;METADATA ;title{रभसकोश} ;author{रभसपाल} ;bookFullName{The Rabhasakosa - reconstructed on the basis of quotations found in the commentarial literature} ;bookSeriesDetails{} ;editor{Mahadevan R., Kulkarni E. D.} ;editorQualifications{Ph. D.} ;publisher{unpublished Ph. D. thesis} ;pressDetails{} ;publicationYear{1963 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{RKRP} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. https://shodhganga.inflibnet.ac.in/handle/10603/145373 for providing us this valuable Ph.D. thesis. 3. Dr. Dhaval Patel for spending time to type in and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{29 January 2020} ;version0.0.2{01 February 2020} ;version0.0.3{01 February 2020} ;version0.0.4{01 February 2020} ;version0.1.0{01 February 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0032} ;c{रभसकोषः} ;k{कान्ताः} ;v{कपञ्चकम्} त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जिते । त्रिषूपकर्तर्युपकारिका स्त्री नृपमन्दिरे ॥ १ ॥ अर्कपर्णेऽपि मन्दारे देवद्रौ पारिभद्रकः । मृगेषु वन्यपशुषु धूर्तको मृगधूर्तकः ॥ २ ॥ भवेदशोकरोहिण्यां शाकाम्ले रक्तवर्णिका । उत्कलिका तु हेलायां तरंगोत्कण्ठयोरपि ॥ ३ ॥ ;v{कचतुर्थम्} उरुवुकोरुवकव्याघ्रदलाश्च ---- । ;p{0033} गाङ्गेरुकि नागबली झषा गोरक्षतण्डुला ॥ ४ ॥ नियामकः पोतवाहे कर्णधारे नियन्तरि । पिञ्चोटकं नेत्रमलं दूषी च दूषिका मता ॥ ५ ॥ -------- अथ त्वचि वराङ्गकम् । नायं पत्रं त्वचं चोचं -------- ॥ ६ ॥ ------ वाट्यां वाट्यालको मतः । विशेषको वृक्षभेदे चित्रके रभसेऽस्त्रियाम् ॥ ७ ॥ षड्ग्रन्थिका तु कर्बूरः शटी गन्धशती सटिः । ;p{0034} ;v{कत्रिकम्} अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ ८ ॥ त्रिष्वासन्नेऽन्तिका चुल्लिर्नाट्योक्तावग्रजा स्वसा । अलीकं तु मृषार्थे स्याल्ललाटे पुंनपुंसकम् ॥ ९ ॥ अशोका कटुरोहिण्यामशोको वञ्जुलद्रुमे । (आह्निक) ---- ---- भेद्यवत् पुनः ॥ १० ॥ अहर्निर्वृत्तकादौ स्यात् क्ली तु नित्यक्रियाशने । करञ्जभेदे कटका मर्कट्यङ्गारवल्लिका ॥ ११ ॥ कनकं पुरटे चुल्ले गैरिके नागकेसरे । ;p{0035} (करक) द्वयोस्तु पक्षिभेदे स्यात् ---- ॥ १२ ॥ कविका तु खलीनोऽस्त्री कविकं कर्षणीत्यपि । धूसरीयोगिनीभेदोमानवाब्देषु कालिका ॥ १३ ॥ क्रमदेयवस्तुमूल्ये कार्ष्ण्ये काक्यां घनेषु च । श्लोकैरनेकैस्संबन्धे पटोले च नपुंसकम् ॥ १४ ॥ कुलश्रेष्ठिनि काकेन्दौ वल्मीके कुलकः पुमान् । खुल्लकस्त्रिषु नीचेऽल्पे गैरिकं धातुरागयोः ॥ १५ ॥ ;p{0036} दैवज्ञे पुंसि यूथ्यां च वेश्यायां गणिका स्त्रियाम् । कलोक्तौ मलिने धूलौ स्नेहपात्रे च गुण्डकः ॥ १६ ॥ नग्ने वन्दिनि गोरङ्कुः -------- । जारजे विधवापुत्रे गोलको मणिके गुले ॥ १७ ॥ रामठे जतुकं चर्मपत्राजतुकृतोः स्त्रियाम् । द्रुभेदे हयभेदे च तिलकस्तिलकालके ॥ १८ ॥ तप्तसौवर्चलक्लोम्नोः क्लीबमस्त्री तु चित्रके । अलंकारे यवान्यां च दीपको लोचमस्तके ॥ १९ ॥ ;p{0037} धान्याकं धान्यकं धान्यं कुस्तुम्बुरु धनीयकम् । स्त्री नग्निका कोट्टवी स्यात् क्षपणी च प्रवह्लिका ॥ २० ॥ नीचीकं तु शीरोदेशे -------- । पत्रिकं पत्रिका पत्री पत्रा स्यात्तीक्ष्णपत्रिका ॥ २१ ॥ ;c{(पुलक)} कृमिप्रदे गल्वर्कमणिदोषप्रभेदयोः । रोमाञ्चे हरिताले च रत्नभेदेऽपि --- ॥ २२ ॥ प्रियङ्गौ प्रियको नीपे पितशले मृगान्तरे । ;p{0038} ------- समौ मड्डुकमर्दलौ ॥ २३ ॥ स्यान्मातृका कृत्रिमा या धातृका कारणे स्वरे । युक्तं युगले युक्ते यौतके संशयेऽपि च ॥ २४ ॥ पुंसि सौर्वचले क्लीबं रुचको मातुलुङ्गके । विलेपने चन्दने च वर्णकं पुंनपुंसकम् ॥ २५ ॥ पक्षिभेदे नरि क्लीबं खुरेऽप्यश्वस्य वर्तकम् । ;p{0039} वाह्लीकं वाह्लिकं धीरहिङ्गुनोर्नाऽश्वदेशयोः ॥ २६ ॥ कपोतपालिकायां स्याद्विटङ्कः सदनेऽस्त्रियाम् । शम्बूकः शम्बुको ज्ञेयः शम्बूकापि च पण्डितैः ॥ २७ ॥ श्वाविद्द्रुभेदौ शल्लक्यौ शङ्का त्रासवितर्कयोः । नालिकेरस्य सस्याभमणौ खड्गे च सस्यकः ॥ २८ ॥ सेवकाः किंकरा भृत्याः -------- । ;p{0040} ;v{कद्विकम्} ओकस्त्वाश्रयमात्रे च मन्दिरे च नपुंसकम् ॥ २९ ॥ त्रिषु पापाशये कल्कोऽस्त्री विट्किट्टेऽघदम्भयोः । किष्कुर्हस्ते वितस्तौ च प्रकोष्ठे पुंनपुंसकम् ॥ ३० ॥ चेकस्त्रिषु विदग्धेषु गृहासक्तमृगाण्डजे । त्रिका कूपस्य नेमौ स्त्री पृष्ठवंशाधरे त्रिकम् ॥ ३१ ॥ ;p{0041} शोणितान्त्रे स्त्रियां बुक्का बुक्कं सुरसमद्वयोः । मोको वराहे निर्बन्धे बन्धे वारिविहारयोः ॥ ३२ ॥ राका नवरजोनार्यां पूर्णचन्द्रतिथावपि । वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे ॥ ३३ ॥ घट्टादिदेये शुल्कोऽस्त्री यौतकाख्यधनेऽपि च । ;p{0042} श्लक्ष्णे सूक्ष्मे च तीक्ष्णाग्रे शुकोऽनुग्रहशुङ्गयोः ॥ ३४ ॥ ;v{कैकम्} प्रजापत्यात्मवातार्के कः शिरोम्बुसुखेषु कम् । ;k{खान्ताः} ;v{खद्विकम्} रेखाऽऽलिरावलिर्वीथी श्रेणिपङ्क्तिपरम्पराः ॥ ३५ ॥ गर्भभोगो वासगृहं मण्डपोऽस्त्री जनाश्रयः । ;k{गान्ताः} ;v{गत्रिकम्} पूतिकरञ्जधूम्याटदेशभेदे पुमान् भवेत् ॥ ३६ ॥ कुटजस्य फले क्लीबं कलिङ्गं स्त्री तु योषिति । गोयुगं तु गजाश्वादियुग्मे ------ ॥ ३७ ॥ ;p{0043} गुडत्वचि वराङ्गं स्याद्योनिमस्तकहस्तिषु । चातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ ३८ ॥ -------- हंसगो द्रुहिणः सनत् । स्याद्ध्रस्वाङ्गो मधुरको मधुरश्चिरजीवकः ॥ ३९ ॥ ;v{गद्विकम्} भगं स्मरात् गेहकूपौ शेफो मेहनलिङ्गलः । शेफोमेढ्रशिश्नाः कामलतापि च ---- ॥ ४० ॥ भगं श्रीयोनिवीर्येषु ज्ञाने वैराग्यधर्मयोः । ऐश्वर्ययत्नमोक्षेच्छामाहात्म्यरविकीर्तिषु ॥ ४१ ॥ ;p{0044} व्याजच्छलनिभे भङ्गिर्वैदर्भी तनुमीलिका । -------- मद्गुः पानीयकारिका ॥ ४२ ॥ लिङ्गश्शिवे च लिङ्गं तु प्रमाणे चिह्नशेफयोः । ;p{0045} प्रभुत्वे पर्वतस्याङ्गे पशोरवयवेऽपि च ॥ ४३ ॥ क्रीडापानीययन्त्रे च शृङ्गं ना कूर्चशीर्षके । मद्गुरस्य प्रियायां स्त्री विषायां ऋषभौषधे ॥ ४४ ॥ ;v{गैकम्} अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौः स्मृता । ;k{घान्ताः} ;v{घद्विकम्} मोघा स्त्री पाटलावृक्षे मोघस्त्रिषु निरर्थके ॥ ४५ ॥ कृष्णागुरुणि शीघ्रे च लघु क्लीबेऽगुरौ त्रिषु । निःसारे च मनोज्ञे च पृक्कायां च लघुः स्त्रियाम् ॥ ४६ ॥ ;p{0046} ;k{चान्ताः} ;v{चत्रिकम्} कणीचिः पल्लवी प्रोक्ता निनादेऽपि च दृश्यते । मरीचं कोलकं धर्मपत्तनं मरिचं समम् ॥ ४७ ॥ विरिञ्चो विश्वसृक् स्रष्टा विरिञ्चिः कमलासनः । ;v{चद्विकम्} शुचिग्रीष्माग्निशृङ्गारे शुचिः ------ ॥ ४८ ॥ -------- सूची सूचा च कथ्यते । स्त्रियां स्फिचौ कटिप्रोथौ कटीप्रोटौ च पूलकौ ॥ ४९ ॥ ;p{0047} ;k{जान्ताः} ;v{जत्रिकम्} अङ्गजं रुधिरे क्लीबं पुमान् पुत्रमनोजयोः । कुटजः शक्रपर्याये -------- ॥ ५० ॥ खड्गधेनुदले फेने परञ्जस्तैलयन्त्रके । ;v{जद्विकम्} द्वयोश्छागे हरब्रह्मविश्वस्मरहरिष्वजः ॥ ५१ ॥ -------- लाजा स्त्री खादिकं स्मृतम् । ;p{0048} ;k{टान्ताः} ;v{टचतुष्कम्} आरकूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम् ॥ ५२ ॥ कर्करेटुः करेटुः स्यात् करटुः कर्कराटुकः । पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्म सिध्मली ॥ ५३ ॥ लतायष्टिर्हेमपुष्पी भण्डीरीति च भण्डिरी । ;p{0049} क्लीबं शुभेऽशुभे तक्रे सूत्यगारान्तचिह्नयोः ॥ ५४ ॥ अरिष्टं लशुने काके निम्बफेनिलवृक्षयोः । नान्दिश्राद्धे दर्दरूटे करटः कटकाकयोः ॥ ५५ ॥ चिपिटः स्याच्चिपुटकः -------- । स्याद्वारललनायां च व्रीहिभेदे च बर्बटी ॥ ५६ ॥ ;p{0050} भावाटस्तु त्रिषु ज्ञेयो भावके कामुकेऽपि च । ना तु साधुनिवेशे स्यात् -------- ॥ ५७ ॥ ---- अथ भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम् । शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ ५८ ॥ देवले शुक्लकाचे च -------- । ;v{टद्विकम्} स्त्री कटुः कटुरोहिण्यां क्लीबेऽकार्ये पुमान् रसे ॥ ५९ ॥ त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च । खटः श्लेष्मण्यन्धकूपे प्रहारान्तरटङ्कयोः ॥ ६० ॥ घोटसैन्धवगन्धर्वा हयवाजितुरङ्गमाः । ;p{0051} पटोऽस्त्री कर्पटः शाटः सिचयप्रोतलक्तकाः ॥ ६१ ॥ पटः प्रियालवृक्षे ना सूचेले पुंनपुंसकम् । पट्टी ललाटभूषायां पट्टी लाक्षाप्रसादने ॥ ६२ ॥ यष्टिर्दण्डे हारभेदे -------- । ;p{0052} नियमादिफले व्युष्टिः समृद्धावपि च स्त्रियाम् ॥ ६३ ॥ ;k{ठान्ताः} ;v{ठचतुष्कम्} कालकण्ठोऽत्यूहः -------- । ;k{डान्ताः} ;v{डत्रिकम्} अस्त्री प्रकाण्डो विटपे तरुस्कन्धप्रशस्तयोः ॥ ६४ ॥ वरण्डो नाऽन्तरावेदौ समूहमुखरोगयोः । शिखण्डौ तु शिखाबर्हौ ------- ॥ ६५ ॥ ;p{0053} ;v{डद्विकम्} अथ खञ्जके खोडखोरौ -------- । गोण्डः पामरजातौ च वृद्धनाभौ च तद्वति ॥ ६६ ॥ पिण्डो गोले च सान्द्रे च देहगेहैकदेशयोः । देहमात्रे निवापे च बोलसिह्लकयोरपि ॥ ६७ ॥ भाण्डं भूषणमात्रे स्यात् -------- । ;p{0054} आमलक्यां स्त्रियां मण्ड एरण्डे सारपिच्छयोः ॥ ६८ ॥ व्याडो व्याघ्रे खले सर्पे -------- । व्रीडोऽक्लीबे त्रपा लज्जा -------- ॥ ६९ ॥ ;k{ढान्ताः} ;v{ढद्विकम्} गाढैकान्तनितान्तानि पुमानतिशयो भरः । ;p{0055} षण्ढो वर्षवरे क्लीबे गोपतौ वन्ध्यपूरुषे ॥ ७० ॥ ;k{णान्ताः} ;v{णचतुष्कम्} भुक्तोज्झितोन्मूलितयोः स्यादुद्धरणमुन्नये । ;p{0056} त्रिषु स्यात्तत्परेऽभीष्टेऽप्याश्रयेऽपि परायणम् ॥ ७१ ॥ वातिङ्गणस्तु वार्ताकुर्वार्ताकः शाकबिल्वकः । भण्डाकी राजकुष्माण्डी वार्ताकी दुष्प्रधर्षिणी ॥ ७२ ॥ ;v{णत्रिकम्} इन्द्राणी करणे स्त्रीणां सिन्दुवारेन्द्रयोषितोः । ;p{0057} ईक्षणं दर्शने दृष्टावीरिणं शून्यमूषरम् ॥ ७३ ॥ क्लीबं स्यान्मण्डने सूत्रे कङ्कणं करभूषणे । कफोणिकूर्परौ तुल्यौ कफणिः स्त्री च दृश्यते ॥ ७४ ॥ ;p{0058} पणोदमानदण्डानां तुरीयांशेऽपि काकिणी । क्षरणक्षारणाक्रोशाः साभिशपाभिमैथुने ॥ ७५ ॥ बौद्धोक्तमन्त्रभेदे च नाडिकायां च धारणी । इयत्ताहेतुशास्त्रेषु प्रमाणं सत्यवादिनि ॥ ७६ ॥ मर्यादानित्ययोरेकतायामेव प्रमातरि । मत्कुणस्तु पुमान् कालेऽप्यजातरदहस्तिनि ॥ ७७ ॥ निःश्मश्रुपुरुषेऽपि -- -------- । ;p{0059} रोहिणी कटुरोहिण्यां भभेदे लोहितागवोः ॥ ७८ ॥ ज्योतिष्मत्यां च सारस्यां स्त्री क्लीबे नामचिह्नयोः । स्याद्यक्षे लक्ष्मणः पुंसि सौमित्रौ श्रीमति त्रिषु ॥ ७९ ॥ दुष्यन्तराजपत्न्यां तु लक्ष्मणाऽप्सरयोषिति । ;p{0060} आपणे पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम् ॥ ८० ॥ स्त्रीपुंसयोरृक्षभेदे श्रवणं श्रुतिकर्णयोः । ;p{0061} श्रीपर्णी कुम्भिगम्भार्योः क्लीबे पद्मानिमन्थयोः ॥ ८१ ॥ -------- सरणिः श्रेणिवर्त्मनोः । हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ ८२ ॥ ;v{णद्विकम्} क्षणो व्यापारशून्यत्वमुहूर्तोत्सवपर्वसु । गणो वृन्दे सैन्यभेदे प्रमथेषु प्रयुज्यते ॥ ८३ ॥ द्रोणः कृपीपतौ कृष्णकाके स्याद् ---- । ;p{0062} प्रत्यासारे पुमान् पार्ष्णिः पादग्रन्थ्यधरेऽपि च ॥ ८४ ॥ वाणिः स्त्री व्यूतिभारत्योः -------- । देवताडेऽपि वेणी स्यात् प्रवेण्यामपि योषिति ॥ ८५ ॥ स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रियः । ;p{0063} ;k{तान्ताः} ;v{तपञ्चकम्} वराहक्रान्ता लज्जालुः समङ्गा जतु(जन) कारिका ॥ ८६ ॥ ;v{तचतुष्कम्} हानावपचितिः स्त्री स्यान्निष्कृतावर्चने व्यये । अभिनीतं संस्कृते च न्याय्ये चामर्षिणि त्रिषु ॥ ८७ ॥ अभ्यमितोऽपटुरातुरः -------- । अवसानं गते ज्ञाते ऋद्धेऽप्यवसितं त्रिषु ॥ ८८ ॥ ;p{0064} उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु । कालवृन्ता कामदूती पाटलिर्मधुदूतिका ॥ ८९ ॥ छायासुतो नीलवासाः शनिसौरिशनैश्चराः । टङ्कपतिर्नैष्किको रजताध्यक्षः ---- ॥ ९० ॥ ;p{0065} पारावतश्च छेद्यश्च कपोतो रक्तलोचनः । पारापतः कलरवः पत्री श्येनः शशादनः ॥ ९१ ॥ पुरोहितः पुरोधाः स्याद्द्वाःस्थो वेत्रलताधरः । द्वारपो द्वाःस्थितादर्शी अध्यक्षाऽधिकृतौ समौ ॥ ९२ ॥ समाहिते च न्यस्ते च प्राप्ते प्रणिहितं त्रिषु । ;p{0066} रमापतिर्विघ्नराजे गोविन्दे राज्ञि मारुते ॥ ९३ ॥ वानस्पत्येतरद्रौ स्याद्द्रुमात्रेऽपि वनस्पतिः । वैद्यमाताऽटरूषकः सिंहास्यो वाजिदन्तकः ॥ ९४ ॥ सरिद्विशेषे सरिति गोवाग्देवतयोः स्त्रियाम् । सरस्वती स्याद्वचसि स्त्रीरत्ने रसिके त्रिषु ॥ ९५ ॥ ;v{ततृतीयकम्} तृतीयाप्रकृतौ लाजेष्वक्षतं त्रिष्वहिंसिते । ;p{0067} उमा भूर्देवमाता च्याप्यदितिः ---- ॥ ९६ ॥ त्रिषु स्यादस्फुटेऽव्यक्तः क्लीबं तु परमात्मनि । -------- आघातं नामघातयोः ॥ ९७ ॥ -------- आवुत्तो भगिनीपतिः । आस्फोता विष्णुक्रान्तायां वनमल्ल्यर्कपर्णयोः ॥ ९८ ॥ मिथ्योक्तौ ताडिते विद्यादाहतं गुणिते तथा । एकान्तं निश्चिते शैघ्र्ये प्रसिद्धौ पुंनपुंसकम् ॥ ९९ ॥ ;p{0068} किरातश्चिरतिक्तश्च भूनिम्बहिमकावपि । जीवे जीवनभैषज्ये जीवातुः पुंनपुंसकम् ॥ १०० ॥ -------- दीक्षान्तावभृथौ समौ । बिन्दौ पृषन्मृगे क्लीबं पृषतोऽप्यनयोर्नरि ॥ १०१ ॥ त्रिषु श्वेते बिन्दुयुक्ते (स्रोतः पतनरक्तिते) । ;p{0069} विस्तारे प्रततिर्वल्यां -------- ॥ १०२ ॥ प्रख्यातज्ञातहृष्टेषु प्रतीतः सादरे त्रिषु । प्रोक्षितं निहते सिक्ते -------- ॥ १०३ ॥ महर्ष्टिव्यासरचिते जम्बूद्वीपे च भारतम् । महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ १०४ ॥ लोहितं रक्तगोशीर्षकुङ्कुमादिकुचन्दने । पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति ॥ १०५ ॥ ;p{0070} -------- वासितं भाविते रुते । विविक्तं त्रिषु विजनेऽप्यसम्पृक्तपवित्रयोः ॥ १०६ ॥ सूनृतं मङ्गलेऽपि स्यात् प्रियसत्ये वचस्यपि । ;v{तद्विकम्} ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च ॥ १०७ ॥ कीर्तिः ख्यातिः समाज्ञा च -------- । पताकायां द्युतौ केतुर्ग्रहोत्पातारिलक्ष्मसु ॥ १०८ ॥ ;p{0071} स्त्री क्षुत् क्षुतं क्षवश्छिक्का -------- । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे दिव्यगायने ॥ १०९ ॥ ------- चिन्ताऽऽध्या चिन्तिया स्मृतिः । दमिते त्रिषु दान्तः स्यात् तपःक्लेशसहेऽपि च ॥ ११० ॥ ;p{0072} पतिर्भर्ता प्रियंकरः धवस्संस्कारशंकरौ । पातिः स्वामी रक्षकः स्यात् सम्पातिः पक्षिराजनि ॥ १११ ॥ -------- पोतो बालवहित्रयोः । ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयोर्लता ॥ ११२ ॥ वस्तयः स्युर्दशसूत्रे वस्तिर्नाभेरधो द्वयोः । -------- वातिरादित्यसोमयोः ॥ ११३ ॥ वृत्तोऽतीतेऽङ्गीकृतेऽपि वर्तुलेऽपि वृते मृते । दृढेऽन्यलिङ्गवान् क्लीबं छन्दश्चरितवृत्तिसु ॥ ११४ ॥ दुर्बले निशिते स्यातां शीतशाताविमौ त्रिषु । ;p{0073} वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु ॥ ११५ ॥ ---- शुक्तं पूताम्लनिष्ठुरे । श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः स्त्रियाम् ॥ ११६ ॥ शर्करायां सिता शुक्ले बद्धे चावसिते त्रिषु । सीता लाङ्गलरेखा स्याद् व्योमगङ्गा च जानकी ॥ ११७ ॥ ;k{थान्ताः} ;v{थचतुष्कम्} महापथं राजमार्गे धाट्यां च नरकेऽपि च । ;p{0074} नृजातिभेदे कायस्थः कायस्थः परमात्मनि ॥ ११८ ॥ कायस्था तु हरीतक्यामामलक्यां प्रकीर्तिता । वयःस्था युवतिर्ज्ञेया वयस्था शाल्मलिद्रुमे ॥ ११९ ॥ ब्राह्मीगुडूचीककोलीसूक्ष्मेलाऽऽमलकीसु च । सत्पथस्तु सुपन्थाः स्याद्व्यध्वो विपथकापथौ ॥ १२० ॥ ;p{0075} क्वाथः कषायो निर्यूषे निर्यासे वेष्टकस्तथा । तुत्थं स्यादमृतासङ्गं कर्परी तुन्नमित्यपि ॥ १२१ ॥ -------- यूथं वृन्दमात्रे स्यात् । ;k{दान्ताः} ;v{दषट्कम्} कान्ताङ्घ्रिदोहदोऽशोके दाडिमे फलषाडबः ॥ १२२ ॥ दाडिम्बसारपिण्डीरस्वाद्वम्लशुकवल्लभाः । ;p{0076} ;v{दपञ्चकम्} उपनिषत् स्याद्विजने धर्मवेदान्तयोरपि ॥ १२३ ॥ ;v{दचतुष्कम्} विशारदः पण्डिते च धृष्टे च ----- । शतानन्दो विधाता च ब्रह्मा लोकपितामहः ॥ १२४ ॥ ;v{दत्रिकम्} स्त्री ककुत् ककुदोऽप्यस्त्री वृषाङ्गे राड्ध्वजे वरे । सत्कृत्याऽलंकृतां कन्यां कूकुदः कुकुदो ददत् ॥ १२५ ॥ ;p{0077} क्षणदा स्त्री हरिद्रायां कीलाले तु नपुंसकम् । गोष्पदम् गोपदश्वभ्रे गवां च गतिगोचरे ॥ १२६ ॥ ननन्दा तु स्वसा पत्युः ननान्दा नन्दिनी च सा । पुलिन्दः कथ्यते म्लेच्छे पुलिन्देऽपि निगद्यते ॥ १२७ ॥ शारदः सप्तपर्णाख्यो बृहत्त्वग्ग्रहनाशनः । ;v{दद्विकम्} कन्दोऽस्त्री सूरणे सस्यमूले जलधरे पुमान् ॥ १२८ ॥ ;p{0078} कस्तूरीगर्वरेतस्सु मदो हर्षेभदानयोः । स्वैराऽल्पाऽपटुमूर्खेषु मन्दोऽभाग्येऽपि च त्रिषु ॥ १२९ ॥ (ब्रह्मसृष्टे) गजे पुंसि छायाहृदयनन्दने । ;k{धान्ताः} ;v{धत्रिकम्} अगाधमस्थागमस्थाघमतलस्पर्शी ॥ १३० ॥ उत्सेधमुच्छ्रये न स्त्री क्लीबं संहननेऽपि च । समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ १३१ ॥ ;v{धद्विकम्} एध इन्धनमेधांसि समित् स्त्री (बन्ध बन्धने) । ;p{0079} आमोदलेशयोर्गन्धः स सुगन्धः सुगन्धकः ॥ १३२ ॥ -------- आधिबन्धनयोर्बन्धः । मधु पुष्परसे क्षौद्रे मद्ये ना तु मधुद्रुमे ॥ १३३ ॥ वसन्ते दैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति । -------- मुग्धः सुन्दरमूढयोः ॥ १३४ ॥ ;k{नान्ताः} ;v{नषट्कम्} गात्रानुलेपनी वर्तिर्विगन्ध्यथ विलेपनम् । वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्गरागके ॥ १३५ ॥ ;p{0080} प्रतीपदर्शिनी नारी योषिता योषिदित्यपि । ;v{नचतुष्कम्} अधिविन्नाऽध्युपगताऽध्यूढा कृतसपत्निका ॥ १३६ ॥ आच्छादनं संपिधाने वस्त्रेऽप्यावृतिमात्रके । आराधनं च पचने प्राप्तौ संतोषणेऽपि च ॥ १३७ ॥ आम्रातके शिरीषे च गर्दभाण्डे कपीतनः । कुचन्दनं च पत्राङ्गे द्रुभेदे रक्तचन्दने ॥ १३८ ॥ चुलुकी शिंशुमारेऽस्त्री कुण्डभेदे कुलान्तरे । तपस्विनी जटी मांसी जटिला लोमशा मिसी ॥ १३९ ॥ ;p{0081} तुत्थाञ्जनं क्वाथोद्भवं कर्परीदार्विके स्त्रियौ । स्याद्दीर्घकोषिकायां स्त्री दुर्नामा क्लीबमर्शसि ॥ १४० ॥ पत्राञ्जनं मसिर्नाऽपि मसिर्लिपिप्रयोजने । प्रतियत्नपरिस्पन्दौ पुमांसौ रचना स्त्रियाम् ॥ १४१ ॥ -------- मुसली हलतालभृत् । ललाम च ललामं च भूषावालधिवाजिषु ॥ १४२ ॥ चिह्नप्रधानपुण्ड्रेषु प्रभावे ध्वजशृङ्गयोः । ;p{0082} लाङ्गली नारिकेलेऽपि सीरपाणौ च लाङ्गली ॥ १४३ ॥ खातोदको दाक्षिणात्यः सुतङ्गः कूर्चकेसरः । मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम् ॥ १४४ ॥ ;v{नत्रिकम्} असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे । पीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके ॥ १४५ ॥ ;p{0083} आस्थानं संसदास्थानी परिषत्पर्षदौ समे । -------- उष्मा तापनिदाघयोः ॥ १४६ ॥ पणोदमानदण्डानां तुरीयांशेऽपि काकिनी । कौपीनं स्यादकार्ये च चीरगुह्यप्रदेशयोः ॥ १४७ ॥ प्रकाशोत्साहयोर्हिंसा सूचनेऽपि च गन्धनम् । ;p{0084} तलिनं विरले स्तोके त्रिष्वच्छेऽपि लवेऽपि च ॥ १४८ ॥ अधः स्थानेऽपि तलिनम् -------- । दुर्दिनं जलदध्वान्तम् -------- ॥ १४९ ॥ -------- धन्वा धन्व च कार्मुकम् । दर्शप्रतिपदोः सन्धौ ग्रन्थिप्रस्तावयोरपि ॥ १५० ॥ पर्व क्लीबं महे चैव विषुवत्प्रभृतिष्वपि । सहस्रदंष्ट्रसंज्ञे तु पाठीनो द्वे झषान्तरे ॥ १५१ ॥ गुल्गुलौ तु नृलिङ्गः स्यात् -------- । पिशुनः कपिवक्त्रेऽपि पृक्कायां पिशुना मता ॥ १५२ ॥ प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञायां च प्रधानं स्यादेकत्वे चोत्तमेऽपि च ॥ १५३ ॥ प्रसूनो वाच्यवज्जाते क्लीबं तु फलपुष्पयोः । भट्टिनी द्विजभार्यायां नाट्योक्त्यां राजयोषिति ॥ १५४ ॥ ;p{0085} रसनं तु ध्वनौ स्वादे रसज्ञारास्नयोः स्त्रियाम् । प्रभौ भूमिपतौ राजा क्षत्रिये रजनीपतौ ॥ १५५ ॥ लपनं वदनं तुण्डमाननं नासिका नसा । वमनस्तु पुमान् वृक्षे विज्ञेयोऽङ्कोथ(र)संज्ञके ॥ १५६ ॥ छर्दनाऽर्दनयोस्तु स्यात् क्ली(बे)‌------ । -------- वर्धनं वृद्धिकृत्तयोः ॥ १५७ ॥ प्रमाणदेहयोर्वर्ष्म स्यादाकारेऽतिसुन्दरे । ;p{0086} वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु ॥ १५८ ॥ व्युत्थानं स्वातन्त्र्यकृत्ये विरोधाचरणेऽपि च । संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ॥ १५९ ॥ समानं सत्समैकेषु त्रिषु ना नाभिमारुते । -------- -- साधनमिन्द्रिये ॥ १६० ॥ स्यन्दनं तु स्रुतौ क्लीबं शताङ्गे तिनिशे नरि । ;p{0087} ;l{0321A} अग्निर्वैश्वानरेऽपि स्याच्चित्रकाख्यौषधौ पुमान् ॥ १६१ ॥ त्वचि काये तनुः स्त्री स्यात् त्रिष्वल्पे विरले कृशे । द्युम्नं धने बले च - -------- ॥ १६२ ॥ भूम्नि भृष्ट्ययवे धानाः स्त्रियामभिनवोद्भिदि । क्लीबं स्यात् कानने नीरे निवासे निलये वनम् ॥ १६३ ॥ ---- स्तनकुचौ धारणोऽग्रेऽस्य चूचुकम् । ---- स्योनस्यूतप्रसेवकाः ॥ १६४ ॥ हनुर्हट्टविलासिन्यां कपोलावयवे स्त्रियाम् । ;p{0088} ;k{पान्ताः} ;v{पपञ्चकम्} आम्रे चामरपुष्पः स्यात् काशकेतकयोरपि ॥ १६५ ॥ ;v{पचतुष्कम्} पर्युप्तौ च परीवाप आलवाले परिच्छदे । पश्चात्तापोऽनुतापश्च विप्रतिसार इत्यपि ॥ १६६ ॥ कौकृत्यं विप्रतीसारो विहेठा तु विहेठनम् । वृषाकपिः पुमान् कृष्णे शंकरे जातवेदसी ॥ १६७ ॥ सरिषपः सिते तस्मिन् रक्षोघ्नो भूतनाशनः । साधुपुष्पं स्थलपद्मं दृष्टिकृत् पुण्डरीयकम् ॥ १६८ ॥ ;v{पत्रिकम्} -------- उडुपश्चन्द्रभेलयोः । ;p{0089} उलपो ना तृणभिदि गुल्मिन्युलपमित्यपि ॥ १६९ ॥ कलापः संहतौ काञ्च्यां बर्हे भूषणतूनयोः । एकोक्त्या कशिपुर्भक्ताऽच्छादने द्वे पृथक् च ते ॥ १७० ॥ कुतपो मृगरोमोत्थपटे चाऽह्नोऽष्टमेंऽशके । कुतपः स्यात् कुशे वाद्ये तपने छागकम्बले ॥ १७१ ॥ ;p{0090} शाखायां पल्लवे स्तम्बे विस्तारे विटपोऽस्त्रियाम् । विटानामधिपे ना च -------- ॥ १७२ ॥ ;v{पद्विकम्} कूपः कूपे नितम्बस्थे गर्तेऽन्धुगुणवृक्षयोः । गोपो गोपालके गोष्ठाध्यक्षे पृथ्वीपतावपि ॥ १७३ ॥ ग्रामस्याधिपतौ पुंसि शारिवाख्यौषधौ स्त्रियाम् । रूपं स्याच्छब्दशुक्लादिसौन्दर्याकारनाणके ॥ १७४ ॥ ;p{0091} ;v{पैकम्} पकारः पवने प्रोक्तः पास्तु पाने च पातरि । (अकारवरणे) सुप्तौ पकारः प्रकटे परे ॥ १७५ ॥ ;k{फान्ताः} ;v{फद्विकम्} -------- द्वयोर्गुल्फो द्वयोर्घुटिः । रवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गकः ॥ १७६ ॥ ;v{फैककम्} झञ्झावाते फकारः स्यात्तथा सूत्रे प्रकीर्तितः । फूत्कारेऽपि च फः प्रोक्तस्तथा निष्फलभाषणे ॥ १७७ ॥ ;k{बान्ताः} ;v{बत्रिकम्} भूजम्बूरिति गोधूमे विकङ्कतफलेऽपि च । ;p{0092} ;v{बद्विकम्} भयध्वनौ पुप्फुसेऽपि डिम्बः प्लीहनि विप्लवे ॥ १७८ ॥ बिम्बं बिम्बफले तुल्ये प्रतिमाप्रतिबिम्बयोः । ;k{भान्ताः} ;v{भचतुष्कम्} लेखर्षभोऽप्यथ शची स्यादिन्द्राणी शतावरी ॥ १७९ ॥ चारुधारा महेन्द्राणी शक्राणी जयवादिनी । ;p{0093} ;v{भत्रिकम्} ऋषभोऽग्र्ये कर्णरन्ध्रे देवेन्द्रे भूरुहेऽपि च ॥ १८० ॥ दैत्ये ना दुन्दुभिर्भेर्यां स्त्र्यक्षबिन्दुत्रिकद्वये । शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि ॥ १८१ ॥ विस्रम्भः केलिकलहे विश्वासे प्रणये वधे । अष्टापदे च करभे शरभः स्यान्मृगान्तरे ॥ १८२ ॥ ;p{0094} सुरभिः सल्लकीमातृभिन्मुरागोषु तु स्त्रियाम् । चम्पके च वसन्ते च तथा जातीफले पुमान् ॥ १८३ ॥ स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु । ;v{भद्विकम्} कामुके वारनार्याश्च कुम्भः क्लीबं तु गुग्गुलौ ॥ १८४ ॥ ;p{0095} पृश्निकायां च कुम्भी स्यात्पाटलौ कट्फलेऽपि च । गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ १८५ ॥ मुख्यराट्क्षत्रयोर्नाभिः पुंसि प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ॥ १८६ ॥ ;p{0096} स्त्रियां सामाजिके गोष्ठ्यां द्यूतमन्दिरयोः सभा । ;k{मान्ताः} ;v{मचतुष्कम्} तनुकृमिस्त्विन्द्रगोपः परोष्णी तैलपायिका ॥ १८७ ॥ तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम् । परिभुक्तोऽज्झिते जीर्णे यातयामस्त्रिलिङ्गकः ॥ १८८ ॥ ;p{0097} वज्रद्रुमस्सिहुण्डोऽथ वेल्लं कृमिघ्नतण्डुलौ । ;v{मत्रिकम्} कुङ्कुमं रुधिरं रक्तमसृगुक्तं च पीतनम् ॥ १८९ ॥ गोधूमस्सुमनो म्लेच्छभोजनः पर्वतोऽप्ययम् । यन्त्रणायां प्रतिज्ञायां नियमो निश्चये व्रते ॥ १९० ॥ मध्यदेशे स्वरे मध्ये मध्यमो मध्यजे त्रिषु । ;p{0098} ;v{मद्विकम्} ऊर्मिः स्त्रीपुंसयोर्वीच्यां प्रकाशे वेगभङ्गयोः ॥ १९१ ॥ ;l{0381A} -------- कामः स्मरेच्छयोः पुमान् । ;l{0381B} रेतस्यपि निकामे च काम्येऽपि स्यान्नपुंसकम् ॥ १९२ ॥ द्रुमामये भवेत् पुंसि कीटे च कृमिवत् क्रिमिः । -------- क्षौममट्टदुकूलयोः ॥ १९३ ॥ ;p{0099} तमा स्मृताऽपि रात्रिः स्याद्वासुरा यामिनी तमी । अहिंसोपनिषत्पुण्यस्वभावाचारसोमपे ॥ १९४ ॥ उपमान्याययागेषु यमे धर्मो धनुष्यपि । पुंलिङ्गस्तिनिशे नेमिश्चक्रान्ते तु स्त्रियां मतः ॥ १९५ ॥ पद्मं स्यादम्बुजव्यूहनिधिसङ्ख्याऽहिबिन्दुषु । भीमं परशिवे शङ्कौ भयंकरवसन्तयोः ॥ १९६ ॥ भौमश्चन्द्रे रमानाथे गोवृन्दे विषवैद्ययोः । ;p{0100} प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोः ॥ १९७ ॥ -------- युग्मं यमलयामले । श्यामो वटे प्रयागस्य वारिदे वृद्धदारके ॥ १९८ ॥ पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु । मरिचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ ॥ १९९ ॥ यमुनायां त्रियामायां कृष्णत्रिवृतिकौषधौ । नीलिकायां च --- -------- ॥ २०० ॥ ;p{0101} अध्यात्मे कतके सूक्ष्ममणौ पुंस्यल्पके त्रिषु । ;k{यान्ताः} ;v{यचतुष्कम्} पुमाननुशयो द्वेषे पश्चात्तापानुबन्धयोः ॥ २०१ ॥ तन्तुवायोर्णनाभोर्णनाभयः शलकोऽपि च । परिचाय्य उपचाय्यः समूह्यः क्रतुवह्नयः ॥ २०२ ॥ प्रतिश्रयः सभायां स्यादाश्रयेऽपि च मन्दिरे । द्रौ बाडवेयौ नासिक्यौ -------- ॥ २०३ ॥ -------- वैरोन्नत्योः समुच्छ्रयः । ;v{यत्रिकम्} कृच्छ्रातिक्रमदण्डेष्वत्ययो दोषविनाशयोः ॥ २०४ ॥ ;p{0102} अवद्यमपशब्दे च गर्ह्ये च ----- । मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ २०५ ॥ यष्टा च यजमानश्च याजको देवचारकः । दीक्षितः सोमपिती च -------- ॥ २०६ ॥ रसभेदेऽङ्गरागे च निर्यासे च विलेपने । कषायोऽस्त्री त्रिलिङ्गस्तु सुरभौ लोहितेऽपि च ॥ २०७ ॥ क्षत्रियस्तु विराट्क्षत्रराजन्यद्विजलिङ्गिनः । गोसङ्ख्या यादवं क्लीबं गोमहिष्यादिकं तथा ॥ २०८ ॥ पादबन्धनमित्याहुः -------- । ;p{0103} ----- नादेयं पुनः स्याद्भेद्यलिङ्गकम् ॥ २०९ ॥ नदीभवादौ स्त्री तु स्यान्नादेयी जलवेतसे । कर्कर्यां भूमिजम्ब्वां च महोदर्याख्यमुस्तके ॥ २१० ॥ कङ्गुष्ठेऽपि च नादेयी -------- । निरयो नरकः पुंसि निरृतिः कालकण्ठिका ॥ २११ ॥ ऐन्द्र्यलक्ष्म्यौ विष्टिराजूर्यातना तीव्रवेदना । परिचर्यप्रार्थनयोः प्रणयः परिकीर्तितः ॥ २१२ ॥ प्रत्ययः प्रथितत्वे च सनादिज्ञानयोरपि । आचारे शपथे रन्ध्रे विश्वासाधीनहेतुषु ॥ २१३ ॥ बालेयो गर्दभे द्वे स्याद्दैत्ये चाथ खले त्रिषु । मृदौ बलिहिते च - -------- ॥ २१४ ॥ ;p{0104} वातायुर्जिनयोनिश्च विश्वाची चारुलोचनः । विषयो ना जनपदे देशगोचरयोरपि ॥ २१५ ॥ मुनिप्रभेदे मालूरे शाण्डिल्यः पावकान्तरे । शैलेयं पलितं वृद्धं जीर्णं कालानुसार्यकम् ॥ २१६ ॥ श्वशुर्यौ देवरश्यालौ शयो ना हस्तसर्पयोः । संस्थाने संनिवेशे च संस्त्यायो विस्तृतावपि ॥ २१७ ॥ संनयः समवाये स्यात् पृष्ठस्थायिबलेऽपि च । ;p{0105} स्वस्रीयो भागिनेयः स्यान्नप्ता नप्त्री च पौत्रिका ॥ २१८ ॥ ;v{यद्विकम्} क्लीबं शिलाजतुन्यर्थ्यो बुधे न्याय्येऽभिधेयवत् । स्त्रियां प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धयोः ॥ २१९ ॥ कक्ष्या बृहतिकायां च काद्रवेयोऽहिरङ्गयोः । वाद्यान्तरे पानपात्रे कांस्यकंसे च तैजसे ॥ २२० ॥ ;p{0106} अष्टद्रोण्यां कीकसे च कुल्यमामिषसूर्पयोः । नद्यां पयःप्रणाल्यां स्त्री वाच्यलिङ्गं कुलोद्भवे ॥ २२१ ॥ कृत्यो विद्विषि कार्ये च कृत्या क्रियादिवौकसोः । रहस्योपस्थयोर्गुह्यं गुह्यः कमठदम्भयोः ॥ २२२ ॥ नवोढाज्ञातिभृत्येषु वत्सले च वरस्य च । जनके जननीये ना जन्यं निर्वादयुद्धयोः ॥ २२३ ॥ -------- जित्या हलिरुभे स्त्रियाम् । तिष्यो नक्षत्रभेदे स्यात् कलौ धात्र्यां च योषिति ॥ २२४ ॥ ;p{0107} द्रव्यं स्यात्पित्तले वित्ते पृथिव्यादौ विलेपने । क्लीबे च भेषजे भव्ये द्रुविकारे तु वाच्यवत् ॥ २२५ ॥ प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः । न्याय्याऽवल्गनयोर्मध्यमन्तरे चाधमे त्रिषु ॥ २२६ ॥ -------- रूप्यः स्यात् सुन्दरे त्रिषु । आहतस्वर्नरजते क्लीबं -------- ॥ २२७ ॥ प्रधानधातौ सामर्थ्ये वीर्यं तेजःप्रभावयोः । शल्यं श्वाविच्छलाका स्याच्छरा मदनशारिका ॥ २२८ ॥ ;p{0108} क्ष्वेडाशङ्कुशरे शल्यं ना श्वाविन्मदनद्रुमे । सत्यं कृते च शपथे तथ्ये च त्रिषु तद्वति ॥ २२९ ॥ -------- सौम्या मृगशिराः स्त्रियाम् । ;k{रान्ताः} ;v{रपञ्चकम्} संकोचपत्री लज्जालुः -------- ॥ २३० ॥ ;v{रचतुष्कम्} औडुम्बरं भवेत्ताम्रे फलादौ यज्ञशाखिनः । दुरोदरं द्यूतभेदे द्यूतकृत्पणयोः पुमान् ॥ २३१ ॥ धाराधरो वारिधरः -------- । ;p{0109} धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः ॥ २३२ ॥ नगाधारा रत्नगर्भाऽब्धिद्वीपाऽम्बरमेखला । पयोधरः कोशकारे नारिकेले स्तनेऽपि च ॥ २३३ ॥ कशेरुमेघयोः पुंसि -------- । भवेत् परिकरः सङ्घे पर्यङ्कपरिवारयोः ॥ २३४ ॥ प्रगाढत्रिकाबन्धे समारम्भविवेकयोः । परिवारः परिजने खड्गकोशे परिच्छदे ॥ २३५ ॥ व्रणशुद्धौ मन्त्रभेदे चमूपृष्ठे च कङ्कणे । पुंसि प्रतिसरो न स्त्री आरक्षकरसूत्रयोः ॥ २३६ ॥ त्रिलिङ्गस्तु नियोज्येऽपि -------- । ;p{0110} भूर्जे तु भूर्जपत्रं स्यान्मृदुत्वक्पत्रपुष्पकः ॥ २३७ ॥ रेणुसारश्चन्द्रसंज्ञः -------- । विद्याधरः कामरूपी खेचरः सत्ययौवनः ॥ २३८ ॥ ;v{रत्रिकम्} अक्षरः कन्दुके चित्ते चतुरानननाकयोः । -------- अक्षरं ब्रह्मवर्णयोः ॥ २३९ ॥ अगुरु क्लीबे शिंशपायां ------- । इन्द्रपुर्यां गुडूच्यां च स्थूणायाममराध्वनिः ॥ २४० ॥ असुरी राजिकायां स्यात् -------- । आधार आलवालाधिकरणाम्बुविधारणः ॥ २४१ ॥ उर्वरा सर्वसस्याढ्यवसुधायां क्षितावपि । ;p{0111} औशीरं चामरे दण्डे शयनासनयोर्मतम् ॥ २४२ ॥ -------- कडारो दासपिङ्गयोः । कण्डरा तु महास्नायुः कालेयं कालखण्डकम् ॥ २४३ ॥ कर्परः स्यात् कपालेऽपि शस्त्रभेदकटाहयोः । कर्मारो लोहकारः स्यात् -------- ॥ २४४ ॥ दुर्गस्थाने नृपादीनां कलत्रं श्रोणिभार्ययोः । ;p{0112} -------- काश्मरी कालवृन्तिका ॥ २४५ ॥ कुठारः स्त्री च स्वधितिः परशुश्च परश्वधः । कुठाटङ्कः पर्शुरथ च्छुरिका कोशशायिका ॥ २४६ ॥ केनारः कुम्भिनरके शिरःकपालसन्धिषु । सिंहच्छटासु पुंनागे वकुले नागकेसरे ॥ २४७ ॥ केसरः पुंसि किञ्जल्के न स्त्री हिङ्गुनि न द्वयोः । -------- कोटीरस्तु जटा सटा ॥ २४८ ॥ ;p{0113} कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके । कौबेरं भास्वरं कुष्ठं पारिभाव्यं गदाह्वयम् ॥ २४९ ॥ क्रकरस्तु करीरद्रौ दीनक्रकचयोश्च ना । द्वयोस्तु पक्षिभेदे स्यात् -------- ॥ २५० ॥ क्लीबं दम्भे गुहायां च निकुञ्जे पुंसि गह्वरः । ;p{0114} गायत्री खदिरे स्त्री स्याच्छन्दस्यपि षडक्षरे ॥ २५१ ॥ चामरा चामरं वालव्यजनं रोमगुच्छकम् । झणरी झल्लरी च द्वौ हुडुक्के वालचक्रके ॥ २५२ ॥ मुरलायां दरीभस्त्रानीरजःस्त्रीषु नर्मरा(दा) । क्लीबं स्याद्द्रुमकर्पूरे ना राजमानवेऽर्जुने ॥ २५३ ॥ ;p{0115} बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः । -------- मञ्जीरोऽस्त्री स नूपुरः ॥ २५४ ॥ ;c{(मधुरा)} दूर्वायां मधुयष्ट्यां च मिश्रेयाशतपुष्पयोः । मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा ॥ २५५ ॥ मेदायां च ---- क्लीबं तु गरले -- । ;p{0116} मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ ॥ २५६ ॥ वेश्यायां व्रीहिभेदे च मसूरा मसुरा स्त्रियाम् । मसूरमसुरौ पुंसि द्वावेतावपि चैतयोः ॥ २५७ ॥ -------- टेरे वलिरकेकरौ । ;p{0117} विशारदे गताऽतङ्के मुमुक्षौ बाडवे वृके ॥ २५८ ॥ निर्झरेऽपि विशाले च वागरे वारके पुमान् । वानीरवेतसावभ्रपुष्पो विदुल इत्यपि ॥ २५९ ॥ काकचिञ्चीभवे बीजे वाचि क्रिमिजनीरयोः । दक्षिणावर्तशङ्खे च वार्दरं स्यात् ---- ॥ २६० ॥ विधुरं स्यात् परविश्लेषे क्लीबे विकरणे त्रिषु । विष्टरः कुशमुष्टौ स्यादासनेऽपि महीरुहि ॥ २६१ ॥ शर्करा खण्डविकृतावुपलेऽपि च दृश्यते । ;p{0118} शाक्वरो वाडबेयः स्यात् ककुद्मानक्षधूर्तिलः ॥ २६२ ॥ -------- भूषणे शेखरोऽस्त्रियाम् । श्वद्रंष्ट्रो गोक्षुरपुटः श्वदंष्ट्रा स्वादुकण्टकः ॥ २६३ ॥ स्त्रिलिङ्गा श्वशुरा ब्राह्म्याम् -------- । क्लीबं तु सम्बरं नीरबौद्धव्रतविशेषयोः ॥ २६४ ॥ विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च । ;p{0119} सिन्दूरं रोचनारक्तचूरणधातकिकासु च ॥ २६५ ॥ गर्ते गर्ताऽन्विते वाद्यविशेषे सुषिरं त्रिषु । सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ २६६ ॥ स्रोतोऽञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च । ;p{0120} ;v{रद्विकम्} अश्रु स्यादस्रु नेत्राम्बु -------- ॥ २६७ ॥ स्याच्चापायुधयोरस्त्रम् -------- । करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः ॥ २६८ ॥ क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत् । क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः ॥ २६९ ॥ देवताडे खरा तीक्ष्णे त्रिषु स्याद्गर्दभे पुमान् । ;p{0121} द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे न ना ॥ २७० ॥ नग्नकन्योमयोर्गौरी रजन्यां सरिदन्तरे । प्रियङ्गौ वसुधायां च रोचन्यां वरुणस्त्रियाम् ॥ २७१ ॥ पुंसीन्दौ विशदे श्वेतसर्षपे पद्मकेसरे । नपुंसकं त्रिषु श्वेते विशुद्धेऽरुणपीतयोः ॥ २७२ ॥ चक्रः कोके व्रजे पुंसि क्लीबं सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणास्त्रयोः ॥ २७३ ॥ ;p{0122} चन्द्रः कर्पूरकाम्पिल्लसुधांशुस्वर्णवारिषु । अलेख्याश्चर्ययोः क्लीबं चित्रं स्यात्तिलकेऽपि च ॥ २७४ ॥ स्रवन्त्यां भे सुभद्रायां चित्रा स्त्री कर्बुरे त्रिषु । आतपत्रं मतं छत्रं छत्रा मधुरिका मता ॥ २७५ ॥ अतिच्छत्रोऽपि च्छत्रा स्याच्छत्रा धान्यकमप्यथ । सुगन्धाख्यं च कटुकं छत्रातिछत्रकं तथा ॥ २७६ ॥ -------- तरं वज्रविघातयोः । ;p{0123} हस्तिमस्तकदन्ते च दंष्ट्रा शुनवराहयोः ॥ २७७ ॥ -------- गर्ते भीतौ दरोऽस्त्रियाम् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ २७८ ॥ धारा वाजिगतिः प्रोक्ता धारा आसार इत्यपि । पूः स्त्री नपुंसि नगरी खपुरं तूर्ध्वगं पुरम् ॥ २७९ ॥ हरिश्चन्द्रपुरं शौभं पत्तनं पुटभेदनम् । पुरं नपुंसकं गेहे देहपाटलिपुत्रयोः ॥ २८० ॥ पुष्पादीनां दलावृत्तौ गुग्गुलौ ना न ना पुरि । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ २८१ ॥ विशाले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु । ;p{0124} -------- भीरुरार्ते जने स्त्रियाम् ॥ २८२ ॥ वेदभेदे गुप्तिवादे मन्त्रो दैवादिसाधने । मरं त्वसत्ये छिन्ने च प्रीतिवैचित्र्ययोरपि ॥ २८३ ॥ -------- अथ मारिर्मसूरिका । मारी भवानी वाराही कुटिलाक्षी पृथुश्रिया ॥ २८४ ॥ रमा कालन्त्तिका वेणी पूलाका विजयाऽपि च । वज्रोऽशनिर्गिरीकण्टः पविर्दम्भोलिरम्बुजम् ॥ २८५ ॥ वरो जामातरि वृतौ देवताडेरभीप्सिते । कुङ्कुमो च मनागिष्टे क्लीबं श्रेष्ठे च वाच्यवत् ॥ २८६ ॥ वारी स्त्री गजबन्धिन्यां वारि क्लीबे जलेऽपि च । ;p{0125} शक्रस्सुदर्शने देवे देवेन्द्रे भाग्यवज्जने ॥ २८७ ॥ गुन्द्रेष्वोर्ना शरं नीरे -------- । -------- शारः शबलवातयोः ॥ २८८ ॥ पुंलिङ्गः शाकमात्रे स्याच्छिग्रुः शोभाञ्जनेऽपि च । ;p{0126} शिरो ना पिप्पलीमूले स्याद्धमन्यां तु योषिति ॥ २८९ ॥ शुभ्रं स्यादभ्रके क्लीबं उद्दीप्तशुक्लयोस्त्रिषु । सत्त्रं यज्ञे सदादानाऽऽच्छादनाऽरण्यकैतवे ॥ २९० ॥ हलतिग्मकरौ सीरौ -------- । ;p{0127} हारा मुक्तावली हारः -------- ॥ २९१ ॥ ;v{रैकम्} श्रीर्वेषरचनाशोभाभारतीसरलद्रवे । ह्रीर्लज्जाऽपत्रपा व्रीडा मन्दाक्षं तत्त्रपाऽपि च ॥ २९२ ॥ ;k{लान्ताः} ;v{लपञ्चकम्} मृदूच्चतूलो गर्भोली चातुरोऽपि मचूलकः । असिगण्डकोलगण्डौ चाबुकी गल्लचातुरी ॥ २९३ ॥ ;v{लचतुष्कम्} उदूखले गुग्गुलौ च क्लीबमुक्तमुलूखलम् । ;p{0128} करवालमण्डलाग्रकालेयकासिरिष्टयः ॥ २९४ ॥ ऋष्टिः खड्गस्तरवारिकौक्षेयकौ च नन्दकः । जातिफलं जातिसस्यं जातिर्जातीफलेऽपि च ॥ २९५ ॥ संहतलः प्रतयलुक् प्रसृतावञ्जलिः पुमान् । ;v{लत्रिकम्} -------- अरालः सर्जवक्रयोः ॥ २९६ ॥ ;p{0129} अर्गलं त्रिषु कक्कोले दण्डे चान्तःकवाटयोः । इङ्गालो दृश्यते क्वापि -------- ॥ २९७ ॥ इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे । प्रावारेऽप्युत्तरासङ्गे सास्नायामपि कम्बलः ॥ २९८ ॥ नागराजविशेषे ना सलिले स्यान्नपुंसकम् । कीलालं रुधिरे तोये मनोज्ञे मत्सरेऽपि च ॥ २९९ ॥ ----- अथ त्रिः कुटिलं कुञ्चिते भवेत् । तगरे तु क्ली तगरपादिकायां स्त्रियाम् ---- ॥ ३०० ॥ ;p{0130} -------- कुलाली च कुलत्थिका । -------- कोसलः कोशलः समः ॥ ३०१ ॥ -------- कुब्जे गडुलगण्डुलौ । भद्राशट्योस्तु गन्धाली -------- ॥ ३०२ ॥ ग्रन्थिलस्तु पुमाञ्ज्ञेयः करीरद्रौ विकङ्कते । भेद्यवद्ग्रन्थिसहिते -------- ॥ ३०३ ॥ सौदामन्यां तु पद्मायां चपला ना नभस्वति । मदनद्रौ पिष्टमद्ये जगलो धूर्तमेदके ॥ ३०४ ॥ ;p{0131} जम्बालः शैवले पङ्के जालं वृन्दगवाक्षयोः । क्षारकानायदम्भेषु नीपे ना स्त्री तु घोषके ॥ ३०५ ॥ जाली स्त्रियाम् ---- -------- । तमालो वरुणे खड्गे तापिञ्छे तिलकेऽपि च ॥ ३०६ ॥ -------- निचुलेज्जलहिज्जलाः । ;p{0132} निचुलो हिज्जलतरौ निचुलस्तु निचोलके ॥ ३०७ ॥ -------- निचोलं तु नपुंसकम् । निचोलः स्यान्निचुलकः -------- ॥ ३०८ ॥ आशुव्रीहौ पाटलो ना श्वेतरक्तस्तु पाटलः । द्वयोः प्रणाली कल्हारं हल्लकं रक्तसन्ध्यकम् ॥ ३०९ ॥ वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे । कृत्तिकासु स्त्रियां भूम्नि बहुला बहुला गवि ॥ ३१० ॥ एलायां पुमानग्नौ कृष्णपक्षे शितौ त्रिषु । ;p{0133} महिलायां महीला स्यान्महेलाऽपि महीलिका ॥ ३११ ॥ मातलिर्माकलिश्शक्रसारथिस्तु हयंकषः । मुसली स्त्री ज्येष्ठिकायामयोऽग्रे मुसलोऽस्त्रियाम् ॥ ३१२ ॥ लोहलस्तु त्रिरव्यक्तभाषिणि स्यात् पुमान् पुनः । शृङ्खलाधार्ये --- -------- ॥ ३१३ ॥ शकलं वल्कले खण्डे क्लीबं स्याच्छकलं त्वचि । ;p{0134} शृगालो वञ्चके दैत्यविशेषे डमरे स्त्रियाम् ॥ ३१४ ॥ स्त्री कटीवस्त्रबन्धे च निगडे शृङ्खला त्रिषु । बोधिद्रौ राजबदरे श्यामलः कथ्यते बुधैः ॥ ३१५ ॥ ;v{लद्विकम्} अमलाः धात्रीफलाऽम्लीकामातुलङ्काऽम्लवेतसम् । ;p{0135} -------- भृङ्गवृश्चिकयोरलिः ॥ ३१६ ॥ -------- पुंस्यालिर्विशदाशये । त्रिषु स्त्रियां वयस्यायां सतौ पङ्क्तौ च कीर्तिता ॥ ३१७ ॥ आलुर्गलन्तिकायां स्त्री क्लीबं मूले च भेलके । -------- कालो मेघकृतान्तयोः ॥ ३१८ ॥ चपेटे खड्गमुष्टौ च तलस्तालद्रुमेऽपि च । तूलः पिचुः पिचुतूलस्तर्कटी सूत्रतर्किका ॥ ३१९ ॥ -------- नृपभेदे नडे नलः । कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितोः ॥ ३२० ॥ ;p{0136} -------- पलं च क्रव्यमावटम् । उद्घसं तरसं माषं कव्यं रसं तु तद्रसः ॥ ३२१ ॥ -------- फेलापिण्डोलिफेलयः । बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः ॥ ३२२ ॥ किरीटे मौलिरक्लीबे चूडासंयतकेशयोः । रालः सर्जरसोऽरालो धूपको वह्निवल्लभः ॥ ३२३ ॥ जिह्वा लक्ष्मीश्च लोला स्यात् -------- । ;p{0137} पादपस्कन्धशाखायां गृहागारैकदेशयोः ॥ ३२४ ॥ स्त्रियां शाला पुमान् शालो नृपमत्स्यप्रभेदयोः । शिल उञ्छे स्त्रियां ग्रावद्वाराधःस्थितदारुणोः ॥ ३२५ ॥ पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः । ;p{0138} ;k{वान्ताः} ;v{वपञ्चकम्} सरलद्रवः श्रीपिष्टो दधिक्षीरघृताह्वयः ॥ ३२६ ॥ ;v{वचतुष्कम्} किकिदिविः स्वर्णचूलश्चाषो राजविहङ्गमः । मधुर्यां ना शीतशिवः क्लीबं शैलेयसैन्धवे ॥ ३२७ ॥ ;v{वत्रिकम्} अपि गन्धर्वगान्धर्वदिव्यगायनगातवः । ;p{0139} गन्धर्वः पशुभेदेऽपि गायने खेचराश्वयोः ॥ ३२८ ॥ अन्तराभवसत्वे स्यात् -------- । अविश्वासेऽपलापेऽपि निकृतावपि निह्नवः ॥ ३२९ ॥ बडवा कुम्भदास्यश्वा स्त्रीविशेषो द्विजाङ्गना । माधवः पुष्पदन्ते स्याद्विष्णौ गोपालदेवयोः ॥ ३३० ॥ ;p{0140} स्यान्मार्कवो भृङ्गराजो भृङ्गराजस्सुराजकः । सचिवः सहायोऽमात्यः -------- ॥ ३३१ ॥ ;v{वद्विकम्} ग्रीवाबन्धनरज्जौ तु ग्रैवं ग्रैवेयमित्यपि । वसुयोगभिदोः शङ्कौ ध्रुव उत्तानपादजे ॥ ३३२ ॥ शश्वन्निश्चिततर्केषु क्लीबं त्रिषु च शाश्वते । वटवृक्षे शरारौ ना गातिस्रुग्भेदयोर्ध्रुवा ॥ ३३३ ॥ लट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि दृश्यते । ;p{0141} करञ्जभित्फले लट्वाऽवद्यपक्षिप्रभेदयोः ॥ ३३४ ॥ -------- शिवा झटामलौषधौ । अभयाऽऽमलकीगौरीफेरुसक्तुफलासु च ॥ ३३५ ॥ शिवं भद्रे शिवश्शम्भौ -------- । ;v{वैकम्} स्वो ज्ञातावात्मनि क्लीबे -------- ॥ ३३६ ॥ ;k{शान्ताः} ;v{शचतुष्कम्} पतने स्यादपभ्रंशो भाषाभेदापशब्दयोः । दूरदृक् कोविदस्सूरिः -------- ॥ ३३७ ॥ ;p{0142} वेष्टने परिवेशः स्याद्भानोः सविधमण्डले । ;v{शत्रिकम्} खड्गे साहसिकक्रूरदृढामसृणनिर्दये ॥ ३३८ ॥ त्रिषु कर्कश इक्षौ ना कम्पिल्लकाशमर्दयोः । सर्वोत्तमे चोत्तमाङ्गे कुम्भे च कलशध्वनिः ॥ ३३९ ॥ पत्रे पलाशं ना रक्षश्शाटीहरितकिंशुके । ;p{0143} स्यादातपे प्रकाशो ना स्फुटताहास्ययोरपि ॥ ३४० ॥ ;v{शद्विकम्} -------- आशुः स्याच्छालिशीघ्रयोः । प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके ॥ ३४१ ॥ वाराणस्यां भवेत् काशी क्षवथौ न तृणेऽस्त्रियाम् । ;p{0144} दर्शोऽमाऽमावसी च स्यात् -------- ॥ ३४२ ॥ दशा वर्ताववस्थायां वस्त्रान्ते भूम्नि पुंस्त्रियोः । ;p{0145} पशुर्मृगादौ छगले प्रमथे च पुमानयम् ॥ ३४३ ॥ नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च । रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि ॥ ३४४ ॥ स्पृशी प्रचोदनी राष्ट्रा कण्टकारी निदिग्धिका । ;p{0146} ;k{षान्ताः} ;v{षचतुष्कम्} पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोः ॥ ३४५ ॥ ;v{षत्रिकम्} उत्कोचे पलले ना स्त्री आमीषं भोग्यवस्तुनि । स्यान्नपुंसकमुष्णीषं शिरोवेष्टकिरीटयोः ॥ ३४६ ॥ कटाक्षकाक्षौ --- -------- । कल्माषः कर्बुरे कृष्णे -------- ॥ ३४७ ॥ ;p{0147} कुल्माषो यावके पुंसि काञ्जिके तु नपुंसकम् । मारिषः शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषितः ॥ ३४८ ॥ कत्तृणे रौहिषं क्लीबं पुंलिङ्गो हरिणान्तरे । नटे बिल्वे च शैलूषः -------- ॥ ३४९ ॥ ;p{0148} ;v{षद्विकम्} अक्षो विभीतके नेत्रे शकटव्यवहारयोः । रथस्यावयवे क्षेत्रे पाशकेऽप्यक्षमिन्द्रिये ॥ ३५० ॥ उषा स्याद्रजनीशेषे उष इत्यपि दृश्यते । कक्षा स्यादन्तरीयस्य पश्चदञ्चलपल्लवे ॥ ३५१ ॥ स्पर्धापदे ना दोर्मूले कच्छवीरुत्तृणेषु च । करीषाग्नौ पुमान् कर्षुः कुल्यायामपि च स्त्रियाम् ॥ ३५२ ॥ ;p{0149} कोशोऽस्त्री कुट्मले खड्गपिधानेऽर्थौघदिव्ययोः । पेश्यां पात्रे जातिकोषे -------- ॥ ३५३ ॥ झषा नागबलायां स्याज्झषो मत्स्ये झषं खिले । धान्यत्वचि तुषः पुंसि विभीतकतरावपि ॥ ३५४ ॥ कान्तौ वाचि रचौ त्विट् स्त्री -------- । ;p{0150} पक्षो मासार्धके पार्ष्णिग्रहे साध्यविरोधयोः ॥ ३५५ ॥ चुल्लिरन्ध्रे पतत्त्रे च राजकुञ्जरपार्श्वयोः । प्रार्थनाभृतिसेवासु भिक्षा भिक्षितवस्तुनि ॥ ३५६ ॥ लाक्षायां रक्षणे रक्षा -------- । सङ्ख्यायां च न ना लक्षं क्लीबं व्याजशरव्ययोः ॥ ३५७ ॥ पुंनपुंसकयोर्वर्षं जम्बुद्वीपे च वत्सरे । वृष्टौ च वर्षाकालेषु वर्षा भौमनि योषिति ॥ ३५८ ॥ ;p{0151} विड्व्यापने च विष्ठायां शुषिः स्त्री बिलशोषयोः । कपिकच्छ्वां वृषः पुंसि शृङ्गीमूषिकवासके ॥ ३५९ ॥ धर्मशुक्रलयोः सौरभेये पुंराशिभेदयोः । श्रेष्ठे स्यादुत्तर्स्थश्च व्रतिनामासनं वृषी ॥ ३६० ॥ ;p{0152} शोषो यक्ष्मा राजयक्ष्मा प्रतिश्यायस्तु पीनसः । आपीनसः प्रतिश्या स्यात् -------- ॥ ३६१ ॥ ;k{सान्ताः} ;v{सचतुष्कम्} अट्टहासो महाहासस्सोत्प्रास इति कीर्तितः । खरणः स्यात् खरणसो विग्रो विखुर्विनासिकः ॥ ३६२ ॥ पुंलिङ्गः स्याद्घनरसः सान्द्रनिर्यासनीरयोः । चन्द्रहासर्ष्टिनिस्त्रिंशाः -------- ॥ ३६३ ॥ ;p{0153} विभावसुः सुराचार्ये धनंजयवसन्तयोः । वाद्यभाण्डान्तरे सर्वरसः सर्जरसेऽपि च ॥ ३६४ ॥ ;v{सत्रिकम्} अनः क्लीबं जले शोके मातृस्यन्दनयोरपि । अभ्यासस्तु समीपे स्यात् पुमानभ्यसनेऽपि च ॥ ३६५ ॥ बलावष्टम्भयोरोजः क्लीबं दीप्तिप्रकाशयोः । -------- तपो लोकान्तरेऽपि च ॥ ३६६ ॥ चान्द्रायणादौ धर्मे च न स्त्री शिशिरमाघयोः । ;p{0154} तमः क्लीबं गुणे शोके सैंहिकेयान्धकारयोः ॥ ३६७ ॥ श्रावणे च बिसोर्णायां वर्षासु च पतद्ग्रहे । नभो व्योम्नि नभा नासा घोणा द्वारोर्ध्वदारु च ॥ ३६८ ॥ श्रीवासे परमान्ने च पायसः पुंसि संमतः । ब्रह्मासुर्विश्वकेतुः स्यात् -------- ॥ ३६९ ॥ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसकः । -------- रजः स्यादार्तवे गुणे ॥ ३७० ॥ रजः परागे रेणौ च रजवत् परिकीर्तितम् । ;p{0155} रहो निधुवनेऽपि स्याद्रहो गुह्ये नपुंसकम् ॥ ३७१ ॥ तृष्णातिरेके याच्ञायामौत्सुक्ये लालसा द्वयोः । वरासिः स्यात्खड्गवरे वरासिः स्थूलशाटके ॥ ३७२ ॥ वर्चांसि रूपविड्भासः -------- । हेमन्ते मार्गशीर्षे च सहः क्लीबं बलेऽपि च ॥ ३७३ ॥ ;v{सद्विकम्} स्तबके हारभेदे च गुत्सः स्तम्बेऽपि कीर्तितः । ;p{0156} इक्षुपक्षिभिदोश्चाषः -------- ॥ ३७४ ॥ कैवर्तभृत्ययोर्दासो दासी बाणा च चेटिका । भासो ना भासि गृध्रे च गोष्ठ्यकुक्कुटकेऽपि च ॥ ३७५ ॥ स्यान्मांस्यां शतपुष्पायां मधुरायां मिसिः स्त्रियाम् । देहधातुप्रभेदे च पारदस्वादयो रसः ॥ ३७६ ॥ गन्धरसे स्त्रियां जिह्वासल्लकीकङ्गुभूमिषु । ;p{0157} देवभेदाग्निभायोक्त्रबकराजसु ना वसु ॥ ३७७ ॥ क्लीबे वृद्धौषधश्यामरैरत्ने मधुरे त्रिषु । वासुर्मनुजगोविन्दशम्भुवीचिप्रभादिके ॥ ३७८ ॥ ;k{हान्ताः} ;v{हचतुष्कम्} गन्धवाहो गन्धवहः पवने नासिका स्त्रियाम् । परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः ॥ ३७९ ॥ प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । ;v{हत्रिकम्} आरोहणेऽपि चाऽरोहो दीर्घत्वे च समुच्चये ॥ ३८० ॥ ;p{0158} निर्यूहश्शेखरे द्वारे निर्यासे नागदन्तके । ;v{हद्विकम्} -------- सर्पे वृत्रासुरेप्यहिः ॥ ३८१ ॥ वाहा भुजे पुमानश्वे माने वृषकुरङ्गयोः । व्यूहो ना बलविन्यासे निर्माणे वृन्दतर्कयोः ॥ ३८२ ॥ दण्डोत्पलामुद्गपर्णीकुमारीनखभेषजे । ;k{अव्ययानि} ;c{अथाव्ययानि} आः स्मरणेऽपकरणे कोपसंतापयोरपि ॥ ३८३ ॥ ;p{0159} ;v{कैकम्} कु पापे चेषदर्थे च कुत्सायां च निवारणे । ;v{तद्विकम्} उतापी द्वौ बाढार्थौ -------- ॥ ३८४ ॥ ;v{नद्विकम्} ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे । आमन्त्रणे च ---- -------- ॥ ३८५ ॥ ;v{मत्रिकम्} जोषं सुखे प्रशंसायां तुष्णींलङ्घनयोरपि । ;v{मद्विकम्} -------- सामि निन्दार्धयोर्मतम् ॥ ३८६ ॥ ;v{लद्विकम्} संभाव्ये किल वार्तायाम् -------- । ;k{स्त्रीपुंसप्रकरणम्} मठ-पीठ-तुवर-पुलक-ग्रामणि च पुंनपुंसकयोः ॥ ३८७ ॥ ;p{0160} तिथि-मणि-घृणि-केली-शाल्मलि-स्वाति-वस्तीर्- अशनि-मुनि-गभस्ति-राशि-योन्य्-ऊर्मि-पार्ष्णिः । अरणि-मणि-मरीची-श्रेण्य्-अणी-मुष्टि-यष्टी कुटिम्-इषुधि-मरीचिं? पाटलिं पुंसि चाहुः ॥ ३८८ ॥ गण्डूष-गर्ज-भुज-जागर-हार-कील- ज्वाला-जटा-रभस-वर्तक-गर्ध-शृङ्गाः । व्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठ-बाण-करकाश्च समाऽऽमयाश्च ॥ ३८९ ॥ ;p{0161} ;k{भरत-रभस} हित्वा लज्जभये धृष्टा मदनेन मदेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥ ३९० ॥ अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत् तेजस् समुदाहृतम् ॥ ३९१ ॥ आशीर्वचनमप्युक्ता स्तुतिर्यस्मात्प्रवर्तते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता ॥ ३९२ ॥ भिन्दिर्द्वादश तालं तु दशकुन्तोऽभिधीयते । शृङ्गारवीरौ बीभत्सरौद्रहास्यभयानकाः ॥ ३९३ ॥ ;p{0162} करुणाद्भुतशान्ताश्च ---ञ्च? रसा देश । भारती सात्वती चैव कैशिक्यारभटी तथा ॥ ३९४ ॥ चतस्रो वृत्तयश्चैता यासु नाट्यं प्रतिष्ठितम् । वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ ३९५ ॥ प्रत्यालीढमथालीढं स्थानान्येतानि षड् नृणाम् । ;k{अस्फुटपङ्क्तयः} ;c{Undecipherable lines} ईमूतः कन्दुके रम्ये कंसे पशुपिचण्डयोः ॥ ३९६ ॥ कपित्थः पिप्पलः सिन्धुः कुम्भजः कुम्भिलः कुणिः । गोणं निद्राशक्तिदैन्यमौर्ख्यादिषु समीरितः ॥ ३९७ ॥ धन्याको नाम्निके च - -------- । -------- धौरितं कमनीयपि ॥ ३९८ ॥ पारिरात्रौ सर्वतश्च क्रतुमात्रवीवारयोः । पुण्डश्शरावे गोशीर्षे गजवारिदशम्भुषु ॥ ३९९ ॥ कोविरुद्धे संन्नाहे भीषणे हिंसने तत्परे । पो(पी?)तकी तु मदघ्नी स्याल्लता वञ्चुपादिका ॥ ४०० ॥ बिदं करीरे गोपादे वज्रे वह्नौ शिवादिके । यागे प्रभावे श्रीकण्ठे तपोविघ्ने तळिधरे ॥ ४०१ ॥ मत्स्याण्डी पुष्पलतागर्भा वर्त्तुलं फाणितम् । वारुतो महिषे पुण्ये जले कोकिलेखिले ॥ ४०२ ॥ विषु माश्चे तथाधिक्ये -------- । शुक्लापाङ्गश्चन्द्रकी स्यात् प्रचलो लोकिचे कलौ ॥ ४०३ ॥ हेमन्तं प्रसरोदिराप्र; शेषस्तु शिशिरोऽस्त्रियाम् ।