोऽवधिः ॥ २४९ ॥ मर्यादान्तोऽवसानं चोपशल्यं ग्रामसीमनि । ग्रामन्तराटवी मालं कर्मान्तोऽपि च कर्मभूः ॥ २५० ॥ ;p{0036} पर्यन्तभूः परिसरो गोस्थानं गोष्ठमेव च । गोष्ठीनं भूतपूर्वं च गवीनं चाशितं हि तत् ॥ २५१ ॥ यत्राशिताः पुरा गावः क्षेत्रं वप्रस्तथोच्यते । केदारः सेतुपाल्यालिसंवराः सारणिः स्तथा ॥ २५२ ॥ धूली रेणू रजः पांशुश्चूर्णं क्षोदः खलं पुनः । खलधानं दलिर्लोष्टे लेष्टुलोष्टू तु कुत्रचित् ॥ २५३ ॥ मेधिर्मेथिः खले काष्ठं पशुबन्धाय निर्मितम् । वल्मीको वामलूरश्च नाकुः कृमिगिरिस्तथा ॥ २५४ ॥ वम्रीकूटं शक्रमूर्धा पूः पुरी नगरी पुनः । द्रङ्गोद्रङ्गौ समौ तत्र पत्तनं पुटभेदनम् ॥ २५५ ॥ निगमो निवेशनं च स्थानीयं च निगद्यते । दुर्गं कोट्टं स्कन्धावारराजधान्यौ महीयसि ॥ २५६ ॥ पुरार्धविस्तरः खेटः तथा शाखापुरे पुनः । उपपूर्वपुरे चाथ कन्याकुब्जं महोदयम् ॥ २५७ ॥ कान्यकुब्जं गाधिपुरं काश्यां वाराणसीत्यपि । [21] वराणसी शिवपुरी विदेहा मिथिलापि च ॥ २५८ ॥ ;p{0037} अयोध्यायां च साकेतं कोशलापि च दृश्यते । उज्जयिन्यामवन्ती च तथा पुष्पकरण्डिनी ॥ २५९ ॥ चम्पा च मालिनी चेदिपुरी तु त्रिपुरी स्मृता । मथुरायां मधूपघ्नं मधुराथ तमालिनी ॥ २६० ॥ तामलिप्तं दामलिप्तं तामलिप्तीत्यपीक्ष्यते । गजनामपुरं हस्तिनापुरं हस्तिनीपुरम् ॥ २६१ ॥ कुण्डिनं च विदर्भायां नलस्य निषधा पुरी । तथा पाटलिपुत्रं च कुसुमाख्यपुरं तथा ॥ २६२ ॥ वत्सपत्तनकौशाम्ब्यौ द्वारका द्वारवत्यपि । वप्रोऽथ वरणः साले चयः प्राकार एव च ॥ २६३ ॥ कपिशीर्षं तु वप्राग्रं क्षोमाट्टाट्टालकाः समाः । प्रतोल्यां गोपुरं रथ्या विशिखापि तथोच्यते ॥ २६४ ॥ आवेष्टको वृतिर्वाटो मार्गोऽध्वा सरणिः सृतिः । निगमः पद्धतिः पद्या पन्था एकपदी पुनः ॥ २६५ ॥ पदवी वर्त्म मञ्जुः स्यात्सुपन्थाश्चातिपूर्वकः । अपन्था अपथं चैव उन्मार्गो मार्गवर्जिते ॥ २६६ ॥ दुरध्वः कापथो व्यध्वा कदध्वा विपथं तथा । प्रान्तरं दूरशून्योऽसो कान्तारो दुर्गमो मतः ॥ २६७ ॥ ;p{0038} भुवोऽन्तरं गूढमार्गः सुरुङ्गा सन्धिलापि सा । चतुष्पथं चतुष्कं च संस्थानं च निगद्यते ॥ २६८ ॥ त्रिपथे तु त्रिकं घन्टापथः संसरणं च तत् । राजमार्गश्रीपथौ च महामार्गोपनिष्करे ॥ २६९ ॥ मार्गत्रयं च शृङ्गाटं चत्वरं बहुपथं स्मृतम् । मन्दिरं सदनं गेहं गृहं सद्म निकेतनम् ॥ २७० ॥ निकाय्यो नीलयो वेश्मालयो भवनमुच्यते । धामावासो निवासोऽपि निशान्तं धिष्ण्यमाश्रयः ॥ २७१ ॥ अगारं शरणं पस्त्यं संस्त्यायावसथावपि । स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥ मण्यादिर्भिबद्धभूमिः कुट्टिमं कथितं च तत् । हर्म्यं धनिगृहं प्रासादो देवानां च भूपतेः ॥ २७३ ॥ शिरोगृहं चन्द्रशाला कोषः स्याद्भाण्डधामनि । सौधं राजगृहं छात्रावासेऽप्यावस[22]थः स्मृतः ॥ २७४ ॥ मठावसथ्यौ वासौकः स्वापगृहमुदीरितम् । उटजः पर्णशाला स्याच्चैत्यं बौद्धजिनालये ॥ २७५ ॥ विहारोऽपि च तत्रैव कायमानं तृणगृहम् । संधानी कुप्यशाला स्यान्मन्दुरा वाजिनां गृहम् ॥ २७६ ॥ ;p{0039} गर्भधामापवरके पाकधाम महानसम् । यन्त्रगृहं तैलशाला गर्तिका तन्तुधामनि ॥ २७७ ॥ चतुरं करिणां शाला होत्रीयं हविषो गृहम् । जालिनी चित्रशाला च तथा संदानिनी गवाम् ॥ २७८ ॥ वपनी नापितानां च शिल्पा खरकुटीत्यपि । प्रतिश्रयः सत्रशाला नीरशाला प्रपा पुनः ॥ २७९ ॥ आथर्वणं शान्तिधामारिष्टं स्यात्सूतिकागृहम् । सुरागृहं च गञ्जाथावेशनं शिल्पिनां गृहम् ॥ २८० ॥ उपघ्नश्चान्तिकागारं मुनिस्थाने तथाश्रमः । पक्वणो वरटावासो घोषश्चाभीरपल्लिका ॥ २८१ ॥ पुरं वेश्योऽपि वेश्यानामाश्रयः परिकीर्ततः । जनाश्रयो मण्डपोऽथ पण्यशालापणौ तथा ॥ २८२ ॥ हट्टाट्टौ विपणिर्भित्तिः कुड्यं वेदी वितर्दिका । एडूकं क्लीबलिङ्गे स्याद्यदन्तर्न्यस्तकीकसम् ॥ २८३ ॥ अङ्गणं चत्वरं तुल्ये अजिरं प्राङ्गणं तथा । अर्गला परिघः साल्पा सूचिरर्गलिका पुनः ॥ २८४ ॥ कुञ्चिकायां च साधारण्यङ्कुटः कूचिका च सा । तालकं द्वारयन्त्रं च तस्योद्घाटनकं यथा ॥ २८५ ॥ ;p{0040} प्रतिताली च ताली सा कपाटस्त्वररिः पुमान् । अररं च कुवाटोऽपि बाह्यद्वारं च तोरणम् ॥ २८६ ॥ गोपानसी च वलभी वक्रकाष्ठावृते पदे । उम्बरो देहली चापि गृहावगृहणी स्रियाम् ॥ २८७ ॥ उदम्बरोऽम्बरोऽलिन्दे प्रघाणः प्रघणोऽपि च । बहिर्द्वारप्रकोष्ठे स्याद्विशिष्यैव विभाव्यताम् ॥ २८८ ॥ छदिस्तु पटलं तुल्ये वलीकं नीव्रमुच्यते । इन्द्रकोशस्तमङ्गोऽपि नीव्रप्रान्त उभौ समौ ॥ २८९ ॥ गवाक्षजालकौ तुल्यौ वातायनमपीक्ष्यते । [23] द्वार्द्वारं च प्रतीहारः कोणोऽणिः कोटिरित्यपि ॥ २९० ॥ सोपानारोहणे तुल्ये निःश्रेणिश्चाधिरोहिणी । सर्वतोभद्रविच्छन्दनन्द्यावर्तादयोऽपि च ॥ २९१ ॥ स्वस्तिकश्चेभ्यसदनभेदाः सन्त्येव भूरयः । संक्षिप्यान्योपकाराय परमानन्द उक्तवान् ॥ २९२ ॥ ;p{0041} पाञ्चालिका शालभञ्जी पुत्रिका काष्ठनिर्मिता । लेप्योद्भवा त्वञ्जलिकारिका सा परिकथ्यते ॥ २९३ ॥ मञ्जूषा संपुटः पेटा समुद्गः शोधनी त्वथ । समूहनी वर्धनी च तथा संमार्जनीत्यपि ॥ २९४ ॥ उलूखलोदूखले च कलिञ्जमुशलौ पुनः । कण्डोलकपिटेऽयोग्रं संकरावकरौ समौ ॥ २९५ ॥ तितउश्चालनी चाथ शूर्पप्रस्फोटने समे । प्रस्फोटनं तु पवनेऽवघातः कण्डनं पुनः ॥ २९६ ॥ चुल्यधिश्रयिणी स्थाली पिठरोखे चरुस्तथा । कुटो निपो कटः कुम्भः करीरकलसौ समौ ॥ २९७ ॥ कलशोऽलिञ्जरेऽथ स्यान्महाघटमणीवकौ । दर्विस्तु कम्बिखजकौ हसन्यङ्गारपात्रिका ॥ २९८ ॥ अङ्गारशकटी चैव हसन्त्यङ्गारधान्यपि । कलशी गर्गरी तुल्ये मन्थनी मथनोचिता ॥ २९९ ॥ कटाहकर्परौ तुल्यौ करङ्को नालिकेरजः । मन्थानः खजको मन्थो वैशाखो मन्थदण्डकः ॥ ३०० ॥ ;p{0042} मन्था मन्थस्य विष्कम्भे मञ्जीरकुटरावपि । शरावे वर्धमानोऽपि तथा शालाजिरोऽप्यसौ ॥ ३०१ ॥ कौशिका मल्लिका तुल्ये चषकः कंससंज्ञकः । पारी तु स्यात्पानपात्रं स्नेहपात्रं कुतूः स्त्रियाम् ॥ ३०२ ॥ तदल्पं कुतपः पात्रममत्रं भाजनं समे । स्थालं तत्र विशालं स्यात्पिधानं स्यादुदञ्चनम् ॥ ३०३ ॥ दृतिश्चर्ममयी खल्लस्त्वालूः करकपात्रिका । पर्वतः शिखरी भूध्रो गोत्राद्री भूधराचलौ ॥ ३०४ ॥ नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः । धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥ अस्ताचलः प्रान्तभूध्रे मेरुः स्यात्काञ्चनाचलः । सुमेरुः स्वर्गिरी रत्नसानुः स्वर्गगिरिस्तथा ॥ ३०६ ॥ हिमालयो हिमप्रस्थो मेनकाप्राणवल्लभः । भवानीजनकश्चापि हिमवानपि कथ्यते ॥ ३०७ ॥ मैनाको हिमवत्पुत्रे सुनाभोऽष्टापदे त्वथ । स्फटिकाद्रिरथ कैलासे रजतोऽद्रिर्मलये त्वथ ॥ ३०८ ॥ ;p{0043} आषाढो दक्षिणाद्रिः स्यात्क्रौञ्चक्रुञ्चौ समावुभौ । इन्द्रकीले मन्दरोऽपि सुवेलस्त्रिककुत्तथा ॥ ३०९ ॥ त्रिकूटोऽपि त्रिमुकुटः सुदारुः पारियात्रिकः । शत्रुंजयो विमलाद्रिर्विन्ध्ये च जलवालकः ॥ ३१० ॥ रैवते तूज्जयन्तः स्याद्गुहायां गह्वरं मतम् । देवखातबिले च स्याद्दरी स्त्री कन्दरोऽस्त्रियाम् ॥ ३११ ॥ तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके । नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥ पर्यन्तपर्वताः पादा द्रोणी सन्धिस्तु शैलयोः । तिर्यग्बहिःप्रदेशाः स्युः दन्तका निर्गता गिरेः ॥ ३१३ ॥ प्रस्थे स्नुः सानुरस्त्री स्यादधोभूमिरुपत्यका । अधित्यका तूर्ध्वभूमिः पाषाणाश्मदृषच्छिलाः ॥ ३१४ ॥ ग्रावोपलौ प्रस्तरश्च गण्डशैलाश्च्युताः शिलाः । खटी तु कठिनी शुक्लधातुः स्यात्खटिनीत्यपि ॥ ३१५ ॥ गिरेर्मनःशिलादिः स्याद्धातुः स्याद्गैरिकादिकम् । अथाकरे खनिः खानिर्लोहं कालायसं घनम् ॥ ३१६ ॥ ;p{0044} शस्त्रं पिण्डं शिलासारं गिरिसारमयोऽपि च । तीक्ष्णकृष्णामिषे पारशवं तत्किट्टके पुनः ॥ ३१७ ॥ मण्डूरसरणे धूर्तसिंहाने विकृतिः कुशी । ताम्रं शुल्वं मर्कटास्यं रक्तं म्लेच्छमुखं तथा ॥ ३१८ ॥ उदुम्बरं ह्यष्टब्रह्मवर्धने च कनीयसम् । सीसं नागं सीसपत्रं वध्रं सिन्दूरकार[25]णम् ॥ ३१९ ॥ गण्डूपदभवं वप्रं योगेष्टं च सुवर्णकम् । कस्तीरं त्रपु वङ्गं च नागजं नागजीवनम् ॥ ३२० ॥ मृद्वङ्गं स्वर्णजं रङ्गं सिंहलालीनके अपि । गुरुपत्रं चक्रसंज्ञं पिच्चटं तमरं तथा ॥ ३२१ ॥ रूप्यं च रजतं तारं श्वेतं दुर्वर्णकं पुनः । हिमांशुहंसकुमुदाभिख्यं खर्जूरमप्यथ ॥ ३२२ ॥ सुवर्णं काञ्चनं रुक्मं कल्याणं कनकं वसु । हिरण्यं हाटकं वह्निबीजं चामीकरार्जुने ॥ ३२३ ॥ कार्तस्वरं जातरूपं गाङ्गेयं भूरिभर्मणी । स्वर्णं चन्द्रो हेमशातकुम्भे रजतभूत्तमे ॥ ३२४ ॥ लोहोत्तमं गारुडं च महारजतकर्बुरे । जाम्बूनदं गैरिकं च निष्कं चाष्टापदं तथा ॥ ३२५ ॥ ;p{0045} रूप्यस्वर्णद्वयं श्लेषः कथ्यते घनगोलकः । अथालङ्कारपीते स्याच्छ्टङ्गीकनकमायुधम् ॥ ३२६ ॥ कुप्यं तु तद्द्वयादन्यद्रूप्यं तु द्वयमाहतम् । आरं तु पित्तलेऽथारकूटो रीरी सुलोहकम् ॥ ३२७ ॥ पीतलोहं रिरी रीतिः कपिलोहं सुवर्णकम् । कपिला तु ब्रह्मरीतिर्ब्राह्मी सा च महेश्वरी ॥ ३२८ ॥ रङ्गताम्रोद्भवं कांस्यं घोषं सौदामिनीप्रियम् । असुराह्वं प्रकाशं च पारदे सूतपारतौ ॥ ३२९ ॥ हरबीजं रसो लोलो गन्धिको गन्धकोऽपि च । शुकपुच्छस्ताम्रशत्रुः पामारिः कुष्ठनाशनः ॥ ३३० ॥ हरितालं विस्रगन्धि गोदन्तं नटमण्डपम् । बिडालं पिञ्जरं वङ्गशत्रुर्लोमहरं तथा ॥ ३३१ ॥ खर्जूरं पीतनं वंशपत्रकं चालपीतके । अभ्रकं गगनं स्वच्छपत्रं च गिरिजामले ॥ ३३२ ॥ मेघाख्यमथ तुत्थं च शिखिग्रीवमयूरके । तुत्थाञ्जनं कांश्यनीलं मूषातुत्थं वितुन्नकम् ॥ ३३३ ॥ ;p{0046} स्रोतोञ्जनं च कापोतं सौवीरं कृष्णयामुने । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ॥ ३३४ ॥ मनःशिला नागमाता मनोगुप्ता च रोचनी । मनोह्वा कुनटी गोला नेपाली रसनेत्रिका ॥ ३३५ ॥ करवीरा नागजिह्वा सिन्दूरं नागजं पुनः । शृङ्गारभूषणं नागरक्तं बोले शशः पुनः ॥ ३३६ ॥ प्राणो गोपरसः पिण्डस्तथा गन्धरसः स्मृतः । कुरुविन्दो हंसपादो हिङ्गुलोऽथ शिलाजतु ॥ ३३७ ॥ अश्मजं गिरिजमर्थ्यं गैरेयेऽथ कुलात्थिका । चक्षुष्या च कुलाली स्यात्काचे क्षारोऽपि कथ्यते ॥ ३३८ ॥ वसुरत्ने मणिर्भेदा इन्द्रनीलादयो मताः । वालवायजवैडूर्ये गारुत्मतहरिन्मणी ॥ ३३९ ॥ लक्ष्मीपुष्पः पद्मरागो हीरको वज्रनामभृत् । सूचीमुखं रत्नमुख्यं वरारकमपीक्ष्यते ॥ ३४० ॥ राजावर्तो राजपट्टो विराटज इतीरितः । विद्रुमो रक्तकन्दः स्याद्रक्ताङ्को हेमकन्दलः ॥ ३४१ ॥ ;p{0047} प्रवालं सूर्यकान्ते तु सूर्याश्मा दहनदृषत् । चन्द्रकान्तश्चन्द्रमणिश्चान्द्रोपलौ समौ ॥ ३४२ ॥ रसोद्भवं शुक्तिजं च मुक्ता मुक्ताफलं स्मृतम् । मौक्तिकं भूमिवर्गोऽयमुक्तः कायस्थभानुना ॥ ३४३ ॥ पानीयं जीवनं तोयं शंवरं नीरवारिणी । पुष्करं कं जलं पाथः सलिलं सर्वतोमुखम् ॥ ३४४ ॥ कीलालं यादसां वासः कुशं क्लीबे पयः पुनः । दकोदके वनं क्षीरं भवनं कमलं समे ॥ ३४५ ॥ आपः स्त्रियां बहुत्वे च मेघपुष्पार्णसी मते । अमृतं प्राणदं नारं ? जीवनीयाम्बुनी अपि ॥ ३४६ ॥ अम्भो घनरसः पुंसि वाः क्लीबे रत्नमुच्यते । अगाधमतलस्पृक् चास्थागमस्ताघमेव च ॥ ३४७ ॥ अस्थाघं च तथा प्रोक्तं निम्ने गम्भीरमुच्यते । गभीरं शब्दभेदेनोत्तानं स्यात्तद्विलक्षणम् ॥ ३४८ ॥ प्रसन्नाच्छेऽप्यथानच्छमाविलं कलुषं समे । प्रालेयतुहिने तुल्ये अवश्यायो नरि स्मृतः ॥ ३४९ ॥ ;p{0048} नीहारश्च तुषारश्च हिमं च मिहिका स्त्रियाम् । घनोपलस्तु करको हिमानी तु हिमोच्चयः ॥ ३५० ॥ समुद्रः सागरः सिन्धु[27]र्वीचिमाली नदीपतिः । पारावारो जलनिधिर्मितद्रुश्चार्णवोदधी ॥ ३५१ ॥ अवारपाराकूपारौ उदन्वान्मकराकरः । रत्नाकरः सरस्वांश्च यादःपतिजलाशयौ ॥ ३५२ ॥ तरङ्गो वीचिभङ्गोर्मिकलिका महति त्विह । कल्लोलोल्लोललहरिभेदाश्चाब्धिकफे पुनः ॥ ३५३ ॥ डिण्डीरः फेनकश्चापि बुद्बुदे स्थासकः पुमान् । जलवृद्धिः स्त्रियां वेलावर्तस्तु पयसां भ्रमः ॥ ३५४ ॥ तालूरवोलकौ तुल्यौ कूलभूः कच्छरोधसी । कूले प्रपातमर्यादे प्रतीरं तीरमेव च ॥ ३५५ ॥ पुलिनं जलहीनं तत्सैकतं सिकतामये । अन्तर्जले चान्तरीपं द्वीपं चाथ नदी पुनः ॥ ३५६ ॥ स्रोतस्विनी द्वीपवती तटिनी वाहिनी सरित् । धुनी तरङ्गिणी कुल्या स्रोतो निर्झरिणी तथा ॥ ३५७ ॥ जम्बालिनी पर्वतजा रोधोवक्रा स्रवन्त्यपि । शैवलिनी जलधिगा कर्षूः कूलंकषापगा ॥ ३५८ ॥ ;p{0049} वहा च ह्रदिनी सिन्धु[र्निम्न]गा सागराङ्गना । हिरण्यवर्णा सा प्रोक्ता सरस्वत्यपि कथ्यते ॥ ३५९ ॥ गङ्गा मन्दाकिनी भागीरथी त्रिपथगा च सा । त्रिस्रोता जाह्नवी विष्णुपदी च हरशेखरा ॥ ३६० ॥ सिद्धापगा खापगा च ऋषिकुल्या सरिद्वरा । स्वर्णदीहैमवत्यौ च स्वर्वापी स्वर्गता नदी ॥ ३६१ ॥ कालिन्दी यमुना सूर्यजा यमी च यमस्वसा । नर्मदा स्यात्पूर्वगङ्गा इन्दुजा मेकलाद्रिजा ॥ ३६२ ॥ रेवा गोदावरी गोदा तापी स्यात्तपनात्मजा । गौमती चापि वाशिष्ठी विशिष्यैवं निरीक्ष्यताम् ॥ ३६३ ॥ शतद्रुः स्याच्छुतुद्रुस्तु चन्द्रभागा तु चन्द्रिका । सरस्वती ब्रह्मपुत्री विपाशा च विपाट् स्त्रियाम् ॥ ३६४ ॥ अर्जुनी बाहुदा सैतवाहिनी चापि कथ्यते । वैतरणी नरकस्था कावेरी त्वर्धजाह्नवी ॥ ३६५ ॥ स्वतोऽम्भःसरणं स्रोतः प्र[28]वाहौ तावुभौ समौ । वेणी धारा रयोऽथ स्यादुत्ताराख्या विशेषतः ॥ ३६६ ॥ ;p{0050} घट्टस्तीर्थोऽवतारोऽम्बुवृद्धौ पूरः प्लवोऽपि च । वक्राणि पुटभेदाः स्युर्भ्रमास्तु जलनिर्गमाः ॥ ३६७ ॥ जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः । प्रणाली जलमार्गश्च पानं कुल्या च सारणिः ॥ ३६८ ॥ [सिकता?] वालुकाः प्रोक्ता बिन्दवः पृषतः प्रषत् । विप्रुषोऽप्यथ जम्बालचिकिलौ कर्दमः पुमान् ॥ ३६९ ॥ पङ्को निषद्वरः शादो मृच्चते स्वल्पवारितः । हिरण्यबाहुरुक्तास्तु शोणे नदे वहोऽपीरितः ॥ ३७० ॥ सरस्वांश्चोध्यभिद्यौ च ह्रदोऽगाधजलो द्रहः । कूपोऽन्धुरुदपानोऽथ नेमी स्यात्तन्त्रिका स्त्रियाम् ॥ ३७१ ॥ नान्दीपुटो नान्दीमुखो वीनाहो मुखबन्धनम् । निपानं त्वाहवः पुंस्युपकूपोऽपि च दृश्यते ॥ ३७२ ॥ वापी स्याद्दीर्घिका क्षुद्रकूपे चूरी च चूतकः । अरघट्टो घटीयन्त्रे पादावर्तोऽपि कथ्यते ॥ ३७३ ॥ देवखाते त्वखातं स्यात्खातकं पुष्करिण्यपि । तडागः सरसी पद्माकरः कासार एव च ॥ ३७४ ॥ ;p{0051} वेशन्तश्च सरः स्तोकं पल्वलः परिकीर्तितः । खातिका परिखा खेयाथावालः स्थानकं पुनः ॥ ३७५ ॥ आवापश्चालवालोऽपि वृक्षस्थानकमुच्यते । निर्झरस्तु झरश्चोत्सः स्रवः प्रस्रवणं सरिः । जलाशया जलाधारा वारिवर्गो विवेचितः ॥ ३७६ ॥ ;c{इति श्रीकायस्थचिरवारीयमाथुरवंशभूषणमणिश्रीगढमलपुत्रश्रीमत्पर-} ;c{मानन्दनन्दनविरचितायां परमानन्दीयनाममालायां द्वितीयः} ;c{परिच्छेदः समाप्तः ॥} ;k{तृतीयः परिच्छेदः} ;c{अथ तृतीयः परिच्छेदः} प्रणौमि परया भक्त्या प्रकृष्टविभुतां विभुम् । नाशोत्पादस्थितिप्रष्टं परब्रह्म निरञ्जनम् ॥ १ ॥ मदीयमानसाम्भोजराजहंससमप्रभम् । सदा प्रमोदपीयूषसिन्धुकेलिकलाकुलम् ॥ २ ॥ ;p{0052} अग्निश्छागरथो वह्निः कृशानुः पावकः शिखी । चित्रभानुश्च दमुना धनंजयहुताशनौ ॥ ३ ॥ धूमध्वजो बृहद्भानुर्ज्वलाजिह्वस्तनूनपात् । वैश्वानरः सप्तमन्त्रो जातवेदास्तरीरपि ॥ ४ ॥ ज्वलनो जागृविर्बर्हिः कृष्णवर्त्मानलौ शुचिः । शुष्मदस्मौ तथा वीतिहोत्रानिलसखौ वसुः ॥ ५ ॥ शुक्रो विभावसुः केशश्चित्रभानुरुषर्बुधः । वृषाकपिः शमीगर्भो रोहिताश्वो विरोचनः ॥ ६ ॥ अर्चिष्मानाश्रयाशोऽपि विश्वप्सा बहुलो हरिः । तिथः कृपीटयोनिश्च तुत्थो हव्यवहः स्मृतः ॥ ७ ॥ सप्तोदर्चिरप्पित्तं च हव्यवाहाशुशुक्षणी । पचनो हिरण्यरेता बर्हिर्ज्योतिस्तमोहरः ॥ ८ ॥ अग्निप्रिया स्मृताग्नायी स्वाहापि कथिता स्मृतौ । संवर्तकः समुद्राग्निर्वडवामुखवाडवौ ॥ ९ ॥ वडवानल और्वोऽपि दवदाववनाग्नयः । इरंमदो मेघवह्निः करीषानलछागणौ ॥ १० ॥ ;p{0053} तुषवह्नौ कुकूलः स्यात्तुल्यौ संतापसंज्वरौ । बाष्पे ऊष्माप्यथो वाह्निजिह्वा कीला शिखार्चिषः ॥ ११ ॥ ज्वाला हेतिः शिखा वृद्धा झलक्का परिकीर्तिता । स्फुलिङ्गोल्कालातवह्निकणा ज्वलोल्मुके अपि ॥ १२ ॥ धूमोम्भःसूवायुवाहौ करमालोऽग्निकेतनम् । अग्निवाहस्तरीः प्रोक्तस्तथा जीमूतवाह्यपि ॥ १३ ॥ श्रीमद्गढमलाङ्गोद्भूस्तेजोवर्गमरूपयत् । वायुःसमीरणो वातो मातरिश्वा प्रभञ्जनः ॥ १४ ॥ समीरः पवनो नित्यगतिः कम्पाकमारुतौ । [30] पृषदश्वो जगत्प्राणो नभस्वाननिलो मरुत् ॥ १५ ॥ प्रकम्पनाशुगौ गन्धवहः समिर इत्यपि । नभःश्वासोऽहिकान्तोऽपि दैत्यदेवो महाबलः ॥ १६ ॥ स्पर्शनश्च हरिः प्रोक्तः पवमानसदागती । स झञ्झा वृष्टियुक् प्रोक्तः व्यानस्त्वङ्मात्रसंस्थितः ॥ १७ ॥ अपानः पृष्ठपार्ष्णिस्थ उदानो हृच्छिरोऽन्तरे । प्राणो हृन्नाभिनक्रस्थः समानो नाभिहृद्गतः ॥ १८ ॥ ;p{0054} वायुवर्गोऽयमाख्यातो विद्वदम्बुजभानुना । वनं वार्क्षं झषः कक्षः कान्तारोऽरण्यकानने ॥ १९ ॥ प्रस्तारो गहनं षण्डं दवदावावपीरितौ । सत्रं क्लीबेऽटवी स्त्री स्याद् झषः स्यात्तृणयुग्वने ॥ २० ॥ अथोपवनमाख्यातमपपूर्वं वनं स्मृतम् । आरामः कृत्रिमारण्ये गृहारामस्तु निष्कुटः ॥ २१ ॥ पौरकस्तु बहिःसत्रमाक्रीडोद्यान इत्यपि । क्षुद्रारामः पुष्पवाटी वृक्षवाटी प्रसीदिका ॥ २२ ॥ अमात्यादेर्गृहोद्याने वनं प्रमदपूर्वकम् । तरुः शाखी नगो वृक्षः पर्णी कारस्करोंऽह्रिपः ॥ २३ ॥ विटपी पादपश्चाद्रिर्द्रद्रुमौ विष्टरः कुठः । वसुर्जर्णहरी सालोऽनोकहोऽगोऽपि पुष्पदः ॥ २४ ॥ रूक्षागमौ पुलाकी च फलदो गच्छ इत्यपि । करालिकः क्षितिरुहो नन्द्यावर्तोपि कुत्रचित् ॥ २५ ॥ वृक्षावृतान्तरे कुञ्जो निकुञ्जकुडङ्गावपि । वृक्षस्तु फलवान्पुष्पैर्वानस्पत्यो विना फलैः ॥ २६ ॥ ;p{0055} वनस्पतिः फलवांस्तु विशेषः फलजन्मतः । फलेग्रहिः फलवान्ध्यः फलिनः फलवान्फली ॥ २७ ॥ अवकेशी फलैर्वन्ध्य ओषधिश्चौषधिः समे । फलपाकावसानाथ शाखो ह्रस्वशिफः क्षुपः ॥ २८ ॥ व्रततिः प्रततिस्तुल्ये लता वल्ली स्त्रियामुभे । लतायां तु प्रतानिन्यां गुल्मिन्युलपवीरुधः ॥ २९ ॥ प्ररोहोऽङ्कुराङ्कूरावृक्तो रोहस्तु[31] पर्वणः । शिखाशाखालतास्तुल्याः साला स्कन्धस्य शाखिका ॥ ३० ॥ शालापि कथिता तत्र प्रकाण्डं स्कन्धमस्तके । गण्डिः शाखावधिर्मूलात्प्रकाण्डोऽथ शिफाजटे ॥ ३१ ॥ गुल्मस्तु विटपः स्तम्बः प्रकाण्डरहितो मतः । छल्ली वल्कं वल्कलं च त्वचि चोचमपि स्मृतम् ॥ ३२ ॥ सारो मज्जा पुमान्स्थाणुः शङ्कुर्ध्रुवक इत्यपि । अंह्रिर्बुध्नः पुमान्मूले शिखरेऽग्रं शिरोऽपि च ॥ ३३ ॥ ;p{0056} काष्ठं तु दलिकं दारु मञ्जरिर्वल्लरिः समे । पर्णं बर्हं पलाशं च दलं पत्रं छदं पुनः ॥ ३४ ॥ छदनं च नवे तस्मिन्कशलं पल्लवोऽपि च । तथा किसलयं तत्र प्रवालः कोशिकास्य तु ॥ ३५ ॥ माढिर्दलस्था शुङ्गा विस्तारे विटपः पुमान् । पुष्पं मणीवकं सूनं प्रसवः कुसुमं समम् ॥ ३६ ॥ प्रसूनं सुमनःशब्दो भूम्नि चैव मतः स्त्रियाम् । जालकक्षारकौ पुंसिः कोरकः कलिका स्त्रियाम् ॥ ३७ ॥ मुकुलं कुड्मलं ज्ञेयं गुलुञ्छो गुच्छगुत्सकौ । स्तबकोऽथ रजः पौष्पं परागोऽप्यथ तद्रसः ॥ ३८ ॥ मरन्दमकरन्दौ तु मधु प्रसवबन्धने । वृन्तं च विकचं फुल्लं स्मितं व्याकोशमित्यपि ॥ ३९ ॥ प्रबुद्धं दलितोज्जृम्भे प्रफुल्लोन्मिषिते पुनः । स्फटं चोच्छ्वासितं स्मेरं विनिद्रहसिते अपि ॥ ४० ॥ मुद्रितं मीलितं सङ्कुचितं निद्राणमिष्यते । फलं सस्यं तत्र शुष्के वानशब्दो विभाव्यते ॥ ४१ ॥ ;p{0057} आमं शलाट्वथ ग्रन्थिः शिम्बिः शिम्बा शमिः परुः । बीजकोशीपर्वणी च पिप्पलो बोधिपादपः ॥ ४२ ॥ कृष्णवासस्तथाश्वत्थः श्रीवृक्षः कुञ्जराशनः । जटी प्लक्षः पर्कटी च न्यग्रोधो बहुपात्पुनः ॥ ४३ ॥ वटश्चाथोम्बरो जन्तुफलश्चाम्रे रसालकः । चूतातिसौ [32] रमौ तुल्यौ कामाङ्गः कोकिलप्रियः ॥ ४४ ॥ सहकारोऽपि माकन्द पलाशः किंशुकः पुनः । त्रिपत्रो ब्रह्मवृक्षोऽसौ मोचा रभ्भा कदल्यथ ॥ ४५ ॥ सप्तपर्णस्त्वयुक्पत्रे गुडूच्यमृतवल्लिका । छिन्ना छिन्नोद्भवा छिन्नरुहा वत्सादनीत्यपि ॥ ४६ ॥ पटोलः पाण्डुरः पाण्डुफलो राजीफलश्च सः । हरिद्रा रजनी पीता पीतिका रञ्जनी च सा ॥ ४७ ॥ हलिनी च जयन्ती तु तथा वर्णविलासिनी । शुण्ठी विश्वा नागरं तु विश्वभेषजनामकम् ॥ ४८ ॥ मञ्जिष्ठा तु जिगी वर्णदा शोषघ्नी प्रता परा । मासकस्ताम्रमूली च दुरालम्भा च कच्छुरी ॥ ४९ ॥ ;p{0058} खदिरो रक्तसारः स्यात्सोमवल्कस्तु कामुकः । अथ दारुहरिद्रा च हेमकान्ता निगद्यते ॥ ५० ॥ करवीरो हयमारो बदर्यां कुवली स्मृता । कर्कन्धुः कोलिरप्यत्र वेतसो वञ्जुलो रथः ॥ ५१ ॥ वानीरः शीतविदुलौ पिचुलो झाबकः समौ । नीपः कदम्ब आख्यातः ककुभे त्वर्जुनो मतः ॥ ५२ ॥ कङ्केल्लिस्तु तथाशोकः केसरो बकुलः समौ । दाडिमे करकः पुंसि ------------------------ ॥ ५३ ॥ किंपाकस्तु महाकालो मधुष्ठीलो मधूलकः । पियालस्तु प्रियालः स्यात्तथा राजादानोऽपि सः ॥ ५४ ॥ नागरङ्गे तु नारङ्गस्तिन्तिडी चाम्लिका मता । अरिष्टः फेनिलस्तुल्यौ तिनिशे च रथद्रुमः ॥ ५५ ॥ निम्बो नेता तथारिष्टः सर्वतोभद्रतिक्तकौ । प्रभद्रः पिचुमन्दोऽपि कथितः प्रियभद्रकः ॥ ५६ ॥ यासो यवासकः प्रोक्तो बालपत्रो मरुद्भवः । वृषाटरूपकौ वासा वासकः सिंहपर्ण्यपि ॥ ५७ ॥ ;p{0059} किराते चाथ भूनिम्बो रामसेनक[33]तिक्तकौ । कटुकी रोहिणी तिक्ता चक्राङ्गी कटुरोहिणी ॥ ५८ ॥ मुस्तं मेघो वराहोऽब्दो नादेयो नागरः पृथक् । पर्पटस्तु रजो रेणुः कवचो ब्रह्मसण्टकः ॥ ५९ ॥ ह्रीवेरं वालकं तोयं सटी प्रोक्ता पलाशिनी । पुष्कराह्वं पुष्करं तु काश्मीरं पद्मपत्रकम् ॥ ६० ॥ देवकाष्ठं देवदारु शक्रदारु सुदारु च । कण्टालिका तु दुःस्पर्शा व्याघ्री निर्दग्धिका च सा ॥ ६१ ॥ क्षुद्रा तथा कण्टकिनी कण्टकारीत्यपि स्मृता । श्वदंष्ट्रो व्यालदंष्ट्रोऽपि गोक्षुरश्च त्रिकण्टकः ॥ ६२ ॥ बिल्वो लक्ष्मीफलो गन्धागर्भः स्याद्भूतमारुतः । अग्निमन्थोऽरणिर्ज्ञेयः शिलाभेदोऽश्मभेदकः ॥ ६३ ॥ भूतघ्नी राक्षसी गौरी सुरसा देवदुन्दुभिः । वाकुची सोमवल्ली तु मदनः करघाटकः ॥ ६४ ॥ ;p{0060} कपिकच्छूर्लाङ्गली तु स्वयंगुप्ता जहर्षभी । आत्मगुप्ता मर्कटी च तुम्ब्यलाबूश्च कथ्यते ॥ ६५ ॥ जीमूतको देवदाली पीतपुष्पा निगद्यते । आवर्तकी चर्मरङ्गा मेषशृङ्गी तु वर्तिका ॥ ६६ ॥ पीलुपर्णी रक्तफला गोल्ही बिम्बी च कथ्यते । हरीतक्यभया पथ्या कायस्था पूतनामृता ॥ ६७ ॥ वयःस्थामलकी धात्रीफलं श्रीफलसंज्ञकम् । हार्यः कलिद्रुमो भूतत्रासोऽक्षश्च बिभीतकः ॥ ६८ ॥ कृतमालो दीर्घफलः स्मृत आरग्वधोऽपि सः । चम्पकस्तु हेमपुष्पो जपा जाता समे उभे ॥ ६९ ॥ सिन्दुवारे च निर्गुण्डी वासन्ती माध[34]वी लता । मल्लिका मालती तुल्ये यूथिका मागधी स्मृता ॥ ७० ॥ यूथिका पीतपुष्पा तु कथिता हेमपुष्पिका । प्रियङ्गुः फलिनी श्यामा ------------------------ ॥ ७१ ॥ ;p{0061} निबूकं निबुकं चान्यद्राजशब्दादिपूर्वकम् । जम्भीरो जम्भलो जम्भो जम्बीरो देश्यसंग्रहे ॥ ७२ ॥ मातुलिङ्गो मातुलुङ्गो बीजपूरे तु कथ्यते । -------------------- करीरे क्रकरो मतः ॥ ७३ ॥ बन्धुजीवकबन्धूकौ एरण्डे तु तथेक्ष्यताम् । पञ्चाङ्गुलो धातकी तु धातुपुष्पी निगद्यते ॥ ७४ ॥ धत्तूरः कनकः प्रोक्तः केतकः क्रकचच्छदः । कपित्थस्तु दधिफलो वेणुर्वंशस्तृणध्वजः ॥ ७५ ॥ त्वचिसारो यवफलः शतपर्वा तु मस्करः । सच्छिद्रः कीचकः प्रोक्तो लाङ्गली नालिकेरकः ॥ ७६ ॥ गूवाकक्रमुकौ पूग उद्वेगं तत्फलं स्मृतम् । वंशक्षीरी तुकाक्षीरी त्वक्क्षीरी वंशरोचना ॥ ७७ ॥ यावन्ति नागनामानि ततो वल्ली नियोज्यते । ताम्बूली च तथा प्रोक्ता स्मृता ताम्बूलवल्यसौ ॥ ७८ ॥ ;p{0062} गुञ्जा तु कृष्णला तुल्ये विशाला चेन्द्रवारुणी । हारहूरा तु मृद्वीका गोस्तनी द्राक्षया सह ॥ ७९ ॥ उशीरं वीरुणीमूले कमलं नलिनं कजम् । पुण्डरीकं च --------पुष्करं पङ्कजं समे ॥ ८० ॥ राजीवमरविन्दं तु पुण्डरीकं सिताम्बुजम् । रक्तोत्पलं तु रक्ताब्जं तत्स्यात्कोकनदं पुनः ॥ ८१ ॥ उत्पलं च कुवलयं कुवेलं कुवलं कुवम् । कमलिन्यां तु नलिनी पङ्कजिन्यपि दृश्यते ॥ ८२ ॥ मृणालिनी कुमुद्वत्यामथ कैरविणी स्मृता । इन्दीवरं नीलपद्मे श्वेते च कुमुदं समम् ॥ ८३ ॥ कैरवं गर्दभाख्यं च पद्मनाले च कर्णिका । वराटको बी[35]जकोशो मृणाले बिसतन्तुले ॥ ८४ ॥ केसरे त्वथ किञ्जल्के करहाटः शिफा मता । उत्पलानां तु कन्दे स्याच्छालूकं चाथ शेवले ॥ ८५ ॥ शेपालं तु शेवालं शैवालं जलनीलिका । सस्यसीत्ये समे धान्यं व्रीहिस्तम्बकरी समे ॥ ८६ ॥ षष्टिको गर्भपाकी च पाटलस्त्वाशुरुच्यते । कलामकस्तु कलमो रक्तशालिस्तु लोहिते ॥ ८७ ॥ ;p{0063} सौगन्धिको महाशालिर्भेदाः शालेस्तु भूरयः । हयप्रियस्तीक्ष्णशूको यवस्तोक्मो हरिन्मतः ॥ ८८ ॥ मङ्गल्यको मसूरस्तु मयुष्टकमकुष्टकौ । वनव्रीहौ तु नीवारः श्यामाकः श्यामकोऽपि च ॥ ८९ ॥ सतीनककलायौ तु चणको हरिमन्थकः । बलाटः प्रथनो लोभ्यो मुद्गस्तु हरितो हरिः ॥ ९० ॥ बली बीजवरो माषः गोधूमसुमनौ [समौ ?] । शितिशिम्बिकवल्लौ तु कालवृन्तं कुलत्थकः ॥ ९१ ॥ कङ्गुक्वङ्गू कङ्गुनी च सर्षपस्तन्तुभो मतः । कदम्बकः स च श्वेतः सिद्धार्थः कथितो बुधैः ॥ ९२ ॥ सस्यशूकं तु किंशारुः कणिशं धान्यमस्तके । स्नुहिर्वज्री महावृक्षो कम्पिल्लो रक्तचूर्णकः ॥ ९३ ॥ भिण्डी रक्ता त्रिभण्डी च त्रायन्ती त्रायमाणकम् । गन्धपुष्पस्ताम्रफलोऽप्यङ्कोठो दीर्घकीलकः ॥ ९४ ॥ ;p{0064} तुरगी वराहकर्णी च बल्या स्यादश्वगन्धिका । पुनर्नवा कटिल्लः स्यात्सैरेयकसहाचरौ ॥ ९५ ॥ सोफका सितिपुष्पाची अहिच्छिन्ना शिका मिसिः । नालपत्री तालपर्णी मिश्रे या च मिसिस्तथा ॥ ९६ ॥ उग्रगन्धा वचा प्रोक्ता जटिलोग्रा च लोमशा । जन्तुहन्त्री वि[36]डङ्गः स्यात्कुटजो गिरिमल्लिका ॥ ९७ ॥ शुक्राह्वेन्द्रयवा प्रोक्ता वराङ्गं त्वचमुच्यते । तमालपत्रकं पत्रं वाह्लीकं हिङ्गु रामठम् ॥ ९८ ॥ सूक्ष्मैला बहुला तुत्था द्रविडी त्रुटिरित्यपि । चाम्पेयं नागपुष्पं तु केसरं नागकेसरम् ॥ ९९ ॥ कुस्तुम्बरु तु धान्याकं धन्याकं धन्यया सह । क्षवः क्षुताभिजननो राजसर्षपराजिके ॥ १०० ॥ कृष्णा सा चासुरी प्रोक्ता मरिचं कोल्लकोषणे । वेल्लजं यवनेष्टं च कृष्णं स्याद्धार्मपत्तनम् ॥ १०१ ॥ मागधी पिप्पली कृष्णा कणा स्यादुपकुल्यया । वैदेही पिप्पलीमूले ग्रन्थिकं कथितं बुधैः ॥ १०२ ॥ ;p{0065} कणाजाजी जीरकश्च चविका कोलवल्ल्यपि । चव्यं च चविकं प्रोक्तं श्रेयसी गजपिप्पली ॥ १०३ ॥ रसाम्लः शीतभेदी च भीमश्चाप्याम्लवेतसः । अजमोदा खराह्वा च कारवी लोमकर्कटी ॥ १०४ ॥ मातुलानी शणं भङ्गा उमा स्यादतसी क्षुमा । गवेधुकागवेधू च जर्तिकोऽरण्यजे तिले ॥ १०५ ॥ अरिष्टो लसुनो म्लेच्छकन्दश्चापि रसोनकः । महौषधं महाकन्दो दीर्घपत्रः पृथक्पुनः ॥ १०६ ॥ गृञ्जनश्चाप्याथ भृङ्गराजः स्यात्केशरञ्जनः । मार्कवश्च भृङ्गरजो वायसी काकमाच्यपि ॥ १०७ ॥ कूष्माण्डककर्कारू कारवेल्लकटिल्लकौ । सूरणः कथितोऽर्शोघ्न आर्द्रकं शृङ्गबेरके ॥ १०८ ॥ कर्कटी चिर्भटी तुल्ये वालुङ्की तु तथा स्मृता । सुगन्धकः किलासघ्नः कर्कोटस्तिक्तपत्रकः ॥ १०९ ॥ ;p{0066} सेकिमं हरिपर्णं तु मूलकं हस्तिदन्तकम् । कुशो बर्हिः पवित्रं च कुथदर्भावुभौ समौ ॥ ११० ॥ तेजनो मुञ्जगुन्द्रौ च दूर्वा स्याच्छतपर्विका । हरिताली रुहानन्ता नडपोटगलौ समौ ॥ १११ ॥ धमनः कुरुविन्दोऽपि मुद्रा गुद्रा तथोच्यते । असिपत्रस्तथेक्षुः स्याद्रसालस्तद्भिदा यथा ॥ ११२ ॥ पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् । इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥ घासोऽथ -----------विषः क्ष्वेडो हलाहलः । कालकूटं वत्सनागो ब्रह्मपुत्रोऽपि दारदः ॥ ११४ ॥ प्रदीपनश्च काकोलः सौल्किकेयस्तथापरः । सौराष्ट्रिकोऽप्यहिच्छत्रो मर्कटो मेषशृङ्गकः ॥ ११५ ॥ तथा हैमवतेन्द्रौ च सर्षपो मूलकोऽपरः । कालिङ्गो विस्फुलिङ्गोऽपि गौतमोऽप्येष विश्रुतः ॥ ११६ ॥ सक्तुकः कर्दमोऽङ्कोल्लसारोऽपि मधुसिक्थकः । अग्रबीजास्तत्र केचिन्मूलबीजास्तथापरे ॥ ११७ ॥ ;p{0067} सल्लकीप्रमुखाः स्कन्धजास्तु बीजरुहा मताः । संमूर्च्छजास्तथा केचित्पर्वयोनय इत्यपि ॥ ११८ ॥ एवं षड्भिदः सर्वस्तरुवर्गो निवेदितः । कृमिरन्तर्जनिर्जीवो नीलङ्गुस्तु बहिर्भवः ॥ ११९ ॥ क्षुद्रकीटस्तथा तुल्यः पुलकास्तूभये मताः । काष्ठकीटघुणौ तुल्यौ कुसूकिंचुलकौ समौ ॥ १२० ॥ अस्नपा तु जलौका स्याज्जलालोका जलौकसः । जलौकास्तु तथा तुल्या कथिता जलसर्पिणी ॥ १२१ ॥ शुक्तिः स्यादब्धिमण्डूकी मुक्तास्फोटोऽपि कथ्यते । वारिजः कम्बुशङ्खौ तु त्रिरेखः षोडशभ्रमः ॥ १२२ ॥ क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलमात्रजाः । कपर्दस्तु वराटः स्यात्पणास्थिकवराटकाः ॥ १२३ ॥ दीर्घकोशा तु दुर्नामा पीलकोऽपि पिपीलकः । हीनाङ्गी ब्राह्मणी स्थूलशीर्षिकाथ पिपीलका ॥ १२४ ॥ घृ[38]तेली पिङ्गकपिशा उपजिह्वापदेहिका । रिक्षा लिक्षा समे यूका महाभीरुस्तु षट्पदी ॥ १२५ ॥ ;p{0068} गोपालिकापि कथिता गर्दभी गोमयोद्भवा । कोलकुणमत्कुणौ तु वैराटस्तितिभाग्निकौ ॥ १२६ ॥ अग्निरजश्चेन्द्रगोपस्तन्तुवायोर्णनाभकौ । लूता कृमिर्मर्कटको लालास्रावोऽपि कथ्यते ॥ १२७ ॥ अष्टपाच्च तथा प्रोक्तो जालकारकजालिकौ । कर्णकीटा शतपदी तथा कर्णजलौलिका ॥ १२८ ॥ वृश्चिकाली द्रुणोऽपिस्यादलं तत्पुच्छकण्टकः । भ्रमरश्चञ्चरीकोऽली रोलम्बो मधुकृत्पुनः ॥ १२९ ॥ शिलीमुखद्विरेफौ तु षडङ्ध्रि[ङ्घ्रिः]र्भृङ्ग इत्यपि । इन्दिन्दिरोऽस्य भोज्यं तु मधुपुष्पे स्मृते पुनः ॥ १३० ॥ पतंगः शलभो द्योतिरिङ्गणश्च निगद्यते । खद्योतोऽथ स्मृता क्षुद्रा सरघा मधुमक्षिका ॥ १३१ ॥ नीला तु वर्वणा पुत्तिकाथवा तु पतङ्गिका । तैलाटी वरटी दंशो दंशी चीरी तु चीरिका ॥ १३२ ॥ झिल्लीका झिल्लिका भृङ्गारिका वर्षकरी पुनः । हस्ती मतङ्गजो नागो मातङ्गो वारणः करी ॥ १३३ ॥ ;p{0069} गजो द्विपस्तथेभोऽसौ कुम्भिकुञ्जरपीलवः । करटी सिन्धुरो दन्ती दन्तावलमहामृगौ ॥ १३४ ॥ द्विरदोऽनेकपाः स्तम्बेरमः सामज इत्यपि । करेणुर्हस्तिनी धेनुका वशापि निगद्यते ॥ १३५ ॥ मिश्रो मन्दो मृगो भद्रश्चतुर्धा गज उच्यते । बालः स्यात्पञ्चवर्षोऽसौ स्यात्पोतो दशहायनः ॥ १३६ ॥ विंशत्यब्दगजो विक्कः कलभस्त्रिंशदब्दकः । प्रभिन्नो गर्जितो मत्तो यूथनाथोऽथ यूथपः ॥ १३७ ॥ उद्वान्तनिर्मदौ तुल्यौ कल्पितः सज्जितः समौ । व्यालो दुष्टगजः प्रोक्तः संनाह्यो रणसज्जितः ॥ १३८ ॥ घटा स्याद्धस्तिनां श्रेणी मदो दानं निगद्यते । प्रवृत्तिरथ शुण्डायाः शीकरो वमथुर्मतः ॥ १३९ ॥ [39] शुण्डा हस्तः करो हस्तिनासा स्यादथ पुष्करम् । शुण्डाग्रं चाथ दन्तौ तु विषाणो स्कन्ध आसने ॥ १४० ॥ चूलिका कर्णमूलं स्यादक्षिकूटमथेषिका । करटोऽथ गजगल्लोऽवग्रस्त्वलिकं मतम् ॥ १४१ ॥ समानौ शिरसः पिण्डौ कुम्भौ तत्रान्तरं विदुः । वातकुम्भः पुच्छमूले पेचकः कथितो बुधैः ॥ १४२ ॥ ;p{0070} शृङ्खलः पादपाशस्तु हिञ्जीरनिगडान्दुकाः । वारिस्तु गजबन्धस्य भूमिः स्यात्त्रिपदी त्वथ ॥ १४३ ॥ गात्रयोर्बन्ध इत्येवं वैणुकं तोत्रमुच्यते । बन्धस्तम्भस्तथालानमङ्कुशः सृणिरित्यपि ॥ १४४ ॥ अङ्कुशाग्रमपष्ठं स्यात्यातमङ्कुशवारणम् । दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकः ॥ १४५ ॥ तुरगो घोटको वाजी तुरंगोऽर्वा तुरंगमः । हयस्तार्क्ष्यो हरिः सप्तिवीती गन्धर्वनामकः ॥ १४६ ॥ वामी तु वडवा त्वश्वा किशोरो बालको हयः । जवनस्तु जवोत्कृष्टो रथ्योऽश्वो रथवाहकः ॥ १४७ ॥ आजानेयः कुलीनस्तु सैन्धवः सिन्धुदेशजः । पारसीकास्तु वानायुजाः काम्बोजा अथ वाह्लिकाः ॥ १४८ ॥ साधुवाही विनीतोऽश्वः शूकलो विनयोज्झितः । कशार्हः कश्य इत्युक्तं कोकाहः सितवाजिनी ॥ १४९ ॥ आनीलो नीलवर्णोऽर्वा त्रियूहः कपिलो हयः । पीतस्तु हरियो वाजी कियाहो लोहितो हयः ॥ १५० ॥ ;p{0071} पाण्डुकेशरपुच्छस्तु वोल्लाहः कथितो बुधैः । मनाक्पाण्डुरुराहाऽश्वः कृष्णजङ्घो यदा भवेत् ॥ १५१ ॥ पीतः स्यात्तु कुलाहोऽर्वा कृष्णजानुर्यदा हयः । उकनाहस्तथा पीतरक्तच्छायो यदा भवेत् ॥ १५२ ॥ हृत्पृष्ठखुरपुच्छेषु पुष्पितः पञ्चभद्रकः । कृष्णरक्तच्छविः शोणः स च कोकनदच्छविः ॥ १५३ ॥ खुरोरःकेशपुच्छास्यैर्वलक्षैरष्टमङ्गलः । सितकाचरुचिर्वाजी पङ्गुलः कथितस्तथा ॥ १५४ ॥ चित्रितस्तु हलाहोऽश्वो हरिको हालकः पुनः । अश्वः स्यात्पीतहरितच्छायो ययुरथा[40]परः ॥ १५५ ॥ अश्वमेधीय इत्येवं विशेषास्तुरगस्य हि । अश्वस्य नासिका प्रोथं मध्यं कश्यं निगद्यते ॥ १५६ ॥ गलोद्देशो निगालः स्यात्खुरा अश्वशफा मताः । लाङ्गूलमथ पुच्छं स्याद्वालहस्तोऽपि वालधिः ॥ १५७ ॥ अपावृत्तपरावृत्तलुठितानि तु वेल्लिते । धोरितं वल्गितं प्लुत्पुत्तेजितोत्तरितानि च ॥ १५८ ॥ गतयः पञ्च धाराख्या वाजिनां कथिता इमाः । दिनेनैकेन यो गम्योऽध्वाश्वीनोऽश्वेन कथ्यते ॥ १५९ ॥ ;p{0072} मुखयन्त्रणमश्वस्य कवियं कविका कवी । खलीनं पादपाशेऽथ दामाञ्जनमितीक्षितम् ॥ १६० ॥ प्रखरः प्रक्षरं चर्मदण्डे चाथ कशा स्मृता । कुशावक्षेपणी वल्गा पर्याणं पल्ययन्यपि ॥ १६१ ॥ अथ वेगसरो वेसरस्तथाश्वतरः स्मृतः । क्रमेलकः कुलनाशः शलो भोलिर्महाङ्गकः ॥ १६२ ॥ वासन्तो द्विककुद्दुर्गलङ्घनो मय इत्यपि । दासेरोष्ट्रौ केलिकीर्णो रवणो दीर्घकन्धरः ॥ १६३ ॥ मरुत्प्रियः कण्टकाशी त्रिवर्षः करभस्त्वसौ । स तु शृङ्खलकः काष्टमयैः स्यात्पादबन्धनैः ॥ १६४ ॥ गर्दभः शङ्कुकर्णश्च चक्रीवान् चिरमेह्यपि । खररासभवालेया वृषे तु वृषभर्षभौ ॥ १६५ ॥ अनङ्वान्वाडवेयोऽपि उक्षा शक्करशाक्करौ । सौरभेयः ककुद्मांश्च भद्रो गौः शाङ्करस्तथा ॥ १६६ ॥ बलीवर्दोऽथ जातोक्षे उक्षा स्यात्स्कन्धिकस्तथा । अथोक्षतरमहोक्षौ वृद्धोक्षतु जरद्गवे ॥ १६७ ॥ ;p{0073} नस्योतो नस्तितस्तुल्यौ कूटो भग्नविषाणकः । इड्वरो गोपतिः षण्डो मदकोहलगोवृषौ ॥ १६८ ॥ आर्षभ्यः षण्ढतायोग्यस्तर्णो वत्सः शकृत्करिः । दम्यवत्सतरौ पुंसि पृष्ठवाड् युगपार्श्वगः ॥ १६९ ॥ युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः । स तु सर्वधुरीणः स्यात्सर्वां वहति यो धुरम् ॥ १७० ॥ एकधुरीणैकधुरावुभावेकधुरावहे । धुरीणधुर्यधौरेयधौरेयकधुरंधराः ॥ १७१ ॥ धूर्वहे वृषभे चैते शब्दा उक्ता यथार्थतः । [41]गलिर्दुष्टो वृषः प्रोक्तो द्विदन्षोडन्द्विषड्रदौ ॥ १७२ ॥ स्कन्धो वहस्तस्य कूटं नैचिकं ककुदं शिरः । गलकम्बलसास्ने तु विषाणं शृङ्गकूणिके ॥ १७३ ॥ सुरभिः सौरभेयी तु माहेयी गौस्तथार्जुनी । निलिम्पा शृङ्गिणी चोषानङ्वाह्यनडुही समा ॥ १७४ ॥ तम्बा तम्पा रोहिणी च वर्णैर्भेदा ह्यनेकशः । प्रष्ठौही गर्भिणी वन्ध्या वशा वेहद्वृषोपगा ॥ १७५ ॥ स्रवद्गर्भावतोका स्यात्सन्धिनी तु वृषावृता । नवप्रसूतिका धेनुः परेष्टुः स्याद्बहुप्रसूः ॥ १७६ ॥ ;p{0074} सकृत्प्रसूतिका गृष्टी सुव्रता सुखदोह्यया । करटा दुःखदोह्या च वञ्जुला बहुदुग्धदा ॥ १७७ ॥ द्रोणदुग्धा द्रोणदुघा पीनोघ्नी पीवरस्तनी । धेनुष्या पीतदुग्धाथ वत्सला वत्सकामिका ॥ १७८ ॥ ------------------------- आपीनं तूधसा सह । गोमयं भूमिलेपोऽथ गोग्रन्थिः शुष्कगोमये ॥ १७९ ॥ करीषच्छगणे तुल्ये व्रजो गोकुलगोधने । छगच्छागावजो बस्तश्छगलश्च स्तभः पशुः ॥ १८० ॥ छागिका सर्वभक्ष्या स्यादजा [मञ्जा ?] गलस्तनी । वर्करस्तरुणश्छागो हुडावी मेषस्तूरणः ॥ १८१ ॥ ऊर्णायुरुरभ्रश्च[श्चापि?] वृष्णिरेडकरोमशौ । मेण्ढकः शृङ्गिणो भेडो हुडुः संफाल इत्यपि ॥ १८२ ॥ मेषी जालकिनी चैव रुजा च कुररी समा । कुर्कुरः सारमेयोऽस्थिभुक्कौलेयः पुनः शुनः ? ॥ १८३ ॥ श्वानः शालावृको रात्रिजागरो भषणस्तथा । मृगदंशशुनी वक्रवालधिः श्वा स रोगवान् ॥ १८४ ॥ ;p{0075} अलर्को रोगवान् श्वानो मृगव्ये कुशलो मतः । विश्वकद्रुः पुना रोगी शुनी तु सरमा मता ॥ १८५ ॥ लुलायुर्महिषो वाहरिपुः सैरिभ एव च । धीरस्कन्धो महः कृष्णशृङ्गश्च यमवाहनः ॥ १८६ ॥ रजस्वलजरन्तौ च रक्ताक्षो दंशभीरुकः । महीषेऽरण्यजे चास्मन्गवलोऽपि विभाव्यते ॥ १८७ ॥ [42] सिंहः पञ्चाननः श्वेतपिङ्गः कण्ठीरवो हरिः । महानादस्तथेभारिः पारीन्द्रो नखरायुधः ॥ १८८ ॥ मृगारिः केसरी चापि मृगात्पतिरपीक्ष्यते । हर्यक्षो व्याघ्र इत्येवं द्वीपिशार्दूलचित्रकाः ॥ १८९ ॥ चित्रदेहः पुण्डरीकः --------------------- । मृगादनस्तरक्षुः स्याद्विशेषश्चित्रकस्य सः ॥ १९० ॥ -----------------------अष्टपाच्छरभो मतः । उत्पादकः कुञ्जरारिर्गोसदृग्गवयः स्मृतः ॥ १९१ ॥ स्मृतो वनगवश्चाश्ववारणोऽप्यथ गण्डकः । वाध्रीणसः खड्गिखड्गौ भूदारः कोलसूकरौ ॥ १९२ ॥ ;p{0076} क्रोडः किरः किरिः पोत्री घृष्टिर्दंष्ट्री बहुप्रजः । स्तब्धरोमा तथा घोणी स्थूलनासो वराहकः ॥ १९३ ॥ शूकरो विड्वरो ग्राम्यो गर्ताशूकर इत्यपि । भालूकर्क्षाच्छभल्लूकभल्लभाल्लूकभल्लुकाः ॥ १९४ ॥ शृगालो घोरवासी च गोमायुः शिवफेरघौ । फेरण्डो हूरवः क्रोष्टा जम्बुको मृगधूर्तकः ॥ १९५ ॥ भरुजः फेरुरप्येवं भूरिमायोऽपि कथ्यते । ईहामृगो वृकः कोको वानरः प्लवगः पुनः ॥ १९६ ॥ शाखामृगो वनौकाश्चारण्यश्वा हरिकीशकौ । प्लवङ्गः श्यामवक्त्रोऽसौ गोलाङ्गूलो विभाव्यते ॥ १९७ ॥ कुरङ्गमृगसारङ्गा वातायुहरिणावपि । तद्भेदा रङ्कुगोकर्णन्यङ्कुचीनादयो मताः ॥ १९८ ॥ वाताप्रमीरोहितौ च कन्दली सार इत्यपि । इत्यादयोऽपरे भेदाः स्वयं ज्ञेया मनीषिभिः ॥ १९९ ॥ शशको लोमकर्णोऽपि मृदुलोमकशूलिकौ । पल्ली तु भित्तिका माणिक्या स्मृता गृहगोलिका ॥ २०० ॥ ;p{0077} गृहोलिका कुड्यमीनो हालिन्यथाञ्जनाधिका । ब्राह्मणी रक्तपुच्छा सा सरटे कृकलासकः ॥ २०१ ॥ उन्दरः खनको वज्रदशनो मूषिकस्तथा । आखून्दुरू समौ प्रोक्तौ मूषको वृषलोचनः ॥ २०२ ॥ गन्धमूष्या दिवान्धा च वज्रतुण्डा छुछुन्दरी । [43] गिरिका बालमूष्या स्याद्विशेषोऽयं निरीक्ष्यताम् ॥ २०३ ॥ बिडालोतू तथा ह्रीकुर्मार्जारो वृषदंशकः । मण्डली जाहको गात्रसंकोची नकुलः पुनः ॥ २०४ ॥ सर्पहा पिङ्गलो बभ्रुः सर्पो भोगी भुजंगमः । द्विजिह्वो दीर्घजीह्वोऽहिः पृदाकुः पवनाशनः ॥ २०५ ॥ दन्दशूकोरगौ व्यालः पन्नगः फणिना सह । सरीसृपो विषधरः कुण्डली च बिलेशयः ॥ २०६ ॥ दर्वीकरो गूढपदो लेलिहानोऽपि कथ्यते । भुजंगो भुजगो भोगो दीर्घपृष्ठोऽपि कञ्चुकी ॥ २०७ ॥ ;p{0078} राजसर्पो भुजंगाशी शयुः पारीन्द्रवाहसौ । मण्डल्यजगरौ तुल्यौ अलगर्दो जलोद्भवः ॥ २०८ ॥ राजिलो दुन्दुभस्तुच्छसर्पो गोनासगोनसौ । तिलित्सो घोणसोऽप्यत्र भेदाः सर्पस्य भूरयः ॥ २०९ ॥ कुर्कटाहिः [कुर्कुटाभो?] रुतवर्णसमो हि यः । सामान्येन समे नागाः काद्रवेया उदीरिताः ॥ २१० ॥ भोगावती पुरी तेषां शेषोऽनन्तस्त्वथालुकः । द्विसहस्राक्ष इत्येवं तथा नागाधिपश्च सः ॥ २११ ॥ स च श्वेतस्तथा श्यामवर्णः शुभ्रकजाङ्कतः । सर्पराजो वासुकिस्तु शुभ्रो नीलाब्जलक्ष्मवान् ॥ २१२ ॥ लोहिताङ्गस्तक्षकः स्यान्मस्तके स्वस्तिकाङ्कवान् । इत्यदयोऽपरे भेदा गौडपण्डितभाषिताः ॥ २१३ ॥ भोगोऽहिदेहो दंष्ट्राशीर्भोगो दर्वी फटः स्फटः । फणा स्त्रीपुंसलिङ्गे स्यात्फटाशब्दः स्त्रियामपि ॥ २१४ ॥ निर्मोककञ्चुकौ सर्पकोशे निर्ल्वयनीत्यपि । मुक्तनिर्मोकनिर्मुक्तौ सविषा निर्विषास्तथा ॥ २१५ ॥ ;p{0079} केचित्सर्पा दृष्टिविषा भेदा ज्ञेया धिया स्वयम् । इति श्रीपरमान्दः सर्पवर्गमभाषत ॥ २१६ ॥ कृत्रिमं च विषं चारं गरश्चोपविषं च तत् । विहंगो विहगः पक्षी पतगो विहायाः? खगः ॥ २१७ ॥ शकुन्तिः शकुनिः [44] पत्ररथो द्विजविहंगमौ । विष्किरो विर्वयः पित्सन्नीडजश्चाण्डजः स्मृतः ॥ २१८ ॥ शकुन्तशकुनौ तुल्यौ चञ्चूस्त्रोटिः सृपाटिका । पक्षः पत्रं पतत्रं च वाजः पिच्छं तनूरुहम् ॥ २१९ ॥ गरुच्छदस्तस्य मूले पक्षतिः स्मर्यते स्त्रियाम् । प्रडीनोड्डीनसंडीनडयनानि नभोगतौ ॥ २२० ॥ कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः । मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥ नीलकण्ठः शिखी बर्ही शुक्लापाङ्गोऽस्य वाक्पुनः । केका बर्हं तु पिच्छे स्यात्प्रचलाककलापकौ ॥ २२२ ॥ ;p{0080} मेचकश्चन्द्रकस्तुल्यौ कोकिलो वनवल्लभः । काकपुष्टः पिककः कालकण्ठस्ताम्राक्ष इत्यपि ॥ २२३ ॥ चिरजीवी द्विकः काक आत्मघोषः सकृत्प्रजः । अरिष्टः करटो घूकारातिर्ध्वाङ्क्षोऽन्यभृत्पुनः ॥ २२४ ॥ वायसो मौकुलिश्चैकदृग्वृद्धो द्रोण उच्यते । जलकाकस्तथा मद्गुर्घूकः कौशिकपेचकौ ॥ २२५ ॥ निशाटश्च दिवान्धोऽसावुलूकः काकशात्रवः । ताम्रचूडो निशावेदी कुर्कुटश्चरणायुधः ॥ २२६ ॥ विवृताक्षः कुकवाकुर्हंसा मानससंश्रयाः । सितपक्षाश्च चक्राङ्गा विशेषास्तत्र केचन ॥ २२७ ॥ राजहंसास्तु ते चञ्चुपादैः स्युर्लोहितैश्च ये । मलिनैर्मल्लिकाक्षास्ते कादम्बा कलहंसकाः ॥ २२८ ॥ धार्तराष्ट्रास्तु ते चञ्चुचरणैः श्यामवर्णकैः । वरला वारला हंसी वारटा वरटा पुनः ॥ २२९ ॥ सारसः पुष्कराख्यः स्यात्कुरंकरकलक्ष्मणौ । क्रौञ्चे क्रुङ् चातको बप्पीहः स्तोकः स्यान्नभोऽम्बुपः ॥ २३० ॥ ;p{0081} सारङ्गश्चक्रवाकस्तु रथाङ्गः कोक इत्यपि । कटुनादष्टिट्टिभः स्यादूर्ध्वपादशयश्च सः ॥ २३१ ॥ धूम्याटस्तु तथा भृङ्गः कलिङ्गोऽपि निगद्यते । कुलिङ्ककः कलविङ्कश्चटकस्त्वस्य वल्लभा ॥ २३२ ॥ चटका चाटकैरस्तु पुमपत्ये विभाव्यताम् । [45] बकबकोटौ कह्वोऽप्यथ [बलाको?] बलाहकः ॥ २३३ ॥ बलाका तु बलाकस्त्री प्रोच्यते विसकण्ठिका । दीर्घपादो लोहपृष्ठः कङ्कः स्यात्कमनच्छदः ॥ २३४ ॥ शशादनः श्येनचिल्लावातापी शकुनिश्च सः । दूरदृग्गृध्रदाक्षाय्या रक्ततुण्डशुकौ समौ ॥ २३५ ॥ पीतपादा शारिका च गोराटी गोकिराट्यपि । जतुका चर्मचेटी तु परोष्णी वागुली समे ॥ २३६ ॥ मुखविष्ठापि सा प्रोक्ता पारापतकपोतकौ । रक्तनेत्रो मञ्जुशब्दश्चकोरो विषबोधकः ॥ २३७ ॥ ;p{0082} ज्योत्स्नाप्रियोऽथ गुन्द्रले जीवंजीवोऽपि कथ्यते । करेटुः कर्करेटुश्च क्रकरः कृकणोऽपि च ॥ २३८ ॥ विषदर्शनमृत्युश्च खरकोणस्तु तित्तिरः । व्याघ्राटकभरद्वाजौ चञ्चुसूचकसुगृहौ ॥ २३९ ॥ कुर्कटः कुम्भकारः स्यात्कुकुभः कुहकध्वनिः । दीपकच्छेकमुख्यास्तु गृहासक्ता मृगाण्डजाः ॥ २४० ॥ संघचारी झषो मस्त्यो मीनो वैसारिणोऽप्यसौ । अण्डजः स्थिरजिह्वोऽपि विसारः स्वकुलक्षयः ॥ २४१ ॥ शकली च नरे शल्की शम्बोऽनिमिषस्तिमिः । मत्स्यजातेरथो भेदान्कियतोऽपि वदाम्यहम् ॥ २४२ ॥ चित्रवल्लकपाठीनौ कलकः शकुलस्तु ना? । उलूपी शिशुके प्रोष्ठी शफरः श्वेतकोलके ॥ २४३ ॥ सहस्रदंष्ट्रवादालौ राजशृङ्गस्तु मद्गुरे । शिशुमारो जले कूर्मो महावक्त्रस्तु कुम्भिनि ॥ २४४ ॥ मत्स्यराजो लोहितः स्याज्जलौतुस्तूद्र उच्यते । यादांसि जलजीवाः स्युः सामान्येनाप्यनेकशः ॥ २४५ ॥ ;p{0083} महावसस्तूष्णवीर्यो जलशूकरगोमुखौ । तन्तुर्ग्राहे तथा तन्तुनागः कुत्रापि तन्तुणः ॥ २४६ ॥ आलास्यनक्रकुम्भीरा जलजो नकुलो वसी । चतुर्गतिः क्रोडपदः कमठे कू[46]र्मकच्छपौ ॥ २४७ ॥ पञ्चाङ्गगुप्तदौलेयौ दुली स्यात्कमठी समे । दर्दुरे भेकमण्डूकौ वर्षाभूः प्लवगः पुनः ॥ २४८ ॥ प्लवंगमहरी शालूरो व्यङ्गः कुत्रचित्स्मृतः । इत्यादयोऽपरे भेदा ज्ञेया ग्रन्थान्तरे स्वयम् ॥ २४९ ॥ स्थले नरादयो ये तु ते जले जलपूर्वकाः । देशभाषाविभागेन स्वयं ज्ञेया अनेकशः ॥ २५० ॥ दुगतिर्नरकश्चैव निरयो नारकः पुनः । तत्रोत्पन्नाः पापजीवा नारकः कथिताः स्मृतौ ॥ २५१ ॥ विष्टिराजूर्यातना तु कारणा तीव्रवेदना । पुंसलिङ्गस्तथा नागलोकः पातालमुच्यते ॥ २५२ ॥ रसातलं बलेर्वेश्माधोजगद्वडवामुखम् । रोपं छिद्रं तथा रन्ध्रं विवरं शुषिरं शुषिः ॥ २५३ ॥ रोकं बिलं निर्व्यथनं तथा निम्नं वपान्तरे । श्वभ्रागाधावटा गर्तः पातालाख्येऽयमुच्यते ॥ २५४ ॥ ;p{0084} विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि । जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥ जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ । उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥ क्लीबलिङ्गे जनुः षान्तं जीवातुर्जीवनागदे । श्वसितं श्वास इत्येवमुच्छ्वासोऽन्तर्मुखे मतः ॥ २५७ ॥ आहरानावथो बाह्यः श्वासो निःश्वास एतनः । आयुर्जीवितकालः स्यान्मानसं हृदयं मनः ॥ २५८ ॥ हृदन्तःकरणं चेतश्चित्तं स्वान्तं तथोच्चलम् । संकल्पः स्यान्मनःकर्म सुखं निर्वृतिशर्मणी ॥ २५९ ॥ सौख्यं सातं तथा दुःखं पीडा स्यादर्तिवेदने । कष्टं कृच्छ्रं व्यथा बाधा स्यादाभीलं तथाशुभम् ॥ २६० ॥ आधिर्मनोभवा पीडा आमनस्यं प्रगाढतः । अत्यन्तपीडने चैव सपत्राकृतिरुच्यते ॥ २६१ ॥ ;p{0085} निष्पत्राकृतिरप्येवं क्षुत्पीडा जाठराग्निजा । निर्णयो निश्चयस्तुल्यो अविद्याहंमतिः स्त्रियाम् ॥ २६२ ॥ अज्ञानं तु भ्रमे भ्रान्तिर्मिथ्यामतिविपर्ययौ । अतत्त्वे तत्त्वबुद्धिश्च संदेहः संशयः समौ ॥ २६३ ॥ आरेकद्वापरे तुल्ये संख्योहा चर्चया सह । आद्यज्ञानमुपज्ञा स्यात्संस्कारो वासना मता ॥ २६४ ॥ स्वरूपं सहजो रूपतत्त्वं सर्गो निसर्गवत् । प्रीतौ प्रेम स्नेहहार्दे समाधाववधानता ॥ २६५ ॥ कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः । मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥ महोदयापवर्गौ च निर्वाणं सर्वदुःखहृत् । निःश्रेयसं च निर्याणं मोक्षनामान्यमूनि हि ॥ २६७ ॥ प्रणिधानसमाधानावधानान्यपि तत्र च । अनुकूलता दाक्षिण्ये परवाक्यसहिष्णुता ॥ २६८ ॥ मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह । अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥ ;p{0086} अंहो दुष्कृतमेनश्चाघं कल्कं तमसा सह । दुरितं किल्बषं चापि पङ्कः कलुषमेव च ॥ २७० ॥ भावुकं भविकं भव्यं भद्रमदे समे उभे । मङ्गलं कुशलं श्रेयः क्षेमोऽस्त्री श्वोवसीयसम् ॥ २७१ ॥ श्वःश्रेयसं शिवं शस्तं शुभं कल्याणनाम च । शुभावहो विधिर्ना यः प्रधानं प्रकृतिः स्त्रियाम् ॥ २७२ ॥ भागधेयविधी भाग्यं दैवं च नियतिस्तथा । अयो दिष्टमथालक्ष्मीर्निर्ऋतिः कालकर्णिका ॥ २७३ ॥ चतुर्वर्गो धर्मकाममोक्षवित्ताख्यभेदतः । अभिप्रायाशयौ तुल्यौ मताकूतेऽपि संमते ॥ २७४ ॥ इन्द्रियं करणं खं तु हृषीकं श्रोतसा सह । अक्षं विषयिसंज्ञं च रूपाद्यर्थनिबन्धनम् ॥ २७५ ॥ रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी । गोचरा इन्द्रियार्थाश्च विशिष्यैवं विभाव्यताम् ॥ २७६ ॥ क्रियेन्द्रियं पाणिमुख्यं स्पर्शनादि मतीन्द्रियम् । ------------ [48] सुशीमः शिशिरो जडः ॥ २७७ ॥ ;p{0087} तुषारः शीतलः शीतो हिमोऽपि कथितो बुधैः । उष्णस्तीव्रः खरस्तीक्ष्णः पटुतिग्मौ मनागथ ॥ २७८ ॥ मन्दोष्णश्च कवोष्णश्च कदुष्णः कोष्ण इत्यपि । कर्कशः पुरुषः क्रूरः कक्खटो निष्ठुरः पुनः ॥ २७९ ॥ कठोरकठिनौ तुल्यौ दृढे ननु खरः समः । कोमलं मृदुलं तुल्यं सोमालसुकुमारके ॥ २८० ॥ गुल्यस्वादू च मधुरो रसज्येष्ठो मधूलकः । अम्लो दन्तशठः प्रोक्तः पाचनोऽपि निरीक्ष्यते ॥ २८१ ॥ ओषणो वक्त्रभेदी च कटुतिक्तौ समावुभौ । सरः सर्वरसश्चैव लवणोऽपि तथोच्यते ॥ २८२ ॥ कटुः स्यादोषणो वक्त्रशोधनश्च समो मतः । वक्त्रभेदी तु तिक्तः स्याद्विशेषोऽयं निरीक्ष्यताम् ॥ २८३ ॥ कषायतुबरौ तुल्यौ निर्हारी घ्राणतर्पणः । इष्टगन्धिः समाकर्षी सुगन्धिः सुरभिस्तथा ॥ २८४ ॥ विमर्दोत्थः परिमलः आमोदः स विदू[र]गः । मुखवासन आमोदी विशषो गन्धगोचरः ॥ २८५ ॥ ;p{0088} दुर्गन्धिः पूतगन्धिस्तु विस्रं स्यादामगन्धि यत् । शुक्लः श्वेतः सितः शुभ्रो गौरः स्याद्धवलोऽर्जुनः ॥ २८६ ॥ वलक्षहरिणौ पाण्डुपाण्डरौ पाण्डरोऽपि च । शुचिः श्येतावदातौ तु धूसरस्त्वल्पपाण्डुरे ॥ २८७ ॥ कापोतस्तु कपोताभः कालः कृष्णोऽसितः शितिः । श्याममेचकरामास्तु नीलः श्यामलकः समौ ॥ २८८ ॥ हारिद्रः पीतलः पीतो गौरः स्यात्सितरञ्जनः । हरितस्तालकाभश्च पालाशोऽप्यथ लोहिते ॥ २८९ ॥ अरुणो रोहितो रक्तशोणौ रक्तसिते अथ । पाटलोऽप्यरुणो बालसन्ध्याभः पीतरक्तके ॥ २९० ॥ पिञ्जरः कपिलः पिङ्गपिशङ्गौ कपिशो हरिः । कडारः श्यावबभ्रू च कद्रुरेतस्तु कर्बुरे ॥ २९१ ॥ कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः । [49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥ स्वरो ह्रादारवौ क्काणः स्वनः क्कणरणावपि । संगीते तु स्वराः सप्त षड्जगान्धारनामकौ ॥ २९३ ॥ ऋषभो मध्यमः पञ्चमो निषादोऽथ धैवतः । तद्भेदा मन्द्रमध्याख्यताराः स्थानादिभेदतः ॥ २९४ ॥ ;p{0089} क्रन्दितं रुदितं क्रुष्टं प्रणादः सीत्कृते नृणाम् । पर्दनं गुदजः शब्दः कर्दनं तूदरोद्भवः ॥ २९५ ॥ क्ष्वेडा सिंहध्वनिः शब्दस्तुमुलो व्याकुलः स्वनः । भटानां तु कलकलः कोलाहल इतीरितः ॥ २९६ ॥ मर्मरो वस्त्रपत्राणां शिञ्जितं भूषणोद्भवे । वाजिनां हेषया ह्रेषा करिणां गर्जबृंहिते ॥ २९७ ॥ शब्दे धनुर्भवेऽथ स्याद्विस्फारोऽथाब्दनिस्वने । गर्जिस्तु गर्जितं चैव स्वनितं स्तनितं समम् ॥ २९८ ॥ पक्षिणां कूजितं नादस्तिरश्चां वासितं रुतम् । भषणं बुक्कनं श्वानध्वाने रेषा वृकोद्भवे ॥ २९९ ॥ कणितं पीडितध्वाने सुरते मणितं रवः । गुन्दलो मर्दलोद्भूते प्रक्वणस्तन्त्रिकारवः ॥ ३०० ॥ क्षीजनं वंशजे शब्दे टुट्टुरो भेरिसंभवे । तारोऽत्युच्चैर्ध्वनिर्मन्द्रो गम्भीरो मधुरः कलः ॥ ३०१ ॥ शब्दविकृतिकाकू तु प्रतिशब्दप्रतिध्वनी । इत्थं शब्दोद्भवो वर्गो विशेषेण विवेचितः ॥ ३०२ ॥ ;p{0090} समूहः प्रकरः संघो निकरौघव्रजा अपि । संघातो मण्डलं चक्रवालं वृन्दकदम्बके ॥ ३०३ ॥ कलापः पटलं कूटं स्तोमो व्रातगणावपि । संहतिः संचयो जातं चयो निवहजालके ॥ ३०४ ॥ राशिर्विस[र]पुञ्जौ च संदोहो व्यूहपेटके । उत्करः समवायोऽपि यूथं तिर्यग्गणे मतम् ॥ ३०५ ॥ प्राणिनां संघसार्थौ तु निकायस्तुल्यधर्मिणाम् । सजातीनां कुलं चैव वर्गः स्यात्सदृशां पुनः ॥ ३०६ ॥ पशूनां समजः संघः समाजो देहिनां स तु । शुकानां शौकमित्यादिप्रत्ययैः स्यात्तदर्थकैः ॥ ३०७ ॥ मायूरतैत्तिरादीनि नामानि स्युस्तदर्थतः । कथ्यन्ते तेऽपि संघार्थः प्रत्ययाः कतिचिन्मया ॥ ३०८ ॥ यौवतं गार्भिणं क्लीबे युवतीगर्भिणीचये । तथौपगवम[50]प्युक्तमौक्षकं वात्सकं पुनः ॥ ३०९ ॥ औरभ्रहास्तिके कावचिकमाजकमित्यपि । मानुष्यकधैनुके तु गाणिक्यं कैश्यकैशिके ॥ ३१० ॥ आश्वमश्वीयमश्वानां स्मृतं वाडव्यमित्यपि । कैदारिकं तु कैदार्यं पार्श्वं पर्शुगणे स्मृतम् ॥ ३११ ॥ ;p{0091} वातूलं वात्यया साकं गोत्रं गव्या गवां चयः । खल्या च खलिनी पाश्या बन्धुता जनता मता ॥ ३१२ ॥ ग्रामता गजतेल्यादिः स्वयं ज्ञेया धिया बुधैः । श्रेणी रेखा तती राजी पङ्क्तिर्मलावलिः पुनः ॥ ३१३ ॥ धोरणी श्रेमिवीथ्यौ च द्वितयं युगलं समम्? । यामलं यमलं द्वन्द्वं युग्मं द्वैतं यमं द्वयम् ॥ ३१४ ॥ प्रभूतं प्रचुरं भूरि पुरुहं बहुलं बहु । अदभ्रपुष्कले भूयः स्फिरं भूयिष्टमित्यपि ॥ ३१५ ॥ क्षुल्लस्तोके तुच्छमल्पं दभ्राणुतलिनं तनु । कृशं सूक्ष्मं तथा क्षुद्रं पेशले श्लक्ष्णमित्यपि ॥ ३१६ ॥ कणे लेशलवौ तुल्यौ ह्रस्वे चापि लघु स्मृतम् । अतिस्तोके तथाल्पिष्ठमल्पीयोऽणीय इत्यपि ॥ ३१७ ॥ अथोच्छ्रायोत्सेधा ------नगाद्यारोह एव हि । उद्धुरं चोन्नते तुङ्गमुच्चं प्रांशूच्छ्रिते समे ॥ ३१८ ॥ उदग्रमथ नीचैव मन्थरं कुब्जवामने । खर्वं ह्रस्वं पृथौ व्यूढं विशालं पृथुलं पुनः ॥ ३१९ ॥ स्फारं विशङ्कटं चोरु विस्तीर्णविपुले महत् । बृहत्ततं तथानाहो दैर्घ्यमायामसंज्ञकम् ॥ ३२० ॥ ;p{0092} आरोह उदयोच्छ्रायौ समासः संग्रहः समः । संक्षेपश्च समाहारो व्यासाभोगौ तु विस्तरे ॥ ३२१ ॥ समग्रं सकलं विश्वं सर्वाशेषाखिलानि च । अनूनाखण्डकृत्स्नानि समस्तान्यून एव च ॥ ३२२ ॥ भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु । भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥ कश्मलं मलिनं म्लानं कच्चरं च मलीमसम् । पवित्रं मेध्यपूते च पावनं पुण्यनाम च ॥ ३२४ ॥ निर्मलं विमलं वी[51]ध्रमुज्ज्वलं विशदं शुभम् । चोक्षं शुचि विशुद्धं चावदातं चाप्यनाविलम् ॥ ३२५ ॥ निर्णिक्तं क्षालितं धौतं मृष्टसंशोधिते समे । पराङ्मुखपराचीनेऽभिमुखे संमुखं मतम् ॥ ३२६ ॥ वर्य्यं मुख्यं प्रकृष्टं च वरेण्यप्रवरे वरम् । प्रवेकानुत्तरेऽग्र्यं चाग्रेसरं प्रमुखं तथा ॥ ३२७ ॥ ;p{0093} परप्रष्ठपरार्ध्यानि ग्रामण्यग्रण्यनुत्तमम् । श्रेष्ठसत्तमतुल्याश्च शब्दा योज्या धिया स्वयम् ॥ ३२८ ॥ स्यात्पूर्वपदतो योगश्चैषां मुख्यार्थवाचिनाम् । शार्दूलसिंहनागोद्धमचर्चिकामतल्लिकाः ॥ ३२९ ॥ प्रकाण्डतल्लजेत्यादिशब्दा ज्ञेया यथायथम् । अप्रधानाधमे गर्ह्यमणकं कुत्सितं पुनः ॥ ३३० ॥ अवद्यमपकृष्टं च निकृष्टं ब्रुवरेफसी । याप्यं काण्डावमे चेलं कुपूयं खेटमेव च ॥ ३३१ ॥ मनोहरमनोज्ञे तु रुचिरं मञ्जुमञ्जुले । कान्तं वल्गु प्रियं रुच्यं शोभनं चारुपेशले ॥ ३३२ ॥ बन्धुरं चाभिरामं स्यात्सुषमं साधुसुन्दरे । मनोहारि? काम्यकम्रे कमनीयमनोरमे ॥ ३३३ ॥ व्युष्टिः फलमसारं तु फल्गु शून्यार्थवाचकम् । वशिकं रिक्ततुच्छे च शुन्येऽथ निबिडे पुनः ॥ ३३४ ॥ निरन्तरघने सान्द्रं बहुले दृढमुच्यते । नीरन्ध्रं गाढमित्येवं पेलवं विरलं तनु ॥ ३३५ ॥ सद्यस्कं नूतने नूत्नं नवीनं नव्यनामकम् । प्रत्यग्राभिनवे जीर्णं पुरातनचिरंतने ॥ ३३६ ॥ ;p{0094} प्रत्नं जरत्प्रतनं च मूर्ते स्यान्मूर्तिमत्तथा । उच्चावचं नैकभेदमतिरिक्ताधिके समे ॥ ३३७ ॥ समीपसंनिधानोपकण्ठाभ्यग्राणि संनिधिः । उपान्त्यसविधे पार्श्वमुपान्तनिकटे अपि ॥ ३३८ ॥ संनिकर्षोऽन्तिकाभ्याशे ससीमं चोपकण्ठके । सनीडं संनिकृष्ठं च समर्यादमनन्तरे ॥ ३३९ ॥ अत्यन्तनिकटे नेदिष्ठं दूरे दवीयो मतम् । दविष्टं त्वतिदूरे स्याच्छाश्वतं ध्रुवमित्यपि ॥ ३४० ॥ नित्यं त्वनश्वर स्थेयः स्थिरे स्थेष्ठमतिस्थिरम् । स्थास्नु[52] कूटस्थमित्येवं सर्वकालैकरूपगम् ॥ ३४१ ॥ स्थावरं त्वगति प्रोक्तं जङ्गमे तु चराचरम् । चरं त्रसं जगच्चैवं चरिष्णाविङ्गमित्यपि ॥ ३४२ ॥ चपलं चञ्चलं लोलं कम्पनं तरलं चलम् । पारप्लवं कम्प्रमुक्तं चटुलं चास्थिरे समम् ॥ ३४३ ॥ अवक्रसरलौ तुल्यावृजुः प्रगुणसंगतः । कुटिलं वेल्लितं वक्रं भङ्गुरवृजिने समे ॥ ३४४ ॥ जिह्मभुग्ने अरालं चादिमादी प्रथमः पुनः । पौरस्त्यमग्र्यपूर्वे च जघन्यान्तेऽन्तिमं मतम् ॥ ३४५ ॥ ;p{0095} पश्चिमं चरमं चापि पाश्चात्यान्तावपि स्मृतौ । मध्यमं मध्यमीयं तु विचालाभ्यन्तरे समे ॥ ३४६ ॥ अन्तरं चान्तरालं च मध्यं माध्यन्दिनं समम् । सधर्मा सदृशश्चैव समानः संनिभः सदृक् ॥ ३४७ ॥ सरूपस्तु सवर्णोऽपि प्रतिबिम्बं प्रतिच्छन्दः । अपष्ठुरं विलोमं च प्रतिकूलमपष्ठु च ॥ ३४८ ॥ अपसव्यप्रतीपेऽपि प्रसव्यं तद्विशेषतः । वपुरङ्गं तथा सव्यमपसव्यं च दक्षिणे ॥ ३४९ ॥ अयन्त्रितमबन्धं चानर्गलोच्छृङ्खले समे । उद्दामं प्रकटं व्यक्तं स्फुटं स्पष्टोल्बणो समे ॥ ३५० ॥ निस्तलं वर्तुलं वृत्तं परिमण्डलमित्यपि । करम्बकबरौ मिश्रे संपृक्तखचितौ समौ ॥ ३५१ ॥ शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु । अनारतानिशे नित्याजस्त्रे त्वविरतं पुनः ॥ ३५२ ॥ अश्रान्तानवरते[ऽपि?] सततं संततं समम् । आकीर्णं? संकुलं कीर्णं संकीर्णेऽथाकुलं मतम् ॥ ३५३ ॥ ;p{0096} पूरितं भरितं व्याप्तं निचितं छन्नसंज्ञके । प्रतिक्षिप्तनिरस्ते तु प्रत्याख्यातनिराकृते ॥ ३५४ ॥ प्रत्यादिष्टापविद्धे च परीतं परिवेष्टितम् । परिक्षिप्तनिवृत्ते च प्रत्यक्तं तूज्झितं धुतम् ॥ ३५५ ॥ उत्सृष्टविधुते हीनं विन्नवित्ते विचारितम् । [53] संरुद्धसंवृते छन्नं संवीते रुद्धमित्यपि ॥ ३५६ ॥ स्थगितं तिरोहितं च पिधानस्थगने समे । छदनं च तिरोधानं व्यवधा दर्शिऽतेप्यथ ॥ ३५७ ॥ दर्शिताविष्कृते तुल्ये बोधितं तु प्रकाशितम् । अनादृतेऽप्यवमतं तथावगणितं समम् ॥ ३५८ ॥ अवहेलाप्यवज्ञा स्याद्रीढाथोन्मूलिते पुनः । आवर्हितोद्धृतोपाटितानि त्रिषु मतान्यथ ॥ ३५९ ॥ कम्पितं चलितं ? धूतं लुलितं वेल्लितं समम् । प्रोङ्खितान्दोलिते चापि देश्ये हिञ्चितमीक्ष्यते ॥ ३६० ॥ दोला प्रेङ्खा तथा प्रेङ्खोलनं फाण्टमयत्नजः । न्यञ्चितं स्यादधःक्षिप्ते [ऊर्ध्व?]मुक्तमुदञ्चितम् ॥ ३६१ ॥ ;p{0097} अस्तनुत्ते तथा नुन्नं तेजितं निशितं शितम् । क्ष्णुतं शातनिशाते चोतस्यूतोतानि सीविते ॥ ३६२ ॥ जातलक्षे मतौ ह्रीतह्रीणावथ तनूकृते । त्वष्टं तष्टं समं पक्वं स्मृतं परिणतं त्रिषु ॥ ३६३ ॥ प्लुष्टदग्धोषिताश्चैव निष्पक्वक्वथिते समे । निष्पन्नसिद्धनिर्वृत्ता विलीनविद्रुतद्रुताः ॥ ३६४ ॥ दारितं पाटितं भिन्नं प्रतिज्ञातोरुरीकृते । संश्रुताङ्गीकृते चाप्यूरीकृतं तूररीकृतम् ॥ ३६५ ॥ प्रतिश्रुताश्रुते तुल्ये संगीर्णमपि दृश्यते । लूनं दितं छितं छिन्ने खण्डिते छेदितं पुनः ॥ ३६६ ॥ प्राप्तमासादितं लब्धं गलितं पतितं च्युतम् । स्कन्नं पन्नं तथा स्रस्तं भ्रष्टं चान्वेषिते मतम् ॥ ३६७ ॥ गवेषितं मार्गितं चान्विष्टं मृगितमित्यपि । क्लिन्नं स्तिमितमार्द्रं च समुन्नोन्नावपि स्मृतौ ॥ ३६८ ॥ तिमितोद्रौ प्रहिते च ------------------- । प्रेषितं स्थापितं प्रेतः ------------------- ॥ ३६९ ॥ ;p{0098} प्रथिते विश्रुतः ख्यातः प्रज्ञाते वित्त इत्यपि । तप्तधूपायितौ दूनो धूपितस्तापितः स[54]मः ॥ ३७० ॥ शीने स्त्यानं तथा प्रोक्तं निर्वातो गतमारुते । निर्वाणः शीतवह्नौ च प्रौढवृद्धैधितान्यथ ॥ ३७१ ॥ हन्ने गूनं तथा प्रोक्तं मूत्रिते मीढमित्यपि । ज्ञातं बुद्धं मतं चैवावगतावसिते अपि ॥ ३७२ ॥ विदितं बुधितं तुल्ये मनितं ज्ञातनामनि । गुप्तं गोपायितं त्रातं रक्षितं कार्मणं त्वथ ॥ ३७३ ॥ मूलकर्म वशीकर्म तथा संवननं स्मृतम् । आटोपाडम्बरे चैव संरम्भोऽपि विभाव्यते ॥ ३७४ ॥ रचनायां निवेशोऽथ गतवीर्या तु विहृतिः । व्रज्या चर्या विहारोऽपि वीङ्खा पर्यटनं पुनः ॥ ३७५ ॥ अटाट्या परिसर्पोऽपि तथा प्रोक्तः परिक्रमः । व्यत्यासे च विपर्यासो व्यत्यये तु विपर्ययः ॥ ३७६ ॥ वैपरीत्यमथ स्फातिः वृद्धिः प्रीणनसंज्ञिका । प्रणतिस्तु प्रणामोऽपि प्रणिपातस्तथोच्यते ॥ ३७७ ॥ ;p{0099} पर्याप्तं [च?] प्रकामं च निकामं काममित्यपि । यथेप्सितं तथेष्टं च अत्यर्थे गाढमुच्यते ॥ ३७८ ॥ भृशं बाढं तथा तीव्रं दृढोद्गाढे तथा समे । नितान्तनिर्भरोत्कर्षातिमर्यादा भरे स्मृताः ॥ ३७९ ॥ जृम्भणं जृम्भया साकं परिष्वङ्गोऽङ्कपाल्यपि । आलिङ्गनं च संश्लेषः परीरम्भोपगूहने ॥ ३८० ॥ उत्सवः क्षण उद्धर्षो महश्चोक्तस्तथोद्धवः । मेलके संगमः सङ्गो निरोधो निग्रहो मतः ॥ ३८१ ॥ विघ्नो व्यवायसंज्ञोऽसौ प्रत्यूहश्चान्तरायवत् । प्रस्तावोऽवसरो वेला वारो प्रक्रमनाम च ॥ ३८२ ॥ क्षणः समय इत्येवमुपोद्धातोऽप्युपक्रमः । अभ्यादानमथारम्भः प्रयोगः प्रक्रमः समः ॥ ३८३ ॥ अभिक्रमस्तथारोह उत्क्रमो व्युत्क्रमः पुनः । विरहो विप्रयोगोऽथ विप्रलम्भो वियोगकः ॥ ३८४ ॥ कान्तिर्लक्ष्मीरभिख्या श्रीर्विभूषाभा च विभ्रमः । राढा शोभा तथा छाया सुषमातिशयोद्भवा ॥ ३८५ ॥ ;p{0100} आकारस्त्विङ्गितं हेतुर्निमित्तं कारणं समम् । निबन्धनं निदाने तु बीजं कार्यं तु तद्भवम् ॥ ३८६ ॥ प्रयोजनं कृत्यमर्थः सामान्यं जातिरुच्यते । व्यक्तिर्विशेषसंज्ञा स्यात्सा पृथक्त्वनिबन्धनम् ॥ ३८७ ॥ गुणाः सत्त्वं रजश्चैव तमः सांख्यमतानुगाः । स्पर्धा द्रोहस्तथा बन्ध्यं निष्फलं मोघमित्यपि ॥ ३८८ ॥ निरर्थकं मुधा चान्तर्गडु चाथ व्ययः क्षयः । अर्थव्यपगमः प्रोक्तो भ्रेषो भ्रंशस्तथोचितात् ॥ ३८९ ॥ नाशोऽभावस्तथा संनिवेशः संस्थानमीक्ष्यते । विस्रम्भोऽप्यथ विश्वासो विकारः परिणामतः ॥ ३९० ॥ भ्रमो भ्रान्तिर्भ्रमिश्चक्रावर्तो घूर्णौ तु घूर्णनम् । ष्ठेवनं ष्ठीवनं ष्ठ्यूतं थूत्कृतं श्लेष्ममोचने ॥ ३९१ ॥ निवृत्तिर्विरतिश्चोपरमो विधुवनं पुनः । विधूननं समं प्रोक्तं स्खलनं रिङ्खणं समे ॥ ३९२ ॥ ;p{0101} समुच्चयोपहारौ तु समाहारोऽपि कथ्यते । उपादानं तथा ग्राहो निष्क्रमो बुद्धिशक्तिजः ॥ ३९३ ॥ ;c{इति श्रीकायस्थचिरवारीयमाथुरवंशविभूषणमणिश्रीमद्गढमलाङ्गजश्रीमत्परमानन्दनन्दनन्दनविरचितायां परमानन्दियनाममालायां तृतीयः परिच्छेदः समाप्तः ॥} ;k{चतुर्थः परिच्छेदः} ;c{ ॥ [चतुर्थः परिच्छेदः] ॥} स्थित्युपादविनाशात्मजगतो हेतवे सते । कूटस्थाय नमस्तस्मै कस्मैचित्परमात्मने ॥ १ ॥ मनुष्यो मानवो मर्त्यो मनुजः पुरुषो नरः । भूस्पृक्पूरुषो विट् स्यात्पुमानन्पञ्चजनो नरि ॥ २ ॥ बालस्तनंधयौ पोतः पाको डिम्भः कुमारकः । शिशुः शावोऽर्भकः क्षीरकण्ठोत्तानशयावपि ॥ ३ ॥ शैशवं शिशुता बाल्यं युवा स्यात्तरुणः समः । वयःस्थोऽप्यथ वृद्धे तु स्थविरः प्रवया जरन् ॥ ४ ॥ ;p{0102} जी[56]नो जीर्णो जरी यातयामो वृद्धत्ववार्द्धके । विस्रसा स्थाविरं ज्यायान्वर्षीयान्दशमी पुनः ॥ ५ ॥ पण्डितः कोविदो विद्वान्कृष्टिर्व्यक्तः कृती कविः । मेधावी सूरिदोषज्ञा ज्ञः प्राज्ञो निपुणः पटुः ॥ ६ ॥ विचक्षणः सुधीर्धीरो विपश्चिच्चतुरोऽपि च । दक्षोऽभिज्ञो बुधो लब्धवर्णो वैज्ञानिकस्तथा ॥ ७ ॥ मनीषी प्राप्तरूपोऽपि निष्णातोऽप्यभिरूपकः । दक्षः कृतमुखश्चैव कृतहस्तोऽपि दृश्यते ॥ ८ ॥ संख्यावान्कृतकर्मापि प्रवीणोऽपि विशारदः । प्रगल्भः प्रतिभायुक्तो विदग्धः छेक इत्यपि ॥ ९ ॥ छइल्लो दृश्यते देश्ये प्रौढो बुद्धिगुणान्विते । सूक्ष्मदर्शी कुशाग्रीयबुद्धिस्तत्कालबुद्धिदः ॥ १० ॥ दूरदर्शी दीर्घदर्शी प्रत्युत्पन्नमतिः पुनः । चिद्रूपो हृदयालुस्तु हृष्टः सहृदयस्तथा ॥ ११ ॥ क्षुण्णे प्रहत इत्येवमन्तर्वाणिस्तु वेत्तरि । वाग्मिवाक्पतिवागीशा वावदूकः प्रवाक्तु सः ॥ १२ ॥ वदावदो वदो वक्ता वाचाटः कद्वदश्च सः । समौ जल्पाकवाचालौ यद्वदोऽनुत्तरस्तु सः ॥ १३ ॥ ;p{0103} एडमूकानेडमूकौ हीनवादिनि विश्रुतौ । शब्दनो रवणस्तुल्यौ कुवादे कुचरो मतः ॥ १४ ॥ लोहलोऽव्यक्तवाचि स्यान्मूकोऽवागस्वरः समः । विदुरो वेदिता विन्दुर्वन्दारुः स्तुतिकर्तरि ॥ १५ ॥ आशंसितरि चाशंसुर्दुर्मुखे मुखरः स्मृतः । तथाबद्धमुखश्चापि शक्तः प्रियंवदे मतः ॥ १६ ॥ वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते । मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥ वैधेयो मूढमन्दौ च यथाजातोऽपि बालिशः । देवानां वल्लभो जाल्मः क्रियाकुण्ठेऽथ कथ्यते ॥ १८ ॥ मन्दश्चिरक्रिये तु स्याद्दीर्घसूत्रोऽन्यलिङ्गवत् । कर्मोद्यतः क्रियावान्स्यात्कर्मठः कर्मतत्परः ॥ १९ ॥ कर्मक्षमः कर्मशीलोऽलंकर्मीणोऽपि कथ्यते । तीक्ष्णकर्मकरः प्रोक्तः शूलिकः स्वरुचौ पुनः ॥ २० ॥ ;p{0104} स्वैर्यपावृतस्वच्छन्दौ यथाकामी निरर्गलः । निर[57]वग्रहः स्वतन्त्रोऽपि स्वेच्छा स्वैरिता च सा ॥ २१ ॥ यदृच्छा नाथवान्निघ्नगृह्यकौ श्लीललक्ष्मणौ । लक्ष्मीवानीश्वरश्चेभ्यो धमाढ्योऽपि विभाव्यते ॥ २२ ॥ छन्दाधीनवशायत्ततन्त्राद्यास्तत्र भूरिशः । संपत्तिः श्रीर्विभूतिस्तु लक्ष्मीः संपत्समा स्त्रियाम् ॥ २३ ॥ दरिद्रोऽकिंचनो निःस्वो निर्धनः कीकटश्च सः । दुर्गतो दुर्विधो दुःस्थो नायकोऽथाधिभूः प्रभुः ॥ २४ ॥ विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः । इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥ भृत्यो गोप्यो नियोग्यश्च दासे डिङ्गरकिंकरौ । चेटः प्रेष्यभुजंगौ च परिस्कन्दपरैधितौ ॥ २६ ॥ परिचारपरान्नौ च परपिण्डाद एव च । भृतिभुग्निर्भृतिः कर्मकरो वैतनिकः पुनः ॥ २७ ॥ ;p{0105} भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् । भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥ विधानिर्वेशभर्माणि भोगो वेश्याभृतिर्मतः । भारिको भारवाहः स्यादथ वैवधिकः स्मृतः ॥ २९ ॥ वार्तावहेऽथ भारे स्याद्वीवधो विवधः पुनः । शिक्यं काचस्तदाधारयष्टिरुक्ता विहङ्गिका ॥ ३० ॥ विक्रान्तसुभटौ वीरः शूरचारभटौ स्मृतौ । कातरो भीरुको भीतश्चकितो भीरुभीलुकौ ॥ ३१ ॥ दरितः कान्दिशीकस्तु भयद्रुत उदीरितः । उत्पिञ्जलपिञ्जलौ तु समुत्पिञ्जल आकुले ॥ ३२ ॥ व्यग्रे विहस्त इत्युक्त उदीर्णोदारसत्तमाः । महाशयोद्भटोदात्ता महात्मा च महामनाः ॥ ३३ ॥ कृपणः किंपचनोऽपि कदर्यस्तद्धनः पुनः । बद्धमुष्टिस्तथा क्षुद्रः कीनाशे च मितंपचः ॥ ३४ ॥ दयालुः करुणासक्तः कृपालुः सूरतोऽपि सः । कृपा दया घृणा शूकोऽनुकम्पा करुणापि च ॥ ३५ ॥ ;p{0106} अनुक्रोशोऽथ हिंस्रे स्याच्छरारुर्घातकोऽपि सः । [58]व्यापादनं विशसनं हिंसा निर्वासनं वधः ॥ ३६ ॥ निर्ग्रन्थनप्रमथने निस्तर्हणपरासने । वधोद्यतस्त्वाततायी षड्भेदास्तद्गता मताः ॥ ३७ ॥ नामशेषो यशःशेषः परासुः संस्थितश्च सः । व्यापन्नालेख्यशेषौ चोपगतो मृत इत्यपि ॥ ३८ ॥ तदर्थं तदहे दानमौर्ध्वदेहिकमुच्यते । अपस्नानं मृतस्नानं महामलनिवारणम् ॥ ३९ ॥ पितृतर्पणनिवापौ चिता चित्याचितस्तथा । प्राञ्जलः सरलोदारावञ्जसौ दक्षिणे पुनः ॥ ४० ॥ ऋजूदारावपि प्रोक्तौ निकृतानृजुशठाः समाः । क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्जके ॥ ४१ ॥ कुहको व्यंसको मायिदाण्डाजिनिकजालिकाः । मायायां निकृतिः शाठ्यं शठता कपटे तथा ॥ ४२ ॥ दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि । कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥ कुर्कुटिर्दम्भचर्या च कुहना वञ्जने पुनः । प्रतारणाभिसंधाने व्यलीकं परवञ्जने ॥ ४४ ॥ ;p{0107} सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः । खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥ नीचकर्णेजपौ दोषैकदृक् चौरस्तु तस्करः । पाटच्चरस्तेनदस्युपरिमोषिमलिम्लुचाः ॥ ४६ ॥ ऐकागारिकनामानि परिपन्थिक इत्यपि । परास्कन्दी हरेत्साक्षात्स प्रोक्तः पश्यतोहरः ॥ ४७ ॥ स्तेयं चौर्यं चौरिकं तु लोप्त्रं चौर्याहृतं धनम् । आलसः शीतकालस्यौ मन्दोऽनुष्णोदरस्पृशौ ॥ ४८ ॥ यद्भविष्यस्तथा दैवपरो दैवमतिर्मतः । चतुरः पेशलो दक्षः पटूष्णावुष्णकोऽपि च ॥ ४९ ॥ आसक्तः प्रसितश्चैव तत्परः प्रवणः समः । प्रह्वः परायणस्तुल्यौ स्थूललक्षस्तु दातरि ॥ ५० ॥ उदारो दानशौण्डस्तु बहुदः परिकीर्तितः । स्पर्शनं वित[59]रणं चैव प्रतिपादनमित्यपि ॥ ५१ ॥ दानं विसर्जनं त्याग उत्सर्जनविहायिते । मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥ ;p{0108} याचना प्रार्थना याच्ञा प्रणयोऽध्येषणैषणे । अर्दनासनिनाम्नी च मण्डनेऽलंकरिष्णुकः ॥ ५३ ॥ प्रसारी तु विसारी स्यात्सृमरः सायाद्विपूर्वकः । विसृत्वरोऽपि तत्रैव लज्जाशीलस्त्रपिष्णुके ॥ ५४ ॥ क्षमी क्षन्ता सहिष्णुश्च तितिक्षुः सहनः पुनः । क्षमायां सहनं चैव तितिक्षा च निगद्यते ॥ ५५ ॥ ईर्षालुकुहनौ तुल्यौ क्रोधनामर्षणौ समौ । रोषणः क्रोधवाञ्चैव चण्डः स्याद्बहुकोपनः ॥ ५६ ॥ ईर्षाक्षान्ती क्षुधायां तु बुभुक्षाप्यशनायया । जिघत्सा क्षुधिते चाथ जिघत्सुः स्याद्बुभुक्षितः ॥ ५७ ॥ तृष्णक् पिपासितश्चैव पिपासुस्तृषितः समौ । तृट् पिपासा तृषोदन्या रसादाने च शोषणम् ॥ ५८ ॥ भक्षको घस्मरश्चैवाद्मरश्चाशित इत्यपि । अन्धः सान्तं कूरमन्नं भक्तभिस्से च दीदिविः ॥ ५९ ॥ अशनं चोदनं जीवनकं वाजः प्रसादने । मण्डं तु दग्धिका सर्वरसाग्रं भिस्सटापि सा ॥ ६० ॥ ;p{0109} दधिमण्डं मस्तुसंज्ञं भक्तोद्भूतं यथा हि तत् । निस्रावमासराचामा यवागूस्तरला स्त्रियाम् ॥ ६१ ॥ श्राणा विलेपिनी सा चोष्णिका मुद्गादिसंभवा । प्रहितं सूपसूदौ च व्यञ्जनं तु घृतादिकम् ॥ ६२ ॥ कृसरस्तृसरस्तुल्यौ तिलान्नेऽपूपपिष्टकौ । पूपोऽथ पोलिकार्थाः स्युः पूलिकापोलिपूपिकाः ॥ ६३ ॥ पूपली चाथ पौलिस्तु मनाक्पक्वे स्मृतावुभौ । अभ्योषश्च तथाभ्यूषो निष्ठानं तेमने मतम् ॥ ६४ ॥ करम्बश्च करम्भोऽपि दधिसक्तुसमुद्भवः । घार्तिको घृतपूरोऽपि पिष्टपूरो[60]ऽपि कथ्यते ॥ ६५ ॥ वटकेऽवसेकिमोऽप्युक्तो धाना भ्रष्टयवाः स्मृताः । धानाचूर्णं सक्तवस्तु लाजाः स्युः पुनरक्षताः ॥ ६६ ॥ चिपिटः पृथुकश्चैव यवचूर्णे तु चिक्कसः । गोधूमस्य मतं चूर्णं समिता संमता स्त्रियाम् ॥ ६७ ॥ समितां सह ? दुग्धेन मर्दयित्वा सुशोभनम् । पचेद्धृतोत्तरे खण्डो व्यसेत्पक्वं नवे घटे ॥ ६८ ॥ ;p{0110} ततो मरिचचूर्णैलाखण्डचूर्णावचूर्णितम् । कुर्यात्कर्पूसंयुक्तं संयावममृतोपमम् ॥ ६९ ॥ गुडक्वाथौ समावीक्षुरसः स्याच्छर्करा पुनः । सितोपला सिता तुल्ये मधुधूलिस्तु खण्डकः ॥ ७० ॥ मधुधूलिविकारे च मत्स्यण्डी फाणितं तथा । मार्जिता तु रसालायां शिखरिण्यपि निगद्यते ॥ ७१ ॥ यूर्यूषरससंज्ञा हि रससब्दाः प्रकीर्तिताः । क्षीरदुग्धे पयःपुंसवने सोमजमित्यपि ॥ ७२ ॥ ऊधस्यं गोरसः स्तन्यं पेयूषं तन्नवं मतम् । पयस्यं घृतदध्यादि विकारौ पयसो यथा ॥ ७३ ॥ कूर्चिका च किलाटी च परमान्नं तु पायसम् । क्षैरेयी घृतनामानि तुल्ये द्वे घृतसर्पिषी ॥ ७४ ॥ हविष्यं हविराघारमाज्यं क्षीरोद्भवं दधि । गोरसोऽथाघने तत्र क्लीवे द्वे द्रप्सपत्रले ॥ ७५ ॥ नवनीते तक्रसारं दधिसारनवोद्धृते । घोलारिष्टे कालशेयं दण्डाहतमपि स्मृतम् ॥ ७६ ॥ ;p{0111} रसायनं गोरसश्चोदश्वित्तक्रे समोदकम् । श्वेतं पादजलं चैवार्धनीरं तद्भिदा यथा ॥ ७७ ॥ मथितं जलहीनं तु सार्पिष्कं दाधिकं मतम् । घृतेन तु तथा दध्ना संस्कृतं वटकादिकम् ॥ ७८ ॥ उखासिद्धे पैठरोख्ये राद्धसिद्धे समे उभे । जलं विना तु यत्पक्वं भृष्टं धानादिकं विदुः ॥ ७९ ॥ भृष्टमांसे भटित्रं तु भूतिर्भरुटकं हि तत् । शूलाकृते शूल्यमुक्तं निष्क्वाथरसकौ समौ ॥ ८० ॥ प्रणीतं तूपसन्नं स्या[61]च्चिक्कणे स्निग्धमसृणे । पिच्छलं विजिलं चैव स्मृतं विजिविलं तथा ॥ ८१ ॥ संमृष्टशोधिते तुल्ये वासितं भावितं समम् । काञ्जिके त्वारनालं स्याद्धान्याम्लं काञ्जिकं तथा ॥ ८२ ॥ धातुघ्नं चुक्रसौवीरे कुण्डगोलकमित्यपि । सुवीराम्लं तथोन्नाहं रक्षोघ्नं च महारसम् ॥ ८३ ॥ स्नेहे तैलाभ्यञ्जने तु वेषवार उपस्करे । भोजनं निघसो न्यादः खादनं स्वादनाशने ॥ ८४ ॥ आहारो जक्षणं जग्धिर्भक्षणं घसिजेमने । वल्भनं निघासश्चापि चूर्णनं चर्वणं समम् ॥ ८५ ॥ ;p{0112} प्रातराशः कल्यवर्तः सग्धिः स्यात्सहभोजने । गुडो गुडेरको ग्रासपिण्डौ कवक इत्यपि ॥ ८६ ॥ गडोलकवलौ चापि गण्डोलः सुहितेऽप्यथ । तृप्ताध्राताशिताश्चैव सौहित्यं तृप्तिरीक्ष्यते ॥ ८७ ॥ फेला पिण्डोलिफेली च भुक्तोत्सृष्टे निगद्यते । आत्मंभरिस्तथा कुक्षिंभरिः स्वोदरपूरकः ॥ ८८ ॥ आद्यूनः पेट्टिकश्चापि विजिगीषाविवर्जितः । सर्वान्नीनः सर्वभक्षी शाष्कुलः पिशितादनः ॥ ८९ ॥ उन्मदिष्णून्मादयुक्तौ गृध्नुगर्धननलोभनाः । लुब्धोऽभिलाषुकश्चैव लोलुभो लोलुपोऽपि च ॥ ९० ॥ लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह । आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥ अभिलाषस्तथा कामोऽभिध्या स्यात्परवस्तुनः । अविनीतोद्धतौ तुल्यौ विनीते प्रश्रितो मतः ॥ ९२ ॥ निभृतोऽपि विधेयः स्याद्विनयस्थोऽपि दृश्यते । समौ प्रणेयवश्यौ तु वचनस्थ अथाश्रवः ॥ ९३ ॥ ;p{0113} वियातो धृष्णजो धृष्णुधृष्टौ धृष्टिस्तथा क्वचित् । वीक्ष्यापन्नविलक्षौ तु शुभंयुः शुभवत्यपि ॥ ९४ ॥ शालीनः शारदोऽधृष्टेऽप्यहंयुः स्यादहंकृते । कामनः कामुकः कामी[62] कमरोऽभीक एव च ॥ ९५ ॥ कम्रोऽभिकः कामयिता कमितानुक इत्यपि । व्यसनी विप्लुतः पञ्चभद्रो हृष्टमना अथ ॥ ९६ ॥ विकुर्वाणो हर्षणः स्यात्प्रमना हर्षसंयुतः । विमना दुर्मनाश्चापि मतश्चान्तर्मनास्तथा ॥ ९७ ॥ मत्तोत्कटौ क्षीबशौण्डौ उन्मना उत्सुकः समः । उत्क उत्कण्ठिस्तुल्यौ विशेषास्तत्र केचन ॥ ९८ ॥ दूषितः क्षारितो वाच्यो लक्षणो गुणयुक्स्मृतः । निर्लक्षणः पाण्डुपृष्ठः कथितो विवशोऽप्यथ ॥ ९९ ॥ दुष्टानिष्टमतिः सङ्कसुकस्त्वस्थिर उच्यते । मौनशीले तु तूष्णीकस्तूष्णींशीलोऽपि कथ्यते ॥ १०० ॥ ;p{0114} कीलितो यन्त्रितो बद्धो नद्धः संदानितः सितः । संयतो बन्धनं तु स्यादुद्दानं परिकीर्तितम् ॥ १०१ ॥ हतः प्रतिहतो बद्धः प्रतिपूर्वोऽपि दृश्यते । मनोहतः प्रतिक्षिप्तो [हतः सोऽ?]पि तथोच्यते ॥ १०२ ॥ निष्कासितोऽवकृष्टः स्यादात्तगन्धोऽभिभूतकः ? । निराकृतोऽप्यपध्वस्तो न्यक्कृतो धिक्कृतः समः ॥ १०३ ॥ तिरस्क्रिया विप्रकारो न्यक्कारः परितो भवः । पराभवः परिभावोऽभिभावोऽपि निवेदितः ॥ १०४ ॥ अत्याकारनिराकारौ वञ्चितो विप्रलब्धकः । निद्रालुः स्याच्छयालुस्तु प्रचलायितघूर्णितौ ॥ १०५ ॥ सुप्तः शयितनिद्राणौ जागरी जागरूककः । जागर्या जागरा चैव तथा जागरणं हि तत् ॥ १०६ ॥ संशयितृसंशयालू गृहीता गृहयालुकः । पातुके पतयालुस्तु रोचिष्णौ रोचनो मतः ॥ १०७ ॥ ;p{0115} दक्षिणीयो दक्षिणार्हो दक्षिण्योऽपि तथोच्यते । साधितो दण्डितस्तुल्यौ दापितोऽर्च्ये प्रतीक्ष्यकः ॥ १०८ ॥ अर्हितः प्रमहितस्तुल्यावर्चितापचितावपि । नमस्यितोऽञ्चितश्चैवाचित(वाचितिर?)र्चार्हणापि च ॥ १०९ ॥ [63] उपहारः सपर्या च बलिः पूजापि कथ्यते । पीवरः पीनपीवानौ स्थूलविह्वलविक्लवाः ॥ ११० ॥ चक्षुष्योऽक्षिगतो ---------- सुभगो बलिमांसलौ । निर्दिग्धोपचितावंसलः क्षामः कृशदुर्बलौ ॥ १११ ॥ तनुश्छातस्तथा क्षीणस्तुन्दिको वृद्धकुक्षिकः । पिचिण्डिलस्तुन्दिलोऽपि उदर्युदरिलौ समौ ॥ ११२ ॥ अनासिके विग्रविखौ तथा विखुरपीक्ष्यते । नतनासोऽवटीटोऽप्यवनाटोऽवभ्रटस्तथा ॥ ११३ ॥ क्षुद्रनासिकनःक्षुद्रौ खरणः खरणसः समौ । खुरणःखुरणसौ चैवाथोन्नसश्चोग्रनासिकः ॥ ११४ ॥ ;p{0116} पङ्गौ खलतिकश्रोणावेकदृक्कननः समः । काणोऽथ शिपिविष्टश्च ऐन्द्रलुप्तिकः इत्यपि ॥ ११५ ॥ बभ्रुः खल्वाटसंज्ञः स्यात्कुब्जोऽल्पतनुरुच्यते । कुणिः कुकरनामा स्याद्वामनः खर्वखट्टनौ ॥ ११६ ॥ खर्वशाखनिखर्वौ तु बधिरैडावकर्णकः । दुश्चर्मा शिपिविष्टः स्याण्द्वडस्तत्र द्विनग्नकः ॥ ११७ ॥ खञ्जे खोडः खोर उक्तः पोगण्डो विकलाङ्गकः । ऊर्ध्वजानुरथोर्ध्वज्ञु[रूर्ध्वज्ञ?]स्तु तथैव हि ॥ ११८ ॥ युतजानु संज्ञुसंज्ञौ प्रज्ञुर्विरलजानुकः । वलिनो वलिभ इत्युक्तमुग्रदन्दन्तुरः स्मृतः ॥ ११९ ॥ प्रलम्बाण्डो मुष्करः स्यादन्धोत्पश्यगताक्षकाः । अधोमुखोन्मुखौ चैवोत्पश्यो मुण्डितकेशिनौ ॥ १२० ॥ केशिकः केशवो मुण्डः केकरो वलिरः समौ । वृद्धनाभौ तुण्डिलः स्यात्तुण्डिभोऽपि निरीक्षतः ॥ १२१ ॥ ;p{0117} आतुरो विकृतो ग्लास्नुग्लानौ व्याधित आमयी । दर्द्रुणो दर्द्रुरोगी स्यात्कच्छुरः पामनः समौ ॥ १२२ ॥ वातरोगी वातकी सातिसारोऽप्यतिसारिणि । चुल्लचिल्लौ क्लिन्ननेत्रपिल्लौ मिलितलोचने ॥ १२३ ॥ कफिनि श्लेष्मलः प्रोक्तः श्लेष्मणः क[64]फरोगिणि । अर्शोयुगर्शसश्चापि मूर्च्छालो मूर्च्छितः समः ॥ १२४ ॥ किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः । खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥ रुग्रुजा व्याधिमान्द्ये चोपतापो गद आमयः । आम आकल्यमप्युक्तं राजयक्ष्मा क्षयस्तथा ॥ १२६ ॥ यक्ष्मशोषावथ प्रोक्तं क्षुतं क्षुत्क्षव इत्यपि । पामा विचर्चिका कण्डूः कच्छूः खर्जूः समे उभे ॥ १२७ ॥ खसः कण्डूयनं चापि कण्डूयापि निगद्यते । कासः क्षवथुरप्युक्तो व्रणे क्षतमितीरितम् ॥ १२८ ॥ विपादिका पदस्फोटो पिटकः स्फोटको गडुः । पृष्ठग्रन्थिर्मतो गण्डो रूढं व्रणपदं किणः ॥ १२९ ॥ ;p{0118} श्वेतकुष्ठे श्वित्रमुक्तं केशघ्नं चेन्द्रलुप्तकम् । त्वक्पुष्पकिलासे च सिध्मकोठौ तु मण्डले ॥ १३० ॥ गलगण्डो रोहिणी तु गण्डमाला गलाङ्कुरः । हिक्का हृल्लासहेक्के तु दुर्नामा तु गुदाङ्कुरः ॥ १३१ ॥ अर्शः शोफस्तथा शोथः श्वयथुः परिकीर्तितः । पीनसे तु प्रतिश्यायः कुरण्डस्त्वण्डवर्धने ॥ १३२ ॥ वमथुः प्रच्छर्दिका छर्दिर्वमनं च वमिस्तथा । गुदग्रह उदावर्ते मूत्रकृच्छ्रेऽश्मरी स्मृता ॥ १३३ ॥ बहुमूत्रप्रमेहौ तु भेदा रोगस्य भूरयः । आनाहस्तु विबन्धः स्याद् ग्रहणीरुक्प्रवाहिका ॥ १३४ ॥ मान्द्यभेदाश्च विद्रधिभगंदरज्वरादयः । रोगहारी भिषग्वैद्योऽगदंकारचिकित्सकौ ॥ १३५ ॥ दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् । भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥ उपचारश्चिकित्सा चोपचर्या रुक्प्रतिक्रिया । क्वाथचूर्णादिभेदेन लङ्घनं त्वपतर्पणम् ॥ १३७ ॥ ;p{0119} जाङ्गुलिकविषवैद्यौ तु ---------------- । आरोग्यं सह्यवार्त्ते चानामयं स्वास्थ्यमेव च ॥ १३८ ॥ पटूल्लाघौ समौ वार्त्तकल्यौ नीरुजि संमतौ । माय[65]या विभवेच्छुस्तु संधिजीवकपार्श्वकौ ॥ १३९ ॥ अलंकृतां कनीं दत्ते यः स कूकुदसंज्ञकः । स्थिरप्रीतौ नरे नीलीरागश्चिकुर इत्यपि ॥ १४० ॥ चपलोऽथ तदन्यस्तु हरिद्रारागको मतः । मेदुरे स्निग्धसान्द्रौ च अस्तिमान्धनिको धनी ॥ १४१ ॥ पिण्डीशूरो गृहेशूरो गेहेनर्दी तथोच्यते । स्वस्थानस्थस्तु गोष्ठः स्यात्परद्वेषी तथापरः ॥ १४२ ॥ आपन्नापत्स्थितौ तुल्यौ विपत्तिस्तु विपत्तथा । कुटुम्बव्यापृतोपाधी अभ्यागारिकसंज्ञकः ॥ १४३ ॥ शङ्कुरस्त्रासदायी स्यात्कारणिकपरीक्षकौ । जैवातृको दीर्घजीवी वरदे तु समर्धुकः ॥ १४४ ॥ सदस्यास्तु सभास्ताराः सभ्याः पार्षद्यनामकाः । सामाजिकास्तथा प्रोक्ताः परिषत्सदसी समे ॥ १४५ ॥ सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह । समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥ ;p{0120} निमित्तविज्ज्यौतिषिकावादेशिज्ञानिनौ समौ । लेखकेऽक्षरजीवी त्वक्षरचञ्च्वक्षराच्चणौ ॥ १४७ ॥ लिपिकारवार्णिकौ च लिपिः स्याल्लिविरित्यपि । मषीकूपी मषीधानं मष्याविलजलं मसी ॥ १४८ ॥ द्यूतकर्ताक्षधूर्तश्चाक्षदेवी सभिकश्च सः । द्यूतं दुरोदरं चाक्षवती कैतवमित्यपि ॥ १४९ ॥ पणोऽथ पाशकः प्रोक्तः प्रासकः परिभावितः । अष्टापदः शारिफलं खेलनी शारिरुच्यते ॥ १५० ॥ शारीणां नयनं सम्यक्परिणायो निगद्यते । समाह्वयः प्राणिद्यूतं सर्पग्राह्याहितुण्डिकौ ॥ १५१ ॥ ताततुल्यो देशकस्तु शास्ता तत्त्वोपदेशकः । पुण्यवान्सुकृती धन्यो रिष्टतातिः शिवंकरः ॥ १५२ ॥ क्षेमंकरः शिवताति?र्मित्रवत्सलमित्रयू । आस्तिके श्राद्ध आख्यातः [66]श्रद्धालुर्नास्तिके पुनः ॥ १५३ ॥ नास्तीतिमतिकश्चैष परलोकनिषेधकः । विरागी तु विरागार्होऽकल्कनो गतवञ्चने ॥ १५४ ॥ ;p{0121} क्षमः सहः समर्थोऽसौ प्रभूष्णुः शक्तनामकः । भूतगृहीतभूतात्ताविष्टा भूतनिपीडिते ॥ १५५ ॥ श्लथे तु शिथिलः प्रोक्तो नष्टबीजस्तु निष्कलः । अङ्गमर्दे तु संवाह आसीने तूपविष्टकः ॥ १५६ ॥ ऊर्ध्वंदमः स्थितोर्ध्वौ च प्रवासी देशिकोऽध्वगः । अध्वन्यश्चाध्वनीनश्च पान्थो हारिस्तु तद्गणे ॥ १५७ ॥ शम्बलं च समं प्रोक्तं पाथेयेन नपुंसकम् । जाङ्घिकोऽतिजवो वेगगामी जङ्घाल इत्यपि ॥ १५८ ॥ जङ्घाकरिकनामासौ त्वरितो जवनो जवी । वेगो जवो रयो वाजस्तरो रंहः स्यदः पुनः ॥ १५९ ॥ प्रसरोऽतिजवश्चैव मन्थरो मन्दगामिनि । कामंगामिनि कामीनोऽनुपूर्वोऽत्यन्तगामिनि ॥ १६० ॥ अत्यन्तीनोऽपि तत्रैव सहायः सेवकः समौ । अनुप्लवोऽभिगामी चानुगाम्यभिचरस्तथा ॥ १६१ ॥ ;p{0122} सेवा प्रसादना भक्तिः सेवनं परिचर्यया । परीष्ट्याराधनोपास्तिः शुश्रूषा वरिवस्यया ॥ १६२ ॥ भक्तिवाच्युपचारोऽपि पद्गपत्तिपदातिकाः । पदातिः पादचारी च पादातिकपदाजिनौ ॥ १६३ ॥ पुरोगोऽग्रसरश्चापि पुरोगाम्यग्रतःसरः । प्रष्ठः पुरोगमश्चैवाभ्यागतोऽपि विभाव्यते ॥ १६४ ॥ प्राघूर्णाभ्यासिकागन्त्वतिथिप्राघुणकाः समाः । आवेशिकमातिथेय्यातिथ्यं तत्र निगद्यते ॥ १६५ ॥ अस्तंगते रवौ प्राप्तः सूर्योढः प्राघुणो मतः । अभ्युत्थानं गौरवं च व्यथकः स्यादरुंतुदः ॥ १६६ ॥ मर्मस्पृगथ लोकस्तु प्रजा जन अपीक्षितः । ग्रामेयकस्तथा ग्राम्यग्रामीणावथ सत्कुले ॥ १६७ ॥ [67] प्रख्यातवप्तृकः कुल्योऽभिजातमहाकुले । कौलेयकः कुलीनोऽपि जात्योऽऽमुष्यायणः पुनः ॥ १६८ ॥ अन्ववायः कुलं गोत्रं संतानो जननं तथा । अन्वयोऽभिजनश्चापि वंशो नार्यां वधूर्वशा ॥ १६९ ॥ ;p{0123} वनिता वर्णिनी योषा वामा सीमन्तिनी च सा । महिलाबला तथा योषिद्विशेषास्तत्र केचन ॥ १७० ॥ प्रमदा सुन्दरी रामा भीरुः कान्ता नितम्बिनी । तद्विशेषा गुणैश्चान्ये यथा तरललोचना ॥ १७१ ॥ मत्तेभगमना मानवती लीलावती पुनः । वामाक्षी तु मृगाक्षी सा तथा स्यादलसेक्षणा ॥ १७२ ॥ सुस्मितास्या धनं लीलामानादिः स्यादनेकधा । विच्छित्तिश्च विलासोऽपि विव्वोको लीलया सह ॥ १७३ ॥ किलिकिञ्चितसंज्ञं च ललितं कुट्टिमं समे । मोट्टायितं तु विहृतं विभ्रमोऽपि निगद्यते ॥ १७४ ॥ भेदा दश समख्याताः स्त्रीणां शुभ्रा अलंकृतेः । भामिनी कोपना वामा मत्ता छेका च वाणिनी ॥ १७५ ॥ कनी कन्या कुमारी च नग्निका अरजाः स्मृता । दृष्टेन रजसा कन्या मध्यमा परिकीर्तिता ॥ १७६ ॥ तरुणी [च] चरी तुल्ये युवतौ तलुनी मता । वरार्हा दिक्करी वर्या स्वयंवरापतिंवरे ॥ १७७ ॥ वधूटी च चिरण्टी स्यात्सुवासिन्यपि कथ्यते । पत्नी पाणिग्रहीत्री तु गृहा दाराश्च भूमनि ॥ १७८ ॥ भार्या सहचरी जाया वधूः क्षेत्रं परिग्रहः । सधर्मिणी जनी जानिः गृहिणी च तथोच्यते ॥ १७९ ॥ ;p{0124} द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि । भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥ परस्परं भ्रातृवर्गकलत्राणि तु यातरः । वीरभार्या वीरकान्ता कुलबाला कुलस्त्र्यपि ॥ १८१ ॥ प्रेयसी हृदयेशा च दयिता प्राणवल्लभा । कान्ता प्राणसमा चैव प्रेष्ठा प्रणयिनी पुनः ॥ १८२ ॥ प्रेयस्याद्या अमी शब्दाः पुंसि स्युर्वरवाचकाः । पतिर्भर्ता वरः सेक्ता रमणो वरयिता तथा ॥ १८३ ॥ वि[68]वोढा च धवो भोक्ता रुच्यप्राणप्रियौ समौ । उद्वाहोऽथ विवाहश्चोपयामः पाणिपीडनम् ॥ १८४ ॥ दारकर्म तथा पाणिग्रहणं परिणयोऽपि च । पुत्रिकायाः पतिः प्रोक्तो जामाता पुंसलिङ्गकः ॥ १८५ ॥ जारे तूपपतिः पुंसि भुजंगो गणिकापतिः । सुदायो यौतकं तत्तु हरणं च विभाव्यताम् ॥ १८६ ॥ भार्यापती दम्पती तु तथा जायापती समे । महिषी पट्टराज्ञी स्याद्भोगिन्यो[ऽन्या?] नृपाङ्गना ॥ १८७ ॥ ;p{0125} स्वतन्त्रा त्वन्यवेश्मस्था सैरन्ध्री शिल्पजीविनी । संचारिका दूतिका त्वसिक्न्यन्तःपुरचारिणी ॥ १८८ ॥ आभीरी तु महाशूद्री जातिपुंयोगयोः समा । आचार्यी मातुलानी च पुंयोगे प्रोच्यते बुधैः ॥ १८९ ॥ आचार्यानी मातुली चोपाध्यायी क्षत्रियी समः । स्वतः शूद्रा तथाचार्या क्षत्रिया क्षत्रियाण्यपि ॥ १९० ॥ कामुक्यां तु वृषस्यन्तीच्छायुक्ताकामुके समे । पतिव्रता चैकपत्नी सुचरित्रा सती च सा ॥ १९१ ॥ असती धर्षिणी पांसुलाविनीतेत्वरी समाः । पुंश्चली बन्धकी चापि कुलटा स्वैरिणी मता ॥ १९२ ॥ वयस्या तु सखी सध्रीच्याली जीवत्पतिः पुनः । पतिवत्नी तथा रण्डा विश्वस्ता विधवा समाः ॥ १९३ ॥ निर्वीरा रमणी सा तु पतिपुत्रविवर्जिता । शिशुहीना तथाशिश्वी जीवत्तोका तु जीवसूः ॥ १९४ ॥ नश्यद्बाला च सा निन्दुः श्मश्रुयुग्नरमालिनी । अर्धवृद्धाधवा कात्यायिनी साप्यधवा स्मृता ॥ १९५ ॥ भिक्षुकी श्रवणा मुण्डा पोटा स्त्री तु नृलक्षणा । वेश्या पणाङ्गना वारवधूः पण्याङ्गना पुनः ॥ १९६ ॥ ;p{0126} साधारणस्त्री भुजिष्या रूपाजीवा च लञ्जिका । गणिकास्वामिनी चुन्दी शम्भली कुट्टिनी समे ॥ १९७ ॥ पोटी वोटी तथा दासी चेटी[69] स्यात्कुटहारिणी । कोटवी नग्निका तुल्या पलिक्नी वृद्धया सह ॥ १९८ ॥ रजस्वलाधिरात्रेयी मलिनी पुष्पवत्यवी । निष्कला पुष्पहीना स्याद्राका कन्या रजोवती ॥ १९९ ॥ रजः पुष्पं स्त्रियो धर्म आर्तवं मोहनं रतम् । सुरतं संप्रयोगश्च संवेशनं रहोरती ॥ २०० ॥ संभोगो ग्राम्यधर्मश्च मैथुनं कामकेल्यपि । पशुक्रियानिधुवने व्यवायो मिथुनं च तत् ॥ २०१ ॥ अन्तर्वत्न्यां गर्भिणी चोदरिणी गर्भवत्यपि । आपन्नसत्त्वा श्रद्धालुगुर्वी स्याद्दोहदान्विता ॥ २०२ ॥ प्रसूतिका प्रजाता च जातापल्या विजातिका । गर्भे तु गरभस्तुल्यौ भ्रूणो दोहदलक्षणम् ॥ २०३ ॥ गर्भशयो जरायूल्बे प्रसवे विजननं स्मृतम् । उल्बं च कललं प्रोक्तं दोहदं लालसा पुनः ॥ २०४ ॥ श्रद्धया दौहृदं तुल्यं दारको नन्दनः सुतः । तनयाङ्गजात्मजाः सूनुरुद्वहः पुत्र इत्यपि ॥ २०५ ॥ ;p{0127} सुतायां दुहिता पुत्री तुक्प्रजा तद्द्वयं मतम् । पुत्रिकायां तथा स्त्रीत्वे तोकापत्यप्रसूतयः ॥ २०६ ॥ भ्रातृव्यो भ्रातृपुत्रे तु भ्रात्रीयोऽथ स्वसुः सुते । जामेयभागिनेयौ तु स्वस्त्रीयकुतपौ समौ ॥ २०७ ॥ पुत्रपुत्रे नप्तृपौत्रौ दौहित्रः पुत्रिकासुतः । प्रपौत्रः प्रतिनप्ता स्यात्तत्पुत्रपरंपरौ ॥ २०८ ॥ पैतृष्वस्रीयपैतृष्वसेयौ पितृष्वसुः सुते । मातृष्वस्रीयमातृष्वसेयौ मातृष्वसुः सुते ॥ २०९ ॥ द्वैमातुरो विमात्रेयो द्विमातृजविमातृजौ । सतीपुत्रे समाख्यातो भाद्रमातुर इत्यपि ॥ २१० ॥ सांमातुरस्तथा प्रोक्तः कानीनः कन्यकासुतः । सौभागिनेय आख्यातः सुभगायाः सुतो बुधैः ॥ २११ ॥ परस्त्रीसंभवे तस्मिन्पारस्त्रैणेय उच्यते । दासीपुत्रे तु दासेरो दासेयोऽपि निगद्यते ॥ २१२ ॥ नटीसुतेऽथ नाटेरः कौलटेरोऽसतीसुतः । औरस्येऽथौरसश्चैव क्षेत्रजो देवराङ्गजे ॥ २१३ ॥ [70] गोलकश्च मृते पत्यावमृते कुण्ड एव सः । एते शब्दाः पुंसलिङ्गाः सगर्भः सोदरः समौ ॥ २१४ ॥ भ्राता सहोदरश्चैव समानोदर्यसंज्ञकः । सोदर्यसहजौ पित्र्यपूर्वजौ वृद्धसोदरे ॥ २१५ ॥ ;p{0128} कनिष्ठोऽवरजश्चैव यविष्ठोऽप्यनुजः स्मृतः । जघन्यजः कनीयांश्च यवीयानपि कथ्यते ॥ २१६ ॥ पितृव्यस्तु पितुर्भ्राता मातुलो मातृसोदरे । पत्नीभ्राता मतः श्यालो देवरः पतिबान्धवे ॥ २१७ ॥ देवा देवानन्तरं तौ समानार्थप्रकाशकौ । भगिन्या तु स्वसा जामिर्ननान्दा नन्दिनी पुनः ॥ २१८ ॥ पत्नीज्येष्ठस्वसा ज्येष्ठश्वश्रूः सा च कुली मता । श्यालिका यन्त्रिणी लध्वी हालिका केलिकुञ्चिका ॥ २१९ ॥ क्रीडा खेला नर्मकेली परिहासद्रवावपि । वर्करो ललनं नर्म देवनं कूर्दनं समे ॥ २२० ॥ पिता जनकतातौ तु वप्ता जनयिता समौ । रेतोधोबीजिनौ चापि पितृतातपितामहौ ॥ २२१ ॥ प्रपितामहतत्तातौ स्त्रीत्वे मातामहादयः । जनन्यम्बा प्रसूर्माता सवित्री जनयित्र्यपि ॥ २२२ ॥ उपमाता तु धात्री स्यात्कृमिला तु बहुप्रसूः । पतिपत्नीजनन्यां तु श्वश्रूरपि विभाव्यते ॥ २२३ ॥ ;p{0129} श्वशुरश्च तयोस्तातः पितरः पितृपूर्वजाः । मातामहा मातृवंश्या विशेषोऽयं निरीक्ष्यताम् ॥ २२४ ॥ भ्राता च भगिनी चापि भ्रातरावेकशेषतः । पुत्रश्च पुत्रिका चापि पुत्रौ वा पुत्रिकासुतौ ॥ २२५ ॥ समौ पिता च माता च पितरावेकशेषतः । बान्धवः स्वजनो ज्ञातिः सगोत्रः स्वनिजावपि ॥ २२६ ॥ बन्धुः स्वकीय आत्मीयः सपिण्डास्तु सनाभयः । नपुंसकं क्लीबषण्ढौ पण्डो देहे पुरं वपुः ॥ २२७ ॥ विग्रहः संचरो वेरं मूर्तिः कायघनावपि । क्षेत्रगात्रशरीराणि वर्ष्मसंहनने समे ॥ २२८ ॥ इन्द्रियायतनं बन्धोऽघनः ? [71] पुद्गलसंज्ञकाः । तनुः करणमाख्यातं मृतवर्ष्म कलेवरम् ॥ २२९ ॥ शवः कुणपनामाथ कबन्धो रुण्डमित्यपि । अपशीर्षं क्रियायुक्तं मृतकं तु विभाव्यताम् ॥ २३० ॥ देहलक्षणसामुद्रे प्रतीकोऽवयवः समौ । अङ्गेऽपघनश्चैकदेशस्तत्र निगद्यते ॥ २३१ ॥ वराङ्गं मस्तकं मूर्धोत्तमाङ्गं शिर इत्यपि । करणत्राणशीर्षे च मस्तिकं कं नपुंसके ॥ २३२ ॥ ;p{0130} मुण्डं मौलिः कचाः केशास्तीर्थवाकाश्च कुन्तलाः । वालाः स्युश्चिकुरास्तुल्या रचना भार उच्चयः ॥ २३३ ॥ हस्तः पाशः कलापश्च पक्षः केशचयोऽपि च । कर्करालालकौ तुल्यौ चूर्णकुन्तलखङ्खरौ ॥ २३४ ॥ कुरुलो भ्रमरकस्तुल्यौ भाले स्याद्भ्रमरालकः । बद्धकेशेषु धम्मिल्लः केशवेषे कबर्यपि ॥ २३५ ॥ प्रवेणी वेणिका तुल्ये सीमन्तो वर्त्मके समम् । पलितं तु धवलः केशः केशपाशी शिखा समे ॥ २३६ ॥ काकपक्षस्तु बालानां शिखण्डकशिखाण्डकौ । मुखं तु लपनं वक्त्रं तुण्डमास्यानने समे ॥ २३७ ॥ ललाटेऽमिकभाले तु गोध्यलीके समे उभे । श्रोत्रं कर्णः श्रुतिः शब्दाधिष्ठानं श्रवसा सह ॥ २३८ ॥ ध्वनिग्रहो महानादपैञ्जूषौ श्रवणं तथा । भालश्रवोऽन्तरे शङ्खो वेष्टनं कर्णशष्कुली ॥ २३९ ॥ नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी । अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥ ;p{0131} चान्द्रं तु नयनं वामं दक्षिणं भानुदैवतम् । ईक्षणं दर्शनं तुल्ये निशामननिभालने ॥ २४१ ॥ अवलोकननिध्याने कटाक्षश्चार्धवीक्षणम् । अपाङ्गदर्शनं चापि काक्षश्चाक्षिविकूणितम् ॥ २४२ ॥ उन्मीलनं तथोन्मेषो निमेषः स्थान्निमीलने । क्रोधाद् भ्रुवो विकारस्तु भ्रकुटिर्भ्रूकुटिः समे ॥ २४३ ॥ भ्रुकुटिर्भृकुटिश्चापि भ्रूमध्ये कूर्चकूर्पके । पक्ष्म चक्षुर्गतं रोम भ्रूरूर्ध्वं रोमपद्धतिः ॥ २४४ ॥ शिङ्घिनी नासिका नासा नक्रं घोणा विकूणिका । गन्घज्ञा घ्राणमाख्यातं तद्वन्नर्कुटकं स्मृतम् ॥ २४५ ॥ रदच्छदो दन्तवस्त्रमधरोष्ठावपीरितौ । तदन्तौ सृक्कणी चैवाधोऽसिकं चिबुकं पुनः ॥ २४६ ॥ असिकाधस्तथा प्रोक्तं कपोलः सृक्कणः समौ । गण्ङो गल्लो हनुश्चाथ श्मश्रु कूर्चमपीक्षितम् ॥ २४७ ॥ मासुरी मुखरोम स्याद्दंष्ट्रा दाढा च दाढिका । रदा दन्ता द्विजा दंशा रदना दशना अपि ॥ २४८ ॥ ;p{0132} मघ्यस्थौ राजदन्तौ तौ लोला जिह्वा रसज्ञया । रसनाथ काकुदं तालु घण्टिका तु सुधास्रवा ॥ २४९ ॥ शिरोधरा शिरोधिस्तु कन्धरा ग्रीवया सह । कम्बुग्रीवा त्रिरेखा स्याद्घाटिका तु कृकाटिका ॥ २५० ॥ वीतनौ कृकपार्श्वौ तु कृकः स्यात्कन्धरान्तरम् । स्कन्धो भुजशिरोंऽसोऽथ दोः प्रवेष्टो भुजोऽपि च ॥ २५१ ॥ बाहुर्बाहाथ दोर्मूलं भुजकोटर एव सः । कक्षा स्यात्खण्डिका चाथ पार्श्वं स्यादंसयोरधः ॥ २५२ ॥ भुजामध्ये कफोणिस्तु कूर्परः कफणिः समौ । मणिबन्धादधोभागे प्रकोष्ठः स्यात्कलाचिका ॥ २५३ ॥ करः पाणिः शयो हस्तपञ्चशाखावपीरितौ । मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥ अङ्गुली करशाखाङ्गुरी चाङ्गुष्ठाङ्गुलौ समौ । प्रदेशिनी तु तर्जन्यां मध्या ज्येष्ठा तु मध्यमा ॥ २५५ ॥ अनामिका तु सवित्री कनिष्ठा तु कनीनिका । पुनर्भवो महाराजो भुजाकण्टनखावपि ॥ २५६ ॥ ;p{0133} नखरः करशूकोऽपि कामाङ्कुश इतीरितः । प्रसारिताङ्गुलौ हस्ते चपेटप्रतलौ समौ ॥ २५७ ॥ तालस्तलः प्रहस्तोऽपि तालिका च तथा स्मृता । संयुतौ तु करौ सिंहतलः स्याद्गीतमेलकः ॥ २५८ ॥ मीलिताङ्गुलिहस्ते तु मुस्तुः स्यान्मुचुटी स्त्रियाम् । प्र[73]सृतौ प्रसृत आख्यातोऽथाञ्जलिर्द्वौ करौ युतौ ॥ २५९ ॥ चलुकः चलुराख्यातो गण्डूषो द्रवपूरितः । बद्धमुष्टिकरो रत्निर्निष्कनिष्ठोऽप्यरत्निकः ॥ २६० ॥ उत्सङ्गाङ्कावपि क्रोड उरो वक्षो भुजान्तरम् । हृदयं हृत्तथा क्रोडो वक्षोजान्तरमेव तत् ॥ २६१ ॥ स्तनौ कुचौ समौ प्रोक्तावुरोजौ तु पयोधरौ । चूचुकं स्तनवक्त्रं तु स्तनवृन्तं स्तनाच्छिखा ॥ २६२ ॥ जठरं पिट्टकुक्षी चोदरं ? तुन्दं समं मतम् । पिचण्डो गर्भतुन्दी तु कालखञ्जं तु कालकम् ॥ २६३ ॥ कालेयं कालखण्डं च यकृत्तत्र निरीक्षितम् । दक्षिणे तिलकं पार्श्वे वामे स्याद्रक्तफेनजः ॥ २६४ ॥ ;p{0134} गुल्मप्लीहावथान्त्राणि तद्वत्तत्र पुरीतति । स्मृता रोमलता रोमवली स्यात्तुन्दकूपिका ॥ २६५ ॥ नाभिर्नाभेरधोभागे बस्तिर्मूत्रपुटं पुनः । मूत्राशयोऽवलग्नं तु विलग्नं मध्यमध्यमौ ॥ २६६ ॥ कटिः श्रोणिः कलत्रं च कटीरं कट इत्यपि । काञ्चीपदककुद्मत्यावारोहस्तु नितम्बकः ॥ २६७ ॥ बुलिश्च्युतिर्भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् । स्मृतोऽपत्यपथश्चैव वराङ्गं स्मरकूपिका ॥ २६८ ॥ मेढ्रं कामलता शेफो मेहनं शेफसा सह । पुंश्चिह्नं शिश्नमाख्यातमण्डकोशाण्डकौ समौ ॥ २६९ ॥ पेलाण्डे वृषणो मुष्को गुदं पायुश्च्युतिः स्त्रियाम् । शकृद्वारमपानं चाधोमर्म बुलिनाम तु ॥ २७० ॥ वङ्क्षणस्तूरुसन्धिः स्यात्सक्थ्यूरुस्तस्य पर्वणि । नलकीलस्तथा जानु पश्चाद्भागोऽस्य मन्दिरः ॥ २७१ ॥ ;p{0135} प्रसृता चाग्रिमो जङ्घा कपोली नलकिन्यपि । पादग्रन्थौ तु गुल्फः स्याद्घुटो घुटिकघुण्टकौ ॥ २७२ ॥ ------------ पिण्डिकायां पिचण्डिका । चरणांह्री क्रमः पादश्चलनः क्रमणः समौ ॥ २७३ ॥ गोहिरं पादमूले च घुण्टाधः पार्ष्णिरुच्यते । प्रपदं क्षिप्रमंह्र्यग्रे [74] तलं पादतले स्मृतम् ॥ २७४ ॥ तिलकः कालकः पिप्लुर्जडुलस्तिलकालकः । अस्धिशुक्रे रसो मज्जा मेदासृग्मांसनामकाः ॥ २७५ ॥ स्नायुत्वग्रोमभिः सार्धं धातवो दशधा स्मृताः । रस आहारतेजोऽग्निसंभवः षड्रसासवः ॥ २७६ ॥ आत्रेयोऽसृक्करो धातुर्धनमूलमहापरः । शोणितं रुधिरं रक्तं रसतेजो रसोद्भवम् ॥ २७७ ॥ आग्नेयं लोहितं विस्रं वाशिष्ठं प्राणदं समम् । आसुरं क्षतजं चास्रमसृग्मांसकरं हि तत् ॥ २७८ ॥ पललं जङ्गलं क्रव्यं मांसं स्याद्रक्तसंभवम् । काश्यपं रक्ततेजोऽपि मेदस्कृत्तरसं तथा ॥ २७९ ॥ ;p{0136} पिशितं पलकीने च पेशी मांसस्य वल्लरी । अग्रिमे सुरसं वृक्का बुक्का स्याद्धृदयं हृदा ॥ २८० ॥ शुष्कमांसे तु वल्लूरमुत्तप्तं च विभाव्यताम् । दूष्यपूये समे चैव वपा त्वस्थिकरी मता ॥ २८१ ॥ मेदो मांसस्य तेजो हि मांसजं गौतमं बसा । कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥ करङ्कः स्याच्छरीरास्थि मज्जा शुक्रकरोऽपि च । शुक्रं वीर्यं बलं रेतः पौरुषं किट्टवर्जितम् ॥ २८३ ॥ पुंस्त्वं मज्जसमुद्भूतमिन्द्रियानन्दसंभवे । तनूरुहं लोम रोम चर्म कृत्तिस्तथाजिनम् ॥ २८४ ॥ छादिनी त्वक् छविश्चापि वस्नसा स्नसया सह । स्नायुर्धमनयो नाड्यः कण्डरा महती वसा ॥ २८५ ॥ किट्टं मलं नेत्रजे तु दूषीका दूषिका समे । जिह्वायाः कुलुकं किट्टं पिप्पिका दन्तसंभवे ॥ २८६ ॥ शिङ्घाणो घ्राणजे तस्मिन्पिञ्जूषः कर्णयोर्मलम् । पुष्पिका लिङ्गजे तस्मिन्विशिष्यैवं विभाव्यताम् ॥ २८७ ॥ ;p{0137} सृणीकास्यासवो लाला स्यन्दिनी कफकूर्चिका । मूत्रं मेहः स्रवो बस्तिमलं प्रस्राव एव च ॥ २८८ ॥ विष्ठा गूथपुरीषे च वर्चस्कं वर्चसा सह । विट् शकृच्छमलोच्चारौ [75] परिकर्म त्वलंकृतिः ॥ २८९ ॥ आकल्पो वेषनेपथ्ये संस्क्रियोद्वर्तनं पुनः । पटवासकपिष्टातौ चूर्णं स्याद्वासयोगतः ॥ २९० ॥ अधिवासनसंस्कारौ गन्धमाल्यादिना कृतम् । उपभोगोऽपि निर्वेशो विशेषोऽयं निरीक्ष्यताम् ॥ २९१ ॥ आप्लवः सवनस्नाने कस्तूरीचन्दनादिभिः । कर्पूरागरुकक्कोलैः स्मर्यते यक्षकर्दमः ॥ २९२ ॥ चतुःसमं तु तत्प्रोक्तं कुङ्कुमादिचतुश्चये । अगर्वगुरुलोहे तु राजार्हं कृमिजं च तत् ॥ २९३ ॥ काकतुण्डोऽसितः प्रोक्तः श्रीखण्डं रोहणद्रुमः । रक्तचन्दनपत्राङ्गे क्लीबलिङ्गे समे उभे ॥ २९४ ॥ ;p{0138} रञ्जनं ताम्रसारं च कुचन्दनमपि स्मृतम् । जातीफलं जातिकोशः कर्पूरो हिमवालुका ॥ २९५ ॥ चन्द्रः सिताभ्र आख्यातो घनसारसमाख्यकः । कस्तूरी मृगनाभिः स्याद्गन्धधूली मृगान्मदः ॥ २९६ ॥ काश्मीरजन्मवर्णे तु घुसृणं रक्तचन्दनम् । कालेयजागुडे वह्निशिखं वाह्लीकमप्यदः ॥ २९७ ॥ श्रीसंज्ञं देवकुसुमं लवङ्गं कोलकं समम् । कक्कोलकं कोशफले यक्षधूपोऽग्निवल्लभः ॥ २९८ ॥ रालः सर्जरसः सर्जमणिः सर्वरसोऽपि च । तुरुष्कः पिण्डकः सिल्हो वृक्षधूपे तु पायसः ॥ २९९ ॥ भूषणाभरणे तुल्ये परिष्कारमलंकृतिः । स्थासको हस्तबिम्बं च चूडारत्ने शिरोमणिः ॥ ३०० ॥ हारमध्यस्थिते तस्मिन्नायकस्तरलः समौ । कोटीरमुकुटे मौलिः किरीटोष्णीष इत्यपि ॥ ३०१ ॥ स्रग्माला पुष्पदामापि माल्यं स्यान्मूर्धगं हि तत् । ललामकं पुरोन्यस्तं शिखालम्बि तथा मतम् ॥ ३०२ ॥ ;p{0139} प्रालम्बं डुम्बणं तुल्यमृजुलम्बि तथा मतम् । ग्रन्थनं रचना गुम्फः संदर्भो रचनं पुनः ॥ ३०३ ॥ [76] चित्रं तमालपत्रं च तिलकः पुण्ड्र एव सः । उत्तंसशेखरापीडावतंसाः शिरसः स्रजि ॥ ३०४ ॥ पत्राङ्गुली पत्रपाश्या पत्रभङ्गी समा मताः । ललाटिका पत्रलेखा तथा पत्रलता समाः ॥ ३०५ ॥ पारितथ्या बालपाश्या कर्णिका कर्णभूषणम् । ताडपत्रे तु ताडङ्कः कर्णवेष्टककुण्डले ॥ ३०६ ॥ हारो मुक्तालता मुक्तावली मुक्ताकलापकः । तद्विशेषा यथा देवच्छन्दः साष्टं शतं स्मृतम् ॥ ३०७ ॥ इन्द्रच्छन्दः सहस्रं स्याच्छन्दो विजयपूर्वकः । अर्धहारे चतुःषष्टिर्गुच्छमाणवमन्दराः ॥ ३०८ ॥ ग्रैवेयकं लम्बमाना कण्ठभूषा ललन्तिका । अङ्गदं बाहुभूषा च केयूरं करभूषणे ॥ ३०९ ॥ ;p{0140} कङ्कणं कटकः पारिहार्यो वलयमेव च । अवापो हस्तसूत्रं चोर्मिका स्यादङ्गुलीयकम् ॥ ३१० ॥ मेखला कटिसूत्रं स्यात्काञ्ची सारसनं तथा । कलापो रसना चैव शृङ्खला पुंस्कटीस्थिता ॥ ३११ ॥ किङ्किणी लघुघण्टिः स्यात्तुलाकोटिस्तु नूपुरे । पादाङ्गदं च मञ्जीरं पादात्कटकमित्यपि ॥ ३१२ ॥ चीराम्बरे वस्त्रचेले वासः सिक् सिचयोंऽशुकम् । पटाच्छादावथ प्रान्ते वस्तिवर्ती दशाः समाः ॥ ३१३ ॥ धौतकौशेयपत्रोर्णे उष्णीषं मूर्धवेष्टनम् । धौतवस्त्रयुगं तूद्गमनीयं च निगद्यते ॥ ३१४ ॥ तदुत्पत्तिश्चतुर्धास्ति त्वक्फलादिविभेदतः । पट्टकूलदुगूले तु दुकूलं क्षौममप्यदः ॥ ३१५ ॥ कार्पासबादरे चापि कौशेयं कृमिकोशजम् । राङ्कवं मृगरोमोत्थमौरभ्रः कम्बलः समौ ॥ ३१६ ॥ आविको रल्लकश्चापि नवं वस्त्रमनाहतम् । स्थूलशाटवराशी च परिधानमथोऽम्बरम् ॥ ३१७ ॥ ;p{0141} अन्तरीयोपसंव्याने तथा निवसनं पुनः । नीव्युच्चयौ[77]चलनं तु तद्वच्चण्डातकं मतम् ॥ ३१८ ॥ कूर्पासः कञ्चुकश्चोलोऽङ्गिका कञ्चुलिका च सा । शाटी चोटी समे प्रोक्ते नक्तकः कर्पटः समौ ॥ ३१९ ॥ कक्षापटश्च कौपीनं कुथः स्याच्चित्रकम्बलः । जवनी प्रतिसीरा चापटी काण्डपटः पुमान् ॥ ३२० ॥ चन्द्रोदयो वितानं चोल्लोचः कदक इत्यपि । केणिका पटकुट्यां स्यात्स्थुलदूष्ये समे उभे ॥ ३२१ ॥ स्रस्तरः संस्तरश्चैव शय्या शयनमुच्यते । शयनीयतलिमे तुल्ये तल्पं पर्यङ्कमञ्चकौ ॥ ३२२ ॥ --------------------उच्छीर्षकमपि स्मृतम् । उपधानं समं बर्हे प्रतिग्राहपतद्ग्रहौ ॥ ३२३ ॥ दर्पणो मकुरादर्शावात्मदर्शोऽप्यथासनम् । विष्टरः पीठमासन्दी वेत्रासनमपीरितम् ॥ ३२४ ॥ एकोक्त्या कशिपुः प्रोक्तो भोजनाच्छादनद्वये । शय्यासने तथौशीरं लाक्षा राक्षा पलंकषी ॥ ३२५ ॥ ;p{0142} द्रुमामयो रङ्गमाता क्षतघ्ना कृमिजा जतु । अलक्तो याव आख्यातः कज्जलं त्वञ्जनं समम् ॥ ३२६ ॥ दशेन्धनः प्रदीपोऽपि दशाकर्षाञ्जनध्वजौ । स्नेहप्रियो वेश्मरत्नं व्यजनं तालवृन्तके ॥ ३२७ ॥ मृगत्वचो धवित्रं तु आलावर्तं तु वासकः । प्रसाधानस्तथा प्रोक्तः केशमार्जनकङ्कतौ ॥ ३२८ ॥ गेन्दुकः कन्दुको बालक्रीडने तु गुडो गिरिः । गिरियकौ गिरिगुडो राजा भूभृन्महीपतिः ॥ ३२९ ॥ पार्थिवो राड् नृपो मूर्धाभिषिक्तो भूप इत्यपि । सार्वभौमश्चक्रवर्ती सर्वमण्डलनायकः ॥ ३३० ॥ आदिराजः पृथुः प्रोक्तो हरिश्चन्द्रस्त्रिशङ्कुजः । कुवलाश्वो धुन्धुमार ऐलबौधौ पुरूरवाः ॥ ३३१ ॥ शकुन्तलात्मजः सर्वंदमो भरतनामकः । हैहेयः कार्तवीर्योऽप्यर्जुनः स्याद्दोःसहस्रभृत् ॥ ३३२ ॥ ;p{0143} कौशल्यानन्दनो रामस्तथा दाशरथिः स्मृतः । मैथिली जान[78]की सीता वैदेही धरणीसुता ॥ ३३३ ॥ रामपुत्रौ तु कुशलवावेकोक्त्या च कुशीलवौ । सौमित्रिर्लक्ष्मणः प्रोक्तो मारुतिर्वज्रकङ्कटः ॥ ३३४ ॥ हनूमानाञ्जनेयोऽपि वालिर्वालीन्द्रनन्दनः । रक्षःपतिस्तु पौलस्त्यो रावणो दशमस्तकः ॥ ३३५ ॥ आदित्यपुत्रसुग्रीवौ शक्रजिद्रावणिश्च सः । मन्दोदरीसुतो मेघनादोऽथ स्याद्युधिष्ठिरः ॥ ३३६ ॥ धर्मपुत्रोऽजमीढोऽथ भीमः स्यात्पवनात्मजः । वृकोदरो हिडिम्बघ्नो बककीचकघातकः ॥ ३३७ ॥ अर्जुनो नरपार्थौ तु गुडाकेशधनंजयौ । फाल्गुनः सव्यसाची च राधावेधी बृहन्नटः ॥ ३३८ ॥ किरीट्यैन्द्रिः सुभद्रेशश्चापे गाण्डीवगाण्डिवे । पाञ्चाली याज्ञसेनी च द्रौपदी नित्ययौवना ॥ ३३९ ॥ ;p{0144} सैरन्ध्री वेदिजा कृष्णा कर्णः सूर्यसुतोऽङ्गराट् । चम्पाधिपः सूतपुत्रः कालपृष्ठं तु तद्धनुः ॥ ३४० ॥ परिग्रहः परिवारः परिस्यन्दपरिच्छदौ । पुल्लिङ्गे परिकरस्तन्त्रोपकरणे समे ॥ ३४१ ॥ राजशय्या महाशय्या हैमं सिंहासनं स्मृतम् । भद्रासनं राजयोग्यं छत्रमातपघातकम् ॥ ३४२ ॥ प्रकीर्णकं रोमगुच्छो बालव्यजनचामरे । स्थगी ताम्बूलकरङ्को भृङ्गारः कनकालुकः ॥ ३४३ ॥ पादासनं पादपीठं भद्रकुम्भः शुभो घटः । मन्त्री तु धीसखोऽमात्यः सचिवः सामवायिकः ॥ ३४४ ॥ नियोगी व्यापृतः कर्मसचिवायुक्तावपि स्मृतौ । प्रधानानि महामात्राः सौवस्तिकपुरोहितौ ॥ ३४५ ॥ पुरोधाश्च प्रतीहारः क्षत्ता दौवारिकस्तथा । उत्सारको वेत्रिदण्डिद्वाःस्था अन्तःपुरे त्वथ ॥ ३४६ ॥ शुद्धान्तश्चावरोधश्चावरोधनमपीरितम् । सौविदाः सौविदल्लाश्च ते च कञ्चुकिनः स्मृताः ॥ ३४७ ॥ ;p{0145} तुल्या[79]वंतःपुराध्यक्षेऽन्तर्वंशिकावरोधिकौ । सूपकारो भक्तकारो बल्लवः सूद इत्यपि ॥ ३४८ ॥ घट्टशुल्कावुभौ तुल्यौ अरिशत्रू द्विषन्रिपुः । विपक्षोऽसहनो दस्युर्द्विड् द्वेषी शात्रवोऽपि च ॥ ३४९ ॥ प्रत्यर्थी च पराराती प्रत्यनीको जिघांसुकः । अमित्रः प्रत्यवस्थाताभियातिरहितोऽपि च ॥ ३५० ॥ विद्वेषे तु विरोधः स्याद्वैरं तत्र निगद्यते । सखा मित्रं सुहृत्स्निग्धः सवयाः सहचरस्तथा ॥ ३५१ ॥ वयस्यस्तु समानोऽसौ सौहृदं सख्यमुच्यते । मैत्री साप्तपदीनं तु सौहार्देऽजर्यमित्यपि ॥ ३५२ ॥ चरो यथार्हवर्णः स्याद्गूढपूरुषहेरिकौ । अनुरोधानुवृत्ती त्ववसर्पः प्रणिधिः समौ ॥ ३५३ ॥ वार्तायनो मन्त्रवित्तु स्पशश्चारस्तथोच्यते । आप्तो यथार्थवादी च पुमान्प्रत्ययितोऽपि सः ॥ ३५४ ॥ ;p{0146} संदेशहारको दूतो गृहस्वामी तु सत्रिणि । षड्गुणा विग्रहसन्धियानद्वैधाश्रयासनम् ॥ ३५५ ॥ अन्यत्वं शक्तयस्तिस्रो मन्त्रोत्साहप्रभुत्वजाः । चत्वारः स्युस्तथोपायाः सामदानादयो यथा ॥ ३५६ ॥ सान्त्वनं साम भेदस्तूपजापो दण्डनं दमः । प्राभृतं ढौकनं तुल्ये उत्कोचो लञ्चया सह ॥ ३५७ ॥ द्यूतं मांसं परस्त्री च सुराचौर्यपणाङ्गनाः । पापर्धिरथ वा राज्ञां मृगयाक्षाः स्त्रियः पुनः ॥ ३५८ ॥ वचःपारुष्यपाने च पारुष्यं चार्थदण्डयोः । पराक्रमोऽपि शौण्डीर्यं शौर्यविक्रमपौरुषम् ॥ ३५९ ॥ कोशदण्डोद्भवं तेजः प्रतापश्च प्रभाववत् । परीक्षा सोपधा प्रोक्ता धर्मकामार्थसाध्वसैः ॥ ३६० ॥ स मन्त्रस्त्वषडक्षीणो यत्तृतीयाद्यगोचरः । एकान्तालोचनं मन्त्रो रहस्यं गुह्यमुच्यते ॥ ३६१ ॥ छन्नं रहो विविक्तं चैकान्तं विजनं च तत् । न्याय्यं समञ्जसं देश[80]रूपाभ्रेषौ नयः पुनः ॥ ३६२ ॥ ;p{0147} साम्प्रतं तूचितं युक्तं योग्ये द्वे वाच्यलिङ्गगे । मर्यादा स्थितिसंस्थे तु धारणापि निगद्यते ॥ ३६३ ॥ अपराधो व्यलीकं च मन्तुः स्याद्विप्रियागसी । भागधेयो बलिश्चैव करे सेना पताकिनी ॥ ३६४ ॥ ध्वजिनी वाहिनी तन्त्रं चमूर्दण्डो वरूथिनी । अनीकं चक्रसैन्ये च कटकं पृतना पुनः ॥ ३६५ ॥ तत्स्थितिः स्कन्धवारः स्याद्रचना शिबिरे मता । अक्षौहिण्यादयो भेदा ज्ञेया ग्रन्थान्तरात्स्वयम् ॥ ३६६ ॥ पताका वैजयन्ती च केतनं ध्वज उच्यते । पत्ती रथो गजो वाजी सेनाङ्गं तु चतुर्विधम् ॥ ३६७ ॥ युद्धार्थं चक्रवद्यानं विशेषोऽयं विभाव्यताम् । स्यन्दनस्तु शताङ्गः स्यात्कर्णीरथरथावपि ॥ ३६८ ॥ डयनं रथगर्भः स्यात्कूवरी रथनाम च । शकटोऽनोऽथ गन्त्री स्यात्तथा कम्बलिवाह्यकम् ॥ ३६९ ॥ पाण्डुकम्बलसंवीते पाण्डुकम्बलिसंज्ञकः । रथाङ्गं रथपादोऽरि चक्रं धारास्य तु प्रधिः ॥ ३७० ॥ ;p{0148} नेमिरक्षाग्रकीले स्यात्कूबरं तु युगंधरम् । शम्या स्याद्युगकीले तु सारथिः प्राजिताथ वा ॥ ३७१ ॥ अश्वारोहोऽश्ववारोऽपि तुरगी सादिनि स्मृतः । हस्त्यारोहे महामात्रो निषादी सादिना सह ॥ ३७२ ॥ आघोरणो गजाजीवो यन्तृहस्तिपकावपि । योधा भटाश्च योद्धारः सैनिकाः सैन्यरक्षकाः ॥ ३७३ ॥ योद्धारस्तु सहस्रेण साहस्राश्च सहस्रिणः । छायाकरश्छत्रधारी पताकी ध्वजधारकः ॥ ३७४ ॥ सन्नाहो जगरो दंशः कङ्कटश्च [81] निचोलकः । कञ्चुकः कवचो वर्म वारबाण उरश्छदः ॥ ३७५ ॥ अधिकाङ्गं तथा सारसनं हृदयकञ्चुकः । शिरस्कं शीर्षकं तुल्यं शीर्षण्यं मस्तकावनम् ॥ ३७६ ॥ नागोदजठरत्राणे मत्कुणं जङ्घयोर्विदुः । बाहुलं च भुजत्राणं जालप्राया तु जालिका ॥ ३७७ ॥ शस्त्रजीव्यायुधीयोऽपि काण्डपृष्ठोऽपि कथ्यते । कौन्तिकः प्रासिकश्चापि --------------------- ॥ ३७८ ॥ ;p{0149} परश्वधायुधः पारश्वधः स्यात्पर्शुधारकः । तथा याष्टीकशाक्तीकनैस्त्रिंशिकमुखा नराः ॥ ३७९ ॥ धनुर्धरस्तु धानुष्कतूणिनावथ काण्डवान् । काण्डीरः कृतहस्तस्तु सुप्रयुक्तशरो हि यः ॥ ३८० ॥ लघुहस्तः शीघ्रवेधी शास्त्रं हेतिस्ततायुधम् । अस्त्रं प्रहरणं तुल्यमथ भेदान्ब्रुवे गुरुन् ॥ ३८१ ॥ कोदण्डं कार्मुकं चाप इष्वासोऽस्त्रं धनुस्तथा । जीवा मौर्वी गुणो गव्या ज्या शिञ्जा शिञ्जिनी द्रुणा ॥ ३८२ ॥ लक्ष्यं शरव्यकं वेध्यं बाणनाम शराशुगौ । काण्डः पत्रीषुनामाथ पत्रवाहश्च सायकः ॥ ३८३ ॥ कलम्बमार्गणौ रोपः कङ्कपत्रशिलीमुखौ । अजिह्मगश्चित्रपुङ्ख एषणः सर्वलौहकः ॥ ३८४ ॥ प्रक्ष्वेडनश्च नाराचो विषाक्ते विषलिप्तकः । पत्रणा पक्षवाजौ तु पुङ्खन्यासावुभौ समौ ॥ ३८५ ॥ कलापे तु निषङ्गः स्यात्तूणीरशरधी समौ । शराश्रय उपासङ्गतूणौ खड्गे कृपाणकः ॥ ३८६ ॥ ;p{0150} निस्त्रिंशमण्डलाग्रौ चासिः कौक्षेयकसंज्ञकः । करवालश्चन्द्रहास ऋष्टिरिष्टी त्सरुः पुनः ॥ ३८७ ॥ प्रत्याकारपरीवारौ कोशः स्यादसिसंवृतौ । खोटकः फलकं चर्माड्डनं चावरणं तथा ॥ ३८८ ॥ संग्राहस्त्वस्य मुष्टिः स्याद्भिन्दिपा[82]लः सृगोऽपि सः । प्रासकुन्तावथो दण्डो यष्टिः स्याल्लगुडोऽपि च ॥ ३८९ ॥ कृपाणिका छुरी शस्त्र्यसिपुत्री च क्षुरी समा । मुद्गरे तु घनः प्रोक्तो द्रुघणः परशुर्यथा ॥ ३९० ॥ परश्वधः कुठारोऽपि पर्शुः स्वधितिपर्श्वधौ । शूले त्रिशीर्षकं प्रोक्तं तोमरे सर्वला मता ॥ ३९१ ॥ खुरली तु श्रमः प्रोक्तस्तद्भूमिः स्यात्खलूरिका । जित्वरो जेतृजिष्णू तु सांयुगीनो रणे क्षमः ॥ ३९२ ॥ बलं द्युम्नं तरः स्थाम शौर्यं शुष्मं पराक्रमः । ओजः प्राणः सहः शक्तिरूर्जः शुष्म च कथ्यते ॥ ३९३ ॥ ;p{0151} संग्रामसमरे युद्धं द्वन्द्वसङ्ख्ये कलिः समित् । अजन्यायोधने संयद्रणो विग्रह इत्यपि ॥ ३९४ ॥ आहवः संप्रहारोऽपि संस्फोटकलहौ समौ । अनीकं प्रधानाजी वाक्रन्दः संयुगमित्यपि ॥ ३९५ ॥ संगरः समिति राटिः समुदायो विदारणम् । अभ्यामर्दः समीकं च सम्परायो मृधं च युत् ॥ ३९६ ॥ अग्रयाने तु नासीरं जयो विजय इत्यपि । पराजयस्तु भङ्गः स्याड्डमरे डिम्बविप्लवौ ॥ ३९७ ॥ वैरप्रतिक्रिया वैरनिर्यातनमपि स्मृतम् । प्रसभं हठबलात्कारौ छलं स्यात्स्खलितं च तत् ॥ ३९८ ॥ जितः पराजितो भग्नः पराभूतोऽपि कथ्यते । नष्टः पलायितोऽप्यात्तदिक्तिरोहित इत्यपि ॥ ३९९ ॥ प्रस्कन्नपतितौ तुल्यौ जितकाशी जिताहवः । कारा बन्दी तथा चारगुप्ती प्रग्रहनाम च ॥ ४०० ॥ वैश्यशूद्रद्विजक्षत्राश्चातुर्वर्ण्यं नृणां मतम् । ब्रह्मचारी गृही तस्माद्वानप्रस्थोऽथ भिक्षुकः ॥ ४०१ ॥ ;p{0152} आश्रमाः स्युश्चतुःसंख्या ब्रह्मचारी तु वर्णिनि । गृहस्थो गृहमेधी तु गृही स्नातक इत्यपि ॥ ४०२ ॥ वानप्रस्थे तु वैखानसो यतिर्भिक्षुनामकः । सांन्यासिको रक्तवस्त्रः कर्मन्दी तापसोऽपि सः ॥ ४०३ ॥ पारिका[83]ङ्क्षी परिव्राट् च पाराशरिणि मस्करी । जितेन्द्रियः शान्तदान्तौ तपःक्लेशसहोऽपि सः ॥ ४०४ ॥ ब्राह्मणो वाडवो विप्रः सूत्रकण्ठस्त्रयीमुखः । भूदेवो वर्णज्येष्ठश्च द्विजातिश्चाग्रजस्तथा ॥ ४०५ ॥ षट्कर्मा च द्विजन्मा स्याद्विजः स्यान्मुखसंभवः । सावित्रो वेदगर्भश्चैतसमैत्रावपि स्मृतौ ॥ ४०६ ॥ बटुर्माणवकस्तुल्यौ पुल्लिङ्गौ हीनवाडवौ ? । वहनं यानपात्रं च वोहित्थं स्याद्वहित्रकम् ॥ ४०७ ॥ पोतः पोतवणिक्पोतवाहः सांयात्रिकोऽपि सः । नाविकः कर्णधारोऽपि निर्यामः स्यान्नियामकः ॥ ४०८ ॥ काष्ठाम्बुवाहिनी द्रोणी तरी बेडा तरिण्यपि । क्षेपणी तु [त?]रीदण्डः कूपको गुणवृक्षकः ॥ ४०९ ॥ ;p{0153} पोलिन्दास्त्वन्तरादण्डा मङ्गः स्यात्तरिणीशिरः । सेचनं सेकपात्रे स्यादरित्रे केनिपातकः ॥ ४१० ॥ गुञ्जा स्यात्पञ्चभिर्माषैः कर्षः षोडशमाषकैः । पलं कर्षचतुष्केन तुला पलशतं मतम् ॥ ४११ ॥ तुलानां विंशतिर्भार आचितः शाकटोऽपि च । कुडवानां चतुष्केन प्रस्थः स्यात्पुंसलिङ्गकः ॥ ४१२ ॥ आढकस्तु चतुर्भिः स्यात्प्रस्थैरथ तथाढकैः । चतुर्भिर्द्रोणनामाथ खारी षोडशभिश्च तैः ॥ ४१३ ॥ अङ्गुलानां चतुर्विंशत्या हस्तोऽथ चतुष्करः । दण्डस्तत्सहस्रौ तु गव्यूतं क्रोश उच्यते ॥ ४१४ ॥ क्रोशौ द्वौ गोरुतं गव्या गव्यूतिः स्त्री निशम्यते । योजनं तु चतुष्क्रोशं गोमान्गोमी गवीश्वरे ॥ ४१५ ॥ आभीरो वल्लवो गोपो गोपालोऽपि निवेदितः । कृषीवलो हली क्षेत्री कार्षकः कर्षकोऽपि च ॥ ४१६ ॥ सीरस्तु लाङ्गलं प्रोक्तं हलं गोदारणं समे । दात्रं लवित्रमप्युक्तं खनित्रं त्ववदारणम् ॥ ४१७ ॥ आबन्धो योक्त्रयोत्रे च प्रतोदः प्राजने मतः । तोदनं च प्रवयणं लोष्टभेदनकोटिशौ ॥ ४१८ ॥ ;p{0154} वृषलोऽन्त्यवर्णशूद्रौ च कारुः प्रकृतिकारिणौ । [85] शिल्पी शिल्पं कला ज्ञानं विपूर्वं लिखनादि तत् ॥ ४१९ ॥ मालिकारामिकौ मालाकारः स्यात्पुष्पजीविनि । तस्य स्त्री पुष्पलावी स्यात्पुष्पाणामवचायिनी ॥ ४२० ॥ कलादो मुष्टिकः स्वर्णकारो नाडिंधमोऽपि सः । कर्मप्रसेविका मूषा तैजसावर्तनी च सा ॥ ४२१ ॥ चर्मप्रसेविका भस्त्रा विशिष्यैव विभाव्यताम् । वेधिन्यास्फोटिनी तुल्ये शाणे तु निकषः कषः ॥ ४२२ ॥ स्यात्कङ्कमुखः संदंशे भ्रमः कुन्दं च यन्त्रकम् । मणिकारे वैकटिकस्ताम्रकुट्टकशौल्विकौ ॥ ४२३ ॥ सौचिकस्तुन्नवायः स्यात्कर्तरी कल्पनी समे । सूची तु सेवनी प्रोक्ता तर्कुः कर्तनकारणम् ॥ ४२४ ॥ कुविन्दस्तन्तुवायः स्यास्त्रसरः सूत्रवेष्टने । व्यूतिर्वाणिर्वानदण्डो वेमा सूत्राणि तन्तवः ॥ ४२५ ॥ ;p{0155} निर्णेजकः स्याद्रजकः कुलालो दण्डभृत्पुनः । कुम्भकारश्चक्रजीवी शस्त्रमार्जोऽसिधावकः ॥ ४२६ ॥ चर्मकृत्पादुकाकृच्चारा स्याच्चर्मप्रभेदिका । पन्नद्धा पादुकोपानत्पादूः पादावनं स्मृतम् ॥ ४२७ ॥ धूसरस्तैलिकः प्रोक्तः खलः पिण्याक इत्यपि । काष्टतड्वर्धकिस्त्वष्टा रथकृत्स्थपतिः पुमान् ॥ ४२८ ॥ वासी तु तक्षणी तुल्ये क्रकचं करपत्रकम् । पाषाणदारणष्टङ्को व्योकारो लोहकारिणि ॥ ४२९ ॥ कान्दविकभक्ष्यकारौ रङ्गाजीवस्तु तौलिकः । चित्रकृत्कूचिका तूलिका चित्रालेख्य इत्यपि ॥ ४३० ॥ लेप्यकृत्पलगण्डोऽसौ पुस्तं लेप्यादिकं मतम् । दिवाकीर्तिः क्षुरी मुण्डकश्च नापितचण्डिलौ ॥ ४३१ ॥ क्षुरमर्द्यन्तावसायी भद्राकरणमुण्डने । कुसृतिः कुहकजाले त्विन्द्रजालं तथोच्यते ॥ ४३२ ॥ कौतूहलं च कु[84]तुकं कौतुकं तु कुतूहले । पुलिन्दा वरुटा भिल्ला नाहलाः शबरा अपि ॥ ४३३ ॥ ;p{0156} जनङ्गमदिवाकीर्तिनिषादश्वपचादयः । इत्यादयो म्लेच्छभेदास्तत्तद्देशेषु संमताः ॥ ४३४ ॥ पापर्धिर्मृगयुर्व्याधो लुब्धको मृगघातकः । कैवर्तो धीवरो दाशो बडिशं मीनबन्धने ॥ ४३५ ॥ शौण्डिकः कल्यपालः स्यात्सुराजीवी तु मण्डकः । ध्वजः पानवाणिग्वारिवासश्चाप्यासुतीबलः ॥ ४३६ ॥ मद्यं कादम्बरी कश्यं मदिरा कापिशायनम् । मदिष्ठा मधुकल्ये तु शुण्डा गन्धोत्तमापि च ॥ ४३७ ॥ हाला हलिप्रिया हारहूरं माध्वीकमित्यपि । अब्धिजाः मदना सीधुः कापिशं वारुणी सुरा ॥ ४३८ ॥ आसवश्च तथा स्वादुरसेरा च परिप्लुता । किण्वं तु नग्नहुर्मद्यबीजं स्यान्नग्नहूस्तथा ॥ ४३९ ॥ गल्वर्कचषकौ तुल्यौ शुण्डा पानमदास्पदम् । सहपानं सपीतिस्त्वापानं पानस्य गोष्ठिका ॥ ४४० ॥ इत्थं शब्दास्त्रिधा रूढमिश्रयौगिकसंज्ञकाः । सामस्त्येनाभिधातुं तान्न शक्तेर्वाक्पतिर्यतः ॥ ४४१ ॥ ;p{0157} विश्वहेमामरानन्तनामपारायणेषु ये । दृष्टास्तान् शिशुबोधाय परमानन्द उक्तवान् ॥ ४४२ ॥ ;c{इति श्रीकायस्थचिरवारीयमाथुरवंशविभूषणमणिश्रीमद्गढमलाङ्गज-} ;c{श्रीमत्परमानन्दनन्दनन्दनविरचितायां परमानन्दीयनाममालायां} ;c{चतुर्थः परिच्छेदः समाप्तः ॥} ;p{0158} ;v{पूर्णाहुतिः} ;c{ ॥ ओम् ॥} नमः श्रीजगदीशाय नमो वाण्यै निरन्तरम् । नमो मे गुरवे भूयान्नमो विप्रकुलाय च ॥ १ ॥ सुरविटपीव फली सन् श्रीमत्कायस्थमाथुरो वंशः । चिरवारीयकनामा भेदः ख्यातस्तदीयोऽस्ति ॥ २ ॥ गोपावले माननरेन्द्रपार्श्वा- दवापि येनाद्य च दुर्धरत्वम् । श्रीघाटमोऽभूत्स्पृहणीयकीर्तिः परोपकारप्रतिबद्धचेताः ॥ ३ ॥ तदङ्गजः श्रीहरिदासनामा बभूव भाग्योदयचण्डभानुः । त्रयोऽभवन् तत्तनया गुणाढ्याः परोपकारप्रथिता जगत्याम् ॥ ४ ॥ पर्शुरामस्तदाद्योऽभूद्द्वितीयश्चतुराभिधः । नरेन्द्रचन्द्र इत्याख्यस्तृतीयः सोदरोऽभवत् ॥ ५ ॥ पर्शुरामेण संप्राप्तं श्रीमत्साहिसिकन्दरात् । साम्राज्यं यवनपुरे सदादानैकवृत्तिना ॥ ६ ॥ स्वर्णयज्ञोपवीता[86]दि ब्राह्मणेभ्यो ह्यनेकशः । पवित्रात्मा महादानं पर्शुरामो ददौ सुधीः ॥ ७ ॥ ;p{0159} नरेन्द्रचन्द्रेण जगद्धितेन भागीरथी लक्षकजैः पुपूजे । परोपकारव्रतिनानघेन श्रीकृष्णपादाम्बुजसेवकेन ॥ ८ ॥ नरेन्द्रचन्द्रस्य च धर्मपत्नी महासती श्रीपहवाभिधाना । असूत पुत्रं गढमल्लसंज्ञं मणिं यथारोहणभूध्रभूमिः ॥ ९ ॥ विपुलरुचिरकीर्तिः स्फारकन्दर्पमूर्ति- र्विशदसुकृतपूर्तिः स्फूर्तियुक्तो बभूव । गढमलनरनाथो विष्णुपादाब्जहंसः प्रवरगुणसमुद्रः स्वीयवंशावतंसः ॥ १० ॥ तद्धर्मपत्नी सुषुवे सुतान्वरान् श्रीप्पारमाख्या गुणरत्नखानिः । यस्याः सुशीलांशतुलां न चान्या कान्ता समाप्नोदखिलावनीतले ॥ ११ ॥ नरहरिदासः प्रथमः परमानन्दो द्वितीयको विद्वान् । तृतीयो मनोहराद्यो दासाग्रो गुणिजनाभीष्टः ॥ १२ ॥ जयति जगति जाग्रत्कल्पवृक्षावदातः पटुतरगुणपत्रो बैबुधाधारभूतः । सुकृतवशनिरीक्ष्यः सर्वदैकस्वरूपः परमपदसुपूर्वानन्दनामा नरेन्द्रः ॥ १३ ॥ अरिकुमुदसमूहं मुद्रयन्हर्षयन्वै द्विजकुलजलजं संराजतां राजमान्यः । परमपदसुपूर्वो यत्र शब्दो बभूवा- धिकतपरकान्त्यानन्दसूर्यः ससार्थः ॥ १४ ॥ ;p{0160} अन्येषामुपकाराय स्वीयबोधाय च स्फुटम् । नाममालाममूं चक्रे परमानन्दठक्कुरः ॥ १५ ॥ परमानन्दस्य सुतो विजयी मकरन्ददासनामास्ति । इन्द्रस्येव जयन्तः सर्वजनानामभीष्टगुणः ॥ १६ ॥ यावद्गोविन्दनामानि धामानि च दिवौकसाम् । तावच्छ्रीपरमानन्दी नाममाला प्रवर्तताम् ॥ १७ ॥ वसुभुवनर्तुनिशामणिवर्षे हर्षेण फाल्गुने मासि । प्रतिपदि शुक्रे वारे पूर्णेयं पुण्यवेलायाम् ॥ १८ ॥ ;c{इति परमानन्दी नाममाला संपूर्णा ॥} ;c{समुल्ल[स]त्कुशाग्रधियां प्रमोदश्लोकसुधियां चित् कोषस्था चिरं} ;c{नंद्यात् ॥ नागपुरीयतपोगणराजाः श्रीचन्द्रकीर्तिसूरिवराः । तच्छिष्य-} ;c{हर्षकीर्तिसूरीणां पुस्तकं जयति ॥ १ ॥ सिद्धिरस्तु ॥ श्रीः श्रीः श्रीः ॥} ;p{0161} ;k{अनेकार्थसंग्रहः} ;c{अनेकार्थसंग्रहः ।} ;c{ओम् ।} ;l{2585} अकारादिक्रमेणाथ द्व्यक्षरादिक्रमेण च । अनेकार्थानि नामानि कथ्यन्ते कतिचिन्मया ॥ १ ॥ ;v{अकारादयः} ;c{[अथाकारादयो यथा]} अजः कृष्णे स्मरे रुद्रे मेषे ब्रह्मण्यकं पुनः । दुःखाघयोरघं पापे व्यसनाशर्मणोरपि ॥ २ ॥ ;l{2590} अर्घो मूल्येऽर्चनेऽथाब्जो विधौ धन्वन्तरौ तरौ । जम्बालशङ्खयोरब्जं संख्यायां कमलेऽपि च ॥ ३ ॥ अक्षो विभीतके तुत्थे रावणाङ्गजकर्षयोः । रथाङ्गे शकटे जीवे पाशके च वराटके ॥ ४ ॥ अक्षमिन्द्रिय आकाशे तथा सौवर्चले स्मृतम् । ;l{2595} अलिर्भृङ्गे सुरायां चाभ्रं घने गगनेऽभ्रके ॥ ५ ॥ अर्कः शक्रे रवौ वृक्षान्तरे स्फटिकताम्रयोः । अंशुर्दिवाकरे रश्मावङ्कश्चिह्नसमीपयोः ॥ ६ ॥ ;p{0162} भूषायां रूपकोत्सङ्गनाटकाद्यंशमन्तुषु । अन्त्योऽधमेऽन्त्यजाते चाध्वा मार्गे समये स्मृतः ॥ ७ ॥ ;l{2600} अगः सूर्ये द्रुमे सर्पे पर्वतेऽन्तः स्वरूपके । प्रान्तावयवोर्नाशे निश्चये निकटेऽपि च ॥ ८ ॥ प्रतिमापूर्जयोरर्चाग्रं श्रेष्ठे प्रथमेऽधिके । अस्तः क्षिप्ते गिरेर्भेदेऽऽशू रथाङ्गे च सत्वरे ॥ ९ ॥ अस्रः कोणे तथा केशेऽथाश्रं रक्ताश्रुणोर्मतम् । ;l{2605} अर्थः कार्ये धने वस्त्वभिप्रायविषयेषु च ॥ १० ॥ अंह्रिः पादे तरोर्मूलेऽणुः स्तोकव्रीहिभेदयोः । अब्दो मेघे गिरौ वर्षमुस्तयोर्वास्तवेऽपि च ॥ ११ ॥ अहिः सर्पे रवौ वप्रवृत्रयोः केतुपान्थयोः । अद्रिः शैले रवावन्दूर्निगडे भूषणेऽपि च ॥ १२ ॥ ;l{2610} अविर्मेषे गिरावर्के कम्बलेऽट्टश्चतुष्पथे । हट्टे पाषाणभेदे चार्धः खण्डेऽर्धं समांशके ॥ १३ ॥ अर्यो वैश्ये प्रभावण्डं मुष्के कोशेऽप्यनन्तरे । अर्चिः कीलोस्रयोरर्तिः पीडायामटनावपि ॥ १४ ॥ ;p{0163} अलं भूषणसामर्थ्यनिषेधेष्वथ मङ्गले । ;l{2615} प्रारम्भकार्त्स्न्ययोः प्रश्नेऽनन्तार्थेऽप्यथो तथा ॥ १५ ॥ अधि प्रश्नेऽधिके स्वामिशङ्कागर्हास्वपि स्मृतम् । अति स्मृतौ जवेऽथान्नं भक्ते भुक्तेऽपि दृश्यते ॥ १६ ॥ अङ्गा भूम्न्येव देशार्थेऽङ्गं प्रधानेऽन्तिके तनौ । शिक्षाद्याधारयोरङ्गामन्त्रणेऽव्ययमुच्यते ॥ १७ ॥ ;l{2620} अशोको वीतशोके स्यात्कङ्केल्लौ वञ्जुलेऽपि च । अशोका कटुरोहिण्यामभितः पार्श्वशीघ्रयोः ॥ १८ ॥ अनूकमन्वयेऽनूको गतजन्मावटो बिले । महारण्येऽखिले कूपे दम्भजीविन्यपि स्मृतः ॥ १९ ॥ हरीतक्याममोघा स्यादमोघः सफले स्मृतः । ;l{2625} अलीकमप्रिये मिथ्यावचने करणेऽलिके ॥ २० ॥ अनन्तस्तु हरौ शेषबलयोरक्षरं शिवे । परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥ [13] अनन्तं प्रचुरे व्योम्नि जलेऽनन्ता मही स्मृता । दूर्वामृतप्यथाङ्कूरमङ्कूरं च नवोद्गते ॥ २२ ॥ ;p{0164} ;l{2630} रक्ते जले तरौ रोम्ण्यभया तु स्याद्धरीतकी । अभयो निर्भये वीरणीमूले मञ्जुलेऽपि च ॥ २३ ॥ अजिरं दर्दुरे काये विषये प्राङ्गणे तथा । अत्ययोऽतिक्रमे दोषे कृच्छ्रे दण्डविनाशयोः ॥ २४ ॥ अभीषुः किरणे दीप्तावरिष्टः काकनिम्बयोः । ;l{2635} कङ्कते लशुने दैत्येऽथारिष्टं क्षेमतक्रयोः ॥ २५ ॥ शुभेऽपि सूतिकागारेऽङ्गजः कामे तनूद्भवे । अञ्जनो दिग्गजे भूध्रेऽञ्जनं सौवीरयानयोः ॥ २६ ॥ कज्जलेऽथाञ्जना माता मारुतेरमरः सुरे । स्नुहीवृक्षेऽस्थिसंहारकव्योरमृतमम्बरे ॥ २७ ॥ ;l{2640} रसायने यज्ञशेषे तोये हृद्ये च गोरसे । माक्षीकवर्णयोरन्ने सुधाकैवल्ययोरथ ॥ २८ ॥ अमृता मागधीपथ्यामलकीषु गुडूच्यपि । अनयः पामरे नाशे व्यसनेऽथावधिर्बिले ॥ २९ ॥ सीमावधानयोश्चाथारुणो भास्कररक्तयोः । ;l{2645} सूर्यसारथिनिःशब्दकपिलार्थेष्वथारुणा ॥ ३० ॥ ;p{0165} मञ्जिष्ठातिविषा श्यामाथाम्बरं गगनेंऽशुके । द्रव्ये तूले सुगन्धेऽथार्जुनो धवलकेकिनोः ॥ ३१ ॥ पाण्डोः पुत्रे तृणे नेत्ररोगे हैहयसालयोः । आतङ्को मुरजध्वानशङ्कयो रोगतापयोः ॥ ३२ ॥ ;l{2650} आशुगो बाणरव्योः स्याद्वायावपि निरीक्ष्यते । आप्लुतः स्नातके स्नानेऽथाकल्पो वेषकल्पयोः ॥ ३३ ॥ आरोहोऽथ गजारोह उच्छूये दैर्घ्यमानयोः । स्त्रीकट्यामाकरो रत्ने खान्यां च निकरे तथा ॥ ३४ ॥ आयतिर्भावसंहत्योरेष्यत्काले स्वतन्त्रके । ;l{2655} आसत्तिः संगमे लाभेऽथात्मभूः कामरुद्रयोः ॥ ३५ ॥ विरञ्चे वासुदेवेऽथाशयोऽभिप्राय आश्रये । आम्नाय आगमे वंशेऽप्यानर्तः समरे जने ॥ ३६ ॥ दैत्ये नृत्यगृहेऽथानद्धं मृदङ्गादिबद्धयोः । आयस्तस्तेजिते क्षिप्ते कष्टिते कुपिते हते ॥ ३७ ॥ ;l{2660} आक्रन्दः क्रन्दनध्वाने भृपे रौद्ररणेऽपि च । आषाढो मासमेदे स्याद्व्रतिदण्डे द्रुमान्तरे ॥ ३८ ॥ ;p{0166} आदित्यस्त्रिदशे सूर्येऽथानको जलदस्वने । मर्दले पटहे भेर्यामपवर्गः शिवे स्मृतः ॥ ३९ ॥ साफल्यत्यागयोश्चाप्यवष्टम्भो हा[14]टके मतः । ;l{2665} संरम्भारम्भयोः स्तम्भेऽभिजातो शकुलीनयोः ॥ ४० ॥ अभिमानोऽथ हिंसायां प्रेम्णि गर्वे च विश्रुतः । अवदातो विशुद्धे स्यात्स्वर्णवर्णे सिते तथा ॥ ४१ ॥ पराभवेऽभिषङ्गस्तु शपथाक्रोशयोरपि । अङ्गारको महीपुत्र उल्मुकेऽपि कुरण्टके ॥ ४२ ॥ ;l{2670} अङ्गारिणी शकट्यां स्यात्सूर्यत्यक्तदिगन्तरे । अङ्कपाली परीरम्भधात्र्योः पालिगदद्रुहोः ॥ ४३ ॥ अतिमुक्तस्तु वासन्त्यां कलाहीने रथद्रुमे । अपभ्रंशोऽपशब्देऽवपाते भाषान्तरे तथा ॥ ४४ ॥ अपदेशो निमित्ते च दम्मे लक्ष्ये निगद्यते । ;l{2675} अवध्वस्तं परित्यक्ते निन्दिते चूर्णितेऽपि च ॥ ४५ ॥ अष्टापदं सुवर्णेऽथाष्टापदः शरभे गिरौ । अधिवासो गृहे वासेऽधिष्ठानं पुरचक्रयोः ॥ ४६ ॥ ;p{0167} अनूचानो विवेकज्ञे वेदज्ञे ध्यानकारके । अम्बरीषो बुधे सूर्ये भूपाले बालघोटके ॥ ४७ ॥ ;l{2680} छर्दनेऽलम्बुषः प्रोक्तोऽलम्बुषा वारयोषिति । गण्डीर्यां पक्षिभेदेऽप्यभिस्यन्दो नयनामये ॥ ४८ ॥ आवेशनं शिल्पिशालाच्छादनं वसने मतम् । अपवारणे पिधाने चाक्षेपको निन्दको मतः ॥ ४९ ॥ मरुद्व्याधौ तथा व्याध आत्माधीनो विदूषके । ;l{2685} प्राणाधारे सुते शाल आत्मयोनिः स्मरे हरे ॥ ५० ॥ आडम्बरस्तु संरम्भे बृंहितेऽपि च दृश्यते । आस्कन्दनं तिरस्कारे शोषेऽनीकेऽपि कथ्यते ॥ ५१ ॥ आसुतीवल आख्यातः सुराजीवकयज्वनोः । आत्मा विष्णौ विरञ्चेऽर्के शरीरेऽनिलयत्नयोः ॥ ५२ ॥ ;l{2690} बुद्धौ चित्ते धृतावार्या दुर्गामात्रोस्तथैव च । आजिर्युद्धे समक्ष्मायामाधिर्मानसवेदना ॥ ५३ ॥ ;p{0168} पीडने बन्धनेऽथाज्ञा निर्देशे शपथेऽपि च । आशीः सर्पस्य दंष्ट्रायामिष्टवस्तुप्रशंसने ॥ ५४ ॥ श्रीवासधृतयोराज्यमालिः श्रेणिः सखी पुनः । ;l{2695} आप्तः सत्ये हिते लब्धेऽथार्यो बुद्धे च कोविदे ॥ ५५ ॥ आशा ककुभि वाञ्छायामागो मन्तौ स्मृतं तथा । ;v{इकारादयः} ;c{अथेकारादयो यथा ।} इन्द्रो राज्ञि रवौ देवनायकेऽप्यन्तरात्मनि ॥ ५६ ॥ इला बुधस्य भार्यायां भूमिश्रीगोषु वाच्यपि । ;l{2700} इरा मह्यां जले मद्ये भारत्यामशनेऽपि च ॥ ५७ ॥ इनः सूर्य प्रभाविष्टमीप्सिते पूज्ययज्ञयोः । ईहेच्छायां तृषायां चेतिः प्रवास उपद्रवे ॥ ५८ ॥ इष्टिर्यागेच्छयोरीशो हरौ शम्भौ क्षमे मतः । ईक्ष्वाकुर्नृपमेदे स्यात्कटुतुम्ब्यामपीरितः ॥ ५९ ॥ ;l{2705} इष्वासो विशिखक्षेपेऽथेष्वासो धन्विचापयोः । इन्द्रियं करणे शुक्रेऽथेरिणं शून्य ऊषरे ॥ ६० ॥ सुगन्धे चेष्टगन्धः स्यादिष्टगन्धं तु वालके । ईहामृगो वृके जन्तुभेदे रूपकभिद्यपि ॥ ६१ ॥ ;p{0169} ;v{उकारादयः} ;c{अथोकारादयो यथा ।} ;l{2710} अथोग्र ईश्वरे तीव्रे शूद्रायां क्षत्रियाङ्गजे । उरो वक्षे प्रधाने चोषः सायंकल्ययोः स्मृतम् ॥ ६२ ॥ ऊर्णा भ्रुवोऽन्तरे लोमावर्ते मेषस्य लोमनि । उमा कीर्तिश्रियोर्गौर्यां कान्तिदुर्गाशचीष्यथ ॥ ६३ ॥ ऊर्जो बले च मासस्य विशेषे त्र्यक्षरा यथा । ;l{2715} उत्थानं पौरुषे सैन्य उद्गमोद्यमयोरपि ॥ ६४ ॥ उदारो दक्षिणे दानशौण्डे तूच्छ्रितमुन्नते । उन्माथः कूटयन्त्रे स्याद्वधघातकयोरपि ॥ ६५ ॥ उदानो वायुभेदे स्यात्सर्पभेदेऽपि कुत्रचित् । उदूढः पृथुले व्यूढे उत्थितं जातवृद्धयोः ॥ ६६ ॥ ;l{2720} उदर्चिः पावके वीरेऽनुजेतितरुणोद्रुवोः । उल्लाघो गतरोगे च तरौ निपुणहृष्टयोः ॥ ६७ ॥ उद्भट उत्कटे क्षीवे उत्कटोऽपि तथैव च । उत्तंसः शेखरे कर्णपूरेऽथोद्यानमुच्यते ॥ ६८ ॥ ;p{0170} शरण्यारण्ययोश्चैवं प्रयोजनविशेषयोः । ;l{2725} उन्मत्तः कितवे धूर्ते उष्णीषं शीर्षवेष्टने ॥ ६९ ॥ शेखरेऽथोत्पलं शून्ये पङ्कजान्तरपत्रयोः । उच्छ्वासः प्राणने गद्यबन्धभिच्छ्वासयोरपि ॥ ७० ॥ ऊर्णायुरूर्णनाभे स्थान्मेघकम्बलयोः सिते । उपह्वरं रहःस्थाने पार्श्वेऽथोपनिषद्वृषे ॥ ७१ ॥ ;l{2730} वेदान्ते सद्रहस्ये च शुश्रूषायामुपासनम् । आसने च शराभ्यासे प्रारम्भार्थ उपक्रमः ॥ ७२ ॥ विक्रमे च चिकित्सायामुपधारम्भयोरपि । उपलब्धिर्मनीषायां प्राप्तौ ज्ञानेऽपि कथ्यते ॥ ७३ ॥ उदुम्बरं कुष्ठभेदे ताम्रेऽथोदुम्बरो द्रुमे । ;l{2735} उपतापं तु दुःखे स्याद्गदे तापेऽपि दृश्यते ॥ ७४ ॥ उपसर्गस्तु रोगे स्यात्प्राद्युपद्रवयोरपि । उपरागस्तमोग्रस्तचन्द्रभास्करमण्डले ॥ ७५ ॥ ;p{0171} उपचारस्तु लञ्चायामारोपव्यवहारयोः । ;v{ऋकारादयः} ;c{अथ ऋकारादयो यथा ।} ;l{2740} ऋतं सत्याम्भसोरुक्तं शिलोञ्छेऽपि निरीक्ष्यते ॥ ७६ ॥ ऋतिः स्पर्धाघृणादेवमातृष्वपि गतावृतिः । ऋणं दुर्गे जले देये ऋक्षं नक्षत्रवाचकम् ॥ ७७ ॥ कक्षो भल्लूकवाच्यार्थे स्यादृषिर्मुनिवेदयोः । ऋतुर्वसन्ते स्त्रीपुष्पयृषभो वृषभे मतः ॥ ७८ ॥ ;l{2745} कर्णरन्ध्रे स्वरे कोलपुच्छे जिनवरादिमे । ऋषभध्वजनामा तु जिनभेदमहेशयोः ॥ ७९ ॥ ;v{एकारादयः} ;c{[ अथ ] एकारादयो यथा ।} एकोऽथ केवले पूज्य एनः पापापराधयोः । एडमूकः शठे कर्णवाग्विवर्जित एव च ॥ ८० ॥ ;l{2750} एककुण्डल आख्यातो रेवतीरमणे हरे । किन्नराणामधीशेऽप्यैरावतः शक्रवारणे ॥ ८१ ॥ दिग्गजे नागरङ्गेऽप्यैरावतमृजुरोहिते । ऐरावती तडिद्भेदे ओघः संघोपदेशयोः ॥ ८२ ॥ ;p{0172} ;v{ओकारादय्ः} ;c{अथौकारादयो यथा ।} ;l{2755} नृत्यभेदेऽप्यरथौजस्तु दीप्तौ धातौ गुणे बले । ;v{ककारादयः} ;c{अथ ककारादयो यथा ।} कर्को घटेऽनिले राशौ श्वेताश्वे दर्पणेऽपि च ॥ ८३ ॥ कुणिर्वृक्षे कुहस्तेऽथ पिप्पल्यां जीरके कणा । काकं काकसमूहे च योषितां करणान्तरे ॥ ८४ ॥ ;l{2760} काका तु काकजङ्घायां काकमाच्यामपि स्मृता । कुञ्जस्तु दन्तिनां दन्ते निकुञ्जे मन्दिरे हनौ ॥ ८५ ॥ कोकस्तु चक्रवाके स्थाद्वृके खर्जूरिकाद्रुमे । कचो वाक्पतिपुत्रे स्यात्केशे बन्धे व्रणान्तरे ॥ ८६ ॥ काचो वृक्षे मणौ शिक्ये मृत्तिकानेत्ररोगयोः । ;l{2765} कम्बुः शङ्खे कपर्दे च कर्चूरे नलके गजे ॥ ८७ ॥ कुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ ऋग्भेदे वेदवित्पाठे कण्ठः स्यान्मदनद्रुमे । घोषे गले समीपे च कार्यं हेतौ प्रयोजने ॥ ८९ ॥ ;p{0173} ;l{2770} क्रोडः कोले शनावङ्के कृष्णो विष्णौ पिकेऽर्जुने । काके वर्णे तथा व्यासे कृष्णं मरिचलोहयोः ॥ ९० ॥ कृष्णा तु द्रौपदीनील्योः पिप्पलीहारहरयोः । कद्रूः सर्पजनन्यां स्यात्कद्रुः काञ्चनवर्णके ॥ ९१ ॥ कल्यं मद्ये प्रभातेऽपि सावधाने निरामये । ;l{2775} केशोऽब्जे वरुणे वाले काशः स्यात्तृणरोगयोः ॥ ९२ ॥ कुशो रामाङ्गजे दर्भे पापिष्ठेऽथ जले कुशम् । कश्यं मद्ये कशार्हे च सोमवल्लीरसे तथा ॥ ९३ ॥ कोशः पेश्यां वने दिव्ये धनागारे च कुड्मले । क्रिया कर्मणि चेष्टायामारम्भोपाययोरपि ॥ ९४ ॥ ;l{2780} कन्तुः कामे कुसूलेऽथ कान्तिः शोभेच्छयोर्मता । कान्तः प्रिये मनोज्ञे च कालो वर्णे यमे मृतौ ॥ ९५ ॥ समयेऽपि महाकाले काव्यो नक्षत्रशुक्रयोः । काव्याथ पूतनाबुद्ध्योः काव्यं ग्रन्थेऽपि कथ्यते ॥ ९६ ॥ प्लवे दिगम्बरे कीशः कीलः शङ्क्वग्नितेजसोः । ;l{2785} कान्ता स्त्रियां प्रियङ्गौ च काली कीटे नवाम्बुदे ॥ ९७ ॥ ;p{0174} कालिकायां परीवादे कीर्णः छन्ने हतेऽपि च । कृतं फले युगे पर्याप्तेऽपि तद्विहिते त्रिषु ॥ ९८ ॥ कर्णोऽर्कजे श्रुतौ काञ्ची रक्तिका मेखला पुरी । काण्डो नालेऽधमे बाणे स्तम्बे वर्गे जलेऽपि च ॥ ९९ ॥ ;l{2790} जाराज्जीवत्पतेः पुत्रे कुण्डः कुम्भ्यां जलाश्रये । कला शिल्पे विधोर्भागे क्रीडानादरनर्मणोः ॥ १०० ॥ कुम्भो घटे गजाङ्गेऽपि राक्षसे राशिभिद्यथ । कोलं तु बदरं प्रोक्तं कोलः शूकरखञ्जयोः ॥ १०१ ॥ क्रौञ्चो द्वीपे खगे शैले कक्षः शुष्कवने स्मृतः । ;l{2795} बाहुमूले तृणे पापे कटः स्यात्समये शवे ॥ १०२ ॥ कल्पः शास्त्रे विधौ पापे संवर्ते ब्रह्मणो दिने । प्रकर्षे दिशि काष्ठा च कालमानदिशोरपि ॥ १०३ ॥ करो मेघोपले रश्मौ शुण्डायां हस्तिनोऽपि च । हस्तेऽप्यथ कुलं देहे गेहे शातिचये चये ॥ १०४ ॥ ;l{2800} कारा बन्दिजनागारे कुष्ठं भेषजरोगयोः । कायो देहे स्वभावे च लक्ष्ये संघे कदैवते ॥ १०५ ॥ ;p{0175} कूर्चो भ्रुवोऽन्तरे दम्भे श्मश्रुण्यपि तथोच्यते । कृच्छ्रे च गहने कष्टं कृष्टिः कर्षणधीमतोः ॥ १०६ ॥ कोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च । ;l{2805} केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥ कोटिः संख्याग्रयोः कन्दो मूले सूरणमेघयोः । कुन्दो वृक्षे निधौ यन्त्रे कन्था प्रावरणे पुरे ॥ १०८ ॥ कुथो दर्भे तथा प्रातःस्नानासक्तद्विजे मतः । दम्भास्तरणयोर्हस्तिकम्बले कीटकान्तरे ॥ १०९ ॥ ;l{2810} कविर्मुनौ विधौ शुके हयोपकरणेऽपि च । लोहपृष्ठे यमे कङ्को द्विजलिङ्गोपजीविनि ॥ ११० ॥ कौतुकं कुतुके गीतादौ स्मये [18] मङ्गलेऽपि च । कुण्डली कुण्डलोपेते वरुणे केकिनागयोः ॥ १११ ॥ करणं साधने काये आसने योगिनापि । ;l{2815} इन्द्रिये नाट्यभेदे च वालवादावपीरितम् ॥ ११२ ॥ करटो दुर्मुखे काके वाद्ये गण्डे च हस्तिनः । मृतश्राद्धे कुसुम्भे च कीलालं जलरक्तयोः ॥ ११३ ॥ ;p{0176} कम्बलं जलजे नीरे काकिणी तु वराटिका । गुञ्जायामथ कल्याणं मङ्गले काञ्चनेऽपि च ॥ ११४ ॥ ;l{2820} कशिपुर्भोजने वस्त्रे करीरः स्याद्द्रुमान्तरे । कलशे वैणवाङ्कूरे कपिलो वासवे मुनौ ॥ ११५ ॥ कुम्भिलः श्यालके चौरे श्लोकच्छायाहरेऽपि सः । कुलालः कुम्भकारे स्याद्घूके ककुभपादपे ॥ ११६ ॥ कन्दलं तु नवाङ्कूरे कपाले कलहे ध्वनौ । ;l{2825} कलङ्कस्त्वपवादेऽङ्के कमलं जलताम्रयोः ॥ ११७ ॥ भेषजे पङ्कजे शीर्षे कमला मेखलाश्रियोः । कुशलः सुजन आख्यातः कुशलं क्षेमपुण्ययोः ॥ ११८ ॥ कर्कशः परुषे तिग्मे खड्गे साहसिके दृढे । कुमारो युवराजे च कार्तिकेयेऽपि बालके ॥ ११९ ॥ ;l{2830} काञ्चनं चम्पके नागकेसरे हाटके तथा । धत्तूरे किंशुके कालीये शरेऽपि तदेव च ॥ १२० ॥ कण्टको नरके शाखिकण्टके दोषवैरिणोः । कुमुदो दिग्गजे दैत्ये भुजंगे कैरवे कपौ ॥ १२१ ॥ ;p{0177} कानीनः कन्यकासूनौ व्यासे चम्पाधिपे नुपे । ;l{2835} करको दाडिमे मेघपाषाणेऽपि कमण्डलौ ॥ १२२ ॥ ककुभो भूरुहे रोगभेदे वीणाप्रसेवके । कञ्चुको वृक्षनिर्मोकवारबाणेषु कञ्चुके ॥ १२३ ॥ कदम्बो निकुरम्बे द्रुविशेषे शिखरे तथा । कीकसो वानरे कीटे कश्मलं पङ्कपापयोः । ॥ १२४ ॥ ;l{2840} कटकं कङ्कणे सैन्ये राजधानीनितम्बयोः । कुलिकस्तु तरौ नागे कुलश्रेष्ठेऽपि कथ्यते ॥ १२५ ॥ कालिङ्गस्तु गजे सर्पे क्रकचः करपत्रके । ग्रन्थिलद्रौ कठोरेऽथ कणीचिः शकटे स्मृतः ॥ १२६ ॥ कृपीटं तूदरे नीरे करजो नखवृक्षयोः । ;l{2845} करेणुर्हस्तिहस्तिन्योः कर्णिकारद्रुमेऽपि च ॥ १२७ ॥ कायस्थो मारुते भेक? जीवके परमात्मनि । हरीतक्यामलक्योस्तु कायस्थैव निबध्यते ॥ १२८ ॥ ;p{0178} कपर्दोऽपि वराटे स्याज्जटाजूटे पिनाकिनः । कीनाशस्तु दरिद्रेऽपि कर्षके राक्षसे यमे ॥ १२९ ॥ ;l{2850} कुसुमं नेत्ररो[19]गे स्त्रीरजःपुष्पफलेष्वथ । कङ्कणं मण्डने हस्तभूषणे कमठोऽप्यथ ॥ १३० ॥ कच्छपे भाण्डभेदेऽथ कदली न्यङ्कुमोचयोः । कान्तारं विपिने विघ्ने दुर्गमार्गेक्षुभेदयोः ॥ १३१ ॥ कुतपस्तु जले रूप्ये भागिनेये हुताशने । ;l{2855} दौहित्रे समये दर्भेऽष्टमेंऽशे वासरस्य च ॥ १३२ ॥ कुटपस्तु मुनौ माने निष्कुटे काश्यपो मुनौ । मीनेऽथ काश्यपी नद्यां कबरं लवणाम्लयोः ॥ १३३ ॥ कबरी बालविन्यासे कुलायः पक्षिनीडके । कुकुदं राजचिह्ने स्याद्वृषाङ्के प्रवरेऽपि च ॥ १३४ ॥ ;l{2860} कलधौतं कलध्वाने तारकाञ्चनयोस्तथा । कालस्कन्धो जीवकद्रौ तमाले तिन्दुके पुनः ॥ १३५ ॥ ;p{0179} करहाटः प्रसूने स्यात्पद्मकन्दे तरावपि । कौलेयकः कुलोत्पन्ने सारमेये तथाम्बुजे ॥ १३६ ॥ अथ कामगुणो भोगे सुरते रागविद्यपि । ;l{2865} कशेरुकं जले पृष्ठास्थ्नि कन्दे चा[पि?] कथ्यते ॥ १३७ ॥ करवीरः कृपाणेऽपि हयमारस्मशानयोः । कटुकन्दो रसोने स्याच्छृङ्गबेरेऽपि कथ्यते ॥ १३८ ॥ द्रुमोत्पले कर्णिकारः कृतमालेऽपि संमतः । मृगमेदे कृष्णसारः स्नुहीशिंशपयोस्तथा ॥ १३९ ॥ ;l{2870} कूष्माण्डकस्तु कूष्माण्डे विलाडे ? गणभिद्यपि । कलकण्ठः पिके हंसे पारापतमयूरयोः ॥ १४० ॥ कालकण्ठः खञ्जरीटे मयूरे कोकिले तथा । कालपृष्ठः स्मृतः कर्णचापे कङ्के मृगान्तरे ॥ १४१ ॥ कादम्बरी सुरा वाणी कोकिला सारिकापि च । ;l{2875} कलध्वनिः कलायुक्ते परपुष्टमयूरयोः ॥ १४२ ॥ कुरुविन्दास्तु कुल्माषमुस्ताहिङ्गुलदर्पणाः । कृकवाकुस्ताम्रचूडे मयूरे कृकलासके ॥ १४३ ॥ ;p{0180} काकरूकोऽथ दम्भे स्याद्भीते घूके स्त्रिया जिते । कोशातकः कचे घोषे स्त्रीत्वे ज्योत्स्नी पटोल्यपि ॥ १४४ ॥ ;l{2880} ;v{खकारादयः} c{अथ खकारादयो यथा ।} खरस्तिग्मे च दुःस्पर्शे गर्दभे राक्षसान्तरे । तुरंगमे हरे दन्ते खल्लो निम्नेंऽशुके खगे ॥ १४५ ॥ खटः कफे तुणे कृपे खर्ज्जू रोगेक्षुभिद्यपि । खण्डोऽर्धे मणिदोषेऽप्यैक्षवे खर्वस्तु वामने ॥ १४६ ॥ ;l{2885} खर्जूरं तु फले रूप्ये खर्जूरी पादपान्तरे । खट्टिको महिषी [20] क्षीरफेने चण्डाललोहयोः ॥ १४७ ॥ खञ्जरीटः पक्षिभेदे कृपाणव्रतचारिणि । खण्डपर्शुर्महादेवे राहावौषधरामयोः ॥ १४८ ॥ खर्वशाखः कपौ खर्वे क्षुपेऽपि परिकीर्तितः । ;l{2890} ;v{गकारादयः} ;c{अथ गकारादयो यथा ।} गजो मतङ्गजे माने गञ्जा स्यान्मदिरागृहे ॥ १४९ ॥ गुञ्जा मञ्जुरवे वल्लीमेदे च पटहे पुनः । गोण्डस्तु पामरे वृद्धनाभिकेऽपि तथोच्यते ॥ १५० ॥ ;p{0181} गुडस्तु गोलके हस्तिसंनाहेक्षुविकारयोः । ;l{2895} गोष्ठं वने गवां स्थाने गोष्ठी संलापपर्षदोः ॥ १५१ ॥ कपोले गण्डके गण्डश्चिह्ने योगे खनावथ । गोपस्तु वल्लवे भूपे ग्रामयुक्ते मुनीश्वरे ॥ १५२ ॥ गन्धो लेशे स्मये गन्धे गुरुः पित्रादिजीवयोः । गौरः सितेऽरुणे पीते चन्द्रकर्पूरयोः शुचौ ॥ १५३ ॥ ;l{2900} गौरं च सर्षपे श्वेते किञ्जल्केऽथ गुणो यथा । रूपादावपि शौर्यादौ संध्यादौ तन्तुसूदयोः ॥ १५४ ॥ रज्जौ ज्याभीमयोरक्षेऽप्रधानेऽपि निरीक्ष्यते । वप्रे जीवान्तरे गोधा प्रत्यञ्चाघातवारणे ॥ १५५ ॥ गोत्रो भूध्रेऽथ गोत्रं स्याच्छत्रेऽरण्ये च वर्त्मनि । ;l{2905} नाम्नि क्षेत्रेऽन्वये गोत्रा भूमौ गोनिचये पुनः ॥ १५६ ॥ गिरिः पूज्ये गिरौ गर्भे कन्तुके नेत्ररुज्यथ । गुच्छः स्तम्बे कलापेऽपि हारस्तबकयोः पुनः ॥ १५७ ॥ गर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे । गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥ ;p{0182} ;l{2910} गुल्मो वृक्षान्तरे घट्टविशेषे कटके स च । ग्रहोऽर्कादावुपादाने गतिर्यात्रा दशापि च ॥ १५९ ॥ गुप्तो दासीसुते गूढे गुहः स्कन्दे च गहरे । गन्धर्वः खेचरे त्वश्वे गायने हरिणान्तरे ॥ १६० ॥ ग्रहणं स्वीकृते चोपरागे यत्ने गुणे ध्वनौ । ;l{2915} ग्रन्थिकं पिप्पलीमूले ग्रन्थिको ग्रहचारवित् ॥ १६१ ॥ विडङ्गे ग्रन्थिपर्णेऽपि गण्डको विघ्नखड्गिनोः । गण्डकी तु नदीभेदे गोरङ्कुः खगनग्नयोः ॥ १६२ ॥ गोलको जारजे रण्डापुत्रे मणिकसंज्ञके । गोपतिर्वल्लवे रुद्रे सागरे वरुणेन्द्रयोः ॥ १६३ ॥ ;l{2920} सूर्ये षण्डेऽथ गोदन्तो दंशिते हरितालके । गोस्तनी च लतावृत्तिर्हारहूरा?पि कथ्यते ॥ १६४ ॥ गोपुरं नगरद्वारे मुस्तकद्वारयोः पुनः । ग्रामणीः स्वामिनि श्रेष्ठे गर्जितो वारणान्तरे ॥ १६५ ॥ ;p{0183} गर्जितं मेघजे शब्दे गह्वरं दम्भरन्ध्रयोः । ;l{2925} [21] गैरिकं धातुभेदेऽपि स्वर्णे स्पाद्गालवो मुनौ ॥ १६६ ॥ गाङ्गेयं सुन्दरे स्वर्णे मुस्तकेऽपि कशेरुके । कृपणे गाढमुष्टिश्च कृपाणेऽपि निबध्यते ॥ १६७ ॥ गन्धवाहो मृगे वायौ गन्धवाहा च नासिका । गोमेदकं च काकोले पत्रके रत्नभिद्यपि ॥ १६८ ॥ ;l{2930} गन्धवत्यचलामद्यव्यासमातृषु पत्तने । गदयित्नुः स्मरे शस्त्रे सुरायां गन्धमादनी ॥ १६९ ॥ गोजागरिकशब्दस्तु मङ्गले भक्ष्यकारके । ग्राममद्गुरिका युद्धे शृङ्ग्यामथ च गन्धके ॥ १७० ॥ वानरे गन्धके शैले भ्रमरे गन्धमादनः । ;l{2935} ;v{घकारादयः} ;c{अथ धकारादयो यथा ।} घनो जलधरे वृन्दे बहुले वादिभिद्यपि ॥ १७१ ॥ घर्मो ग्रीष्मोष्मतापे स्यात्तापे स्वेदजले तथा । घोषस्त्वाभीरपल्लौ स्यात्कांस्यघोषकयोरपि ॥ १७२ ॥ ;p{0184} घृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता । ;l{2940} घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥ घटो गजशिरःकूटे कलशे लसतोषयोः । कर्पूरे घनसारः स्यात्पानीये मोरटेऽपि च ॥ १७४ ॥ घनाघनो मत्तहस्तिमेघयोर्घातके पुनः । ;v{चकारादयः} ;c{अथ चकारादयो यथा ।} ;l{2945} चण्डः सुरान्तरे तिग्मे कोपने यमसेवके ॥ १७५ ॥ चण्डी शिवस्त्रियां चण्डा शङ्खपुष्पा निगद्यते । चक्रं राष्ट्रे बले वृन्दे जलावर्तरथाङ्गयोः ॥ १७६ ॥ शस्त्रे दम्भान्तरे दुष्टे चित्रा दन्तीसुभद्रयोः । दिव्यस्त्रियां च नक्षत्रमेदे चित्रमथाद्भुते ॥ १७७ ॥ ;l{2950} तिलके कर्बुरेऽप्येवं चन्द्रः कर्पूरचन्द्रयोः । काम्पिल्ये मेचके स्वर्णे चीरं गोस्तनवस्त्रयोः ॥ १७८ ॥ चर्चा देव्यां च निन्दायां चिन्तायां स्थासकेऽपि च । चक्री कोके कुलालेऽपि सार्वभौमे रथे हरौ ॥ १७९ ॥ ;p{0185} चमसो लड्डुके पिष्टभेदे पर्पटके तथा । ;l{2955} चरणस्तु पदे मूले गोत्रचारित्रयोरपि ॥ १८० ॥ चामरः केतके? पुष्पे काशे माकन्दपादपे । चमरश्चामरे दैत्ये चपलश्चञ्चलेऽनिले ॥ १८१ ॥ चपलो मूर्धजे मीने चपलं शीघ्रलोलयोः । पारदे चपला लक्ष्म्यां पिप्पलीविद्युतोरथ ॥ १८२ ॥ ;l{2960} चिरण्टी तु सुवासिन्यां यौवनाश्रितयोषिति । चाम्पेयः काञ्चने नागकेसरे चम्पके [22] तरौ ॥ १८३ ॥ चक्रवाटः शिखावृक्षे क्रियारोहेऽपि संमतः । चक्रवाडश्चकवालः पर्वतान्तरपूरयोः ॥ १८४ ॥ चूडामणिः शिरोरत्ने शास्त्रभेदे फलान्तरे । ;l{2965} चन्द्रहासो दशग्रीवखड्गे मद्यान्तरेऽपि च ॥ १८५ ॥ चन्द्रकान्तो मणौ चन्द्रकान्तं कैरववाचकम् । चीर्णपर्णः पिचुमन्दे खर्जूरेऽथ चतुष्पथम् ॥ १८६ ॥ चत्वरेऽप्यग्रजे [पुंसि?] चक्रपादो रथे पुनः । चतुष्पदस्तुरंगादौ स्त्रीणां च करणान्तरे ॥ १८७ ॥ ;p{0186} ;l{2970} चित्रभानू रवौ वह्नौ चिरंजीव्यजकाकयोः । चन्द्रोदयो विधूद्रेक उल्लोचौषधभेदयोः ॥ १८८ ॥ स्मृतश्चक्रधरः सर्पे श्रीपतौ कुम्भकारके । ;v{छकारादयः} ;c{अथ छकारादयो यथा ।} छदः पत्रे ग्रन्थिपर्णे पतत्रेऽपि तमालके ॥ १८९ ॥ ;l{2975} छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः । श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥ उत्कोचे पालने कान्तौ शोभानातपयोरपि । छलं वेषे मिषे पत्रे छल्ली वल्कलवीरुधोः ॥ १९१ ॥ गृहासक्तेऽण्डजे छेको दक्षे च हरिणान्तरे । ;l{2980} छेदनं कर्तने भेदे छर्दनो निम्बलुम्बयोः ॥ १९२ ॥ छगलाख्या पुटे मेषे नीलिकारञ्जितांशुके । छगली चौषधीभेदे छित्वरो रिपुधूर्तयोः ॥ १९३ ॥ ;v{जकारादयः} ;c{अथ जकारादयो यथा ।} ज्येष्ठो मासेऽग्रजे पूज्ये ज्येष्ठा स्थाद्गृहगोधिका । ;l{2985} नक्षत्रेऽप्यौषधीभेदे जनो लोके पृथग्जने ॥ १९४ ॥ ;p{0187} जडस्त्वज्ञे हिमग्रस्ते जनी वध्वां जगच्चरे । जङ्गमेऽप्यथ जिष्णुः स्याज्जयशीले रवौ हरौ ॥ १९५ ॥ अर्जुने वासवे देवपादपेऽथ जलं जडे । जले जिह्मोऽसमे मन्दे जिह्मं तगरपादपे ॥ १९६ ॥ ;l{2990} जम्भोंऽशेऽप्यशने दन्ते तरौ तूणेऽसुरान्तरे । जटा मांस्यां वृक्षमूले विकारे केशसंततेः ॥ १९७ ॥ ज्योतिर्वह्नौ दिवानाथे नक्षत्रेऽक्षिप्रकाशयोः । जातिर्गोत्रामलक्योः स्याज्जन्मसामान्ययोरपि ॥ १९८ ॥ मालत्यां छन्दसां भेदे ज्यायान् शस्ते गुरावपि । ;l{2995} जालं तु क्षारकानायगणदर्भेषु जालके ॥ १९९ ॥ नटे नीपे स्मृतो जालः पटोल्यां जाल्यपि स्मृता । जिनो बुद्धे स्मरे कृष्णेऽर्हत्ययं स्याद्विशेषतः ॥ २०० ॥ जृम्भितं जृम्भणोत्फुल्लचेष्टितेष्वपि वर्धिते । जिगीषा तु जयेच्छायां व्यवसाये तथोच्यते ॥ २०१ ॥ ;l{3000} संनाहे तुरगादीनां विज[23]ये जयनं तथा । जर्जरस्तु जराव्याप्ते कोकिले वासवध्वजे ॥ २०२ ॥ ;p{0188} जीविका वर्तनेऽथोक्तो जीवकः सेवके तरौ । प्राणके चातके व्यालग्राहे वृद्ध्युपजीविनि ॥ २०३ ॥ जरणो जीरके नीरे रुचके कृष्णजीरके । ;l{3005} जम्भलो देवताभेदे जम्बीरेऽपि निशम्यते ॥ २०४ ॥ जटायुर्गुग्गुले वृक्षे [पक्षि?] भेदेऽथ जङ्गलम् । निर्जले पिशिते गर्ते जम्बूलः क्रकचद्रुमे ॥ २०५ ॥ जीवनं सलिले जन्मवृत्त्योरपि निरीक्ष्यते । जगती छन्दसां भेदे भूमौ लोकेऽथ जम्बुकः ॥ २०६ ॥ ;l{3010} फेरौ पाशिन्यथाख्यातो जीमूतो गिरिमेघयोः । जठरं तु कठोरे स्याच्चित्ते कुक्षौ दुमान्तरे ॥ २०७ ॥ जूहूराणो हये वह्नौ जीवितेशः प्रिये स्मृतः । कालेऽथ जलसूचिस्तु शुङ्गाटे शिशुमारके ॥ २०८ ॥ जलौकःकङ्कयोस्त्रौटौ लोके जनपदो मतः । ;l{3015} पत्तने विषये मार्गे जर्जरीको जरत्तरे ॥ २०९ ॥ जर्जरीकं बहुच्छिद्रे जीवंजीवः खगान्तरे । जघन्यजोऽनुजे शूद्रे जलरङ्कस्तडित्वति ॥ २१० ॥ ;p{0189} नालिकेरीफलेऽथोक्तो जलरण्डो जलभ्रमे । किञ्जल्कसर्पयोश्चाथ जीवपुष्पं फणिज्जके ॥ २११ ॥ ;l{3020} झूणिः पूगीफले दण्डे दुष्टदेवश्रुतावपि । ;v{टकारादयः} ;c{अथ टकारादयो यथा ।} टङ्कस्तु टङ्कणक्षारेऽश्मदारणखनित्रयोः ॥ २१२ ॥ क्रोधे मानान्तरे कोशे तगरे केसरद्रुमे । पाषाणदारणे क्रोधे टङ्कणोपि मतः सताम् ॥ २१३ ॥ ;l{3025} डिम्भो बाले जडेऽप्युक्तो डिम्बोऽथ डमरे भये । ;v{तकारादयः} ;c{अथ तकारादयो यथा ।} तीर्थं तोये गुरौ यज्ञे शास्त्रे स्त्रीपुष्पपात्रयोः ॥ २१४ ॥ देवतानिलये पुण्यक्षेत्रे योन्यवतारयोः । त्राणं वीर्ये वने त्रायमाणभेषजनाम च ॥ २१५ ॥ ;l{3030} तर्कः कर्मविशेषे स्याद्विचारेऽपि तथोच्यते । गीतकर्ममितौ तालस्तालो वृक्षे कराहतौ ॥ २१६ ॥ हस्तमानेऽप्यथो तालं हरिताले निगद्यते । तलं सर्गे त्वधोभागे तलस्तालचपेटयोः ॥ २१७ ॥ ;p{0190} तारा सुरगुरोः पत्नी बुद्धसुग्रीवपत्न्यपि । ;l{3035} तारं रूप्ये प्रधानेऽपि तारा नेत्रकनीनिका ॥ २१८ ॥ नक्षत्रेऽथ मतस्तारः स्वरभेदे च मौक्तिके । तन्त्रं शास्त्रे वशे वायसाधने सिद्धभेषजे ॥ २१९ ॥ परिच्छदे प्रधानेऽथ त्रपु सीसकरङ्गयोः । तन्त्री नाड्यां तथा वीणागुणे त्यागो विसर्जने ॥ २२० ॥ ;l{3040} परित्यागे तुला तूक्ता राशौ [24] सादृश्यभाण्डयोः । पलानां शतमानेऽथ तमः खेदतमिस्रयोः ॥ २२१ ॥ राहौ गुणान्तरे चाथ तोकं संतानपुत्रयोः । तापः कष्टे च संतापे तेजो मोक्षप्रभावयोः ॥ २२२ ॥ नवनीते बले वह्नौ तीक्ष्णं तिग्मे विषे रणे । ;l{3045} तूणी नील्यां निषङ्गे च तल्पं शय्याकलत्रयोः ॥ २२३ ॥ वस्त्रे देहे गृहे चाथ तनुः स्वल्पे कृशे त्वचि । विरले वामने देहे त्रुटिः संशयलेशयोः ॥ २२४ ॥ कालमानेऽपि रज्जौ स्यात्ततं विपुलवाद्ययोः । तरो वेगे बले तार्क्ष्यः सूरसूते खगेश्वरे ॥ २२५ ॥ ;p{0191} ;l{3050} स्यन्दने घोटके तन्द्रा प्रमादस्वापयोरपि । त्रेता युगान्तरे वह्नित्रिके त्रय्यपि कथ्यते ॥ २२६ ॥ तरलस्तु बले हारान्तर्मणौ चपले तथा । आकाशे त्रिदिवं ख्यातं स्वर्गलोकेऽपि संमतम् ॥ २२७ ॥ तिलकं च ललामे स्याद्रुचके तिलकालके । ;l{3055} क्लोमचित्रकयोश्चाथ तुषारः शीतशीकरौ ॥ २२८ ॥ तलिमं कुट्टिमे तल्पे विताने तलिमं तथा । तोदनं पीडने तोत्रे तरसं बलमांसयोः ॥ २२९ ॥ तक्षको भुजगे तक्ष्णि तरणी रविबेडयोः । तरुणो नूतने यूनि तारकं नेत्रतारयोः ॥ २३० ॥ ;l{3060} नक्षत्रेऽथासुरे नाविके च तारक उच्यते । त्रिशङ्कुर्नृपभेदे च बिडाले शलभे तथा ॥ २३१ ॥ तूलतल्पे शिलाकायां तूलिका चित्रलेखिनी । तमालः खड्गतापिच्छपुण्ड्रेषु वरुणे पुनः ॥ २३२ ॥ तुमुलं तु महायुद्धे तुमुलस्तु बिभीतके । ;l{3065} तन्डुरीणः स्मृतः केशे तन्डुलोदककीटयोः ॥ २३३ ॥ ;p{0192} पारगस्तर्तरीकः स्यात्तर्तरीकं वहित्रके । ;v{दकारादयः} ;c{अथ दकारादयो यथा ।} दढः शक्ते भृशे मत्ते द्युतिः किरणशोभयोः ॥ २३४ ॥ दंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः । ;l{3070} द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥ भृङ्गे कीटे द्रुणं चापे कच्छपान्तरखड्गयोः । द्रोणी बेडान्तरे भूध्रसंधावथ दिवं जले ॥ २३६ ॥ इन्द्रिये वासराकाशनाकेष्वथ दया कृपा । दायो दाने पितुर्वित्ते यौतकान्वययोरपि ॥ २३७ ॥ ;l{3075} दण्डो माने प्रकाण्डे चोपायभेदेऽर्कसेवके । सैन्ये दर्पेऽथ दण्डी स्याद् द्वाःस्थे भूपे यमेऽपि च ॥ २३८ ॥ दानं हस्तिमदे शुद्धौ रक्षणे च विसर्जने । दरो गर्ते भये देवः सुरराजजिगीषुषु ॥ २३९ ॥ मेघे [25] मू्र्खे द्विजो विप्रे दन्तनीडजयोरपि । ;l{3080} द्रुमो रत्ने तरौ दिष्टिर्हर्षे मानेऽपि कथ्यते ॥ २४० ॥ ;p{0193} द्रविणं द्युम्नवद् द्रव्ये सङ्घौषधपराक्रमे । द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥ देवनं तु विहारे स्याज्जिगीषाव्यवहारयोः । द्वापरो युगभेदेऽथ संशये दीपितं त्वथ ॥ २४२ ॥ ;l{3085} दग्धभासितयोश्चाथ दायादो ज्ञातिपुत्रयोः । दुकूलं पट्टकूले स्याद्दले भूर्जस्य संमतम् ॥ २४३ ॥ दिवौकाश्चातके देवे दीपकस्तु खगान्तरे । वृत्तालंकारभेदेऽपि दीपे दीप्तिकरे पुनः ॥ २४४ ॥ दुर्मुखो मुखरे हस्तिभेदे वानरवाजिनोः । ;l{3090} दर्दुरः पर्वते भेके दुर्वर्णं स्वर्णरूप्ययोः ॥ २४५ ॥ दासेरः करभे दासीपुत्रे वह्नौ च दहनः । भल्लाते चित्रके दुष्टचेष्टितेऽपि निबध्यते ॥ २४६ ॥ दुरोदरः पणे द्यूते पाशके द्यूतकारके । दन्दशूको भुजंगे स्याद्राक्षसेऽपि मतः सताम् ॥ २४७ ॥ ;l{3095} देवसेनामरेशस्य पुत्री सेनापि कथ्यते । दिवाकीर्तिस्तु चण्डाले नापिते शिबरान्तरे ॥ २४८ ॥ दिवाभीतश्च घूके स्यात्कुमुदाकरचौरयोः । भवेद्देवमणिर्वाजिगलावर्तेऽपि शंकरे ॥ २४९ ॥ ;p{0194} देवताडः कृतान्तेऽग्नौ राहुपर्वतयोरपि । ;l{3100} दलाढकोऽरण्यतिले नागकेसरखातयोः ॥ २५० ॥ ;v{धकारादयः} ;c{[अथ] धकारादयो यथा ।} धाम गेहे प्रभावे च स्थाने तेजसि विश्रुतम् । धुनी नद्यां समुद्रेऽथ धेनो धेनुः करिस्त्रियाम् ॥ २५१ ॥ गवि ध्वाङ्क्षस्तु काके स्याद्बकयाचकयोरपि । ;l{3105} धातुः क्रियादिरूप्यादिमहाभूतेषु तद्गुणे ॥ २५२ ॥ धारा जलादिपाते स्यात्खड्गाङ्गेऽर्वगतावपि । धरः कूर्मे गिरौ तूले धरा मेदभुवोर्मता ॥ २५३ ॥ धिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः । धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥ ;l{3110} धृतिः सुखेऽध्वरे धैर्ये संतोषे धारणेऽपि च । कोदण्डस्थलयोर्धन्व धन्वा स्यान्मरुमण्डले ॥ २५५ ॥ धन्वी धनुर्धरे छेके ध्रुवः कीलकशर्वयोः । धवः प्रिये तरौ भीरौ धीदा कन्यामनीषयोः ॥ २५६ ॥ धैनुकं करणे स्त्रीणां धेनूनां निवहेऽपि च । ;l{3115} धिषणस्तु सुराचार्ये धरणो रविशेषयोः ॥ २५७ ॥ ;p{0195} धूसरो धूमले वर्णे शकटाङ्गे च गर्दभे । धाराटो निर्दये त्वश्वे चातके निन्दके तथा ॥ २५८ ॥ धव[26]लो वाडवेये स्याच्छुभ्रे कर्पूरचन्द्रयोः । ;v{नकारादयः} ;c{अथ नकारादयो यथा ।} ;l{3120} प्रापणे च नये नीतिर्निजो नित्यस्वकीययोः ॥ २५९ ॥ नाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे । न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥ नागः सर्पे गजे नागकेसरे मुस्तकान्तरे । शब्दोत्तरस्थितः श्रेष्ठे शरीरपवनान्तरे ॥ २६१ ॥ ;l{3125} स्वर्गे व्योम्नि मतो नाको नीचः पामरखर्वयोः । नाकुर्मुनीश्वरे रन्ध्रे पर्वते कृमिपर्वते ॥ २६२ ॥ निष्को हृद्भूषणे स्वर्णे दीनारस्नानयोरपि । नभा घ्राणे बिसे मासभेदेऽथ स्यान्नभोऽम्बरम् ॥ २६३ ॥ नाभिः क्षत्रियचक्राङ्गदेहाङ्गेष्वपि कथ्यते । ;l{3130} नदो वाहे ह्रदे वार्धिरावयोर्नेत्रमंशुके ॥ २६४ ॥ वृक्षमूले मृगे नेत्रे नन्दिर्द्युते गणान्तरे । हर्षे नन्दी वटे गर्दभाण्डे शंकरवेत्रिणि ॥ २६५ ॥ ;p{0196} नन्दा तिथ्यन्तरे वाचि मणिकेऽथ नलं कजे । पितृदेवे कपौ वृक्षे नालं काण्डमृणालयोः ॥ २६६ ॥ ;l{3135} नेमः कालेऽवधौ गर्तदम्भयोर्वरणेऽपि च । नेमिर्वृक्षे प्रधौ निन्दापवादे निन्दने स्मृता ॥ २६७ ॥ निभो दम्भे समाने च नरः कर्पूररामयोः । अर्जुने केशवे मर्त्ये नूनं निश्चयतर्कयोः ॥ २६८ ॥ नगो भूध्रे तरौ नाम कुत्साख्यामन्त्रणेष्वथ । ;l{3140} निर्वेशो मूर्च्छने स्तूपभोगेऽथ निगमः पुरे ॥ २६९ ॥ वणिङ्मार्गे श्रुतौ मार्गे निकायो गणलक्षयोः । निसर्गस्तु स्वरूपे स्याद्विश्वनिर्माण एव च ॥ २७० ॥ निर्वातस्तु गते वाते गाढसंनाहसद्यनोः । निर्यूहः शेखरे नागदन्तनिर्यासयोरपि ॥ २७१ ॥ ;l{3145} निष्क्रमो निर्गमेऽकुल्ये निकृतोऽन्यत्कृतेऽधमे । नायको रत्नभेदे स्पात्प्रधानस्वामिनोरपि ॥ २७२ ॥ नियमोऽथावधौ ज्ञाने व्रते निश्चयबन्धयोः । नालिका चुल्हिकारन्ध्रे बिलकालविशेषयोः ॥ २७३ ॥ ;p{0197} निर्वाणं तु शिवे दन्तिमज्जने च विनाशने । ;l{3150} नर्तको द्विरदे मत्स्ये नृत्यकर्तरि संमतः ॥ २७४ ॥ निस्त्रिंशः परुषे खड्गे निषधः स्वरदेशयोः । निवेशो रचनानीकविवाहेषु पुरेऽप्यथ ॥ २७५ ॥ नन्दकोऽसौ मुकुन्दस्य हर्षके कुलपालके । निर्ग्रन्थः कदलीसाले निर्धने श्रमणेऽपि च ॥ २७६ ॥ ;l{3155} निर्वृतिर्मोक्षमृत्योः स्यात्स्वास्थ्येऽपि परिकीर्तितम् । [27] नागवारिक आख्यातो खगेशे चित्रमेखले ॥ २७७ ॥ नारायणो हरौ तालभेदे नारायणी श्रियाम् । नदीकान्तोऽम्बुधौ वृक्षविशेषेऽपि निबध्यते ॥ २७८ ॥ नदीकान्ता लताकाकजङ्घयोरथ निर्वृतौ । ;l{3160} स्मृतं निःशरणं मृत्यावुपाये तालभिद्यपि ॥ २७९ ॥ निशाचरस्तु जम्बूकरक्षसोश्चौरसर्पयोः । नन्द्यावर्तं पुरे वृक्षे गेहभेदेऽपि दृश्यते ॥ २८० ॥ निराकृतिर्द्विजे वेदहीने भर्त्सन एव च । नारकीटो दृषत्कीटे मित्रद्रोहकरे नरे ॥ २८१ ॥ ;p{0198} ;l{3165} ईक्षणे श्रवणे वापि स्मृतं निशमनं बुधैः । नीलकण्ठो हरे केकिखञ्जरीटपिकेष्वपि ॥ २८२ ॥ निषद्वरः स्मरे पङ्के विचारे तु निरूपणम् । ;v{पकारादयः} ;c{[अथ] पकारादयो यथा ।} पदं त्राणे क्रमे स्थानेऽपवादव्यवसाययोः ॥ २८३ ॥ ;l{3170} विभक्त्यन्तेऽथ पादस्तु रश्मौ प्रत्यन्तपर्वते । तुर्यांसे तरुमूलेऽथ पद्मो व्यूहेऽहिसंख्ययोः ॥ २८४ ॥ पद्मं तु पङ्कजे हस्तिबिन्दुष्वपि च पल्लवे । पीथं जले रवौ पीथः पद्मा लक्ष्म्यां प्लवः कपौ ॥ २८५ ॥ भेकचण्डालयोः प्लक्षे वारिवायसशब्दयोः । ;l{3175} पुष्पं याने कुबेरस्य कुसुमे स्त्रीरजस्यपि ॥ २८६ ॥ नेत्ररोगे विकाशे च पक्षः पिच्छे ग्रहे च ये । विरोधे केशहस्ते च साध्ये मासार्धपार्श्वयोः ॥ २८७ ॥ पणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके । पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥ ;l{3180} पत्राणां निचये योग्ये पत्री बाणे खगे रथे । श्येने पालिः स्मृता सेतौ कर्णपाल्यां स्थितौ ततौ ॥ २८९ ॥ पत्रं पक्षे दले भूर्जे वाहनेऽपि निगद्यते । पोत्रं शूकररक्त्राग्रे हलाग्राम्बरयोरपि ॥ २९० ॥ ;p{0199} पीलुः काण्डे तरौ पुष्पे परमाणौ मतङ्गजे । ;l{3185} पृथुर्भूपे विशाले च पुरं मन्दिरदेहयोः ॥ २९१ ॥ गुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः । स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥ पात्र्यां कर्करिकायां च हस्तिनां पादबन्धने । प्रस्थः सानौ तटे माने प्राणो गन्धरसे बले ॥ २९३ ॥ ;l{3190} वायौ हृदयवायौ च पुस्तं पुस्तकशिल्पयोः । पार्ष्णिरुन्मदयोषायामंह्रिमूलेथ पूरिते ॥ २९४ ॥ खातादावपि पूर्तं स्यात्पृषद्बिन्दौ मृगान्तरे । प्लुतस्त्रिमात्रकेऽप्युक्तः प्लुतं वाजि[28]गतावपि ॥ २९५ ॥ पुण्ड्रः कीटे च वासन्त्यां चित्रके तिलकेऽपि च । ;l{3195} इक्षुभेदे पुण्डरीके पशुर्मेषे मृगान्तरे ॥ २९६ ॥ पौषं युद्धे क्षणे पौषो मासभेदेऽपि संमतः । पूगं वृन्दे फले पूग्याः पयो दुग्धे जलेऽपि च ॥ २९७ ॥ पिङ्गा गोरोचनागौर्योः पिङ्गं बालकपीतयोः । पिण्डः सिह्ले जपापुष्पे वोलेऽपि कवलाङ्गयोः ॥ २९८ ॥ ;p{0200} ;l{3200} पण्डः क्लीबे जडे पण्डा तत्त्वबुद्धौ स्मृता बुधैः । पाण्डुर्गदान्तरे वर्णभेदे राजान्तरेऽपि च ॥ २९९ ॥ पिच्छः पुच्छे कचे वाजे क्लीबलिङ्गमुदाहृतम् । पिञ्जा तूला हरिद्रा च पुष्टिर्वृद्धौ च पोषणे ॥ ३०० ॥ पल्लिर्भिल्लादिवासे स्यात्प्रजा संतानलोकयोः । ;l{3205} पक्तिस्तु गौरवे पाके पलं मांसे मितावपि ॥ ३०१ ॥ प्लक्षो द्वीपे वटे स्वच्छे पटुर्नीरोगदक्षयोः । पर्व ग्रन्थौ पुराणाङ्गे दर्शप्रस्तावयोरपि ॥ ३०२ ॥ पट्टः चतुष्पथे पीठे व्रणस्यापि निबन्धने । पतंगः शलभे सूर्ये पतंगं पारदे स्मृतम् ॥ ३०३ ॥ ;l{3210} प्रसवः शाखिनां पुष्पे फले गर्भस्य मोचने । पुलाकः क्षुद्रधान्यांशे संक्षेपे भक्तसिक्थके ॥ ३०४ ॥ पर्यङ्को मञ्चके तन्त्रेऽप्यर्भके पृथुकः पुनः । चिपिटेऽथ प्रमाणं स्यात्सत्ये माने च कारणे ॥ ३०५ ॥ प्रकाशः प्रकटे रोगे प्रद्योते पुंगवो गवि । ;l{3215} शब्दोत्तरस्थितः श्रेष्ठे पर्जन्यो वासवेन्द्रयोः ॥ ३०६ ॥ ;p{0201} पर्याप्तं तु निषेधे स्याद्यथेच्छापूर्णशक्तिषु । प्रदरो रोगभीत्योः स्यात्पललं मांसपङ्कयोः ॥ ३०७ ॥ परुषं कर्कशे रूक्षे पुद्गलः कायवित्तयोः । प्रधानं प्रकृतौ पूज्ये महामात्रात्मनोरपि ॥ ३०८ ॥ ;l{3220} पल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि । पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥ प्रवालो विद्रुमे वीणादण्डे पादपपल्लवे । पलाशो राक्षसे वर्णभेदे वृक्षान्तरेऽपि च ॥ ३१० ॥ प्रघणस्ताम्रकुम्भे यो मुद्गरेऽलिन्दके तथा । ;l{3225} प्रणयः प्रार्थनाप्रेमविश्रम्भेषु निगद्यते ॥ ३११ ॥ पिण्डारो महिषीपाले याचके द्रमभिद्यथ । पिचुलो झाबुके नीरवायसे निचुलेऽपि च ॥ ३१२ ॥ पाचलोऽग्नौ समीरे च पिङ्गला स्नायुवेश्ययोः । पेचको गजलाङ्गूलमूले घूके निशाचरे ॥ ३१३ ॥ ;l{3230} परञ्जस्तैलयन्त्रेऽसौ क्षुरिकाफलफेनयोः । पिच्चटं [29] सीसके रङ्गे पूत्यण्डो गन्धकीटके ॥ ३१४ ॥ गन्धैणे पक्षिणी पौर्णमासी शाकिन्यपि स्मृता । परिवापोऽसिकोशेऽम्बुस्थाने वपनतन्त्रयोः ॥ ३१५ ॥ ;p{0202} परिबर्हः परीवारे राज्ययोग्ये च वस्तुनि । ;l{3235} स्मृतः पुष्कलकः स्थाणौ पूतिकाष्ठं सुरद्रुमे ॥ ३१६ ॥ पुण्डरीकं कजे श्वेते श्वेतच्छत्रेऽपि कथ्यते । दिग्गजे राजिलाहौ च पुण्डरीकः कमण्डलौ ॥ ३१७ ॥ पुरस्कृतोऽग्रगे शस्ते प्रतिक्षिप्तो निराकृते । पितामहः पितुस्ताते ब्रह्मण्यपि च कथ्यते ॥ ३१८ ॥ ;l{3240} परायणोऽप्यथासक्ते कार्त्स्न्ये पारायणं स्मृतम् । पाञ्चजन्यो हरौ पोटगले शङ्खे हरेरपि ॥ ३१९ ॥ परिधायो नितम्बे स्यात्परिवारे जलाशये । पात्रटीरो जरत्पात्रे हुताग्नौ लोहकांस्ययोः ॥ ३२० ॥ प्रचलाको भुजंगेऽपि शराघातशिखण्डयोः । ;l{3245} चुचुके सेवने सूत्रे स्मृतं पिप्पलकं बुधैः ॥ ३२१ ॥ परपुष्टा वारयोषा परपुष्टः पिके स्मृतः । प्रजापती रवौ सूर्यवेधसोः पाचके नृपे ॥ ३२२ ॥ पारिजातस्तु मन्दारे पारिभद्रेऽपि कथ्यते । फलं हेतुकृते लाभे फणा सर्पफटे स्मृता ॥ ३२३ ॥ ;l{3250} जटामन्थानकुण्डल्योः फटा च फणदम्भयोः । फाल्गुनो मासभेदे स्यादर्जुनाख्ये तरावपि ॥ ३२४ ॥ ;p{0203} फेनिलं बदरे कामफले रिष्टेऽपि कथ्यते । फालकस्तु गतौ वीरभेदे दिव्येऽपि संमतः ॥ ३२५ ॥ फेरवो राक्षसे फेरौ स्वर्गलोके फलोदयः । ;l{3255} ;v{भकारादयः} ;c{[ अथ ] भकारादयो यथा ।} भुजो मूल्ये करे बाहौ भानुः सूर्यदिनांशुषु ॥ ३२६ ॥ भगो ज्ञाने रवौ रूपप्रभावश्रीषु दृश्यते । यत्ने पुण्ये यशोमुक्तिवीर्ययोनिषु शीतगौ ॥ ३२७ ॥ भेको भीरौ प्लवे मेघे भङ्गः कल्लोलदम्भयोः । ;l{3260} पराजये भृगुः सानौ शुक्रे मृत्युंजयेऽपि च ॥ ३२८ ॥ भोगः सर्पफणे सर्पदेहे वेश्याभृतौ सुखे । राज्ये भाण्डं वणिग्मूलवित्ते मण्डनभूषयोः ॥ ३२९ ॥ भ्रमो भ्रान्तौ जलावर्ते भृङ्गो भ्रमरषिङ्गयोः । भेदो विदारणे द्वैध उपजापविशेषयोः ॥ ३३० ॥ ;l{3265} भवो रुद्रे च सत्तायां संसारे प्राप्तिजन्मनोः । भावः सत्तास्वभावात्मकर्मचेष्टाशयेष्वथ ॥ ३३१ ॥ भद्रो गजान्तरे श्रेयोवृषयोर्मुनिरुद्रयोः । भर्म भारे भृतौ स्वर्णे भोगी तालनृपाहिषु ॥ ३३२ ॥ ;p{0204} भूरिस्तु पुष्कले हेम्नि भरुर्भर्मणि भर्तरि । ;l{3270} भीष्मो गंगासुते रुद्रे भीषणे सर्परक्षसोः ॥ ३३३ ॥ भूभृद्वरे गिद्रे शेषे भूतिर्लक्ष्म्यां च भस्मनि । भीमो रौद्रे हरे भूपे भावाटः कामुके मुनौ ॥ ३३४ ॥ भूतीकं तु यवान्यां स्वाद्भूतृणे कटुलौषधे । भ्रामकः फेरवे दुष्टे दृषद्भेदे रवेर्भ्रमे ॥ ३३५ ॥ ;l{3275} भरतस्तु मुनौ भूपे भुवनं जललोकयोः । भास्करः सूर्यवह्न्योः स्याद् भ्रमरः कामुकेऽप्यलौ ॥ ३३६ ॥ भारतं तु पुराणे स्याद् द्वीपभेदेऽपि संमतम् । भागधेयं करे भाग्ये भोगवत्यपि सर्पपूः ॥ ३३७ ॥ भट्टारको मुनौ देवे भारद्वाजः खगान्तरे । ;l{3280} भौमस्तु मङ्गले दैत्ये मुष्कः सङ्घेऽण्डचौरयोः ॥ ३३८ ॥ मोघाथ पटलावृक्षे मोधं निष्फलदीनयोः । मृगो नक्षत्रभेदे स्यात्कुरङ्गेऽथ मृगी स्त्रियाम् ॥ ३३९ ॥ ;v{यकारादयः} ;c{[अथ] यकारादयो यथा ।} युगं रथाङ्गे युग्मे च कृतादौ विवसान्तरे । ;l{3285} योगोऽलब्धस्य लाभे स्यात्कार्मणे संगतावपि ॥ ३४० ॥ ;p{0205} यज्ञो नारायणे यागे वह्नौ मेषात्मनोरथ । यमो ध्याङ्क्षे कृतान्ते च यानं युग्ये गतावपि ॥ ३४१ ॥ यन्ता हस्तिपके सूते यतिर्भिक्षुविरामयोः । ;v{रकारादयः} ;c{[अथ] रकारादयो यथा ।} ;l{3290} राका दृष्टरजःकन्यापूर्णमासीभिदोरपि ॥ ३४२ ॥ रङ्को मल्ले दरिद्रे च रागः संगीतरागयोः । रोकं जले बिले रोको रश्मौ रोचिः स्पृहारुचोः ॥ ३४३ ॥ राधा गोप्यां भभेदे च राधो मासान्तरे मतः । रमः कान्ते स्मरे रक्ताशोके रीढा विमानने ॥ ३४४ ॥ ;l{3295} रुमा लवणखानौ स्यात्सुग्रीवस्य प्रियापि सा । रामो हलायुधे जामदग्न्ये दाशरथावपि ॥ ३४५ ॥ रसस्तु पारदे वीर्ये घृते शृङ्गारिके तथा । रथ्या प्रतोल्यां मार्गे च राशिर्मेषादिपूरयोः ॥ ३४६ ॥ ;v{लकारादयः} ;c{[अथ] लकारादयो यथा ।} ;l{3300} लेखोऽमरे लिपौ लक्ष्मीः शोभासंपत्प्रियङ्गुषु । लक्ष्यं वेध्ये च संख्यायां लिङ्गं रुद्राङ्गचिह्नयोः ॥ ३४७ ॥ ;p{0206} ;v{वकारादयः} ;c{[अथ] वकारादयो यथा ।} वर्णः कीर्तौ द्युतौ गीतक्रमे शुक्लद्विजादिके । बाणो दैत्ये शरे वृक्षे वाणिर्मेघः सरस्वती ॥ ३४८ ॥ ;l{3305} वीर्यं बले प्रभावे च वेला काले जलोन्नतौ । वरो जामातरि श्रेष्ठे विधुः श्रीपतिचन्द्रयोः ॥ ३४९ ॥ वज्रं हीरे पवौ वेरं शरीरे चन्दने जले । वामी तु रासभी प्रोक्ता शृ[31]गाली करभी तथा ॥ ३५० ॥ वामो महेश्वरे कामे प्रतिकूले पयोधरे । ;l{3310} वाहस्तुरंगमे मेघे व्यूहः सङ्घवितर्कयोः ॥ ३५१ ॥ वर्तिर्दीपदशायां स्याद्विधिः कर्तव्यवेधसोः । वधूः पत्न्यां स्नुषायां च विदा ज्ञानधियोरपि ॥ ३५२ ॥ ;v{शकारादयः} ;c{[अथ] शकारादयो यथा ।} शुको व्यासात्मजे कीरे शौकं स्याच्छुकसंचये । ;l{3315} शको भूपेऽन्त्यजे देशे शङ्कुः कीलकरुद्रयोः ॥ ३५३ ॥ शङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ शिवं भद्रे सुखे नीरे शिवो जम्बुकरुद्रयोः । गुग्गुले कीलके योगे शिवा कात्यायिनी स्मृता ॥ ३५५ ॥ ;p{0207} ;l{3320} हरीतक्यामलक्योश्च शेषोऽनन्ते बले क्षये । श्यामाथ सोमवल्ली स्यादप्रसूताङ्गना तथा ॥ ३५६ ॥ शरुः कोपे शरे वज्रे शद्रिः कृष्णे तडित्वति । शम्भुर्बह्मणि रुद्रे च शुभो योगे शुभं सुखे ॥ ३५७ ॥ शृङ्गी गिरौ पशौ शूरे शोषो यक्ष्मणि शोषणे । ;l{3325} शाखा बाहौ द्रुमाङ्गे च वेदाङ्गे तालभिद्यपि ॥ ३५८ ॥ शिखा ज्वाला शिफा केकिचूडा लाङ्गलिकापि च । शम्बस्तु मुशलाग्रस्थलोहे धूमलवज्रयोः ॥ ३५९ ॥ शक्तिः श्रियामुमायां च बले शास्त्रेऽपि कथ्यते । ;v{षकारादयः} ;c{अथ षकारादयो यथा} ;l{3330} षण्डस्तु कानने भेदे षष्ठी गौर्यां तिथावपि ॥ ३६० ॥ ;v{सकारादयः} ;c{[अथ सकारादयो यथा]} स्तोमो मखे चये स्तोकः चातकस्वल्पयोरपि । स्थाणुः कीले हरे सूनमङ्कुरे कुसुमे मतम् ॥ ३६१ ॥ सूनुर्द्रुमेऽनुजे पुत्रे सौम्यो धिष्ण्ये बुधेऽपि च । सूतस्तु पारदे तक्ष्णि मागधे सारथावपि ॥ ३६२ ॥ ;l{3335} सीता तु जानकी देवसिन्धुर्लाङ्गलपद्धतिः । सालिर्भुजंगमे कीले मूर्खे रोगे युगान्तरे ॥ ३६३ ॥ ;p{0208} सर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि । सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥ स्थूलः पीने जडे सालो दुर्गे वृक्षान्तरे स्मृतः । ;l{3340} सिन्धुर्दन्तिमदे नद्यां नदसागरयोरपि ॥ ३६५ ॥ सह्यो राज्ञि गिरौ सह्यं सोढव्ये रोगवर्जिते । साधुर्मुनौ तथार्ये च सोमः कर्पूरचन्द्रयोः ॥ ३६६ ॥ दिव्यौषध्यां कपौ विष्णौ शक्रसूर्यशिवेषु च । सिद्धिर्मोक्षे च योगस्य निष्पत्तावपि कथ्यते ॥ ३६७ ॥ ;l{3345} सुधा गङ्गेष्टिका पृथ्वी भोजने तु दिवौकसाम् । सिंहो हर्यक्षराश्योश्च [32] श्रेष्ठार्थे चोत्तरस्थितः ॥ ३६८ ॥ सव्यं तु दक्षिणे वामे सूदः स्यात्सूपकारके । स्वामी गुहेऽधिपे स्वस्ति पुण्यकल्याणयोर्मतः ॥ ३६९ ॥ सारङ्गः कुञ्जरे शैले हरिणे चातके खगे । ;l{3350} चञ्चरीके गजे भेके संभोगो रतभोगयोः ॥ ३७० ॥ संगरोऽङ्गीकृतौ युद्धे विनाशे गरलेऽपि च । संबाधः संकटे योनौ सावित्रः पार्वतीपतौ ॥ ३७१ ॥ ;p{0209} ;v{हकारादयः} ;c{[अथ] हकारादयो यथा ।} हरिः कृष्णेऽनिले भेके यमे सिंहे खगेश्वरे । ;l{3355} इन्द्रे चन्द्रे कपौ कीरे किरणे वरुणेऽरुणे ॥ ३७२ ॥ लोकान्तरे द्विपे वह्नौ हारो मुक्तागणे स्मृतः । संग्रामेऽथ मतो हीरो रुद्रे वज्रेऽपि कथ्यते ॥ ३७३ ॥ ही? लक्ष्म्यामथो रुद्रे वासरेऽसौ हरो मतः । होमिर्वह्नौ घृते क्षीरे होरा राश्यर्धलग्नयोः ॥ ३७४ ॥ ;l{3360} हंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ हिंसा प्राणापहारे स्यान्नाशे चौर्यादिके तथा । हेतिरुस्रास्त्रयोः प्रोक्तो हेलिः सूर्येऽप्यथो हनुः ॥ ३७६ ॥ कपोलावयवे हारी शुके हारान्वितेऽपि च । ;l{3365} हरित्तृणान्तरे वर्णभेदे दिश्यपि कथ्यते ॥ ३७७ ॥ ;v{क्षकारादयः} ;c{[अथ] क्षकारादयो यथा ।} क्षत्ता द्वाःस्थे नियुक्ते च दासजे सारथावपि । क्षीवो मत्ते नृशंसे च क्षणः कालान्तरे मतः ॥ ३७८ ॥ ;p{0210} उत्सवेऽथ मतः क्ष्वेडो वक्रे च गरले तथा । ;l{3370} क्ष्वेडा सिंहध्वनौ देशे काले क्ष्वेडं दुरासदे ॥ ३७९ ॥ रोहितायाः फले पुष्पे क्षमा क्षान्तिर्धरित्र्यपि । क्षमः क्षमायुते शक्ते क्षेमो लब्धस्य रक्षणे ॥ ३८० ॥ मोक्षे च मङ्गले क्षारो रसे काचे गुडादिके । क्षुद्रा वेश्या नटी व्यङ्गी क्षरो मेघे क्षरं जले ॥ ३८१ ॥ ;l{3375} क्षुद्रस्तु निर्धने क्रूरे निकृष्टे स्वल्पतुच्छयोः । क्षेत्रं पत्न्यां भगे देहे केदारे भरतादिके ॥ ३८२ ॥ दुग्धेऽमृते जले क्षीरं क्षितिर्भूम्यां गृहेऽपि च । कुशाग्रबुद्धयो धीरा भवन्तः प्रणमाम्याहम् । वाणीयमर्थहीनापि कृपयैव विलोक्यताम् ॥ ३८३ ॥ ;l{3380} ;c{इति श्रीमत्कायस्थकुलालंकारहारश्रीमद्गढमलसुतश्रीपरमानन्दनन्दनन्दन-} ;c{विरचितायां परमानन्दीयनाममालायामनेकार्थसंग्रहः समाप्तः ।} ;c{करकृतमपराधं क्षन्तुमर्हन्ति सन्त इति कोविदैर्विचार्यम् ।} ;c{शुभमस्तु} ;c{॥ [इत्यनेकार्थसंग्रहः समाप्तः] ॥} ;p{0211} ;k{लिङ्गानुशासनम्} ;c{लिङ्गानुशासनम् ।} ;c{ॐ स्वस्ति श्रीगोस्वामिने नमः ।} नामानुशासनमिदं सम्यग् लिङ्गानुशासनाधीनम् । तस्मात्तद्बोधार्थं कुर्वे किंचित्प्रयत्नमहम् ॥ १ ॥ उत्सर्गेण विधिं वक्ष्येऽपवादेनापि कुत्रचित् । आद्यः सामान्यसंज्ञोऽत्यो विशेषः स्तोकगोचरः ॥ २ ॥ उत्सर्गेण यथा विष्णोः पुंलिङ्गे नामसंचयः । परब्रह्मादिकं चास्यापवादेनात्यथापि च ॥ ३ ॥ एवं रुद्राब्जभूकामनामानि स्युर्नरे परम् । विशेषो वर्तते तद्वद्यथायोगं निरीक्ष्यताम् ॥ ४ ॥ वक्ष्यमाणविधिः प्राय उत्सर्गेणैव कथ्यते । विशेषो वक्ष्यते त्वग्रे पुंनपुंसकसंग्रहे ॥ ५ ॥ ;v{पुंलिङ्गसंग्रहः} ;c{[ अथ पुंलिङ्गसंग्रहः ।]} हस्तदन्तनखौष्ठान्धुगुच्छगुल्फपतद्ग्रहाः । स्तननाककपोलारिरसवोलरथाः समाः ॥ ६ ॥ हैमाशनी कुठारोऽपि दिनसर्तुविषाकवः । निर्यासकण्ठकोष्ठाब्दा एते नरि सनामकाः ॥ ७ ॥ ;p{0212} वर्षश्वेतप्लवाः शोणः पङ्कमन्थजलाशयाः । मुरजात्मासिमासाद्रिबाणध्वानाध्वराग्नयः ॥ ८ ॥ निधिरश्मिकफा वायुद्रुममानार्थवाचकाः । देहभृद्विषयाद्याः स्युः सभेदा नरलिङ्गगाः ॥ ९ ॥ बर्हध्वनिः पर्णपिच्छभिन्नार्थे नरलिङ्गगः । वप्रेऽहिः पुंसि तद्भिन्नवाच्ये भेदोऽपि वक्ष्यते ॥ १० ॥ हायनो व्रीहिगः पुंसि वह्नौ बर्हिस्तथा नरे । मस्तुर्धानाविकारे त्वच्छो नरे स्फटिकार्थगः ॥ ११ ॥ इने मित्रो नरे नीलो मणौ भेकेश्वरे पुमान् । अस्रः कोणे पुमान् कोशश्चषकार्थे नरो मतः ॥ १२ ॥ दारासुबल्वजा भूम्नि तलस्तालचपेटयोः । सूर्यचन्द्रायसामग्रे कान्तशब्दः पुमान् स्मृतः ॥ १३ ॥ यानार्थवाचकादग्रे युगशब्दो नृलिङ्गगः । पुमान् स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ १४ ॥ वाकोत्तरपदाः शब्दाः सूक्तवाकादयो नरे । नक्तको रल्लकाङ्कौ च तरङ्गो रङ्ग इत्यपि ॥ १५ ॥ पराग उत्तरासङ्गन्युङ्खपूगसृगा नरे । मस्तुलुङ्गकुडङ्गौ च मङ्गकालिङ्गमञ्चकाः ॥ १६ ॥ तमङ्गापाङ्गवर्गौघखगार्घाः पुच्छगच्छकौ । मुञ्जपुञ्जावटाः पट्टकोष्ठौ पिच्छौजवाजकाः ॥ १७ ॥ ;p{0213} कलिञ्जगण्डौ लगुडः पिचण्डो वरण्डकूष्माण्डकरण्डरुण्डाः । नाडीव्रणाङ्गुष्ठह[2]ठा गुणश्च घटो नरे भ्रूणशिखण्डचण्डाः ॥ १८ ॥ अलक्तकुन्तौ पृषताः कपर्दो गदागदौ बुद्बुदपोतगन्धाः । अगाधपिष्टातसुदर्शनाश्च शम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥ अर्धःखण्डे पुमान् स्कन्धोत्पातव्रातार्थदेवनाः । मकरन्दकलापारकटप्रामित्रपुद्गलाः ॥ २० ॥ वर्षारात्रादयः पुंस्यपवादोऽपि च वक्ष्यते । पूर्वाह्णाद्यास्तु पुंलिङ्गेऽपराह्णः पुंनपुंसके ॥ २१ ॥ जनाभिजनफेनाश्च वृत्रमन्त्रौ च देवलः । खल्लतल्लौ तु कल्लोलपूपापूपकहिङ्गुलाः ॥ २२ ॥ पुष्यो जनपदो रेफशोफौ सूपनितम्बकौ । स्तम्बो निकाय्यः कण्डोलजगलौ गोलतण्डुलौ ॥ २३ ॥ कालः पोटगलावेलबालाः फालगलौ तथा । वातूलबहुलौ पत्रपालो भृमलकामलौ ॥ २४ ॥ ;p{0214} निचोलतालकुद्दलयावस्वस्रुवरौरवाः । दावध्रुवकहावांशपणवादीनवस्पशाः ॥ २५ ॥ शिवावयवकोटीशवंशोड्डीशवृषाः कुशः । पुरेडाशवरासी च निर्यूहर्षी घृणिध्वनी ॥ २६ ॥ कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः । निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥ वह्न्यग्निदीदिविग्रन्थिकृमयो वमतिस्तथा । गिरिजायू दृतिः शिश्रुरर्दनिः कलिरञ्जलिः ॥ २८ ॥ हाहाहूहूर्नग्नहूर्गर्मुदंह्री पादश्मानौ ------ यक्ष्मतुल्याः । पञ्चाहाद्या ये समाहारगम्याः पुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥ कान्ताष्टान्ता णान्तपान्ता भमान्ता घान्ता रान्ता यान्तवान्ताश्च सान्ताः । स्त्वन्ता भूम्ना पुंसि शब्दाः सुधीभिः प्रोक्तास्तेषां वक्ष्यते चापवादः ॥ ३० ॥ ;c{इति पुंलिङ्गं समाप्तम् ।} ;v{स्त्रीलिङ्गसंग्रहः} ;c{[ अथ स्त्रीलिङ्गसंग्रहः ।]} स्त्रीलिङ्गे योनिमन्नाम वल्लीसेनातडिद्दिशाम् । वम्रीतन्द्रानिशां ग्रीवादयाजिह्वाधियामपि ॥ ३१ ॥ ;p{0215} शस्त्री वीणावटुर्वीचिचीरीहिङ्गुतिथीनसः । ज्योत्स्नापत्री सुरा कङ्गुवीणाकलशिनिम्नगाः ॥ ३२ ॥ आकृत्या शिंशिपाद्याश्च लाला रास्नाङ्गुली वचा । शिम्बाकृष्णोष्णिकास्पृक्काशिलापण्यातसीभुवः ॥ ३३ ॥ रोचनासरघालक्ष्मीधाय्यादूर्वागिरः स्त्रियाम् । हरिद्राकृष्णलामांसिबलाकालूमुखा अपि ॥ ३४ ॥ [3]प्राण्यङ्गवाचकं नामेदन्तं प्रायः स्त्रियां मतम् । पालिगोध्यादिकं तद्धि विशिष्यैव विभाव्यताम् ॥ ३५ ॥ पात्रादिवार्जितादन्तः समाहारद्विगुः स्त्रियाम् । ईदूदेकस्वरं प्रायः कृतस्तच्च तथा मतम् ॥ ३६ ॥ अन्नाबन्तोत्तरादन्यो द्विगुः सर्वो नपुंसकः । लिदन्ता ग्रामतागोत्रारथकट्यादयः स्त्रियाम् ॥ ३७ ॥ मिन्यनिण्यणयस्त्रयुक्ता विंशत्याद्याः स्त्रियां पुनः । नरादन्यत्र विट्शब्दो लतागीतिभिदि ध्रुवा ॥ ३८ ॥ शाखापुरे स्त्रियां गृह्या दुन्दुभिरक्षबिन्दुषु । गञ्जा सुराग्रहे रज्जौ रश्मिः कीला रताहतौ ॥ ३९ ॥ शल्यवाद्यभिदोः क्ष्वेडा वारिः स्त्री गजबन्धभूः । अश्मन्ते त्वन्तिकारण्यानी यवानी हिमान्यपि ॥ ४० ॥ ;p{0216} भूम्नि वर्षा मघा आपः कृत्तिकाद्याः स्त्रियां स्मृताः । विकल्पेन जलौकोऽप्सरःसमा सुमनोमुखाः ॥ ४१ ॥ अहोपुरुषिका स्त्री स्यादहंपूर्विकया सह । गायत्र्याद्यास्तथा सर्जिकादूषीकेष्टकाकलाः ॥ ४२ ॥ संवर्तिका कञ्चुलिका विपादिका शूका पताका झिरुका त्रिकारुला ( रुका ? ) । केका च यूका चविका गवेधुका पर्यस्तिका पूपलिकापि दीर्घिका ॥ ४३ ॥ पञ्चिका पिण्डिका नीका क्षिपका ध्रुवकाष्टका । अल्लुका मिहिकोल्का च मक्षिकाकणिकोर्मिकाः ॥ ४४ ॥ पादुका शिबिका धूका कालिका प्राचिकोष्ट्रिका । मिहिका कोशिका टीका कूर्चिका कूपि वा (का?)[न्धिका?] ॥ ४५ ॥ जलौका केणिका वालुकेषीका च विहङ्गिका । इषिका तु शलाका च परिखा विशिखा शिखा ॥ ४६ ॥ शाखोखा भिस्सटा जङ्घा भङ्गा चञ्चा खजा प्रजा । पिच्छा कच्छा सुरङ्गा च गुञ्जा पिञ्जा कटा (जटा?) गुडा ॥ ४७ ॥ पोटा घोण्टा जडा बेडा काष्ठा विष्ठा वितण्डया । मञ्जिष्ठा तु छटा घण्टा शुण्डा पाठावलीढया ॥ ४८ ॥ रीढा राढा तथा दाढा त्रिवृता तृणता सिता । वर्वणोर्णा घृणा स्थूणा दक्षिणा लिखिता चिता ॥ ४९ ॥ ;p{0217} सीता गीता लता त्रेता लूतानन्तामृता मता । प्रसृता मार्जिता मुक्ता वार्ता कन्था कथा प्रथा ॥ ५० ॥ मर्यादा च गदा गोधेक्षुगन्धापि स्वधा सुधा । सास्नाथ वस्नसा सूना धाना झम्पा शिफा प्रपा ॥ ५१ ॥ रम्पा पम्पा सभा हम्भा भम्भा कम्बा रुमापि च । सीमा पामा तथा चित्या[4]पद्याछाये ज्यया सह ॥ ५२ ॥ चित्या योग्या माया [पेया?] पर्या कक्ष्या संध्या रथ्या । शम्या नश्या दूष्या कुल्या होरा योग्या ज्या मङ्गल्या ॥ ५३ ॥ उपकार्या कण्डरेरासृग्धरा वागुरा शिरा । जलार्द्रा शर्करा गुन्द्रा मुद्रा क्षुद्रा परंपरा ॥ ५४ ॥ प्रतिसीरा दशा भद्रा भस्त्रा छत्रा कशा कुशा । यात्रा मात्रा बला माला दंष्ट्रा लीला च शङ्कुला ॥ ५५ ॥ उपला मेखला शाला खट्वा [कला?] दिशा शिवा । रसाला सिध्मला शेषा स्नसा मूषा सुवर्चला ॥ ५६ ॥ गोला दोला वेला मेला हेला फेला नासा बाहा । स्वाहा कक्षा रिक्षामिक्षा राक्षा भिस्सा मूर्वा त्रोटिः ॥ ५७ ॥ विस्रसेशावली भङ्ग्यायतिः शाला ( शिला?) च सर्वला । साचिः सूची रुचिः खानिः खनिः खारी क्लमिः कृषिः ॥ ५८ ॥ ;p{0218} भल्लिः पल्लिर्वसतिविपणी पेशिनाभ्यालिनाली स्थालीशुक्ती भ्रकुटिशकटीचच्चरीपालयश्च । वासिः खाटिर्व्रततिवलभी नीविराज्याजयोऽपि भाटिः शाटिर्लिविवमिशढीश्रेणिरीतीतयश्च ॥ ५९ ॥ खलिः कीलिशुण्ठ्यौ छविः काकलिश्च किकिः कुक्कुटिर्वापिधूल्यौ तुटिस्तु । द्युतिर्वेदिनान्द्यौ तटिः कोटिकम्बी किखिस्ताडिजाती वटिः पिण्डिवीथ्यौ ॥ ६० ॥ तूलिर्विष्टिर्गृष्टिवृष्टी शरारि- र्भेरिः पुञ्जिर्मरिर्वल्लरिश्च । आतिः शारिः फालिगाली मुषुण्ढि- र्माढिश्चारिः काकनिः कानिहानी ॥ ६१ ॥ प्रधिः कम्पिराटिर्दरिः सानिशाणी तरिश्चुल्लिचुण्टी जनिर्मारिमेनी । तुरी राटिगन्त्र्यौ सनिः पारिकीर्ती शिरोधिर्मरिर्झल्लरिः स्वेदनील्यौ ॥ ६२ ॥ अंहतिः परिपाटिश्चाटविरश्र्यौषधी कविः । कबरी ह्रदिनी वालि पातली केवली घटी ॥ ६३ ॥ कृपाणी विद्रधिश्चाभ्रिः कर्तनी कदली खटी । अश्मरी गृध्रसी काण्डी पलाली घर्घरी वृसी ॥ ६४ ॥ ;p{0219} प्रतोली तिलपर्णी चाढक्यपट्यौ कुमार्यपि । सिञ्जिनी दामनीन्द्राणी द्रुणी गोणी जुहूस्तनुः ॥ ६५ ॥ खल्ली मदी च खण्डाल्यजाजी नध्र्येषणी पुनः । मत्स्यण्डी शष्कुली गोष्ठी देहलीस्नायुचञ्चवः ॥ ६६ ॥ अ[5]क्षवत्येकपद्यौ च करीरी रसवत्यथ । द्योदिवौ द्वार्धुरौ मौर्वी कस्तूरी शृङ्ग्यपि दृषद् ॥ ६७ ॥ गन्धोली हसनी स्रुक् चातिभ्यासन्दी दृशा सह । क्षीरेयी नन्तपामादि दरच्छर्दी शरत्त्वचौ ॥ ६८ ॥ दर्द्रुपर्शू ऋचा? नौश्च वार्दृशौ गीः पूरा सह । सपर्यायाः सभेदाश्चेत्यादयः स्युः स्त्रियां घनाः? ॥ ६९ ॥ ;c{इति स्त्रीलिङ्गं समाप्तम् ।} ;v{नपुंसकलिङ्गसंग्रहः} ;c{[ अथ नपुंसकलिङ्गसंग्रहः ।]} भूम्ना नान्तं तथा लान्तं त्वान्तं तान्तं नपुंसके । स्त्वन्तं नामाथ संयुक्तररुयान्तं तथैव हि ॥ ७० ॥ मनन्तं कर्तृभिन्नार्थे द्विस्वरं सन्तमप्यदः । वेधआदीन् विहायाथ शब्दान्कतिपयान्ब्रुवे ॥ ७१ ॥ रत्नाङ्गणनभोगूथशुक्तान्नतमसामपि । हृषीकशुभपिच्छादिधनदारुमनोहृदाम् ॥ ७२ ॥ ;p{0220} दलतालुबिलाम्भोरुह् मरिचव्यञ्जनाम्भसाम् । घुसृणागुरुसौवीरक्लोमसिध्मयकृद्युधाम् ॥ ७३ ॥ शिलाभवस्थानकभेषजास्थि- रुचत्वचद्वारहलासृजां च । फलप्रसूनद्रवतां सुखादि- धनुर्दृशां हिङ्गुकुसुम्भकादेः ॥ ७४ ॥ वल्कलान्तिकदुःखानां वाससो लवणस्य च । रत्नादीनां सभेदानां नामानि स्युर्नपुंसके ॥ ७५ ॥ आतपत्रे पुण्डरीकं कं शीर्षेऽथ द्रवे मधु । सद्माङ्गयोः पुरं क्लीबे घटार्थे खपुरं पुनः ॥ ७६ ॥ दैवे दिष्टमकार्यादौ कट्वयूपे युगं स्मुतम् । असमासे मतं द्वन्द्वं नन्तं धन्व स्थलेऽपि च ॥ ७७ ॥ अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः । सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥ इभबिन्दौ पद्ममुक्तं वेध्यार्थे लक्षमेव हि । पुण्याहं सुदिनाहं च पथः संख्याव्ययोत्तरः ॥ ७९ ॥ भूमोऽसंख्यात एकार्थे द्वन्द्वैकत्वेऽपि षण्ढता । अव्ययीभाव आख्यातः समासः क्लीबलिङ्गगः ॥ ८० ॥ ;p{0221} क्रियाविशेषणं सर्वं क्लीबेऽव्ययविशेषणम् । क्तानाः कृत्याः खल्ञिनौ च भावार्थे प्रत्यया इमे ॥ ८१ ॥ गायत्र्यादीनि नामानि वृत्तानामण्युतान्यथ । अव्यक्तवाचकाः क्लीबे यथा किंयत्तदादयः ॥ ८२ ॥ तत्पुरुषे बहूनां चेच्छाया शालां विना सभा । वर्जयित्वैव राजादिसभामिनसभं तथा ॥ ८३ ॥ वास्तुकं मौक्तिकं जाल[6]कं जापकं कारकं गौरिकं तोटकं खेटकम् । वेणुकं रूपकं सौप्तिकं माक्षिकं क्लीतकं नाटकं नाणकं चाह्निकम् ॥ ८४ ॥ मार्द्वीकधान्याकशलाकतोका- लीकोल्मुकान्यल्कबुकालिकानि । एडूकशल्के कुहकं त्रिकं च हल्लीसकं पुष्पककौतुके च ॥ ८५ ॥ रूचकं किबुकशालूके चिबुकं कवकं तथा । शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥ अनूकं कुतुकं तिन्तिडीकं कुलकचित्रके । छत्राकं खं स्फिगं लिङ्गं प्रगमङ्गं नपुंसके ॥ ८७ ॥ ;p{0222} बीजं पिञ्जं चोचफाण्टे ललाटं व्युष्टं रिष्टं चीनपिष्टं कृपीटम् । इष्टं गोष्ठं पृष्ठपिङ्गाणके च त्राणं तीक्ष्णं कार्मणं कारणं च ॥ ८८ ॥ करोटं मोरटं भाण्डं तुण्डाण्डे शरणेरणे । लवणं द्रविणशृङ्गाटपिटपारायणानि च ॥ ८९ ॥ पुराणं हिरणं क्षूणं घोरणोष्णोर्णमित्यपि । श्रीपर्णघ्राणपर्याणप्रादेशान्तान्यृणं शणम् ॥ ९० ॥ वृन्तं शीताश्मन्तभूतानि वार्त्तं तूस्तं तुन्दं गोदमुक्थं कुशीदम् । वृन्दाच्छोदे शिल्पतल्पास्पदानि वाहित्थं स्यात्कूर्परूपे पदं च ॥ ९१ ॥ निशान्तं कुसिदं निम्नमन्तरीपं त्रिविष्टपम् । परीपपुष्पशुल्बानि कुटुम्बनिकुरम्बके ॥ ९२ ॥ प्रसभं तलभं शुष्मं धामाध्यात्मेर्मपुष्करम् । किलिभं तोक्मशूक्ष्मे च तिग्मयुग्माजिराणि च ॥ ९३ ॥ शयनीयं त्रिसन्ध्यं च सायखेयेन्द्रियाण्यपि । भयं किशलयं सत्रकलत्रद्वापराणि च ॥ ९४ ॥ द्रुवयं द्वापरक्षेत्रे शृङ्गबेराभ्रनागरम् । अगारमुत्तरं तीरं कलेवरकुकुन्दरे ॥ ९५ ॥ ;p{0223} प्रान्तरं शृङ्गबेरं च मण्डूराररचामरम् । कटीरक्रूरदूराणि स्फारवैरे च चत्वरम् ॥ ९६ ॥ उशीरमक्षरं चैव सिन्दूरशिबिरोदरम् । यवसं तरसं मत्सं विसमर्पिशकिल्बिषे ॥ ९७ ॥ किण्वं दिवं सान्त्वमुलूखलं च पातालसत्त्वे वृशविश्वशीर्षम् । मन्दाक्षपीयूषमहानसानि कासीससंयज्जगदर्पिषाणि ॥ ९८ ॥ आर्तवं पौतवं साध्वसं साहसकशेरुणी । शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥ शलाल्वालुभसद्रोमललामानि पृषत्तथा । पुरीतत्सक्थिनी यातु स्वादुतुम्बुरुणी अ[7]पि ॥ १०० ॥ ऋचीषं च मिषं क्लीबमृजीषं त्वाशुना सह । इत्थमन्यानि नामानि ज्ञातव्यानि बुधैः स्वयम् ॥ १०१ ॥ ;c{इति नपुंसकलिङ्गं समाप्तम् ।} ;v{पुंस्त्रीलिङ्गसंग्रहः} ;c{[ अथ पुंस्त्रीलिङ्गसंग्रहः ।]} शङ्कुश्चतुर्दशाङ्कार्थे पुंस्त्रीलिङ्ग उदीरितः । दुर्गतिर्निरये कक्षो दोर्मूलेऽथ कुटो गृहे ॥ १०२ ॥ ;p{0224} नेमौ प्रधिस्तथा नाभिः प्राण्यङ्गेऽथ क्वचिद्बलिः । श्रोण्योषध्योः कटो मोहे भ्रमः पुंसि स्त्रियामपि ॥ १०३ ॥ आकरार्थे तथा गञ्जो भूरुहे बाणपिप्पलौ । वृन्दे गोले च पिण्डोऽपि वराटो रज्जुशस्त्रयोः ॥ १०४ ॥ नक्षत्रार्थेऽश्लेषहस्तश्रवणाः स्युस्तथैव च । कणो लेशे स्फुलिङ्गेऽपि कुम्भः स्यात्कलशे तथा ॥ १०५ ॥ कनीनिकाभयोस्तारो मेरुजम्ब्वां सुदर्शना । तरणिस्तु समुद्रार्कयष्ट्यंशुषु तथैव च ॥ १०६ ॥ लाजा वस्त्रदशार्थे च भूम्नि पुंसि स्त्रियामपि । राजदेये भागधेय ईहाद्याः प्रत्ययान्तरात् ॥ १०७ ॥ करेणुर्हस्तिहस्तिन्योर्भृङ्गाख्यालिमुखास्तथा । आपत्ये तद्धितोऽप्येवमुत्सर्गेण निरीक्ष्यताम् ॥ १०८ ॥ पिपीलिकः शल्यकशुण्डिका च तुरुष्कशुङ्गौ घुटिकः सृपाटः । चोटः किलाटो वरटः स्फटश्च कीटः सटः शाटफटौ घटोऽपि ॥ १०९ ॥ हुडुक्कः चुलुकश्चर्मप्रसेवकफणावपि । मल्लकः सल्लको लञ्चभुजतिन्दुककूपकाः ॥ ११० ॥ ;p{0225} किटश्चपेटो गुडशुण्डशाणा गर्ताजमोदौ रथवारिपर्णौ । कुठारहारौ शफरो मसूरो वर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥ कृसरो बहुकरो जित्यरालकीलवितस्तयः । पटोलः कम्बलः शारो रभसो वेतसोऽपि च ॥ ११२ ॥ वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः । रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥ लव्यवीची शलिर्यष्टिमुष्टी शाल्मलिपाटली । जाटलिर्मेथिमेधी च श्रोण्यरण्यौ सृणिर्मणिः ॥ ११४ ॥ केलिर्मौलिर्मरीचिश्च पृश्निस्तिथ्यशनी हलिः । गव्यूतिः स्वातिबस्तीषुधयोऽहिः पार्ष्णिरप्यथ ॥ ११५ ॥ आणिर्योनिर्मुनिः सिन्धुर्हनुर्मृत्युर्मनुः पुनः । ऋष्टिः कर्कन्धुराखुस्त्ववटुः कन्दुरूरुस्तथा ॥ ११६ ॥ एर्वारुः काकुकिष्कू च गवेधुर्बाहुना सह । राभागौरेवमाद्याः स्युः शब्दाः पुंसि स्त्रिया(8)मपि ॥ ११७ ॥ ;c{इति पुंस्त्रीलिङ्गसंग्रहः समाप्तः ।} ;v{पुंनपुंसकलिङ्गसंग्रहः} ;c{[ अथ पुंनपुंसकलिङ्गसंग्रहः ।]} पुंनपुंसकलिङ्गानां क्रियते संग्रहो मया । दृष्टानां विश्वहेमादिनामकोषेषु सांप्रतम् ॥ ११८ ॥ ;p{0226} नरादन्यत्र वाच्येऽर्थे कंसः स्यात्पुंनपुंसकः । अब्जः शङ्खे तथा पद्मः संख्यायां कमलेऽपि च ॥ ११९ ॥ ह्रीबेरकेशयोर्बालस्तरोरन्यत्र विष्टरः । द्वापरः संशये बर्हिः कुशः छेदे तु पिप्पलः ॥ १२० ॥ तुषानले कुकूलोऽथ वर्षेऽब्दः पुंनपुंसकः । दरस्त्रासे परीवादे जन्यो राहौ तमस्तथा ॥ १२१ ॥ तपो माघे तथा घर्म उष्णे वत्सो हृदि स्मृतः । तुल्यतागोलभक्ष्येषु वटः स्यात्पुंनपुंसकः ॥ १२२ ॥ संपरायो रणे तल्पः पर्यङ्केऽपि तथैव च । प्रेते भूत उडावृक्षो वर्णः श्वेतस्वरादिके ॥ १२३ ॥ सैन्धवो लवणे शुक्रो वह्नौ मासे च संमतः । स्वर्णे चन्द्रश्च कर्पूरे पाताले वाडवोऽपि च ॥ १२४ ॥ छदे दलः स्वभावेऽथ धर्मो वध्रस्तु सीसके । रुचको मातुलिङ्गे स्याद्भूषाभेदेऽपि विश्रुतः ॥ १२५ ॥ दायस्वौ स्वापतेयार्थे व्रते कृच्छ्रोऽपि दृश्यते । पिटकायां पिटो मांसे जङ्गलः पुंनपुंसकः ॥ १२६ ॥ ;p{0227} जीवे सत्त्वो मधुर्मद्ये फलेऽप्यामलकस्तथा । एकाद्रात्रः समाहारे तनौ पिण्डोऽपि कथ्यते ॥ १२७ ॥ मध्यशैवलयोर्नाम सूतकः कूलकोऽपि च । कोरकः करकः पङ्कः पातकस्तिलकान्दुकौ ॥ १२८ ॥ व्यलीककिञ्जल्कवलीकतङ्का वितङ्कवल्मीकतटाकनिष्काः । तडाकवर्चस्कविशेषकाश्च विटङ्कवल्कौ पुलकालकौ च ॥ १२९ ॥ चषकफलककल्का मूलको मञ्चकोऽपि मरकमणिकटङ्का शाटकः पुस्तकश्च । चरकसरकशूकानीकशुल्काश्च मुष्कः कटकफरकनाका मस्तको मुस्तकश्च ॥ १३० ॥ मोदको मूषिकश्चैव रोचकातङ्ककञ्चुकाः । चण्डातकभ्रमरकौ वैनीतककरण्डकौ ॥ १३१ ॥ मेचकः कण्टकश्चैव बालको वर्णकः पुनः । पिनाकमालकौ शाकस्तम्बकौ यावकोऽपि च ॥ १३२ ॥ पिण्याकझर्झरकहंसकतण्डकानि मस्तिष्कशङ्खमुखपुङ्खनखाधिकाङ्गाः । उद्योगटङ्गयुग [संयुग?] पद्मरागाः शृङ्गं भगः क्रकचकूर्चनिदाघकुञ्जाः ॥ १३३ ॥ ;p{0228} अर्धर्चः कवचः कच्छपुच्छोञ्छास्तु व्रजोटजौ । [9] कुञ्जो मलयजो भूर्जध्वजाम्बुजसमास्तथा ॥ १३४ ॥ नटः किरीटः कुटकर्पटौ च कूटारकूटौ विटकोट्टकुष्ठाः । खेटाट्टपिष्टानि कटश्च लोष्टः प्रोक्तौ तथा त्र्यङ्गटकालकूटौ ॥ १३५ ॥ जकुटः कुर्कुटश्चैव कवटः कमठोऽप्यथ । तरण्डमुण्डकोदण्डप्रकाण्डानि नडो दृढः ॥ १३६ ॥ खण्डवारुण्डकाण्डानि मण्डषण्डाण्डदण्डकाः । आक्रीडवारबाणौ च बाणकार्षांपणव्रणाः ॥ १३७ ॥ पक्कणश्रवणद्रोणकङ्कणाः स्वर्णभूषणे । दूषणश्चरणो भारणोऽपराह्णस्तृणतोरणौ ॥ १३८ ॥ वृषणं प्रवणं चूर्णं रणः किणघृते अपि । पारतं प्रयुतं पूर्तनिकेतान्तयुतान्यपि ॥ १३९ ॥ निवातप्रयुते वृत्तं लोहितं क्ष्वेडितं शतम् । शुद्धान्तपलितौ प्रस्थं द्वियूथं प्रोथमेव च ॥ १४० ॥ ऐरावतं दैवतमक्षतं च हस्तोपवीतव्रतपुस्तबुस्तम् । द्यूतायुतध्वान्तवसन्तयूथ- वरूथगूथानि मुहूर्ततीर्थे ॥ १४१ ॥ ;p{0229} अलिन्दः कुकुदः कन्दाष्टापदौ गुददोहदौ । छदः ककुदकुन्दौ च सौधोत्सेधायुधा अपि ॥ १४२ ॥ श्राद्धौषधकबन्धानि गन्धमादनचन्दनौ । प्रस्फोटनपिधाने च लग्नराजादनाशनाः ॥ १४३ ॥ वितानं यौवनं शिश्नं केतनं नलिनं दिनम् । आपीनपुलिने मौनमुदपानौदने धनम् ॥ १४४ ॥ समानो वर्धमानश्च विमाननिधने अपि । हायनस्थानयानानि वस्नोद्यानासनानि च ॥ १४५ ॥ वातायनाभिधानानुमानानि खलिनं तथा । खलीनं भवनं चैव रसोनभुवने समे ॥ १४६ ॥ निपानं शयनं द्वीपिगृञ्जनौ कुणपो निपः । विष्टपद्वीपशष्पानि मण्डपो विटपोऽपि च ॥ १४७ ॥ आवापचापसूर्पाणि दीपस्तूपोडुपाः शफः । कुतपोऽथ डिम्बबिम्बकलभाः ककुभो निभः ॥ १४८ ॥ जम्भः कुसुम्भसंक्रामसंक्रमार्महिमान्यथ । ललामहेमगुल्माश्चोद्यामकामोद्यमाश्रमाः ॥ १४९ ॥ कुट्टिमः कुसुमः क्षेमक्षौमौ संगम इत्यपि । कषायाः प्रमयो वाजपेयतूर्यौ च गोमयम् ॥ १५० ॥ मैरेयराजसूयौ च शल्यकुल्याव्ययान्यपि । हिरण्यारण्यसंख्यानि मलयो वलयोऽपि च ॥ १५१ ॥ ;p{0230} समयकविये पारि[10]हार्यः कम्बलवाह्यकः । संसारसीरशृङ्गारनेत्रवक्त्राणि गह्वरम् ॥ १५२ ॥ हिञ्जीरस्तुबरः सूत्रकूरालिञ्जरकूबराः । वस्त्रोपवस्त्रनीहाराः क्षत्रपद्रान्तराण्यपि ॥ १५३ ॥ पवित्रातिखरावारपारबेराणि कोटरम् । पत्रमेढ्रसहस्राणि क्षीरोशीरयुगंधराः ॥ १५४ ॥ अन्धकारान्तरे कर्णपूरा? वरदुरोदराः । पञ्जरः कुञ्जरश्चक्रचुक्रे केसरशेखरे ॥ १५५ ॥ तिमिराङ्गारराष्ट्राणि जीरमञ्जीरवासराः । विहारवारकान्तारकासाराणि च नूपुरम् ॥ १५६ ॥ कर्पूरजठरौ तक्रशरीरे शरतोमरे । आलवालं पलं भालं प्रवालकवले मलम् ॥ १५७ ॥ पलालपल्वलौ शौलबलशम्बलकुड्भलाः । शूलमूलाञ्चलाः शीलकुण्डलाङ्गुलमङ्गलाः ॥ १५८ ॥ निगलनीलनलाः कमलं हलं मुशलसालतमालहलाहलम् । गरलधूमलखण्डलवल्कलं फलतले मुकुलः शकलः खलः ॥ १५९ ॥ काकोलकोलाहलतैलतूलं जम्बाललाङ्गूलकपालमुल्वः । कङ्कालगाण्डीवशरावभावा निष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥ ;p{0231} त्रिदिवताण्डवपारशवं पुनः कुलिशकर्कशकोशविषा अपि । कणिशमङ्कुशपाशकरीषका दिवसरोहिषमेषविशेषकाः ॥ १६१ ॥ माषाम्बरीषयूषाः प्रत्यूषोष्णीषकोषनिर्यासाः । आमिषवर्षकर्षमांसा मासः पनसावतंसौ च ॥ १६२ ॥ वीतंसमासं चमसांसकांसाः कर्पासमाकाशमथोपवासः । बुसेत्थुसेचिक्कसगेहचाटु तनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥ कुस्तुम्बरुः सानुजानू जीवातुः कशिपुः चटुः । स्थाणुः कमण्डलुर्लक्षपटहावणुसीधुनी ॥ १६४ ॥ सक्तवोऽप्यररिः कम्बुर्दोर्दार्वगुरुहिङ्गवः । पलाण्डुस्तितउर्वास्तुवेमप्रेमाणि लोम च ॥ १६५ ॥ ब्रह्म कर्म धनुर्नामाष्ठीवत्पक्ष्मविहायसी । शिग्रुर्भूममहिम्नी चेत्यादयः पुंनपुंसकाः ॥ १६६ ॥ ;c{इति पुंनपुंसकलिङ्गसंग्रहः समाप्तः ।} ;v{स्त्रीनपुंसकलिङ्गसंग्रहः} ;c{[अथ स्त्रीनपुंसकलिङ्गसंग्रहः ।]} स्त्रीनपुंसकयोः शुक्तौ नखं पुष्पे च पाटलम् । ओषधे मधुकं विश्वं यवाग्वां तरलापि च ॥ १६७ ॥ लक्षं माने मधौ कल्पं [11] चये तु पटलं तथा । वसन्ततिलकं काव्ये तिन्दुकं फलवाचकम् ॥ १६८ ॥ कपालं भिक्षुपात्रे स्यादङ्के क्रोडस्तथैव हि । अट्समासान्तनौशब्दः पूर्वार्धपदपूर्वकः ॥ १६९ ॥ अनडन्तं ट्यणन्तं च कर्तृवर्जितकारके । अमनोज्ञाद्यचौराद्यकनन्तः स्त्रीनपुंसकः ॥ १७० ॥ वक्रोष्ठिकं वंशिककन्यकुब्जे कथानकं नक्तमहोदये च । मृगव्यचव्ये रसनं तमिस्रं पीठावहित्थे नगरं वणिज्यम् ॥ १७१ ॥ शुम्बं तुम्बं कांस्यजालस्थलानि स्थाली गोला छर्द्यलाबूडवोऽथ । शास्त्रं गात्रं काहलं मन्दिरं च वीर्यं नासीरापरे पित्तलापि ॥ १७२ ॥ कादम्बरमसूरौ तु त्वक्षीरं जम्बुना सह । रोदः सदः सरो दामोषस्तयट्प्रमुखा इति ॥ १७३ ॥ ;c{इति स्त्रीनपुंसकलिङ्गसंग्रहः समाप्तः ।} ;v{स्वतस्त्रिलिङ्गसंग्रहः} ;c{[अथ स्वतस्त्रिलिङ्गसंग्रहः ।]} स्वतस्त्रिलिङ्गः करकोऽब्दवाचकः प्राणेषु जीवः शललः शले तु । केदारवाची वलजोऽनुतर्षे स्वतस्त्रिलिङ्गः सरकोऽपि दृष्टः ॥ १७४ ॥ कोशः खड्गपिधाने स्याच्छिम्बायां च निरीक्ष्यते । कटाहकलशौ पूलकन्दलार्गलशृङ्खलाः ॥ १७५ ॥ तटपुटवटवाटाः कुण्डपेटौ कपाटः कटशकटविडङ्गास्तारकस्तूणनीडौ । पटपिटकविषाणा आढको मण्डलस्तु कुवलपिठरछत्राः कङ्कतः कन्दलोऽपि ॥ १७६ ॥ स्फुलिङ्गो मुस्तकः कुन्थ इङ्गुदो दाडिमः पुरः । इत्यादयस्त्रिलिङ्गाः स्युः स्वत एव विशेषणात् ॥ १७७ ॥ विश्वप्रकाशाभिधनामकोषात् सारं गृहीत्वा विहितः प्रकाशः । जातो नु दीपान्तरतोऽत्र दीपः प्रकाशकः किं न भवेज्जनानाम् ॥ १७८ ॥ ;c{[इति स्वतस्स्त्रिलिङ्गसंग्रहः समाप्तः ।]} ;c{इति श्रीमत्कायत्स्थकुलचिरवारीयमाथुरवंशभूषणश्रीगढमलसुतश्रीपरमा-} ;c{नन्दनन्दनन्दनविरचितायां परमानन्दीयनाममालायां लिङ्गानुशासनं समाप्तम् ।} ;c{[इति लिङ्गानुशासनं समाप्तम् ।]} ;c{इति परमानन्दीयनाममाला समाप्ता ।}