;METADATA ;title{शब्दरत्नप्रदीप} ;author{अज्ञात} ;bookFullName{शब्दरत्नप्रदीप} ;bookSeriesDetails{राजस्थान पुरातन ग्रन्थमाला ग्रन्थाङ्क १९} ;editor{Prof. Dr. Hariprasad Shastri} ;editorQualifications{M.A., Ph.D. (Bombay), (Asstt. Director, B. J. Institute of Learning and Research, Gujarat Vidya Sabha, Ahmedabad} ;publisher{Rājasthāna Purātana Granthamālā, Published by the Government of Rajasthan, A series devoted to the Publication of Sanskrit, Prakrit, Apabhraṁśa, Old Rajasthani-Gujarati and Old Hindi works pertaining to India in general and Rajasthan in Particular. Printed by order of the Director, Rajasthan Oriental Institute, Jaipur by Gopalanarayana Bahura} ;pressDetails{जयन्ति दलाल, वसंत प्रिण्टिंग प्रेस, घीकांटा रोड, अहमदाबाद} ;publicationYear{1956 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SBRP} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{17 January 2020} ;version0.0.2{01 March 2020} ;version0.0.3{07 March 2020} ;version0.0.4{07 March 2020} ;version0.1.0{07 March 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{शब्दरत्नप्रदीपः ।} ;k{प्रथमो मुक्तकः} ;c{प्रथमो मुक्तकः ।} शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुत्तमम् । कण्ठे कुर्वन्ति विद्वांसः श्रद्धधाना दिवानिशम् ॥ १ ॥ शब्दाम्भोधिर्यतोऽनन्तः कृतोऽप्यागमसंभवात् । स्वानुवाचैकमानाय तस्मै वागात्मने नमः ॥ २ ॥ सरस्वत्याः प्रसादेन कविर्बध्नाति यत् पदम् । प्रसिद्धमप्रसिद्धं वा तत् प्रमाणं च साधुभिः ॥ ३ ॥ शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाऽभया । शिवः कीलः शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ ४ ॥ गौरी शिवप्रिया प्रोक्ता गौरी गोरोचना मता । गौरी स्यादप्रसूता स्त्री गौरी शुद्धोभयान्वया ॥ ५ ॥ हरिरिन्द्रो हरिर्भानुर्हरिर्विष्णुर्हरिर्मरुत् । हरिः सिंहो हरिर्भेको हरिर्वाजी हरिः कपिः ॥ ६ ॥ हरिरंशुर्हरिर्भीरुर्हरिः सोमो हरिर्यमः । हरिः शुको हरिः सर्पः स्वर्णवर्णो हरिः स्मृतः ॥ ७ ॥ ;p{0002} मधुर्मद्यं मधु क्षौद्रं मधु पुष्परसं (?सो) मृदुः । मधुर्दैत्यो मधुश्चैत्रो मधूकोऽपि मधु[ः] स्मृतः ॥ ८ ॥ क्षुद्रा वेश्या नटी क्षुद्रा क्षुद्रोक्ता मधुमक्षिका । असहिष्णुः स्मृतः क्षुद्रः क्षुद्रा स्यात् कण्टकारिका ॥ ९ ॥ वाहो युग्यं घनो वाहः प्रवाहो वाह उच्यते । वाहो मानविशेषश्च वाहो बाहुरिति स्मृतः ॥ १० ॥ इष्टकादिचयो हारो हारो मुक्तागणः स्मृतः । हारो मापविशेषश्च हारश्च क्षेत्रमुच्यते ॥ ११ ॥ आत्मा भावो मनो भावो भावः सत्ता भवोऽपि च । भावः पूज्यतमो लोके पदार्थो भाव इष्यते ॥ १२ ॥ कुथा कन्था समाख्याता कुथः स्यात् करिकम्बलः । कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः ॥ १३ ॥ कुशे काले तिले च्छागे कम्बले सलिलेऽम्बरे । दौहित्रे खड्गपात्रेऽग्नौ कुतपाख्या प्रवर्त्तते ॥ १४ ॥ बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षणि । स्वर्ग्गे मातरि वज्रेऽग्नौ मुखे सत्ये च गोध्वनिः ॥ १५ ॥ श्रियां यशसि सौभाग्ये योनौ कान्तौ महिम्नि च । सूर्ये संज्ञाविशेषेऽपि मृगाङ्केऽपि भगः स्मृतः ॥ १६ ॥ पर्जन्ये राज्ञि गीर्व्वाणे व्यवहर्त्तरि भर्तरि । मूर्खे बाले जिगीषौ च देवोक्तिर्नरि कुष्टि(?न्ति)नि ॥ १७ ॥ तूर्यास्येऽसिफले पद्मे कुञ्जराग्रकरे दिवि । द्वीपे तीर्थे निमित्ते च विशिष्टे पुष्करध्वनिः ॥ १८ ॥ ;p{0003} मूर्ध्नि चित्ते जले काये मुखे ब्रह्मणि मारुते । कामे काले सुवर्णे च कः शब्दो द्रविणे ध्वनौ ॥ १९ ॥ जीवे राज्ञि रवौ धर्मे तपस्विनि तुरंगमे । सिते पक्षिविशेषे च हंसशब्दो हरेऽपि च ॥ २० ॥ रसो जलं रसो हर्षो रसः शृङ्गारपूर्व्वकः । रसः पुष्पादिनिर्यासः पारदोऽपि रसो विषम् ॥ २१ ॥ क्षीरे पुष्परसे तोये मण्डे मद्ये घृतेऽसृजि । सप्तस्वर्थेषु कीलालं कथयन्ति मनीषिणः ॥ २२ ॥ तिलपिष्टे मले मांसे कम्बले कोमलेऽस्थनि । वत्से क्षीबे बले प्राज्ञाः पललं परिचक्षते ॥ २३ ॥ हये पुच्छे ध्वजे पुण्डे शैले पुंसि गुणाधिके । वित्ते धामनि भूषायां ललामेत्युत्तमे स्मृतम् ॥ २४ ॥ वसुः सूर्यो वसुर्वह्निर्वस्वर्च्चिर्वसवोंऽसवः । वसु रत्नं वसु द्रव्यं वसवोऽष्टौ धरादयः ॥ २५ ॥ अक्षराणि स्मृता वर्णा वर्णाः श्वेतादयो गुणाः । वर्णा नाट्यामुखे गाथा वर्णा ज्ञेया द्विजादयः ॥ २६ ॥ शुक्लो वर्णोऽर्जुनो नाम पाण्डवोऽप्यर्ज्जुनः स्मृतः । अर्जुनस्तृणजातिः स्यादर्जुनः ककुभो द्रुमः ॥ २७ ॥ ;p{0004} व्रणस्यावरणं पट्टः पट्टो भूर्जाहिताक्षरः । वीरदीक्षापटः पट्टः पट्टः स्यादधिवासनम् ॥ २८ ॥ बलिः पूजोपहारः स्याद् बलिर्दानवपुंगवः । बलिः स्त्रीमध्यभागोर्मिर्बलिश्चर्म जराकृतम् ॥ २९ ॥ रन्ध्रे वस्त्रे तथा मध्ये व्यवधानेऽन्तरात्मनि । बहिर्योगेऽवकाशे च विशेषे व्यसनेऽन्तरम् ॥ ३० ॥ अरिष्टं गृहमित्युक्तं अरिष्टो वृषभासुरः । काकनिम्बावरिष्टौ चारिष्टं क्षेममिहेरितम् ॥ ३१ ॥ इन्द्रियं कम्बलं ज्ञेयं कम्बलो रोमजः पटः । कम्बलश्च गवां सास्ना कम्बलं कमलं स्मृतम् ॥ ३२ ॥ मण्डलं वर्तुलं प्रोक्तं संघातो मण्डलं स्मृतम् । मण्डलं भूमिभागश्च मण्डलं सु(?स)रमासुतः ॥ ३३ ॥ कुन्तलः केशपर्यायः कुन्तलो देशवाचकः । कुन्तलः सूत्रधारश्च कुन्तहस्तश्च कुन्तलः ॥ ३४ ॥ मणिर्लिङ्गाग्रिमो भागो मणिः प्रोक्तो भगध्वजः । मणिः कूपमुखोत्सेधः पद्मरागादिको मणिः ॥ ३५ ॥ तन्त्रं शास्त्रं कुलं तन्त्रं तन्त्रं सिद्धौषधिक्रिया । तन्त्रं सुखं बलं तन्त्रं तन्त्रं वप(?य)नसाधनम् ॥ ३६ ॥ नेत्रं वस्त्रविशेषः स्यात् नेत्रं चक्षुरुदाहृतम् । परावर्त्तगुणो नेत्रं नेत्रः कस्तूरिकामृगः ॥ ३७ ॥ ;p{0005} वातादिप्रकृतिर्धातुर्धातुः शैलोद्भवः स्मृतः । क्रियाभावः स्मृतो धातुर्धातुर्देहरसादिकः ॥ ३८ ॥ काण्डो बाणस्तुला काण्डः काण्डः संपात इष्यते । काण्डः कालो बलं काण्डं काण्डं मूलं तरोरपि ॥ ३९ ॥ सुधा प्रासादभाग्द्रव्यं सुधा विद्युत् सुधामृतम् । सुधेह भोजनं ज्ञेयं सुधा धात्री सुधा स्नुही ॥ ४० ॥ वेला कालविशेषः स्यात् वेला सिन्धुजलोद्धतिः । वेला सेवाङ्गुलिच्छेदो वेला द्रोण्यान्तरावनिः ॥ ४१ ॥ उत्सवे च प्रकोष्ठे च मुहूर्त्ते नियमे तथा । क्षणशब्दो व्यवस्थायां समयेऽपि निगद्यते ॥ ४२ ॥ भ्रूणो भीरुर्द्विजो भ्रूणो भ्रूणो गर्भाशयाश्रयः । भ्रूणोऽन्त्यजः शिशुर्भ्रूणो भ्रूणो विकल उच्यते ॥ ४३ ॥ श्रेष्ठ इन्द्र इति ख्यातो देवराडिन्द्र उच्यते । शब्दादिविषयाः पञ्च प्रसिद्धा इन्द्रसंज्ञया ॥ ४४ ॥ अहिर्दैत्यविशेषः स्यात् सूर्योऽहिरहिरध्वगः । भुजंगोऽहि[ः] समाख्यातः सिंहिकासूनुरप्यहिः ॥ ४५ ॥ व्यालोऽहिः श्वापदो व्यालो व्यालः स्याद् व्याकुलः करी । प्रमादवान् नरो व्यालो सिंहो व्याल उदाहृतः ॥ ४६ ॥ पयस्विन्यर्जुनी धेनुर्धेनुः कुञ्जरकामिनी । असिपुत्री स्मृता धेनुर्धेनुर्वृत्तिः शुभंकरी ॥ ४७ ॥ धर्म्मो वृषो वृषः श्रेष्ठो वृषो गौर्मूषिको वृषः । वृषो बलं वृषः कामो वृषलो वृष उच्यते ॥ ४८ ॥ ;p{0006} शलिर्मूर्खः शलिर्भृङ्गः शलिः कीलः शलिर्गदः । शलिः पर्व्वविशेषश्च शलिः कलिरुदाहृतः ॥ ४९ ॥ योगो ज्यातिर्विशेषश्च संयोगो योग इत्यपि । योगश्चागामिलाभः स्यात् समाधिर्योग उच्यते ॥ ५० ॥ सीता लक्ष्मीरुमा सीता सीता सस्याधिदेवता । सीता सीरध्वजापत्यं सीता मन्दाकिनी मता ॥ ५१ ॥ आदिमः क्षत्रियो नाभिर्नाभिश्चक्रस्य पिण्डिका । कुटुम्बस्याग्रणीर्नाभिर्नाभिर्निम्नोदरा मता ॥ ५२ ॥ गोत्रं नामान्वयो गोत्रं गोत्रश्च धरणीधरः । गोत्रा वसुंधरा प्रोक्ता गोत्रः सत्यवचः स्मृतः ॥ ५३ ॥ घनो मेघो घनं सान्द्रं कांस्यतालध्वनिर्घनः । घनो मन्द्रो घनं नित्यं घनः स्याल्लोहमुद्गरः ॥ ५४ ॥ रामा स्त्री जामदग्निश्च रामो रामौ सितासितौ । रामः पशुविशेषश्च रामो दशरथात्मजः ॥ ५५ ॥ वीतरागो जिनः प्रोक्तो जिनो नारायणस्तथा । कन्दर्पः स्याज्जिनश्चैव जिनः सामान्यकेवली ॥ ५६ ॥ शुक्रं देहवतां बीजं शुक्रमक्षिरुजं विदुः । ज्येष्ठमासः स्मृतः शुक्रः शुक्रो दैत्यपुरोहितः ॥ ५७ ॥ वीणादण्डः प्रवालः स्यात् प्रवालः पल्लवो नवः । प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रबलो मतः ॥ ५८ ॥ ;p{0007} कोणोऽश्वो महिषः कोणः कोणः कोटिरिति स्मृतः । कोणो गृहैकदेशः स्यात् कोणो वीणादिवादनम् ॥ ५९ ॥ तालः कालक्रियामानं तालं पातालमिष्यते । वृक्षभेदः स्मृतस्तालः तालः करतलध्वनिः ॥ ६० ॥ काष्ठा दशा ककुभ् काष्ठा काष्ठा प्रोक्ता वसुंधरा । काष्ठा कालविशेषः स्यात् काष्ठं दारु निगद्यते ॥ ६१ ॥ पलाशो राक्षसः ख्यातः पलाशश्छदनं स्मृतम् । पलाशो हरितो वर्णः पलाशः पाश उच्यते ॥ ६२ ॥ सत्रं गृहं धनं सत्रं सत्रं दानमिहेरितम् । सत्रं धाम वनं सत्रं सत्रं सच्चरितं मतम् ॥ ६३ ॥ कलासु कुशलः कल्पः कल्पो ज्ञेयो निरामयः । कल्पं कालमिति प्रोक्तं कल्पं मद्यमिति स्मृतम् ॥ ६४ ॥ विष्टरो बर्हिषा(?षां) मुष्टिर्विष्टरं ज्ञेयमासनम् । विष्टरो वृक्ष इत्युक्तो विष्टरः क्रतुरेव च ॥ ६५ ॥ सभा समितिरित्युक्ता समितिः संयुगावनिः । समितिः समयो ज्ञेया समितिः संगतिः स्मृता ॥ ६६ ॥ सितः शुक्लः सितो वृद्धः सितं रजतमुच्यते । सायकोऽपि सितो ज्ञेयः सितो दैत्यपुरोहितः ॥ ६७ ॥ चित्रकं तिलकं प्रोक्तं चित्रकः श्वापदो मतः । चित्रको मूलजातिश्च चित्रको व्यन्तरो मतः ॥ ६८ ॥ ;p{0008} धातकी प्रोच्यते धात्री धात्री चामलकी मता । धात्री वसुंधरा ख्याता धात्री स्यात् स्तनदायिनी ॥ ६९ ॥ द्रोणः स्यात् कौरवाचार्ये(?र्यो) द्रोणः काक इतीरितः । द्रोणो गिरिविशेषः स्याद् द्रोणः स्याच्चतुराढकः ॥ ७० ॥ जयन्ती नगरी प्रोक्ता जयन्ती चेटकानुजा । जयन्त्यौषधभेदः स्यात् जयन्ती शक्रसंभवा ॥ ७१ ॥ रोहितः शक्रकोदण्डो रोहितो मत्स्यपुंगवः । रोहितो लोहितो वर्णो मृगजातिश्च रोहितः ॥ ७२ ॥ बलो हली बलं सैन्यं बलं सत्त्वं बलौषधी । रत्नयोनिर्बलो दैत्यो बला लक्ष्मीर्बला मही ॥ ७३ ॥ प्रतिग्रहो द्विजग्राह्यः सैन्यपृष्ठं प्रतिग्रहः । प्रतिग्रहोऽनुबन्धः स्यात् प्रतिग्राहः प्रतिग्रहः ॥ ७४ ॥ कुमातृकं कदम्बः स्यात् कदम्बो विशिखो मतः । कदम्बो वृक्षभेदश्च कदम्बो निर्गुणः पुमान् ॥ ७५ ॥ प्रियको बीजसारो द्रुः प्रियको द्वीपिचित्रकः । प्रियकः प्रियतोयः स्यात् प्रियको मुक्तकव्रती ॥ ७६ ॥ अक्षो बिभीतको वृक्षः पाशकोऽक्षोऽक्षमिन्द्रियम् । अक्षो रावणिरित्युक्तः कुल्यमक्षं च निम्नगम् ॥ ७७ ॥ चक्रः पक्षिविशेषश्च चक्रं व्यावर्तनं मतम् । चक्रं राष्ट्रं च संघश्च रथाङ्गं चक्रमायुधम् ॥ ७८ ॥ सत्यसंधः खरो ज्ञेयः खरोऽपि परुषो मतः । खरो रासभ इत्युक्तो व्यवहारपटुः खरः ॥ ७९ ॥ ;p{0009} जातिः स्यात् सहजाख्यानं मालती जातिरुच्यते । गोत्रादि जन्म जातिश्च जातिश्चुल्लीति कथ्यते ॥ ८० ॥ गोविषाणं फणो ज्ञेयो भुजंगमफणः फणः । फणा जटा फणा कृष्णा फणा मन्थानकुण्डली ॥ ८१ ॥ तिलको वृक्षभेदः स्यात् तिलको बिन्दुचित्रकम् । तिलकं क्लोमसंज्ञं स्यात् प्रधानं तिलकं मतम् ॥ ८२ ॥ गन्धर्वो देवजातिः स्यात् गन्धर्वः स्यात् तुरंगमः । गन्धर्वश्च स्मृतो गाता गन्धर्वो मृगपुंगवः ॥ ८३ ॥ शृङ्गं प्रधानमिच्छन्ति शृङ्गं च शिखरं विदुः । शृङ्गं विषाणमित्याहुः शब्दकोशविचक्षणः[णाः] ॥ ८४ ॥ सारंगः कुञ्जरः ख्यातः सारंगश्चातको मतः । सारंगः पर्वतो ज्ञेयः सारंगो हरिणः स्मृतः ॥ ८५ ॥ करणं कारणं विद्यात् करणानीन्द्रियानि च । करणो जातिभेदश्च क्षेत्रं करणमिष्यते ॥ ८६ ॥ पुण्डरीकः स्मृतो व्याघ्रः पुण्डरीकः कमण्डलुः । पुण्डरीकः सितो वर्णः पुण्डरीकं सरोरुहम् ॥ ८७ ॥ कमलं कमलं प्रोक्तं कमलं चन्द्रमा भवेत् । कमलं क्रमयुग्मं च कमलं मस्तकं विदुः ॥ ८८ ॥ कमलं जलमाख्यातं कमलो हरिणः स्मृतः । कमलो जलदः प्रोक्तः कमलं मुकुटं विदुः ॥ ८९ ॥ अपत्येऽथ पृथिव्यादौ कालेऽतीते राक्षसे । प्रेते प्राणिनि कीनाशे भूतशब्दं प्रचक्षते ॥ ९० ॥ ;p{0010} सरभोऽष्टापदो ज्ञेयः स्वर्णमष्टापदः स्मृतः । किलीतकोऽष्टापदः स्यात् कृमिजातिरुदाहृतः ॥ ९१ ॥ बालः केशो जलं बालं बालं काशतृणं तथा । बालकं गन्धद्रव्यं च जटाजूटं च बालकम् ॥ ९२ ॥ बालकः खेचरो व्याघ्रो बालकः पृथुकस्तथा । बालः सर्पः शिशुर्बालो बालो वेग उदाहृतः ॥ ९३ ॥ श्यामा रात्रिस्त्रिवृत् श्यामा श्यामा स्त्री मुग्धयौवना । श्यामा प्रियंगुराख्याता श्यामा स्याद् वृद्धदारिका ॥ ९४ ॥ शुभा सुधा शुभा हत्या भगक्षीरी शुभा मता । शुभं श्रेयः शुभा शोभा शुभा प्रोक्ता हरीतकी ॥ ९५ ॥ कान्तारं काननं प्रोक्तं कान्तार[ः] पाकशासनः । इक्षुभेदश्च कान्तारः कान्तारो दुर्भरोदरः ॥ ९६ ॥ खर्जूरं फलभेदश्च खर्जूरं रजतं मतम् । खर्जूरः क्षुद्रजातिः स्यात् खर्जूरस्तृणगोधिका ॥ ९७ ॥ गुरुः पिता गुरुर्ज्येष्ठो गुरुर्देवपुरोहितः । दुर्वाहोऽपि गुरुः प्रोक्तो गुरुः शिष्याभिषेकदः ॥ ९८ ॥ ;c{इति शब्दरत्नप्रदीपे श्लोकाधिकारः प्रथमो मुक्तकः ॥} ;p{0011} ;k{द्वितीयो मुक्तकः} ;c{द्वितीयो मुक्तकः ।} इतः प्रभृत्यनेकार्थाः शब्दाः श्लोकार्धगामिनः । वेदितव्या बुधैः पश्चात् प्रत्यंह्रि कृतसंग्रहाः ॥ १ ॥ तटो वप्रः पिता वप्रो वप्रः प्राकार उच्यते । सर्पो व्याडः शफो व्याडो व्याडो ज्ञेयश्चतुष्पदः ॥ २ ॥ अङ्गे दारेषु शय्यायां तल्पशब्दो विधीयते । तारास्वग्नौ गृहस्थाने धिष्ण्यमाहुर्मनीषिणः ॥ ३ ॥ अभिख्येति समाख्याता कीर्त्तौ च कान्तौ च नाम्नि च । रम्भा देवाङ्गना प्रोक्ता रम्भा स्यात् कदलीति च ॥ ४ ॥ मोचा खल्येति विख्याता मोचापि कदली मता । कक्षेति भवनान्तर्भूर्मे(? मे)खलागजरज्जुषु ॥ ५ ॥ स्यादाषाढे विशुद्धेऽग्नौ शुक्रेऽनुपहते शुचिः । शक्रेऽपि वार्षिके मेघे मत्तनागे घनाघनः ॥ ६ ॥ संक्षेपे भक्तसित्के(क्थे) तुच्छधान्ये पुलाक-वाक् । च(ब)ले मरुति मासार्द्धे पक्षोऽभिभवपार्श्वयोः ॥ ७ ॥ वृक्षभेदे करीरः स्यात् घटे वंशाङ्कुरेऽपि च । देहे दारेषु केदारे क्षेत्रं बुद्धैः(? द्धे) प्रकीर्त्त्यते ॥ ८ ॥ श्रेष्ठं कम्बलमल्पं च विद्यादेकाक्ष(ख्य)या बुधः । निर्यूहो निर्गते पीडानिसर्ग्गद्वारभूमिषु ॥ ९ ॥ अविशब्दो रवौ मेघे पर्वतेऽपि निगद्यते । मृगपर्वतमन्त्रेषु निकृष्टेऽपि च संवरः ॥ १० ॥ ;p{0012} धुनो(?) धवे च दम्भे च गह्वरे गहनेऽपि च । न्याये तुल्ये विधौ काले दण्डे वित्ते च कल्प-वाक् ॥ ११ ॥ आत्मेति ब्रह्म-धी-देह-मनो-यज्ञ-धृतिष्वपि । पर्याप्तौ शिक्षिते पुण्ये क्षेमे च कुशलध्वनिः ॥ १२ ॥ प्रत्ययः शपथे छिद्रे विश्वासास्तित्वहेतुषु । पदं स्थाने परित्राणे क्रमे वस्तुप्रतिष्ठयोः ॥ १३ ॥ दोषे व्यपगमे दण्डे स्यादत्यय इति श्रुतिः । स्वभावे तेजसि स्थाने धामशब्दो निगद्यते ॥ १४ ॥ ज्ञाता(तौ) चात्मनि चात्मीये धने स्वाख्या प्रयुज्यते । कूटाख्यानृतयन्त्राभ्यां घने मायाधरेषु च ॥ १५ ॥ परिच्छेदे प्रमाणेऽल्पे मात्राख्या परिकीर्त्त्यते । इडाशब्दश्च पानीये भूमौ वा व्यसने मतः ॥ १६ ॥ साधु-सत्ता-प्रशस्येषु त्रिष्वेव सदिति ध्वनिः । प्रधाने राज्यलिङ्गे च ककुदाख्या प्रवर्तते ॥ १७ ॥ मानमण्डनयोर्निष्को निष्को दीनाररुक्मयोः । युग्मे(ग्य)संयोगयोरङ्कः स्यादङ्को लेख्यलक्ष्मणोः । विशिरस्के नरे नीरे कबन्धाख्या खलेऽपि च ॥ १८ ॥ मरौ वृक्षविशेषे च धन्वन्-शब्दश्च कार्मुके । अक्षिलोम स्मृतं वर्त्म वर्त्म मार्गश्च कथ्यते ॥ १९ ॥ वर्ष्म गृहप्रमाणं स्याद् वर्ष्म देहश्च कथ्यते । दायादः सहनः(जः) प्रोक्तो दायादस्तनयः स्मृतः ॥ २० ॥ ;p{0013} विग्रहो वैर्यवस्कन्दो विग्रहो वपुरुच्यते । प्रकोष्ठः कूर्प्परस्याधः प्रकोष्ठो द्वारकोष्ठकः ॥ २१ ॥ प्रोक्तं वितानमुल्लोचं वितानं शून्यमुच्यते । सती दाक्षायणी देवी सच्चरित्राबला सती ॥ २२ ॥ वधूर्नारी वधूर्भार्या वधूः पुत्रवधूः स्मृता । भक्षे कशिपुरित्युक्तिः प्रावारः कशिपुर्मतः ॥ २३ ॥ आडम्बरो गजारावस्तूर्यनादश्च भण्यते । कपर्द्दो हरजूटौघः कपर्द्दः श्वेतकाकिणी ॥ २४ ॥ तूबरो निर्विषाणो गौर्नि[ः]स्मश्रुस्तूवरः पुमान् । पापीयांसो नृशंसाः स्युर्नृशंसा वन्दिनो मताः ॥ २५ ॥ शारदस्तु शरत्कालः स्यादधृष्टश्च शारदः । उपह्वरो रहःस्थानं समीपं स्यादुपह्वरः ॥ २६ ॥ कश्मलः स्यात् पिशाचश्च कश्मलो मोह उच्यते । अवज्ञा कथ्यते रीढा रीढा गतिरपीक्षते(ष्य)ते ॥ २७ ॥ प्रस्वेदोऽपि निदाघः स्यात् निदाघो ग्रीष्म उच्यते । केतुर्ग्रहविशेषः स्याद् ध्वजः केतुरुदाहृतः ॥ २८ ॥ वर्द्धनं छेदनं प्रोक्तं वर्द्धनं वृद्धिरिष्यते । कशेरुकं जले कन्दे पृष्ठास्थि स्यात् कशेरुकम् ॥ २९ ॥ निवातमाश्रयं विद्यादभिन्नः कवचस्तथा । कीनाशश्च कदर्यः स्यात् कीनाशौ यमकार्षकौ ॥ ३० ॥ ;p{0014} नागो वृक्षविशेषः स्याद् नागौ वारणपन्नगौ । कुलं संघः कुलं गोत्रं शरीरं कुलमुच्यते ॥ ३१ ॥ पूगं पूगीफलं ज्ञेयं तथा पूगं कदम्बकम् । ज्ञेयाः सुमनसो देवाः कुसुमानि च सज्जनाः ॥ ३२ ॥ कुसुमं पुष्पमित्याहुः स्त्रीरजश्च तदाख्यया । धवः पतिर्धवो भीरुर्वृक्षजातिर्धवो मतः ॥ ३३ ॥ त्र्यम्बकस्ताम्रधातुः स्यात् त्र्यम्बकश्च त्रिलोचनः । सिफा सेफालिका प्रोक्ता सिफा शिखा सिफा जटा ॥ ३४ ॥ पुण्यं सुविहितं कर्म्म पवित्रं पुण्यमुच्यते । ब्रह्म वैज्ञानमित्युक्तं ब्रह्मा पौनर्भवो मतः ॥ ३५ ॥ खलो राशिः खलो नीचः खलः पिण्याक उच्यते । शाला श्लाघा शिला शाला शाला शाखा च वेश्मनः ॥ ३६ ॥ माल्यो मान्यः स्थिरो माल्यो माला माल्यमुदाहृतम् । राढा देशविशेषः स्यात् शोभा राढाभिधीयते ॥ ३७ ॥ पलं मांसं पलं मानं पलो मूर्खः पला तुला । आलिः सहचरी ज्ञेया पङ्क्तिरालिः प्रकीर्त्तिता ॥ ३८ ॥ दलमर्द्धं दलं पर्णं दलं हस्त्यादि साधनम् । आजिः स्यात् समभूभागः संग्रामोऽप्याजिरुच्यते ॥ ३९ ॥ प्रतिज्ञा संगरो ज्ञेयः संग्रामः संगरो मतः । उलूकः पुरुहूतः स्यात् पुरुहूतः पुरंदरः ॥ ४० ॥ अमृतं वारि विज्ञेयं देवभोज्यं तथामृतम् । कुन्त्या भूमिः समाख्याता कुन्त्या कुन्तकदम्बकम् ॥ ४१ ॥ अन्तकेऽजगरे कुन्ते मृत्युः स्यान्मरणेऽपि च । संपा विद्युत् पतिः संपा संपा शङ्खध्वनिर्मतः ॥ ४२ ॥ ;p{0015} पिण्डेऽथ कितवे द्यूते दुरोदर इति श्रुतिः । दीप्तौ दृष्टौ च तारासु ज्योतिःशब्दोऽभिधीयते ॥ ४३ ॥ रोगार्त्तभाग्यमूढाल्पा मन्दाः प्रोक्ता विचक्षणैः । शास्त्रं प्रमाणमिच्छन्ति स्थितिहेतुं च कोविदाः ॥ ४४ ॥ हरिणः पाण्डुरो वर्णः कुरङ्गो हरिणो मतः । करटः कातरो ज्ञेयः करटो ध्वाङ्क्ष उच्यते ॥ ४५ ॥ कङ्करेटुः स्मृतो गृध्रः कङ्करेटुरमर्षणः । प्राध्वं बन्धनमिच्छन्ति प्राध्वं प्रध्वं सूरयः ॥ ४६ ॥ सौधावयवविज्ञानगमनेषु कला मता । तुषारः क्षुद्रपाषाणस्तुषारस्तुषवेणिषु ॥ ४७ ॥ मणिः कोलिंजरो ज्ञेयो मणिको मणिरेव च । विषं पानीयमित्युक्तं विषमन्तकरो रसः ॥ ४८ ॥ वाजमन्नं गरुद् वाजो वाजं पीयूषमिष्यते । व्रजो गोष्ठो व्रजो मार्ग्गो व्रजः संघो व्रजो गणः ॥ ४९ ॥ वीर्यं शक्रं बलं वीर्यं वीर्यं बीजमुदाहृतम् । नक्षत्रस्य मघा नाम कुन्दस्य कलिका मघा ॥ ५० ॥ द्विजिह्वः सूचको ज्ञेयो द्विजिह्वस्तु भुजंगमः । विज्ञेयं शयनं शय्या शय्या पुस्तकसंचयः ॥ ५१ ॥ तरसं मांसमाख्यातं तरसं बलमुच्यते । वारुणी मदिरा ज्ञेया पश्चिमा दिक् [च] वारुणी ॥ ५२ ॥ मन्दुरा वाजिशाला स्यादावासोर्णं च मन्दुरा । सूनृतः शिक्षितो मर्त्त्यः सूनृतः सत्यवाक् स्मृतः ॥ ५३ ॥ कीकसो वानरोऽभि(पि) स्यात् कीर्त्त्यते चास्थि कीकसम् । रोमन्थः स्यात् पशूद्गारो रोमन्थः कीटवर्त्तनम् ॥ ५४ ॥ ;p{0016} हरिद्रा रजनी प्रोक्ता रजनी च विभावरी । परिघः परिघातः स्यात् परिघो दण्ड इष्यते ॥ ५५ ॥ धरा पृथ्वी धरा धारा धरः शैलो धरा धृतिः । क्रतौ क्रोधे तथा दैन्ये मन्युशब्दः प्रचक्ष्यते ॥ ५६ ॥ सरलो देवदारुश्च सरलः सरलो मतः । बहुलाः कृत्तिका ज्ञेया गावश्च बहुला मताः ॥ ५७ ॥ मूलः पुद्गलकः कन्दः कन्दो वारिज उच्यते । मानदण्डनयोर्निष्को निष्को दीनाररुक्मयोः ॥ ५८ ॥ करो हस्तः करो रश्मिः करः कर्षकशोधनम् । द्वन्द्वे दुन्दुभिरक्षेषु दुन्दुभिः स्यात् तथानकः(के) ॥ ५९ ॥ ख्यातं विपिनमुद्यानमुद्यानं गमनं मतम् । उपर्यभ्यधिके प्रस्थे विदुरग्रं विपश्चितः ॥ ६० ॥ निवृत्तावभिधेयेऽर्थो धने चोक्तः प्रयोजने । वर्द्धनी वार्घटी(?वा घटी) प्रोक्ता वर्द्धनी तृणकूर्चिका ॥ ६१ ॥ कुङ्कुमं रुधिरं प्रोक्तं रुधिरं क्षतजं मतम् । नन्दनः स्वसमः पुत्रो नन्दनं शक्रकाननम् ॥ ६२ ॥ मानसं चित्तमित्युक्तं मानसं त्रैदिवं सरः । धावनं शोधनं प्रोक्तं धावनं शीघ्रवर्त्तनम् ॥ ६३ ॥ स्यन्दनाख्या द्रुमस्रावे स्यन्दनो रथ उच्यते । तुरायणमसंगोक्तिः क्रियाहीनस्तुरायणः ॥ ६४ ॥ ;p{0017} परायणं रिपुस्थानं तत्परश्च परायणः । करिपृष्ठे कुले वेणौ वंशाख्या कविभिर्मता ॥ ६५ ॥ जटाजूटे शिखण्डोक्तिः कलापे च शिखण्डिनः । शिष्टभाजनदेहेषु पात्रशब्दः प्रचक्ष्यते ॥ ६६ ॥ पादत्राणे दले पक्षे लेख्यवस्तुनि पत्र-वाक् । द्रव्येऽसिपरिधानेऽपि क्रियापानेऽपि कोश-वाक् ॥ ६७ ॥ हंसेऽग्नौ गरुडे चन्द्रे द्विजराज इति ध्वनिः । कैवर्त्तेऽपि च कैवर्त्तः कैवर्त्तः सलिलेचरः ॥ ६८ ॥ पिप्पलाख्या जलास्वच्छवस्त्रकर्त्तनवस्तुषु । चन्द्रमाश्चन्दनो ज्ञेयश्चन्दनं मलयोद्भवम् ॥ ६९ ॥ सकला व्रीहयः सस्यं विज्ञेयाः सस्यमिक्षवः । दृषद्यरण्यसस्ये च कुरुविन्द इति श्रुतिः ॥ ७० ॥ करवीरश्च मारः स्यादङ्गुष्ठः करवीरकः । करिणां बन्धनस्थानं वारि वारि जलं मतम् ॥ ७१ ॥ प्रचू(चु)रं भूरि विज्ञेयं भूरि काञ्चनमेव च । सूदः स्यात्सूपकारश्च सूदो ज्ञेयः कुरंटकः ॥ ७२ ॥ भषको दुर्जनो ज्ञेयो भषकः सरमासुतः । सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥ ७३ ॥ प्रतिरोधकस्तु चौरो दुर्ज्जनः प्रतिरोधकः । सौवीरोऽश्म(श्व)विशेषः स्यात् सौवीरं काञ्जिकं मतम् ॥ ७४ ॥ ;p{0018} दौर्मनस्यं घृणा प्रोक्ता घृणा च करुणा मता । भङ्गः पलायनं वीचिर्भङ्गो भङ्गश्च भञ्जनम् ॥ ७५ ॥ तीक्ष्णं तीव्रं समाख्यातं तीक्ष्णं लोहमुशन्ति च । मार्ग्गणो याचको ज्ञेयो मार्ग्गणो बाण उच्यते ॥ ७६ ॥ भृङ्गः शिलीमुखः ख्यातो नाराचोऽपि शिलीमुखः । भूशुण्डी सूकरः प्रोक्तो भूशुण्डी च कृषीवलः ॥ ७७ ॥ मृणालं बिसिनीमूलं मृणालं च जटौपली । काव्यास्तु पितरो ज्ञेयाः काव्यं ग्रन्थनिबन्धनम् ॥ ७८ ॥ ह्रस्वदीर्घप्लुते ध्वानः कृतपित्तव्यथास्वपि । रुक्मं हेम विजानीयाद् रुक्मं रजतमुच्यते ॥ ७९ ॥ उत्पलं नलिनं प्रोक्तमुत्पलं कुष्ठमौषधिः । वासुरा वसती ज्ञेया वासुरा वलभी मता ॥ ८० ॥ रजतं कलधौतं स्यात् कलधौतं च काञ्चनम् । वर्णः कृष्णोऽच्युतः कृष्णः प्रोक्ता कृष्णा च पिप्पली ॥ ८१ ॥ समवाये यमे देवे संयद्वर इति श्रुतिः । शर्व्वरश्चन्द्रमा ज्ञेयः शर्व्वरः शवरो मतः ॥ ८२ ॥ महिला रमणी ज्ञेया रमणी वेदिका मता । प्रधानं प्रकृतिः सांख्ये प्रधानं विदुरुत्तमम् ॥ ८३ ॥ वक्त्रमप्यरविन्दं स्यादरविन्दं सरोरुहम् । शृगालो जम्बुको भीरुः शृगालो वरुणोऽपि च ॥ ८४ ॥ त्रिदशा मरुतः प्रोक्ता मरुतोऽपि समीरणः । मायाशब्दो बुधैरिष्टः स्थलसत्त्वविशेषयोः ॥ ८५ ॥ कुण्डलं मण्डलं ज्ञेयं कुण्डलं कर्णभूषणम् । प्रतिबन्धः कुलाधारः प्रतिबन्धः खलक्रिया ॥ ८६ ॥ किषिर्गोत्रविशेषः स्यात् किषिः कालः किषिः कपिः । कुशिर्लोणक इत्युक्तः कुशिर्वैखानसो मुनिः ॥ ८७ ॥ ;p{0019} वर्त्तिर्दीपशिखासूत्रं वर्त्तिर्नेत्राञ्जनोदिता । धूम्राटश्च कलिड्गः स्यात् कलिङ्गो देशवाचकः ॥ ८८ ॥ शैले तृणविशेषेऽर्क्के नृषु गर्त्तुरिति ध्वनिः । शेलुस्तृणविशेषश्च शेलुः श्लेष्मातको मतः ॥ ८९ ॥ शैलः पर्वत आख्यातः शैलः शिलासमुद्भवः । वाल्मीकश्च सीमिकः स्याद् वाल्मीको वाग्विशारदः ॥ ९० ॥ समाजः कुञ्जरो ज्ञेयः समाजः समयो मतः । प्राजिकः पक्षजातिः स्यात् प्राजिका नीलमक्षिका ॥ ९१ ॥ सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः । लक्ष्मणा औषधी प्रोक्ता कथयन्ति मनीषिणः ॥ ९२ ॥ ;c{इति शब्दरत्नप्रदीपेऽर्द्धश्लोकाधिकारो द्वितीयो मुक्तकः ॥} ;p{0020} ;k{तृतीयो मुक्तकः} ;c{तृतीयो मुक्तकः ।} इतः प्रभृत्यनेकार्था ज्ञेयाः प्रत्यंह्रि सूरिभिः । राजा चन्द्रो नृपो राजा पयः क्षीरं पयो जलम् ॥ १ ॥ मित्रो भानुः सुहृन् मित्रं दरं छिद्रं दरं भयम् । ओघः पूरोऽथ वेगश्च वनं काननम्बु च ॥ २ ॥ इला भूमिर्मता गौश्च संज्ञा चित्तं च नाम च । शैलोऽद्रिरंशुमानद्रिर्भा भानुर्भानुरर्यमा ॥ ३ ॥ श्रीकण्ठः स्थावरः स्थाणुः हय(?र)च्छागाच्युता अजाः । गोविन्दो हरिगोसंख्ये शिवः कृष्णो वृषाकपिः ॥ ४ ॥ शरीरोत्सेधयोः कायः सन्धावधिप्रतिज्ञयोः । तेजः पुरीषयोर्वर्चो वसतिः स्थाननक्तयोः ॥ ५ ॥ सरीत्समुद्रयोः सिन्धुः शालः प्राकारवृक्षयोः । चातकापत्ययोः स्तोकः पापव्यसनयोरघः ॥ ६ ॥ पिपासालोभयोस्तृष्णा भुवनं तोयलोकयोः । मद्याश्वमेधयोः काश्यो वाडवो ह्यग्निविप्रयोः ॥ ७ ॥ निस्त्रिंशौ खड्गपापिष्ठौ भृङ्गबाणौ शिलीमुखौ । मानमण्डने निष्कौ स्तो बाष्प उष्मा तथाश्रु च ॥ ८ ॥ वृक्षजातिगजौ पीलू प्रदरौ रोगमार्गणौ । सूकरोष्ट्रौ च करभौ हावौ क्रन्दनविभ्रमौ ॥ ९ ॥ वनवह्न्यनलौ दावौ जीमूतौ मेघपर्वतौ । वल्लवौ सूदगोपालौ चिकुरौ केशचञ्चलौ ॥ १० ॥ ;p{0021} अरिष्टपिष्ठकौ कल्कौ वृषौ दानववैरिणौ । पङ्गुपद्मारुणौ शोणावम्बरौ व्योमवाससी ॥ ११ ॥ उदानाख्यौ मरुद्बन्धौ निस्रंसौ वटदुग्धिलौ । ध्वाङ्क्षः काको बको ध्वाङ्क्षो नगः शैलो नगो द्रुमः ॥ १२ ॥ खटो ह्रस्वः खटः क्रूरः क्षितिः पृथ्वी क्षितिः क्षयः । क्षयं गेहं क्षयो ह्रासः श्रमः खेदः श्रमः क्रिया ॥ १३ ॥ कण्ठो विधिर्गलः कण्ठः प्रहिः कूपः प्रहिः सरः । उन्दुरे सूकरे कोलः कलिः कलहकालयोः ॥ १४ ॥ शशाङ्कस्वर्णयोश्चन्द्रः किरिः सूकरलोहयोः । बर्हिर्दर्भो जलं बर्हिर्लाङ्गलं हलमम्बु च ॥ १५ ॥ निमित्तहृदये हेतू हीरौ वज्रमहेश्वरौ । काश्मीरकशुकौ कीरौ वीरौ विक्रमबान्धवौ ॥ १६ ॥ कौशिकौ वासवोलूकौ सायकावसिमार्ग्गणौ । मार्ग्गणौ याचको बाणो मार्ग्गणं मृगमांसता (?) ॥ १७ ॥ ध्वान्ताचलौ मतावन्धौ मयूराग्नी शिखण्डिनौ । कमरः कोमले काम्ये समरो युद्धसंघयोः ॥ १८ ॥ ;p{0022} उत्सङ्गे सूकरे क्रोडो वत्सः स्व(? त)र्णकपुत्रयोः । कान्त्यनातपयोश्छाया दया हिंसानुकम्पयोः ॥ १९ ॥ द्रुमो वृक्षे पुराणेऽन्ने ध्रुवो निश्चितनित्ययोः । संघाते पूरणे पूरः सूरः सूर्यनरेन्द्रयोः ॥ २० ॥ धीरौ सात्त्विकधीमन्तौ वरौ श्रेष्ठहुताशनौ । पतङ्गौ शलभादित्यावर्कौ स्फाटिकभास्करौ ॥ २१ ॥ गुह्यं कार्ये च कौपीने संज्ञे स्तो नामचेतने । मधुरौ च प्रियस्वादू शम्भू ब्रह्ममहेश्वरौ ॥ २२ ॥ कार्यरिद्धौ तथा कृत्यौ बभ्रू नकुलपिङ्गलौ । स्पष्टप्राज्ञौ स्मृतौ व्यक्तौ दीप्तिः स्वेच्छा तथा रुचिः ॥ २३ ॥ नित्यं स्वं च निजं प्रोक्तं बलदीप्तौ तथौजसी । हायनं वर्षमोजश्च हेती शस्त्रार्च्चिषी मते ॥ २४ ॥ आशासंज्ञे ककुप्तृष्णे स्तनमेघौ पयोधरौ । अभिरूपं बुधे कान्ते जामिः स्वसृकुलस्त्रियोः ॥ २५ ॥ उदयाधिगमौ प्राप्ती वह्निसूर्यौ विभावसू । वृजिनं मलिने पापे प्रज्ञानं बुद्धिचिह्नयोः ॥ २६ ॥ असन्मायाविनौ लीकौ वीर्योद्यमौ पराक्रमौ । वराके मूषके दीनः प्लवकः कपिभेकयोः ॥ २७ ॥ यज्ञः पूजा च दानं च दृष्टिभी(?री)क्षौ तथा मते । चीवरं वल्कले वस्त्रे कृष्णं काले तथोदरे (?) ॥ २८ ॥ ;p{0023} श्रोत्रश्च श्रवणे कर्णे तातस्तु पितृपुत्रयोः । कुट्टिमे शफरे मत्स्यो रूपं मूर्तौ विदुर्विधौ ॥ २९ ॥ अवटौ कालगर्तौ च निमित्ते हेतुलक्षणे । हिते शक्ते समर्थः स्यात् प्रशान्त(?न्ता)कठिनौ मृदू ॥ ३० ॥ स्थूलौ जडबृहन्तौ [च] विप्राश्च दशना द्विजाः । असदप्रियावलीकौ सहायप्रणिधी मतौ ॥ ३१ ॥ रचितोऽयमनेकार्थौ यथास्मृति [च] युक्तके तृतीयेऽपि । उपजयतां सौभाग्यं पठतां श्रद्धावतामनिशम् ॥ ३२ ॥ ;c{इति शब्द[रत्न]प्रदीपे [पादाधिकारः] तृतीयो मुक्तकः ॥} ;p{0024} ;k{चतुर्थो मुक्तक्तः} ;c{चतुर्थो मुक्तकः ।} यो जयेद् राजसूयेन मण्डलस्येश्वरश्च यः । पृथ्वीं प्रशास्ति यस्याज्ञा स सम्राडभिधीयते ॥ १ ॥ सबुद्धिः सचिवो राज्ञस्तन्मन्त्रं निश्चिनोति यः । नियुक्तः कर्म्मणि प्राज्ञः स कर्मसचिवो मतः ॥ २ ॥ यो राजरक्षवर्ग्गः स्यात् सोऽनीकस्थो निगद्यते । अन्तःपुरे येऽधिकृतास्तेऽन्तर्वेश्मिकसंज्ञकाः ॥ ३ ॥ यथार्थयुक्तस्तु चरः प्रणिधिः प्रणिगद्यते । एष ग्रामाधिकृत्यश्च स्थायुष(?कः) पुरुषो मतः ॥ ४ ॥ षण्ढो वर्षधरः प्रोक्तो द्यूताध्यक्षश्च सारिकः । विषयानन्तरं शत्रुर्मित्रं च तदनन्तरम् ॥ ५ ॥ यो लक्ष्याच्युतबाणः स्यात् सोऽपराद्धेषुर्भण्यते । कलिविन्यसनं व्यूहो वाज[जः] पक्षो भवेदिषोः ॥ ६ ॥ प्रत्यासारं विदुः प्राज्ञाश्चमूजघनमाहवे । प्रत्यरि सेनागमनं जानीयादभिषेणक(?न)म् ॥ ७ ॥ तुरङ्गरथपत्तीभं सेनाङ्गमभिधीयते । स्यात् प्रतिसर आरण्यः प्रतिरोधः समापनम् ॥ ८ ॥ वृत्ते वर्त्स्यति वा युद्धे पानं स्याद् वीरपानकम् । चापध्वनिश्च विस्फारः कबन्धमशिरो वपुः ॥ ९ ॥ निबन्धनं मेखलाद्यमङ्गस्य ग्रहणं स(?द)मः । वरूथो रथगुप्तिश्च गुल्मं सज्जनमिष्यते ॥ १० ॥ पुरुषो रिपुयुक्तो यः उ(?अ)पसय्यः(?र्प्पः) स भण्यते । तदभिभयमाख्यातं सबलाद् भयमेव यत् ॥ ११ ॥ ;p{0025} विषलिप्तफलो बाणो यः स दिग्ध इति स्मृतः । दुरापेऽपि च कृत्ये यः स्यादनवस्थितक्रियः ॥ १२ ॥ महोत्साहः स विज्ञेयः पुरुषः कृतनिश्चयः । वृंहितं स्तनितं प्रोक्तमालानं बन्धनं मतम् ॥ १३ ॥ मदो दानं गजेन्द्राणां वमथुः करिसीकरः । दन्तान्तप्रतिमानं च सृणिरुक्तस्तदङ्कुशम् ॥ १४ ॥ बिन्दुजालं शरीरोत्थं पद्मं विज्ञाः प्रचक्षते । आघोरणो नियन्ता स्यान् निषादी प्राजिता गजी(?) ॥ १५ ॥ आजानेयः कुलीनोऽश्वः पोतः प्रोक्तः किशोरकः । काम्बोजश्चैव बाल्हीकः साधुवाही विनीतकः ॥ १६ ॥ प्रोथं घोणान्तरं प्राहुर्द्धौरितं वलितं मतम् । अश्वकाङ्गः स्मृतो वाजी मृगयायां विचक्षणः ॥ १७ ॥ चक्रं चापस्करं विन्द्यात् कूबरं युगमध्यगम् । श्रेयमिष्टफलं दैवं तद्विपर्यासतोऽनयम् ॥ १८ ॥ इष्टार्थानर्थयोर्दूराद् दीर्घदर्श इति स्मृतः । वेहद् वृषोपगा गौः स्यादुत्तमा नैचिकी मता ॥ १९ ॥ काल्याऽथ सर्ज्यप्रजने समाना च सवर्णिका । दुह्यमानाप्यसंदाना सुव्रतेति निगद्यते ॥ २० ॥ दोहकाले पयोहीना संधिनीति विधीयते । प्रौढो वत्सो वत्सतरः प्रष्ठौही गर्भिणी मता ॥ २१ ॥ विद्याद् दध्यघनं द्रप्सं घृतं सर्पिर्निशान्तरम् । हैयङ्गवीनमित्युक्तं नवनीतं विचक्षणैः ॥ २२ ॥ समा गिरेः क्षितिः सानुरधःस्थानादुपत्यका । परं तीरं विदुः पारमर्वागवारमावचुः ॥ २३ ॥ ;p{0026} राजहंसा सिता रक्तैर्मलिनैर्मल्लिकाभिधाः । विश्रुताश्चरणैर्हंसा धार्तराष्ट्राः सितेतरैः ॥ २४ ॥ मध्यं प्रकोष्ठमित्युक्तमरत्निमणिबन्धयोः । कनिष्ठामणिबन्धान्तः करभः करपार्श्वगः ॥ २५ ॥ ज्येष्ठा कनिष्ठा निकटे तत्प्रदेशिन्यनामिका । बाहोश्च प्रसृताङ्गुल्योरन्तरं व्याम उच्यते ॥ २६ ॥ प्रादेश-ताल-गोकर्ण-वितस्तय उदाहृताः । तर्जन्यादिभिरङ्गुष्ठे वितताभिः क्रियापरे ॥ २७ ॥ प्रसारिताङ्गुलिः प्राज्ञैः करः प्रतलमुच्यते । कृतमुष्टिः स रत्निः स्यादरत्निर्वितताङ्गुलिः ॥ २८ ॥ पुच्छं प्रकीर्णकं सिक्तं कल्यं मद्यं चिरोषितम् । चतुर्विधं स्मृतं वस्त्रं त्वग्युक्तं कृमिरोमजम् ॥ २९ ॥ महाधनाख्यमित्युक्तं बहुमूल्यं विचक्षणैः । पौष्पं मधु मकरन्दं गुल्मस्थं स्तबकं बुधैः ॥ ३० ॥ बन्धनं वृन्तमिच्छन्ति विटपं तरुविस्तरम् । संभाविताऽस्मिका(?ता) दर्पादाहोपुरुषिका मता ॥ ३१ ॥ फलं सुस्वादु पक्वं स्यात् प्रपदं(?) पुष्टमुच्यते । जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते ॥ ३२ ॥ वाक्यं पदसमूहः स्यादाहोसाध्यमकारणम् । लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् ॥ ३३ ॥ नितान्तं मधुरं सान्त्वं परुषं निष्ठुरं वचः । असद्भाष्यं बहुभाष्यमसंबद्धं निरर्थकम् ॥ ३४ ॥ ;p{0027} कल्या कल्याणवाचोक्ता सत्यकल्पा प्रियाप्रिया । पूर्वापरोक्तमक्लिष्टं हृद्गतं स्वगतं मतम् ॥ ३५ ॥ स्पष्टं चित्रपदं नाम ग्राम्यमश्लीलमुच्यते । काञ्चनं रजतं प्रोक्तं हिरण्याख्ये कृताकृते ॥ ३६ ॥ आहते च स्मृते रूप्ये ततोऽन्यत् कुप्यमुच्यते । भूषणं कनकं शृङ्गी गवाद्यं पादबन्धनम् ॥ ३७ ॥ वेश्यावासोऽपि वेशः स्यादातोद्यं मुरजादिकम् । अर्थप्रयोगमाचार्याः कुशीदं परिचक्षते ॥ ३८ ॥ वार्द्धुषिक्यं च तद्वृत्तिस्तत्क्रिया च विकूणिका । स्यातां ग्राहकदातारवधमर्णोत्तमर्णकौ ॥ ३९ ॥ कुमुदः प्रतिभः श्वेतो बभ्रुः कनकपिङ्गलौ । रक्तश्यामः स्मृतो धूम्रः पिशङ्गो रोचनाप्रभः ॥ ४० ॥ मेचकः शिखिकण्ठाभो हरित् श्यामोऽसितासितिः । आरक्तः पाटलो वर्णः शोणः कोकनदारुणः ॥ ४१ ॥ आसारो वेगवान् वर्षः प्रावृडम्भोधरागमः । शीकरः पवनास्ताम्बु मेघाग्निः स्यादिरम्मदः ॥ ४२ ॥ वृष्ट्या संभूतशस्यो यः स देशो देवमातृकः । नद्यम्बुवृद्धशस्यो यः स नदीमातृको मतः ॥ ४३ ॥ वरपूर्वा तु या नारी सोच्यते दिधिषूरिति । सोऽग्रेदिधिषुराख्यातः पुरुषस्तत्पुरन्ध्रिकः ॥ ४४ ॥ खगा मृगाः स्मृताश्छेकाः सर्वदैव गृहे रताः । यदुष्ट्रिकादिकं भाण्डं तदेवाऽऽवपनं मतम् ॥ ४५ ॥ रजतादिकृतं तत् स्यात् भृङ्गारं जलदायकम् । अवकेशी फलैर्वन्ध्यः सर्वलोहं च तैजसम् ॥ ४६ ॥ व्याख्याता भैक्षदाता च प्राज्ञैश्च विकुलाविति । स्थानं मूलादधिष्ठानात् शाखानगरमुच्यते ॥ ४७ ॥ संसप्तकाश्च समये संग्रामादनिवर्त्तिनः । पद्याऽतः पथसंबन्धो गव्यूतिः क्रोशकद्वयम् ॥ ४८ ॥ ;p{0028} आगन्तुवर्तमानाभ्यां सहाहोभ्यां च पक्षिणी । श्रुतिविद्भिः स्मृता रात्रिः पुण्या हवनकर्मणि ॥ ४९ ॥ चिररात्रमिति ख्यातं चिरकालं च सूरिभिः । गणरात्रं तथा रात्रिर्बहुशश्चाभिवासिता ॥ ५० ॥ तत् शललीकमाख्यातं प्रच्छन्नं शललैरपि । अन्तर्गतास्थिकं कुड्यमेडूकं कवयो विदुः ॥ ५१ ॥ पञ्चरागिकवस्त्रेण निर्मिताः पुत्रिकास्तु याः । पञ्चालिका इति प्रोक्ता बालक्रीडनकाश्च ताः ॥ ५२ ॥ सपरिच्छदकन्यायाः प्रदाता कूकदो मतः । सोपप्लवस्थितो भानुरुपरक्तोऽथवा शशी ॥ ५३ ॥ पोगण्ड इति विख्यातो देहेन विकलः पुमान् । मासौ द्वौ चैत्रवैशाखौ तावेव मधुमाधवौ ॥ ५४ ॥ ज्येष्ठाषाढौ तथैव द्वौ प्रोक्तौ शुक्रशुची इति । नभः श्रावण इत्युक्तो नभस्यस्तदनन्तरः ॥ ५५ ॥ इषोर्ज्जाविति विज्ञेयौ मासावाश्विनकार्तिकौ । स्यातां सहःसहस्यौ द्वौ मार्गपौषौ यथाक्रमम् ॥ ५६ ॥ तपस्तु माघ इत्युक्तस्तपस्यः फाल्गुनो मतः । एकसर्ग्गजनं विन्ध्यादेकायनमिति स्फुटम् ॥ ५७ ॥ अनेडमूक इत्युक्तः श्रोतुं वक्तुं च यः क्षमः । समरात्रिदिनं कालं विषुवन्तमुशन्ति च ॥ ५८ ॥ वात्या वातसमूहः स्यादिल्वला मृगतारकाः । राकानुमतिराचार्याः पौर्णमासीद्वयं विदुः ॥ ५९ ॥ राका संपूर्णचन्द्रा स्यात् कलोनाऽनुमतिः स्मृता । शिनीवालप्रमाणोऽर्क्कसांनिध्ये यत्र चन्द्रमाः ॥ ६० ॥ दृश्यते सा त्वमावास्या शिनीवालीति भण्यते । कुहे(?ह्वि)ति कोकिलाध्वाने कलामात्रं विधौ स्थितिः ॥ ६१ ॥ ;p{0029} यत्रापि स्यादमावास्या नष्टचन्द्रा कुहूरिति । ऋचो यजूंषि सामानि कर्मविद्या त्रयी मता ॥ ६२ ॥ आन्वीक्षिकी तर्कविद्या वार्त्ता कृष्यादि कर्मभाक् । समग्रमर्थशास्त्राणि दण्डनीतिरितीष्यते ॥ ६३ ॥ मन्वादिधर्मशास्त्राणि स्मृतयः स्मरणादपि । ऋग्यजुषोरधीती यः स होताऽध्वर्युरिष्यते ॥ ६४ ॥ सान्नाय्यं हविरेव स्यादुद्गाता सामतो मतः । आषाढो व्रतिनां दण्डः सोमपीथीति सोमपः ॥ ६५ ॥ स्वसंस्काराद् द्विजो भ्रष्टो व्रात्य इत्यभिधीयते । त्यक्ताग्निर्वीरहा प्रोक्तो दीक्षितो मखसोमपः ॥ ६६ ॥ यजमानः स्मृतो यष्टा हुताग्नौ च वषट्कृतम् । इष्टापूर्तं ध्रुवं दानमन्यत् पूर्वमुदाहृतम् ॥ ६७ ॥ ब्रह्मस्वाध्यायसंवृत्तिर्ब्रह्मचर्यं समिष्यते । अभिमन्त्र्य हुतं सम्यग् विन्द्यादुपाकृतं पशुम् ॥ ६८ ॥ अन्वाहार्यं विदुः श्राद्धं मासिकं विधिकोविदाः । दर्शस्त्वसितपक्षान्ते सदस्या विधिदर्शिनः ॥ ६९ ॥ दिव्यः स्यादिति सत्रस्य शेषं प्राज्ञैरुदाहृतम् । सिद्धश्चाष्टगुणैर्युक्तस्त्रिवर्ग्गो धर्मपूर्वकः ॥ ७० ॥ प्राचीनावीती विख्यातः सत्यपाणौ समुद्धृते । हव्यं दैवे विधातव्यं पैत्रे कव्यमिति स्मृतम् ॥ ७१ ॥ योषिद् मुख्या वरारोहा वीरा स्यात् पतिपुत्रिणी । प्रसाधनज्ञा स्ववशा सैरन्ध्रीति निगद्यते ॥ ७२ ॥ कात्यायन्यर्द्धवृद्धा च सा राजवरवर्णिनी । मध्यस्थानं भ्रुवोः कूर्चस्तारकाऽक्षिकनीनिका ॥ ७३ ॥ स्त्रीणां पूर्वकटीभागं जघनं कोविदा विदुः । नितम्बमपरं भागं गुल्फं पादस्य पूर्वतः ॥ ७४ ॥ ;p{0030} मुखान्तरालमास्यं स्यात् पूर्वे संधिश्च लक्षणे । दृष्टे यत्र प्रसीदन्ति नयनानि मनांसि च ॥ ७५ ॥ प्रासादः स तु विज्ञेयः सौधः स्यात् सुधया सितः । मन्त्रोद्धारविधानज्ञः क्रियाकाण्डविशारदः ॥ ७६ ॥ आचार्यः प्रोच्यते सम्यक् स्वाम्नायेन च आचरन् । उपेत्याधीयते यस्माद् वाङ्मयं समुपागते ॥ ७७ ॥ उपाध्यायः स विज्ञेयो वृत्तिमात्रोपजीवकः । उपमर्द्दाप्तिवैमल्याः तण्डुलाः पाकयुक्तितः ॥ ७८ ॥ प्रमाथितेन ते मन्दाः क्लिन्नत्वादोदनः स्मृतः । मुद्गादिदलप्रस्विन्नाः स्वच्छाः स्वपस्निमाययोः(?) ॥ ७९ ॥ प्राच्यादीनां दिशां देवाः पालनाद् विदिशामपि । दिक्पाला इति विख्याताः शक्रवह्नियमादयः ॥ ८० ॥ पाञ्चजन्यं विदुः शङ्खं हरेश्चक्रं सुदर्शनम् । कौमोदकी गदा शार्ङ्गं कार्मुकं नन्दकस्त्वसिः ॥ ८१ ॥ शिवस्य समिध्या(?) वारिस्वशब्दं स्थिरमेव च । शिवगङ्गेति विज्ञेया दुष्प्रापा दुष्कृतात्मना ॥ ८२ ॥ नाम गोत्रं च मन्त्रं च या अभिव्यापकाः स्वयम् । सुनृणां काव्यपिण्डस्य विज्ञेयाश्चित्रधेनवः ॥ ८३ ॥ उत्पत्तिः प्रलयो वंशा मन्वन्तर-विनिर्णयः । वंशानुचरितं यत्र तत् पुराणमिति स्मृतम् ॥ ८४ ॥ नाम्ना येऽणादयः सिद्धाः समासविधिनापि ये । शब्दास्ते वाक्यतो धातोर्बोद्धव्याः कविपुंगवैः ॥ ८५ ॥ मुक्तक एव चतुर्थो गुणभोग्यः संनिवेशतः शब्दैः । वाक्यविबोध्यैर्नित्यं नितरां सुश्रूग्रते लक्ष्मीः ॥ ८६ ॥ ;c{इति शब्दरत्नप्रदीपे चतुर्थो मुक्तकः समाप्तः ॥} ;p{0031} ;k{पञ्चमो मुक्तकः} ;c{पञ्चमो मुक्तकः ।} स्थानान्तरप्रधानत्वाद् व्यामिश्रा भवतोऽपि च । साम्प्रतं पृथगुच्यन्तेऽनेकार्थवाचकाव्ययाः ॥ १ ॥ समुच्चये विकल्पोक्तौ व्यभिचारे व्यवस्थितौ । औपच्येऽतिशये हेतौ चकारोऽन्वाचयादिषु ॥ २ ॥ व्यवच्छेदे विवक्षायां विकल्पौपम्यहेतुषु । पक्षान्तरविनिर्णीतौ वा-शब्दः स्यात्समुच्चये ॥ ३ ॥ हि स्फुटे हा विषादोक्तौ हन्त निर्दिष्टबोधने । हासोपहाससंवित्तिभावसंबोधनादिषु ॥ ४ ॥ अहो साकल्यसाहित्यवृत्तिमात्रेषु दृश्यते । परं वा निश्चयेत्यर्थ-व्यवच्छेदकृतार्थयोः ॥ ५ ॥ पश्चात्सत्यवितर्केषु न परेति विनिश्चये । हर्षविस्मयखेदेषु बत-शब्दो निबध्यते ॥ ६ ॥ किल संख्याक्तौपम्यपूर्वसूचनहेतुषु । असंबुद्धौ निषेधे च वाक्यस्मरणयोरपि ॥ ७ ॥ अतिरक्तौ विषादे च न संबुद्धिनिषेधयोः । आमित्येवमतीते स्म मा स्म चेति निगद्यते ॥ ८ ॥ इतीव संभावनौपम्यपादपूरणहेतुषु । नु वितर्के द्रुतेऽ? किमुत प्रश्नवितर्कयोः ॥ ९ ॥ उपहासे विषादे हि स्फुटानन्तरयोरुत । मिथोऽन्योन्यं ततश्चातः पुनः स्याच्च विनिश्चये ॥ १० ॥ अन्तरेणान्तारा-शब्दौ व्यतिरेकोदितौ(?) विना । सुष्ठु प्रायः प्रगे प्रातः पुनरत्यर्थतथ्ययोः ॥ ११ ॥ अहर्मात्रणकाः(?) प्रोक्ता वैतथ्याद्यावृता मुधा । अयीत्यामन्त्रणौत्सुक्ययुक्तिसंभावनादिषु ॥ १२ ॥ ;p{0032} अहो संभावनालापसंभ्रमामन्त्रणेषु च । अरे अनादराख्यायां स्थाने युक्तमितीष्यते ॥ १३ ॥ संभावने वितर्के च ए हे हाऽऽमन्त्रणे ह्ययम् । नु संबुद्धौ(?)न्योन्यं नीवेद्यदि(?) समुच्चये ॥ १४ ॥ स्वीकारे ऊररी ऊरी उरी बोधनिषेधयोः । वायुश्च जवितो मङ्क्षु वै स्फुटार्थस्य संमतः ॥ १५ ॥ आहोस्विदथवेत्यर्थे आनन्तर्ये तथा अहो । आश्चर्यपदसंबुद्धिसंभावेषु निगद्यते ॥ १६ ॥ एवावधारणे जातु कदाचित् खलु निश्चये । मा निषेधे अभावे च दिष्ट्यानन्दे मृषाऽनृते ॥ १७ ॥ अतन्द्रातादि(?)शीघ्रार्थे ह्यञ्जसा सहसा द्रुतम् । अथाऽऽनन्तर्यमाङ्गल्ये प्रश्नधिक्कारयुक्तिषु ॥ १८ ॥ संबुद्धौ च निषेधे च एव स्यादवधारणे । प्राक् पूर्वं देशकालादौ प्रत्यक् प्रत्यक्षदर्शने ॥ १९ ॥ ईषदर्थे मनाक् सम्यग् निश्चये कं सुखाम्बुयोः । अलं भूषणपर्याप्तिवारणेषु निगद्यते ॥ २० ॥ आ स्मृतौ संभ्रमे मोहे कामं स्यादतिशायिनि । धिक् तिरस्करणे कच्चित् साधुप्रश्नप्रवृत्तिषु ॥ २१ ॥ अन्वगित्यनुगत्यर्थे समाप्ताविति भण्यते । प्रश्ने विशेषयोगे च स्वित् संशयविकल्पयोः ॥ २२ ॥ युगपदेककालार्थं सातत्यादेश्चिदिष्यते । समन्ताद्-विष्वगित्युक्तिर्विभागे पृथगुच्यते ॥ २३ ॥ इ प्रहासे इ संबन्धे नु आमन्त्रणतथ्ययोः । पितृप्रीतौ तथा स्वाहा तर्पणे जातवेदसः ॥ २४ ॥ सहार्थं समया ज्ञेया हंहोऽनिर्दिष्टबोधने । संसुखे सत् प्रतिष्ठायां तूष्णीमध्यव्यति(?)क्रमे ॥ २५ ॥ ;p{0033} प्राहुर्नक्तं रजन्यर्थे दिनार्थे च दिवा दिनम् । संज्ञायां नामसत्तायामस्ति साध्येऽभिधीयते ॥ २६ ॥ उत्सारणे फडित्याहुर्वषट् वौषट् तु तर्प्पणे । अभि सामीप्यदूरोर्द्ध्वदेशेषु परिकीर्त्त्यते ॥ २७ ॥ सामीप्ये समया-शब्दः सामीप्ये निकषोच्यते । नानाऽनेकप्रकारार्थे तत्क्षणात्सपदि स्मृतः ॥ २८ ॥ चिराच्चिरेण कालस्य प्रकर्षोक्तौ चिराय-वाक् । दूराद् दूरेण दूरं च अविकृष्टं च देशकम् ॥ २९ ॥ लघु-शब्दोऽपि शीघ्रार्थे दूरोराप्तव्ययान्तिके(?) । अङ्गेत्यामन्त्रणे हाहा क्रोधकृत्यनिवारणे ॥ ३० ॥ विकल्पेऽहह हाहेति नं(?) प्रतीते च वर्जने । प्रदोषे सायमित्याहुर्बाढमत्यर्थयुक्तयोः ॥ ३१ ॥ समं साकं सहार्थे च कल्यं(?) श्वरमनुद्धते । पश्चान्न वरे सत्ये च ध्रुवं कृत्ये च निश्चये ॥ ३२ ॥ अभिन्नेषु पुनर्भूयो मध्येऽतः प्रणतो मतः । पूजायामति-सु प्रोक्तौ नीचैर्निम्नः शनैर्मनाक् ॥ ३३ ॥ प्रकटीकरणे प्रादुराविर्विश्वसितेऽनिशम् । बहिर्बाह्ये अधोऽधस्तात् परोऽग्रमिङ्गिते द्रुते ॥ ३४ ॥ तिरश्चीने तरीत्युक्तस्तरी सत्यार्थकीर्तने । आहि त्वरायामाहीति आक्षेपे आहि कीर्त्यते ॥ ३५ ॥ बाहुल्यार्थे स्मृतः प्रायः उच्चैरत्यर्थतुङ्गयोः । ह्योऽतीते मते काले ह्यनागते श्वो निगद्यते ॥ ३६ ॥ प्रश्ने तर्के च किं प्रोक्तो वरमिष्टप्रशंसने । अमाशब्दः सहार्थः स्यान् विषेधे वाभिधीयते ॥ ३७ ॥ प्रहासाग्रनयोरोभिः (?) प्रतिपत्तावहा तथा । एकत्वेऽर्थे सकृद् विद्यादुत्कर्षे निश्चये परम् ॥ ३८ ॥ ;p{0034} पूर्वकाले पुरा प्राहुः प्राचुर्ये रभसा बलात् । नित्यं प्रतिदिनं ज्ञेयं सर्वत्रार्थे परि-ध्वनिः ॥ ३९ ॥ ततो(?)च ज्योतिके द्योते यम्यैवसगुच्यते(?) । तथैत्थं स्वयं स्वार्थे हि यस्मादिति विस्मये । कौत्स्ये (च) मृदुरातीक्ष्णे योऽयं कुष्ठी विधीयताम् ॥ ४० ॥ ;c{इति शब्दरत्नप्रदीपे पञ्चमो मुक्त[कः] समाप्तः ॥}