;METADATA ;title{शब्दभेदप्रकाश} ;author{महेश्वर} ;bookFullName{श्रीमहेश्वरकविविरचितः श्रीज्ञानविमलोपाध्यायप्रणीतटीकयोपेतः शब्दभेदप्रकाशापरप्रसिद्धनामा शब्दप्रभेदः} ;bookSeriesDetails{} ;editor{विजयश्रीचन्द्रसूरीश्वर, विनयसागर} ;editorQualifications{प. पू. आचार्यश्रीविजयश्रीचन्द्रसूरीश्वरमहाराजः साहित्यवाचस्पति-महोपाध्याय श्रीविनयसागरश्च} ;pressDetails{भरत ग्राफिक्स, ७, न्यु मार्केट, पांजरापोळ, रिलीफ रोड, अमदावाद-३८०००१} ;publicationYear{2010 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{VJYP} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{special} ;pagenum{false} ;linenum{false} ;chapterArrangements{kanda (named निर्देश) holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{07 January 2020} ;version0.0.2{10 January 2020} ;version0.0.3{10 January 2020} ;version0.0.4{10 January 2020} ;version0.1.0{10 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;k{शब्दभेदनिर्देशः} प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्यापि सतां कवीनाम् । कृतो मया रूपमवाप्य शब्दभेदप्रकाशोऽखिलवाङ्मयाब्धेः ॥ १ ॥ प्रायो भवेद्यः प्रचुरः प्रयोगः प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात् तमेव ॥ २ ॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखाच्छब्दानां रूढितः क्वचित् ॥ ३ ॥ जागर्ति यस्यैष मनःसरोजे स एव शब्दार्थविवर्तनेशः । निजप्रयोगार्पितकामचारः परप्रयोगप्रसरार्गलश्च ॥ ४ ॥ विद्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥ ५ ॥ भवेदमर्ष आमर्षोऽप्यङ्कुरोऽङ्कूर एव च । अन्तरीक्षमन्तरिक्षमगत्स्योऽगस्तिरेव च ॥ ६ ॥ अटरूष आटरुष अवश्योऽवश्याय इत्यपि । प्रतिश्यायः प्रतिश्यावो भल्लूको भल्लुकोऽपि च ॥ ७ ॥ जम्बूकं जम्बुकं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकाऽपि मसुरः स्याद् मसूरवत् ॥ ८ ॥ वास्तुकं चापि वास्तूकं दैवकी देवकीति च । ज्योतिषं ज्यौतिषं चापि ष्ठेवनं ष्ठीवनं तथा ॥ ९ ॥ सुत्रामाऽपि च सूत्रामा हनूमान् हनुमानपि । ओषणं स्यादूषणं च भवेदुषरमूषरम् ॥ १० ॥ हारीतो हारितोऽपि स्याद् मुनिपक्षिविशेषयोः । तुबरस्तूबरोऽपि स्यात् कुबरः कूबरोऽपि च ॥ ११ ॥ उत्तमेऽनुत्तमं च स्यादाहते स्यादनाहतम् । उदारे चानुदारः स्यादुदग्रे चानुदग्रवत् ॥ १२ ॥ बन्धूरं बन्धुरं च स्यादूरीकृतमुरीकृतम् । वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥ १३ ॥ उषाऽप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता । ह्रीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥ १४ ॥ चण्डालोऽपि च चाण्डालः वदन्योऽपि वदान्यवत् । हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥ १५ ॥ डाहालं डाहलं चापि डहालं च प्रचक्षते । कुङ्कणः कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥ १६ ॥ सहाचरः सहचरः स्फटिकं स्फाटिकं यथा । गन्धर्वोऽपि च गान्धर्वः चमरं चामरं तथा ॥ १७ ॥ चोरश्चौरश्चटुश्चाटुश्चेलश्चैलं चमुश्चमूः । चञ्चुश्चञ्चूस्तलस्तालः श्यामलः श्यमलोऽपि च ॥ १८ ॥ महिलायां महेलाऽपि महेला स्यान्महेलिका । छेकश्छयिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥ १९ ॥ गुग्गुलौ गुग्गुलोऽपि च हिङ्गुलौ चापि हिङ्गुलम् । मन्दिरे मन्दिरा चापि वीर्ये वीर्यापि कथ्यते ॥ २० ॥ धन्याकमपि धान्याकं युतकं यौतकं तथा । कपाटं च कवाटं च कपिलं कविलं मतम् ॥ २१ ॥ करवालः करपालः वनीपकवनीयकौ । पारापतः पारावतः जवा स्याज्जपया सह ॥ २२ ॥ जटायुषा जटायुं च विद्यादायुं तथाऽऽयुषा । सायं सायो भवेत् कोशः कोषः शण्ढश्च षण्ढवत् ॥ २३ ॥ तविशं तविषं चापि मुसलो मुषलोऽपि च । वेशो वेषश्च कथितः स्याद् बुसोऽपि बुषोऽपि च ॥ २४ ॥ स्यात्तनुस्तनुषा सार्धं धनुना च धनुर्विदुः । शूकरो सूकरोऽपि स्यात् शृगालश्च सृगालवत् ॥ २५ ॥ सूरः शूरश्च तरणौ कलसः कलशोऽपि च । शुनासीरः सुनासीरः नारायणनरायणौ ॥ २६ ॥ जाम्बुवान् जाम्बवोऽपि स्याल्लक्ष्मणो लक्षणोऽपि च । संस्तरः स्रस्तरोऽपि स्याच्चरित्रं चरितं यथा ॥ २७ ॥ पारतं पारदं वास्रो वासरः कृमिवत् क्रिमिः । तृफला त्रिफला चापि तृणता त्रिणताऽपि च ॥ २८ ॥ भवेदृष्टिस्तथा रिष्टिः प्रियालः स्यात्पियालवत् । कणाटीनः कटाटीनः वातिको वातिगोऽपि च ॥ २९ ॥ मिहिरो मुहिरोऽपि स्यान्मकुरो मुकुरोऽपि च । मकुलं मुकुलं चापि मकुटं मुकुटं विदुः ॥ ३० ॥ मकुतिकं मुकुतिकं चलुकं चुलुकं यथा । करञ्जः करजोऽपि स्यात्परेतः प्रेतवन्मतः ॥ ३१ ॥ किर्मीरोऽपि च कर्मीरः डयनं हयनं स्मृतम् । शौडीर्यमपि शौडीरं ज्येष्ठे ज्यैष्ठोऽपि दृश्यते ॥ ३२ ॥ शुष्केऽप्यवानं वानं स्यादुदके स्याद् दगं दकम् । कुष्ठभेदे शतरुषा शतारुश्च निगद्यते ॥ ३३ ॥ द्रेकदृक्काणद्रेक्काणा भवन्त्यपि दृकाणवत् । पत्रङ्गमपि पत्राङ्गे कुद्दालश्च कुदालवत् ॥ ३४ ॥ मारिषं मारुषः शाके प्लीहरोगे प्लिहोऽपि च । फेला फेलिस्तथोच्छिष्टे काकण्यां काकिणीति च ॥ ३५ ॥ सौदामनी सौदाम्नी च सौदामिन्यपि चेष्यते । जरठे जठरोऽपि स्यान्निमेषे निमिषोऽपि च ॥ ३६ ॥ बुको बकश्च कुसुमे मदनो मथनो द्रुमे । आरग्वधाऽऽरगवधौ क्षुरुकक्षुरकावपि ॥ ३७ ॥ पृष्टिः पृष्ठश्च सरयूः सरयुश्च निगद्यते । नीलङ्गुरपि नीलाङ्गुरीश्वरी चेश्वरापि च ॥ ३८ ॥ तापिञ्छमपि तापिच्छं त्रपुषं त्रापुषं तथा । दिण्डीरोऽपि च डिण्डीरः परशुः पर्शुना सह ॥ ३९ ॥ वालिका वालुका चापि दोर्दोषापि भुजा भुजः । बाहुर्बाहा त्विषिस्त्विट् च सन्ध्या स्यात् सन्धिवत् पुनः ॥ ४० ॥ भग्नीमपि भगिनीं च झल्लरीं झलरीं विदुः । रेतं च रेतसा सार्धमेधमाहुस्तथैधसा ॥ ४१ ॥ संवननं संवदनं तरुणी तलुनीति च । प्रमदावनं प्रमदवनं च परिकीर्तितम् ॥ ४२ ॥ खुरलिका स्यात् खुरली वज्रं वज्रोऽशनिस्तथा । शिलमुञ्छं शिलोञ्छं च भवेदुञ्छशिलं तथा ॥ ४३ ॥ धरित्र्यां धरयित्री च तविषी ताविषीति च । वासुदेवोऽपि वासुः स्याद्वामदेवोऽपि वामवत् ॥ ४४ ॥ आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरेः स्त्रियाम् । रुचकोरुवुकौ प्रोक्तावुरुवूकोऽपि तादृशः ॥ ४५ ॥ कुमुदं च कुमुच्चापि योषिता योषिदित्यपि । शरद्भवेच्छरदया प्रावृट् प्रावृषया सह ॥ ४६ ॥ नभं च नभसा साकं तपं तु तपसा समम् । सहं स सहसा सार्धं महं च महसा द्युतौ ॥ ४७ ॥ तमसेन तमः प्रोक्तं रजेनापि रजः समम् । शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥ ४८ ॥ दिवं प्रोक्तं दिवा तुल्यं पर्षत् पर्षदया सह । वर्षाः स्युः वरिषाभिश्च हर्षोऽपि हरिषेण च ॥ ४९ ॥ सर्षपः सरिषपश्च कर्षः स्यात्करिषेण च । मार्षो मारिष इत्युक्तः स्पर्शोऽपि स्परिशोऽपि च ॥ ५० ॥ एवमन्येऽपि बर्हादावूष्मवर्णाः प्रयोगतः । मूर्धरेफा विकल्प्यन्ते छन्दोभङ्गभयादिना ॥ ५१ ॥ दक्षिणस्यामपाच्येव प्रायं त्वनशनं विदुः । छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ॥ ५२ ॥ समूहार्थस्य जातस्य चवर्गादित्वमीरितम् । अन्तथीययकारत्वं यवसस्य तु कथ्यते ॥ ५३ ॥ तन्तुवायस्य वायेऽपि तन्त्रादित्वं च दृश्यते । तुर्यस्वरादिरीर्वारुः कर्कट्यां पठ्यते बुधैः ॥ ५४ ॥ ह्रस्वादिरर्तिः पीडायां धनुःकोटावपीष्यते । एतौ मध्यतवर्गीयौ वैदूर्यमणिशाद्वलौ ॥ ५५ ॥ तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः । चुल्ल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥ ५६ ॥ तालव्यमध्यो विशदः ऊर्ध्वशब्दो वकारवान् । यवानी स्याद्वमध्या च श्रावणो मासि मध्यवः ॥ ५७ ॥ शफे खुरं कवर्गीयखकारं च क्षुरप्रके । नापितस्योपकरणे कषसंयोग इष्यते ॥ ५८ ॥ अव्ययानव्ययं दोषाशब्दं रात्रौ प्रचक्षते । कन्याकुब्जं कान्यकुब्जं कोसलोत्तरकोसला ॥ ५९ ॥ वाराणसीत्यपि प्रोक्ता पुरी वराणसीति च । तामलिप्ता दामलिप्ता द्रङ्गोऽप्याद्राङ्ग इत्यपि ॥ ६० ॥ नन्दी नन्दिश्च पत्त्री च पत्त्रिः स्यास्वस्नसा स्नसा । यमलं यामलं द्वन्द्वं दन्द्वं खण्डिलखल्लिकौ ॥ ६१ ॥ जनित्री जनयित्री च कफोणिः कफणिस्तथा । वल्मीकोऽपि च वाल्मीकः वाली वालिश्च कथ्यते ॥ ६२ ॥ सुमेन सार्धं कुसुमं मरन्दो मकरन्दवत् । अहितुण्डिकमित्याहुः तथा स्यादाहितुण्डिकः ॥ ६३ ॥ विद्यादण्डीरमाण्डीरमणिः स्यादाणिवत्पुनः । आमण्डमण्डावेरण्डे प्रियकेऽप्यासनोऽसनः ॥ ६४ ॥ अपिशलिर्मुनेर्भेदे भवेदापिशलिस्तथा । चन्द्रभागा चन्द्रभागी खनौ खानिरपि स्मृता ॥ ६५ ॥ गोनासगोनसौ सर्पे फाल्गुनः फल्गुनोऽर्जुने । स्यात् तर्जन्या युतेऽङ्गुष्ठे प्रादेशोऽपि प्रदेशवत् ॥ ६६ ॥ गजे मतङ्गमातङ्गौ नागे कालीयकालियौ । रोहीतके रोहितकोऽप्यपष्ठूरेऽप्यपष्ठुरम् ॥ ६७ ॥ ईषीका स्यादिषीकाऽपि वानायुजवनायुजौ । गुवाकोऽपि च गूवाकः कुचकूचौ स्तनेभयोः ॥ ६८ ॥ कुकरे च कुणिः कूणिः नाकौ कुलककूलकौ । पोगण्डः स्यादपोगण्ड उलूतः स्यादलूतवत् ॥ ६९ ॥ काकाचिके काकचिको भवेदृस्य(श्य)स्तु रिश्यवत् । वातूलो वातुलोऽपि स्यात् कैकयी केकयीत्यपि ॥ ७० ॥ विरिञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरिञ्चनः । वरुटो वरुडोऽपि स्याद्विक्कपिक्कौ गजार्भके ॥ ७१ ॥ कर्करेटौ करेटुश्च कुर्कुरे कुक्कुरोऽपि च । अम्बरीषे चाऽऽम्बरीषं कुवले कुवलं कुवम् ॥ ७२ ॥ कुमारिलः कुमारिश्च मथि मन्थो मथोऽपि च । वज्रो वज्रा स्नुहीभार्ग्योः वरट्यां वरटाऽपि च ॥ ७३ ॥ कैटभा कैटभीश्वर्यां कन्दर्यां कन्दराऽपि च । भिदिर्भेदिश्च कुलिशे वातिर्वाते कुठे कुठिः ॥ ७४ ॥ करे करिः जटायां तु जटिः शिल्यां तु शिलाऽपि च । पुलिन्दे स्यात्पुलिन्द्रोऽपि निषादिश्च निषादिनि ॥ ७५ ॥ यतिश्च यतिनि प्रोक्तः सृक्कणी सृक्की सृक्क च । वहितं च वहित्रं च निचुले हिज्जलेज्जलौ ॥ ७६ ॥ विखुर्विख्रस्तथा विग्रो नासाया विगमादिति । अमतिश्चाऽऽमतिः काले रजन्यां च तमा तमी ॥ ७७ ॥ विश्वप्साश्चापि विश्वप्सा सिध्म सिध्मश्च कथ्यते । स्याद्बुक्का वृक्कया साकं धर्मे धर्म च कीर्तितम् ॥ ७८ ॥ ऊष्मया सार्धमूष्माऽपि मज्जोक्तो मज्जया सह । शेफशेपौ च शेवश्च शेफः प्रोक्तं च शेपसा ॥ ७९ ॥ प्रापुन्नाटमित्याहुः प्रपुनाटे प्रपुन्नटम् । अररश्चाऽररिश्चापि कवाटे स्यात् कुवाटवत् ॥ ८० ॥ भल्लो भल्लिश्च बाणे स्याद्दले पात्रं च पत्रवत् । ईर्ममीर्मा व्रणेऽपि स्यान्निर्झरे तु झरो झरा ॥ ८१ ॥ भवेदमात्येऽप्यामात्यः पीनसे स्यादपीनसः । अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥ ८२ ॥ यूषश्च यभनं यातु यकारद्वयवन्मतम् । परुणा च परुर्ग्रन्थौ काश्मरी कश्मरीति च ॥ ८३ ॥ मातुलुङ्गे मातुलिङ्गः कदल्यां कन्दलोऽपि च । परूषकफले प्रोक्तं परूषं परुषं तथा ॥ ८४ ॥ नारङ्गो नागरङ्गोऽपि स्याद्विसेऽपि विसण्डकम् । वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥ ८५ ॥ किसलं स्यात्किसलये गुच्छे गुञ्छो गुलुञ्छवत् । आम्रातके स्यादम्लातममिलातकमित्यपि ॥ ८६ ॥ जम्बीरोऽपि च जाम्बीरः जूर्णायां जूर्णिरित्यपि । तित्तिरौ तित्तिरोऽपि स्यात् पीलकः स्यात् पिपीलके ॥ ८७ ॥ गोदा गोदावरी नद्यां मधुरा मथुरा पुरि । कवियं कविकायां च स्याद्गवेधौ गवेधुका ॥ ८८ ॥ मञ्जूषायां च पिटकः पेटा पेटक इत्यपि । पादातौ च पदातिः स्यात् पादातश्च पदातिकः ॥ ८९ ॥ पादत्राणे तु पन्नद्ध्री भवेत्प्राणहिताऽपि च । जलावुका जलूकायां गैरिके [च] गवेरुकम् ॥ ९० ॥ नासिकायां च नक्रं स्याद्वक्रे वङ्कोऽप्युदाहृतः । सरणा च प्रसारण्यां मुष्के स्यात् फलकं फलम् ॥ ९१ ॥ भवेद् दाढापि दंष्ट्रायां शाल्मल्यां शल्मलीति च । वध्वां च वधूकापि स्यात् अञ्जन्यामञ्जनाऽपि च ॥ ९२ ॥ ह्रस्वान्ता स्यादलाबुश्च दीर्घान्ता च प्रतीयते । ऊर्णनाभ इदन्तश्च किकीदिविः किकीदिवे ॥ ९३ ॥ करेटौ करटुश्चापि दूत्यां दूतीरपि स्मृता । स्यान्निचोले निचुलकं स्यादसिक्न्यामसिक्निका ॥ ९४ ॥ जीवञ्जीवे जीवजीवः चालन्यामपि चालनम् । स्यूते स्यूनं तथा स्योनमभ्यूषेऽभ्योष इत्यपि ॥ ९५ ॥ करम्बो मिश्रिते बान्तो भान्तस्तु दधिसक्तुषु । आमीक्षा ह्रस्वमध्यापि मध्योकारं च यौतकम् ॥ ९६ ॥ धुवित्रं निरुकारं स्यादृषौ रिषिरित्यपि । इरिणं स्याच्च दीर्घादि कृषके कृषिकोऽपि च ॥ ९७ ॥ तालव्यदन्त्ययोरुक्ते सर्वला सर्वलीति च । तालव्यद्वयमध्योऽसावाशुशुक्षणिरिष्यते ॥ ९८ ॥ विष्णौ दाशार्ह इत्यस्य मध्यतालव्यता मता । तालव्यान्तश्च कोटीशः प्रासस्तालव्यदन्त्ययोः ॥ ९९ ॥ दन्त्योपान्तं तु कूर्पासमहानसमलीमसम् । काञ्जिकादौ तु कुल्माषो दन्त्योपान्त्योऽपि कीर्त्यते ॥ १०० ॥ आदिदन्त्यास्तु सुषवीसम्बाकृतसमूरवः । कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम् ॥ १०१ ॥ पारावारः पमध्योऽपि सोपानं दन्त्यसादि तु । विश्वस्ता स्याद्वमध्यैव न विशस्तेत्युदाहृता ॥ १०२ ॥ स्यात् कवर्गद्वितीयादिः क्षादिरपि च खुल्लकः । स्यात् पवर्गद्वितीयादिः फणायां तु फटापि च ॥ १०३ ॥ त्रयोदशस्वराद्यस्तु शोभाञ्जन उदाहृतः । तनूनपात् तकारान्तो न तवर्गतृतीयभाक् ॥ १०४ ॥ तवर्गपञ्चमोपान्तमङ्गनं केवलं पुनः । हाहाशब्दस्तु सान्तोऽपि कथितो दिव्यगायने ॥ १०५ ॥ चतुःशाले चवर्गीयमध्यं सञ्जवनं विदुः । पवर्गमध्यः सन्तश्च रेफः स्यादधमार्थकः ॥ १०६ ॥ अन्तःस्थमध्यं वैयात्यं वेम्नि वेमश्च वेम च । कमने कामनोऽपि स्याद्दीर्घादिः कूकुदः स्मृतः ॥ १०७ ॥ प्रभायामपि भाःशब्दः सान्तः पुंलिङ्ग एव च । एडमूकेऽनेडमूकः सूर्म्यां सूर्मिरपि स्मृता ॥ १०८ ॥ एडूकं ह्रस्वमध्यं ह्रस्वान्ता च पदव्यपि । शैवाले स्याच्च शेवालं शेवालं शैवलं तथा ॥ १०९ ॥ तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च । चित्रे च चित्रलोऽपि स्याच्चिन्तायां चिन्तियाऽपि च ॥ ११० ॥ छन्दसि स्यादनड्वाही भाषायामनडुह्यपि । मध्योकारोऽपि चिपिटः ह्रस्वादिश्चोरणोऽप्यवौ ॥ १११ ॥ उत्तमायां गवि प्राहुरिकारादिं च नैचिकीम् । साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥ ११२ ॥ चवर्गादिरपि प्रोक्तो यामिः स्वसृकुलस्त्रियोः । वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥ ११३ ॥ अप्सरःस्वप्सराः प्रोक्ता सुमनाः सुमनस्सु च । बर्बरी बर्बरा शाके वितुन्नं हल्चतुष्टयम् ॥ ११४ ॥ तन्द्री तन्द्रिश्च (तन्द्रीश्च) तन्द्रायां कुरङ्गे च कुरङ्गमः । पृथगच्छश्च भल्लश्च भाल्लूकेऽप्यच्छभल्लवत् ॥ ११५ ॥ जलायुके जलोकं च जलौकं च जलूकवत् । घूघके साम्बुकं क्वापि बुध्ने ब्रध्नश्च दृश्यते ॥ ११६ ॥ लङ्गूलमपि लाङ्गूलं भम्भरा भम्भराल्यपि । त्वचि त्वचः किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥ ११७ ॥ अजगवाऽजगावे च भवेदाजगवं तथा । पिनाकेऽजकावं चाथ सैंहिकेये तमस्तमाः ॥ ११८ ॥ चुलुकी चुलुपी च स्यादुलूपी शिशुमारके । अगाधेऽस्थागमस्थाघमस्ताघं च प्रयुज्यते ॥ ११९ ॥ स्यान्मध्योष्मचतुर्थत्वमंहसो रंहसस्तथा । चिह्ने ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥ १२० ॥ द्रविडः स्यान्ममध्योऽपि काफलं चापि कट्फले । व्रीडायां च भवेद् व्रीडः लज्जामात्रेऽप्यपत्रपा ॥ १२१ ॥ उण्डूकं ह्रस्वमध्यं च ह्रस्वादिः स्यादलिन्दकः । तथा कुरवके रेफो निरुकारः प्रयुज्यते ॥ १२२ ॥ मञ्जिष्ठायां च भण्डीरी मध्यह्रस्वापि पठ्यते । दीर्घादिर्वृश्चिकेऽपि स्यादाली स्यादालिरित्यपि ॥ १२३ ॥ बुक्को बुक्का स्मृतौ बुक्नि ग्रैवं ग्रैवेयकेऽपि च । खञ्जे खोडश्च खोरश्च स्यात्तरि तरिरित्यपि ॥ १२४ ॥ नासिकायां च नस्तापि मथि मन्थाक इत्यपि । कार्तस्वरं मध्यदन्त्यं सीहुण्डः स्यात् सिहुण्डवत् ॥ १२५ ॥ ओष्ठ्यो दन्त्यो लुलायोऽपि मारुतेऽपि हलन्तता । विद्यात् पुरुरवःशब्दे रुकारस्यापि दीर्घता ॥ १२६ ॥ स्यात् कुरण्डोऽपि दीर्घादिः सुरे ज्येष्ठोऽपि सम्मतः । नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥ १२७ ॥ काण्डे शरः शुभं क्षेमे शारः शबलवातयोः । किंशुकश्च शुकश्चापि स्मृतास्तालव्यदन्त्ययोः ॥ १२८ ॥ सूनाशुङ्गासुरुङ्गास्तु दन्त्यतालव्ययोरपि । कोटीशश्चाप्यदन्तस्तु ऋभुक्षः स्वर्गवज्रयोः ॥ १२९ ॥ किन्नराश्वमुखौ भिन्नाभिन्नौ दैत्यासुराविव । रिष्टारिष्टे अभिन्नार्थे भिन्नार्थे च क्वचिन्मते ॥ १३० ॥ वाग्ग्मी वाल्म्मीकमित्त्रोल्क्कासत्त्रछत्त्रपतत्त्रिणः । संस्स्कर्त्तेत्यादिसंयोगिशब्देश्वनुपयोगिषु ॥ १३१ ॥ इदं तुल्याक्षरद्वन्द्वं स्यान्न चेद् भेदकं क्वचित् । यमकादावपीत्येषा चिन्ताऽस्माभिरुपेक्षिता ॥ १३२ ॥ तथा ह्यपश्यदद्राक्षिदित्यत्राऽर्थे क्रियापदम् । अपःपयस्तनूकुर्वदित्यन्यत्र पदद्वयम् ॥ १३३ ॥ ;c{इति शब्दभेदनिर्देशः प्रथमः समाप्तः} ;k{ओष्ठ्यदन्त्यौष्ठ्यवकारभेदनिर्देशः} ;v{सामान्यौष्ठ्यदन्त्यौष्ठ्ययोर्निर्देशः} वृन्दारकव्रजवराटकवन्दिवन्दा- वन्दारुवैरबदरीविटपान् विटं च । विद्वद्व्रणौ वरणवृंहणबोधवेध- बन्धूरबन्धुबधिरान् वधबन्धवृद्धान् ॥ १ ॥ वेलाबलौ बहुलबाहुलकव्यलीक- बोलं बिलं बलजवालकवालुकाश्च । वेहद्बृहद्वहलवाहनवाहुबभ्रु- वस्तं बलिं वनबलाहकवङ्कवीथी ॥ २ ॥ वालेयवञ्जुलवराजबकान् बलाका- वाङ्गुलिकाबकुलबुक्कबकेरुकाश्च । वारूढवाढवरटानपि बार्बटीर- वारुण्डवण्डकवरण्डकबर्बटीश्च ॥ ३ ॥ वाहिनीं वनितां वेदीं वणिज्यां वारि बन्धुरम् । वरत्रां वर्धनीं वृन्तं वटकं वसुकं वटम् ॥ ४ ॥ वासनावासितावास्रवीरवासरवागुराः । व्राह्मणीं वाणिनीं वाणीं वानीरं वानरं वचाम् ॥ ५ ॥ विहगाख्यं विशब्दं चाप्यव्ययं चैव वेति च । वर्तरूकं वदान्यं च विद्याद्वाद्यं च वादितम् ॥ ६ ॥ ;c{षड्भिः कुलकम्} ;c{इति सामान्यौष्ठ्यदन्त्यौष्ठ्ययोर्निर्देशः} ;v{ओष्ठ्यदन्त्यौष्ठ्यवकारनिर्देशे मध्यपवर्गीयाः} अथ मध्यपवर्गीयाः कर्बरः कर्बुरोऽर्बरे । बर्बरी शर्बरीर्बारु शम्बराऽडम्बराऽम्बरम् ॥ ७ ॥ कम्बलं शम्बलं चाम्ब्लं शबरः शाद्बलोऽपि च । नड्बलाऽऽबेलजम्बालशैबालाद्याश्च कीर्तिताः ॥ ८ ॥ ;v{ओष्ठ्यदन्तौष्ठ्यवकारनिर्देशे पवर्गीयबकारनिर्देशः} कथ्यन्तेऽथ पवर्गीयबान्तशब्दाश्च केचन । गन्धर्बखर्बगर्बाऽऽह्बाजिह्वापूर्बश्च दुर्बया । रोलम्बः शतपर्बोर्बी दार्बी चार्बी च दर्बिवत् ॥ ९ ॥ ;c{षट्पदी} कदम्बकादम्बनितम्बचिम्बा- निम्बप्रलम्बाऽम्बुविडम्बडिम्बाः । करम्बहेरम्बकुटुम्बकुम्बा- स्तुम्बीकलम्बीशबलुम्बिचुम्बाः ॥ १० ॥ जम्बूः कम्बुरलाबूश्च शम्बः शुम्बाऽम्बया सह । शिम्बा लम्बा च ताडम्बगोडुम्बस्तम्बकम्बयः ॥ ११ ॥ ;v{ओष्ठ्यदन्त्यौष्ठ्यवकारनिर्देशे आदिदन्त्यौष्ठ्याः} विन्दुविद्रुमवरेण्यविक्रमा बिम्बवर्त्मविशदाश्च विद्यया । व्याघ्रवप्रवरवेरवर्करा वार्दरो वशिरवारवागराः ॥ १२ ॥ वामवामनविमानवेदना- वानविन्नवमनं विलेपनम् । वातवातिकवितानवर्त्तनी- वर्तिवेतनवासन्तवृत्तयः ॥ १३ ॥ वार्ताविच्छित्तिवृत्तान्तवितण्डाश्च वितुन्नकम् । विकटो वेकटो व्युष्टिर्विष्टिविष्टरवेष्टनम् ॥ १४ ॥ वल्लूरो वल्लरी वल्ली वेल्लितं वल्लभोऽपि च । विदेहो विग्रहो बर्हो बहिर्बर्हिर्विहायसः ॥ १५ ॥ वहित्रं विकचो वीचिर्वर्चो वञ्चकवाचिकम् । बन्धूकवीवधविधावेधाविधुवधूवृकाः ॥ १६ ॥ विवेको वर्णकं वेणीवीणाविपणिवेणवः । विषाणं वीरणं वाणो वपावापीवपुर्वयः ॥ १७ ॥ वैशाखो विशिखो वाहव्यूहवर्ष्मविषं वृषः । विषयं वर्षणं वीजं वाजो वृजिनवर्जने ॥ १८ ॥ व्यञ्जनं व्यजनं वज्रं वैजयन्ती विशारदः । व्यालवण्ठालवल्मीकवामिला वाल्हिको वली ॥ १९ ॥ वालो विचकिलो वङ्गविडङ्गवेगवर्गणम् । विवशो वासितं वेशवैश्यविस्रम्भवेशयः ॥ २० ॥ विश्वविश्वस्तविश्लेषवंशव्यसनवासयः । वायसो वाहसो वत्सो वीतंसो वसतिर्वसुः ॥ २१ ॥ विदारी विवरो वीरुदित्याद्यन्तस्थवादयः । ;v{ओष्ठ्यदन्तौष्ठ्यवकारनिर्देशे मध्यान्तस्थीयवकारनिर्देशः} अथापि मध्यदन्तौष्ठ्याः कथ्यन्ते केचनापरे ॥ २२ ॥ देवकीसेवकाऽऽवुत्तप्रावाराः प्रवरोऽपि च । तन्तुवायापवरकौ गोविन्दः श्रावणोल्बणम् ॥ २३ ॥ अध्वा धन्वा युवाऽर्वा च मघवाऽथर्वपर्वणी । ;v{ओष्ठ्यदन्तौष्ठ्यवकारनिर्देशे वान्तशब्दसङ्ग्रहः} दन्तौष्ठ्यवान्तशब्दानां सङ्ग्रहः क्रियतेऽधुना ॥ २४ ॥ राजीवजीवजवयावविभावहाव- माहावदावदवदैवदिवद्रवं च । निष्पावपौतवधवाभिषवाः शरावः संरावपारशवसैन्धवशारिवाश्च ॥ २५ ॥ आदीनवापह्नवमार्कवाणि धामार्गवो भार्गवपुङ्गवौ च । स्रुवाध्रुवाकैरवकैतवानि सवाडवान्याहवरौरवौ च ॥ २६ ॥ क्षवः प्लवः पेलवश्च पल्लवो वल्लवो लवः । शेवः शिवश्च सचिवो गाण्डीवस्ताण्डवोद्धवौ ॥ २७ ॥ केशवप्रसवक्लीबक्षीवाः शिविरविछिवि । अविः कविः पविर्ग्रीवा कारवी सुषवी गवी ॥ २८ ॥ अटवी कोटवी पृथ्वी लघ्वी लट्वा च खट्वया । स्वमश्वः सत्त्वसान्त्वोर्ध्वं तत्त्वं किण्वं च कण्ववत् ॥ २९ ॥ प्राध्वं पार्श्वं च पक्वोल्वद्वन्द्वविल्वं च नल्ववत् । अवेवैवाव्ययं चान्ये कथ्यन्ते च विचक्षणैः ॥ ३० ॥ वरपः क्वरपोऽवश्यं दन्तौष्ठ्यत्वमुदाहृतम् । उदस्वित् किंस्विदाहोस्वित् क्विबादिप्रत्ययेष्वपि ॥ ३१ ॥ दन्तौष्ठ्यो वो गुणे वृद्धावुपमार्थे वतिस्तथा । उपसर्गविशब्दोऽपि दन्तौष्ठ्यः समुदाहृतः ॥ ३२ ॥ उवावादिविधानाच्च सम्प्रसारणतोऽपि च । इत्येवमादयः शब्दा वभेदेऽत्र विनिश्चिताः ॥ ३३ ॥ ओष्ठ्यदन्त्यौष्ठ्ययोरत्र धात्वर्थादिविशेषतः । यदि स्यादनयोः क्वापि कादाचित्को व्यतिक्रमः ॥ ३४ ॥ ;c{इत्योष्ठ्यदन्तौष्ठ्यवकारनिर्देशो द्वितीयः समाप्तः ।} ;k{ऊष्मभेदनिर्देशः} ;v{ऊष्मनिर्देशे आदितालव्याः} अथ तालव्यमूर्धन्यदन्त्यानामपि लेशतः । शषसानां विशेषेण निर्देशः क्रियतेऽधुना ॥ १ ॥ श्यामाकशाकशुकशीकरशोकशूक- शालूकशङ्कुशकशङ्करशुक्रशक्राः । शौडीरशाटिशकटाः शिपिविष्टशिष्ट- शाखोटशाटकशटी शटितं शलाटुः ॥ २ ॥ शीतं च शातशितशातनशुम्बशम्ब- शम्बूकशम्बरशुनारशिवाः शिलिन्ध्रः । शेपः शुभं शरभशारभशुम्भशम्भु- श्वभ्राणि शुभ्रशरदौ शकुनिः शकुन्तिः ॥ ३ ॥ शालाशिलाशिवलशाद्वलशालुशेलु- शार्दूलशूलशबलाः शमलं शृगालः । शेफालिकाशिथिलशृङ्खलशिलशैल- शेवालशल्यशलशम्बलशैवलानि ॥ ४ ॥ शालालुशालशलिशाल्मलिशुक्लशल्क- शुल्कानि शिल्पशलभौ शललं शलाका । श्रोणिः शणश्रवणशोणितशोणशाणाः श्रेणीश्रुतश्रमणशून्यशरण्यशङ्काः ॥ ५ ॥ शोचिः शचीशुचिशयाः शरुशर्मशीर्ण- श्रीपर्णशोथशपथश्लथशण्डशण्ढाः । श्रयः श्रमः शमनशोधनशिक्यशाक्य- शाण्डिल्यशल्वलशमीशुनकाः श्रविष्ठाः ॥ ६ ॥ शाखाशिखाशिखरशेखरशङ्खशाप- शम्पाशिफाशफरशेफशफाः शिखण्डः । शृङ्गारशृङ्गशवशावशरारिशारि- शाराः शरावशवरश्वशिरःशिराश्च ॥ ७ ॥ शरीरशालारशला(रा)रुशेरु- शोभाञ्जनश्रावणशादशूद्राः । श्येनः शनैः श्लीपदशिग्रुशीधु- शुद्धान्तशान्ताः शितिशूर्पशौण्डाः ॥ ८ ॥ शण्ठः शुण्ठी शठः श्रेष्ठश्वित्रश्रोत्राणि शर्करा । शक्वरीशर्वरीशक्तिशुक्तिशुक्तानि शष्कुली ॥ ९ ॥ श्रान्तश्वेतशिविश्यावशत्रुश्वयथु शाकिनी । शिशुः श्लोकश्च शुल्वं च शालीनश्च शिलीमुखः ॥ १० ॥ श्लक्ष्णं श्लाघा च शीघ्रं च शक्यं श्रद्धा च शिञ्जया । श्योनाकः शूरणः श्राणा शिक्षा श्यामा च शेवधिः ॥ ११ ॥ ;c{इत्यादितालव्याः} ;v{ऊष्मनिर्देशे मध्यतालव्याः} उशीरकाश्मीरककिंशुकांशुकं किशोरकिंशारुकशेरुकौशिकम् । जलाशयाशोककृशानुकाश्यपा यशःपिशङ्गाश्मपिशाचरश्मयः ॥ १२ ॥ निशान्तवेशन्तविशालपेशलं बिलेशयाश्वत्थनिशीथविंशति । विशङ्कटानुशयाश्र(श)याश(श्र)याः सहोपस(श)ल्याशनवाशिताश्विनैः ॥ १३ ॥ निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च । उशना लशुनो वेश्म कश्मलं विश्वमश्ववत् ॥ १४ ॥ वश्यावश्यायविशिखविशाखत्रिशिखाशिषः । विशदः पाशकः पार्श्वं विश्रामश्चेश्वरोऽशनिः ॥ १५ ॥ ;c{इति मध्यतालव्याः} ;v{ऊष्मनिर्देशे अन्ततालव्याः} ईशः प्रकाशकुशकेशविकाशकाश- माकाशकीशकपिशानिशपाशपेशि । पिङ्गाशतादृशदृशः सदृशो विनाशः कीनाशकर्कशदिशो दशवेशदेशाः ॥ १६ ॥ क्रोशाशुलोमशपलाशनिवेशलेश- क्लेशप्रवेशपरिवेशवशं च दाशः । पर्शुः पशुः परशुरंशुरुपांशुपांशु- निस्त्रिंशदंशविवशा मशवंशतंशाः ॥ १७ ॥ बालिशः कुलिशो राशिर्वराशिर्वडिशो भृशम् । अपभ्रंशः पुरोडाशो विमर्शांशावनेकशः ॥ १८ ॥ दर्शः स्पर्शः स्पशो मर्शः कर्शो वाशा निशा कशा । आशादर्शोर्वशीकाशीतिनिशेशाप्रतिष्कशाः ॥ १९ ॥ ;c{इत्यन्ततालव्याः} ;v{ऊष्मनिर्देशे व्यवस्थातालव्याः} शौरिर्मुरारौ शिव एव शर्वः शूरः समर्थे झष एव शालः । शमः प्रशान्तौ शकलं च खण्डे शकृत् पुरीषेऽजगरे च शीरः ॥ २० ॥ मूर्धन्याज्येष्ठयोर्वेश्या करिण्यां च वशाऽश्रुणि । अश्रं वेदे च कर्णे च श्रुतिर्दाशश्च धीवरे ॥ २१ ॥ ;c{इति व्यवस्थातालव्याः} ;v{ऊष्मनिर्देशे उभयतालव्याः} शिंशपा शाश्वतं श्वश्रूः श्वशुरः शिशिरः शिशुः । शिश्नश्मश्रुश्मशानानि शशी शश्वत् कुशेशयम् ॥ २२ ॥ शूकशिम्बिश्च काशीशस्तथा शीतशिवोऽपि च । तालव्यशद्वययुताः कियन्तोऽमी प्रदर्शिताः ॥ २३ ॥ ;c{इत्युभयतालव्याः} ;v{ऊष्मनिर्देशे तालव्यदन्त्याः} तालव्या अपि दन्त्याश्च शम्बशम्बलशूकराः । रसनाऽपि च जिह्वायां शृगालः कलशोऽपि च ॥ २४ ॥ ;c{इति तालव्यदन्त्याः} ;v{ऊष्मनिर्देशे आदिमूर्धन्याः} षण्डालिकाषाण्डवभूषणोषणं पाषाणरोषाणविषाणभीषणम् । पाषण्डकूष्माण्डनिषेकमूषिकं गवेषितं निष्षमदुष्षमेषिकम् ॥ २५ ॥ ;c{इत्यादिमूर्धन्याः} ;v{ऊष्मनिर्देशे मध्यमूर्धन्याः} पुष्पाभिषेकौषधयोषिदीषद्- दृषत्तुराषाट्विषुवन्निषेधाः । दुःषेधभैषज्यकषायघोषणं हृषीकमीर्ष्या च विषादवर्षणे ॥ २६ ॥ ऐषमो वर्ष्मभीष्मोष्मनिषादाषाढगोष्पदम् । अभिषङ्गोऽनुषङ्गश्च दुष्खं वार्धुषिको द्विषन् ॥ २७ ॥ दूषीका चषकः प्रेष्यो भाष्यं च धिषणैषणे । पृषतः परिषत् पर्षत् तुषारोषरमर्षणम् ॥ २८ ॥ वास्तोष्पतिर्दिविषदो दुष्पीडं च बहिष्कृतम् । निष्कुटः किष्कुमस्तिष्कपुष्करं दुष्करेषिरौ ॥ २९ ॥ तुरुष्कमुष्कविष्कम्भनिष्कनिष्कलपुष्कलम् । वस्तिष्कं वष्कयिण्या च लोष्टेष्टप्लुष्टविष्टरम् ॥ ३० ॥ ;c{इति मध्यमूर्धन्याः} ;v{ऊष्मनिर्देशेऽन्तमूर्धन्याः} पेयूषयूषपीयूषगण्डूषजूषविप्रुषः । वातरूषो वरूषश्च खलूषाऽरूषपूरुषाः ॥ ३१ ॥ हनूषः कल्मषः पूषोऽभ्यूषश्चूषो मनीषया । हेषा ह्रेषा जिगीषा च स्नुषाऽतिविषया सह ॥ ३२ ॥ रौहिषो महिषोन्मेषप्रमोषामिषमारिषम् । कल्माषोष्णीषकुल्माषमाषमेषमिषं मृषा ॥ ३३ ॥ किल्बिषं कलुषं चोषस्ताविषस्तविषो विषम् । तविषी त्रपुषी रोषस्तृषातोषतुषत्विषः ॥ ३४ ॥ अभिलाषो भषोऽभ्रेषपरुषाव्यथिषेषवः । मञ्जूषा निकषाद्वेषदोषाः कोषः कषः कृषिः ॥ ३५ ॥ उषाऽपुषवृषव्योषवेषास्तर्षझषर्षयः । हर्षो वर्षश्च संहर्षः कर्षः कर्षूः प्रुषः प्लुषः ॥ ३६ ॥ अम्बरीषं करीषं च तरीषं च पुरीषवत् । निष्पेषोऽलम्बुषः पौषो घोषश्चेषः पलङ्कषः ॥ ३७ ॥ ;c{इत्यन्तमूर्धन्याः} ;v{ऊष्मनिर्देशे तालव्यमूर्धन्याः} शीर्षं शिरीषं शुषिरं श्लेषः श्लेष्मा च शेमुषी । शेषश्च शोषणं शिष्यः शष्पशैलुषशौष्कलाः ॥ ३८ ॥ ;c{इति तालव्यमूर्धन्याः} ;v{ऊष्मनिर्देशे दन्त्यमूर्धन्याः} तालव्यशादयः प्रोक्ताः कथ्यन्ते दन्त्यसादयः । सुषूतिः सुषमा सर्पिष्कल्पं चापि सुषुप्तकः ॥ ३९ ॥ सुषीमश्च सुषेणश्च सुषवी सर्षपोऽपि च । ;c{इति दन्त्यमूर्धन्याः} ;v{ऊष्मनिर्देशे तालव्यान्तमूर्धन्याः} तालव्यान्ताश्च धूष्पाशगीष्पाशवृषदंशकाः ॥ ४० ॥ ;c{इति तालव्यान्तमूर्धन्याः} ;v{ऊष्मनिर्देशे आद्यदन्त्याः} सद्यः सुधासलिलसुन्दरसिन्दुवार- सिन्दूरसान्द्रसिकतासितसेतुसूताः । सालूरसूरसरकस्वरसौरिसूरि- स्मेरस्मराः समरसारसमीरसीराः ॥ ४१ ॥ सौवीरसागरसरित्सुतसारमेयाः संवित्समित्सकलसल्हकसौविदल्लाः । स्वादः सदासपदिसूदसदःसरण्डाः स्वेदः स्वरुः सवनसीवनसत्रसूत्रम् ॥ ४२ ॥ स्वामी समः समयसामजसामिधेनी- सोमाः समूहसमवायसमुद्रसामि । सीमन्तसीमसिमसूमसमानसुह्माः सूक्ष्मं समूढसरटस्तनसानुसूनु ॥ ४३ ॥ स्फालः सृणिः सरणिसारथिसिक्थसक्थि- सार्थाः सहाचरसमाजसमीपसूर्याः । स्वैरं सरः सचिवसूचनसुचिसाचि- सव्यानि सद्मसदनस्यदसूपसूर्पाः ॥ ४४ ॥ सायः स्मितं सायकसक्तुसेना- सिन्धुस्फरस्रुक्सहदेवसर्गाः । सेकस्रजौ सेवकसेवसन्तः सत्त्वं च सातिश्च सखा सुखं च ॥ ४५ ॥ सनातनस्यन्दनसाधनानि सङ्कारसैरेयकसज्जसर्पिः । ससावरौ सूनृतसङ्कुलौ च सर्वं च साक्षी सविता च सृक्कि ॥ ४६ ॥ सैरन्ध्री च सिनीवाली सारङ्गस्वप्नसाम्प्रतम् । स्नायुः स्नेहः स्नुही सह्मः सरघा सौरभं सभा ॥ ४७ ॥ ;c{इत्याद्यदन्त्याः} ;v{ऊष्मनिर्देशे मध्यदन्त्याः} वासारासारकासारकेसरप्रसरासुराः । वेसवारः परिसरो मसूरः कुसुमासनम् ॥ ४८ ॥ प्रासादापसदासन्दीव्यासङ्गास्रवदस्यवः । प्रसूनं प्रसवो लास्यमास्यं प्रसभरासभौ ॥ ४९ ॥ अवसायः किसलयं कुसूलं च विकस्वरम् । मसृणं प्रासनी वासी भस्माकस्मिकघस्मराः ॥ ५० ॥ अमावस्या प्रतिसरः प्रसारोऽवसरोऽपि च । वसन्तश्च मसारश्च मासुरी च रसाञ्जनम् ॥ ५१ ॥ वसुधाध्यवसायास्रवसनव्यसनानि च । तमिस्रं वास्रघस्रोस्राजस्रविस्रम्भवासिताः ॥ ५२ ॥ ;c{इति मध्यदन्त्याः} ;v{ऊष्मनिर्देशे अन्तदन्त्याः} कैलासलालसकिलासविलासलास- कर्पासहासकृकलासनिवासनासाः । न्यासांसमांसमसिकीकसकंसहंस- ध्वंसभ्रकुंसपनसासुवसुप्रयासाः ॥ ५३ ॥ निर्यासप्रासवीतंसोत्तंसालसमलीमसा । वासा विसं तामरसं वासश्चमसचिक्कसौ ॥ ५४ ॥ व्यासावभासदिवससारसौरसवायसाः । वाहसः पट्टिसेष्वासमासासिमिसिबुक्कसाः ॥ ५५ ॥ ;c{इत्यन्त्यदन्त्याः} ;v{ऊष्मनिर्देशे संयुक्तदन्त्याः} मृत्स्ना चिकित्साप्सरसो बुभुत्सु- र्विधित्सितं मत्सरवत्सरं च । वात्स्यायनोत्सारणमत्स्यदित्सु- गुत्सोत्सवोत्साहविधित्सुकुत्साः ॥ ५६ ॥ कृत्स्नं च लिप्सुरुत्सृष्टमुत्सनिर्भर्त्सनोत्सवः । बीभत्सता वीप्सिताभीर्त्सुसमुत्सेकोत्सुका अपि ॥ ५७ ॥ ;c{इति संयुक्तदन्त्याः} ;v{ऊष्मनिर्देशे उभयदन्त्याः} संसारसारससरीसृपसस्यसास्ना- सारस्वतानि सरसी च समञ्जसं च । स्वस्रा च साहससहस्रसहःसमास- सामस्त्यसंसरणसीसकस्रंसकानि ॥ ५८ ॥ सस्यकः साध्वसं सङ्कसुकः सारसनं तथा । अमी दन्त्यद्वयोपेता ऊष्मभेदेऽत्र दर्शिता ॥ ५९ ॥ ;c{इत्यूष्मभेदः} ;k{लिङ्गभेदनिर्देशः} ;c{अथ लिङ्गभेदः} ;v{लिङ्गभेदनिर्देशे पुंनपुंसकलिङ्गसङ्ग्रहः} आकाशकाशकुलिशाङ्कुशकोशकेश- कासीसकीकसकुशाः कणिशोपवासौ । कर्पासवेशवडिशांसवतंसतंस- वीतंसकंसरसमांसविशो(विसो)पदंशाः ॥ १ ॥ निर्यासरासचमसेच्छुसचिक्कसानि सन्तानशङ्खसुखसैन्धवसङ्गमानि । सौधश्मशानशयनाशनशूकशल्य- शूलानि शुल्कशफशेफसिमीकशम्बाः ॥ २ ॥ स्नानः सिनः किसलयं शकटो वसन्त- वेशन्तशेषशकलाः सरकश्च पुच्छः । पुष्पं सटं सरटशूर्पसृपाटशङ्कु- सङ्कारसङ्क्रमशरावशबाश्च सालः ॥ ३ ॥ आसारवासरसमीरशरीरसीराः सोशीरशेखरशराः शिखरस्तुषारः । संसारसारससिराणि शरासनास्र- कासारकेसरकुकुन्दरकन्दराणि ॥ ४ ॥ कोटीरकोटरकडङ्गरसङ्गराणि क्षीराक्षराधरयुगन्धरकन्धराणि । वीरान्धकारसविहारसुनारवार- केनारकूबरनिषद्वरगह्वराणि ॥ ५ ॥ केदारदारुदरतोमरचामराणि हिञ्जीरजीरवरपञ्जरपिञ्जराणि । मञ्जीरमञ्जरकुठिञ्जरपारवारि- प्रावारवेरगरवागरनागराणि ॥ ६ ॥ सौवीरशाक्वरमदारपदारपौर- पातीरवार्दरदुरोदरशम्बराणि । आडम्बराम्बरसनूपुरकर्णपूर- कर्पूरपार्परसकूर्परकर्पराणि ॥ ७ ॥ धाराङ्कुरप्रतिसरावसरप्रकार- सीत्कारसीकरनिकारमसारसाराः । कान्तारतारतिमिरान्तरतुरतीर- पङ्कारकारसमराजिरवेसवाराः ॥ ८ ॥ अङ्गारमन्थरपरम्परविष्टराणि सिन्दूरपुष्करमरुष्करनिष्कमुष्काः । शृङ्गारहारजठरोदरगण्डशैल- कीलालकीलकवलानि कलापकोलम् ॥ ९ ॥ शीलप्रवालवलयोपलमूलकानि कङ्कालमङ्गलहलाहलचक्रवालम् । कोलाहलं हलकुतूहलकालकूट- किट्टालशालकललानि खलं खलीनम् ॥ १० ॥ तूलाङ्गुलोत्पलपलालतमालताल- शेवालगोलकलकुण्डलमण्डलानि । लाङ्गूललाङ्गलकपोलकपालवाल- जम्बालजालपटलालकजङ्गलानि ॥ ११ ॥ विदलं कन्दलं भालं कमलं नलिनं तलम् । वालकं तिलकं तैलं मलिनं पल्वलं पलम् (फलम्) ॥ १२ ॥ पुलकं फलकं फालं पुलिनं तलिमं नलम् । मलयं प्रलयं लोहं लोहितं मुसलं शलम् ॥ १३ ॥ चषालं शम्बलं शुक्लं किञ्जल्कं वल्कवल्कले । कुलकं कूलकं चोलं खोलकं चावचूलकम् ॥ १४ ॥ अर्धर्चकूर्चकवचानि निकुञ्जकुञ्ज- पुञ्जध्वजाब्जजलजाम्बुजतूर्यभूर्जाः । कन्दास्पदद्रवनिवातवितानवित्त- वीतोपवीतनवनीतसुवर्णचूर्णाः ॥ १५ ॥ भावापराह्णपलितव्रतवृन्तकुन्त- पिष्टाम्बुमेषवृषलानि समूषिकानि । उत्कोचकुक्कुटविटा विटपः कुटश्च वज्रं धनुश्चरकमेचकचक्रपिण्डाः ॥ १६ ॥ विडङ्गकालिङ्गमृदङ्गशृङ्ग- वराङ्गवाराङ्गनिदाघसङ्घम् । भालाङ्कवर्चस्कवलीकवक्त्र- छत्रं सहस्राव्ययमध्यमं च ॥ १७ ॥ मुहूर्तमुद्यानभगाब्धमान- सिंहाणकोद्योगपरागपूगाः । वातयनैरावतहस्तपुस्त- मुस्तात्यया मस्ताकमुस्तके च ॥ १८ ॥ कोष्ठः प्रकोष्ठः कमठः सकुष्ठः शिखण्डकोदण्डपिचण्डचण्डाः । कूष्माण्डकारण्डकरण्डकुण्डा वरण्डवारुण्डसरण्डशौण्डाः ॥ १९ ॥ भाण्डाण्डकाण्डानि तरण्डमुण्ड- गाण्डीवमण्डानि च गाण्डिवं च । प्रकाण्डदण्डावपि षण्डखण्डौ सताण्डवं मण्डपमञ्चकं च ॥ २० ॥ करककोरकपाटकनाटकं कटककण्टककन्दुकमोदकम् । मरकटङ्कविटङ्ककिरीटकं स्तबकपङ्ककरङ्ककरीरकम् ॥ २१ ॥ क्षुरकपक्षकहारकहीरकं प्रियकरोककटक्रकचच्छदम् । ककुददोहदवृन्दगुदार्बुदं कुमुदतोयदकुन्दकुसीदकम् ॥ २२ ॥ नलदपारदकुट्टिमदैवतं रजतदैवदिनावटकर्पटम् । कुणपदीपककञ्चुकचूचुकं क्रमुकरालकचेलककीलकम् ॥ २३ ॥ पिन्नाकपिण्याकतिरीटकूट- किरीटशृङ्गाटककङ्कटानि । अष्टापदं पातकपार्श्वमेढ्रा भ्राष्ट्रं च राष्ट्रं च नखो मुखं च ॥ २४ ॥ वल्मीकवर्णकनटार्गलबिम्बवप्र- कौपीनवस्ननिधनानि धनं निधानम् । द्युताम्बरीषचषकायुधगूथयूथ- प्रोथानि तीर्थहरिचन्दनचन्दनानि ॥ २५ ॥ प्रग्रीवगोमयकवाटपटाः पटोल- प्रान्तायुतप्रयुतभूतशताः शताह्वः । स्नेहो गृहं महिमहेमहिमाः सपुच्छ- तापिञ्छकच्छकपटाः पटहार्मधर्माः ॥ २६ ॥ स्तम्भः शुभं ककुभकौस्तुभजम्भयूप- कूपोपजापकुतपानि निपः प्रदीपः । द्वीपोलपौ लवणकङ्कणवाद्यमध्य- क्षेमोद्यमानि भुवनो(नौ)दनजीवनानि ॥ २७ ॥ सूत्रं सवस्त्रमखनेत्रपवित्रपत्र- पात्रीवशात्रवहरिद्रववर्ध्ररन्ध्राः । स्थानं कबन्धकुसुमप्लवलोमशुल्व- क्षौमावसानशतमानविमानगुल्माः ॥ २८ ॥ तडागं निगडं नीडं नडं क्ष्वेडितमुल्मुकम् । मासमाषकपद्मानि बर्हिर्गेहेन्धनानि ॥ २९ ॥ लशुनं लाञ्छनं ग्राममनीकं घासमानकम् । यावनं कवियं हावं पारावारार्धगैरिकम् ॥ ३० ॥ आमिषं मुषलं माषं यूषं वर्षं च दूषणम् । भूषणं निकषः कर्षः कषायो विषमौषधम् ॥ ३१ ॥ करीषकार्षापणवारवाण- वाणव्रणद्रोणरणाः पुराणः । भाणः किणः पक्वणकोणशाणाः सतोरणघ्राणपरीपणाश्च ॥ ३२ ॥ जीवातुकुस्तुम्बुरुवास्तुकम्बु- कशेरुशीधुर्मधुसिन्धुसानु । कमण्डलुर्जानुपलाण्डुहिङ्गु- स्थाणुस्तथाऽणुस्तितउः सजन्तु ॥ ३३ ॥ चरणं वारणं लोष्ठं प्रस्थं कुल्यं सपल्लवम् । पुंनपुंसकशब्दानां संज्ञेयं तु सुनिश्चिताम् ॥ ३४ ॥ ;c{इति पुंनपुंसकलिङ्गसङ्ग्रहः} ;v{लिङ्गभेदनिर्देशे व्यवस्थालिङ्गाः} कामः कुकूलबलगोलशुभास्तु सार- मित्रध्रुवाः कुशदुरोदरकुब्जशुक्राः । दिष्टाधरार्धमलकुण्डलपुण्डरीकाः ऋक्षाक्षसत्त्वपिठराग्रयुगालकानि ॥ ३५ ॥ नन्दनं वृजीनोद्वेगस्वजीवाद्याश्च रोहितम् । लिङ्गव्यवस्थासहिताः शब्दाः केचित् प्रदर्शिताः ॥ ३६ ॥ ;c{इति व्यवस्थालिङ्गाः} ;v{लिङ्गभेदनिर्देशे स्वतस्त्रिलिङ्गाः} भल्लातकं कुवलमामलकं मृणाल- पात्रप्रणालकलशाढकमण्डलानि । बाटः कवाटपुटदाडिमकन्दलानि विद्याद् बिभीतकहरीतकपौरुषाणि ॥ ३७ ॥ कपाटं शकटं पेटं कटाहं पिटकं कटम् । वटं तटं मठं ताटं खनदीवदुदाहृतम् ॥ ३८ ॥ वल्लूरकन्दरविषाणविडङ्गनाल- जृम्भा[ः] कुथप्रतिसरार्गलशृङ्खलाश्च । मुस्तस्फुलिङ्गनखराः सह मन्दिरेण संदर्शिताः कतिपया निपुणैः खमावत् ॥ ३९ ॥ ;c{इति स्वतस्त्रिलिङ्गाः} ;v{लिङ्गभेदनिर्देशे पुंस्त्रीलिङ्गाः} गण्डूषवर्तकवराटकहारहीर- व्रीडाः सटः सकरको वरटः सशुङ्गः । उत्कण्ठगर्तभुजजागरगर्जराल- ज्वालादयः सरभसः कृसरः क्षमावत् ॥ ४० ॥ वतसो वृश्चिकः शारः शफरः सल्लको घटः । शाटकीटौ किटस्तूणः कथिताश्च नदीसमाः ॥ ४१ ॥ ;c{इति पुंस्त्रीलिङ्गाः} ;v{लिङ्गभेदनिर्देशे स्त्रीक्लीबलिङ्गाः} वडिशं तारकं तारं क्रोडं नीडं च पाटलम् । लक्षं वणिज्यं मसूरं रसनं विश्वमर्गलम् ॥ ४२ ॥ नपुंसकत्वेऽप्येतच्च मालावत् परिकीर्तितम् । षष्ठ्याः परा सुरा शाला सेनाच्छाया निशाऽपि च ॥ ४३ ॥ स्त्रीत्वेऽपि वनवच्चैते स्युर्नदीवदथोच्यते । आस्थानं नगरं स्थालं स्थलं च पटलं पुरम् ॥ ४४ ॥ ;c{इति स्त्रीक्लीबलिङ्गाः} ;c{इति लिङ्गभेदनिर्देशश्चतुर्थः} ;k{ग्रन्थकृत्प्रशस्तिः} श्रीसाहसाङ्कचरितप्रमुखासु गद्य- पद्यप्रबन्धरचनासु वितन्वतैव । व्युत्पत्तिमुज्ज्वलतमां परमां च शक्ति- मुल्लासिता जगति येन सरस्वतीयम् ॥ १ ॥ निःशेषवैदिकमताम्बुधिपारदृश्वा शब्दागमाम्बुरुहखण्डरविः कवीन्द्रः । यत्नाद् महेश्वरकविर्निरमात् प्रकाम- मालोक्यतां सुकृतिनस्तदसावनर्थः ॥ २ ॥ ;c{युग्मम्} नामपारायणोणादिनिरुक्तोक्तिविकल्पितैः । शब्दैर्वर्णविधेश्चान्तैः संदृब्धो ह्येष साधुभिः ॥ ३ ॥ कर्तुं चेतश्चमत्कारं सतां हर्तुं विपर्ययम् । संशयं च निराकर्तुमययमस्य परिश्रमः ॥ ४ ॥ छन्दोनुप्रासयमकश्लेषचित्रेषु निर्णयः । एष्वेवास्योपयोगश्च कवेर्जायत एव वा ॥ ५ ॥ ;c{इति शब्दभेदप्रकाशः समाप्तः}