;METADATA ;title{शब्दरत्नाकर} ;author{वाचनाचार्यश्रीसाधुसुन्दरगणि} ;bookFullName{वाचनाचार्यश्रीसाधुसुन्दरगणिविरचितः शब्दरत्नाकरः} ;bookSeriesDetails{शास्त्रसंदेशमाला} ;editor{पू. मु. श्री विनयरक्षितविजय म. सा.} ;editorQualifications{प.पू. आचार्य भगवंत श्रीमद् विजयरामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा. ना शिष्यरत्न पू्.मु. श्री विनयरक्षितविजयजी म.सा.} ;publisher{शास्त्रसंदेश, ३, मणिभद्र एपार्टमेण्ट, सुभाषचोक, आराधना भवन मार्ग, गोपीपुरा, सुरत-१} ;pressDetails{शिवकृपा ओफसेट प्रीण्टर्स, अमदावाद-४} ;publicationYear{2065 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SRSG} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri KailasaSagarsuri Gyanmandir for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{syno} ;pagenum{true} ;linenum{false} ;chapterArrangements{none} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{none} ;version0.0.1{} ;version0.0.2{31 March 2019} ;version0.0.3{12 June 2019} ;version0.0.4{12 June 2019} ;version0.1.0{12 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0175} ;c{वाचनाचार्यसाधुसुन्दरगणिविरचितः शब्दरत्नाकरः} ;k{प्रथमः काण्डः} ;preface{ ध्यात्वाऽर्हतो गुरून् प्राज्ञान् वाग्देवीमपि भक्तितः । शब्दरत्नाकरं कुर्वे शब्दभेदार्थसंग्रहम् ॥ १ ॥ अर्हद्देवनृतिर्यञ्चो नैरेयाः साङ्गकाः समाः । अव्ययाश्च क्रमोऽत्रायं लक्ष्यतां सुखलब्धये ॥ २ ॥ } भवेज्जिनेऽर्हन्नर्हन्तः सार्वः सर्वीय इत्यपि । तीर्थङ्करस्तीर्थकरः परमेष्ठी ठकारयुक् ॥ ३ ॥ वृषभर्षभौ नाभेये, शंभवे संभवोऽपि च । एकादशजिने श्रेयान्, श्रेयांसो, द्वादशार्हति ॥ ४ ॥ वसुपूज्य-वासुपूज्यावनन्तोऽनन्तजिद् मतः । विंशे जिने मुनिस्तद्वद् मुनिसुव्रतसुव्रतौ ॥ ५ ॥ ;p{0176} अरिष्टनेमौ नेमिश्च नेमी नन्तोऽपि कथ्यते । श्रीपार्श्वः पार्श्वनाथश्च, वामेये, चरमेऽर्हति ॥ ६ ॥ महावीरः स वीरश्च, तुर्यार्हन्तस्य वप्तरि । दन्त्यादिः संवरः, कुन्थुबप्पे शूरश्च सुरयुक् ॥ ७ ॥ मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता । तालव्यमध्या त्रिशला, पञ्चमार्हदुपासके ॥ ८ ॥ त्र्युकारस्तुम्बुरुश्चक्रैश्वर्यामप्रतिचक्रिका । अजिताऽजितबलायां, सुतारा तु सुतारका ॥ ९ ॥ निमीश्वरोऽर्हद्विशेषे द्वीकारोऽथ कृतार्घके । तुर्यहल्, शूरदेवस्तु दन्त्यतालव्यसादिमः ॥ १० ॥ संवरो दन्त्यसादिः स्यात्, भद्रकृद् भद्र उच्यते । मोक्षे श्रेयः शिवं तालव्यादी, निःश्रेयसं पुनः ॥ ११ ॥ मध्यतालव्ययुक्, साधौ साधन्तः साधयन्तकः । रिष्यृषी यति-यतिनौ श्रमण-श्रवणौ तथा ॥ १२ ॥ मुनिस्वे तप-तपसी अदन्त-सान्तके स्मृते । प्रायश्चित्तं प्रायश्चित्तिः पापसंशोधके तपे ॥ १३ ॥ शिष्यः शिक्षु-शैक्षो तालव्याद्याश्छात्रे च तद्भिदि । व्रातादाने परिव्रज्या प्रव्रज्याऽप्यभिधीयते ॥ १४ ॥ क्षपणे नग्न-नग्नाटौ श्रमणः श्रवणोऽपि च । क्षेमे मद्रं भद्र-भन्द्रे प्रशस्तं शस्तमित्यपि ॥ १५ ॥ भावुकं भविकं भव्यं शिवं च श्वोवसीयसम् । श्रेयः स्वःश्रेयसं तालव्यादयः कुशलं पुनः ॥ १६ ॥ मध्यतालव्यकं प्रोक्तं, सुभं तालव्य-दन्त्ययुक् । मङ्गल्यमपि माङ्गल्यं मङ्गलं च तथा स्मृतम् ॥ १७ ॥ ;p{0177} ;k{द्वितीयः काण्डः} स्वर्गे स्वस्त्रिदिवोऽस्त्री द्युर्दीदिविर्दिदिविर्दिविः । द्यो-दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिविष्टपे ॥ १ ॥ तात्तातो विषस्तविशं विहेलिम-विशेलिमौ । सुरे दिवोका दिवौकास्तौ विहङ्गेऽपि, दैवतः ॥ २ ॥ देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः । पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥ असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे । मार्तण्डि-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥ तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः । भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥ भासन्तो भासयन्तोऽगो नगवत् तरु-शैलयोः । भुजगेऽप्यंशुराशुश्च महिरो मिहिरस्तथा ॥ ६ ॥ मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा । मुहुरिः सृणि-सरणी अव्यवी स्योन-स्यूनकौ ॥ ७ ॥ प्रद्योतनो द्योतनश्च वृषाकपि-कपी अरुः । अरुषो रुषज-रूषौ दिवि-द्युभ्यां परो मणिः ॥ ८ ॥ सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः । कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥ ९ ॥ रोची रुक् शुचियुक् शोचिर्भा-भासौ भाः प्रभा विभा । त्विट्-त्विषी प्रश्नि-पृष्णी च घृष्णिरभीश्वभीषुकौ ॥ १० ॥ रोचिः शोचिरिसन्तौ द्वौ मयूखो ह्याद्यवर्ग्यखः । प्रकाशे द्योत उद्योतः, सान्तोऽदन्तो महो महः ॥ ११ ॥ ;p{0178} धाम नान्तमदन्तं च, ताविषं तविषं तथा । बलेऽप्यथो विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥ चन्द्र-चन्द्रौ चन्द्रमसाऽमा विकुस्र-विकस्रकौ । विकस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥ लाञ्छने लक्ष्मणं लक्ष्म, लक्षणं चन्दिरातपे । चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥ नक्षत्रे तारका तारा निरिकाराऽत्र तारका । अश्वयुज्याश्विकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५ ॥ बहुलाश्च मृगशीर्षे मृगमार्गौ मृगाच्छिरः । मृगशिराऽपि शीर्षस्तारकास्तस्य त्विल्वलाः ॥ १६ ॥ इन्वका मित्रदेवायामनुराधाऽनुराधिका । तृतीयवर्गद्वितीययुग् ज्येष्ठा मूल आश्रयः ॥ १७ ॥ तालव्यदन्त्ययोराप्यामषाढा ह्रस्वपूर्विका । श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् ॥ १८ ॥ तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् । द्रिक-द्रेक्काण-दृक्काणाः, बुधे चान्द्रमसायनिः ॥ १९ ॥ चान्द्रमसायनश्चापि गुरौ गीर्पति-गीःपती । गीःपति-गीष्पती रेफ-विसर्गगजकुम्भषाः ॥ २० ॥ चतुर्ष्वेषु च वाग् वाग्मी प्रख्या आख्याः प्रचक्षसा । सकारान्तास्त्रयोऽमी स्युः, शुक्रे काव्य-कवी भृगुः ॥ २१ ॥ भार्गवेऽप्यर्कपुत्रे तु शनैश्चर-शनी-शनैः । अव्ययं, सौरि-सौरौ द्वौ, दन्त्य-तालव्यपूर्वकौ ॥ २२ ॥ राहौ स्वर्भाणु-स्वर्भानू तमास्तमस्तमोऽपि च । द्वौ सन्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादकः ॥ २३ ॥ ;p{0179} औत्तानपादिः, कौम्भौ तु, मैत्रावरुणि-वारुणी । मैत्रावरुण आग्नेय अग्निमारुत इत्यपि ॥ २४ ॥ अगस्त्येऽगस्तिरेकोक्त्या शशि-भास्करयोः पुनः । पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे ॥ २५ ॥ उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि । कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥ दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्टादश स्मृताः । निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके ॥ २७ ॥ नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् । दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥ अह्न्यहे ङ्यन्त-टाबान्तावहः सन्तोऽथ वासरः । वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥ दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् । उषः प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥ ३० ॥ प्राह्णे पूर्वेद्युरेतौ च गोस-गोसर्गकौ समौ । मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥ दिनावसाने सायोऽस्त्री सायं स्याद् मान्तमव्ययम् । पितृप्रस्वां सन्धा सन्द्या सन्धिश्चापि विभावरौ ॥ ३२ ॥ विभावरी निशा निट् च निशीथश्च निशीथिनी । निशीथ्या वासुरा मध्यदन्त्य-तालव्ययुक्, तमिः ॥ ३३ ॥ तमी तमा तामसी च वसतिर्वासतेय्यपि । शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥ उसास्त्रयोऽमी सान्ता स्युरुषा दोषाऽप्यनव्यये । अव्यये च तथाऽऽदन्तौ, रजनी रजनिः स्मृताः ॥ ३५ ॥ ;p{0180} त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् । नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ॥ ३६ ॥ ज्योत्स्नायुक्तक्षपायां तु, ज्योत्स्नी ज्योत्स्नापि, दर्शनिट् । तमिस्रा दन्तसंयोगा द्युः पक्षी निड्द्वयावृतः ॥ ३७ ॥ ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः । सान्तं, तमिस्रा तमिस्रं सदन्त्यौ तिमिरं तथा ॥ ३८ ॥ सन्तमसा-ऽवतमसे अन्धातमसमन्धतः । तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥ तुल्याहर्निशि विषुशो विषुवद् विशुवं तथा । विषुवं बहुलः कृष्णपक्षे मध्य उकारवान् ॥ ४० ॥ पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी । अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥ ४१ ॥ चतुर्दशी विध्वदर्शे शिनीवाली सयुग्मभाक् । मासे माः स्याद् वर्षकोशो वर्षांशकयुतस्तथा ॥ ४२ ॥ मार्गशीर्षे मार्ग-सहौ सहाः सान्तोऽथ माघके । तपाः सान्तो ह्यस्त्रियां स्यात्, फल्गुनाले तु फाल्गुनः ॥ ४३ ॥ फल्गुनश्च फाल्गुनिको मधौ चैत्रः सचैत्रिकः । शुक्रे तु ज्येष्ठा-मूलयोर्ज्येष्ठ-ज्येष्ठौ त्रयोप्यऽमी ॥ ४४ ॥ त्रिकवर्गद्वितीयाप्तषसंयोगाः शुचौ पुनः । अषाढ आषाढोऽपि स्यात्, नभसि श्रावणः स्मृतः ॥ ४५ ॥ श्रावणिकोऽथ नभस्ये भाद्र-भाद्रपदौ समौ । प्रौष्ठपदस्त्रिकवर्गद्वितीयाप्तो ह्यथाश्विने ॥ ४६ ॥ अश्वयुज आश्वयुजो, बाहुले कार्तिकस्तथा । कार्तिकिकः प्रशलर्तौ हेमन्तो नान्तहेमयुक् ॥ ४७ ॥ ;p{0181} शैष-शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः । ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ ॥ ४८ ॥ प्रावृषि प्रावृषा वर्षा बहुत्वे वरिषास्तथा । घनात्यये तु शरदा शरच्चाब्दे तु वत्सरः ॥ ४९ ॥ उद्वत्सर-संवत्सर-परिवस्तर-वत्सराः । अनुसंवत्सरो विवत्सरो वस्तोऽपि वर्षवत् ॥ ५० ॥ वरिषः शारदोपेता शरत् संवदनव्ययम् । अव्ययं च, समा स्त्रीत्वे वा बहुत्वे च तद्भिदि ॥ ५१ ॥ इड्वत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ । संवर्तः परिवर्तश्च सांदृष्टिक-सांमृष्टिके ॥ ५२ ॥ तात्कालिकफले प्रोक्ते, आकाशे द्यौ-दिवौ द्यु च । क्लीबं सन्तं नभश्चापि नभसो नभसं तथा ॥ ५३ ॥ अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ । ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥ गडयित्नुर्गदयित्नुर्वारितो वाह-वाहनौ । पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥ काली वृष्ट्यां वर्षणं स्याद्वर्षं तद्विघ्नके त्ववात् । ग्रह-ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥ आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् । ककुभा ककुब् याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥ विदिक् प्रदिक् चापदिशं प्राक्-प्राचीने समे मते । अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥ ५८ ॥ उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि । इन्द्रे मघवा मघवान् मघवन् दल्मि-वल्मिकौ ॥ ५९ ॥ ;p{0182} नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः । बिडोजाः स्यात् बिडौजाश्च सन्तौ वृत्रश्च वृत्रहा ॥ ६० ॥ पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः । तालव्यद्वयवानाद्यतालव्यश्च तृतीयकः ॥ ६१ ॥ शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची । सचिर्वासवौ जयन्तः जयदत्तो जयस्तथा ॥ ६२ ॥ इन्द्रपुत्र्यां ताविषी स्याद् वात्यायां च तविष्यपि । इन्द्रहस्तिन्यैरावण, ऐरावतः ऋजौ घनौ ॥ ६३ ॥ इन्द्रस्यर्जुरोहितं स्याद् रोहितं पारिभद्रके । मन्दार-मन्दरौ तद्वद् मन्दारुश्च पवौ शृणिः ॥ ६४ ॥ सृणिश्च वह्नावप्येतौ, भिदिरं भिदुरं भिदुः । भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारकः ॥ ६५ ॥ धारः शित-शतात्, वज्रोऽस्त्रियां वज्राशनिर्द्वयोः । अशनिर्द्वयोराशनः, स्वार्थे प्रज्ञाद्यणा, शरुः ॥ ६६ ॥ स्वरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ षण्डके । व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः ॥ ६७ ॥ अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् । विश्वकर्मापि, स्वर्वध्वां, वा स्त्री भूम्न्यप्सरा मता ॥ ६८ ॥ ऊर्वसी दीर्घ-ह्रस्वादिर्दन्त्यतालव्यभाक् क्रमात् । गन्धर्वो गायने दैवे गान्धर्वोऽपि च तद्भिदि ॥ ६९ ॥ अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः । हुहुर्द्विह्रस्वो हूहूश्च द्विदीर्घोऽव्ययमप्यथो ॥ ७० ॥ हाहाहूहूरित्यखण्डं, नामैके, शमने यमः । यमराजो यमराट् च संयमनी त्र्यकारयुक् ॥ ७१ ॥ ;p{0183} शङ्कावश्नपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् । रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥ ७२ ॥ त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः । जातुधानो यातुधानो जातु यातु च षण्ढकौ ॥ ७३ ॥ कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ । तज्जनन्यां तु निकसा निकषा खषया सह ॥ ७४ ॥ वरुणे यादःपतियुक् यादसांपतिरप्पतिः । अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ॥ कैलासौका मध्यदन्त्यो नाराद् वाहण-वाहनौ । तद्विमानं पुष्पकं स्याद् मूर्धन्यौष्ठ्यकयोगयुक् ॥ ७६ ॥ वस्वोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् । वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥ सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् । शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥ हीर ईशान ईशश्च वामदेवश्च वामयुक् । अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥ भर्गो भार्गो भर्ग्यः शर्व-सर्वौ महेश्वरौ । भीम-भीष्मौ च तच्चापे, त्वजकावमजीजकम् ॥ ८० ॥ अजगावमाजगवं भवेदजकवं तथा । अजगवं, गणेष्वस्य, पार्षद्याः पार्षदा अपि ॥ ८१ ॥ पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी । कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा ॥ ८२ ॥ अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा । भद्रकाली महाकाली काली काला च कालिका ॥ ८३ ॥ ;p{0184} हिमा हैमवतीयुक्ता विकराला करालिका । महारौद्री सरौद्रिका जयन्ती विजया जया ॥ ८४ ॥ महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता । सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका ॥ ८५ ॥ चामुण्डा चण्डमुण्डा च चर्च्चा चर्च्चिः सचर्चिका । स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी ॥ ८६ ॥ भृङ्गिणे भृङ्गिरिटिर्भृङ्गिरीटिश्च, तण्डुके । नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधिः ॥ ८७ ॥ विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि । विरिञ्चन-विरिञ्ची च विरिञ्चः परमेष्ठियुक् ॥ ८८ ॥ परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू । नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥ ८९ ॥ द्रुहिणो द्रुघणस्तद्वद् द्रुघनोऽपि च शम्भुयुक् । स्वयंभूरथ गोविन्दे नारायण-नरायणौ ॥ ९० ॥ विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः । वेधा मुकुन्द-कुन्दौ च वासुदेवश्व वासुयुक् ॥ ९१ ॥ जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात् । त्रिपाद् द्विपद एतद्वद् वृषाक्षः सुवृषोऽपि च ॥ ९२ ॥ कपिलो भद्रकपिलः सुभद्रो वासुभद्रकः । धन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरकौ ॥ ९३ ॥ श्रीवत्साङ्कश्च श्रीवत्सस्तदरौ मेन्द-मेन्दकौ । कालीयः कालियश्चास्य गदा कौमोदकी स्मृता ॥ ९४ ॥ कौपोदकी कौवोदकी, कृष्णमातरि देवकी । दैवकी, बलभद्रे तु, भद्राङ्गो बलिना बलः ॥ ९५ ॥ ;p{0185} पद्मायामीरी आ या च कमला कमलीन्दिरा । इन्दिः श्री-लक्ष्म्यौ क्विब्यन्तौ यरौ शम्बर-संबरौ ॥ ९६ ॥ शूर्पकश्चादितालव्यः, ऋष्याङ्कः कामनन्दने । मूर्द्धन्याद्यान्तः स्थिकभागूषोषा बाणपुत्रिका ॥ ९७ ॥ शम्ब-शाम्बौ जम्बुवत्याः पुत्रे, तार्क्ष्ये सुपर्णकः । सौपर्णेयो गरुडश्च गरुलो गरुटस्तथा ॥ ९८ ॥ सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः । मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥ ९९ ॥ दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा गिरौ । वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा ॥ १०० ॥ व्याहारो वचो वचनं, कारके कर्म-कार्मणे । ज्ञाता धर्मकथायां स्यात् तकारो दीर्घसंयुतः ॥ १०१ ॥ द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते । प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च ज्योतिषि ॥ १०२ ॥ ज्योतिषं ज्यौतिषं, भाष्ये चूर्णि-चूर्ण्यौ समे मते । यङ्लुगन्ते चर्करीतं, चर्करितं, कलिन्दिका ॥ १०३ ॥ कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे । निर्घुण्टुश्च, जनश्रुतौ, वदन्ती किंवदन्त्यपि ॥ १०४ ॥ किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्तिके । अभिधायां नामधेयं नामाख्याऽभिख्ययाऽह्वयः ॥ १०५ ॥ आह्वा, हूतौ तु हक्कार-कङ्कारौ, शपथे शपः । शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६ ॥ तथ्यं यथातथं सम्यक्, समीचीनं च, रूक्षके । निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥ ;p{0186} निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् । गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा ॥ १०८ ॥ आक्षारणा क्षारणं च, क्षरणा, मङ्गलार्थने । आशीराशषया चोभे उशत्यशुभवाचि तु ॥ १०९ ॥ रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः । आज्ञायां स्याद् निराङ्निभ्यो देशोऽथाङ्गीकृतौ पुनः ॥ ११० ॥ सन्ध्या स्यात् सन्धया साकं संप्रत्याङ्भ्यः परः श्रवः । वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥ नाट्यं नटनमङ्गविक्षेपेऽङ्गाद् हारि-हारकौ । आतोद्ये वाद्यं वादित्रं, तूरं तूर्यं च वल्लकी ॥ ११२ ॥ तन्त्रीस्तन्त्रिश्च गन्धर्वे त्र्युकारस्तुम्बुरुः स्मृतः । मृदङ्गे मार्दलीकश्च, मार्दलो, दुन्दुभौ पुनः ॥ ११३ ॥ भेरिर्भेरी च भेरापि, कुहालायां तु काहला । चण्डकोलाहला पत्रकाहला, सुप्तबोधके ॥ ११४ ॥ द्रगडो द्रकटश्चापि, झल्लर्यां झर्झरी स्मृता । झलरी, बीभस्तरसे, विकृतं वैकृतं तथा ॥ ११५ ॥ घर्घरे हासिका हास्यं हासश्च हसनं हसः । त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥ शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः । रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥ उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते । वीर्यापि, साध्वसे भीतिर्भीर्भिया भयमप्यथो ॥ ११८ ॥ भयङ्करे भीम-भीष्मे डमरं डामरं तथा । उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥ ;p{0187} शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः । बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥ धीर्धीदा प्रतिपत्तिश्च प्रतिपच्छेमुषी पुनः । तालव्यादिर्मूर्धन्यान्ता, लज्जायां स्यादपत्रपा ॥ १२१ ॥ त्रपा ह्री ह्रीकया ह्लीका, व्रीडा व्रीडो, मनःखिदि । सादाऽवसादौ, निद्रायां, तन्द्रिस्तन्द्री च तन्द्रया ॥ १२२ ॥ तन्द्र्यमी चत्वारः शब्दाः स्युर्मोहाऽलस्ययोरपि । औत्सुक्य उत्कण्ठौत्कण्ठ्ये, आकारस्य तु गूहने ॥ १२३ ॥ कुटारिका कटिकाऽवाद्, ह्लादे मोदः प्रमोदयुक् । मुदाऽऽमोदौ प्रमदश्च संमदोऽपि मदो मुदा ॥ १२४ ॥ हर्ष-प्रहर्ष-हरिषा आनन्दानन्दथू समौ । गर्वेऽभिमान-मानौ च विस्मयः स्मय इत्युभौ ॥ १२५ ॥ तद्विशेषेऽहंपूर्वा-पूर्विका-प्रथमिकाऽग्रिका । व्यायामे तु क्लम-क्लमी परिश्रम-श्रमावपि ॥ १२६ ॥ चिन्तायां चिन्तिया ध्यानं धाम नान्तं नपुंसके । प्रतिचिकीर्षारूपे तु ध्याने मर्ष आमर्षकः ॥ १२७ ॥ चित्तस्थैर्ये मनस्कारो भवेद् मनसिकारयुक् । संभ्रमे त्वरया तूर्णिस्त्वरितस्तर्के वितर्ककः ॥ १२८ ॥ संवेगावेगावूहेहे परामर्शो विमर्शनम् । मृत्यौ मृतिः सर्वगे मरि-मारी मरकोऽपि च ॥ १२९ ॥ नटे भारत-भरतौ तथा भरतपुत्रकः । स्त्रीवेषधारकनटे भ्रकुंसः स भ्रुकुंसकः ॥ १३० ॥ भ्रूकुंसश्च भृकुंसोऽपि केलीकिलो विदूषकः । केलिकिलो वासन्तिक-वसन्तकौ च, हासिनि ॥ १३१ ॥ ;p{0188} केलिकिलः कैलिकिलो, विलासिनि जने पुनः । हेलिहेलो हैलिहिलः, आर्ये मारिष-मार्षकौ ॥ १३२ ॥ चेटी-नीचा-सखीह्वाने हण्डे हञ्जे हलाव्ययाः । अत्तिकाऽप्यन्तिका ज्येष्ठभगिन्यां, मातरि स्मृता ॥ १३३ ॥ अम्बिकाऽप्यंविका, भाट्टारक-भट्टौ तु पूज्यगात् । नाम्नः प्रयोज्यौ प्रायेण नाट्योक्तौ नाट्यवाचकः ॥ १३४ ॥ ;k{तृतीयः काण्डः} पुंसि पूरुष-पुरुषौ पुलषो ना नरोऽपि च । मुनुष्यो मानुषो मर्त्यो मर्तोऽपि बालिशः शिशौ ॥ १ ॥ बालः क्षीरात् कण्ठः पश्च स्तनयः स स्तनन्धयः । कुमार-कुमरौ दह्र-दहरावथ शैशवे ॥ २ ॥ बाल्यवद् बालिमा पाकं पाकिमा ना, वयस्यके । युवा युवानस्तरुणस्तलुनश्चाथ यौवनम् ॥ ३ ॥ यौवनिकापि तारुण्ये स्थविरे तु जरन् जरी । जरन्तश्च जीन-जीर्णावतिवृद्धे दश्म्ययम् ॥ ४ ॥ दशमीस्थोऽथ संस्तान्तः प्राज्ञो ज्ञः प्रज्ञकः कविः । कवी स्त्री कविता काव्यो वैदुषो विदुषस्तथा ॥ ५ ॥ विद्वांश्च शूरि-सूरी तु, सूर्येऽपि, बुद्धयुग् बुधः । प्रवीणे निष्ण-निष्णातौ नदीष्णः कृतकृत्यकः ॥ ६ ॥ कृती कृतार्थश्च विज्ञोऽभिज्ञो वैज्ञानिकोऽपि च । विदग्धे छेक-च्छेकालौ छेकिलश्च कलाविदि ॥ ७ ॥ कलाज्ञश्च कलज्ञोऽपि क्षुण्णः संस्कृतवाचकः । तृतीयवर्गप्रान्त्याप्तो, वक्नुर्वग्नु-वचक्नुकौ ॥ ८ ॥ ;p{0189} वाग्मिनि स्यात्, वक्तरि तु वदावद-वदौ समौ । अवाक्श्रुतावेडमूकानेडमूकावनेडकः ॥ ९ ॥ कलमूकश्चान्ध-शठ-मूर्खवाच्यपि सम्मतः । सतामनेडमूकश्चाऽस्फुटवाचि तु काहलः ॥ १० ॥ लोहलोऽपि जड-कडौ, ज्ञायके विदुरस्थथा । विन्दुरस्त्रिक-तुर्यवर्गमध्यौ कटुर-कद्वरौ ॥ ११ ॥ अत्यन्तकुत्सिते, क्षिष्णुर्णान्तो निराकरिष्णुके । प्रियंवदे शक्नु-शक्लौ वदान्यश्च वदन्ययुक् ॥ १२ ॥ दानशीलेऽप्यमू, मूर्खे, बालिशो बाडिशो जडः । जलो मुहेर-मुहिरावायोऽयः पूर्वशूलिकः ॥ १३ ॥ भवेद् राभासिके, लोकप्रीणके तु पृण-प्रिणौ । प्रीणश्च लोकंपूर्वाः स्युः परायत्ते परात्परौ ॥ १४ ॥ वश-वान्तौ गृह्यकश्च गृह्याऽऽगृह्यकसंयुतः । नायके नेत्र-नेतारावीडीश ईश्वरस्तथा ॥ १५ ॥ पति-पाती ऋज-रिजाविडीडौ डान्तिमावुभौ । ह्रस्व-दीर्घादी प्रभुयुग् विभुश्चाप्यथ वेतने ॥ १६ ॥ भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके । भारवाड् भारवाहश्चाप्यथो वार्तावहे जने ॥ १७ ॥ वैवधिको विवधिको वीवधिकोऽथ भारके । भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥ विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरकौ । कातरे भीरुको भीरुर्भीलुकस्वस्नु-त्रस्तकौ ॥ १९ ॥ भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ । अथो महेच्छेऽनुदार उदारोदात्तकावपि ॥ २० ॥ ;p{0190} दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने । कारुण्यं करुणा हिंस्रे हिंसीरोऽपि, निबर्हणे ॥ २१ ॥ विशारणं विशरणं निर्वासन-प्रवासने । उद्वासनं वधार्हे तु शैर्षच्छेदिकसंयुतः ॥ २२ ॥ शीर्षच्छेद्यो, मृते प्रेत-परेतौ, तदहेऽर्पणे । तदर्थं चोर्ध्वदेहिकमौर्ध्वदेहिकमित्यपि ॥ २३ ॥ ऊर्ध्वदैहिकमप्यग्न्याधाने तु मृतदाहगे । चिति-चित्या-चिताः प्रोक्ताः, ऋजो तु प्राञ्जलोऽञ्जसः ॥ २४ ॥ अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ । शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥ २५ ॥ मायावी, दाण्डाजनिको, दण्डाजनिक इत्यपि । मायायां शठता-शाठ्ये व्याज्ये लक्ष्यं तु लक्षयुक् ॥ २६ ॥ संख्यायामपि पिशुने मत्सरो मत्सरी खलः । प्रखलः खुल्लकः क्षुल्लः क्षुद्रकः क्षुद्रसंयुतः ॥ २७ ॥ कौलीने वादिको जाते जातो जातात्परो मतः । तस्करे चोरटश्चोर-चोरौ पाटच्चरान्वितः ॥ २८ ॥ पटच्चरश्चौरकर्म चौर्यं चोरिका स्तेनवत् । स्तेयं स्तैन्यं हृतधने, लोप्त्रं लोत्रं च लोद्रकम् ॥ २९ ॥ मन्दे त्वलस आलस्यश्चतुरे दक्ष-दक्षिणौ । उष्णकोष्णौ, दातरि, तु स्यादुदारोऽनुदारयुक् ॥ ३० ॥ बहुप्रदे स्थूललक्षः स्थूललक्ष्योऽपि यान्तिमः । दानेंहतिरंहितिश्च प्रादेशन-प्रदेशने ॥ ३१ ॥ निर्वापणं निर्वपणं याचके तु वनीपकः । वनीयक-वनबकौ, प्रार्थनायां तु याचना ॥ ३२ ॥ ;p{0191} याञ्चैषणाऽध्येषणापि भवितरि भविष्णुयुक् । भूष्णुर्भविष्यति भवी भाव्यथो स्यात् प्रसारिणि ॥ ३३ ॥ विसारी च विसृमरो विसृत्वरयतो मतः । लज्जाशीले तु लज्जालुर्लज्जूः स्यात्, क्षमिता क्षमी ॥ ३४ ॥ क्षन्ता सहिष्णुः, सहने, ईर्ष्यालुः कुहने स्मृतः । ईर्ष्युश्च, क्रोधने क्रोधी, बुभुक्षायां तु रोचकः ॥ ३५ ॥ रुचिः क्षुधा-क्षुधौ, तृष्णक् तृषिते तृष्णकोऽपि च । क्षुदसहे क्षुधारुः स्यात् क्षुधालुः, शीतकाऽसहे ॥ ३६ ॥ शीतारुश्च सशीतालुः, पिपासायां तृषा-तृषौ । तृष्णा-तर्षौ च, लिप्सायां त्रयोन्त्या अपि, भक्षके ॥ ३७ ॥ आशितश्चाशिरो, भक्ते कुरुः, कूरं च दग्धिका । भिस्साटा भिस्सटा भिस्सा, दधिसर्वरसाग्रके ॥ ३८ ॥ दधिमण्डं मण्डमपि, भक्तमण्डे तु प्राड्स्रवः । निप्रात् स्रावश्च, श्राणायां विलेपी च विलेपिका ॥ ३९ ॥ विलेपनी विलेप्यापि क्वाथिका क्वथिकाऽपि च । तरलं तरला, सूपे सूदाप्यथ तिलान्नके ॥ ४० ॥ कृसर-त्रिसरौ पुंस्त्री, पिष्टके पूप-पूपकौ । पूपिकायां पौलि-पौल्यौ पूलिका पोलिकापि च ॥ ४१ ॥ पूपली चेषत्पक्वे त्वभ्यूषाऽभ्योषाऽभ्युषास्त्रयः । निष्ठानोऽस्त्री तेमने स्यात् सठः पत्रफलादिके ॥ ४२ ॥ शाकं साकं हरितके करम्भो दधिसक्तुषु । करम्बोऽपि घार्तिके तु पूरः स्याद् घृत-पिष्टतः ॥ ४३ ॥ घृतवरोऽवसेकिमे वटको वटसंयुतः । स्नेहभृष्टतण्डुलेषु भरुजी भरुजापि च ॥ ४४ ॥ ;p{0192} मर्मराले पर्पटश्चपटः पृथुके चेः पुटः । चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥ सितोपला मधुधूलौ खण्डो वर्गद्वितीयखः । फाणिते स्यात्तु मत्स्याण्डी मत्स्यण्डिश्च मत्स्यण्ड्यपि ॥ ४६ ॥ मत्सण्डी खण्डतो योज्या शर्करा सर्करापि च । शिखरण्यां रसाला स्याद् रसिता मार्जितायुता ॥ ४७ ॥ मर्जिता, मुद्गादिरसे यूर्यूषस्त्रिषु जुषयुक् । दुग्धे गव्यं गोरसश्च रसोत्तमरसे समे ॥ ४८ ॥ क्षीरस्य विकृतौ कूर्चिः कूचीका कूचिकान्विता । कूर्चिकापि किलाटी स्याद् किलाटा च किलाटयुक् ॥ ४९ ॥ द्रप्स-द्रप्स्ये दध्न्यघने, हविष्य-हविषी घृते । रसायन-गोरसौ द्वौ घोले, तक्रे त्वरिष्टयुक् ॥ ५० ॥ रिष्टमौदश्वितौदश्वित्के संस्कृत उदश्विति । पिच्छिले विजलं प्रोक्तं विजिलं विज्जलं विजम् ॥ ५१ ॥ विजेविलं विजिपिलमारनाले तु काञ्चिकम् । काञ्चिकं च सुवीराऽम्लं सौवीरं चाभितः षुतम् ॥ ५२ ॥ कुल्माषाभिषुतं चैव कुल्माषं चार्घराद्धके । माषादौ तु कुल्माषः स्यात् कुल्मासश्चाप्युपस्करे ॥ ५३ ॥ दन्त्य-तालव्य-मूर्धन्यमध्यः स्याद् द्वेषवारकः । तिन्तिडीक-तन्तिडीके चुक्रे पक्षण्यपि स्मृते ॥ ५४ ॥ राजिकायामासुरी स्यादसुरी च क्षुधा-क्षतात् । परोऽभिजननः शब्दो योज्यते शब्दवेदिभिः ॥ ५५ ॥ कुस्तुम्बुरुर्वार्ध्युकारस्तस्मिन् धान्यं च धान्यकम् । धन्या धन्याकं धान्याकं धानेयक-धनीयके ॥ ५६ ॥ ;p{0193} धनकोऽथ कोलके स्याद् मरीचं मरिचं तथा । ऊषणं ह्युषणं विश्वा शुण्ठी शुण्ठिश्च, पिप्पली ॥ ५७ ॥ उषणा स्यादूषणापि, कृष्णा च कृष्णतण्डुला । गजपिप्पल्यां वशिरो वसिरः, सर्वग्रन्थके ॥ ५८ ॥ ग्रन्थकं शिरोऽनादन्तः क्ली सान्तं चटकाशिरः । व्योषे त्रेः कटु-कटुके, अजाजी जीर-जीरकौ ॥ ५९ ॥ जीरणो जरणः कणः जीरकः कृष्णजीरके । सुषवी दन्त्यमूर्धन्यतालवयान्तर्गता पृथुः ॥ ६० ॥ पृथ्वी उत्कुञ्चिका चोपकुञ्चिकाप्यथ हिङ्गुनि । वाल्हीकं वाल्हिकं, जग्धौ खादनं खदनं घसिः ॥ ६१ ॥ निघसोऽपि विष्वाणाऽवष्वापौ जमन-जेगने । ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् ॥ ६२ ॥ गण्डोलः कवलोपेतः कवकः सुहिते पुनः । आघ्राता-ऽऽघ्राणकौ, भुक्तत्यक्ते फेला च फेलियुक् ॥ ६३ ॥ मांसाशिनि शाष्वलः स्याच्छौष्कलः शाष्कलिस्तथा । मौष्कुलिर्मौष्कुलो, लिप्सौ लोलुपो लोलुभोऽपि च ॥ ६४ ॥ लोलोऽपि गर्धनो गृध्नु-गृध्नौ चेहेह ईहने । कामश्च कामना, धृष्टौ धृष्णुः स्याद् धृष्णजा सह ॥ ६५ ॥ शुभंयुः शुभसंयुक्ते शुभंयश्चाप्यहंकृति । अहंयोऽहंयुसंयुक्तः, कामुके कामि-कामिनौ ॥ ६६ ॥ कामनः कमनः कम्रः कमरः कमितापि च । कामयिताऽभिक-भीकावन्तर्दुर्विपरो मनाः ॥ ६७ ॥ विचेतस्याभिशस्ते तु स्यादक्षारित-क्षारितौ । तिरस्कारे परीभावः परापर्यभितो भवः ॥ ६८ ॥ ;p{0194} न्यक्कारः सनिकारः स्तात्, जागरूके तु जागरी । जागरिका, जागरणे जागर्या जागरस्तथा ॥ ६९ ॥ जागरा जाग्रिया, शङ्की संशयालुर्भवेदयम् । सांशयिको दक्षिणार्हे दक्षिण्यो दक्षिणीयकः ॥ ७० ॥ दण्डिते दाप्यतः प्रोक्तो दायितोऽपि तथोच्यते । अर्च्ये प्रतीक्ष्यो निर्योऽपि, पूजिते त्वपचायितः ॥ ७१ ॥ अपचितोऽथार्हणायां पूजा पूज्याऽथ पीनके । बहुलो बहलः स्थूर-स्थूलौ पीवा सपीवरः ॥ ७२ ॥ मांसलांसलौ निर्दिग्धे, कृशे शात-शितौ स्मृतौ । तीक्ष्णेऽप्येतौ, बृहत्कुक्षौ तुन्दी तुन्दिक-तुन्दिलौ ॥ ७३ ॥ तुन्दिभौऽप्युदरिकश्चोदरिलोदरिणौ समौ । अनासिके विख्र-विखू विग्रोऽपि, नतनासिके ॥ ७४ ॥ अवाद् भ्रट-टीट-नाटा नाशायां तन्नतावपि । खरनासे खरणसः खरणाः, खुरसदृग्नसि ॥ ७५ ॥ खुरणाः स्यात् खुरणसः श्रोणे पङ्गुः सपङ्गुलः । स्यात् खल्वाटे तु खलति-खलतावल्पकायके ॥ ७६ ॥ पृश्नि-पृष्णी गडुले तु न्युब्ज-कुब्जौ, कुहस्तके । कुणि-कूणी ह्रस्वकरपादे खर्वो निखर्वयुक् ॥ ७७ ॥ ह्रस्वशाखे वामनश्च वामा नान्तो, द्विनग्नके । वण्डो दन्तौष्ठ्यवादिः स्यादल्पमेढ्रेऽपि खञ्जके ॥ ७८ ॥ खोड-खोरौ च खोटोऽपि, पोगण्डो विकलाङ्गके । अपोगण्डोऽप्यूर्ध्वजानावूर्ध्वज्ञोर्ध्वज्ञकौ समौ ॥ ७९ ॥ विलजानौ प्रज्ञुः स्यात् प्रज्ञोऽपि, युतजानुके । संज्ञु-संज्ञौ च सर्वत्र जञसंयोग उच्यते ॥ ८० ॥ ;p{0195} वलियुक्ते वलिनः स्याद् वलिभः, शस्तकेशके । केशवः केशिकः केशी, तुण्डिलो वृद्धनाभिके ॥ ८१ ॥ तुण्डिभस्तुन्दिलोऽभ्यान्ताऽभ्यमितौ ग्लान-ग्लास्नुकौ । व्याधिते, कच्छुरे तु स्यात्पामनः पामरस्तथा ॥ ८२ ॥ सातिसारेऽतिसारक्यतीसारकी, कफान्विते । श्लेष्मणः श्लेष्मलः, क्लिन्ननेत्रे तद्वति पिल्लयुक् ॥ ८३ ॥ चिल्लश्चुल्लोऽपि मूर्ते तु मूर्च्छालो मूर्च्छितोऽपि च । पित्ते पलाग्निः पललज्वरोऽथ खेटयुक् खटः ॥ ८४ ॥ व्लासो दन्त्य-तालव्यप्रान्तकः कथितो बुधैः । कफे, व्याधौ रोग-रुजौ रुजाऽप्यामय आमकः ॥ ८५ ॥ अमः, क्षये राजयक्ष्मा यक्ष्मा जक्ष्मापि नान्तकः । जक्ष्म-यक्ष्मावदन्तौ द्वौ क्षवे क्षुत् क्षुतमप्यथ ॥ ८६ ॥ क्षवथौ काशः कासोऽपि, खसे पामा तु पामया । कच्छूः कच्छुः स्त्रियां सर्वे, खर्ज्वां कण्डूयनं मतम् ॥ ८७ ॥ कण्डूः कण्डूति-कण्डूये, व्रणे रुषो रुषा सह । ईर्मोऽस्त्रियामीर्म नान्तं गण्डे विस्फोट-स्फोटकौ ॥ ८८ ॥ पिटकः पिटका तद्वत्पिटकं च किलासके । सिध्म-सिध्मे, कुष्ठभेदे दर्द्रुर्दद्रूश्च दद्रुयुक् ॥ ८९ ॥ दद्रूर्दर्दूश्च, कोठके मण्डलकं च मण्डलम् । हृल्लासे हिक्का हेक्कापि, पीनसे स्यादपीनसः ॥ ९० ॥ आपीनसः प्रतिश्यायः प्रतिश्या, श्वयथौ पुनः । शोफ-शोथौ, छर्दने तु च्छर्दिश्छर्दी प्रच्छर्दिका ॥ ९१ ॥ वमनं वमि-वमथू, कुरण्डस्त्वण्डवर्धने । कूरण्डोऽपि प्रमेहे तु मेहोऽपि च, चिकित्सके ॥ ९२ ॥ ;p{0196} आयुर्वेद्यायुर्वेदिको भिषग्-भिषज-भिष्णजाः । जायौ भेषज-भैषज्ये उपचारश्चिकित्सने ॥ ९३ ॥ उपचर्यापि, सत्कृत्यालङ्कृतस्वकनीदये । कूकुदः कूपदश्चाऽऽपदापदे विपदे विपदा विपद् ॥ ९४ ॥ विपत्तौ, कृच्छ्रवञ्च्ये तु समौ दूडाभ-दूडभौ । समर्धुकस्तु वरदे स्यात् समर्धक इत्यपि ॥ ९५ ॥ सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि । परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥ आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् । नैमित्तोऽपि च मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥ लिपिकरो लिविकरोऽक्षरन्यासे लिपिर्लिविः । मषी-मस्यौ मलिनाऽप्सु कितवे त्रितयं स्मृतम् ॥ ९८ ॥ धार्तो धूर्तोऽक्षधूर्तश्च, दुरोदर-दरोदरे । द्यूतेऽथाऽक्षे पाशकः स्यात् प्रासकः शारितः फलम् ॥ ९९ ॥ फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते । व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥ १०० ॥ मनोजवस्ताततुल्ये मनोजवसकोऽपि च । क्षेमङ्करो रिष्टतात्यरिष्टताती तथाऽस्तिके ॥ १०१ ॥ श्राद्ध-श्रद्धालू च, सहे प्रभविष्णुः प्रभूष्णुयुक् । शक्त-शक्लावसामर्थ्यजीवके चानवस्थिते ॥ १०२ ॥ चत्वारोऽमी पराः कर्णात् टिरिटिरि-ष्टिरेष्टिरा । चुरुचुरु-श्चुरुचुरा शिथिलः शिथिरः श्लथे ॥ १०३ ॥ स्थित ऊर्ध्वंदमश्चोर्ध्वो निर्वकारो वकारवान् । ऊर्ध्वदमस्तद्भवे तु ऊर्द्धात् दमिक-दामिकौ ॥ १०४ ॥ ;p{0197} ऊर्ध्वंदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले ॥ १०५ ॥ पाथेये, जङ्घाकारे तु जङ्घाकरिक-जाङ्घिकौ । त्वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः ॥ १०६ ॥ अनुगाम्यनुगश्चापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा ॥ १०७ ॥ पत्तौ पदातिः पादातौ पादातिक-पदातिकौ । पदकः पदगः पद्गः पादाविक-पदाजिकौ ॥ १०८ ॥ प्रष्ठे सरोऽग्रेऽग्र-पुरः-परतो गम-गामि-गाः । पुरस्तः आवेशेके तु स्तः प्राघूर्णक-प्राघुणौ ॥ १०९ ॥ अतिथ्योऽतिथिरातिथ्य आङ्परौ गान्तु-गन्तुकौ । आवेशिक आतिथेय्यातिथेयातिथ्यनिःस्वनाः ॥ ११० ॥ ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च लोके तु जनो जनपदस्तथा ॥ १११ ॥ देवलोके देवविशा देवविद् वाऽभिजातके । जात्याभिजौ कुलीनश्च कुल्यकौलेयकौ समौ ॥ ११२ ॥ महाकुलीनसहितौ महाकुल-महाकुलौ । गोत्रेऽन्वयोऽन्ववायश्च संतानः संततिस्तथा ॥ ११३ ॥ स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता ॥ ११४ ॥ स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । स्त्र्यलङ्कारे कुट्टुमितं द्व्युकारं कन्यका कनी ॥ ११५ ॥ कुमार्यां, मध्यमवयःस्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिश्चोक्ता युवत्याद्यवयःस्त्रियाम् ॥ ११६ ॥ ;p{0198} सुवासिनी स्ववासिनी वधूटी वध्वटीति च । चिरिण्टी स्याच्चिरण्टी च चरिण्टी सचरण्टिका ॥ ११७ ॥ पत्न्यां सधर्मिणी सहधर्मिणीगृहिणीगृहाः । कलत्रं कडत्रं दारः पुंसि वा भूम्नि दारया ॥ ११८ ॥ जनिर्जनी कुटुम्बिन्यां स्यात् पुरन्ध्रिः पुरन्ध्र्यपि । स्नुषायां तु वधूयुक्ता वधूटी च जनिर्जनी ॥ ११९ ॥ कुलस्त्रियां तु कुलतो वालिका पालिकाऽपि च । कान्तायां प्रेयसी प्रिष्ठा षटकार-ठकारभाक् ॥ १२० ॥ प्रिया, कान्ते प्रियः प्रेयान् प्रेष्ठष्ट-ठद्वयान्वितः । वरो वरयितोद्वाहे विवाहे यम-यामकौ ॥ १२१ ॥ उपात्, जायापत्योस्तु जम्पती दम्पती स्मृतौ । द्वित्वे, जस्यती दस्यती प्रायो वेदे प्रयोजितौ ॥ १२२ ॥ जित्वरीवाचकौ पूर्वावेकत्वादावुदाहृतौ । हरणे तु सुदायः स्याद् दायो युतक-यौतकौ ॥ १२३ ॥ यौतुकः, परगेहस्था त्वायत्ता शिल्पजीविनी । सैरन्ध्री चापि सेरन्ध्र्यथावरोधनप्रेष्यिका ॥ १२४ ॥ असिक्निका स्यादसिक्नी, दूत्या दूतिरपि स्मृता । प्राज्ञी प्रज्ञा प्रजानत्यामाचार्यानी नृयोगके ॥ १२५ ॥ आचार्या मातुलानी च मातुल्यपि तथा मता । उपाध्यायान्युपाध्यायी क्षत्रियाणी स्वतो भवेत् ॥ १२६ ॥ क्षत्रिया स्यादुपाध्यायाय्युपाध्यायाऽर्याणिका पुनः । आर्या पुनर्भ्वां दिधिषूर्दिधीषुरपि तद्धवे ॥ १२७ ॥ दिधिषुर्दिधिषूर्विप्रे त्वग्रतो दिधिषुर्मतः । दिधिषूरप्यसत्यां तु वर्षणी घर्षणीति च ॥ १२८ ॥ ;p{0199} पांशुला पांसुलाऽथ स्यात् पतिः पत्नी च जीवतः । पतिवत्न्यां निर्वीरा च वीरा पति-सुतोज्झिता ॥ १२९ ॥ भिक्षुकी भिक्षुणी मुण्डा श्रमणा श्रवणापि च । गणिकायां वेश्या वेष्या पण्याङ्गना पणाङ्गना ॥ १३० ॥ कुट्टन्यां शम्भली दन्त्य-तालव्यादिर्मता बुधैः । कुम्भदास्यां पोटा वोटाऽवस्त्रनार्यां तु नग्निका ॥ १३१ ॥ नग्ना कोटवी कोट्टवी, ऋतुमत्यां तु पुष्पिता । पुष्पवती चाविरवी निष्पुष्पायां तु निष्कला ॥ १३२ ॥ निष्कल्यपि च स्त्रीधर्मे आर्तवं ऋतुसंयुतम् । रजः सान्तं रजोऽदन्तो ना गुणेऽप्यथ मैथुने ॥ १३३ ॥ सुरतं स्याद् रति-रते पशोर्धर्म-क्रिये स्मृते । जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी ॥ १३४ ॥ प्रसूतायां विजाताख्या प्रजाताप्यथ भ्रूणके । वृधसानो वर्धसानो गरभो गर्भ इत्यपि ॥ १३५ ॥ दोहदं दौहृदं श्रद्धा, पुत्र्यां तु स्यात् स्तनन्धयी । स्तनन्धना सूनुः सुतापत्ये, पुत्रेऽपि तोककम् ॥ १३६ ॥ तुगपत्ये, भ्रातृपुत्रे भ्रातृव्यो भ्रात्रीयोऽपि च । पुत्रपुत्रे पौत्रस्तस्य युवापत्ये पुनः स्मृतः ॥ १३७ ॥ पौत्रायण एवं पुनर्भूर्नानान्द्रो दुहितृवत् । पौनर्भव-पौनर्भवायणौ, नानान्द्र इत्यपि ॥ १३८ ॥ नानान्द्रायणो, दौहित्रो दोहित्रायणकस्तथा । पैत्र्यां नप्ता भवेद् नप्त्री स्यात् पितृष्वसुरात्मजे ॥ १३९ ॥ पितृष्वसेयवत्पैतृष्वस्त्रीयो, जननीस्वसुः । पुत्रे तु मातृष्वस्त्रीयस्तद्वन्मातृष्वसेयकः ॥ १४० ॥ ;p{0200} दास्याः सुते तु दासेय दासेरौ च नटीसुते । नाटेय-नाटेरौ, पुत्रे बन्धक्या बान्धकेयवत् ॥ १४१ ॥ बान्धकिनेयश्च, कौलटेरः स्यात् कौलटेयवत् । भिक्षुसत्याः सुते कौलटेय-कौलटिनेयकौ ॥ १४२ ॥ स्वजाते त्वौरसौरस्यौ भवेद् गोलश्च गोलकः । मृते पत्यौ जारजोऽथ भ्रातरि स्यात्सहोदरः ॥ १४३ ॥ समानोदर्या-सोदर्य-सोदराः ज्येष्ठभ्रातरि । अग्रजोऽपि यवीयांश्च कनिष्ठे सोदरे समाः ॥ १४४ ॥ यविष्ठोऽपि यवीयांश्च कनिष्ठे सोदरे समाः । ज्येष्ठ-कनिष्ठ-यविष्ठास्त्रिकवर्गद्वितीयकाः ॥ १४५ ॥ स्यालस्तालव्य-दन्त्यादिः पत्न्या भ्रातरि कथ्यते । देवृ-देवर-देवानः स्युः पत्युरनुजे स्वसा ॥ १४६ ॥ जानिर्यानिः कुलस्त्री च भग्नी स्याद् भगिन्यन्विता । पत्युः स्वसरि ननन्दा ननान्दा नन्दनीत्यपि ॥ १४७ ॥ पत्नीकनिष्ठभगिन्यां श्याली शाली च, खेलने । परिहासः परीहासः कुर्दनं कूर्दनं समौ ॥ १४८ ॥ किलः केलिश्च जनके बप्पो वप्रश्च तातयुक् । ततो जनयिता तद्वज्जनित्रोऽपि च मातरि ॥ १४९ ॥ अम्बाऽप्यब्बा जनयित्री जनित्री जननीयुता । जानी, पित्रोः स्मृतौ माता-पितरौ, मातरात्परौ ॥ १५० ॥ पितरः पितृशब्दश्च ज्ञातौ स्वः स्वजनस्तथा । बान्धवो बन्धुरात्मीये स्व-स्वकीये नपुंसके ॥ १५१ ॥ पण्डु-पाण्डौ शण्ठ-शण्ढौ तृतीयाप्रकृतिस्तथा । तृतीयप्रकृतिर्देहे कलेवरं कडेवरम् ॥ १५२ ॥ ;p{0201} तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः । गात्रं गान्त्रं मूर्तिमच्च मूर्तिः स्यात्, कुणपे शवः ॥ १५३ ॥ शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके । शिरः सान्तं स्मृतं क्लीबे शिरोदन्तो मतो नरि ॥ १५४ ॥ चिकुरश्चिहुरः केशे ललाटस्यालके पुनः । भ्रमरकः स्याद् भ्रमरालको वेणिः प्रवेणियुक् ॥ १५५ ॥ केशन्यासे काकपक्षे शिखण्डका-शिखण्डिकौ । वक्रस्त्रिषु च्छन्दस्यापि, दान्ते षण्ढे भषद् भसद् ॥ १५६ ॥ आमाशयास्थाने च जघनेऽपि तुण्डि-तुण्डकौ । घनं घनोत्तमं भाले त्वलीकमलिकं तथा ॥ १५७ ॥ कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् । नेत्रेक्ष्यऽक्ष्णं दृशि-दृशे दृग् लोचन-विलोचने ॥ १५८ ॥ कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे । काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः ॥ १५९ ॥ कालभेदेऽपि भ्रूविकारे भ्र-भ्रु-भ्रू-भृतः कुटिः । भ्रूमध्ये कूर्च-कूपे कूर्पं नक्रे नस्नया नसा ॥ १६० ॥ नासा नस्या नासिका च नाशिका घ्राणमाघ्रया । घ्रा, दन्तवस्त्रे ओष्ठः स्यात् त्रिकवर्गद्वितीयवान् ॥ १६१ ॥ ओष्ठप्रान्ते सृक्क नान्तं क्लिबं सृक्कमदन्तकम् । सृक्कणी सृक्कणिर्ङ्यन्तेदन्ते सृक्कि नपुंसके ॥ १६२ ॥ इदन्तमेकैर्वद्द्वन्द्वं कयुग्ममपरैः स्मृतम् । सृक्कशब्देऽथ हन्वग्रसन्धौ स्याच्चिबुकं चिबुः ॥ १६३ ॥ दंष्ट्रिकायां दाढिका स्याद् द्राढिका खादने पुनः । रदनो रदयुग्दंश-दशनौ मल्ल-मल्ल्कौ ॥ १६४ ॥ ;p{0202} जिह्वायां रसना दन्त्य-तालव्यान्तर्गता रसा । रसमातृका रस्ना च रसिका रसनं तथा ॥ १६५ ॥ गले कण्ठः कण्ठी कण्ठं शब्द-समीपयोरपि । अंसे तु स्कन्धः स्कधश्च सान्तं क्लीबमुरोंसयोः ॥ १६६ ॥ सन्धौ तु जत्रु षण्ढे स्यात् तकार-रेफयोगवत् । प्रवेष्टो दोर्दोषा बाहुर्बाहा बाहो भुजो भुजा ॥ १६७ ॥ भुजामध्ये कपोणिः स्यात् कफोणी च कफोणियुक् । कफणिः कफणी तद्वत्कुर्परः कूर्परोऽपि च ॥ १६८ ॥ प्रकोष्ठे वर्गद्वितीयः स्यात् कलाचिः कलाचिका । हस्ते करः करिर्हस्तमूले तु मणिबन्धवत् ॥ १६९ ॥ मणिः स्यात्करशाखायामङ्गुरी चाङ्गुरिस्तथा । अङ्गुलोऽङ्गुलिरङ्गुल्यां तर्जन्यां तु प्रदेशिनी ॥ १७० ॥ प्रदेशिनी प्रदेशिका, ज्येष्ठाङ्गुल्यां तु मध्यमा । मध्या ज्येष्ठा-कनिष्ठे द्वे टवर्गद्वितीयान्विते ॥ १७१ ॥ पुनर्नव-पुनर्भवौ करजे नखरस्त्रिषु । नखोऽस्त्री तर्जन्यायत्तेऽङ्गुष्ठे त्वथ प्रदेशवत् ॥ १७२ ॥ प्रादेशोऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः । तालिका-तालौ चपेटश्चर्पटश्चपटोऽपि च ॥ १७३ ॥ तद्द्वये योजिते सिंहतलः संहतलस्तथा । तताङ्गुष्ठमध्याङ्गुलिमाने तालस्तलोऽपि च ॥ १७४ ॥ वितस्ति-खड्गमुष्ट्योश्च, कुब्जिताङ्गुलिके करे । प्रसृतः प्रसृतिश्चापि गण्डूषे चलुकश्चलुः ॥ १७५ ॥ चुलुको, निष्कनिष्ठे स्याद् हस्त आर्तिररत्नयुक् । तिर्यक्प्रसारितबाह्वोर्व्यायामो व्याम-व्यामनी ॥ १७६ ॥ ;p{0203} वियामः पृष्ठवंशे तु रीढको रीढयुग् मतः । पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥ सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने । कुच-कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक् ॥ १७८ ॥ तुन्दं तुन्दिः कुक्ष-कुक्षी, यक्नि कालेय-कालके । कालखण्डं कालखञ्जं, गुल्मे प्लीहा प्लिहा तथा ॥ १७९ ॥ नान्तौ, प्लीहा चाबन्तोऽपि, मध्ये मध्यम इत्यपि । विलग्नावलग्नौ सर्वे पुंक्लीबाः, रसनापदे ॥ १८० ॥ कटीरं च कटि-कटी-कटाः श्रोणी च श्रोणियुक् । वलित्रयसमाहारे त्रिवलिस्त्रिवली तथा ॥ १८१ ॥ त्रिकपार्श्वगर्तयोस्तु कुकुन्दरे कुकुन्दुरे । युतौ स्फिचौ स्फिजौ चान्तौ जान्तौ, स्यात्स्मरमन्दिरे ॥ १८२ ॥ योनिर्योनी च, पुंश्चिह्ने शेपः शोफश्च सान्तगे । शोप-शेफौ च शेवश्च त्रयोऽदन्ता बुधैः स्मृताः ॥ १८३ ॥ लाङ्गूलं शङ्कु लङ्गूलं मुष्क आण्डाण्डकौ नरि । अण्डं पेलं पेलकोऽप्यथोरुरूरूश्च सक्थनि ॥ १८४ ॥ जङ्घायां तु टङ्क-टङ्गौ खनित्रेऽपि च तौ मतौ । पादग्रन्थौ कुल्फ-गुल्फौ घुटिको घुण्ट-घुण्टकौ ॥ १८५ ॥ घुटः सर्वेऽपि पुंस्त्रीगाः, चरणे चलनः क्रमः । क्रमणः पाद-पदौ पात् पत्-पदे अंह्रिरङ्घ्रियुक् ॥ १८६ ॥ तिलके कालकस्तद्वत् तिलकालक इत्यपि । जडुलो जटुलो, मांसे पलं पललमामिषम् ॥ १८७ ॥ अमिषं चार्द्रमांसे तु भवेदर्पशमर्पिशम् । मुख्यमांसे बुक्का नान्तं त्रिषु वुक्कस्त्रिषु स्मृतः ॥ १८८ ॥ ;p{0204} वुक्काग्रमांसाग्रमांसे वृक्कः स्य्यात्पुंस्त्रिर्योर्वसा । मेदः सान्तं मेदोऽदन्तो मस्तिष्को मस्तुलुङ्गकः ॥ १८९ ॥ मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि । करोटीवत् करोटिश्च भकालं च भगालयुक् ॥ १९० ॥ पृष्ठहड्डे कशेरुका कशारुकाऽस्थिसंभवे । मज्जा नान्तो द्वयोर्मज्जाऽबन्तः स्त्री रेत्र-रेतसी ॥ १९१ ॥ बल-बल्ये च वीर्ये द्वे लोम रोम तनूरुहे । तनुरुहं, चर्म चर्मं त्वक् त्वचं चोचमित्यपि ॥ १९२ ॥ असृग्धरा सृग्धरा च कषिते लेख्यचर्मणि । कडित्रं सकटित्रं च स्नायौ वसस्नया स्नसा ॥ १९३ ॥ स्नावा नान्तो, धमन्यां तु धमनिर्नाडि-नाडकौ । नाडी शिरा सिरा नेत्रमले दूषी सदूषिका ॥ १९४ ॥ दूषीका काणुकं काणूकमाणूकवदाणुकम् । घ्राणमले शिङ्घाणक-सिङ्घाणौ, लालिका पुनः ॥ १९५ ॥ सृणीका सृणिका गूथो विड्-विषौ शान्त-षान्तगौ । वर्चस्क-वर्चसी तुल्ये विष्ठा वर्गद्वितीयभाक् ॥ १९६ ॥ नेपथ्ये वेष-वेशौ द्वावुत्सादनमुद्वर्तने । उच्छादनं चापि समालभने चर्चिक्यं मतम् ॥ १९७ ॥ चर्चाऽपि, मण्डने प्रति-परितः कर्म कथ्यते । मार्ष्टे मार्जो मृजा मार्जा मार्जना स्नान आप्लवः ॥ १९८ ॥ आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते । वर्ती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥ वंशिका वंशिकं कृमिजग्धं कृमिजमित्यपि । प्रवरं प्रकरं तुल्ये गोशीर्षे हरिचन्दनम् ॥ २०० ॥ ;p{0205} हरिश्च, रक्तचन्दने पत्रगं च पतङ्गकम् । पत्राङ्गं, सौमनसे तु जातिर्जाती फलं तथा ॥ २०१ ॥ जातीफलं जातिफलं तद्वत्कोशफलं मतम् । जातीकोशं जातीकोषं, कर्पूरे स्यात् सिताभ्रकः ॥ २०२ ॥ सिताभश्चापि, कस्तूर्यां नाभिवद् मृगनाभिजा । मृगनाभिर्मृगमदो मृगः स्याद् मद इत्यपि ॥ २०३ ॥ कुङ्कुमे वरवाह्लीकं वरं वाह्लीक-वाह्लिके । कश्मीरजन्म काश्मीरं कश्मीरजमपि स्मृतम् ॥ २०४ ॥ संकोचपिशुनं तद्वत्संकोचं पिशुनं समे । वर्णं वर्ण्यं, देवसुमे लवङ्गं लवसंयुतम् ॥ २०५ ॥ कोशफले कक्कोलकं कक्कोलं कोलकं तथा । कोलं कोरं च कालानुसार्ये यापक-जापके ॥ २०६ ॥ कालीयकं कालेयकं कालियं चाग्निवल्लभे । रालोऽक्ष्यरालः, श्रीवासे धूपः स्याद् वृक-वृक्षतः ॥ २०७ ॥ श्रीवेष्टः श्रीपिष्टकश्च कोटीरे मुकुटोऽस्त्रियाम् । मुकुटोऽपि किरीटं स्तात् तिरीटं पुष्पदाम तु ॥ २०८ ॥ नान्तः क्लीन्नोराबन्तोऽस्मिन् मुण्डमालाभिधे स्मृतम् । ललामवल्ललामाऽश्व-प्रधान-ध्वज-लक्ष्मसु ॥ २०९ ॥ पुण्ड्र-वालधि-शृङ्गेषु भूषा-प्रभावयोरपि । माल्यं माला, तिलके तमालपत्रं तमालवत् ॥ २१० ॥ शीर्षस्रज्यवतंसः स्याद् वसन्तोत्तंसकौ समौ । त्रयोऽमी कर्णपूरेऽपि पत्रावल्यां तु पत्रतः ॥ २११ ॥ भङ्गि-लेखा-लताङ्गुल्यो वल्लरी मञ्जरीति च । वल्लिश्चोत्क्षिप्तकायां तु कर्णान्दूश्च कर्णान्दुयुक् ॥ २१२ ॥ ;p{0206} कण्ठभूषायां ग्रैवेयं ग्रैवं ग्रैवेयकं तथा । मुक्तास्रज्याहारो हारः स्त्रीन्रोर्यष्ट्यां सरिः सरः ॥ २१३ ॥ सारिकाऽप्येकावल्यां तु कण्ठी कण्ठिकया सह । कटिके तु पारिहार्यः परिहार्यश्च कङ्कणम् ॥ २१४ ॥ कङ्कणिश्चोर्मिकायां त्वङ्गुलीयकाङ्गुरीयके । मेखलायां सारसनं दन्त्य-तालव्यमध्यगा ॥ २१५ ॥ रसना, काञ्चिः काञ्ची च किङ्किणिः क्षुद्रघण्टिका । किङ्किणी कङ्कणीका च कङ्कणी किङ्किणीत्यपि ॥ २१६ ॥ समे मञ्जीर-मन्दारे नूपुरे पादतः परे । शीली च नालिका पादाङ्गुलीये पादतः परे ॥ २१७ ॥ पालिका कीलिका, वस्त्रे वसनं वस्न-वाससी । सिनो निवसनं सन्नं कर्पटं पटमित्यपि ॥ २१८ ॥ पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा । वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥ दुगूलं, कम्बले रल्लो रल्लकोऽथ निवीतके । प्रावृतं निवृतं, स्थूलशाटे तालव्य-दन्त्यवान् ॥ २२० ॥ वरासिः परिधानस्य ग्रन्थौ नीवी च नीवियुक् । चण्डातके चलनकश्चलनश्चलनिका पुनः ॥ २२१ ॥ चोलश्चोली कञ्चुलिका कञ्चूलः कञ्चुकोऽपि च । कूर्पारकश्च कूर्पासः कुर्पासः सकूर्पासकः ॥ २२२ ॥ शाटके तु शाटः शाटी, परिधानापराञ्चले । कच्छा कच्छाटी च कच्छाटिका कौपीनके पुनः ॥ २२३ ॥ कक्षापटः कक्षापुटः, कर्पटे नक्तको मतः । लक्तकः, प्रच्छदपटे उत्तरच्छद उच्यते ॥ २२४ ॥ ;p{0207} निचोलको निचुलको निचोलं च निचोल्यपि । निचुलोऽवसत्थिकायां स्मृता पर्यस्तिकायुता ॥ २२५ ॥ पर्यस्तिश्चापि पर्यङ्कः पल्यङ्कोऽपि, कुथे पुनः । वर्णपरिस्तोम-वर्णौ परिस्तोमवदास्तरः ॥ २२६ ॥ आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका । जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥ दूष्ये स्थूलं स्थुडमपि, पटकुट्यां तु केणिका । केणिः पल्लवादिकृता शय्या संस्तर-प्रस्तरौ ॥ २२८ ॥ स्रस्तरोऽपि च तल्पे तु शयनं शयनीयवत् । शय्यापि च खट्वायां तु मञ्चवद् मञ्चकः स्मृतः ॥ २२९ ॥ पर्यङ्कोऽपि च पल्यङ्कः पतद्ग्राह-पतद्ग्रहौ । प्रतिग्रह-प्रतिग्राहौ पालेऽथो दर्पणे मतः ॥ २३० ॥ मकुरो मुकुरस्तद्वद् मङ्कुरोऽप्यात्मदर्शवत् । आदर्शो, वस्त्रासने त्वासन्दा-सन्द्यौ च सन्दवत् ॥ २३१ ॥ सन्दी भोजन आच्छादे एकोक्त्या चोभयोरपि । कशिपुर्दन्त्य-तालव्यमध्यः स्याच्छयनासने ॥ २३२ ॥ एकोक्त्योशीरमौशीरं पलङ्कशा पलङ्कषा । राक्षा रक्षा च लाक्षापि तद्रसे याववद्यतः ॥ २३३ ॥ यावको लक्तकालक्तौ, दीपस्तु कज्जलध्वजे । प्रदीपो दीपवृक्षश्च तालवृन्ते तु वीजनम् ॥ २३४ ॥ व्यजनं मृगचर्मेति धवित्रं च धुवित्रवत् । केशमार्जे कङ्कतिका कङ्कतः काक-कङ्कते ॥ २३५ ॥ कङ्कती, बालक्रीडने गिरिको गिरिवद्गुडः । गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥ ;p{0208} गेन्दुकोऽपि कन्दुके द्वौ, पार्थिवे नृपतिर्नृपः । भूप-भूपति-भूपालास्तथा मूर्ध्नाभिषिक्तयुक् ॥ २३७ ॥ मूर्द्धावसिक्तो राजा राट् राज्ये महिन-माहिने । वसुदेवा वासुदेवा अर्द्धचक्रिषु संमताः ॥ २३८ ॥ तज्ज्येष्ठभ्रातृषु बला बलदेवाः, पृथौ नृपे । वेनिर्वैन्यो, भरते तु स्यात् सर्वदमनस्तथा ॥ २३९ ॥ सर्वंदमः, सीतापतौ रामः स्याद् रामचन्द्रवत् । रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः ॥ २४० ॥ कैकेयी कैकयी चास्याः पुत्रे तु भरतो मतः । भरथोऽप्यथ जानक्यां शीता तालव्य-दन्त्ययुक् ॥ २४१ ॥ इन्द्रसुते वालिर्वाली, मारुतो हनुमानिति । हनूमान्, भीमशत्रौ किर्मीरः कर्मीर-कीर्मिरौ ॥ २४२ ॥ हिडिम्बो डीकारयुक्तोऽर्जुने फल्गुन-फाल्गुनौ । बीभत्सो बीभत्सुरपि, पाण्डुसूनुषु पाण्डवः ॥ २४३ ॥ पाण्डवायनाश्चाऽर्जुनधनौ गाण्डीव-गाण्डिवौ । धनुर्मात्रेऽप्यमू, हाले वाहनः सात-सालतः ॥ २४४ ॥ सालोऽपि, परिवारे तु परेर्बर्हश्च बर्हणम् । आतपत्रे प्रतपत्रं छत्रं छत्रश्च छत्र्यपि ॥ २४५ ॥ रोमगुच्छे चामरं स्याच्चामरश्चामरस्तथा । चामरापि, भृङ्गारे त्वालूराण्डूः, सचिवे पुनः ॥ २४६ ॥ अमात्य आमात्यो मन्त्री मन्त्रिश्च, द्वारपालके । प्रतीहारः प्रतिहारो द्वाःस्थो द्वाःस्थितदर्शकः ॥ २४७ ॥ द्वाःस्थितो दर्शकस्तद्वत् द्वाःस्थितादर्श्यऽपि स्मृतः । सूदाध्यक्षे पुरोगुः स्यात् तथा पौरोगवोऽपि च ॥ २४८ ॥ ;p{0209} सूपकारे सूप-सूदौ स्यादन्तःपुरके पुनः । आन्तर्वेश्मिकयुगान्तर्वंशिकोऽन्तःपुरे समौ ॥ २४९ ॥ अवरोधनावरोधौ भवेत्कञ्चुकिके पुनः । कञ्चुकी सौविदिल्लश्च सौविदः, स्थपतिस्तथा ॥ २५० ॥ स्थापत्यः स्थापतीकश्च रिपौ शत्रुः सशात्रवः । अभिमातिरभियातिरारातिश्चाऽप्यरातियुक् ॥ २५१ ॥ ऋष्व-ऋश्वौ घातुकेऽपि द्विषन् द्वेषी च द्विड्युतः । परेः पन्थक-पन्थिनौ, सख्यौ सूर्येऽपि चोच्यते ॥ २५२ ॥ मित्त्रशब्दो द्वितकारः, सख्ये सौहार्द-सौहृदे । मैत्त्र्यं मैत्त्री, हेरिके तु चरश्चारोऽवसर्प्यवत् ॥ २५३ ॥ अपसर्पः, सान्त्वजे तु शाम तालव्य-दन्त्ययुक् । प्रावृते लञ्चया लञ्च उपदोपप्रदानवत् ॥ २५४ ॥ शौर्ये शौण्डीर्य-शौण्डीरे नय-न्यायौ समञ्जसे । भागधेयो भागधेयी भागोऽपि कारवत् करः ॥ २५५ ॥ राजदेयेऽनीकिन्यां तु सेना सैन्यं चमूश्चमुः । सैन्यपृष्ठे प्रति-परेर्ग्रहः, केतौ तु केतनम् ॥ २५६ ॥ वैजयन्ती वैजयन्तो जयन्ती च ध्वजो ध्वजिः । ध्वाजिश्च ध्वजपस्तद्वत्पताकाऽपि पटाकया ॥ २५७ ॥ ध्वजः कूर्चक उच्चूडोच्चूलौ द्वौ चूड-चूलकौ । अवात्परौ क्रीडार्थे तु रथे पुष्परथो मतः ॥ २५८ ॥ मूर्द्धन्यान्तस्थायोगाप्तो, भवेत् कर्णीरथे पुनः । डयनं हयनं चाप्यनसि स्याच्छकटस्तथा ॥ २५९ ॥ शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः । वाहसो वृषभेऽप्येतौ, प्रधौ नेमी च नेमिवत् ॥ २६० ॥ ;p{0210} अक्षाग्रकीले त्वण्यानी अस्नि-सीम्नोरपि स्मृतौ । पिण्डिकायां नाभिर्नाभी, कूबरं स्याद् युगन्धरे ॥ २६१ ॥ कुबरं चाधःस्थदारावनुकर्षा नरि नान्तगः । अनुकर्षोऽस्त्यदन्तोऽपि धूर्वीवद् धूर्धुराऽपि च ॥ २६२ ॥ यानमुखेऽथ दोलायां प्रेङ्खः प्रेङ्खा, विनीतकम् । वैनीतकं, परम्परावाहने शिबिकादिके ॥ २६३ ॥ याने तु वह्यं वाह्यं च वहनं वाहनं तथा । सारथौ वर्ग्यद्वादश ऋकाराकारयुक् त्विह ॥ २६४ ॥ सव्येतः ष्ट्टष्ठ-ष्ठातारौ दक्षिणात् स्थश्च संस्थवत् । रथवति त्रयोऽप्येते रथिको रथिरो रथी ॥ २६५ ॥ अश्ववारे सादिः सादी रथिकेऽप्यमू यन्तरि । निषादी सनिषादिश्च, भटे योद्धा सयोधकः ॥ २६६ ॥ तथा भण्डीर-भाण्डीरौ वनेऽपि कथितावमू । सेनासमवेते सैन्यः सैनिकोऽपि च योद्धृषु ॥ २६७ ॥ सहस्रेण साहस्रिणः साहस्रः, प्रतिमुक्तवत् । स्यादामुक्तो पिनद्धश्च पिनद्धे कवचे पुनः ॥ २६८ ॥ माढिर्माढा दशनं च दंशस्त्वक्त्रं तनुत्रवत् । कञ्चुके वारबाणः स्याद् बाणवारो धियाङ्गवत् ॥ २६९ ॥ अधियाङ्गमधिकाङ्गं सारसने त्रयं स्मृतम् । शिरस्त्राणे तु शीर्षण्यं शीर्षकं, शस्त्रजीवनि ॥ २७० ॥ आयुधीयश्चायुधिको भवेत् परश्वधायुधे । पारश्वधिकवत् पारश्वधः, प्रहरणेऽस्त्रवत् ॥ २७१ ॥ शस्त्रं, चापे धन्व धन्वं पुंक्लीबो धनुवद्धनुः । धनूः स्त्रियां त्रिणतावत् तृणता धनुषोऽग्रके ॥ २७२ ॥ ;p{0211} अटन्यटनिरर्त्यार्त्नी पीडायामपि स्यात्तलम् । तला चाऽपि गोधायां स्याद् वेध्ये लक्ष्यं सलक्षकम् ॥ २७३ ॥ बाणे पृषत्कस्तात्कान्तः सायकः सायवत्सरः । शरः शरुः स्वरुर्भल्लो भल्लिश्चापि कडम्बयुक् ॥ २७४ ॥ कलम्ब इव कादम्बो भेर-भेलावमू तथा । भेकेऽपि कर्तरि पुङ्खे कर्तरी, शरधौ पुनः ॥ २७५ ॥ तूणी तूणा तूणं तूणस्तूणीरश्च निषङ्गवत् । उपासङ्गोऽपि खड्गे तु ऋष्टि-रिष्टी नरस्त्रियौ ॥ २७६ ॥ करवालः करपालः करालिकस्तथोदितः । चन्द्रहासश्चन्द्रभासो धारान्तोगो धरोऽपि च ॥ २७७ ॥ प्रत्याकारे कोश-कोषावावरणे फरं स्फरम् । स्फरः स्फरकः फरकः फलकं फलमित्यपि ॥ २७८ ॥ खेटकः खेटकं खेटं, कृपाणिका छुरी क्षुरी । क्षुरिका साऽऽयता पत्रात्पालः स्यात्पालिकाऽपि च ॥ २७९ ॥ एकधारासौ स्यादीली इली च करवालिका । करपालिकाऽपि तरवालिकाऽपि च कुन्तके ॥ २८० ॥ प्रासस्तालव्य-दन्त्यान्तो, मुद्गरे द्रुघणो घनः । द्रुघनः, कुठारे पर्शुः परशुश्च परस्वधः ॥ २८१ ॥ पर्श्वधः परश्वधश्च स्वधितिः परितो घके । पलिघो दन्त्य-तालव्यौ शर्वली शर्वला युधि ॥ २८२ ॥ लोहदण्डे पट्टिशः स्याद् दन्त्य-तालव्यप्रान्तगः । अभ्यासभुवि खण्डूरः खलूरश्च खलूरिका ॥ २८३ ॥ प्रस्थाने त्वभिनिर्याणं प्रयाणं खलु हेतवे । तृणकाष्ठादेः, प्रसृतौ प्रसरणा प्रसारिणी ॥ २८४ ॥ ;p{0212} प्रसारश्च प्रसरणं, वैरिणः प्रति गच्छति । अभ्यमित्र्योऽभिमित्रीयोऽभ्यमित्रीणो, बलान्विते ॥ २८५ ॥ उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जस्वलः । ऊर्जस्वप्यूर्जस्वांश्च जिष्णौ जेता च जैत्रवत् ॥ २८६ ॥ जित्वरो, वैतालिके तु सौखशायनिको मतः । सौख्यशय्यिकश्चाक्रिके घण्टिको घाटिकोऽपि च ॥ २८७ ॥ मागधो मगधो मङ्खे वैश्यात् क्षत्र्यां भवेऽपि च । छन्दोजातावुष्णिहोष्णिग् बले शुष्मं तु शुष्मणा ॥ २८८ ॥ ऊर्ज ऊर्जो गूर्जः सान्तं क्लीबं च सहसा सहः । सङ्ग्रामे युद्धं युत् संयत् पुंस्त्रियोश्च संयद्वरः ॥ २८९ ॥ संयतं राटी रालिर्ना समितिः समितः समित् । समः स्फोट-स्फेट-फेटाः प्रध्मश्च प्रधनं तथा ॥ २९० ॥ समुदायः समुदयः सांपरायकमित्यपि । सांपरायः संपरायकमग्रगमने मतम् ॥ २९१ ॥ नासीरस्त्रिषु, धाटौ तु धाट्यवस्कन्द इत्यपि । अभ्यवस्कन्दः, सौप्तिके त्ववापात् स्कन्द उच्यते ॥ २९२ ॥ पलायने तु संदावः समुत्प्रेभ्यश्च द्राववत् । द्रववद् विद्रवो, भग्ने पराजित-जितौ समौ ॥ २९३ ॥ भूतः परापर्यभितो, गुप्तौ तु चार-चारकौ । बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ॥ संन्यासिके तापसः स्यात् तपस्व्यपि च सूरतः । सूरथोऽपि च दाने द्वौ शान्त-श्रान्तौ जितेन्द्रिये ॥ २९५ ॥ शुद्धकर्माऽवापाद् दानं माहादाने प्रवारणम् । वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः ॥ २९६ ॥ ;p{0213} द्व्यग्राभ्यां, बटौ माणवो माणवकस्तथैव च । मौञ्जीबन्धे तूपापाद् नाय-नयावानय इत्यपि ॥ २९७ ॥ अग्नीन्धने स्यादाग्नीध्राग्नीध्र्यौ स्यातां जटाजटिः । सटायां, तपस्वि पीठे वृषी वृसी, कमण्डलौ ॥ २९८ ॥ कुण्डं कुण्डी कुण्डिका च, यजमाने तु याजकः । यष्टाऽथ सोमपे सोमा सोमात्पीती पीथी च नान्तगौ ॥ २९९ ॥ सर्ववेदः सर्ववेदौ सान्ताऽदन्तौ तु याजके । सर्वस्वदक्षणेष्टेश्च, हुतौ होम नपुंसकम् ॥ ३०० ॥ नान्तं होमो नरेऽदन्तो होत्रं, भूमिः परिष्कृता । वेदिर्वेदी च, निर्मन्थदारुणि त्वरणिर्द्वयोः ॥ ३०१ ॥ अरणी समिधि त्वेध एधः सान्तं तथेन्धनम् । नान्तादन्ते तु इध्मेध्मे रक्षाभस्मनि क्षारवत् ॥ ३०२ ॥ स्रुवे स्रुग्, मखवधे तु शसनं शमनं समे । शृतोष्णक्षीरगे दध्नि आमीक्षाऽमिक्षया सह ॥ ३०३ ॥ दधिषाज्य-दीधीषाज्यौ दधियुक्तघृते मतौ । मृषावादिन्यपि चाग्निहोत्रिण्यग्न्याहितो भवेत् ॥ ३०४ ॥ आहिताग्निर्दर्विर्दर्वी घृतलेखनिकोच्यते । आचमने तूपस्पर्श उपसंस्पर्शनं तथा ॥ ३०५ ॥ उपसंस्पर्शः पाठे तु निपाठ-निपठौ समौ । स्वाध्याये जपो जाप उपवास उपोषितम् ॥ ३०६ ॥ अपवस्त्रमुपवस्त्रमौपवस्त्रोपवस्त्रके । वृत्ते चरित्रं चारित्रमाचार-चरणे अपि ॥ ३०७ ॥ चरितं, प्राचेतसे तु वाल्मीकिर्वल्मीकयुक् । वाल्मीक-वाल्मिकौ तद्वत् कविरादिकविस्तथा ॥ ३०८ ॥ ;p{0214} मैत्रावरुणिः समैत्रावरुणो, बादरायणे । वेदव्यासश्च व्यासः, स्याद् रामः परशुरामवत् ॥ ३०९ ॥ जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः । वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् ॥ ३१० ॥ गोनर्दीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ । वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः ॥ ३११ ॥ स्फोटायनः स्फौटायनः पालकाव्ये करेणुभूः । कारेणवो मुनिभेदे स्यादत्त्रिरत्रिणा समम् ॥ ३१२ ॥ अपिशलिरापिशलिः कशात् कृत्स्नः सकृत्सकः । मृकण्डुवद् मृकण्डश्च, हारीतो हारितोऽपि च ॥ ३१३ ॥ पक्षिभेदेऽपि, कुमारः कुमारिलसमन्वितः । नास्तिके लौकायतिको लोकायतिक इत्यपि ॥ ३१४ ॥ बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ । आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ॥ ३१५ ॥ ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा । कृषौ प्रमृतमनृतं वाणिज्यं वणिक्कर्मणि ॥ ३१६ ॥ वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः । वणिक् प्रापणिकः प्रोक्त आङ्पराः पणिकस्तथा ॥ ३१७ ॥ पनिकः पतिकश्चैव पदिकः, क्रायके पुनः । क्रायिको विक्रायके च क्रयिको विक्रयी तथा ॥ ३१८ ॥ मूल्ये वक्रयाऽवक्रयौ मूलद्रव्ये तु नीविवत् । नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च ॥ ३१९ ॥ वैमेयोऽपि परदाने व्यवहारे पणं पणः । न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ॥ ३२० ॥ ;p{0215} सत्यङ्कारः सत्याकृतिः संख्येते तु गणेयवत् । गण्यं, पोते प्रवहणं वहनं वहितं तथा ॥ ३२१ ॥ वहित्रं वाहित्थमपि, पोतवाहे नियामकः । निर्यामोऽपि च बेडायां स्तरणिस्तरणी तरिः ॥ ३२२ ॥ तरी स्तरी च काष्ठाम्बुवाहिन्यां द्रुणिवद् द्रुणीः । द्रोणिर्द्रोणी च नौदण्डे क्षेपणिः क्षेपणीयुता ॥ ३२३ ॥ काष्ठकुद्दालेऽभ्रिरभ्री, प्लवे स्यादुडुवो डुवः । उडूप उडुपस्तरपण्ये तु तर आतरः ॥ ३२४ ॥ आतार आतारुरपि, वृद्ध्याजीवे तु वार्धुषिः । वार्धुषिक ऋणे धारोऽस्त्र्युद्धारे प्रतिभूः पुनः ॥ ३२५ ॥ लग्नको लग्नः, षोडशमात्रैः करिष-कार्षकौ । तुला विंशत्या तु भारो भरश्च शकटीनवत् ॥ ३२६ ॥ शाकटोऽपि शलाटश्च शरारोऽपि तुरीयके । प्रस्थभागे कुटपः स्यात् कुडवः कुलवोऽपि च ॥ ३२७ ॥ द्रोणैः षोडशभिः खारी खारी मानभिदि स्मृता । काकनी काकिणी, क्रोशद्वये गव्यूतिरुच्यते ॥ ३२८ ॥ गव्यागव्यूते, गोमति, गवीश्वर-गवेश्वरौ । गोम्याभीरे तु गोपाल-गोपौ स्यातां कुटुम्बिनि ॥ ३२९ ॥ कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि, च । क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥ लाङ्गलदण्डे ईषेशे, प्रोक्ता लाङ्गलपद्धतौ । शीता तालव्य-दन्त्यादिर्नदीभेदेऽपि लाङ्गले ॥ ३३१ ॥ निरीषे तु कुट-कूटौ कुटकं, कुशिकं पुनः । कृशिकश्च फलं फालः कुद्दालश्च कुदालवत् ॥ ३३२ ॥ ;p{0216} गोदारणे प्रवयणे तोत्रं प्रतोद-तोदने । आबन्धे तु योत्र-योक्त्रे कोटीशो लोष्ठभेदने ॥ ३३३ ॥ कोटिशः खलवाल्यां तु मेधिर्मेथिश्च शूद्रके । पद्य-पज्जौ क्षत्र-वैश्याजातौ माहेष्यवद् मतः ॥ ३३४ ॥ महिष्योऽपि शिल्पिनि तु स्युः कारु-कारि-कारयः । ध्वजो ध्वजी कल्पपाले मध्ये कपिश-कापिशे ॥ ३३५ ॥ कापिशायनं माध्वीकं मार्द्वीकं च परिश्रुता । परिस्रुद् दन्त्य-तालव्यमध्यातालव्य-दन्त्यभृत् ॥ ३३६ ॥ सुरा-मदिरा मद्वरी मदना मद्य-बीजके । नग्नहूर्नग्नहुर्मध्यसन्धाने, भिष-वासवौ ॥ ३३७ ॥ पानपात्रे तु, तर्षणाऽनुतर्षौ मद्यपाशने । उपदंशश्चावदंशः स्यात् तेजसावर्तनीमुखा ॥ ३३८ ॥ मूषा मूषी शाणे शाणा शाणीर्निकषवत्कषः । कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी ॥ ३३९ ॥ सूत्रिः सूत्री सूचि-सूत्रे द्वे पिप्पलक-पिप्पले । कर्तनसाधने तर्कुस्तर्कुट्यपि च सीवनम् ॥ ३४० ॥ सेवनं च स्यूतौ, स्यूते तु प्रसेवश्च प्रसेवकः । स्योनं स्यात्तन्तुवाये तु तन्त्रवायः कुविन्दवत् ॥ ३४१ ॥ कुपिन्दोऽपि सूत्रवेष्टे त्रसरस्तसरोऽपि च । वानदण्डे वेम वेमा तन्तौ स्यात् सूत्रतन्तुवत् ॥ ३४२ ॥ सूत्रः सूत्रं सूत्र्यपि स्यादुपानहि तु पादुका । पादूः पन्नद्धापि पादाज्जङ्गुर्वीथी रथी तथा ॥ ३४३ ॥ पीठी त्राणं रक्षणं च पदात् त्वरायतापि च । वरत्रायां नध्री वध्री वार्द्धी वर्द्धापि वर्द्धवत् ॥ ३४४ ॥ ;p{0217} पिण्याके खलिः खलोऽस्त्री स्यात्तक्षिण्यां तु वासिवत् । वासी तूलिका त्वीषी केषिका कान्दविके पुनः ॥ ३४५ ॥ भक्ष्यकारो भक्षकार आदितालव्य-दन्त्यभृत् । श्वेदनिका श्वेदनश्च कन्दौ स्याद् नापिते क्षुरी ॥ ३४६ ॥ क्षौरिको भण्डिवाही च भाण्डिकस्तस्य भाण्डके । क्षुरः खुरो, मायाकारे प्रातिहारिक उच्यते ॥ ३४७ ॥ प्रतिहारो, मायायां तु शाम्बरी साम्बरी तथा । इन्द्रजाले तु कुहुकं कुहकं तद्वदाहतम् ॥ ३४८ ॥ विनोदे स्यात् कुतुकं कौतुकं च कुतूहलम् । कौतूहलं, पापर्द्धौ तु मृगव्यं मृगया मृगः ॥ ३४९ ॥ आच्छोदनं च द्वितीयथद्वितीयकसंयुतम् । आखेटक आखेटश्च, रज्जौ तन्त्री च तन्त्रिवत् ॥ ३५० ॥ वटारक-वटारौ द्वौ वटस्त्रिषु तु दोरवत् । दवरश्च तन्तुगुणे, दाशो दासश्च धीवरे ॥ ३५१ ॥ दाशी सासी धीवरी स्याच्छिलाजतु च चेट्यपि । मत्स्यबन्धने बडिशं बलिशं च, वधास्पदे ॥ ३५२ ॥ शूना तालव्य-दन्त्यादिः, पामरः प्रामरोऽपि च । क्षुल्लकः खुल्लकस्तद्वद्, निषादे तु श्वपाकवत् ॥ ३५३ ॥ पाकश्चण्डाल-चाण्डालौ बुक्कसः पुक्कसस्तथा ॥ पुत्कसोऽन्तावसायी चान्तेवास्यपि पुलिन्दवत् ॥ ३५४ ॥ पुलिन्द्रोऽपि, शबरे तु पत्रशबर उच्यते । वरटो वारटोऽप्युक्त इडीडौ म्लेच्छजातिके ॥ ३५५ ॥ ;p{0218} ;k{चतुर्थः काण्डः} धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा । धरित्री धरयित्री वसुधा सुधा वसुन्धरा ॥ १ ॥ विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वद् महिर्मही । जगतिर्जगत्युर्वरोर्विरूर्वी ग्मा क्ष्मा क्षमा ॥ २ ॥ अवन्यवनिर्धरणी धरणिर्धारया धरा । केलिश्च केलिनी ख्याता महास्थल्यम्बरस्थली ॥ ३ ॥ दीर्घादय ईडेलेराश्च त्विडीडौ डान्तगौ मतौ । अन्दताविड ईडश्च देवभिद्यपि तौ स्मृतौ ॥ ४ ॥ इडेले सर्ग-नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते । द्यावाभूम्योस्तु रोदस्यौ रोदसी रोदसी तथा ॥ ५ ॥ आद्यो ङ्यन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः । द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते ॥ ६ ॥ दिवः पृथिव्यौ च क्षारभूम्यामुषरमूषरम् । इरिणवदीरिणं भूः कृत्रिमोच्चा स्थला स्थलम् ॥ ७ ॥ मृद् मृत्तिकाऽपि सा शस्ता मृत्सा मृत्स्नाऽपि खानिका । लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते ॥ ८ ॥ वशिरो वसिरश्चापि सामुद्रलवणे मतौ । सैन्धवे दन्त-तालव्यादिमं सीतशिवं स्मृतम् ॥ ९ ॥ माणीमन्थं माणिबन्धं रौमके, वसुकं वसु । वस्तकं स्याद्, विड-विटौ पाक्ये, टङ्कस्तु टङ्कणे ॥ १० ॥ टङ्कनः पाचनकश्च पाचनस्तुग्घिका पुनः । खर्ज्जिः स्यात् खर्ज्जिका देशे, विशयी विषयी तथा ॥ ११ ॥ ;p{0219} विषयः पुंस्त्रियोर्नीवृदुपोपातस्तु वर्तनम् । जाङगलो निर्जले देशे जाङगलो जडभूयसि ॥ १२ ॥ नडकीयो नड्वलश्च नडांश्च, बहुशर्करे । शर्करा शर्करिलोऽपि शर्करावांश्च शार्करः ॥ १३ ॥ सिकता-वालुकाप्राये स्याद् सिकतिल-सैकतौ । सिकतावान्, साखायः शाखिनेडाहाल-डाहलाः ॥ १४ ॥ डहालाश्चेदयश्चैद्याः, साल्वाः सल्वा अपि स्मृताः । वाह्लिका-वाह्लि-वाह्लीकाः, पाञ्चालाः स्युः पञ्चालवत् ॥ १५ ॥ कुङ्कणः कौङ्कणोऽप्युक्तो, द्रविडो द्रमिडोऽपि च । ग्रामे तु वसथः सं-न्यु-प-प्रति-परितः परः ॥ १६ ॥ पल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥ मर्यादा घट आघाटः स्थविः स्थिविश्च सीमया । सीमः सीमा त्रिषु नान्तो मालं ग्रामान्तराटविः ॥ १८ ॥ मालकोऽपि भवेत्क्षेत्रे वप्रो वप्यश्च सम्मतः । शाकक्षेत्रे स्तृतं शाकं शाकटं शाकशाकिनम् ॥ १९ ॥ अणुक्षेत्रे चाणवीनमणव्यमपि, भङ्गवत् । भाङ्गीनं च भङ्गाक्षेत्रे, उमाक्षेत्रे तथोम्यवत् ॥ २० ॥ औमीनं च यवक्षेत्रे यव्यं यवक्यं यावकम् । माषाक्षेत्रे तु माषीणं माष्यं च, तृतीयाकृते ॥ २१ ॥ शम्बाकृतं सम्बाकृतं, वापादौ द्रौण-दौणिके । द्रोणस्य, खलधाने तु खलस्त्रिषु च, रेणुके ॥ २२ ॥ धूलि-धूल्यौ पांशु-पांसू रजो ना सान्तषण् रजः । दलौ लोष्टो लेष्टुर्लोष्टुर्नाकौ कुलक-कूलकौ ॥ २३ ॥ ;p{0220} नगरे नगरी द्रङ्ग-द्राङ्गौ पत्तन-पट्टने । पुरस्त्रिषु पूः पुरिश्च, कन्याकुब्जं तु गाधिपूः ॥ २४ ॥ कन्यकुब्जं, शिवपुर्यां कासिस्तालव्य-दन्त्यभृत् । वराणसी वाराणसी वाणारसी वराणसिः ॥ २५ ॥ कासी काश्यथाऽयोध्यायां कोसलोत्तरकोशला । कर्णपुर्यां चम्पा चण्या, मथुरा मघुरान्विता ॥ २६ ॥ मधूपघ्ने, गजाह्वये हस्तिनी हस्तिनायुतात् । हास्तिनात् पुरं स्तम्बपूः लिप्तं स्यात्ताम-दामतः ॥ २७ ॥ तामलिप्ती, विदर्भायां कुडिनी कुण्डिनात् पुरम् । द्वारकाऽनिकाररेफा, सालस्तालव्य-दन्त्यभृत् ॥ २८ ॥ वरणे प्राकारः पारक् जान्तः क्षौमे तु अट्टवत् । अट्टालकयुतोट्टालो, वृत्तौ वाटी च वाटिका ॥ २९ ॥ वाटो-वाटं वाटिरिव प्राचीनं च प्रचीरवत् । मार्गे तालव्य-दन्त्यादिः सरणिः सरणी पथः ॥ ३० ॥ पन्थाः पन्थान-पथी वर्त्मनिर्वर्त्म वर्तनिः । वर्तनी पदवी तद्वत् पदविः, सत्पथे पुनः ॥ ३१ ॥ स्वतितः पन्थाः, अपथमपन्था गूढवर्त्मनि । भूमध्ये तु द्व्युकाराप्ता दन्त-तालव्यपूर्वगा ॥ ३२ ॥ शुरुङ्गा सन्धिला सन्धिः, स्थाने तु पदमास्पदम् । पितृ-प्रेताद्वन-गृहे, धिष्ण्ये सदन-सादने ॥ ३३ ॥ गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः । कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥ ३४ ॥ सत्रं सार्त्रं वस्त्यं पस्त्यं निवासा-ऽऽवास-वासकाः । आवसथो वसितश्चोदवसितं न्याङ्युग् लयः ॥ ३५ ॥ ;p{0221} निकाय्य-निकायौ स्यातां स्यादागारमगारवत् । चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥ यमनं चोपकार्य्यावदुपकार्योपकारिका । प्रसादनः प्रसादोऽपि देव-भूपगृहे समौ ॥ ३७ ॥ मठस्त्रिष्वावसथ्यश्चावसथः स्तूप-तूपकौ । आयतनविशेषेऽथो मृतचैत्ये तु चैत्रवत् ॥ ३८ ॥ चित्यं च हविर्गेहे तु होत्रं होत्रीयवत्स्मृता । आथर्वणे शान्तिगृहं शान्तीगृहं, तृणालये ॥ ३९ ॥ कुटी-कुटि-कुडी तुल्ये, सूतका सूतिका परम् । गृहं त्वरिष्टे, कारूणां कर्मशालाऽनुवासनम् ॥ ४० ॥ अन्वासनमावेशनं, भिल्लसद्मनि पक्वणः । द्विककारोऽस्त्रियां, हट्टेऽट्टोऽस्त्रियां विपणिः स्त्रियाम् ॥ ४१ ॥ विपणी चाऽपणो, वेश्याश्रये वेशः सवेषकः । भित्तौ स्याद्भित्तिका कुड्य-कुट्ये अत्र तृतीयकौ ॥ ४२ ॥ तृतीयतुर्यवर्गस्थो, कुड्येऽन्तर्निहितास्थनि । एडुकैडूके औडूपं, वितर्दौ वेदि-वेदिके ॥ ४३ ॥ प्राङ्गणाऽङ्गणे त्वजिरेऽङ्गनं स्याद्वलजे पुनः । द्वाः स्री द्वारं च बारोपि, परिघेऽर्गलमर्गला ॥ ४४ ॥ अर्गलो तथा वर्गल्यर्गलिका, द्वारयन्त्रके । ताडकं तालकं चास्योद्घाटयन्त्रे तु तालिका ॥ ४५ ॥ प्रतिताल्यपि, कपाट्यां कपाटं च कपाटकः । कवाटः कवाटी तुल्यौ कुवाटोऽररोऽऽररी ॥ ४६ ॥ अररी स्तम्भाद्यधःस्थदारौ प्रोक्ते शिली-शिले । गोपानसिर्गोपानसी वक्रे वलभिच्छादने ॥ ४७ ॥ ;p{0222} दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः । बहिर्द्वारप्रकोष्ठे तु प्रघाण-प्रघणौ समौ ॥ ४८ ॥ प्रघानः प्रघनोऽलिन्दे आलिन्दः पटलस्त्रिषु । पटं छदिः छादिः सान्ते ल्कीत्वालेऽथेन्द्रकोशके ॥ ४९ ॥ तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे । वलभिर्वर्डभी तद्वद्वडभिश्च्यूडया समम् ॥ ५० ॥ चूला मूलापि, गवाक्षे जालं जालकमित्यपि । कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके ॥ ५१ ॥ अधिरोहिण्यां निःश्रेणिः निर्विसर्गाऽविसर्गयुक् । निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः ॥ ५२ ॥ का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दका । नन्द्यावर्तप्रभृतिषु, समुद्गे संपुटः पुटः ॥ ५३ ॥ मञ्जूषायां तु मञ्जूषा पेटा-पटिक-पेटकाः । पेडा, व्यवहारिकायां तु वर्धनीवदवर्धनी ॥ ५४ ॥ बहुकरो बहुकरा बहुकरा तयेरिते । धूल्यादौ तु समः कार-कराववकरः स्मृतम् ॥ ५५ ॥ खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् । उरूखलं किलिञ्जे तु कटः कटी कटं तथा ॥ ५६ ॥ मुसले मुषलोऽयोग्रमयोनिर्वंशनिर्मिते । भाण्डे तु कण्डोलकः स्यात्कण्डोलः पिटकः पिटम् ॥ ५७ ॥ तितउः चालनी स्त्रीषण्, सूर्पं तालव्यदन्त्ययुक् । प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् ॥ ५८ ॥ अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुदः परे । हानं धानं ध्मानं च, पिठरस्त्रिषु चोखया ॥ ५९ ॥ ;p{0223} उखः स्थालं स्थालिः स्थाली कुण्डकुण्डी च कुण्डिवत् । कुण्डी कुम्भिः कुम्भी घटे घटी कुटोऽस्त्रियां कुडः ॥ ६० ॥ कलसः कलशः कुम्भस्त्रिष्वङ्गारकपात्रिका । हसन्तिका हसन्ती च हसनी चाम्बरीषवत् ॥ ६१ ॥ अम्बारीषं, पिष्टपाकभृत्पृचीषमृजीषवत् । दर्व्यां खजा खजाका च खजका खजिकापि च ॥ ६२ ॥ दारुहस्तके तु तर्द्रूस्तर्दूरपि गलन्तिका । आडूरालूर्भवेदालुः कर्करीका च कर्करी ॥ ६३ ॥ करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः । कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥ अलिञ्जरे तु मणिको मणिर्गर्गर्या मन्थनिः । मन्थनी कलशी तद्वत् कलशिः, क्षुब्धके मथः ॥ ६५ ॥ मथिर्मन्थान-मन्थकौ मथापो मन्थ एव च । मन्था विशाखा-वैशाखौ खजकी खजका खजा ॥ ६६ ॥ खजश्च खजको, मन्थविष्कम्भे कुटरस्तथा । कुटकः शालाजिरे तु दन्त्यतालव्यपूर्वगः ॥ ६७ ॥ सरावो ना दृतिस्तत्र खल्लं खल्लश्च भाण्डिभित् । ध्रुवका ध्रूवकाऽमत्रे पात्रं पात्री च पात्रकाः ॥ ६८ ॥ तद्विशालं स्थालं स्थाली, शैले तु धर-भूधरौ । भूध्रोऽद्रिश्च शद्रि-सद्री शिखी स्याच्छैखरोपि च ॥ ६९ ॥ क्रौञ्चे क्रुङ् तथा कौञ्जोऽपि, विन्ध्ये मेकल-मेखलौ । उज्जयन्ते रैवतको रैवतश्चक्रवालवत् ॥ ७० ॥ चक्रवाडो लोकालोकाचले, मेरूः सुमेरूवत् । स्वर्णाद्रावथ कन्दर्यां कन्दरा कन्दरं दरिः ॥ ७१ ॥ ;p{0224} कन्दरोऽपि दरो, दर्याः प्रस्थे प्रष्ठोऽपि सानुयुक् । स्नुर्ना तालव्यमूर्धन्यमध्यौ पाषाणयुग् दृषत् ॥ ७२ ॥ शिलाशिल्यौ ग्रावाकारे खनी खानी खनिस्तथा । निधितडागयोरप्येतौ द्वौ, धातौ तु गैरिकम् ॥ ७३ ॥ गवेरुकं च कस्सटी खटिनी च खटीयुता । कठिन्यां ताम्र ऊदम्बमुदुम्बुरमुडुम्बरम् ॥ ७४ ॥ औदुम्बरं वरिष्ठं स्यात् त्रिकवर्गद्वितीययुक् । वङ्गे त्रपु त्रपुस्तपुर्द्वे सान्ते त्रीणि षण्ढके ॥ ७५ ॥ तारे श्वेतं शितं रूप्यं रूप्रं भीरु सुभीरुकम् । कनके स्वर्णं सुवर्णं स्याद् महारजतान्वितम् ॥ ७६ ॥ रजतं हेम हेमोऽस्त्री रुक्मं रुग्मं च रुक्मलम् । शातकुम्भं शातकौम्भं हिरण्यं हिरणं तथा ॥ ७७ ॥ वराटशुक्रयोरप्येतौ स्यातां भर्म-भर्मणी । शृङ्गी शृङ्गिरलङ्कारसुवर्णेऽथाऽऽरकूटके ॥ ७८ ॥ आरोऽस्त्री रिरी रीरी च कांस्यं स्याद् वङ्ग-शुल्वजे । कंसं च पञ्चलोहे तु सौराष्ट्रं च सौराष्ट्रकम् ॥ ७९ ॥ पारतः पारदः सूते चलश्च चपलोऽभ्रके । अभ्रं गिरिजामलं स्याद् गिरिजं चामलं तथा ॥ ८० ॥ शिखिग्रीवे तुच्छाञ्जनतुच्छे पुष्पाञ्जने पुनः । पौष्पकं पुष्पकं पुष्पं पुष्पकेतुवदाढकी ॥ ८१ ॥ तूबरी तुबरी प्रोक्ता मृत्तालकं मृतालकम् । मृत्तिका मृत्स्नया मृत्सा, गन्धाश्मनि सुगन्धकः ॥ ८२ ॥ सौगन्धिकः सुगन्धश्च गन्धिको गन्धकोऽपि च । गोदन्ते हरितालं स्यात् तालमालमलं तथा ॥ ८३ ॥ ;p{0225} मनोगुप्तायां नेपाली नैपाली च मनः शिला । शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् ॥ ८४ ॥ हंसपादे हिङ्गुलोऽस्त्री हिङ्गुलुः स्यादथाश्मजे । गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु ॥ ८५ ॥ बोले गोपरसो गोपो रसो गन्धरसान्वितः । रत्ने मणिश्च माणिक्यं वैडूर्यं वालवायजे ॥ ८६ ॥ वैडूर्यमपीन्द्रनीले महानीलं तथाङ्परौ । पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके ॥ ८७ ॥ हीरश्च हीरको, राजपट्टे प्रोक्तो विराटजः । वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि स्फटिके मतम् ॥ ८८ ॥ स्फाटिकं च, शक्तिजे तु मुक्ता मुक्ताफलान्विता । मौक्तिकं च मकुतिकं भवेद् मुकुतिकं तथा ॥ ८९ ॥ वणिग्द्रव्येऽपि, पानीये जीवनीयं च जीवनम् । नीरं नारं भीरं वा स्त्री-क्लीबयोर्वारे वार्दरे ॥ ९० ॥ उदकोदे दक-दगे कबन्धं बन्ध-मन्धके । कमन्धमापः स्री भूम्नि आपः सन्तस्त्र्युत्सूत्सकौ ॥ ९१ ॥ शम्बरं दन्त-तालव्यादिमं स्याच्छवरः शिवम् । कृपीटं कृषीटमलं कमलं च शरं सरः ॥ ९२ ॥ सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् । जलं जडं च सलिरं सरिलं सलिरं तथा ॥ ९३ ॥ सरिरं त्रिपकारं च पिप्पलं, स्यादगाधके । अस्थाघमस्ताघा-ऽस्तागे गम्भीरं च गभीरवत् ॥ ९४ ॥ निम्ने चलागाधयोश्च, धूमिका धूमरी हिमे । धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ॥ ९५ ॥ ;p{0226} वार्द्धिर्वारिनिधिरुत्सोत्सू अपांपतिरप्पतिः । यादसांपतिश्च यादःपतिश्चाप्यकूपारवत् ॥ ९६ ॥ अकूवारः पारापारः पारावारोऽपि कथ्यते । अवारपारस्तरङ्गे भङ्गो भङ्गं महत्पथम् ॥ ९७ ॥ लहरी लहरिः, फेन डिण्डीरः सहिण्डीरकः । पिण्डीर-दिण्डिरौ तट्यां तटं तटः प्रतीरवत् ॥ ९८ ॥ तीरं रोधोऽदन्तः पुंसि रोधः सान्तं नपुंसके । जलोज्झितेस्मिन् पुलिनं पुरिनं सैकतं तथा ॥ ९९ ॥ सिकता, नद्यां ह्रदिनी ह्रादिनी च धुनी धुनिः । आपगाऽथाप्यपगा श्रोतो दन्त्य-तालव्यगादितम् ॥ १०० ॥ स्रोतस्विनी स्रोतस्वती स्रोतोवहा स्रवन्तिका । द्रवन्त्योषधिभेदेऽप्यमू भवेतां च, गोदया ॥ १०१ ॥ गोदावरी, सुर्यात्मजा तापिस्तापी शतद्रुयुक् । शुतुद्रिः शुतुद्रुरपि शितद्रुः सरयूयुता ॥ १०२ ॥ सरयुः कोसलानद्यां, नदीभेदे तु चन्द्रिका । चन्द्रभागा चन्द्रभागी भागी चान्द्राच्च भागया ॥ १०३ ॥ वासिष्ठ्यां गोमती तद्वत् गोतमी स्याद् विपाड्युता । विपाशोक्ता, वैतरणी वैतरणिरवन्तिगा ॥ १०४ ॥ सिप्रा सृपापि, स्वतोऽम्भःसरणे श्रोत उच्यते । दन्त्य-तालव्ययुग् देहसिरास्वपि प्रवाहके ॥ १०५ ॥ वेणिर्वेणीवक्त्रं वक्त्रं पुटभेदेऽम्बुनिर्गमे । परिवाह-परीवाहौ नाल-नादौ प्रनालिका ॥ १०६ ॥ प्रणालः प्रणालं तोयमार्गे सरणिः सारणी । कुल्यायां सिकतायां तु वालुका वालिकापि च ॥ १०७ ॥ ;p{0227} बिन्दौ पृषतिः पृषतः पृषत्, पङ्के तु कर्दमः । दमोऽपि, दीर्घिकायां तु वापिर्वापी च कूपके ॥ १०८ ॥ क्षुद्रे चुरिश्चुरी चुण्ढिश्चुण्ढी च घटीयन्त्रके । उद्घाटकमुद्घाटनमुद्घातनमपि स्मृतम् ॥ १०९ ॥ कासारे तु तडागः स्यात् तडाकश्च तटाकवत् । सरः-सरस्यौ स्थानकेऽलवालं चालवालयुक् ॥ ११० ॥ आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः । झरी झरा निर्झरश्च, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥ दमुना दमूना सन्ता वञ्चतिश्चाङ्कतिस्तथा । शुष्मा बहिर्बर्हिः शुष्मा नान्तः शुष्मोऽस्त्यदन्तकः ॥ ११२ ॥ आश्रयाश आशयाश विश्वप्सा नान्तगो मतः । विश्वप्सोऽपि नान्तो दान्तः, शन्त्रतोऽपि तनूनपात् ॥ ११३ ॥ घासिर्घसुरिर्हवनो हविश्च द्वौ वनात्परौ । दवो दावो, हेतौ कीला कीलो ज्वालोऽपि ज्वालया ॥ ११४ ॥ अर्चिरर्ची सन्तेदन्तावूष्मा नान्तः सहोष्मया । बाष्पे, तडिति शम्पा स्यात् सम्पा शम्बा च विद्युता ॥ ११५ ॥ विद्युत् सौदामिनी सौदामनी सौदाम्निकान्विता । सौदाम्नी च सुदाम्नी वा चपला चवला चला ॥ ११६ ॥ आकालिकी चाकालिका, वायौ मरुत-मारुतौ । मरुत् समीर-समरौ सृमरोऽप्यनलानिलौ ॥ ११७ ॥ जगत्प्राणो-जगत्प्राणौ गन्धाद् वाहि-वाह-वहाः । वातिर्वातो भवेत् सारो दन्त्य-तालव्यपूर्वगः ॥ ११८ ॥ शबलवर्णेऽपि सरट्-सरडौ टान्त-डान्तगौ । लघट् च लघिटिः पविः पवनः पवमानवत् ॥ ११९ ॥ ;p{0228} वातूलो वातुलो वातसमूहेऽथासहेऽपि च । वातविकारस्याऽरण्ये षण्डं शण्डं वनं वनी ॥ १२० ॥ सत्रं तालव्य-दन्त्यादि दवो दावोऽटव्यटविः । चुरुम्बः सतुरुम्बश्चारामेऽपोपात्परं वनम् ॥ १२१ ॥ राज्ञामन्तः पुरोद्याने प्रमदा-प्रमदाद् वनम् । वृक्षे द्रुमो विद्रुमो द्रुःकुठिः कुण्ठोंऽह्रिपोऽङ्घ्रिपः ॥ १२२ ॥ शालस्तालव्य-दन्त्यादिः शिखी शाख्यगमोऽगवत् । पारिन्दश्चापि पालिन्दो गाथकेऽपि दलान्विते ॥ १२३ ॥ पर्णलः पर्णिलो वृक्षे स्थाने वृक्षैर्वृतान्तरे । निकुञ्ज-कुञ्जौ जरुट-जरुडौ च, वनस्पतौ ॥ १२४ ॥ फलाप्तवृक्षे फलवान् फलिनश्च फली तथा । फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥ क्षुपो ह्रस्वशिफाशाखे क्षुपको, व्रततिर्लता । प्रततिर्व्रतती तद्वत् वल्लि-वल्ल्यौ च वेल्लिवत् ॥ १२६ ॥ प्ररोहे रोहेऽप्यङ्कुराङ्कुरौ शाखा शिखा लता । स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः ॥ १२७ ॥ मूले वृक्षस्य बुध्नः स्याद् ब्रध्नोऽह्रिरङ्घ्रिसंयुतः । मज्जा नान्तो ना मज्जाबन्ता सारेऽथ वल्लिका ॥ १२८ ॥ त्वचस्त्वचा त्वक् च चोचं शल्कं वल्कं च वल्कलम् । शकलं वल्के शल्के त्वर्धेऽपि शल्कं शकलेऽपि ॥ १२९ ॥ कोटारे निक्कुटः प्रोक्तो निष्कहो, वल्लरौ पुनः । वल्लरी मञ्जरी मञ्जा मञ्जरिश्चापि पर्णके ॥ १३० ॥ पत्रं पात्रं पतत्रं च छादनं छदनं छदः । सन्तं छदोऽस्त्री चादन्तः नवेऽस्मिन् किसलं स्मृतम् ॥ १३१ ॥ ;p{0229} किसलयं द्वयं दन्त्यं, पुष्पे सुमनसः स्त्रियां । भूम्नि सुमना ऐक्येऽपि प्रसूनं सून-सूनके ॥ १३२ ॥ प्रसूतकं प्रसूतं च प्रफुल्लं फुल्लवत् सुमम् । कुसुमं कलिकायां तु कलिः स्यात्कोर-कौरकौ ॥ १३३ ॥ कुड्मले कुद्मलं तद्वत् कुष्मलं कुमलं तथा । मुकुलं मकुरं प्रोक्तं मुकुरं बकुलद्रुमे ॥ १३४ ॥ कुलालदण्डे कोरको दर्पणेऽपि च कोशवत् । कोषो द्वौ च कपे दिव्ये रैवये योनिशिम्बयोः ॥ १३५ ॥ जातीकोशे सिपिधानेऽण्डकोपि स्तबके पुनः । गुत्सो गुच्छो गुलुम्बुश्च गुलुच्छुः सगुलुच्छकः ॥ १३६ ॥ गुच्छको गुञ्छको गुञ्छो गुलुञ्छोऽस्त्री रसे पुनः । पौष्पे मकरन्दः ख्यातो मकलन्दो मकरन्दवत् ॥ १३७ ॥ प्रबुद्धे प्रफुल्ल-फुल्ले संफुल्लोत्फुल्लके स्फुटम् । स्फटितं स्व्याकोशं च व्याकोषं स्यात् फले पुनः ॥ १३८ ॥ शस्यं तालव्य-दन्त्यादि वानावाने तु शुष्कके । ग्रन्थौ पकः षण्ढं सन्तं पसश्च बीजकोशिका ॥ १३९ ॥ शिम्बा सिम्बायुता शिम्बिः शमी शमिश्च पिप्पली । पिप्पलः पिप्परी बोधिः स्याद् बोधिद्रुम इत्यपि ॥ १४० ॥ स्यादश्वत्थे च प्लक्षे तु पर्कटी नन्त-ङ्यन्तगः । जटी नन्तो जटी ङ्यन्तो भवेज्जटिरिदन्तकः ॥ १४१ ॥ न्यग्रोधे तु वटो वट्या वटं जन्तुफले पुनः । उदुम्बरोडुम्बरौ द्वौ मलयूर्जघनेफला ॥ १४२ ॥ मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः । दन्त्य-तालव्यादिः शालाञ्जनोऽक्षीव आक्षीववत् ॥ १४३ ॥ ;p{0230} पुन्नागे केशरो दन्त्य-तालव्यमध्यः केशवः । बकुले केशरस्तद्वत् केसरः सिंहकेसरः ॥ १४४ ॥ मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः । कुरुण्टक-कुरण्डकौ किङ्करातवदीरितः ॥ १४५ ॥ किङ्किराटः, पलाशे तु दन्त्य-तालव्यमध्यगः । किंसुकस्तृणराजे तु तलस्तालश्च तद्भिदि ॥ १४६ ॥ तालि-ताडी, देवताडे देवताडी खरागरी । खरागर्यौ समे प्रोक्ते अगरीवद् गिरागरी ॥ १४७ ॥ मोचायां तु रम्भा रम्भः कदलिः कदलोऽपि च । कन्दलस्त्रिषु वारणवुषा बुषा बुसान्विता ॥ १४८ ॥ हयमारे करवीरः कणवीरस्तथा मतः । प्रतिहासः प्रतीहासः स्याद् गिरिमल्लिका कुटः ॥ १४९ ॥ कौटजः कुटजः कोटी, तत्फले त्विन्द्र-भद्रतः । यवं कलिङ्गं कलिङ्गा, वेतसे वेतसी रथः ॥ १५० ॥ रथाभ्रपुष्पोऽभ्रपुष्पः, कौलौ तु बदरी भवेत् । बदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कुन्धुवत् ॥ १५१ ॥ कर्कुन्धूर्घुट्टा घोण्टा च गोपघोण्टातने भवा । नीपे कदम्ब-कलम्बौ शालस्तालव्य-दन्त्यवान् ॥ १५२ ॥ सर्जे फेनिले त्वरिष्ठो रिष्ठोऽपि पिचुमन्दवत् । पिचुमर्दोऽपि निम्बेऽथ कर्पासे पिचुतूलयुक् ॥ १५३ ॥ पिचुस्तूलः पिचव्यश्च कृतमाले त्वारग्वधः । आर्ग्वधारगवधौ च शम्पाकश्च सम्पाकवत् ॥ १५४ ॥ वृषे वृषक-वृषभावाटरूषोऽटरूषकः । अटरुषोऽटरुषक आटरूषो अटाद् रुषः ॥ १५५ ॥ ;p{0231} वाशको वाशिका वासा वाशा स्त्रीन्रोः करञ्जवत् । करजोऽपि नक्तमाले रक्तमालस्तथेमकौ ॥ १५६ ॥ काकाचिकः काकचिकस्तद्विशेषे तु पूतिकः । पूतीकोऽपि महावृक्षे स्नुक् स्नुट् स्नुहिः स्नुही स्नुहा ॥ १५७ ॥ गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् । सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ॥ १५८ ॥ पारिभद्रे तु मन्दारुर्मन्दारो मन्दरोऽपि च । मधुद्रुमे मधूकः स्ताद् मधुकश्च मधूलकः ॥ १५९ ॥ मध्वष्ठीलो मधुष्ठीलो मधुश्चापि, पलङ्कषे । गुग्गुलो गुग्गुलुः कुम्भं कुम्भोलूश्च कुभोलुवत् ॥ १६० ॥ उलूखलं च खलकं कुम्भोलूखलकं तथा । चारे प्रियालः पियालो राजादन-राजातनौ ॥ १६१ ॥ सन्नकद्रुः सन्नकोद्रुर्धनुष्यटो धनुष्पटौ । धनुरुदन्तः क्षीरिण्यां क्षीरिका च राजादनः ॥ १६२ ॥ राजातनो राजन्यां च फलाध्यक्षोऽप्यध्यक्षवत् । रथद्रुमे स्यात्तिनिषं तिलिशो नेमि-नेमिनौ ॥ १६३ ॥ नेमी ङ्यन्तोऽपि नारङ्गे नार्यङ्गस्तापसद्रुमे । इङ्गुदी गुदमिङ्गुदः स्याछ्रीपर्ण्यां तु काश्मरी ॥ १६४ ॥ कश्मीरवत् काश्मर्या च काश्मीर्यपि च संमता । कम्भारी गम्भारी तुल्ये अम्लीकायां मताम्लिका ॥ १६५ ॥ अम्ब्लिका चाम्ब्लिकाऽम्ब्लीका तिन्तिडी तिन्तिली तथा । तिन्तिडीका तिन्तिडिका, दाडिमः शुकवल्लभे ॥ १६६ ॥ दाडिम्बो दालिमोऽपि स्याच्छेलुः श्लेष्मान्तके शलुः । लकुचे लिकुचोऽप्युक्तो डहुश्चाडहुरित्यपि ॥ १६७ ॥ ;p{0232} बीजके त्वासनः प्रोक्ताऽसनोऽशनवदाशनः । पाटला पाटलिः स्त्रीन्रोर्बहुत्वके भवेद् भुजः ॥ १६८ ॥ भूर्जो भुर्जः कर्णिकारे परिव्याधश्च व्याधवत् । जलवेतसभेदे स्यादिज्जलो हिज्जलोऽपि च ॥ १६९ ॥ निचुलो निचुरो धात्र्यामामलकी त्रिलिङ्गिका । कायस्थावद् वयःस्था च स्याद् भूम्यामलकी पुनः ॥ १७० ॥ ताली तामलक्यमली झाटा चाज्झटयान्विता । विनुन्नको नद्वयाप्तो बिभीतक-बिभेदकौ ॥ १७१ ॥ अक्षभया हरीतकी त्रिलिङ्गा स्याद् वयःस्थया । कायस्थैतत्फलत्रय्यां त्रिफली त्रिफला फलम् ॥ १७२ ॥ तृफला, गन्धवृक्षे तु वरणो वरुण्स्तथा । भवेत् तमाले तापिच्छस्तापिञ्च्छो बिन्दुसंयुतः ॥ १७३ ॥ सिन्दुवारे तु निर्गुण्डी निर्गुण्डा च निगुण्ठ्यपि । सुरस इन्द्रसुरिसोऽप्यथातिक्तके लता ॥ १७४ ॥ माधवीलता माधव्यथोड्रपुष्पे जपा जवा । मालत्यां तु जातिर्जाती सुमनाऽबन्त-सन्तगा ॥ १७५ ॥ विचकिले मल्लिका च मल्लिः स्याच्छतभीरुका । शीतभीरुर्वनजेऽस्मिन्नास्फोता स्फोटया समम् ॥ १७६ ॥ शिवमल्ल्यां बक-बुकौ वसूको वसुको वसुः । वृक्षरुहायां तु वन्दा वन्दाका च जयन्त्यपि ॥ १७७ ॥ जीवन्ती सुषिणे करमर्दः स्यात् करमन्दवत् । कृष्णपाकफलः कृष्णपाकः कृष्णफलात् परः ॥ १७८ ॥ पाकः पाककृष्णफलः पाकाढिफलकृष्णवत् । प्रियङ्गौ फलिनीयुक्ता फला जम्बीरपादपे ॥ १७९ ॥ ;p{0233} जाम्बीरेऽपि च जम्भीरो जम्भीलो जम्भ-जम्भलौ । बीजपुरे पूरकः स्यात् सुपूरकश्च केसरी ॥ १८० ॥ केसराम्लोऽम्लकेसरो मातुलिङ्गश्च लिङ्गवत् । मातुलुङ्गोऽपि, ग्रन्थिले करीर-क्रकरौ समौ ॥ १८१ ॥ करर एरण्डे मण्ड आरण्डः स्यादमण्डवत् । उरुबूकश्चोरुबुको व्यडम्बक-व्यडम्बनौ ॥ १८२ ॥ कपिकच्छ्वां तु कण्डूरा कण्डुराण्डाध्यवेः परा । शूकशिम्बा शूकशिम्बी विजयायां तु मातुली ॥ १८३ ॥ मातुलानी भृङ्गी भङ्गा धूर्ते धुस्तूर-धूस्तुरौ । धूस्तूर-धुस्तुरौ धुस्तुर्धर्तूरो धुत्तुरो रवौ ॥ १८४ ॥ अर्कोऽर्कपर्णो वसुको वसुरा स्फोटयान्विता । आस्फोताऽथ दधिफले कपिच्छः स्यात्कपिच्छवत् ॥ १८५ ॥ लाङ्गली नन्तो ङ्यन्तो नालिकेरी नालिकेरवत् । नालिकेलो नालीकेरो नालिकेरिश्च पर्णकः ॥ १८६ ॥ चीर्णात्कर्जूर-खर्जूरौ वर्षपाकी कपीतनः । पीतनकोऽम्नातकश्चाम्रातकः क्रकचच्छदे ॥ १८७ ॥ केतकः केतकी कोविदारे कुद्दालवत् स्मृतः । कुदारो गजप्रियायां शल्लकी सल्लकीति च ॥ १८८ ॥ सिल्लकी ह्लादिनी ह्लादा तन्निर्यासे तु कुन्दुरुः । त्र्युकारः कुन्दः पालक्यां पालङ्कीति च वंशके ॥ १८९ ॥ त्वचिसारः त्वक्सारोऽपि शिंशपाऽगरुशिंशपा । अगरुवंशलोचना भवेद् वांशीव वंशजा ॥ १९० ॥ तुकाक्षीरी त्वक्क्षीरी च त्वक्क्षीरं रोचना च गोः । गोपित्तरोचना पूगे गूवाकः स्याद् गुवाकवत् ॥ १९१ ॥ ;p{0234} तद्भेदे चिक्कणं चिक्कं ताम्बूली कथिता बुधैः । ताम्बूलवल्ल्यां क्रमुकपर्णचूर्णकसंयुजि ॥ १९२ ॥ तम्बुलं च सताम्बूलं तुम्ब्यां तुम्बः सतुम्बकः । तुम्बी तुम्बिरलाबूवदालाबूरप्यलाबु च ॥ १९३ ॥ लाबुका गुञ्जायां काकचिञ्चिका काकणिन्दिका । काकनन्तिका, गोस्तन्यां मृद्वीका स्याद् मृदीकषा ॥ १९४ ॥ रसा द्राक्षा ध्राक्षा कण्ठ्यां त्रिकण्ट-त्रिकण्टकौ । गोक्षुरो गोक्षुरु-क्षुरौ गोखुरो गिरिकर्णिका ॥ १९५ ॥ आस्फोता स्यादास्फोटा च वीरणीमूल आदृतम् । औशीरमुषिरमुशिग् जान्तो लघुलयं लघु ॥ १९६ ॥ लयमृणाला-मृणाले अवदाहेष्टकापथम् । इष्टकापथावदाहौ बालके वाल इष्यते ॥ १९७ ॥ ह्रीवेरं हिरिवैरं च दद्रुघ्ने तु प्रपुन्नटः । प्रपुन्नाटश्च प्रातुन्नाटकः पद्माट इत्यपि ॥ १९८ ॥ प्रपुन्नाडः प्रपुनाड उरणा क्षोरणाख्यकौ । शिरीषे भण्डी भण्डीरो भण्डिरो भण्डिलोऽपि च ॥ १९९ ॥ जम्बूवृक्षे जम्बुरपि तत्फले जम्बु-जाम्बवे । जम्बूः स्त्री स्यादरलौ त्वरेटुः श्योनावशोणकौ ॥ २०० ॥ स्योनाकः कुटन्नटवद् नटोऽथ चिरजीवकः । जीवको मधुरकश्च मधुरः कूर्चशीर्षके ॥ २०१ ॥ कपीतनो गर्दभाण्डे कपीतः पीतनस्तथा । नागकेसरे केसरो नागः स्याद् मदनद्रुमे ॥ २०२ ॥ पिण्डी पिण्डीतकः कटहलद्रौ पनसः स्मृतः । फनसः पणसो भल्लातके रुष्वोऽप्यरुक्करः ॥ २०३ ॥ ;p{0235} पिच्छिलायां शाल्मलिः स्याच्छल्मलिः शाल्मलोऽपि च । प्लीहशत्रौ रोहितको सरोहितक-रोहितौ ॥ २०४ ॥ रोही खदिरे गायत्री नन्तो ङ्यन्तश्च कथ्यते । पुण्डरीके तु पुण्डर्यं प्रपुण्डरीकमित्यपि ॥ २०५ ॥ कतके कतोऽपि केशहन्त्र्या शमिः शमीति च । ह्रस्वा शमीरुः शमीरस्तूते तूदं तुदं तथा ॥ २०६ ॥ मधुयष्ट्यां यष्टिमधु यष्टीमधुकमादृतम् । यष्टिर्मधुकं त्वक्पत्रे गुडत्वक् त्वक् त्वचं तथा ॥ २०७ ॥ वराङ्गकं वराङ्गं च स्यादेलायां तु निष्कटिः । निष्कटा स्थूलैलायां तु कथिता त्रिपुटा पुटा ॥ २०८ ॥ कर्कटशृङ्ग्यां शृङ्गी च कृष्णाभेट्यां कटंवरा । कटुकी कटुकश्चापि अशोका रोहिणीयुता ॥ २०९ ॥ अशोकरोहिणी दारुहरिद्रायां कालेयकः । कालीयको गालवे तु रोध्र-लोध्रौ च सावरः ॥ २१० ॥ तालव्य-दन्त्यपूर्वः स्यात्, तद्भेदे ङ्यन्त-नान्तगः । पट्टी फणिज्जके तु स्याद् मरुबक-मरूबकौ ॥ २११ ॥ रक्ताम्राते कुरुबकः सोकारानुकाररकः । महासहायामम्लातो म्लातको म्लान इत्यपि ॥ २१२ ॥ अमिलातकेऽपि दुरालभायां तु यवासकः । यवास-यवाषौ यासो धन्वयासोऽपि सम्मतः ॥ २१३ ॥ धन्वयवासको धन्वयासो रोदनी बोधनी । मोरटायां मूर्वा मूर्वी स्रवा स्रुवाऽपामार्गके ॥ २१४ ॥ खराद् मञ्जरि-मञ्जर्यौ भार्म्यां हिञ्जी च फञ्जिका । ब्राह्मणी ब्राह्मण्याद्या स्याद् यष्टिकाथ किरातकः ॥ २१५ ॥ ;p{0236} किरातो हैमे कुष्ठे तु वर्ग्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि ॥ २१६ ॥ शतरुषा शतारुश्च सन्तोऽथो कत्पले पुनः । काफलं कट्फलस्तद्वत् केटरः कैटर्यं तथा ॥ २१७ ॥ अजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि ॥ २१८ ॥ झिण्ट्यां सैरेयश्च सैरीयकः सहचरान्वितः । सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका ॥ २१९ ॥ कुरुबकः कुरुण्टकः सहाचरः सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका ॥ २२० ॥ मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः ॥ २२१ ॥ मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका ॥ २२२ ॥ काष्ठिकापि बलायां स्याद् नागबलायां तु द्वे पुनः । गङ्गेष्ठिका गङ्गेरुका महाबलायां संगता ॥ २२३ ॥ सहदेवी देवसहा हिङ्गुपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता ॥ २२४ ॥ बाष्पीका पृथु-पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ । मयूरो लोचतः ख्यातो मस्तको मर्कटोऽपि च ॥ २२५ ॥ श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवल्ली शारिवद् भवेदुत्पलशारिवा ॥ २२६ ॥ चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी-नल्यौ ग्रन्थिपर्णेंऽशुकं मतम् ॥ २२७ ॥ ;p{0237} शुकबर्हं बर्हिः पुष्पं पुष्पं स्पृकौषधौ पुनः । कोटीवर्षा कोटिवर्षा कोटिर्माला मरुद्युता ॥ २२८ ॥ मरुन्मालाऽप्यथ वृद्धदारके इक्षगन्धया । इक्षुगन्धा छागलात्री छगली तद्वदात्र्यपि ॥ २२९ ॥ दन्त्यां मकूलक-मुकूलौ रक्ताङ्गके पुनः । स्यात्कम्पिल्लश्च काम्पिल्लः काम्पिल्योऽपि कम्पीलवत् ॥ २३० ॥ रोचना रोचनी बलभद्रिका त्रायमाणिका । त्रायन्ता, रास्नायां रस्या रसना रसनं रसा ॥ २३१ ॥ मांसिगन्धद्रव्येषु मिषी मिसिश्च जटिला जटा । जनातिगन्धद्रव्येषु स्याज्जनी जननी जनिः ॥ २३२ ॥ जतूका जतोः का-कार्यौ जतुकृच्चातिविषा पुनः । विषी विषा प्रत्युपाभ्यां त्रिवृति त्रिवृता स्मृता ॥ २३३ ॥ त्रिपुटी त्रिपुटा प्रोक्ता रोचनी रेचनीयुता । शतवीर्यायां तु शतावरी चेन्दीवरी वरी ॥ २३४ ॥ सहदेव्यां सहदेवः सहदेविश्च कथ्यते । मञ्जिष्ठा वर्गद्वितीययुग् भण्डीरी च भण्डिरी ॥ २३५ ॥ भाण्डीरी भण्डी विकसा विकषा कालमेश्यपि । कालमेषी चविकायां चविकं चवनं तथा ॥ २३६ ॥ चव्यं चव्याऽप्यथ तण्डुलायां तु तण्डुलः । तन्तुलोऽपि विडङ्गं च विलङ्गं गन्धमूलिका ॥ २३७ ॥ शटी षटी च कर्चूरः कर्चूरोऽप्यथ क्षीरिणी । हिमावती हिमवती स्थिरायां शालपर्णिका ॥ २३८ ॥ दन्त्य-तालव्याद्याथाखुपर्ण्यां चित्रोपचित्रया । ऐलवालुके वेलेयं वालुकं हरिवालुकम् ॥ २३९ ॥ ;p{0238} नवमालिका सप्तला सातला कैवत्तीपरे । मुस्तके वानेयं वन्यं प्लवं च परिपेलवम् ॥ २४० ॥ दशपूरं दशपुरं, कटम्भरौषधौ मता । भद्रबला राजबला महाबला प्रसारिणी ॥ २४१ ॥ सरणी सरणा वापि सारणी कटली पुनः । ज्योतिष्का ज्योतिष्मती च तर्कार्या वैजयन्तिका ॥ २४२ ॥ जया जयन्ती पानीयकण्टके तु शृगाटकम् । सङ्घाटिका त्रिकोणश्च त्रिकोने प्रोपमे पुनः ॥ २४३ ॥ बाताममपि बादामं पद्मेब्जोऽदन्त-सन्तषण् । जलात् पङ्कात् सरसोऽपि परे जन्म-ज-रुट्-रुहा ॥ २४४ ॥ सरसीरुहं सरसिरुहं विसप्रसूतवत् । विसप्रसूनमपि स्यात्कैरविण्यां कुमुद्वती ॥ २४५ ॥ कुमुदिन्यथोत्पले तु कुवेलं कुवलं कुवम् । कुवलयं कैरवे तु कुमुदं कुमुदुत्पले ॥ २४६ ॥ नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा । सौगन्धिके तु कल्हारं हकाराक्रान्तलान्वितम् ॥ २४७ ॥ पद्मनाले तु मृणालं मृणाली च विशं विसम् । विसण्डकं च पद्मादिवृन्ते नाली तु नालया ॥ २४८ ॥ नालं किञ्जल्के तालव्य-दन्त्यमध्यं तु केसरम् । नवपत्रे संवर्तिका संवर्तिर्जलनीलिका ॥ २४९ ॥ शेवालं शैवलं शैवालं शेपालं च शीवलम् । शेवलं पाटलसाला वाशुराशु च व्रीहिवत् ॥ २५० ॥ आशुव्रीहिः कलमस्तु कडमश्च कलामकः । मङ्गल्यके मङ्गल्याऽपि मसूरो मसुरस्तथा ॥ २५१ ॥ ;p{0239} मसूरा मसुराऽप्येते वेश्यायामपि वार्द्धयः । कलाये सतीनकः स्यात् सातीनश्च सतीनवत् ॥ २५२ ॥ सतीलक-सातीलकौ त्रिकटोऽङ्कट इत्यपि । चणके हरिमन्थः स्यात् हरिमन्थज इत्यपि ॥ २५३ ॥ मुद्गे हरिः सहरितस्तुम्बरस्तु वनोद्भवे । राजमुद्गे मकुष्टः स्याद् मयुष्ठोऽपि स-ठान्तिमौ ॥ २५४ ॥ मुकुष्ठक-मयष्ठकौ वर्गाद्याप्तौ स-ठान्तिम । मुकुष्ठः स्याद्, धान्यभेदे कुल्माषश्च कुल्मासवत् ॥ २५५ ॥ जघन्यव्रीहौ श्यामाकः श्यामकः पीततण्डुली । कङ्गु-क्वङ्गू कङ्गुनी च कङ्कुश्च कोरदूषके ॥ २५६ ॥ कोद्रवः कुद्रवोऽप्युक्तः युगन्धर्यां तु योनलः । जोन्नाला यवनालश्च, जूर्णा जूर्णिः शणः सणः ॥ २५७ ॥ भङ्गायाम्, गवेधुकायां गवीधुका गवेधुवत् । गवेडुश्च, तिलात्पिञ्जपेजौ षण्ढतिले ह्युभौ ॥ २५८ ॥ कदम्बके सरिषपः सर्षपः, सस्यशीर्षके । कविशं कणिशोऽफलकाण्डे पल-पलालकौ ॥ २५९ ॥ कडङ्गरे वुसवुषौ, मेघनादे स्मृतावुभौ । तण्डुलीयस्तण्डुलेरस्तण्डुलीशाकभिद्यहो ॥ २६० ॥ मारिषं मारुषम्, बिम्ब्यां स्यात्तुण्डी तुण्डिकेरिका । तुण्डिका तुण्डिकेरी च मधुस्रवायां तु जीवनी ॥ २६१ ॥ जीवन्ती जीवनीया च जीवा स्यात् क्षारपात्रके । शाकवीरो वीरशाको वास्थूकमपि वास्तुकम् ॥ २६२ ॥ चङ्गेर्यां स्यादम्ललोना लोणिका चाऽम्ललोणिका । अम्बोष्ठिकायुताऽम्बष्ठा टोलावदम्लटोलकः ॥ २६३ ॥ ;p{0240} खरपुष्पायां कबरी बर्बरा बर्बरी तथा । वृन्ताके वार्ता वार्ताकी वार्ताकं च वार्ताकुवत् ॥ २६४ ॥ वार्ताङ्गो वातिङ्गणश्च तथैव दुष्प्रधर्षिणी । दुष्प्रधर्षणी च शतपर्णायां तु कलम्बिका ॥ २६५ ॥ कलम्बूश्च, पालघ्ने तु छत्रा-छत्रा-ऽतिछत्रवत् । अतिछत्रस्तिक्तके तु पटोलः पटुवत् स्मृतः ॥ २६६ ॥ पुष्करमूले पौष्करं पुष्करं मूलमित्यपि । भृङ्गराजे भृङ्गरोऽपि भृङ्गरजो नादन्तगः ॥ २६७ ॥ भृङ्गरजश्च सान्तोऽपि षर्बुजे चापि मूर्धजे । दशाङ्गुलमितिख्यातं कारवेल्ले सुशव्यपि ॥ २६८ ॥ सुषवी सुशवी कर्कारौ कुष्माण्डो विदां मतः । कुष्माण्डोऽपि च कूष्माण्डी, पटोल्यां तु कोशातकी ॥ २६९ ॥ कोषातकी च, कर्कट्यां स्यादीर्वारुरिर्वारुवत् । ऊर्वारुरुर्वारुरपि एर्वारुश्चिर्भिटी तथा ॥ २७० ॥ चिर्भिटं चिर्भिटस्तद्वत् वालुङ्कः स्याद् वालुक्यपि । त्रपुषी त्रपुसी त्रपुषं त्रिपुषं च, घ्नेऽर्शसः ॥ २७१ ॥ शूरणो दन्त्यतालव्यादिमः, बालतृणे पुनः । शस्यं स्याद्दन्तमूर्धन्यमध्यम्, बर्हिषि दभ्रवत् ॥ २७२ ॥ दर्भः कुशं कुसो मुञ्जे शरस्तालव्यदन्त्यभाक् । दूर्वायां हरितालीवद्धरिता, धमने नडः ॥ २७३ ॥ नलो नटः, कुरुविन्दे मुस्ता त्रिषु च मुस्तकः । इक्षौ गण्डीरी गण्डकी, पुण्ड्रेक्षौ पुण्ड्र-पौण्ड्रकौ ॥ २७४ ॥ कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया । यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥ ;p{0241} मालातृणं भ्रूस्तुणं च विषे तु गर-सङ्गरौ । गरलोऽथ हालाहले हालहलो हलाहलः ॥ २७६ ॥ पर्यन्तवने त्वोकण्युकणी कीटे कृमिः क्रिमिः । लाक्षायामपि तद्भेदे नीलाङ्गुश्च नीलङ्गुवत् ॥ २७७ ॥ गण्डूपदे किञ्चुलकः किञ्चुलुकोऽपि सम्मतः । जलसर्पिण्यां जलूका जलौका च जलौकसः ॥ २७८ ॥ स्त्रियां वा भूम्नि च जलालोका प्रोक्ता जलौकसः । पुंस्यदन्तो जलायुकास्रपाऽऽबन्ता विजन्तकः ॥ २७९ ॥ अम्बुमात्रजशङ्खे तु शम्बुः शम्बूश्च शम्बुकः । शम्बूकश्च सशाम्बूकः, कपर्दे तु हिरण्यवत् ॥ २८० ॥ हिरणः कथितः प्राज्ञैर्दीर्घकोशा पुनः स्मृता । दीर्घकोषा च दुर्नामाऽऽबन्तो नान्तो दुर्नाम्न्यपि ॥ २८१ ॥ पिपीलके पीलकोऽपि क्षुद्रजन्तौ तु धन्यजे । कणाटीनः कटाटीनः स्याद् युकाण्डे तु लिक्षया ॥ २८२ ॥ रिक्षोद्दंशे कोलकणो मत्कुणोत्कुणकावपि । इन्द्रगोपे त्विन्द्ररजोऽग्निकोऽथ तन्तुवायके ॥ २८३ ॥ तत्न्रवाय ऊर्णनाभ उर्णनाभिश्च मर्कटः । मर्कटको जालिकश्च जालकारकवत् कृमिः ॥ २८४ ॥ क्रिमिर्वृश्चिकेऽलि-राल्य-लालिर्द्रोणो द्रुणो द्रुतः । भ्रमरेऽलि-रली मधुकृत् मधुकरः शिलीमुखः ॥ २८५ ॥ शिलामुखः, मक्षिकायां भिम्भरा भिम्भराल्यपि । मधुरस्त्री मधूलं च, माक्षिके वरुटी पुनः ॥ २८६ ॥ वरटाऽपि च गन्धोल्यां वर्षकर्यां तु चीरिका । चीरी चरुका चिरुका झीरुका झिल्लीकायुता ॥ २८७ ॥ ;p{0242} झिल्लो झिल्लिका झिलिका विलेपनमले तथा । आतपस्य रुच्यपि च श्वापदे व्याड-व्यालकौ ॥ २८८ ॥ द्विपे मतङ्ग-मातङ्गौ गजो गर्जो मतङ्गजः । करी करिर्दन्तावलो दन्ती पेचकिपेचिलौ ॥ २८९ ॥ हस्तिन्यां धेनुका धेनुर्वाशिता वासिता द्वयम् । नार्यामपि कणेरुश्च गणेरुरपि तद् द्वयम् ॥ २९० ॥ वेश्यायां कर्णिकारेऽपि करेणुः स्त्रीन्रिभीभयोः । विंशतिवर्षेभे विक्कः, पिक्कोऽपि त्रिंशदब्दके ॥ २९१ ॥ कलभः कडभश्च द्वौ उद्वान्तोपात्तकौ समौ । निर्मदे राजबाह्ये त्वौपवाह्यश्चोपवाह्यवत् ॥ २९२ ॥ हस्तिदन्ते विषाणं स्याद्विषाण्यपि विषाणकः । तन्मूले तु करीरीवत्करीरिर्नेत्रगोलके ॥ २९३ ॥ ईषिका स्यादिषीकेवेभगण्डे करटः कटः । गजपश्चिमभागे त्वपरावदऽवरोदिता ॥ २९४ ॥ शृङ्खलस्त्रिषु हिञ्जीरे निगडो निगलोऽन्दुकः । अन्दूर्गजबन्धभूमौ वारिर्वारी च तोत्रके ॥ २९५ ॥ वेणुकं वैणुकं, दन्त्यतालव्यादिः शृणिर्मतः । अङ्कुशे, तदग्रेऽपष्ठं काद् द्वादशाऽक्षरान्तिमम् ॥ २९६ ॥ वीते वातं यतं चोक्ते, वरत्रायां सया पया । कक्ष्या गृहप्रकोष्ठे च काञ्चीसादृश्ययोरपि ॥ २९७ ॥ अश्वे तुरगस्तुरङ्गस्तुरङ्गमश्च वाज्यपि । वाजिर्वीतिः पीतिः पीती नान्तोऽश्वायां तु वामिवत् ॥ २९८ ॥ वामी-वनायुजा-वानायुजा-वाह्लीका-वाह्लिकाः । पुच्छे लङ्गुलं लाङ्गुलं गतिभेदे तु धौरितम् ॥ २९९ ॥ ;p{0243} धौरितकं धोरणं च धौर्यं स्यान्मुखयन्त्रणे । खलीनं खलिन-कवी कविका कवियं कविः ॥ ३०० ॥ सन्नाहऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके । रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः ॥ ३०१ ॥ वेसरो वेसरादश्वायां जाते, मुकयस्तथा । मुकुयो द्वौ मृगभेदे, गर्दभ्यश्वतरात्मजे ॥ ३०२ ॥ अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः । दाशेरकः सदाशेरः उक्ष्णि शक्वर-शाक्वरौ ॥ ३०३ ॥ शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ । शण्डे षण्डोऽपीड्वरः स्यादित्वरः विद्धनासिके ॥ ३०४ ॥ नस्योतो नस्तितो नस्तोतः स-ठौ प्रष्ठ-प्रष्ठतः । वाड, दमयो जितहलवोढ्रोरेकधुरावहे ॥ ३०५ ॥ एकधुरीणैकधुरौ, धुर्वहे तु धुरन्धरः । धूरीणधुर्यधौरेया धौरेयकोऽथ पृष्ठ्यके ॥ ३०६ ॥ स्थौरी स्थूरी स्थूली, षोडः षोडन् षोडत इत्यपि । षड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् ॥ ३०७ ॥ स्त्रीराट्चिह्ने शैलाग्रे श्रेष्ठेऽपि द्वयमन्तिमम् । नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् ॥ ३०८ ॥ शृङ्गं शृङ्गः शृङ्गी विषाणोक्ता विषाण्यपि । विषाणं विपाणो गव्यां गौर्द्वयोरनुडुह्यहो ॥ ३०९ ॥ अनुड्वाही तम्पा तम्बा माहेयी सहा माहया । स्रवद्गर्भा त्ववतोका एतोका चोत्तमा च गौः ॥ ३१० ॥ नैचेकी निचिकी नीचिकी नीचीक्यऽप्यकोपना । सूरता सुरता सूरथा सुरथाऽथ गोकुले ॥ ३११ ॥ ;p{0244} गोधनं धनं कीलस्तु पुंस्त्रियोः पुष्पलान्विता । पुष्पलकः शिवकश्च शिवोऽपि ध्रुवको ध्रुवः ॥ ३१२ ॥ बन्धने संदानोद्दाने दामा-दाम-दामो-द्दितम् । संदितं संदानितेऽजे छगलः छागवत् छगः ॥ ३१३ ॥ स्तभ-स्तुभौ, युवाजे तु बर्करो बर्करी तथा । बर्करम् मेषे तु हुडुर्हुडोऽप्युरण ऊरणः ॥ ३१४ ॥ वडूटो वरुटस्तद्वद् वरूडो वरुडोऽपि च । भरूडो भरुडोऽप्युक्तो भरुडोऽस्थ्याशे कुक्कुरः ॥ ३१५ ॥ कुर्क्करः श्वानः स्वानश्च शुनकः श्वा शुनः शुनिः । शुनखो भषणो भषकोऽपीन्द्रमहकान्वितः ॥ ३१६ ॥ इन्द्रमहकामुकश्च श्वाने, द्वौ मृगयापटौ । विश्वकद्रुर्विश्वकद्रूः, शुनकी शुनका शुनी ॥ ३१७ ॥ श्वानकर्णे शुनस्कर्णः श्वकर्णोऽपि निगद्यते । सैरिभे मह-महिषौ लुलायश्च लुलायुयुक् ॥ ३१८ ॥ सिंहे पारिन्द्र-पारीन्द्रौ कण्ठीरव- कण्ठेरवौ । केशरी दन्त्यतालव्यः, व्याघ्रे द्वीपीव द्वीपिनः ॥ ३१९ ॥ चित्रकश्चित्रकायोऽपि, शरभेऽष्टापदोष्टपात् । गण्डके खड्गी खड्गीरः खड्गो वाध्रीणसोऽपि च ॥ ३२० ॥ दन्त्यतालव्यान्तः कोले शूकरः सूकरः किरिः । किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥ भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् । गोमायौ फेरु-फेरुण्डौ फेरवो भूरिमायवत् ॥ ३२२ ॥ भूरिमायुर्जम्बुकश्च जम्बूकोऽपि शृगालवत् । सृगालोऽपि शिवाऽऽबन्तः खिङ्खिरः खिङ्खीरा स्त्रियाम् ॥ ३२३ ॥ ;p{0245} भूम्न्युभौ तु शिवाभेदे खट्वाङ्गे वारि-वालुके । भिक्षुभङ्गेऽपि, कीशे तु प्लवगः सप्लवङ्गमः ॥ ३२४ ॥ प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटास्तद्वत् कुरङ्गश्च कुरङ्गमः ॥ ३२५ ॥ वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः । शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः ॥ ३२६ ॥ मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ । सतालव्यौ च, पृषत् पृषतो बिलशायिनी ॥ ३२७ ॥ कन्दली नन्तो ङ्यन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य-रिश्यौ च सम्मतौ ॥ ३२८ ॥ ऋष्य-रिष्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् ॥ ३२९ ॥ आमि पुंसि वातप्रमी शशि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् ॥ ३३० ॥ स्त्रियामीदन्तं लक्ष्मीवद् ङीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः ॥ ३३१ ॥ तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः ॥ ३३२ ॥ गोधेर-गोधारौ, पल्यां गृहोली गृहगोलिका । गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् ॥ ३३३ ॥ अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कृकुलासः सरटः सरडस्तथा ॥ ३३४ ॥ सरण्डश्च प्रतिसूर्यः प्रतिसूर्यशयानकः । शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च ॥ ३३५ ॥ ;p{0246} उन्दरो-न्दुरो-न्दुरवः कुन्दुर्मूषी तु मूषिका । मूषा च, गन्धमूष्यां तु छुछुन्दरी छुछुन्दुरी ॥ ३३६ ॥ ओतौ बिडालो बिलालो दरुटो दरुडान्वितः । ह्रीको ह्लीको ह्रीकुर्ह्लीकुर्लज्जालौ नकुलोऽपि च ॥ ३३७ ॥ मार्जालीयश्च मार्जारोऽहौ भुजङ्गो भुजङ्गमः । भुजगः सर्प-सूर्पौ च सरीसृपश्च गूढपाद् ॥ ३३८ ॥ गूढपदो व्याल-व्याडावुरङ्गश्चोरगस्तथा । अजगरे शयथुश्च शयालुः स्यात् शयातु षण् ॥ ३३९ ॥ शयुर्जलसर्पे तु स्यादलीगर्दोऽलगर्दयुक् । अलगर्द्धोऽलीगर्द्धोऽपि राजिलाऽहौ तु डुण्डुभः ॥ ३४० ॥ दण्डुभो दन्दुभो दोडो दोलोऽपि च, तिलित्सिके । गोनासो गोनसोऽप्युक्तो घोणसः, मातुलोरगे ॥ ३४१ ॥ मालुधानोऽहिदंष्ट्रायामाश्यां-शीर्भोगके फटः । स्फटौ द्वौ पुंस्त्रियोः प्रोक्तौ फणस्त्रिषु च दर्वीवत् ॥ ३४२ ॥ दर्वी च कञ्चुके निर्ल्वयनी निर्लयनीयुता । पक्षिणी पत्त्री पतत्त्री नकारान्ताविदन्तकौ ॥ ३४३ ॥ पतन् पित्सन् पतङ्गश्च पतगो विहगो मतः । विहङ्गमो विहङ्गोऽपि नगौकाश्च नगौकवत् ॥ ३४४ ॥ सशकुन्तः शकुन्तिश्च शकुनिः शकुनः स्मृतः । वकीरो विकिरश्चापि विष्कीरश्च सृपाटिका ॥ ३४५ ॥ स्मृपाटी चञ्चुश्चञ्चूवत् त्रोटिस्त्रोटी, तनूरुहे । पिच्छं पिञ्छं पतत्रं च पत्रं पक्षो नरि स्मृतः ॥ ३४६ ॥ पक्ष नान्तं पक्षः सान्तं द्वे षण्डे च नभोगतौ । प्रडीनो-ड्डीन-संडीन-डयनान्यथ चाण्डके ॥ ३४७ ॥ ;p{0247} पीशीकोशः पेशी-कोशौ, नीडं त्रिषु कुलायके । केकिनि मोर-मयूरौ मयूको मरुकस्तथा ॥ ३४८ ॥ बर्ही च बर्हिणः शिखावलः शिखी, पिके पुनः । घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥ ३४९ ॥ मौकुलिर्मोकुलः काके, वनकाके तु द्रोणवत् । द्रोणकाकः निशाटे तु कौशिकः कुशिकेऽपि च ॥ ३५० ॥ कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वक्र-चक्रतः । हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥ धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा । वारटा वरटा तद्वत् वरटी , खञ्जनः पुनः ॥ ३५२ ॥ खञ्जरीटः, सारसे तु लक्ष्मणो लक्षणोऽपि च । सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह ॥ ३५३ ॥ क्रौञ्चे क्रुङ्शत्त्रि-शक्री च क्रौञ्च्यां क्रुङ् क्रुचया समम् । चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ ॥ ३५४ ॥ किकिः किकीः किकिदिविः दैविः, शकुनिभिद्यथ । वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥ ३५५ ॥ कटुक्वाणे टिट्टिभः स्यात् टीटिभश्चटके पुनः । कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६ ॥ स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि । जलरङ्कौ जलरञ्जः कालात्कण्टक-कण्ठगौ ॥ ३५७ ॥ दात्यूहश्च सदात्योहः, कह्वे बक-बुकौ समौ । बकोटोऽपि, बलाकायां कण्टिका-कण्ठिके बिसात् ॥ ३५८ ॥ चिल्ले आतापिरातापी आतायी नान्तकावुभौ । कामायौ तु गृध्र-गुत्सौ दाक्षाय्यश्च दक्षाय्यवत् ॥ ३५९ ॥ ;p{0248} रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च । कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥ ३६० ॥ गोकिराटिका गोराटी स्यात् चर्मचटका पुनः । जतुका च जतूका च, परोष्ठ्यां वल्गुली स्मृता ॥ ३६१ ॥ वल्गुलिका, कर्करटौ करेटुः कर्कराटुकः । करटुः कर्करेटोऽथाटिराडिश्च शरातिवत् ॥ ३६२ ॥ आतिः शरारिः शलालिः कृकण-क्रकरावुभौ । कपिञ्जले, भास-भाषौ शकुम्भे, रक्तलोचने ॥ ३६३ ॥ पारापतः पारावतः पारपतः कपोतवत् । कपोटः, गुन्द्राले जीवञ्जीवः स्याद् जीवजीववत् ॥ ३६४ ॥ व्याघ्राटे तु भरद्वाजो भारद्वाजश्च, तित्तिरः । तित्तिरिः खरकोणे द्वौ, गरुले कारण्ड इष्यते ॥ ३६५ ॥ कारण्डवः, मीने मच्छो मत्सो मत्स्यो विसारिणा । वेसारिणो विसारश्च शक्लीव शकली मता ॥ ३६६ ॥ शम्बरो दन्त्यतालव्यो वादालश्च वदालवत् । सहस्रदंष्ट्रे शिशुके चुलूपीव दुलूप्यपि ॥ ३६७ ॥ शफरे शफरी प्रोष्ठः प्रोष्ठी ठान्तौ चिलीचिमिः । चिलिचीमश्चिलिचिमः, नलमीनेऽथ मत्स्यभित् ॥ ३६८ ॥ शालः सालश्च नक्रे तु कुम्भी कुम्भीर इत्यपि । शङ्खमुखः शङ्कुमुखः, ग्राहे तु तन्तु-तन्तुणौ ॥ ३६९ ॥ तन्तुनागश्च नागोऽपि, कर्कटे तु कुलीरवत् । कुटीरश्च चन्द्राश्रयराशावऽपि च कच्छपी ॥ ३७० ॥ दुलिर्दुली कुडिर्भेके प्लवगः सप्लवङ्गमः । प्लवः सालूश्च सालूरो दन्त्यतालव्यपूर्वकः ॥ ३७१ ॥ ;p{0249} शालस्तथैव भेक्यां तु वर्षाभूरिति कथ्यते । वर्षाभ्व्युद्भिदि चोद्भिज्जमुद्भिदं चोद्भिजं तथा ॥ ३७२ ॥ ;k{पञ्चमः काण्डः} नैरयिके नारकको नारकीयश्च नारकः । प्रेतः परेतः आजूः स्त्र्यूदन्ता रेफान्तिमाऽपि च ॥ १ ॥ आजूराजूरावाजूर इत्येवं रूपसङ्गतिः । निर्वेतनकर्मकृतौ भद्राख्ये करणे तथा ॥ २ ॥ निरये दुर्गतिः स्त्रीन्रोर्नरको नारकान्वितः । पातालेऽधोऽव्ययं चाधः, भुवनं विवरे सुषिः ॥ ३ ॥ तालव्यदन्त्यः शुषिरम्, गर्ते गर्ता दरस्त्रिषु । स्वभ्रं तालव्यदन्त्याद्यमवटोऽवटिरित्युभौ ॥ ४ ॥ ;k{षष्ठः काण्डः} लोके विष्टपं पिष्टपं जगती, जगत्प्राणिनि । जन्यु-जन्तू, उद्भवे षण् जन्म जन्मोऽस्त्रियां जनिः ॥ १ ॥ जनुः सान्तं षण् जननम्, जीविते जीवस्त्रिष्वचि । जीवातुरस्त्रियां प्राणाः पुंभूम्नि जीविताध्वनि ॥ २ ॥ आयुः सान्तं च षण् आयुरुदन्तः पुंसि चोच्यते । हृद् हृदयं चित्तं चेतो मनो मानसमित्यपि ॥ ३ ॥ स्वान्तमास्वनिताऽऽस्वान्ते, निर्वृत्तौ सुख-सौख्यके । सर्म-सर्मे नान्तादन्ते दन्ततालव्याद्ये मते ॥ ४ ॥ शान्तं तालव्यदन्त्याद्यं भद्रं भन्द्रमसौख्यके । तृप्तं दृप्रं बाधा बाध आबाधा चाऽमनस्यवत् ॥ ५ ॥ अमानस्यमामनस्यम्, चर्चा चर्चो विचारणा । स्वभावे निसर्ग-सर्गौ पश्चात्तापोऽनुतापवत् ॥ ६ ॥ ;p{0250} विप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः । वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥ भागो भाग्यं भागधेयं, शुभकर्मण्यपोऽप्तसा । सान्ते षण्ढे, पापं पाप्मा किल्बिषं कलुषं समे ॥ ८ ॥ कल्मषमभिप्राये तु छन्दो ना छन्दसा षणा । चतुरश्चतुरको द्वौ नेत्रगोचर ईरितौ ॥ ९ ॥ चाटुकारे चक्र-गण्डावपि, स्परिशः स्पर्शवत् । शिशिरे शीतलः शीतः सुसीमश्च सुषीमवत् ॥ १० ॥ ईषदुष्णे कवोष्णः स्यात् कदुष्णः कोष्ण इत्यपि । खरे जरठो जठरः करटः कर्कटोऽपि च ॥ ११ ॥ कक्खडः खक्खटस्तद्वत्, कोमले मृदुलो मृदुः । सोमालः सुकुमारश्च, मधूलो मधुरान्विता ॥ १२ ॥ गुल्ये, दन्तशठेऽम्लोऽम्ल्वः, कखाये तुबरस्तथा । तूबरः कुबरोऽपि स्यादाद्यौ द्वौ तौबरोऽपि च ॥ १३ ॥ त्रयोऽश्मश्रुनरे शृङ्गहीनपशावपि स्मृतः । आमोदिनि मुखशुभाद् वासनः, धवले सितः ॥ १४ ॥ शितिः श्वेतः श्येतः श्येनः शुभ्रिः शुभ्रश्च पाण्डुरः । पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यमू ॥ १५ ॥ शुक्रः शुक्लः, कपोताभे कापोतः स्यात्कपोतवत् । कपोटोऽप्यथ हारिद्रे कथितौ पीत-पीतकौ ॥ १६ ॥ पीतनीले तु पालाशः पलाशो हरितो हरिः । लोहितो रोहितो रक्ते, पीतरक्ते तु पिङ्गलः ॥ १७ ॥ पिङ्गः कपिलः कविलः, कृष्णे तु स्याम-श्यामलौ । श्यामालश्च शिति-शिनी, रक्तश्यामे तु धूमलः ॥ १८ ॥ ;p{0251} धूम्रोऽथ कर्बुरश्चित्रः चित्रलोऽपि कल्माषवत् । कल्मासश्च, भवेत् शब्दो निस्वानो निःस्वनः स्वनः ॥ १९ ॥ स्वनिः स्वानो ध्वनिर्ध्वानो निक्वाणो निक्वणः क्वणः । क्वाणश्च घोष-निर्घोषौ निर्ह्रादो ह्राद इत्यपि ॥ २० ॥ निनादो निनदो नाद आरावो राव आरवः । रवो विरावः संरावः, क्ष्वेडा क्ष्वेडित-क्ष्वेलिते ॥ २१ ॥ भटानां सिंहनादेऽथ शिञ्जितं भूषणध्वनौ । सिञ्जाश्वशब्दे हेषा स्याद् ह्रेषा, गर्जस्तु गर्ज्जया ॥ २२ ॥ हस्तिशब्दे, विस्फारश्च विस्फोरोऽपि धनूरवे । मेघशब्दे गर्जितं स्यात् गर्जिवद् ना, खरारवे ॥ २३ ॥ रेषण-रेषे, तन्त्र्यास्तु प्रक्वाणः-प्रक्वणो रवे । गम्भीरध्वनिते मन्द्र-मद्रौ, सूक्ष्मकलध्वनौ ॥ २४ ॥ काकली काकलिर्वृन्दे कदम्बं च कदम्बकम् । समुदायः समुदयः पेटं स्यात् पेटकं त्रिषु ॥ २५ ॥ चक्रवालं चक्रवाडं चक्रं च चय-संचयौ । शण्ड-षण्डौ केदाराणां गणे कैदारकं मतम् ॥ २६ ॥ कैदारिकं कैदार्यं च, केशानां कैश्य-कैशिके । अश्वीयमाश्वमश्वानाम्, वातूलो वात्यया सह ॥ २७ ॥ वातानां, खलानां खल्या खलिनी, रथकट्यया । रथ्या रथानां, यौवतं यौवनं युवतीगणे ॥ २८ ॥ वंशादिदलनिर्मितभाण्डराशाविदं द्वयम् । स्यात् पिटक्या पिटाक्या च हल्या हालं हलोत्करौ ॥ २९ ॥ पङ्कौ वीथी वीथिरालिरावलिरावली मता । राजि-राज्यौ रेखा लेखा समाने पुंस्त्रियोः स्मृता ॥ ३० ॥ ;p{0252} श्रेणिः श्रीणी च युग्मे तु युगवद्युगलं यमम् । यमलं यामलं द्वन्द्वं दन्द्वं द्वैतं द्विती द्वयम् ॥ ३१ ॥ द्वितयं, प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु । बहुलं बहु बहूलम्, लेशे त्रुटि-तुटी समौ ॥ ३२ ॥ अत्यल्पे त्वल्पीयोऽल्पिष्ठमुच्चे तूत्तुङ्ग-तुङ्गकौ । उदग्रमनुदग्रं च, खर्वे न्यग् नीचवद् ,गुरौ ॥ ३३ ॥ पृथुलं पृथु विपुलं पुलं वद्रं च वड्रवत् । वरिष्ठं वर्गद्वितीयाप्तमारोहे समुच्छ्रयः ॥ ३४ ॥ उच्छ्रायश्च, प्रपञ्चे तु विस्तारो विस्तरोऽपि च । शब्दे विस्तर एवैकः, समस्ते निखिला-ऽखिले ॥ ३५ ॥ समं सिमं च निःशेषाऽ-शेषे सकल-शल्कके । अन्यूनाऽनूने, अपूर्णे उनमूनम्, समार्द्धके ॥ ३६ ॥ शकलं शक्लं खण्डं च खण्डलं चाऽपि, भागके । अंसस्तालव्यदन्त्यान्तः, भागेऽर्थेऽष्टम आष्टमः ॥ ३७ ॥ षष्ठः षाष्ठः, मानभागे षष्ठः षाष्ठश्च षष्ठकः । म्लानं मलीमसे प्रोक्तं मलिनं कश्मलं तथा ॥ ३८ ॥ कष्मलं, मेध्ये पावनं पवित्रं च पविस्तथा । पूतं च प्रकृष्टे मुख्यं प्रमुखं मुखमित्यपि ॥ ३९ ॥ प्रधानमजहल्लिङ्गं वाच्यलिङ्गमपि स्मृतम् । वरं वरेण्यं प्रवरमग्र्यमग्रीयमग्रियम् ॥ ४० ॥ अग्रिममनुत्तमं चोत्तमं चाऽनवरा-ऽर्ध्यवत् । परं परार्ध्यं ग्रामण्य-ऽग्रण्यग्रे प्रष्ठमन्तठम् ॥ ४१ ॥ सत्तमे श्रेयसा श्रेष्ठं स्याद् टवर्गद्वितीययुक् । उपसर्जनमाविष्टलिङ्गं स्यादप्रधानके ॥ ४२ ॥ ;p{0253} निकृष्टे त्वपकृष्टं स्यादधमं चाऽवमं समे । याप्यं याव्यं रेप-रेफौ रेपो रेफश्च सान्तिमे ॥ ४३ ॥ अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यपि । दर्शनाद्दृगतर्पेऽर्थे, शोभने मञ्जु-मञ्जुलौ ॥ ४४ ॥ रम्यं रमणीयं सौम्यं सोमं बन्धुर-बन्धुरे । नम्रेऽपि कमनीयं स्यात् काम्यं कम्रं मनोरमम् ॥ ४५ ॥ रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके । शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥ ४६ ॥ नव्यवद् नूतनं नूत्नं, जीर्णं जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् ॥ ४७ ॥ प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् । परुत्तनं परुन्त्तमं परुत्नं च परारिजे ॥ ४८ ॥ परात्नं परारिन्तनं परारितनमित्यपि । पार्श्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् ॥ ४९ ॥ सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे ॥ ५० ॥ सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च, जङ्गमे ॥ ५१ ॥ चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे । परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् ॥ ५२ ॥ चलं चपलं चटुलं कमनं कम्प्रमप्यथ । अधोमुखेऽवनतं स्यादानतं, कुटिले पुनः ॥ ५३ ॥ वक्रं वङ्कं च वङ्किश्चानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥ ५४ ॥ ;p{0254} एकात्सर्गागा-ऽयन-ताना-ऽग्राण्ययनगतंं तथा । एकाग्रं, पूर्वे त्वाद्या-ऽऽदी आदिमं प्रग्रमग्रवत् ॥ ५५ ॥ चरमेऽन्त्यमन्तिमा-ऽन्तावन्तमं पश्चिमान्वितम् । अपश्चिमं स्वरूपे नञ् पाश्चात्यं पश्च-पश्चिमात् ॥ ५६ ॥ अर्द्धा-नुपूर्व्य-भिमुखाः शब्दा योज्याः, दिवोऽचि च । पृषोदरादित्वाद् दिवो द्युश्चाऽऽदेशः, यदुच्यते ॥ ५७ ॥ दिवः स्थाने दिवोऽचि स्याद् दिव् च दीर्घे पुनः परे । उकारोकारयोरुच्च पश्चातोऽर्धादिके तलुक् ॥ ५८ ॥ मध्यजाते मध्यमीयं मध्यमं माध्यमं तथा । मध्यन्दिनं माध्यन्दिनं मध्येऽभ्यन्तरमन्तरम् ॥ ५९ ॥ अन्तरालं, समं तुल्ये समानं सदृशं सदृक् । सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥ ६० ॥ औपम्यमुपमामुक्तेऽनुपमं स्यादनोपमम् । कथ्यते त्वर्चा प्रतिमा प्रतिमानमयोमयी ॥ ६१ ॥ शूर्मिः शूर्मी च तालव्यदन्त्यादी शूर्म इत्यपि । वामे वि-प्रतितो लोममपष्ठूरमपष्ठुरम् ॥ ६२ ॥ प्रसव्यमपसव्यं चोच्छृङ्खले तु निरर्गलम् । अनर्गले भिन्ने त्वन्यदन्यतरदपीतरत् ॥ ६३ ॥ मिश्रे करम्बः कबरम्, तूर्णे त्वरित-सत्त्वरे । संपातपाटवे झम्पा झम्पोऽजस्रे तु संततम् ॥ ६४ ॥ सततं चानवरता-ऽविरते स्यादनारतम् । सङ्कुले त्वाकुलं कीर्णं समाङ्भ्या कीर्णमित्यपि ॥ ६५ ॥ भरिते प्राणं पूर्णं च पूर्तं पूरितं छादितम् । छन्नं, त्यक्ते विधुतवद्धूतं, विन्नं विचारिते ॥ ६६ ॥ ;p{0255} वित्तं च, पिहिते छन्नं छादितं संवृताऽवृते । अपवारित-संवीते पिधाने व्यवधानवत् ॥ ६७ ॥ व्यवधाऽन्तर्द्धिरन्तर्धा, नाऽऽदृते मत-मानिते । अवादवज्ञायां हेलाऽवहेलमवहेलया ॥ ६८ ॥ असुक्षणमसुर्क्षणमसूर्क्षणमसूक्षणम् । कम्पिते तु धुतं धूतं प्रेङ्खोलितं च प्रेङ्खितम् ॥ ६९ ॥ अन्दोलने भवेद् दोला प्रेङ्खा प्रेङ्खोलनं समे । दोलके मता दोलेरिते निष्ठ्यूतमात्तठम् ॥ ७० ॥ नुन्न-नुत्ते, मुषिते तु मूषितं, गुणिते पुनः । आहताऽनाहते मृषार्थके ताडितकेऽपि च ॥ ७१ ॥ तेजिते निशातं शातं निशितं शितमित्यपि । वृते तु वृत्त-वावृत्ते, ह्रीतं ह्रीणं च लज्जिते ॥ ७२ ॥ दग्धे तु प्रुष्टं प्लुष्टं च, तष्टं त्वष्टं तनूकृते । छिद्रिते वेधितं विद्धं, विलीने विद्रुतं द्रुतम् ॥ ७३ ॥ तन्तुसन्तते स्यूतो-ते ऊतं स्यूनं च स्योनवत् । स्फोटने स्फुटनं तद्वद् भिदा, गीर्णो गिरिर्भवेत् ॥ ७४ ॥ उद्यमे तु गूरणं स्याद् गुरणं च संगीर्णके । श्रुतं संप्रत्याङ्भ्यः परमुर्यू-र्यु-ररीतः कृतम् ॥ ७५ ॥ खण्डिते छेदितं छिन्नं छितं छातं दिताऽन्वितम् । प्राप्ते तु भावितं भूतम्, भ्रष्टे पतित-पत्रके ॥ ७६ ॥ अतिक्रान्ते तीता-तीते, गवेषिते तु मार्गितम् । मृगितवदन्विष्टं स्याद्, अन्वेषितमीप्सिते ॥ ७७ ॥ क्लिन्ने कृन्नं सार्द्रमार्द्रं तिमितं स्तिमितं तथा । दूते सन्तापितं तप्तं धूपायितं च धूपितम् ॥ ७८ ॥ ;p{0256} शीने स्त्यानमन्तर्गते विस्मृतं प्रस्मृतं समे । विदिते बुधितं बुद्धं, स्यन्ने स्नुतं स्रुतं स्मृतम् ॥ ७९ ॥ रक्षिते तु त्राणं त्रातं गुप्तं गोपायितं तथा । वशक्रिया संवननं संवदनं, स्थितौ पुनः ॥ ८० ॥ आस्याऽऽसना, पर्यटनेऽटाट्याऽटाटाऽप्यटाट्यया । वैपरीत्ये विपर्यासो विपर्यायोऽप्यनुक्रमे ॥ ८१ ॥ क्रमः परिपाटि-परीपाटी स्यादानुपूर्व्यवत् । आनुपूर्वी, भवेदिष्टे निकामं च प्रकामवत् ॥ ८२ ॥ कामाप्त्यर्थे तु गाढमुद्गाढं भर-निर्भरौ । जृम्भणं त्रिषु जृम्भा स्यात्, परिष्वङ्गेऽङ्कपालिवत् ॥ ८३ ॥ अङ्कपाली परिरम्भः परीरम्भोऽप्यथोत्सवे । महो महश्च सान्तं षण्, मेलके सङ्ग-सङ्गमौ ॥ ८४ ॥ साङ्गमोऽथो अनौद्धत्ये प्रश्रयः प्रशरोऽपि च । आरम्भे क्रमः प्रोपाभ्यामुपोद्घात उद्घातवत् ॥ ८५ ॥ उत्क्रमे व्युक्रमः प्रोक्तोऽक्रमोऽथ विप्रलम्भने । विप्रलम्भः, विप्रयोगो वियोगो विरहे स्मृतः ॥ ८६ ॥ सामान्ये तु जातिर्जातम्, स्पर्धायां तु समः परौ । हर्ष-घर्षौ च संक्राम-संक्रमौ दुर्गसञ्चरे ॥ ८७ ॥ जलतरणेऽपि, परिणामे विकृति-विक्रिये । विकारः, घूर्णने घूर्णिर्भ्रान्तिर्भ्रमि-भ्रमावपि ॥ ८८ ॥ लवने लवा-भिलावौ, निष्पावे पवनं पवः । थूत्कृते ष्ठीवनं ष्ठ्यूत-निष्ठेव-ष्ठेवनानि च ॥ ८९ ॥ स्याद् निवृत्तावुपरमो व्युपाव्याङ्भ्यो रतिः परा । विधूनने विधुवनं, ग्रहणे ग्राहवद् ग्रहः ॥ ९० ॥ ;p{0257} वेधे व्यधः, क्षये क्षिया, स्फरण-स्फुरणे समे । देवतार्थ्ये वर-वृती अथाऽव्ययगणस्मृतिः ॥ ९१ ॥ स्वः स्वर्गे सुखमार्तण्डपरलोकेष्वपि, शनैः । शनैश्चरेऽप्यथोर्ध्वे तु उपरिष्ठादुपर्यपि ॥ ९२ ॥ अधरदेशेऽधोऽधस्ताद्, वर्जने त्वन्तरेणवत् । अन्तराऽन्तर्द्धा मध्ये हिरुक् कान्तं पृथक् पुनः ॥ ९३ ॥ कान्तं जान्तं च मौने तु तूष्णीकं तूष्णीमित्यपि । जोषं जोष्यं च सौख्येऽपि आनन्दे द्वयमिष्यते ॥ ९४ ॥ उपजोषं च समुपजोषं, सर्वासु दिक्ष्विह । समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥ पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् । शीघ्रे झटिति झगिति द्राक् प्राक् कान्ते समे मते ॥ ९६ ॥ सर्वकाले शश्वत् सश्वत् पुनरर्थेपि, सर्वदा । सदा सदं सनत् सनात् सना नित्यं च नित्यदा ॥ ९७ ॥ वारवारेण च वारंवारमसकृदर्थके । पुनःपुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् ॥ ९८ ॥ सायं मान्तं दिनान्ते स्याद्दिने सान्तमुदन्तकम् । द्युराकाशेऽपि च देवा, तत्क्षणे सपदीति च ॥ ९९ ॥ पदन्तं स्यादेकपदे, दीर्घकाले चिराच्चिरम् । चिरेण चिररात्राय चिरायाऽपि चिरस्य च ॥ १०० ॥ रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि । उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः ॥ १०१ ॥ अभ्यर्ण्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन । मनाक् कान्तं, वितर्के किं किमूत किमुताऽपि च ॥ १०२ ॥ ;p{0258} नुवै नु नुकं किंस्वित् स्विदाऽहोस्विदुताहो च । आ हौ, हेतौ यद् यतो येन यदि तेन च तत् ततः ॥ १०३ ॥ चैव, संबोधने पाट् प्याट् हंहो आहो अहो अपि । है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥ १०४ ॥ हो हौ व्यस्तौ समस्तौ च ह्वानेऽपि, अररे अरै । भोभो भो भो अयि हये ए ऐ च द्वौ स्मृतौ ॥ १०५ ॥ आह्वानेऽपि, ऊ ओ हूतावपि देवहविर्हुतौ । श्रौषट् वोषट् वषट् वट् वाट् वड्, मध्ये त्वन्तराऽन्तरे ॥ १०६ ॥ अन्तरेणाऽन्तरभावे, अ ना नो नहिकं नहि । नोहि नवा नवै नोचेत् नचेत् मा मास्म वारणे ॥ १०७ ॥ आशङ्केऽथाऽभ्युपगमे ओं अमाऽऽमां द्वे अन्तिमे । अवधारणेऽप्युमपाने इव एव च वा इव ॥ १०८ ॥ वत्, पक्षान्तरे चेत्, चाऽवधृतौ वा वैव मेव च । द्वौ द्वावित्यर्थे मिथुनं मिथो मिथुश्च सान्तिमे ॥ १०९ ॥ आनुपूर्व्ये अनुषगाऽनुषद्, संशयप्रश्नयोः । किम् कीम्, विनियोगाचारातिक्रमयोस्तु हा हवत् ॥ ११० ॥ प्रैषानुमानप्रतीक्षासमाप्तिषु वावदिति । त्वावन् वावद् वियोगे च पादपूर्तौ वेद् वाद् -वदौ ॥ १११ ॥ दान्ताः प्रश्ने वितर्के च प्रशंसायामिमौ मतौ । कूपत्सूपत्, विशेषे स्यात् न्वै तुवै तु च कुत्सने ॥ ११२ ॥ विनाशे चान्तकादऽऽङ्क, स्यातामद्भुतखेदयोः । अहहा अहह उभौ, वर्जने च निषेधने ॥ ११३ ॥ नकिर्, नकिस् माकिर् माकिस्, सत्ये हिंसाप्रशंसयोः । प्याट् पाट्, कोपे च पीडायां मत् आस् च रहसि त्विमौ ॥ ११४ ॥ ;p{0259} मिथो मिथस् कुत्सायां, पुक् पुत् द्वौ पादपूरणे । हहि प्रश्ने रोषे, उम् ऊम् द्वौ विस्मयविषादयोः ॥ ११५ ॥ हा है विस्मये ही हे है स्मरणे आ च आस् तथा । तुमर्थे क्रन्तुं क्रान्तुं च क्षन्तुं क्षान्तुं समे मते ॥ ११६ ॥ गन्तुं गान्तुं दीर्घादीनि गतौ कौ पन्थिके क्रमात् । अभिनय-व्याहरणे ईम् कीम् शीम् सीम् निरूपितम् ॥ ११७ ॥ अव्यक्ते ईम् शीम्, मर्षे पादपूर्तौ च, सीमिति । भार्यायां क्षम् गम् ऊम्, त्रीण्यूर्यादावाङ्गीकृतौ भृशे ॥ ११८ ॥ विस्तारेऽनुकरणे च प्रशंसायामुरर्युरी । उरुरी उरी चत्वारि, हिंसायां कथिता अमी ॥ ११९ ॥ भ्रंशकला ध्वंसकला स्रंसकला समःकला । ससकला समकलाऽपि मसमसा च मस्मसा ॥ १२० ॥ गुलुगुधा गुलुगुला पार्दाली च वार्दाल्यपि । विचारे आक्ली च विक्ली च तद्विड्वराऽऽकुलीकृतौ ॥ १२१ ॥ ताली विताली आताली क्रियासंपादने फली । फल्यू च सक्षादादौ स्यात् सामर्थ्योत्साहयोरमी ॥ १२२ ॥ असहने प्रसहने विसहने त्रयी त्वियम् । एदन्ताऽथ च वैरूप्येऽन्ये संतापे वधे क्रमात् ॥ १२३ ॥ प्रकम्पने विकम्पने एदन्तौ रोहशोभयोः । प्राजरुहा बीजरुहा जरणे कथिताविमौ ॥ १२४ ॥ प्राजर्या वीजर्या तुल्यौ चिता चित्ता च चेतने । इत्यूर्यादौ कतिचिदव्ययाः कुञ्संबुजः स्मृताः ॥ १२५ ॥ अदस् स्पर्शे स्थाने युक्तौ विभक्तिप्रतिरूपकम् । षष्ठीतृतीयार्थे तव ते मम मे च क्रमाद् मतौ ॥ १२६ ॥ ;p{0260} अधोऽर्थे त्वध अदन्तं हैमादर्शेषु दृश्यते । अथ सान्तमथ अथो एष्वर्थेषु त्रयोऽप्यमी ॥ १२७ ॥ कथिताः संशया-ऽऽरम्भ-साकल्येषु समुच्चये । अनन्तरार्थे च तथा प्रतिज्ञाप्रश्नयोरपि ॥ १२८ ॥ अन्वादेशेऽधिकारार्थे मङ्गले शं च सं सुखे ॥ १२९ ॥