;METADATA ;title{शब्दरत्नाकर} ;author{वामनभट्ट-बाण} ;bookFullName{Śabdaratnākara of Vāmana-Bhaṭṭa-Bāṇa, critically edited with critical notes, appendices, etc.} ;bookSeriesDetails{मिथिला विद्यापीठ-ग्रन्थमाला, १ प्राचीनाचार्य ग्रन्थावली, षोडशं पुष्पम्} ;editor{Dr. B. R. Sharma} ;editorQualifications{M.A., Ph.D.; Director, Central Institute of Sanskrit, Tirupati; formerly Professor, Mithila Institute, Darbhanga; Curator, Anup Sanskrit Library, Bikaner; Headmaster, Shrinivas Pathashala, Mangalore; Corresponding Member, Indian Historical Records Commission, Goverment of India, etc, etc.} ;publisher{Mithila Institute of Post Graduate Studies and Research in Sanskrit Learning, Darbhanga} ;pressDetails{} ;publicationYear{1965 A.D.} ;dataEntryBy{Navya Sahiti Kasturi} ;dataEntryEmail{kasturinsahiti@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SRVB} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Navya Sahiti Kasturi for spending her valuable time to do data entry of the work. 5. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{true} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{11 January 2020} ;version0.0.2{09 June 2020} ;version0.0.3{19 July 2020} ;version0.0.4{19 July 2020} ;version0.1.0{19 July 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{वामनभट्टप्रणीतः शब्दरत्नाकरः} ;k{प्रथमः काण्डः} ;v{मङ्गलाचरणम्} सोमाङ्गमुत्तंसयते वामाङ्गमवरुन्धते । नमः परस्मै देवाय तेजोभिः पश्यते त्रिभिः ॥ १ ॥ वरदाग्निचितः पौत्रः पुत्रः कोवटियज्वनः । जागर्ति वामनो बाणो वत्सवंशशिखामणिः ॥ २ ॥ तेन जिज्ञासमानानामुपकर्त्रा विधीयते । ;l{0005} शब्दरत्नाकरो नाम निख(!)ण्डुर्मान्द्यखण्डनः ॥ ३ ॥ नामलिङ्गप्रकाशैकदर्पणे प्राज्ञतर्पणे । पूर्वशास्त्रकृतं लक्ष्म यत्तदत्र निबध्यते ॥ ४ ॥ पञ्चधा वर्तते शब्दो लिङ्गे स्त्रीपुंनपुंसके । अव्यये लिङ्गसांकर्येऽप्येषामन्त्यं चतुर्विधम् ॥ ५ ॥ ;l{0010} नृस्त्री नृषण्डः षण्डस्त्री त्रिलिङ्गव्यवहारतः । प्रायोऽत्र रूपभेदेन साहचर्येण च क्वचित् ॥ ६ ॥ ;p{0002} ज्ञेया त्रिलिङ्गीसंकीर्णलिङ्गव्यक्तिः पृथग्विधैः । भिन्नलिङ्गपदश्लेषो नात्र द्वन्द्वैकशेषयोः ॥ ७ ॥ ना पुमानिति पुंल्लिङ्गे स्त्रीलिङ्गे स्त्रीति कथ्यते । ;l{0015} नपुंसकक्लीबषण्डपदं तल्लिङ्गवाचकम् ॥ ८ ॥ लिङ्गत्रये त्रिष्विति स्यात् स्त्रीपुंसोः स्याद् द्वयोरिति । निषेधे शेषलिङ्गं स्यान्न त्वन्ताथादि पूर्वभाक् ॥ ९ ॥ ;v{आदिदेवाध्यायः} ब्रह्मा विश्वसृडात्मभूः शतधृतिर्धाता विधाता विधि- र्वेधा हंसरथो विरिञ्चिरमरज्येष्ठो विरिञ्चोऽब्जभूः । वागीशश्चतुराननः सरसिजावासः स्वयंभूरजः ;l{0020} कः स्रष्टा द्रुहिणः प्रजापतिशतानन्दौ स्वभूर्नाभिजः ॥ १० ॥ हिरण्यगर्भो लोकेशः परमेष्ठी पितामहः । विरिञ्चनो विश्वरेता विश्वशिल्प्यथ शारदा ॥ ११ ॥ ब्राह्मी गौर्भारती भाषा वाग्वाणी गीः सरस्वती । मरीचिरङ्गिरा दक्षः पुलस्त्यः पुलहः क्रतुः ॥ १२ ॥ ;l{0025} भृगुरत्रिर्वसिष्ठश्च नव ब्रह्माण इत्यमी । स्युः संभूतिः स्मृतिः प्रीतिः क्षमा ख्यातिश्च संततिः ॥ १३ ॥ अनसूयारुन्धती च तेषां दक्षादृते स्त्रियः । जाया त्वसिक्नी दक्षस्य दाक्षायण्योऽस्य कन्यकाः ॥ १४ ॥ ;p{0003} ओंकारः प्रणवो ब्रह्मच्छन्दसी तु श्रुतिस्त्रयी । ;l{0030} निगमो वेद आम्नाय आगमानुश्रवावपि ॥ १५ ॥ ऋक् तु स्त्रियां यजुःसाम्नी इति वेदास्त्रयस्त्रयी । ऋक् च साम च ऋक्सामं तथर्ग्यजुषमित्यपि ॥ १६ ॥ उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ज्योतिषं व्याकृतिः शिक्षा कल्पश्छन्दो निरुक्तकम् ॥ १७ ॥ ;l{0035} अङ्गान्येतानि वेदानां धर्मः स्याद्वैदिको विधिः ॥ १८ ॥ विष्णुः श्रीपतिरच्युतोऽसुररिपुर्विश्वंभरः केशवो वैकुण्ठः पुरुषोत्तमो मधुरिपुर्नारायणो माधवः । शार्ङ्गी तार्क्ष्यरथः समुद्रशयनः पीताम्बरः श्रीधर- श्चक्री कैटभजित्सरोजनयनोऽनन्तो मुकुन्दो हरिः ॥ १९ ॥ श्रीवत्सलक्षणो बभ्रुस्त्रिविक्रम उरुक्रमः । विष्वक्सेनो बलिध्वंसी विधुः परमपूरुषः ॥ २० ॥ पद्मनाभः स्वभूरादिपुरुषो यज्ञपूरुषः । ;l{0040} जनार्दनो वासुदेवस्त्रिधामा विष्टरश्रवाः ॥ २१ ॥ दामोदरो हृषीकेशो वनमाली गदाधरः । गोविन्दोऽधोक्षजः कृष्णो विश्वरूपश्चतुर्भुजः ॥ २२ ॥ उपेन्द्र इन्द्रावरजो ब्रह्मनाभो वृषाकपिः । तस्य शङ्खश्च चक्रं च पाञ्चजन्यसुदर्शने ॥ २३ ॥ ;p{0004} ;l{0045} गदा कौमोदकी चापः शार्ङ्गं खड्गस्तु नन्दकः ॥ २४ ॥ वनमाला वैजयन्ती वक्षोरत्नं तु कौस्तुभम् । इन्दिरा मा रमा लक्ष्मीः कमला कमलालया ॥ २५ ॥ पद्मा पयोजकन्या श्रीर्भार्गवी पङ्कजाह्वया । जीवनी मोहनी सूक्ष्मा लक्ष्मीः पुष्टिर्निरञ्जना ॥ २६ ॥ ;l{0050} आचारा वैष्णवी माया नवैता विष्णुशक्तयः । तस्यावतारा मत्स्याद्याः सर्वे तत्तत्समाह्वयाः ॥ २७ ॥ हिरण्याक्षरिपुस्त्वादिवराहो यज्ञसूकरः । श्रीवराहो नृसिंहस्तु हिरण्यकशिपुद्विषत् ॥ २८ ॥ रामः परशुरामश्च जामदग्न्योऽथ राघवः । ;l{0055} रामो दाशरथिः सीतावल्लभो रावणान्तकः ॥ २९ ॥ बलभद्रो बलः सीरी बलदेवो हलायुधः । कामपालः प्रलम्बघ्नः कालिन्दीकर्षणो बली ॥ ३० ॥ रामो नीलाम्बरः शेषो रौहिणेयोऽच्युताग्रजः । संकर्षणः सालकेतुर्मुसली रेवतीपतिः ॥ ३१ ॥ ;l{0060} संवर्तकं हलं तस्य सौनन्दं मुसलायुधम् । वसुदेवसुतः शौरिः कंसारिर्नरकान्तकः ॥ ३२ ॥ देवकीनन्दनः कृष्णो यदुराट् पार्थसारथिः । बलानुजन्मा दाशार्हो रुक्मिणीजानिरस्य तु ॥ ३३ ॥ ;p{0005} ;l{0065} रथाश्वाः सैन्य(शैब्य?)सुग्रीवमेघपुष्पबलाहकाः । सत्यभामा जाम्बवती रुक्मिणी रोहिणी तथा ॥ ३४ ॥ कालिन्दी लक्ष्मणा मित्रविन्दा सत्याष्टयोषितः । वसुदेवः पिता तस्य स एवानकदुन्दुभिः ॥ ३५ ॥ सर्परिपुवैनतेयौ सौपर्णेयोऽरुणानुजस्तार्क्ष्यः । ;l{0070} विष्णुरथपन्नगभुजौ गरुडगरुत्मत्सुपर्णपक्षीन्द्राः ॥ ३६ ॥ कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथः प्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः । मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूः पञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥ अनङ्गो मदनः पुष्पकार्मुको मीनकेतनः । ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ ३८ ॥ ;l{0075} सर्वज्ञसुगतदशवलषडभिज्ञमुनीन्द्रशाक्यशास्तारः । मारजिदद्वयवादिश्रीघनमुनिबुद्धबोधिसत्त्वजिनाः ॥ ३९ ॥ समन्तभद्रो भगवान्धर्मराजस्तथागतः । अथ शौद्धोदनिः शाक्यसिंहः सर्वार्थसिद्धकः ॥ ४० ॥ गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः । ;p{0006} ;l{0080} दिगम्बरस्तु नग्नाटः क्षपणः श्रमणो जिनः ॥ ४१ ॥ केवली वीतरागोऽर्हन्निर्गन्धो मलधारकः । अथैहिकः स्याच्चार्वाको लोकायतिकनास्तिकौ ॥ ४२ ॥ शंभुः शंकर ईश्वरः पशुपतिः शर्वः शिवस्त्र्यम्बको भूतेशः परमेश्वरः पुररिपुः शूली हरो धूर्जटिः । ईशानः शशिशेखरस्त्रिनयनो भीमः पिनाकी मृडो रुद्रः स्थाणुरुमापतिः स्मरहरो भर्गः कपर्दी भवः ॥ ४३ ॥ ;l{0085} महेश्वरो महादेवो वामदेवो महानटः । मृत्युंजयो विरूपाक्षो मेरुधन्वा वृषध्वजः ॥ ४४ ॥ कृशानुरेता गिरिशो गिरीशो नीललोहितः । श्रीकण्ठः खण्डपरशुः कालकण्ठो दशाव्ययः ॥ ४५ ॥ गङ्गाधरः क्रतुध्वंसी कृत्तिवासाः कृतान्तजित् । ;l{0090} अष्टमूर्तिरहिर्बुध्न्य आदिभिक्षुर्दिगम्बरः ॥ ४६ ॥ दृगस्त्रः प्रमथाधीश ईश उग्रोऽसमेक्षणः । व्योमकेशो दशभुजः सर्वज्ञोऽन्धकसूदनः ॥ ४७ ॥ संध्यानटमहाकालकण्ठेकालकपालिनः । कटाटङ्कजटा टीररेरिहाणमहाव्रताः ॥ ४८ ॥ ;p{0007} ;l{0095} कङ्कटीकार्धमुकुटजोटिङ्गोरगभूषणाः । स्थालोड्डीशजटा झाटषाण्डषण्डाकुतश्चनाः ॥ ४९ ॥ शर्वभवेशकपालिस्थाणुभगाजैकपादहिर्बुध्न्याः । कृत्तिवसनः पिनाकी मृगलुब्धक इत्यमी रुद्राः ॥ ५० ॥ ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । ;l{0100} स्रष्टृता चात्मसंवित्तिरप्यधिष्ठातृतेत्यमी ॥ ५१ ॥ अव्ययाः स्युः सुखा ज्येष्ठा चित्तोन्मादकरी शिवा । वामा कलेवरा रौद्री कालिका भूतमादिनी ॥ ५२ ॥ नवैताः शक्तयः शंभोर्जटाजूटः कपर्दकः । चापः पिनाकोऽजगवमजगावमजीगवम् ॥ ५३ ॥ ;l{0105} खुङ्खुणः पुंसि खट्वाङ्गमथ भूताः स्युरस्त्रियाम् । प्रमथास्ते पारिषदा भृङ्गी भृङ्गिरिटिस्त्रिपात् ॥ ५४ ॥ समानास्तण्डुशैलादिनन्दिकेश्वरनन्दिनः । वीरभद्रस्तु देवाजः क्षेत्रपालस्तु भैरवः ॥ ५५ ॥ ;p{0008} क्षारस्तु भस्म भसितं रक्षाभूतिविभूतयः । ;l{0110} अणिमा महिमा लघिमा गरिमेशित्वं वशित्वं च ॥ ५६ ॥ प्राप्तिरपि प्राकाम्यं भाषितमैश्वर्यमष्टविधम् । उमा भवानी रुद्राणी शर्वाणी पार्वती सती ॥ ५७ ॥ काली कात्यायनी गौरी महादेवीश्वरीश्वरा । आर्या दुर्गाम्बिकापर्णा चण्डिका सर्वमङ्गला ॥ ५८ ॥ दाक्षायणी हैमवती मृडानी भैरवी शिवा । ;l{0115} पुरुला वारुणी षष्ठी बाभ्रवी बर्हिणध्वजा ॥ ५९ ॥ भद्रकाली महाकाली भ्रामरी परमेष्ठिनी । ब्राह्मीमाहेश्वर्यौ कौमारी वैष्णवी च वाराही ॥ ६० ॥ इन्द्राणीचामुण्डे इत्येताः सप्त मातरः क्रमतः । ;l{0120} लम्बोदराखुरथदन्तिमुखैकदन्त- दन्तावलेश्वरविनायकविघ्नराजाः ॥ ६१ ॥ हेरम्बपञ्चकरषण्मुखपूर्वजन्म- द्वैमातुराः परशुभृद्रणनायकश्च । कार्तिकेयशरजन्मवह्निभूस्कन्दषण्मुखकलापिवाहनाः ॥ ६२ ॥ बाहुलेयगुहकुक्कुटध्वजस्वामिशक्तिधरतारकारयः । षाण्मातुरमहासेनगाङ्गेयक्रौञ्चभेदनाः ॥ ६३ ॥ ;p{0009} ;l{0125} सेनानीर्द्वादशकरः कुमारः पार्वतीसुतः । सुब्रह्मण्यो नीलदंष्ट्रो विशाखो वैजयन्तकः ॥ ६४ ॥ त्रय एवादिदेवाः स्युर्ब्रह्मविष्णुमहेश्वराः ॥ ६५ ॥ ;c{इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे आदिदेवाध्यायः प्रथमः ॥} ;v{दिक्पालाध्यायः} ;c{दिक्पालाध्यायः} वज्रीन्द्रो मघवा वृषा वलरिपुर्वास्तोष्पतिर्वासवः शक्रो जम्भरिपुः सहस्रनयनः संक्रन्दनो वृत्रहा । सुत्रामा सुरनायकः शतमखो वृद्धश्रवाः कौशिकः स्वाराड् दुश्च्यवनः शचीसहचरो जिष्णुर्मरुत्वान् हरिः ॥ ६६ ॥ ;l{0130} पुरुहूतः पुलोमारिः पृतनाषाट् पुरंदरः । तुराषाण्नमुचिद्वेषी विडौजा मेघवाहनः ॥ ६७ ॥ आखण्डलो हरिहयस्तेजोधन्वा दिवस्पतिः । लेखर्षभः शुनासीरः ऋभुक्षाः पाकशासनः ॥ ६८ ॥ महेन्द्रो गोत्रभित्पूतक्रतुः पूर्वहरित्पतिः । ;l{0135} प्राचीनबर्हिर्हरिवान् मेषाण्डो वज्रदक्षिणः ॥ ६९ ॥ ऊर्ध्वधन्वाथ तज्जाया शचीन्द्राणी पुलोमजा । ;p{0010} पूतक्रतायी सैव स्यात् पुरीन्द्रस्यामरावती । पुत्रो जयन्तः प्रासादो वैजयन्तोऽशनिर्ध्वजः ॥ ७० ॥ सुता जयन्ती द्वार्स्थस्तु देवनन्द्यथ नन्दिका । क्रीडाभूमिर्नन्दिसरो वापी सूतस्तु मातलिः ॥ ७१ ॥ ;l{0140} उच्चैःश्रवास्तुरङ्गः स्याल्लीलोद्यानं तु नन्दनम् । ऐरावत ऐरावणराथन्तर्यभ्रमुप्रियस्वरिभाः ॥ ७२ ॥ वज्रोऽस्त्री शतकोटिस्वरुपविदम्भोलिशम्बनिर्घाताः । कुलिशं भिदुरं ह्रादिन्यशनि गौरुभे द्वयोः ॥ ७३ ॥ ;l{0145} स्वर्गस्तु नाकस्त्रिदिवः सुरलोकः स्त्रियौ परे । द्योदिवौ द्वे न त्रिषु स्वर्न द्वयोः स्यात् त्रिविष्टपम् ॥ ७४ ॥ देवा यज्ञभुजोऽमरा दिविषदो बर्हिर्मुखा निर्जरा गीर्वाणास्त्रिदिवेश्वराः सुमनसो वैमानिका वायुनाः । अस्वप्ना अमृताशना अनिमिषा वृन्दारकाः खेचरा आदित्या असुराहिता अदितिजा लेखा निलिम्पाः सुराः ॥ ७५ ॥ विबुधामर्त्यदिवौकस्त्रिदशसुपर्वादितेयमरुदृभवः । ;l{0150} षण्डे न देवताः स्युर्नरि च तयोरेव दैवतानि स्युः ॥ ७६ ॥ ;p{0011} अजानजाः स्वतोदेवाः कर्मदेवास्तु कर्मभिः । कुरुमान् वसुमान् दक्षो रोचमानो धुनिः क्रतुः ॥ ७७ ॥ कालः कामः सखा सत्यो विश्वेदेवा अमी दश । प्राभास आपः प्रत्यूषो धरः सोमो ध्रुवोऽनिलः ॥ ७८ ॥ ;l{0155} अनलो वसवोऽष्टैत एतन्मुख्या मरुद्गणाः । स्युर्महाराजिका रुद्रास्तुषिता वसवोऽनिलाः ॥ ७९ ॥ विश्व आभास्वराः साध्या आदित्या गणदेवताः । दस्रौ तु देवभिषजावश्विनावश्विनीसुतौ ॥ ८० ॥ नासत्यावाश्विनेयौ तौ नासिक्यौ यज्ञवाहकौ । ;l{0160} अब्जो धन्वन्तरिस्त्वष्टा विश्वकर्मा द्युवर्धकिः ॥ ८१ ॥ अग्नाविष्णू इति स्यातामग्निर्विष्णुश्च देवते । शब्दास्त्वेवं क्रमादूह्या देवताद्वन्द्ववाचकाः ॥ ८२ ॥ विद्याधराप्सरस्सिद्धयक्षराक्षसगुह्यकाः । पिशाचभूतगन्धर्वकिंनराः सुरयोनयः ॥ ८३ ॥ ;l{0165} अथ स्त्रियामप्सरसो भूम्नि स्वर्वारयोषितः । घृताची मेनका रम्भा विश्वाची लम्बकोर्वशी ॥ ८४ ॥ ;p{0012} तारा सुकेश्यनुम्लोचा सहजन्या तिलोत्तमा । कृतस्थला मञ्जुघोषा मरीचिः पुञ्चि(ञ्जि?)कस्थला ॥ ८५ ॥ प्रम्लोचा हरिणी साची पूर्वचित्तिरलम्बुसा । ;l{0170} पुण्डरीका पञ्चचूडेत्याद्याः स्वगवधूत्तमाः ॥ ८६ ॥ विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां- स्तपनशशिमयूखा जातवेदाश्च वेदाः । अमृतमचिररोचिर्दक्षकन्ये जलं च त्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥ स्युः किंनराः किंपुरुषाः मयवोऽश्वमुखा अपि । समानौ यक्षकाषेयौ भूताभूततनूद्भवाः ॥ ८८ ॥ ;l{0175} गुह्यकाः स्युर्देवजनाः पुत्रा ये सत्ययौवनाः । विद्याधरास्ते गन्धर्वा गातवो देवगायनाः ॥ ८९ ॥ पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः । सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥ मेरुस्तु रत्नसानुः स्वर्णमहीभृत्सुमेरुसुरशैलाः । ;l{0180} मन्दाकिन्यमरधुनी विष्णुपदी स्वर्णदी वियद्गङ्गा ॥ ९१ ॥ हरिचन्दनमस्त्री स्यान्मन्दारः कल्पभूरुहः । पारिजातश्च संतानः पञ्चैते देवपादपाः ॥ ९२ ॥ ;p{0013} चिन्तामणिः सुरमणिः सुरभिः सुरनैचिकी । कामधेनुर्वियद्यानं विमानं पुंनपुंसुकम् ॥ ९३ ॥ ;l{0185} दैतेयासुरदानवदितिसुतदनुतनयदेवविद्विषतः । शक्रारिशुक्रशिष्यक्रतुरिपुदैत्याश्च पूर्वदेवाश्च ॥ ९४ ॥ दितिरदितिर्दनुकद्रूविनतानिकषाश्च मातरः क्रमतः । दैतेयदेवदानवफणधरपतगेन्द्रयातुधानानाम् ॥ ९५ ॥ अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकः शोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः । ;l{0190} सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखी शुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥ ज्वलनोदर्चिरर्चिष्मदाश्रयाशधनंजयाः । हिरण्यरेतःस्रुग्जिह्वदमुनश्चित्रभानवः ॥ ९७ ॥ रोहिताश्वो मन्त्रजिह्वः सप्तजिह्वस्तनूनपात् । वीतिहोत्रो जातवेदाः कृष्णवर्त्मा विभावसुः ॥ ९८ ॥ ;l{0195} ज्वालायुधो धूमकेतुः सर्वभक्षः समन्तभुक् । आशुशुक्षणिरप्पित्तमौर्वस्तु बडवानलः ॥ ९९ ॥ ;p{0014} संवर्तबाडवौ दस्रदवदावा वनानले । छागरस्तु करीषाग्निस्तरक्षस्तु तृणानले ॥ १०० ॥ स्कन्धाग्निः काष्ठाग्निस्तुषवह्नौ मुर्मुरकुकूलौ । ;l{0200} असुराणां सहरक्षा अमराणां हव्यवाहनो वह्निः ॥ १०१ ॥ क्रव्यात्परेतदहनो वह्निः स्यात्कव्यवाहनः पैत्रः । अनलौ तु भरतसुलभौ ब्रह्मौदनपाकयज्ञयोः क्रमतः ॥ १०२ ॥ अथ वैश्वदेवसवनाहुतिवह्नी अद्भुतयविष्ठौ । महिमान् विवाहवह्निर्बह्वन्नादो व्रतान्ताग्निः ॥ १०३ ॥ ;l{0205} पथिकृत्पथिहोमेऽग्निः पदहोमे त्वनीकवान् । अपोनपात्तु यज्ञाग्निः क्रातवोऽग्निरपांनपात् ॥ १०४ ॥ शुक्रान्वाहार्यपचनावध्वरे दक्षिणानले । गार्हपत्यो गृहपतिः पवमानश्च पश्चिमे ॥ १०५ ॥ हव्यवाहनशंस्याहवनीयाः पूर्वपावके । ;l{0210} सभ्यावसथ्यौ तत्पूर्वावग्नी त्रेतानलत्रये ॥ १०६ ॥ ;p{0015} आधानाग्निरहस्तान आयुः स्यात्पाशुबन्धिकः । सव्यापसव्यावनलौ मृतके सूतके क्रमात् ॥ १०७ ॥ सुरभिर्यूपकर्माग्निः स्वाहाग्नाय्यनलप्रिया । स्यात् त्रिलिङ्गः स्फुलिङ्गोऽग्नेः समौ संतापसं ज्वरौ ॥ १०८ ॥ ;l{0215} धूमस्त्वग्निध्वजो धूपः स गन्धेनाधिवासितः । धूम्या तु धूमसंघाते रेटिः स्त्री दाहनिस्वनः ॥ १०९ ॥ अर्चिः स्त्रीक्लीबयोर्हेतिर्ज्वालकीलौ द्वयोः शिखा । कराली लोहिता काली धूमवर्णा मनोजवा ॥ ११० ॥ स्फुलिङ्गिनी विश्वरुचिश्चेति जिह्वा हविर्भुजः । ;l{0220} अस्त्रियामुल्मुकोऽलातमुल्काथाङ्गारमस्त्रियाम् ॥ १११ ॥ तत्प्रशान्तार्चिरिङ्गालः कालिका चाग्निविट् सभे । मेलामन्दो मषीपात्रमञ्जनं कज्जलं समे ॥ ११२ ॥ पितृपतिकृतान्तशमनप्रेताधिपधर्मराजयमराजाः । कालयममहिषवाहनसमवर्तिश्राद्धदेवकीनाशाः ॥ ११३ ॥ ;l{0225} वैवस्वतो दण्डधरः कालिन्दीसोदरोऽन्तकः । पुरी संयमनी तस्या धूमोर्णा तु सधर्मिणी ॥ ११४ ॥ ;p{0016} पुत्रिका त्वभ्रसन्नाली चित्रगुप्तस्तु लेखकः । स्त्री दुर्गतिः स्यान्निरयो नरको नारकः समाः ॥ ११५ ॥ भेदाः स्युरस्य तपनानलतप्तकुम्भ- संदीपनक्रिमिशरौरवतप्तलोहाः । ;l{0230} संघातपूयवहसूकरलो हशङ्कु- संदंशतालमलभोजनकालसूत्राः ॥ ११६ ॥ मोहवीचिमहावीचिमहारौरवशृङ्गिणः । अप्रतिष्ठो विशसनं कुम्भीपाको महाज्वरः ॥ ११७ ॥ अन्धतामिस्रतामिस्रकण्ठपाशमहालयाः । नारका जन्तवो याम्याः प्रेता वैतरणी नदी ॥ ११८ ॥ ;l{0235} अलक्ष्मीनिर्ऋतिज्येष्ठा विष्टिराजूरथ व्यथा । पीडा बाधा कारणा स्याद्यातना तीव्रवेदना ॥ ११९ ॥ आभीलकष्टकृच्छ्राणि भेद्यवर्तिनि चेत् त्रिषु । आशरकौणपकर्बुरराक्षसरात्रिंचरासृक्पाः ॥ १२० ॥ पुण्यजनयातुधानक्रव्यात्क्रव्यादपुरुषादाः । ;l{0240} नैकषेयो रात्रिचरो नैर्ऋतो यातुरक्षसी ॥ १२१ ॥ ;p{0017} रावणो विंशतिभुजश्चतुष्पाद्दशकन्धरः । चन्द्रहासः कृपाणोऽस्य संनाहस्तु विलोचकः ॥ १२२ ॥ इन्द्रजिन्मेघनादः स्यात्सुतो मन्दोदरी वधूः । प्रचेताः पाथसामीशः पाशी मकरवाहनः ॥ १२३ ॥ ;l{0245} वरुणो यादसांनाथो वरुणानीति तद्वधूः । सैव गौरी तदुद्यानं वैभ्राजं तत्पुरी सुखा ॥ १२४ ॥ पवनसमीरसमीरणमारुतपृषदश्ववायुगन्धवहाः । स्पर्शनपवमानानिलवातमरुच्छ्वसनमातरिश्वानः ॥ १२५ ॥ प्रभञ्जनजगत्प्राणपांसुकेतुप्रकम्पनाः । ;l{0250} दैत्यदेवनभोजन्मध्वजप्रहरणाशुगाः ॥ १२६ ॥ सदागतिर्गन्धवहो नभस्वानग्निसारथिः । प्राणापानव्यानोदानसमानाः शरीरगाः पवनाः ॥ १२७ ॥ हृत्पायुसर्वविग्रहकण्ठान्तरनाभिसंस्थिताः क्रमतः । वातुलो वातसंघाते वात्या स्त्री मण्डलानिलः ॥ १२८ ॥ ;l{0255} गोगन्धनः पुरोवायुर्दक्षिणो मलयानिलः । झञ्झावातस्तु पाश्चात्य उत्तरो हिममारुतः ॥ १२९ ॥ समे तु रंहस्तरसी जवो वेगो रयः स्यदः । द्रुतं तूर्णं लघु क्षिप्रमरमाश्वविलम्बितम् ॥ १३० ॥ ;p{0018} चपलं सत्त्वरं शीघ्रं त्वरितं च द्रुतादिषु । ;l{0260} यत्सत्त्वे वाच्यलिङ्गं तत्क्लीबे तद्यदसत्त्वके ॥ १३१ ॥ अविरतसन्ततसततानारतमनवरतमनिशमश्रान्तम् । नित्यमजस्रं तीव्रं भृशमतिवेलं नितान्तमत्यन्तम् ॥ १३२ ॥ अतिमात्रनिर्भरदृढान्येकान्तोद्गाढबाढानि । अविरतमुख्याश्चैते शब्दाः सर्वे द्रुतादिवत्कार्याः ॥ १३३ ॥ ;l{0265} पौलस्त्ययक्षनरवाहनकिंनरेन्द्र- यक्षेश्वरैलिबिलिगुह्यकराट्कुबेराः । वित्तेशपुण्यजननाथमनुष्यधर्म- श्रीदत्रिनेत्रसखवैश्रवणैकपिङ्गाः ॥ १३४ ॥ इच्छावसू राजराजो धनदो निधिनायकः । रत्नहस्तोऽलकाधीशस्तस्य चैत्ररथं वनम् ॥ १३५ ॥ मणिभद्रस्तु सेनानीर्नन्दनो नलकूबरः । ;l{0270} विमानं पुष्पकं जाया समृद्धिरलका पुरी ॥ १३६ ॥ सैव वस्वौकसारा स्यात्समानौ निधिशेवधी । शङ्खः पद्मो महापद्मः कच्छपो मकरो वरः ॥ १३७ ॥ मुकुन्दकुन्दनीलाश्च नव भेदा निधेरमी । वसुधारा वसुमती वल्लभे शङ्खपद्मयोः ॥ १३८ ॥ ;l{0275} निक्षेप उपनिधिः स्यादर्थो राः सारमस्त्रियां द्रविणम् । ;p{0019} स्वं स्वापतेयमृक्थं रिक्थं वित्तं धनं वसु द्रव्यम् ॥ १३९ ॥ द्युम्नं हिरण्यमथ हाटकशातकुम्भ- गाङ्गेयचन्द्रकलधौतशिलोद्भवानि । कल्याणरुक्मतपनीयहिरण्यहेम कार्तस्वरं कनककाञ्चनकर्बुराणि ॥ १४० ॥ जाम्बूनदं सुवर्णं स्वर्णं चामीकरं महारजतम् । ;l{0280} अपि भर्मजातरूपे अष्टापदभूरिणी तु वा पुंसि ॥ १४१ ॥ रससिद्धं तु कनकं देवार्हं वज्रधारणम् । अलंकारसुवर्णं स्याच्छृङ्गीकनकमाशु च ॥ १४२ ॥ स्वर्णे दुर्वर्णसंश्लिष्ठे घनगोलकमस्त्रियाम् । कोशमस्त्री हिरण्यं च हेमरूप्ये कृताकृते ॥ १४३ ॥ ;l{0285} तद्द्वयं चाहतं रूप्यं तदन्यत्कुप्यमित्यथ । कलधौतचन्द्रभीरुकखर्जूरश्वेतरूप्यरजतानि ॥ १४४ ॥ दुर्वर्णवङ्गजीवनरुद्राश्रुभवानि तुल्यानि । ताम्रं म्लेच्छमुखं म्लेच्छं सुखं शुल्बमुदुम्बरम् ॥ १४५ ॥ श्रेष्ठं कनीयसद्विष्टं वरिष्ठं मर्कटाननम् । ;l{0290} स्फाटिकोऽर्कः समाः सूर्यकान्तार्काश्मानलोपलाः ॥ १४६ ॥ ;p{0020} चन्द्रकान्तश्चन्द्रमणिर्वैडूर्यं वालवायजम् । अश्वगर्भं मरतकं गारुत्मतमथास्त्रियाम् ॥ १४७ ॥ प्रवालो विद्रुमः पुंसि कुल्माषः कुरुविन्दकः । पद्मरागो लोहितकं हीरो ना वज्रमस्त्रियाम् ॥ १४८ ॥ ;l{0295} इन्द्रनीलमहनीलौ समौ मुक्ता तु मौक्तिकम् । वराहशङ्खमत्स्याहिमेघद्विरदवेणवः ॥ १४९ ॥ शुक्तिरिक्षुश्च मुक्तानां नवैते जन्मभूमयः । वज्राद्यश्मसु मुक्तादावपि रत्नं मणिर्द्वयोः ॥ १५० ॥ स्युर्गोमेदकमाणिक्यपुष्परागादयो भिदाः । ;l{0300} दिशः काष्ठा दिशा आशा हरितः ककुभश्च ताः ॥ १५१ ॥ अवाग्भवमवाचीनमुदीचीनमुदग्भवम् । प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥ १५२ ॥ ऐन्द्री प्राची दिगाग्नेयी चिराशा दिक् तु दक्षिणा । अवाची नैर्ऋताशा स्यादन्धकी वारुणी तु दिक् ॥ १५३ ॥ ;l{0305} प्रतीची मारुताशा स्यादनन्ता हरिदुत्तरा । उदीची शांभवी काष्ठा शालाक्षाप्यपराजिता ॥ १५४ ॥ ;p{0021} ऊर्ध्वा ब्राह्म्यथ नागी च नारकी चाधरा ककुप् । मध्यं दिशोर्विदिक् स्यादपदिशमव्ययनपुंसकयोः ॥ १५५ ॥ वलयं तु चक्रवालं हरितां युगलं तु मण्डपीठी स्यात् । ;l{0310} शक्राद्याः शंकरान्ताः स्युरष्टौ हरिदधीश्वराः ॥ १५६ ॥ ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥ १५७ ॥ करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् । ;l{0314} ताम्रपर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती ॥ १५८ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे दिक्पालाध्यायो द्वितीयः ।} ;v{ग्रहाध्यायः} ;c{ग्रहाध्यायः} ;l{0315} विष्णुपदं वियदम्बरमभ्रमनन्तं नभोऽन्तरिक्षं खम् । व्योमसुरवर्त्मपुष्करगगनानि द्योदिवौ स्त्रियावस्त्री ॥ १५९ ॥ स्यादाकाशं विहायश्च दिव्यं दिवि भवे त्रिषु । लोकबान्धव उष्णांशुर्मार्ताण्डोऽरुणसारथिः ॥ १६० ॥ ;p{0022} भानुः सूर्यः पतंगस्तरणिरहिमगुर्भास्करो भानुमाली ब्रध्नो हंसो विवस्वान् रविरयुगहयोऽहर्पतिः कर्मसाक्षी । दीप्तांशुः सप्तसप्तिर्दिवसकर इनस्तिग्मभाश्चित्रभानुः ;l{0320} सूरः पूषाब्जबन्धुर्ग्रहपतिररुणो द्वादशात्मार्यमार्कः ॥ १६१ ॥ दिवाकरः प्रभाकरो विभाकरो विभावसुः । विरोचनो विकर्तनस्त्रयीतनुस्तमोरिपुः ॥ १६२ ॥ हरिदश्वविश्वचक्षुर्मिहिरसहस्रांशुमित्रखद्योताः । दिनमणिसवितृद्युमणिप्रद्योतनतपनभास्वरादित्याः ॥ १६३ ॥ ;l{0325} अहस्करस्त्विषामीशस्त्विषिमानंशुमान् द्युमान् । घृणिघृष्टिमयूखोस्रकिरणांशुगभस्तयः ॥ १६४ ॥ वसुपादकराभीशुरश्मिप्रग्रहभानवः । दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥ रवेरानन्दना मेध्या नूतनाः पूतना इति । ;l{0330} चतुःशतं वृष्टिमुचस्ताः सर्वा अमृतास्त्रियः ॥ १६६ ॥ तासु मेष्यश्च पौष्यश्च ह्रादिन्यश्च शतत्रयम् । हिमवृष्टिमुचः सर्वास्ताश्चन्द्रा भूम्नि च स्त्रियाम् ॥ १६७ ॥ ;p{0023} तासु रुद्रा विश्वभृतः ककुभास्त्रिशतात्मिकाः । धर्मसर्गायताः शुक्रा माध्व्यः शक्वर्य इत्यपि ॥ १६८ ॥ ;l{0335} रुक्छविद्युतिभास्त्विड्भाप्रभागोरुचिदीप्तयः । रोचिः शोचिर्महो वर्चो ज्योतिस्तेजश्च धाम च ॥ १६९ ॥ मण्डलं त्रिषु बिम्बोऽस्त्री प्रतापस्तीव्र आतपः । करेणुर्द्युमयी संज्ञा त्रसरेणुः सुवर्चला ॥ १७० ॥ प्रभा छाया च सप्तैता दयितास्तिग्मदीधितेः । ;l{0340} परिधिः परिवेषः स्यादुपसूर्यकमण्डले ॥ १७१ ॥ गरुडाग्रजस्तु काश्यपिररुणो मार्ताण्डसारथिरनूरुः । गायत्री बृहती पङ्क्तिरुष्णिक्त्रिष्टुबनुष्टुभः ॥ १७२ ॥ जगती च रवेरश्वा मृगतृष्णा मरीचिका । विवस्वान् सविता पूषा विष्णुरंशोऽरुणो भगः ॥ १७३ ॥ ;l{0345} इनस्त्वष्टार्यमा धाता मित्रश्चामी विभाकराः । कवोष्णकोष्णमन्दोष्णकदुष्णास्तद्वति त्रिषु ॥ १७४ ॥ तथा तिग्मोग्रतीक्ष्णोष्णतीव्रचण्डखराणि च । माठरः पिङ्गलो दण्डश्चण्डांशोः पार्श्ववर्तिनः ॥ १७५ ॥ ;p{0024} अब्जश्चन्द्रो विधुरमृतगुश्चन्द्रमा ओषधीश- स्तारानाथः सरसिजरिपुः शर्वरीशः शशाङ्कः । ग्लौरेणाङ्कः शिशिरकिरणो रोहिणीबन्धुरिन्दुः ;l{0350} सोमो राजा तुहिनकिरणः श्वेतभानुर्द्विजेन्द्रः ॥ १७६ ॥ जैवातृको दशहयः कलात्मा कैरवप्रियः । प्राचीनतिलकश्चिह्नं लाञ्छनं लक्ष्म लक्षणम् ॥ १७७ ॥ अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता । भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥ ;l{0355} अर्धं समेंऽशकेऽभिख्या सुषमा परमा छविः । कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रांशः षोडशः कला ॥ १७९ ॥ अथावश्यायनीहारतुषारास्तुहिनं हिमम् । प्रालेयं मिहिकाथ स्यात्कुहेली हिमधूमिका ॥ १८० ॥ हिमानी हिमसंघाते शिशिरः शीतलो जडः । ;l{0360} हिमः शीतस्तुषारश्च षडमी तद्वदर्थकाः ॥ १८१ ॥ सहैवोक्त्या पुष्पवन्तौ सूर्याचन्द्रमसावुभौ । उपपप्लवोपरागौ तु ग्रहणे चन्द्रसूर्ययोः ॥ १८२ ॥ सोपप्लवोपरक्तौ तु तावेव तमसावृतौ । आरस्त्वङ्गारको भौमो मङ्गलोऽवनिजः कुजः ॥ १८३ ॥ ;l{0365} रुधिरो लोहिताङ्गोऽथ सौम्यश्चान्द्रमसायनिः । रौहिणेयो बुधः शक्रसचिवस्तु बृहस्पतिः ॥ १८४ ॥ ;p{0025} धिषणस्त्रिदशाचार्यो जीवश्चित्रशिखण्डिजः । गुरुराङ्गिरसो वाचस्पतिर्गीष्पतिरित्यपि ॥ १८५ ॥ उशना भार्गवः शुक्रः काव्यो दैत्यगुरुः कविः । ;l{0370} शनिश्छायात्मजो मन्दः सौरिः पङ्गुः शनैश्चरः ॥ १८६ ॥ नीलवस्त्रोऽसितः कालस्तमो राहुर्विधुंतुदः । स्वर्भानुः सैंहिकेयश्च स एवाभ्रपिशाचकः ॥ १८७ ॥ केतवो ब्रह्मपुत्राः स्युर्विकचा धूमजाश्च ते । नक्षत्रमृक्षं भं ज्योतिः सन्ति तारोडुतारकाः ॥ १८८ ॥ ;l{0375} तिस्रो नपुंसकेऽपि स्युः (स्यात्?) स्त्रियामश्वयुगश्विनी । बहुलाः कृत्तिका आर्द्रा कालिकी व्याध इत्यपि ॥ १८९ ॥ मृगशीर्षं मृगशिरो मृगः पुंस्याग्रहायणी । इन्वकास्तच्छिरोदेशे तारका इल्वलाः स्त्रियः ॥ १९० ॥ तिष्यः पुष्यश्च सिद्ध्यश्च यामकौ तु पुनर्वसू । ;l{0380} फल्गुनी तु द्वित्वभूम्नोराश्लेषाश्च मघाः स्त्रियः ॥ १९१ ॥ पुंभूम्नि स्युरनूराधा मूले स्यान्मूलबर्हिणी । राधा विशाखाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियाम् ॥ १९२ ॥ ;p{0026} श्रोणा तु श्रवणे स्वातौ निष्ट्याथैकवचस्यपि । श्रविष्ठास्तासु मन्दाशा धनिष्ठा भरणीष्विमाः ॥ १९३ ॥ ;l{0385} योग्याश्चापभरण्यश्च हस्तः शतभिषक् च ना । श्रविष्ठः फल्गुनः स्वातिस्तिष्यो हस्तः पुनर्वसुः ॥ १९४ ॥ अनुराधो विशाखश्च श्रविष्ठादि भवेत् त्रिषु । छायापथस्वातिपथावुभौ नक्षत्रपद्धतौ ॥ १९५ ॥ नवैव वीथ्यो नक्षत्रैरश्विन्याद्यैस्त्रिभिस्त्रिभिः । ;l{0390} अश्विन्याद्या नागवीथी रोहिण्याद्याजवीथिका ॥ १९६ ॥ पुनर्वस्वादिका या सा स्यादैरावतवीथिका । मघाद्या त्वार्षभी वीथी गोवीथी हस्तपूर्विका ॥ १९७ ॥ जरद्गवी विशाखाद्या मूलाद्या गजवीथिका । श्रोणाद्या मृगवीथी स्यात्ततः प्रोष्ठपदादिका ॥ १९८ ॥ ;l{0395} वीथी वैश्वानरी ताभिस्तिसृभिस्तिसृभिः क्रमात् । उत्तरो देवयानाख्यो योगियानाभिधस्त्वयम् ॥ १९९ ॥ मध्यमः पितृयानाख्यो मार्गः स्याद्दक्षिणस्तथा ॥ २०० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ग्रहाध्यायस्तृतीयः ।} ;p{0027} ;v{ऋष्यध्यायः} ;c{ऋष्यध्यायः} सप्तर्षयो मरीच्याद्यास्ते तु चित्रशिखण्डिनः । ;l{0400} अगस्त्यः कुम्भजोऽगास्तिर्मैत्रावरुणिरस्य तु ॥ २०१ ॥ लोपामुद्रा वधूर्देवमुनयो नारदादयः । स्याद्गौतमो दीर्घतपा अहल्या तत्सधर्मिणी ॥ २०२ ॥ दित्यदिती दनुकद्रू विनताताम्राक्षराजरारिष्टाः । सुरभिः क्रोधवशामुनिसुरसाः स्युः कश्यपगृहिण्यः ॥ २०३ ॥ ;l{0405} भृग्वङ्गिरोऽत्रिजमदग्निवसिष्ठवत्स- वत्सारकाश्यपबृहस्पतिकण्वगर्गाः । और्वाजगृत्समदगौतमवीतिहव्य- वाधूलकुण्डिनपराशरदेवराताः ॥ २०४ ॥ अक्षीलशण्डिलधनंजयवामदेव- कुत्सर्ष्टिषेणकुशिकच्यवनाप्नवानाः । शक्त्यष्टकौ हरितमुद्गलपूतिमाष- शालावता अतिथिदेवलसोमवाहाः ॥ २०५ ॥ ;p{0028} पुरुकुत्सयज्ञवल्कौ विश्वामित्राघमर्षणोचत्थ्याः । ;l{0410} सालङ्कायनसंकृतिशठमर्षणागस्तितण्डिबृहदुक्थाः ॥ २०६ ॥ शैवगवबादरायणवभ्रुभरद्वाजमन्त्रणानूपाः । शुङ्गशुनकौ सवेदा इत्याद्या गोत्रहेतवो मुनयः ॥ २०७ ॥ अन्येऽजीगर्तदुर्वासःकपिलश्वेतकेतवः । पैङ्गैतरेयमाण्डव्यकौषीतककलापिनः ॥ २०८ ॥ ;l{0415} शङ्खमेखलसौजामिभर्गबाहविबाष्कलाः । चण्डभार्गवसंवर्तपुण्डरीकविभण्डकाः ॥ २०९ ॥ ऋश्यशृङ्गशुनःशेफमार्काण्डेयमृकण्डवः । महाकौषीतकोद्दालकण्डुरोमशदत्तिलाः ॥ २१० ॥ महापैङ्गरुरुव्यालिकहोलकमठांशवः । ;l{0420} दाल्भ्यः सत्यतपाः पैलो जाबालिश्च सनातनः ॥ २११ ॥ प्रमतिश्च सुमन्तुश्च विश्रवाश्च महर्षयः ॥ २१२ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ऋष्यध्यायश्चतुर्थः ।} ;p{0029} ;v{मेघाध्यायः} ;c{मेघाध्यायः} अभ्रं मेघबलाहकवारिदवारिधरमुदिरजीमूताः । स्तनयित्नुघनतटित्वद्धाराधरधूमयोनितोयमुचः ॥ २१३ ॥ वारिभृद्वारिवाहोऽथ वर्षुकोऽब्दो घनाघनः । ऐरावतस्तु जलदो जलदस्योपरिस्थितः ॥ २१४ ॥ ;l{0425} कादम्बिनी कालिका स्याद् घनज्योतिरिरंमदः । त्रिषु मेघभवं मेघ्यं त्रिष्वभ्रभवमभ्रियम् ॥ २१५ ॥ तुषारः शीकरो बिन्दुः पृषतो विप्रुषः स्त्रियः । पृषन्ति मेघपाषाणे करो ना करकाः स्त्रियाम् ॥ २१६ ॥ वर्षोऽस्त्री तत्प्रतिष्ठम्भे त्ववग्राहोऽप्यवग्रहः । ;l{0430} महती वृष्टिरासारः स्फूर्जथुर्वज्रपेषणे ॥ २१७ ॥ तडिदैरावतीह्रादिन्यचिरांशुशतह्रदाः । विद्युत्सौदामिनीशम्पाचपलाक्षणरोचिषः ॥ २१८ ॥ चञ्चलेन्द्रायुधं शक्रधनुर्मणिशरासनम् । तेजोधनुः सुरधनुः स्यादेतदृजुरोहितम् ॥ २१९ ॥ ;p{0030} ;l{0435} गर्जितं मेघनिर्घोषो रसितस्तनितादि च । अह्नि घनस्थगिते स्याद् दुर्दिनमन्तर्धिनिह्नवौ व्यवधा ॥ २२० ॥ अन्तर्धाव्यवधानप्रावरणस्थगनगूहनास्तरणम् । अपिधानं तिरोधानं विधानमपवारणम् ॥ २२१ ॥ अन्तर्धानं प्रोर्णवनं तूत्थनच्छादने अपि ॥ २२२ ॥ ;c{इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे मेघाध्यायः पञ्चमः ॥} ;v{शब्दाध्यायः} ;c{शब्दाध्यायः} ;l{0440} शब्दध्वाननिनादनादनिनदस्वानस्वना निस्वन- ह्रादारावविरावघोषरसंरावारवाश्च ध्वनिः । निःस्वानोऽपि रणोऽपि च प्रतिनिनादे स्यात्प्रतिश्रुत् स्त्रियां संभोगे मणितं ध्वनिर्वसनपर्णानां स्वनो मर्मरः ॥ २२३ ॥ मेर्या नादष्टट्टरो बर्हिणानां केका हम्भा स्याद्गवां रम्भणं च । हेषा ह्रेषा वाजिनां वारणानां शब्दे गर्जा गर्जितं बृंहितं च ॥ २२४ ॥ ;p{0031} ;l{0445} घोणाशब्दे घोरितं घोटकादेस्तिर्यक्छब्दे वाशनं वाशितं च । विस्फारः स्यात्कार्मुकाणां स्थानां चीत्कारः स्याच्छिञ्जितं भूषणानाम् ॥ २२५ ॥ वृकाणां रेषणं रेषा भषितं भुक्कितं शुनाम् । क्रन्दनं योधि संरावे स्रोतसां खरकस्वनः ॥ २२६ ॥ पर्दनं पायुजे शब्दे कर्दनं कुक्षिकूजिते । ;l{0450} कोलाहलः कलहलो मार्जना मुरजध्वनिः ॥ २२७ ॥ निक्वाणो निक्वणः क्वाणः प्रक्वाणः प्रक्वणः क्वणः । वीणायाः क्वणिते शब्दे तुमुलं भृशसंकुले ॥ २२८ ॥ ;l{0453} उच्चैःस्वरो ध्वनिस्तारः कलस्तु मधुरास्फुटः । मन्द्रस्त्वत्यन्तगम्भीरस्त्रयोऽमी तद्वति त्रिषु ॥ २२९ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शब्दाध्यायः षष्ठः ॥} ;p{0032} ;v{कालाध्यायः} ;c{कालाध्यायः} कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः । ;l{0455} अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥ काष्ठा तास्तु कला त्रिंशत् तास्तु त्रिंशत् क्षणोऽथ ते । षण्णाडी घटिका ते तु मुहूर्तः पुंनपुंसके ॥ २३१ ॥ ते तु त्रिंशदहोरात्रः सुप्रातः शोभनोषसि । प्रभातः प्रत्युषः काल्यविभातोषांस्यहर्मुखम् ॥ २३२ ॥ ;l{0460} व्युष्टं प्रत्यूषगोसर्गौ प्रगे प्रातश्च न त्रिषु । दिनाहनी तु घस्रो वा षण्डौ दिवसवासरौ ॥ २३३ ॥ समानौ प्राह्णपूर्वाह्णौ समौ संगतसंगवौ । मध्यंदिनं तु मध्याह्नोऽथांशोऽह्नः कुतपोऽष्टमः ॥ २३४ ॥ चरमाह्णस्तु सायाह्नोऽपराह्णः सायमव्ययम् । ;l{0465} त्रिसंध्यं प्राह्णमध्याह्नापराह्णा मैथिलस्त्वयम् ॥ २३५ ॥ प्रदोषः स्याद्रात्रिमुखमथ संध्या पितृप्रसूः । रात्रिस्तु वासतेयी रजनितमीशर्वरीतमस्विन्यः ॥ २३६ ॥ क्षणदाक्षपात्रियामावसतिश्यामानिशानिशीथिन्यः । विभावरी यामिनी च तमिस्रा तामसी निशा ॥ २३७ ॥ ;p{0033} ;l{0470} ज्यौत्स्नी चन्द्रिकया धौता गणरात्रं निशागणः । या पक्षाभ्यामिवाहोभ्यां युक्ता सा पक्षिणी निशा ॥ २३८ ॥ सर्वैकदेशसंख्यातसंख्याशब्देभ्य उत्तरा । रात्रिः पुमानदन्तः स्यादह्नोऽप्यह्नः कचिद्भिदा ॥ २३९ ॥ निशीथः स्यादर्धरात्रो मध्यरात्रो महानिशा । ;l{0475} समौ यामप्रहरकौ प्रतिपत्पक्षती समे ॥ २४० ॥ निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी । स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥ कलोनेऽनुमतिः पूर्णे राका सा रजनीकरे । अमावास्या त्वमावस्या स्यादमावास्यमावसी ॥ २४२ ॥ ;l{0480} अप्यमामास्यमामस्यौ दर्शः सूर्येन्दुसंगमः । सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः ॥ २४३ ॥ पक्षोऽर्धमासः स द्वेधा पूर्वापरविभागतः । पूर्वस्तु शुक्लः कृष्णः स्यादपरो बहुलोऽपि सः ॥ २४४ ॥ क्षीयमाणतिथिः पक्षो रिक्तः स्यादपरस्त्वणिः । ;l{0485} मासस्त्रिंशदहोरात्रस्तस्य भेदाः स्युरुत्तरे ॥ २४५ ॥ चान्द्रः सौरः सावनश्च नाक्षत्रश्च चतुष्टये । मासौ चैत्रादिकौ द्वौ द्वावृतुरेते तु षट् समाः ॥ २४६ ॥ ;p{0034} उत्तरं दक्षिणं यानमुष्णांशोरयने उभे । चैत्रादयः फाल्गुनान्ता मासा द्वादश वत्सराः ॥ २४७ ॥ ;l{0490} तुल्यरात्रिंदिवे काले विषुवद्विषुवे समे । चित्रायुक्ता पौर्णमासी चैत्री यत्र स नामतः ॥ २४८ ॥ मासश्चैत्रो यथैवं स्युर्वैशाखप्रमुखाः परे । चैत्रे मधुश्चैत्रिकोऽथ वैशाखे राधमाधवौ ॥ २४९ ॥ ज्येष्ठे तु शुक्र आषाढे शुचिः श्रावणिके नभाः । ;l{0495} श्रावणोऽथ प्रोष्ठपदभाद्रभाद्रपदास्त्रयः ॥ २५० ॥ नभस्ये स्युरिषस्त्वाश्वयुज आश्विन इत्यपि । अमी ऊर्जः कार्तिकिकः कार्तिको बहुलः समाः ॥ २५१ ॥ मार्गस्तु मार्गशीर्षः स्यादाग्रहायणिकः सहाः । पौषस्तैषः सहस्यश्च तपा माघेऽथ फाल्गुनः ॥ २५२ ॥ ;l{0500} स्यात्तपस्यः फाल्गुनिकः सान्ता ये तेऽत्र न स्त्रियाम् । वसन्ते तु मधुः पुष्पसमयः सुरभिस्त्रयः ॥ २५३ ॥ मरुवककर्णिकारबकुलाम्रामधूकतुष- क्रमुकनमेरुसालतिलकागुरुदन्तशठाः । कुरवकसिन्धुवारकृतमालतमालयुगच्छद- करकप्रियालघननागसमित्तरवः ॥ २५४ ॥ ;p{0035} लवङ्गः पुण्ड्रकोऽशोक इत्याद्याः पुष्पिणो मधौ । स्त्रीणां गीत्या प्रियालो विकसति तिलको वीक्षणासिन्धुवारः ;l{0505} श्वासाद्धासान्नमेरुः कुरवकतरुरालिङ्गनादङ्घ्रिसंगात् ॥ २५५ ॥ कङ्केलिश्चूतशाखी करपरिमिलनाच्चम्पकः शीथुरागात् संलापात्कर्णिकारो वदनमधुरसासेकतः केसरोऽपि । निदाघ उष्णको ग्रीष्म उष्ण ऊष्मागमस्तपः ॥ २५६ ॥ क्रमात्प्रावृट् च वर्षाश्च स्त्रीत्वैकत्वबहुत्वयोः । प्रावृषेण्यं त्रिषु प्रावृड्भवं प्रावृषिकं त्रिषु ॥ २५७ ॥ ;l{0510} त्रिषु मेघंकरं मेघविधायिनि शरत् स्त्रियाम् । हिमकालस्तु हेमन्तः शिशिरः पुंनपुंसके ॥ २५८ ॥ समाः स्त्रियः शरत्स्त्री स्यादस्त्रियौ वर्षहायनौ । संवत्सरो वत्सरोऽब्दः कृताद्यं तु चतुर्युगम् ॥ २५९ ॥ त्रियुगं तु युगासारो व्यायोगस्तु युगद्वयम् । ;l{0515} अहोरात्रस्तु पैत्रः स्यान्मासेनाब्देन दैवतः ॥ २६० ॥ ब्राह्मो युगसहस्राभ्यां दैवताभ्यां नृणां तु तौ । कल्पौ मन्वन्तरं दिव्ययुगानामेकसप्ततिः ॥ २६१ ॥ परिवर्तस्तु संवर्तः प्रलयो भूतसंप्लवः । ;p{0036} क्षयो युगान्तः कल्पान्तः समस्वापो जगत्क्षयः ॥ २६२ ॥ ;l{0520} नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः । नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ २६३ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे कालाध्यायः सप्तमः ॥} ;v{चित्ताध्यायः} ;c{चित्ताध्यायः} चेतश्चित्तं हृदयमनसी स्वान्तहृन्मानसानि प्रज्ञा बुद्धिः प्रतिपदुपलब्धिः प्रतीतिर्मनीषा । दृष्टिः संविच्चिदपि धिषणा चेतना शेमुषी धी- र्ज्ञप्तिः प्रेक्षा मतिरपि गतव्यापिनी धीः स्मृतिः स्यात् ॥ २६४ ॥ चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति । ;l{0525} मानसं कर्म संकल्पो मेधा धीर्धारणावती ॥ २६५ ॥ मीमांसा गणना चर्चा संख्योत्प्रेक्षा विचारणा । अध्याहारः परामर्शस्तर्क ऊहोऽथ कोविदः ॥ २६६ ॥ विद्वान्सूरिर्लब्धवर्णो विपश्चित्प्राज्ञो धीरः पण्डितः प्राप्तरूपः । धीमान्कृष्टिर्दीर्घदर्शी कविर्ज्ञो दोषज्ञः सन् दूरदर्शी मनीषी ॥ २६७ ॥ ;p{0037} ;l{0530} अभिरूपः सुधीर्बोद्धा बुधो बिन्दुर्विचक्षणः । विशारदश्च संख्यावान् आर्य उत्प्रेक्षकश्च सः ॥ २६८ ॥ आकारः सत्त्वजो भाव आकूतं चेङ्गितं समे । आगूः संवित्प्रतिज्ञा च संगरः संश्रवाश्रवौ ॥ २६९ ॥ अङ्गीकारोऽभ्युपगमो नियमश्च प्रतिश्रवः । ;l{0535} आधिर्ना मानसी पीडा समाधिर्धर्मचिन्तनम् ॥ २७० ॥ विचिकित्सा तु संशीतिर्विशयः संशयः समौ । संदेहद्वापरौ चाथ सर्गो निर्णयनिश्चयौ ॥ २७१ ॥ चित्तविभ्रम उन्मादो मिथ्याज्ञानं मतिभ्रमः । अथ सिद्धान्तराद्धन्तकृतान्तसमयाः समाः ॥ २७२ ॥ ;l{0540} स्याद् द्रोहचिन्ता व्यापादः संकेतसमयौ समौ । धियो गुणास्तु शुश्रूषा श्रवणं ग्रहणं धृतिः ॥ २७३ ॥ ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानमिति क्रमात् । स योगो यस्तु संयोगो जीवात्मपरमात्मनोः ॥ २७४ ॥ मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् । ;l{0545} मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥ आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् । निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥ ;p{0038} प्रणिधानं प्रसंख्यानं ध्यानं सत्त्वं रजस्तमः । गुणास्तत्त्वं प्रकृत्याद्यमविद्या स्यादहंमतिः ॥ २७७ ॥ ;l{0550} चेतसोऽलंक्रिया मैत्री करुणा मुदितापि च । उपेक्षा च चतस्रोऽमूर्दम इन्द्रियनिग्रहः ॥ २७८ ॥ धारणा ब्रह्मणि ध्येये चित्तस्य स्थिरबन्धनम् । समाधिस्तु समावस्था जीवात्मपरमात्मनोः ॥ २७९ ॥ ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं समं त्रयम् । ;l{0555} धर्मोऽस्त्री सुकृतं श्रेयः पुण्यं सुचरितं वृषः ॥ २८० ॥ भाग्यं दिष्टं भागधेयं दैवं च नियतिर्विधिः । श्वःश्रेयसं तु कल्याणं श्वोवसीयं शिवं शुभम् ॥ २८१ ॥ मङ्गलं भावुकं भव्यं भविकं भद्रमद्रके । कुशलं शोभनं श्रेयः शस्तं च क्षेममस्त्रियाम् ॥ २८२ ॥ ;l{0560} पुण्यपापे त्रिषु द्रव्ये तद्वच्छिवशुभादि च । प्रमोदमोदप्रमदसंतोषामोदसंमदाः ॥ २८३ ॥ मुत्प्रीतिर्हर्ष आनन्दाह्लादानन्दथवः सुखम् । शर्म शातमलिङ्गे शमयस्तु शुभदो विधिः ॥ २८४ ॥ स्त्र्यर्थस्य श्रैष्ठ्यवादिन्यौ मतल्ली च मचर्चिका । ;l{0565} प्रकाण्डं तल्लजोद्घौ च प्रशस्तार्थाभिधायकाः ॥ २८५ ॥ ;p{0039} दुष्कृतमघमेनोंऽहः किल्बिषमलदुरितपापरेपांसि । दुष्कर्म कलुषरजसी वृजिनं पाप्मा तु पुंसि पङ्कोऽस्त्री ॥ २८६ ॥ शब्दस्पर्शरसा रूपं गन्धश्च विषया अमी । इन्द्रियार्था इन्द्रियं तु स्यादक्षं करणं च तत् ॥ २८७ ॥ ;l{0570} विषयेन्द्रियं हृषीकमथ ज्ञानेन्द्रियं मनः । श्रुतिस्त्वग्रसना दृष्टिर्नासाथ चरणौ करौ ॥ २८८ ॥ उपस्थं वागपानं चेत्येतत्कार्मणमिन्द्रियम् । त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्लानि धातवः ॥ २८९ ॥ गन्धे परिमलामोदौ सौरभ्यं सौरभोऽस्त्रियाम् । ;l{0575} घ्राणतर्पणगन्धे तु कषायः सुरभिः कटुः ॥ २९० ॥ मनोज्ञगन्धे सुरभिगन्धिरुच्छ्रितगन्धिनि । उद्गन्धिरिष्टगन्धी तु सुगन्धिर्विस्रमित्यदः ॥ २९१ ॥ आमगन्धिनि दुर्गन्धिः पूतिगन्धिरमी त्रिषु । कषायाद्यास्तद्वदर्था अग्न्युत्पात उपाहितः ॥ २९२ ॥ ;l{0580} उत्पातो पप्लवारिष्टोपसर्गा उपलिङ्गकम् । अजन्यमीतिरित्येते शब्दाः सप्त समार्थकाः ॥ २९३ ॥ ;p{0040} कषाये तुवरः स्वादौ मधुरो लवणः कटुः । अम्लस्तिक्तो रसाः पुंसि षडेते तद्वति त्रिषु ॥ २९४ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे चित्ताध्यायोऽष्टमः ॥} ;v{पातालाध्यायः} ;c{पातालाध्यायः} पातालमधोभुवनं बलिसद्म रसातलं च फणिलोकः । ;l{0585} अतलं वितलं नितलं सुतलं प्रतलं तलातलं भेदाः ॥ २९५ ॥ कुहरं तु रन्ध्रविवरछिद्रबिलश्वभ्ररोकनिर्व्यथनम् । अपि सुषिवपे स्त्रियौ स्यादवटो गर्तश्च भूतलश्वभ्रे ॥ २९६ ॥ तिमिरं तमस्तमिस्रं ध्वान्तं क्लीबेऽपि चान्धकारः स्यात् । अवतमसमन्धतमसं संतमसं क्षयिणि भूयसि ततेऽस्मिन् ॥ २९७ ॥ ;l{0590} सर्पः पृदाकुभुजगाहिभुजंगभोगि- कुम्भीनसोरगभुजंगमगूढपादाः । व्यालद्विजिह्वफणिजिह्मगदन्तशूक- काकोदराण्डजसरीसृपकाद्रवेयाः ॥ २९८ ॥ ;p{0041} विषधरचक्रिबिलेशयदर्वीकरदीर्घपृष्ठदृक्छ्रवणाः । पन्नगपवनभुगाशीविषकुण्डलिनागलेलिहानाश्च ॥ २९९ ॥ शेषोऽनन्तो वासुकिरहिराडथ शङ्खतक्षकाश्वतराः । ;l{0595} कम्बलगुलिकस्वस्तिककर्कोटकशङ्खचूडकौरव्याः ॥ ३०० ॥ वैशालेयमहान्तकपद्ममहापद्मनहुषधृतराष्ट्राः । कुञ्जरकुमुदैरावतकुण्डोदरपुण्डरीकबहुकुण्डाः ॥ ३०१ ॥ कैलासैलापत्रश्वेतमुखाः स्युर्भुजंगमप्रवराः । फणिनः कुण्डलचक्रे वेष्टनमाशीस्तु दंष्ट्रायाम् ॥ ३०२ ॥ ;l{0600} डुण्डुभः पुण्डरीकश्च राजिलो राजिमत्यहौ । रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशलक्षणाः ॥ ३०३ ॥ फणिनः शीघ्रगतयः सर्पा दर्वीकराभिधाः । मन्दा दीर्घा मण्डलिनो विविधैर्मण्डलैर्युताः ॥ ३०४ ॥ मालुधानो मातुलाहिरलगर्दोऽम्बुपन्नगः । ;l{0605} अहीरणोऽहिर्द्विमुखो राजसर्पो भुजंगभुक् ॥ ३०५ ॥ स भुजंगस्त्वजो नाम यः स्यादुभयतोमुखः । गोनसस्तु तिलित्सः स्याद्वाहसोऽजगरः शयुः ॥ ३०६ ॥ बलाहकस्तु कृष्णाहिरन्धाहिरवनीशयः । दर्वीकरादिभिर्भेदैरशीतिः सर्पजातयः ॥ ३०७ ॥ ;p{0042} ;l{0610} वर्षाभूः शकलज्योतिः पैङ्गराजो बलाहकः । शुकपत्रः पुष्पकोऽहिपताको निर्विषाहयः ॥ ३०८ ॥ निर्मुक्तोऽहिर्विमुक्तत्वगहिनिर्लयनी स्त्रियाम् । समौ कञ्चुकनिर्मोकौ स्फटायां तु फणः फणा ॥ ३०९ ॥ गतिर्भुजो भुजंगस्य भोगस्तु फणकाययोः । ;l{0615} त्रिष्वाहेयं त्वगस्थ्यादि व्यालग्राह्यहितुण्डिकः ॥ ३१० ॥ गरलं तु विषं क्ष्वेलस्तत्प्रभेदास्तु दारदः । सौराष्ट्रिको ब्रह्मपुत्रो वत्सनाभः प्रदीपनः ॥ ३११ ॥ शौक्लिकेयो महाघोषः शृङ्गी चेत्येवमादयः । त्रयः क्लीबे च काकोलकालकूटहलाहलाः ॥ ३१२ ॥ ;l{0620} हालाहलो हालहलो हालहालोऽपि न स्त्रियाम् । विषवैद्यो जाङ्गलिको विषविद्या तु जाङ्गलम् ॥ ३१३ ॥ नदी पुरी च नागानां भोगवत्यथ कर्दमः । पुमान्निषद्वरः शादो जम्बालः पङ्कमस्त्रियाम् ॥ ३१४ ॥ अर्णव उदधिरुदन्वानब्धिरकूपार आपगानाथः । ;l{0625} वरुणालयमकरालयवाराकरसिन्धुसागरसमुद्राः ॥ ३१५ ॥ ;p{0043} रत्नाकरः पयोराशिः पारावारः पयोनिधिः । सरस्वानूर्मिमाली च तत्प्रभेदाः स्युरुत्तरे ॥ ३१६ ॥ लवणेक्षुसुरासर्पिर्दधिक्षीरोदकात्मकाः ॥ ३१७ ॥ अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः- पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् । कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरं ;l{0630} नारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥ तरङ्गो भङ्ग ऊर्मिर्वा स्त्री वीचिर्लहरी समे । गुरुषूल्लोलकल्लोलौ तनुषूत्कलिकोर्मिषु ॥ ३१९ ॥ कूलं रोधः प्रतीरं त्रिषु तटमुदधेस्तोयवृद्धौ च कूले वेला द्वीपस्तु न स्त्री तटमधिसलिलं न द्वयोरन्तरीपम् । पारावारे तु तीरे परमितरदुमे पात्रमन्तस्तयोः स्या- दावर्तश्चक्रमम्बुभ्रम उदधिकफः पुंसि डिण्डीरफेनौ ॥ ३२० ॥ ;l{0635} पूरः स्यादम्भसां वृद्धिरोघः स्रोतोऽम्भसां स्रुतिः । स्फूर्जथुर्वीचिविक्षेपे पुलिनं सैकतं समे ॥ ३२१ ॥ वालुका स्त्री स्त्रियां भूंंम्नि सिकताः सिकतावति । त्रिषु देशे सिकतिलं भ्रमाः सलिलनिर्गमाः ॥ ३२२ ॥ परीवाहो जलोच्छ्वासः प्रभवो मूलमम्भसाम् । ;l{0640} चक्राणि पुटभेदाः स्युर्बुद्बुदस्थासकौ समौ ॥ ३२३ ॥ ;p{0044} समुद्रीयं तु त्रिष्वब्धिभवे सामुद्रिकस्त्वयम् । समुद्रयात्रादैवज्ञो नौस्तरिस्तरणिः स्त्रियाम् ॥ ३२४ ॥ नौदण्डः क्षेपणी नावमतिक्रान्तेऽतिनु त्रिषु । नौतार्ये त्रिषु नाव्यं स्यान्नौशृङ्गे मङ्गमस्त्रियाम् ॥ ३२५ ॥ ;l{0645} अर्धनावं तु नावोऽर्धं कूपको गुणवृक्षकः । सेचनं सेकपात्रं स्यादरित्रं केनिपातकः ॥ ३२६ ॥ अभ्रिः स्त्री काष्ठकुद्दालः कर्णधारस्तु नाविकः । काष्ठाम्बुवाहिनी द्रोणी नियामः कर्णधारकः ॥ ३२७ ॥ कर्णं पृष्ठस्थितारित्रमुडुपं प्लवकोलकौ । ;l{0650} यानपात्रं प्रवहणं पोतो भेदे तरण्डकः ॥ ३२८ ॥ सांयात्रिकः पोतवणिक् पोतवाहा नियामकाः । आतरस्तरपण्यं स्यात्कूपकास्तु विदारकाः ॥ ३२९ ॥ पौलिन्दास्तु जलाजीवा जालिको दासधीवरौ । कैवर्तो जालमानायः पवित्रं शणसूत्रकम् ॥ ३३० ॥ ;l{0655} कुवेणी मत्स्यधानी स्याद् बडिशं मीनवेधनम् । उद्गालो मत्स्यबन्धः स्याद्वराटस्तु कपर्दकः ॥ ३३१ ॥ मत्स्यझषानिमिषाण्डजपृथुलोमविसारशकुलिमीनाः स्युः । वैसारिणोऽथ शकलं शल्कमुलूपं च तत्त्वचि त्रितयम् ॥ ३३२ ॥ ;p{0045} राजीवमकरमद्गुरवागुरपल्लवकशकुलशालाश्च । ;l{0660} नन्द्यावर्तकरोहितकुलिशप्रमुखाश्च मत्स्यभेदाः स्युः ॥ ३३३ ॥ तिमिस्तिमिंगिलः शृङ्गी वीरल्लश्च महाझषाः । शफरः शफरी प्रोष्ठी गण्ड(ड?)कः शकुलार्भकः ॥ ३३४ ॥ महाङ्गाः क्रूरहृदयाः यादांसि जलजन्तवः । सहस्रदंष्ट्रपाठीनौ शिशुकोलूपिनौ समौ ॥ ३३५ ॥ ;l{0665} नलमीने चिलिचिमः क्षुद्राण्डो मत्स्यसंहतिः । पोतधानं च शङ्खस्तु जलजः कम्बुरस्त्रियाम् ॥ ३३६ ॥ क्षुद्रशङ्खाः शङ्खनखाः शम्बूकास्त्वम्बुशुक्तयः । मुक्तास्फोटस्तु शुक्तिः स्त्री कूर्मः कमठकच्छपौ ॥ ३३७ ॥ मण्डूके भेकवर्षाभूशालूरप्लवदर्दुराः । ;l{0670} मण्डूकी दर्दुरी भेकी वर्षाभ्वी कमठी दुलिः ॥ ३३८ ॥ वारिपिण्डः शिलान्तःस्थमण्डूकोऽथ महीलता । गण्डूपदः किञ्चुलुकः शिली गण्डूपदी समे ॥ ३३९ ॥ जलौकसः स्त्रियां भूम्नि जलूका रक्तपा च सा । तन्तुनागो वराहः स्याद् ग्राहो वरुणपाशकः ॥ ३४० ॥ ;p{0046} ;l{0675} नागोऽथ नक्रः कुम्भीरः कुम्भी गोमुख इत्यपि । जले भ्रमन्ति ये शीघ्रं कीटास्ते जलजालिकाः ॥ ३४१ ॥ दीर्घकोशी तु दुर्नामा निहाका गोधिका समे । स्यात्कुलीरः कर्कटकस्तस्मिन् षोडशपादपि ॥ ३४२ ॥ सरित्स्रवन्ती तटिनी तरङ्गिणी सरस्वती सिन्धुरगात्मजापगा । नदी धुनी निर्झरिणी च निम्नगा ;l{0680} समुद्रकान्ता ह्रदिनी च वाहिनी ॥ ३४३ ॥ स्रोतस्विनी द्वीपवती सैव शैवलिनीति च । मन्दाकिनी विष्णुपदी गङ्गा गीर्वाणनिम्नगा ॥ ३४४ ॥ जह्नुकन्या त्रिपथगा त्रिस्रोताः स्कन्दसूरपि । पतंगकन्या कालिन्दी यमुना च यमस्वसा ॥ ३४५ ॥ ;l{0685} कवेरकन्या कावेरी सहयोनिर्मरुद्वृधा । ताम्रपर्णी तु ताम्राथ रेवा मेखलकन्यका ॥ ३४६ ॥ सोमोद्भवा नर्मदा च विपाशायां विपाट् स्त्रियाम् । गोदा गोदावरी सैतवाहिनी बाहुदार्जुनी ॥ ३४७ ॥ करतोया सदानीरा कृष्णा स्यात्कृष्णवेणिका । ;l{0690} शतद्रुस्तु शितद्रुः स्यात्प्रणीता पारियात्रजा ॥ ३४८ ॥ ;p{0047} हिरण्यबाहुः शोणः स्यात् संभेदः सिन्धुसंगमः । शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ ३४९ ॥ अथ गण्डकी परुष्णी कोकासिक्नी कुहुः सिनीवाली । सरयूः सहस्रवक्त्रा कृतमाला लघुश्रेणी ॥ ३५० ॥ ;l{0695} ऋषिकुल्या शुक्तिमती सिन्धुश्चर्मण्वती शिप्रा । देवस्मृतिर्वितस्ता तमसा तपती दृषद्वती तापी ॥ ३५१ ॥ शिवा पयोष्णी निर्विन्ध्या पुष्पभद्रा पयस्वती । देविका गोमती वेत्रा चित्रकूटा कुमुद्वती ॥ ३५२ ॥ त्रिसामा कौशिकी मालिन्याद्या बह्व्यो महापगाः । ;l{0700} नदभेदौ तु भिद्योद्ध्यौ त्रिषु स्यात्सौरसैन्धवम् ॥ ३५३ ॥ सुरसिन्धुभवं यत्तद्दाविकं देविकाभवम् । नदीभवं तु नादेयं सारवं सरयूभवम् ॥ ३५४ ॥ प्रसन्नमच्छं कलुषमनच्छं चाविलं त्रिषु । कासारः सरसी सरः कमलिनी पद्माकरो दीर्घिका वाणी द्वौ तु महाजलौ हृदनदौ क्षुद्रा सरित्कृत्रिमा ॥ ३५५ ॥ ;l{0705} कुल्या स्यादथ खातके तु सलिलाधारस्तटाकोऽस्त्रियां वेशन्तोऽल्पसरश्च पल्वलमथो अन्धुश्च कूपः प्रहिः । ;p{0048} उदपानोऽस्त्र्यथाहाव उपकूपजलाशये ॥ ३५६ ॥ निपानमवखातस्तु स्यादुत्कीर्णश्चुरी स्त्रियाम् । पद्मोऽस्त्री शतपत्रं पङ्कजमरविन्दमम्बुजं नलिनम् ॥ ३५७ ॥ सरसीरुहतामरसे सारसमम्भोरुहं कमलम् । ;l{0710} सहस्रपत्रं राजीवं नालीकं बिसनाभिजम् ॥ ३५८ ॥ पङ्केरुहं सरसिजं महोत्पलकुशेशये । पुष्करं पुण्डरीकं तु पाण्डरे सरसीरुहे ॥ ३५९ ॥ रक्ते तस्मिन् कोकनदं रक्तोत्पलमिति द्वयम् । स्यादुत्पलं कुवलयं नीलाब्जेन्दीवरे समे ॥ ३६० ॥ ;l{0715} सौगन्धिके तु कल्हारं रक्तसंध्यकहल्लके । कुमुदं कैरवं पद्मप्रभृतीनां कदम्बके ॥ ३६१ ॥ षण्डमस्त्री शिफाकन्दः शालूकं नालमस्त्रियाम् । मृणालं तु त्रिषु बिसं किञ्जल्कः केसरोऽस्त्रियाम् ॥ ३६२ ॥ बीजकोशो वराटः स्यात्पद्माक्षं पद्मकर्कटी । ;l{0720} संवर्तिका नवं पर्णं वारिपर्णी तु कुम्भिका ॥ ३६३ ॥ मृणालिनीबिसिन्यौ तु कमलिन्यां कुमुद्वती । कुमुदिन्यां स्त्रियां नीली शेवालं शैवलः पुमान् ॥ ३६४ ॥ ;p{0049} आदिदेवहरित्पालग्रहऋष्यब्दनिःस्वनैः । कालचित्तादिपातालैरिहाध्याया नवोदिताः ॥ ३६५ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पातालाध्यायो नवमः ।} ;c{इति प्रथमः काण्डः ॥} ;k{द्वितीयः काण्डः} ;c{द्वितीयः काण्डः ॥} ;v{वसुंधराध्यायः} भूर्भूमिर्वसुधा मही वसुमती विश्वंभरा मेदिनी ;l{0725} गोत्रा गौर्धरणी समुद्ररशना सर्वंसहोर्वी क्षमा । पृथ्वी क्ष्मा पृथिवी रसा क्षितिरिलानन्ताचला काश्यपी क्षोणी ज्या जगती स्थिरा कुरुवनी धात्री धरित्री धरा ॥ ३६६ ॥ वसुंधरा भूतधात्री सैव सस्यघनोर्वरा । मृत्तिका मृत्प्रशस्तायां मृत्सा मृत्स्ना च मृद्युभे ॥ ३६७ ॥ पुमानूषः क्षारमृत्स्यादिरिणोषवदूषराः । ;l{0730} देशे त्रिषूषबहुले स्थली चाकृत्रिमे स्थले ॥ ३६८ ॥ मरुर्धन्वा च पुंसि द्वौ खिलं चाप्रहतं त्रिषु । द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी ॥ ३६९ ॥ ;p{0050} अथ स्याज्जगती लोको विष्टपं भुवनं जगत् । ब्रह्मादि स्तम्बपर्यन्तं ब्रह्मस्तम्बोऽखिलं जगत् ॥ ३७० ॥ ;l{0735} वर्षोऽस्त्री भारतादिनि तानि स्युर्नव भारतम् । दक्षिणोत्तरतो वर्षशैलास्तेषां व्यवस्थिताः ॥ ३७१ ॥ तन्नाम्नैषां यदन्वख्या तेन हैमवतं च तत् । परस्मिन्नेवमुन्नेयं वर्षे वर्षेऽद्रिनामतः ॥ ३७२ ॥ हैमकूटं किंपुरुषं हरिवर्षं तु नैषधम् । ;l{0740} रम्यवर्षं तु नैलं स्याच्छ्वेतवर्षं हिरण्ययम् ॥ ३७३ ॥ कुरुवर्षं शार्ङ्गवतं सौमेरवमिलावृतम् । भद्राश्वः पूर्वतो मेरोः केतुमालं तु पश्चिमम् ॥ ३७४ ॥ जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराः । द्वीपवृक्षा इमे सप्त द्वीपास्तन्नामपूर्वकाः । ;l{0745} नीवृज्जनपदौ देशविषयौ राष्ट्रमण्डले ॥ ३७५ ॥ काश्मीरावन्तिमद्रद्रमिडमगधसौवीरकर्णाटलाटाः पाञ्चालाङ्गत्रिगर्ताः कुरुमलदकलिङ्गोत्कलाः कामरूपाः । लम्पाकाश्चीनगौडा मरुकुकुरमहाराष्ट्रसौराष्ट्रसाल्वाः वङ्गा भङ्गालसुह्माः शकमलभ(य?)विदेहान्ध्रनेपालपुण्ड्राः ॥ ३७६ ॥ ;p{0051} कोसलकेकयहूणा घूर्जरयौधेयहेहया मत्स्याः । गान्धारसिन्धुजावकसिंहलकाम्बोजसोमकाम्बष्ठाः ॥ ३७७ ॥ ;l{0750} पल्लवकेरलपाण्ड्याश्चेदिमहावीरदारददशार्णाः । भल्लाटभोजसौकरहेलाहिच्छत्रभौरिकविदर्भाः ॥ ३७८ ॥ कुन्तियुगंधरशिबयस्त्रैपुरतोक्षारकुन्तलारट्टाः । मेखलकशूरसेना आभीरकरूशमौखरकिराताः ॥ ३७९ ॥ पल्लवचोलानर्ता भोडमहाभोडजोनककलिङ्गाः । ;l{0755} बाह्लीकपारसीका जाङ्गलकाद्याश्च जनपदविशेषाः ॥ ३८० ॥ मगधाः कीकटाः सुह्मा राढाश्चीनाः करम्भकाः । कलिङ्गास्तैतिलाः शूरसेनाः स्युः शूरसेनयः ॥ ३८१ ॥ प्राग्ज्योतिषाः कामरूपाः विदर्भाः कथकैशिकाः । प्रत्यग्रथास्त्वहिच्छत्रा गान्धारास्तु दिगन्धकाः ॥ ३८२ ॥ ;l{0760} जालंधरास्त्रिगर्ताः स्युस्तोक्षारास्तु सुहालिकाः । चोलाः स्युरुत्पलावर्ताः कुन्तलास्तु पहालिकाः ॥ ३८३ ॥ भौरिकाः स्युः समतटा महाराष्ट्रास्तु गण्डकाः । कुमालकास्तु सौवीरा विदेहास्तीरभुक्तयः ॥ ३८४ ॥ ;p{0052} साल्वास्तु कालकुत्सीया अङ्गाश्चम्पोपलक्षणाः । ;l{0765} कुह्मालिकास्तु यौधेया मरवस्तु दशेरकाः । लम्पाकास्तु मुरुण्डाः स्युर्मालवाः स्युरवन्तयः ॥ ३८५ ॥ तुलुष्का यवनाश्वेद्याश्चेदयो दारुकाश्च ते । सिन्धवोऽमी तु काश्मीरप्रमुखाः पुंसि भूम्नि च ॥ ३८६ ॥ तेषां मध्ये स्त्रियामेव स्रावन्त्यस्तीरभुक्तयः । ;l{0770} दक्षिणा बिन्ध्यशैलाद्ये देशास्ते दक्षिणापथाः ॥ ३८७ ॥ अथ देशे शरावत्या उदीच्यः पश्चिमोत्तरे । प्राच्यः प्राग्दक्षिणे देशे मध्यदेशे तु मध्यमः ॥ ३८८ ॥ प्रत्यन्तो म्लेच्छदेशः स्यादपरान्तस्तु पश्चिमः । प्राकरस्तु खनिः स्त्री स्याद्रुमा तु लवणाकरः ॥ ३८९ ॥ ;l{0775} कालायसान्ध्रकाश्मीरसिह्मला रनभूमयः । शर्करा देशदृषदोर्देशे शर्करिलं त्रिषु ॥ ३९० ॥ शर्करावति देशेऽपि शर्करोऽथ जलान्विते । कच्छः पुमाननूपः स्यात्कर्करा प्रखरा मही ॥ ३९१ ॥ पांसुलः पांसुबहुले नड्वलो नडभूयसि । ;l{0780} पङ्किलः पङ्कबहुले वेतस्वान् वेतसान्विते ॥ ३९२ ॥ शाद्वलः शादसंछन्ने कुमुद्वान् कुमुदोत्तरे । त्रिष्वनूपादयो गोष्ठं गोस्थानं पुंसि तु व्रजः ॥ ३९३ ॥ ;p{0053} गौष्ठीनं भूतपूर्वं तद्गोष्ठश्वो गोष्ठगे शुनि । उपजिह्वोपदीका स्त्री वम्री सैवोपदेहिका ॥ ३९४ ॥ ;l{0785} पुंनपुंसकयोर्वम्रीकूटं वल्मीकमित्युभे । नाकुर्ना वामलूरश्च श्रीवासः कृमिपर्वतः ॥ ३९५ ॥ अग्रहारो द्विजावासो ग्रामसंवसथौ समौ । क्षुद्रग्रामे ग्रामटिका पल्ली खर्वट इत्यपि ॥ ३९६ ॥ ग्रामेयकाश्च ग्रामीणा ग्राम्याश्च ग्रामवासिनः । ;l{0790} सीमसीमे स्त्रियौ पुंसि त्वाघाटोऽवधिरित्युभौ ॥ ३९७ ॥ पक्कणः शबरावासो घोष आभीरपल्लिका । जाङ्गलो निर्जलो देशो विरलद्रुमपर्वतः । अवपातस्तु वारिः स्त्री वारणग्रहणक्षितौ ॥ ३९८ ॥ स्यान्नदीमातृको देशो नद्यम्बूत्पन्नजीवनः । ;l{0795} वृष्टिसंपन्नवृत्तिर्यः स देशो देवमातृकः ॥ ३९९ ॥ अथ वर्त्मायनं पन्था मार्गोऽध्वा पदवी सृतिः । सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ ४०० ॥ सुपन्थाश्चातिपन्थाश्च सत्पथश्च शुभे पथि । कदध्वा कापथो व्यध्वो दुरध्वो विपथः समाः ॥ ४०१ ॥ ;l{0800} अपन्थास्त्वपथं दूरशून्ये प्रान्तरमध्वनि । संक्रमो दुर्गमार्गः स्याच्छृङ्गाटं तु चतुष्पथम् ॥ ४०२ ॥ ;p{0054} जङ्घापादश्चतुष्पादस्त्रिपादस्तु गृहान्तरम् । प्रतिमार्गो बद्धपथः प्राग्वंशः पदिकोऽपि च ॥ ४०३ ॥ यवाष्टकं त्वङ्गुलो ना शमस्तु चतुरङ्गुलः । ;l{0805} निष्टिरष्टाङ्गुलोऽथ स्याद्वितस्तिर्द्वादशाङ्गुलः ॥ ४०४ ॥ वितस्तियुग्मं किष्कुः स्यान्नल्वः किष्कुचतुःशतम् । गव्यूतिः क्रोशयुग्मं स्याद्योजनं योजनापि च ॥ ४०५ ॥ ;c{इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे वसुंधराध्यायो दशमः ॥} ;v{पर्वताध्यायः} ;c{पर्वताध्यायः} अचलशिलोच्चयशैलक्षितिधरगिरिगोत्रपर्वताहार्याः । नगशिखरिसानुमदगग्रावमहीध्राद्रिधरधराकीलाः ॥ ४०६ ॥ ;l{0810} रजतगिरिः कैलासः शंकरगिरिरेकपिङ्गशैलश्च । उदयः पूर्वगिरिः स्यादस्तश्चरमाद्रिरद्रिराजस्तु ॥ ४०७ ॥ हिमवांश्चन्दनशैलो मलयस्त्रिककुत् त्रिकूटगिरिः । प्रस्रवणमाल्यवन्तौ मन्दरमन्थानभूधरौ च समौ ॥ ४०८ ॥ चक्रवालस्तु चक्राद्रिर्लोकालोकः परावरः । ;l{0815} हिरण्यनाभो मैनाकः पारियात्रः सुदारुकः ॥ ४०९ ॥ ;p{0055} महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ ४१० ॥ कूटोऽस्त्री शृङ्गशिखरे प्रपातस्तु भृगुः समौ । तटं त्रिषु नितम्बः स्नुः सानुप्रस्थे तु पुंसि वा ॥ ४११ ॥ ;l{0820} मेखला कटकोऽस्त्री स्याद्गह्वरं तु गुहा दरी । कन्दरः कन्दरा कुञ्जनिकुञ्जौ वा नपुंसकौ ॥ ४१२ ॥ कुटुङ्गोऽस्त्री त्रयश्चामी वृक्षादिपिहितान्तरे । प्रस्तरोपलपाषाणग्रावाश्मानः शिला दृषत् ॥ ४१३ ॥ गिरेरुपत्यकाधोभूरूर्ध्वभूमिरधित्यका । ;l{0825} स्थूलोपला गिरेर्भ्रष्टा गण्डशैलाश्च गण्डकाः ॥ ४१४ ॥ झरी तु निर्झरझरावुत्सः प्रस्रवणं गिरेः । शुण्डी शौण्डं चूतको ना पादाः पर्यन्तपर्वताः ॥ ४१५ ॥ स्याच्छिलाजतु शैलेयं गिरिधातुस्तु गैरिकम् । शस्त्रं कालायसं तीक्ष्णं कृष्णं पारशवायसी ॥ ४१६ ॥ ;l{0830} गिरिसारोऽश्मसारश्च सरकः सार आयसः । धूर्तसिंहाणमण्डूराण्यमूनि त्रीण्ययोमले ॥ ४१७ ॥ अयोमणिस्त्वयस्कान्तः स्यादायोविकृतिः कुशी । पीतलोहः स्त्रियां रीतिरारकूटकमस्त्रियाम् ॥ ४१८ ॥ ;p{0056} पित्तलं कपिलोहं स्याद्राजरीतिर्महेश्वरी । ;l{0835} काञ्चनी कपिला राष्ट्री ब्राह्मणी चारमस्त्रियाम् ॥ ४१९ ॥ पञ्चलोहं गुरुज्येष्ठं निष्ठुरं दारुकण्टकम् । अन्यलोहं सिंहमलं मलिकासरटी स्त्रियाम् ॥ ४२० ॥ कांस्यं घण्टास्वनं नाट्यं सौरष्ट्रं रवणं मलम् । कृत्रिमं लोहजं भूरिलोहं चासुरसंज्ञकम् ॥ ४२१ ॥ ;l{0840} सीसोऽस्त्री त्रपुसं च स्याद्योगेष्टं भुजगाह्वयम् । त्रपु नागं चीनपट्टं हेमघ्नं यवनेष्टकम् ॥ ४२२ ॥ रङ्गं त्रपुविकारे तु त्रिषु त्रापुषमित्यदः । गुरुपत्रं त्रपु क्षोभ्यं पिच्छटं मुखभूषणम् ॥ ४२३ ॥ परासं हेमजं रङ्गं वङ्गं तमरुकं शठम् । ;l{0845} काचः क्षारोऽथ चपलो रसः सूतश्च पारदः ॥ ४२४ ॥ कुरुविन्दं हंसपादं हिङ्गुलं जातिलिङ्गकम् । मनःशिला तु कुनटी नागजिह्वा महारसा ॥ ४२५ ॥ रञ्जनी रोचनी विद्युद्रसनेत्री विगन्धिका । मनोगुप्ता च नेपाली करवीरा कला च सा ॥ ४२६ ॥ ;p{0057} ;l{0850} हरितालं तु खर्जूरं पीतनं नटभूषणम् । वंशपत्रं तालमालं पिञ्जरं रोमहृद्वरम् ॥ ४२७ ॥ गन्धाश्मा गन्धकः पीतः पामशत्रुः सुगन्धिकः । अभ्रकं व्योममेघाख्यं गिरिजामलमित्यपि ॥ ४२८ ॥ सौराष्ट्री कालिका काली मृगाख्या पार्वती सती । ;l{0855} आढकी तुवरी ताली भूनामा च मृगाह्वया ॥ ४२९ ॥ शुक्लधातौ पाकशुक्ला कंटिनी कर्कटी कटी । बोलः पिण्डः शशः प्राणो गोलो गण्ड(न्ध?)रसो रसः ॥ ४३० ॥ अथ गोला तु नेपाली माक्षिकं चक्रसंज्ञकम् । स्रोतोऽञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ ४३१ ॥ ;l{0860} तुत्थाञ्जनं शिखिग्रीववितुन्नकमयूरकम् । रीतिपुष्पं पुष्पकं च पौष्पकं कुसुमाञ्जनम् ॥ ४३२ ॥ रसाञ्जनं तार्क्ष्यशैलं शैलेयं रसगर्भकम् । तुत्थं तु दार्विकक्वाथसंभवं कर्परीति च ॥ ४३३ ॥ कुलालिका कुम्भकारी चक्षुष्या च कुलत्थिका ॥ ४३४ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पर्वताध्याय एकादशः ॥} ;p{0058} ;v{वनाध्यायः} ;c{वनाध्यायः} ;l{0865} काननं विपिनारण्यगहनानि वनं वनी । अटवी दवदावौ च कान्तारं सत्रमित्यपि ॥ ४३५ ॥ वन्या वनसमूहे स्याद्वन्यं वनभवे त्रिषु । महारण्यमरण्यानी प्रस्तारस्तु तृणाटवी ॥ ४३६ ॥ कृत्रिमं वनमाराम उद्यानोपवने समे । ;l{0870} राज्ञां तु वनमाक्रीडो वेश्मारामस्तु निष्कुटः ॥ ४३७ ॥ गणिकामात्यभवनोपवने वृक्षवाटिका । प्रमदवनं तद्यत्स्यादुपवनमन्तःपुराङ्गनाद्युचितम् ॥ ४३८ ॥ पादपवृक्षपलाशिद्रुमतरुकुटविटपिशाखिनगसालाः । अगमो द्ररगो भूरुट् कुजोऽनोकह इत्यपि ॥ ४३९ ॥ ;l{0875} वन्ध्योऽफलोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः । पुष्पितो जातपुष्पः स्यात् फलिनः फलवान् फली ॥ ४४० ॥ उत्फूल्लफुल्लसंफुल्लप्रफुल्लविकचस्फुटाः । व्याकोचोन्मिषितोन्निद्रोद्बुद्धा वन्ध्यादयस्त्रिषु ॥ ४४१ ॥ वानस्पत्यः फली पुष्पात् फल्यपुष्पाद्वनस्पतिः । ;l{0880} फलपाकावसनाः स्युरोषध्यो व्रततिर्लता ॥ ४४२ ॥ ;p{0059} वल्ली च वल्लरी चाथ सैव वीरुत् प्रतानिनी । गुल्मिन्युलपमस्त्री तु कोटरो निष्कुहः पुमान् ॥ ४४३ ॥ बुध्नाङ्घ्री मूलनेत्रे च शिखराग्रे शिखा स्त्रियाम् । त्वक्त्वचाच(छ?)ल्लयश्चोलो वल्कं वल्कलमस्त्रियाम् ॥ ४४४ ॥ ;l{0885} परुः पर्व पुमान् ग्रन्थिर्विस्तारो विटपोऽस्त्रियाम् । शाखालता स्कन्धशाखा शाला तुल्ये शिफाजटे । अवरोहस्तु सा शाखा या मूलादग्रमाश्रिता ॥ ४४५ ॥ अस्त्री स्थाणुर्ध्रुवः शङ्कुरङ्कूरोऽङ्कुरमस्त्रियाम् । स्तम्बः प्रकाण्डमस्त्री स्याद्ध्रस्वशाखाशिफः क्षुपः ॥ ४४६ ॥ ;l{0890} अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् । समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥ स्युरुच्छ्रायोच्छ्रयोत्सेधा नगादीनां समुन्नतौ । माढिः शङ्कुः पत्रसिरा त्रिषु शुङ्गा च कोशिका ॥ ४४८ ॥ पल्लवोऽस्त्री किसलयं प्रवालं पुंनपुंसकम् । ;l{0895} जालकं क्षारकः पुंसि कलिका कोरकोऽस्त्रियाम् ॥ ४४९ ॥ मुकुलोऽस्त्री कुड्मलोऽस्त्री वल्लरी मञ्जरी स्त्रियौ । गुलुच्छगुच्छस्तबकाः पुष्पं तु कुसुमं सुमम् ॥ ४५० ॥ ;p{0060} मणीचकं प्रसूनं च सूनं सुमनसः स्त्रियः । प्रसवो मकरन्दस्तु मरन्दः पुष्पजं मधु ॥ ४५१ ॥ ;l{0900} पुंसि च्छदश्छदनपत्रपलाशपर्ण- बर्हं दलं रजसि पुष्पभवे परागः । निर्यासलग्नखपुरास्तु समाः प्रसून- बन्धस्तु वृन्तमथ सस्यफले समाने ॥ ४५२ ॥ विदलः पाटितं दारु काष्ठं दार्विन्धनैधसी । इध्ममेधः समित् स्त्री स्याद्वं शिर्ना परुरङ्कुरः ॥ ४५३ ॥ पुंनागाम्रादिकं सर्वं द्विहीनं फलपुष्पयोः । ;l{0905} अश्वत्थमैङ्गुदं प्लाक्षं नैयग्रोधं च बार्हतम् ॥ ४५४ ॥ शैग्रवं वैणवं च स्युरश्वत्थादिफले क्रमात् । फले स्वलिङ्गा व्रीह्याद्या हरीतक्यादयस्तथा ॥ ४५५ ॥ पुष्पे स्वलिङ्गा जात्याद्याः पुष्पे क्लीबे च पाटला । विदार्याद्यास्तु मूलेऽपि जम्बूः स्त्री जम्बु जाम्बवम् ॥ ४५६ ॥ ;l{0910} तत्फलेऽथ स्त्रियामेव शिम्बी स्यात् फलकोशिका । अश्वत्थपिप्पलगजाशनबोधिवृक्ष- यज्ञद्रुमाश्चलदलोऽथ पलाशपर्णौ । यज्ञीयकिंशुकसमिद्द्रुमवातपोता ब्रह्मद्रुमे स्युरथ दन्तशठः कपित्थः ॥ ४५७ ॥ दधित्थमन्मथदधिफलपुष्पफला अपि । आम्रे माकन्दकामाङ्गचूतास्तस्मिन् ससौरमै ॥ ४५८ ॥ ;p{0061} ;l{0915} सहकारो रसालश्च जटालो बहुपाद्वटः । न्यग्रोधोऽथ नदीसर्ज इन्द्रद्रुः ककुभोर्जुनः ॥ ४५९ ॥ वीरद्रुश्च सुगन्धिः स्यादर्जुनश्च (नाख्यो ?) धनंजयः । अश्वकर्णो लतावृक्षः कुशिको दीर्घवृन्तकः ॥ ४६० ॥ राजकद्रुरजाकर्णस्तिमिशस्तु रथद्रुमः । ;l{0920} अश्मगर्भो रक्तसारः स्यन्दनो नेमिरित्यपि ॥ ४६१ ॥ नागरङ्गस्तु नारङ्गो नार्यङ्गस्तक्रवासनः । जम्बीरे दन्तशठो जम्भलजम्भीरजम्भलिकुचाश्च ॥ ४६२ ॥ वरणे सिततरुवरुणौ सेतुकुमारौ च तिक्तशाकश्च । अभया पूतना पथ्या हरीतक्यमृता शिवा ॥ ४६३ ॥ ;l{0925} वयःस्था श्रेयसी नन्दी निर्व्यथा रेचकी जया । अमृता स्यात्तिष्यफला श्रेयःस्थामलकी त्रिषु ॥ ४६४ ॥ पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः । अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे । मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥ ;l{0930} वानप्रस्थो मधुष्ठीलो जलजेऽत्र मधूलकः । गायत्री खदिरः शल्यः कुम्भाण्डो दन्तधावनः ॥ ४६६ ॥ ;p{0062} खरत्वग्बालपुत्रश्च खरसारोऽसितच्छदः । खदिरे स्युर्विट्खदिरश्यामसारारिमेदकाः ॥ ४६७ ॥ श्वेतस्कन्धमहासारसोमवल्कघुणौकसः । ;l{0935} धवस्तु शरभाक्षः स्याद्गौराक्षो मधुरच्छदः ॥ ४६८ ॥ कालस्कन्धः कृष्णसारतिन्दुकस्फूर्जका अपि । शिंशपायां तीक्ष्णगन्धा भस्मगर्भावसादनी ॥ ४६९ ॥ कपिला पिच्छिला कृष्णसारा सैवाङ्गसारका । अथ स्यात् पीलुकः काकः काकेन्दुः काकतिन्दुकः ॥ ४७० ॥ ;l{0940} मृदुत्वक्चर्मिणौ भूर्जे भूर्जपत्रः सितच्छदः । सर्जो निकोचकाङ्कोलौ बिल्वः श्रीफलबिल्वकौ ॥ ४७१ ॥ तत्र शाण्डिल्यशैलूषपूतिपाकमहाफलाः । मालूरश्चाथ यज्ञाङ्गो हेमदुग्ध उदुम्बरः ॥ ४७२ ॥ क्षीरी जन्तुफलस्तस्मिन् जघनेफल इत्यपि । ;l{0945} फल्गुस्तु मलपूः काकोदुम्बरी जघनेफला ॥ ४७३ ॥ कोविदारे चमरिको रक्तपुष्पो युगच्छदः । कुद्दालः काञ्चनारोऽपि महिषाक्षस्तु गुल्गुलुः ॥ ४७४ ॥ कौशिको धूपनिर्यासः कुम्भोलूखलकं पुरः । निम्बे स्युर्हिङ्गुनिर्याससर्वतोभद्रमालकाः ॥ ४७५ ॥ ;p{0063} ;l{0950} अरिष्टः पिचुमन्दश्च स एव यवनेष्टकः । स्थिरायुः पिच्छिला मोचा पूरणी शाल्मलिर्द्वयोः ॥ ४७६ ॥ शाल्मलीवेष्टके पिच्छा कण्टकी कूटशाल्मलिः । रोचनो रक्तपुष्पश्च व्याघ्रपात्तु विकङ्कतः ॥ ४७७ ॥ मधुच्छदो ध्रुवावृक्षो ग्रन्थिलोऽथ विषाणिनि । ;l{0955} अजावृक्षो मेषशृङ्गश्चक्षुष्यो बहुशृङ्गकः ॥ ४७८ ॥ वेल्लन्तको वीरतरुर्वीरद्रुः पृथुमूलकः । बह्वाकारो दीर्घमूलो रुद्राक्षस्तु महामुनिः ॥ ४७९ ॥ चतुर्मुखो ब्रह्मसंज्ञः पञ्चास्यस्तु हराह्वयः । षण्मुखो गुहसंज्ञः स्यात् किंपाकः काकमर्दकः ॥ ४८० ॥ ;l{0960} कुलवृक्षो रज्जुदारुरुद्दालो बहुवारकः । शीतः श्लेष्मातकः शेलुर्विषघ्नो द्विजकुत्सितः ॥ ४८१ ॥ न्युब्जः कर्मफलो हव्यकर्मरङ्गशठेश्वराः । महीपतिर्दन्तशठः शिरीषस्तु कपीतनः ॥ ४८२ ॥ भण्डिलोऽथ जटी प्लक्षः कर्पटी बहुमूलकः । ;l{0965} दोषग्राहस्तु कनको द्रावणोऽम्बुप्रसादनः ॥ ४८३ ॥ उल्लेखनीयो लक्ष्मीवान् स्रावणश्च सरश्च सः । शिग्रुर्मोचकतीक्ष्णगन्धवृषदा अक्षीभशोभाञ्जनौ रक्तोऽसौ मधुशिग्रुरेव वनजः स्यात् फेनिलोऽरिष्टकः । शल्यः स्यात् करहाटको मरुवकः पिण्डीतकश्छर्दन- स्तस्मिन् गारवराटकौ च मदनश्चाङ्गारकस्त्विङ्गुदी ॥ ४८४ ॥ ;p{0064} कुणवृक्षः पूतिवल्कस्तापसद्रुम इङ्गुदः । ;l{0970} स्त्रीप्रियो वञ्जोलोऽशोकः कङ्केलिः कर्णपूरकः ॥ ४८५ ॥ पिण्डी तु रक्ताशोकः स्याद्गर्दभाण्डः कपीतनः । कन्दरालः सुपार्श्वश्च प्लक्षोऽथो भूतपुष्पकः ॥ ४८६ ॥ स्योनाकशूकफजलरण्डुकरक्तपुष्प- पत्रोर्णगोपनटटुण्डुकदीर्घवृन्ताः । मण्डूकपर्णशुकनासकुटन्नटर्क्ष- रोमच्छदाश्च तिलकक्षुरकौ समानौ ॥ ४८७ ॥ ;l{0975} समानाः स्युः परिव्याधकर्णिकारद्रुमोत्पलाः । घण्टा तु पाटलिर्मोक्षमुष्कगोलीढझाटलाः ॥ ४८८ ॥ स्त्रियां फलेरुहामोघो काचस्थाली च पाटला । द्वयोस्तु पाटलिस्तुल्यौ बुर्बुरश्वेतकण्टकौ ॥ ४८९ ॥ पनसः कण्टकिफलः पयोण्डो जघनेफलः । ;l{0980} मधुबीजोऽथ पनसे निचुलो हिज्जलोऽम्बुजे । समौ तमालतापिञ्छौ कदम्बस्तु हलिप्रियः ॥ ४९० ॥ नीपकश्च प्रियश्चाथ सन्नकद्रुर्धनुष्पटः । प्रियालो दीर्घवृन्तस्तु वेत्रो दुर्धर्षणश्च सः ॥ ४९१ ॥ सालस्तु राजनिर्यासो मोरटोऽङ्कोलपत्रकः । ;l{0985} सप्तपर्णस्त्वयुक्पर्णः शारदो विषमच्छदः ॥ ४९२ ॥ ;p{0065} विशालत्वक् कटुक्षीरः करको दाडिमो द्वयोः । फलपूरो बीजपूरो रुचको मातुलुङ्गकः ॥ ४९३ ॥ मातुलुङ्गी च सैवाम्ला पूतिपुष्पी वृकाल्मिका । तीक्ष्णगन्धेन्द्रसुरससिन्दुवारास्तु नीलिका ॥ ४९४ ॥ ;l{0990} भूतकेशी च निर्गुण्डी शुकनासस्तु निम्बकः । शुकसारो महानिम्बः कट्वङ्गो दीर्घवृन्तकः ॥ ४९५ ॥ इन्द्रद्रः कुटजो वत्सः शक्रश्च गिरिमल्लिका । यवक्षारः कलिङ्गेन्द्रयवभद्रयवानि च ॥ ४९६ ॥ अस्त्रियां स्युः कलिङ्गाद्या लिकुचो लकुचो डहुः । ;l{0995} पीतसारस्तु बन्धूकप्रसवासनजीवकाः ॥ ४९७ ॥ सर्जश्च क्षारवृक्षस्तु मुष्ककश्च विषापहः । पुंनागो पुरुषस्तुङ्गः केसरो देववल्लभः ॥ ४९८ ॥ बकुलो मञ्जरीहृद्यश्चाम्पेयश्चम्पकोऽस्य तु । कलिका स्याद्गन्धकली नागः स्यात् काञ्चनाह्वयः ॥ ४९९ ॥ ;l{1000} चाम्पेयः केसरश्चाथ द्वौ पीतनकपीतनौ । आम्रातके करञ्जस्तु करजो नक्तमालकः ॥ ५०० ॥ चीरिबिल्वः प्रकीर्यस्तु पूतिका कलिमारकः । तत्रैव पूतिकरजो भेदास्त्वङ्गारवल्लरी ॥ ५०१ ॥ ;p{0066} मर्कटी पुंसि षड्ग्रन्थो गोजिह्वादार्विके समे । ;l{1005} शम्याकः कृतमालदीर्घकलिका वारेवतः प्रग्रहो राजद्रुश्चतुरङ्गलोऽपि च सुवर्णश्च स्युरारग्वधे । नादेयी विदुलो रथाभ्रकुसुमौ वानीरशीतौ परि- व्याधो वञ्जुलवेतसौ च विदलश्चामी समाना नव ॥ ५०२ ॥ श्रीपर्णी सर्वतोभद्रा गम्भारी मधुपर्णिका । काश्मरी भद्रपर्णी च काश्मर्यश्चाथ कट्फलः ॥ ५०३ ॥ कैडर्यो ना कुमुदिका श्रीपर्णी कुम्भिका च सा । ;l{1010} अगस्त्यो मुनिमार्जारावगस्तिः शुकसारकौ ॥ ५०४ ॥ शमी शिवा सक्तुफला जया साल्पा शमीरकः । पीलुर्गुडफलः स्रंसी तत्र शैलसमुद्भवे ॥ ५०५ ॥ अक्षोटकन्दरालौ द्वौ सुषेणः करमर्दकः । कृष्णपाकफलौ विघ्नः पाककृष्णफलोऽपि सः ॥ ५०६ ॥ ;l{1015} घोण्टा तु बदरी कोलिः कर्कन्धूर्न नपुंसके । कुवलं फेनिलं कोलं सौवीरं बदरं तथा ॥ ५०७ ॥ लताकोलौ तु खपुरा गिरिकोलौ तु सौरसः । हस्तिकोलौ महाघोण्टा गोपघोण्टा महाफला ॥ ५०८ ॥ ;p{0067} जलकोलौ तु सङ्गाली शिवकोलौ तु कर्कटी । ;l{1020} जम्ब्वां त्रिसारा विरजा महाजम्ब्वां महाफला ॥ ५०९ ॥ सुरसा राजजम्ब्वां तु सुलभः सुरभिच्छदः । काकजम्ब्वां तु मेघाभः शिवेष्टः शतपल्लवः ॥ ५१० ॥ जम्बूटनीलजम्बूटौ सल्लकी सुखिनी ध्रुवा । हस्तिप्रिया ह्लादिनी च सुरभिः कुञ्जराशनः ॥ ५११ ॥ ;l{1025} स्नुक् स्त्रियां वज्रसीहुण्डबहुक्षीरविषाणिनः । महावृक्षमहाक्षीरयुग्मकण्टकचित्रकाः ॥ ५१२ ॥ स्नुह्यां समन्तदुग्धा स्याद्वज्रिणी च त्रिकण्टका । ऐरावतो नागरङ्गो नमेरुर्नागभूरुहः ॥ ५१३ ॥ सुभिक्षा त्वनलज्वाला धातकी धातुपुष्पिका । ;l{1030} अजशृङ्गी विषाणी स्यात् पप्फणस्तु श्ववामनः ॥ ५१४ ॥ भूतृणो गुह्यबीजः स्यात् सुगन्धः पुंस्त्वनाशनः । अम्लिका तिन्त्रिणी चिञ्चा शुक्तिर्नारी कपिप्रिया ॥ ५१५ ॥ रोही रोहितकः कुन्दो माघ्यः पूगः कलिङ्गकः । क्रमुको ब्रह्मदारुश्च पूगी पुंसि तु पर्पटः ॥ ५१६ ॥ ;l{1035} तत्फले कुहली पाली क्रमुकः पट्टिकाह्वयः । ;p{0068} लाक्षाप्रसादनः पट्टी सरलः पीतपादपः ॥ ५१७ ॥ पूतिकाष्ठोऽपि काम्पिल्यः कर्कशश्चन्द्र इत्यपि । अश्वकर्णमहासारसस्यसंवरसर्जकाः ॥ ५१८ ॥ सालोऽथ गालवो लोध्रः शाबरस्तिल्वमार्जनौ । ;l{1040} तिरीटोऽथ फलाध्यक्षो राजादन इमौ समौ ॥ ५१९ ॥ अर्के तु वसुकास्फोटसदापुष्पविकीरणाः । मन्दारगणरूपौ च श्वेतार्कस्तु प्रतापसः ॥ ५२० ॥ एकाष्ठीलः पाशुपतालर्को च शिवमल्ल्यपि । शुक्लपुष्पः कुरवको नागरो मदनोऽपि सः ॥ ५२१ ॥ ;l{1045} महासहायामम्लानः शोणे तस्मिन् कुरण्टकः । पीते तस्मिन् कुरवकस्तज्झाटे कलशोदकः ॥ ५२२ ॥ किंकिरातः किंकिराटो झिण्टी सैरेयकः पुमान् । पुंसि त्वार्तगलो बाणो बाणा दासी सहा च सा ॥ ५२३ ॥ रुजाकरस्त्वार्तगलो भीषणो बहुकण्टकः । ;l{1050} स्वादुतिक्तफलो जालवृक्षो दुर्धर्षकर्कशौ ॥ ५२४ ॥ काकादनी गृध्रनखी दुराधर्षा स्थिरा च सा । जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ ५२५ ॥ अग्निमन्था हविर्मन्था वारणिर्गणिकारिका । समाः श्रीखण्डभद्रश्रीपटीरमलयोद्भवाः ॥ ५२६ ॥ ;p{0069} ;l{1055} रोहिणो गन्धसारश्च गन्धश्चन्दनमस्त्रियाम् । द्राक्षा तु गोस्तनी स्वाद्वी मृद्वीका कालमेषिका ॥ ५२७ ॥ रसामृता प्रियाला च नीली स्यान्नीलकेशिका । श्रीफली रञ्जनी तुत्था ग्रामीणा मधुपर्णिका ॥ ५२८ ॥ क्लीतकी नीलिनी डोला कुणिका च महारसा । ;l{1060} पुण्ड्रकस्त्वतिमुक्तः स्याद्वासन्ती माधवी लता ॥ ५२९ ॥ कुणिः कुबेरकः कच्छो नदीवृक्षो वितुन्नकः । कच्छूरको द्राविडकः काल्यको वेधमुख्यकः ॥ ५३० ॥ चण्डातको हरिक्षेमौ गणहासश्च राक्षसी । बहुला चन्द्रबालैला पृथ्वीका निष्कुटी तुटिः ॥ ५३१ ॥ ;l{1065} द्रामिडी चाथ सारङ्गी त्रिपुटा चोपकुञ्चिका । गोवन्दनी लता गुन्द्रा कारम्भी महिलाह्वया ॥ ५३२ ॥ विष्वक्सेना गन्धफली प्रियङ्गुः फलिनी फली । श्यामा च प्रियकश्चाथ वन्दा स्याच्छिखराह्वया ॥ ५३३ ॥ वृक्षादनी वृक्षरुहा जीवन्त्यपदरोहिणी । ;l{1070} धुत्तूरः कितवो धूर्त उन्मत्तः कनकाह्वयः ॥ ५३४ ॥ मादनो मदनश्चास्य फले मातुलपुत्रकः । काला मसूरविदला पाठिनी च सुषेणिका ॥ ५३५ ॥ गलूची तु च्छिन्नरुहा विशल्या सोमवल्लिका । वत्सादन्यमृता देवी स्वरुहा चक्रलक्षणा ॥ ५३६ ॥ ;p{0070} ;l{1075} छिन्नोद्भवा कुण्डलिनी विषघ्नी सा जयन्त्यपि । व्यालायुधं व्याघ्रनखं करजश्चक्रकारकः ॥ ५३७ ॥ कृष्णवृन्ता कुबेराक्षी ग्रामीणासारकुञ्जरा । पुत्रजीवस्त्वक्षफलः कुमारी तरुणी सहा ॥ ५३८ ॥ देवी मूर्वा मधुश्रेणी गोकर्णी मोरटा वसा । ;l{1080} मधूलिका तिक्तवल्का पीलुनी तेजनी च सा ॥ ५३९ ॥ ऋक्षगन्धा त्वच्छगला मुसली तालमूलिका । प्रत्यक्श्रेणी सुतश्रेणी द्रवन्ती शम्बरी वृषा ॥ ५४० ॥ चित्रोपचित्रा न्यग्रोधी रण्डा मूषिकपर्णिका । कपिकच्छूस्त्वात्मगुप्ता कण्डूरा शूकशिम्बिका ॥ ५४१ ॥ ;l{1085} ऋश्यप्रोक्ताजडाध्यण्डा मर्कटी प्रावृषायणी । शेफालिका तु निर्गुण्डी नीलिका सुवहा च सा ॥ ५४२ ॥ सुमना मालती जातिः सप्तला नवमालिका । चण्डातकः शतप्रासः करवीरोऽश्वमारकः ॥ ५४३ ॥ गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका । ;l{1090} भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥ ;p{0071} वनजा मल्लिकास्फोटा बन्धूको बन्धुजीवकः । गन्धर्वहस्त एरण्ड उरुपूगो व्यडम्बकः ॥ ५४५ ॥ चञ्चुः पञ्चाङ्गुलामण्डौ रुबको वर्धमानकः । व्याघ्रपुच्छो हस्तपर्णो वातघ्नस्तरुणोऽर्भकः ॥ ५४६ ॥ ;l{1095} वारुणी नागनन्दी स्याद्रेवती रामदूतिका । काकोली मधुरा शुक्ला कायस्था स्वादुमांसिका ॥ ५४७ ॥ देवाह्वया सहादेवा गन्धमूली सुगन्धिका । वर्षाभूर्वर्षकेतुः स्याच्चक्रपत्रो विरोचनः ॥ ५४८ ॥ खर्जूरी रोषणः क्षुद्रपरुषश्चिररोहकः । ;l{1100} खरकायो नीलपत्रः खरपर्णः परूषकः ॥ ५४९ ॥ परिमण्डलमध्यश्च पद्मकं हेमपुष्पकम् । मधुपत्रं हिङ्गुपत्रं कमलं शीतलं च तत् ॥ ५५० ॥ प्रह्लादिनी हंसपदी रक्तपादी त्रिपादिका । धृतराष्ट्री दीर्घपदी घृतमण्डा मधुस्रवा ॥ ५५१ ॥ ;l{1105} कालपुष्पी महामूला कालमाला सुगन्धिका । स्वस्थैन्द्री च महागोपी सैव कालानुसारिका ॥ ५५२ ॥ ;p{0072} सूर्यपर्णी मुद्गपर्णी दासी मार्जारगन्धिका । वनजा किङ्किणी शिम्बी पिशाची माषपर्णिका ॥ ५५३ ॥ महासहा सिंहविन्ना मांसमाषा च पुष्टिका । ;l{1110} पद्मपत्रा सुवर्णाभा चूर्णगर्भा किरातिका ॥ ५५४ ॥ तिल्वकः श्वेतपुष्पश्च श्वेतत्वक् तीक्ष्णगन्धकः । सोमवल्को महात्वक् स्यात् सोमवृक्षश्च रोहिणी ॥ ५५५ ॥ तैलपर्णी तैलपर्णः सोमवृक्षो हरिप्रियः । कुण्डली वृन्दफलिका तीक्ष्णपत्री च चारिणी ॥ ५५६ ॥ ;l{1115} चतुष्कण्टकिनी चाथ रम्यकः सूर्यवल्लरी । आवर्तिनी रक्तपुष्पा त्रिभाण्डी पीतपीलुका ॥ ५५७ ॥ महाज्वाला च कुष्ठघ्नी खरभूषः सुगन्धिकः । सूक्ष्मभीरुर्मरुवकः खरपत्रः सरात्मकः ॥ ५५८ ॥ कृष्णनिम्बः कालशाकः कैडर्यः सुरभिश्च सः । ;l{1120} अभ्रिका मधुरा शीता विषघ्नी विषदूषिणी ॥ ५५९ ॥ कदम्बपुष्पी कच्छूघ्नी श्रमणी सैव मुण्डिनी । विपुष्पा विफला विप्रा भञ्जी गुरुतरा सरा ॥ ५६० ॥ ;p{0073} श्रादारी दार्विका दारी तीक्ष्णा हरितमञ्जरी । मरुदध्ना विश्वरूपा गन्धलक्ष्मीः कफावहा ॥ ५६१ ॥ ;l{1125} गाङ्गैरिका तु पित्तघ्नी कन्दमूला महारसा । कञ्चुका मूलकं क्लीबे महामूलकमित्यपि ॥ ५६२ ॥ गौलीरसाम्लमधुरा मोचकी गुडमञ्जरी । सर्पदृष्टिः सदापुष्पो वसिरः पार्वतेयकः ॥ ५६३ ॥ राजाक्षवः कर्कशः स्यात् कासारिर्वीतपुष्पकः । ;l{1130} विषमुष्टिः श्वेतमुष्टिः केशमुष्टिश्च मुष्टिकः ॥ ५६४ ॥ रक्तमञ्जरिकाकान्तः कामुको भूकदम्बकः । लम्बूषो दक्षिणावर्तो वर्तनी च बृहत्फली ॥ ५६५ ॥ पानीयवल्ली सुषवी सुवर्णकुसुमा त्वियम् । हिरण्यारणिका राजी बृहत्पुष्पातिकेसरा ॥ ५६६ ॥ ;l{1135} तरुणी रामतरुणी पूलिका नित्यपुष्पिका । काकोत्पलं कुवलयं कज्जलेन्दीवरं च तत् ॥ ५६७ ॥ ;p{0074} वननिष्पावकः शिम्बी कुक्कुटी वनरञ्जिनी । काकनासा तु काकाङ्गी जीवनीया शिरोरुहा ॥ ५६८ ॥ पशुगन्धा बस्तगन्धा शृङ्गी परमसूरिका । ;l{1140} सुरसा नाकुली रास्ना छत्राकी गन्धनाकुली ॥ ५६९ ॥ नकुलेष्टा भुजंगाक्षी सुगन्धा श्वासमल्लिका । प्रत्यक्पर्णी कीशपर्णी किणिही खरमञ्जरी ॥ ५७० ॥ अपामार्गः शेखरिको धामार्गवमयुरकौ । गण्डीरं भञ्जकं चव्यं चविका वृत्तपत्रिका ॥ ५७१ ॥ ;l{1145} पाण्डुपत्रा विशाला च कोलपिप्पलिका च सा । जटी तपस्विनी मांसी रोमशा जटिलामिषी ॥ ५७२ ॥ जिङ्गी समङ्गा मञ्जिष्ठा विकसा कालमेषिका । वासा सिंही वैद्यमाता सिंहास्यो वासको वृषा ॥ ५७३ ॥ आटरूषो वाजिदन्तो रोमशा जटिला वचा । ;l{1150} तीक्ष्णोग्रगन्धा षड्ग्रन्था मङ्गल्या वाजिगन्धिका ॥ ५७४ ॥ शतपर्वा च पौलोमी सा तु हैमवती सिता । ऊषणा पिप्पली शौण्डी वैदेही मागधी कणा ॥ ५७५ ॥ कृष्णोपकुल्या चपला कोलाथ वसिरः पुमान् । कपिवल्ली क्रोष्टुवल्ली श्रेयसी हस्तिपिप्पली ॥ ५७६ ॥ ;p{0075} ;l{1155} क्षुद्रगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः । त्वक्पत्रं तु त्वचं चोचं वराङ्गं भृङ्गमुत्कटम् ॥ ५७७ ॥ पृश्निपर्णी पृथक्पर्णी प्रत्यक्पर्ण्यङ्घ्रिपर्णिका । लाङ्गूली च गुहा चाथ सा दीर्घा चित्रपत्रिका ॥ ५७८ ॥ सिंहपुच्छा फेरुविन्ना चित्राङ्घ्रिः क्रोष्टुमेखला । ;l{1160} ग्रीष्महृद्या त्वधःपुष्पी कट्वङ्गी व्रणनाशिनी ॥ ५७९ ॥ कपित्थपत्रिका चाथ मत्स्याक्षी सोमवल्लिका । एकाष्ठीला पापचेली स्थापनी वनतिक्तका ॥ ५८० ॥ पाठाम्बष्ठा विद्धकर्णी प्राचीना श्रेयसी रसा । विश्वा विषा शुक्लगन्धोपविषातिविषारुणा ॥ ५८१ ॥ ;l{1165} तत्र प्रतिविषा घण्टारवा तु शणपुष्पिका । काकचिञ्चा च विक्रोडा गुञ्जा चूडामणिर्वरा ॥ ५८२ ॥ शार्ङ्गाष्ठा कृष्णला दक्षा जङ्घा तिक्ता च रक्तिका । मधुस्रवा तु सा शुक्ला दहनाह्वस्तु चित्रकः ॥ ५८३ ॥ पाठी ज्वाली दीपकं च कुष्ठघ्नी जघनेफला । ;l{1170} काकमाची बहुफला सर्वतिक्ता च वायसी ॥ ५८४ ॥ सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभाण्डी रोचनी गोधापदी च सुवहा समे ॥ ५८५ ॥ ;p{0076} गोपी तु शारिबा श्यामा नागजिह्वा सुगन्धिका । सेवनीया च कृष्णा सा स्यादेवोत्पलशारिबा ॥ ५८६ ॥ ;l{1175} ताम्बूलवल्ली ताम्बूली भुजंगलतिका च सा । ऋश्यप्रोक्ताभीरुपत्री शतमूली शतावरी ॥ ५८७ ॥ नारायणी बहुसुताभीरुरिन्दीवरी वरी । वेणी खरा गरी देवताली जीमूत इत्यपि ॥ ५८८ ॥ लज्जालुस्तु नमस्कारी कदल्यञ्जलिकारिका । ;l{1180} गण्डकाली कदल्यां तु लज्जालुश्च शमीफला ॥ ५८९ ॥ अशोका रोहिणी कृष्णा मेदिका कटुरोहिणी । कटुः कटुंभरा तिक्ता चक्राङ्गी शकुलादिनी ॥ ५९० ॥ ह्रीबेरशालकोदीच्यबर्हिष्ठानि वराङ्गकम् । केशाम्बुनामकं वीरतृणं स्याद्वीरणः पुमान् ॥ ५९१ ॥ ;l{1185} मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् । लामज्जं नलदं सेव्यममृणालं वराभये ॥ ५९२ ॥ आह्लादनं लघुलयमिष्टकापथमित्यपि । अन्नसंज्ञा बला वाट्या वाट्यालो हेमपुष्पकः ॥ ५९३ ॥ पुष्पवीर्या त्वतिबला सहा भद्रा बलेत्यपि । ;l{1190} भारती तुलसी सेव्या पालिनी विष्णुवल्लभा ॥ ५९४ ॥ ;p{0077} प्रसारिणी चन्द्रबाला सारिणी च कटंभरा । सोमराजी सोमवल्ली वागुजी वसुमल्लिका ॥ ५९५ ॥ कालमेषी कृष्णफली पूतिफल्यथ वृश्चिकः । सर्पदंष्ट्रा धूमपुष्पी विषघ्नी वृश्चिकच्छदा ॥ ५९६ ॥ ;l{1195} दासी षडश्रा शार्ङ्गाष्ठा काकजङ्घा विलोमिका । पुनर्नवा तु शोफघ्नी वर्षाभ्वी जीवबोधिनी ॥ ५९७ ॥ सा तु शुक्ला वृश्चिकः स्यात् सा तु कृष्णा कठिल्लकः । किणिही शीतला मैत्री प्रत्यक्श्रेण्यपराजिता ॥ ५९८ ॥ परास्फोता चाश्वखुरी श्वेतायामत्र वारिणी । ;l{1200} गिरिकर्णीगवादिन्यौ नीलायां स्थूलपुष्पिका ॥ ५९९ ॥ तिष्यान्ता तु लघुः स्पृक्का लतालंकारिका मरुत् । मरुन्माला च पिशुना श्वदंष्ट्रा स्वादुकण्टका ॥ ६०० ॥ इक्षुगन्धा दुष्प्रधर्षाफला सिंही फलंकषा । गोकण्टको गोक्षुरकः पुंसि तत्र त्रिकण्टकः ॥ ६०१ ॥ ;l{1205} निशाह्वा सुवहा पीता हरिद्रा वरवर्णिनी । शृङ्गी समङ्गा मञ्जिष्ठा विकसा कालमेषिका ॥ ६०२ ॥ ;p{0078} दार्वीदारुहरिद्रे तु हेमकाष्ठा कटंकटा । कटंकटेरी पर्जन्या कालेयकहरिद्रवौ ॥ ६०३ ॥ ज्योतिष्मती पूतितैला पारावतपदीङ्गुदी । ;l{1210} तेजोवती किङ्किणिका जीवन्ती स्फुटवल्कला ॥ ६०४ ॥ क्षुद्रश्वेतकटभ्रौ तु सुनागो बहुकण्टकः । महाश्वेता शतपदी किणिही शोफनाशिनी ॥ ६०५ ॥ शिरीषपत्री पौण्ड्री च शोणपर्णस्तु तापसः । इङ्गुदोऽङ्गारकश्चारपुण्ड्रः पाटलपुण्ड्रकः ॥ ६०६ ॥ ;l{1215} उरणाक्षस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । प्रपुन्नाडः समाने तु शार्ङ्गाष्ठाचर्मपर्णिके ॥ ६०७ ॥ आजमोदा बस्तगन्धा ब्रह्मदर्भा यवानिका । स्वर्णक्षीरी हैमवती पटुपर्णी हिमावती ॥ ६०८ ॥ विशल्या शक्रपुष्प्यग्निशिखानन्ता फलिन्यपि । ;l{1220} पूगस्तु मलपुष्पः स्याद्वसुकः किण्वमूलकः ॥ ६०९ ॥ अमी समाः स्युः पर्णासकुठेरककठिञ्जराः । शुक्लेऽस्मिन् मञ्जरी तीक्ष्णतीक्ष्णगन्धार्जकाः समाः ॥ ६१० ॥ अस्मिन् सुगन्धे स्याच्छ्वेतसुरसा सुरसापि च । मण्डूकपर्णिका भण्डी भण्डीरी चाथ पालकम् ॥ ६११ ॥ ;p{0079} ;l{1225} व्याप्यं कुष्ठं पारिभाव्यमुत्पलं व्याधिरित्यपि । वृषा तु वृषभः शृङ्गी पालक्यां कुन्दकुन्दुरू ॥ ६१२ ॥ प्रस्थपुष्पो मरुवकः समीरणफणिज्जकौ । कपोताङ्घ्रिस्तु सुषिरा नटी विद्रमवल्लरी ॥ ६१३ ॥ शङ्खिनी केशिनी चोरपुष्पिका शङ्खपुष्पिका । ;l{1230} मुरा गन्धकुटी दैत्या सालपर्ण्यश्वगन्धिका ॥ ६१४ ॥ कबरा खरपुष्पासृग्गन्धिकाथ विदारिका । भूकूश्माण्डीक्षुगन्धा च सा तु कृष्णा फलाधिका ॥ ६१५ ॥ ;l{1232a} उष्ट्रिका क्षीरशुक्लेक्षुगन्धिकेक्षुविदारिका । श्वेता क्षीरविदारी सा महाश्वेतर्क्षगन्धिका ॥ ६१६ ॥ वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी । ;l{1235} हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ ६१७ ॥ माषपर्णी तु काम्बोजी यवपुष्पा महासहा । रास्ना तु सुवहा युक्तरसैलापर्णिका च सा ॥ ६१८ ॥ किराततिक्तो भूनिम्बः शार्ङ्गेरी त्वम्ललोणिका । अम्बष्ठा चुक्रिका दन्तशठा चाथ कलम्बिका ॥ ६१९ ॥ ;l{1240} वायसी शतपर्वाथ नदी विद्रुमवल्लिका । सुषिरा च कपोतङ्घ्रिरतिच्छत्रा तु कारवी ॥ ६२० ॥ ;p{0080} सितपुष्पी सितच्छत्रावाक्पुष्पी मधुरा कणा । मधुका यष्टिमधुकं क्लितकं मधुयष्टिका ॥ ६२१ ॥ भूवल्लूरमिलाछत्रं कुक्वण्डं भूमिकन्दकम् । ;l{1245} चारटी सव्यथा पद्मातिचरा पद्मचारिणी ॥ ६२२ ॥ पुण्डरीकं दमनकं सलज्जं दारुवन्मुनिः । तत्र ब्रह्मजटा च स्यादलर्कः सिंहवल्लरी ॥ ६२३ ॥ कण्टकारी तु बृहती वार्ताकी दुष्प्रधर्षिणी । सिंही कण्टकिनी क्षुद्रा कार्पासी तुण्डिकेरिका ॥ ६२४ ॥ ;l{1250} जपा तु रक्तकार्पासी समे कार्पासबादरे । तुण्डिकेरी तु बिम्बी स्याद् बिम्बो बिम्बा च तत्फले ॥ ६२५ ॥ कुस्तुम्बुरु तु धान्याकं तत्र छत्रा वितुन्नकम् । कोशातकी पटोली स्यात् पटोलः कर्कशः पटुः ॥ ६२६ ॥ घण्टाला तु कृतच्छत्रा ज्योत्स्नी कोशातकी फली । ;l{1255} ग्राम्या मृदङ्गफलिका जालिनी फलिनीत्यपि ॥ ६२७ ॥ राजजाली महाकोशातकी च फलिकेति च । कर्कोटी कोशफलिका क्ष्वेडोऽधोमार्गवोऽप्यसौ ॥ ६२८ ॥ महाजाल्यां कोशफलो वन्द्या तिक्तपटोलिका । जाङ्गादीप फली चाथ कारवेल्लः कठिल्लकः ॥ ६२९ ॥ ;p{0081} ;l{1260} राजवल्ल्युरुवल्ल्यम्बुवल्ली रञ्जनवल्लिका । सुषवी तिक्तपत्री च कर्कोटस्तु युगंधरः ॥ ६३० ॥ हस्तिकर्कोटकश्चैव बृहत्कर्कोटको बली । अर्शोघ्नः सूरणः कन्दः कूष्माण्डस्तु नृपात्मजः ॥ ६३१ ॥ हेमपुष्पस्तिष्यफलः कर्कारुस्तिष्यवल्लरी । ;l{1265} कूष्माण्डी तिष्यफलिका कटुतुम्ब्यां नृपात्मजा ॥ ६३२ ॥ लम्बा तुम्बवतीक्ष्वाकुस्तिक्तबीजो महाफलः । तुम्ब्यां पिण्डफलालाबूर्वृत्ततुम्ब्यां तु कम्बुका ॥ ६३३ ॥ अल्पतुम्ब्यां कुक्कुटाक्षः समौ कर्करिचित्रकौ । उर्वारुः कर्कटी भीरुर्वालकी चिद्भटः पुमान् ॥ ६३४ ॥ ;l{1270} त्रपुसश्छर्दनस्तालः कुटपत्री च मूत्रला । पाण्डुपत्री विशाला स्यादमरी चेन्द्रवारुणी ॥ ६३५ ॥ मृगोर्वारुस्तिक्तफली विचित्रफलिका च सा । अथो गवाक्षी गोतुम्बी कलिङ्गश्चित्रकोऽपि च ॥ ६३६ ॥ कदली वारणबुसा रम्भा मोचांशुमत्फला । ;l{1275} काष्ठीला दीर्घपत्रा च सा तु चम्पा सितेतरा ॥ ६३७ ॥ ;p{0082} वार्ताकी प्रसवा काली बृहती दुष्प्रधर्षिणी । वातिङ्गनस्तु गान्धारी वार्ताकी हिङ्गुलीङ्गुली ॥ ६३८ ॥ वात्या बृहत्यां सुस्कन्धा धन्या प्रसहनी लता । ;l{1280} गोष्ठवातिङ्गने त्वेलागन्धिका जलजम्बुका ॥ ६३९ ॥ हस्तिवातिङ्गने त्विभ्या विशाला दद्रुनाशिनी । मारिषो जीवशाकः स्यात् स्वल्पेऽस्मिंस्तण्डुलीयकः ॥ ६४० ॥ मेघनादश्च गण्डीरं रक्तेऽस्मिन् देवमारिषः । वरो लतामारिषः स्याद्वरशाकश्च शाकिनी ॥ ६४१ ॥ सृगालवास्तुके त्वारुर्वास्तुके क्षारपत्रकः । ;l{1285} प्रवालो वीरशाकश्च वास्तिकः शोफकर्शकः ॥ ६४२ ॥ रोदनी कच्छुरा नक्रा ताम्रमूला दुरालभा । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ६४३ ॥ द्रोणस्तु द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका । जीरको जरणो हृद्योऽजाजिः कृष्णे तु जीरके ॥ ६४४ ॥ ;l{1290} कालोपकुञ्चिका पृथ्वी सुषवी कारवी कणा । सर्षपो दुन्दुभस्तीक्ष्णो रक्षोघ्नो दुष्प्रधर्षणः ॥ ६४५ ॥ ;p{0083} कदम्बकश्च कटुकः सिद्धार्थः श्वेतसर्षपः । रक्षोघ्नश्च गृहघ्नश्च कलम्ब्यां स्यादुपोदका ॥ ६४६ ॥ समष्टिला च गण्डीरं शकुटो दलकूर्चिका । ;l{1295} बृहच्छदो महापद्मः शोफघ्नो मोह इत्यपि ॥ ६४७ ॥ वराहकन्दे वाराही कन्दलः कन्दली स्त्रियाम् । मध्वालुको मधुरसः कालाची नूतकन्दलम् ॥ ६४८ ॥ विष्वक्सेना तु बदरा वराङ्गी वज्रवल्लरी । त्र्यश्रा गृष्टिः प्रिया नागबला गाङ्गेरुकी समे ॥ ६४९ ॥ ;l{1300} कूर्चशीर्षो मधुकरो ह्रस्वाङ्गः शृङ्गिजीवकौ । ब्रह्म्यां सत्यवती ब्राह्मी मत्स्याक्षी सोमवल्लिका ॥ ६५० ॥ पर्पटः पटुकोऽथास्त्री मूलकं हिलकूर्चिका । झटामलाज्झटो ताली शिवा तामलकीत्यपि ॥ ६५१ ॥ वार्षिकं त्रायमाणः स्यात् नायन्ती बलभद्रिका । ;l{1305} रसोनो गृज्जनोऽरिष्टः पलाण्डुरमृतोद्भवः ॥ ६५२ ॥ ;p{0084} सुकन्दकः कटुः कञ्जो महाकन्दो महौषधम् । कायाङ्गं लशुनं दीप्यं जीर्णकं गुल्मनाशनम् ॥ ६५३ ॥ सुकन्दकः श्वेतकन्दः पलाण्डुश्च समा इमे । हरिद्रक्ते स्वल्पकन्दो गृञ्जनो गर्जनो गजः ॥ ६५४ ॥ ;l{1310} हरितेऽस्मिन् लतार्कः स्यात् परुण्डो दद्रु मोऽसमः । लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् ॥ ६५५ ॥ परुण्डुश्च पलाण्डुश्च लतार्कश्चापराजिता । गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः ॥ ६५६ ॥ आर्द्रकं शृङ्गिवेरं स्याच्छ्यामिका कालकेशिका । ;l{1315} विशल्या लाङ्गली विद्युद्रक्तपुष्पानलाङ्गिका ॥ ६५७ ॥ त्वक्सारस्तेजनो वंशस्त्वचिसारस्तृणध्वजः । मृत्युपुष्पो यवफलो वेणुः कर्मारमस्करौ ॥ ६५८ ॥ शतपर्वाप्यथ क्ष्वेलः करीरोऽस्त्री तदङ्कुरः । कीचका वेणवस्ते ये स्वनन्त्यनिलपूरिताः ॥ ६५९ ॥ ;l{1320} नालिकेरो द्वयोः कूर्चकेसरो लाङ्गली हली । सदाफलो दाक्षिणात्यो बलिसेव्यः कलिङ्गकः ॥ ६६० ॥ मधुक्षीरो मधुरसः खर्जूरः पुंसि च स्त्रियाम् । कूर्चपुष्पोऽपि तालस्तु राजतालो दृढच्छदः ॥ ६६१ ॥ ;p{0085} तारो वराङ्गना ताली राजताल्यथ केतकी । ;l{1325} केतकोऽपि रजःपुष्पः स्त्रीप्रियः सर्पवेष्टितः ॥ ६६२ ॥ खर्जूरः केतकी पूगो हिन्तालो नालिकेरकः । तृणवृक्षाः प्रियालः स्यादिक्षुः खड्गदलो मधुः ॥ ६६३ ॥ तस्मिन्मधुतृणं भेदा वंशकान्तारपुण्ड्रकाः । मत्कुटः सूक्ष्मपत्रः स्याद्दीर्घलोहितयष्टिका ॥ ६६४ ॥ ;l{1330} गुच्छो वृत्ततृणः शुण्ठी शृङ्गिबेरार्हमूलकः । शरेक्षुरिक्षुकुसुमः पिकेक्षुर्गिरिकर्णिका ॥ ६६५ ॥ तस्मिन् काण्डेक्षुकाशेक्षू अपि चामरपुष्पकः । शादस्तु घासो यवसं तृणं हरितमर्जुनम् ॥ ६६६ ॥ तृण्या तु तृणसंघाते शाद्वलं तु तृणाङ्कुरे । ;l{1335} पुञ्जीलस्तु तृणस्तम्बः शष्पं बालतृणं समे ॥ ६६७ ॥ कुशो मुनिः कुथो दर्भः क्लीबे बर्हिः पवित्रके । मुञ्जस्तु यज्ञियो मेध्यो मृदुत्वग्ब्रह्ममेखला ॥ ६६८ ॥ अश्ववालस्तु दर्भः स्यात् काशोऽस्त्री स्त्रीक्षुगन्धिका । समाः काशः शरो मुञ्जो दर्भभेदे खरच्छदः ॥ ६६९ ॥ ;l{1340} ऊर्ध्वमूलोलपौ चास्मिन् जूर्णा कृकणपत्रिका । नडादिकं तृणं गर्मुछ्यामाकप्रमुखा अपि ॥ ६७० ॥ ;p{0086} नडस्तु धमनः पोटगलो नड्या तु तद्गणे । सौगन्धिकं देवजग्धं कत्तृणं धा(ध्या?)मकं पुरम् ॥ ६७१ ॥ गुन्द्रः शरस्तेजनः स्यादिषीका कूलिका समे । ;l{1345} छत्राकश्छत्रपालघ्नौ पुंसि भूम्नि च बल्बजाः ॥ ६७२ ॥ दूर्वा तु हरिताली स्याच्छतवीर्या च भार्गवी । सितदूर्वा तु गोलोमी श्वेताङ्गी शतमूलिका ॥ ६७३ ॥ मुस्ता स्त्री मुस्तकोऽस्त्री स्याच्छ्वेतमध्यः सुगन्धिकः । शकलाक्षः कर्णपूरो ग्राही कर्पूरगन्धिकः ॥ ६७४ ॥ ;l{1350} कुटन्नटं दाशपुरं गोनर्दं जलमुस्तके । केवर्तीमुस्तकं गुन्द्रा दरारोहा महोदरी ॥ ६७५ ॥ ;c{इति वत्सकुलवामनभट्टबाणाविरचिते शब्दरत्नाकरे वनाध्यायो द्वादशः ॥} ;v{चतुष्पदाध्यायः} ;c{चतुष्पदाध्यायः} सिंहः पञ्चमुखो हरिर्मृगपतिः कण्ठीरवः केसरी हर्यक्षो नखरायुधोऽथ कुठरः स्यादल्पकण्ठीरवः । ;p{0087} सिंहारिः शरभोऽष्टपादथ समाः शार्दूलपिण्डारक- व्याघ्रद्वीपितरक्षुचित्रतनवः स्युः पुण्डरीकोऽप्यमी ॥ ६७६ ॥ वराहः सूकरः क्रोडः कोलभूदारघोणिनः । ;l{1355} घृष्टिः किटिः किरिर्द्रंष्ट्री स्तब्धरोमा च पोत्रिणि ॥ ६७७ ॥ समा लुलायमहिषकासराश्वारिसैरिभाः । गवलं माहिषं शृङ्गं द्वैपं वैयाघ्रचर्मणि ॥ ६७८ ॥ ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः । खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥ ;l{1360} श्वाविट् शल्योऽस्य लोम्नि स्त्री शलली शललं शलम् । मृगः कुरङ्गो वातायुरेणो हरिण इत्यपि ॥ ६८० ॥ कृष्णसारः कृष्णमृगः समौ गवयगोमृगौ । लम्बन्ते यस्य रोमाणि ककुदि स्यात् स शम्बरः ॥ ६८१ ॥ ;l{1365} ऋश्यस्त्रिशृङ्गो नीलः स्याद्रोहिदृश्यस्य योषिति । सारङ्गो रोमकल्माषः कर्णयोर्यो गवाकृतिः ॥ ६८२ ॥ स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः । न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥ राजीवो राजिमान् पृष्ठे कृष्णसारो महान् रुरुः । शोणास्यो राजयः पृष्ठे यस्य सन्ति स रोहितः ॥ ६८४ ॥ ;p{0088} ;l{1370} प्रियको मसृणस्वच्छमृदुचित्रतनूरुहः । चमूरुरायतग्रीवो धवलस्कन्धकेसरः ॥ ६८५ ॥ नीलाग्रमृदुतीक्ष्णोच्चकर्बुराङ्गतनूरुहः । द्वाविंशत्यङ्गुलायामा कदली स्त्री बिलेशया ॥ ६८६ ॥ पृषतो बिन्दुचित्रोङ्गः कन्दली तु महोदरी । ;l{1375} श्यामा हस्तसमायामा कोक ईहामृगो वृकः ॥ ६८७ ॥ सालावृकस्त्वरण्यश्वा टङ्कणो धवलोन्नतः । समूरुर्ना समूना स्त्री सा प्रहस्तायताकृतिः ॥ ६८८ ॥ गोमाय्वाभाथवा कृष्णा स्निग्धोच्चमृदुरोमिका । श्यामिका तु श्वेतबिन्दुश्यामला षोडशाङ्गुला ॥ ६८९ ॥ ;l{1380} चतुरा तु घनस्निग्धरोमा श्यामा सचन्द्रका । वातप्रमीर्वातमृगश्चीनस्तु त्रिंशदङ्गुलः ॥ ६९० ॥ मरुजा तूच्चमसृणमृदुपाण्डररोमिका । रोमराजिमती मध्ये द्वादशाङ्गलसंमिता ॥ ६९१ ॥ रङ्कुः स यस्य रोमाणि युज्यन्ते वायुकर्मणि । ;l{1385} चमरस्तु सितो वालमृगोऽथ सृमरोऽसितः ॥ ६९२ ॥ एण्याश्चर्माद्यमैणेयं मार्गैणे तु मृगैणयोः । चीनकस्तु सितक्रोडः कन्दरस्तूच्चजानुकः ॥ ६९३ ॥ ;p{0089} समानौ बभ्रुनकुलावच्छकर्णशशौ समौ । मृगनाभिस्तु कस्तूरीमृगो गन्धमृगोऽपि सः ॥ ६९४ ॥ ;l{1390} नाहलोऽप्यथ कस्तूरी राजार्हं शितिचन्दनम् । वनौका मर्कटः कीशो वानरः प्लवगः कपिः ॥ ६९५ ॥ प्लवंगमो दधिमुखः शाखामृगवलीमुखौ । गोलाङ्गूलः कृष्णमुखो दीर्घपुच्छो वलीमुखः ॥ ६९६ ॥ शिवा स्त्री जम्बुकक्रोष्टुफेरुफेरण्डफेरवाः । ;l{1395} गोमायुर्वञ्चको भीरुभूरिमायशृगलकाः ॥ ६९७ ॥ मातङ्गः करटीभवारणकरिस्तम्बेरमानेकपाः शुण्डालद्विपहस्तिनागमदमुक्शूर्पश्रवःकुजराः । वेतण्डद्विरदौ महाबलगजौ दन्तावलः सिन्धुरः पद्मी सामभवो रदी च करिणः कुम्भौ शिरःपिण्डकौ ॥ ६९८ ॥ पद्मानि स्युर्बिन्दवोऽन्नं विधानं शुण्डा हस्तश्चूलिका कर्णमूलम् । स्यान्निर्याणं दृष्युपान्तः करीरं दन्तादिः स्याद्दन्तभागोऽग्रभागः ॥ ६९९ ॥ हस्तस्याग्रं पुष्करं वक्त्रमध्यं ;l{1400} वाहित्थं स्यादीषिका नेत्रकूटम् । ;p{0090} आरक्षोऽधः कुम्भयोरासनं तु स्कन्धोद्देशः कुम्भमध्यं विदुर्ना ॥ ७०० ॥ निष्कोशः स्यात् कुक्षिमध्ये हनौ ना कुञ्जः कर्णप्रान्तरे दुर्दरः स्यात् । उत्खातः स्यात् कर्णमूलोर्ध्वभागे शम्बूका स्त्री वक्त्रपार्श्वैकदेशः ॥ ७०१ ॥ बिम्बकस्तु शिरोमध्यं ललाटं स्यादवग्रहः । ;l{1405} पक्षपार्श्वे तु विक्षोमः प्रतिमानं तु कुम्भयोः ॥ ७०२ ॥ अधोभागे (अन्तराले?) मदो दानं गण्डस्तु करटः कटः । दन्तो रदो विषाणं च वमथुर्हस्तशीकरः ॥ ७०३ ॥ गात्रापरे क्रमात् पूर्वापरजङ्घादिदेशयोः । पूर्वस्याङ्घ्रेरधोऽधः स्युः प्रतीकाशः क्षयः क्रमात् ॥ ७०४ ॥ ;l{1410} कूर्मः सन्दानभागश्च प्रोह उत्सङ्ग इत्यपि । अधोऽधः पश्चिमस्याङ्घ्रेर्मूलादानखरावधेः ॥ ७०५ ॥ प्रदेशाः स्युः कलाभागः क्रमाज्जघनपिण्डिका । मण्डूका शकुटा पार्ष्णिस्तलः प्रोहश्च कूर्मकः ॥ ७०६ ॥ ;p{0091} पक्षभागः पार्श्वभागो मेदः स्थूलोच्चयो गतेः । ;l{1415} तत् फलं त्वंसयोर्मध्यं विस्तारो गजशास्त्रकम् ॥ ७०७ ॥ जानुदेशस्त्ववस्कारः शुण्डायां स्रोत इत्यपि । कक्ष्या चूडा(षा?) वरत्रा स्याद्धेनुका करिणी वशा ॥ ७०८ ॥ वाशिता गणिका रोगे गजानां कूटपाकलः । मदविभ्रमजं तेजः करिणो हस्तिवर्चसम् ॥ ७०९ ॥ ;l{1420} शृङ्गारोऽलंक्रिया तोत्रं वैणुकं कदली ध्वजः । आलानं बन्धनस्तम्भे कीलशङ्कुध्रुवाः समाः ॥ ७१० ॥ सृणिर्द्वयोरङ्कुशोऽस्त्री सूना दण्डार्पितोऽङ्कुशः । हिञ्जीरः स्याल्लोहमयं शृङ्खलं शृङ्खला त्रिषु ॥ ७११ ॥ निगालोऽस्त्री स्त्रियाम् मन्दूरन्दुकः पादबन्धनः । ;l{1425} कलापकः कर्णवन्धस्त्रिपदी पादबन्धनम् ॥ ७१२ ॥ प्रवेणी तु परिस्तोमो वर्णः शारिः कुथो द्वयोः । वप्रक्रिया परिणतिः कल्पना सज्जना समे ॥ ७१३ ॥ आधोरणो हस्तिपकहस्त्यारोहनिषादिनः । तत्प्रधाने महामात्रो हास्तिकं गजता गणः ॥ ७१४ ॥ ;l{1430} उद्वान्तो निर्मदो मत्तः प्रभिन्नो गर्जितो गजः । व्यालो दुष्टोऽथ गम्भीरवेदी शिक्षापराङ्मुखः ॥ ७१५ ॥ ;p{0092} यूथपो यूथनाथः स्यादीषादन्तो महारदः । मदोत्कटो मदकलः स्याद् बालः पञ्चहायनः ॥ ७१६ ॥ दशवर्षस्तु पोतः स्याद्विक्को विंशतिवर्षकः । ;l{1435} त्रिंशद्वर्षस्तु कलभः शुण्डारः षष्टिहायनः ॥ ७१७ ॥ गण्डूषिको बहिष्कर्षः सुभागश्चातिहस्तिकः । पृथुहस्तः स्थूलहस्तः फलिहस्तः समास्त्रयः ॥ ७१८ ॥ तुरगतुरङ्गतुरङ्गमसैन्धवसप्त्यश्ववाजिवाहहयाः । गन्धर्ववीतिघोटकहर्यर्वश्रीजहेषिणश्च समाः ॥ ७१९ ॥ ;l{1440} मेदाः खेङ्खाणतुक्खारखत्तुलाणकतेजिकाः । घोट्टाणा अपि काम्बोजाः पारसीका वनायुजाः ॥ ७२० ॥ आरट्टजाश्च बाह्लीकाः सिन्धुजाः शम्बलोद्भवाः । अम्बष्ठजा अन्वजवा गान्धारास्तैतिलेयकाः ॥ ७२१ ॥ काश्मीराः क्षुद्रकैरातास्त्रैगर्ता आश्विनेयकाः । ;l{1445} सावित्रेयाः साल्वभवाः पारदा ह्रस्वकुक्कुराः ॥ ७२२ ॥ कुक्कुराः शूरसेनीयाः कैकेया उपमोचकाः । शाका उत्तरमाद्रेया आवर्तप्रभवा हयाः ॥ ७२३ ॥ ;p{0093} पारसीकादिसंज्ञाः स्युः पारसीकादिदेशजाः । श्रीवृक्षकी वक्षसि च रोमावर्तो मुखेऽपि च ॥ ७२४ ॥ ;l{1450} मल्लिकाक्षः सितेनाक्ष्णा कृष्णेनेन्द्रायुधाह्वयः । पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ ७२५ ॥ खुरोरःपुच्छकेशास्यैर्वलर्क्षैरष्टमङ्गलः । सुग्रीवाख्यः स यद्ग्रीवा शक्रकार्मुकसंनिभा ॥ ७२६ ॥ धवलौ कर्ककौकाहौ पोङ्गाहः शुक्लपिङ्गलः । ;l{1455} कृष्णवर्णस्तु खुङ्गाहः शोणः कोकनदच्छविः ॥ ७२७ ॥ कुलाहस्तु मनाक् पीतः कृष्णः स्याद्यदि जानुनि । कल्लोहः कपिलच्छायः पाण्डुवालधिकेसरः ॥ ७२८ ॥ कयाहो लोहितः पीतरक्तस्तु द्रवलाहकः । मनाक् पाण्डुरुराहः स्यात् कृष्णजङ्घायुगं यदि ॥ ७२९ ॥ ;l{1460} पीयूषवर्णः सेराहः पङ्गुलः सितकाचरुक् । सर्व एवान्यसंज्ञाः स्युरश्वा वर्णादिभेदतः ॥ ७३० ॥ आश्वमश्वीयमश्वानां वृन्दे स्युर्दोषिणः षरे । कृत्तिकापिज्जरः स स्याद्यः पृषत्पुञ्जपिञ्जरः ॥ ७३१ ॥ ;p{0094} इन्द्रवृष्टिस्तु निर्मुष्को यमो हीनाधिकाङ्गकः । ;l{1465} कराली तु जरद्दन्तस्त्रिखुरस्तु खुरत्रिकः ॥ ७३२ ॥ ककुदी ककुदावर्तो मुसल्यो वेल्लिताङ्घ्रिकः । शृङ्गी शृङ्गपदे मांसबुद्बुदग्रन्थिसंयुतः ॥ ७३३ ॥ सूकलो दुर्विनीतोऽश्वः स्यात्तु बालः किशोरकः ॥ ७३४ ॥ बडवाश्चार्वती वामी बाडवं बडवागणे । ;l{1470} कश्यमश्वस्य मध्यं स्याद्भाण्डमायानमित्युमे ॥ ७३५ ॥ अलंकारे निगालस्तु गलोद्देशः शफं खुरः । घोणा तु प्रोथमस्त्री स्याद्दन्तवेष्टस्तु नालिका ॥ ७३६ ॥ कालिका दन्तरेखायां दन्तच्छिद्रमुलूखलम् । विदुर्ना कर्णमूले स्यात् खुरस्योपरि कुष्ठिका ॥ ७३७ ॥ ;l{1475} दन्तालिका कुशा वल्गा ग्रीवाभूषा तु गण्डकम् । चर्मदण्डः कशा वक्त्रपट्टके तलसारकम् ॥ ७३८ ॥ तालिकाथ प्रक्षरणं प्रखरोऽथ प्ररोहकः । भुक्काणोऽशनमस्त्रायां नासारज्जुस्तु लालिका ॥ ७३९ ॥ ;l{1480} त्रिष्वाश्वीनं तदश्वेन यदेकाहेन गम्यते । दामाञ्चनं पादपाशस्तैल यन्त्रं तु नालिका ॥ ७४० ॥ ;p{0095} गतिमेदे स्त्रियामूर्मिः क्लीबे त्वर्द्धपुलायितम् । आस्कन्दितधौरितरेचितकप्लुतवल्गितभेदभृतो गतयः । धारास्तुरगस्य तुरस्तु गतिः पुरुषस्थितेरुन्नमिताग्रा ॥ ७४१ ॥ यन्त्रं सैन्धवदानाय कृतं लवणमालिका । ;l{1485} स्याद्देवमणिरश्वस्य रोमावर्तो निगालजः ॥ ७४२ ॥ कण्ठजो रोचमानः स्यात् स्वामिसौभाग्यवर्धनः । पर्याणं स्यात् पल्यनं लाङ्गूलं पुच्छमस्त्रियाम् ॥ ७४३ ॥ उभौ तु लोमलाङ्गूले वालहस्तश्च वालधिः । वङ्कः पर्याणशृङ्गे स्यात् पञ्चाङ्गी कविका कवी ॥ ७४४ ॥ ;l{1490} खलीनोऽस्त्री समानौ तु वेसराश्वतरौ समौ । वडवायां समुत्पन्नौ मूकः कुण्डश्च वेसरात् ॥ ७४५ ॥ महाङ्गमयदाशेररवणोष्ट्रक्रमेलकाः । टङ्कणः पादबन्धैस्तु दारवैः करभः शिशुः ॥ ७४६ ॥ स्याच्छृङ्खलक उष्ट्राणामौष्ट्रकं स्यात् कदम्बके । ;l{1495} बालेयकस्तु चक्रीवान् गर्दभो रासभः खरः ॥ ७४७ ॥ शुनकः सारमेयः श्वा कौलेयो रतिकीलकः । कुक्कुरो मण्डली योगादलर्कः सरमा शुनी ॥ ७४८ ॥ शुनकी विश्वकद्रुस्तु शुनको मृगयापटुः । अर्जुन्यघ्न्या रोहिणी सौरभेयी माहेय्युस्रा शृङ्गिणी गौश्च माता । ;p{0096} गव्या गोत्रा गोगणे वत्सधेन्वो- ;l{1500} र्वृन्दे स्यातां वात्सकं धैनुकं द्वे ॥ ७४९ ॥ प्रत्यब्दसूतिस्तु समांसमीना परेष्टुका स्यात् प्रचुरप्रसूतिः । काल्योपसर्या प्रजनेऽवतोका प्रस्कन्दिगर्भाथ वशा तु वन्ध्या ॥ ७५० ॥ संधिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी । ;l{1505} नवप्रसूतिर्धेनुः स्याद्धेनुष्या बन्धके स्थिता ॥ ७५१ ॥ सुव्रता सुखदोह्या स्यात् प्रष्ठौही बालगर्भिणी । चिरसूता वष्कयणी जरती गौर्जरद्गवी ॥ ७५२ ॥ नीली पिशङ्गी कल्माषी शोणी चेत्येवमादयः । वर्णभेदेन संज्ञाः स्युरुत्तमा गोषु नैचिकी ॥ ७५३ ॥ संख्यादिहायनान्ता गौरेकाब्दा त्वेकहायनी । ;l{1510} एवं द्विहायनीत्यादि षड्रदा षोडती समे ॥ ७५४ ॥ वञ्जुला तु बहुक्षीरा कपिला त्वग्निसंभवा । भूमिजा बहुला कृष्णा शबली व्योमसंभवा ॥ ७५५ ॥ सुमनाः प्रक्षराङ्गी च रक्तवर्णा तु वायुजा । सिता तु धवला पुण्ड्रा सुनन्दा जलसंभवा ॥ ७५६ ॥ ;l{1515} द्रोणक्षीरा द्रोणदुघा गृष्टिः प्रथमसूतिका । गौरचण्डी तु सुकरा स्यादेवापीनमूधसि ॥ ७५७ ॥ ;p{0097} ऋषभस्तु बलीवर्दः पुंगवो वृषभो वृषः । उक्षा भद्रः ककुद्मान् गौः सौरभेयश्च शाक्वरः ॥ ७५८ ॥ अनड्वान् भग्नशृङ्गे तु तस्मिन् कूटश्च तूबरः । ;l{1520} शोणो नीलवृषः श्वेतपुच्छशृङ्गः खुराण्डकः ॥ ७५९ ॥ जरद्गवस्तु वृद्धोक्षो महोक्षस्तु महावृषः । लूनकर्णस्त्वकर्णः स्याद्वण्डस्तु छिन्नपुच्छकः ॥ ७६० ॥ आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः । स्कान्धिकः स्कन्धवाहः स्यात् समौ नस्योतनस्तितौ ॥ ७६१ ॥ ;l{1525} नस्या स्त्री नासिकारज्जुः पशुरज्जुस्तु दामनी । निधानं स्याद्गवां दोहे पश्चाच्चरणबन्धनम् ॥ ७६२ ॥ स्कन्धप्रदेशस्तु वहः सास्ना स्याद्गलकम्बलः । स्याद्धेन्वनडुहं धेनुरनड्वांश्च धुरंधरः ॥ ७६३ ॥ धुरीणो धूर्वहो धुर्यो यस्तु सर्वधुरावहः । ;l{1530} असौ सर्वधुरीणः स्याद् युग्यस्तु युगवोढरि ॥ ७६४ ॥ युगाद्युगस्तु प्रासङ्गः प्रासङ्ग्यस्तस्य वोढरि । एकस्यास्तु धुरो वोढा योऽसावेकधुरीणकः ॥ ७६५ ॥ पृष्ठ्यस्तु पृष्ठवाहः स्यात् प्रष्ठवाड्युगपार्श्वगः । औक्षकं संघ उक्ष्णां स्याद्गोशकृद्गोमयोऽस्त्रियाम् ॥ ७६६ ॥ ;p{0098} ;l{1535} गोग्रन्थिर्गोमये शुष्के करीषोऽस्त्री च दोहलम् । गोकुलं गोधनं जीवधनं चापि गवां व्रजे ॥ ७६७ ॥ गोमान् गोमी गवां स्वामी गोविन्दोऽधिकृतो गवाम् । गोसंख्यो वल्लवो गोपगोपालाभीरगोदुहः ॥ ७६८ ॥ दुग्धं तु क्षीरमूधस्यं पयः स्तन्यं नवं तु तत् । ;l{1540} पीयूषोऽथ हविः सर्पिर्घृतमाज्यं समार्थकम् ॥ ७६९ ॥ क्लीबे तु नवनीतं स्याद् यद् दध्नोऽभिनवोद्धृतम् । तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम् ॥ ७७० ॥ मण्डं दधिभवं मस्तु करम्भा दधिसक्तवः । आज्यं दशाब्दिकं कौहं हृद्यं तु श्रीघनं दधि ॥ ७७१ ॥ ;l{1545} स्थूलमङ्गलमप्यत्र बालं तु दधि बालकम् । दधि स्यादघनं द्रप्स्यं गन्धाढ्यं तु वलीमूखम् ॥ ७७२ ॥ छिन्नं दधि बिसं रूक्षं खलं च दधि निद्रवम् । बहुसूदनमप्यस्मिन् स्यात् कीलाटस्तु कूर्चिका ॥ ७७३ ॥ विकृतौ पयसः क्षीरच्छदः संतानिका स्त्रियाम् । ;l{1550} विवधो वीवधो हारः पर्याहारो विहङ्गिका ॥ ७७४ ॥ मन्थास्तु मन्थमन्थानवैशाखा मन्थदण्डके । मन्थनी म(ग?)र्गरी मन्थविष्कम्भे कुठरः पुमान् ॥ ७७५ ॥ ;p{0099} बोलो दण्डाहतं कालशेयारिष्टे च गोरसे । मथितमुदश्वित्तक्रं निर्जलमर्धाम्बु पादाम्बु ॥ ७७६ ॥ ;l{1555} स्यादाशितंगवीनं तत् त्रिषु यत्राशिताः पुरा । अजो बस्तः स्तबश्छागश्छगश्छगलकोऽपि सः ॥ ७७७ ॥ ऊर्णायुरुरणकैलकमेढ्रोरभ्राविवृष्णिमेषाश्च । अविसोढमविमरीसं स्यादविद्सं च यद्दुग्धमवेः ॥ ७७८ ॥ औरभ्रकमुरभ्राणामजानामाजकं गणः । ;l{1560} मार्जारो जाहको मर्को बिडालो वृषदंशकः ॥ ७७९ ॥ मण्डल्याखुभुगोतुश्च दीनानाथस्तु मूषिकः । इन्दुरुश्च वृषश्चाखुर्गिरिका बालमूषिका ॥ ७८० ॥ चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका । त्रयो गौधेरगौधारगौधेया गोधिकासुते ॥ ७८१ ॥ ;l{1565} स चिक्रोडो यस्य पृष्ठे पाण्डुवर्णास्त्रिराजयः । कृकलासस्तु सरटः प्रतिसूर्योऽथ वृश्चिकः ॥ ७८२ ॥ अली द्रोणः शूककीटस्तच्छूकेऽखं(लं?) दुणं(लं?) द्वयम् । गृहगौली तु मुसली द्वौ नीलङ्गुकृमी समौ ॥ ७८३ ॥ स्त्रियां शतपदी कर्णजलौकाः कुण्डलिन्यपि । ;l{1570} लूतामर्कटकस्तन्तुवायः स्यादूर्णनाभकः ॥ ७८४ ॥ ;p{0100} उद्दंशो मत्कुणस्तुल्यौ श्रेणिका तु पिपीलिको ॥ ७८५ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे चतुष्पदाध्यायस्त्रयोदशः ॥} ;v{शकुन्ताध्यायः} ;c{शकुन्ताध्यायः} विहगविहंगमद्विजविविष्किरपक्षिपतद्- विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः । शकुनगरुत्मदंशुनभसंगमनीडभवाः शकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥ पतत्रयः पतंगाश्च पित्सन्तश्च विहायसः । ;l{1575} शुक्लापाङ्गः शिखी केकी नीलकण्ठः शिखावलः ॥ ७८७ ॥ शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः । मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥ पिच्छबर्हे कलापश्च प्रचलाकः शिखण्डकः । शिखाचूडे समे स्यातां समौ भासशकुन्तकौ ॥ ७८९ ॥ ;l{1580} ध्वाङ्क्षो नालीजङ्घो नाडिजङ्घः सकृत्प्रजः परभृत् । काकः करटोरिष्टो बलिपुष्टो वायसो बलिभुक् ॥ ७९० ॥ ;p{0101} आत्मघोषो महानेमिरन्यवापश्च मौकुलिः । मद्गुस्तु द्रोणकाकः स्यात् काकोलो जलवायसः ॥ ७९१ ॥ कौशिको वायसारातिदिवान्धोलूकपेचकाः । ;l{1585} कृष्णे तु कौशिके स्यातां कृतमालकनक्तकौ ॥ ७९२ ॥ खञ्जनः खञ्जरीटः स्यात् तस्य गोलत्तिका प्रिया । कोयष्टिकस्तु शिखरी कटुक्वाणस्तु तित्तिरिः ॥ ७९३ ॥ भृङ्गः कलिङ्गो धूम्याटः समौ सारङ्गचातकौ । करेटुः कर्करेटुः स्यात् कृकणक्रकरौ समौ ॥ ७९४ ॥ ;l{1590} व्याघ्राटस्तु भरद्वाजः श्येनः क्षिप्रः सुपर्णकः । श्येनी तु प्राचिका दार्वाघाटस्तु शतपत्रकः ॥ ७९५ ॥ जीवंजीवो जीवजीवः श्येनः पत्री शशादनः । जलरङ्कुस्तु नत्यूहो दात्यूहः कलकण्ठकः ॥ ७९६ ॥ पारावतः कलरवः कपोतो बालवत्सकः । ;l{1595} मणिकण्ठः पूर्णकूटश्चाषो राजविहंगमः ॥ ७९७ ॥ किकीदिविः स्वर्णचूडश्चित्रवाजो विशोककः । कोकिलस्तु कुहूकण्ठः कालकण्ठो वनप्रियः ॥ ७९८ ॥ पिकः परभृतश्चाथ कपिञ्जलशरू समौ । कृकवाकौ ताम्रचूडचरणायुधकुक्कुटाः ॥ ७९९ ॥ ;l{1600} चूलिकारणदीर्घाङ्घ्रिमयूरवटका अपि । दीर्घग्रीवः सितवपुर्मृदुप्रोथः स्खलन्मनाः ॥ ८०० ॥ ;p{0102} बलाकाजातिरेषः स्यात् तदन्यो नालिकेरजः । गृध्रे तु पुरुषव्याघ्रो दाक्षाय्यश्च सुदर्शनः ॥ ८०१ ॥ तद्भेदाः कर्कटस्कन्धः पर्कटः कमलच्छदः । ;l{1605} दीर्घपाल्लोहपृष्ठश्च कङ्को मेरुण्ड इत्यपि ॥ ८०२ ॥ चटकः कलविङ्कः स्यात् सेव्यस्तिलककण्टकः । आटको बलिभुक् तस्य चटका बल्लभा तयोः ॥ ८०३ ॥ स्त्र्यपत्ये चटका चाटकैरस्तु पुमपत्यके । आतापी चिल्ल उत्पादशयनोऽण्डुकटिट्टिभौ ॥ ८०४ ॥ ;l{1610} शुकः कीरश्च कोरः स्यादुत्पिबश्चन्द्रिकाप्रियः । वाचाला शारिका गर्तकुक्कुटो वृत्तलोचनः ॥ ८०५ ॥ कुलालकुक्कुटश्चाथ पुष्कराह्वस्तु सारसः । हंसो मरालश्चक्राङ्गो जालपादः सितच्छदः ॥ ८०६ ॥ नीलाक्षो मानसौकाश्च हंससाचिस्तु सोऽल्पकः । ;l{1615} आताम्रैर्मलिनैः कृष्णैश्चरणैश्चञ्चुभिः सिताः ॥ ८०७ ॥ राजहंसा मल्लिकाक्षा धार्तराष्ट्रा यथाक्रमम् । कलहंसस्तु कादम्बः किञ्चिदाधूसरच्छदः ॥ ८०८ ॥ कारण्डवो बृहत्पक्षः क्वयिस्तु कुलपायिकः । ;l{1620} बको बकोटः कह्वश्च दर्वीतुण्डस्तु तद्भिदौ ॥ ८०९ ॥ ;p{0103} वरटा वरला हंसी सारसीलक्ष्मणे समे । चक्रवाकरथाङ्गाह्वकोकचक्राः समा इमे ॥ ८१० ॥ शरारिराटिराडिश्च बलाका बिसकण्ठिका । क्रुङ्क्रौञ्चौ कुररोत्क्रोशौ समौ प्लवपरिप्लवौ ॥ ८११ ॥ कुकरः कर्करः केकी कृकवाकुः कपिञ्जलः । ;l{1625} वर्तिका वर्तको बालो गोनर्दो गिरिनर्तिका ॥ ८१२ ॥ चकोरो वरकः शारी पद्यो वातीकतित्तिरी । रक्तवर्त्मक इन्द्राह्वो वराटश्चेति विष्किराः ॥ ८१३ ॥ हारीतः कोकिलो लट्वा कपोतशुकशारिकाः । जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥ ;l{1630} प्रतुदा अथ कादम्बहंसकारण्डवप्लवाः । बलाका सारसोत्क्रोशकोकक्रौञ्चादयोऽप्सराः ॥ ८१५ ॥ मन्थावलो मुखापानो जतुकाजिनपत्रिका । लोपालोपालिका तुल्ये शित्पुटस्तु मधुव्रतः ॥ ८१६ ॥ इन्दिन्दिरभ्रमरषट्पदचञ्चरीक- रोलम्बभृङ्गमधुलिण्मधुपद्विरेफाः । पुष्पंधयो मधुकरोऽलिरली च तत्र ;l{1635} स्यात् पुष्पलिट् च भसलश्च शिलीमुखश्च ॥ ८१७ ॥ ;p{0104} गन्धोलिका तु वरटा गृहिणी गृहकारिका । ज्योतिरिङ्गणखद्योतज्योतिष्कीटास्तमोमणिः ॥ ८१८ ॥ झीरुका झिल्लिका चीरी भृङ्गारी मधुगायनी । मक्षिका भम्भराली स्याच्चर्वणा नीलमक्षिका ॥ ८१९ ॥ ;l{1640} पतंगः शलभः क्षुद्रा सरघा मधुमक्षिका । हालाहलस्त्वञ्जलिका पुत्तिका तु पतंगिका ॥ ८२० ॥ अरण्यमक्षिका दंशः पूत्यण्डाः क्षुद्रपक्षिणः । मक्षिकाजातिरल्पा स्याद्दंश्यथ ग्राममक्षिका ॥ ८२१ ॥ घोण्टाथ मशकास्तेनाः परोष्णी तैलपायिका । ;l{1645} गृहेष्ववस्थिताः पक्षिमृगाश्छेकाश्च गृह्यकाः ॥ ८२२ ॥ अर्भकः पृथुको डिम्भः पाकः पोतः शिशुश्च सः । पक्षिपोतस्तु पिल्लाकश्चञ्चुस्त्रोटिः सृपाटिका ॥ ८२३ ॥ पक्षच्छदो गरुत्पत्रं पतत्रं पक्षतिः स्त्रियाम् । पक्षमूले कुलायस्तु नीडोऽस्त्री डयनं गतिः ॥ ८२४ ॥ ;l{1650} प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः । अण्डं कोशः स्त्रियां पेशी मिथुनं द्वन्द्वमित्युभे ॥ ८२५ ॥ स्त्रीपुंसौ युगली युग्मं युगलं युगमित्यपि । संघातसंघसमुदयसमवायस्तोमनिवहसमुदायाः ॥ ८२६ ॥ निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः । ;l{1655} झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥ ;p{0105} व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् । वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥ अनीकमस्त्री पटली मण्डली संहतिस्ततिः । सधर्मिणां समाजः स्यात् पशूनां समजो गणः ॥ ८२९ ॥ ;l{1660} तिरश्चां तु कुलं यूथमस्त्रियामथ जन्तुभिः । सजातीयैः सार्थवर्गौ कूटोऽस्त्री राशिरुत्करः ॥ ८३० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शकुन्ताध्यायश्चतुर्दशः ॥} ;v{पुराध्यायः} ;c{पुराध्यायः} पुरपुटमेदनपट्टणनगराणि स्त्री तु पूः पुरी नगरी । अन्यानि मूलनगराच्छाखानगराणि बाह्यनगराणि ॥ ८३१ ॥ प्राकारवरणसाला वप्रोऽस्त्री तस्य शिखरकूटानि । ;l{1665} क्षुद्राणि कपिशिरांसि प्राचीरं प्रान्ततोवृतिर्वाटः ॥ ८३२ ॥ प्राकारः परितः खाते परिखा परिखातनम् । अयोध्योज्जयिनी माया मिथिला मृत्तिकावती ॥ ८३३ ॥ कौशाम्बी मधुरा राढा काञ्ची माहिष्मती जया । द्वारका विदिशा चम्पा स्रुघ्नं पाटलिपुत्रकम् ॥ ८३४ ॥ ;p{0106} ;l{1670} प्रतिष्ठानं पुष्पपुरमित्याद्या बहवः पुरः । पुष्करं रुद्रकोट्याख्यं केदारं पुरुषोत्तमम् ॥ ८३५ ॥ कोकामुखं कुरुक्षेत्रं रङ्गमाम्रातकेश्वरम् । कुब्जाम्रं नैमिशं पञ्चनदं बदरिकाश्रमम् ॥ ८३६ ॥ रामेश्वरं महाकालं गोकर्णं विजयेश्वरम् । ;l{1675} श्रीशैलं शम्बलं काञ्चीं पद्मनाभं प्रभासकम् ॥ ८३७ ॥ सालग्रामं गयां काशीं प्रयागं वामनाश्रमम् । पुण्यारण्यं कनखलं द्वारकां च महालयम् ॥ ८३८ ॥ प्राहुर्विमुक्तिस्थानानि कोणार्कप्रमुखान्यपि । निषद्या त्वापणः पण्यवीथी तु विपणिः स्त्रियाम् ॥ ८३९ ॥ ;l{1680} हट्टस्तु पण्यभूमिः स्याज्जुटङ्को लवणापणः । प्रतोली विशिखा रथ्या बहिर्द्वास्ततोरणोऽस्त्रियाम् ॥ ८४० ॥ पूर्द्वाःकूटं हस्तिनखः पुरद्वारं तु गोपुरम् । गृहमुदवसितं निकेतमोकः शरणमगोरनिशान्तधाम वस्त्यम् ॥ ८४१ ॥ सदनभवनवेश्मसद्मगेहावसथनिवेशनमन्दिरास्पदानि । ;l{1685} केचिदावसथं पुंसि निकेतं च प्रचक्षते ॥ ८४२ ॥ गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ । क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥ ;p{0107} उटजोऽस्त्री पर्णशाला चन्द्रशाला शिरोगृहम् । चतुःशालं संजवनं छात्रादिनलयो मठः ॥ ८४४ ॥ ;l{1690} विहारः सौगतावासश्चैत्यमायतनं समे । प्रपा पानीयशाला स्यात् सत्रशाला प्रतिश्रयः ॥ ८४५ ॥ अपवरकं गर्भगृहं प्रासादो देवभूभुजां सदनम् । सौधोऽस्त्री राजगृहं धनिकगृहं पुंनपुंसकं हर्म्यम् ॥ ८४६ ॥ वेश्याजनाश्रयो वेशो मण्डपोऽस्त्री जनाश्रयः । ;l{1695} हस्तिनां चतुरं शाला वाजिशाला तु मन्दुरा ॥ ८४७ ॥ अन्वासनं कारुगृहमरिष्टं सूतिकागृहम् । संदाननी गवां शाला संधानी कुप्यशालिका ॥ ८४८ ॥ गञ्जा तु मदिराशाला चित्रशाला तु जालिनी । श्रावेशनं शिल्पशाला पक्षिशाला तु नालिका ॥ ८४९ ॥ ;l{1700} संवासनं कर्मशाला पाकशाला महासनम् । क्लीबे तु कायमानं स्यादुपकार्योपकारिका ॥ ८५० ॥ आवालीर्भट्टिगेहाली निगमस्तु वणिक्पथः । द्वाः स्त्री द्वारं प्रतीहारः पक्षद्वारे तु पक्षकः ॥ ८५१ ॥ प्रच्छन्नमन्तर्द्वारं स्याद्भित्तिः कुड्यं नपुंसकम् । ;l{1705} वेश्मस्थूणा गृहस्थूणं वेदिका तु वितर्दिका ॥ ८५२ ॥ द्वारस्योपरि यद्दारु नासा यद्दार्वधःशिला । उत्तरङ्गस्तु यत्तिर्यग् दारु नासोपरि स्थितम् ॥ ८५३ ॥ ;p{0108} तोरणस्योपरिस्थं यद्दाम वन्दनमालिका । स्यात् कवाटं त्रिष्वररं तद्विष्कम्भेऽर्गलार्गलम् ॥ ८५४ ॥ ;l{1710} सूचिरल्पार्गला तुल्ये द्वारयन्त्रं तु तालकम् । तदुद्घाटनयन्त्रं तु कुञ्चिका प्रतितालिका ॥ ८५५ ॥ कुट्टिमोऽस्त्री निबद्धा भूरङ्गणं चत्वराजिरे । वलभी छादनं वक्रदारु गोपानसी स्त्रियाम् ॥ ८५६ ॥ कपोतपालिकायां स्याद्विटङ्कं पुंनपुंसके । ;l{1715} नीव्रं वलीकमस्यान्ते चोलो ना पटलं छदिः ॥ ८५७ ॥ गृहावग्रहणी देहल्यथ द्वारप्रकोष्ठके । प्रघाणः प्रघणोऽलिन्दः पिण्डकश्च चतुष्टये ॥ ८५८ ॥ बन्धालीर्मुण्डकं तस्य पार्श्वयोश्छादनं दली । शिलास्थूणादिषूत्कीर्णा वनिता सालभञ्जिका ॥ ८५९ ॥ ;l{1720} वंशो गृहोर्ध्वके काष्ठे स्त्रीगृहं तु महीभृताम् । अन्तःपुरं तु शुद्धान्तावरोधाववरोधनम् ॥ ८६० ॥ स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च । विच्छन्दकविभेदाः स्युर्मेदिनीपतिवेश्मनाम् ॥ ८६१ ॥ द्वयोः प्रणाली हर्म्यादिजलनिर्गमपद्धतिः । ;l{1725} आरोहणं तु सोपानं निश्रेणिरधिरोहिणी ॥ ८६२ ॥ ;p{0109} स्थूणा तु भवनस्तम्भे स्वल्पस्थूणा तु पाटिका । मेध्री स्यात् पाटिकामूर्ध्नि स्थूणाशीर्षे शिली शिला ॥ ८६३ ॥ कला कपोतायनिका संधिः पटलकुड्ययोः । वातायनं गवाक्षं स्याज्जालकं पीठमासनम् ॥ ८६४ ॥ ;l{1730} अपटीका काण्डपटी प्रतिसीरा यवनिका तिरस्करिणी । शय्या शयनं तल्पं शयनीयं तलिममास्तरणम् ॥ ८६५ ॥ खट्वा तु मञ्चपर्यङ्कपल्यङ्काः पुंसि च स्त्रियाम् । उपधानं तूपबर्हः पतद्ग्राहः प्रतिग्रहः ॥ ८६६ ॥ समुद्रकः संपुटक उल्लोचोऽस्त्री वितानकम् । ;l{1735} वस्त्रवेश्म स्थुलं दूष्यं गृहचन्द्रस्तु दर्पणः ॥ ८६७ ॥ आदर्शो मुकुरो दीपप्रदीपौ तु प्रदीपिका । संमार्जनी शोधनी स्यात् संकरावकरौ समौ ॥ ८६८ ॥ प्रसाधनी कङ्कतिका पिष्टातः पटवासकः । परिवारः परिकरः परिबर्हः परिच्छदः ॥ ८६९ ॥ ;l{1740} आर्द्रा जलार्द्रा व्यजने वास्त्रे जलसमुक्षिते । व्यजनं तालवृन्तं स्यात् समौ गेण्डुककन्दुकौ ॥ ८७० ॥ कन्दुकास्फालने स्त्रीणां चापे यस्तटितामिव । सैव गोमूत्रिकाथ स्यात् सविलासः स मनोहरः ॥ ८७१ ॥ ;p{0110} पञ्चावर्तप्रहारो यः पञ्चबिन्दुर्मृगीदृशाम् । ;l{1745} शतपदगमनं तु गीतमार्गः सरसविलासमनोहरं युवत्याः ॥ ८७२ ॥ अविरलविरलः पदक्रमो यश्चतुरगमागमनेषु चूर्णपादः । कोष्ठागारं कुसूलं स्याद्वस्त्रकोशो वाटकम् ॥ ८७३ ॥ वस्त्रं निवसनमंशुकमम्बरमाच्छादनं वासः । वसनं चेलं सिचयः पुंसि सुचेलो द्वयोस्तु पटशाटौ ॥ ८७४ ॥ ;l{1750} परिधानान्तरीयोपसंव्योनान्यधराम्बरे । प्रावार उत्तरासंगस्तस्मिन् बृहतिका स्त्रियाम् ॥ ८७५ ॥ शय्यास्वङ्गप्रावरणं यदसावुत्तरच्छदः । संव्यानमुत्तरीयं स्याच्चोलः कूर्पासमस्त्रियाम् ॥ ८७६ ॥ तद्भेदे चोलकः पुंसि वराशिः स्थूलशाटकः । ;l{1755} निचोलः प्रच्छदपट उष्णीषं शीर्षवेष्टनम् ॥ ८७७ ॥ पटच्चरं जीर्णविस्त्रं पुंसि नक्तककर्पटौ । परिवीतं त्रिषूत्सृष्टं निवीतं प्रावृतं त्रिषु ॥ ८७८ ॥ नवाम्बरं निष्प्रवाणि तन्त्रकं च समं त्रयम् । गात्रिका तु स्त्रियां गात्रे गाढग्रन्थिमदंशुकम् ॥ ८७९ ॥ ;l{1760} वस्त्रे तु चीवरं चीरं चीरा चीवरिका स्त्रियाम् । पत्रोर्णं धौतकौशेयं राङ्कवं मृगरोमजम् ॥ ८८० ॥ ;p{0111} नीशारः स्यात् प्रावरणं हिमवातनिवारणम् । स्याल्लाक्षिकं रौचनिकं शाकलं कार्दमं क्रमात् ॥ ८८१ ॥ त्रिषु लाक्षादिना रक्ते युगलं धौतवस्त्रयोः । ;l{1765} यत्तदुद्गमनीयं स्याद्दशा स्त्री भूम्नि वर्तयः ॥ ८८२ ॥ अर्धोरुकं वरस्त्रीणां चण्डातकमथोच्चयः । नीवी च वसनग्रन्थौ वस्त्रान्ते त्वञ्चलोऽस्त्रियाम् ॥ ८८३ ॥ वायस्तु तन्तुसंतानो वेमा ना वायदण्डकः । सूत्राणि तन्तवो द्वौ तु समौ रल्लककम्बलौ ॥ ८८४ ॥ ;l{1770} कक्ष्या तु चल्लणं कच्छः कौपीनं मलमूलकम् । कञ्चुको वारवाणोऽस्त्री तद्भेदे कञ्चुली स्त्रियाम् ॥ ८८५ ॥ निर्णिक्तं शोधितं मृष्टं धौतं वीध्रमपि त्रिषु । तत्तद्रक्ते तु काषायमञ्जिष्टप्रमुखं त्रिषु ॥ ८८६ ॥ शुक्लशुचिशुभ्रधवलश्वेतवलर्क्षावदातसितहरिणाः । ;l{1775} पाण्डरपाण्डुरविशदश्वेतार्जुनगौरपाण्डवश्व समाः ॥ ८८७ ॥ कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः । रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥ पीतो हारिद्राभो गौरो हरितो हरिच्च पालाशाः । श्यावः कपिशो धूमलधुम्रौ कृष्णारुणोऽथ पिङ्गः स्यात् ॥ ८८९ ॥ ;l{1780} कडारः कपिलः कद्रुः पिशङ्गः पिङ्गलश्च सः । ;p{0112} चित्रकर्बुरकिर्मीकल्माषैताः सशारकाः ॥ ८९० ॥ शबलोऽथ गुणाः पुंसि गुणिनस्तद्वति त्रिषु । एतैनी सैव सारङ्गी कल्माषी कर्बुरा च सा ॥ ८९१ ॥ रोहिणी लोहिनी शोणी रोहिता लोहितारुणा । ;l{1785} शोणा श्येनी सिता श्येता हरिता हरिणी तथा ॥ ८९२ ॥ प्रस्फोटनं शूर्पमस्त्री तितउः पुंसि चालनी । कटः किलिञ्जः कण्डोलः पिटः स्यूतः प्रसेवकः ॥ ८९३ ॥ अस्त्री तु मुसलोऽयोग्रमुदूखलमुलूखलम् । तुषस्तु त्वचि धान्यानामवघातस्तु खण्डनम् ॥ ८९४ ॥ ;l{1790} फलीकृतास्तण्डुलाः स्युः शम्बूकास्तत्कणाः स्त्रियः । तन्मलं पुंसि शम्बूको ज्येष्ठाम्बु स्यात्तदम्बुनि ॥ ८९५ ॥ अवगाहो जलद्रोणिः कटाहः कर्परः समौ । स्थाल्युखा पिठरः कुण्डं मणिकं तु त्रिलिङ्गकम् ॥ ८९६ ॥ अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः । ;l{1795} कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥ आलूर्गलन्तिका तुल्ये शृङ्गारः कनकालुका । पारी तु स्वल्पकलशी कलशे(शी?) कर्परः पुमान् ॥ ८९८ ॥ ;p{0113} समौ करङ्ककरकौ विधानं स्यादुदञ्चनम् । शालाजिरो वर्धमानः शरावं पुंनपुंसकम् ॥ ८९९ ॥ ;l{1800} भद्रकुम्भः पूर्णकुम्भ उष्ट्रिका मदिरादिभृत् । कन्दुर्ना स्वेदनो भ्राष्ट्रोऽम्बरीषमथ कौशिका ॥ ९०० ॥ मल्ली मल्लोऽथ मञ्जूषा पेटा पिटकपेटकौ । स्नेहपात्रे कुतूः कृत्तेः सैवाल्पा कुतुपः पुमान् ॥ ९०१ ॥ हसन्त्यङ्गारशकटी हसन्यङ्गारधानिका ॥ ९०२ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे पुराध्यायः पञ्चदशः ।} ;v{उक्तिभेदाध्यायः} ;c{उक्तिभेदाध्यायः} ;l{1805} उक्तिस्तु व्याहृतिर्वाक्यं भाषितं वचनं वचः । निगादनिगदालापव्याहाराश्चोत्तरे त्रिषु ॥ ९०३ ॥ अभिहितभणितव्याहृतगदितेरितकथितजल्पितालपितम् । आख्यातरटितशंसितकीर्तितगीतोदितोक्तगीर्णानि ॥ ९०४ ॥ श्लोकः कीर्तिः समज्ञा च यशः श्लाघा तु कत्थनम् । ;l{1810} स्तुतिः शंशा नुतिः स्तोत्रमीडनं स्तवनं स्तवः ॥ ९०५ ॥ ;p{0114} स्यादाख्याह्वाभिधा संज्ञा नामधेयं च नाम च । हूतिराकरणाह्वाने संहूतिर्बहुभिः कृता ॥ ९०६ ॥ शास्त्रे शब्दो वाचको वाचिकं स्यात् संदेशार्थः सुप्तिङन्तं पदं स्यात् । आशीः स्त्री वाङ्मङ्गलार्थानुरागा- ज्जातः शब्दः स्यात् प्रणादः परौ तु ॥ ९०७ ॥ ;l{1815} चटुश्चाटुश्च वा क्लीबे भर्त्सनं त्वपवादगीः । स्यादामन्त्रणमाप्रश्न श्राहूतिस्तु निमन्त्रणम् ॥ ९०८ ॥ प्रवृत्तिवार्ते वृत्तान्त उदान्तोऽथ जनश्रुतिः । किंवदन्त्यशरीरा तु वागेवाकाशभारती ॥ ९०९ ॥ कर्णाकर्णी तु वाक्कर्णपारंपर्यप्रवर्तनी । ;l{1820} उपालम्भः सनिन्दोक्तिरर्थवादः प्रशंसनम् ॥ ९१० ॥ आक्षेपावर्णनिर्वादपरिवादापवादकाः । क्लीबे विगानकौलीने अभिशापोऽभिशंसनम् ॥ ९११ ॥ शापोऽधिक्षेप आक्रोश उपक्रोशो विगर्हणा । कुत्सा निन्दा जुगुप्सा च लोटना सानुसारवाक् ॥ ९१२ ॥ ;l{1825} रुशती वागशुभा स्यात् पृच्छा प्रश्नोऽनुयोगश्च । प्रतिवचनमुत्तरं स्यादुच्चैर्घुष्टं तु घोषणाथ स्यात् ॥ ९१३ ॥ ;p{0115} मिथ्याभियोगोऽभि(भ्या?)ख्यानं प्रजल्पस्तु बहूदितम् । पुमानाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ॥ ९१४ ॥ प्रस्तावोपक्रमोद्घातप्रारम्भप्रक्रमाः समाः । ;l{1830} उपोद्घात उदाहार आख्यानं पूर्वसंकथा ॥ ९१५ ॥ इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणम् । ब्रह्माण्डपाद्मवैष्णवभागवताग्नेयशैवलैङ्गानि ॥ ९१६ ॥ ब्राह्मस्कान्दभविष्यद्वामनवाराहनारदीयानि । गारुडब्रह्मवैवर्तमार्केण्डेयानि मात्स्यकम् ॥ ९१७ ॥ ;l{1835} कौर्मं चाष्टादशैतानि तावन्त्यन्यानि संख्यया । सनत्कुमारताण्डवमानवमारीचवायवीयानि ॥ ९१८ ॥ कालिककापिलभार्गववारुणदौर्वाससानि माहेशम् । कौमारनारसिंहब्रह्माण्डौशनससौरसाम्बानि ॥ ९१९ ॥ पाराशरमथ वृत्तं मन्दाक्रान्तावसन्ततिलकादि । ;l{1840} मन्वत्रिविष्णुहारीतसंवर्तयमगौतमाः ॥ ९२० ॥ पराशरव्यासशङ्खलिखितोशनसोऽङ्गिराः । कात्यायनो याज्ञवलक्यः शातातपबृहस्पती ॥ ९२१ ॥ आपस्तम्बो वसिष्ठश्च दक्षश्च स्मृतिकारकाः । समीक्ष्यं सांख्यशास्त्रं स्याद्गान्धर्वं गीतिशासनम् ॥ ९२२ ॥ ;l{1845} अन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः । शब्दविद्या व्याकरणं निघण्टुर्नामशासनम् ॥ ९२३ ॥ ;p{0116} काव्यं कृतिः प्रबन्धश्च तत्र श्लेषादयो गुणाः । अलंकाराः स्युरुत्प्रेक्षाश्लेषाक्षेपोपमादयः ॥ ९२४ ॥ कथा नानाविधैर्गद्यैर्वस्तुवैचित्र्यकल्पना । ;l{1850} आख्यायिकोपलब्धार्था सोच्छ्वासा दृढबन्धना ॥ ९२५ ॥ द्वित्रिरुदीरितमाम्रेडितमथ शोकेन भीत्यादेः । काकुः स्त्री ध्वनिविकृतिर्व्यवहारोऽक्षो विवादश्च ॥ ९२६ ॥ आभाषणं स्यादालापः संलापोऽन्योन्यभाषणम् । विप्रलापो विरोधोक्तिः सुप्रलापः सुभाषितम् ॥ ९२७ ॥ ;l{1855} निह्नवस्त्वपलापः स्यादनुलापो मुहुर्वचः । हाहतोऽस्मीति वचनं विलापः परिदेवनम् ॥ ९२८ ॥ वञ्छावचनमुल्लापः काक्का वचनमव्ययम् । प्रलापोऽनर्थकं वाक्यमनुवादोऽनुभाषणम् ॥ ९२९ ॥ संवादस्त्वानुकूल्यार्थे विसंवादी विपर्यये । ;l{1860} उत्प्राशः स्यादुपालम्भो लल्लरो जिह्वया हते ॥ ९३० ॥ वाक्ये तु गलमूलस्थे कल्लिर्ना जिह्वया हते । तुम्बको गद्गदोऽस्पष्टं सान्त्वं तु मधुरं वचः ॥ ९३१ ॥ स्फुटं स्पष्टमथास्पष्टं म्लिष्टं पथ्यं हितार्थकम् । अम्बूकृतं सनिष्ठीवं निर्दोषं तु समाहितम् ॥ ९३२ ॥ ;p{0117} ;l{1865} अनक्षरमवाच्यं स्यात् स्यान्मृषार्थकमाहतम् । निरस्तं त्वरितं प्रोक्तं संगतं हृदयंगतम् ॥ ९३३ ॥ असंगतमबद्धं स्यान्निष्ठुरं परुषार्थकम् । सूनृतं प्रियमश्लीलं ग्राम्यं लुप्तपदाक्षरम् ॥ ९३४ ॥ ग्रस्तं सत्यमृतं तथ्यमसत्यं वितथानृते । ;l{1870} अलीकं सान्त्वमुख्यानि पदानि त्रिषु तद्वति ॥ ९३५ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे उक्तिभेदाध्यायः षोडशः ॥} ;v{नाट्याध्यायः} ;c{नाट्याध्यायः} विपञ्ची वल्लकी वीणा नकुलोष्ठी पिनाकिनी । कुब्जिकालापिनी सैव सारङ्गी शततन्त्रिका ॥ ९३६ ॥ तन्त्रीभिः सप्तभिः सैव संयुता परिवादिनी । तत्प्रभेदास्तु षड्कर्णः पौणो रावणहस्तकः ॥ ९३७ ॥ ;l{1875} हस्तिकोदुम्बरी चाथ वीणावादस्तु वैणिकः । महती नारदमुनेर्वीणा वाण्यास्तु कच्छपी ॥ ९३८ ॥ विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती । वीणादिकं ततं वाचं कांस्यं तालादिकं धनम् ॥ ९३९ ॥ ;p{0118} मुरजादिकमानद्धं सुषिरं वंशमुख्यकम् । ;l{1880} चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ ९४० ॥ निःसाणपटहमड्डुकदुन्दुभयः पणवझर्झरमृदङ्गाः । दर्दरवंशोड्डावुजडिण्डिमकिरिकिट्टशङ्खघर्घरकाः ॥ ९४१ ॥ पाटः कुब्जः पावो डुण्डुकिनी त्रिवलिका सुरुली । कम्रा घण्टा करटिर्मड्डुः करिका टट्टरी नादी ॥ ९४२ ॥ ;l{1885} भम्भा पविका तिमिला ढक्का धक्का च धक्कुली झक्का । पट्टवाद्यं च शृङ्गं च गोमुखं काहली द्वयोः ॥ ९४३ ॥ समाने गीतगान्धर्वे रागास्तु ललितादयः । नटनं नर्तनं नाट्यं नृत्तं लास्यं तु तन्मृदु ॥ ९४४ ॥ स्यादुद्धतं ताण्डवोऽस्त्री कैशिक्याद्यास्तु वृत्तयः । ;l{1890} तौर्यत्रिकं नृत्तगीतवाद्यं नाट्यं च तत् त्रयम् ॥ ९४५ ॥ शाखा स्यान्नृत्तहस्तानां वैचित्र्यात्मा विवर्तना । पूर्वरङ्गस्तु नान्द्यादिः करणं हरणं समे ॥ ९४६ ॥ सत्त्ववागङ्गभावानां व्यञ्जकोऽभिनयः पुमान् । अङ्गहारोऽङ्गविक्षेपो मुखं(ख)संध्यादि पञ्चकम् ॥ ९४७ ॥ ;p{0119} ;l{1895} स्युः षड्जर्षभगान्धारमध्यमाः पञ्चमस्तथा । धैवतश्च निषादश्च तन्त्रीकण्ठभवाः स्वराः ॥ ९४८ ॥ स्वरारोहावरोहः स्यान्मूर्च्छनाथ स्वरांशकाः । श्रुतयो भूमिका वेषो रङ्गः स्यान्नटनस्थलम् ॥ ९४९ ॥ भरतं नाट्यशास्त्रं स्यान्नाट्योक्तौ गणिकाज्जुका । ;l{1900} माताम्बा मारिषस्त्वार्यो वासूर्बालावुकः पिता ॥ ९५० ॥ अलिका भगिनी ज्यायस्यावुत्तो भगिनीपतिः । आर्यपुत्रः पतिर्देवो राजा भट्टारकोऽपि सः ॥ ९५१ ॥ भट्टारिका तज्जननी तत्पुत्री भर्तृदारिका । कुमारो युवराजः स्याद्राज्ञः स्यालस्तु राष्ट्रियः ॥ ९५२ ॥ ;l{1905} देवी कृताभिषेका स्त्री तदन्यास्वेव भट्टिनी । भावो विद्वानवध्योक्तावब्रह्मण्यमनुक्रमात् ॥ ९५३ ॥ हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखी प्रति । शृङ्गारवीरकरुणा हास्यरौद्रभयानकाः ॥ ९५४ ॥ बीभत्साद्भुतशान्ताश्च नव नाट्यरसा इमे । ;l{1910} स्याच्चित्तविकृतिर्भावोऽनुभावस्तस्य बोधकः ॥ ९५५ ॥ स्थायिभावो विभावाद्यैः स्थायितां प्रापितो रसः । रतिर्हासक्रोधशोकजुगुप्सोत्साहविस्मयाः ॥ ९५६ ॥ ;p{0120} भयं च स्थायिनो भावा विभावो भावदर्शकः । स्युः स्तम्भस्वेदरोमाञ्चाः स्वरसंभेदवेपथू ॥ ९५७ ॥ ;l{1915} वैवर्ण्यमश्रु प्रलय इति भावाश्च सात्त्विकाः । निर्वेदो ग्लानिशङ्कास्मृतिधृतिमतयः प्रीतिनिद्रावहित्था व्रीडेर्ष्यासुप्त्यसूया मरणमलसतोन्मादहर्षावमर्षाः । तर्कापस्मारमोहश्रममदजडिमव्याधिवेगा विषादो गर्वश्चिन्तौग्य्रदैन्ये भयमपि चपलत्वं च संचारिभावाः ॥ ९५८ ॥ स्तम्भो गदमदक्रोधविषादभयविस्मितैः । स्याद्गर्वेण मुदा चाथ घर्मसंपीडनश्रमैः ॥ ९५९ ॥ ;l{1920} सुखहर्षज्वरग्लानिक्रोधव्यायामभीतिभिः । विषेण प्रलयस्वेदसंभवः पुलकस्य तु ॥ ९६० ॥ विषामय(विषस्पर्श?)भयक्रोधशीतहर्षगदैर्भवः । मदमुत्क्रोधरुग्भीतिज्वरैः स्यात्स्वरभेदनम् ॥ ९६१ ॥ अश्रूदयस्तु शुग्धूलिजृम्भरुक्शीतभीतिभिः । ;l{1925} धूमातङ्काञ्जनासंगैरथ वैवर्ण्यसंभवः ॥ ९६२ ॥ व्याधिशीतभयक्लान्तिक्रोधतापविषस्मरैः । कम्पः स्याद्भीगदस्पर्शहर्षरोषज्वरादिभिः ॥ ९६३ ॥ ;p{0121} सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः । स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानि स्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि । प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि- ;l{1930} व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥ अलसं वलितं वक्रं मधुरं मन्दमन्थरम् । कूणितोत्कण्ठिते मन्दमभिलाषि विलासि च ॥ ९६५ ॥ एवमादीनि शृङ्गारवीक्षितानि मृगीदृशाम् । रणोत्साहोद्धतो वीरः कारुण्यं तु कृपा घृणा ॥ ९६६ ॥ ;l{1935} दयानुकम्पा करुणा तत्रानुक्रोश इत्यपि । हासो हसश्च हास्यं च तत्प्रभेदाः स्युरुत्तरे ॥ ९६७ ॥ स्मितमिह विकासिनयनं किञ्चिल्लक्ष्यद्विजाङ्कुरं हसितम् । मधुरस्वरं विहसितं सांसशिरःकम्पमुपहसितम् ॥ ९६८ ॥ अपहसितं सास्राक्षं स्यादतिहसितं विकम्पितावयवम् । ;l{1940} द्वे द्वे हसिते क्रमतस्ते ज्येष्ठे मध्यमे अधमे ॥ ९६९ ॥ रौद्रमुग्रं प्रतिभयं भीमं भीष्मं भयानकम् । भीषणं दारुणं घोरं भैरवं च भयंकरम् ॥ ९७० ॥ दशामूनि त्रिषूमे तु बीभत्सविकृते त्रिषु । साध्वसं तु भयं त्रासो दरो भीर्भीतिरित्यपि ॥ ९७१ ॥ ;p{0122} ;l{1945} अत्याहितं महाभीतिः समौ संवेगसंभ्रमौ । आश्चर्यमद्भुतं चित्रं चोद्यं पुंस्येव विस्मयः ॥ ९७२ ॥ रीढावमाननावज्ञा परिभूतिस्तिरस्क्रिया । अवहेडः परिभवः परीभावोऽप्यनादरः ॥ ९७३ ॥ मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा ह्रीतिरपत्रपा । ;l{1950} व्रीडं स्नेहः पुमान् प्रेमा प्रियता प्रेम सौहृदम् ॥ ९७४ ॥ ईप्सा लिप्सा स्पृहा वाञ्छा काङ्क्षेहेच्छातृषः समाः । तर्षो मनोरथः कामोऽभिलाषो लालसा द्वयोः ॥ ९७५ ॥ उल्लासिका स्यादुत्कण्ठारतिरुत्कालिका च सा । अमर्षप्रतिघक्रोधकोपरोषाः स्त्रियौ परे ॥ ९७६ ॥ ;l{1955} रुट्क्रुधावक्षामेर्ष्याथ संरम्भः कोपैवकृतम् । अवष्टम्भस्मयाटोपगर्वाहंकारदर्पकाः ॥ ९७७ ॥ उत्सेकश्चाभिमानश्च मानः स्यान्मानसोन्नतिः । गुणेषु दोषाविष्कारः स्यादसूयाथ शुक् स्त्रियाम् ॥ ९७८ ॥ मन्युः शोकोऽथ विद्वेषो विरोधो वैरमित्यपि । ;l{1960} समाः स्युर्विप्रतीसारपश्चात्तापानुतापकाः ॥ ९७९ ॥ क्षमा क्षान्तिस्तितिक्षा च सहनं मर्षणं समे । कण्टकोऽस्त्री रोमहर्षो रोमाञ्चः पुलकः समाः ॥ ९८० ॥ ;p{0123} परिरम्भः परिष्वङ्ग आश्लेष उपगूहनम् । आलिङ्गनं स्त्र्यङ्गपालिः समे निंसनचुम्बने ॥ ९८१ ॥ ;l{1965} उत्तरे तत्प्रभेदाः स्युर्निमितं स्फुरितं समम् । तिर्यग्भ्रान्तं सुंपुटकं जिह्वायुद्धावपीडिते ॥ ९८२ ॥ गृहीता तु बलात् पत्या नारी तेन निजाननम् । उदास्य यच्चुम्बयति तत् स्यान्निमितकाभिधम् ॥ ९८३ ॥ नायकेन मुदान्यस्तं जिघृक्षुर्नायकाधरम् । ;l{1970} न ददाति स्वोत्तरोष्ठं किञ्चित्प्रस्फुरिताधरा ॥ ९८४ ॥ यत्तत् स्फुरितकं स्त्री तु पत्या न्यस्तं निजानने । अधरं मृदु गृह्णाना स्वोष्टाभ्यां पतिलोचने ॥ ९८५ ॥ पिधाय मीलिताक्षं तद् घट्टयेन्मृदु जिह्वया । यदि घट्टितकं तत् स्यान्मुग्धायां त्रितयं चरेत् ॥ ९८६ ॥ ;l{1975} गृह्णात्यभिमुखं सर्वमधरं यदि तत् समम् । साचीकृतेन स्वोष्ठेन सर्वं चाधरपल्लवम् ॥ ९८७ ॥ वर्तुलीकृत्य दत्तं यद् गृह्यते तिर्यगेव तत् । पार्श्वस्थः पतिरुन्नाम्य चिबुकं हरिणीदृशः ॥ ९८८ ॥ ;p{0124} अवलम्ब्य कचान् गाढं भ्रामयित्वा ततोऽधरम् । ;l{1980} रसवत्परिगृह्णाति यत्तत् स्याद् भ्रान्तकाभिधम् ॥ ९८९ ॥ समतिर्यग्भ्रान्तकानां विधिनैवावपीड्य च । गृह्यते दन्तवसनं यत्तत् स्यादवपीडितम् ॥ ९९० ॥ त्रयाणां नहि पूर्वेषामस्यैवाधरपीडनम् । अङ्गुष्ठतर्जन्यग्रेण बहिराकृष्य कोमलम् ॥ ९९१ ॥ ;l{1985} अधरं दन्तवासोभ्यां पीडयेद्दशनैर्विना । तत् स्यात् संपुटकं तत्र सहासाक्षेपजल्पितम् ॥ ९९२ ॥ जिह्वायुद्धं यदि भवेत्तज्जिह्वायुद्धसंज्ञकम् । पूर्वं प्रसुप्तां दयितामागत्य निभृतं पतिः ॥ ९९३ ॥ तस्याश्चुम्बति बोधार्थमधरं रसनिर्भरम् । ;l{1990} शायिकाचुम्बनं तत् स्यादथ स्त्रीप्रेयसोर्मिथः ॥ ९९४ ॥ सानुरागप्रतीत्यर्थं यद्भित्तिमुकुरादिषु । प्रतिमाचुम्बनं यत्तच्छायाचुम्बनसंज्ञकम् ॥ ९९५ ॥ मैथुनं स्यान्निधुवनं कुहरं सुरतं रतम् । याभसंवेशनिर्वेशग्राम्यधर्मव्यवायकाः ॥ ९९६ ॥ ;l{1995} रतिरिन्द्राणिकाद्यं तु करणं रतिबन्धनम् । नखक्षतं नखपदं नखाङ्कोऽस्त्री नखव्रणः ॥ ९९७ ॥ ;p{0125} अधरनितम्बोरुगलस्तनगण्डारचितमात्तरोमाञ्चम् । अस्पष्टरेखमतिमृदुनखकर्माच्छुरितमवधिजातरुजम् ॥ ९९८ ॥ ग्रीवायां स्तनयोर्वा नखरपदं वक्रमर्धचन्द्रं स्यात् । ;l{2000} तत्रान्योन्याभिमुखं रचितौ तावेव मण्डलकम् ॥ ९९९ ॥ द्वित्र्यङ्गुलायता नाभीवङ्क्षणोरुककुन्दरे । कृता नखक्षती रेखा स्यात्तु तत्रैव सा यदि ॥ १००० ॥ वक्रैव व्याघ्रनखरं ता मयूरपदं नखैः । पञ्चभिः स्तनयोः क्लृप्ताश्चूचुकाभिमुखा यदि ॥ १००१ ॥ ;l{2005} न संगतानि प्रत्येकं वक्राणि च कुचाग्रके । स्पष्टानि पञ्चनखरपदान्येव शशप्लुतम् ॥ १००२ ॥ यदुत्पलपलाशस्य प्रत्तिमाकृति दृश्यते । स्तनयोर्वा नितम्बे वा स्यात्तदुत्पलपत्रकम् ॥ १००३ ॥ स्मारकं तु प्रवसता पत्यात्मस्मृतिकारणात् । ;l{2010} दत्ता क्षतिस्त्रिचतुरस्वरूपा जघने स्तने ॥ १००४ ॥ ऊर्वोर्वा स्यात्तु नवमं दन्तानां कर्म नर्मजम् । [--------------------------- गूढकम् ] ? अधरे वामगण्डे वा तदेवातिनिपीडनात् ॥ १००५ ॥ किञ्चिदुन्नतमुच्छूनं कौशलेनैव कल्पितम् । बिन्दुरोष्ठेऽल्पदेशायास्त्वचो दन्तद्वयक्षतिः ॥ १००६ ॥ ;p{0126} ;l{2015} अथ दन्तोष्ठसंयोगाभ्यासवैदग्ध्यतोऽधरे । दन्तक्षती रागमात्रचिह्ना क्षतविवर्जिता ॥ १००७ ॥ स्यात् प्रवालमणिर्बिन्दुमाला तूरुललाटयोः । बहुबिन्द्वात्मकं दन्तद्वितयारचितं क्षतम् ॥ १००८ ॥ वङ्क्षणालीकवक्षस्सु गले च रदनैः कृता । ;l{2020} या क्षतिर्मणिमाला सा बिन्दुमालानुकारिणी ॥ १००९ ॥ सृक्वदन्तद्वयाग्रैकसाध्यं युक्तं समन्ततः । पृथुमध्यमसूक्ष्मैः स्यात् खण्डाभ्रं दशनक्षतैः ॥ १०१० ॥ स्तनयोर्मण्डलाकारमथ बह्व्योऽरुणान्तराः । दीर्घा वक्षोरुहतटे वैदग्ध्येन विनिर्मिताः ॥ १०११ ॥ ;l{2025} दशनक्षतरेखाश्चेत् संहताः क्रोडचर्वितम् । अवहित्थं न नाकारगुप्तिरश्रु तु रोदनम् ॥ १०१२ ॥ प्रास्त्रमस्रं पुमान् बाष्पः स्यादथान्यस्य वतुस्नः । अन्यथाकरणं माया स्वत एवासतः पुरा ॥ १०१३ ॥ सद्रूपोत्पादनं वा स्यादथ मन्त्रौषधादिभिः । ;l{2030} अदेशकालपारोक्ष्यं परोक्षस्यैव वस्तुनः ॥ १०१४ ॥ इन्द्रजालं प्रमीला तु भृकुटिभ्रूकुटी स्त्रियौ । तन्द्री तन्द्रा च कम्पस्तु वेपो वेपथुरेजनम् ॥ १०१५ ॥ ;p{0127} मोहो मूर्च्छा कश्मलं च रिङ्खणस्खलने समे । कौतुकं कुतुकं कौतूहलं चापि कुतूहलम् ॥ १०१६ ॥ ;l{2035} अपदेशोपधिव्याजदम्भाः कपटमस्त्रियाम् । छलं लक्षं पदं छद्म कैतवं कृतकं मिषम् ॥ १०१७ ॥ छलना तु न ना शाठ्यं कुसृतिर्निकृतिः स्त्रियौ । प्रतारणातिसंधानवञ्चनानि प्रलोभनम् ॥ १०१८ ॥ अकृत्याचरणं यत्तदासुरं विप्रलम्भनम् । ;l{2040} कुहना त्वव्यये क्रुष्टं क्रन्दितं रुदितं समम् ॥ १०१९ ॥ अविज्ञातेङ्गिताकारो भावो गाम्भीर्यमुत्सवः । उद्धवः क्षण उद्धर्षो महो मान्द्यमपाटवम् ॥ १०२० ॥ विप्रलम्भो विसंवादो जृम्भस्तु त्रिषु जृम्भणम् । द्रवः केलिः परीहासः क्रीडा लीला च नर्म च ॥ १०२१ ॥ ;l{2045} मृगीदृशां च लीलाद्याः क्रियाः शृङ्गारभावजाः । प्रियानुकरणं लीला मनोवागङ्गचेष्टितैः ॥ १०२२ ॥ वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः । त्वस्या कल्पितोऽभीष्टदर्शने यः स विभ्रमः ॥ १०२३ ॥ प्रेयसः संगसमये दृष्टिभ्रूवक्त्रकर्मणाम् । ;l{2050} विशेषो यो विलासः स्याद्विच्छित्तिस्तु स्वमण्डने ॥ १०२४ ॥ ;p{0128} वस्त्रमालाङ्गरागादेर्न्यासोऽनादरकर्मणा । रुदितस्मितहर्षादेः संकरः किलिकिञ्चितम् ॥ १०२५ ॥ प्रियलीलाकथालापहेलास्तुतिनिदर्शनैः । तद्भावभावितं मोट्टायितमेवाथ योषिताम् ॥ १०२६ ॥ ;l{2055} सौख्योपचारैः सानन्दाधरकेशग्रहादिभिः । दुःखोपचारवत् कुप्येद् बहिः कुट्टमितं तु तत् ॥ १०२७ ॥ सुकुमारोऽङ्गविन्यासः सभ्रूनेत्राधरक्रियः । ललितं विहृतं तु स्यात् प्राप्तकालमनुत्तरम् ॥ १०२८ ॥ मानेर्ष्याभ्यां स्वभावाद्वा लज्जातिशयतोऽपि वा । ;l{2060} वसुधापर्वतारण्यचतुष्पात्खगपट्टणैः ॥ १०२९ ॥ उक्तिनाट्यादिभिश्चाष्टावध्याया इह निर्मिताः ॥ १०३० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे नाट्याध्यायः सप्तदशः ।} ;c{॥ इति द्वितीयः काण्डः समातः ॥} ;k{तृतीयः काण्डः} ;v{मनुष्याध्यायः} ;c{मनुष्याध्यायः} मानवा मनुजा मर्त्या मनुष्या मानुषा नराः । पुरुषाः स्युः पञ्चजनाः पुमांसः पूरुषा नरः ॥ १०३१ ॥ ;p{0129} पौरुषं पौरुषेयं च पुरुषाणां कदम्बके । ;l{2065} मानुष्यकं मनुष्याणामथ स्त्री वनिता वधूः ॥ १०३२ ॥ अङ्गना योषिदबला नारी वामा नितम्बिनी । प्रतीपदर्शिनी योषा कामिनी वामलोचना ॥ १०३३ ॥ ललना रमणी रामा महिला तनुमध्यमा । तन्वी सीमन्तिनी कान्ता प्रमदा वरवर्णिनी ॥ १०३४ ॥ ;l{2070} वरारोहा मत्तकाशिन्यभीष्टा वल्लभा प्रिया । सती पतिव्रता साध्वी कल्याणी पतिदेवता ॥ १०३५ ॥ अपांसुला सुचारित्रा भामिनी कोपना समे । कुलपालिका कुलस्त्री भार्या पत्नी सधर्मिणी जाया ॥ १०३६ ॥ स्युः पुंसि भूम्नि दाराः स्याच्च पुरन्ध्री कुटुम्बिनी गृहिणी । ;l{2075} क्लीबे कलत्रमध्यूढाधिविन्नाथ स्वयंवरा ॥ १०३७ ॥ वर्या पतिंवरा कन्या कुमारी नागतार्तवा । सा तु दृष्टरजा राका चिरण्टी स्यात् सुवासिनी ॥ १०३८ ॥ पतिवत्नी भर्तृमती प्राज्ञा प्राज्ञी च धीमती । समाः स्नुषावधूजन्यास्तरुणी युवतिः समे ॥ १०३९ ॥ ;l{2080} पाञ्चालिका पुत्रिका स्त्री वस्त्रदन्तादिनिर्मिता । स्याल्लेप्यमय्यञ्जलिका निष्कला विगतार्तवा ॥ १०४० ॥ स्यात् स्त्रीधर्मिण्युदक्याविरात्रेयी मलिनी तथा । रजस्वला पुष्पवती ऋतुमत्यार्तवं रजः ॥ १०४१ ॥ ;p{0130} पुष्पं सखी वयस्याली दूती संचारिका समे । ;l{2085} गर्भिण्यापन्नसत्त्वा स्यादन्तर्वत्नी च गुर्विणी ॥ १०४२ ॥ नग्निका स्त्री कोट्टवी स्यात् सैरन्ध्री शिल्पकारिका । विदग्धा वाणिनी धूर्ता स्वैरिणी पुंश्चलीत्वरी ॥ १०४३ ॥ धर्षिणी कुलटा बन्धक्यसती पांसुला च सा । विश्वस्ता विधवा रण्डा जातापत्या प्रसूतिका ॥ १०४४ ॥ ;l{2090} प्रजाता च प्रसूता च गार्भिणं गर्भिणीगणः । रूपाजीवा तु गणिका वेश्या वारविलासिनी ॥ १०४५ ॥ पण्याङ्गना सत्कृता सा वारमुख्याथ तद्गणः । गाणिक्यं तद्भृतौ भोगः कृट्टनी शंभली समे ॥ १०४६ ॥ आशीःस्वस्त्ययनाभिज्ञा वृद्धवेश्या महत्तरी । ;l{2095} भुजंगः पल्लवो धूर्तो विटः षिद्गः समा इमे ॥ १०४७ ॥ मैथुनेच्छावती या सा वृषस्यन्ती च कामुकी । रत्यै कान्तार्थिनी यैति संकेतं साभिसारिका ॥ १०४८ ॥ नाथः कामयिता पतिर्वरयिता कभ्रो धवः कामनो भर्ता प्राणसमः प्रियः सहचरः कान्तोऽभिकः कामुकः । प्राणेशः कमितानुगो रतिगुरुर्नेता वरो वल्लभो निर्वेष्टा परिणायकश्च कमनोऽभीकश्च सध्य्रङ् सुहृत् ॥ १०४९ ॥ ;l{2100} अशिश्वी शिशुहीना स्यादवीरा निर्धवात्मजा । स्त्रैणं स्त्रीणां समूहे स्याद्युवतीनां तु यौवतम् ॥ १०५० ॥ ;p{0131} स्त्रीपुंसलक्षणा पोटा वीरमाता तु वीरसूः । उपाध्यायान्युपाध्यायी मातुलानी तु मातुली ॥ १०५१ ॥ आचार्यानी च पुंयोग अर्यी च क्षत्रियीति च । ;l{2105} अथोपाध्याय्युपाध्याया क्षत्रिया क्षत्रियाण्यपि ॥ १०५२ ॥ अर्यार्याणी तथाचार्या सप्त पुंयोगवर्जिताः । स्यादाभीरी महाशूद्री जातिपुंयोगयोः समा ॥ १०५३ ॥ शूद्रा तु जातावेव स्याच्छूद्री शूद्रस्य योषिति । विप्रश्निका त्वीक्षणिका दैवज्ञा च समा इमाः ॥ १०५४ ॥ ;l{2110} उद्भवो जातिरुत्पत्तिर्जनिर्जननजन्मनी । जनुश्च चेतनो जन्मी जन्तुर्जन्युः शरीरभाक् ॥ १०५५ ॥ प्रेतः परेतविगतासुमृतप्रमीत- प्राप्तान्तसंस्थितपरासुविलीननष्टाः । एते दश त्रिषु कटः कुणपः शवोऽस्त्री चित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥ लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता । ;l{2115} मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥ आयुर्जीवितकालः स्यादरिष्टं मृतिलक्षणम् । प्रायो वयोऽसवः प्राणाः पुंसि भूम्न्यथ जीविका ॥ १०५८ ॥ आजीवश्चेष्टनं त्वीहा जीवातुर्जीवनौषधम् । ;p{0132} श्मशानं स्यात् पितृवनं रुद्रावासः परेतभूः ॥ १०५९ ॥ ;l{2120} देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः । वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥ शरीरमङ्गेऽवयवप्रतीकापघनास्त्रयः । अस्त्रियामङ्घ्रिचरणौ पादः पत् पदमस्य तु ॥ १०६१ ॥ अग्रे स्यात् प्रपदं गुल्फौ तद्ग्रन्थी घुटिके तयोः । ;l{2125} अधः पार्ष्णिः पुमान् जङ्घा प्रसृता जानु न द्वयोः ॥ १०६२ ॥ अष्ठीवदस्त्री जानूर्वोः पर्वोर्वष्ठीवमित्यदः । ऊरुश्चाष्ठीवदित्येते सक्थ्यूरुः पुंसि वङ्क्षणः ॥ १०६३ ॥ तत्सन्धावथ पायुर्ना गुदापाने अथ द्वयोः । वस्तिर्नाभेरधो नाभिर्द्वयोरेवं कटः कटी ॥ १०६४ ॥ ;l{2130} श्रोणिः कलत्रमारोहः कटिप्रोथौ स्त्रियां स्फिजौ । पश्चाद्भागो नितम्बोऽस्त्री स्त्रीकट्या जघनं पुरः ॥ १०६५ ॥ नितम्बे कूपकौ यौ तौ क्लीबे स्यातां कुकुन्दरे । साधनं मेहनं शेफः शिश्नो दण्डः स्मरध्वजः ॥ १०६६ ॥ मेढ्रोऽण्डं कोशवृषणावथ योनिर्द्वयोर्भगम् । ;l{2135} उपस्थं पृष्ठवंशस्य क्लीबे स्यादधरे त्रिकम् ॥ १०६७ ॥ चरमं वपुषः पृष्ठं पिचण्डजठरोदरम् । ;p{0133} तुन्दं कुक्षिर्न ना क्रोडं वत्सो वक्ष उरः समे ॥ १०६८ ॥ मध्यमं चावलग्नं स्याद् विलग्नं मध्यमस्त्रियाम् । स्तनौ कुचौ तयोरग्रं चूचुकं भुजमूर्ध्नि तु ॥ १०६९ ॥ ;l{2140} स्कन्धोंऽसोऽस्त्री तयोः सन्धिर्जत्रुणी दोर्नपुंसके । भुजबाहू द्वयोर्मूले तयोः कक्षौ तयोरधः ॥ १०७० ॥ पार्श्वमस्त्री कफोणिस्तु कूर्परस्तस्य तूपरि । प्रकाण्डस्तदधः पुंसि प्रकोष्ठोऽथ करः शयः ॥ १०७१ ॥ पाणिर्हस्तः पञ्चशाखस्तौ युतावञ्जलिर्नरि । ;l{2145} मणिबन्धादाकनिष्ठं करस्य करभो बहिः ॥ १०७२ ॥ अङ्गुल्यः करशाखाः स्युस्तर्जनी तु प्रदेशिनी । अङ्गुष्ठस्तर्जनी मध्यानामिका च कनिष्ठिका ॥ १०७३ ॥ पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् । प्रसृतिः कुञ्चितः पाणिः पाणौ तु प्रतताङ्गुलौ ॥ १०७४ ॥ ;l{2150} त्रयश्चपेटप्रतलप्रहस्ता द्वौ तु संहतौ । स्यातां करौ सिंहतलप्रतलौ सव्यदक्षिणौ ॥ १०७५ ॥ वितस्तिः सकनिष्ठे स्यादङ्गुष्ठेऽथ प्रकोष्ठकः । ततपाण्यङ्गुलिर्हस्तः स तु मुष्ट्यैव बद्धया ॥ १०७६ ॥ पुंसि रत्निररत्निस्तु निष्कनिष्ठेन मुष्टिना । ;l{2155} पौरषं तु त्रिषूद्बाहुनृमानेऽथ सहस्तयोः ॥ १०७७ ॥ व्यामः स बाह्वास्ततयोर्यत्तु स्यात्तिर्यगन्तरम् । ;p{0134} शिरोधिः कन्धरा ग्रीवा सा तु रेखात्रयाङ्किता ॥ १०७८ ॥ कम्बुग्रीवावटुर्घाटा कृकः पुंसि कृकाटिका । कण्ठो गलो मुखं वक्त्रं लपनं वदनानने ॥ १०७९ ॥ ;l{2160} तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः । घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥ आस्यं मुखबिलं दन्ता दशना रदना रदाः । रसज्ञा रसना जिह्वा समाने तालुकाकुदे ॥ १०८१ ॥ सृक्वणी त्वोष्ठयोः प्रान्तौ चिबुकं त्वधरादधः । ;l{2165} गण्डः कपोलस्तद्भागे गल्लः स्त्री तत्परा हनुः ॥ १०८२ ॥ श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः । शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥ दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् । अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥ ;l{2170} मलं तु दूषिका दृष्ट्योस्तारकास्तु कनीनिका । अपाङ्गश्चक्षुषोरन्ते कटाक्षोऽपाङ्गदर्शने ॥ १०८५ ॥ भ्रुवौ तु चक्षुषोरूर्ध्वे लोचकस्तु मणिभ्रुवि । ललाटमलिकं फालं निटिलं गोधिरित्यपि ॥ १०८६ ॥ ऊर्णा भ्रूमध्यगावर्ते तन्मध्ये कूर्चमस्त्रियाम् । ;l{2175} उत्तमाङ्गशिरःशीर्षकानि मस्तकमस्त्रियाम् ॥ १०८७ ॥ मूर्धाथ कुन्तलं केशो वालः शिरसिजः कचः । ;p{0135} शिरोरुहोऽथ तंद्वृन्दे कौशिकं कैश्यमित्युमे ॥ १०८८ ॥ कबरी केशवेशः स्यादलकाश्चूर्णकुन्तलाः । भालगात्रे भ्रमरकाः परौ तु विशदे कचे ॥ १०८९ ॥ ;l{2180} (यौ) शीर्षण्यशिरस्यौ द्वौ काकपक्षः शिखण्डकः । केशान्तःपद्धतिः स्त्रीणां सीमन्तोऽथ कचात् परे ॥ १०९० ॥ पाशः पक्षश्च हस्तश्च प्रशंसावाचकास्त्रयः । केशबन्धविशेषे स्युर्वेणीधम्मिल्लमुख्यकाः ॥ १०९१ ॥ असंस्काराः कचाः श्लिष्टाः व्रतिनस्ते जटा सटा । ;l{2185} दोषा वातादयो वायुः पित्तं श्लेष्मा कफः समौ ॥ १०९२ ॥ व्याधिरामय आतङ्को गदो रोगो रुजा च तत् । क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥ अर्शस्तु पायुकीलः स्यात् प्रतिश्यायस्तु पीनसः । क्षुतं स्त्री क्षुत् क्षवः पुंसि कासः क्षवथुरित्यपि ॥ १०९४ ॥ ;l{2190} नाडीव्रणः पुमानीर्ममरुः क्लीबे व्रणोऽस्त्रियाम् । वमिः प्रच्छर्दिका छर्दिरुद्वान्तिर्वमथुः पुमान् ॥ १०९५ ॥ शोथस्तु श्वयथुः शोफो ग्रहणीरुक् प्रवाहिका । प्रमेहो बहुमूत्रं स्यात् स्फोटकः पिटकस्त्रिषु ॥ १०९६ ॥ क्लीबे किलाससिध्मे द्वे श्वित्रं कुष्ठं पिचुः पुमान् । ;p{0136} ;l{2195} कण्डूः खर्जूश्च कण्डूया पामा पामा विचर्चिका ॥ १०९७ ॥ कच्छूः स्त्रियामथो पादवल्मीकः स्याद्विपादिका । मन्दाभ्यान्ताभ्यमितव्याधितविकृतातुरापटुग्लानाः ॥ १०९८ ॥ आर्तामयाविरुग्णग्लास्नव उल्लाघ आमयान्मुक्तः । कल्यो निरामयो वार्तो वातरोगी तु वातकी ॥ १०९९ ॥ ;l{2200} अन्धोऽचक्षुरतीसारी यः स एवातिसारकी । न्युब्जो भुग्नः कुब्जो गडुलः कुकरः कुणिर्जडः स्तब्धः ॥ ११०० ॥ श्रोणः पङ्गुः खोडः खञ्जः कोलोऽथ केकरो वलिरः । दुश्चर्मणि शिपिविष्टः खल्वाटः खलतिरेडबधिरौ तु ॥ ११०१ ॥ अश्रुतिरथैडमूकोऽवाक्श्रुतिरपनासिको विग्रः । ;l{2205} अप्यवटीटमवभ्रटमवनाटं विनतनासिकं प्राहुः ॥ ११०२ ॥ खरणास्तु खरणसः स्यान्नःक्षुद्रः क्षुद्रनासिकः । खुरणाः खुरणस उन्नतदन्ते दन्तुर एकेक्षणः काणः ॥ ११०३ ॥ श्लेष्मलमाहुः श्लेष्मणमर्शसमर्शोयुतं तथाश्मश्रुम् । तूबरमल्पशरीरं पृश्निं खर्वस्तु वामनो ह्रस्वः ॥ ११०४ ॥ ;l{2210} मूर्च्छालो मूर्च्छितो मूर्तो मिर्मिरस्तब्धलोचनः । किलासी सिध्मलः पामरोगी पामनकच्छुरौ ॥ ११०५ ॥ कण्डूतियुक्तः कण्डूलो दद्रुरोगिणि दुद्रुलः । ;p{0137} चिल्लः पिल्लश्च चुल्लश्च क्लिन्नास्ये क्लिन्नचक्षुषि ॥ ११०६ ॥ मूकस्तु यमनो वाचि सिरालस्तु सिरान्वितः । ;l{2215} स्याच्छ्मश्रुलः श्मश्रुवति ह्रीणो ह्रीतश्च लज्जितः ॥ ११०७ ॥ लोहलः स्यादस्फुटवाक् प्रज्ञुः प्रगतजानुकः । ऊर्ध्वजानुक ऊर्ध्वज्ञुः संज्ञुः संगतजानुकः ॥ ११०८ ॥ विकलाङ्गस्तु पोगण्डो बृहत्कुक्षिः पिचण्डिलः । तुन्दिकस्तुन्दिलस्तुन्दी तिलकस्तिलकालकः ॥ ११०९ ॥ ;l{2220} केशवः केशिकः केशी गर्ह्यवादी तु कद्वदः । शिश्विदानो दुराचार उपक्रान्तश्चिकित्सितः ॥ १११० ॥ कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु । रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥ भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु । ;l{2225} रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥ पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः । असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥ पक्वं मांसं भटित्रं स्याच्छूल्यं शूलाकृतं च तत् । वल्लूरं त्रिषु तच्छुष्कं समाने तूख्यपैठरे ॥ १११४ ॥ ;l{2230} मांसभेदे तु वृक्कोऽस्त्री डिम्बः पुंस्युण्डुकोऽस्त्रियाम् । ;p{0138} समे तु तिलकक्लोम्नी समे आन्त्रपुरीतती ॥ १११५ ॥ समे तु गोर्दमस्तिष्के द्वौ गुल्मप्लीहनौ समौ । कालखण्डं यकृत क्लीबे स्नायुर्ना वस्नसा स्त्रियाम् ॥ १११६ ॥ मेदो वपा वसा नाडीसिराधमनयः समाः । ;l{2235} पश्चाद्ग्रीवासिरा मन्या किट्टं तु मलमस्त्रियाम् ॥ १११७ ॥ पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ । गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥ प्रस्त्रावो न द्वयोर्मूत्रं लाला त्वास्यभवं जलम् । सृणिका स्यन्दिनी सैव स्वेदघर्मौ निदाघवत् ॥ १११९ ॥ ;l{2240} स्यादस्थि कीकसं कुल्यं करोटिः स्त्री शिरोस्थनि । कर्परस्तु कपालोऽस्त्री नलकं त्वस्थि बाहुजम् ॥ ११२० ॥ स्याच्छरीरास्थि कङ्कालः पृष्ठास्थि स्त्री कशेरुका । वंशः पृष्ठप्रधानास्थि पार्श्वास्थिनि तु पार्शुका ॥ ११२१ ॥ त्वक् स्त्रिायमजिनं चर्म माता तु जननी प्रसूः । ;l{2245} जनयित्री सवित्री च तातो जनयिता पिता ॥ ११२२ ॥ जनकः सविता पुत्रस्तनयः सूनुरात्मजः । नन्दनस्तनया पुत्री दुहिता च सुता तयोः ॥ ११२३ ॥ समे तोकमपत्यं द्वे औरस्यस्त्वौरसोऽप्युभौ । ;p{0139} स्वजातेऽथ पितृभ्राता पितृव्यो भगिनी स्वसा ॥ ११२४ ॥ ;l{2250} स्वस्त्रीयो भागिनेयः स्याद् दौहित्रो दुहितुः सुतः । जामाता दुहितुर्भर्ता मातुर्भ्राता तु मातुलः ॥ ११२५ ॥ मातुली मातुलान्यस्य जाया धात्र्युपमातरि । पुत्रस्य तनयः पौत्रो नप्ता पौत्रस्य नन्दनः ॥ ११२६ ॥ पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु तयोः पिता । ;l{2255} ननान्दा भगिनी पत्युर्भ्रातृजाया प्रजावती ॥ ११२७ ॥ पत्न्यास्तु भ्रातरः स्यालाः स्युः पत्युर्देवृदेवरौ । भ्रातृवर्गस्य जाया या यातरस्ताः परस्परम् ॥ ११२८ ॥ भ्रात्रीयो भ्रातृजः पुत्रौ पुत्री पुत्रश्च तावुभौ । पितरौ मातापितरौ मातरपितरावथ श्वशुरौ ॥ ११२९ ॥ ;l{2260} श्वश्रूश्वशुरौ भ्राता भगिनी च भ्रातरावेतौ । पितामहश्च प्रपितामहश्चोभौ यथाक्रमम् ॥ ११३० ॥ पितरौ पितृतत्पित्रोरेवं मातामहादिकम् । दम्पती जम्पती जायापती च द्विवचोऽन्तकौ ॥ ११३१ ॥ ज्ञातेयं ज्ञातिभावे स्याद् बन्धुता तत्कदम्बके । ;l{2265} पारस्त्रैणेयकानीनौ परस्त्रीकन्ययोः सुतौ ॥ ११३२ ॥ काल्याणिनेयः कानिष्ठिनेयो माध्यमिनेयकः । ;p{0140} ज्यैष्ठिनेयश्च चत्वारः कल्याण्याद्याः सुताः क्रमात् ॥ ११३३ ॥ अथ बान्धकिनेयश्च बन्धुलश्चासतीसुतौ । कौलटेरः कौलटेय इत्युभौ कुलटासुते ॥ ११३४ ॥ ;l{2270} मातुः संभद्रपूर्वायाः सुतौ सांमातुरादिकौ । सुतौ द्वैमातुरः षाण्मातुरश्चोभौ यथाक्रमम् ॥ ११३५ ॥ द्वयोः षण्णां च मातॄणां वैमात्रेयो विमातृजः । पैतृष्वसेयः स्यात् पैतृष्वस्रीयश्च पितृष्वसुः ॥ ११३६ ॥ सुतो मातृष्वसुश्चैवं कुण्डगोलौ च जारजौ । ;l{2275} अमृते च मृते पत्यौ कृपाकन्या त्वलंकृता ॥ ११३७ ॥ समानोदर्यसोदर्यौ सगर्म्यः सहजश्च सः । सनाभयः सपिण्डाः स्युर्बन्धुस्वज्ञातिबान्धवाः ॥ ११३८ ॥ सगोत्रः स्वजनश्चाथ जारश्चोपपतिः समौ । गर्भाशयो जरायुर्ना स्यादुल्बं कललोऽस्त्रियाम् ॥ ११३९ ॥ ;l{2280} सूतिमासो वैजननो गर्भो भ्रूणः समावुभौ । स्तनंधयोत्तानशयौ स्तनपा तु स्तनंधयी ॥ ११४० ॥ वटुर्बालो माणवको माणव्यं तत्कदम्बके । ;p{0141} तारुण्यं यौवनं बाल्यं शिशुत्वं शैशवं समम् ॥ ११४१ ॥ केशादौ जरया शौक्ल्यं पलितं विस्रसा जरा । ;l{2285} जरठः स्थविरो वृद्धः प्रवया दशमी जरन् ॥ ११४२ ॥ ज्यायान् जीर्णश्च वर्षीयान् वृद्धसंघे तु वार्धकम् । पूर्वजस्त्वग्रियो ज्येष्ठो ज्यायानग्रज इत्यपि ॥ ११४३ ॥ जघन्यजकनीयांसौ कनिष्ठोऽवरजोऽनुजः । यवीयांश्च यविष्ठश्च वयस्थस्तरुणो युवा ॥ ११४४ ॥ ;l{2290} सौभ्रात्रं भ्रातृता साध्वी त्रिषु स्युर्जरठादयः । अनुलेपोऽङ्गरागः स्याद्विच्छित्तिर्वर्णकोऽस्त्रियाम् ॥ ११४५ ॥ कुङ्कुमं घुसृणं रक्तं बाह्लीकं पीतनं वरम् । वासनीयककाश्मीरधीरलोहितचन्दनम् ॥ ११४६ ॥ सेव्यपिञ्जरसंकोचपिशुनाग्निशिखानि च । ;l{2295} अगरु कृमिजं लोहं राजार्हं जाङ्गलान्नकम् ॥ ११४७ ॥ वंशक वंशिकं काकतुण्डं लघु च जाङ्गलम् । कालागर्वथ तदगरु मङ्गल्यं यत्तु मल्लिगन्धि स्यात् ॥ ११४८ ॥ कालानुसार्यजावककालेयान्यत्र पीतसारे स्युः । पीतचन्दनमर्केष्टं बालाहार्यं किरातजम् ॥ ११४९ ॥ ;l{2300} पत्राङ्गं रञ्जनं रक्तचन्दनं च कुचन्दनम् । ;p{0142} कर्पूरागरुकस्तूरीतक्कोलैर्यक्षकर्दमः ॥ ११५० ॥ घनसारसिताभ्रौ तु चन्द्राह्वो हिमवालुका । कर्पूरोऽस्त्री जातिफलजातिकोशे समे उमे ॥ ११५१ ॥ श्रीसंज्ञं देवकुसुमं लवङ्गं च परे समे । ;l{2305} तक्कोलकोशफलके त्रिषु भावितवासिते ॥ ११५२ ॥ संस्कारो गन्धमाल्याद्यैः केशादेरधिवासनम् । बहुरूपः सर्ज्जरसो रालः सर्वरसोऽपि च ॥ ११५३ ॥ स्याद्यक्षधूपोऽथ वृकधूपः स्यात् पुंसि यावनः । तुरुष्कः पिण्डकः सिल्हश्चाथ कृत्रिमधूपकः ॥ ११५४ ॥ ;l{2310} श्रीवासः पायसो रक्तशीर्षकः सरलद्रवः । श्रीवेष्टोऽथ स्थासकस्तु चर्चा चार्चिक्यमित्यपि ॥ ११५५ ॥ माल्यदाम्नी तु माला स्रक् केशमध्ये तु गर्भकः । ललामकं पुरोन्यस्तं प्रालम्बमृजुलम्बि यत् ॥ ११५६ ॥ प्रभ्रष्टकं शिखालम्बि तिर्यक् क्षिप्तं तु वक्षसि । ;l{2315} वैकक्ष्यकमथोत्तंसवतंसापीडशेखराः ॥ ११५७ ॥ शिखासु कर्णपूरे तु द्वावुत्तंसावतंसकौ । निर्माल्यं तूज्झितं माल्यमथाभरणमण्डने ॥ ११५८ ॥ विभूषणमलंकारः परिष्कारः परिष्क्रिया । ;p{0143} आवेष्ट्यारोप्यविक्षेप्यबन्धनीयैश्चतुर्विधम् ॥ ११५९ ॥ ;l{2320} कोटीरो ना किरीटोऽस्त्री मौलिर्ना मकुटं न ना । कर्णिका कुण्डलं तालपत्रं ताटङ्कमस्त्रियाम् ॥ ११६० ॥ हारो मुक्तावली मुक्तासारो मौक्तिकदाम च । गोस्तनस्तु चतुष्षष्टियष्टिः स्याच्छतयष्टिकः ॥ ११६१ ॥ देवच्छन्दो माणवको यः स षोडशयष्टिकः । ;l{2325} स्याद्यष्टिभिर्द्वादशभिरर्धमाणवकः स्मृतः ॥ ११६२ ॥ एकावल्येकयष्टिः स्याद् द्वात्रिंशदङ्गुलायता । अथ नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिका ॥ ११६३ ॥ तरलो नायकश्चोभौ हारमध्यस्थिते मणौ । ग्रैवेयं कण्ठभूषाथ लम्बनं तु ललन्तिका ॥ ११६४ ॥ ;l{2330} पत(द?)कः पुंस्युरोभूषा वस्त्रबन्धादयो भिदाः । वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ॥ ११६५ ॥ समे त्वङ्गदकेयूरे वलयं कटकोऽस्त्रियाम् । कङ्कणं करभूषा स्यादङ्गुलीयकमूर्मिका ॥ ११६६ ॥ कलापो मेखला काञ्ची रशना सप्तकीति च । ;l{2335} क्लीबे सारसनं क्षुद्रघण्टिका किङ्किणी समे ॥ ११६७ ॥ नूपुरोऽस्त्री तुलाकोटिर्मञ्जीरो हंसकः समाः । ;p{0144} आवापकः पारिहार्यमुभयं कटकान्तरे ॥ ११६८ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे मनुष्याध्यायोऽष्टादशः ।} ;v{ब्रह्माध्यायः} ;c{ब्रह्माध्यायः} अन्ववायोऽन्वयो वंशः संतानोऽभिजनः कुलम् । गोत्रं च संततिर्जात्यः कुलीनश्च महाकुलः ॥ ११६९ ॥ ;l{2340} चातुर्वर्ण्यं तु चत्वारो वर्णास्ते ब्राह्माणादयः । ब्राह्मणो बाडवो विप्रः षट्कर्मा भूसुरो द्विजः ॥ ११७० ॥ ब्रह्माग्रजन्मा यज्ञस्तु सप्ततन्तुः सवः क्रतुः । हवोऽध्वरो मखो यागो वितानं सवनं समे ॥ ११७१ ॥ इज्येष्टिर्यज्ञकर्मेष्टं पूर्तं खातादिकर्मणि । ;l{2345} यज्ञशीलो यायजूको यज्वा स्यादासुतीवलः ॥ ११७२ ॥ सोमयाजी क्रतौ यष्टा यजमानश्च दीक्षितः । सोमपाः सोमपीथी स्याच्चितवानग्निमग्निचित् ॥ ११७३ ॥ अग्न्याहितस्त्वाहिताग्निः पत्नी यज्वसधर्मिणी । सर्ववेदास्तु सर्वस्वदक्षिणं यागमिष्टवान् ॥ ११७४ ॥ ;l{2350} बृहस्पतिसवेनेष्टं येन स स्थपतिः स्मृतः । ;p{0145} सानाय्यं तु हविर्हव्यं हुतं त्रिषु वषट्कृतम् ॥ ११७५ ॥ पात्राणि स्युः स्रुवो यज्ञे स्रुग्जुहूरुपभृद्ध्रुवा । शम्याग्निहोत्रहवनी दृषच्छूर्पमुलूखलम् कपालमुसलौ कृष्णाजिनं स्फ्य उपला स्त्रियाम् ॥ ११७६ ॥ ;l{2355} दश यज्ञायुधान्येतान्यथ स्युर्वाच्यलिङ्गकाः । अपोनप्त्र्यमरुत्वत्यवास्तोष्पत्याग्निमारुताः ॥ ११७७ ॥ द्यावापृथिव्यवायव्यकायपित्र्याग्निवारुणाः । अग्निषोम्यसुनासीर्यशुक्रीयाग्नेयसौम्यकाः ॥ ११७८ ॥ ऋतव्यौषध्यमाहेन्द्रगृहमेध्याश्विना इमे । ;l{2360} एकोनविंशतिः सास्य देवतेत्यर्थवाचकाः ॥ ११७९ ॥ कुम्भस्थं मन्त्रपूतं यज्जलं सा वसतीवरी । रशना स्याद्दर्भमयी रज्जुर्यूपाङ्गवेष्टनी ॥ ११८० ॥ चषालो यूपकटको यूपाग्रं तर्म न द्वयोः । आज्यं तु दघिसंमिश्रं पृषदाज्यमथ द्वयोः ॥ ११८१ ॥ ;l{2365} अरणिर्मन्थदारुः स्यादामिक्षा दधियोगतः । शृतोष्णे क्षीर आस्तावः संस्तावो यत्र सामिनः ॥ ११८२ ॥ स्तुवन्त्यग्निष्ठमग्नेर्यत् स्थितं यूपादि संमुखे । प्रायणीयोदयनीये त्रिष्वाद्येऽन्त्ये च कर्मणि ॥ ११८३ ॥ सा सामिधेनी धाय्या च ऋगग्नेर्या समिन्धने । ;l{2370} चरुर्ना हविषः पाके प्रणयस्त्वग्निसंस्क्रिया ॥ ११८४ ॥ ;p{0146} स्त्रियां कृष्णविषाणा सा या कण्डूव्यपनोदिनी । शस्त्रं स्तोत्रं ऋचां साम्नां शंसनं स्तवनं क्रमात् ॥ ११८५ ॥ व्रीहिश्यामाकगोधूमयवमुद्गतिलाणवः । माषप्रियङ्गुनीवारकोरदूषमसूरकाः । ;l{2375} गवीधुका कुलित्थश्च यज्ञीयास्ते चतुर्दश ॥ ११८६ ॥ दीक्षान्तोऽवभृथो यज्ञकर्मार्हं यज्ञियं त्रिषु । भूमिः परिष्कृता वेदिः प्राग्वंशः प्राग्घविर्गृहात् ॥ ११८७ ॥ परंपराकं शसनं प्रोक्षणं च पशोर्वधे । धर्मः प्रवर्ग्यश्चत्वालो वेदिमृत्खननावटः ॥ ११८८ ॥ ;l{2380} महावीरः पात्रभेदे होमधेनुररुन्धती । दर्भैरग्निपरिस्तारः परिधिर्होम आहुतिः ॥ ११८९ ॥ चमूः स्त्री चर्म सुत्यार्थं कुम्बा सुगहना वृतिः । पशुबन्धास्तु पशवः स्थण्डिलं चत्वरं समे ॥ ११९० ॥ स्युर्ब्रह्माध्वर्युरुद्गाता होता चामी महर्त्विजः । ;l{2385} ऋत्विजो याजकाश्चाथ नियमो व्रतमस्त्रियाम् ॥ ११९१ ॥ उवावासस्त्वौपवस्त्रं ब्रह्मयज्ञादयस्तु ये । एते पञ्च महायज्ञाः स्वाध्यायस्तु जपः श्रुतेः ॥ ११९२ ॥ वृत्ताध्ययनवान् ब्रह्मवर्चसी सत्यवाक् शुचिः । ऋषिस्त्रिकालसंदर्शी मुनिर्वाचंयमो व्रते ॥ ११९३ ॥ ;p{0147} ;l{2390} स्यात् कृताभिषवः सुत्वा श्रोत्रियच्छान्दसौ समौ । अध्यापक उपाध्याय आचार्यो देशिको गुरुः ॥ ११९४ ॥ स्युर्दक्षणीयदक्षिण्यदक्षिणार्हास्त्रयस्त्रिषु । ब्रह्मचारी व्रती वर्णी स्नातकश्चाप्लुतः समौ ॥ ११९५ ॥ स्यातां क्रतौ कुण्डपाय्यसंचाय्यावथ पावके । ;l{2395} परिचाय्योपचाय्यौ च समूह्यश्च प्रयोगिणः ॥ ११९६ ॥ आश्रमा ब्रह्मचर्याद्या व्रतार्थं स्थण्डिलेशयः । स्यात् स्थाण्डिलोऽथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ११९७ ॥ स्यात् सुत्याभिषवो दर्शपूर्णमासौ क्रतौ पृथक् । पक्षान्तयोरनूचानः साङ्गाधीतश्रुतिर्गुरोः ॥ ११९८ ॥ ;l{2400} सर्वांहश्छेदि यज्जप्यं त्रिषु स्यादधमर्षणम् । अभाषणं तु मौनं स्यात् कुण्डं त्वनलगर्तके ॥ ११९९ ॥ हवित्री हवने च द्वे तत्रैव परिवर्तुले । त्रिकूटं तु त्रिकोणेऽस्मिन् संप्रदायो गुरुक्रमः ॥ १२०० ॥ संप्रदायादविच्छिन्नं पारंपर्योपदेशनम् । ;l{2405} ऐतिह्यमितिहालिङ्गे व्रतिनामासनं बृसी ॥ १२०१ ॥ व्यजनं तद्धवित्रं स्याद्यत् कृतं मृगचर्मणा । परिपाटिः स्त्रियामावृदानुपूर्व्यनुपात्ययः ॥ १२०२ ॥ ;p{0148} अनुक्रमश्च पर्यायः स्यात् पर्यय उपात्ययः । निपाठो निपठः पाठः पठनाध्ययने समे ॥ १२०३ ॥ ;l{2410} अधीयानोपकुर्वाणगायत्रास्तु समास्त्रयः । संसारमुक्तिः प्रव्रज्या निर्जितात्मा यतिर्यती ॥ १२०४ ॥ पाराशरी तु कर्मन्दी परिव्राण्मस्करी च सः । वैखानसो वनेवासी वानप्रस्थश्च तापसः ॥ १२०५ ॥ चतुर्थकालभुग्भिक्षुर्वृष्णिरष्टमकालभुक् । ;l{2415} वर्षवातातपक्लेशसहनोऽभ्रावकाशिकः ॥ १२०६ ॥ ब्राह्मणस्तु पदैकेन व्रते तिष्ठञ्शिवव्रती । रुद्रव्रती क्षत्रियश्चेद्वाताहारस्त्वहिव्रती ॥ १२०७ ॥ मत्स्यव्रती जले तिष्ठंस्तृणशय्यस्तु वर्णशः । भूमौ विपरिवृत्यास्ते यः स पातालमूलिकः ॥ १२०८ ॥ ;l{2420} छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः । एकब्रह्मव्रता एते मिथः सब्रह्मचारिणः ॥ १२०९ ॥ सतीर्थ्यास्ते स्युरेकस्माद्गुरोर्विद्यास्वधीतिनः । पतितः सत्पथाद्भ्रष्टो ब्रह्मबन्धुर्द्विजाधमः ॥ १२१० ॥ जातिमात्रोपजीवो यः स एव ब्राह्मणब्रुवः । ;l{2425} अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ॥ १२११ ॥ शठो मिथ्याविनीतश्च यः एव बकव्रती । डाम्भिकश्छाद्मिको लुब्धो हिंस्रः सर्वार्थवञ्चकः ॥ १२१२ ॥ ;p{0149} धर्मध्वजी स्वार्थपरः स्याद् बिडालव्रती द्विजः । प्रच्छन्नं पातकं कुर्वन् व्रतचर्याभिरात्मनः ॥ १२१३ ॥ ;l{2430} यः कुक्कुटव्रती स स्यादस्वाध्यायो निराकृतिः । संस्कारवर्जितो व्रात्यः प्रणष्टाग्निस्तु वीरहा ॥ १२१४ ॥ कन्याया दृष्टपुष्पाया विवोढा वृषलीपतिः । स वीरोज्झोऽग्निहोत्राग्नौ वत्सरं न जुहोति यः ॥ १२१५ ॥ अग्निमिहोत्रच्छलाद्यश्च परो वीरोपजीवकः । ;l{2435} चीरविप्लावको जुह्वद्यः शुद्रोपार्जितैर्धनैः ॥ १२१६ ॥ वेदोज्झो वेदविस्मृत्या स नग्नो यो निरग्निकः । पर्याधाता कृताधानो योऽग्रजन्मन्यनग्निके ॥ १२१७ ॥ पर्याहितः स्यात् स ज्यायानयज्वन्यग्रजेऽनुजः । परियष्टा सोमयाजी स तु ज्यायान् परीष्टकः ॥ १२१८ ॥ ;l{2440} यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः । परिवेत्ताग्रजेऽनूढे कनिष्ठो दारसंग्रही ॥ १२१९ ॥ परिवित्तिस्तु तज्ज्यायान् परिवित्तः कुरी च सः । पुनर्भूः पुनरूढा स्यादूर्मिला त्यक्तभर्तृका ॥ १२२० ॥ अग्रजायामनूढायामूढा भर्तुः परेयुषः । ;p{0150} ;l{2445} कनिष्ठगा द्विरूढा च दिधिषूः पतयः क्रमात् ॥ १२२१ ॥ तासां दिधिष्वग्रदिधिष्वग्रेदिधिषवस्त्रयः । यस्मिन्नुदेति सुप्तेऽर्को यस्मिन् सुप्तेऽस्तमेति च ॥ १२२२ ॥ तौ द्वौ स्यातामभ्युदिताभिनिर्मुक्तौ यथाक्रमम् । गुरुदाराभिगामी तु योऽसौ स्याद्गौरुदारिकः ॥ १२२३ ॥ ;l{2450} परदारंगमी पारदारिकः पारतल्पिकः । शिक्षा तु विद्योपादानं संस्काराद्ग्रहणं श्रुतेः ॥ १२२४ ॥ उपाकरणमाम्नायो गुणो गुणनिका स्त्रियाम् । दण्डः पालश आषाढो व्रते राम्भस्तु वैणवः ॥ १२२५ ॥ स्यात्तु सारस्वतो बैल्व औदुम्बर उलूखलः । ;l{2455} मौञ्जी तु मेखला सा तु मौर्वी स्यादेकमेखला ॥ १२२६ ॥ छन्दांसि गायत्र्यादीनि कुण्डी त्वस्त्री कमण्डलुः । ज्ञानमाद्यमुपज्ञा स्यात् परमान्नं तु पायसम् ॥ १२२७ ॥ हव्यकव्ये दैवपित्र्ये अन्ने दान्तस्तपःक्षमः । भैक्षं भिक्षासमूहे स्यात् समौ भिक्षाकभिक्षुकौ ॥ १२२८ ॥ ;l{2460} गोष्ठी समज्या परिषत् सभासमितिसंसदः । स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥ ते तु सभ्याः सभास्तारा अमृतं यज्ञशेषके । चौलं तु भद्राकरणं वपनं परिवापणम् ॥ १२३० ॥ क्षौरं तत् सशिखं तोधं निःशिखं भिक्षुलोचकम् । ;p{0151} ;l{2465} शिखावानवचूडः स्यात् पञ्चचूडस्तु सारणः ॥ १२३१ ॥ अशिखो मुण्डितो मुण्डः पौंस्नपुंसवने समे । विवाहोपयमोद्वाहोपयामा दारसंग्रहः पाणिग्रहः परिणयो निवेशः पाणिपीडनम् ॥ १२३२ ॥ तत्प्रभेदास्त्वमी ब्राह्मप्राजापत्यार्षकासुराः । ;l{2470} अपि गान्धर्वपैशाचराक्षसा अथ कौतुकम् ॥ १२३३ ॥ हस्तसूत्रं प्रतिसरो दायो हरणयौतके । विगतान्यानुरक्ता स्यान्नष्टा तु स्पृष्टमैथुना ॥ १२३४ ॥ स्विद्यत्पाणिपदा वर्षकारी कुब्जा तु कारिका । कारीकन्या प्रसूजाता नतजानुस्तु सिंहिका ॥ १२३५ ॥ ;l{2475} विस्तीर्णजानुर्विकटा हरिता पतितात्मजा । अथाजीवदपत्याया मातुः कन्या विदूषिता ॥ १२३६ ॥ सांकारिका बन्धुकुले गरपावकदायिनी । स्रोता पिङ्गलदृक्केशा स्वल्पदेहा मसूषिका ॥ १२३७ ॥ शरभा तु विशीर्णाङ्गी राता विहृतिचञ्चला । ;l{2480} अरणिस्तु स्पृहापाली वृषभा वृषलक्षणा ॥ १२३८ ॥ कोहरा मुखरा पाली जडा गुप्ता तिरोहिता । ;p{0152} खण्डना तु पतिघ्नी स्यात् पृषता श्वेतबिन्दुका ॥ १२३९ ॥ धृष्टा प्रवाणिका व्यङ्गा निकृष्टा कुत्सिताहिता । नाम्नैव दूषिता हारी मित्रा सर्वानुकूल्यभाक् ॥ १२४० ॥ ;l{2485} विकृताधा(विगताद्या?)स्तु नोद्वाह्याः कन्याः सर्वा हितैषिभिः । यष्टिर्द्वयोः स्त्रियां मीना खनित्री तु विशाखिका ॥ १२४१ ॥ बद्धदर्भा देवयष्टिश्चर्या त्वीर्यापथे स्थितिः । व्रज्याटाट्याटनं क्लीबे त्वक्षरं वर्णमस्त्रियाम् ॥ १२४२ ॥ स्पर्शाः स्युः कादयः पञ्चविंशतिर्मावसानकाः । ;l{2490} स्त्रियोऽन्तस्था यरलवास्त्रिलिङ्गस्त्वनुनासिकः ॥ १२४३ ॥ स्युरूष्माणः शषसहा रेफो रः स्युरचः स्वराः । मुखे शोभा श्रुतेः पाठे शाली चित्रायनीति च ॥ १२४४ ॥ ब्रह्माञ्जलिः स्वञ्जलिः स्याद्विप्रूषो ब्रह्मबिन्दवः । कल्पो विधिः क्रमो मुख्यः प्रथमः कल्प इत्ययम् ॥ १२४५ ॥ ;l{2495} अनुकल्पस्तदधमः पूजा त्वर्चार्हणार्चना । समा नमस्यापचितिः सपर्या च पुरस्क्रिया ॥ १२४६ ॥ महोऽञ्चनमुपास्तिस्तु भक्तिः सेवा समाश्रयः । आप्लाव आप्लवः स्नानमवगाहनमज्जने ॥ १२४७ ॥ मानसाग्नेयवायव्यब्राह्मवारुणपार्थिवम् । ;p{0153} ;l{2500} दिव्यं च कापिलं चेति स्नानमेदाः स्युरष्टधा ॥ १२४८ ॥ वितीर्णिरंहतिस्त्यागोऽतिसर्गः प्रतिपादनम् । उत्सर्जनं वितरणं विश्राणनविसर्जने ॥ १२४९ ॥ अपवर्जनदाने च स्पर्शनं च प्रदेशनम् । मृतस्नानमपस्नानं त्रिषु स्यादौर्ध्वदेहिकम् ॥ १२५० ॥ ;l{2505} मृतार्थं तदहर्दानं श्राद्धं तत्कर्म मन्त्रवत् । निवापः पितृदानं स्यादन्वाहार्यं तु मासिकम् ॥ १२५१ ॥ मूले कनिष्ठयोर्मध्ये तर्जन्यङ्गुष्ठयोरधः । अङ्गुष्ठस्य कराग्रे च तीर्थानि स्युर्यथाक्रमम् ॥ १२५२ ॥ प्रजापतिपितृब्रह्मदेवानामथ न द्वयोः । ;l{2510} उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥ १२५३ ॥ प्राचीनावीतमन्यस्मिन् निवीतं कण्ठलम्बितम् । अध्येषणार्थना याच्ञाभिशस्तिः सनिरर्दनम् ॥ १२५४ ॥ भिक्षा च याचना शंसा शासनं विचयो मृगः । मार्गः परीष्टिरन्विष्टं मृगणान्वेषणा तथा ॥ १२५५ ॥ ;l{2515} पर्येषणा चान्वीक्षा च पाद्यं पादाय वारि यत् । अतिथ्यर्थं यदातिथ्यमातिथेयोऽत्र साधुनि ॥ १२५६ ॥ त्रिष्वथातिथिरागन्तुः सर्वातिथ्यं करोति यः । स तु सर्वातिथिः पादग्रहणं त्वभिवादनम् ॥ १२५७ ॥ उपस्पर्शस्त्वाचमनमपचारस्त्वपक्रिया । ;p{0154} ;l{2520} हिंसाकर्माभिचारः स्यादासनं स्वस्तिकादिकम् ॥ १२५८ ॥ कार्तान्तिकमौहूर्तिकमौहूर्तज्ञानिगणकदैवज्ञाः । सांवत्सरमौहूर्तौ ज्योतिषिकोऽर्थवति गणितसंख्याते ॥ १२५९ ॥ विंशत्याद्यास्त्वा नवतेः स्त्रियामेकवचस्यमूः । एकस्मादापरार्धं स्यात् स्थानं दशगुणं यथा ॥ १२६० ॥ ;l{2525} एकः पङ्क्तिर्दश शतं सहस्रमयुतं तथा । नियुतं प्रयुतं कोटिरर्बुदं न्यर्बुदाब्जके ॥ १२६१ ॥ खर्वो निखर्वः शङ्खश्च पद्मं ना तु समुद्रकः । मध्यमन्तं परार्धं च पदानि गणनाविधौ ॥ १२६२ ॥ एवमष्टादशैतानि संख्या तु गणना समे । ;l{2530} अक्षरचुञ्चुं लिपिकरमक्षरचणमपि तमक्षराधिकृतम् ॥ १२६३ ॥ लेखकमाहुः स्त्री लिपिरपि लिबिरालिखितवर्णविन्यासे । त्रिभिर्धर्मार्थकामैः स्यात् त्रिवर्गस्तैः समोक्षकैः ॥ १२६४ ॥ चतुर्वर्गोऽथ सबलैस्तैश्चतुर्भद्रमित्यपि ॥ १२६५ ॥ ;च्{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे ब्रह्माध्याय एकोनविंशतिः ॥} ;p{0155} ;v{क्षत्रियाध्यायः} ;c{क्षत्रियाध्यायः} मूर्धाभिषिक्तबाहुजराजन्यक्षत्रियविराजः । ;l{2535} क्षत्रमथ राण्महीभृत्पार्थिवनृपराजभूपनरदेवाः ॥ १२६६ ॥ महीक्षिदथ राजन्यराजसंघे यथाक्रमम् । राजन्यकं राजकं च सुराजा रज्ञि सत्तमे ॥ १२६७ ॥ चक्रवर्ती सार्वभौमो यः सर्वपृथिवीश्वरः । राजसूयेन येनेष्टं शास्ति राज्ञो य आज्ञया ॥ १२६८ ॥ ;l{2540} मण्डलाधीश्वरो यश्च स सम्राण्मध्यमश्च सः । अधीश्वरो नताशेषसामन्तो नाभिरित्यपि ॥ १२६९ ॥ मन्त्री तु सचिवोऽमात्यः पुरोधाः स्यात् पुरोहितः । प्रधानानि महामात्रा बलं मौलादिषड्विधम् ॥ १२७० ॥ ते मौलभृतकश्रेणीसुहृदाटविकद्विषः । ;l{2545} राज्याङ्गानि तु पौराणां श्रेण्यः प्रकृतयस्तथा ॥ १२७१ ॥ स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च । षाड्गुण्यं षड्गुणाः संधिविग्रहो यानमासनम् ॥ १२७२ ॥ द्वैधं समाश्रयस्तिस्रः प्रभावोत्साहमन्त्रजाः । शक्तयोऽथ क्षयः स्थानं वृद्धिरेष त्रिवर्गकः ॥ १२७३ ॥ ;l{2550} सेतुर्दुर्गं वनादानं खनिक्षेत्रं वणिक्पथः । ;p{0156} गजबन्धः कृषिः शून्यदेशानां च निवेशनम् ॥ १२७४ ॥ अष्टवर्गोऽथ धर्माद्यैरुपधा स्यात् परीक्षणम् । अथोपायाः सामदानभेददण्डाश्चतुष्टये ॥ १२७५ ॥ उपजापस्तु भेदः स्यात् समाने सामसान्त्वने । ;l{2555} तन्त्रं स्वराष्ट्रचिन्ता स्यादावापः परिचिन्तनम् ॥ १२७६ ॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ १२७७ ॥ स तु त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः । प्रतापश्च प्रभावश्च तेजो यत् कोशदण्डजम् ॥ १२७८ ॥ ;l{2560} राज्यस्याचिरलब्धस्य शमनं परिपन्थिनाम् । रञ्जनाप्रतिकाराभ्यां लब्धप्रशमनं विदुः ॥ १२७९ ॥ समौ विश्वासविश्रम्भावुपेक्षा त्ववधीरणा । मर्यादाधारणासंस्थाव्यवस्थास्थितयः समाः ॥ १२८० ॥ निदेशः शासनं शिष्टिराज्ञाशास्तिनियुक्तयः । ;l{2565} कामक्रोधौ लोभमोहौ मदो मत्सर इत्यमी ॥ १२८१ ॥ षट् शरीरान्तररयः शत्रुर्द्वेषणदुर्हृदौ । परिपन्थिसपत्नपरासुहृदः प्रतिपक्षविपक्षविरोधभृतः ॥ १२८२ ॥ विमताहितशात्रववैरिरिपुद्विषतो द्विडरात्यभिधात्यरयः । प्रत्यनीकप्रतिद्वन्द्विप्रत्यवस्थातृदस्यवः । ;l{2570} द्वेष्यानिष्टप्रतिस्पर्धिप्रत्यवस्कन्दिनोऽपि च ॥ १२८३ ॥ ;p{0157} मित्रं सखा सुहृत् स्निग्धो वयस्यः सवया अपि । अनुरोधोऽनुवृत्तिः स्यादनुसारोऽनुकूलनम् ॥ १२८४ ॥ सख्यं साप्तपदीनं स्यान्मैत्री मैत्रं च सौहृदम् । अपसर्पश्चरश्चारः प्रणिधिर्गूढपूरुषः ॥ १२८५ ॥ ;l{2575} स्पशो यथार्हवर्णश्च दूतवार्ताहरौ समौ । संदेशहारी दौत्यं तु दूतानां भावकर्मणोः ॥ १२८६ ॥ ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः । आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥ द्विपाद्यो द्विगुणो दण्डः शुल्को घट्टादिदेयके । ;l{2580} बलिः करो भागधेय उपदा स्यादुपायनम् ॥ १२८८ ॥ उपग्राह्यं प्राभृतं तदुपहारोऽथ शम्बलः । पाथेयमधिकारस्तु प्रक्रिया ककुदोऽस्त्रियाम् ॥ १२८९ ॥ राजचिह्ने नृपच्छत्रमातपत्रं हिरण्मयम् । प्रकीर्णकं चामरं स्याद्राज्ञां सिंहासनं तु यत् ॥ १२९० ॥ ;l{2585} भद्रासनं भद्रपीठं पीठं कोशोऽर्थसंचयः । लक्ष्मीश्रीसंपदस्तुल्या विपत्तिविपदापदः धान्यादेर्वीवधः प्राप्तिरायातिस्तु धनागमः ॥ १२९१ ॥ आयतिस्तूत्तरे काले उदर्कस्तूत्तरं फलम् । क्लीबे तदात्वं तत्कालः स्वपक्षप्रभवं भयम् ॥ १२९२ ॥ ;p{0158} ;l{2590} राज्ञामहिभयं व्याधिदुर्दुर्भिक्षमशनिः शिखी । मकरश्च भयं दैवं भूतान्यर्कः शशी यमः ॥ १२९३ ॥ मनो रात्रिर्दिनं संध्ये धर्मश्चैते चतुर्दश । साक्षिणोऽधिकृतोऽध्यक्षो हेमाध्यक्षस्तु भौरिकः ॥ १२९४ ॥ रूप्याध्यक्षो नैष्किकः स्यात् षण्डवर्षवरौ समौ । ;l{2595} अन्तःपूरे योऽधिकृतः स्यादन्तर्वेशिकश्च सः ॥ १२९५ ॥ सामन्तराज्यसंधिस्था आरक्षाः पुररक्षकाः । वैहासिकः केलिकिलो वासन्तिकविदूषकौ ॥ १२९६ ॥ कार्मिकोऽधिकृतः शुल्के गोपो ग्रामेषु भूरिषु । स्थायुकोऽधिकृतो ग्रामे स्थाने तु स्थानिकोऽप्यसौ ॥ १२९७ ॥ ;l{2600} क्षुद्रोपकरणेषु स्यादध्यक्षः पारिकार्मिकः । धर्मी तु धार्मिकोऽध्यक्ष उभावायोदयौ समौ ॥ १२९८ ॥ द्वारपालः प्रतीहारो द्वार्स्थो दण्डी च वेत्रभृत् । स्थापत्याः सौविदाः सौविदल्लाः कञ्चुकिनः समाः ॥ १२९९ ॥ तलकाराः पुरीवृत्तशोधकाः दण्डपाशिकाः । ;l{2605} दुर्गं पञ्चविधं वानपार्वतैरिणमारवम् ॥ १३०० ॥ जालं चेति समार्थं स्यादजर्यं संगतं द्वयम् । अरिमित्रमरेर्मित्रं मित्रामित्रमतः परम् ॥ १३०१ ॥ ;p{0159} तथारिमित्रं(त्र?)मित्रं च विजिगीषोः परे नृपाः । यातव्यस्त्वभिगन्तव्यः पार्ष्णिग्राहस्तु पृष्ठतः ॥ १३०२ ॥ ;l{2610} पृथ्वीवरोऽक्षदृक् स्थेयो न्यायदर्शी च धार्मिकः । मागधो मगधो बन्दी मधुकः स्तुतिपाठकः ॥ १३०३ ॥ वैतालिको बोधकरो घाटिकश्चाक्रिकश्च सः । पादुका कण्टकीगर्तः पांसुच्छन्नो महापथे ॥ १३०४ ॥ तालयन्त्रं क्षुराकारं यदि वा क्रकचोपमम् । ;l{2615} शरभाभा जानुदात्री दारुजा जानुभञ्जनी ॥ १३०५ ॥ स्यात् कण्टकप्रतिसरा रज्जुः कण्टकसंचिता । अहिपृष्टं तु निर्मांसपृष्ठास्थ्याभमयोमयम् ॥ १३०६ ॥ उपस्कारः प्रस्खलनी भूमिस्था पुटपिच्छला । श्वद्रंष्ट्रार्गलशृङ्गाटमण्डूकाद्यन्वितार्थकम् ॥ १३०७ ॥ ;l{2620} लभ्यमौपयिकं न्याय्यं भजमानाभिनीतवत् । युक्तं च विजनच्छन्ननिःशलाके विविक्तवत् ॥ १३०८ ॥ रहश्चोपह्वरं क्लीबे उपांशु च रहोऽव्यम् । वित्तत्यागो व्ययः संप्रधारणं स्यात् समर्थनम् ॥ १३०९ ॥ स्रंसनं ध्वंसनं भ्रंशो भ्रेषोऽधःपतनं स्थितेः । ;l{2625} अनीकस्थो रक्षिवर्गोऽनुजीवी सेवकः समौ ॥ १३१० ॥ ;p{0160} साम सान्त्वं बलात्कारः प्रसभो हठ इत्यपि । आयुक्तिविनियुक्ता या सा ताम्बूलकरङ्किका ॥ १३११ ॥ अन्तःपुराङ्गनास्वन्तःपुरिका अवरोधिकाः । सेनाङ्गं रथहस्त्यश्वपादातं स्याच्चतुर्विधम् ॥ १३१२ ॥ ;l{2630} रथनिकुरुम्बे रथ्या रथकट्या स्यन्दनः शताङ्गरथौ । पुष्परथः क्रीडार्थः समरार्थः सांपरायिकोऽसौ स्यात् ॥ १३१३ ॥ देवार्थो देवरथः तार्क्ष्यः पुष्परथ इत्युभौ शौरेः । कर्णीरथः प्रवहणं डयने भेदे तु गोमुखप्रमुखाः ॥ १३१४ ॥ चक्रं रथाङ्गमस्य प्रान्ते नेमिः स्त्रियां प्रधिः पुंसि । ;l{2635} अक्षस्तु चक्रधारकदारुणि रथमध्य एव रथनीडः ॥ १३१५ ॥ स्त्रीपुंसोरणिराणी स्यातामक्षाग्रकील एवोभौ । शकटमनः शकटिः स्यात् कम्बलिवाह्यं तु गन्त्री स्त्री ॥ १३१६ ॥ अपस्करो रथाङ्गं स्यात्तद्भेदे गण्डकोऽस्त्रियाम् । प्रवाहिर्ना वृत्तमध्ये रथे कूबरवर्जिते ॥ १३१७ ॥ ;l{2640} वैयाघ्रो द्वैप इत्येतौ व्याघ्रचर्मावृते रथे । वस्त्रावृते रथे वास्त्रः काम्बलः कम्बलावृते ॥ १३१८ ॥ पाण्डुकम्बलसंछन्नस्यन्दनः पाण्डुकम्बली । ;p{0161} त्रिषु वैयाघ्रमुख्याः स्युः कूबरो ना युगंधरः ॥ १३१९ ॥ रथस्थं यस्तिरोधत्ते स वरूथोऽथ धूः स्त्रियाम् । ;l{2645} सा स्याद्यानमुखेऽधःस्थं दारु स्यादनुकर्षकः ॥ १३२० ॥ अराणि चक्रावयवाश्चक्रनाभिस्तु पिण्डिका । सूतस्तु सारथिर्यन्ता नियन्ता प्राजिता च सः ॥ १३२१ ॥ सव्येष्ठो दक्षिणस्थश्च संज्ञा रथनिवासिनाम् । आरा प्रवयणं तोत्रं प्राजनं तोदनं च तत् ॥ १३२२ ॥ ;l{2650} परंपरावाहनं स्याद्यत्तद्वैनीतकोऽस्त्रियाम् । सर्वं तु वाहनं यानं पत्रं युग्यं च धोरणम् ॥ १३२३ ॥ आन्दोलेऽन्दोलिका याप्ययानं तु शिबिका स्त्रियाम् । डोला प्रेङ्खोलिका प्रेङ्खा भारवाहस्तु भारिकः ॥ १३२४ ॥ अस्त्रं शस्त्रं प्रहरणमायुधं तच्चतुष्टयम् । ;l{2655} करमुक्तं यन्त्रमुक्तममुक्तं मुक्तमित्यदः ॥ १३२५ ॥ शक्त्यादि पाणिमुक्तं स्यादमुक्तं क्षुरिकादिकम् । मुक्तामुक्तं तु यष्ट्यादि यन्त्रमुक्तं शरादिकम् ॥ १३२६ ॥ अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि । वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥ ;l{2660} कपिकेतनकोदण्डे गाण्डीवो गाण्डिवश्च वा क्लीबे । कर्णस्य कालपृष्ठं मिश्रकमनिलात्मसंभवस्य धनुः ॥ १३२८ ॥ ;p{0162} ज्याघातवारिणी गोधा धनुर्मध्ये तु लस्तकः । जीवा ज्या शिञ्जिनी मौर्वी गुणः स्त्रीपुंसयोरिषुः ॥ १३२९ ॥ पत्रिशरविशिखसायकबाणपृषत्काशुगप्रदराः । ;l{2665} काण्डखगरोपमार्गणनालीकाधोमुखकलम्बाः ॥ १३३० ॥ कदम्बो जिह्मगः पुङ्खी वीरशङ्कुः शिलीमुखः । स्नुही दलफलो भल्लः क्षुरप्रस्त्वर्धचन्द्ररुक् ॥ १३३१ ॥ हस्तावापः शरादानं प्रमाथो लस्तकग्रहः । लक्ष्यलक्षशरव्याणि निमित्तमथ कर्तरी ॥ १३३२ ॥ ;l{2670} पुङ्खो लक्षो(क्षा?)ऽतिगो वेगो दीप्तिः शल्यफले समे । तूणीषुधिर्द्वयोस्तूण उपासङ्गः कलापकः ॥ १३३३ ॥ सायकाशयतूणीरनिषङ्गा अथ धन्विनाम् । स्थानमालीढवैशाखप्रत्यालीढादि पञ्चधा ॥ १३३४ ॥ यत्रांसौ विनतावुरः प्रविततं शिख्यञ्चितं मस्तकं पादौ स्थानरतौ त्रिकं समनतं पूर्वापरौ शोभितौ । ;l{2675} दृष्टिर्लक्षगता न रिक्तमुदरं पार्श्वप्रदेशावृजू नासा सायकचुम्बिनी भवति चेत् तत् स्यात् पदं सौष्ठवम् ॥ १३३५ ॥ मण्डलाग्रासिनिस्त्रिंशखड्गकौक्षेयरिष्टयः । चन्द्रहासः कृपाणस्तु स्त्रियां च करवालवत् ॥ १३३६ ॥ अर्धहासोऽर्धचन्द्राङ्गो मण्डलाग्रोऽन्वितार्थकः । ;p{0163} अम्बुनर्तस्तु खड्गोऽम्बुन्यस्ततैलानिभप्रभः ॥ १३३७ ॥ ;l{2680} खड्गे वराट एरण्डबीजाभपुलकान्वितः । स्नुहीदलसदृक्छायो निस्त्रिंशोऽथावि(सि?)राजयः ॥ १३३८ ॥ पुलकाः पुद्गलाः शस्त्री त्वसिपुत्र्यसिधेनुका । क्षुरिका पुत्रिका पुत्री स्यादिली करवालिका ॥ १३३९ ॥ पुष्करः पुलकै रूक्षसिता दीर्घानवस्थितैः । ;l{2685} कुण्डलो दीर्घनिस्त्रिंशे तरवारिः स्त्र्यसौ लघुः ॥ १३४० ॥ पट्टसो दीर्घदण्डो यस्तीक्ष्णधारः क्षुरोपमः । कण्टकच्छेदनोऽप्येवं द्विमुखश्च भवत्यसौ ॥ १३४१ ॥ भिण्डिपालसृगौ तुल्यौ सर्वला तोमरोऽस्त्रियाम् । बराहकर्णकोऽन्वर्थः कणयो लोहमात्रकः ॥ १३४२ ॥ ;l{2690} प्रासः कुन्तो हाटकस्तु स त्रिकण्टकसंस्थितिः । हुलं द्विफलपत्राग्रं शङ्कुर्ना शल्यमस्त्रियाम् ॥ १३४३ ॥ द्रुघणो मुद्गरघनौ परिघः परिघातनः । शतघ्नी तु चतुस्ताला लोहकण्टकसंचिता ॥ १३४४ ॥ श्रयः कण्टकसंछन्ना शतघ्न्येव महाशिला । ;l{2695} स्थूलायःकीलसंछन्ना मुसुण्ठी दारुनिर्मिता ॥ १३४५ ॥ दन्तत्सरू द्वौ खड्गादेर्मुष्टौ बन्धस्तु मेखला । ;p{0164} हस्तिचारो जगत्त्रासहेतुः शरभसंनिभः ॥ १३४६ ॥ मुसलस्त्वायसो देवदण्डो रत्निप्रमाणकः । प्रत्याकारः परीवारः कोशोऽथास्त्रस्य शेखरः ॥ १३४७ ॥ ;l{2700} उन्नयो लगुडः कोणश्चक्रेयश्चक्रमित्यपि । स्त्रीपुंसे तु कुठारो ना परशुश्च परश्वधः ॥ १३४८ ॥ स्वधितिः शस्त्रधारीयां तिस्रः पाल्यश्रिकोटयः । तद्दण्डलग्नशल्ये तु खेटकः क्षीणयः क्षुरः ॥ १३४९ ॥ फलकोऽस्त्री फलं चर्म खेटकः क्षुद्रचर्मणि । ;l{2705} मुष्टौ मण्डुकसंग्राहौ क्रकचः करपत्रकम् ॥ १३५० ॥ तनुत्रं दंसनं वर्म तनुच्छद उरच्छदः । कङ्कटो जरगः पुंसि संनाहः कवचोऽस्त्रियाम् ॥ १३५१ ॥ कवचे शस्त्रदुर्भेदे निवातकवचः स्मृतः । शीर्षण्यं च शिरस्त्राणं शिरस्त्रं शीर्षकं च तत् ॥ १३५२ ॥ ;l{2710} नागो दर्युदरत्राणं जङ्घात्राणं तु मत्कुणम् । अभ्यासस्तु श्रमो योग्या श्रमस्थानं खलूरिका ॥ १३५३ ॥ पताका वैजयन्ती द्वे ध्वजे तद्वसनेऽपि च । केतुरङ्को ध्वजोऽस्त्री स्यात् केतनं चाथ कूर्चकौ ॥ १३५४ ॥ ;p{0165} ऊर्ध्वाधोलम्बिनौ स्यातामुच्चचूडावचूडकौ । ;l{2715} ध्वजिनी पृतना सेनानीकिनी वाहिनी चमूः ॥ १३५५ ॥ वरूथिनीतपाकिन्यावनीकं पुंनपुंसकम् । चक्रं सैन्यं बलं सैन्यमुखे गुल्मगुणौ समौ ॥ १३५६ ॥ प्रत्यासारो व्यूहपार्ष्णिरासारस्तु सुहृद्बलम् । सेनाग्रभूमिर्नासीरः सैन्यपृष्ठे प्रतिग्रहः ॥ १३५७ ॥ ;l{2720} व्यूहः स्यात् सैन्यविन्यासः स चक्रमकरादिकः । भटाश्चारभटा योधा योद्धारोऽथ चमूपतिः ॥ १३५८ ॥ सेनानीर्दण्डनाथश्च सेनारक्षास्तु सैनिकाः । समवेतास्तु सेनायां सैन्याः स्युः सैनिका अपि ॥ १३५९ ॥ बलिनस्तु सहस्रेण साहस्राश्च सहस्रिणः । ;l{2725} परिधिस्थः परिचरो घट्टसंनाह इत्ययम् ॥ १३६० ॥ संशप्तकाः स्युः समरात् समयादनिवर्तिनः । पान्थाध्वनीनपथिकाध्वगाध्वन्यास्तु यात्रिकाः ॥ १३६१ ॥ क्ष्वेडा स्त्री सिंहनादः स्यात् पादातं पत्तिसंहतिः । पत्तिः पदातिः पदिकः पदाजिः पादातिकोऽसौ पदगश्च पद्गः ॥ १३६२ ॥ ;l{2730} अभिद्विषो यानमभिक्रमः स्यात् समौ रणे भङ्गपराजयौ द्वौ । अनुप्लवस्त्वनुचरः सहायोऽभिसरोऽनुगः ॥ १३६३ ॥ अन्वग्गाम्यनुगामी च पुरोगामी पुरःसरः । ;p{0166} पुरोगोऽग्रेसरः प्रष्ठश्चाग्रतःसर इत्यपि ॥ १३६४ ॥ जङ्गालः शीघ्रगामी स्याज्जङ्घाकारिकजाङ्घिकौ । ;l{2735} धानुष्कास्त्रिधनुर्धरधन्विधनुष्मन्निषङ्गिणस्तुल्याः ॥ १३६५ ॥ काण्डीरः काण्डधरो नैस्त्रिंशिक आसिकः खड्गी । कृतहस्तः कृतपुङ्खः शिक्षितहस्तश्च सुप्रयोगशरः ॥ १३६६ ॥ प्रहित इषौ तु निरस्तो विषदिग्धे दिग्धलिप्तकौ विशिखे । शाक्तीकः शक्तिधरो याष्टीको यष्टिहेतिकश्च समौ ॥ १३६७ ॥ ;l{2740} चर्मिणि फलकी पारश्वधिकः परशुभृति कौन्तिकः प्रासी । अथ रथिनि रथिनरथिकौ केतनभृति वैजयन्तिकः कवची ॥ १३६८ ॥ दंसितकवचितवर्मितसज्जितसंनद्धबद्धवर्माणः । काण्डपृष्ठस्त्वायुधिक आयुधीयश्च शस्त्रभृत् ॥ १३६९ ॥ शत्रूणां तापयितरि द्विषंतपपरंतपौ । ;l{2745} क्षिप्नुर्निराकरिष्णुः स्यादन्यत्रानभिगन्तरि ॥ १३७० ॥ अभ्यमित्र्याभ्यमित्रीणाभ्यमित्रीया इति त्रयः । स्यादूर्जस्वल ऊर्जस्वी तरस्वी बलवान् बली ॥ १३७१ ॥ अभिषेणयिता सैन्यैः सपत्नेष्वभियातरि । जिष्णुजित्वारजेतारो जयी जैत्रः समा इमे ॥ १३७२ ॥ ;l{2750} शूरस्तु वीरविक्रान्तौ जितकाशी जिताहवः । घातकनृशंसहिंस्रव्यापादकशरारुघातुकक्रूराः ॥ १३७३ ॥ निस्त्रिंशोऽप्यथ साधुः संग्रामे सांयुगीनः स्यात् । ;p{0167} सपत्राकृतनिष्पत्राकृतौ तु भृशवेधिते ॥ १३७४ ॥ शस्त्रक्षते तु प्रहृतः स्यात् त्रिष्वनुचरादयः । ;l{2755} युद्धायोधनजन्यप्रविदारणसांपरायिकमृधानि ॥ १३७५ ॥ कदनप्रथनक्रन्दनसंख्यसमीकानि संविदाजियुधः । संयत्समितौ समितिः समररणानीकमस्त्रियां त्रितयम् ॥ १३७६ ॥ पुंस्यभिमर्दः कलहः संग्रामो विग्रहः समाघातः । अभिसंपातः संगर आहव आक्रन्द आस्कन्दः ॥ १३७७ ॥ ;l{2760} अभ्यागमः संप्रहारः संस्फोटः संयुगः कलिः । महाभीतिकरी वीराशंसनं समरक्षितिः ॥ १३७८ ॥ द्वन्द्वं तु बाहुयुद्धं स्यान्नियुद्धमथ पौरुषम् । तेजः पराक्रमः प्राणो विक्रमः शक्तिरित्यपि ॥ १३७९ ॥ आहोपुरुषिका सा या स्मयात् संभवनात्मनि । ;l{2765} अहं पूर्वंमहं पूर्वमित्यहंपूर्विकेत्यसौ ॥ १३८० ॥ याहंकृतिः परस्परमहमहमिकेति सैव स्यात् । ऊर्जः शुष्म सहो बलमोजो द्रविणं तरस्तेजः ॥ १३८१ ॥ सत्त्वं च प्राण ऊष्मा च शक्तिश्चाथ समार्थकाः । सर्वाभिसारः सर्वौघः सर्वसंनाह इत्यमी ॥ १३८२ ॥ ;l{2770} राज्ञां लोहाभिसारोऽस्त्रभृतां नीराजनक्रमः । स्युः प्रचक्रं प्रसरणमासारश्चलितार्थके ॥ १३८३ ॥ संदावो द्रावविद्रावप्रद्रावद्रवविद्रवाः । ;p{0168} अपक्रमो विनाशः स्यादपयानं पलायनम् ॥ १३८४ ॥ योधानां क्रन्दनं घोषः पटहाडम्बरौ समौ । ;l{2775} पांसुः क्षोदः स्त्रियां धूली रेणुः स्त्रीपुंसयो रजः ॥ १३८५ ॥ चूर्ण उत्पिञ्जलोत्पिञ्जोत्पिञ्जरा भृशसंकुले । वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ॥ १३८६ ॥ आहताच्छोटिताविद्धताडितास्फालितास्त्रिषु । छेदनकुट्टनलवनत्रुटनं छेदो जयो विजयः ॥ १३८७ ॥ ;l{2780} भञ्जनखण्डनमोटनदानान्याच्छोद आमर्दः । अभ्यवस्कन्दनं चाभ्यासादनं च समे उभे ॥ १३८८ ॥ अपमर्दः पीडनं स्यात् करिणां घटना घटा ॥ १३८९ ॥ निकारणनिशारणक्रथनहिंसनोज्जासन- प्रवासनपरासनोन्मथनघातनापातनम् । निबर्हणनिषूदनक्षणनमारणालम्भन- प्रमापणविवासनव्यसनपारणक्रूरणम् ॥ १३९० ॥ ;l{2785} विशरणविशसनकर्षणनिर्वापणनिस्तर्हणव्यथनम् । निर्वासनसंज्ञपने निर्ग्रन्थननिसुम्भने वधः पिञ्जः ॥ १३९१ ॥ कृत्तमूर्ध कबन्धोऽस्त्री नृत्तद्युधि कलेबरम् । ;p{0169} प्रग्रहोऽपग्रहो बन्दी कारा बन्धनवेश्मनि ॥ १३९२ ॥ आमुक्तः प्रतिमुक्तः संदानितपिनद्धसितबद्धाः । ;l{2790} पाशितकीलितसंयतसंदितमूताश्च वाच्यलिङ्गाः स्युः ॥ १३९३ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे क्षत्रियाध्यायो विंशः ॥} ;v{वैश्याध्यायः} ;c{वैश्याध्यायः} अर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः । आजीवो जीविका वृत्तिर्वार्ता वर्तनजीवने ॥ १३९४ ॥ वृत्तयः स्त्री कृषिः पाशुपाल्यं वाणिज्यमित्यमूः । उञ्छो धान्यश आदानं कणिशोपार्जनं शिलम् ॥ १३९५ ॥ ;l{2795} ऋतं तदुभयं लब्धममृतं स्यादयाचनात् । मृतं तु याचितं कृष्यामनृतप्रमृते उभे ॥ १३९६ ॥ सत्यानृतं तु वाणिज्यं श्ववृत्तिः परसेवनम् । याचितं याच्ञया लब्धं निमयादापमित्यकम् ॥ १३९७ ॥ परिवर्तेन निर्वृत्तं वस्तु स्यादापमित्यकम् । ;l{2800} पाशुपाल्यं जीववृत्तिः स्यादृणं पर्युदञ्चनम् ॥ १३९८ ॥ ;p{0170} तदवृद्धिकमुद्धारः कसीदं तु सवृद्धिकम् । कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ १३९९ ॥ कूटसाक्षी मृषासाक्षी प्रतिभूलग्नकौ समौ । अर्थिनो वचनं भाषा तत्प्रत्यर्थिन उत्तरम् ॥ १४०० ॥ ;l{2805} लेख्यो लेखः प्रत्ययस्तु दिव्यं दैविकमित्यपि । अभियोक्ता शिरोवर्ती शिरःस्थश्चाथ दर्शितः ॥ १४०१ ॥ अभियुक्तोऽभिशस्तः स्यादाप्तः प्रत्ययितस्त्रिषु । स्युः क्षेत्राजीवकृषकौ कर्षकश्च कृषीवले ॥ १४०२ ॥ वप्रोऽस्त्री पुंसि केदारः क्षेत्रमस्य कदम्बके । ;l{2810} कैदारककैदारिककैदार्यक्षैत्रकैदारम् ॥ १४०३ ॥ सीत्यं हल्यं कृष्टं बीजाकृतकमुप्तकृष्टं स्यात् । द्विगुणाकृतं द्विहल्यं द्वितीयाकृतं द्विसीत्यमेवं स्यात् ॥ १४०४ ॥ त्रिगुणाकृतादि सर्वं शम्बाकृतमपि च तत्तदर्थं स्यात् । द्रौणिको द्रोणवापः स्यात् खारीवापस्तु खारिकः ॥ १४०५ ॥ ;l{2815} प्रस्थाढकादिवापाः स्युः प्रास्थिकाढकिकादयः । मौद्गीनकौद्रवीणे भवने क्षेत्रे हि मुद्गकोद्रवयोः ॥ १४०६ ॥ यवयवकषष्टिकानां भवने यव्यं यवक्यषष्ठिक्ये । क्षेत्रे तु तिलमाषोमाभङ्गाणुभवने क्रमात् ॥ १४०७ ॥ तैलीनतिल्यमाषीणमाष्यौमीनोम्यवत्परम् । ;l{2820} क्रमाद् व्रैहेयशालेये व्रीहिशालिसमुद्भवे ॥ १४०८ ॥ ;p{0171} शाकाच्छाकटशाकीनौ क्षेत्राजीवादयस्त्रिषु । लोष्टवः पुंसि लोष्टानि कोटिशो लोष्टभञ्जनः ॥ १४०९ ॥ सीरगोदारणहललाङ्गलेष्वादिमं द्वयोः । युगकीले स्त्रियां शम्या सीता तु हलपद्धतिः ॥ १४१० ॥ ;l{2825} फालो निरीषः कृषकः फलं स्यात् कूटमस्त्रियाम् । अभ्रिः स्त्री पुंसि कुद्दालो गोदारोऽथ प्रतोदनम् ॥ १४११ ॥ प्राजनं तोत्रमाबन्धो योत्रयोक्त्रे नपुंसके । अथ दात्रं लवित्रं स्त्री शङ्कुलास्य तु वर्तकः ॥ १४१२ ॥ मुष्टिः स्यात् कटकं बन्धः खनित्रमवदारणम् । ;l{2830} व्रीहयः स्तम्बकरयः शालयः सिततण्डुलाः ॥ १४१३ ॥ रोहितो रक्तशालिः स्यात् श्वेतशालिस्तु सूकरः । कलापकास्तु कलमा हायनास्तु महाबुसाः ॥ १४१४ ॥ बालकः कृष्णशालिः स्यात् प्रवरः शालिषष्टिकः । कलमसुगन्धिकहायनपारावतगौरलोहितपतंगाः ॥ १४१५ ॥ ;l{2835} जतमुखतूर्णकशारामुखसकरषष्टिकप्रवराः । इत्येते शालिभेदाः स्युर्नीवारो मुनिसेवितः ॥ १४१६ ॥ शितशूको दीर्घशुको यवो यज्ञिय इत्यपि । यवे तु हरिते तोक्म आशुव्रीहिस्तु पाटलः ॥ १४१७ ॥ व्रीहिभेदे त्वणुर्भङ्गा मातुलानी उभे समे । ;p{0172} ;l{2840} कुल्माषो यावकस्तत्र चणको हरिमन्थकः ॥ १४१८ ॥ यवको यववर्णी स्याच्छ्यामाकश्यामकौ समौ । चिक्कणस्त्वतसीकङ्गुप्रियङ्गूमाक्षुमाः समाः ॥ १४१९ ॥ श्वेतकङ्गुस्तु मसुटी पीतकङ्गुस्तु मागधी । उदारः काककङ्गुः स्त्री कोरदूषस्तु कोद्रवः ॥ १४२० ॥ ;l{2845} वरको बालनालोऽथ मङ्गल्यकमसूरकौ । सतीनको हरेणुः स्यात् कलायः खण्डिकश्च सः ॥ १४२१ ॥ माषस्तु मलदो नन्दी वृष्यो बीजवरो बली । तिलपुष्पं वज्रपुष्पं जर्तिलोऽरण्यजस्तिलः ॥ १४२२ ॥ द्वौ तु वन्ध्ये तिले स्यातां पिञ्जपेजौ तिलात् परौ । ;l{2850} मुद्गो बलाङ्गः पीतेऽस्मिन् वसुखण्डीरशारदाः ॥ १४२३ ॥ चणको हरिमन्थश्च लसन्तस्तु लसन्तिका । उभौ त्वरण्यजे मुद्गे मकुष्टकमयष्टकौ ॥ १४२४ ॥ वंशवर्णः कृष्णवर्णः संवर्तो वातुलश्चणः । समौ खल्वकनिष्पावौ गोधूमः सुमनो गुरुः ॥ १४२५ ॥ ;l{2855} कृष्णे प्रवरवासन्तौ हरिमन्थकशिम्बिकौ । ;p{0173} ताम्रवृन्तः कुलत्थः स्यात् कफशत्रुः कुलत्थिका ॥ १४२६ ॥ आढकी तुवरी सैव सौराष्ट्री करवीरिका । सर्वं व्रीह्यादिकं सम्यं कणिशं सस्यमञ्जरी ॥ १४२७ ॥ सस्यशूकस्तु किंशारुः शूकोऽस्त्र्यग्रे सुतीक्ष्णके । ;l{2860} माषादयः शमीधान्ये शूकधान्ये यवादयः ॥ १४२८ ॥ स्तम्बस्तु गुच्छो व्रीह्यादेः काण्डे नाली च नालकम् । पलालो निष्फलः काण्डः स्त्री गवेधुर्गवेधुका ॥ १४२९ ॥ खलधानं खलस्तस्मिन् पशुबन्धनदारु यत् । समेधिर्ना शमी शिम्बा बुसं पुंसि कटंकरः ॥ १४३० ॥ ;l{2865} धान्यराशिस्तु खलजो वरण्डस्तृणसंचयः । ऋद्धे त्वावसितं धान्ये पूतं स्याद् बहुलीकृतम् ॥ १४३१ ॥ भिस्सा तु भक्तमन्धोऽन्नं दीदिविर्नोदनोऽस्त्रियाम् । पायसं परमान्नं स्यात् मिस्सटा दग्धिका समे ॥ १४३२ ॥ सिक्थो ना भक्तपूलाके कृसरस्तु तिलोदनस् । ;l{2870} मासराचामनिस्रावा मण्ड ओदनसंभवे ॥ १४३३ ॥ यवागूरुष्णिका श्राणा घना सा विरला त्वियम् । विलेपी च विलेप्या च रसाग्रे मण्डमस्त्रियाम् ॥ १४३४ ॥ स्थाली स्थालममत्रं स्यात् कंसोऽस्त्री पानभाजनम् । दारुहस्तस्तु तण्डुः स्यात् खजाका कम्बिदर्विके ॥ १४३५ ॥ ;p{0174} ;l{2875} पृथुकश्चिपिटस्तुल्यौ धाना भृष्टयवे स्त्रियाम् । पुंसि भूम्नि च लाजाः स्युः पूपापूपौ तु पिष्टकः ॥ १४३६ ॥ भक्ष्यकारः कान्दविक आपूपिक इमे त्रिषु । समौ सूपश्च यूषश्च सूपकारास्तु वल्लवाः ॥ १४३७ ॥ आरालिका आन्धसिका सूदा औदनिका गुणाः । ;l{2880} अवन्तिसोमरक्षोघ्नशुक्ताभिषुतकाञ्चिकम् ॥ १४३८ ॥ आरनालकसौवीरगोलकुल्माषकुण्डकम् । मधुसंधानधान्याम्लधान्याकसदनोकम् ॥ १४३९ ॥ विदंशस्तूपदंशः स्याद्भुक्तिजग्धी तु भोजनम् । जेमनवल्भनगिलनप्रत्यवसानानि लेप आहारः ॥ १४४० ॥ ;l{2885} अभ्यवहारो विघसो न्यादस्तृष्णा पिपासा तृट् । उदन्या तर्षणं चाथ फेला भुक्तिसमुज्झितम् ॥ १४४१ ॥ चर्वणं भक्षणं प्सानं खादनं चादनं समम् । क्षुद् बुभुक्षाशनाया च जिघत्सा च क्षुधा च सा ॥ १४४२ ॥ अथाधिश्रयिणी चुल्ली रन्धिकानलधारिका । ;l{2890} अपक्वतक्रं सव्योषचातुर्जातगुडार्द्रकम् ॥ १४४३ ॥ ;p{0175} सजीरकं रसाला सा मार्जिता शिखरिण्यपि ॥ १४४४ ॥ अर्धाढकं सुचिरपर्युषितस्य दध्नः खण्डस्य षोडश पलानि शशिप्रभस्य । सर्पिष्पलं मधुपलं मरिचद्विकर्षं शुण्ठ्याः पलार्धमपि वार्धपलं चतुर्णाम् ॥ १४४५ ॥ श्लक्ष्णे पटे ललनया मृदुपाणियुक्त(घृष्टा?) कर्पूरधूलिसुरभीकृतभाण्डसंस्था । ;l{2895} एषा वृकोदरकृता सुरसा रसाला यासा(स्वा?)दिता भगवता मधुसूदनेन ॥ १४४६ ॥ साजाजीडाडिमव्योषं पटे घट्टं (घृष्टं?) च सट्टकम् । शाकोऽस्त्रियां हरितकं शिग्रुः पुंस्यस्य नालिका ॥ १४४७ ॥ कडम्बश्च कलम्बश्च वेशवार उपस्करः । ऋजीषं पिष्टपचनं निष्ठानं तेमनं समे ॥ १४४८ ॥ ;l{2900} रसको मांसनिष्क्वाथः पिष्टमांसकृतो रसः । सौरावोऽसौ निर्लवणः शुष्कस्तु लवणोत्तरः ॥ १४४९ ॥ स स्याल्लवणखण्डोऽथ निष्पक्वक्वथिते समे । शृतमांसे पिचण्डस्तु निष्कृत्तावयवः पशोः ॥ १४५० ॥ वृक्षाम्लं तिन्त्रिणीकं च चुक्रं चैतत् समं त्रयम् । ;l{2905} रामठं हिङ्गु रक्षोघ्नं जरणं भूतनाशनम् ॥ १४५१ ॥ ;p{0176} सहस्रवेधि जतुकं बाह्लीकं शूकधूपनम् । बाष्पिका कबरी पृथ्वी तत्पत्री कारवी पृथुः ॥ १४५२ ॥ कोलकं मरिचं कृष्णं धनं पत्तनमूषणम् । शुण्ठिर्महौषधं विश्वं नागरं विश्वभेषजम् ॥ १४५३ ॥ ;l{2910} माणिमन्थं शीतशिवं नादेयं सैन्धवोऽस्त्रियाम् । कृतके तु बिडं पाक्यं रौमकं वसुकं समे ॥ १४५४ ॥ सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् । तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥ त्रिकूटं त्रिकुटं खण्डं कटं च लवणेऽब्धिजे । ;l{2915} अक्षीबं वशिरस्तस्मिन् कनिष्ठं क्षेत्रमूषजम् ॥ १४५६ ॥ औद्भिदं पांसुलवणं रूप्यं पानीयसंभवम् । शूलिका तु महाराजी लोष्टावारं महाबिडम् ॥ १४५७ ॥ घटिकालवणं तूग्रं धनघालकमित्यपि । यावशूको यवक्षारो यावको यवशूकजः ॥ १४५८ ॥ ;l{2920} लवणत्रयमेतत् स्यात् सैन्धवं रुचकं बिडम् । सामुद्रं रौमकं सिन्धुसंभवं रुचकं बिडम् ॥ १४५९ ॥ पांसुजं चेति लवणषट्कं सौवर्चलं बिडम् । सैन्धवौद्भिदसामुद्राण्येतल्लवणपञ्चकम् ॥ १४६० ॥ ;p{0177} वरं सौवर्चलं कृष्णं बिडं सामुद्रमौद्भिदम् । ;l{2925} रौमकं पांसुजं चेति यदेतल्लवणाष्टकम् ॥ १४६१ ॥ त्रिकटु त्र्यूषणं व्योषं कणामरिचनागरैः । त्रिफलामलकी पथ्या विभीतकमिति त्रयम् ॥ १४६२ ॥ नागरातिविषामुस्तात्रयमेतत् त्रिकर्षकम् । तदेव हि चतुर्भद्रं गुडूचीपरिमिश्रितम् ॥ १४६३ ॥ ;l{2930} त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धं त्रिजातकम् । तदेव चातुर्जातं स्यान्नागकेसरसंयुतम् ॥ १४६४ ॥ चित्रको नागरं चव्यं पिप्पल्यस्याश्च मूलकम् । पञ्चकोलकमित्येतदथ स्यात् पञ्चवल्कलम् ॥ १४६५ ॥ न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलम् । ;l{2935} तालपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥ १४६६ ॥ गोक्षुरः पञ्चकं चैतद्ध्रस्वपञ्चकनामकम् । बिल्वकाश्मर्यतर्कारीपाटलाडुण्डुकैर्महत् ॥ १४६७ ॥ पञ्चमूलकमित्येतत् पञ्चमूलं तु मध्यमम् । बलापुनर्नवैरण्डैः सूक्ष्मपर्णीद्वयेन च ॥ १४६८ ॥ ;l{2940} तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः । ;p{0178} जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥ कटुत्रयं चाष्टचूर्णमथ स्यात् पञ्चचूर्णकम् । चूर्णीपथ्याकुबेराक्षीकैडर्यैर्दीप्यकेन च ॥ १४७० ॥ घृतं मधु गुडं चेति यदेतन्मधुरत्रयम् । ;l{2945} नागरेण च पिप्पल्या गुडेन च समत्रिकम् ॥ १४७१ ॥ हरिद्राकुष्ठमांसीभिर्मुराशैलेयचम्पकैः । त्वचाकर्पूरमुस्ताभिः सर्वौषधिकमित्यदः ॥ १४७२ ॥ सर्वौषधिकसंयुक्ता संशुष्कामलकीत्वचा । एतत् सुगन्धामलकमथ स्यात् फलपञ्चकम् ॥ १४७३ ॥ ;l{2950} बीजपूरकजम्बीरनारङ्गं चाम्लवेतसम् । तिन्त्रिणीफलमित्येतदथ मूत्राष्टकं गवाम् ॥ १४७४ ॥ महिष्यजाविकाश्वानां रासभोष्ट्रकदन्तिनाम् । टङ्कणं स्यात् क्रामणको लोहसंश्लेषणः कटुः ॥ १४७५ ॥ ऋद्धिराश्वासना सिद्धिर्जीवनी चेतना लघुः । ;l{2955} प्राणदा बोधना लक्ष्मीः सुवृद्धिस्तु तदर्थकाः(थिका?) । रोमाह्वया लता रोमा तरुणी बस्तगन्धिका ॥ १४७६ ॥ क्षुद्रदन्ती स्वादुफला श्वित्रिणी सर्वनालिका । समुद्रफेनः फेनः स्याच्छुष्कं शुष्कपयोभवम् ॥ १४७७ ॥ श्वेता श्वेतनिका तुल्ये शशोर्णं शशलोमनि । ;p{0179} ;l{2960} क्लीबे सिक्थं मधूच्छिष्टं क्षौद्रं तु मधु माक्षिकम् ॥ १४७८ ॥ प्रपौण्डरीकं श्रीपुष्पं पुण्ड्राख्यं मूलसाधनम् । शीतपुष्पं पौण्डरीकं पौण्डर्यं पुण्डरीयकम् ॥ १४७९ ॥ सिद्धकस्तीक्ष्णवृक्षश्च मौर्वी तु कवची समे । पेचकाम्लककार्पासी सिराम्ला चाम्लिका च सा ॥ १४८० ॥ ;l{2965} विष्णुक्रान्ता नीलपुष्पी शुद्धाख्या शुकनासिका । ईश्वरी नागदमनी कापाली सर्पगन्धिका ॥ १४८१ ॥ प्रत्यक्पुष्पी ब्रह्मदण्डी वाराही नवमालिका । भृङ्गाह्वस्तु महानीलो महारक्तोऽलकश्च सः ॥ १४८२ ॥ आरामशीतला देवगन्धा कुक्कुटमर्दकः । ;l{2970} मांसरोहिण्यतिरुहा वृत्ता चर्मकशा कशा ॥ १४८३ ॥ तुङ्गा क्षीरी वंशभवा वंशाख्या तृणकेतकी । शृङ्गवक्त्रा महाघोषा शृङ्गी कर्कटभृङ्गिका ॥ १४८४ ॥ क्षीरशृङ्गी सुषिफला कुलिङ्गा कर्कटाह्वया । विदा तु विषमेदा स्याद्वयःस्था मधुरा बरा ॥ १४८५ ॥ ;l{2975} शल्यपर्णी मणिच्छिद्रा महापुरुषगन्धिका । महामेदा देवमणिर्गन्धमांसी तु रोमशा ॥ १४८६ ॥ पिशाची पूतना केशी भूतकेशी जटा च सा । ;p{0180} विलङ्गोऽस्त्री कृमिघ्नः स्यादमोघा चित्रतण्डुला ॥ १४८७ ॥ तण्डुलोऽपि शिलावज्रं ग्रहं कालानुपूर्वकम् । ;l{2980} शैलधूमं शैलपुष्पं शैलेयं धार्तराष्ट्रकम् ॥ १४८८ ॥ कारवी तु खराश्वा स्यान्मयूरो लोचमस्तकः । कला तु रोचनी श्यामा चित्रकृष्णा त्रिभण्डिका ॥ १४८९ ॥ नखं कोलदलं शुक्तिः खुरः शङ्ख समार्थकाः । गुडः क्षारोऽस्य विकृतौ मत्स्यण्डी खण्डशर्करा ॥ १४९० ॥ ;l{2985} फाणितं क्षुद्रकं खण्डमस्त्रियां शर्करा सिता । बर्हिः पुष्पं ग्रन्थिपर्णं स्थौणेयं कुक्करं शुकम् ॥ १४९१ ॥ अथ स्यात् सर्जिकाक्षारः कपोतः सुखवर्चकः । स्रुघ्निका स्वर्जिका स्वर्जी योगवाही सुवर्चिका ॥ १४९२ ॥ काकाण्डः स्याच्चोदनिका कृष्णशिम्बिर्विचक्षणा । ;l{2990} लाक्षा तु तेजनी राक्षा रङ्गमाता पलंकषा ॥ १४९३ ॥ ;p{0181} जतु द्रुमामयो यावोऽलक्तो रागश्च दीपकः । एलवालुकमैलेयं सुगन्धि हरिवालुकम् ॥ १४९४ ॥ प्रसरेणुस्तु जालार्कमरीचिस्फुरितं रजः । तेऽष्टौ लिक्षा स्त्रियां ताभिस्त्रिंशता राजसर्षपः ॥ १४९५ ॥ ;l{2995} ते तु गौरस्त्रयस्ते तु षड् यवस्तच्चतुष्टयम् । गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥ स सुवर्णो हेमकर्षे पलं कर्षचतुष्टयम् । समौ विस्तसुवर्णौ द्वौ कुरुविन्द(स्त?)स्तु तत्पले ॥ १४९७ ॥ तुला पलशतं ताभिर्विंशत्या भार एव तैः । ;l{3000} आचितः पुंसि दशभिः शाकटो भार आचितः ॥ १४९८ ॥ कार्षापणः कार्षिकः स्यात्ताम्रिके कार्षिके पणः । व्रीहिभिस्त्रिसहस्त्रैर्ना कुडुबस्तच्छतोत्तरैः ॥ १४९९ ॥ ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् । तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥ ;l{3005} इत्यतः परिमाणार्था बहवस्ते पृथक् पृथक् । ;p{0182} परिदानं परीवर्तो नैमेयो निमय एकार्थाः ॥ १५०१ ॥ नीवी परिपणमेषां मूलधनेऽथाधिकं फलं लाभः । स्त्रियां वणिज्या वाणिज्यं व्यवहारो ग्लहः पणः ॥ १५०२ ॥ वस्नोऽर्घोऽवक्रयो मूल्यं विक्रयः प्रक्रयः पणः । ;l{3010} विपणः पणयस्त्वाधिर्बन्धोऽथायो धनागमः ॥ १५०३ ॥ पण्याजीवः सार्थवाहो वैदेहो वाणिजो वणिक् । नैगमश्च प्रापणिकः क्रयविक्रयिकोऽपि सः ॥ १५०४ ॥ क्रयिकः क्रायिकः क्रेता तद्वद्विक्रयिकादयः । क्रये प्रसारितं क्रय्यं क्रेतव्ये क्रेयमित्यदः ॥ १५०५ ॥ ;l{3015} विक्रेयं पणितव्यं स्यात् पण्यं क्रय्यादयस्त्रिषु । व्यतीहारो विनिमयो विक्रयो भर्म वेतनम् ॥ १५०६ ॥ भरण्यं भरणं मूल्यं पणो भृत्या विधा भृतिः । कर्मण्याप्यथ रोषाणो हेमादिनिकषोपलः ॥ १५०७ ॥ सत्यंकारः स्त्रियां सत्याकृतिः सत्यापनं च तत् ॥ १५०८ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे वैश्याध्याय एकविंशः ॥} ;p{0183} ;v{शूद्राध्यायः} ;c{शूद्राध्यायः} ;l{3020} शूद्रोऽन्त्यवर्णो वृषलः पज्जः पद्यो जघन्यजः । चण्डालवर्जिता एते शूद्राः संकरजा अपि ॥ १५०९ ॥ मूर्धावसिक्तोऽम्बष्ठश्च त्रयः पारशवोऽप्यमी । संजाताः क्षत्रियावैश्याशूद्रासु क्रमतो द्विजात् ॥ १५१० ॥ सूतवैदेहचण्डाला ब्राह्मण्यां क्षत्रियादिजाः । ;l{3025} शूद्रायां क्षत्रियादुग्रस्तस्यां तु करणो विशः ॥ १५११ ॥ क्षत्रियायां विशोऽर्यायां क्षत्रियाल्लब्धसंभवौ । क्रमान्मागधमाहिष्यौ क्षत्तार्याशूद्रयोः सुतः ॥ १५१२ ॥ अभिषिक्तः कुम्भकारः शूलिकश्च यथाक्रमम् । क्षत्रियाद्यासु संजाता ब्राह्मणाद् व्यभिचारतः ॥ १५१३ ॥ ;l{3030} तस्मादाभीरमम्बष्ठा निषादी तु मनोजवम् । आसुताव्रतमुग्रस्त्री खंजमन्तावसायिनी ॥ १५१४ ॥ क्षत्रियायां तु शूद्रेण जनितः पारधेनुकः । ब्राह्मण्यां नापितोऽम्बष्ठाद्रजकः पारधेनुकात् ॥ १५१५ ॥ तक्षा तु करणाज्जातो माहिष्याद्वैणवस्तथा । ;l{3035} आयोगवाच्चर्मकारो मागधात्ताम्रजीवकः ॥ १५१६ ॥ क्षत्रियायां तु माहिष्याजातौ चार्मिकसूचिकौ । ;p{0184} मागधात् खनकोऽम्बष्ठाज्जातो यो नापितश्च सः ॥ १५१७ ॥ मत्स्यबन्धस्तु करणात् करण्यां रथकारकः । माहिष्यादेव तस्यां तु किरातात् पलगण्डकः ॥ १५१८ ॥ ;l{3040} चण्डालात् पुल्कसो जातः तस्यां च श्वपचश्च सः । अन्येऽप्यन्योन्यसंकीर्णा बहवः क्षुद्रजातयः ॥ १५१९ ॥ कुलालः कुम्भकारः स्याद् भाण्डकृच्चोर्ध्वनापितः । तस्य चक्रं भ्रमिः स्त्री स्यात् पचनं पाकमण्डलम् ॥ १५२० ॥ तक्षा तु वर्धकिस्त्वष्टा स्थपती रथकारकः । ;l{3045} कौटतक्षोऽनधीनः स्याद् ग्राभतक्षोऽन्वितार्थक्रः ॥ १५२१ ॥ शिलाकुट्टककुण्डाश्मतक्षाणश्च समास्त्रयः । वृक्षादनो वृक्षभेदी टङ्कः पाषाणदारणः ॥ १५२२ ॥ व्रश्चनः पत्रपरशुर्वासिः स्त्री दारुतक्षणी । कर्तनः स्वधितिः पुंसि कृपाणी कर्तरी समे ॥ १५२३ ॥ ;l{3050} आस्फोटनी वेधनिका व्योकारो लोहकारकः । कर्मारः स्यादयस्कारो भस्त्रा चर्मप्रसेविका ॥ १५२४ ॥ संदंशः स्यात् कङ्कमुखो घनः कूटोऽप्ययोधनः । यत्र निक्षिप्य कूटेन हन्यतेऽयोनिघातिका ॥ १५२५ ॥ निधाय तक्ष्यते दारु यत्र काष्ठे स उद्घनः । ;l{3055} नाडिंधमः स्वर्णकारः कलादश्च समास्त्रयः ॥ १५२६ ॥ ;p{0185} नाराची स्यादेषणिका शौल्बिकस्ताम्रकुटकः । मणिकारो वैघटिकः शाणस्तु निकषः कषः ॥ १५२७ ॥ शालिकः स्यात् काम्बविकः शस्त्रमार्जोऽसिधावकः । तैजसावर्तनी मूषा वेधन्यास्फोटनी समे ॥ १५२८ ॥ ;l{3060} नापितः क्षौर(रि?)को वप्ता चण्डिलान्तावसायिनौ । ग्रामणीश्च दिवाकीर्तिः क्षुरो वपनशस्त्रकम् ॥ १५२९ ॥ निर्णेजकस्तु रजको मण्डहारकशौण्डिकौ । कारवः शिल्पिनः सर्वे कला शिल्पं नपुंसकम् ॥ १५३० ॥ सौचिकस्तुन्नवायः स्यात् स्त्रियां सूचिश्च सीवनी । ;l{3065} विध्यते येन मण्यादिराविधोऽसावथ त्रिषु ॥ १५३१ ॥ ऊतं स्यूतमुतं स्यूतिः सीवनं सेवनं समे । रङ्गाजीवश्चित्रकारो मालाकारस्तु मालिकः ॥ १५३२ ॥ निषादः स्यात् पारशवः कायस्थकरणौ समौ । तन्तुवायः कुविन्दः स्यात् त्रसरः सूत्रवेष्टनम् ॥ १५३३ ॥ ;l{3070} वाणिर्व्यूतं तु वानं स्यात् पिचुर्ना तूलमस्त्रियाम् । धाराः कार्पासतूलाः स्युस्तेषां तु प्रविसारणम् ॥ १५३४ ॥ पिञ्जनं स्याद्विहननं पलगण्डस्तु लेपकः । तूलिका लेखनी कूर्ची पुस्तं लेप्यादिकर्मणि ॥ १५३५ ॥ ;p{0186} हरिणी लोहप्रतिमा सूर्मी स्थूणान्यलोहजा । ;l{3075} प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ १५३६ ॥ अर्चा प्रत्याकृतिश्छायोपमा प्रतिनिधिः पुमान् । प्रतिमानोपमाने च बिम्बोऽस्त्री प्रतिविम्बवत् ॥ १५३७ ॥ जाबालः स्यादजाजीवो देवाजीवस्तु देवलः । पाशी तु कर्णिका रज्जूर्वरत्रा तन्त्रिका वटी ॥ १५३८ ॥ ;l{3080} पाशो रश्मिर्गुणो बन्धो वराटः प्रग्रहो वटः । शुल्बं शुल्बाप्यथ व्याधो मृगयुर्लुब्धकश्च सः ॥ १५३९ ॥ जालिकः स्याद्वागुरिको वागुरा मृगबन्धनी । उन्माथः कूटयन्त्रं स्याच्छल्यमस्त्री शलाकिका ॥ १५४० ॥ वितंसः स्यान्मृगाणां च विहगानां च बन्धने । ;l{3085} गृह्यन्ते पक्षिणा येन पक्षिणोऽन्ये स दीपकः ॥ १५४१ ॥ पशवो येन सोऽपि स्यात् स्मृतिभूर्वञ्चनापटः । पराधिः खेट आखेटो मृगव्याच्छोदने समे ॥ १५४२ ॥ मृगयाप्यथ योगाद्यो लुब्धकैर्दक्षिणव्रणः । दक्षिणेर्मा स हरिणो वध्री नध्री समे उभे ॥ १५४३ ॥ ;l{3090} जीवान्तकः शाकुनिकः स्याद्वैतंसिककौटिकौ । तैलाजीवस्तु चक्री स्यात् पिण्याको ना खलिः स्त्रियाम् ॥ १५४४ ॥ पादूरुपानत् स्त्री सैवानुपदीना पदायता । ;p{0187} पादूकुच्चर्मकारः स्यादारा चर्मप्रभेदिका ॥ १५४५ ॥ संवाहकोऽङ्गमर्दः स्याच्छैलूषो भरतो नटः । ;l{3095} जायाजीवः सर्वकेशी शैलाली वहुरूपकः ॥ १५४६ ॥ रङ्गाजीवः कृशाश्वी च चारणास्तु कुशीलवाः । पूरकः प्लवकः केलो रज्जूयष्ट्यसिनर्तकः ॥ १५४७ ॥ नन्दी तु पाठको नन्द्याः पार्श्वस्थाः पारिपार्श्वकाः । स्याद्भ्रूकुंसो भ्रुकुंसश्च भ्रकुंसश्चेति नर्तकः ॥ १५४८ ॥ ;l{3100} नारीवेषधरो रङ्गे सूत्रधारस्तु सूचकः । शक्रराघवदेवानां नर्तको भूमिकाधरः ॥ १५४९ ॥ शचीवलो देवरथः क्रमात् स्यादर्धमानुषः । रावणस्य तु रङ्गोपमर्दको भूमिकाधरः ॥ १५५० ॥ रङ्गावतारी रुद्रस्य कृष्णस्य त्वर्धमानवः । ;l{3105} मार्दङ्गिको मौरजिकः पाणिघातस्तु पाणिघः ॥ १५५१ ॥ वेणुध्माः स्युर्वैणविका हास्यभाषी विदूषकः । वेश्याचार्यः पीठमर्दी नर्तकी लासिका समे ॥ १५५२ ॥ तालो विलम्बितं कालो द्रुतं मध्यं क्रिया लयः । ओघः साम्यं धनं तत्त्वं क्रियाथ भ्रमरी भ्रमः ॥ १५५३ ॥ ;l{3110} सुरा कादम्बरी हाला प्रसन्नेरा परिस्रुतिः । ;p{0188} वारुणी मदिरा माध्वी शुण्डा गन्धोत्तमावृता ॥ १५५४ ॥ परिस्रुता रसालेरा बलभद्रप्रिया रसा । मैरेयकश्यमद्यानि मार्द्बीकं कापिशायनम् ॥ १५५५ ॥ कपिशं मोहनं कल्यमस्त्रियां मधुशीधुनी । ;l{3115} अनुतर्षस्त्रिसरको मेदको जगलासवौ ॥ १५५६ ॥ सरको मेदना कल्या माधवी मतिमोहिनी । तद्भेदा माधवः पैष्टी गोली माध्वी मधूलिका ॥ १५५७ ॥ शुण्डापानं मदस्थानमापानं पानगोष्ठिका । मदनृत्तं तु मत्तल्ली मधुवाराः मधुक्रमाः ॥ १५५८ ॥ ;l{3120} कारोत्तरः सुरामण्डः किण्वं पुंस्येव नग्नहूः । आसूतिर्मधुसंधानमासवाभिषवावपि ॥ १५५९ ॥ चषकोऽस्त्री पानपात्रमुपदंशोऽपि दंशकः । जनंगमदिवाकीर्तिचण्डालप्लवपुल्कसाः ॥ १५६० ॥ मातंगश्वपचावन्तेवासिचाण्डालपुष्यलाः । ;l{3125} भिल्लाः किराताः शबराः पुलिन्दाश्च निषादकाः ॥ १५६१ ॥ म्लेच्छादयश्च तद्भेदाः स्तेनश्चोरो मलिम्लुचः । मोषकस्तस्करो दस्युर्लुण्टाकः प्रतिरोधकः ॥ १५६२ ॥ ;p{0189} प्रतिरोधी परास्कन्दी चौरिकः पारिपन्थिकः । पाटच्चरैकागरिकौ प्रतिमोष्टा निशाचरः ॥ १५६३ ॥ ;l{3130} पश्यतो यो हरत्यर्थं स चोरः पश्यतोहरः । कर्णीसुतः करवटो मूलदेवः कुलाङ्कुरः ॥ १५६४ ॥ स्तेनशस्त्रे फणिमुखश्चारको बन्धनालये । स्तैन्यं स्तेयं च चौर्यं च लोप्त्रं स्याच्चोरितं धनम् ॥ १५६५ ॥ दासे तु भृत्यदासेयदासेरप्रेष्यकिंकराः । ;l{3135} नियोज्यो गोप्यकश्चेटो भुजिष्यः परिचारकः ॥ १५६६ ॥ परैधितः परास्कन्दी परजातः पराचितः । भृतकः स्यात् कर्मकरः प्रेष्यो वैतनिकोऽपि सः ॥ १५६७ ॥ द्यूतकृत् कितवो धूर्तश्चाक्षदेव्यक्षदेवनः । स्यादेवाक्षवती द्यूतमस्त्रियां कैतवं पणः ॥ १५६८ ॥ ;l{3140} ग्लहोऽक्षेषु पणोऽक्षाः स्युर्देवनाः पातना इति । शारयोऽप्यथ शारीणां परिणायः समानयः ॥ १५६९ ॥ अक्षस्तु द्यूतभेदे स्यात् सभिका द्यूतकारकाः । अष्टापदं शारिफलं प्राणिद्यूतं समाह्वयः ॥ १५७० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शूद्राध्यायो द्वाविंशः ॥} ;p{0190} ;v{विशेष्यनिघ्नाध्यायः} ;{विशेष्यनिघ्नाध्यायः} ब्रह्मक्षत्रियविट्च्छूद्राः साङ्गोपाङ्गैः समीरिताः । ;l{3145} विशेष्यनिघ्नैरध्यायः पदैरत्राभिधास्यते ॥ १५७१ ॥ कुशलप्रवीणकृतमुखशिक्षितकृतकर्मनिपुणनिष्णाताः । पटुचतुरदक्षपेशलवैज्ञानिकविज्ञसुकलसूत्थानाः ॥ १५७२ ॥ अर्घ्यः परार्घ्यः प्रवरो वरेण्यः प्राग्र्यः प्रवेकः प्रमुखः प्रकृष्टः । अनुत्तमः प्राग्रसरः प्रबर्हः श्रेष्ठोत्तमाग्रीयवरिष्ठवर्याः ॥ १५७३ ॥ ;l{3150} ऋषभः कुञ्जरः सिंहः शार्दूलो व्याघ्रपुंगवौ । नाग इत्यादयः पुंसि श्रेष्ठार्थाः स्युः पदात् परे ॥ १५७४ ॥ नीचे निहीनापशदपामरेतरबर्बराः । विवर्णः क्षुल्लको जाल्मः प्राकृतश्च पृथग्जनः ॥ १५७५ ॥ त्रस्तश्चकितो दरितो भीतो विग्नो विशङ्कितस्त्रस्नुः । ;l{3155} कातरभीरुकभीलुकभीरव एकादशाधीरे ॥ १५७६ ॥ धीरे धृष्णुवियातौ धृष्णग्दधृषौ प्रगल्भधृष्ठौ च । क्रोधनमर्षणकुपितक्रुद्धा रुष्टोऽतिकोपनश्चण्डः ॥ १५७७ ॥ क्षन्ता क्षमी तितिक्षुः क्षमिता मर्षी तितिक्षिता सोढा । मर्षणसहिष्णुसहना विक्लवशालीनविह्वलास्तु समाः ॥ १५७८ ॥ ;l{3160} पूजितमञ्चितमर्चितमपचितमपचायितं महितम् । ;p{0191} मानितमर्हितनमसितनमस्यिताराधिताभिराद्धानि ॥ १५७९ ॥ वरिवसिते परिवस्यितमुपासितमुपचरितपरिचरिते । चक्षुष्यसुभगशोभनसाधुमनोज्ञाभिरामरमणीयाः ॥ १५८० ॥ वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः । ;l{3165} मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥ हर्षमाणो विकुर्वाणः प्रमना मुदिताशयः । विमना दुर्मना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ १५८२ ॥ प्रतिकृष्टनिकृष्टार्वरेफगर्ह्याधमावमाः । कुपूयः कत्सितः खेटो याप्योऽवद्योज्वरोऽणकाः ॥ १५८३ ॥ ;l{3170} आक्रुष्टो गर्हितो हेयोऽवगीतश्च निन्दितः । अभिभूतस्त्ववज्ञात आत्तगन्धोऽवमानितः ॥ १५८४ ॥ परिभूतः पराभूतो रीढितोऽवमतो धुतः । अधिक्षिप्तः प्रतिक्षिप्तोऽवरीणो धिक्कृतः समाः ॥ १५८५ ॥ मायावी कौक्कुटो मायी मायिकः प्रातिहारिकः । ;l{3175} स्यान्नैकृतो नैकृतिकः शठः कापटिकोऽनृजुः ॥ १५८६ ॥ कुहको व्यंसको धूर्तो जाल्मः कौसृतिकोऽपि सः । सज्जनः सुजनः साधुर्दुर्जनः पिशुनः खलः ॥ १५८७ ॥ कर्णेजपः सूचकोऽथ स्यादेवोद्गूर्णमुद्यतम् ॥ १५८८ ॥ ;p{0192} विश्रुतविदितख्यातप्रथितव्यपदिष्टवित्तविज्ञाताः । ;l{3180} सुरभिप्रतीतकीर्तितवर्णितसुकलप्रसिद्धसुगृहीताः ॥ १५८९ ॥ गुण प्रसिद्धे तु कृतलक्षणाहितलक्षणौ । महोद्यमो महोत्साहो महेच्छः स्यान्महाशयः ॥ १५९० ॥ अर्च्यः पूज्यः प्रतीक्ष्यः सहृदयहृदयालू समौ हृष्टतुष्टौ । प्रीतप्रह्लन्नतृप्तप्रमुदितमुदितामोदिताः स्युः प्रतीते ॥ १५९१ ॥ इभ्यस्त्वाढ्यो धनी स्यात् परिवृढ इन ईशोऽधिभूः स्वास्यधीशो । नेता नाथोऽधिपोऽपि प्रभुरथ बहुदः स्थूललक्षो वदान्यः ॥ १५९२ ॥ ;l{3185} गृध्नुर्गर्द्धनलोलुपलोलुभलोलाभिलाषुकसतृष्णाः । तृष्णग्लम्पट ईप्सुः साशो धन्यस्तु पुण्यवान् सुकृती ॥ १५९३ ॥ श्रीलस्तु लक्ष्मणः श्रीमानस्तिमान् धनिको धनी ॥ १५९४ ॥ उदारो दातृभोक्ता स्यादिष्टार्थोद्युक्त उत्सुकः । स्पन्दनं किंचिच्चलनं पारिप्लवपरिप्लवे ॥ १५९५ ॥ ;l{3190} तरललोलचलाचलचञ्चलप्रचलकम्पनकम्प्रचलानि च । विकटपीनविशंकटपीवराः पृथुविशालबृहत्पृथुलोरवः ॥ १५९६ ॥ महान् भद्रश्च विपुलपीव्नी तु स्थूलपीवरे । दभ्रमल्पं कृशं सूक्ष्मं स्तोकं च क्षुल्लकं तनु ॥ १५९७ ॥ संशयालुः संशयिता संदेग्धा विचिकित्सकः । ;p{0193} ;l{3195} क्षीबशौण्डोत्कटा मत्ते घूर्णितः प्रचलायितः ॥ १५९८ ॥ स्वप्नङ्निद्रालुनिद्राणशयालुशयिताः समाः । मन्दस्तुन्दपरिमृजस्तन्द्रालुः शीतकोऽलसः ॥ १५९९ ॥ निर्निद्रः स्याज्जागरिता प्रबुद्धोन्मिषितावपि । ह्रीमति व्रीलितह्रीतह्रीणलज्जितसत्रपाः ॥ १६०० ॥ ;l{3200} ह्रीशीलोऽपत्रपिष्णुः स्यादप्रमत्तोऽवधायिनि । परीक्षकः कारणिको दयालुः कृपान्वितः कारुणिकः कृपालुः ॥ १६०१ ॥ अन्वेषको मार्गयिता विवेता गवेषकश्चानुपदीक्षकश्च । छन्नाच्छादितपिहितव्यवहितसंवलितसंवृतापिहितम् ॥ १६०२ ॥ स्थगितप्रोर्णुतरुद्धान्तर्हितमपवाहितं च संवीतम् । ;l{3205} अस्तं नुत्तं विद्धं क्षिप्तं नुन्नेरिते च निष्ठ्यूतम् ॥ १६०३ ॥ मार्गितमृगितान्वेषितविचितान्विष्टं गवेषितं च समम् । अधिगतविदितज्ञातप्रतिपन्नावगतबुद्धबुधितानि ॥ १६०४ ॥ अवसितमनितप्रेक्षितभावितवित्तप्रतीतमुपलब्धम् । संश्रुतविदितसमाहितसंगीर्णानि प्रतिश्रुतोपगते ॥ १६०५ ॥ ;l{3210} ऊरीकृतमुररीकृतमाश्रुतमङ्गीकृतं प्रतिज्ञातम् । रक्षितमवितं त्रातं त्राणं गोपायितं गुप्तम् ॥ १६०६ ॥ पालितमविता गोप्ता त्राता संरक्षिता दयिता । छिन्नं छातं लूनं कृत्तं वृक्णं छितं दितं त्रुटितम् ॥ १६०७ ॥ ;p{0194} भेदितभिन्नविदारितखण्डितदलितानि पाटितं च समम् । ;l{3215} चोरितरुण्ठितलुण्ठितमूषितमुषितानि पञ्च तुल्यानि ॥ १६०८ ॥ उपचितनिदिग्धवर्द्धितमेधितमृद्धोपबृंहितं स्फीतम् । निर्णायकस्तु निश्चेता गृहयालुर्ग्रहीतरि ॥ १६०९ ॥ सस्पृहः स्पृहयालुः स्यात् पतयालुस्तु पातुकः । उभावुष्णालुशीतालू उष्णशीतासहौ क्रमात् ॥ १६१० ॥ ;l{3220} श्राद्धः श्रद्धालुरर्चावानार्चो वार्तस्तु वृत्तिमान् । वर्तिष्णुर्वर्तनो भूष्णुर्भविष्णुर्भविता च सः ॥ १६११ ॥ क्षेपकः क्षेपणः क्षेपः क्षिपः प्रेरयिता नुदः । क्षिप्नुर्निराकरिष्णुः स्यात् समौ वर्धिष्णुवर्धनौ ॥ १६१२ ॥ उन्मदिष्णुस्तु सोन्मादो वन्दारुरभिवादकः । ;l{3225} अथ भ्राजिष्णुरोचिष्णुविभ्राजो भ्राजितर्यमी ॥ १६१३ ॥ क्लिष्टे तु क्लेशितः क्षान्ते सोढमुद्वान्तमुद्गते । शान्तस्तु शमितो दान्तो दमितेऽवसिते सितः ॥ १६१४ ॥ लीढमास्वादितं गूढं गुप्तं मीढं तु मूत्रितम् । गुण्डितं रूषिते पूर्णं पूरिते याचितेऽर्दितम् ॥ १६१५ ॥ ;l{3230} ग्रन्थितं ग्रथितं दृब्धं घ्राणं घ्रातं धृतं भृतम् । रोमाञ्चितं तु हृषितं विस्तृतं विसृतं ततम् ॥ १६१६ ॥ ;p{0195} दण्डितः प्राप्तदण्डः स्यान्मुण्डितः परिवापितः । अविलम्बितमुच्चण्डं विलीनं विद्रुतं द्रुतम् ॥ १६१७ ॥ साधारणं स्यात् सामान्यं घनीभूतं तु पिण्डितम् । ;l{3235} दग्धे प्रुष्टोषितप्लुष्टा विद्धे छिद्रितवेधितौ ॥ १६१८ ॥ सक्तं लग्नं लिप्तं दिग्धं नवं गतं यातम् । नष्टमदृष्टं जुष्टं सेवितमथ तत्परः प्रसितः ॥ १६१९ ॥ छेदनः छिदुरः पीनो मेदुरो विदुरो बुधः । उन्नोत्तस्तिमितक्लिन्नतिमितार्द्राः समार्थकाः ॥ १६२० ॥ ;l{3240} उच्चमुत्कटमुत्तालं प्रांशूदग्रं समुन्नतम् । उद्धुरं तुङ्गमुन्नम्रमुच्छ्रितं दशकं समम् ॥ १६२१ ॥ स्थेष्ठसाधिष्ठनेदिष्ठस्फेष्ठप्रेष्ठा यथाक्रमम् । स्थिरबाढान्तिकबहुप्रियातिशयवाचिनः ॥ १६२२ ॥ स्थूलदूरयुवह्नस्वक्षिप्रक्षुद्रातिशायने । ;l{3245} स्युः स्थविष्ठयविष्ठाद्याः श्रेष्ठो ज्यायानथ क्रमात् ॥ १६२३ ॥ द्रढिष्ठः क्रशिष्ठो गरिष्ठो लषिष्ठो म्रदिष्ठः प्रथिष्ठो वरिष्ठः पटिष्ठः । द्रढीयान् क्रशीयान् गरीयान् लघीयान् म्रदीयान् प्रथीयान् वरीयान् पटीयान् ॥ १६२४ ॥ वर्षिष्ठोऽधिकवृद्धः स्याद् वर्हिष्ठो बहुलो भृशम् । स्युस्तत्र जात इत्यर्थे ह्यस्तनश्वस्तनादयः ॥ १६२५ ॥ ;p{0196} ;l{3250} यौष्माकीणस्तु यौष्माको युष्मदीयो यथा तथा । आस्माकीनादयोऽथ स्यान्मृदूलं मृदु कोमलम् ॥ १६२६ ॥ कर्कशे तु घनक्रूरकठोरदृढनिष्ठुराः । जरठः कठिनो नूत्नो नूतनोऽभिनवो नवः ॥ १६२७ ॥ नव्यो नवीनः प्रत्यग्रः पुराणस्तु पुरातनः । ;l{3255} प्राक्तनः प्रतनः प्रत्नः स्याच्चिरंतन इत्यपि ॥ १६२८ ॥ प्रसव्यो निघ्न आयत्तो वशोऽधीनश्च गृह्यकः । स्युर्मार्गणे याचनकयाचकार्थिवनीयकाः ॥ १६२९ ॥ तूष्णींशीलस्तु तूष्णीको नानारूपः पृथग्विधः । स्वच्छन्दोऽपावृतः स्वैरी स्वतन्त्रो निरवग्रहः ॥ १६३० ॥ ;l{3260} पराधीनः परच्छन्दः परवान् परतन्त्रकः । विधेयः प्रश्रयो वश्यः प्रणेयो निभृतः समाः ॥ १६३१ ॥ आश्रवो वचनग्राही पुरोभागी तु दोषभाक् । समावक्षिगतद्वेष्यौ मलिनस्तु मलीमसः ॥ १६३२ ॥ समास्तेजस्विवर्चस्विभास्वद्भासुरभास्वराः । ;l{3265} ईड्यः प्रशंस्यः स्तोतव्यः स्तुत्यः स्तव्यः स्तवोचितः ॥ १६३३ ॥ उच्चावचं नैकभेदं निश्चलस्तिमिते समे । निबिडं निबिरीसं स्याद् घनं सान्द्रं निरन्तरम् ॥ १६३४ ॥ सुदृढं संहतं श्लिष्टं पेलवं विरलं तनु । निस्तलं वर्तुलं वृत्तं स्थपुटं तु विसंस्थुलम् ॥ १६३५ ॥ ;p{0197} ;l{3270} न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ । कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥ जिह्ममजिह्मप्रगुणावृजुरथ विकृतं करालविप्रकृते । भ्राजितभासितशोभितराजितविद्योतितं दीप्तम् ॥ १६३७ ॥ स्तुतनुतशस्तपनायितपनितेडितपणायितं पणितम् । ;l{3275} मूढे मूर्खवृथाजातमातृशिष्टाज्ञबालिशाः ॥ १६३८ ॥ मन्दवैधेयविकला धर्महीनस्त्वधार्मिकः । स्वनितध्वनितविरावितशब्दितसंघुष्टरसितमारणितम् ॥ १६३९ ॥ स्तनितं नदितमधिश्रितमधिगतमासादितं प्राप्तम् । सर्वमशेषमखण्डं सकलाखिलसमग्रविश्वनिखिलानि ॥ १६४० ॥ ;l{3280} समस्तपूर्णकृत्स्नानि चरिष्णु चरजङ्गमे । अचरः स्थावरे तुल्येऽत्र समिङ्गं चराचरम् ॥ १६४१ ॥ स्थेयान् स्थिरतरः स्थास्नुः समौ तु क्षय्यनश्वरौ । जिघत्सुः क्षुधितः क्षुद्वान् बुभुक्षुरशनायितः ॥ १६४२ ॥ पिपासितस्तु तृषितः पिपासुस्तर्षितः सतृट् । ;l{3285} भुक्तजग्धाशितग्रस्तग्लस्ताभ्यवहृताहृतम् ॥ १६४३ ॥ जेमितं प्रत्यवसितमन्नं गिलितवल्गिते । भक्षितं खादितं लिप्तं चरितं चर्वितं समम् ॥ १६४४ ॥ ;p{0198} त्रयस्त्वात्मंभरिः कुक्षिंभरिरप्युदरंभरिः । स्वकुक्षिपूरके तुल्या भक्षकाद्मारघस्मराः ॥ १६४५ ॥ ;l{3290} स्यादौदरिक आद्यूनो विहीनो विजिगीषया । सर्वान्नीनस्तु सर्वान्नभुक् परान्नः परान्नभुक् ॥ १६४६ ॥ प्रत्युत्पन्नमतिः स स्यात् तत्कालोत्पन्नधीस्तु यः । आशंसिता स्यादाशंसुर्विलक्षस्तु सविस्मयः ॥ १६४७ ॥ कुण्ठो मन्दक्रियो देवानांप्रियो नामवर्जितः । ;l{3295} एकायनगतैकाग्रावेकतानैकसर्गकौ ॥ १६४८ ॥ एकायनैककल्पैकव्यवस्थानन्यवृत्तयः । यद्भविष्यो दैवपरो विहस्तव्याकुलौ समौ ॥ १६४९ ॥ गेहेनर्दी गृहेशूरः पिण्डीशूरो गृहेप्रभुः । पृक्तः करम्बितो मिश्रश्छुरितो मिलितः समाः ॥ १६५० ॥ ;l{3300} स तु सार्वजनीनः स्याद्धितः सर्वजनाय यः । तथा प्रातिजनीनश्च प्रियवादी प्रियंवदः ॥ १६५१ ॥ स तु विश्वजनीनः स्याद्धितो विश्वजनाय यः । आत्मनीनस्त्वात्महितः सार्वः सर्वहितश्च यः ॥ १६५२ ॥ यः सहाञ्चति सध्र्यङ् स विष्षध्र्यङ् विष्वगञ्चति । ;l{3305} देवानञ्चति देवध्र्यङ् स तिर्यङ् यस्तिरोऽञ्चति ॥ १६५३ ॥ प्रत्यक्परागर्वाक्तिर्यक्प्रागुदग्विष्वगादयः । दिग्देशकालवचनाः शब्दाः स्युः क्वचिदव्यये ॥ १६५४ ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् । ;p{0199} सिंहसंहननः श्रेष्ठरूपवान् प्रशमी प्रशान् ॥ १६५५ ॥ ;l{3310} तदासेचनकं तृप्तिर्नास्ति यस्य हि दर्शनात् । दृढेतरस्तु शिथिलो दीर्घसूत्रश्चिरक्रियः ॥ १६५६ ॥ उच्छृङ्खलं स्यादुद्दामं निरङ्कुशमनर्गलम् । संबाधः संकटो रीणः क्षीणो मूर्तस्तु मूर्तिमान् ॥ १६५७ ॥ कुट्टाकरछेदकश्छेत्ता शरारुर्हिंस्रघातुकौ । ;l{3315} पूतः पवित्रः प्रयतः पुण्यो मेध्यश्च शुद्धवत् ॥ १६५८ ॥ निवृतं तु परिक्षिप्तं कलिलं गहनं समे । जैवातृक आयुष्मान् स्फीतं वृद्धं बहुकरः खलपूः ॥ १६५९ ॥ दक्षिणसरलोदारास्तुल्याः सुकलः स दातृभोक्ता यः । अन्तिकनिकटसनीडाभ्यर्णाभ्यग्रोपकण्ठसविधास्तु ॥ १६६० ॥ ;l{3320} आसन्नसंनिकृष्टाभ्याशसमर्यादसाग्रकसदेशाः । समीपे स्युरलिङ्गे तु समया निकषाऽभितः ॥ १६६१ ॥ परोक्षोऽतीन्द्रियोऽध्यक्षप्रत्यक्षौ तु समक्षवत् । प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ॥ १६६२ ॥ साधु कर्मणि कर्मण्यः कर्मकारस्तु तत्क्रियः । ;l{3325} कर्मक्षमोऽलंकर्मीणः कर्मी स्यात् कर्मणि स्थितः ॥ १६६३ ॥ कार्मस्तु कर्मशीलः स्यात् कर्मशूरस्तु कर्मठः । क्रियावान् कर्मसूद्युक्तः समौ संकुसुकास्थिरौ ॥ १६६४ ॥ ;p{0200} विन्नं निर्लोडितं वित्तं भाबितं च विचारिते । पतितं क्षरितं पन्नं स्यन्नं स्कन्नं स्रुतं स्नुतम् ॥ १६६५ ॥ ;l{3330} स्रस्तं ध्वस्तं च्युतं रीणं गलितं भ्रष्टमित्यपि । शातं निशातं निशितं च तीक्ष्णं क्षुतं च मर्मस्पृगरुंतुदं स्यात् । न्यस्ते निसृष्टं पुषिते तु पुष्टं त्वष्टं च तष्टं च तनूकृते द्वे ॥ १६६६ ॥ वावदूको वदो वादी वक्ता वाग्मी वदावदः । स्याद्वाचोयुक्तिकुशलो वागीशो वाक्पतिः प्रवाक् ॥ १६६७ ॥ ;l{3335} समौ जल्पाकवाचालौ वाचाटो बहुनिन्द्यवाक् । कुवादी कुचरो गर्ह्यवादी कद्वद इत्यपि ॥ १६६८ ॥ दुर्मुखौ मुखराबद्धमुखौ शक्तः प्रियंवदः । शब्दनो रवणो नान्दीवादी नान्दीकरः समाः(मौ?) ॥ १६६९ ॥ उपस्थितं तूपनतं समे मसृणचिक्कणे । ;l{3340} अनायासकृतं फाण्टं काचितं शिक्यितं समे ॥ १६७० ॥ उत्क्षिप्तोदञ्चितोदस्तोद्धृतोद्गमितमुद्धतम् । उत्थापितं चोन्नमितं चटुलं चलितार्थकम् ॥ १६७१ ॥ ;p{0201} व्युत्पन्नः प्रहतः क्षुण्णः प्राप्तप्रणिहितौ समौ । आहतो गुणितोऽथान्तर्गतं प्रस्मृतविस्मृतौ ॥ १६७२ ॥ ;l{3345} वेल्लितं प्रेङ्खितं धूतं रिङ्गितं त्वङ्गितं धुतम् । प्रेङ्खोलितं च संतप्तो धूपितस्तापितो धुतः ॥ १६७३ ॥ धूपायितो गुण्डितस्तु रूषितो रुषितः सरुट् । बहुलं प्रचुरं प्राज्यं भूयिष्ठं पुरुजं पुरु ॥ १६७४ ॥ भूरिभूयःस्फिरस्फारघनादभ्रबहूनि च । ;l{3350} अल्पीयोऽल्पिष्ठमत्यल्पे कनीयोऽणीयसी अपि ॥ १६७५ ॥ त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः । शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥ निष्कासितोऽवकृष्टः स्यात् पक्षिसर्पादयोऽण्डजाः । स्वेदजाः कृमिदंशाद्या नृगवाद्या जरायुजाः ॥ १६७७ ॥ ;l{3355} उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् । क्षेमंकरो रिष्टतातिः शिवतातिः शिवावहः ॥ १६७८ ॥ आदिराद्योऽग्रिमः पूर्वः पौरस्त्यः प्रथमादिमौ । ;p{0202} अन्तो जघन्यः पाश्चात्यश्चरमोऽन्त्योऽन्तिमोऽपरः ॥ १६७९ ॥ समानावुत्तरोदीच्यौ दाक्षिणात्यस्तु दक्षिणः । ;l{3360} समानौ प्राग्भवप्राच्यौ पक्त्रिमं तु पचेलिमम् ॥ १६८० ॥ सदातनः सनातनो ध्रुवश्च नित्यशाश्वतौ । वशीकृतोऽनुकूलितः सुखाकृतः प्रियाकृतः ॥ १६८१ ॥ अनुलोमोऽनुकूलः स्यादनूचीनस्तदर्थकः । प्रसव्यं प्रतिकूलार्थमपसव्यमपष्ठु च ॥ १६८२ ॥ ;l{3365} सव्यं वामं शरीरं स्यादपसव्यं तु दक्षिणम् । प्रतिलोमं प्रतीकूलं प्रतीपं च विलोमवत् ॥ १६८३ ॥ प्रापणीयं समासाद्यं प्राप्यं गम्यं समार्थकम् । अतिरिक्तोऽधिकार्थः स्यात् संहतं दृढसंधिमत् ॥ १६८४ ॥ स्याद्विनाशोन्मुखं पक्वं पक्वं परिणतं समे । ;l{3370} भिदेलिमं प्रभिन्नार्थं छिन्नार्थं स्याच्छिदेलिमम् ॥ १६८५ ॥ वैरागिको विरागार्ह आपन्नस्त्वापदायुतः । वधार्हस्त्वाततायी स्याद्विष्यो वध्यो विषेण यः ॥ १६८६ ॥ ;p{0203} मुसल्यो मुसलेन स्याद्दण्ड्यो दण्डार्ह इत्ययम् । एकाकी त्वसाहायः स्यादेकश्चैकैक इत्यपि ॥ १६८७ ॥ ;l{3375} भिन्नार्थवाचकास्त्वेत एकान्यान्यतरेतरे । चपलश्चिकुरस्तुल्यौ वन्ध्यो मोघो निरर्थकः ॥ १६८८ ॥ प्रत्याख्यातो निरस्तः स्यान्निर्वातो वातवर्जिते । पाके क्वथितनिष्पक्वे स्याद्दुग्धहविषोः शृतम् ॥ १६८९ ॥ त्यक्तं हीनं समुत्सृष्टं धुतं धूतं समुज्झितम् । ;l{3380} विहस्तव्याकुलौ तुल्यौ प्रत्यादिष्टो निराकृतः ॥ १६९० ॥ निर्वृत्त सिद्धनिष्पन्नौ फल्ग्वसारौ समार्थकौ । शिश्विदानो दुराचारो विवशोऽरिष्टदुष्टधीः ॥ १६९१ ॥ कामंगाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् । व्यसनार्तस्तूपरक्तो विप्रलब्धस्तु वञ्चितः ॥ १६९२ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे विशेष्यनिघ्नाध्यायस्त्रयोविंशः ॥} ;p{0204} ;v{संकीर्णाध्यायः} ;c{संकीर्णाध्यायः} ;l{3385} अथाध्यायोऽत्र संकीर्णैः पदैरेवाभिधीयते । संकीर्णे लिङ्गमुन्नेयं प्रकृतिप्रत्ययार्थतः ॥ १६९३ ॥ साकल्यासङ्गयोः स्यातां पारायणपरायणे । शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥ १६९४ ॥ अनुप्रासोऽक्षरावृत्तिः स तु वीप्सा सकृत्कृतः । ;l{3390} ग्रहो ग्राहे भिदा भेदे छिदा छेदे क्षये क्षिया ॥ १६९५ ॥ उपनायस्तूपनये भरो भारे भ्रमे भ्रमिः । हसे हासः स्वने स्वानो व्यधो वेधे वरो वृतौ ॥ १६९६ ॥ हवो हूतौ तथा गीर्णिर्गिरौ गुरणमुद्यमे । क्षिपा क्षेपे नयो नाये रसे रासः स्नवः स्रवे ॥ १६९७ ॥ ;p{0205} ;l{3395} स्पृष्टिः पृक्तौ विधा वृद्धौ क्लान्तिस्तु क्लमथः क्लमे । उन्नाय उन्नये जूतिर्जव ईतिरुपप्लवे ॥ १६९८ ॥ रीतिः प्रवृत्तौ वृद्धौ तु स्फातिर्ज्ञातिस्तु बान्धवे । प्रमा तु प्रमितौ श्रायः श्रयणे मार्जने मृजा ॥ १६९९ ॥ अतिशायस्त्वतिशये विशयो विचिकित्सने । ;l{3400} स्यादाच्छोटनमामर्दो मोटनं त्ववभञ्जनम् ॥ १७०० ॥ संतोषणे हलहलो दाहचूर्णेऽवचूर्णनम् । अवटे स्यादुपशयो मृगग्रहणनिर्मिते ॥ १७०१ ॥ प्रस्तावे तु प्रसङ्गः स्यादभिषङ्गः पराभवे । जपे जापस्त्विषिस्त्विट् स्यादागूः संवित् कृतिः क्रिया ॥ १७०२ ॥ ;l{3405} प्रीणनं तर्पणं तृप्तिर्धावनं परिशोधनम् । सेवनं सीवनं स्यूती रक्ष्णस्त्राणे क्षुधा क्षुधि ॥ १७०३ ॥ विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः । प्रवहो वायुभेदे स्यात् प्रवाहस्तु प्रवर्तने ॥ १७०४ ॥ आदीनवास्रवौ क्लेशे तेमस्तेमौ समुन्दने । ;l{3410} उत्कर्षश्च प्रकर्षश्च स्यातामतिशयार्थकौ ॥ १७०५ ॥ ;p{0206} प्रदाने स्पर्शनं क्षारे कर्शनं दर्शनं दृशि । निदर्शनं तु दृष्टान्ते विचारे तु विमर्शनम् ॥ १७०६ ॥ दारो विदारणे हारो हृतौ वारः कदम्बके । प्रवासो दूरगमनं परिसर्पः परिक्रया ॥ १७०७ ॥ ;l{3415} विधुरं तु प्रविश्लेषे विनाशः स्याददर्शनम् । प्रतिशासनमित्येतदाहूय प्रेषणं पुनः ॥ १७०८ ॥ वियोगे विप्रलम्भः स्यादालम्भः प्रतिघातनम् । उपलम्भस्त्वनुभवो विलम्भस्त्वतिसर्जनम् ॥ १७०९ ॥ धृतिर्मुदि वशः कान्तौ मूलकर्म तु कार्मणम् । ;l{3420} वशीक्रिया संवननं विहारस्तु परिक्रमः ॥ १७१० ॥ अनुहारोऽनुकरणं निर्हारोऽभ्यवकर्षणम् । परित्राणं तु पर्याप्तिर्हस्तवारणमित्यपि ॥ १७११ ॥ स्यान्निग्रहः परिभव आनुकूल्य उपग्रहः । परिग्रहः परिकर आदानं तु प्रतिग्रहः ॥ १७१२ ॥ ;l{3425} अभिग्रहो निरोधः स्यात् प्रग्रहः प्रतिबन्धनम् । समुच्चयः समाहारः संहारोऽपचयः समौ ॥ १७१३ ॥ अभिहारोभिक्रमणमुपहारस्तु पूजनम् । ;p{0207} प्रत्याहार उपादानं संग्राहो मुष्टिबन्धनम् ॥ १७१४ ॥ वियामो वियमो यामो यमः संयामसंयमौ । ;l{3430} निग्रहस्तु निकारेऽपि विग्रहः समरेऽपि च ॥ १७१५ ॥ वित्तवृद्धौ कला द्वे तु वर्धनच्छेदने समे । संक्षेपणं समसनं विकृतिर्विक्रिया समे ॥ १७१६ ॥ परिणामो विकारः स्याच्छन्दोऽभिप्राय आशयः । उपभोगस्तु निर्वेशः संनिधिः संनिकर्षणम् ॥ १७१७ ॥ ;l{3435} धोरा तु गतिचातुर्ये धारा तु जलसंततिः । आरा प्रवयणे तारा रज्जौ कारा तु बन्धने ॥ १७१८ ॥ विधूननं विधुवनं काम्यदानं प्रवारणम् । नास्या तु नासिकारज्जुरास्या स्यादासना स्थितिः ॥ १७१९ ॥ प्रतिबन्धः प्रतिष्टम्भः प्रस्तावावसरौ समौ । ;l{3440} विघ्नोऽन्तरायः प्रत्यूहः प्रणयस्त्वभियाचने ॥ १७२० ॥ विरिब्धस्तु स्वरे क्षुब्धो मन्थे नेत्रं मथो गुणे । अवदानं कर्म वृत्तं निर्भर्त्सनमलक्तम् ॥ १७२१ ॥ महानिद्रा तु मरणं महातैलं तु शोणितम् । ;p{0208} ;l{3445} विरतिस्त्ववसानं स्यादसतिर्मृतिलक्षणम् ॥ १७२२ ॥ सूत्रं तु संग्रहोक्तौ स्यात् पोत्रं हलमुखेऽपि च । कीर्तिः पङ्के ज्वरे जर्तिरार्तिस्तु धनुषोऽग्रके ॥ १७२३ ॥ कोदण्डे तृणता ख्यातौ प्रथा पाण्डुवधूः पृथा । श्च्योतप्रघारौ तु समाववनायस्त्वतिक्रमः ॥ १७२४ ॥ ऋतीया च हृणीया च घृणार्थेऽप्यर्तनं त्रयम् । ;l{3450} स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥ १७२५ ॥ भ्रेषोऽधःपतने प्लोष ओषः स्यात् संभ्रमस्त्वरा । यदृच्छा स्वैरताहेतुरिष्टिरिच्छा वृषा वृषे ॥ १७२६ ॥ द्यूते दरोदरः संधिः श्लेषे शाणे भ्रमिर्भ्रमः । स्फूर्च्छा तु विस्मृतौ मूर्च्छा व्याप्तिरूर्जा त्वरुंधती ॥ १७२७ ॥ ;l{3455} अथारतिश्चोपरतिर्विरतिः स्यादुपारतिः । लवो लावश्च लवने निष्पावः पवने पवः ॥ १७२८ ॥ चूलिका यूपशिरसि मालिका भवनान्तरे । ;p{0209} कालिका मेघसंघाते मधुव्यूहे मधूलिका ॥ १७२९ ॥ कुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे । ;l{3460} यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥ स्यात् स्तम्बघ्नः स्तम्बघनः स्तम्बो येन निहन्यते । हेलिरालिङ्गनेऽप्यङ्कपालिर्नाली तु मानके ॥ १७३१ ॥ परिसर्या परीसार उपेक्षा प्रतिजागरः । उपशायविशायौ द्वौ पर्यायौ शयनार्थकौ ॥ १७३२ ॥ ;l{3465} विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः । इज्यायामपि दीक्षा स्यात् प्रतीक्षा प्रतिपालनम् ॥ १७३३ ॥ वित्तत्यागे व्ययः स्त्री तु जागर्या जागरा द्वयोः । स्यादाश्रय उपघ्नोऽथ डमरो डिम्बविमप्लवौ ॥ १७३४ ॥ स्यादुत्कारो निकारश्च धान्यस्योत्क्षेपणार्थके । ;l{3470} विलक्षणं तु शून्यार्थे प्रसूतिः प्रसवः स्रवः ॥ १७३५ ॥ ज्यानिर्जीर्णौ क्षये हानिर्जामिस्तु कुलयोषिति । तीर्णिस्तु तरणे चूर्णिर्ग्रन्थे चूर्णिः कपर्दके ॥ १७३६ ॥ ;p{0210} निष्ठीवस्तु द्वयोर्निष्ठीवननिष्ठेवने तथा । निष्ठ्यूतिरथ जीवे स्याज्जीवा संधा प्रतिश्रवे ॥ १७३७ ॥ ;l{3475} संवाहनं मर्दनं स्यात् खल्या तु खलसंहतिः । आपूपिकं शाष्कुलिकमित्याद्यं भूम्न्यचेतसाम् ॥ १७३८ ॥ ग्रामता जनता गव्या धूम्या पाश्या सहायता । माणव्यं बन्धुता च स्युर्ग्रामादीनां कदम्बके ॥ १७३९ ॥ हल्या हलानां ब्राह्मण्यबाडव्ये तु द्विजन्मनाम् । ;l{3480} पृष्टानां पर्शुकानां च पृष्ठ्यं पार्श्वं कदम्बके ॥ १७४० ॥ मानुष्यकं मनुष्याणां खलानां खलिनीति च । क्रमात् साहस्रकारीषवार्मणाथर्वणानि तु ॥ १७४१ ॥ सहस्राणां करीषाणां स्युर्वर्माथर्वणां गणे । स्फुरणे स्यात् स्फुरस्फारौ द्वयोः पारिः सृणेर्गुणे ॥ १७४२ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे संकीर्णाध्यायश्चतुर्विशः ॥} ;p{0211} ;v{उक्तशेषाध्यायः} ;c{उक्तशेषाध्यायः} ;l{3485} पूर्वाध्यायेषु यः शेषोऽभिहितेषु स उच्यते । अन्येषु नामशास्त्रेषु प्रयोगानुपलक्ष्य हि ॥ १७४३ ॥ विश्वात्मा प्राणदः शंभुर्द्रुहिणश्च सनातनः । मुञ्जकेशो मुररिपुः पुराणपुरुषोऽजितः ॥ १७४४ ॥ अग्निदः पूर्वगीर्वेदः स्यादकृत्रिमगीरपि । ;l{3490} शक्तिः श्रीः शूर्पकारातिरिक्षुधन्वा च हृच्छयः ॥ १७४५ ॥ जलंधररिपुर्देवो डिण्डीशः पांसुचन्दनः । खट्वाङ्गी पश्यदलिकः पाण्डुराङ्गो भगाक्षिहृत् ॥ १७४६ ॥ चण्डमुण्डा तु चामुण्डा कर्णमोटी कपालिनी । चर्चिका चर्ममुण्डाथ वाराही पञ्चमी समे ॥ १७४७ ॥ ;l{3495} विनायकस्तु बुद्धः स्यादृषिर्हंसस्त्रिकालदृक् । गौरेयो बर्हवासाः स्यान्मघवानहिशासनः ॥ १७४८ ॥ ;p{0212} भूरिश्रवाश्चित्ररथी वृषणाश्वस्तदर्वति । सूर्यभ्राता सुरगजो व्याधामः शतधारकम् ॥ १७४९ ॥ बहुलोऽग्निर्वसुर्ज्योतिर्जठराग्निस्तु हृच्छयः । ;l{3500} झलका तु महाज्वाला समुद्राग्निरबिन्धनः ॥ १७५० ॥ धर्मः प्रजान्तको दण्डी जीवितेशो महाभिषक् । नरकाः शल्मली पूतिर्मृत्तिकः संप्रतापनः ॥ १७५१ ॥ असिपत्रवनाद्याश्च नरकाः प्रायशो नरि । रक्तग्राहा निशिचरा विधुराः कीकसात्मजाः ॥ १७५२ ॥ ;l{3505} प्रत्यगाशापतिस्त्वम्बुकान्तारो जलदैवतम् । नभःप्रवहणो वायुर्नभोजन्मा महाबलः ॥ १७५३ ॥ झञ्झावातः सवृष्टिः स्याद्यौतिकः स्वेदचूषकः । सितोदरो रत्नहस्तो धनी कैलासनायकः ॥ १७५४ ॥ अव्यये तु द्यु नक्षत्रपथः सुरपथश्च सः । ;l{3510} दिनप्रणीर्दृगध्यक्षो हरिच्छन्दस्तुरंगमः ॥ १७५५ ॥ क्षपाकरः सुधासूतिर्निशाकेतुः पुनर्युवा । समुद्रनवनीतं च भौमे प्रव्यालकर्षकौ ॥ १७५६ ॥ दीदिविर्देवमन्त्री स्यात्तिर्यग्गामी तु भार्गवः । शनिः स्थिरगतिः कोणो मार्ताण्डिर्युगवर्तकः ॥ १७५७ ॥ ;p{0213} ;l{3515} राहुस्तु ग्रहकल्लोलः केतवः शिखिनः समाः । समे नक्षत्रधिष्ण्ये द्वे दाक्षायण्योऽश्विनीमुखाः ॥ १७५८ ॥ जाया त्वसिक्नी दक्षस्य दाक्षायण्योऽस्य कन्यकाः । कृष्णद्वैपायनः कृष्णो व्यासः सत्यवतीसुतः ॥ १७५९ ॥ स्याद् बादरायणिः पाराशर्योऽस्य तनयः शुकः । ;l{3520} वातापिदमनोऽगस्त्यो ध्रुव उत्तानपादजः ॥ १७६० ॥ कण्वकौण्डिन्यशाण्डिल्यमौद्गल्यात्रेयभार्गवाः । काश्यपाङ्गिरसौर्वाजगार्ग्यहारीतगौतमाः ॥ १७६१ ॥ वासिष्ठशाठमर्षणवाधूलागस्त्यदैवलाः । कौत्सार्ष्टिषेणवात्सारवैश्वामित्राघमर्षणाः ॥ १७६२ ॥ ;l{3525} अमी तु कण्वमुख्यानां गोत्रापत्यार्थवाचिनः । दिवोदासः परुच्छेपी नोधा मेधातिथीश्वरौ ॥ १७६३ ॥ सत्यश्रवाः सप्तवध्रिः प्रियमेधः प्रतर्दनः । श्येनो मेध्यातिथिः शंयुः प्रगाथः शकटायनः ॥ १७६४ ॥ ब्रह्मातिथिर्वीतहव्य [ॠष्यशृङ्गो] वृषाकपिः । ;l{3530} नभःप्रभेदनो बभ्रुर्मूर्धन्वान् कवषः प्रथः ॥ १७६५ ॥ देवातिथिर्हरिमन्तस्त्रसदस्युः शिरिम्बिठः । ;p{0214} द्युताननाभनेदिष्ठौ रक्षोहा यक्ष्मनाशनः ॥ १७६६ ॥ हिरण्यगर्भो वत्सप्रिरूर्ध्वसद्मा बृहन्मतिः । ऊर्ध्वग्रावा हविर्धानः सप्तिरूर्ध्वन[ना]भाः कतः ॥ १७६७ ॥ ;l{3535} द्युम्नीको व्याघ्रपाद् द्रोणस्तपुर्मूर्धा करिक्रतः । उरुचक्रिः कुरुसुतिर्विप्रजूतिरिरिम्बिठिः ॥ १७६८ ॥ वरतन्तुर्विप्रबन्धुर्ध्रुवः कुल्मलबर्हिषः । जरत्कर्णो [जा]मदग्निः प्रस्कण्वः पावको भृगुः ॥ १७६९ ॥ विश्वावसुः सत्यधृतिः शैरीषिस्त्रिशिरा उलः । ;l{3540} ऋषभः सौ[भ]रिर्विश्वमना---आर्थव[णः]--- ॥ १७७० ॥ ---[अभि]तपा यज्ञो वातजूतिः सदापृणः । नारायणः [शि]खण्डिन्यौ पूरुः कुत्सो बृहद्दि[वः] ॥ १७७१ ॥ दृव्व्हच्युतोऽध्रीगुर्विष्णुरग्नियूप उरुक्षयः । सिन्धुक्षिदनिलो बि[भ्राट्] कृष्णो बिन्दुरनानतः ॥ १७७२ ॥ ;l{3545} अमहीयुर्दीर्घतमा मारीचांहोमुचौ लुशः । ;p{0215} मन्युदेवापिकर्णश्रुद्वरुणा मथितः सुदाः ॥ १७७३ ॥ कक्षीवन्मुष्कव[च्चक्षु]र्विश्वकर्मदुवस्यवः । सोमाहुतिश्चित्रमहा वसुकृद्धरुणो द्वितः ॥ १७७४ ॥ वव्री[र्वसु]श्रुतो मित्रो विश्वसामा सुतंभरः । ;l{3550} माध्यंदिनिः सारिसृक्को विश्वको विश्वचर्षणिः ॥ १७७५ ॥ विवस्वान् सप्तगुः केतुः गोषूक्तयङ्गावुपस्तुतः । अर्चनाना पूतदक्ष एकद्यूश्च महर्षयः ॥ १७७६ ॥ सत्त्वं राजस्तमोऽस्पृष्टं मनः करणमिन्द्रियम् । ज्ञाने तु वित्तिः संवित्तिः प्रतिभा ज्ञानगौरवम् ॥ १७७७ ॥ ;l{3555} शिल्पज्ञाने तु विज्ञानं चित्ताभोगो मनस्क्रिया । मिथ्यादृष्टिस्तु नास्तिक्यं विवेकः पृथगात्मता ॥ १७७८ ॥ स्यात् पृथग्दृष्टिरध्यात्मज्ञानं ध्यानं तु चिन्तनम् । क्लेशोऽविद्यास्मितादिः स्याद्विपाको भवितव्यता ॥ १७७९ ॥ प्रत्यापत्तिः पुनः प्राप्तिर्ज्ञात्वारम्भ उपक्रमः । ;l{3560} बडबास्यं तु पातालं सरन्ध्रे सुषिरं त्रिषु ॥ १७८० ॥ ;p{0216} तमिस्रे तु तमिस्रा स्त्री नागी तु स्थूलपन्नगी । दर्वी फणं गरः क्ष्वेलः स्यात्तु काकोदरोरगी ॥ १७८१ ॥ काकोदरी भुजङ्गी च व्याली विषधरापि च । कथाप्रसङ्गस्तु विषवैद्ये स्यात्तन्त्रमौषधम् ॥ १७८२ ॥ ;l{3565} नदराजः सिन्धुराजो यादोनाथ इरा जलम् । विषं च कर्षूः कुल्यायां जलशूकस्तु शैवलम् ॥ १७८३ ॥ समुद्रकूले मर्यादा स्यात् प्लवे तल्पमद्य(द्व?)योः । सारणस्त्वल्पकुल्यायां जलयादो जलद्विपः ॥ १७८४ ॥ कुम्भिनी रत्नगर्भाब्धिनेमिरम्बुधिमेखला । ;l{3570} कृष्णमृत्कृष्णभूमः स्यात् पाण्डुभूमस्तु पाण्डुमृत् ॥ १७८५ ॥ रोदस्तु रोदसी गञ्जा रुमा विश्वं जगत्समे द्रोणिस्तु शिलयोः संधी रोहणो रत्नभूधरः । दन्तकास्तु बहिस्तिर्यक्पाषाणाः पतिता गिरेः ॥ १७८६ ॥ बोधिद्रुमे तु श्रीवृक्षः पलाशः स्यात्त्रिपर्णकः । ;l{3575} समानौ बिल्वमङ्गल्यौ मातुलुङ्गे तु लुङ्गकः ॥ १७८७ ॥ देविकायां महाशुक्ला दूष्याङ्गी मधुकुक्कुटी । ;p{0217} नारङ्गे तु त्वङ्ग(क्सु?)गन्ध एलकं च वराम्लकः ॥ १७८८ ॥ रोहितो रोहिषो रोही रक्तो रोहितकोऽपि च । बाणोऽर्जुने प्रियाले तु प्रियकश्च मधुस्रवः ॥ १७८९ ॥ ;l{3580} मदने वामनेक्ष्वाकुविषपुष्पफणीरसाः । कण्टकी गरलः प्लक्षे कपिला गिरिलक्षणा ॥ १७९० ॥ गुग्गुलुः कालनिर्यासो देवधूपो महेश्वरः । श्रीमान् स्निग्धः सर्वसहः श्लेषी कामो हरप्रियः ॥ १७९१ ॥ जटायुरथ भावज्ञा बला वृन्ताथ भूर्जके । ;l{3585} चर्मी च भूर्जपत्रश्च धूर्तो मदनदुर्द्धुरौ ॥ १७९२ ॥ पुलकप्रावृषेण्यौ तु कदम्बः प्रियकश्च सः । पूगावली तु कुहली बदरी तु तिरीटिका ॥ १७९३ ॥ करमर्दो वशश्चोलः कृष्णपाकफलैः पदैः । व्यस्तैः समस्तैर्धूमैश्च पुंसि पञ्चदशाभिधाः ॥ १७९४ ॥ ;l{3590} हरणः शीतलः कान्तः कमनीयश्च चम्पके । ;p{0218} चण्डालस्तु कुबेराक्षी कृष्णवृन्ता फलेरुहा ॥ १७९५ ॥ स्याच्छाल्मली तूलफला शबरी श्लक्षणपत्रिका । कार्पासस्तु पिचव्यः स्याद् भारद्वाजस्तु कुष्ठनुत् ॥ १७९६ ॥ भाग्यं विषघ्नी कुष्ठाख्या पद्मा च ब्रह्मदण्डिका । ;l{3595} दण्डोत्पले सहा देवा तलप्रोटे प्रमेहनुत् ॥ १७९७ ॥ मुण्ड्यां तु मुण्डिता मुण्डा श्रमणिः श्रमणी बुधा । अस्थिमांसोऽस्थिसंघातोऽप्यस्थिसंनहनोऽपि सः ॥ १७९८ ॥ सुदर्शनायां चक्राङ्गी दध्याली वृषपर्ण्यपि । कलम्ब्यां शतपर्वा स्यात् कलम्बूर्वायसी वसा ॥ १७९९ ॥ ;l{3600} निद्रालुस्तु शिवः शान्तः स्वस्तिकस्तु निषण्णकः । अगस्त्यः शुकनासोऽथ महेन्द्री तु बृहत्फला ॥ १८०० ॥ सुगन्ध्यल्पफला मोचा साष्ठी काष्ठी कदल्यपि । आमलक्यां षडस्रा स्याच्छुक्लपुष्पा हरीतकी ॥ १८०१ ॥ मुद्गरो मदयन्ती च गवाक्षी मुक्तबन्धना । ;l{3605} मल्लिकायां वरारोहा गोधामल्ल्यां तु सेवनी ॥ १८०२ ॥ ;p{0219} शिवमल्ली काकनासा बकपुष्पः शिवप्रियः । वसुहट्टोऽथ तगरो नन्द्यावर्तो नभोङ्गणः ॥ १८०३ ॥ श्वापदा हिंस्रपशवः सिंहः पारीन्द्र इत्यपि । व्याघ्रो वरोत्कटस्तुल्यौ वराहस्तु बहुव्रजः ॥ १८०४ ॥ ;l{3610} वृकधूर्तस्तु भल्लूको भल्लाटो दीर्घरोमकः । अथ खड्गी गणोत्साहो महिषस्तु रजस्वलः ॥ १८०५ ॥ हेरम्बः कृष्णशृङ्गश्च मृगस्तु वलनो लिगुः । वारणः पेचकी कुम्भी मदवाही महामृगः ॥ १८०६ ॥ भद्रा मन्दा मृगाश्चेति त्रिविधा गजजातयः । ;l{3615} अर्वती च प्रसूस्तुल्ये रक्तदृष्टिस्तु कोकिलः ॥ १८०७ ॥ कालज्ञः कृकवाकुः स्याच्चिरजीवी तु वायसः । निशाटनी मातृवाहा मुखविष्ठाजिनच्छदा ॥ १८०८ ॥ शारिकायां तु गौराङ्गी शलभी कलहाकुला । विनीताङ्गो दीर्घगलः प्रचलाकी तु चन्द्रकी ॥ १८०९ ॥ ;l{3620} कपिञ्जलो वञ्जुलः स्यात् पिङ्गला ऋषिरित्यपि । ;p{0220} स्यात् साकेतमयोध्यायां काशी वाराणसी समे ॥ १८१० ॥ स्याद् द्वारका द्वारवती कान्यकुब्जं महोदयः । महोदयं कन्यकुब्जं माहिष्मत्यां वृकस्थली ॥ १८११ ॥ देवकोटिः कोटिवर्षं काकन्दी वारणावतम् । ;l{3625} अवन्ती स्यात्तक्षशिला स्यात्तु केशं कुशस्थलम् ॥ १८१२ ॥ स्थानीयं तु महाग्रामे ग्रामार्धे खेटमस्त्रियाम् । ब्रह्मस्थली वास्तुमध्यं संदंशो वास्तुकोणभूः ॥ १८१३ ॥ प्रान्तरं ग्रामयोर्मध्यं ग्रामसीमोपशल्यकम् । घण्टापथः संसरणं समे वयुनवर्त्मनी ॥ १८१४ ॥ ;l{3630} उपरथ्या दर्शनी स्याद् घण्टामार्गे तु निष्करः । समानौ दुर्गकोटौ द्वाविन्द्रकोशे मतङ्गकः ॥ १८१५ ॥ मालिका स्त्री वेश्मभेदे निर्यूहे मत्तवारणम् । वीणा घोषवती सा तु गणेशस्य प्रभावती ॥ १८१६ ॥ विश्ववसोस्तु बृहती तुम्बुरोस्तु कलावती । ;l{3635} महती नारदस्य स्यात् सरस्वत्यास्तु कच्छपी ॥ १८१७ ॥ स्युर्नाटकं प्रकरणं भाणः प्रहसनं डिमः । व्यायोगः समवाकारौ वीथ्यङ्केहामृगा इति ॥ १८१८ ॥ ;p{0221} रूपकाणि दशैतानि वंशो वंश्यथ खुङ्कणी । किंनरी काण्डवीणा च कुवीणा सारिका च सा ॥ १८१९ ॥ ;l{3640} चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी । भारती सात्त्वती चैव कैशिक्यारभटीत्यमूः ॥ १८२० ॥ चतस्रो वृत्तयो नान्दीकरा नान्द्याश्च पाठकाः । रसवागङ्गभावाद्यैः शास्त्रोक्तैः रूपकाश्रयम् ॥ १८२१ ॥ नृत्तमाभ्यन्तरं नाम कालिका तु विवर्णिका । ;l{3645} रोमाञ्च उल्लूकसनं वीक्षणं तु निभालनम् ॥ १८२२ ॥ स्याददृष्टिरसौम्येऽक्ष्णि पार्श्वेक्षा तु प्रलोकितम् । उल्लोकनं तूपरिष्टात् पृष्ठतस्त्ववलोकनम् ॥ १८२३ ॥ उन्मीलनं स्यादुन्मेषो निमेषस्तु निमीलनम् । भ्रूकुटिर्भ्रुकुटिः सारी रेचितं त्वल्प(त्वेक?)या भ्रुवा ॥ १८२४ ॥ ;l{3650} निकुञ्चितशिरोग्रीवमट्टहासो महाहसः । सोत्प्रासमाच्छुरितकं प्रलयोऽस्पन्दनस्थितिः ॥ १८२५ ॥ जञ्जमा मुखभेदे स्यात् तालिका तु वितालिका । ;p{0222} जयादञ्जमुभे स्यातामव्यये मोहनं रतम् ॥ १८२६ ॥ विवाहो नन्दनो वप्ता पतिः स्त्री संततिः सुतः । ;l{3655} कटीरः कटिरारोहः श्रोणिरासा तु सीवनी ॥ १८२७ ॥ वक्षोरुहावुरसिजौ भगस्मरगृहे समे । समौ करङ्ककङ्कालौ पृष्ठग्रन्थौ गडुः पुमान् ॥ १८२८ ॥ ध्वजे नालं च मेढ्रं स्यात् कुरलाश्चूर्णकुन्तलाः । पर्यस्तिका तु पर्यङ्के तस्मिन्नेवावसक्थिका ॥ १८२९ ॥ ;l{3660} गौणिका स्यात् पुटकुटी तस्यां गुणलयिन्यपि । स्याद्वेत्रासनमासन्दी गृहस्थो गृहमेधिनि । मारिः स्त्री मारको रोगः केशघ्नस्त्विन्द्रलुप्तकः ॥ १८३० ॥ मीमांसको जैमिनेयो वेदान्ती ब्रह्मवादिनि । वैशेषिकः स्यादौलूक्यः सौगतः शून्यवादिनि ॥ १८३१ ॥ ;l{3665} नैयायिकस्त्वाक्षपादो बार्हस्पत्यस्तु नास्तिकः । पारिषद्याः पार्षदाः स्युः सभ्या याज्ञात्ववायसी ॥ १८३२ ॥ ;p{0223} स्यात् पारिरक्षिको भिक्षुरभ्युत्थानं तु गौरवम् । पञ्चार्थिकः पाशुपतो वैष्णवः पाञ्चरात्रिकः ॥ १८३३ ॥ ;l{3670} कौलस्त्वान्वयिको योगी कापालिकमहाव्रतौ । सत्यव्रतो हरिश्चन्द्रः ककुत्स्थस्तु पुरंजयः ॥ १८३४ ॥ अर्जुनः कार्तवीर्यः स्यात् पृथुर्वैन्य उभौ समौ । निषधस्तु नलोऽथ स्याज्जनको मिथिलाधिपः ॥ १८३५ ॥ हनूमानाञ्जनेयश्च हनुमान्मारुतात्मजः । सुग्रीवः कपिराट् तुल्यौ द्वौ जटायुजटायुषौ ॥ १८३६ ॥ ;l{3675} अजातशत्रुः शल्यारिर्धर्मयुत्रो युधिष्ठिरः । गुणो वायुसुतो भीमो भीमसीनो वृकोदरः ॥ १८३७ ॥ अर्जुनः फल्गुनो जिष्णुः सव्यसाची धनंजयः । कृष्णः किरीटी बीभत्सुः कर्णशत्रुः कपिध्वजः ॥ १८३८ ॥ गाण्डीवी विजयः श्वेतवाहो मध्यमपाण्डवः । ;l{3680} पाञ्चाली द्रौपदी कृष्णा याज्ञसेनी च पार्षती ॥ १८३९ ॥ सौवस्तिकः पुरोधाः स्याद्गणकादेशकौ समौ । कौशलिकं प्राभृतकं संघर्षः स्पर्धया समः ॥ १८४० ॥ अपर्यालोचितारम्भे रभसो रभसाव्ययम् । ;p{0224} उत्कोचः पुंसि लम्बा स्त्री सेनार्थे दण्ड इत्ययम् ॥ १८४१ ॥ ;l{3685} वृद्ध्याजीवो द्वैगुणिको भक्तं क्रूरमिमे समे । शामिताम्लकदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ॥ १८४२ ॥ संधापोतं युता चूर्णैः खण्डैलामरिचार्द्रकैः । क्षीराढ्यः शमितापिण्डो घृतपूरो घृतशृतः ॥ १८४३ ॥ फेनकः शमिता शुक्ला घृतपक्वा सशर्करा । ;l{3690} स्त्रियां तु शष्कुली पिष्टगुडतैलतिलैः कृता ॥ १८४४ ॥ सतीनकस्तु सातीनः समावुद्दालकोद्रवौ । समौ तु वल्लनिष्पाचौ राजिका राजसर्षयः ॥ १८४५ ॥ व्यञ्जनं शृङ्गिबेरेण संस्कृतं शार्ङ्गिबेरकम् । दाधिकं संस्कृतं दध्ना सार्पिषं सार्पिषा तु यत् ॥ १८४६ ॥ ;l{3695} भूमिर्भूकटकं भृष्टं भटित्रं चादिमं स्त्रियाम् । लावणौदकिकं तत् स्यात् पक्वं यल्लवणोदकैः ॥ १८४७ ॥ ;p{0225} सुरुङ्गा स्त्री पुमान् संधिर्व्यलीकं वञ्चनं समे । अथ क्लीबे घटीयन्त्रं पादावर्तोऽनुघट्टकः ॥ १८४८ ॥ जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु । ;l{3700} पादुकायां तु पादूः स्त्री गल्लकः पानभाजनम् ॥ १८४९ ॥ संमुखीनस्त्वभिमुखः सुमुखस्तु प्रगल्भवाक् । कृतकृत्यः कृतार्थः स्यात् समौ न्यक्षनिकृष्टकौ ॥ १८५० ॥ असम्मतः प्रणाय्यः स्याद्यस्तु स्वस्थानमास्थितः । परान् द्वेष्टि स गोष्ठश्व ईर्ष्यालुकुहनौ समौ ॥ १८५१ ॥ ;l{3705} तीक्ष्णोपायेन योऽन्विच्छेत् स्यादायःशूलिकश्च सः । उल्बणस्तूद्धतस्तुल्यावात्मवद्वशिनौ समौ ॥ १८५२ ॥ वल्गुर्हारी मनोहारी परिविष्टं तु वेष्टितम् । बलाद्गृहीतमाच्छिन्नं समे बहलपीवरे ॥ १८५३ ॥ प्रेङ्खितं स्याद्विलुलितं शालिश्रेष्ठावुभौ समौ । ;l{3710} परभागो गुणोत्कर्षे संदर्भो रचना न ना ॥ १८५४ ॥ प्रणिपातः प्रणामः स्याद्दाक्षिण्यमनुकूलता । कक्ष्या तुलायां कौसीद्यमालस्यं चयनं चयः ॥ १८५५ ॥ ;p{0226} परितापस्तु दवथुरनुतापो विसूरिता । सादोऽवसन्नता खेदः क्रीडनं तु विनोदनम् ॥ १८५६ ॥ ;l{3715} अर्थना तु धनाया स्यादीहनं चेष्टनं समे । वितर्कस्तु विकल्पः स्यादत्यायानमतिक्रमः ॥ १८५७ ॥ अथाशयः स्यादाकूतं समे ग्रन्थनगुम्फने । काण्डस्तृतीयोऽनुक्रान्तः साङ्गोपाङ्गैः सविस्तरैः ॥ १८५८ ॥ नृब्रह्मक्षत्रविट्छूद्रैरध्यायैरिह चाष्टभिः । ;l{3720} विशेष्यनिघ्नसंकीर्णसहितैः सोक्तशेषकैः ॥ १८५९ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे उक्तशेषाध्यायः पञ्चविंशः ॥} ;c{॥ इति तृतीयः काण्डः समाप्तः ॥} ;p{0227} ;k{चतुर्थः काण्डः} ;v{अनेकार्थाधिकाराध्यायः} ;c{अनेकार्थाधिकारः} ;vv{द्व्यक्षराध्यायः} अथाध्यायैरनेकार्थाः प्रोच्यन्तेऽत्र यथोदितम् । क्वचिदेवैकलिङ्गाश्च नानालिङ्गा अपि क्वचित् ॥ १८६० ॥ ते तु द्वित्रिचतुःपञ्चवर्णात्मपदसंग्रहात् । अकरादिक्रमादा च हकारान्तात् प्रयोगिणः ॥ १८६१ ॥ ;l{3725} अजः पितामहे विष्णौ हरे छागे रघोः सुते । अर्थो धने शब्दवाच्ये शास्त्रे हेतौ प्रयोजने ॥ १८६२ ॥ निवृत्तौ याचने मोक्षे विषयव्यवहारयोः । वस्तुन्यथाक्ष आधारे व्यवहारे कलिद्रुमे ॥ १८६३ ॥ द्यूतमेदे ग्लहे कर्षे शकटेऽप्यक्षमिन्द्रिये । ;l{3730} अट्टः पक्वौदने घातेऽतिशये क्षौमवेश्मनि ॥ १८६४ ॥ ;p{0228} अङ्कश्चिह्नान्तिकोरःसु भृङ्गवृश्चिकयोरलिः । अर्कस्तु स्फटिके ज्येष्ठे वृक्षभेदे विवस्वति ॥ १८६५ ॥ वर्धमानतिथिप्रायपक्षकीलकयोरणिः । चन्द्रे धन्वन्तरौ शङ्खेऽप्यब्जोऽब्जं सरसीरहे ॥ १८६६ ॥ ;l{3735} अंशुर्मयूखे सूत्रादिसूक्ष्मांशे भासि भास्वति । अणुः सूक्ष्मे व्रीहिभेदेऽप्यर्घोऽर्चायां प्रतिक्रये ॥ १८६७ ॥ अस्त्र आस्र उभौ क्लेशे क्लीबे तु रुधिराश्रुणोः । अन्तोऽस्त्र्यवसिते प्रान्ते निश्चये चरमे मृतौ ॥ १८६८ ॥ अविरर्के गिरौ मेषे स्त्री तु स्याद्भूम्युदक्ययोः । ;l{3740} अद्रिरर्के द्रुमे शैले व्याले वृत्रासुरेऽप्यहिः ॥ १८६९ ॥ अर्चा पूजाप्रतिमयोरर्तिश्चापाग्रपीडयोः । कोदण्डायुधयोरस्त्रमभ्रं व्योम्नि पयोमुचि ॥ १८७० ॥ हयकुत्सितयोरर्वा स्यादर्यः स्वामिवैश्ययोः । घृष्टिमूषिकयोराखुरारो भौमारकूटयोः ॥ १८७१ ॥ ;l{3745} आत्मा तु जीवपरयोः शरीरे स्वस्थभावयोः । धृतावग्नौ मतौ वातेऽप्याधिर्व्यसनबन्धयोः ॥ १८७२ ॥ अधिष्ठाने चित्तदुःख आस्था गोष्ठीप्रतिज्ञयोः । तत्परत्वेऽवलम्बेऽथ शुभवाक्याहिदंष्ट्रयोः ॥ १८७३ ॥ आशीः स्यादभिलाषेऽथ स्यादिनः स्वामिसूर्ययोः । ;p{0229} ;l{3750} इरा सुराम्बुभूवाक्षु सगोनडीषु तास्विडा ॥ १८७४ ॥ इला तु तासु सार्घ्यासु स्यादिष्टिर्यजनेच्छयोः । सुत्रामसूर्ययोरिन्द्र ईतिः क्लेशोपसर्गयोः ॥ १८७५ ॥ उस्रो मयूख उस्रा गौरुमा शैलात्मजातसी । उषः काल्यमुषा रात्रिरूतिः सूत्यभिरक्षयोः ॥ १८७६ ॥ ;l{3755} ऊर्णा तन्तौ भ्रुवोरन्तरावर्तेऽव्यादिलोमसु । ऋतं तथ्ये शिलोञ्छे च ऋतुर्गीष्मादिपुष्पयोः ॥ १८७७ ॥ ऋषयः श्रुतिभृग्वादिज्ञानवृद्धदिगम्बराः । ऋक्षोऽच्छभल्ले मण्डूकपर्ण ऋक्षं तु तारके ॥ १८७८ ॥ ओघः परंपरासंख्यप्रवाहेषु कदम्बके । ;l{3760} कामः काम्यस्मरेच्छासु कलहेऽन्त्ययुगे कलिः ॥ १८७९ ॥ कालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः । शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥ करिगण्डे शवे श्रोण्यां कलिञ्जे च भृशे कटः । मेघाश्मनि बलौ हस्ते करिहस्ते घृणौ करः ॥ १८८१ ॥ ;l{3765} कोणोऽश्रौ लगुडे सौरौ केतुरङ्के ध्वजे ग्रहे । मुख्ये दुर्जात उत्पाते कणो लेशे कणौ(णो?)षणा ॥ १८८२ ॥ ;p{0230} कुट्मले पुस्तकेऽर्थौघे दिव्येऽण्डेऽसिपिधानके । मेहने वेष्टके गेहे शरीरे कोशमस्त्रियाम् ॥ १८८३ ॥ अलंकृतायां कन्यायां दातुं कूपः प्रहावपि । ;l{3770} कविः काव्यकृति प्राज्ञे वाल्मीकौ दैत्यदेशिके ॥ १८८४ ॥ कोलोऽस्त्री चव्यपिप्पल्योः पुमान् खञ्जे प्लवे किटौ । क्लीबे तक्कोलबदरव्योषशुण्ठीषु कर्षके ॥ १८८५ ॥ कर्णः श्रोत्रे रविसुतेऽरित्रभेदे नियामके । लूनश्रोत्रवृषे कल्यस्त्रिषु दक्षे निरामये ॥ १८८६ ॥ ;l{3775} पेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः । काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥ कण्ठः शब्दे गले कुम्भो घटद्विपशिरोंऽशयोः । कूटोऽस्त्री पुञ्जमायाद्रिशृङ्गायोघनवेश्मसु ॥ १८८८ ॥ फाले बाणान्तरे दम्भे भग्नशृङ्गवृषे तु ना । ;l{3780} तरक्षौ रक्षसि क्रव्याल्लुब्धके च चितानले ॥ १८८९ ॥ वराहे वक्षसि क्रोडः क्रोडमुत्सङ्गकुक्षिणोः । कल्पान्तेऽपचये वासे करिपादांशके क्षयः ॥ १८९० ॥ क्लृप्तौ कल्पद्रुमे न्याये कल्पः कीशे गजे कपिः । ;p{0231} कश्यस्त्रिषु कशाताड्ये कश्यं मद्याश्वमध्ययोः ॥ १८९१ ॥ ;l{3785} क्रमस्तु पादविक्षेपे वेदपाठान्तरे विधौ । उत्सवेऽवसरे मध्ये कालभेदाल्पकालयोः ॥ १८९२ ॥ हिंसाव्यापारवैकल्यपरतन्त्रत्वपर्वसु । क्षणोऽथ क्रोश आक्रन्दे गव्यूतिद्वयगर्हयोः ॥ १८९३ ॥ आह्वाने रोदने क्लेशस्त्वविद्याद्युपतापयोः । ;l{3790} खगाद्रिभेदयोः क्रौञ्च ऋषिभेदेऽध्वरे क्रतुः ॥ १८९४ ॥ क्रूरो नृशंसे कुपिते भीषणे कर्कशे त्रिषु । क्षमस्त्रिषु हिते योग्ये युक्ते शक्ते पटावपि ॥ १८९५ ॥ स्थालिकायां जलाधारविशेषे वह्निगर्तके । कुण्डं जारसुते कुण्डः कुशो दर्भे कुशं जले ॥ १८९६ ॥ ;l{3795} क्षेत्रं तु दारकेदारपुण्यस्थानात्ममूर्तिषु । पुरे योनौ समूहेऽथ मेदिन्यां च क्षये क्षितिः ॥ १८९७ ॥ मत्सरे सुरभौ तिक्ते चोषणे च कटुस्त्रिषु । कोक ईहामृगे चक्रे कायो देहे कदैवते ॥ १८९८ ॥ त्रिष्वन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे । ;l{3800} कूर्चमस्त्री कुशे पीठे भ्रूमध्यश्मश्रुणोरपि ॥ १८९९ ॥ ;p{0232} कचः केशे जीवपुत्रे कृष्णो नीलेऽनले हरौ । व्यासेऽर्जुने च कृष्णा तु पिप्पली द्रुपदात्मजा ॥ १९०० ॥ कक्ष्या काञ्च्यां वरत्रायां कच्छवेश्मप्रकोष्ठयोः । काष्ठोत्कर्षो हरित् सीमा कान्तिः शोभाभिकामयोः ॥ १९०१ ॥ ;l{3805} क्ष्वेला स्त्री सिंहनादे ना विषवेणुशलाकयोः । विलेखप्राज्ञयोः पुंसि कृष्टिराकर्षणे स्त्रियाम् ॥ १९०२ ॥ ज्ञाने शिल्पे वित्तवृद्धौ काले चन्द्रांशके कला । महाभूतेष्विन्द्रियेषु कलनेऽवयवांशयोः ॥ १९०३ ॥ किष्कुर्द्वयोर्वितस्तौ स्यात् सप्रकोष्ठकरे नरि । ;l{3810} क्रिया कर्मणि पूजायां करणे संप्रधारणे ॥ १९०४ ॥ शिक्षायां निष्कृतौ चेष्टाचिकित्सोपाययुक्तिषु । आरम्भे कोटिरश्र्यग्रप्रकर्षावधिसीमसु ॥ १९०५ ॥ खगोऽर्के विहगे वायौ तारके सुरमेघयोः । गर्दभे रक्षसि खरः खरुः पुंसि स्मरे हरे ॥ १९०६ ॥ ;l{3815} गुणो मौर्व्यामप्रधाने नाम्नि सत्त्वादिशौर्ययोः । शब्दार्थवृत्तिमाल्येषु तन्तुरश्मीन्द्रियेषु च ॥ १९०७ ॥ पर्वतोपलयोर्ग्रावा गणः प्रमथसंघयोः । उपराग उपादाने सत्त्वे सूर्यादिके ग्रहः ॥ १९०८ ॥ ;p{0233} शास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने । ;l{3820} गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥ अभ्यन्तरेऽपवरके सुते केशान्तरस्रजि । गोत्रं नाम्नि कुले पुंसि शैले स्त्री भुवि गोगणे ॥ १९१० ॥ उपदेष्टरि मन्त्रादेः पित्रादौ गीष्पतौ गुरुः । मात्रादौ स्त्री बृहत्ख्यातदुर्जरालघुषु त्रिषु ॥ १९११ ॥ ;l{3825} द्वात्रिंशदक्षरश्लोके ग्रन्थः शास्त्रे श्रुतावपि । भोजने कबले ग्रासो गन्धो यशसि सौरभे ॥ १९१२ ॥ व्यूहे स्तम्बे गदे गुल्मो गदः कृष्णानुजे रुजि । गण्डः कपोले पाषाणे गुहः स्कन्दे गुहा दरी ॥ १९१३ ॥ मुद्गरेऽयोघने मेघे घनः कर्पूरभूरुहे । ;l{3830} स एव संहते सान्द्रे संघाते कठिने त्रिषु ॥ १९१४ ॥ घनं कांस्यादिके वाद्ये लयसाम्ये भृशार्थके । घोष आभीरपल्ल्यां स्याज्जालिन्यां च ध्वनौ विषे ॥ १९१५ ॥ अदने हरिते घासो घृणिर्ज्वालांशुवीचिषु । चन्द्रः शशिनि कर्पूरे तरौ हेम्नि नपुंसके ॥ १९१६ ॥ ;l{3835} चक्री दर्वीकरे विष्णौ कुलाके छद्मवत्यपि । प्रचारे प्रणिधौ चारश्चीनो देशे मृगान्तरे ॥ १९१७ ॥ आलेख्याश्चर्ययोश्चित्रं चिह्नमङ्के ध्वजेऽपि च । ;p{0234} स्तुतिवादे चटुश्चाटुरुभौ पशुपिचण्डके ॥ १९१८ ॥ चोलः कूर्पासके देशे चोरौ मशकतस्करौ । ;l{3840} पुंनपुंसकयोर्वस्त्रे चीरश्चीरी तु झल्लिका ॥ १९१९ ॥ चक्रं राष्ट्रजलावर्तसैन्यच्छद्मसु संहतौ । रथाङ्गे मण्डले वृत्ते संसारायुधभेदयोः ॥ १९२० ॥ चूर्णिर्ग्रन्थे कपर्दे च चर्चा चार्चिक्यचिन्तयोः । पाठे च चञ्चुरेरण्डे पुंसि पक्ष्यङ्गके स्त्रियाम् ॥ १९२१ ॥ ;l{3845} छदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः । कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥ छन्दः पद्यश्रूतीच्छासु च्छद्म सद्मनि कैतवे । छिद्रं तु रन्ध्रावसरापदेशेष्वथ संहतौ ॥ १९२३ ॥ गवाक्षानाययोर्जालं क्षारके कपटे गणे । ;l{3850} जरठे देशभेदे च जीनो बुद्धार्हतोर्जिनः प्राणिनि त्रिषु जीवः स्यात् पुंसि जन्तौ बृहस्पतौ ॥ १९२४ ॥ स्त्री मौर्व्यामथ जन्तुः स्यात् प्राणिनि क्षत्रियान्तरे । जम्बीरे दैत्यभेदे च जम्भो भूतान्तरेऽपि च ॥ १९२५ ॥ ज्येष्ठा त्वलक्ष्मीर्नक्षत्रज्यायसी गृहगोलिका । ;l{3855} जातिर्जन्मनि मालत्यां सामान्ये ब्राह्मणादिके ॥ १९२६ ॥ ;p{0235} झषो मीने च मकरे झम्पाश्वादिगतौ गते । प्रमाणगर्वयोष्टङ्को मृगे पाषाणदारणे ॥ १९२७ ॥ डिम्भः प्लीह्नि खगापत्ये ढक्कावाघे सरित्यपि । धुतक्ष्णि तक्ष्णि च त्वष्टा तालस्तु नरके द्रुमे ॥ १९२८ ॥ ;l{3860} द्वारबन्धनयन्त्रे च वाद्यभेदे विलम्बिते । कुञ्चिकायां च तारस्तु मुक्ताशुद्धावुडौ न ना ॥ १९२९ ॥ दृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले । तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥ परिच्छदे तन्तुवाये प्रयोगे क्रतुकर्मणाम् । ;l{3865} तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने ॥ १९३१ ॥ पात्रोपायावतारेषु स्त्रीपुष्पे योनियज्ञयोः । तेजः पराक्रमे प्राणे वर्चस्यर्चिषि तेजसि ॥ १९३२ ॥ धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । ;l{3870} त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ ध्वान्ते पापे गुणेऽज्ञाने मोहे तीक्ष्णं तु शस्त्रके । त्रिषु क्रूरोष्णशातेषु तिग्मस्तीव्रोष्णयोस्त्रिषु ॥ १९३४ ॥ ;p{0236} दण्डः सैन्ये दमे यष्ट्यां मेढ्रे पार्श्वचरे रवेः । वने वनानले दावदवौ दन्तस्तु भूभृताम् ॥ १९३५ ॥ ;l{3875} कटके स्थूलपाषाणे रदनेभविषाणयोः । जायाभावे तु दन्ता स्त्री देशो नीवृत्प्रदानयोः ॥ १९३६ ॥ यौतकादिधने दाने दायो द्युम्ने च पैतृके । द्रोणं तु कार्मुके द्रोणो वृश्चिके जलवायसे ॥ १९३७ ॥ मानभेदे पितर्यश्वत्थाम्नो गुल्मान्तरेऽपि च । ;l{3880} स्याद्गुणेतरवाताद्योर्दोष एनसि दुर्विधौ ॥ १९३८ ॥ अव्यये दरमल्पार्थे दरः शङ्खे भये बिले । दुर्गा तु पार्वती दुर्गो राष्ट्रे दुर्गं वने पुरे ॥ १९३९ ॥ दुर्गमे त्रिषु दंष्ट्री तु शार्दूले मूषिके किटौ । सदंष्ट्रपन्नगे ग्राहे दानं हस्तिमदेऽपि च ॥ १९४० ॥ ;l{3885} द्वन्द्वं वसन्तग्रीष्मादिमिथुने कलहे युगे । दृष्टिर्दर्शनधीदृक्षु दाम प्रग्रहमाल्ययोः ॥ १९४१ ॥ धर्मो न्याययमाचाराहिंसावैदिककर्मसु । साम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ॥ १९४२ ॥ धातुर्भुवादिशब्दादिगैरिकादित्वगादिषु । ;l{3890} चक्षुरादिपृथिव्यादिहेमादिषु च रेतसि ॥ १९४३ ॥ ;p{0237} मरुर्धन्वा धनुर्धन्व धवः पत्यौ द्रुमान्तरे । धृतिः सौख्ये धारणे च धाता ब्रह्मणि पोषके ॥ १९४४ ॥ धारा सलिलसंतत्यां सैन्याग्रे वाजिनां गतौ । अस्त्राग्रेऽप्यथ धात्री भूरुपमातामलक्यपि ॥ १९४५ ॥ ;l{3895} नगः शिलोच्चये वृक्षे नाकः स्वर्गान्तरिक्षयोः । नागः सर्पे गजे ग्राहे नरोऽर्जुनमनुष्ययोः ॥ १९४६ ॥ नग्नो रुद्रो जिनोऽवासा वेदत्यागी निरग्निकः । नाशस्त्वदर्शने मृत्यौ परिध्वंसे पलायने ॥ १९४७ ॥ हेम्न्युरोभूषणे कर्षे साष्टकर्षशते पले । ;l{3900} दीनारेऽपि च निष्कोऽस्त्री नेमिः सीमाव्यवस्थयोः ॥ १९४८ ॥ देशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके । पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥ पक्षोऽर्धमासे गरुति पार्श्वद्वारेऽन्तिके बले । पार्श्वे चुल्लिबिले भित्तौ सहाये साध्यवश्ययोः ॥ १९५० ॥ ;l{3905} पणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ पायो वयसि बाहुल्ये तुल्यानशनमृत्युषु । ;p{0238} पतिः स्वामिनि पत्यौ च पत्री श्येनपृषत्कयोः ॥ १९५२ ॥ प्राणस्तु जीविते जीवे जीवात्मपरमात्मनोः । ;l{3910} अन्तर्याम्यन्तःकरणवायुभेदबलेषु च ॥ १९५३ ॥ पोतःप्रवहणे डिम्भे पाकः पचनडिम्भयोः । कालस्य चावधौ प्रैषः प्रेषणे मर्दनेऽपि च ॥ १९५४ ॥ पद्मोऽस्त्री पङ्कजे ना तु निधौ व्यूहेऽहिपुंगवे । स्त्री श्रियामौषधे षण्डः संख्यायां गजबिन्दुषु ॥ १९५५ ॥ ;l{3915} अष्टकायां परं दूरे भृशे मुख्यान्ययोः पुमान् । पादग्रन्थेरधः पार्ष्णि पुमांस्त्र्युत्तमयोषिति ॥ १९५६ ॥ पुङ्खः श्येने शराङ्गे च पविर्वज्रसमीरयोः । पशुरज्ञगवाद्योः स्यात् परोऽरिपरमात्मनोः ॥ १९५७ ॥ पिण्डिर्ना तैलकल्के स्त्री रथनाभौ च पिण्डिका । ;l{3920} पयः पाथसि च क्षीरे पङ्कोऽस्त्री कर्दमांहसोः ॥ १९५८ ॥ पलाशे वाहनं पत्रं छुरिकायां गरुत्यपि । पात्रं योग्ये भाजने च वित्ते कूलद्वयान्तरे ॥ १९५९ ॥ पाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः । मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥ ;p{0239} ;l{3925} पर्व पञ्चदशीग्रन्थ्योः प्रस्तावे विषुवादिके । पार्श्वमस्त्री समीपे च प्रजा तु जनपुत्रयोः ॥ १९६१ ॥ पुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् । पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥ फालो निरीषके स्फोटे श्वेतार्के दाडिमे फले । ;l{3930} भोगनिष्पत्तिलाभेषु बीजे फाले धने फलम् ॥ १९६३ ॥ राजदेये बलिर्दैत्यभेदे पूजोपहारयोः । कपिले त्रिषु बभ्रुर्ना नकुले केशवे मुनौ ॥ १९६४ ॥ प्रतिबिम्बे प्रतिकृतौ बिम्बोऽस्त्री मण्डले समे । बाणः शरे बलिसुते वृक्षभेदे तु वा स्त्रियाम् ॥ १९६५ ॥ ;l{3935} आधिबन्धनयोर्बन्धो बन्धुर्बान्धवकामयोः । बलो रामे दैत्यभैदे काके बलवति त्रिषु ॥ १९६६ ॥ सहायस्थौल्यसैन्येषु शक्तौ क्लीबे बलौलौषधे । जन्मसंसारसात्तासु भद्रे भूतपतौ भवः ॥ १९६७ ॥ भगो रुद्रे मुनौ सूर्ये धर्मे प्राज्ञे तपस्यपि । ;l{3940} वैराग्यैश्वर्यकान्तीच्छायत्नवीर्ययशःस्वपि ॥ १९६८ ॥ भोगो वेश्याभृतौ राज्ये सौख्येऽर्थे पालने रतौ । विहारे व्यवहारे च फणिनः फणदेहयोः ॥ १९६९ ॥ ;p{0240} भूतं खादौ च जन्तौ च न स्त्रियां गणसत्त्वयोः । भागोंऽशे भागधेये च भानुः किरणभास्करौ ॥ १९७० ॥ ;l{3945} भावश्चेष्टाक्रियालीलासत्ताभिप्रायजन्तुषु । आत्मभावेन्द्रियज्ञानमनोविकृतिभूतिषु ॥ १९७१ ॥ द्रव्यमात्ररसोत्पत्तिस्वभावात्मसु चेङ्गिते । गजभेदे वृषे भद्रः शुभे क्लीब उरौ त्रिषु ॥ १९७२ ॥ ;l{3950} भङ्गः पराजये छेदे तरङ्गे चावखण्डने । भङ्गा तु यवभेदे स्याद् भीमौ रुद्रवृकोदरौ ॥ १९७३ ॥ नरकाङ्गारकौ भौमौ भेकौ वर्षाभ्वि कातरे । मन्युः कोपेऽध्वरे शोके मरुद्देवसमीरयोः ॥ १९७४ ॥ मन्दः शनौ सरोगेऽज्ञे निर्भाग्येऽल्पेऽपटौ त्रिषु । अजागलस्तने रत्नेऽलिञ्जरेऽपि मणिर्द्वयोः ॥ १९७५ ॥ ;l{3955} मौलिस्तु संयते केशे चूडायां मकुटे द्वयोः । वाचंयमे वसिष्ठादौ बुद्धे वृक्षे जिने मुनिः ॥ १९७६ ॥ मधुस्तु यादवे चैत्रे वसन्ते दानवान्तरे । वा पुंसि मद्ये क्लीबे तु स्यात् क्षौद्रमकरन्दयोः ॥ १९७७ ॥ ;p{0241} स्याद्राश्येलकयोर्मेषो मोहो वैचित्र्यमौर्ख्ययोः । ;l{3960} मरुर्धन्वनि देशे च मारस्तु मरणे स्मरे ॥ १९७८ ॥ माता ब्राह्म्याद्यकाराद्योरुमायां गवि मातरि । अक्षरावयवे माने प्रवृत्तौ कर्णभूषणे ॥ १९७९ ॥ अंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ ;l{3965} मृगस्तु हरिणे सौम्ये नक्षत्रेऽन्वेषणे गजे । मार्गो मृगशिरोमासान्वेषणाध्वसु याचने ॥ १९८१ ॥ मुख्यद्वाराभ्युपायेषु ताम्रे च वदने मुखम् । यमो यमलकीनाशसंयमेषु नियन्त्रणे ॥ १९८२ ॥ यतिर्यतिनि पुंसि स्यात् कारसंयमयोः स्त्रियाम् । ;l{3970} ध्यानसंनहनोपाययुक्तिविस्रब्धघातिषु ॥ १९८३ ॥ प्राप्तौ च संगतौ योगो यासो दुःस्पर्शयत्नयोः । गमने वर्तने यात्रा यानमश्वादिके गतौ ॥ १९८४ ॥ रसो रागे विषे वीर्ये शृङ्गारादौ पराक्रमे । तक्तादौ पारदे शब्दे रेतस्यास्वादनेऽमृते ॥ १९८५ ॥ ;l{3975} रतिः क्रीडाकामपत्न्योः रदो दन्तविलेखयोः । अंशुप्रग्रहयोः रश्मी रणोऽस्त्री युधि ना स्वने ॥ १९८६ ॥ ;p{0242} चन्द्रक्षत्रिययोः राजा लताभेदे नृपे प्रभौ । रजः पांस्वार्ताहःसु रहो याभरहस्ययोः ॥ १९८७ ॥ रुचिः कन्तिस्पृहार्चिःषु रीतिः स्थित्यारकूटयोः । ;l{3980} रेणुर्मुनौ च पांसौ च रिष्टं नाशे शुभाशुभे ॥ १९८८ ॥ रागोऽलक्तेऽनुरागे च त्विषि वर्णान्तरेऽरुणे । लेपने भोजने लेपो लोकः स्याद्भुवने जने ॥ १९८९ ॥ लवो लेशे नृपे च्छेदे लङ्का पूर्भेदचिह्नयोः । लक्षं शरव्ये संख्यायां लघुस्त्रिषु मनोरमे ॥ १९९० ॥ ;l{3985} असार इष्टे क्षिप्रार्थेऽप्यगुरौ क्षुल्लकेऽपि च । लीला क्रीडा विलासश्च लक्ष्म चिह्नवरिष्ठयोः ॥ १९९१ ॥ चिह्नमेहनयोर्लिङ्गं वेषे बुद्ध्यादिसंगतौ । वंशः पृष्ठास्थ्नि नासोर्ध्वास्थ्नीक्षुभेदे कुले गणे ॥ १९९२ ॥ वेणौ वेश्मौर्ध्वकाष्ठे च खड्गांशे वाद्यभेदके । ;l{3990} व्रजा गोष्ठाध्वनिवहा गोश्वासे वाहने वहः ॥ १९९३ ॥ विधुर्निशाकरे विष्णौ वाज्यश्वे सायके खगे । वयः क्लीबे खगे प्राये वालः पुच्छे शिरोरुहे ॥ १९९४ ॥ ;p{0243} वीचिः पङ्क्त्यूर्मिधारासु वीथिः पङ्क्तिः पदव्यपि । विधाः प्रकारहस्त्यन्नविधानर्द्धिभृतिक्रियाः ॥ १९९५ ॥ ;l{3995} व्युष्टिः फले समृद्धत्वे वेगः किंपाकरंहसोः । क्लीबे वारिजले स्त्री तु वारणग्रहणस्थले ॥ १९९६ ॥ वीर्यं पराक्रमे शुक्ले वृत्तिर्वर्तनजीवने । विधिर्ब्रह्मणि दैवे च विधाने कर्मकल्पयोः ॥ १९९७ ॥ वेणी तु देवताली स्यात् केशबन्धोऽम्बुसंततिः । ;l{4000} वर्णो विप्रादिशुक्लाद्योर्व्रते गीतिक्रमे कुथे ॥ १९९८ ॥ कीर्तौ स्तवेऽक्षरे त्वस्त्री प्रकारालेपभाःसु च । वीरोऽग्नौ तनये शूरे शक्रे स्कन्दकुबेरयोः ॥ १९९९ ॥ हरे राहौ च वर्चोऽर्चीरूपविड्भाःसु तेजसि । वरो नावृतिजामात्रोर्देवताभ्यः समीप्सिते ॥ २००० ॥ ;l{4005} त्रिषु प्राग्रहरे क्लीबे मनागिष्टेऽथ पन्नगे । दुष्टद्विपे श्वापदे च व्यालः पुंसि शठे त्रिषु ॥ २००१ ॥ विश्वं जगति सर्वस्मिन् त्रिषु शुण्ठ्यामसौ न ना । मूषिके शुनके श्रेष्ठे वृषभे सुकृते वृषः ॥ २००२ ॥ वार्ता वातिङ्गनोदन्तवाणिज्यादिषु वर्तने । ;l{4010} निःसारारोग्ययोः क्लीबे वृत्तिमन्नीरुजोस्त्रिषु ॥ २००३ ॥ ;p{0244} वृत्तं तु चरिते पद्ये त्रिष्वतीते च वर्तुले । वत्सस्तु तर्णके वर्षे पुत्रादौ कुटजे मुनौ ॥ २००४ ॥ वाले च वक्षसि त्वस्त्री वृषोक्ष्णि सुरनायके । वासो गन्धे निवासे च वारः पर्यायसंघयोः ॥ २००५ ॥ ;l{4015} वसु क्लीबे धने तोये योक्त्रांशुज्वलनेषु ना । वर्षाः प्रावृषि वर्षोऽस्त्री भारताद्यब्दवृष्टिषु ॥ २००६ ॥ वाणी वाग्देवतावाचोर्वीतं दुर्गजवाजिनोः । शङ्खो निधौ ललाटास्थ्नि नागे कम्बौ तु न स्त्रियाम् ॥ २००७ ॥ शिवो महेश्वरे शङ्कौ पुमान् क्लीबे तु मङ्गले । ;l{4020} शुद्धे त्रिषु शिवा क्रोष्टाभया शम्यामलक्युमा ॥ २००८ ॥ वृत्रारौ कुटजे शक्रः शुको व्याससुते खगे । शङ्कुः पत्रसिराकीलमेहनेष्वायुधान्तरे ॥ २००९ ॥ शेषोऽप्रधानेऽनन्ताख्ये सर्पराजे मधुद्विषः । अवतारान्तरेऽपत्ये त्रिष्वन्यत्रोपयुक्ततः ॥ २०१० ॥ ;l{4025} मालाक्षतादिदाने स्त्री शेषा शुक्रोऽनले कवौ । दक्षिणाग्नौ ज्येष्ठमासे क्लीबे रुक्मेऽप्सु रेतसि ॥ २०११ ॥ अक्षिरोगेऽथ शृङ्गोऽस्त्री पर्वताग्रप्रभुत्वयोः । क्रीडाम्बुयन्त्रे पश्वङ्गे शास्त्रं ग्रन्थनिदेशयोः ॥ २०१२ ॥ शम्बस्तु लोहवलये दम्भोलौ मुसलाग्रके । ;p{0245} ;l{4030} शीलं वृत्ते स्वभावे च शान्तिः प्रशममङ्गले ॥ २०१३ ॥ शष्पकर्दमयोः शादो वेदश्रवणयोः श्रुतिः । श्लोकस्तु पद्ययशसोः शुण्डा मद्येभहस्तयोः ॥ २०१४ ॥ शब्दः कीर्तौ ध्वनौ वाक्ये श्रवणेऽक्षरगीतयोः । स्यादध्वदेयजामातृदेययोः शुल्कमस्त्रियाम् ॥ २०१५ ॥ ;l{4035} शारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् । शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥ शुचिर्मासे जातवेदस्युपधाशुद्धमन्त्रिणि । त्रिषु शुद्धे सिते शाला मन्दिरस्कन्धशाखयोः ॥ २०१७ ॥ स्यात् त्रिष्वाकर्णिते क्लीबे शास्त्रावधृतयोः श्रुतम् । ;l{4040} सर्गस्तु निश्चयेऽध्याये स्वभावोत्साहसृष्टिषु ॥ २०१८ ॥ स्त्री सिन्धुरापगायां ना देशभेदसमुद्रयोः । संधिः सुरुङ्गानाट्याङ्गरन्ध्रसंश्लेषयोनिषु ॥ २०१९ ॥ सालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे । सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥ ;l{4045} द्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः । स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥ सत्यं तु शपथे तथ्ये परमार्थेऽभिधेयवत् । ;p{0246} स्वरोऽकाराद्युदात्तादिषड्जादिषु जनस्वने ॥ २०२२ ॥ स्वामी षडानने पत्यौ स्वरुर्यूपांशवज्रयोः । ;l{4050} स्याज्जाड्यस्थूणथोः स्तम्भः सुतः सोमरसेऽपि च ॥ २०२३ ॥ मृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः । संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥ संज्ञासंभाषणज्ञानक्रियाकारेषु तोषणे । बले स्थिरांशे सारो ना धने न स्त्री वरेऽर्थवत् ॥ २०२५ ॥ ;l{4055} प्रतिज्ञानेऽवधौ संधा ज्ञानमर्यादयोः स्थितिः । संज्ञा नाम्न्यर्कभार्यायां ज्ञाने हस्तादिसूचने ॥ २०२६ ॥ सत्रं यज्ञे सदा दाने वनेऽन्नार्पणवेश्मनि । हंसोऽर्के विहगे विष्णौ जीवे श्वेतवृषे स्मरे ॥ २०२७ ॥ निःसपत्ननृपे भिक्षौ हीरः पन्नगसिंहयोः । ;l{4060} विष्णुसिंहार्कचन्द्रेन्द्रयमानिलशुकादिषु ॥ २०२८ ॥ कपिभेकांशुवाहेषु हरिर्ना पिङ्गले त्रिषु । हव आह्वानमखयोर्हेतुः कारणजन्मनोः ॥ २०२९ ॥ हरिदर्कहये वर्णे पुंसि स्यात् ककुभि स्त्रियाम् । हेतिः स्त्रीपुंसयोर्ज्वाले किरणायुधयोरपि ॥ २०३० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरेऽनेकार्थाधिकारे द्व्यक्षराध्यायः ॥} ;p{0247} ;vv{त्र्यक्षराध्यायः} ;c{त्र्यक्षराध्यायः} ;l{4065} अर्जुनः फल्गुने वृक्षे मातुरेकसुते सिते । सहस्रबाहौ दृग्रोगे क्लीबे तृणसुवर्णयोः ॥ २०३१ ॥ अर्जुनी गवि नद्यां स्यादनूरौ भास्करेऽरुणः । अनन्ता भूरनन्तं खमनन्तो हरिशेषयोः ॥ २०३२ ॥ केयूरे त्वङ्गदं क्लीबे पुंसि बालिन आत्मजे । ;l{4070} अञ्जनं कज्जले ना तु दिग्गजे कपिपुङ्गवे ॥ २०३३ ॥ स्त्री कलत्रे केसरिणो मालिन्ये वाच्यलिङ्गकम् । प्रत्ययोऽतिक्रमे दण्डे मरणे कृच्छ्रदोषयोः ॥ २०३४ ॥ अरिष्टं सूतिकागारे मद्ये ताम्रे शुभाशुभे । कालशेये मृत्युचिह्ने काकनिम्बासुरेषु ना ॥ २०३५ ॥ ;l{4075} अमृतामलकी पथ्या गुलूची गोस्तनी सुरा । अमृतं हेम्नि देवान्ने यज्ञशेषे रसायने ॥ २०३६ ॥ अयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः । अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥ अन्तरं परिधानीयबाह्यस्वीयेषु वाच्यवत् । ;l{4080} क्लीबेऽवसरतादर्थ्यमध्यान्तर्धान्तरात्मसु ॥ २०३८ ॥ ;p{0248} अवकाशेऽवधौ भेदे विनार्थच्छिद्रयोरपि । अपानः पुंसि देहस्थवायौ पायौ नपुंसके ॥ २०३९ ॥ ब्रह्मण्यव्यक्तमस्पष्टे त्रिषु स्यात् सौम्यमन्दयोः । अलसोऽथाङ्गजः कामे प्राणादौ तनये रुजि ॥ २०४० ॥ ;l{4085} अभिख्या त्विड्यशोनामस्वयनं नरके पथि । सूर्योदग्दक्षिणे यानेऽप्यलीकं त्वप्रियानृते ॥ २०४१ ॥ अण्डजो ब्रह्मणि व्याले गोधायां सरटे खगे । अशनिर्वज्रतटितोरनीकोऽस्त्री चमूयुधोः ॥ २०४२ ॥ अक्षरः पुरुषे ब्रह्मवर्णनिःश्रेयसेऽक्षरम् । ;l{4090} आलोकौ दर्शनद्योतावाहवौ समराध्वरौ ॥ २०४३ ॥ आम्नायः संप्रदायेऽपि वेदाध्ययनयोरपि । आकार इङ्गिताकृत्योरागमः श्रुतिशास्त्रयोः ॥ २०४४ ॥ आसारोऽतिमहावृष्टौ प्रसारे च सुहृद्बले । तपोवने मठे ब्रह्मचर्यादावाश्रमोऽस्त्रियाम् ॥ २०४५ ॥ ;l{4095} आशयो हृदये ज्ञानेऽभिप्राये कौतुकेऽपि च । प्रभावागामिसमयदैर्घ्येष्वायतिरागमे ॥ २०४६ ॥ आसनं वारणस्कन्धे आस्पदं स्थानकृत्ययोः । स्तम्भमात्रेऽपि चालानमाशंसा स्तववाञ्छयोः ॥ २०४७ ॥ ;p{0249} आतङ्को भीतिरुक्तापेष्वामोदो मुत्सुगन्धयोः । ;l{4100} श्रोण्यां चारोह आवापो न्यास आवालभूषयोः ॥ २०४८ ॥ तदात्वे पात आपात आशुगोऽर्केषुवायुषु । आयोगो व्यापृतौ गन्धमाल्योपहरणेऽपि च ॥ २०४९ ॥ भक्षणेऽन्धसि चाहार आघातः सीमघातयोः । आक्रन्दः क्रन्दने घोरसमरे निन्दनेऽपि च ॥ २०५० ॥ ;l{4105} आलवालेऽधिकरणे स्यादाधारोऽम्बुबन्धने । आकर्षः शारिफलकद्यूताकृष्टिषु पाशके ॥ २०५१ ॥ आनर्तो देशभेदे स्यान्नृत्तवेश्मनि संयुगे । आशीरः पावके सूर्ये स्यात् क्षीरविकृतावपि ॥ २०५२ ॥ इषीकास्त्रे तृणेऽपि स्यादिल्वलः पुंसि दानवे । ;l{4110} तारकारिवल्वला स्त्रीत्व ईश्वरोऽधिपतौ हरे ॥ २०५३ ॥ उदान उदरावर्ते फणिवायुप्रभेदयोः । उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृतावपि ॥ २०५४ ॥ उदर्क उत्तरे काले स्यादुत्तरफलेऽपि च । उपला स्त्री दृषत्पुत्रे मणिपाषाणयोः पुमान् ॥ २०५५ ॥ ;l{4115} ऊर्णायुरूर्णनाभौ स्यान्मेषे तल्लोमकम्बले । ऋषभो गोवृषे श्रोत्ररन्ध्रे श्रेष्ठे स्वरे मुनौ ॥ २०५६ ॥ ;p{0250} कलङ्कोऽङ्केऽपवादे च कलिङ्गः खगदेशयोः । करेणुर्ना गजे स्त्री तु करिण्यामथ कञ्चुकः ॥ २०५७ ॥ वारवाणेऽहिनिर्मोके कर्णिका कर्णभूषणे । ;l{4120} करिहस्ताङ्गुलौ पद्मबीजे कमलमम्बुजे ॥ २०५८ ॥ सलिले करवालादेर्हेमाद्यैश्चित्रिताजिने । कमला श्रीः कपर्दस्तु जटाजूटे वराटके ॥ २०५९ ॥ क्षुद्रशत्रौ द्रुमाङ्के च रोमहर्षे च कण्टकः । भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ २०६० ॥ ;l{4125} गुग्गुलूलूकशक्रर्षिव्यालग्राहिषु कौशिकः । कृतान्तो दैवसिद्धान्तयमाकुशलकर्मसु ॥ २०६१ ॥ कलापो भूषणे काञ्च्यां समूहे बर्हतूणयोः । कमण्डलौ च दाडिम्यां करको भूम्नि तु स्त्रियाम् ॥ २०६२ ॥ वर्षोपलेषु करकाः कलत्रं श्रोणिभार्ययोः । ;l{4130} श्वभ्रे क्लीबस्तुषाग्नौ ना कुकूलमथ कौतुकम् ॥ २०६३ ॥ कुतूहले हस्तसूत्रे कल्याणं हेम्नि मङ्गले । कुण्डलं कर्णभूषायां चक्रे पन्नगवेष्टने ॥ २०६४ ॥ अस्त्री वृषाङ्गे प्राधान्ये ककुदो राजलक्षणे । पुंसीशुभेदे कान्तारः क्लीबे वनदुरध्वनोः ॥ २०६५ ॥ ;l{4135} कदर्ये त्रिषु कीनाशः कुष्यध्यक्षे यमे नरि । काके च करिगण्डे च करटः कुहरं रते ॥ २०६६ ॥ ;p{0251} विवरे शैलदर्यां च कृपीटमुदरेऽम्भसि । दिग्गजे कुमुदः शाखामृगपन्नगमुख्ययोः ॥ २०६७ ॥ कैरवे कुमुदं क्लीबे कदली मृगरम्भयोः । ;l{4140} कूर्चिका क्षीरविकृतौ सूचीतूलिकयोरपि ॥ २०६८ ॥ कबन्धोऽस्त्र्यपमूर्ध्न्यङ्गे षण्डेंऽभस्याशरे पुमान् । कादम्बः सायके हंसे कदम्बः शरभूरुहोः ॥ २०६९ ॥ कृतौ विवरणे श्लोके यातनायां च कारिका । कालिका घनजालेऽपि कमठो मुनिकूर्मयोः ॥ २०७० ॥ ;l{4145} कैतवं कपटे द्यूते कारणं हेतुजन्मनोः । बबादौ कारणे काये साधने रतिबन्धने ॥ २०७१ ॥ नाट्यभेदेन्द्रियध्यानस्पृष्टाद्युञ्चारणेषु च । गीतके कर्मणि ज्ञाने करणं द्वादशस्वपि ॥ २०७२ ॥ काञ्चनं हेम्नि वृक्षे तु काञ्चनः काञ्चनी निशा । ;l{4150} क्वाथे कुथे कषायोऽस्त्री निर्यासे सौरभे रसे ॥ २०७३ ॥ अस्त्री कशिपु वस्त्रेऽन्ने शय्यायां तद्द्वयेऽपि च । कुमारः षण्मुखे बाले युवराजे सितद्रुमे ॥ २०७४ ॥ कुमारी चण्डिका कन्या सहा सुदुहितर्यपि । कुतपो भागिनेयार्कगोतिथिब्राह्मणेषु ना ॥ २०७५ ॥ ;l{4155} अस्त्री त्वह्नोऽष्टमे भागे कर्बुरः पुंसि राक्षसे । ;p{0252} वर्णे च कर्बुरं हेम्नि करीरस्तु घटे पुमान् ॥ २०७६ ॥ वंशाङ्कुरे हस्तिदन्तमूलभागेऽपि न स्त्रियाम् । यज्ञायुधे कर्परे च कपालं पुंनपुंसकम् ॥ २०७७ ॥ निश्चिते केवलं क्लीबे वाच्यवत्त्वेककृत्स्नयोः । ;l{4160} कुशलं मङ्गले पुण्ये निपुणक्षमयोस्त्रिषु ॥ २०७८ ॥ कुहनो मूषिके दम्भे कुद्दालो युगपत्रके । खनित्रभेदे सिंहादिस्कन्धरोम्णि तु केसरः ॥ २०७९ ॥ बकुलेऽस्त्री तु किञ्जल्के कपिलो मुनिवर्णयोः । कटीरं कन्दरे कट्यां कुशिको मुनिवृक्षयोः ॥ २०८० ॥ ;l{4165} कुम्भीरस्तस्करे नक्रे क्षवथुः क्षवकासयोः । कलहो द्वन्द्वरणयोः कर्परोऽग्निकपालयोः ॥ २०८१ ॥ क्षारको मत्स्यपक्ष्यादिपिटके पुष्पजालके । कुररः शैलखगयोः कुन्नानं कुण्डशिक्ययोः ॥ २०८२ ॥ खिङ्खिरो वरुणे क्रोष्टौ खेचरोर्कादिवातयोः । ;l{4170} पूगे तदीयनिर्यासे खपुरः पूगवेष्टके ॥ २०८३ ॥ खनको मूषिके कोले ग्रामणीर्नापितेऽपि च । गृहिणी देहली जाया काञ्चिकं गृहकारिका ॥ २०८४ ॥ गणिका करिणी वेश्या यूथिका कूटकारिका । ;p{0253} गोपतिर्वृषभे प्राज्ञे सूर्ये भूभृति वज्रिणि ॥ २०८५ ॥ ;l{4175} मत्तेभे गर्जितः पुंसि क्लीबे मेघेभनादयोः । गण्डपूर्तौ तु गण्डूषः प्रसृते करिपुष्करे ॥ २०८६ ॥ गन्धर्वो गायके सप्तौ देवयोनौ मृगान्तरे । चामीवरे तु गाङ्गेयं गाङ्गेयः स्कन्दभीष्मयोः ॥ २०८७ ॥ गरुत्मान् विहगे तार्क्ष्ये घटिका नाडिका घटः । ;l{4180} चञ्चलो वाच्यलिङ्गे स्यात्तरले तडिति स्त्रियाम् ॥ २०८८ ॥ चपले त्रिषु केशे ना चिकुरश्चपलो रसे । तडिति स्त्री द्रुते क्लीबश्चत्वरस्तु चतुष्पथे ॥ २०८९ ॥ स्थण्डिलाङ्गणयोः क्लीबे चतुरः कुशलेऽर्थवत् । चतुरं गजशालायां चतुरा स्त्री मृगान्तरे ॥ २०९० ॥ ;l{4185} जगती भुवने भूमौ लताच्छन्दोविशेषयोः । अगलो मोदके मद्ये जरठः कठिनेऽपि च ॥ २०९१ ॥ श्रमणे जीवयितरि वृद्धिजीविनि जीवकः । जर्जरस्त्रिषु जीर्णेऽपि जनकोऽपि नृपान्तरे ॥ २०९२ ॥ अल्पाम्बुद्रुगिरौ देशे देशभेदेऽपि जाङ्गलः । ;p{0254} ;l{4190} जाङ्गलं पिशितेऽथ स्याज्जटालो बहुपादपि ॥ २०९३ ॥ जीमूतो जलदे शैले जम्बूकः क्रोष्टुपाशिनोः । जामाता तु श्वेततिले जम्बालौ पङ्कशैवलौ ॥ २०९४ ॥ झल्लरी वाद्यभेदे स्याच्छत्रान्तालम्बिवाससि । हारमध्यमणौ पुंसि तरलस्त्रिषु चञ्चले ॥ २०९५ ॥ ;l{4195} तरणिः स्त्री हविर्मन्थे नावि पुंसि तु भास्करे । दृङ्मध्ये स्त्री पुमान् दैत्ये नक्षत्रे तारकं न ना ॥ २०९६ ॥ त्रिधामा दहने विष्णौ त्रिशङ्कुरुडुतार्क्ष्ययोः । एरण्डे यूनि तरुणस्तरुणी युवतिः सहा ॥ २०९७ ॥ तलिमं कुट्टिमे तल्पे तमोनुत्तेजसां त्रये । ;l{4200} स्वर्गेऽन्तरिक्षे त्रिदिवस्तृणतास्त्रतृणत्वयोः ॥ २०९८ ॥ तेमनं व्यज्जने क्लेदे तोत्रे तोदे च तोदनम् । तमस्विन्यां तमिस्रा स्त्री तमिस्रं तिमिरे न ना ॥ २०९९ ॥ तानितं तूलितपटे गुणवादित्रभाण्डयोः । छिन्नपुच्छे वृषे पुंसि निःश्मश्रावपि तूबरः ॥ २१०० ॥ ;l{4205} तोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः । तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरे शास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥ ;p{0255} द्विजेन्द्रो ब्राह्मणे चन्द्रे सुपर्णे द्वापरो युगे । संदेहेऽथ सपिण्डे स्याद्दायादस्तनयेऽपि च ॥ २१०२ ॥ ;l{4210} स्यात् स्त्री पुनर्श्वां तत्पत्यौ दिधिषुर्दीधिषूर्नरौ । दक्षिणः सरले दक्षे देशभेदे तु दक्षिणा ॥ २१०३ ॥ दूषणं तु कलङ्कार्थे दूषणो रजनीचरे । दुन्दुभिर्वत्सरे भेर्यां गन्धर्वे राक्षसान्तरे ॥ २१०४ ॥ दुरितं व्यसने पापे द्रविणं बलवित्तयोः । ;l{4215} उपनीतो व्रती यज्वा नियमस्थश्च दीक्षितः ॥ २१०५ ॥ सुरतक्रान्तिधार्ष्ट्येषु धर्षणं धर्षणीत्वरी । धिषणा तु मनीषायां धिषणो देवदेशिके ॥ २१०६ ॥ धारणे मानभेदे च धरणं धरणी मही । धावनं गमने शुद्धौ स्थितौ विश्वे च धारणा ॥ २१०७ ॥ ;l{4220} योगाङ्गेऽथ वृषे शुभ्रे धवलो धवली गवि । धनदो दातरि श्रीदे नभसो व्योम्नि सागरे ॥ २१०८ ॥ निगमो निर्णये वेदे पुरे मार्गे वणिक्पथे । ;p{0256} कर्म भृत्युपभोगेषु निर्वेशो मूर्च्छनेऽपि च ॥ २१०९ ॥ निवेशौ शिबिरोद्वाहौ निरोधौ रोधसंक्षयौ । ;l{4225} निह्नवस्तु निकारे स्यादविश्वासेऽप्यपह्नवे ॥ २११० ॥ आज्ञायामपि निर्देशो निषधोऽनलभूभृतोः । निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥ निश्चयाज्ञाप्रतिज्ञासु नियमो यन्त्रणे व्रते । नितम्बः पश्चिमश्रोणिभागेऽद्रिकटकेऽपि च ॥ २११२ ॥ ;l{4230} नालिका विवरे वेणुभाजने चुल्लिरन्ध्रके । निर्गन्धः श्रमणे निःस्वे निर्वृतिः सौख्यनाशयोः ॥ २११३ ॥ निर्वाणं मरणे मोक्षे निर्वृतौ गजमज्जने । निरस्तः स्यात् त्रिषूत्सृष्टसायके त्वरितोदिते ॥ २११४ ॥ निराकृते च निष्ठ्यूते निहतो न्यक्कृते हते । ;l{4235} निवातस्त्रिषु निर्वाते दृढे तु कवचे पुमान् ॥ २११५ ॥ वारणापाङ्गदेशे स्यान्निर्याणं निर्गमे मृतौ । निदाघ ऊष्मणि ग्रीष्मे स्वेदे तापे च घर्मवत् ॥ २११६ ॥ नालीकः सायके पुंसि नलिने तु नपुंसके । निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥ ;l{4240} पतंगः शलभे शालौ खगे कमलबान्धवे । ;p{0257} पुष्परेणौ च रेणौ च परागः परिघोऽर्गले ॥ २११८ ॥ परिघाते दन्तभेदे प्रसवः फलपुष्पयोः । जनने तनये गर्भमोचनेऽभिषवेऽपि च ॥ २११९ ॥ पर्जन्यो वासवे गर्जदभ्रे जीमूतनिस्वने । ;l{4245} प्रलयो मूर्च्छने श्लेषे संवर्ते मरणेऽपि च ॥ २१२० ॥ प्रयोगः स्यात् कर्मविधौ ग्राम्यधर्मकुसीदयोः । प्रणयः संस्तवे प्रेम्णि याचने सौहृदे रसे ॥ २१२१ ॥ प्रवहो वायुमात्रे स्यात् प्राप्तिवायुप्रभेदयोः । प्रवाहस्त्वम्भसां वेगे प्रकृष्टाश्वे प्रवर्तने ॥ २१२२ ॥ ;l{4250} पुरुषोऽश्वस्थितौ पुंसि पुंनागे परमात्मनि । प्रग्राहोऽश्वादिरज्ज्वंशुबन्दिषु प्रग्रहोऽपि च ॥ २१२३ ॥ पलाशं तु दले ब्रह्मवृक्षराक्षसयोः पुमान् । प्रणिधिः प्रार्थने चारे प्रस्तरस्त्वश्मरत्नयोः ॥ २१२४ ॥ आद्योपलब्धिस्थाने च मूले च प्रभवोऽम्भसाम् । ;l{4255} पुलकः कृमिरोमाञ्चहीररत्नास्त्रराजिषु ॥ २१२५ ॥ प्रदरा बाणरुग्भङ्गाः प्रतापौ पौरुषातपौ । प्रत्ययः ख्यातिविश्वासशपथज्ञानहेतुषु ॥ २१२६ ॥ पुष्करं हस्तिहस्ताग्रे व्योम्नि वाद्यमुखे जले । ;p{0258} तीर्थभेदेऽसिधारायां पर्यायोऽवसरे क्रमे ॥ २१२७ ॥ ;l{4260} प्रमाणं हेतुविश्वासशास्त्रेयत्तासु शासने । मर्यादायां प्रपञ्चस्तु विपर्यासे सुविस्तरे ॥ २१२८ ॥ प्रतीतस्त्रिषु विख्याते प्रीते प्रत्ययिते बुधे । प्रतिपत्तिथिबुद्ध्योः स्यात् प्रकृतिर्मूलकारणे ॥ २१२९ ॥ स्वभावजन्त्वमात्यादिच्छन्दोभूतेषु मातरि । ;l{4265} पक्षतिः पक्षमूले स्याद् द्वयोः प्रतिपदोरपि ॥ २१३० ॥ पीयूषममृतं ना तु नवसूतगवीपयः । पिनाकोऽजगवे पुंसि रजोवर्षे तु वा नरि ॥ २१३१ ॥ पल्लवो ना विटे देशेऽप्यस्त्री किसलयेऽञ्चले । प्रवालो विद्रुमे वीणादण्डे ना पल्लवे स्त्रियाम् ॥ २१३२ ॥ ;l{4270} छदिर्नेत्ररुजोः क्लीबे समूहे पटलं न ना । प्रवणः स्यात् त्रिषु प्रह्वे कुशले वशवर्तिनि ॥ २१३३ ॥ चतुष्पथे क्रमान्निम्ने प्रवरः शालिमुख्ययोः । पवित्रः पावके विष्णौ पवित्रं कलशे कुशे ॥ २१३४ ॥ धने हेम्नि ब्रह्मसूत्रे मन्त्रे च प्रयते त्रिषु । ;l{4275} आशुव्रीहौ पाटलो ना पाटली कुसुमे न ना ॥ २१३५ ॥ प्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च । त्रिषूर्ध्वबाहुपुंमाने स्त्रीणां पुंवद्धृतिस्थितौ ॥ २१३६ ॥ ;p{0259} पुरुषाणां समूहे च पौरुषं स्यान्नपुंसके । फेनिला बदरेऽरिष्टे पुंसि फेनवति त्रिषु ॥ २१३७ ॥ ;l{4280} फलकी चन्दनश्चर्मी बर्बरो भङ्गुरेऽधमे । बहुलोऽग्निः कृष्णपक्षो बहुलैलार्जुनी मही ॥ २१३८ ॥ कृत्तिका भूम्नि बहुला बह्वर्थो बहुलस्त्रिषु । बृहत्यः पद्यवार्ताकीकण्टकार्योऽथ बन्धकी ॥ २१३९ ॥ करिण्यां कुलटायां च भ्रातृव्यो भ्रातृजे रिपौ । ;l{4285} भवनं जन्मगृहयोः भुवनं जगदम्भसोः ॥ २१४० ॥ भरतं नाट्यशास्त्रे स्याद्भरतो मुनिभूभृतोः । भारती तुलसीवाण्योर्भैरवो रुद्रघोरयोः ॥ २१४१ ॥ मण्डली श्वा रविः शुक्रो मार्जारो भुजगो नृपः । मदनो धुस्तुरे वृक्षभेदे मन्मथसिक्थयोः ॥ २१४२ ॥ ;l{4290} मासे मद्ये हरौ पुष्पसमयेऽपि च माधवः । धुस्तूरे सर्पभेदे च मातृभ्रातरि मातुलः ॥ २१४३ ॥ मण्डलं त्रिषु बिम्बे स्याद् वृन्दे द्वादशराजके । प्रतिबिम्बे कुष्ठरोगे ग्रामौघ उपसूर्यके ॥ २१४४ ॥ स्यातां कपित्थकन्दर्पौ मन्मथौ मानसं हृदि । ;p{0260} ;l{4295} सरोभेदेऽपि मन्दारः पारिभद्रे सुरद्रुमे ॥ २१४५ ॥ राष्ट्रक्षोभेऽपि मकरो मुकुन्दौ निधिकेशवौ । मार्गणो याचके बाणेऽन्वेषणे मार्गणं न ना ॥ २१४६ ॥ मरीचिर्ना मुनी रश्मिर्वा स्त्री स्त्री मृगतष्णिका । मोहनं सुरते मद्ये महिषी पशुराट्स्त्रियोः ॥ २१४७ ॥ ;l{4300} असिबन्धनकाञ्च्याद्रिकटकेषु तु मेखला । पुमानन्योदयद्वेषे मत्सरस्त्रिषु तद्वति ॥ २१४८ ॥ कल्याणे मङ्गलं भौमे मङ्गलो मन्थरस्त्रिषु । मन्दगामिनि मन्थाने सूचके मधुरस्त्रिषु ॥ २१४९ ॥ स्वादौ हृद्ये मयूखस्तु ज्वालायां किरणे त्विषि । ;l{4305} मलिनी वृत्तवाहिन्योर्मोदको भक्ष्यहर्षयोः ॥ २१५० ॥ युञ्जानः सारथौ विप्रे युतकं यौतके युगे । वस्वाञ्चले वधूवस्त्रे यजनं यज्ञपूजयोः ॥ २१५१ ॥ ना स्वर्णघर्षणग्राव्णि रोषणः सरुषि त्रिषु । रेवटो वेणुवातूलविषवैद्येषु रेवटम् ॥ २१५२ ॥ ;l{4310} दक्षिणावर्तशङ्खे स्याद्रशना दर्भदामनि । काञ्चीगुणे च जिह्वायां रसना रसनं विषे ॥ २१५३ ॥ आस्वादने च शब्दे च रवणः शब्दनोष्ट्रयोः । राजीवं पङ्कजे ना तु मीनभेदे मृगान्तरे ॥ २१५४ ॥ रोहितं त्रिषु शोणे स्याद् रोहितो मृगमत्स्ययोः । ;p{0261} ;l{4315} गोपित्ते रक्तकल्हारे वरयोषिति रोचना ॥ २१५५ ॥ नक्षत्रे कटुरोहिण्यां कन्यायां गवि रोहिणी । रुचको मातुलुङ्गे स्याद्भूषणे रदने मणौ ॥ २१५६ ॥ लवणस्तु रसे दैत्ये लवणं सैन्धवादिके । गमने चोपवासे च लङ्घनं लालसा द्वयोः ॥ २१५७ ॥ ;l{4320} औत्सुक्ये चाभिलाषे च ललामोऽस्त्री ललाम च । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥ २१५८ ॥ प्रभावे पौरुषेऽङ्केऽथ ललनं केलिशोभयोः । नीलिन्यां मांसपिण्डे च मणिभ्रुवि च लोचकः ॥ २१५९ ॥ वरणो भूरुहे वप्रे वर्तकोऽश्वखुरे खगे । ;l{4325} वारणः सेतुगजयोर्वञ्चकौ धूर्तजम्बुकौ ॥ २१६० ॥ विहारः सौगतावासे क्रीडायां च परिक्रभे । भ्रान्तिसंदेहशोभासु विलासेऽपि च विभ्रमः ॥ २१६१ ॥ वाहसोऽजगरे वह्नौ चित्रे दर्पे च विस्मयः । विस्तारे प्रतिबन्धे च विष्कम्भो विबुधः सुरे ॥ २१६२ ॥ ;l{4330} प्राज्ञे च विनयः शिक्षाविद्याचारप्रशान्तिषु । वसतिस्तु गृहे स्थित्यां जैनानामास्पदे निशि ॥ २१६३ ॥ पर्याहाराध्वभारेषु स्यातां विवधवीवधौ । ;p{0262} वडवाश्वा ब्राह्मणी च वाहिनी सिन्धुसैन्ययोः ॥ २१६४ ॥ शूद्रा मृतप्रजा वन्ध्या कन्या दृष्टरजा अपि । ;l{4335} वृषली नर्तकीमुग्धाविदग्धास्वेव वाणिनी ॥ २१६५ ॥ विधानं वारणग्रासे प्रकारे वैरकर्मणि । वेदनाप्रेरणाभ्यर्चाक्रियाभृतिसमृद्धिषु ॥ २१६६ ॥ व्यसनं सक्तितात्पर्यविपत्तिमृगयादिषु । दैवानिष्टफले तोये पैशुन्यादौ प्रकोपने ॥ २१६७ ॥ ;l{4340} वेष्टने मुकुटोष्णीषे व्युत्थानं प्रतिकूलता । स्वातन्त्र्यकरणं चाथ विषयी राज्ञि मन्मथे ॥ २१६८ ॥ वाच्यवद्विषयोपेते विषयः स्त्र्यादिराष्ट्रयोः । आस्पदे गोचरे दीपभाजने चावलम्बने ॥ २१६९ ॥ पुंनपुंसकयोर्व्योम्नि विहायः पुंसि पक्षिणि । ;l{4345} नक्षत्रे च खनित्र्यां च विशाखा षण्मुखे पुमान् ॥ २१७० ॥ उल्लोचाध्वरयोरस्त्री षण्डः शून्यसमूहयोः । वितानोऽथ द्रुविस्तारे पल्लवे स्तम्बशाखयोः ॥ २१७१ ॥ विटपोऽस्त्री व्यलीकं स्यादप्रियेऽकार्यदुःखयोः । विलक्षेऽथ विमानोऽस्त्री देवतायानवेश्मनोः ॥ २१७२ ॥ ;p{0263} ;l{4350} पश्वङ्गे हस्तिरदने विषाणं स्यात् त्रिलिङ्गकम् । शयालुः शयनश्चोभौ निद्रालौ त्रिषु न द्वयोः ॥ २१७३ ॥ शयनं मञ्चरतयोः शमनोऽजगरे यमे । शासनं निग्रहे शास्त्रे वेदवाक्येषु रक्षणे ॥ २१७४ ॥ वाङ्नियोगे प्रकरणे लेख्ये नियमकर्मणोः । ;l{4355} श्वशुर्यो देवरे स्याले शकुन्तो भासपक्षिणोः ॥ २१७५ ॥ आक्रोशने स्याच्छपथः शपने तनयादिभिः । शिशौ मत्स्ये च शिशुकः शमलं शकृदंहसोः ॥ २१७६ ॥ श्रावकः कर्णमोषेऽपि शिञ्जिनी नूपुरज्ययोः । शर्कराल्पकपाले स्यात् प्रदेशे शर्करावति ॥ २१७७ ॥ ;l{4360} मृद्भेदे शकले खण्डे शर्करायामथ स्त्रियाम् । शीधुपाने मणौ शीधौ सरघा(को?) मद्यभाजने ॥ २१७८ ॥ साधनं शेफसि गमे सेनाङ्गे सिद्ध्युपाययोः । निर्वृत्तौ मृतसंस्कारे दापनेऽनुगमे धने ॥ २१७९ ॥ मारणे यातनायां च संस्थानं मरणे स्थितौ । ;l{4365} वाद्यं वंशादिके क्लीबे सच्छिद्रे सुषिरं त्रिषु ॥ २१८० ॥ ;p{0264} सरन्ध्रे त्रिषु वंशाद्ये वाद्ये क्लीबे नटे नरि । स्त्रियां विद्रुमवल्लर्यां सुषिराथ गवि स्त्रियाम् ॥ २१८१ ॥ वसन्ते ना सुगन्धौ च सुरभिर्विश्रुतेऽर्थवत् । स्पर्शनः पवमाने स्यात् स्पर्शनं स्पृष्टिदानयोः ॥ २१८२ ॥ ;l{4370} सारङ्गो हरिणो वर्णश्चातकः षट्पदोऽपि च । सैन्धवं लवणेऽश्वे ना सौवीरं काञ्चिकेऽञ्जने ॥ २१८३ ॥ बदरे देशभेदे ना स्यन्दनो रथवृक्षयोः । संगरस्तु प्रतिज्ञायां विपत्त्यां सांपरायिके ॥ २१८४ ॥ षण्डे शमीफलेऽथ स्यात् सारसं सरसीरुहे । ;l{4375} जलपक्षिविशेषे ना सरःसंबन्धिनि त्रिषु ॥ २१८५ ॥ संभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः । सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥ मद्यार्थाभिषवे संधौ धनुःष्विषुनिवेशने । संधानं हेम्नि तत्कर्षे सुवर्णं ना तु भूरुहे ॥ २१८७ ॥ ;l{4380} हिरण्यं कनके द्युम्ने नाम(मान?)भेदेऽप्यकुप्यके । हरिणी तु मृगो हेमप्रतिमा हरिणो मृगे ॥ २१८८ ॥ शुकवर्णे च हृदयं हृत्प्रदेशे च मानसे । ;p{0265} हरणं करणं नृत्तं धनुषान्यास्त्रवारणम् ॥ २१८९ ॥ यौतकादि हृतिस्तप्तशीतल(वा?)र्यथ हिंसनम् । ;l{4385} हरितस्तु मुनौ श्यामे हारीतो मुनिपक्षिणोः ॥ २१९० ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरेऽनेकार्थाधिकारे त्र्यक्षराध्यायः ॥} ;vv{चतुरक्षराध्यायः} ;c{चतुरक्षराध्यायः} अभिरूपः सुरूपः स्याद्विश्रुते च विचक्षणे । अवदातः सिते शुद्धेऽप्ययुगास्त्रौ हरिस्मरौ । अहिशत्रुः खगाधीशे नकुले नाकनायके ॥ २१९१ ॥ अभिषङ्गस्त्वभिभवे संगाक्रोशनयोरपि । ;l{4390} वृष्टिरोधे प्रतिष्टम्भे गजफालेऽप्यवग्रहः ॥ २१९२ ॥ अधिवासो निवासे स्याद्गन्धमाल्यादिसंस्कृतौ । अवदानं कर्म वृत्तं खण्डनं गुणकीर्तनम् ॥ २१९३ ॥ त्यागमोक्षक्रियासाध्यफलप्राप्तिषु दिव्यपि । स्याच्चतुर्ष्वपवर्गोऽथ प्रभावे भावसूचके ॥ २१९४ ॥ ;l{4395} अनुभावोऽपदेशस्तु निमित्ते व्याजलक्षयोः । ;p{0266} दीर्घद्वेषेऽप्यनुशयः पश्चात्तापानुबन्धयोः ॥ २१९५ ॥ अनुषङ्गः कृपायां स्यात् प्रकृतस्यानुवर्तने । हिंसायामभिमानः स्याद् ज्ञाने प्रणयदर्पयोः ॥ २१९६ ॥ अवष्टम्भस्त्वहंकारे गृहे कान्त्यवलम्बयोः । ;l{4400} अभिहारोऽभियोगे स्याच्चौर्यसंनाहयोरपि ॥ २१९७ ॥ सवने मद्यसंधाने स्नाने चाभिषवस्त्रये । अभिग्रहोऽभियोगे स्यादभितोग्रहणेऽपि च ॥ २१९८ ॥ अनिमेषोऽप्यनिमिषोऽप्युभावमरमत्स्ययोः । अन्तर्वाणिः शास्त्रविदि पुरोधसि बहुश्रुते ॥ २१९९ ॥ ;l{4405} अपवादौ तु निन्दाज्ञे गुह्यगूढाववस्करौ । अन्तेवासी तु चण्डाले शिष्यनापितयोरपि ॥ २२०० ॥ क्षत्रिये त्वम्बरीषः स्यात् पुंसि भ्राष्ट्रे नपुंसके । अवताम्भो (अवरोहो?)ऽवतरणं मूलादग्रं गता [लता] ॥ २२०१ ॥ अवगाहो जलद्रोण्यामापगाद्यवमज्जने । ;l{4410} गर्वे लेपेऽवलेपः स्यादनुतर्षः सुरातृषोः ॥ २२०२ ॥ आडम्बरस्तु पटहशब्दे वारणगर्जिते । आत्मयोनिस्तु कन्दर्पे मारुते वारिजासने ॥ २२०३ ॥ ;p{0267} आच्छोटनं स्यादाघाते मृगयायां विमर्दने । आरम्भणे चिकित्सायामुपधायामुपक्रमः ॥ २२०४ ॥ ;l{4415} स्नानाचान्त्योरुपस्पर्श उदवाहो घनौघयोः । उपतापौ रुजातापावैरावत्यौ तटिच्छ्रियौ ॥ २२०५ ॥ ऐराबतः सुरगजे घने काकोदराधिपे । कलहंसस्तु कादम्बे राजहंसे महानृपे ॥ २२०६ ॥ करहाटोऽम्बुजादीनां शिफायां देशभूरुहोः । ;l{4420} कुरुविन्दो रत्नभेदे मुस्तायां हिङ्गुलेऽपि च ॥ २२०७ ॥ चन्द्रार्कयोर्ग्रहपतिः शंकरेऽपि गणेश्वरः । वर्षुकाब्दे मत्तगजे वासवे च घनाघनः ॥ २२०८ ॥ अर्कानलौ चित्रभानू चक्रपादो रथेभयोः । जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥ ;l{4425} तारकारिर्गुहे भानौ तेजोनिधिरिनेऽनले । दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ॥ २२१० ॥ दिवाकीर्तिस्तु चण्डाले नापितेऽथ धनंजयः । फल्गुनेऽग्नौ पशुपतिः शंकरे जातवेदसि ॥ २२११ ॥ द्वारि द्वार्स्थे प्रतीहारः -------- रः । ;l{4430} पुण्डरीकस्तु शार्दूले दिग्गजे सर्पपुंगवे ॥ २२१२ ॥ ;p{0268} मुनिभेदे राजभेदे क्लीबे तु सितपंकजे । स्त्रियां सुराङ्गनाभेदे पवमानोऽग्निवातयोः ॥ २२१३ ॥ वायुभेदे परिवहः परिवर्तो जगत्क्षये । परिभ्रमेऽब्दे पर्याप्तौ परिक्षेपस्तु वेष्टने ॥ २२१४ ॥ ;l{4435} हस्तिनां पादपार्श्वेऽथ पितुः पितरि वेधसि । पितामहः परीवाप आलवाले परिच्छदे ॥ २२१५ ॥ रक्षःसतोः पुण्यजनः पामराज्ञौ पृथज्जनौ । नटे काशे पोटगलः कपौ भेके प्लवंगमः ॥ २२१६ ॥ परिग्रहः परिजने पत्न्यामादानशापयोः । ;l{4440} विप्राच्छूद्रासुते स्तेने क्लीबः पारशवोऽयसि ॥ २२१७ ॥ परिवारः परिजने शस्त्रकोशे परिच्छदे । विगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ २२१८ ॥ आदाने पृतनापृष्ठे पतद्ग्राहे प्रतिग्रहः । प्रजापतिर्मरीच्यादौ परमेष्ठिनि पार्थिवे ॥ २२१९ ॥ ;l{4445} बाहुलेयो वृषे स्कन्दे भूतनाथः शिवे नृपे । महाकालो हरे हालाहले बाणासुरेऽपि च ॥ २२२० ॥ परमात्ममहावेश्मविहारेषु महालयः । ;p{0269} संकर्षणः सौरभेये रौहिणेयो बुधे गुहे ॥ २२२१ ॥ रजस्वलस्तु महिषे पुष्पवत्यां रजस्वला । ;l{4450} लोकपालो नृपेन्द्राद्योः राज्ञि लक्ष्मीपतिर्हरौ ॥ २२२२ ॥ वृषाकपिस्तु वैकुण्ठे हरेऽर्केऽग्नौ विभावसुः । विश्वकर्मा द्युकक्ष्णि स्यादर्यम्णि हरिवातयोः ॥ २२२३ ॥ वाडवेयोऽश्विनोर्विप्रे वासुदेवो मुनौ हरौ । धर्माध्यक्षे ज्योतिषिके वारवाणिरथो वटे ॥ २२२४ ॥ ;l{4455} व्यवहारो वाक्प्रयोगे विवादे द्यूतदण्डयोः । शासने वित्तसंवादे संबन्धेऽसिवणिज्ययोः ॥ २२२५ ॥ वानप्रस्थो मधुष्ठीले तृतीये ब्राह्मणाश्रमे । व्यसने स्याद् व्यतिकरः संकरे व्यतिषञ्जने ॥ २२२६ ॥ वनस्पतिर्वृक्षमात्रेऽप्यपुष्पात् फलवद्द्रुमे । ;l{4460} स्याद्वर्धमान एरण्डे शरावे भूषणेऽपि च ॥ २२२७ ॥ शंकुकर्णौ गर्दभोष्ट्रौ शरभृङ्गौ शिलीमुखौ । श्रीवत्साङ्कौ हरिवृकौ सिंहकाकौ सकृत्प्रजौ ॥ २२२८ ॥ समाहारस्तु संक्षेप एकत्रकरणेऽपि च । स्तनयित्नुर्जलधरे तदीये गर्जितेऽपि च ॥ २२२९ ॥ ;l{4465} सालावृकः शुनि क्रोष्टौ वृके स्थूलोच्चयस्त्वयम् । ;p{0270} असाकल्ये वारणानां मध्यमे च गतिक्रमे ॥ २२३० ॥ सांपरायस्तु संपाते(!) आघातागामिकालयोः । हेरम्बे हस्तमल्लः स्यादमराधिपकुञ्जरे ॥ २२३१ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे चतुरक्षराध्यायः ॥} ;vv{पञ्चाक्षराध्यायः} ;c{पञ्चाक्षराध्यायः} विष्णौ शक्रेऽसुरारातिर्ब्राह्मणेऽप्यमृताशनः । ;l{4470} आशुशुक्षणिरर्केऽपि यज्वन्यप्यासुतीवलः ॥ २२३२ ॥ अनन्ते वित्तनाथे च तालाङ्केऽप्येककुण्डलः । ध्रुवेऽप्यौत्तानपादिः स्याद् गृध्रेऽपि कमलच्छदः ॥ २२३३ ॥ कथाप्रसंगस्तु विषवैद्ये वातगुणाधिके । काकेऽपि कौशिकद्वेषी बलेऽपि खरखण्डनः ॥ २२३४ ॥ ;l{4475} काशे चामरपुष्पः स्यात् केतकीसहकारयोः । तमोविहारी खद्योत उलूके चोररक्षसोः ॥ २२३५ ॥ नीपे धूलिकदम्बो ना क्लीबे तु रजसां गणे । ;p{0271} चन्द्रेऽपि देवतोच्छिष्टः शंकरे पांसुचन्दनः प्राचीनबर्हिरिन्द्रेऽग्नौ पुरुषव्याघ्र इत्ययम् ॥ २२३६ ॥ ;l{4480} गृध्रेऽपि प्रेतनिलयः श्मशाने वृषभध्वजे । मातुलपुत्रस्तून्मत्तफले मातुलनन्दने । पञ्चबाणे च सरितां पत्यौ च मकरध्वजः ॥ २२३७ ॥ वृषाकपायी श्रीगौर्योरौर्वेऽपि बडवामुखः । विकङ्कते गोक्षुरके कोल्यां च स्वादुकण्टकः ॥ २२३८ ॥ ;l{4485} निम्बे च हिङ्गुनिर्यासो हिङ्गुवृक्षरसेऽपि च । हिरण्यबाहुः शोणाख्यनदे पशुपतावपि ॥ २२३९ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे पञ्चाक्षराध्यायः ॥} ;vv{एकाक्षराध्यायः} ;c{एकाक्षराध्यायः} एकाक्षरा इहोच्यन्ते पूर्वं नोक्ता यथाक्रमम् । अस्तु विष्णौ वर्णमात्रे स्यादिः काम उरीश्वरे ॥ २२४० ॥ कः समीरार्कवेधस्सु खमुडौ व्योम्नि चेन्द्रिये । ;l{4490} गौवृषे ना स्त्रियां गोभूवाग्दिग्दृष्टिमरीचिषु ॥ २२४१ ॥ ;p{0272} द्वयोः सायकवज्राम्बुस्वर्गयज्ञेषु लोम्न्यपि । ज्या शिज्जिनीवसुधयोस्त्विड् ज्वालादीप्तिकान्तिषु ॥ २२४२ ॥ तृडाशायां पिपासायां द्वास्तु द्वाराभ्युपाययोः । द्योदिवौ स्वर्गवियतोराशोपायगमेषु दिक् ॥ २२४३ ॥ ;l{4495} दृग् बुद्धौ दर्शने नेत्रे स्त्री स्याद् द्रष्टरि तु त्रिषु । धूः स्त्री भारे यानमुखे नौः स्त्रियां तरिकालयोः ॥ २२४४ ॥ पूः स्त्रियां नगरे देहे भूर्महीस्थानमात्रयोः । मा रमायां च संपत्तौ रा द्वयोर्द्युम्नरुक्मयोः ॥ २२४५ ॥ लिप्साज्वालाकान्तिवाञ्छाभङ्गरोगेषु रुक् स्त्रियाम् । ;l{4500} भारतीवचसोर्वाक् स्याद् विः पक्षिपरमात्मनोः ॥ २२४६ ॥ विट् प्रजावैश्ययोः पुंसि स्त्री मले जनने द्वयोः । श्रीः कान्तिसंपदोर्लक्ष्म्यां लवङ्गकुसुमेऽपि च ॥ २२४७ ॥ त्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके । ;l{4504} साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाधिकारे एकाक्षराध्यायः ॥} ;p{0273} ;k{अव्ययाध्यायः} ;v{अव्ययैकाक्षराध्यायः} ;c{अव्ययैकाक्षराध्यायः} ;l{4505} एकाक्षराननेकार्थानुक्तवा लिङ्गसमन्वितान् । निर्लिङ्गानव्ययानत्र प्रोच्यन्तेऽथ यथाक्रमम् ॥ २२४९ ॥ आङ् ईषदर्थेऽभिविधौ सीम्नि कर्मविशेषणे । आ प्रगृह्ये स्मृतौ वाक्येऽप्यास्तु संतापकोपयोः ॥ २२५० ॥ ए दुःखभावने कोपे प्रत्यक्षे सन्निधावपि । ;l{4510} ॐ स्याद् ब्रह्मण्यनुज्ञायां कं सुखेऽम्भसि मूर्धनि ॥ २२५१ ॥ प्रश्ने क्षेपे विकल्पे किं कुः पापेऽल्पार्थकुत्सयोः । चान्वाचये समाहारे मिथोयोगे समुच्चये ॥ २२५२ ॥ तुर्भेदावधारणयोर्दुरशोभनदुःखयोः । धिग्भर्त्सने कुत्सने च नि न्यग्भावनिषेधयोः ॥ २२५३ ॥ ;l{4515} नाभावान्यविरोधेषु निर्निश्चयनिषेधयोः । प्रश्ने विकल्प नु स्विच्च प्रादौ यात्राप्रकृष्टयोः ॥ २२५४ ॥ वि निषेधे पृथग्भावे वा विकल्पोपमानयोः । समुच्चये च वै पापे वाक्यारम्भप्रसिद्धयोः ॥ २२५५ ॥ समभेदे समीचीने सुष्ठुपूजासुखेषु सु । ;p{0274} ;l{4520} स्मृतौ वृत्ते निषेधे स्म स्वः स्वर्गपरलोकयोः । हि स्याद्विशेषणे हेतौ हिं हेताववधारणे ॥ २२५६ ॥ आमन्त्रणे भर्त्सने हुं हुं संप्रश्नवितर्कयोः । ही विषादे विस्मये च हा विषादशुगर्तिषु ॥ २२५७ ॥ उ तापेऽव्ययमीशे ना मा निषेधे श्रियां स्त्रियाम् । ;l{4525} अ निषेधे पुमान्विष्णौ वि विचित्रे स्मरे पुमान् ॥ २२५८ ॥ तद्धेतौ त्रिष्वमुष्मिन् स्याद् यद्धेतौ प्रकृते त्रिषु । ह हि तु स्म च वै पादपूरणेऽपि प्रयुज्यते ॥ २२५९ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाध्याये एकाक्षराध्यायः ।} ;v{अव्ययद्व्यक्षराध्यायः} ;c{अव्ययद्व्यक्षराध्यायः} अलं तु शक्तौ पर्याप्तौ भूषणे विनिवारणे । अपि संभावनाप्रश्नगर्हाशङ्कासमुच्चये ॥ २२६० ॥ ;l{4530} मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ । अयि सानुनये प्रश्ने स्यादध्यधिक ईश्वरे ॥ २२६१ ॥ अनु प्रकारे वीप्सायां पश्चाल्लक्षणहेतुषु । ;p{0275} अति प्रशंसातिक्रान्त्योरधिकार्थेऽपभाषणे ॥ २२६२ ॥ अमा सहार्थे सामीप्ये वीप्साभिमुखयोरपि । ;l{4535} पीडेर्ष्यानुमतिष्वस्तु विनियोगे क्रियास्वह ॥ २२६३ ॥ आहो निन्दाहेतुचित्रेष्वाराद् दूरसमीपयोः । इति हेतौ प्रकरणे प्रकारादिसमाप्तिषु ॥ २२६४ ॥ उपाधिकेऽन्तिके हीनेऽप्युत प्रश्नवितर्कयोः । विस्तारेऽङ्गीकृतावूरी स्यादुरर्यूरीति च ॥ २२६५ ॥ ;l{4540} इवेत्थमर्थयोरेवमेव निर्धारणेऽपि च । कच्चित्प्रश्ने कामवादे वार्तासंभाव्ययोः किल ॥ २२६६ ॥ किमु प्रश्ने विकल्पे च कुतः प्रश्ने च निह्नवे । निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ २२६७ ॥ तूष्णीमर्थे सुखे जोषं तर्हि स्यात् प्रश्न उत्तरे । ;l{4545} तथा समुच्चये साम्ये परमार्थाभ्यनुज्ञयोः ॥ २२६८ ॥ तिरोऽन्तर्धौ तिर्यगर्थे दिष्टं स्यान्मङ्गलादिषु । तर्कनिश्चययोर्नूनं नानानेकोभयार्थयोः ॥ २२६९ ॥ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु । नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥ २२७० ॥ ;l{4550} प्रबन्धे निकटेऽतीते पुराणानागते पुरा । ;p{0276} पुनरप्रथमे पश्ने व्यावृत्ताववधारणे ॥ २२७१ ॥ भागे प्रकारकथने वीप्सायां लक्षणे प्रति । प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रे पुरः स्मृतः ॥ २२७२ ॥ वीप्सायां परितोभागे वर्जनेऽप्यपवत् परि । ;l{4555} परा विहीनेऽनावृत्तौ हिते चामन्त्रणेऽद्भुते ॥ २२७३ ॥ तोषे खेदे कृपायां च बाढं त्वनुमतौ दृढे । खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ २२७४ ॥ मुहुः क्षणेऽनुक्षणे च मिथोऽन्योऽन्यं रहस्यपि । यथा सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे ॥ २२७५ ॥ ;l{4560} यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे । वृथा निष्कारणे वन्ध्ये शश्वद्भूयः सदेति च ॥ २२७६ ॥ सकृत् सहैकवारे च सामि स्यादर्धनिन्दयोः । स्वस्ति मङ्गलनिष्पापक्षेमेष्वाशीर्वचस्यपि ॥ २२७७ ॥ प्रत्यक्षसत्ययोः साक्षात् पृथगर्थेऽन्तिके हिरुक् । ;l{4565} हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २२७८ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अनेकार्थाव्यये द्व्यक्षराध्यायः ॥} ;p{0277} ;k{अव्ययाध्यायः} ;c{अव्ययाध्यायः} शीघ्रार्थे झटिति स्राग्द्राङ्मक्ष्वह्नाय सपद्यपि । चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः ॥ २२७९ ॥ मुहुर्भूयः पुनः शश्वदभीक्ष्णमसकृत्समाः । आहो उताहो किमुत विकल्पे किं किमूत च ॥ २२८० ॥ ;l{4570} निर्भरे सुष्ठु किमुत बलवत्स्वस्त्य(त्य?)तीव च । वर्जनार्थे पृथङ्नानान्तरेणर्ते हिरुग्वषट् ॥ २२८१ ॥ सार्धं साकं समं सत्रा सह व्यर्थे वृथा मुधा । स्यात् प्राध्वमानुकूल्यार्थे हेतौ यत्तद्यतस्ततः ॥ २२८२ ॥ दिवाह्नि निशि दोषा च नक्तं स्यात् साचि तिर्यचि । ;l{4575} अल्पे किञ्चिन्मनागीषदसाकल्ये तु चिच्चन ॥ २२८३ ॥ कदाचिज्जातु समया निकषा निकटार्थके । समन्तात् सर्वतो विष्वक् परितश्च समन्ततः ॥ २२८४ ॥ संबोधने ननु प्याट् फाट् हे है हो अङ्ग हन्त च । विरोधोक्तावपि ननु प्रेत्यामुत्र भवान्तरे ॥ २२८५ ॥ ;l{4580} परमे मत ओमेवं कच्चित् कामप्रवेदने । ;p{0278} वितथे तु मृषा मिथ्या तत्त्वे त्वद्धाञ्जसापि च ॥ २२८६ ॥ वौष श्रौष स्वष स्वाक्ष वौषट् श्रौषड् वषट्कृतौ । देवानां च पितॄणां च प्रदाने हव्यकव्ययोः ॥ २२८७ ॥ स्वाहा स्वधा क्रमाज्जोषं दिष्ट्या शं च सुखार्थके । ;l{4585} अतर्किते तु सहसा सद्यः सपदि तत्क्षणे ॥ २२८८ ॥ द्विस्त्रिश्चतुःपञ्चकृत्वो द्वित्र्याद्यावर्तने कृते । अस्मिन् कालेऽधुनेदानीं संप्रत्येतर्हि सांप्रतम् ॥ २२८९ ॥ यदा यर्हि तदा तर्हि तदानीं सर्वदा सदा । शश्वत् सनाक् सना ज्योक् च युगपत्त्वेकदा सकृत् ॥ २२९० ॥ ;l{4590} अन्यस्मिन्नन्यदा काले कस्मिन् काले कदेत्यदः । अतीते वर्तमानेऽब्दे आगामिनि यथाक्रमम् ॥ २२९१ ॥ परुत्परार्यैषमाः स्युर्ययार्थं तु यथातथम् । अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २२९२ ॥ तथाधरान्यान्यतरेतरात् पूर्वेद्युरादयः । ;l{4595} उभयेद्युस्तूभयेऽह्नि परे त्वह्नि परेद्यवि ॥ २२९३ ॥ ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि । स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ २२९४ ॥ प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् । ;p{0279} असूयोपगमेऽप्यस्तु विरतौ रञ्जने रुषः ॥ २२९५ ॥ ;l{4600} अन्तरेणान्तरा मध्येऽप्यहहाद्भुतखेदयोः । तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ २२९६ ॥ अहो चित्रेऽस्ति सत्तायां युक्ते स्थाने च सांप्रतम् । यथा यद्वा तथैवैवं साम्ये स्यादद्रुते शनैः ॥ २२९७ ॥ अकामानुमतौ कामं प्रायो भूम्नि नमो नतौ । ;l{4605} नीचाह्वाने त्वरे रे च मालं मा स्म च वारणे ॥ २२९८ ॥ नह्य नो नाप्यभावेऽथ शीघ्रेऽरं स्वयमात्मना । पक्षान्तरे चेद्यदि चाभीक्ष्णं शश्वदनारते ॥ २२९९ ॥ बहिर्बाह्ये सना नित्ये स्मातीतेऽस्तमदर्शने । तूष्णीं मौने च तूष्णीकं प्रादुराविः प्रकाश्यके ॥ २३०० ॥ ;l{4610} अङ्गीकृतौ स्यादथ किमप्यादि कथमित्यदः । अप्यर्थे यदिवार्थे स्यात् प्रसह्य प्रसभार्थके ॥ २३०१ ॥ प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा । उपरिष्टादुपर्यूर्ध्वे स्यादधस्तादवागधः ॥ २३०२ ॥ ;p{0280} इति ह स्यात् संप्रदाय ऊं दुक्ते (उक्ते?) रोषसंभवे ॥ २३०३ ॥ ;c{इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे अव्ययाध्यायः ।} ;k{लिङ्गसंग्रहाध्यायः} ;c{लिङ्गसंग्रहाध्यायः} ;v{स्त्रीलिङ्गप्रकरणम्} ;l{4615} नाम्नां पूर्वमिहोक्तानामनुक्तानां च कृत्स्नशः । सामान्यैर्लक्षणैः कैश्चित् क्रियते लिङ्गसंग्रहः ॥ २३०४ ॥ अवाधितेऽपि शेषोक्त्या भवेत्सामान्यलक्षणम् । आबन्ते ङ्यन्त ऊङन्ते क्विबन्ते संपदादिके ॥ २३०५ ॥ क्त्यन्ते तल्लन्त ईदूतोरिदुतोश्चोभयोरिति । ;l{4620} नद्याः स्त्रीनामपर्याया लतासौदामिनीभुवाम् ॥ २३०६ ॥ निशादिशाभयानाभिमनीषासरितामपि । ;p{0281} वीणाया झल्लिकायाश्च सातितिस्रादयः स्त्रियाम् ॥ २३०७ ॥ तुटितृटिकटित्रोटिकुटिकोटिकरोटयः । गौल्यालिकुहलीपालीमधूलीधूलिकेलयः ॥ २३०८ ॥ ;l{4625} शिवमल्ली झिल्लिचुल्ली वल्ली मल्ली मतल्ल्यपि । दर्विर्वेदिः खनिः श्रोणिरश्रिरङ्गुलिरोषधिः ॥ २३०९ ॥ आर्तिः कृत्तिश्छविश्छर्दिः कीर्तिर्जूर्त्यर्तिपूर्तयः । भ्रूकुटिभ्रुकुटिप्रावृड्विप्रुड्रुट्तृट्त्विषः स्त्रियाम् ॥ २३१० ॥ आगूयवागूवाक्सृ(स्र?)क्त्वक्स्फिग्ज्योग्नौदिगृगुष्णिहः । ;l{4630} संध्या कथा[शीः] कन्था द्वाः पूर्धूर्गी[र्विट्] पिपीलिका ॥ २३११ ॥ श्यैनंपाता च मृगया तैलंपाता [स्वधेति दिक्] । वितण्डा धातकी टीकासन्दी पण्डा च पञ्जिका ॥ २३१२ ॥ सुरुङ्गा सूचिका श्रोणी पत्रिका गृहकारिका । झल्लरी चर्चरी पारी हिक्का [का]कुः कुहेलिका ॥ २३१३ ॥ ;l{4635} लाक्षा लिक्षार्भटी यूका द्रोणी कम्बिर्द्रुणी भ्रमिः । त्रिफला रोचना भस्त्रा शम्या प्रच्छर्दिका सिरा ॥ २३१४ ॥ ;p{0282} स्त्रियामिनित्रकट्यन्ता वृन्दार्थे खलगोरथाः । क्यबन्ता ब्रह्महत्याद्याः अङन्ताश्च भिदादयः ॥ २३१५ ॥ अप्रत्यये जुगुप्साद्या इञन्ताश्च वपादयः । ;c{इति स्त्रीलिङ्गप्रकरणम् ॥} ;c{पुंलिङ्गप्रकरणम्} ;l{4640} आदन्ताः पुंस्युपान्ताश्चेत् पर्युभुक्षीमधिस्वरा(!) ॥ २३१६ ॥ घञन्तरात्रान्हाहान्ता गोत्रान्तचरणान्तकाः । अथुजन्ता अबन्ताः स्युस्तथा चेमनिजन्तकाः ॥ २३१७ ॥ पथान्ता अपथं हित्वा राजान्तास्तापसाभिधाः । पुंसि ब्रह्महरीशाख्या [देवाख्या] देवतां विना ॥ २३१८ ॥ ;l{4645} अप्पित्तवर्जमग्न्याख्या अभ्रवर्जं घनाभिधाः । न्यूङ्खपुङ्खानुवाक्या(का?)र्थ र(य?)त्ननाडीव्रणा नरि ॥ २३१९ ॥ तर्कसंपर्कगल्वर्कालर्कोदर्कार्कमर्कटाः । भर्गगर्गस्वर्गवर्गसर्गपुत्स(द्ग)लमुद्गराः । दारबल्बजलाजायु(सु?)प्राणाः पुंसि च भूम्नि च ॥ २३२० ॥ ;c{इति पुंलिङ्गप्रकरणम् ।} ;p{0283} ;v{नपुंसकलिङ्गप्रकरणम्} ;l{4650} भावे ल्युडन्तनिष्ठान्ते शिरोबिन्दु(!) नपुंसकम् । समूहे काकबाकादि फले त्वाश्वत्थमुख्यकम् ॥ २३२१ ॥ द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः । दृढादि ब्राह्मणाद्यं च ष्यञन्तं भावकर्मणोः ॥ २३२२ ॥ त्वान्तं षष्ठ्यां बहुत्वार्थे छाया सान्तं च नोपधम् । ;l{4655} प्रायशस्त्रोपधं यान्तं लोपधं युक्तधो(सो?)पधम् ॥ २३२३ ॥ नामानि काञ्चनाब्जामपो हित्वा जलाभिधाः । रक्षःसभं नृपसभं तथा दासीसभादि च ॥ २३२४ ॥ ;c{इति नपुंसकलिङ्गप्रकरणम् ॥} ;v{स्त्रीपुंसप्रकरणम्} स्त्रीपुंसमुच्यते लिङ्गे शारिः श्रे[णिः] सृणिर्मणिः । दशाटोटः पटो वाटो वटः पेठो मठः पटः ॥ २३२५ ॥ ;l{4660} जूटो वराटः कर्कन्धूः शाल्मलिर्बलिडाडिमौ । मृत्युः कुम्भो भुजो बाहुर्ज्वालः कीलोऽशनिः फणः ॥ २३२६ ॥ कशेषुधी इषुः पूगकृपाणशफरादयः । ;c{इति स्त्रीपुंसप्रकरणम् ।} ;p{0284} ;v{त्रिलिङ्गप्रकरणम्} वल्लूरः शकटी पात्री पेटी पीटकडाडिमौ ॥ २३२७ ॥ विभीतकी वटी शाटी कवाटी मण्डली तटी । ;l{4665} भल्लातक्यामलक्यौ च स्फुलिङ्गः शलली त्रिषु ॥ २३२८ ॥ ;c{इति त्रिलिङ्गप्रकरणम् ।} ;v{नृषण्डलिङ्गप्रकरणम्} अर्धर्चादिगणे प्रोक्तं सर्वं नृक्लीबलिङ्गकम् । तद्दैवतादिकं सर्वं पूर्वत्रै[व] प्रदर्शितम् ॥ २३२९ ॥ तत्र केचिद्घृतादीनां पुंस्त्वं वैदिकमूचिरे । पिशा[चा]दिषु भूतोऽस्त्री तिलकं च विशेषकम् ॥ २३३० ॥ ;l{4670} कमण्डलुः कालकूटो मधुः सानुर्हलाहलः । इत्यादि सर्वं तद्रूपं तत्र तत्र प्रदर्शितम् ॥ २३३१ ॥ ;c{इति नृषण्डलिङ्गप्रकरणम् ।} ;v{नपुंसकप्रकरणम्} स्त्रीनपुंसकयोर्भावकर्मणोः ष्यञ् क्वचिच्च वुञ् । तत्र वैदग्ध्यमौचित्यं वै[द]ग्धी चौचितीतिवत् । भावार्थे योपधाद्वुञ् स्यात्तत्र साहायकादिकम् ॥ २३३२ ॥ ;c{इति नपुंसकप्रकरणम् ।} ;p{0285} ;l{4675} अभिनवबाणकृतोऽयं प्रस्फुटलिङ्गः प्रसन्नपदनामा । तिनिन्ये(!) निघण्टुतिलकः कविपरिषत्कण्ठभूषणं भूयात् ॥ २३३३ ॥ ;c{इति श्रीवत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे [लिङ्गसंग्रहाध्यायः ॥]} ;c{॥ इति शब्दरत्नाकरः समाप्तः ॥}