;METADATA ;title{शब्दरत्नावली} ;author{मथुरेश} ;bookFullName{Śabdaratnāvalī (An Early Seventeenth Century Kośa Work Compiled in the name of Musā-Khān) By Mathureśa.} ;bookSeriesDetails{Bibliotheca Indica, Work Number 292, Issue Number 1591} ;editor{Pandit Manindra Mohan Chaudhari} ;editorQualifications{} ;publisher{The Asiatic Society, 1 Park Street, Calcutta 16} ;pressDetails{George A. Nullis at Baptist Mission Press, 41a, Acharyya Jagadish Bose Road, Calcutta 17} ;publicationYear{July 1970 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SRMS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{false} ;newLineNumbersAtChangeOf{false} ;version0.0.1{02 February 2020} ;version0.0.2{07 April 2020} ;version0.0.3{07 July 2020} ;version0.0.4{07 July 2020} ;version0.1.0{07 July 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;k{मङ्गलाचरणम्} वन्दे सदानन्दमयं समन्ताज्ज्योतिः परं ब्रह्म भवादिसेव्यम् । ध्यानैकगम्यं जगदेकरम्यं यदिच्छया कारणकार्यभावः ॥ १ ॥ आसीत् क्ष्मातलमण्डले नृपकुलैः संसेवितः श्रीयुतै- र्भूपालः शुलमान खान इति यः कीर्तिप्रतापोज्ज्वलः । यद्दोर्दण्डप्रतापचण्डदहनैः कल्पान्तसूर्यप्रभैः प्रत्यर्थिक्षितिपालका रणभुवि क्षोभाकुलाः शेरते ॥ २ ॥ तस्यैवं जगदेकवीरतनुजः ख्यातो जगन्मण्डले ईशा खान महीपतिः स्थिरमतिर्वङ्गैकरङ्गोत्सवः । दृप्तैर्द्वादशभूमिपैश्चिरतरं तीक्ष्मांशुचण्डप्रभैः शीलेन प्रतिदेशपालनविधौ संसेव्यमानोऽभवत् ॥ ३ ॥ एतस्मादजनि प्रतापमिहिरः सत्कीर्तिशीतद्युति- र्दानश्रीबलिभूपतिः स्वमहिमश्रीवामदेवः स्वयम् । मूछाखान मशन्दएल्लिनृपतिः श्रीमान् महीमण्डलं शास्ति द्वादशभूमिपैः पुनरिदं भ्रूभङ्गमात्रैः कृती ॥ ४ ॥ तस्याज्ञावशतः सुधारसमयीं सच्छिष्यसन्तोषिनीं नानातन्त्रविदारसारललितां ज्ञानप्रदानोज्ज्वलाम् । धीरः श्रीमथुरेश एष तनुते श्रीशब्दरत्नावलीं सन्तः सन्तु विनोदिता नृपसभं सन्तोषयन्तोऽनया ॥ ५ ॥ विलोक्य बहुतन्त्राणि शब्दरत्नावलीमिमाम् । वङ्गैरेव निबध्नाति प्रायः पर्यायविस्तृतैः ॥ क्वापि च प्रतिसंस्कारोऽनुक्ते शिष्टप्रयोगतः । परपूर्वोभयावृत्तिसहशब्दानुशासनात् ॥ स्त्री पुं नपुंसकं ज्ञेयं रूपभेदेन कुत्रचित् । तद्विशेषविधेः क्वापि साहचर्यात् क्वचिद्भवेत् ॥ अनुक्तेष्वेकलिङ्गेषु द्वन्द्वः किल भवेदिह । उक्तेषु भिन्नलिङ्गेषु तत्राप्येष न दोषभाक् ॥ लिङ्गत्रये त्रिष्विति स्यात् स्त्रीपुंसयोर्द्वयोरिति । निषिद्धे शेषलिङ्गन्तु वाच्यलिङ्गञ्च कुत्रचित् ॥ ;p{0002} ;k{स्वरादिकाण्डः} ;v{स्वर्गवर्गप्रकाशः} युस्मदस्मत् कतिष्णान्तसंख्याव्ययमलिङ्गकम् । प्रायेसा क्लीबे मेव स्यात् क्रियाव्ययविशेषणम् ॥ स्वरव्ययं देवलोक-सुरलोक-फलोदयाः । स्वर्गावरोह-त्रिदिव-स्वर्लोक-नागमन्दराः ॥ ऊर्ध्वलोक-सुखाधार-सौरिक-त्रिदशालयाः । द्वे स्त्रियौ द्यौ-दिवौ शक्रभुवनञ्च त्रिपिष्टपम् ॥ दिवानमपि चेच्छन्ति नान्तं न बहुसन्मतम् । देवतायां सुपर्वाणस्त्रिदशास्त्रिदिवौकसः ॥ देवाः सुमनसो लेखा निर्जरा अमृतान्धसः । अमर्त्या ऋभवोऽस्वप्ना विबुधा दानवारयः ॥ स्वाहाभुजः क्रतुभुजो गीर्वाणा दनुजद्विषः । बृन्दारका दिविषदो द्युषदो द्यौषदः सुराः ॥ अमरा स्वर्गिनः शौभा निलिम्पाः सुचिरायुषः । आदित्या आदितेयाः स्युः स्थिरा अदितिनन्दनाः ॥ दिवौकसः स्युर्वसुनास्त्रिदिवेशा दिवौकसः । बह्निमुखा देवयवो दैवतानीह पुंसि वा ॥ आदित्यास्तुषिता विश्वसाध्या भास्वरमारुताः । महाराजिकरुद्राश्च वसवो गणदेवताः ॥ आदित्या द्वादश प्रोक्तास्तुषितास्त्रिंशदेव हि । विश्वे-देवा दश प्रोक्ताः साध्या द्वादश कीर्तिता ॥ आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा ॥ रुद्रा एकादश प्रोक्ता वसवोऽष्टौ समीरिताः । विद्याधराप्सरः सिद्धगन्धर्वयक्षकिन्नराः ॥ रक्षःपिशाचभूताश्च गुह्यका देवयोनयः । असुरे स्युर्दितिसुताः पूर्वदेवाः क्रतुद्विषः ॥ सुरद्विट्-पुघसेन्द्रारि-दनुजेष्टिपचास्थिराः । दैत्यदानवदैतेयसुरारित्रिदशारयः ॥ शुक्रशिष्याः कलिमुखा मायिनः सुरवैरिणः ॥ बृद्धो मुनीन्द्रो भगवान् श्रीघनः सुगतो मुनिः । समन्तभद्रः सर्वज्ञो धर्मचक्रस्तथागतः ॥ षडभिज्ञो धर्मराजोऽद्वयवादी महामुनिः । असमः खसमो मैत्री बलो दशबलो जिनः ॥ ;p{0003} लोकजिन्मारजित् शास्ता स्याद् दशार्णी गुणाकरः । अकणिष्ठस्त्रिशरणो बुधो वज्री विनायकः ॥ वागशनिर्जितारिः स्यादर्हणोऽर्हन् महासुखः । गौतमः शाक्यसिंहः स्यान्मायादेवीसुतः खजित् ॥ शौद्धदनिश्च सर्वार्थसिद्धः शाक्यमुनिश्च सः । अर्कबन्धुः श्वेतकेतुः कूर्मकेतुर्महामुनिः ॥ पञ्चज्ञानः सर्वदर्शी महाबोधिर्महाबलः । बहुक्षयस्त्रिमूर्तिः स्यात् सिद्धार्थः शक इत्यपि ॥ ब्रह्मा स्वयम्भुर्लोकेशो देवदेवः प्रजापतिः । धाता हिरण्यगर्भः स्यात् पद्मगर्भः पितामहः ॥ परमेष्ठी सुरज्येष्ठः स्रष्टा स्याद् गुणसागरः । विधाता द्रुहिणो वेधा विरिञ्चिश्चतुराननः ॥ विरिञ्चो वेदगर्भोऽपि बहुरेताः स्वभूर्विधिः । सन्ध्यारामो सुधावर्षी कृपाद्वैतः खसर्पणः ॥ लोकनाथो महावीर्यः सरोजी कमलासनः । मञ्जुप्राणो नाभिजन्मा बहुरूपो जटाधरः ॥ सनत् शतधृतिः कञ्जः कञ्जजो द्रुघनः प्रभुः । चिन्तामणिः पद्मपाणिर्द्रुघनः स्यात् पुराणगः ॥ अष्टाकर्णो हंसरथः सर्वकर्ता चतुर्मुखः । कृष्णो विष्णुर्वासुदेवो वैकुण्ठः केशवो विधुः ॥ नारायणो हृषीकेशो माधवो गरुडध्वजः । गोविन्दः पुण्डरीकाक्ष उपेन्द्रो विष्टरश्रवाः ॥ दामोदरश्चक्रपाणिः पद्मनाभचतुर्भुजः । दैत्यारिः श्रीहरिः शौरिः कंसारिर्नृहरिर्विभुः ॥ पीताम्बरो मधुरिपुर्मधुभिन्मधुसूदनः । दैवकीनन्दनः कान्तः पुरुषः पुरुषोत्तमः ॥ श्रीगर्भः श्रीकरः श्रीमान् श्रीधरः श्रीनिकेतनः । श्रीकान्तः श्रीपतिः श्रीशः प्रभु श्रीवत्सलाञ्छनः ॥ विश्वक्सेनो बलिध्वंसी वनमाली त्रिविक्रमः । अधोक्षजोऽसुररिपुर्मुकुन्दो मुरलीधरः ॥ जगदीशोऽच्युतः शार्ङ्गी जगन्नाथो गदाधरः । नन्दात्मजः कैटभजिन्नरसिंहो नरायणः ॥ इरेश इन्द्रावरजो गोपालो नन्दनन्दनः । ;p{0004} विश्वम्भरो नरकजित् सोमगर्भो जनार्दनः ॥ अजितः स्याज्जितामित्रः ऋतधामा सनातनः । एकशृङ्गो विश्वरूपः शशबिन्दुः पुनर्वसुः ॥ आदिदेवः श्रीवराहः सहस्रवदनस्त्रिपात् । ऊर्ध्वदेवो हविर्गृध्नुर्यादवोऽरिष्टसूदनः ॥ पूतनारी सदायोगी ध्रुवश्चानूरसूदनः । हेमशङ्खः सदावर्ती कालनेमिरिपुः स्वभूः ॥ धेनुकारिः सोमसिन्धुर्विरिञ्चिर्धरणीधरः । बहुमूर्धा बर्धमानः शतानन्दः वृषान्तकः ॥ मथुरेशो द्वारकेशो रन्तिदेवो वृषाकपिः । वसुदेवः कृष्णपिता शूर आनकदुन्दुभिः ॥ दैवकी कृष्णजननी देवकी देवकात्मजा । रोहिणी रामजननी रोहिनिश्च बलप्रसूः ॥ बलदेवः पुलम्बघ्नो रुक्मिदर्पो हलायुधः । कालिन्दीभेदनः कामः कामपालो मधुप्रियः ॥ नीलाम्बरो हलधरो हलभृत्तालभृद्बलः । तालाङ्कः शीरपाणिः स्यात् सौनन्दी मुषली हली ॥ रेवतीरमणो गुप्तवरः सम्बर्तको बली । सङ्कर्षणो रौहिणेयो बलभद्रोऽच्युताग्रजः ॥ स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः । कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥ रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः । कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥ शम्बरारिर्जवाभीरुर्मधुसारथिरङ्गजः । संकल्पयोनिः पुष्पास्त्रः पुष्पधन्वा मनोभवः ॥ रूपास्त्रः आत्मभूः कार्ष्णिः कुसुमेषुरनन्यजः । नागचूर्णो मनसिजो मनोभूः कुसुमायुधः । शमन्तको विश्वकेतुर्ब्रह्मसूर्मीनकेतनः ॥ इकारः कथितो ह्यत्र काम पर्याय ईरितः । कामपत्नी रागलता कामिः कामकला रतिः ॥ ब्रह्मसूरनिरुद्धः स्याद् विश्वकेतुरूषापतिः । ऊषा प्रीतिजुषा बाणसुताऽनिरुद्धभाविनी ॥ ;p{0005} लक्ष्मीः श्रीरिन्दिरा पद्मा कमला च हरिप्रिया । पद्मालया जलधिजाभार्गवी सा च मा रमा ॥ अस्य शङ्खः पाञ्चजन्यः चक्रञ्चास्य सुदर्शनः । गदा कौमोदकी चास्य कौमोदीत्यपि सा मता ॥ खड्गोऽस्य नन्दको हस्ते मणिरस्य स्यमन्तकः । हृदये कौस्तुभो देवमानकः सुरतोषकः ॥ रुक्मिणी सत्यभामाद्या रमण्यः कमलापतेः । मथुरा मधुरा तस्य पुरी द्वारावती परा ॥ द्वारवती द्वारकापि कामाद्यास्तनया वृथः । रत्नाङ्कः सर्वतोभद्रो दारुकश्चास्य सारथिः ॥ सनकाद्याः पारिषदाः कीर्ताद्या मातरो मताः । गरुडो बज्रतुण्डः स्याद् वैनतेयः सुधाहरः ॥ नागान्तकः स्वर्णपक्षः सुपर्णो हरिवाहनः । पक्षिसिंहो विष्णुरथः कामायुः पन्नगाशनः ॥ द्विजराजः खगपतिस्तार्क्ष्यो भुजगदारणः । काश्यपिर्गजकूर्माशी किराताशी खगेश्वरः ॥ अरुणावरजः कामचारी हरिहरात्मकः ॥ शिनौका उन्नतीशश्च मरुत्वान् सुविवादपि (?) । शाल्मली सुमुखो विणुवाहुगः स्याद् भुजङ्गभुक् ॥ अथ रामो रामचन्द्रः श्रीरामो रघुनन्दनः । रामभद्रः खरध्वंसी दूषणारिः सनातनः ॥ दाशरथिर्दाशरथः कौशल्येयो रघूद्वहः । सुग्रीवेशो बालिहन्ता राघवः कौशिकप्रियः ॥ रावणारिर्मखत्राता सीतायाः पतिरित्यपि । सीतापतिः कपिरथो रघुनाथः कपिप्रभुः ॥ कौशल्यानन्दनः श्रीशः सत्यो दशमुखान्तकः । पिता दशरथश्चास्य भवेत् पङ्क्तिरथोऽपि सः ॥ वैदेही मैथिली भौमी जानकी जनकात्मजा । सीता शीता च भूपुत्री सत्या लक्ष्मीसमाह्वया ॥ सौमित्रिरपि सौमित्रो लक्ष्मणो लक्षणोऽपि च । इन्द्रजिद्विजयी स्यात्तु शत्रुघ्नः शत्रुमर्दनः ॥ ;p{0006} भरतः सत्यसन्धः स्यात् कौशल्या कोशलात्मजा । स्यात् केकयी च कैकेयी कैकयी भरतप्रसूः ॥ शत्रुघ्नजननी मित्रा सुमित्रा लक्ष्मणप्रसूः । रामचन्द्रपुरी सौरी सायोध्योत्तरकोशला ॥ वाहनं रामचन्द्रस्य हनूमान् हनुमानपि । आञ्जनेयो योगचयो मारुतिः पवनात्मजः ॥ हिडिम्बापतिरुद्ग्रीवो रामदूतोऽर्जुनध्वजः । लङ्कादाही मरुत्वान् स्यात् कपीन्द्रो रजतद्युतिः ॥ शिवः पशुपतिः शम्भुरीश ईशान ईश्वरः । शूली च ईश्वरः शर्वः शितिकण्ठस्त्रिलोचनः ॥ गिरीशो गिरिशस्तीव्रः कपर्दी चन्द्रशेखरः । महेश उग्रः श्रीकण्ठः शङ्करः प्रमथाधिपः ॥ भगाली खण्डपरशुः खण्डपर्शुर्वृषध्वजः । पञ्चाननो महादेवः कण्ठेकालो दिगम्बरः ॥ गङ्गाधरो वामदेवः क्रतुध्वंसी महानटः । लेलिहानो भवभीरुर्भीषणो भैरवो भवः ॥ भीमः कङ्कालमाली च देवदेवो जटाधरः । व्योमदेवः सिद्धदेवो धूर्जटिर्धरणीश्वरः ॥ कृशानुरेता विश्वेशः सर्वज्ञो नीललोहितः । रुद्रः स्थाणुः स्मरहरो जयन्तस्त्रिपुरान्तकः ॥ बहुरूपः कृत्तिवासाः सन्ध्यानाटी कपालभृत् । मृत्युञ्जयः सुप्रसादः कालकण्ठो कृषाकपिः ॥ चन्द्रापीडः शूलधरो वृषाङ्को वृषभध्वजः । शिविपिष्टो भूतनाथः शिपिविष्टो वरेश्वरः ॥ विश्वेश्वरो विश्वनाथः काशीनाथः कुलेश्वरः । अस्थिमाली विशालाक्षो हिण्डीप्रियस्तमोहरः ॥ विषमाक्षो विरुपाक्षो भद्रः स्यात् पांशुचन्दनः । ऊर्ध्वरेता महाकालः शूलपाणिर्यमान्तकः ॥ वृषपर्वाऽन्धकरिपुर्नन्दीश्वर उमापतिः । स्यादष्टमूर्तिरघीशो भूतेशः खेचरो मृडः ॥ भृङ्गीशश्चार्धनारीशः पिनाकी रसनायकः । ;p{0007} कपर्दोऽस्य जटा शम्भोः पिनाकः स्यात् शरासनम् ॥ अजगावमाजगावं तत्स्यादजगवं त्रिधा । अजकावमिति प्रायस्त्रिधा न बहुसम्मतम् ॥ महेशस्य पारिषदाः प्रमथाः पशवो गणाः । मातरस्त्वस्य कथिताः शब्दशास्त्रानुसारतः ॥ ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । कौमारी स्यात्तु चामुण्डा काली च शिवदूतिका ॥ अस्याङ्गभूषणं भस्म विभूतिर्भूतिरस्य तु । ऐश्वर्यमणिमाद्यष्टसिद्धयः सर्वसाधिकाः ॥ अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशिता वशिता चैव तथा कामावसायिता ॥ अस्यैव हस्ते खट्वाङ्गं पांशुलं वाहनं वृषः । अजकीव आजकावो दक्षौ हरिहरात्मकः ॥ स्यातामस्य द्वारपालौ सुप्रीतौ भृङ्गिनन्दिनौ । नाडीस्नेहो भृङ्गवीटिर्भृङ्गी भृङ्गविटः शलः ॥ अस्थिविग्रह इत्येष भार्ङ्गपर्याय ईरितः ॥ नन्दी ताण्डवताली स्याद् महाकालो वृषाणकः ॥ महाभीमो महाकालो नन्दिर्लङ्कामनोऽपि च । नन्दिकेश्वर इत्येष नन्दिपर्याय ईरितः ॥ दुर्गा भवानी रुद्राणी शर्वाणी शारदाम्बिका । चण्डी चण्डवती चण्डा चण्डिका चण्डनायिका ॥ मृडाणी गिरिजा काली मङ्गला सर्वमङ्गला । नारायणी महामाया पार्वती वैष्णवी शिवा ॥ माहेश्वरी महादेवी हिण्डी हैमवतीश्वरी । ईश्वरा कोट्टवी षष्ठी माधवी गणनन्दिनी ॥ जयन्ती भार्गवी रम्भा गौरी सिंहरथा सती । अपर्णा भ्रामरी दक्षकन्या महिषमर्दिनी ॥ उमा हेरम्बजननी सावित्री कृष्णपिङ्गला । वृषाकपायी लम्वा स्यात् सर्वाणी हिमशैलजा ॥ कार्तिकेयप्रसूराद्या नित्या विद्या शुभङ्करी । सात्त्विकी राजसी भीमा तामसी नन्दनन्दिनी ॥ महामारी शूलधरा सुनन्दा शुम्भघातिनी । ;p{0008} अस्याः सखी च विजया जया च परिकीर्तिता ॥ गणनाथो गणपतिर्गणेशो गणनायकः । लम्बोदरः करिमुखो हेरम्बो मूषिकाञ्चनः । एकदन्तः पुष्टिकान्तो गजदन्तो गजाननः ॥ द्विदेहो गिरिशृङ्गः स्याद् विधातुः शम्भुनन्दनः ॥ द्वैमातुरो विघ्नराजो विघ्नेशो विघ्ननाशनः । एकदंष्ट्रो विघ्नहारी वज्रतुण्डो गणाग्रणीः ॥ कार्तिकेयः सिद्धसेनः पार्वतीनन्दनो गुहः । महासेनस्तारकजित् कुमारः शिखिवाहनः ॥ देवसेनापतिः शम्भुतनयः क्रौञ्चदारणः । अग्निभूर्बाहुलेयः स्याद् बालचर्यः षडाननः ॥ स्कन्दो विशाखः सेनानीः स्वामी द्वादशलोचनः । कृकवाकुध्वजः शक्तिधरः षाण्मातुरः स्थिरः । शरजन्मा महाबाहुर्युद्धरङ्गः शिखिध्वजः ॥ इन्द्रः सुरपतिः शक्रो मरुत्वान् मेघवाहनः । शतमन्युः सुनासीरो वज्रपाणिः पुरन्दरः ॥ विश्वम्भरः सहस्राक्षो देवराजः शचीपतिः । जम्भभेदी पर्वतारिर्बलारातिर्दिवस्पतिः ॥ संक्रन्दनो हरिहयः सुत्रामा गोत्रभिद् वृषा । पर्जन्यः कौशिकः स्वाराट् मघवा पाकशासनः ॥ बृद्धश्रवाः शतधृतिर्विडौजा देवताधिपः । लेखर्षभो नाकनाथ ऋभुक्षा पूर्वदिक्पतिः ॥ बास्तोष्पतिः पुलोमारिर्वज्री नमूचीसूदनः । अर्हः प्राचीनबर्हाः स्याद् वृत्रहाऽऽखण्डलो हरिः ॥ पृतनाषाट् दुश्च्यवनस्तपस्तङ्कः शतक्रतुः । शची पुलोमजेन्द्राणी माहेन्द्री जयवाहिनी ॥ ऐन्द्री शताबरी च स्यादियमिन्द्रस्य भाविनी । महेन्द्रनगरी सा स्यादमराप्यमरावती ॥ पूषभाषा सुरपुरी तस्य श्वेतहयो हयः । उच्चैःश्रवा वृषणाश्वः सारथिस्तस्य मातलिः ॥ अस्योद्यानं कन्दसारं नन्दनमिन्द्रकाननम् । ;p{0009} प्रासादो वैजयन्तोऽस्य पुत्रः स्यात् पाकशासनिः ॥ जयो जयन्तो जयनित्यस्य कन्या च ताविषी । जयन्ती देवसेना च मातङ्गोऽभ्रमुवल्लभः ॥ ऐरावतः सदादानः सुदामा श्वेतकुञ्जरः । ऐरावणोऽभ्रमातङ्गो हस्तिमल्लो गजाग्रणीः ॥ नागमल्लश्चतुर्दन्तो मल्लनागोऽस्य चायुधम् । शतकोटिः पविः शम्वो दम्भलिर्गविकण्ठकः ॥ अस्त्रियौ वज्रकुलिशौ भिदुरं भिदिकञ्च गौः । द्वयोरशनिरभ्रोत्थं मेघभूतिर्गिरिज्वरः ॥ व्योमयानं दिव्यरथो विमानोऽस्त्री सुभद्रकम् । देवर्षयो नारदाद्याः सभा देवसभा शुभा ॥ सुधर्मा च सुधर्मा स्यादमृतं निर्जरं सुधा । पीयूषमपि पेयूषं समुद्र-नवनीतकम् ॥ स्वर्णदी स्याद् वियद्गङ्गा स्वर्गङ्गा सुरदीर्घिका । मन्दाकिनी देवभूतिः स्वर्णपद्मा सुरेश्वरी ॥ सुमेरौ मेरुहेमाद्रि-रत्नसानु-सुरालयाः । पारिजातश्च मन्दारः सन्तानः कल्पवृक्षकः ॥ हरिचन्दनमस्त्री स्यात् पञ्च देवमहीरुहाः । एतेषां कल्पवृक्षत्वं पञ्चासी बहुसम्मतम् ॥ वैधात्रो धातृपुत्रः स्यात् सनत्कुमार इत्यपि । स्वर्वैद्यावश्विनौ दस्रौ नासत्यौ पुष्करस्रजौ ॥ आश्विनेयौ च नासिक्यौ तावुभावश्विनीसुतौ । स्वर्वेश्या उर्वशी रम्भा मेनका च तिलोत्तमा ॥ स्पर्शा नन्दा रतिमदा सुखदा मदनोत्सवा । इत्याद्या बहवस्ताश्च बहुष्वप्सरसः स्त्रियाम् ॥ अप्सरेत्यपि केषाञ्चिन्मतं न बहुसम्मतम् । हाहा-हूहूप्रभृतयो गन्धर्वा दिव्यगायनाः । हाहा हाहाश्चासन्तन्तु त्रिविधा बहुसम्मताः ॥ हूहूर्हुहुश्च द्विविधो हूहुहुहूश्च कुत्रचित् । हाहाहूहूश्चित्ररथो वाह्लीकः पुष्पदन्तकः ॥ इत्येवमादिगन्धर्वो गान्धर्वोऽपि निगद्यते । ;p{0010} अग्निर्वायुरथो वह्निः कृष्णवर्त्मा विभावसुः ॥ शोचिष्केशो बृहद्भानुः सप्तजिह्वो हुताशनः । आश्रयाशश्चित्रभानुर्विश्वप्सा हव्यवाहनः ॥ धूमध्वजो धूमकेतुः सप्तार्चिर्धूमकेतनः । बहुलो बाहुलः शुक्रः पिङ्गलो मन्त्रदीधितिः ॥ हवनायुर्जुहूवानः स्यात् शिखावानिशिवः शुचिः । बर्हिःशुष्मा बर्हिःशुष्मा वीतिहोत्रो धनञ्जयः ॥ उदर्चिरपि सप्तार्चिः पावनः पावकोऽनलः । हिरण्यरेताः हव्याशो हुताशो हुतभुक् शिखी ॥ कृपीटयोनिर्दहनो धनदायी प्रभाकरः । जलपित्तमपांपित्तमप्पित्तमाशुशुक्षणिः ॥ दमुना दमूना ज्योतिर्ज्वलनश्च्छागवाहनः । अग्निहोत्रो नाचिकेतुर्वर्द्धनिः स्याद् विभाकरः ॥ उषर्बुधश्च धनदो वसुप्राणस्तनूनपात् । स्याद्वाडवाग्निः कर्ककश्च पातालवडवामुखः ॥ वडवानल ऊर्वः स्यात् सलिलेन्धन इत्यपि । दवाग्निरपि दावाग्निर्दावानल इतीरितः ॥ त्रिषु स्फुलिङ्गोऽग्निकणे तापे संतापसंज्वरौ । ज्वालायाञ्च द्वयोर्ज्वालकीलौ तस्य शिखास्वपि ॥ अर्चिर्हेतिः शिखा स्त्री स्यादथोल्का झिङ्गिनीति च । धूमो भस्तो मरुद्वाहः कचमालः शिखिध्वजः ॥ खतमालो मेघयोनिर्घननाभिर्नभोलयः । अथ वह्निवधूः स्वाहा अग्नायी हुतभुक्प्रिया ॥ यमः पितृपतिर्धर्मो धर्मराजश्च धर्मराट् । जीवितेशः श्राद्धदेवः कृतान्तो महिषध्वजः ॥ औडुम्बरो दण्डधरो दण्डधारः परेतराट् । कीलाशो यमुनाभ्राता दध्नो महिषवाहनः ॥ समवर्ती शीर्णपादः शमनो भीमनाशनः । कालोऽन्तकोऽपि यमराट् कङ्को वैवस्वतो हरिः ॥ धूमोर्णा यमपत्नी स्यात् चित्रगुप्तश्च लेखकः । अथ चण्ड-महाचण्डौ यमानुचरकिङ्करौ ॥ ;p{0011} पुरी संयमनी तस्य कणीची च सभा मता । पञ्जिकास्याप्रसन्धानी नदी वैतरणी पुरः ॥ राक्षसः कर्बुरः क्रव्यात् क्रव्यादो निकषात्मजः । सन्ध्याबलः पुण्यजनः क्षपाटो रजनीचरः ॥ कीलालपो घातुधानो नृचक्षा आशरोऽस्रपः । नक्तञ्चरो रात्रिचरो रात्रिञ्चर-पलाशिनौ ॥ पलाशः कर्वुरो यातुरक्षसी भूतनैऋतौ । वरुणो जम्बुकः पाशी मेघनादो जलेश्वरः ॥ परञ्जयो दैत्यदेवः प्रचेता यादसांपतिः । अप्पतिर्जीवनावासो नन्दपालश्च वः स्मृतः ॥ वायुर्गन्धवहो गन्धवाहः स्पर्शनमारुतौ । जगत्प्राणोऽजगत्प्राणः प्रभञ्जनसमीरणौ ॥ पृषदश्वो मातरिश्वा समीरः पवनानिलौ । खश्वास आशुगो बाहो धूलिध्वजः फणिप्रियः । मरुत्वातिर्नभः प्राणो भोगिकान्तः सदागतिः ॥ नभस्वान् श्वसनो वातः पवमानः स्वकम्पकः । अक्षतिः कम्पलक्ष्मा च श्वसी निश्वावको हरिः ॥ हृदि प्राणो गुदेऽपानः समानो नाभिदेशके । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ॥ एते पञ्च शरीरस्था वायवः परिकीर्तिताः । वेगः स्यदो जवो रंहस्तरसी रय इत्यपि ॥ शीघ्रं तूर्णं द्रुतं क्षिप्रं चपलं लघु सत्वरम् । अरं त्वरितमाशु स्यादविलम्बितमित्यपि ॥ अव्ययः सप्त चैवान्ये शब्दाः स्युः शीघ्रवाचकाः । अञ्जसाऽह्णाय झटिति मङ्क्षु स्राक् द्राक् सपद्यपि ॥ सततं सन्तताश्रान्तं नित्यानवरतानिशम् । अनारतञ्चाविरतमजस्रं नित्यमित्यपि ॥ अतिवेलं भृशं गाठं प्रगाढं सुदृढं दृढम् । ;p{0012} उद्गाढं वाढमत्यर्थं सुभृशं भृशमित्यपि ॥ तीव्रं निर्भरमेकान्तं नितान्तमतिशायनम् । भरश्चातिशयो वाढं भृशं स्यान्मान्तरमव्ययम् ॥ क्लीबे शीघ्रादयोऽसत्त्वे त्रिष्वेते सत्त्वगामिनः । कुवेरो यक्षराजः स्यात् पौलस्त्यो गुह्यकेश्वरः ॥ राजराजः किन्नरेशः स्त्रिशिरा नरवाहनः । मनुष्यधर्मा सौरभ्यः श्रीदः पुण्यजनेश्वरः ॥ एकलिङ्गो रत्नगर्भो धनकेलिर्धनाधिपः । निधिनाथो वैश्रवणो यक्षराट् सत्यसङ्गरः ॥ अलकाधिपतिर्यस्कः श्वेतोदरो धनेश्वरः । धनदस्त्र्याम्बकसखो मयुराज-पिशाचिनौ ॥ कुवेरपत्नी यक्षी स्याद् यक्षिणीत्यपि सा मता । नलकूवर-मणिग्रीवौ कुवेरतनयावुभौ ॥ वसतिस्तस्य कैलासः पुरी स्यादलकप्रभा । अलका च विमाणोऽस्य पुष्यकं रत्नवर्षुकम् ॥ किन्नरः स्यात् किंपुरुषो मयुरश्वमुखोऽपि च । तुरङ्गवदनो गीतमोदी हरिणनर्तकः ॥ शेवधिर्ना निधिः पुंसि निधानन्तु नपुंसकम् । पद्म-शङ्खौ महापद्म-मकरौ खर्व-कच्छपौ ॥ नीलो मुकुन्द-नन्दौ च निधिभेदा अमी नव । अन्तरीक्षमन्तरिक्षमभ्रं गगणमम्बरम् ॥ सुरवर्त्म मरुद्वर्त्म मेघवर्त्म वियन्नभः । द्वे स्त्रियौ द्यो-दिवौ वा तु पुंस्याकाश-विहायसी ॥ नाक-विष्णुपद-व्योम-नभं पुस्करमक्षरम् । विहायसमनङ्गञ्च खमनन्तत्रिपिष्टपम् ॥ दिक् दिशा स्यात् ककुप् काष्ठा ककुभा हरिता हरित् । आशा गौरिति शब्दाः स्युः स्त्रियां दिग्वाचका अमी ॥ दिग्भवं सर्वमेव स्यात् दिथ्यं त्रिषु निगद्यते । महेन्द्रोऽग्निर्धर्मराजो निर्ऋतिर्वरुणोऽनिलः ॥ धनेश ईशः पूर्वादिक्रमादष्टौ दिगीश्वराः । ;p{0013} ऐरावत-पुण्डरीक-वामन-कुमुदाञ्जनाः ॥ पुष्पदन्त-सार्वभौम-सुप्रतीकास्त्वेते दिक्करिणो मताः । करिण्यभ्रमु-कपिला-पिङ्गलाऽनुपमाः क्रमात् ॥ ताम्रकर्णी-शुभ्रदन्ती चाङ्गना चाञ्जनावती । मध्येदिशो रूपदिशं विदिशञ्च विदिक् स्त्रियाम् ॥ अभ्यन्तरञ्च सर्वासामन्तरालं तदुच्यते । दिङ्मण्डलं चक्रवाडं चक्रवालमपीष्यते ॥ अब्जमभ्रं वारिवाहो घनो मेघः पयोधरः । अम्भोधरो व्योमधूमो धूमयोनिर्घनाघनः ॥ धाराधरो वायुदारुः स्तनयित्नुर्नभश्चरः । मुदिरः कन्दरः कन्द्यो नीरदो गगणध्वजः ॥ जलमुक् वारिमुक् वार्मुक् वनमुक् वारिदोऽम्बुभृत् । अब्दस्तडित्वान् जीमूतः पर्जन्यः स्यान्नभोगजः ॥ मदयित्नुः कदः कन्दो गवेडुश्च गदामरः । खतमालो वातरथः श्वेतनीलो बलाहकः ॥ नागो जलकरङ्कः स्यात् पेचको भेक इत्यपि । दर्दुरो मेघनामेति क्वचित् केचित् प्रचक्षते ॥ कादम्बिनी च काली च मेघमाला च कालिका । मेघस्योपरि यो मेघः स ऐरावत उच्यते ॥ मेघशब्दे तु रसितं स्तनितं गर्जितादि च । विद्युत् क्षणप्रभा शम्पा चपला चञ्चला तडित् ॥ सौदामन्यपि सौदाम्नी वीपा स्यात् चिलमीलिका । सर्जुः शतह्रदा ह्रादिन्यैरावत्यचिरप्रभा ॥ सौदामिन्यस्थिरा मेघप्रभा चाशनिरित्यपि । स्फुर्जथुर्वज्रनिष्पेषो वज्रशब्दे भवेद् द्वयम् ॥ मेघदीप्तौ घनज्वालो मेघज्योतिरिरम्मदः । इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि ॥ ऐरावतं रौहितं स्यादवक्रं यदि तद्धनुः । वृष्टिर्वर्षं वर्षणञ्च गोघृतञ्च परामृतम् ॥ अथ वृष्टिविघातेऽवग्राहोऽवग्रह इत्यपि । ;p{0014} वृष्टिधाराभिसम्पात आसारः परिकीर्तितः । धारासम्पात आशारस्त्रितयञ्चापि कुत्रचित् ॥ शीकराः शीभरास्ते स्युः सृताश्चाम्बुकणास्तु ये । वीजोदकं घनकफो मेघास्थीराचरंकरः ॥ करकः करका चेति सप्तवृष्टिशिलाह्वये । मेघच्छन्नदिनं यत्तु दुदिनं वार्दलञ्च तत् । आच्छादनञ्च च्छदनमन्तर्धानं पिधानवत् ॥ अन्तर्धिर्व्यवधिः पुंसि त्वन्तर्धा व्यवधा स्त्रियाम् । अपिधानं तिरोधानं च्छादनं चापवारणम् ॥ चन्द्रो हिमांशुः शुभ्रांशुः सुधांशुर्मृगलाञ्छनः । मृगाङ्कश्चन्द्रमा इन्दुरब्जः कुमुदबान्धवः ॥ ओषधीशो दर्शविपत् तारापीडः कलानिधिः । विधुर्जैवातृको राजा ग्लौः शशाङ्को निशापतिः ॥ च्छायामृगधरः सोमो ग्रहनेमिस्तिथिप्रणीः ॥ दाक्षायणीपतिर्लक्ष्मीसहजो रजनीकरः । सुधाकरः सुधाधारः शीतभानुस्तमोहरः ॥ नक्षत्रेशो रोहिणीशस्तुषारकिरणो हरिः । हिमद्युतिर्द्विजपतिर्विश्वप्साऽमृतदीधितिः ॥ हरिणाङ्कः शशधरो दशाश्वो रोहिणीपतिः । हरचूडामणिः सिन्धुनन्दनः श्वेतवाहनः ॥ तमोनुदेसातिलकः कुमुदेशः क्षपाकरः । क्षीरोदनन्दनः कान्तः कलावान् यामिनीपतिः ॥ उडुपश्चन्दिरः सिप्रो मृगपिप्लुः सुधानिधिः । तुङ्गीशो माः पक्षजन्मा चन्दोऽब्धि-नवनीतकः ॥ स्यात् पीयूषमहाः शीतमरीचिरपि शीतलः । कौमुदी चन्द्रिका ज्योत्स्ना चन्द्रज्योत्स्ना निगद्यते ॥ प्रसन्नता प्रसादस्तु प्रसन्नर्धे (?) हि सर्वतः । लाञ्छनं लक्ष्मणं लक्ष्म चिह्णं लक्षणमित्यपि ॥ कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः । ;p{0015} अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता । शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥ श्रीर्भासाभाश्च सान्तोऽयमादन्तोऽपि च कुत्रचित् । निहारोऽपि च नीहारः प्रालेयं तुहिनं हिमम् । अवश्यायस्तुषारः स्यान्मिहिका महिकापि च ॥ अवश्या धूममहिषी नभोरेणुश्च धूमिका । स्यात् कुज्झटिः कुज्झटिका कुज्झटी च कुहेलिका ॥ द्रुहा इति समाख्यातः पर्यायो हिमभेदके । महद्धिमं हिमानी तु हिमसंहतिरित्यपि ॥ शीतं गुणे तद्वदर्थाः सन्त्येते वाच्यलिङ्गकाः । सुषीमः शीतलः शीतस्तुषारः शिशिरो हिमम् ॥ जड इत्येष पर्यायः शीतलस्य निगद्यते । अथ ध्रुवो ग्रहाधार औत्तानपादिरित्यपि ॥ अगस्त्यः कुटजोऽगस्तिराकालः कुम्भसम्भवः । स्यान्मैत्रावरुणिर्मैत्रावरुणः कलसीसुतः ॥ समुद्रचुलुको विन्ध्यकूटो वातापिसूदनः । और्वशीयश्च सर्वाग्निर्दीप्ताग्निराग्निमारुतिः ॥ लोपमुद्रा च वैदर्भी लोपामुद्रास्य भाविनी । कौशीतकी तरणिकात्रमित्यपि (?) च कुत्रचित् ॥ तारकं तारका तारा नक्षत्रमुडु वा स्त्रियाम् । भमृक्षं ज्योतिधिष्ण्यञ्च तारमित्यपि कुत्रचित् ॥ अश्विन्यादिकताराः स्युर्दाक्षायण्य इतीरिताः । अश्विनी अश्वयुक् ख्याता भरणी भरणिस्तथा ॥ कृत्तिका कृत्तिरप्युक्ता रोहिणी चापि रोहिणिः । राधा विशाखा विज्ञेया पुष्यायां पुष्य इत्यपि । सिध्यस्तिर्ष्याऽपि च भवेत् श्रवणा श्रवणं श्रुतिः ॥ श्रविष्ठा च धनिष्ठासु धनिष्ठायामपीरिता । अथ शतभिषायाञ्च ज्ञेया शतभिषग् बुधैः ॥ आषाढोऽपि तथाषाढा स्यात् पूर्वोत्तरयोरपि । स्त्रियः प्रोष्ठपदा भद्रपदा भाद्रपदा त्रये ॥ ;p{0016} मृगशीर्षं मृगशिरस्तथा मृगशिरापि च । मृगशीर्षशिरोदेशे तारकाया वसन्ति हि ॥ इल्वला इल्वकास्तास्युरिल्वुला इति कुत्रचित् । बृहस्पतिः सुरगुरुः जीवश्चित्रशिखण्डिजः ॥ वाचस्पतिः सुराचार्यो वाक्पतिर्वचसाम्पतिः । उतथ्यानुज इन्द्रेज्यो देवेज्यो बृहतीपतिः ॥ गिरीश इज्यो वागीशश्चक्षा आङ्गिरसो गुरुः । दीदिविर्द्वाशकरः प्राक् फाल्गुणश्च गीरथः ॥ शुक्रः सितो दैत्यगुरुः कविर्भार्गव आस्फुजित् । उशना शतपर्वेशः काव्यो भृगुसुतो भृगुः ॥ षोडशार्चिर्मघाभूश्च श्वेतः श्वेतरथोऽपि च । मङ्गलोऽङ्गारको भौमः कुजो बक्रः महीसुतः ॥ वर्षार्चिर्लोहिताङ्गश्च खोन्मुखः स्याद् ऋणान्तकः । बुधः सौम्यो रौहिणेयो राजपुत्रः प्रहर्षणः ॥ स्यादिन्दुपुत्रः पत्राग्निरेकाङ्गोज्ञश्च बोधनः । शनिः शनैश्वरः सौरिः पातङ्गिर्ग्रहनायकः ॥ च्छायासुतो भास्करिश्च मन्दो नीलाम्बरोऽपि च । राहुरभ्रपिशाचः स्याद् ग्रहकल्लोल-सैंहिकौ ॥ उपप्लवः सैंहिकेयस्तमः स्वर्भानु-शीर्षकौ ॥ विधुन्तुदोपरागौ च सिंहिकासूनुरित्यपि । केतुर्ज्योतीरथोऽपि स्यादश्लेषाभव आंहिकः ॥ उपप्लवश्च विकचः शिखावांश्च शिखीत्यपि । मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वशिष्ठश्चेति विख्याता इमे सप्तर्षयः क्रमात् ॥ ख्यातास्त एव लोकेषु सर्वे चित्रशिखण्डिनः । होरा लग्नश्च राशीनामुदयः समुदाहृतः ॥ मेषो वृषश्च मिथुनं कर्कटः सिंह एव च । कन्या तुला वृश्चिकश्च धनुर्मकर इत्यपि ॥ कुम्भो मीन इति प्रोक्ताः क्रमाद् द्वादशराशयः ॥ ;p{0017} सूर्यः सूरोऽर्घमादित्यः शूरो भानुर्विभावसुः । दिवाकरो द्वादशात्मा विवस्वान् भास्करोऽरुणः ॥ उष्णरश्मिश्चित्रभानुर्भगो मित्रः प्रभाकरः । ब्रध्नो बृध्नः सहस्रांशुः पद्मिनीवल्लभो हरिः ॥ हंसो भास्वान् दिनमणिर्द्युमणिस्तरणी रविः । चण्डांशुरर्को मार्तण्डः सप्तसप्तिर्गभस्तिमान् ॥ अंशुमाली काश्यपेयः सप्तास्यो मिहिरः खगः । सविताऽहस्करः पुषा भानुमान् लोकलोचनः ॥ अहर्पतिर्ग्रहपतिः पद्मबन्धुर्विरोचनः । ज्योतिष्मानव्यथेशस्तु तपनस्तापनोऽपि च ॥ त्विषांपतिश्चित्ररथः खमणिः स्याद्दिवामणिः । गभस्तिहस्तो र्होलः स्यात् पतङ्गोऽर्चिदिनप्रणीः ॥ वेदोदयः कालकृतो ग्रहराजस्तमोनुदः । विकर्तनो रसाधारो हरिदश्वो विभाकरः ॥ प्रतिदिवा प्रतिदिवो ज्योतिः पीथ इनोऽपि च । एते सूर्यस्य पार्श्वस्था दण्डपिङ्गलमाठरा । अरुणः काश्यपिः सूरसूतोऽनूरुस्तथाश्मनः ॥ गरुडाग्रजो तार्क्ष्यश्च सूर्यसारथिरित्यपि । अथ च्छाया च संज्ञा च सूर्यस्य वनिताद्वयम् । च्छाया स्यान्मन्दजननी सवर्णा भूमयीत्यपि ॥ संज्ञा तु यमकालिन्दीमाता सूर्या सुवर्चला । विश्वकर्मसुता स्वातिः सुवेनुर्द्युमयीति च ॥ परिधिः स्यात् परिवेशः मण्डलमुपसूर्यकम् । किरणांशुमयुखोस्रघृणिधृष्णिगभस्तयः ॥ स्त्रीपुंसयोर्मरीचिस्त्विड्दीधितिद्युतयः स्त्रियाम् । आभाप्रभाविभाभारुग्रुचिभाश्छविदीप्तयः ॥ रश्मिर्भानुः करोऽभीषुर्महो ज्योतिर्महोऽपि च । तथा रोचिः शोचित्विषी त्विषा पृश्निरपि स्त्रियाम् ॥ अन्धकारोपशमे रश्मिकार्ये त्रयं भवेत् । प्रकाश आतपो द्योतो रश्मिनामेति कुत्रचित् ॥ कवोष्णं कोष्णं मन्दोष्णं कदुष्ण तद्वति त्रिषु । ;p{0018} तीक्ष्मं तिग्मं खरं चण्डममूनि त्रिषु तद्वति ॥ मृगतृष्णा मृगतृषा मृगतृट् स्यान्मरीचिका । कालः स्वयम्भूः समयस्त्वनेहा दिष्ट इत्यपि ॥ प्रतिपत् पक्षती स्त्री द्वे तदाद्यास्तिथयो द्वयोः । पुंनपुंसकयोर्वारदिवसांशकवासराः ॥ घस्रो दिवाव्ययं व्युष्टमंशकं क्लीबमित्यपि । प्रभातं गोस-गोसंज्ञौ प्रत्यूषप्रत्यूषे अपि ॥ प्रत्यूष उषसी ऊषः प्रत्युषं कल्यमूषकम् । अहर्मुखमुषापयूषा निशान्तञ्च विभातवत् ॥ सायो दिनान्तः सायाह्णो विकालः सायमित्यपि । सन्ध्या पितृप्रसूः सन्ध्या स्याद् ब्रह्मभूतिरित्यपि ॥ त्रिसन्ध्यं प्राङ्क्षु मध्याह्णापराह्णैः परिकीर्तितम् । रात्रिर्विभावरी श्यामा घोरा याम्या तमस्विनी ॥ तुङ्गी त्रियामा क्षणदा निशा नक्तं निशीथिनी । रजनी यामिनी दोषा वासतेयी तमी तमा ॥ क्षपा शताक्षी क्षणिनी निशीथ्या चक्रभेदिनी । शर्वरी शार्वरी शय्या वासुरा च निषद्वरी ॥ ऊषा यामवती भौती निट् क्षिपा नक्तमव्ययम् । यस्यां मत्तालिनिस्वानः श्वनिशंश्व (?) निशा च सा ॥ अथ सा तामसी या स्यात्तमोयुक्ता विभावरी । ज्योत्स्नी ज्योत्स्ना ज्योत्स्निका सा भवेत् ज्योत्स्नान्विता निशा ॥ गणरात्रं निशाबृन्दे प्रदोषो रजनीमुखे । अर्धरात्रौ निसम्पातो निशीथोऽवसरालयः ॥ उच्चन्द्रोऽपररावस्तु शेषरात्रौ भवेद् द्वयम् । द्वौ यामप्रहरौ पुंसि भूतः कृष्णाचतुर्दशी ॥ पक्षान्तप्रतिपन्मध्ये पर्वसन्धिर्भवेत् पुमान् । अमावास्या पौर्णमासी द्वयं पञ्चदशी किल ॥ अत्रैव पुंसि पक्षान्तः पक्षावसर इत्यपि । अमावास्याऽप्यमावस्या तथैवामावसीति च ॥ अमावासी च दर्शः स्यादमासूर्येन्दुसङ्गमः । यत्र चन्द्रकला दृष्ट्वा सिनीबालीति सा स्मृता ॥ नष्टचन्द्रकला सैव कुहूः कुहुरुदाहृता । ;p{0019} दीपान्विता च दीपाली दीपमालान्विता हि सा ॥ पूर्णिमा पूर्णमा चान्द्री पौर्णमासी च पौर्णमी । पुण्यसारा पर्वमुखी धर्मवासर इत्यपि ॥ शारदी कौमुदी चाश्वयुजी स्याद् द्यूतपूर्णिमा । शतपर्वा रङ्गभूतिः सैव कोजागराह्वया ॥ कलापूर्णे विधौ राका हीने चानुमतिर्मता । उपरागग्रहौ चन्द्रसूर्यग्रहणनामकौ ॥ राहुग्रासयुते चण्डभानौ हिमकरेऽपि च । सोपप्लवोपरक्तौ द्वावौपग्रस्तिक इत्यपि ॥ अग्नेरुत्पातयोगे स्यादग्न्युत्पात उपाहितः । एकयोक्तया पुष्पवन्तौ चन्द्रभानुसुधाकरौ ॥ व्यञ्जनान्तमदन्तञ्च शब्दमेतद् द्विधा जगुः । पक्ष्मस्पन्दनकाले तु निमेषो निमिषोऽपि च ॥ तैरष्टादशभिः काष्ठा काष्ठात्रिंशत् कला स्मृता । कलास्त्रिंशत्क्षणः ते तु मुहूर्तो द्वादशक्षणाः ॥ मुहूर्ताणि त्रिंशदेवमहोरात्रः समीरितः ॥ अहोरात्राः पञ्चदश पक्ष इत्यभिधीयते ॥ पक्षः पूर्वोऽपरश्चापि शुक्लः कृष्ण इति द्वयम् । पक्षद्वयेन मासः स्यान्मासश्च वर्षांश इत्यपि ॥ मासाश्चतुर्विधाश्चान्द्रसौरनाक्षत्रसावनाः । शुक्लप्रतिपदादिस्तु दर्शान्तश्चान्द्र उच्यते ॥ एकराशौ रविर्यावत् सौरमास स ईरितः । नक्षत्रगणनेनैव नाक्षत्रिक उदाहृतः ॥ त्रिंशता दिवसैरेव सावनः परिकीर्तितः । चान्द्रोऽपि द्विविधो ज्ञेयो गौणमुख्यविभेदतः ॥ गौणः कृष्णप्रतिपदादिः पौर्णमास्यन्त ईरितः । मुख्यस्तु पूर्वमेवोक्तः सर्वत्र व्यापको हि सः ॥ एवं मासादिगदितगणनाक्रमयोगतः । अविशेषान्मुख्यस्थानं विद्वद्भिर्योजयिष्यते ॥ अथ षड्भिः सौरमासैरयनं परिकीर्तितम् । अयने द्वे चन्द्रभानोरुत्तरा दक्षिणा गतिः ॥ ;p{0020} भवेदुत्तरया गत्या मकरे चोत्तरायणम् । गत्या दक्षिणया चैव कर्कटे दक्षिणायणम् ॥ रात्रिन्दिवं समं यत्र काले तद् विषुवद् भवेत् । विषुवं विषुपं विष्वग् विश्वगित्यपि कुत्रचित् । महाविषुवमाख्यातं कृतिभिश्चैत्रचिह्णितम् ॥ विषुवाभ्यां वत्सरः स्यादिति शब्दविदां मतम् । तथा स्याज्जलविषुवं क्रमादाश्विनचिह्णितम् ॥ विशाखा तारकायुक्ता वैशाखीपूर्णिमा भवेत् । सा वैशाखी यत्र मासे वैशाखः स प्रकीर्तितः ॥ ज्येष्ठायुक्ता पौर्णमासी ज्यैष्ठीमासे तु यत्र सा । स मासो ज्यैष्ठ इत्येवाषाटाद्या दशापरे ॥ तथाग्रहायणे मार्ग आग्रहायणिकः सहः । मार्गशीर्षः सहामार्गशिरोऽग्रहायणोऽपि च ॥ पौषे तैष सहस्यश्च तिष्यः तिष्यक इत्यपि । विद्वद्भिः कथितः सर्वैर्माघे च मकरस्तपाः ॥ फाल्गुने स्यात् फाल्गुनिकस्तपस्यः फल्गुनोऽपि च । चैत्रे मधुश्चैत्रिकः स्यात् चैत्रकश्चित्रकोऽपि च ॥ वैशाखे माधवो राधो ज्यैष्ठे ज्येष्ठश्च शुक्रवत् । भवेदाषाट आसाटोऽप्यषाटः शुचिरित्यपि ॥ श्रावणः स्यात् श्रावणिकः नभाश्च नभ इत्यपि । स्यान्नभस्यः प्रोष्ठपदो भाद्रो भद्रपदस्तथा ॥ आश्विनः स्यादश्वयुज इष आश्वयुजोऽश्वयुक् । कार्त्तिकः स्यात् कार्त्तिकिको बाहुलोर्जौ च कौमुदः ॥ हेमन्तः शिशिरश्चैव वसन्तो ग्रीष्म एव च । वर्षा शरच्च संप्रोक्त ऋतुः षट्संख्यकः पुमान् ॥ हेमन्तो मार्गपौषाभ्यां शिशिरः माघफाल्गुनौ । वसन्तश्चैत्रवैशाखौ ग्रीष्मो ज्यैष्ठशुची अपि ॥ वर्षा श्रावणभाद्रौ च शारदाश्विनकार्त्तिकौ । हेमन्तहैमनावस्त्री शिशिरः शीतलस्तपाः ॥ वसन्तः सुरभिः पुष्पसमयो मधुरित्यपि । ग्रीष्मे शुचिनिदाघोष्णतपोष्णोपगमा अपि ॥ तथा उष्णोपगम इत्येवमुष्माभिगम इत्यपि । स्त्रियां बहुत्वे वर्षाः स्युर्घनकालो जलार्णवः ॥ ;p{0021} स्त्रियां प्रावृट् प्रावृषौ च मेघागमघनाकरौ । स्त्रियां शरच्च शरदा कालप्रभात इत्यपि ॥ संवत्सरो हायनोऽस्त्री वत्सरः शरदा शरत् । अब्दो वर्षञ्च वरिषं समाः स्त्री संवदित्यपि ॥ युगांशको मासमानः कालग्रन्थिश्च तर्वटः । सत्यं त्रेता द्वापरश्च कलिरेवं चतुर्युगम् ॥ कृतं सत्यं सत्ययुगं त्रेता यज्ञियमेव च । द्वापरः पार्थनीयश्च (?) झर्झरः कर्मजः कलिः ॥ अहोरात्रः पितॄणान्तु नृणां मासेन कीर्तितः । देवतानामहोरात्रो नृणां वर्षेण कथ्यते ॥ द्वे सहस्रे युगे दैवे अहोरात्रः प्रजापतेः । अहोरात्रेण तेनैव नृणां कल्पद्वयं भवेत् ॥ अथ मन्वन्तरं दैवयुगानामेकसप्ततिः । प्रलयकल्पकल्पान्तसंवर्तलयसंक्षयाः ॥ क्षयो विलय इत्येष पर्याय प्रलये मतः । पापं वृजिनमंहः स्यादघं कलुषकल्मषम् ॥ दुरितं पातकं तूस्तं कल्कं दुष्कृतकिल्विषम् । एनः शल्यं पङ्कमस्त्री पाप्मा पापकमित्यपि ॥ धर्मोऽस्त्री सुकृतं पुण्यं श्रेयो धर्त्रं वृषोऽपि च । मुत्प्रीतिः प्रमोदामोदसम्मोदमोदसम्मदाः ॥ प्रमोदो हर्ष इत्येष हर्षपर्याय इरितः । आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्मुदा ॥ सौख्यं शर्मोपजोषं स्यादानन्दं जोषमित्यपि । मुदादिजोषमित्यन्तं एकपर्याय इत्यपि ॥ मङ्गलं भावुकं भव्यं कल्याणं भविकं शुभम् । अस्त्री क्षेमं प्रशस्तञ्च भद्रं श्वश्रेयसं शिवम् ॥ अरिष्टं कुशलं रिष्टं मद्रञ्च शस्तमित्यपि ॥ मतल्लिका प्रकाण्डोऽस्त्री तल्लजः स्यान्मचर्चिका । उद्घ इत्येष पर्यायः प्रशस्तवाचको मतः ॥ शुभावहो विधिर्यः स्यादय इत्यभिधीयते । ;p{0022} भागं भाग्यं भागधेयं नियतिः स्त्री विधिः पुमान् ॥ दैवं दृष्टमदृष्टञ्च भाग्यपर्याय ईरितः । कारणं पुंसि हेतुः स्यात् करणं बीजमित्यपि ॥ आदिकारणमित्येतन्निदानं तत् प्रकीर्तितम् । आत्मा स्वो जीवः पुरूषः क्षेत्रज्ञः पुरुषोऽपि च ॥ अन्तर्यामीश्वरश्चैव पुद्गलः परसंज्ञकः । विशेषः कालिको यः स्यादवस्था परिकीर्तिता ॥ सत्त्वं रजस्तम इति गुण रजतमे अपि ॥ उत्पत्तिर्जन्मजनुषी जननञ्च जनिर्द्वयोः ॥ उद्भवः प्रभवो भावो भवः सम्भव इत्यपि । जनूर्जनुः प्रजननं जन्म पर्याय ईरितः ॥ हृन्मानसं मनः स्वान्तं चेतश्चित्तमनङ्गकम् । अङ्गञ्च हृदयञ्चेति मनःपर्याय ईरितः ॥ बुद्धि प्रज्ञा मनीषा धीः शेमुषी धिषणा मतिः । चित् सम्बित् चेतना प्रेक्षा संज्ञोपलब्धिरात्मजा ॥ पण्डा स्यात् प्रतिपज्ज्ञप्तिर्ज्ञानं विज्ञानमित्यपि । अथ मेधा निगदिता या बुद्धिर्धारणावती ॥ यत्किञ्चित् मानसं कर्म संकल्पः कल्प इत्यपि ॥ चित्तस्य परिपूर्णत्वे मनस्कारो निगद्यते । विचरणे तु पर्यायश्चर्चा संख्या विचारणा ॥ तर्को वितर्को व्यूहः स्यादूह ऊहा वितर्करणम् । अध्याहारोऽध्याहरणमूहनञ्च प्रतर्कणम् ॥ यत्र न्यूनपूरणार्थं गृह्यते चाधिकं पदम् । अध्याहार स विज्ञेय इति भेदः क्वचिद् भवेत् ॥ सन्देहो विचिकित्सा तु संशयो द्वापरोऽपि च । ;p{0023} स्यान्निर्नये निर्नयणं निश्चयो निचयोऽपि च ॥ अथ नास्तिकतायान्तु मिथ्यादृष्टिर्निगद्यते । अपि द्रोहचिन्तने तु व्यापादः परिकीर्तितः ॥ चोद्यं देश्यं पूर्वपक्षः फक्किका चापि कुत्रचित् । अथ सिद्धान्तराद्धान्तकृतान्ता वाढमेव च ॥ सत्यमुत्तरपक्षोऽपि समाधिर्वाद इत्यपि । भ्रमो मिथ्यामतिर्भ्रान्तिर्मतिभ्रान्तिमतिर्भ्रमः ॥ आं प्रतिज्ञा प्रतिज्ञानं अङ्गीकारः प्रतिश्रवः । ओम् समाधिः सम्बिदागूः स्त्रियामाश्रवसंश्रवौ ॥ नियमश्चाभ्युपगमो वाढमामोमिहाव्ययम् । मोक्षे बुद्धिर्भवेज्ज्ञानं मोक्षादन्यत्र कुत्रचित् ॥ या बुद्धिः शिल्पशास्त्रादौ विज्ञानं तत् प्रकीतितम् । मुक्तिर्निःश्रेयसं श्रेयः कैवल्यममृतं परम् । मोक्षोऽपवर्गो निर्वाणं मुक्तिपर्याय ईरितः ॥ अविद्याऽहंमतिः स्त्री स्यादज्ञाने परिकीर्तिता । रूपः शब्दस्तथा गन्धो रसः स्पर्शस्तु पञ्च वै ॥ इन्द्रियार्थगोचराः स्युर्विषयाः परिकीर्तिता । स्यादिन्द्रियस्तु करणं हृषीकं विषयि स्मृतम् । गुदोपस्थं हस्तपादं वाक् च कर्मेन्द्रियं भवेत् ॥ मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके । बुद्धीन्द्रियमिति प्राहुः शब्दकोषविचक्षणाः ॥ अस्त्री कषायो मधुरो लवणः कटुरेव च । तिक्तोऽम्लश्च षट्पुमांसो रसाः स्युर्गुणवाचकाः ॥ गुणिवृत्ता वाच्यलिङ्गाः कषायस्तुवरो मतः । तूवरश्चेति पर्यायः कषायस्य प्रकीर्तितः ॥ ;p{0024} अथ गन्धे परिमलो विमर्दोत्थे मनोहरे । दूरगामी मनोहारी गन्ध आमोद ईरितः ॥ समाकर्षी तु निर्हारी गन्धो दूरोपहारकः । स्यादिष्टगन्धः सुरभिः सुगन्धो घ्राणतर्पणः ॥ मुखवासकरो गन्ध आमोदी मुखवासनः । मुखवासन इत्येके शुभवासन इत्यपि ॥ शुक्लः श्चेतः शितिर्गौरो विशदो विषदोऽपि च । सितः श्येतः पाण्डरः स्यात् पाण्डुरो हरिणः शुचिः ॥ शुभ्रोऽवदातो धवलो बलक्षो रजतोऽर्जुनः । पाण्डुरित्येष पर्यायो धवले परिकीर्तितः ॥ य ईषद्धवलो वर्णः कीर्तितः स च धूसरः । कृष्णो नीलः शितिः कालः श्यामल-श्याम-मेचकाः ॥ असितश्चेति पर्यायः कृष्णवर्णस्य कीर्तितः । पीतो गौरो हरिद्राभः पीतपर्याय ईरितः ॥ हरिद्वर्णे तु पालाशः श्यामश्च हरितो हरित् । रक्तोत्पलनिभः शोणो रक्तो लोहित-रोहितौ ॥ अरुणोऽव्यक्तरागः स्यात् पाटलः श्वेतरक्तकः । कृष्णपीतस्तु यो वर्णः स श्यावः कपिशोऽपि च ॥ कृष्णलोहितमिश्रस्तु धूम्रो धूमल उच्यते । कपिलः पिङ्गलः पिङ्गः पिशङ्गः कापिलो हरिः ॥ बभ्रुः कद्रुः कडारश्च पर्यायः पिङ्गले मतः । चित्रं विचित्र-शारङ्ग-शवलाः कर्वुरोऽपि च ॥ एतः कवरकिर्मीरकल्माषचित्रला अपि । किर्मीरः चित्रवर्णस्य पर्यायः परिकीर्तितः ॥ इह किर्मीरपर्यन्ताः पुंसि शुक्लादयो गुणे । गुणिवृत्ता वाच्यलिङ्गा इति शब्दविदो विदुः ॥ ;p{0025} इरा सरस्वती ब्राह्मी भाषा वाणी च शारदा । गिरा गीश्च गिरांदेवी गीर्देवी भारतीश्वरी ॥ वाक् वाचा वचसामीशा वाग्देवी वर्णमातृका । वचनं भाषितञ्चोक्तिर्व्याहारो लपितं वचः ॥ वाग्देवी-वचसोरेष पर्यायः परिकीर्तितः । यथास्थानं यथायोगं भेद उह्यो मनीषिभिः ॥ अपभ्रंशोऽपशब्दस्तु शास्त्रे यः स्यादसंस्कृतः । संस्कृतः साधुशब्दश्चेत् शास्त्रे शब्द इतीरितः ॥ त्यादिस्याद्यन्तनिचयो वाक्यमेकं विदुर्बुधाः । क्रियाकारकयुक्ता वा वाक्यमित्थं परे जगुः ॥ वेद आम्नायनिगमौ छन्दो ब्रह्म श्रुतिः स्त्रियाम् । अथ वेदविधिर्यः स्यात् त्रयीधर्मस्तु स स्मृतः ॥ ऋक् स्त्रियां सामयजुषी वेदास्त्रय इति त्रयी । शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥ च्छन्दश्चेति षडङ्गानि वेदानां वैदिको विदुः । वेदादिः प्रणवो ब्रह्माक्षर उङ्कार ईरितः । अथेतिहासो व्यासादिरचितो भारतादिकः ॥ स्यादुदात्तोऽनुदात्तश्च समाहारस्त्रयः स्वराः । न्यायवैशेषिकादिः स्यात् तर्कविद्या प्रतिष्ठिता ॥ तस्यामान्वीक्षिकी ज्ञेया तत्रात्मज्ञानमुन्नयेत् । बृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकम् ॥ तत्रैव दण्डनीतिः स्यादत्र ज्ञेयो नयानयौ । आख्यायिकोपलब्धार्था कादम्बर्यादिषु द्वयम् ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम् ॥ सत्यासत्यविरचने दृष्टादृष्टे च या कृतिः । प्रबन्धस्य कल्पना स्यात् कथा च परिकीर्तिता ॥ कूटार्थभाषिता सैव प्रश्नदूती प्रहेलिका । प्रवह्लिका च सा ज्ञेया प्रवह्लीका च कुत्रचित् ॥ ;p{0026} स्मृतिर्धर्मसंहिता च संहिताश्रुतिजीविका । अर्थानां विप्रकीर्णानां संक्षेपाद् ग्रहणन्तु यत् ॥ संग्राहः संग्रहोऽपि स्यात् समाहारः समाहृतिः । संक्षेपार्थे समस्या च समासार्था भवेद् द्वयम् ॥ यथार्था निश्चिता वार्ता भवेत् सर्वजनात्मिका । कुत्सितार्थानुवादो वा किंवदन्ती जनश्रुतिः ॥ वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादुदन्तकः । नामाभिधानमाह्वानं नामधेयञ्च लक्षणम् ॥ व्यपदेशाह्वयौ संज्ञा गोत्रमाख्या च लक्ष्मणम् । स्यादभिख्या तथाह्वा च नामपर्याय ईरितः ॥ आहूतिर्हूतिराह्वानं स्यादाकारणमित्यपि । आकारणा च पर्याय आह्वाने परिकीर्तितः ॥ बहुभिः कृतामाह्वानं संहूतिरिति कथ्यते । ऋणादिदायकलहे द्वयोर्बहुतरस्य वा ॥ विवादो व्यवहारश्च द्वयमेतन्निगद्यते । वाङ्मुखं स्यादुपन्यासो वाक्यारम्भे भवेद्द्वयम् ॥ उपोद्घात उदाहारः स्यादुदाहरणे द्वयम् । शपनं शपथः शापो मिथ्यानिरसने त्रयम् ॥ प्रश्नः पृच्छानुयोगश्च पृच्छनं पृच्छनापि च । प्रत्युक्तिः प्रतिवाक्यं स्यादुत्तरं प्रतिवागपि ॥ प्रत्युत्तरञ्च केषाञ्चित् मतं न बहुसम्मतम् । त्वं मे शतं धारयसीत्यादि मिथ्यानिरूपणे ॥ मिथ्याभियोगोऽभ्याख्यानमभ्याकाङ्क्षितमित्यपि । त्वमेव स्वर्णचौरोऽसीत्येवं वाचा प्रदूषणम् ॥ मिथ्याभिशंसनं तत् स्यादभिशापस्तु स स्मृतः । अनुरागवशाज्जातः शब्दः प्रणाद उच्चते ॥ ;p{0027} कीर्तिर्यशः समाख्या स्यात् समाज्ञा कीर्तनापि च । स्यादभिख्या समज्ञा च समज्यापि च कुत्रचित् ॥ यशःकीर्तिगतो भेदः सद्भिरुह्यः प्रयोगतः । स्तवो नरः स्तुतिः स्तोत्रं नूतिस्तवनमित्यपि ॥ द्वित्रिवारं तदुक्तं स्यात् तदाऽम्रेडितमुच्यते । उच्चैर्घुष्टं घोषणा स्यान्निर्घुष्टं घूष्टघोषणे ॥ शोकभीत्यादिभिः शब्दविकारे काकुरीरिता । कुत्सा निन्दा जुगुप्सा च गर्हा गर्हणनिन्दने ॥ कुत्सनं परिवादः स्यात् परीवादो जुगुप्सनम् । आक्षेपावर्णनिर्वादा उपक्रोशश्च भर्त्सनम् ॥ अपक्रोशोऽपवादः स्यादववादो विकुत्सनम् । अगम्यागमनं युक्तं तवेत्यादिकभाषणम् ॥ कुलदोषाविष्करणं तत्र स्यात् परिभाषणम् । आक्षारणाक्षारणं स्यादाक्रोशो मैथुनं प्रति ॥ आभाषणं स्यादालापः प्रियोक्त्यादौ गमे (?) । उन्मत्तशोकसन्तप्तनिष्प्रयोजनभाषणे ॥ अनर्थके च वचने प्रलापः परिकीर्तितः । पुनः पुनर्भवेद् भाषा सोऽनुलापः प्रकीर्तितः ॥ क्रन्दनादौ विलापः स्यात् परिदेवनमित्यपि । सुप्रलापः सुवचनं विप्रलापो विरोधवाक् ॥ क्रोधोक्तिराप्रलापः स्यात् संलापोऽन्योन्यभाषणम् । अपलापो निह्नतिः स्यादपह्नुतिरपह्नवः । निह्नवश्चेति विज्ञेयः पर्यायोऽयमपह्नवे ॥ वाचिकं तद्भवेद्यत्र दूतत्वेनाभिशंसनम् । उत्तरे सत्यपर्यन्ता वाग्भेदास्त्रिषु कीर्तिताः ॥ ;p{0028} हन्तव्यादिरकल्याणी वागुशत्युषतीत्यपि । तत् सान्त्वं चित्तसुखदं अत्यर्थमधुरं हि यत् ॥ सङ्गतं तद्भवेद्वाक्यं यदेव हृदयङ्गमम् ॥ सोल्लुण्ठनन्तु सोत्प्रासं चटु चाटु प्रियोदितम् ॥ अथ कर्कशवाक्ये तु परुषं निष्ठुरञ्च तत् । भण्डादिवचने तु स्यादश्लीलं ग्राम्यमित्यपि ॥ किञ्चित् प्रियमसत्यञ्च यथेन्द्रः स भवानिति । किञ्चित् सत्यमप्रियञ्च यथा काणो भवानिति ॥ सत्यं किञ्चित् प्रियं किञ्चित् यथा त्वं पण्डितो द्विजः । इत्यादिवचने सद्भिः सुनृतं परिकीर्तितम् ॥ यावज्जीवमहं मौनी ब्रह्मचारी च मे पिता । माता च मम बन्ध्यासीदपुत्रस्तु पितामहः ॥ एवं सर्वविरुद्धार्थं संकुलं क्लिष्टमेव च । अक्षरं वा पदं वापि नोच्चारितमशक्तितः ॥ यत्र वाक्ये भवेदेवं ग्रस्तं तत् परिकीर्तितम् । तन्निरस्तं समाख्यातं भयादौ त्वरितोदितम् ॥ श्लेष्मनासाहतं वाक्यमम्बूकृतमुदाहृतम् । समुदायार्थशून्ये स्यादबद्धञ्चाप्पबद्धकम् ॥ अनक्षरमवाच्यन्तु वचनार्हं न यद्भवेत् । एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ॥ मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः । इत्याद्यन्तमिथ्योक्तिराहतं तत् प्रकीर्तितम् ॥ अविस्पष्टं भवेन्म्लिष्टं वितथं चानृतं मृषा । अथ सत्यमृतं सम्यक् तथ्यावितथमित्यपि ॥ अमूनि त्रिषु सत्यानि अव्ययन्तु यथातथम् । शब्दो निर्घोषनिर्ह्रादनिस्वानस्वाननिस्वनाः ॥ निनादनिनदध्वाननिध्वानध्वनिसंरवाः । ;p{0029} रव आरव आरावः संरावो राव इत्यपि ॥ विरावनादह्रासाः स्युरभिधानाभिधानकम् । तथा कुहरितञ्चेति शब्दपर्याय ईरितः ॥ वस्त्राणामपि पर्णानां शब्दो मर्मर उच्यते । अथ भूषणशब्दे तु शिञ्जा शिञ्जितमित्यपि ॥ वीणा ध्वनौ तु क्वणनं निक्वाणो निक्वणोऽपि च । प्रक्वाणः प्रक्वणः क्वाणः क्वणः स्यात् सुक्वणादयः ॥ सोपसर्गः क्वणोऽपि स्यात् क्वचित् शिष्टप्रयोगतः । सम्भूय बहुभिर्यः स्यादविस्पष्टकृतो ध्वनिः ॥ कोलाहलः कलकलः कालकीलोऽपि कुत्रचित् । वासितं वाशितं यत् स्याद् यः शब्दपशुपक्षिणाम् ॥ स्त्री प्रतिश्रुत् प्रतिशब्दः प्रतिध्वानं प्रतिध्वनिः । गीतं गानं निबद्धं स्यादनिबद्धमपि द्विधा ॥ अथ सप्त स्वरा ज्ञेयास्तन्त्रीकण्ठसमुत्थिताः । स्यात् षडज ऋषभश्चैव गान्धारो मध्यमोऽपि च ॥ पञ्चमो धैवतश्चैव निषादश्चेति ते क्रमात् । षड्जं मयूरा क्रवते वृषभा ऋषभं तथा । अजाविकौ तु गान्धारं क्रौश्चो नदति मध्यमम् । पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ॥ घोटको धैवतं रौति निषादं रौति कुञ्जरः । स्वरादीनान्तु विस्तारो बाहुल्यात् समुपेक्षितः ॥ सूक्ष्मे कले काकली स्यात् कलः सुमधुरध्वनौ । मन्द्रो गम्भीरेऽत्युच्चे तु तारस्त्रिषु कलादयः ॥ द्रुतादिलयसंयुक्त एकताल इति स्मृतः ॥ विपञ्ची वल्लकी वीणा रङ्गवल्ली विपञ्चिका । सा वीणा सप्ततन्त्रीभिरुच्यते परिवादिनी ॥ मृदङ्गादिकमानद्धं ततं वीणादिवाद्यकम् ॥ वंश्यादिवाद्यं सुषिरं घनं कांस्यादितालजम् । एवं वादित्रमातोद्यं वाद्यमेतच्चतुर्विधम् ॥ ;p{0030} मृदङ्गो मुरजेऽपि स्यादङ्काद्यास्तद्विशेषकाः । अङ्क्यश्चाङ्की तथालिङ्ग्य आलिङ्गी चोर्ध्वकोद्धकौ ॥ स्याद् यशः पढहो ढक्का तथा विजयमङ्गलः । आनको दुन्दुभिर्भेरी पढहोऽस्त्री तथानकः ॥ वीणादिवादनं कोणः प्रवालस्तस्य दण्डके । वीणाप्रान्ते वक्रकाष्ठे ककुभस्तु प्रसेवकः ॥ वीणाकाये तु कोलम्बः उपनाहो निबन्धने । वाद्यभेदाश्च डमरुमड्डुमर्दलडिण्डिमाः ॥ झर्झरः पणवोऽन्ये च विशेषाः काहलादयः । डमरुः कोणकोऽपि स्यादेकसूत्रो वृषाङ्कजः ॥ मड्डुमृदङ्गकौ मन्द्रो मर्दलो दारुजो मृजः । डिण्डिमः स्यादेकवादो गुरुर्मङ्गल इत्यपि ॥ झर्झरो झल्लरी झल्ली झत्नरी झर्झरीत्यपि । पणवः प्रणवः पाङ्कः प्राङ्कणः पणवेत्यपि ॥ काहलः काहलापि स्यात् ध्वनिमाला कलाहका । एकवर्णी कङ्कमाला करताली कलङ्कषा ॥ तूरं तूर्यं चन्द्रकला द्रगडो लघुदुन्दुभिः । मम्मदो दुन्दुभिद्वन्दो घटीनाली यमेरुका ॥ यामनाली यामघोषो दण्डढङ्का गभीरिका । एवञ्च वाद्यभेदाः स्युस्ताड्यमानाः प्रकाशिकाः ॥ दण्डताम्री च ताम्री च मानरन्ध्रा विकालिका । भुक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः ॥ संग्राहः पटहः शङ्खस्तथा चाभयडिण्डिमः । महाद्वन्द्वो नृपाभीरुर्भीरु कोलाहलोऽपि च ॥ युद्धवाद्यस्य पर्यायश्चान्ये भेदाः शलादयः । मुखवाद्यं वभ्रूताली वेणुर्विवरनालिका ॥ अथ वंशी च मुरली वंशिका वंशनालिका । सानेयिका च सानेयी सानिका सूरनालिका ॥ अथ यन्त्राणि शारङ्गी शारदा कविलासिका । सुरमण्डलिका रुद्री पिणाकी चण्डरुद्रिका ॥ क्रुञ्ची च कच्छपी वीणा वीणा तुम्बुरुनारदी । ;p{0031} सारस्वती केलिकला रामवीणा बलाञ्चिता ॥ अन्येऽपि यन्त्रभेदाः स्युर्विज्ञेया नाट्यशास्त्रतः । वारवाणिः प्रगाता च यः स्यादुत्तमगायनः ॥ कथकः स्यादेकनटः कथाप्राणोऽपि संस्मृतः । सर्ववेशी लयालम्बस्तानरेचनको नटः ॥ लयपुत्री नटी लास्या नर्तकी लासिकाऽपि च । खङ्गधारादियोगेन यो नृत्यति पटुर्नरः ॥ प्लवकः केलकोनर्तुः केलिकोषः कलायनः । भण्डश्चाटुपटुश्चेति गायको गाथकोऽपि च ॥ विलम्बितं द्रुतं मध्यं लय इत्यभिधीयते । विलम्बितं भवेत्तत्त्वं द्रुतं मोघमिति स्मृतम् ॥ मध्यं घनमिति प्रोक्तं सर्वसाम्यं लयः स्मृतः । गीतवाद्य-पदन्यास-क्रियाणां समता मिथः ॥ तथा क्रियाकालयोर्वा लय इत्यभिधीयते । हस्ताङ्गुलिप्रसारणाकुञ्चनादि क्रिया हि या ॥ तया कालस्य मानं यत् स ताल इति कथ्यते । कैश्चित्तु कालक्रिययोर्मानं तालः प्रकाशितः ॥ स एष तालो विज्ञेयो धीरैरनुद्रुतादिभिः । अनुद्रुतं द्रुतञ्चैव लघुर्गुरुः प्लुतस्तथा ॥ अर्धमात्रं द्रुतं ज्ञेयं द्रुतार्धञ्चाप्पनुद्रुतम् । एकमात्रो लघुः प्रोक्तः द्विमात्रस्तु गुरुः स्मृतः ॥ तिमात्रं प्लुत आख्यातं नाट्यशास्त्रानुसारतः । पञ्चलघ्वक्षरः कालो मात्रा निगदिता बुधैः ॥ अक्षराणि चवर्गादिपञ्चेत्युक्तं मनीषिभिः । नृत्यं नृत्तञ्च नटनं नाट्यं नाटश्च नर्तनम् ॥ लासो लासं लास्यकञ्च ताण्डवोऽस्त्री नृतिः स्त्रियाम् । लास्यताण्डवयोर्भेदो नृत्यशास्त्रे प्रकाशितः । अथ वाद्यनृत्यगीतं नाट्यं तौर्यत्रिकं विदुः ॥ अथ नारीवेशधारी पुरुषो यत्र नर्तकः ॥ भ्रकुंसश्च भ्रकुंसश्च भ्रूकुंसः स भृकुंसकः ॥ ;p{0032} नाट्योक्तौ गणिका नाम अज्जुकेत्यभिधीयते । विदुषो नाम भावः स्यादावुत्तो भगिनीपतिः ॥ युवराजद्वयं नाम कुमारो भर्तृदारकः । राज्ञो नाम द्वयं नाट्ये देवो भट्टारकोऽपि च ॥ राजपुत्र्या द्वयं नाम कुमारी भर्तृदारिका । राज्ञः कृताभिषेकायां पत्न्यां देवीति कीर्तिता ॥ अन्यासु राजपत्नीषु भट्टिन्यः समुदाहृताः । अवध्यमिति नाट्योक्तौ अब्रह्मण्यमिति स्मृतम् ॥ राजश्यालः राष्ट्रियः स्यात् अम्बा तु मातरि स्मृता । बालायान्तु भवेद्वासूर्मान्ये तु मारिषः स्मृतः ॥ नाट्ट्ये ज्येष्ठभगिन्यां स्यादन्तिरप्यत्तिरन्तिका । कनिष्ठा भगिनी नाम सखीवत् परिकीर्तितम् ॥ प्रस्तुतायाः कथायास्तु भवेद् यत्र समापनम् । निवर्हणं निर्वहणं निष्ठा निर्वहणापि च ॥ नीचं प्रति समाह्वानं हन्तो हन्ते इति द्वयम् । चेटीं हञ्जा तु हञ्जे च हलाह्वानं सखीं प्रति ॥ स्थानात् स्थानान्तरं प्राप्तौ अङ्गानाञ्चारुनर्तने । अङ्गहारोऽङ्गविक्षेपो द्वयमत्र निगद्यते ॥ व्यञ्जकोऽभिनयश्चैव हस्तादिकार्यसूचके । आङ्किकस्त्वङ्गनिर्वृत्ते सात्त्विकः सत्त्वनिर्वृते ॥ एतौ त्रिष्वाङ्गिकानान्तु लक्षणान्यप्यनेकशः । नृत्यशास्त्रादिगम्यानि नोक्तानि ग्रन्थगौरवात् ॥ स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुपातश्च इत्यष्टौ सात्त्विका मताः ॥ शृङ्गारवीरबीभत्साः रौद्रहास्यभयानकाः । अद्भुतः करुणः शान्तो नाट्ये नवरसा अमी ॥ अस्मिन्नमरसिंहोऽपि सम्मतोऽयं चकारतः ॥ वात्सल्यसहिताः कैश्चिदुक्ता दशरसा अपि । नामान्येतानि शृङ्गारे कैशिकः शुचिरुज्ज्वलः ॥ सम्भोगो विप्रलाम्भश्च तस्य भेदद्वयं भवेत् । अथ वीरस्य पर्यायः वीर उत्साहबर्धनः ॥ त्रिषु बीभत्सं विकृतं वैकृत्यं वैकृतं तथा । ;p{0033} रौद्रमुग्रमपि ख्यातं हासो हास्यं तथा हसः ॥ दारुणो भीषणो भीष्मो भीमो घोरश्च भैरवः । भयङ्करः प्रतिभयं त्रिष्वेते च भयानके ॥ अद्भुतञ्चित्रमाश्चर्यं त्रितयं त्रिषु विस्मयः । करुणोऽपि च कारुण्यं करुणा च दया दयः ॥ कृपाऽनुकम्पाऽनुक्रोश एतेऽष्टौ करुणे रसे ॥ दरस्त्रासः भयं भीतिरुत्त्रासः साध्वसं भयम् । दरदो भीः प्रतिभयं भय पर्याय ईरितः ॥ मनो विकारो भावोऽनुभावः स्याद् भावबोधकः । गर्वो मदोऽभिमानः स्यादहङ्कारस्त्वहंकृतिः ॥ स्यादुत्कमनस्कत्वे मानश्चित्तसमुन्नतिः । अहङ्कारस्य पर्याय इति केचित् प्रचक्षते ॥ स्यादवज्ञा परीहारः परिहारः पराभवः । अपमानं परिभवस्तिरस्कारस्तिरस्क्रिया ॥ अवहेला च हेला स्यादवहेलनहेलने । अनादरस्त्वभिभवः सूक्ष्मेणञ्चापि सूक्ष्मणम् ॥ रीटाभिर्भूतिनिकृतिरसूक्षणमसूक्ष्मणम् । न्यक्कारोऽपि च नीकारस्त्ववहेलनमाननम् ॥ क्षेपो निकारो धिक्कारः पर्यायः स्यादनादरे । अथ मन्दाक्षमन्दास्यं लज्जा लज्जनं ह्रीस्त्रपा ॥ ब्रीडो ब्रीडा ब्रीडनञ्च लज्जा पर्याय ईरितः ॥ अपत्रपान्यतो लज्जापत्रपानुपत्रपापि च । क्षमा क्षान्तिस्तितिक्षा च क्षमापर्याय ईरितः ॥ विषयेच्छा परधनेऽभिध्या भिध्या द्वयं भवेत् । अक्षान्तिरीर्ष्या चर्या च अक्षमायां प्रकाशिताः ॥ असूया कीर्तिता सद्भिर्दोषारोपो गुणेष्वपि । वैरं विरोधो विद्वेषो द्वेषो द्वेषणमित्यपि ॥ मन्युः शोकःस्त्रियां शुक् च शुचा निःशम इत्यपि । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि । कोपः क्रोधः क्रोधाभीमः आमर्षः प्रतिघोऽपि च ॥ सस्वम्भा(?)ऽमर्षरोषाश्च रुषा च रुट् क्रुधौ स्त्रियाम् । चरित्रमपि चारित्रं चरितञ्च समं त्रयम् ॥ उत्तमे चरिते शीलं उन्मादश्चित्तविभ्रमे । प्रेम क्लीबे पुमान् प्रेमा स्नेहः प्रणय इत्यपि । ;p{0034} हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते । इच्छाकाङ्क्षा स्पृहा वाञ्च्छा लिप्सा कामो मनोरथः ॥ ईहा तृट् तर्ष आकाङ्क्षा कान्तिरुग्रुचयोऽपि च । दोहदञ्चाभिलासः स्यादभिलाषश्च कीर्तितः । इच्छा सुमहती या स्यात् सा भवेत् लालसा द्वयोः ॥ पुमान् उपाधिर्विज्ञेयो धर्मचिन्ता तु या भवेत् । आधिः पुंसि समाख्यातो मानसी या व्यथा भवेत् ॥ आध्या चिन्ता स्मृतिर्ध्यानमाध्यानमपि चिन्तिते । उत्कण्ठा स्यादुत्कलिका उत्साहोऽध्यवसायवत् ॥ प्रभावोत्साहमन्त्रैस्तु युक्ते स वीर्यमुच्यते । शुटीरता तु शौटीर्यं शुटीर्यमपि दृश्यते ॥ अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च । कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥ अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा । हिंसा फले चतुष्कं स्यात् शाठ्यपर्याय ईरितः ॥ पूर्वं कपटपर्यायः फले वञ्चनमात्रके । उभयोरेकपर्याय इति केचित् प्रचक्षते ॥ कर्तव्याकरणं यत्र समर्थस्य क्वचिद् भवेत् । उच्यते हि द्वयं तत्र प्रमादोऽनवधानता ॥ कौतुकं कुतूकं चित्रं कौतूहलः कुतूहलम् । अथ विभ्रम-विव्वोक-विलासाललितं तथा ॥ हेलालीलादयः स्त्रीणां क्रियाशृङ्गारभावजाः । अत्रैव हावा विज्ञेया इति भावविदो विदुः ॥ हूयन्ते रागिनो यत्र हाव इत्यभिधीयते । परिहासः परीहासः क्रीडः केलिमुखो द्रवः ॥ क्रीडा लीला देवना च केलिर्ना नर्म देवनम् । तथापदेशो व्याजश्च लक्ष्यं लक्षं निमीलिका ॥ भङ्गी भङ्गिः स्तकं (?) च व्याजपर्याय ईरितः । पूर्वको व्याजपर्यायः परद्रोहफलः स्मृतः ॥ आत्मगोपनमात्रे तु पर्यायोऽयं निगद्यते ॥ अथ खेला कूर्दनं स्यात् क्रीडा कुर्दनमित्यपि । खेलापर्याय इत्येष खेला साधारणो मतः ॥ पूर्वस्तु क्रीडापर्यायः स्त्रीपुंसोः क्रीडने स्मृतः । ;p{0035} घर्मो स्वेदो निदाघः स्यात् स प्रसवनमित्यपि ॥ अथ द्वयन्तु मूर्छायां प्रलयो नष्टचेष्टता । अवहित्था वहित्थञ्च स्यादाकारगुप्तिरेव च ॥ शृङ्गारादिकचिह्नानां लज्जाप्रच्छादने त्रयम् । अत्यन्तवेगे विज्ञेयौ समौ संवेगसम्भ्रमौ ॥ सोत्प्रास आच्छुरितकं अवच्छुरितकं तथा । अट्टहासो महाहासो हासः प्रहास इत्यपि ॥ ईषद्धासे स्मितं मध्यहासे विहसितं मतम् । अथ रोमाञ्चपुलकौ रोमोद्भेदस्त्वगङ्कुरः ॥ त्वक्पुष्पं पुलकूपाङ्कौ कण्टको रोमहर्षणम् । क्रन्दनं रुदितं क्रुष्टं क्रन्दितं रोदनञ्च तत् ॥ हर्म जृम्भं जृम्भनं स्यात् जृम्भो जृम्भा च जृम्भिका । अङ्गीकृतानामर्थानां यत्रासम्पादनं भवेत् ॥ विप्रलम्भो विसंवादस्तस्मिन् उक्तो मनीषिभिः । रिङ्गणं रिङ्खणञ्चैव स्खलितं स्खलनं तथा । स्वधर्माद् विच्युतौ सद्भिरुक्तमेतच्चतुष्टयम् ॥ निद्रा सुप्तिश्च संवेशः स्वापः शयनमित्यपि । स्वप्नः स्वपनमित्येष निद्रापर्याय ईरितः ॥ तन्द्री तन्द्रा प्रमीला च तन्द्रिका च प्रमीलनम् । श्रमादिजनितालस्ये पञ्चकं परिकीर्तितम् ॥ भ्रूकुटिः भ्रूकुटी चैव भृकुटिः भृकुटी स्त्रियः । भ्रूकुटीत्यादयोऽपि स्युः पर्यायभ्रूविभङ्गके ॥ सरोषवभ्रुदृष्ट्यान्तु स्याददृष्टिरदृष्टिका । स्त्रियां प्रकृतिसंसिद्धी स्वभावो भाव एव च ॥ स्यात् स्वरूपं निसर्गश्च पर्यायोऽयं स्वभावके । कम्पनं कम्पितं कम्पो वेपनं वेपथुः पुमान् ॥ उत्सवः क्षण उद्धर्षो मह उद्धव उद्धयः । उत्सवे बालकादीनां पर्यायः परिकीर्तितः ॥ ;p{0036} वैदग्ध्यमपि वैदग्धी भङ्गिस्त्विभनिमीलिका । चमत्कारस्तमरयः (?) प्रौढिः (च) कियदेतिका ॥ स्वदोषग्राहको म्रक्षो वागसङ्गोऽपि स स्मृतः । स्वयं कृतानि पापानि चित्ते संस्थाप्य कथ्यते । काप्यकारः स विज्ञेयस्तथा काप्यकरोऽपि च । संसारः स्यात् संसरणं भवश्च संसृतिः स्त्रियाम् ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां स्वर्गवर्गप्रकाशः ॥} ;p{0037} ;v{भूमिवर्गप्रकाशः} अधोऽव्ययन्तु पातालं नागलोको रसातलम् । बलिसद्मोरगस्थानमधोभुवनमित्यपि ॥ अतलं वितलञ्चैव नितलञ्च गभस्तिमत् । तलं सुतलपाताले पातालानि तु सप्त वै ॥ रन्ध्रं निर्व्यथनं श्वभ्रं च्छिद्रं रोकं दरो बिलम् । विवरं कुहरञ्चैव शुषिरञ्च वपाशुषिः ॥ गर्तो वटः स्यादवटिस्तथा चावटुरित्यपि । शुषिरन्तु सरन्ध्रे स्यात् त्रिष्विदं क्लीब इत्यपि ॥ अस्त्रियामन्धकारः स्यात्तिमिरन्तु तमस्तमम् । नीलपङ्कं निशाचर्म तमिस्रञ्च रजो रजम् ॥ दिनान्तकं वियद्भूतिरन्धकं ध्वान्तमित्यपि । घनध्वान्तेऽन्धतमसं क्षीणेऽवतमसं भवेत् ॥ स्यात् सर्वव्यापिनि ध्वान्ते ज्ञेयं सन्तमसं बुधैः । अथ नागाः काद्रवेयास्तथा कद्रुसुता अपि ॥ तदीश्वरश्च भोगीन्द्रः शेषोऽनन्तः फणीश्वरः । वासुकिः सर्पराजः स्याद् वासुकेयोऽपि स स्मृतः ॥ अथ वोड्रस्तिलित्सः स्यात् गोनासो गोनसोऽपि च । वाहसः स्यादजगरः शीर-शीनौ शयुः शयः ॥ कालसर्पो जलव्याल आलगर्दो महाविषः । अलिगर्दोऽप्यलगर्दः कालकः कालकन्दकः ॥ राजिलो डुण्डुभो धोडस्तथा डुण्डभ इत्यपि । मालुधानो मातुलाहिश्चित्रसर्पश्च चित्रकः ॥ हालाहलधरो ब्रह्मसर्पो बाल (?) इत्यपि । द्विमुखाहिश्च राजा हिरहीवानाविमे समाः ॥ कालीयः कालियश्चैव कालिकः कालिरित्यपि । मुक्तकञ्चुको निर्मुक्तः सर्पे निर्मुक्तचर्मणि ॥ सर्पो भुजगभुजङ्गभुजङ्गमसरीसृपाः । दर्वीकरो विषधरो बिलवासी विषायुधः ॥ चक्षुःश्रवा बिलशयो दीर्घपृष्ठो बिलेशयः । कुम्भीरसो द्विरसनो भेकभुक् श्वसनोत्सुकः ॥ फणाधरः फणधरः फणावान् फणवान् फणी । फणाकरः फणकरः समकोलश्च कुण्डली ॥ उरगो जिह्मगो भोगी पृदाकुर्व्याडपन्नगौ । ;p{0038} दंष्ट्री विषास्यो गोकर्णो गूढपात् पवनाशनः ॥ अहिराशीविषश्चक्री काकोदर उरङ्गमः । गूढपादो बिलेवासी दर्विभृत् दर्वीकृत् तथा ॥ आहेयं त्रिषु विज्ञेयं विषास्थ्यादिकमप्यहेः । स्फुटा स्फटा फटा दर्वी दर्विर्भोगः फणा द्वयोः ॥ निर्मोकः कञ्चुकश्चापि द्वयन्तु सर्पचर्मणि । आसीराशीः सर्पदंष्ट्रा तत्स्त्री सर्पी च सर्पिणी ॥ विषं क्षेडस्तु गरलं जङ्गुलं जाङ्गुलञ्च तत् । अस्त्रियामथ काकोलः कालकूटो हलाहलः ॥ ब्रह्मपुत्रः शौक्लिकेयो वत्सनाभः प्रदीपनः । सौराष्ट्रिको दारदः स्युर्विषभेदा अमी नव ॥ हालाहलं हालहलं हाहलञ्च हलाहलम् । हालाहालञ्च विज्ञेयं हाहलं पञ्चरूपकम् ॥ सारोष्ट्रिकोऽपि विज्ञेयः सौराष्ट्रिक इति द्विधा । व्यालग्राही जाङ्गुलिः स्याद् जाङ्गुलिश्चाहितुण्डिकः ॥ व्यालग्रहो गारुडिको विषवैद्योऽहितुण्डिकः । नरको नारकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ॥ कालसूत्रञ्च संघातः प्रकम्पनप्रतापनौ । अवीचिस्तपश्चैव महारौरव-रौरवौ ॥ एते नरकभेदाः स्युरसिपत्रादयस्तथा । अथ प्रेतापरेताश्च नारका नरकामयाः ॥ प्रेतनदी वैतरणी वैतरण्यपि सा स्मृता । अलक्ष्मीर्निर्दतिः कालकर्णी[ति] नवदेवता ॥ विष्टिराजूः स्त्रियां द्वे तु वेगारकसमाह्वये । यातना कारणा तीव्रवेदनाऽतिव्यथापि च ॥ पीडा कष्टं व्यथा दुःखं अर्तिरार्तिश्च पीडनम् । आबाधा बाधनं बाधा कृच्छ्रं दुःखं प्रसूतिजम् ॥ अमानस्यमामनस्यमामानस्यं विबाधनम् । विहेठनं विबाधान आभीशमपि पीडितम् ॥ सत्त्ववृत्तास्त्रिषु द्वे ते पीडापर्याय ईरितः । ;p{0039} समुद्रः सागरः सिन्धुः सरस्वान् सरितां पतिः ॥ अब्धिर्जलनिधिर्नीरनिधि[र्जलधि]रम्बुधिः । पाथोनिधिरकूपारः पाथोधिर्यादसांपतिः ॥ नदीन इन्दुजनकस्तिमिकोषः सरित्पतिः । वारांनिधिर्वारिनिधिर्वार्ब्धिर्वारिधिरित्यपि ॥ रत्नाकरस्तोयनिधिः कीलालधिरपांपतिः । अर्णवो धरणीपूरः क्षीराब्धिर्धरणीप्लवः ॥ वाङ्कः कचङ्गलः पेरुर्मितद्रुर्वाहिनीपतिः । गङ्गाधरो दारदः स्याद् उदन्वान् उदधिस्तिमिः ॥ प्राणभास्वान् ऊर्मिमाली पारावारो महाशयः । अम्भोनिधिः स्यादम्बोधिः तरिष्यो मकरालयः । कूलङ्कषस्तारिषः स्यात् महीप्राचीर इत्यपि ॥ समुद्रभेदाः सप्त स्युः क्षीरोदलवणादयः । आपः स्त्रियां बहुत्वे तु जलं कमलपुष्करम् ॥ वार्वारि तोयमुदकं नीरपानीयसम्बरम् । अम्भः क्षीराम्बु सलिलं सर्वतोमुखजीवनम् ॥ अर्णः कवन्धममृतं मेघपुष्पञ्च कम्बलम् । नारा घनरसः पात आपः स्यन्दनसम्बलम् ॥ इरा कमन्धं नारोदं जडपीथ-घृत-क्षरम् । ऋतमूर्जं काण्ड-सरं कोमलं सोम इत्यपि ॥ आप्य-मम्मयमित्येतत् द्वयं जलमये त्रिषु । अथ भङ्गस्तरङ्गः स्यादूर्मिर्वीचिरिति स्त्रियाम् ॥ भाङ्गिर्विचिरपीत्येके लहरिर्लहरीति च । अथ कल्लोल उल्लोलस्तरङ्गे महति द्वयम् ॥ नायुग्मन्म(?)स्तथावर्तो भ्रान्तिः स्याद् भ्रमिरित्यपि ॥ द्वौ पुंसि विन्दुपृषतौ पृषन्तिर्विप्रुषः स्त्रियाम् । पृषदित्यपि पुंसि स्यादिति केचित् प्रचक्षते ॥ भ्रमो जलनिर्गमश्च गृहादिजलनिर्गमे । पुटभेदश्च चक्रञ्च वङ्को वाकसमाह्वये ॥ कूलं तीरं प्रतीरञ्च रोधं रोधस्तटं त्रिषु । अथ पारमवारञ्च परमर्वाक् तटद्वयम् । ;p{0040} तटयोरन्तरं यत्तु तत् पात्रमभिधीयते ॥ द्वीपो द्वीपं अन्तरीपं जलान्तस्तटमीरितम् । तोयादुत्थिततीरे तु पुलिनं परिकीर्तितम् ॥ वालुकामयतीरन्तु सैकतं सिकतामयम् । कर्दमः कङ्कटोऽपि स्याद् जम्बालस्तु निषद्वलः ॥ कर्दः कर्कटशादौ च पङ्कोऽस्त्री दम इत्यपि । पूरोढिः पत्रसङ्कारो रायभाटीसमाह्वये ॥ दरणिः कूलहण्डस्तु कूलभङ्गे समीरितौ । जलहासस्तु हिण्डीरः फेणः सिन्धुकफोऽपि च ॥ जलोच्छायः परीवाहो जलोर्ध्वगमने द्वयम् । विदारकः कूपकस्तु जलबन्धक इत्यपि ॥ स्त्रोतोभेदकरे दारुशिलादौ जलमध्यगे । नौका तरण्योग्यन्तु नाव्यं त्रिषु विधीयते ॥ स्त्रियां नौस्तारिका नौका तरणिस्तरणी तरी । तरिः तरण्डा स्यात् तरण्डः पादानिन्दा दथो प्लवा ॥ होडो वाधुर्वावटश्च वहित्रं पोत इत्यपि । भेलकः प्लवकोलाः स्युः उडूपमुडुपस्तथा ॥ तरणस्तारणश्चेति तारकोऽपि च कुत्रचित् । स्वतोऽम्बुसरणं स्रोतः स्रोतसं स्रोतमित्यपि ॥ आतरस्तरपण्यं स्यादातारोऽपि निगद्यते ॥ अथ काष्ठाम्बुवाहिन्यां द्रोणी द्रोणिर्द्रुणिर्द्रुनिः । पादारकश्च पोलिन्दः पत्रबालस्तुला धटः ॥ सांयात्रिकः पोनपणिक् नौवाणिज्यकरे द्वयम् । नाविकः कर्णधारः स्यात् पोतवाहो नियामकः ॥ नौकाबन्धनकाष्ठे तु कूपको गुणवृक्षकः । नौकादण्डः क्षेपणिः स्यात् क्षेपणी क्षिपणी तथा ॥ अरित्रं केनिपातः स्यात् केनिपातक इत्यपि । अभ्रिः स्त्री काष्ठकुद्दालः काष्ठकुदाल इत्यपि ॥ जलसेचनके पात्रे सेकपात्रन्तु सेचनम् । त्रिषु चागाधपर्यन्तुं प्रसन्नोऽच्छस्तु निर्मले ॥ अप्रसन्नस्तु कलुषोऽनच्छ आविल इत्यपि । ;p{0041} अथ निम्नं गभीरञ्च गम्भीरञ्च गभीरकम् ॥ गभीरविपरीते स्याद् उत्तानायति कीर्तितम् । अगाधमतलस्पर्शमस्थाघास्थागमित्यपि ॥ अस्थारमिति पर्यायो भवेदतिगभीरके । कोवर्तो जालिको दासः कैवर्तो धीवरोऽपि च ॥ दासेरकोऽपि दाशेरो दाशेयोऽपि च कुत्रचित् । जालकं जालमानायः शनसूत्रं पवित्रकम् ॥ कुवेणिर्मत्स्यधानी च स्वल्पा चेत् कुपिनी भवेत् । वडिशी वलिशी मत्स्यवेधनी मत्स्यबेधनम् ॥ वरिशी वलिशिश्चाषि वालिशं वडिशं तथा । मत्स्यो वैसारिणो मीनः पाठीनश्च वदालकः ॥ उलूपी स्यादुलोपी च चुलुम्पी चुलुकी तथा । शिशुकश्चेति पर्यायः शिशुमाराकृतौ झषे ॥ कैश्चिद् उत्पलमत्स्ये तु पर्यायोऽयं निगद्यते ॥ नलमीनौ नलीमीनस्तलमीनश्चिलीचिमः । चिलीचीमश्चेलीचिमः तथा स्याद् वालुकागडः ॥ अथ प्रोष्ठी श्वेतकोलः शफरी शफरोऽपि च । क्षुद्राण्डमत्स्यसंघाते पोताधानं जलाण्डकम् ॥ अथ मत्स्यप्रभेदास्तु रोहितोमद्गुरस्तथा । शालराजीवशकुलास्तिमिश्चापि तिमिङ्गिलः ॥ रोहितो मत्स्यराजः स्याद् भालाङ्को लोहितस्तथा । स्याद् मद्गुरो मद्गुरकः शालः शालजगर्जको ॥ सकुलः शकुलोऽपि स्यादन्येऽपि शलिशादयः । खलेशयस्तु खलिशः कङ्कत्रोटो जलव्यधः ॥ राजग्रीवश्चित्रफली फलकी च (मदार्मदः) महोन्मदः । कवरः कचपृष्ठी तु कवजिः कवजीत्यपि ॥ इलोशो राजशफरो वारिकर्फुर इत्यपि । इल्लीशो जलव्यापी स्याद् गाङ्गेयः शफराधिपः ॥ अथ चन्द्रकला वाचा इञ्चाको जलवृश्चिकः । कज्जली कज्जलानन्ता माध्वी मधुरकण्टका ॥ स्याच्चलत् पुर्णिमा चन्द्रचन्द्रिका चञ्चलापि च । स्याद् गाङ्गटो गाङ्गटको गाङ्गटेयो गलाविलः ॥ ब्राह्मी तु पङ्कगडको बृहच्छल्कस्तु चिङ्गढः ॥ ;p{0042} कूलिशः कण्ठकाष्ठीला वेकटो भेकटोऽपि च ॥ त्रिकण्ठको घर्घटः स्याल्लघुगर्गस्तटङ्कटः । पिङ्गाशोऽपि च पिङ्गास्यः पर्वतः पार्वतोऽपि च ॥ कातरः कातलोऽपि स्याद् राजीवो राजहासकः । एते मत्स्यविशेषाः स्युर्यादांसि जलजन्तवः ॥ जलजन्तुविशेषाश्च मकरः शिशुमारकः । उद्रः शङ्कुप्रभृतयश्चान्येऽपि बहुसम्मताः ॥ मकरो जलरूपः स्यादसिदंष्ट्रो मरोलिकः । शिशुमारश्च शिशुको जलकूर्मो वशा(ट्य)ढ्यकः ॥ उद्र उर्दो जलाखुश्च स्यान्नीरनकुलोऽपि च । अथ शङ्कुः शङ्कुचिः स्यात् शङ्कोचिः शाङ्कोचीत्यपि ॥ कुलीरः कुलिरः कर्कः कर्कटो हरिलोचनः । श्वदः ग्रहः कुटिचरः माषादो जलशूकरः ॥ स्यात् पञ्चगुप्तः क्रोडाङ्घ्रिः (क्रोडाङ्गः) कूर्मः कमठकच्छपौ । अथ ग्राहो नक्रराजस्त्ववहारोऽवहारकः ॥ तन्तुनागाह्वये जन्तौ केचित्तु जलहस्तिनि । कुम्भीरो वार्भटो नक्रोऽम्बकिरातोऽम्बुकण्टकः ॥ गण्डूपदः किञ्चुलुको किञ्चुलूको महीलता । निहाका गोधिका गोधिर्जलगौ हि समाह्वये ॥ जलौकसः स्त्रियां भूम्नि स्त्री जलौका जलात्मिका । रक्तपा रक्तपाता च बेधनी जलसर्पिणी ॥ जलुका जलिका वेणी जलमूचिर्जलाटनी । जलालुका जलोका च जलालोका जलासुका ॥ मुक्ता स्फोटः स्त्रियां सूक्तिः शुक्तिश्चापि नखी नखः । अस्त्रियां कम्बुकम्बोनशङ्खाब्जजलजा अपि ॥ क्षुद्रशङ्खः शङ्खनखो नखशङ्खोऽपि कुत्रचित् । जलशुक्तिश्च शम्बूका शम्बूकः शम्बुकोऽपि च ॥ शम्बुक्कः शाम्बुकः शम्बू शाम्बूक्कोऽपि कीर्तितः । भेकः प्लवङ्गमो व्यङ्गः प्लवगो दर्दुरः प्लवः ॥ शालूरोऽपि च सालूरः शाल्वो मण्डुकनन्दनौ । स्याद् गूटवर्चा वर्षाभूरजिह्मो जिह्ममोहनः ॥ अथ किञ्चुलुक स्त्री तु शिली गण्डूपदी मता । तथा कमठभार्या स्यात् कमठी च दुलिर्दुली ॥ ;p{0043} भेकस्य भार्या भेकी स्याद् वर्षाभ्वीति च कथ्यते । कैश्चिदल्पविवक्षायां स्त्रियामिति निगद्यते ॥ मद्गुरस्य प्रिया शृङ्गी शृङ्गिरित्यपि कुत्रचित् । स्यादप्रिया मद्गुरसीति च नाम द्वयं क्वचित् ॥ दुर्नामापि च दुर्नाम्नी दुर्नामा दीर्घ-कोषिका । जलाशयो जलाधारः साधारणजलाशये । जलाधारेऽतिगम्भीरजले जलह्रदो मतः ॥ मूकान्धपशुपानार्थं कूपान्तिकजलाशये । आहावश्च निपानञ्च निपानकमपि स्मृतम् ॥ प्रहि-कूपान्धवः पुंसि उदपानञ्च न स्त्रियाम् । नेमिर्नेमी त्रिका च स्यात् कूपान्तिकसमस्थले ॥ दारुयन्त्रे च केषाञ्चित् मतञ्च बहुसम्मतम् । वीनाहोऽपि विनाहः कूपाननपिधानको ॥ अथ पुष्करिणी खातं भवेत् पौष्करिणीति च । अखातं देवखातञ्च क्वचिद्दैवविनिर्मिते ॥ पद्माकरस्तु कासारस्तडागोऽस्री सरोवरः । तडाकश्च तटाकश्च सरसं सरसी सरः ॥ सरं सरकमित्येष पर्यायस्तु सरोवरे । वेशन्तः पल्वलं चाल्पे वापिर्वापी च दीर्घिका ॥ आवापः स्यादालबालमाबालं त्वलबालकम् । नदी तरङ्गिनी द्वीपवती स्रोतस्वती धूनी ॥ ह्रदिनी ह्रादिनी सिन्धुः सरित् सागरगामिनी ॥ स्याद् द्रवन्ती स्रवन्ती च तटिनी निम्नगापगा । रोधोवक्रा शैवलिनी ऋषिकुल्यावहा धुनिः ॥ निर्भरिण्यापगा चेति नदोपर्याय ईरितः । अथ गङ्गा विष्णुपदी जाह्णवी सुरनिम्नगा ॥ त्रिस्रोता जह्णुतनया भीष्मसूरुग्रशेखरा । भागीरथी हैमवती सिद्धसिन्धुश्च गान्दिनी ॥ धर्मद्रवी त्रिपथगा सितसिन्धुर्भवायना । कालिन्दी यमुना श्यामा तापी च शमनस्वसा ॥ कलिन्दनन्दिनी सूर्यतनया यमनी यमी । ;p{0044} रेवा मेकलकन्या स्यात् पूर्वगङ्गा च नर्मदा ॥ सोमोद्भवा मेखला च तथा मेखलकन्यका । करतोया सदानीरा सदानीरवहापि च ॥ अथ सैतवाहिनी स्याद् वाहुदा सेतवाहिनी । वशिष्ठशापात् शतधा विद्रुता या पुरा नदी ॥ शतद्रुश्च शितद्रुश्च शुतुद्रीत्यपि सा स्मृता । वशिष्ठशापान्मुक्तायां विपाशा तु विपाट् स्त्रियाम् ॥ नदी विशेषाः कावेरी वाशिष्ठी च सरस्वती । अर्धगङ्गा गोमती च गोदा गोदावरी तथा ॥ सुरन्दाना च सुवला मालती च शरावती । वेत्रवती चन्द्रभागा रथम्पा सरयूरसि ॥ वरणा देविका चण्डा तीव्रा पद्मावती तथा । चन्द्रभागा चन्द्रभागी चन्द्रकीयं त्रिधा मता ॥ सरयूः शरयूश्चेति कुल्याम्पा कृत्रिमा नदी । शोणो हिरण्यबाहुश्च हिरण्यवाह इत्यपि ॥ अमोघानन्दनब्रह्मपुत्रलौहित्यलोहिताः । कुमारो घर्घरः सिन्धुभैरवाद्यास्तथा परे ॥ नदभेदाश्च विज्ञेयाः सम्भेदः सिन्धुसङ्गमे । प्रणाली च प्रणालश्च नदनद्यादिवर्त्मनि ॥ देविका सरयूजातौ त्रिषु दाविकसारवौ । सौगन्धिकन्तु कह्लारं सुगन्धिकमपि क्वचित् । सौगन्धिके रक्तवर्णे हल्लकं रक्तसन्ध्यकम् ॥ उत्पलं स्यात् कुवलयं कुवेलं कुर्वलं तथा । नीलोत्पलञ्च नीलाम्बुजन्म कन्दोट्टमित्यपि ॥ इन्दीवरं कुवलयमिन्दिरावरमित्यपि । अथ शुक्लोत्पले गन्धसोमं कुमुदकैरवे ॥ कन्दोट्टो रात्रिहासश्च सोमबन्धुश्च कन्दटम् । पङ्कशूरणशालूकशालूनि शालूकं तथा ॥ मूले सौगन्धिकादीनां भवेदेतच्चतुष्टयम् । कुम्भिका वारिपर्णी च वारिमूली खमूलिका ॥ पर्णी पृश्नी खमूलिश्च खमूली वारिकर्णिका । शैवालौ जलनीली च शैवालं वारिचामरम् ॥ ;p{0045} शेवलं शैवलश्चापि तथा सलिलकुन्तलम् ॥ हटपर्णाऽम्बुतालञ्च शोपालमपि कुत्रचित् । कुमुद्वती स्यात् कुमुदवती कैरविनीत्यपि ॥ तथा कुमुदिनी च स्यादुत्पलिन्यपि कुत्रचित् । स्यात् पद्मिनी कमलिनी विसिनी च सरोजिनी ॥ अम्भोजिनी च नलिनी पुष्करिण्यरविन्दिनी । अम्लानिनी पुटकिनी नालीकिन्यादयोऽपि च ॥ पद्मपङ्कजपङ्केजं पुष्पकाम्भोजमम्बुजम् । अम्भीरुहं सरसिजं राजीवसरसीरुहम् ॥ विसप्रसूनं श्रीवासं श्रीपर्णमिन्दिरालयम् । अरविन्दं जलेजातं नलिनञ्च महोत्पलम् ॥ अब्जमब्जः पुंसि कञ्जं कमलञ्च कुशेशयम् । शतपत्रं तामरसं नलं नालीकनालिकम् ॥ पङ्केरुहञ्च वनजमम्लानपुटके अपि । सिताम्भोजं पुण्डरीकं धवले कमले द्वयम् ॥ सामान्यकमले कैश्चित् पुण्डरीकं निगद्यते । लक्ष्मीगृहं कोकनदं रक्तोत्पलमलिप्रियम् ॥ नालीनाला नालामपि नालिकेत्यपि कुत्रचित् । तन्तुलञ्च मृणालोऽस्त्री विषण्डं बिसमित्यपि ॥ अथ पद्मादिसन्दोहे षण्डः शण्डोऽपि न स्त्रियाम् । करहाटः शिफाकन्दं शिफाकन्दोऽस्य मूलके ॥ केशरं केशरो न स्त्री किञ्जल्कः किञ्जलोऽस्त्रियाम् । संवर्तिका नवदलं पद्मपत्रान्तरे दले ॥ केवलेषु च पत्रेषु तथा च शरपत्रिका । बीजकोषो वारिकुञ्जः शृङ्गाटकवराटकौ ॥ शब्दरत्नावलीकोषे प्रथमोऽयं समर्थितः । स्वर्गपातालवर्गाभ्यां स्वरादिकाण्ड ईदृशः ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां पातालवर्गप्रकाशः ॥} ;p{0046} ;k{भूमिकाण्डः} ;v{भूमिवर्गप्रकाशः} भूमिर्भूमी रसानन्ता धरणिर्धरणी धरा । क्षौणिः क्षौणी क्षितिः क्षोणिः क्षोणी विश्वम्भरा ध्रुवा ॥ धारिणी मेदिनी गोत्रा रत्नगर्भा वसुन्धरा । क्ष्मा मही पृथिवी पृथ्वी महाकान्ता जगद्वहा ॥ सर्वंसहा गन्धवती खस्तनी गिरिकर्णिका । धारयित्री धरित्री च धात्री सागरमेखला ॥ भूतधात्री वसुमती क्षमा कुः सागराम्बरा । उर्वी भूखनी ज्या च काश्यपी वसुधा सहा ॥ अचलाऽचलकीला गौरब्धिद्वीपा द्विरा स्थिरा । इडा स्यादिडिका चेति इला स्यादिलिकेति च ॥ मृन्मृत्तिका मृदा सैव मृत्सा मृत्स्ना च शोभना । ऊर्वरा स्यादुर्वरा च सर्वशस्यवती मही ॥ उष ऊषश्च कथितो या भवेत् क्षारमृत्तिका । ईरिणस्त्विरिणं वाच्यलिङ्गावूर्षवदूषरौ ॥ स्थली दैवकर्तृकेऽन्यत्स्थलं क्लीबे स्थलेत्यपि । निर्जले मरुधन्वानौ खिलमप्रहतं समम् । त्रिषु स्याद् जगती लोको जगद् भुवनपिष्टपम् ॥ अथ मध्यमलोकोऽयं भारतं वर्षमुच्यते । नदी शरावती चास्मिन् गता पश्चिमसागरम् ॥ ईशानकोणादारभ्य यावत् पश्चिमकोणकम् । एतस्मादवधेर्देशो यो भवेत् पूर्वदक्षिणः ॥ स प्राच्य इति विज्ञेय उदीच्यः पश्चिमोत्तरः ॥ तत् प्रत्यन्तदेशस्तु प्रत्यन्तो म्लेच्छदेशवत् । अस्यैव मध्यदेशस्तु मध्यदेशस्तु मध्यमः ॥ आर्यावर्तपुण्यभूमी हिमवद्विन्ध्यमध्यमे । नीवृत् स्त्री मण्डलं राज्यं भवेत् जनपदेऽपि च ॥ देशप्रदेशविषयास्तथा राष्ट्रोपवर्तनम् । आगोष्ठात् त्रिषु नड्वांस्तु नड्वलो नडसंयुते ॥ कुमुदाढ्ये कुमुद्वान् स्याद् वेतस्वान् वेतसान्विते । शाद्वलः शादहरिते पङ्कयुक्ते तु पङ्किलः ॥ जलप्रायप्रदेशः स्यादनूपः कच्छ इत्यपि । शर्करा स्त्रीकर्परांशे सिकता वालुका स्मृता ॥ शार्करः शर्करावांश्च देशे च शर्करावति । ;p{0047} सैकतः सिकतावांश्च देशे च सिकतावति ॥ शार्करिलः सैकतिलः शर्करा सिकता अपि । देश एव चतुष्कं स्यादित्याह मधुमाधवः ॥ देवनद्यम्बुसम्पन्नब्रीहिपालितदेशयोः । क्रमात् देवमातृकः स्यान्नदीमातृक इत्यपि ॥ राजन्वान् सुमहाराजदेशेऽन्यत्र तु राजवान् । अथ गोष्ठं च गोस्थानं गोस्थानकमपि क्वचित् ॥ भूतपूर्वन्तु गोस्थानं गौष्ठीनं तत् प्रकीर्तितम् । पर्यन्तभूमिः शैलादेर्भवत् परिसरो मतः । आलिः स्त्रियां पुमान् सेतुस्तथा पिण्डिलसञ्चरौ ॥ वल्मीकोऽस्त्री वल्मिकश्च कुलकः कूलकोऽपि च । वामलूरः शक्रमूर्धा नाकुः स्यात् क्रिमिशैलकः ॥ पदवी पदविः पद्या पद्धतिः सरणी सृतिः । मार्गाध्वपथपन्थानः शरणिः शरणीति च ॥ वर्तन्येकपदी वाटः सरणिर्वत्म वर्तनम् । अयनं माच-माथौ च विवधो वीवधोऽपि च ॥ सत्पथस्त्वतिपन्थाश्च सुपन्थाः सुपथोऽपि च । कुपथः कापथो व्यध्वो दुरध्वो विपथोऽपि च ॥ असत्पथः कदध्वा च भवेत् कुत्सितवर्त्मनि । अपन्थास्त्वपथञ्चैव पथशून्ये भवेद्द्वयम् ॥ शृङ्गाटकञ्च शृङ्गाटं चतुष्पथमुदाहृतम् । प्रान्तरं प्रान्तशून्यञ्च दूरशून्यपथि द्वयम् ॥ महारण्यं महादुर्गपथि कान्तारमस्त्रियाम् । स्त्रीः गव्यूतिः क्रोशयुग्मं नल्वो हस्तचतुःशतम् ॥ घण्टापथः संशरणं राजद्वारगते पथि । तपनिक्षार(?)मित्युक्तं पुराभ्यन्तरसत्पथे ॥ नववर्षाणि मेदिन्या भारतादीनि भारतम् । नवभूमिः(?) किम्पुरुषस्तथा हरिवर्षन्तथा । ;p{0048} भद्राश्वमुत्तरकुरुहिरन्मयमिलावृतम् । केतुमालं क्रमादेतान्यवधेयानि सूरिभिः ॥ जम्बुप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः । सप्त द्वीपा निगदिताः क्रमादेते मनीषिभिः ॥ लवणेक्षुसुरासर्पिर्दधिदुग्धजलैरमी । समुद्राः सप्त विख्याताः सप्तद्वीपसमावृताः ॥ हिमवान् हेमकूटश्च निषधो मेरुरेव च । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥ अथ देशविशेषाः स्युर्ब्रह्मावर्तस्तपोवटः । कुरुक्षेत्रं प्रयागश्च वारेन्द्रः पौण्ड्रवर्धनः ॥ कुशस्थली सोमतीर्थः कामरूपः शशस्थली । अन्तर्वेदिस्तीरभुक्तिर्विदेहा मिथिला च सा ॥ मत्स्यो विराटो निषदो भोजो भोजकटोऽपि च ॥ पलाशषण्डो मगधश्च पलाशोऽन्धक इत्यपि । दासेरकस्त्रिगर्तः स्यादवन्ती चेदिमानवत् ॥ गया गयश्च वारणायुर्वनयुर्यदुसात्वतम् । चोलो दशार्हः कुकुरो दरदा दरदोऽपि च । उड्र उत्कल उक्कः स्याद् गौडो वङ्गश्च कीकटः ॥ तुरुष्कः खाशिकष्टङ्क् वाह्लीको वाह्लिकश्च सः । ताम्रलिप्तिस्तमोलिप्ती वेलाकूलं तमालिका ॥ साकेतं कोसलायोध्या तथा चोत्तरकोशला । नागाङ्को हास्तिनपुरं हस्तिनं हस्तिनापुरम् ॥ गजाह्वयं गजाह्वञ्च गज . . . मेव च । प्राजापत्यः प्रयागः स्यात् कौशाम्बी वत्सपत्तनम् ॥ द्वारावती द्वारवती द्वारकावनमालिनी । द्वारका चाब्धिनगरी द्वारिकापि च कुत्रचित् ॥ मथुरा स्यान्मधुपुरी मथुरा मधुरा च सा । वाराणसी जित्वरी स्यात्तथा काशी तपस्थली ॥ वाराणसी वरणसी तीर्थराजी च काशिका । विशाला स्यादुज्जयनी भवेदुज्जयिनी च सा ॥ चम्पावती मालिनी स्याच्चम्पा चम्पापुरी तथा । अथ पुष्पपुरं पौष्पी तथा पाटलिपुत्रकम् ॥ आग्नेयं शोणितपुरं देवीकोट्टतमावनम् । ;p{0049} कोटिवर्षं वाणपुरं कोट्टवीपुरमित्यपि ॥ अथ सिन्धुः सिन्धुखेलस्तुरुण्डः पारदण्डकः । पारसीकः पारसिको यवनो जवनोऽपि च ॥ कोङ्कीनः कौङ्किनः कोङ्कः पौण्ड्रः स्यात् पौण्ड्रवर्धनः । काम्पील्योऽपि च काम्पिल्यः कम्पीलः काम्पिलोऽपि च ॥ कर्णाटनाटतेलङ्गहेरम्बहट्टगुर्जराः ॥ कलिङ्गकोलकोलाञ्चभोटाङ्गखम्भ-कुञ्जराः ॥ अन्ये च देशा बहवो ज्ञेया लोकोपचारतः ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां भूमिवर्गप्रकाशः ॥} ;p{0050} ;v{पुरवर्गप्रकाशः} पूः स्त्री पुरी च नगरी पुरं नगरपत्तनम् । स्थानीयं कटकं पट्यं निगमः पुटभेदनम् ॥ आरभ्य मूलनगरादपरं नगरं हि यत् । तदभिस्यन्दिनगरं शाखानगरमेव च ॥ अथ वेशो भवेद् वेश्या जनानामाश्रयस्तु यः । अथ कुट्टो राजधानी राजधानकमित्यपि ॥ अथ हट्टः क्रमारोहो महाघोषो वणिक्पथः । पणग्रन्थिरवज्रङ्गस्तथा ग्राममुखोऽपि च ॥ करशून्ये निर्घटः स्यात् पन्याजीवः कचङ्गने ॥ निषद्या विपणिः पण्यवीथिका त्वापनस्तथा । पण्यविक्रयशालायां भवेदेतच्चतुष्टयम् ॥ प्रतोली विशिखा रथ्या ग्रामाभ्यन्तरवर्त्मनि । स्याच्चयो वप्रमस्त्री तु मृत्तिका स्तूप उच्यते ॥ प्राकारो वरणः शालः इष्टकारचिते त्रयम् ॥ प्राचीरं प्रावरोऽपि स्यात् प्रावृतिः प्रान्ततो वृतिः । इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥ स्त्री भित्तिर्भित्तिका कुड्यं कूड्यं कुड्यकमित्यपि । भित्तौ न्यस्तं विचित्रार्थमस्थ्याद्येडूकमेडुकम् ॥ गृहं सदनमागारमगारञ्च निकेतनम् । गेहोदवसितं वस्त्यं निशान्तं वेश्म केतनम् ॥ निवासवाससंवासवासाधिवासवेशकाः । ओक ओको निवसतिर्वसतिश्च कुटिः कुटी ॥ स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् । आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥ संजीवनं संजवनं शाला निलय इत्यपि । चतुःशालं चतुःशालो चतुः शालकमित्यपि ॥ उटजोऽस्त्री पर्णशाला पर्णोटजमपि क्वचित् । अथ देवकुलाकारयज्ञस्थाने वसूच्यते ॥ ;p{0051} बुद्धालये वृक्षभेदे चैत्यमायतनं द्वयम् । वाजिशाला मन्दुरा स्यात् पानीयशालिका प्रपा ॥ आवेशनं शिल्पशाला च्छात्रादिनिलयो मठः । गुञ्जा गञ्जा गञ्जका च मदिरागृहमुच्यते । गर्भागारं वासगृहं भोगसद्मापवारकम् । सूतीगृहं सूतिगृहं अरिष्टं सूतिकागृहम् ॥ वातायनं गवाक्षस्तु रन्ध्रे गृहादिवेष्टने । जनाश्रयो मण्डपोऽस्त्री देवादिदत्तवेश्मनि ॥ हर्म्यमट्टालिका चाट्टा धनिनान्तु निकेतने । देवानां भूभुजां वासः प्रासादः परिकीर्तितः ॥ अथ भूपालभवनमस्त्री सौधं सुधामयम् । उयारीति च विख्याते उपकार्योपकारिका । नन्द्यावर्तः स्वस्तिकः स्यात् सर्वतोभद्रचित्रकौ । विच्छन्दको वर्धमानस्तारामण्डल इत्यपि ॥ रुचकश्छत्रकाद्याश्च भेदा ईश्वरसद्यनाम् ॥ अन्त[ः]पुरन्तु शुद्धान्तस्त्ववरोधोऽवरोधनम् । अट्टः क्षौमः क्षोममस्त्री प्राकाराग्रगृहे त्रयम् ॥ केचिदट्टालिकायाञ्च युद्धशिक्षादिके गृहे । गृहाभ्यन्तरशद्यार्थपिण्डिकायामपि त्रयम् ॥ आलिन्दः स्यादलिन्दोऽपि स्यादलिन्दक इत्यपि । भवेद्गृहावग्रहनी देहलिर्देहलीति च ॥ त्रयं द्वारपिण्डिकायां द्वारबाहुलिकेऽपि च । चत्वरं प्राङ्गनञ्च स्यादजिराङ्गनमङ्गनम् ॥ द्वाराधःस्थितकाष्ठे तु शिला चापि शिलिः शिली । द्वारोर्ध्वस्थितकाष्ठे तु नासा च नासिकेत्यपि । ;p{0052} प्रकोष्ठाभ्यन्तरगृहद्वारे गूढनिषेविते । प्रच्छन्नमन्तद्वारस्तु द्वयन्तत्राभिधीयते ॥ पक्षकः पक्षपालिः स्यात् पक्षद्वारं खडक्किका । पटलः प्रान्तदेशे तु बलीकं नीध्रमित्यपि ॥ अथ चाल इति ख्याते कलटं पटलं छदिः । वडभी छादने वक्रकाष्ठे गोपानसी मता ॥ तत्रैव वडभिश्चैव बलभिर्बलभीति च । कपोतपालिकायास्तु विटङ्कोऽस्त्री विटङ्ककम् ॥ प्रतिहारः प्रतीहारः स्त्री द्वार्द्वारञ्च वारकम् । वेदिर्वेदी वितर्दिः स्याद्वितर्दी च वितर्दिका ॥ पताका स्रग्युतस्तम्भद्वयेन परिकल्पितम् । वहिर्द्वारं तोरणोऽस्त्री द्वयं तत्राभिधीयते ॥ नगरादिद्वारनाम पुरद्वारञ्च गोपुरम् । अथ दुर्गपुरद्वारि मृत्तिकास्तूपकं हि यत् ॥ तत्र हस्तिनखो ज्ञेय इत्याह मधुमाधवः ॥ अथ त्रिषु कपाटञ्च कवाटं द्वारकण्टकम् । अररं त्वररी च स्यादरारमपि कुत्रचित् ॥ हुङ्कावाडीति विख्याते अर्गलार्गलमित्यपि । आरोहनञ्च सोपानं पठा इति समाह्वये ॥ सोपाने काष्ठघटिते निःश्रेणी त्वधिरोहिणी । निःश्रेणिः स्यान्निश्रयनी तथा निःश्रयनीत्यपि ॥ सम्मार्जनी शोधनी स्यादूहनी च समूहनी । अथावकर-सङ्कारसङ्कराः त्रितयं पुनः ॥ सम्मार्जनीविनिक्षिप्तधूल्यादौ परिकीर्तितः । ;p{0053} गृहादीनां प्रवेशादिनिर्गमादिपथेऽपि च ॥ मुखं निःसरणञ्चेति भवेन्निःसारणन्तु तत् । नगरादिवहिःस्वैरविहारचारुभूमिषु । एतद् द्वयं निगदितं सन्निवेशो निकर्षणम् ॥ अथ संवसथग्रामौ तथावसथ इत्यपि । वास्त्वस्त्री वेश्मभूर्वाटी वाटिका गृहपोतकः । ग्रामान्त उपशल्यञ्च द्वयं ग्रामसमीपके । द्वे स्त्रियौ सीमसीमे च ग्राम्यावधिनिश्चिते ॥ घोष आभीरपल्ली स्यादाभीरपल्लिरेव च । पङ्कणः पक्कणश्चापि शवरालय इत्यपि ॥ चण्डालादिगृहव्यूहे केचिदाहुर्विषालये । प्रतिवेशप्रतीवेशौ आसन्नगृहिणां गृहे ॥ चूडा चूला चन्द्रशाला वडभी वलभिस्तथा । कूटागारञ्च वलभी गृहाद्युपरि यद्गृहम् ॥ हर्म्यादीनां प्रकोष्ठे तु कख्या कक्ष्या समीरिता । सुधाभूमिः कुट्टिमोऽस्त्री मालभूमिश्च सा मता ॥ कपिशीर्षं द्रुमशीर्षं तथा चाखोटशीर्षकम् । एते कुट्टिमभेदाः स्युः शाब्दिकैः समुदाहृताः ॥ खरकुटिः स्यात् खरकुटी नापितस्य गृहे द्वयम् ॥ कायमानं तृणकुटी भवेत्तृणगृहे द्वयम् । वासकर्णी रङ्गशाला पक्षिशाला कुलालिका ॥ दर्भटो निभृतगेहे विड्गेहे कर्दमाटकः ॥ कुत्रङ्गः पिठरञ्चैवमुद्घाटः सस्वभेदकाः । मञ्चेन्द्रकोषौ स्याद् ब्रह्मशासनं धर्मकीलकः ॥ सामान्यशासनं सौवं मकुतिः शूद्रशासनम् । ;p{0054} स्थानं चतुःशतग्राममध्ये स्यात् कर्वटोऽस्त्रियाम् ॥ द्रोणीमुखं तदर्धस्य मध्ये तस्यार्धमुच्छ्रयः ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां पुरवर्गप्रकाशः ॥} ;p{0055} ;v{शैलवर्गप्रकाशः} पर्वतः स्थावरः शैलः स्थानुमान् पृथुशेखरः । धरणीकीलकः क्ष्माभृदहार्यः शिखरी धरः ॥ कुट्टारोऽचलः जीमूतो धातुभृद् भूधरः स्थिरः । कुटीलः कुटकी शृङ्गी निर्झरी च शिलोच्चयः ॥ महीध्रगिरिगोत्रागग्राविद्रनगदन्तिनः । लोकालोकश्चक्रवाडो लोकालोकाख्यपर्वते ॥ त्रिशृङ्गस्त्रिककुच्चापि त्रिकूटश्च त्रिकूटकः । अस्ताचलः स्यादस्तस्तु चरमाचल इत्यपि ॥ सेनापतिर्नगपतिर्गौरीगुरुहिमालयौ । हिरण्यनाभो मैनाकः मुनाभो हिमवत्सुतः ॥ कुवेराचलः कैलासो रजतप्रस्थ इत्यपि । निषदो माल्यवान् विन्ध्यो हेमकूटो युगन्धरः । पारिपात्रः पारियात्रश्चित्रकूटो गुणेश्वरः ॥ ऋष्यमुको रत्नकूटः किष्किन्ध्यो गन्धमादनम् । किष्किन्ध्योऽपि गुहा तस्य किष्किन्ध्या द्विविधा मता ॥ ब्रह्मयोनिर्ब्रह्मगिरिः कोलः क्रौञ्चोऽपि मन्दरः । चन्दनाद्रिस्तथाषाढो मलयो मलयाचलः ॥ एते पर्वतभेदाः स्युरन्येऽपि लोकशास्त्रतः ॥ प्रस्तरग्रावपाषाणोत्पलाश्मानो दृशत् दृषत् । परारुकः पारटीटो मृन्मरुः काठकः शिला ॥ स्फटिकं स्फाटकञ्चापि स्फाटिकमपि कुत्रचित् । कूटोऽस्त्रियाञ्च शिखरं शृङ्गं शैलाग्रदेशके ॥ अरण्यकण्टकव्याप्तगिरिपार्श्वोच्चदेशके । पतनस्थानमित्येवं प्रपातस्त्वतटो भृगुः ॥ कटकोऽस्त्री शैलमध्यो नितम्बोऽपि कुत्रचित् । पर्वते समभूभागे स्नुः प्रस्थः सानुरस्त्रियौ । यत्र विश्राम्यति स्रूत्वा स्रूत्वा पुनः पुनः । उत्सः प्रसवणञ्चापि द्वयं तत्राभिधीयते ॥ अथ वारिप्रवाहे तु निर्झरो निर्झरी झरः । ;p{0056} दर्विर्दवी कन्दरं स्यात् कन्दरा च चतुष्टयम् ॥ अकृत्रिमे कृत्रिमे वा गिरिरन्ध्रे निगद्यते । देवादिखाते रन्ध्रे वा गह्वरी गह्वरं गुहा ॥ गण्डशैलास्तु ते शैलाच्च्युताः स्थूलोपलाश्च ये । खनिः खानिः खनी खानी वाकरो रत्नजन्मभूः ॥ प्रत्यन्तपर्वताः पादाः पादशैला अपि क्वचित् । समुद्रपर्वासन्नभूमिरेवमुपत्यका ॥ गिरेरूर्ध्वस्थिता भूमिरुक्ता शैष(?)मधित्यका । गिरेर्मनःशिलाद्यस्तु धातुरित्यभिधीयते ॥ विशेषतो गौरिकन्तु रक्तधातुगवेरुकम् । बलावरक्तकगिरिमृत् प्रत्यश्मगैरिकान्तरम् ॥ सितोपलः शिलाधातुर्वर्णरेखा च मक्लनम् । शिलाधातुविशेषोऽस्तु विज्ञेयो लोकशास्त्रतः ॥ पेषणिः पेषणी च पट्टो गुहाष्मा गृहकच्छपः । घर्षनालः शिलापुत्रः शिलापुत्रक इत्यपि ॥ काच्छली काच्छलिश्चापि कखटी च खटी तथा । अथ कुञ्ज-निकुञ्जौ च वा तु क्लीबे लतागृहे ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां शैलवर्गप्रकाशः ॥} ;p{0057} ;v{वनौषधिवर्गप्रकाशः} अरण्यमटवी दावो दवो गहनकाननम् । अटविर्झाटगुहिनवनं विपिनभीरुकम् । अरण्यानी महारण्यं गृहारामास्तु निष्कुटाः ॥ आरामः स्यादुपवनं द्वयं कृत्रिमकानने । अमात्यवेथ्यानिलयोपवने वृक्षवाटिका ॥ भवेदाक्रीड उद्यानं राजसाधारणं वनम् । अन्तःपुरोचितं यत्तु तद् भवेत् प्रमदावनम् ॥ ज्ञेयं तदेव प्रमदवनं लीलोचितन्तु यत् । पंक्तिः श्रेणी च बिञ्जोली वीथ्यालि पालिरावलिः ॥ आली पाल्यावली श्रेणिः वीथिः स्याद् वीथिकापि च । राजी राजिस्तथा रेखा लेखा निच्छिद्रपंक्तिषु ॥ पूर्वकं सान्तराले स्यादित्याह मधुमाधवः ॥ अथ वन्या वनव्यूहे वान्या च कथिता बुधैः । कडम्बश्च कलम्बः स्यादङ्कूरोऽङ्कुर एव च ॥ वृक्षः शाखी द्रुमो गच्छः पलाशी विटपी तरुः । महीरुहो विष्टरः स्याद् महीरुट् पादपः कुचिः ॥ स्थिरः कारस्करः सालः नगोऽगः स्यादनोकहः । अगमो द्रुः कुचारुश्च स्यात् कुचोरुक्ष इत्यपि ॥ पुष्पात् फलयुते वृक्षे वानस्पत्य उदाहृतः । पुष्पं विना फलयुतो निर्घटः स्याद् वनस्पतिः ॥ या भवेत् फलपाकान्ता सेयमोषधिरोषधी । वृक्षे त्वनिष्फले वन्यः फलेग्रहिः फलग्रहिः ॥ अवकेश्यफलो बन्ध्यस्त्रयं निष्फलभूरुहे । फलयुक्ते तु वृक्षे स्यात् फलवान् फलिनः फली ॥ फुल्ल उत्फुल्लसंफुल्लप्रफुल्लप्रस्फुटस्फुटाः । व्याकोशविकचस्मेर-प्रकाशोन्मुद्रसंस्फुटाः ॥ स्फुटितस्मितविकाशविकस्वरमुखा अपि । उक्ता विकसिते सद्भिः स्युरवन्ध्यादयस्त्रिषु ॥ ;p{0058} अस्त्री स्थानुः ध्रुवः शङ्कुश्छिन्नशाखे महीरुहे । क्षुपच्छापौ निगदितौ ह्रस्वशाखाशिके तरो । अविद्यमानशाखे तु बहुपत्रे महीरुहे । अप्रकाण्डे झिण्टिकादौ स्तम्बगुल्मौ समीरितौ ॥ वल्लिर्वल्ली च व्रततिवेल्ली स्यात् प्रतति लता । शाखादिरहितायान्तु गुडुच्यादौ प्रकाशिता ॥ शाखापत्रसमायुक्तलतायां स्यात् प्रतानिनी । उलपो गुल्मिनी वीरुद् वीरुधा विरुदित्यपि ॥ वृक्षादिदैर्घ्य उच्छ्राय उत्सेध उच्छ्रयोऽपि च । स्कन्धः काण्डः प्रकाण्डोऽस्त्री मूलाच्छाखावधेस्तरोः ॥ शाखायास्तु लताशाखे शीकडाख्ये शिफाजटे । अथ शाखा स्कन्धशाखा मुख्यशाखा [च] भूरुहा ॥ अग्रशिरः शिरश्चेति शिखरं पुंनपुंसकम् । मूलं स्कन्धः त्वङ्घ्रिरङ्घि ब्रध्नः स्याद् वुध्न इत्यपि ॥ सारो मज्जा च मज्जा स्त्री वृक्षादेः सारभागके । त्वक् स्त्री त्वचा त्वचं चोचं वल्कं वल्कलचोलकम् ॥ शल्कं स्यात् च्छल्लकं च्छल्लि शूल्ली चोचकमित्यपि । काष्ठं दारु समित् स्त्री स्यात् एधः एधः समिन्धनम् ॥ इध्ममिन्धनमेतस्मिन् किलिञ्जमपि सूक्ष्मके । निर्गूटो निष्कुहोपि स्यात् कोटरं कोटरोऽपि च ॥ मञ्जरिर्वल्लरिर्मञ्जिः स्त्रियो वल्लरमञ्जरम् । पत्रसूचिर्द्रुमनखो बङ्किलः कण्टकोऽपि च ॥ पत्रं पात्रं दलं पर्णं पलाशञ्च च्छदः पुमान् । च्छादनं च्छदनं बर्हं बर्हणञ्चापि पत्रकम् ॥ पल्लवोऽस्त्री प्रवालं स्यात् हलं(?) किसलमित्यपि । किशलं स्यात् किसलयं भवेत् किशलयं तथा ॥ ;p{0059} विटपोऽस्त्री तु विस्तारः शाखापल्लवसंहितौ ॥ अथ शस्यञ्च सस्यञ्च वृक्षादीनां फले द्वयम् । तथा वोंट इति ख्याते वृन्तं प्रसवबन्धनम् ॥ अम आमस्त्वपक्वेऽस्मिन् शलाटुः स्यात् फले त्रिषु । अथ वानञ्च फले शुष्के त्रिषु द्वयम् ॥ जालिका कोषिका जालं जालकं क्षारकोऽपि च । कलिः कली च कलिका कोरकोऽङ्कुरितोन्मुखम् ॥ स्तवको गुच्छको गुत्सो गुच्छकं गुच्छ इत्यपि । गुलुच्छः गुञ्जसख्येप(?) गुलुञ्च्छश्च गुलुञ्च्छकः ॥ मुकुलो मकुलोऽप्यस्त्री कुड्मलः प्रौडकोरके ॥ पुष्पं प्रसूनं सूनञ्च प्रसवः कुसुमं सुमम् । स्त्रियः सुमनसश्चापि सुमनश्च नपुंसकम् ॥ पुष्परसो मरन्दः स्यान्मकरन्दो मरन्दकः । पुष्परेणुः परागश्च सुमनो रज इत्यपि ॥ क्लीबन्तु प्रसवे सर्वं हरितक्यादयः स्त्रियाम् । आश्वत्थं वैनवं प्लाक्षं नैयग्रोधं तथैङ्गुदम् ॥ वार्हतञ्च फलेऽश्वत्थप्रभृतीनां महीरुहाम् । जम्बूफले तु जम्बूः स्त्री जम्बुजाम्बरमित्यपि ॥ जातिप्रभृतयः पुष्फे स्वलिङ्गा ब्रीहयः फले । अथ पुष्पे फले मूले विदार्थाद्याः स्वलिङ्गकाः ॥ पाटलं पाटला चेति पाटला कुसुमादिके । बोधिः बोधिद्रुमोऽश्वत्थः पिप्वलः केशवालयः ॥ वदरङ्गश्चलदलश्चैत्रद्रुः कुञ्जराशनः । यक्षोडुम्बुरकं नाम अश्वत्थसम्भवे फले । ;p{0060} कपित्थः स्यात् पुष्पफलो ग्राही दधिफलोऽपि च ॥ दधित्थो मन्मथो दन्तशठोऽपि स्यात् कपित्थकः । हेमदुग्धी यज्ञफलो यज्ञाङ्गो हेमदुग्धकः ॥ उडुम्बरो जतुफलो यज्ञोदुम्बर इत्यपि । काञ्चनालः कोविदारः कुद्दालो युगपत्रकः ॥ विदलः स्याच्चमरिको रक्तकाञ्चन ईरितः । सप्तपर्णः शारदः स्यात् शारदी विषमच्छदः ॥ देववृक्षो विशालत्वक् दानगन्धिः शिरोरुजा । ग्रहनाशश्छातिपणी गृहाशीर्ग्रहनाशनः ॥ आरग्वधो व्याधिघातः कृतमालः सुवर्णकः । आरग्वधो(?) राजवृक्षः स्याद्रेवतश्चतुरङ्गलः ॥ सुवर्णोऽपि च शम्याक आरेवतः शलालुकः । जम्भीर जम्भ जम्भीर जम्भलादन्तहर्षणः ॥ गम्भीरः स्याद् दन्तशठो जम्विरो दन्तकर्षणः । कुचिला इति विख्याते कतकोऽम्वुप्रसादनम् ॥ वरुणस्तिक्तशाकः स्यादश्मरीघ्नः कुमारकः । वरणः सेतुकः सेतु वराणः शिखिमण्डनः ॥ पुन्नागः केशरो नागः केशरी देववल्लभः ॥ स्यात् पाण्डुनागः पुरुषस्तुङ्गस्तुङ्गक इत्यपि ॥ मन्दारोऽपि च मन्दारुर्मन्दरः पारिजातकः । पारिजातो निम्बतरुः पारिभद्रश्च मन्दटः ॥ तिनिशः स्यन्दनो नेमिश्चित्रकृत् चातिमुक्तकः । स्यात् स्यन्दनक्रमो नेमी रथद्रुश्च तिनाशकः ॥ आम्रातकः पीतनं स्यात् कपिचूतं कपीतनम् । आम्रातकफले स्वादुरसा पशुहरीतकी ॥ मधूको मधुकोऽपि स्यात् मधुपुष्पो मधुद्रुमः । वानप्रस्थो मधुष्ठीलो गुडपुष्पो मधुस्तथा ॥ स्यान्मधूके तु जलजे गिरिजेऽपि मधूलकः । ;p{0061} पीलुर्गुट्टफलः स्रंसी पीलूः पीलुकोऽपि च ॥ आखोटः कर्परालः स्यादास्फोटोऽक्षोड इत्यपि । कन्दरालः कन्धरालः पीलौ पर्वतसम्भवे ॥ स्यादङ्कोटस्तथाङ्कोलो निकोचकविकोचकौ । पालाशः किंशुकः पर्णो वातपोथः पलाशकः ॥ वेतसः शीत-वानीर-वञ्जुला विदुलो रथः । अभ्रपुष्पो गन्धपुष्पो रथाभ्रो वेतसीत्यपि । परिव्याधश्च विदुलो नादेयी जलवेतसे । शोभाञ्जनः शिग्रूतीक्ष्नौ गन्धगन्धकमोचकाः ॥ काक्षीवकः स्यादक्षीवः आक्षीवश्च श्रुभाञ्जनः । सौभाञ्जनः स्यात् स्त्रीचित्तहारी द्रविणनाशनः ॥ रक्तशोभाञ्जने तुल्यौ मधुशिग्रूमधुद्रवौ । अरिष्टः फेनिलो रिष्टोऽरिष्टको रिष्टकोऽपि च ॥ विल्वे मालूरशाण्डिल्यशौलूषाः श्रीफलोऽपि च । महाकपित्थः प्राचीनपनसो गोहरीतकी ॥ पर्कटिः पर्कटीः प्लक्षः प्लाक्षोऽपि च जटिर्जटी ॥ वटन्यग्रोध-बहुपादवृक्षनाथयमप्रियाः । अथ लोध्रस्तिरीटः स्यात् तिल्वमार्जनगालवाः ॥ शावरः शालरः रोध्रः शावरकोऽपि कुत्रचित् ॥ आम्रो वसन्तदूतः स्यान्माकन्दः षट्पदातिथिः । मधुदूतो वसन्तद्रुवल्व(?)चूतपिकप्रियाः ॥ रसालः स्त्रीप्रियश्चेति गन्धबन्धुर्बलिप्रियः । सहकारः सहारोऽपि रसाले त्वतिसौरभे ॥ महाकालश्च किम्पाक उर्वटो बलिभुक्प्रियः । ;p{0062} गुग्गुलु गुग्गुलोऽपि स्यात् कौशिकश्च वरः पुरः ॥ कुम्भोलूखलकं कुम्भमनूखलकमित्यपि । बहुवारः शेलुशीतौ श्लष्मातो बहुवारकः ॥ श्लेष्मातकः स्यादुद्दालो भवेदुद्दालकोऽपि च ॥ स्यात् पियालं पियालश्च सन्नकद्रूः द्रुमन्नकः ॥ राजादनं धनुपटौ धनुष्पटपियालकौ । गम्भारी भद्रपर्णी स्यात् श्रीपर्णी मधुपर्णिका ॥ भद्रा स्यात् सर्वतो भद्रा काश्मरी कश्मरीति च । अथ द्वयोस्तु कर्कन्धुः कर्कन्धूर्वदरोऽपि च ॥ कोला कोली च कुवली वदरी कोलिरित्यपि । स्वादुफला गृध्रनखी पिच्छिला कुवलोऽपि च ॥ कुवलं फेणिलं कोलं सौविरं वदरं तथा । स्यात् पिञ्छलं स्वादुफलं फेणिलं वदरीफले ॥ अथ घोन्टा गोपघोन्टा वदरो वदरञ्च तत् । वदरीसदृशे सूक्ष्मफले वृक्षे चतुष्टयम् ॥ वृतिंकरः स्रूवावृक्षः ग्रन्थिलः स्वादुकण्टकः । व्याघ्रपात् कण्टीकारी च वैकङ्कत-विकङ्कतौ ॥ नागरङ्गस्तु नागङ्गो नार्यङ्गो नागरोऽपि च । ऐरावतो नागरकस्तथा चक्राधिवास्थषि ॥ भूमिजाम इतिख्याते नादेयीभूमिजम्बुका । केचिन्नागरङ्गपर्याये द्वयमेतत् प्रचक्षते ॥ कर्मीकरो धर्मलः स्यात् पिच्छिलत्वक् सुगन्धकः । पिशाचद्रुः पीतफलः शाखोटः कर्कटच्छदः ॥ कालस्कन्धः स्फुर्जकः स्यात् स्फुर्जुकः शितिसारकः । कन्दुस्तिन्दुस्तिन्दुकश्च तिन्दुकिस्तिन्दुकीत्यपि ॥ ;p{0063} पाटलिः पाटली घण्टा घण्टापाटलिरित्यपि । घण्टाको झाटलो झाटो गोलीटमोक्षमूष्ककाः । तिलकं क्षुरकं श्रीमान् त्रयं तिलकभूरुहे ॥ झावुकः पिचुलो झावुर्झावूरपि निगद्यते । काफलः कट्फलः कुम्भी कैटर्यः परुषोऽपि च ॥ श्रीपर्णिका कुमुदिका श्रीपर्णी कुमुदीत्यपि ॥ पट्टिलोध्रः पट्टिकाक्षः पट्टिलोध्रक इत्यपि । ब्रह्मण्यो ब्रह्मदारु स्यात् क्रमुकस्तूलस्तूलकम् ॥ नूदपूगौ पूषयूषौ ब्रह्मदारुमहीरुहे । कदम्बनीपप्रियककदम्बकहलिप्रियाः ॥ त्रिषु भल्लातकी भल्ली वीरवृक्षोऽप्यरुष्करः । अरुषेकाऽग्निमुखी चासौ हितो रक्षोघ्न इत्यपि ॥ गर्दभाण्डो गन्धभाण्डः कपीतनसुपार्श्वकौ । प्लक्षश्च कन्दरालश्च प्लाक्षश्च कन्दरालकः ॥ तिन्तिडी तिन्तिली चिञ्चा तिन्तिडिकाम्ब्लिकाम्लिका । चुक्रुश्चुक्ता चुक्तिकाम्ला त्वम्ब्ला शुक्ता च शुक्तिका ॥ चारित्र्यागुरुपत्रा च पिच्छिला यमदूतिका । बन्धूकपुष्पप्रियकजीवकाः पीतशालकः ॥ पीतशालोऽर्जुनः सर्जः सर्जकोऽप्यशनोऽसनः । सालः सार्जलता शङ्खः स्यात् काष्योप्यश्वकर्णकः । शस्यशम्बर इत्येष सस्यसम्बर इत्यपि ॥ नदीसर्जो वीरतरुः कुकुभेन्द्रद्रुमार्जुनाः । अध्यक्षस्तु फलाध्यक्षो राजादनवरादनम् ॥ क्षीरा च क्षीरिका क्षीरी क्षीरिवृक्षे निगद्यते ॥ ;p{0064} इङ्गुदी तापसतरुर्जीवपुत्रकभूरुहे । इङ्गुदी बृक्षभेदेऽपि क्वचित् केचित् प्रचक्षते ॥ भूर्जे मृदुच्छदश्चर्मी भुर्जपत्रमृदुत्वच्यौ । स्थिरायुः पिच्छिला मोचा पूरणी शाल्मलिर्द्वयोः ॥ द्वारारोहा शाल्मलिनी शाल्मलोऽपि च कुत्रचित् । पिच्छा तु शाल्मली वेष्टो निर्यासे शाल्मलीतरोः ॥ काशिमालाह्वये तरौ कूटशाल्मलिरोचनौ । करञ्जकः स्यात् करजं करजो घृतपूर्णकः ॥ चिरिविल्वो नक्तमालश्चिरविल्वः कुरञ्जकः । पूतीकः पूतिकः पूतीकरज्ञः कलिकारकः ॥ प्रकीर्यः पूप्तिकरजः कालकृत् कलिमारकः । पूती करजकः पत्रसूची कलहनाशनः ॥ अङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवन्नरी । करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे ॥ अथ रोही रोहितको रौहितेयस्तु रोहितः । रौहितकः प्लीहशत्रुः रौही दाडिमपुष्पकम् ॥ खदिरो बालतनयः कुष्टकुद्दालपत्रकम् । यूपद्रुमः कृष्णसारो गायत्री दन्तधावनः । हरिमदोऽरिमेदो विट्खदिरेऽपि च ॥ कदरः सोमवल्कः स्यात् खदिरे सोमवर्णके । एरण्डोरुवूकौ व्याघ्रपुच्छो मण्डकडम्वकौ ॥ चञ्चुस्तु मण्ड-आमण्डः प्राचीनामलकोऽपि च । उरुवुको हस्तिकर्णो वातारिवर्धमानकौ ॥ पञ्चाङ्गुलश्चित्रकश्च चित्रो गन्धर्वहस्तकः । शमीरोऽपि च शस्यार्कः द्वयं स्वल्पशमीतरौ ॥ शमीवृक्षे शत्रुफला समी शक्तुफली शिवा । मदनः स्यान्मरुवकः श्वसनः करहाटकः ॥ ;p{0065} शल्यः पिण्डीतकश्चापि शल्यकः करपाटकः । देवदारु भद्रदारु पीतदारु च दारु च ॥ पूतिकाष्ठं द्रुकिलिमं सुराह्वः शक्रपादपः । पूतिकं स्यादिन्द्रदारु पारिभद्रकभद्रकौ ॥ काचस्थाली कुवेराक्षी कृष्णवृन्ता फलेरुहा । स्थापन्यमोघा मोघा च पाटला पाटलिर्द्वयोः ॥ स्यात् प्रियङ्गुः फली श्यामा गुन्द्रा गोबन्दनी लता । विश्वक्सेना च करम्भा फलिनी महिलाह्वया ॥ प्रियकः स्याद्गन्धफला तथा गन्धफलीति च । शोनको नटक-ट्वङ्ग-पत्रोर्णशोणढुण्डुकाः ॥ मण्डूकपर्णः श्योनाकः सुकनाकः कुटन्नटः । ऋक्षो वटुर्दीर्घवृन्तो दीर्घवृन्तक इत्यपि ॥ त्रिषु च स्यादामलकी वयस्थाप्यमलामृताः । कायस्था च तिष्यफला तिष्या रुद्रप्रिया च सा ॥ अक्षः कलिद्रुमः कक्षो भूतवासस्तुषोऽपि च । भूतवासः कर्षफलः कर्षो विभीतकस्त्रिषु ॥ हरीतकी शिवा पथ्या वयस्या पूतनाभयाः । अव्यथा श्रेयसी शक्रपृष्ठा हैमवती सुधा ॥ कायस्था चेतकी कस्यावसायनफलामृता । सरलः पूतिकाष्ठञ्च पीतद्रुर्धूपवृक्षकः ॥ कर्णिकारः परिव्याधः परीव्याधो द्रुमोत्पलः । पद्मतुल्यपीतपुष्पे कर्णिकारे चतुष्टयम् ॥ नकुचो लकुचोऽपि स्यान्निकुचो लिकुचो डहुः । क्षुद्रोऽम्लपनसोऽपि स्यादम्लकश्च डहुश्च सः ॥ पनसश्चम्पकाषश्च चम्पालुः कण्टकीफलः । रसालः कण्टकिफलः मृदङ्गफलपानसौ ॥ एतत् फलस्य सारो यस्तनृस्तं(?) परिकीर्तितम् । ;p{0066} इज्जलो हिज्जलोऽपि स्याद् भूदन्दो निचुलोऽम्बुजः ॥ रक्तमञ्जरसेव्यौ च सप्त हिज्जलभूरुहे ॥ मलपूर्मलयुफल्गुः फग्गुश्च जघनेफला । काकोडुम्बुरिका चापि काकोडुम्बर एव च ॥ निम्वः स्यात् पिचुमर्दश्च पिचुमन्दोऽर्कपादपः । अरिष्टो हिङ्गुनिर्यासः सर्वतोभद्रमालकौ ॥ शिंशपागुरुसारा च पिच्छिलागुरुशिंशपा । सा चेत् कपिलवर्णा स्याद् भस्मगर्भा निगद्यते ॥ क्वचित्तु कपिला भस्मगर्भा च गुरुशिंशपा । पिच्छिला शिंशपायुग्मपत्रिका गुरु चेत्यपि । शिरीषः स्याच्च भण्डीसो भण्डिलश्च कपीतनः ॥ चम्पकः पुष्पगन्धः स्याच्चाम्पेयः कुसुमाधिपः । हेमपुष्पक हेमाङ्गो गन्धराजक इत्यपि ॥ चम्पकस्यैव कलिका गन्धा गन्धफली च सा । वकुलः केसरः सिंहकेसरो मकुलोऽपि च ॥ वरलब्धः सिधुगन्धो मुकुरो मुकुलोऽपि च । वञ्जुलोऽशोक-कङ्काल्लि-नट-कान्ताङ्घ्रिदोहदाः । दाडिमः पिण्डपुष्पोऽपि दाडिम्बः शुकवल्लभः ॥ स्वाद्वम्लः करकश्चापि पिण्डीरफल इत्यपि । तगरः सितपुष्पः स्यात् कालपर्णः कटुच्छदः ॥ नागकेशरचाम्पेयकेमराः काञ्चनाह्वयः । स्यात् पुष्परोचनो नागपुष्पो नागोऽपि च कुत्रचित् ॥ जयन्ती वैजयन्ती स्यात् तर्कारी वैजयन्तिका । जया जैत्री च नादेयी भवेत् नादेयिकापि च ॥ गणिकारिश्च गणिका श्रीपर्णं गणिकारिका । अग्निमन्थो हरिमन्थस्तेजोमन्थो जयत्यपि ॥ ;p{0067} कुटजः पाण्डरः शक्रः वत्सको गिरिमल्लिका । इन्द्रयवं भद्रयवं कालिङ्गं कौटजे फले ॥ करमर्दः करामर्दः आविग्नो विग्न इत्यपि । कृष्णपाकं पाककृष्णः सुषणः करमर्दकः ॥ कृष्णपाकफलः कृष्णस्तथा पाकफलोऽपि च । तमालः स्याच्च तापिच्छकालस्कन्धतमालकाः । सिमुन्धकं सिन्धुवारः सिन्धुकः सुरसोऽपि च ॥ तथेन्द्रसुरसस्त्विन्द्रसुरसः सिन्धुवारितः । निर्गुण्डीन्द्रानिकेन्द्राणी सुरसा सिन्धुवारकः ॥ देवताडस्तु जीमूतः खरी वेणी खरीखरा । श्रीहस्तिनी तु भूरुण्डी चेनीति समाह्वये ॥ मल्लिर्मल्ली शीतभीरुः शतभीरुश्च मल्लिका । तृणशूल्या मोदयन्ती भूपदी मदयन्तिका ॥ तृणशूल्यं विचकिलं सितपुष्पा सितेत्यपि । आस्फोता वनमल्ली स्यात् आस्फाटा सुभगा च सा ॥ शेफालिका तु शेफालिर्नीलिका मसिकाऽपि च । सुवहा रजनीहासा निर्गुण्डी निशिपुष्पिका ॥ सा शुक्ला श्वेतसुरसा भूतवेशी च कीर्तिता । अथ शेफालिकावृन्तं मसी मसिरिति द्वयम् ॥ यूथिका गणिका यूथी प्रसहन्ती च मागधी । अम्वष्टेत्यपि सा पीता हेम स्यात् हेमपुष्पिका ॥ वसन्तदूती वासन्ती माधवी माधवीलता । लता लतामाधवी स्यादतिमुक्तश्च पुण्ड्रकः ॥ मालती सुमना जाती सुमनाजातिरित्यपि । जातिपुष्पकलिका च सोमनस्यायनी भवेत् । ;p{0068} सप्तला गन्धनिलया मालिका नवमालिका । कुन्द्यं माघ्यं वोरटञ्च वरटञ्चापि कुत्रचित् ॥ बन्धूको बन्धुको बन्धुर्बन्धुलो बन्धुजीवकः । रक्तको बन्धुजीवः स्याद् बन्धुलिर्बन्धुरोऽपि च ॥ भवेद् घृतकुमारी तु कुमारी तरणिः सहा । महासहा स्यादम्लानो द्वयमम्लानभुरुहे ॥ रक्ताम्लाने कुरुवकस्तथा कुरवकोऽपि च । पीतवर्णे तु तत्रैव कुरुण्टक-कुरण्टकौ ॥ नीलझिण्टी द्वयोर्वाणा दासी चार्तगलोऽपि च । सैरेयकश्च सैरेयः झिण्टी साधारणे द्वयम् ॥ एतस्मिन्नपि रक्ते स्यात्तथा कुरुवके द्विधा । पीते द्वयोः सहचरी सहाचर-कुरुण्टकौ ॥ ओड्रपुष्पं रक्तपित्तं जवापुष्पं जवा यवा । स्यात् पुष्पं वज्रपुष्पञ्च तिलपुष्पे निगद्यते ॥ करवीरः प्रतीहासचण्डातहयमारकाः । शतप्रासः करीरे तु क्रकरो ग्रन्थिलोऽपि च ॥ मरुदेशे कण्टकिते त्रितयं करभप्रिये । धुस्तुरोऽपि च धुस्तूरो धुतुरो धूर्त इत्यपि ॥ मदनोन्मत्तकितवा मातुलः कनकाह्वयः । धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः । फलपूरो वीजपूरः पूर्णको वीजपूरकः । च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥ समीरणश्च जम्बीरो जम्बीरकः फणिज्जकः । प्रस्थपुष्पो मरुवकः षट्कं कण्टकजम्बीरे ॥ पर्णासस्तुलसी वृन्दा कठिञ्जर-कुठेरकौ ॥ अर्जकः श्वेतपर्णोसौ गन्धपुत्रकुठेरजौ ॥ स्याच्चित्रश्चित्रकः पाठी वह्निसंज्ञक इत्यपि । ;p{0069} अथार्कपर्णो वसुको गणरूपो विकीरणः ॥ आस्फोतास्फोटमन्दाराकुस्थकाश्चार्क इत्यपि । अर्कपर्णे शुक्लवर्णे स्यादलर्कः प्रतापसः ॥ एकाष्ठीला पाशुपतो वकपुष्पा वुको बकः । शिवमल्ली वसुश्चैव वसुका चैव कुत्रचित् ॥ वृक्षादनी वृक्षवहा वन्दा जीवन्तिकापि च । शेखरी वन्दका सेव्या वन्दाका परवासिका ॥ गुडुची स्यात् छिन्नरुहा जीवन्ती तन्त्रिकामृता । वत्सादनी सोमवल्ली निर्जरा मधुपर्णिका ॥ जीवन्तिकामृतलता विशल्या गुडूचीत्यपि । मूर्वा मधुरसा देवी तेजनी मोरटा स्रवा । पौलुपर्णी मधुश्रेणी मूर्वी मूर्वासमाह्वये ॥ वचा सदृशपत्राट्ये धनुगुणसमत्वचि । पाठाम्बष्ठा पापचेली प्राचीना स्थापनी रसा ॥ अबिद्धकर्णिका बिद्धकर्णी च बिद्धकर्णिका । एकाष्ठीला विद्धकर्णा श्रेयसी वनतिक्तिका ॥ कटुकी कटुकाशोकरोहिणी शकुलादनी । मत्सपित्ता रोहिणी च कृष्णभेदी कटुम्भरा । स्यादशोकापि च कटुश्चक्राङ्गी कटुरोहिणी । शूकशिम्बिः शूकशिम्बी शुकशिम्बिश्च वानरी ॥ कपिकच्छुः कपिकच्छूः कच्छुरा प्रावृषायनी । शूकशिम्बा च कण्डूरा जहा ऋण्डा च मर्कटी । ऋष्यप्रोक्ता स्वयंगोप्ता स्वगुप्ता शूकपिण्डिका । आत्मगुप्ता शूकपिण्डिः शूकपिण्डी कपिप्रभा । रण्डा मूषिकपर्णा स्यान्न्यग्रोधा सम्बरी वृषा । प्रत्यक्श्रेणी सुतश्रेणी द्रवन्ती मूषिपर्णिका ॥ चित्रोपचित्रा सञ्चित्रा मूषिकर्णी स्वकर्णिका । ;p{0070} अपामार्गः शैखरेयश्चमत्कार-मयूरकौ । धामार्गवः शैखरिकं शिखरी खरमञ्जरी ॥ प्रत्यक्पर्णी मधुरकः किलिही किलियीत्यपि । कीशपर्णी कीशपर्णिः केशपर्णीत्यपाङ्गकः ॥ ब्रह्मयष्टिर्ब्रह्मयष्टी ब्राह्मणी ब्रह्मयष्टिका । फञ्जिका कञ्जिका पद्मा यष्टी ब्राह्मणयष्टिका ॥ अङ्गारबल्ली भाङ्गी स्याद् वर्वरोऽङ्गारवल्लरी । बालेयशाकवालेयवर्धका ब्राह्मिकेत्यपि ॥ मञ्जिष्ठा कालमेषी च काला स्यात् कालमोर्षका । समङ्गा विकसा जिङ्गी जिङ्गियोजन वल्ल्यपि ॥ भण्डीरी भाण्डरी भण्डी भण्डिका भाण्डिकेत्यपि ॥ दुरालभा च दुःस्पर्शो धन्वयासयवासकौ ॥ यासो यवासो युवसः कछुरा च कुनाशकः ॥ अनन्ता च समुद्रान्ता दुरालभ्भा च रोदिनी । पृश्निपर्णी पृश्निपर्णिः धारणिर्धारणी गुहा ॥ चित्रपर्णी पृथक्पर्णी कलशिः कलशीति च । सिंहपुच्छी क्रोष्टुपुच्छी क्रोष्टुविन्नाङ्घ्रिवल्लिका ॥ निदिग्धिका कुलिः क्षुद्रा बृहती कटकारिका । प्रचोदनी स्पृशी व्याघ्री दुःस्पर्शा राष्ट्रिकापि च ॥ नीली क्लीतः क्लीतकिका काला दोला मेला च नीलिका । ग्रामीणा रञ्जनी तुत्था श्रीकली मधुपर्णिका । द्रोणी च नीलिनी तूली तूलिका तोलिकापि च ॥ सोमराजी सोमवल्ली वाण्डजी सोमवल्लिका । ;p{0071} वाकुची कालमेषी च सुवल्लिः कालमेषिका ॥ कृष्णफला पूतिफली वाण्डजा सोमराजिका । पिप्पली पिप्पलिः कृष्णा वैदेही मागधी कणा ॥ कोणोपकुल्या चपला शौण्डी स्यादूषणोषणा । कपिवल्ली कोलवल्ली श्रेयसी करिपिप्पली ॥ तेजोवती तेजवती वशिरो वसिरोऽपि च । चव्यं चविः स्याच्चविकं चविका च चवीति च ॥ कनीचिः कृष्णला गुञ्जा तुलाबीजन्तु चिञ्चिका । काकचिञ्ची काकचिञ्चा काकाचिञ्चा तु सा स्मृता ॥ गोक्षुरः स्याद् गोक्षुरको गोक्षुरश्च त्रिकण्टकः । गोकण्टकस्त्रिकण्ठः स्यात् त्रिकटः त्रिक इत्यपि ॥ इक्षुगन्धा क्षुरोऽपि स्यात् श्वदंष्ट्रा च पलङ्कषः । वनशृङ्गा च शृङ्गाटा विक्षुरः स्वादुकण्टकः ॥ भवेदतिविषा विश्वा विषाप्युपविषारुणा । महौषधं प्रतिविषा शृङ्गी च शृङ्गिकेत्यपि ॥ क्षीरावी दुग्धिका दुग्धी क्षीरी क्षीराविकापि च । नारायणी बहुसुता शतमूली शतावरी । अभीरुपत्री चाभीरुरहेरुः स्यादभीरुका ॥ इन्दीवरी वरी ऋष्यप्रोक्ता ऋष्यगतापि च । दार्वी दारुहरिद्रा स्याद् दारु दारुनिशा निशा ॥ पीतद्रुश्च हरिद्रुश्च पर्जनी स्यात् पचम्पचा । कालेयको हरिद्रा च तथा कालीयकोऽपि च ॥ वचोग्रगन्धा षड्ग्रन्था षड्ग्रन्थी शतपर्विका । गोलोमी शतपर्वा च वचापर्याय ईरितः ॥ अथ हैमवती शुक्लवचा नाम निगद्यते । वासको वासिका वासा वासो वाशा च वाशिका । अटरुषो वृषो वाजी सिंहास्यो वाजिदन्तकः ॥ ;p{0072} वैद्यसिंही मातृसिंही सिंहिकाटरुषोऽपि च । विष्णुक्रान्ता तथा स्फोता गिरिकर्ण्यपराजिता ॥ कोकिलाक्ष इक्षुगन्धा काण्डेक्षुरिक्षुरः क्षुरः । मधुरा स्यान्मधुरिका मधुरी च मिसिर्मिसी ॥ मिश्रेया स्यात् शितशिवः शूद्रा कालेय इत्यपि । स्नुही समन्तदुग्धा सीहुन्तः स्नुक् स्नुही स्नुहा ॥ वज्रो वज्रद्रुमो वज्रा सिहुन्तश्च गुडा गुहा । अस्त्री विडङ्गं वेणुश्च तण्डुलाश्चित्रतण्डुलाः ॥ क्रिमिघ्नश्च कृमिघ्नश्च मोघा च मोघा च तण्डुलुः । वाट्टालकः शीतपाकी वाट्टा भद्रोदनी बला । कटी च विनया चैव वाट्टाली वाटिका तथा ॥ पीता लीत्याह्वये घण्टारवा तु शणपुष्पिका । द्राक्षा मधुरसा स्याद्वी मृद्वीका गोस्तनी रसी । त्रिपुटा रसना श्वेता रेचनी त्रिवृता त्रिवृत् ॥ स्वाहा च त्रिभण्डी चैव सर्वानुभूतिरित्यपि । श्यामा सुषेणिका सारा काला च कालमेषिका ॥ अर्धचन्द्रा च पालिन्दी मसूरविदलापि च । अथ यष्टी-मधुकं स्यान्मधुयष्टी तु यष्टिका ॥ मधुकायष्टि मधुकायष्टी च मधुयष्टिका । मधुर्मधुकयष्टिः स्यात् क्लीतकं मधुकञ्च तत् ॥ इक्षुगन्धा क्षीरशुक्ला विदारीचेक्षुगन्धिका । ऋक्षगन्धा महाश्वेता क्षिरीका ऋक्षगन्धिका ॥ तथा क्षीरविदारी च भवेत् क्षीरविदारिका । शारदी लाङ्गली तोयपिप्पली शकुलादनी ॥ चाचडा इति विख्याते जलाङ्की जलपिप्पली । मयूरो दीप्यको दीप्यः कारवी लोचमस्तकः ॥ खराश्वा वह्निशिखरो दीपको लोचमर्कटः ॥ ;p{0073} गोपी गोपा गोपवल्ली सारीवोत्पलसारिका । अनन्ता शारिवा श्यामा अष्टौ श्यामलताह्वये ॥ काकोली क्षीरकाकोलीत्यष्टवर्गः प्रकीर्तितः । कदली स्यात् कदलको मोचकः कदलेत्यपि ॥ रोचको रोचका रम्भा काष्ठीला भानुमत्फला । वारवुषा वारवूषा मोचा स्यादंशुमत्फला ॥ मुद्गपर्णी काकमुद्गा सहा सहरमापि च । वार्ताकुरपि वार्ताकी वार्तिकः वार्तिकोऽपि च ॥ वातिङ्गनः वातिगः स्याद् वृन्ताको वङ्गनोऽङ्गनः । भण्टाकी हिङ्गली सिंही वार्ताकी दुष्प्रधर्षिणी ॥ रास्ना सुगन्धा सुरसा च्छत्राकी गन्धनाकुली । भुजङ्गाक्षी च सुवहा नकुलेष्टा च नाकुली ॥ शालपर्णी सालपर्णी स्थिरा चांशुमती ध्रुवा । गन्धा विदारी शालानी शालिका च विदारिका ॥ कर्पासी वदरा सूत्रपुष्पा च वदरीत्यपि । समुद्रान्ता तुण्डिकेरी तथा कापालिकापि च ॥ भार्द्वाजी वनकार्पासी भारद्वाजी यशस्विनी । महावीर्या सुवीर्या च तथा वनसरोजिनी ॥ कर्पासी भूरुहफले कर्पासन्तु नपुंसकम् । शृङ्गी स्त्रियान्तु ऋषभे ऋषभो वृष इत्यपि ॥ अष्टवर्गाभ्यन्तरे स्यादृषभाख्ये महौषधे । झषा गाङ्गेरुकी नागवला ह्रस्वगवेधुका ॥ धामाङ्गवः घोषकः स्याद् घोषो घोणालताह्वये । धामाङ्गवे पीतवर्णे महाजाली प्रकीर्तिता । परोलिका परोली च ज्योत्स्नी जाली पटोलिका ॥ नादेयिका च नादेयी भूजम्बुर्भूमिजम्बुका । भूमिजम्बूलतायां स्यात् केचित्तु भूमिचम्पके ॥ ;p{0074} अग्निजाला लाङ्गलिका लाङ्गलिक्यपि लाङ्गली । अग्निशिखा लाङ्गिलिकी लाङ्गलक्यपि सा मता ॥ काकाङ्गी काकजङ्घा च काकाञ्ची काकनासिका । गोधापदी तु सुवहा स्याद् गोधापदिकेत्यपि ॥ मुषली तालमूली स्यात्तालिका तालमूलिका । अजशृङ्गी विषाणी स्यात्तथा कर्कटशृङ्गिका । गोजिह्वा दार्विका चेति दार्वी गोजिह्विकापि च ॥ अथ पर्णलता नागवल्ली ताम्बूलवल्लिका । ताम्बूलवल्ली ताम्बूली पर्णवल्ली च ताम्बुलिः ॥ हरेणुः कपिला कौन्ती रेणुका भस्मगन्धिनी । द्विजा च रेणुकाख्ये तु गन्धद्रव्ये निगद्यते ॥ एलवालुकामैलेयमेलबालञ्च वालुकम् । स्यादैलवालुकं वालु सुगन्धि हरिवालुकम् ॥ पालङ्की कुन्दुरुः कुन्दुः मुकुन्दुः कुन्द इत्यपि । बाल-बालक-ह्रीवेर-वहिष्टं केशनामकम् ॥ ह्रीवेरोदीच्यपानीयनाम वारिदमित्यपि । शैलजं स्यात् शीतशिवं शैलेयञ्च शिलासनम् ॥ शिलेयं शीतलं शैलं कालानुसार्यशैलकम् । बृद्धं कालानुसारं स्यादश्मपुष्पञ्च शीरणम् ॥ मुरा गन्धकुटी दैत्या लालपर्णी च गन्धिनी । स्यात् शल्लकी मल्लकी च सुरभिः सुरभी रसा ॥ गजभक्ष्या गजगजक्ष्या(?) ह्रादिनी ह्लादिनीति च । महेरुणा कुन्दुरुकी सिह्लकी सिह्लभूमिका । धातृपुष्पी धातुपुष्पी धातकी धातृपुष्पिका ॥ अग्निज्वाला सुभिक्षा च धातृ च धातुपुष्पिका । एला च बहुला चन्द्रबाला निष्कुटिरित्यपि ॥ पृथ्वीका निष्कुटी चन्द्रा चन्द्रिका वालिकेत्यपि । सैव सूक्ष्मा यदि भवेत् कोरङ्गी च त्रुटिः त्रुटी ॥ ;p{0075} तथोपकुञ्चिका तुत्था त्रिपुटा पूटिकापि च । कुष्ठं व्याधिः पारिभाव्यं गदाह्वन्तु गदाह्वयम् ॥ कौवेरं भासुरं वाप्यमाप्यं पाकलमुत्पलम् । चोरपुष्पी शङ्खिनी च केशिनी चोरपुष्पिका ॥ अस्त्री वितुन्नकः ताली शिवा तामलकी मला । अज्झटा श्यामला झटा स्याद् भूम्यामलकीति च ॥ पौण्डरीकं पुण्डरीकं पुण्डरी पुण्डरीयकम् । प्रपौण्डरीकं चक्षुष्यं पौण्डर्यं तालपुष्पकम् ॥ सालपुष्पं दृष्टिकृतं स्थलपद्मञ्च मालकम् । केचित्तु पूर्वदशकं पद्मकाष्ठे प्रचक्ष्यते ॥ नन्दीवृक्षो नन्दिवृक्षः कुलिः कच्छः कुवेरकः । तुलिस्तुल्वः कान्तलको नन्दिको नन्दिवृक्षकः ॥ स च क्षीरमयोऽश्वत्थसदृशस्तु सरित्तटे । चण्डा धनहरी क्षेमो राक्षसी गणहासकः ॥ दुष्पुत्रो दुष्कुलीनश्च विवोधः क्रोधमूर्छितः । व्याडायुधं व्याघ्रनखं नखाङ्कं चक्रकारकम् ॥ नखी नखस्तु करजं तथा व्याघ्रनखीत्यपि । शुषिरा स्यात् कपोताङ्घ्रिः नली नाली नटीति च ॥ गन्धद्रव्ये नलीनाम्नि केचित्तु नालिकाह्वये । अथ हट्टविलासिन्यां धमनि धमनीति च ॥ हनुरञ्जनकेशी च भवेदञ्जनकेशिका । नखी शङ्खः शङ्खनखः शुक्तिः कीलदलं नखम् ॥ नखरीखुर इत्येवं गन्धद्रव्यं नखीति यत् । आटकी मृत्तिका मृत्स्ना तुवरी तूवरीत्यपि ॥ काक्षी तुवरिका ताली कालकञ्च सुराष्ट्रजम् । मृत्तालकञ्च मृत्तालमृदा तीमरिकेत्यपि । कैवर्ति मुस्तं गोनर्दं कैवर्ती मुस्तकं प्लवम् ॥ दाशपूरं दासपूरं गोपूरञ्च कुटन्नटम् । पारिपेलं दशपूरं बालेयं परिपेलवम् ॥ ;p{0076} ग्रन्थिपर्णं शुकं पुष्पं वर्हिःकुक्कुरं कुक्कुरे । शुकबर्हञ्च बर्हञ्च स्थौणेयं बर्हिपुष्पकम् ॥ पृक्का दैवीलता पृक्का समुद्रान्ता लघुर्वधूः । कोटीवर्षा कोटिवर्षा मरुन्माला लता मरुत् ॥ माला लङ्काबिका कोटिः कोटी लङ्काविका लती । अनिर्माल्या च निर्माल्या वर्षा लङ्कोपिकेत्यपि ॥ लङ्कायिका च पिशुना पृक्कानाम्नि महौषधे । जटामांसी भूतजटा जटाला जटिला जटी ॥ निशी तपस्विनी मांसी लोमशा च किरातिनी ॥ मिशिर्मिशी च नलदं मिषिका मिषिरित्यपि । गुडत्वकमुत्कटं भृङ्गं त्वक्पत्रञ्च वराङ्गकम् ॥ त्वचं चोचं त्वचा पत्रं हृद्यं सुरभिवल्कलम् । तेजपत्रं गन्धजातं पत्रं पत्रकमित्यपि ॥ कर्बूरकः कल्पिकश्च काल्पको वेधमुख्यकः । कर्वुरः स्याद् द्राविडकः काल्पो द्रविडभूतिकः ॥ ओषधिर्जातिमात्रे स्यादजातौ सर्वमौषधम् । पत्रपुष्पादिकं शाकं लोकशास्त्रानुसारतः ॥ मूलपत्रकरीराग्रफलकाण्डविरूटकम् । त्वक् पुप्पं कवकञ्चैव शाकं दशविधं स्मृतम् ॥ तण्डुलीकस्तण्डुलीयस्तण्डुकोऽल्पमारिषः । फलिन्यनन्ताग्निशिखा विशल्या शक्रपुष्यपि ॥ ऋक्षगन्धा वृष्यगन्धा छगला बृद्धदारकः । आवेगी छगलान्त्री च भृङ्गः स्यात् छगलान्तिका ॥ ब्रह्मी ब्राह्मी वयस्या च मत्स्याक्षी सोमवल्लरी । स्वर्णक्षीरी हैमवती पटुपर्णी हिमावती । माषपर्णी तू काम्बोजी हयपुच्छी महासहा ॥ पीलुपर्णी रक्तफला विम्बिका तुण्डिकेर्यपि । विम्बा विम्बी च विम्बञ्च विम्बकं विम्बजेत्यपि ॥ वर्वरी वर्वरा तुङ्गी त्वजगन्धा च गन्धिका । कवरी खरपुष्पा च कवरा खरपुष्पिका ॥ एलापर्णी युक्तरसा रास्ना च सुवहा रसा । चाङ्गेरिका स्याच्चाङ्गेरी चुक्रिका चाम्ब्ललोलिका ॥ अम्ब्लो दन्तशठाम्बष्ठा तथा स्यादम्ब्ललोनिका । सहस्रवेधी चुक्रश्च शतवेध्यम्ब्लवेतसौ ॥ ;p{0077} खदिरा च नमस्कारी समङ्गा गण्डकाल्यपि । कूर्चशीर्ष-मधुरक-ह्रस्वाङ्ग-शृङ्ग-जीवकाः ॥ पञ्चाष्टवर्गपठिते जीवकाख्ये महौषधे । जीवन्ती जीवनी जीव्या जीवनीया मधुस्वरा ॥ मधुर्जीवेति जीवन्तीलतायां कनकच्छरौ । चिरतिक्तश्चिरातिक्तस्तिक्तकोऽनार्यतिक्तकः ॥ किराततिक्तो भूनिम्ब-किरातक-सुतिक्तकाः । सप्तला विमला भूरिफेणा चर्मकषेत्यपि ॥ सातला स्याच्चर्मकषा तथा वर्मकषापि च । काकली वायसोली च वयस्था वायसोलिका ॥ रसा स्वादुरसापि स्यात् काकोल्यामष्टवर्गके । निकुम्भो दन्तिका दन्ती प्रत्यक् श्रेणी मुकुलकः ॥ स्यादुदुम्बरपर्णी च दन्तिजा दन्तिमूलिका । उग्रगन्धोऽजमोदा स्यादजगन्धा च दीप्यकम् ॥ यमानी ब्रह्मदर्भा च यवानी च यवानिका । केचित् क्षेत्रयमान्यान्तु पूर्वार्धं संप्रचक्षते ॥ अथ पौष्करकाश्मीरं पद्मपत्रञ्च पुष्करम् । पद्मचारिन्यतिचरा पद्माऽव्यथा च चारटी ॥ काम्पिल्योऽपि च काम्पिल्लो रोचनी रेचनीत्यपि । कर्कशश्चन्द्र-रक्ताङ्ग-काम्पील-रेचना अपि ॥ दद्रुघ्नोऽपि च दद्रूघ्नो दद्रुघ्नश्चक्रमर्दकः । प्रपुन्नडं प्रपुन्नाडं पद्माट उरणाख्यकः ॥ उरणाक्षस्त्वेडगजश्चक्रपद्माट इत्यपि । स्यात् पलाण्डुः पलाण्डश्च मुकन्दकमुकुन्दकौ ॥ अस्मिन्नेव हरिद्वर्णे लतार्को दुर्द्रुमोऽपि च । रसोनको महाकन्दो म्लेच्छकन्दोऽपि गृञ्जनम् । महौषधमरिष्टश्च लशुनञ्च लशूनवत् ॥ वर्षाभूरपि वर्षाभ्वी शोथघ्नी च पुनर्नवा । वितुन्नं सुनिषणरञ्च वितुन्नक निषण्णकम् ॥ वातकोऽशनपर्णी च शीतः शीतलवातकम् । शीतकं शनपर्णी च सनपर्ण्यपराजिता ॥ ज्योतिष्मती च ज्योतिष्कापिण्या तेजस्विनी लता । पण्या पारावताङ्घ्रिश्च कटभी तेजनीति च ॥ ;p{0078} त्रायन्ती त्रायमाना च वार्षिकं बलभद्रिका । वराहक्रान्ता वाराही शूकरी वदरेति च ॥ विष्वक्सेनप्रिया घृष्टिर्गृष्टिर्विष्णुप्रियेत्यपि । भृङ्गराजो भृङ्गरजो भृङ्गारो भृङ्ग इत्यपि ॥ अजागरो भृङ्गरजा मार्कवो मार्करोऽपि च । काकमाची वायसी स्यात् कामाची काकमाचिका ॥ शतपुष्पा सितच्छत्रा शताक्षी शतपुष्पिका । अवाक्पुष्पी मधुरिकाऽतिच्छत्रा मधुरा मिसी ॥ शताह्वा कारवी छत्रा मिशिः स्याच्च मिसिर्मिशी ॥ प्रसारणी सारणी च सरणा सरणीति च । राजबला भद्रबला भद्रपर्णी कटुम्बरा ॥ भद्रालपत्रिका भद्रा भद्राली भलभा लता ॥ रजनी स्यात्तु यतुका जतूका जननी जनी । संस्पर्शा जननिश्चैव जतुका चक्रवर्तिनी ॥ शटी सटी गन्धसटी सुगन्धा च शटिः सटिः । गन्धमूला गन्धमूली पलाशः कर्वूरोऽपि च ॥ षड्ग्रन्थिका च कर्वूरो गन्धो निर्गन्धमूलकः । काचल्लः कारवेल्लः स्यात् सुषवी सुशवीत्यपि ॥ स्यात् पटोलस्तु कुलकं कटुकस्तिक्तकं पटुः । कुष्माण्डोऽपि च कूष्माण्डः कर्कारूः शिम्बिवर्धनः ॥ बाल्लाङ्किका च बाल्लङ्की कर्कटिः कर्कटीटिति च । स्फुटिः स्फुटी स्यादिर्वारु वीर्वारुरपि मुत्रला ॥ चेनालः स्याच्चित्रफलं सुखाशो राजते मिषः । इक्ष्वाकुः कटुतुम्बी च तिक्तिका कटुतिक्तिका ॥ तुम्बा तुम्बकतुम्बौ च तुम्बि तुम्बी च तुम्बिका । अलावूरप्यलावः स्यादलावुर्लावुलावुके ॥ चित्रा गवाक्षी गोतुम्बा सेटुझाटा मृकौ समौ । वन्रबन्ध्यस्थिसिंहारो हस्तिशुण्डी बलात्मिका ॥ लिम्पाको नलदम्पुः स्याद् विशाला त्विन्द्रवारुणी । अर्शोघ्नस्तुलकन्दश्च शूरणः सूरणोऽपि च ॥ समल्वोऽपि च गण्डीरः समष्ठीला समष्ठिला । कलम्बी च कडम्बी च कलम्बुश्च कलम्बिका ॥ ;p{0079} उपोदिका पोतिका स्यादुपती पोतकीत्यपि । महाकन्दो हस्तिदन्तो मूलकं मूलकोऽपि च ॥ हिलमोचिर्हिलमोची वोची च हिलमोचिका । शाकश्रेष्ठस्तु वास्तूकं वास्तुकं वस्तुकञ्च तत् ॥ मुण्डीरिका च शालाञ्चिः श्रमणाङ्का पलङ्कषा । कञ्चटग्राहिणीत्यादाः शाकभेदास्तथा परे ॥ दूर्वा सहस्रवीर्या स्यादनन्ता शतपर्विका । रुहा नन्दा भार्गवी च शतपर्वा महावरा ॥ शतवीर्या च गण्डाली गोलोमी शकुलाक्षकः । अस्त्रियां मुस्तको मुस्ता कुरुविल्लोऽभ्रनामकः ॥ श्रीभद्रो भद्रको भद्रा गुन्द्रा च भद्रमुस्तकम् । उच्चटा चक्रला चूडा चूडाला चेचुडा भये ॥ उच्चटाख्ये त्वम्ब्लपत्रे क्वचित् केचित् प्रचक्षते । वंशो वेणुर्यवफलो रम्भ-त्वकसार-तेजनाः ॥ शतपर्वा च कर्मारत्वचिसारतृणध्वजाः । मङ्करोऽपि तस्यैव त्वचि न स्ती तमालकम् ॥ अनिलोत्थस्वने वंशे वंशमात्रे च कीचकः । अथ वंशाङ्कुरे न स्त्री करीरं करिरं तथा ॥ ग्रन्थिर्ना परुषं क्लीबे परु पर्व च पर्वकम् । शरो मुञ्जस्तेजनकः सरः स्यात् गुन्द्र इत्यपि ॥ नलो नटः पोटगलो नडो धमन इत्यपि । आरण्यके तु वा पुंसि नलमित्यपि कुत्रचित् ॥ अस्त्री काशः पोटगलो दर्भश्चामरपुष्पकम् । ईषिका चेक्षुगन्धा च काशको वनहासकः । वारणीकास्तु वनजा पुंसि भूभ्रि तु वल्वजाः । इक्षुर्मधुर्मधुतृणं गुडदारुगुडतृणम् ॥ कोशकारः कोषकारः रसाल इक्षुरोऽपि च । इक्षुभेदाश्च पुण्ड्रः स्यात् पुण्ड्रकः पौण्ड्रकोऽपि च ॥ तथा कान्तारकाद्याश्च विज्ञेया लोकशास्त्रतः । वीरणं स्याद् वीरतरं विरणञ्च कटायनम् ॥ मूलेऽस्योशीरमस्त्री स्यादवदाहं जलाशयम् । ;p{0080} अमृणालं लघुलयं त्विष्टकापथकापथम् ॥ मृणालं नलदं सेव्यं लाज-नामज्जकाभयम् । तृणं नलादयो गर्मुच्छ्यामाककोद्रवादयः ॥ तृणधान्यन्तु नीवार-झारकाद्यास्तु लोकतः । वर्हिः पवितं दर्भः स्यात् कुशोऽस्त्री कुतपः कुथः । कत्तृणं रौहिषं पौरं ध्यामं स्याद् देवजग्धकम् ॥ सौगन्धादिकश्च सौगन्धं रामकर्पूरके तृणे । छत्रातिछत्र-पालघ्न शूत्रेति छत्र इत्यपि ॥ अतिच्छत्रा सुगन्धा च छत्रकं कुटुकं कटुः । छत्राकारे सुगन्धाख्ये तृणभेदोजलोद्भवे ॥ अथ मालातृणकर्णभूस्तृणं गन्धखेडके । शष्पं बालतृणञ्चेति नवीनतृणके द्वयम् ॥ अथ घासो यवासन्तु यवसं जवसं तथा । गवादिभक्ष्ययोग्येषु तृणेष्वेतत् चतुष्टयम् ॥ तृणं त्रिणं खटं खेटं हरितार्जुनताण्डवम् । तृण्यं तृणसमूहे स्यान्नाड्या तु नडसञ्चये ॥ तृणराजाह्वयः तालो हिन्तालो हिमहासकः । नारीकेलो नारिकेलः शिवाफल-सदाफलौ ॥ नारीकेली रसफलो नारिकेलिश्च लाङ्गली । नाडीकेरो नाडीकेरः करकाम्भःपयोधरौ ॥ मत्कुणः कौशिकफलं फलमुण्डशूटाफलम् । तथा मुण्डफलश्चापि विश्वामित्रप्रियोऽपि च ॥ गुवाकोऽपि गूवाकः क्रमुकः क्रमुकीत्यपि । आसवः खपूरः कोडस्तन्तुसारः सुरञ्जनः ॥ करमट्टो राजतालो घोण्टा पूगी च पूगवत् । उद्वेगः स्यात्तथोद्वेगं क्लीबे पूगफले द्वयम् ॥ गुवाकतालहिन्तालनारीकेलादयः परे । खर्जुरी केतकी ताली खर्जुरश्च तृणद्रुमाः ॥ ;p{0081} रुद्राक्षस्तु नमेरुः स्यादमलः पुष्पचामरः । केतकः पुष्पमूचिः स्याद् जम्बालः कृकरच्छदः ॥ छायातरुस्थिरछायश्चिरश्छायक इत्यपि ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां वनौषधिवर्गप्रकाशः ॥} ;p{0082} ;v{सिंहादिवर्गप्रकाशः} सिंहः पारीन्द्रः पञ्चास्यो मृगेन्द्रः श्वेतपिङ्गलः । कण्ठीरवः पञ्चशिखः शैलाटी भीमविक्रमः ॥ हरिः शटाङ्गो मृगराट् मृगराजो मरुत्प्लवः । हर्यक्षः केशरी केशी नगौकाः करिदारणः ॥ शरभः स्यादूर्ध्वपादः शार्दूलोऽष्टापदोऽपि सः । अथ हिंस्रपशुर्व्यालो हिंसको हिंस्रकः शिविः ॥ व्याघ्रो द्वीपी च शार्दूलो हिंसारुः श्वापदोऽपि च । अथ तक्षुस्तरक्षुश्च मृगादनतरक्षकौ ॥ अथ शूकरभूदारवराहाः स्थूलनासिकः । दन्तायुधः स्तब्धरोमा घोणी कोलः किरिः किटिः ॥ क्रोडः पोत्री वक्रदंष्ट्रो दंष्ट्री दीर्घतरः किरः । घृष्टिराखनिको भूक्षित् बहुसूरपि सूकरः ॥ वानरो मर्कटो मर्कः प्लवङ्गः प्लवगः प्लवः । प्रवङ्ग प्रवगोऽपि स्यात् प्लवङ्गमप्रवङ्गमौ ॥ गोलाङ्गुलः कपित्थास्यो दधिशोणः कपिः किरिवः । शाखामृगस्तरुमृगो वनौकाश्च बलीमुखः ॥ कीशो नगाटनो झम्पी झम्पारुः स्यात् कलिप्रियः । भल्लूकभल्लभालूकभल्लुका भालुकोऽपि च ॥ ऋक्षोऽच्छभल्लभाल्लुको भीलुको भील्लुकोऽपि च । खड्गः खड्गी गणोत्साहो गण्डो गण्डक इत्यपि ॥ महिषः कासरो वाहो लुलापो यमवाहनः । द्विषज्जरद् दंशभीरुसौरिभाश्च रजस्वलः ॥ सृगालोऽपि शृगालः स्यात् फेरुजम्बुकधूर्तकाः । जम्बूकः फेरवः क्रोष्टा वञ्चको मृगधूर्तकः ॥ भूरिमायो मूत्रमत्तः कुरवः घोररासनः । वनश्वा फेर-गोमायुश्वधूर्ताश्च शिवा स्त्रियाम् ॥ उल्कामुखी दीप्तजिह्वा किखिर्लोमालिकापि च । ;p{0083} विडाल-ओतुर्मार्जारो दीप्ताक्षो वृषदंशकः ॥ नक्तञ्चरी जाहकः स्यादाखुभुक् च विडारकः । खटराशी च नाखुः स्यात् शशकः प्रतिशालिजः ॥ गवालूको वनच्छाग एडको गवयोऽपि च । खट्टासोऽपि खट्टाशी गन्धोतुर्वनवासनः ॥ गोधिगौधेरगौधारगौधेया गोधिकात्मजः । गोधिका चेति पर्यायः स्थूलगोही समाह्वयः ॥ गोधिका सदृशोऽपि स्यात् खोके इति निगद्यते । श्वावित् क्रकचपादः स्यात् छेदारः शल्य इत्यपि । एतस्य लोम्नि शललं शलली शलमित्यपि । वातप्रमीर्वातमृगो वाताटहरिणे द्वयम् । कोक ईहामृगेऽपि स्याद् वृक ईहावृकोऽपि च ॥ मृगे शारङ्गहरिणसारङ्गचारुलोचनाः । कुरङ्गोऽजिनयोनिः स्याज्जिनयोनिः कुरङ्गमः ॥ ऋष्य ऋश्यो रिश्यरिश्यावेणः स्यादेणकोऽपि च । एण्याश्चर्माद्यमैनेयमेनस्यैणं त्रिषुद्वयम् ॥ त्रिषु स्यात् कन्दलं चीनः समूरुः प्रियकोऽपि च । चमूरुः कदली स्त्री तु षट्स्यादजिनयोनयः ॥ मृगभेदाः कृष्णसार-रुरु-सम्बर-रौहिषाः । गोकर्ण-रङ्क-चमर-न्यङ्कु-गन्धर्व-रोहिताः ॥ विन्दुचित्रक-एनर्ष्यपृषताः सृमरः शशः । गवयश्चैवमाद्याश्च तथान्येऽपि च लोकतः ॥ कालसारः कृष्णसारः कृष्णशारोऽपि कीर्तितः । शम्बरः सम्बरोऽपि स्यात् रोहिषो रौहिषोऽपि च ॥ चमरश्चमरी चैव पृषच्चे पृषतोऽपि च । उक्तानुक्ताश्च सिंहाद्या गवाद्याः पशुजातयः ॥ ;p{0084} मूषीको मूषिको मूषो मूषकश्चाखुरुन्दरुः । उन्दुरः खणको बभ्रुर्वृष आखनिको वृशः ॥ दीना मूषी मूषिका च मूषीका मूषिकेत्यपि ॥ चिक्कः स्याद् वेश्मनकुलश्चिक्का च बालमूषिका । गन्धमुखी गन्धमूषी गिरिका स्यात् छुछुन्दरी ॥ सरटः प्रतिसूर्यः स्यात् कृकलासस्तृणाञ्जनः । मुषली मुसली कुड्यमत्सी च गृहगोधिका ॥ मूली ज्येष्ठी टुट्टुकी स्यात् शकुनज्ञा गृहपालिका । स्यान्मर्कटो मर्कटकस्तन्तुवायश्च लूतिका । ऊर्णनाभिरूर्णनाभो लूता शलक इत्यपि ॥ अथ मर्कटवासः स्यदाशाबन्ध इति द्वयम् ॥ कृमिः क्रिमिश्च नीलङ्गुर्नीलाङ्गुः कीट इत्यपि । कर्णकीटा शतपदी स्याद् भीरुः शतपादिका ॥ तथा कर्णजलौकाश्च स्यात् कर्णजलुकापि च । वृश्चिकः शूककीटः स्यात् शुककीटक इत्यपि ॥ आल्यालिनौ द्रुणाद्रोणौ स्यादलिः क्षुद्रवृश्चिके । स्यात् कपोतः कलरवः पारावतपरावतौ ॥ प्रासादकुक्कुटो भिल्लीकण्ठो गृहकपोतके । कलकण्ठश्च तत्रैव क्वचित् केचित् प्रचक्षते ॥ श्येनः पत्री कपोतारीः पतद्भीरुः शशादनः । पेचको बायसारातिर्दिवाभीतिर्निशाचरः ॥ उलूकः काकभीरुः स्यात् कौशिको रूपनाशनः । नखाशी घर्घरः पेचः शक्राख्यो रक्तनासिकः ॥ दिवान्धो हरिनेत्रश्च दिवाभीतोऽपि भीरुकः । व्याघ्राटः स्याद् भरद्वाजो भारद्वाजक इत्यपि ॥ खञ्जरीटः खञ्जखेलः खजनो मुनिपुत्रकः । काकच्छदः कणाटीनो भद्रो रत्ननिधिश्चरः ॥ ;p{0085} नीलकण्ठः कणाटीरः कणाटीरक इत्यपि । हापुत्रिका खञ्जनिका सर्षपी खञ्जनाकृतौ ॥ वर्तिका विष्णुलिङ्गी च वर्तका वर्तकोऽपि च । मयूरसदृशो लावो लावको लघुजङ्गलः ॥ लाडुया इति विख्याते क्वचित् केचित् प्रचक्षते । दीर्घपादो लोहपृष्ठः कङ्कः स्याद् दीर्घपादपि । चासश्चाषः किकीदीविः किकिदिविः किकीदिविः । स्वर्णचूड इति ख्याते मत्स्यरङ्के च कुत्रचित् ॥ कलिङ्गो धनसूर्भृङ्गो धूम्याटः फेचु आह्वये । दार्वाघाटः काष्ठकुट्टो दार्वीघातः शतच्छदः ॥ चातकोऽपि च सारङ्गः शारङ्गः स्याज्जलप्रियः । घनतोलस्त्रिशङ्कुश्च स्तोकको वरिषाप्रियः ॥ अथ भृङ्गो भृङ्गराजो भृङ्गको राजवासनः । कुक्कुटो रात्रिरेदी स्यात्ताम्रचूड उषाकरः ॥ कृकवाकुर्विवृताक्षः काहंसश्चरणायुधः । चटकः कलविङ्कः स्यात् कलाविकल इत्यपि ॥ चटकस्त्री तु चटका स्त्र्यपत्ये चटकैव हि । पुमपत्ये चाटकैरश्चाटकेरक इत्यपि ॥ कर्करेटुः करेटुः स्यात् करटुः कर्कराटुकः । कृकरः कृकणोऽपि स्यात् क्रकरः क्रकरणोऽपि च ॥ कोकिलः कलकण्ठः स्यात् कुहूकण्ठः कूकूमुखः । मधुकण्ठः काकपुच्छो घोषयित्नुर्वनप्रियः ॥ परपुष्टः परभृतः कामजनिः सुतर्दनः । ताम्राक्षः कलघोषः स्याच्चूतबन्धुर्मधुस्वरः ॥ काकोऽरिष्टः करटकः करटो नगरीवकः । बलिपुष्टश्च परभृत् वायसो गूटमैथुनः ॥ ;p{0086} लुण्ठाकः श्रावको ध्वाङ्क्ष आत्मचोषो रतज्वरः । द्विककारः कारवः स्याद् नाडीजङ्घः सकृत्प्रजः । सत्यवाक् अप्रकृष्टः स्यात् बलिभुग् यमदूतकः ॥ ऐन्द्रिः सूत्री शक्रजातो मलभुक् परमृत्युकः । द्रोणकाकस्तु काकोलो द्रोणः काकल इत्यपि ॥ स्यात् कुक्कुभः कुक्कुटकः कुलालः कुहकस्वनः । दात्युहोपि च दात्यूहो दात्यौहः कालकण्ठकः । कालकण्ठश्च मासङ्गः सितकण्ठः कठाठुकः ॥ चिल्ल आतायि-वातापि-खभ्रान्ति-कण्ठनीडकाः । लोहपृष्ठो दीर्घदर्शी गृघ्रो दाक्षाय्य इत्यपि ॥ गलेगण्डो मर्कटः स्याद् गलगण्डाख्यपक्षिणि । शुकः कीरः वक्रतुण्डो मेधावी दाडिमप्रियः ॥ रक्ततुण्डो वक्रचञ्चुश्चिमिः स्याच्चिमिकोऽपि च । शारिका सारिका शारी सारी च चित्रलोचना ॥ सूक्ता चण्डा च चित्राक्षी शलाका स्मरलेखनी ॥ क्रुड् क्रौञ्चः कालिकोऽपि स्यात् कालीकः कालकोऽपि च । वकः स्याद् द्वारबलिभुक् कङ्केरुः शुक्लवायसः ॥ दीर्घजङ्घो वटोकश्च कह्वो गृहबलिप्रियः । अथ सारसो गोनर्द-पुष्कराह्व-कलाङ्कुराः ॥ लक्ष्मणो लक्षणोऽपि स्यात् सरसीकः सरोत् (सरुः) सवः ॥ अथ सारसपत्नी तु लक्ष्मणा लक्षणापि च । चक्रवाको द्वन्द्वचारी रथाङ्गाह्वयनायकः ॥ स्याच्चक्रो रथचरणः कोकश्च दिनदुःखितः । कादम्बः कलहंसः स्यात् कालमाह्वय पक्षिणि ॥ उत्क्रोशश्च समुत्क्रोशः कुरवो मत्स्यनाशनः । मत्स्याशनो मीनरङ्कुर्मत्स्यरङ्गः सुचित्रकः ॥ ;p{0087} अथ हंसः श्वेतगरुत् सितपक्षः सितच्छदः । सरःकाको मानसौकाश्चक्राङ्गः पुरुदंशकः ॥ राजहंसस्तु शुक्लाङ्गरक्तचञ्चूपदैरिह ॥ चञ्चूपदैस्तु मलिनैर्मल्लिकाक्षश्च मल्लिकः ॥ धार्तराष्ट्रः श्वेतवर्णः कृष्णचञ्चूपदैः स्मृतः । आटिराटी शरारी च शरारिराडिराडिका ॥ शरालिः स्यात् शराली च शराटिश्च शरालिका । विसकण्ठा वलाकी च वलाका विसकण्ठिका ॥ चक्राङ्गी वरटा हंसी चक्राङ्की वरला च सा । सरः काकी हंसिका च वारता हंसयोषिति ॥ जतूका जतुका चर्मचटका गृहमाचिका । जतुन्यजिनपत्रा च चर्मिश्चर्मचटीत्यपि ॥ अथ तैलचोरिका स्यात् परोष्णी तैलपायिका । मक्षिका मक्षीका भम्भो माचिका गन्धलोलुपा ॥ पतङ्गिका पुत्तिका स्यात् सरघा मधुमक्षिका । अथ नीलमक्षिकायां वर्वणा वार्वणेति च ॥ दंशो गोमक्षिकाऽरण्यमक्षिका भम्भरालिका । अल्पजातौ तु दंशी स्याद् गन्धोली वरटा द्वयोः ॥ गन्धोलिरपि गन्धोली वरटा वरलापि च ॥ भृङ्गारी च वरोली च ब्राह्मणी तृणषट्पदः । विससृक्का च वरटी वारटी वरटोऽपि च ॥ झिल्लीका झिल्लिका झिल्ली झीरुका झीरिका झिरी । चीलिका चील्लका चीली भृङ्गारी चिल्लकापि च ॥ पतङ्गोऽपि च पत्राङ्गः पत्राङ्कः शलभोऽपि च । ज्योतिरिङ्गन-खद्योत-ध्वान्तोन्मेषास्तमोमणिः ॥ दृष्टिबन्धुस्तमोज्योतिर्ज्योतिवीजं निमेषकः । भृङ्गो मधुप-रोलम्ब-चञ्चरीक-मधुव्रताः ॥ इन्दिन्दिरः पुष्पकीटः पुष्पलिट् मधुसूदनः । ;p{0088} द्विरेफो मधुलिट् भृङ्गराज-भ्रमर-षट्पदाः ॥ मधुलेही मधुकरो येणुवासोऽलिरप्यली । पिपीलिका पिपीलिकं पिपीलोऽपि च पीलकः ॥ ऊड्शाख्ये तु कीटेस्युः उङ्गशोत्कुण-मत्कुणाः । ओकोदनी तु युकः स्यादाक ओकण्योकण ओकणिः ॥ लिङ्का लिका च लीक्षा च लीक्का च लिक्षिकेत्यपि । स्यान्मयूरः शिखी केकी प्रचलाकी च चन्द्रकी ॥ नीलकण्ठः सितापाङ्गो मेघनादानुलास्यपि । मार्जारकण्ठो मेनादः शिखाधारः शिखावलः ॥ बर्ही गरव्रतश्चित्रमेखलो बर्हिणोऽपि च ॥ कुमारवाही दीप्ताङ्गो विचित्राङ्गो भुजङ्गभुक् । वाणी केका केकिका स्याच्चन्द्रे चन्द्रक-मेचकौ ॥ शिखायान्तु शिखा चूडा मयूरस्य निगद्यते । शिखण्डोऽस्त्री पिच्छबर्हे शिखिपुच्छशिखण्डके ॥ पक्षी विहङ्गम-खगौ विहङ्ग-नभसङ्गमौ । द्विजः शकुन्तशकुनः पतन् पत्रि-पतत्रिणौ ॥ अण्डजो वाजि-विकिरौ व्योमचारी वि-विष्किरौ । नाडीचरण-पित्सन्तौ नीडोद्भव-विहायसौ ॥ शकुन्तिः पतगः पत्ररथः कण्ठाग्निरित्यपि । पतङ्गः स्यादगौकाश्च नगौका अपि चञ्चुभृत् ॥ स्यात् शरण्डः सरण्डोऽपि गरुत्वान् शकुनिस्तथा ॥ अथ पक्षिविशेषास्तु हारितो हरितालके । मद्गुः पानीयकाके स्यात् करण्डवश्च कामिके ॥ प्लवः स्यादुण्डरीलाख्ये तित्तिरिस्तित्तिरौ मतः । कोयष्टिकस्तु कोयष्टिर्यष्टिको जलकुक्कुभे ॥ कुक्कुभं स्यात् कुक्कुभको लावो लावक इत्यपि । टिट्टिभं स्यात् टिट्टिभको द्वयं टीटीसमाह्वये ॥ ;p{0089} जीवञ्जीवो जीवजीवो विषमृत्युर्जिवाजवः । जीया इति समाख्याते मनुष्याकारपक्षिणि ॥ चकोरकश्चकोरः स्यादित्याद्या लोकशास्त्रतः । पक्षपत्रपतत्राणि पक्षो वाज-गरुच्छदाः ॥ तथा तनूरुहञ्चैव पक्षिपक्षे निगद्यते । स्त्री पक्षतिः पक्षती स्यात् पक्षमूले तु पक्षिणाम् ॥ स्त्रियश्चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी च चञ्चुका । प्रडीनोड्डीनसंडीनान्येताः पक्षिगतिक्रियाः ॥ प्रथमोद्गमनं वीनां प्रडीनमिति कीर्तितम् । वियन् कमणमेवैषामुड्डीनमिति शब्दितम् ॥ वृक्षादौ पतनश्चैव संडीनं परिकीर्तितम् । कोषः कोशश्च पेषी च पेषीकोषश्च कोषकम् ॥ पेषीकोषं पेषिकोशः पेषिकोषोऽण्डमस्त्रियाम् । अस्त्री नीडं कुलायश्च पक्षिवासे भवेद् द्वयम् ॥ शावशावकपोतार्भडिभ्भाश्च पृथुकार्भकौ । शिशुः पाकश्च शिशुकः पोतको डिभ्भकोऽपि च ॥ स्त्रीपुंसौ मिथुनं द्वन्द्वं द्वन्दमित्यपि कुत्रचित् । द्वन्द्वञ्च यमलं युग्मं स्याद् युगं युगलञ्च युक् ॥ समूहे निवह-स्तोम-संघात-मण्डलव्रजाः । सन्दोहविसर-व्रात-व्यूह-विस्तर-सञ्चयाः ॥ वारौघनिकरोत्कारसमुदायसमुच्चयाः । आकरः प्रकरः संघो निचयः प्रचयश्चयः ॥ क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् । गणः समुदयो जालं जातञ्च निकुरम्बकम् । समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥ वर्गः समानार्थगणैर्घटासार्थो तु जन्तुभिः । कुलं सजातीयगणैः यूथं तिर्यग्गणैरपि ॥ समजः पशुवृन्दे स्यात् समाजोऽन्यसधर्मभिः । ;p{0090} उत्करः पुञ्जराशी तु कूटोऽस्त्री पुञ्जकेष्वपि ॥ एकादशैते विज्ञेया बृन्दभेदा हि लोकतः । शौकतैत्तिर-मायूर-कापोतादीन्यनुक्रमात् ॥ शुकादीनां गुणेष्वेवमूहनीयं प्रयोगतः । च्छेका गृह्या गृह्यकास्तु गृहपक्षिमृगेष्वपि ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां सिंहादिवर्गप्रकाशः ॥} ;p{0091} मनुष्यो मानवो मर्त्यो नरो ना मानुषः पुमान् । मनुर्मन्तुः पञ्चजनः पूरुषः पुरुषोऽपि च ॥ स्यात् पुमान् पुरुषो ना च पूरुषः पुंसि कीर्तितः । मानुषी मनुषी नारी मानवी मानुषस्त्रियाम् ॥ जनो जनपदो जानपदश्चैते समार्थकाः । स्त्री वधूरवला नारी प्रिया रामा जनिर्जनी ॥ योषा योषिद् योषिता च जोषिद् जोषा च जोषिता । वनिता महिला वामा धनिका च स (म)हेलिका ॥ सीमन्तिनी महेला च प्रतीपदर्शिनीत्यपि । नारीविशेषो भीरूः स्यादङ्गना वामलोचना ॥ ललना कामिनी कान्ता सुन्दरी च नितम्बिनी । प्रमदा रमणी रामा भाविनी भीरुरित्यपि ॥ कोपना सैव भामा स्यात्तथा चण्डी च भामिनी । वरारोहा वरवर्णिनी उत्तमा मत्तकाशिनी ॥ कृताभिषेका राजस्त्री महिष्यन्या च भोगिनी । पत्नी सधर्मिणी भार्या द्वितीया सहधर्मिणी । जाया पाणिगृहीती च धर्मचारिण्यपि क्वचित् ॥ असंख्यैकाधिबले दारास्तु पुंसि भूमनि ॥ अन्यत्र दार एकश्च दारौ द्वाविति चेष्यते ॥ गृहिणीदं कलत्रञ्च तत् कलत्रकमित्यपि । कुटुम्बिनी पुरन्ध्रिः स्यात् पुरन्ध्री च पुरन्ध्रिका ॥ पतिपुत्रदुहित्रादियुक्तायां स्याच्चतुष्टयम् ॥ एकपत्नी सती साध्वी सुचरित्रा पतिव्रता ॥ अध्यूटा चाधिविन्ना च कृतसापत्निकापि च । सपत्नीसहितायान्तु स्त्रियामेतत् त्रयं भवेत् ॥ स्वयम्वरा पतिम्वरा वर्या स्वयम्वरस्त्रियाम् । यामिर्यामी च जामी च कुलजा कुलपालिका ॥ कुलस्त्री कुलपाली स्यात् सप्तकास्तु कूलस्त्रियाम् । कन्यका कन्यिका कन्या कन्यका च कुमारिका ॥ कुमार्यलकनन्दा स्यादलकाख्यापि कुत्रचित् । सस्वेदा दूषिता धर्षकारिणी च प्रमादिका । दूषितायान्तु कन्यायां भवेदेतच्चतुष्टयम् । ;p{0092} अनागतार्तवा गौरी गौरिका नग्निकापि च ॥ अष्टवर्षा भवेद् गौरी दशवर्षा च कन्यका । द्वादशाब्दा कुमारी स्यादिति केचित् प्रचक्षते ॥ मध्यमा स्याद् दृष्टरजास्तथा मध्यमिकेत्यपि । युवतिर्युवती यूनी तरुणी तलुनीति च ॥ दिक्करी वनिका चेति धनीकापि च कुत्रचित् । स्नुषा वधुर्वधूटी स्याद् जनी च जनिरित्यपि ॥ पञ्चैते पूत्रवध्वाञ्च सामान्येऽपि वधूर्जनी । चिरिण्टी च चिरण्टी स्यात् सुवासिनी स्ववासिनी ॥ चिरं पितृगृहस्थायां भवेदेतच्चतुष्टयम् । इच्छावती कामुका स्यान्नृत्यादीच्छायुतस्त्रियाम् ॥ कामुकी तु वृषस्यन्ती रतीच्छावलितस्त्रियाम् । कान्तमुद्दिश्य सङ्केतं या याति साभिसारिका । असती धर्षिणी धृष्टा पांशुला कुलटेत्वरी । पुंश्चली स्वैरिणी दुष्टा वन्धकी धर्षितापि च ॥ वयःप्राप्ताऽनपत्या चेत् अशिश्वी स्यादशिश्विका । विधवा जनिका रण्डा विश्वस्ता यतिनी यतिः ॥ पतिपुत्रवती वीरा त्ववीरा तद्विहीनतः । मरुण्डा मरुटात्युच्चललाटायां भवेद् द्वयम् ॥ पालिः पाली च पालाघ्नी पालहा नवमालिका । नवाला पालभीता च भवेत् श्मश्रुयुतस्त्रियाम् ॥ पुत्रिका दारुकापि स्यात् दारुस्त्री शालभञ्जिका । शालभञ्जी च शालाङ्की षट्कं काष्ठमयस्त्रियाम् । विवृक्ता दुर्भगा निःस्वा सौभाग्यरहितस्त्रियाम् । सप्तपुत्रप्रसूतायां सप्तसूः दुतवस्करा ॥ विश्वसूर्दशपुत्रा स्यादेकाधिका तु रुद्रसूः । पुत्रसूः पुण्यभूमिः स्याद् धनसूः पुत्रिकाप्रसूः ॥ सख्याल्यालिर्वयस्या च पतिवत्नी सभर्तृका ॥ पलिता जरती वृद्धा पलिक्नी च पलिक्निका ॥ प्राज्ञी प्राज्ञा घीमती च प्रज्ञाबुद्धियुतस्त्रियाम् । शूद्रस्य भार्या शूद्री स्यात् शूद्रा तु शूद्रजातिषु ॥ द्विजातिपरिणीतापि शूद्रा शूद्रसुता भवेत् ॥ आभीरी गोपिका गोपी महाशूद्री च वल्लवी ॥ जातिपुंयोगयोस्तुल्या तथा गोपालिकापि च । ;p{0093} केनाप्युद्वाहिता वैश्या त्वर्यार्यानी द्वयं भवेत् ॥ तथा जातौ क्षत्रकन्या क्षत्रिया क्षत्रियाण्यपि । उपाध्यायान्युपाध्यायी विद्योपदेशकारिणी ॥ आचार्या गुरुकर्मादि मन्त्रव्याख्याकृति स्त्रियाम् । आचार्यस्य तु भार्या स्यादाचार्याणीति सा मता ॥ वैश्यक्षत्रिययोर्भार्या स्यादर्यी क्षत्रियी क्रमात् ॥ उपाध्यायान्युपाध्यायीत्युपाध्यायकलत्रके । स्त्रीपुंसलक्षणा पोटा तथा स्यात् पोटिकेत्यपि ॥ वीरपत्न्यां वीरभार्या वीरसूर्वीरमातरि । प्रसूता च प्रजाता च जातापत्या प्रसूतिका ॥ अथ वश्या च वशगा वशा स्याद् वशकापि च । कोटुवी कोटवी नग्ना नग्निका नग्नयोषिति ॥ दूती सञ्चारिका दूतिर्दूतीका दूतिकापि च । क्षौमांशुकार्धवृद्धा या यतिः कात्यायनी तु सा ॥ आत्मवश्या परगृहे नितरां शिल्पकारिणी । सौरिन्ध्रीत्यपि सैरन्ध्री सौरीन्ध्रिश्च समीरिता ॥ अन्तःपुरचरी प्रैष्या युवती स्यादसिक्न्यपि । वारस्त्री झर्झरा वेश्या शूला वारविलासिनी ॥ रूपाजीवा वारवाणिर्गणिका भण्डहासिनी । सा वेश्या वारमुख्या स्यादनेकजनसत्कृता ॥ शम्भली रतताली च या वेश्या वञ्चनात्मिका ॥ विप्रश्निका चेक्षणिका दैवज्ञा दैवकोविदा । उदक्या मलिनी पुष्पवती स्त्रीधर्मिनी त्वन्बिः ॥ अव्यात्रेयी ऋतुमती पुष्पहासा रजस्वला । ऋतुः स्यात् कुसुमं पुष्पमार्तवञ्च रजोरजम् ॥ या तु गर्भवशात् अन्नपानादेरभिलाषिनी । श्रद्धालु दोहदवती द्वयं तत्र निगद्यते ॥ स्यात् निष्कली निष्कला च निष्फली निष्फलापि च । विकली विकला चेति ऋतुहीनस्त्रियान्तु षट् ॥ अन्तर्वत्नी गुर्विनी स्याद् गर्भिणी गर्भवत्यपि । ससत्त्वापन्नसत्त्वा स्यात्तथा दोहदवत्यपि ॥ गणिकानां समूहे तु गाणिक्यं समुदाहृतम् । गार्भिणं गर्भिणीनाञ्च युवतीनाञ्च यौवतम् ॥ दिधीषु दिधिषुश्चैव पुनर्भूर्दिधिषूस्तथा । ;p{0094} द्विरूढायां स्त्रियामेतत् भवेदेवं चतुष्टयम् ॥ दिधिषु दिधिषुश्चैव द्विरूढायाः स्त्रियाः पतिः । स्यादग्रेदिधिषूरग्रदिधिषूर्ब्राह्मणो यदि ॥ अविवाहितकन्यायां जातः कानीन उच्यते । अथ सौभागिनेयस्तु यो भवेत् सुभगासुतः ॥ तथा दौर्भागिनेयस्तु दुर्भगासुत ईरितः । पारस्त्रैणेय आख्यातः सुतो जातः परस्त्रियाः ॥ अथ पितृस्वसेयः पैतृस्वस्रीय इत्यपि । तथा मातृस्वसेयश्च मातृस्वस्रीय इत्यपि ॥ बन्धुलः कौलटेरश्च कौलटेयोऽसतीसुतः । तथा बान्धकिनेयश्च स्यात् (कौलटेकेय) इत्यपि । अथ सत्यास्तु भिक्षुक्याः पुत्रो भवति यः पुनः ॥ तत्र कौलटिनेयः स्यात् कौलटेयोऽपि स स्मृतः । अथ पुत्रस्तनूजः स्यादात्मजस्तनयः सुतः ॥ अपत्यसूनुदायादकुलाधारकनन्दनाः । आत्मजन्मा द्वितीयश्च प्रसूतिः स्वात्मजः स्वजः ॥ आत्मजा दुहिता पुत्री पुत्रिका तनुजा सुता । अपत्यं पुत्रका स्वजा तनयापि च नन्दिनी ॥ अथापत्यञ्च तोकञ्च द्वितीयं पुत्रकन्ययोः । औरस्यमौरसञ्चेति स्वजातेऽपत्यमात्रके ॥ तातः पिता प्रसविता वप्ता जनयिता गुरुः । जन्मदो जनको जन्यो जनितापि च कुत्रचित् ॥ माता सवित्री जननी जनयित्री जनिर्जनी । जनित्र्यक्का प्रसूरम्वा त्वभ्विकाम्बालिकापि च ॥ अथ भ्राता दायबन्धुस्तथा स्याद् भगिनी स्वसा । ननान्दा नन्दिनी नन्दा ननन्दा च पतिस्वसा ॥ नप्त्री पौत्री पुत्रपुत्र्यां दौहित्रः कुतपोऽपि च । भाविन्यो भ्रातृवर्गानामन्योन्यमिह यातरः ॥ ;p{0095} प्रजावती भ्रातृपत्नी मातुलानी तु मातुली । पतिपत्न्योरम्विकायां श्वश्रूरपि च साश्रुधीः ॥ पतिपत्न्योश्च पितरि श्वशुरः पूज्य इत्यपि । पितृव्यो जनकभ्राता ज्येष्ठतातोऽग्रजो यदि ॥ पितुः कनिष्ठभ्राता तु खुल्लतातो विधीयते । मातुर्भ्राता मातुलः स्यान्मामको मातृकेशटः ॥ पत्नीभ्राता च वाक्कीरः श्यालः श्यालक इत्यपि । पत्युर्ज्येष्ठे श्वशुरको भ्रातृश्वशुर इत्यपि ॥ कणिष्ठे स्यात्तु वागारो (?) देवनो देवृदेवरौ ॥ पत्नीभगिन्यां श्याली स्यात् श्यालिका केलिकुञ्चिका । स्याद् भगिनीपतिर्भामो भामको श्रीसहासकः (?) ॥ स्वस्रीयो भागिनेयः स्यात् तथा स्वस्रिय इत्यपि ॥ यामातापि च जामाता स्यात्तथा कन्यकापतिः । पितामहः पितृपिता तत्पिता प्रपितामहः ॥ प्रपितामहतातस्तु स्याद्वृद्धप्रपितामहः । मामामहादयोऽप्येवं सपिण्डास्तु सनाभयः ॥ समानोदर्य्यसहजसोदर्यसोदरा अपि । सहोदरः सगर्भोऽपि सगर्भ इति कुत्रचित् ॥ ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः । ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥ पतिः कान्तः प्राणनाथो भरुर्भर्त्ता धवः प्रियः । हृदयेशो जीवितेशो जामाता च सुखोत्सवः ॥ नर्मकीलो रतगुरुः स्वामी रमण इत्यपि । अथ जारः पापपतिः पांशुलोपपती अपि ॥ ;p{0096} पत्यौ स्थितेऽन्यजः कुण्डो मृते तु गोलगोलकौ ॥ भ्रात्रीयो भ्रातृजो भ्रातृपुत्रो भ्रातृव्य इत्यपि ॥ भ्रातृभगिन्यौ भ्राता च स्वसा च भ्रातरावुभौ ॥ पुत्रौ पुत्रश्च कन्या च पुत्रश्च दुहिता च तौ । प्रकृत्यन्तरमित्येके पितरौ तातमातरौ ॥ तथा मातरपितरौ स्यान्मातापितराविति । श्वश्रूश्च श्वशुरश्चेति श्वशुरौ तावुभावपि ॥ दञ्च जञ्च कलत्रार्थं पतिश्चैवेति दम्पती । जम्पती तावुभौ जायापती भार्यापती च तौ ॥ दम् जम्भावश्च जायायाः क्वचिदन्यैर्निगद्यते । गर्भाशयो जरायुः स्याद् जरायुरवलापता (?) । न स्त्रियां कललोल्वा च सप्तकं त्वामलाह्वये ॥ कुमारभृत्या निकीला बालतन्त्रमिति त्रयम् । गर्भिण्या रक्षणे तन्त्रे तन्त्रकमित्यपि (स्मृतम्) ॥ सूतिमासो वैजननो भ्रूणगर्भो समावुभौ । तृतीयाप्रकृतिश्चापि तृतीयप्रकृतिस्तथा । शण्टः षण्टश्च पण्डः (च) क्लीवः क्लीबं नपुंसकम् ॥ शिशुत्वं शैशवं बाल्ये तारुण्यं यौवने समे ॥ अथ बृद्धत्वं वार्धक्य-वार्धक-स्थविराण्यपि । वृद्धवृन्दे वार्धकं स्यात् विभ्रमा विस्रसा जवा ॥ जरया शुक्लतायान्तु केशादेः पलितं स्मृतम् । स्तनन्धयी च स्तनपा डिम्भोत्थानशयापि च ॥ बालको मानवो बालः किशोरो वटुरित्यपि । मुष्टिन्धयो मानवको वटुकोऽपि किशोरकः ॥ वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा । स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥ वर्षीयान् दशमी ज्यायान् अतिवृद्धे समं त्रयम् । ;p{0097} अथ ज्येष्ठः पूर्वजः स्यादग्रजोऽग्रिय इत्यपि ॥ जघन्यजः कणिष्ठः स्यात् कनीयान् अतुजोऽपि च । स्याद् यवीयान् अवरजो जघन्योऽपि च कुत्रचित् ॥ छातः शातः शितोऽमांसो दुर्बलोऽबलोऽपि च ॥ वीर्यवान् मांसलश्चापि बलवान् अंसलो बली । पिचिण्डिलो बृहत्कुक्षिस्तुन्दिकस्तुन्दिभोऽपि च ॥ तुन्दी तुन्दिल इत्येवं विशालजठरे जने । अवभ्रटोऽवनाश्चावटीटो नतनासिके ॥ केशवान् केशिकः केशी केशवः शस्तकेशके । उद्दन्तुरोन्नतरदौ दन्तुरोऽत्युच्चदन्तके ॥ बलिनो बलिभश्चेति द्वयं त्रिबलिसंयुते । अपोगण्डस्तु पोगण्डो विकलाङ्गोऽङ्गहीनके ॥ वामने खर्वह्रस्वौ च नीचको नीच इत्यपि । खरणाः स्यात् खरणसो द्वितयं तीक्ष्णनासिके ॥ अथ विख्रस्तु विग्रोऽपि द्वितयं छिन्ननासिके । खुरणाः स्यात् खुरणसः खुरसन्निभनासिके ॥ प्रज्ञुः प्राज्ञुश्च पुंसि स्याद् द्वयं प्रगतजानुके ॥ अथोर्धज्ञुरूर्ध्वज्ञुश्च द्वयं स्यादूर्ध्वजानुके । तथा संज्ञुरसंज्ञुश्च द्वयं संहतजानुके ॥ एडः स्याद् वधिरः कल्लः त्रितयं श्रवणापटौ । कुब्जः न्युब्जस्तु गडुलो गडुरो गडुरित्यपि ॥ कुणिः कूणिश्च कुकरे पृथ्नि-(दल्पहेतके) रल्पशरीरके । जङ्घाहीने श्रोणः पङ्गुः स्यान्मुण्डो मुण्डितेऽपि च ॥ बलिरः केकरश्चापि केकरश्चापि टेरके । खोडे खोलश्च खोरश्च खञ्जः खञ्जक इत्यपि ॥ स्तनन्धयादि खञ्जान्ता एते निगदितास्त्रिषु ॥ जटिलो जटुलः पिप्लुः कालकस्तु जटान्विते । शिपिविष्टः शिविपिष्टः खल्लीटः खल्लिटोऽपि च ॥ खलतिश्चैव पञ्चैते टाकव्याधियुते जने । देहस्थिततिलाख्ये तु तिलकस्तिलकालकः ॥ अरोगतायां स्वास्थ्यं स्यात्तदारोग्यमनामयम् । अथ रोगप्रतीकारे चिकित्सा रुक्प्रतिक्रिया ॥ औषधं भेषजं जायुर्भैषज्यमगदोऽपि च । ;p{0098} उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥ जक्ष्मा यक्ष्मा राजयक्ष्मा पुमान् शोषः क्षयोऽपि च । प्रतिश्यायः प्रतिश्या च पीनसो नासिकामये । अथ स्त्री क्षुत् क्षुता छिक्का क्षवथुर्णा क्षुतं क्षवः ॥ क्षवथुः काशकासौ च श्वयथुः शोथशोफकौ । स्फुटी विपादिका पादस्फोटश्च स्फुटिरित्यपि ॥ किलासं सिध्नसिध्नञ्च छोद इत्याह्वये त्रयम् । कच्छुः पच्छुः पाम पामा पादरोगा विचर्चिका ॥ खर्जूः कण्डूश्च कण्डूया कण्डूतिः कण्डुरित्यपि । विस्फोटकस्तु विस्फोटः विटकः पिटकोऽपि च ॥ कामला कामलः पाण्डुः पाण्डुरः पाण्डुकोऽपि च । औदर्यशूले स्यादीर्म मरुः क्लीबे व्रणोऽस्त्रियाम् ॥ अथ नाडीब्रणोऽपि स्यात्तथा नालींब्रणोऽपि च । कोठः मण्डलकञ्चैव मण्डलाकारकुष्ठके ॥ श्वित्रं कुष्ठे सिते दर्द्रुर्दद्रुर्दद्रूश्च दद्रुके । अर्शं दुर्नामकार्शसी ग्रहणी रुक् प्रवाहिका ॥ आनाहस्तु विबन्धः स्यान्मलमूत्रनिरोधके ॥ प्रछर्दिका वमिः स्त्री तु वमथुर्वमणं तथा । उत्कासिकायां छर्दिः स्त्री छर्दं छर्दणमित्यपि ॥ व्याधिभेदा विद्रधिः स्त्री पृष्ठोदरगलव्रणे । ज्वरस्तापकसन्तापौ मेहस्तु बहुमूत्रके ॥ गुदादिचिह्नतदेशे ब्रणभेदे भगन्दरः । अश्मरी मूत्रकृच्छं स्याद् बालीशो वङ्क्षणावकः ॥ योन्यर्शः कन्दसंज्ञं स्यात् किणः सूक्ष्मव्रणेऽपि च । अजीर्णेऽन्त्रलुमिर्वायुगण्डः स्यात् पललाशयः ॥ तनुव्रणश्च वल्मीको द्वयं वल्मीकरोगके ॥ कोषबृद्धिः कुरण्डः स्याद् गर्वण्डो नाभिकण्टकः । युवगण्डो वरण्डः स्याद् वयः स्फोटाह्वये द्वयम् ॥ पापरोगो रक्तवटी मसूरी च मसूरिका । वसन्तोऽप्पतिसारः स्यादन्नगन्धिर्यमारकः । शतारुषी शतारुश्च कुष्ठभेदे द्वयं भवेत् ॥ विरेको रेचनं रेको रेचना च विरेचनम् । अथ स्यात् पदगण्डीरः श्लीपदश्च शिलीपदः ॥ पूयकं पूयमाख्यातं व्रणादिप्लाविते रजे । ;p{0099} खारी खाटिरर्बुदश्च किणो व्रणादिखाटिषु ॥ अर्बुदोऽर्मं दृष्टिरोगेप्यतः शुक्रावधे(ः) त्रिषु । भिषग् वैद्योऽगदङ्कारो रोगहारी चिकित्सके ॥ वार्तोनिरामयः कल्यो रोगहीनजने त्रयम् ॥ अथ रोगाद्विमुक्ते स्यातुल्लाघः स्वच्छ इत्यपि । ग्लानो ग्लास्नुः रोगात् क्षीणशरीरे द्वितयं भवेत् ॥ व्याधितो विकृतोऽभ्यान्तोऽभ्यमितः पटुरातुरः । आमयावी व्याधियुक्तजने स्यादिति सप्तकम् ॥ विचर्चिका रोगयुक्ते पामनः कर्बुरोऽपि च । दद्रुणो दर्द्रुणोऽपि स्याद् दर्द्रुरो दर्द्रुरोगिणे ॥ अर्शरोगयुक्तजनेऽर्शी चार्शयुतोऽर्शसः ॥ वातकी वातरोगी स्यात् सातिसारोऽतिसारकी । वातासहो वातसहो वातूलो वातुलोऽपि च । अत्यन्तवायुयुक्ते तु भवेदेतच्चतुष्टयम् ॥ क्लिन्नाक्षे क्लिन्ननेत्रे च चिल्लचुल्लसपिल्लकाः । उन्मत्तोन्मादवन्तौ च उन्मादव्याधिते जने ॥ श्लेष्मणः श्लेष्मलोऽपि स्यात् कफी चातिकफान्विते ॥ अथ न्युब्जो रुजा भुनेऽप्यन्धो दृग्नेत्रहीनके । वृद्धनाभिस्तुन्दिभः स्यात्तुन्दिलोऽत्युच्चनाभिके ॥ किलासी सिध्मलश्चापि छोदयुक्तजने द्वयम् । काणूकः काणकः काण एकनेत्रविहीनके । शुक्रं रेतस्तेजसी च वीजवीर्येन्द्रियाणि च । मायुः पलज्वरः पित्तं कफे श्लेष्मा बलाशकः ॥ खटः खेटोऽपि तत्रैव बलहा वेगनाशनः । त्वक् त्वचा च त्वचं चर्म छलीच्छलिरसृग्धरा ॥ मांसहासा वर्णलक्ष्यं खेटखल्ले च कुत्रचित् । आमिषं मांसपिशिततरसं पललं पलम् । क्रव्यञ्च त्रिषु वल्लूरमुत्तप्तं शुष्कमांसके ॥ रुधिरासृक् पलङ्कारमस्रं क्षतजरोहितम् । लोहितं शोनितञ्चेति रक्तं रङ्गकमित्यपि ॥ वुक्का वुक्काऽग्रमांसं हृत् हृदयं वुक्क इत्यपि । वपा वसा च मेदस्तु मेद इत्यपि कुत्रचित् ॥ पश्चाद् ग्रीवा शिरामन्यामन्यकापि च निगद्यते । नाडीशिरा शिरानाली धमनिर्धमनीति च ॥ ;p{0100} क्लोमक्लोमन्तु तिलकं त्रयं धवलवुक्कके । मस्तुलुङ्गन्तु मस्तिष्कं गोर्दञ्च मगजाह्वये ॥ अस्त्री मलः स्यात् कल्कञ्च किटुं किटुकमित्यपि । जिह्वामलञ्च कुल्लोकं पिटुकं दन्तकिटुकम् ॥ अन्त्रं पुरीतत् क्लीबे द्वे गुल्म प्लीहा च पुंस्यपि । स्त्रियां स्नायुर्वस्नसा च चर्मनिर्मितरज्जुषु ॥ क्लीबे यकृत् कालखण्डं खलिञ्जं कलिजाह्वये ॥ द्राविका स्यन्दिनी लाला सृणीका सृणिकापि च । दूषिकोदूषिका दूषिः पिञ्चोट-पिञ्चटावपि ॥ अथ मूत्रन्तु प्रसावः स्त्रियौ विष्ठा विषौ शकृत् । अमेध्यं शामलं दूर्यं गूथं वर्चस्कमस्त्रियाम् ॥ उच्चारावस्करौ कल्कं पुरीषं मलवर्चसा । कर्परः स्यात् कपालोऽस्त्री ललाटास्थि च कल्वनः ॥ अस्थि कुल्यं कीकसञ्च कङ्कालो देहकीकसे । कशेरुका कशेरुः स्त्री पृष्ठास्थनि भवेद् द्वयम् ॥ स्त्री करोटिः करोटी च करोटश्च शिरोऽस्थनि । चन्द्री चन्द्रा चन्द्रिका स्यात् पार्श्वास्थनि तु पार्शुका ॥ तथाङ्गं स्यादपघनः प्रतीकावयवौ तथा । शरीरं विग्रहं वर्ष्म गात्रं संहननं वपुः ॥ क्षेत्रं तलुः कुलं पिण्डं कन्धं स्कन्धं कलेवरम् । द्वेऽस्त्रियौ कायदेहौ च तनूर्मूर्तिस्तनुः स्त्रियः ॥ अतिप्रशस्तदेहे तु पुङ्गलं पुङ्गलोऽपि च । पादाग्रं प्रपदञ्चेति चरणाग्रे भवेद् द्वयम् ॥ द्वेऽस्त्रियां चरणः पादः पदङ्घ्रिरङ्घ्रिरित्यपि । घुटिका स्याद् घुटो गुल्फः पादग्रन्थिर्घुटिर्घुटी ॥ अथ पार्ष्णिः पुमानेव गुल्फाधोभागदेशके ॥ टङ्का टङ्कञ्च प्रसृता स्याद् जङ्घा टङ्किकापि च । द्वेऽष्ठीवान् अस्त्रियामेव क्लीबे जानूरुपर्वणि ॥ क्लीबे सक्थि पुमानूरुरूरुसन्धौ तु वङ्घणः । गुदं तलू हृदः पायुर्मार्गोऽप्यपानमित्यपि ॥ चुतश्चूतश्चूतिश्चूतो गुद्द्वारं श्चुलिश्चूली । वस्तिः स्त्रीपुंसयोर्नाभेरधोभागे निगद्यते ॥ स्यात् श्रोणिफलकं कटो द्वयं करकणाह्वये ॥ स्त्रियां कटिः कटी श्रोणिः श्रोणी चापि कुकुद्मती । ;p{0101} कलत्रं फलकं स्यात्तु कटीरश्च कटीप्रोथः ॥ नितम्वं स्त्रीकटिपश्चाद्भागे तु जघनं पुरः । नितम्वे कूपकद्वन्द्वं कुकुन्दर-ककुन्दरे ॥ कटीप्रोथः कटिप्रोथः पूलकः स्थिक् स्त्रियां स्फिचा । लिङ्गयोन्योरुपस्यः स्याद् वराङ्गं स्मरमन्दिरम् । योनिर्द्वयोरतिगृहं जन्मवर्त्माधरंभगम् ॥ अवाच्यदेशः प्रकृतिरपथं स्मरकूपकः । अप्रदेशः पद्धतिः स्यात् पुष्पी संसारमार्गकः ॥ संसारमार्गो गुह्यञ्च स्मरागारं स्मरध्वजम् । रत्यङ्गं रतिकूहरञ्च कलत्रमध इत्यपि ॥ द्वयोः शिश्नः स्मरस्तम्भ उपस्थो मदनाङ्कुशः । कन्दर्पमूषलः शेफः शेपो मेहनशेफसी ॥ मेट्रो लाङ्गुर्ध्वजो रागलता व्यङ्गोऽपि लिङ्गवत् ॥ कोषः कोषकं मुष्काण्डवृषणा अण्डकोषकः । सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥ मेरुदण्डः पृष्ठवंशस्तस्यैवाधो भवेत्त्रिकम् । उदरं जठरं कुक्षिपिचिण्डौ तुन्दमित्यपि ॥ नाभिर्नाभी तुन्दकूपी तुन्दिस्तुन्दीदरुर्द्वयोः । तुण्डिस्तुण्डी तुण्डिका च तुन्दिकापि च कुत्रचित् ॥ कुचः कूचः उरोजः स्याद् वक्षोजः स्यात् पयोधरः । स्तनो वक्षोरुहश्चापि तथोरसिज इत्यपि ॥ चूचुकन्तु चुचूकं स्यात् चुचुकञ्च कुचाग्रके । भुजयोर्मध्यभागे तु क्रोडा क्रोडं भुजान्तरम् ॥ अथ वक्षश्च वत्सं स्यादुरो वक्षःस्थले त्रयम् । पृष्ठं पृष्ठिस्तु पृष्ठी च पश्चाद्भागे त्रयं तनौ ॥ स्कन्धो भुजशिरः क्लीबमंसोऽस्त्री कन्ध इत्यपि । स्कन्धसन्धिद्वयं जत्रु जत्रुकञ्च नपुंसकम् ॥ कक्षौ द्वौ बाहुमूले स्यादस्त्री पार्श्वं तयोरधः । अस्त्री मध्यो मध्यमञ्च विलग्नमवलग्नवत् ॥ द्वयोर्बाहुभुजौ दोषा प्रवेष्टो दोश्च वाहवत् । द्वयोः कफोणिः कफणिः कपोणिः कूर्परोऽपि च ॥ कफोणेरुपरिस्थानं प्रगण्डः परिकीर्तितः । प्रकोष्ठो मणिबन्धान्तं स्थानं यत्तु कफण्यधः ॥ मणिबन्धः करग्रन्थिः करग्रन्थिक इत्यपि । ;p{0102} करभस्तु कणिष्ठान्तं मणिबन्धात् करे वहिः ॥ हस्तः पाणिः पञ्चशाखः शयः कुलि-भुजादलौ । बृद्धाङ्गुली स्यादङ्गुष्ठो बृद्धापि च समीरिता ॥ प्रदेशिनी तर्जनी स्यात् प्रदेशन्यपि देशिनी । अथ मध्या मध्यमा स्यादनामा स्यादनामिका ॥ कणिष्ठिका कणिष्ठा च कणीयसी कणीनिका । करशाखाङ्गुरिश्चाङ्गुर्यङ्गुलीऽङ्गुलिरङ्गुली ॥ मुयुटी मुकुटी चैव भवेदङ्गुलिमोटिने । अस्त्रियो नखरनखौ पुनर्नव-पुनर्भवौ ॥ कराग्रजः कररुहः करजः करकण्टकः । स्मराङ्कुशो रतिरथः करचन्द्रः कराङ्कुशः ॥ तर्जन्यङ्गुष्टविस्तारात् प्रादेशश्च प्रदेशकम् । अङ्गुष्टमध्याविस्तारात् तलस्ताल इति द्वयम् ॥ अनामाङ्गुष्टविस्तारात् गोकर्ण इति कीर्तितः । कणिष्ठाङ्गुष्ठयोः किष्कुर्वितस्तिर्द्वादशाङ्गुलम् ॥ चपेटः प्रतलस्तालश्चपेटी तालिका तलः । प्रहस्तश्चपटो हस्ते समस्ताङ्गुलिविस्तृते ॥ चपेटौ द्वौ करौ संहतलः संहत इत्यपि । एकहस्तो निम्नतलं प्रसृतं प्रसृतिः स्त्रियाम् ॥ प्रसृतं सजले हस्ते घनसंयोजिताङ्गुलौ । तस्मिन् गण्डूषचुलुकचलुकानि चलु स्मृतम् ॥ मध्यनिम्नतलौ हस्तौ युक्तौ पार्श्वेऽञ्जलिः पुमान् । प्रकोष्ठो विस्तृतकरो हस्त इत्यभिधीयते ॥ मुष्ट्या तु बद्ध्या हस्तः सरत्निरिह कीर्तितः । भवेदरत्निस्तेनैव कणिष्ठेतरमुष्टिना ॥ कणिष्ठानामिकामध्यातर्जनीतलसंयुता । तासामुपरिवृद्धा चेत् स च मुष्टिरिह द्वयोः ॥ व्यासः सकरयोर्बाह्वोस्ततयोर्वक्रमन्तरम् । ऊर्ध्वातते बाहुपाणौ नृमाने त्रिषु पौरुषम् ॥ कण्ठो गले शिरोधिः स्त्री ग्रीवा स्यात् कन्धरेत्यपि । त्रिरेखासहिता ग्रीवा कम्बुग्रीवा च कम्बुका ॥ घाटो घाटा कृकाटी स्यादवटुश्च कृकाटिका । मुखं वदनं तुण्डास्यवक्त्रं लपनमाननम् ॥ घोणा घ्राणञ्च नासिकयं नस्या नासा च नासिका ॥ ;p{0103} गन्धनाली गन्धरन्ध्रा नक्रं गन्धवहेत्यपि । सिङ्घाणकञ्च सिङ्घाणं सिङ्घणं नासिकामले ॥ ओष्ठाधरौ दन्तवस्त्रे वाग्दले रदनच्छदौ । चिवुकन्तु चिवुक्लीबेऽधराधः स्थले द्वयम् ॥ अथ गण्डौ कपोलौ च तदधः स्त्री हनुर्हनूः ॥ दन्तो द्विजश्च खरुः स्याद् दशनो रदनो रदः । माटी दन्तशिरा माटिर्भवेत् तालु च काकुदम् ॥ जिह्वा रसज्ञा रसना रसाला रशना तथा । सुधास्रवा च रसिका रसाङ्का प्रतिजिह्विका ॥ माध्वी रसनकाकुः स्त्री तथा स्यादलिजिह्विका । ओष्ठप्रान्ते सृक्कनी च सृक्कसृक्कञ्च सृक्कि च ॥ पुंसि गोधिर्महाशङ्खः शङ्खः भालः कपालकम् । ललाटमलीकाणिकं तत् प्रशस्तं ललाटकम् ॥ भ्रूवौ स्त्रियां नयनयोरूर्ध्वलोमावली द्वयम् । अस्त्री कूर्चं भ्रूवोरन्तस्तथा तारा तु तारका ॥ नयनं लोचनं नेत्रं चक्षुरक्षिविलोचनम् । आत्मकं दृग्दृशादृष्टिर्वीक्षणं प्रक्षणेक्षणम् ॥ दैवदीपो दर्शनञ्च दृशिर्दृशी . . . . . . . । अश्रू चास्रञ्च नेत्राम्वु रोदनं वाष्पमस्रू च ॥ अथापाङ्गौ च नेत्रान्तौ कटाक्षोपाङ्गदृष्टिषु । निमेषो निमिषश्चैव भवेद् दृष्टिनिमीलने ॥ कर्णः शब्दग्रहः श्रोत्रं स्त्री श्रूतिः श्रवणं श्रवः । शब्दाधिष्ठानं श्रौतञ्च पैञ्जुषः श्रोत इत्यपि ॥ स्याद्वषः शष्कुली चेति द्वितयं कर्णरन्ध्रके । पुंसि मूर्धाशिरः शीर्षं मुण्डं मस्तकमस्त्रियाम् ॥ उत्तमाङ्गं कं शिरञ्च कञ्चापि मान्तव्ययम् । चिकुरः कचवालौ च केशकुन्तलकुञ्जराः ॥ शिरोरुहः शिरसिरुट् शिरोरुट् शिरोजा अपि । केशौघे कैशिकं कैश्यमलकश्चूर्णकुन्तले ॥ अथ भ्रमरकास्ते स्युरलकाश्चेत् कपालगाः । शिशुकः काकपक्षश्च शिशुपार्श्वस्थकुन्तले ॥ कवरी कवरं केशवेशस्तु केशगर्भकः । प्रसूनगर्भिता केशाबद्धा मुक्तादिभूषिताः ॥ धम्मिल्लास्ते निगदिता मौलिर्मौली च तत्र हि । ;p{0104} शिखा चूडा केशपाशी जुटिका जूटिकेत्यपि ॥ शिरोमध्यबद्धचूडे भवेदेतत्तु पञ्चकम् । जटा जटिर्जटी जूटो जूटकन्तु सटं सटा ॥ कोटीरं जटुकं तूस्तं शिखायां व्रतिनामपि ॥ वेणिर्वेणी प्रवेणिः स्यात् प्रवेणी केशवेणीषु ॥ स्यातां शिरस्यशीर्षण्यौ शुद्धनिर्मलकुन्तले ॥ अथ पाशपक्षहस्ताः समूहार्थाः कचात् परे । शिष्टप्रयोगादन्येऽपि केशवृन्दादयो यथा ॥ तनूरुहं तनुरुहं तनुरुट् लोम रोम च । छेङि (?) श्मश्रू व्यञ्जनञ्च लोमबृद्धौ तु पुंमुखे ॥ वेशो वेषश्च नेपथ्यमाकल्पोऽपि प्रसाधनम् । प्रतिकर्मस्वर्णपुष्पगन्धादिवेशमात्रके ॥ अलङ्कर्तालङ्करिष्णुर्मण्डितश्च प्रसाधितः । परिष्कृतोऽलङ्कृतश्च भूषितश्च प्रसारकः (?) । विभ्राट् भ्राजिष्णुः रोचिष्णुः दीप्तियुक्तजने त्रयम् ॥ अलङ्कर्तादिरोचिष्णुपर्यन्तं त्रिषु निश्चितम् ॥ अलङ्कारः परिष्कारः विभूषणमलङ्क्रिया । मण्डणाभरणं भूषा त्वलङ्करणभूषणम् ॥ मुकुटं मौलिर्मौली च कोटिरशेखरं (तथा) । अवतंसो वतंसः स्यादुत्तंसोष्णीषकावपि ॥ कौटीरकञ्च कौटीरं किरीटं पुनपुंसकम् । चूडामणिः शिरोरत्नं शिरोमणिरपि द्वयोः ॥ उष्णीषो वेष्टनञ्चैव शिरोवेष्टनवेष्टकम् । बालपाश्या पारितथ्या सीमन्तपटुके द्वयम् ॥ ललाटिका पत्रपाथ्या स्वर्णादि (भाल)भूषणे । तालपत्रं कर्णिका च तथा ताडङ्किकापि च ॥ कर्णाभरणिका चेति स्यात् कर्णताडिताह्वये ॥ अवतंसो वतंसश्च कर्णपूरश्च कुण्डलम् । कर्णवेष्टनमुत्तंसो दन्तपत्रञ्च कर्णकम् ॥ ग्रैवेयकञ्च ग्रैवेयं ग्रैवञ्च कण्ठभूषणम् । आनाभिलम्बिता कण्ठी लम्बनञ्च ललन्तिका ॥ अथ स्वर्णेः कृताहारा ज्ञेया प्रालम्बिका स्त्रियाम् । स्यादुरःसूत्रिका सैव रचिता मौक्तिकैर्यदि ॥ ;p{0105} तरलस्तु भवेदेष मणिश्चेत् हारमध्यगः । हारो मुक्ताबली हारा यष्टिर्यष्टी लतापि च ॥ अथ हारविशेषा स्युर्यष्टिभेदेन देशिताः । देवछन्दो निगदितो हारो यः शतयष्टिकः ॥ द्वाविंशयष्टिके हारे गुच्छः गुत्स इति द्वयम् । तदर्धेन तु गुच्छार्ध इत्याह मधुमाधवः ॥ गुच्छार्धः क्वचिदाख्यातश्चतुर्विंशतियष्टिकः । चतुर्यष्टिकृतो हारः गोस्तनः समुदाहृतः ॥ चतुःषष्टियष्टिकृतो हारोऽर्धहार उच्यते । अथ मानवको हारो भवेद् विंशतियष्टिकः ॥ भवेदेकावलीहारो यदि स्यादेकयष्टिका । नक्षत्रमाला सा ज्ञेया सप्तविंशतिमौक्तिकैः ॥ कण्ठीकाकश्च माला च कण्ठी च कण्ठिकेत्यपि । दीनारोऽपि च निष्कोऽस्त्रीद्वयं हृदयभूषणे ॥ स्यादस्त्रियान्तु केयूरमङ्गदं ताडकाह्वये । बलयोऽस्त्री पारिहार्यशङ्खकावापका अपि ॥ कटकञ्च कङ्कणोऽस्त्री कौतुकं करभूषणम् । करसूत्रं प्रतिसरं चूडा या वाभटीति च ॥ अङ्गुरीयमूर्मिका स्यादङ्गुलीयाङ्गुलीयकम् । मुद्रा चाङ्गुलिमुद्रा च वेदिः स्यादक्षरान्वितम् ॥ कक्ष्या कक्षा सप्तकी स्यात् काञ्चिः काञ्ची च मेखला । सारसनं सरसनं रसना रशना तथा । रसनं रशमञ्चेति स्त्रीकटीभूषणे भवेत् । अथ पुंसः कटीदेशभूषणे शृङ्खला त्रिषु ॥ क्षुद्रघण्टी प्रतिसरा किङ्किनी काचकिङ्किनी । कङ्कनी स्यात् कङ्कणिका क्षुद्रिका क्षुद्रघण्टिका ॥ नूपुरोऽस्त्री तुलाकोटिस्तुलाकोटी च हंसकः । मञ्जीरं पादकटकं पादाङ्गद-पदाङ्गदे ॥ फलवल्कलरोमणि कृमिश्च वस्त्रयोनयः । फालं वादरकार्पासं क्षौमादि वाल्कवाल्कलम् ॥ रोमजं राङ्कवादि स्यात् कार्मञ्च कृमिकोषजम् । अनाहतमाहतं स्यादहतं तन्त्रकं तथा ॥ नववस्त्रं निष्प्रवाणि त्वेते फालादयस्त्रिषु । धौतवस्त्रयुगे प्रत्युद्गमनीयमुदाहृतम् ॥ ;p{0106} साधारणे तु वरकं पत्रोर्णं धौतकोषजम् । बहुमूल्यञ्च यद्वस्तु वस्त्रञ्चापि महाधनम् ॥ क्षौमं क्षोमं दुकूलञ्च सूक्ष्मवस्त्रे भवेत् त्रयम् । निवीतं प्राकृतञ्चेति वस्त्रे परिहिते त्रिषु ॥ वर्तिर्वर्ती द्वयोर्वस्तिर्बहुत्वे च दशा स्त्रियाम् । असंख्येकाधिकरणे द्वित्वैकत्वे तदन्यतः (?) ॥ दैर्घ्यमायाम आरोहः दीर्घतायामिदं त्रयम् । ओसार इति विख्याते परिणाहो विशालता ॥ सामान्ये च विशालत्वे क्वचित् केचित् प्रचक्षते । पुराणवसने ज्ञेयं जीर्णवस्त्रं पटच्चरम् ॥ खण्डखण्डे जीर्णवस्त्रे स्यातां नक्तककर्पटौ । वस्त्रं वासश्च वसनं वासनं सिचयोंऽशुकम् ॥ च्छादनाच्छादनं प्रोतं चेलं बासमपि क्वचित् ॥ सुचेलकः पटोऽस्त्री तु प्रशस्तवसने द्वयम् । पटिपटी वस्त्रभेदे पतीनाम्नी निगद्यते ॥ वराशिः स्याद् वरासिस्तु स्थूलशाटक इत्यपि । पटवासः पटमयं शाटी शाटक इत्यपि ॥ निचोलः प्रच्छदपटः प्रच्छदो निचुलोऽपि च । वेशको रोमयोनिः स्यात् कम्बलो रल्लकोऽपि च ॥ परिधानोपसंव्यानान्तरीयं स्यादधोंऽशुकम् । प्रावार उत्तरासङ्गः संव्यानमुत्तरीयकम् ॥ तथा बृहतिका चेति द्वितीयवसनाह्वये । कूर्पासकः कुञ्चुलिका कञ्चुली चोल इत्यपि ॥ निशारोऽपि च नीशारः काँठारादिसमाह्वये । चण्डातकं वरस्त्रीणामर्धोरुप्राप्तवस्त्रके ॥ त्रिषु चाप्रपदीनं तत् पादाग्रप्रापितं हि यत् । उल्लोचः स्यात् वितानोऽस्त्री चन्द्रा चन्द्रातपः पुमान् । पटवासः पटमयं दूष्षं वस्त्रगृहं स्थूलम् ॥ खरग्रहः खरगृहं खरगेहे निगद्यते ॥ अथावगुण्ठिका चावगुण्ठनञ्च निरिङ्गिनी । अन्तःपटो यवनिका स्यात् तिरस्करिणी पटी । प्रतिसीरा जवनिका चित्रा कान्तपटोऽपि च ॥ ;p{0107} प्रतिकर्माङ्गसंस्कारः स्यात्तथा परिकर्म च । मार्ष्टिर्माष्टी मार्जना स्यात् मृजा मार्जनमित्यपि ॥ उच्छादनोद्वर्तनञ्च शरीरोद्वर्तने द्वयम् । अथ स्नानञ्चाभिषेकः भवेदाप्लावः आप्लवः ॥ स्थासकः स्थाषकश्चर्चा चार्चिक्यञ्च चतुष्टयम् । वस्त्रादौ कुङ्कुमादीनां छटादिषु निगद्यते ॥ ललाटिका शङ्खचर्ची शङ्खपात्रस्थचन्दने । स्नानादौ सौरभे व्यक्ते त्वनुरोधः प्रवोधनम् ॥ पत्राङ्गुलिः पत्रलेखा पत्रभङ्गी च पत्रकम् । पत्रभङ्गिः पत्रभङ्गस्तथा पत्रावलीत्यपि ॥ तमालपत्रं चित्रं स्यात्तिलकञ्च विशेषकम् । द्वयमस्त्री चित्रकञ्च तिलके चन्दनादिभिः ॥ सामालभनमुच्छित्तिरङ्गरागः कषायकम् । कुङ्कुमं घुसृणं रक्तं सङ्कोचं हरिचन्दनम् ॥ पिशुनं शिखरं धीरं वरं लोहितचन्दनम् । काश्मीरजन्म काश्मीरं खलमग्निशिखं रजम् ॥ दीपकं लोहितञ्चाग्रसौरभं चापि चन्दनम् । लाक्षा राक्षा जतु क्लीबे जतुकं यावयावकौ ॥ द्रुमामयोऽलक्तकः स्यात् रक्तालक्तोऽपि कुत्रचित् । श्रीसंज्ञं देवकुसुमं लवङ्गञ्च लवङ्गकम् ॥ कालीयकन्तु कालानुसार्यं जाषकजायकम् । वंशिकं कृमिजं लोहं राजर्हागुरुजोङ्गकम् ॥ कालागुरु स्यादगुरु वंशिकं जोङ्गलाहकम् । यद् भवेत् मल्लिकागन्धि मङ्गल्या संभवेदिह ॥ यक्षधूपः सर्वरसो रालः सर्जरसोऽपि च । अवालो बहुरूपश्च विरूपोऽपि च कुत्रचित् ॥ अथ कृत्रिमधूपस्तु वृकधूप इति द्वयम् । दशाङ्गप्रमुखे धूपे पर्यायः कथितः बुधैः ॥ सिह्लकः सिह्लपिण्याककपिचञ्चलयावनाः । तैलाख्यः पिण्डको जीव वस्तुरुष्को यावनोऽपि च ॥ श्रीपिष्टः वृकधूपः स्यात् श्रीवासः सरलद्रवः । श्रीवेष्टः पायासो यासो यवासोऽपि घृताह्वयः ॥ दधिक्षोराह्वयावक्रौ क्षीरश्रीरपि वायसः । ;p{0108} सालवेष्टः सर्जमानो द्वयं सालरसे मतम् ॥ कस्तुरिका च कस्तूरीमृगः कस्तूरिकामदः । नाभीलता मृगमदो मृगनाभिर्मदाह्वयः ॥ मदो योजनगन्धा च मार्गोऽपि गन्धचेलिका । कालाङ्गी धूपसञ्चारी मिश्रागन्धपिशाचिका । पर्यायः स्वल्पकस्तूरी नाभिभेदे निगद्यते ॥ कक्कोलकं कोषलकं कक्कोलं कोषकं तथा । कर्पूरोऽस्त्री चन्द्रसंज्ञ इन्दुश्चन्द्रहिमाह्वयः ॥ सिताभ्रोऽपि शीताभ्रः सिताभो हिमावालुका । घनसारश्चन्द्रभस्मवेधकौ रेणुसारकः । चन्दनोऽस्त्री मलयजः पटीरो वर्णकोऽस्त्रियाम् ॥ भद्राश्रयो गन्धसारः भद्रश्रीः सेव्यरोहिणौ । तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ एवं चन्दनभेदं स्यात् ख्याते त्रिविधचन्दने । पतङ्गमपि पत्राङ्गं पतुङ्गञ्च कुचन्दनम् ॥ तिलपर्णी रक्तवीजं रञ्जनं रक्तचन्दनम् । फलं जातिर्जातिफलं जाती जातीफलं तथा ॥ कोशं कोषं जातिकोषं जातीकोषञ्च कोषकम् । कर्पूरागुरुकक्कोल कस्तूरी समभागतः । यक्षकर्दम इत्युक्तः यक्षकर्दमकोऽपि च ॥ कर्पूरागुरु कक्कोलकस्तूरीभूस्तृणानि च । एकीकृत्य तुल्यभागे भवेद् वा यक्षकर्दमः ॥ गात्रानुसारिणी वर्तिर्वर्ती गात्रानुलेपनी । विलेपनं वर्णकं स्यात् अनुलेपननामनि ॥ तूली च तूलिका तूला वर्ती वर्तिश्च वर्तिका । वर्णको वर्णिका चेति स्यात् चित्रा चित्रकापि च ॥ गन्धचूर्णं वासयोगः पटवासन्तु चूर्णकम् । जलादौ वासिते द्वे तु भावितं वासितं त्रिषु ॥ गन्धमाल्यादिसंस्कारो यः स्यात्तदधिवासनम् । माल्यं स्रक् मालिका माला मालाका मालकापि च ॥ केशमध्ये तु यन्माल्यं गर्भकं सोऽभिधीयते । ;p{0109} अथ माल्यं शिखालम्बि प्रभ्रष्टकमुदाहृतम् ॥ भालपर्यन्तमालम्बि ललामकमुदाहृतम् । ऋजुकण्ठात् लम्बमानं माल्यं प्रालम्बमुच्चते ॥ कण्ठतो हृदये तिर्यक् माल्यमारोपितं हि यत् । वैकक्षन्तु वैकक्ष्यं द्वयं तत्र निगद्यते ॥ शिखाविन्यस्तमालायामापीडः शेखरोऽपि च । निर्माल्यं निर्मल्यञ्चेति द्वयं पर्युसिते मतम् ॥ रचना च परिस्यन्द पत्रबन्ध इति त्रयम् । पत्रभङ्ग प्रसूनादिरचनायां निगद्यते ॥ पूर्णतायां द्वयमिदन्त्वाभोगः परिपूर्णता । उपधानञ्चोपवर्हः उपधानीयमित्यपि ॥ शयनीयञ्च शयनं शय्या च शयनीयकम् । पल्लवाद्यैर्विरचिते शयनीये तु सम्भवः ॥ अस्तरः प्रस्तरश्चेति प्रस्तरोऽपि च कुत्रचित् । खट्टा पर्यङ्कपल्यङ्कमञ्चतल्पशया अपि ॥ चतुरश्चातुरः गेण्डुश्चक्रगण्डूर्मसूरकम् । गेण्डूको गण्डूको गण्डूकन्दुको देशनागुडः ॥ चातूरको गिरिपको गिरिपाकश्च कुत्रचित् । दीपः प्रदीपः स्नेहाशः दीपकः कज्ज्वलध्वजः ॥ शिखातरुर्गृहमणिर्ज्योत्स्नावृक्षो दशेन्धनः । दोषा तिलको दोषास्यो नयनोत्सव इत्यपि ॥ कज्ज्वलः कज्ज्वलोऽपि स्यात् लोचकः कज्ज्वलेत्यपि । वर्ती वर्तिर्दशा चेति त्रितयं दीपवर्तिषु ॥ आसनोपासनं पीठं पीठा विस्तर इत्यपि । समुद्गकः सम्पुटकः समुद्गः सम्पुटोऽपि च ॥ प्रतिग्रहं प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः । स्यात् कङ्कती कङ्कतिका कङ्कतञ्च प्रसाधनम् ॥ प्रसाधनी फली चेति फलिका कालवित्यपि । कोटयीति च विख्याते पिष्टातः पटवासकः ॥ ;p{0110} स्यादात्मदर्श आदर्शः मुकुरो मकुरोऽपि च । दर्शनं दर्शनश्चेति प्रतिविम्वातमित्यपि ॥ व्यजनं तालवृन्तञ्च तालवृन्तकमित्यपि ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां मनुष्यवर्गप्रकाशः ॥} ;p{0111} ;v{ब्रह्मवर्गप्रकाशः} वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् । सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥ कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते । ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः । वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥ राजवीजी राजवंश्यो द्वितयं राजवंशजे । महाकूलश्च कुलजः कुलीनश्च महाकुलः ॥ स्यादामुष्यायणस्त्वार्योऽमूष्यपुत्रः माहाकुलः । आर्यसत्त्वः सज्जनः स्यात् साधुः साधुज इत्यपि ॥ कुलकः कुलिकश्चेति कुलश्रेष्ठे निगद्यते । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरमी पुनः । चत्वार आश्रमोऽस्त्री तु तस्मिन्नाश्रमिकः स्मृतः ॥ ब्राह्मणो विप्रभूदेवद्विजातिद्विजवाडवाः । अग्रजन्मा सूत्रकण्ठो ज्येष्ठवर्णोऽग्रजातकः ॥ द्विजन्मा वक्रजो मैत्रः वेदवासो नयो गुरुः । ब्राह्मणे शुद्धसन्ताने ब्राह्मणायन उच्चते ॥ अथ श्रोत्रियता श्रोत्रं द्वयं श्रोत्रियधर्मके । यजनं याजनं दानाध्ययनञ्च प्रतिग्रहः ॥ अध्यापनश्चेति षड्भिः षट्कर्मा ब्राह्मणः युतः । पण्डितः कोविदो विद्वान् विदग्धो दूरदृग् बुधः ॥ धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः । दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥ मनीषी सन् सुधीर्वेदी बुद्धो बृद्धो विधानगः । दोषज्ञः प्रज्ञिलो धीमान् ज्ञः प्राज्ञः कृष्णिरित्यपि ॥ श्रोत्रियश्च्छान्दसश्चेति वेदाध्येतृजने द्वयम् । उपाध्यायोऽध्यापकश्च तथाध्यायक इत्यपि ॥ गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा । जातकर्मादिकञ्चैव यः कुर्यात् स भवेद्गुरुः ॥ वेदव्याख्यां वेदयिता ह्युपनायनपूर्वकम् । ग्रन्थतोऽप्यर्थतोऽप्येवमाचार्यः स उदाहृतः ॥ यष्टा च यजमानश्च व्रती स्यात् यज्ञकर्तरि । स कर्ता सोमयागे चेत् दीक्षितः परिकीर्तितः ॥ पुनः पुनः यज्ञकर्ता निष्कामो यजमानकः । ;p{0112} इज्याशीलो यजयूको द्वयं तस्मिन् निगद्यते ॥ इष्टवान् विधिना यन्तु स यज्वा परिकीर्तितः । इष्टवान् गीष्पतीष्ट्या तु स एव स्थपतिः स्मृतः ॥ कृतवान् सोमपानं यः सोमपीती च सोमपः । स सर्ववेदाः सर्वस्वदक्षिणं यागमिष्टवान् ॥ अनूचानो भवेद् यस्तु साङ्गं वेदमधीतवान् । गुरोरनुज्ञां लब्ध्वा यो गृहवासं समाचरेत् ॥ समावृत्तः स विज्ञेयः समावर्तक इत्यपि ॥ यज्ञान्तस्नानकृद् यस्तु सुत्वा सुस्नातकोऽपि च । शिष्यान्तेवासिनौ छात्रे शैक्षाः प्राथमकल्पिकाः ॥ एकब्रह्मव्रताचारा ये भवेयुर्नियोगतः । ते यज्ञाध्ययनादौ तु मिथः सब्रह्मचारिणः ॥ स्यात् सतीर्थः सतीर्थ्योऽपि तथैकगुरुरित्यपि । अथाग्निचयनं यस्तु कृतवान् सोऽग्निचिद् भवेत् ॥ अव्ययन्त्विति हैतिह्यं परस्परोपदेशके । आद्यज्ञानमुपज्ञा तु ज्ञात्वारम्भ उपक्रमः ॥ यज्ञो यागः सप्ततन्तुरिष्टिरिष्टं मखः क्रतुः । वितानमध्वरो मन्युराहवः सवनं सवः ॥ हवोऽभिषवहोमौ च हवनं मह इत्यपि । नृपाध्वरो राजसूयः क्रतुराजः क्रतूत्तमः ॥ वाजपेयो वाजभोजी वाजपेयक्रतौ द्वयम् । अग्निष्टोमाश्वमेधाद्या यज्ञभेदास्तथापरे ॥ हवनी होमकुण्डोऽस्त्री महावीरो मखाग्निषु । होमधूमो निगरणो वैष्णवं होमभस्मनि ॥ पित्रर्थं पिण्डपातादिक्रिया आर्यक उच्यते । पाठो होमस्तर्पणञ्च वलिश्चातिथिपूजनम् ॥ उक्ताः पञ्चमहायज्ञा ब्रह्मयज्ञादिनामभिः । सभा समज्या समितिः स्त्रीनपुंसकयोः सदः ॥ गोष्ठी परिषदास्थानमास्थानी संसदित्यपि । हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥ विधिदर्शी सदस्यस्तु विधिदेशक इत्यपि । अथ सभ्यः सभास्तारः सभासत् परिषद्बलः ॥ पर्षद्बलं पारिषदः पारिषद्यश्च पार्षदः । ;p{0113} यजुर्वेदविदध्वर्युरुद्गाता सामवेदवित् ॥ ऋग्वेदवेदिता होता सिंहकः स्यादथर्ववित् । ऋत्विक् स्याद् याजकोऽग्नीध्रः धनैर्वार्या इमे त्रयः ॥ वेदिर्वेदी वेदिका च स्यात् परिष्कृतभूमिषु । यज्ञे परिष्कृतस्थाने स्थातां स्थण्डिलचत्वरे ॥ चषालो यूपकटकः पशुबन्धनदारुणि । यज्ञार्थपशुबन्धार्थकाष्ठे यूपोऽभिधीयते ॥ गहनावरणं यज्ञभूमौ कुम्वा समीरिता । यूपाग्रं तर्सतन्तुश्च वा क्लीबे क्वचिदिष्यते ॥ यत् काष्ठं घृष्यते वह्निर्ज्वालनायारणिद्वयोः । सोऽयमाहवनीयाग्निर्यः स्यादरणिसम्भवः ॥ तन्वोनिवल्ययोनिश्च (?) दक्षिणाग्निः समीरितः । गृहाग्नौ गार्हपत्यः स्यादेतेषु स्युरग्नयस्त्रयः ॥ इदमग्नित्रयं त्रेता युगपत्तु निगद्यते । संस्कृताग्निः प्रणीतः स्यान्मन्त्रसंस्कृतवह्निषु ॥ समूह्य परिचायीचचार्याः स्युर्यज्ञवह्निषु ॥ आनीय गार्हपत्याग्नेर्मन्त्राद्यैर्यः प्रणीयते । दक्षिणाग्निः स एवास्मिन् आनाय्य इति कथ्यते ॥ अथ वह्निवधूः स्वाहा त्वग्नायी हुतभुक्प्रिया । सैवधाय्या सामधेनी याऋग् वह्निसमिन्धने ॥ गायत्री जगती त्रिष्टुवनुष्टुवुष्णिगादिकम् । च्छन्दश्च्छन्दोविशेषाः स्युरुक्थ उक्थादयः परे ॥ तथा स्कन्धः स्कन्धकोऽपि क्वचित् कैश्चित् प्रयुज्यते । आख्यायिका परिच्छेदे उच्छासाश्वासकौ मतौ ॥ वेदार्थपल्ल(?)पाके तु प्रोक्षणाद्यैश्चरुः पुमान् । क्षीरे शृतोष्णे त्वामिक्षा चामीक्षा दधियोगतः ॥ धवित्रञ्च धुरित्रञ्च व्यजनं मृगचर्मणा । दधियुक्ते घृते शुद्धे पृषदाज्यं निगद्यते ॥ परमान्नं पायसः स्यात् क्षीरतण्डुलपाकजम् । पयोविकारमात्रेषु क्लीबे पायसमिष्यते ॥ स्रूवादिकन्तु यज्ञादौ पात्रमित्यभिधीयते । स्रूवः पुमानेकहस्तो वाहुमात्रा स्रूगीरिता ॥ ;p{0114} तद्विशेषाः शरावाग्राः स्त्रीजुहूरुपभृत् ध्रुवा । यज्ञवस्तुनि पात्रीरः चमसं सोमपात्रके ॥ दैवमन्नन्तु हव्यं स्यात् पैत्रं कव्यमिति स्मृतम् । यज्ञेऽभिममन्त्रय निहतो योऽसौ पशुरुपाकृतः । परम्पराकं शमनं प्रोक्षणं घातनं वधे ॥ हते वाच्याः प्रमीतोपसम्पन्नप्रोक्षिताः पशौ । हविर्हविष्यं सान्नाय्यं होत्रञ्च हव्यवस्तुनि ॥ अग्नौ हुतन्तु यत् हव्यं तत्स्यात्त्रिषु वषट्कृतम् । क्रियते कर्मसाङ्गार्थ होमं शाट्यायनादिकम् ॥ ..................... स स्यादवभृथो यज्ञकर्मार्हं त्रिषु यज्ञियम् । अथेष्टं क्रतुकर्म स्यात् क्रतौ दानादिकर्म च ॥ वा पुंसि पूर्तं खातादिकर्माणि प्राह माधवः । इष्टापूर्तमेकयोक्त्या यज्ञखातादिकर्मणि ॥ अमृतं यज्ञशेषे स्यात् विघसो भुक्तशेषके । दानं प्रदानं ददनं दायस्त्यागो विसर्जनम् ॥ विश्राणनं विश्रणनं दत्तिरंहतिरंहती । उत्सर्जनं निर्वपणमुत्सर्गः प्रतिपादनम् ॥ प्रादेशनं वितरणं स्पर्शनञ्चातिसर्जनम् । स्पर्शो विसर्गः क्षणनं प्रदेशननं विहापितम् ॥ मृतेषु तदहर्दानं स्यादौर्ध्वदेहिकं त्रिषु । पितृदानं निवपनं निवापः पितृदानकम् ॥ शास्त्रतः पितृकर्मेह श्राद्धं निगदितं बुधैः । अथ श्राद्धमासिके स्यादन्वाहार्यमुदीरितम् ॥ दिनेऽष्टममुहूर्तस्तु कुतुपः कुतपोऽस्त्रियाम् । पर्येषणान्वेषणा च परीष्टिः स्याद्गवेषणा ॥ सत्कारपूर्वकेकर्मण्यध्येषणा सनिः सनी । अथ याच्ञाऽभिशस्तिश्च प्रार्थना याचनार्थना ॥ त्रिषु चागस्तु पर्यन्तमर्घ्यमर्घ्यार्थवस्तुनि । पाद्यं पादार्थनीरे स्यादतिथ्यर्थेऽत्र साधुनि ॥ आतिथ्यमातिथेयञ्च जने चैव गृहागते । ;p{0115} आवेशिकः प्राघुनः स्यादागन्तुरतिथिः पुमान् ॥ अभागतश्च तत्रैवेत्याह श्रीमधुमाधवः । पूज्या सपर्यापचितिर्नमस्यार्चर्हना नुतिः ॥ शुश्रूषणोपासनञ्च सेवीपास्तिकीपासना ॥ पाथेयं शम्बलं पान्थब्ययितव्येषु वस्तुषु । अट्टाटट्टा पर्यटनं व्रज्या पुनःपुनर्गतौ ॥ ईर्यापथस्थितिश्चर्या व्रतिध्यानादिधर्मके । आचामः स्यादाचमनमुपस्पर्शः शुचिप्रणीः ॥ अथाव्यये द्वे तूष्णीकां तूष्णीं मौनमभाषणम् । पर्यायः परिपाट्यावृत् परिपाटिरनुक्रमः ॥ आनुपूर्व्यमानपूर्वी सप्तैते कथिताः क्रमे । विपर्ययः पर्ययः स्यादतिपात उपात्ययः ॥ अत्ययश्वातिपतनं व्यत्ययः स्यादतिक्रमे । अस्त्री व्रतन्तु नियमो नियामः संयमोऽपि च ॥ उपवासादिकं यत्तु व्रतं स्यादिह पुण्यकम् । उपवासस्त्वनशनमुपारम्भमुपोषणम् ॥ प्रायोपवेशनञ्चापि रोगाद्यैर्लङ्घनन्तु तत् । अर्धाशनं त्वर्धशनं द्वयं स्यादर्धभोजने ॥ विवेचनं नपुंसि स्याद् विवेकः पृथगात्मता । अथ वृत्ताध्ययनर्धि ब्रह्मवर्चसमुच्यते ॥ अथ पाठे त्वञ्जलिः स्याद् ब्रह्माञ्जलिरुदाहृतः । अथ पाठे विप्रूषस्तु ब्रह्मविन्दव ईरिताः ॥ अथ ब्रह्मासनं प्रोक्तमासने ध्यानयोगयोः । विधिकल्पक्रमा एते त्रयो निगदिता विधौ ॥ मुख्यः प्रथमः कल्पः स्यादनुकल्पस्ततोऽधमः । संस्कारवेदग्रहणे उपाकरणमीरितम् ॥ अथाभिवादनं पदग्रहणं चरणानतौ । स्यात् परिव्राजको भिक्षुः परिव्राट् च पराशरी ॥ पाराशरी च कर्मन्दी मस्करी व्राजकोऽपि च । ;p{0116} तपस्वी पारिकाङ्क्षी च तापसः परिकाङ्क्षिकः ॥ वाचंयमो मुनिर्दान्तः तपःक्लेशसहे स्मृतः । वटुर्वर्णी ब्रह्मचारी शापास्त्रः सत्यवागृषिः ॥ स्नानव्रतसमायुक्ते स्नातकश्चाप्लुतः व्रती ॥ यतिनो यतयश्चैते निर्जितेन्द्रियसञ्चयाः । असौ स्थण्डिलशायी च स्थण्डिलः स्थण्डिलेशयः ॥ नियतं स्थण्डिले शुद्धे शेते व्रतवशात्तु यः । रजस्तमो विरहितः पुरुषोऽयं द्वयासिगः ॥ पवित्रः प्रयतः पूतः शुचिः शुद्धः पवित्रिनः । पाषण्डः कौलिकः सर्वलिङ्गी पाषण्डिकोऽपि च ॥ स्यात् कर्पटी कर्पटिको द्वयं कर्पटधारिणि । जटालो जटिलश्चेति स्याद् जटीधारिणि द्वयम् ॥ सर्वाभिसन्धी वेतालव्रतिकः च्छद्मतापसः । वेशधारी च चत्वार एते छलतपस्विषु ॥ पलाशदण्डो व्रतिनामाषाढः परिकीर्तितः । व्रते तु वैणवो दण्डो राम्भ इत्यभिधीयते ॥ अस्त्री कमण्डलुः कुण्डी स्याच्चैत्यमुखमेव च । यज्ञादौ व्रतिनामेवमासनन्तु स्त्रियां वृष ॥ अजिनं चर्म कृत्तिः स्त्री व्रतचर्म निगद्यते । भैक्ष्यं भिक्षासमूहे स्याद् भैक्षमित्यपि कुत्रचित् ॥ स्वाध्यायो जप इत्युक्तः वेदाध्ययनकर्मणि । यज्ञस्नाने त्वषिसवः सुत्या सवनमित्यपि ॥ सर्वपापध्वंसिजप्यं तिषु स्यादघमर्षणम् । सावित्री स्यात्तु गायत्री ब्रह्मारण्यन्तु पाठभूः ॥ उपवीतं पवित्रं स्याद् ब्रह्मसूत्रं द्विजायनी । यज्ञोपवीतं सावित्रं सावित्रीसूत्रमित्यपि ॥ अथ कक्षा कच्छटिका कच्छा कच्छाटिकापि च । भस्मरेखात्रयं भाले त्रिपुण्ड्रकमिति स्मृतम् ॥ ;p{0117} अथ व्यासादयः पूर्वे सद्भिरुक्तामहर्षयः । ब्रह्मर्षयो वशिष्ठाद्याः सुश्रुताद्याः श्रतर्षयः ॥ राजर्षयस्तु विख्याता ऋतुपर्णादयो नृपाः । स्याज्जैमिनिप्रभृतयः काण्डर्षय उदीरिताः ॥ देवर्षयो नारदाद्या उक्ताः शास्त्रानुसारतः । कृष्णद्वैपायनो व्यासो माठरो वादरायणिः । वेदव्यासः सत्यरतस्तथा सत्यवतीसुतः ॥ कृष्णो द्वैपायनश्चापि शाश्वतः सत्यभारतः । तथा पाराशरः पाराशर्यश्च वादरायणः ॥ नारदः कपिवक्त्रः स्यात् पिशुनश्च विधातृभूः । तपस्वी गायको ब्राह्मो वेदब्रह्मा च देवलः ॥ प्राचेतसस्तु वाल्मीको वाल्मीक्याद्यकवी कविः । कविरामायणोऽपि स्यात् कविवाल्मीकिरित्यपि ॥ कुशारणिस्तु दुर्वासाः कृतकोटिस्तु काश्यपः । वशिष्ठोऽरुन्धतीनाथो वसिष्ठोऽपि निगद्यते ॥ गौतमश्च शतानन्दस्त्वहल्यातनयोऽपि च । विश्वामित्रो गाधिजः स्यात् कौशिको गाधिभूरपि ॥ शालातुलीयशालाङ्किदाक्षिपुत्राश्च पाणिनौ । कात्यायनो वररुचिः कात्य इत्यपि सम्मतः ॥ अथ व्याडिश्च मेधावी विन्ध्यस्थो नन्दिनीसुतः । कणादोऽपि च काणादः काश्यपोऽपि च स स्मृतः ॥ विष्णुगुप्तश्च कौण्डिल्यश्चाणक्यो द्रोमिनोंऽशुलः । वात्स्यायनो मल्लनागः कामी पङ्किल इत्यपि ॥ द्रोणस्तु गुरुराचार्यो द्रोणाचार्यश्च कीर्तिभाक् । भारद्वाजः कुण्डयोणिर्द्रोणाचार्यक इत्यपि ॥ द्रोणिर्द्रोणायनश्चापि अश्वत्थामा कृपीसुतः । ;p{0118} धन्वन्तरिर्दिवोदासः दिवोदाशः सुधोद्भवः ॥ काशीराजः काशिराजः काशिकाप्रिय इत्यपि । मार्कण्डेयोऽपि मार्कण्डः मृकुण्डुश्च मृकण्डुवत् ॥ आस्तिकः स्यात्तथास्तीको जरुत्कारुमुनेः सुते । जामदग्न्यः पर्शुरामस्तथा परशुरामकः । भार्गवः स्याद् भृगुपतिर्भृगूनां पतिरित्यपि । अर्हणोऽर्हन् क्षीपनके शम्बूकः शम्बुके नृपे ॥ पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः । चूर्णिकृद् भाष्यकारः स्यात् हरिर्भर्तृहरिः स्मृतः ॥ भवभूतिश्च भूगर्भो रघुकृत् कालिदासकः । स सुगृहीतनामा स्याद् यः प्रतिस्मर्यते जनैः ॥ अभावादङ्गनात्यागस्तुरगब्रह्मचर्यकम् । अमावस्याकृतो यागो दर्श इत्यभिधीयते ॥ पौर्णमास्यान्तु यो यागः पौर्णमास इति स्मृतः । शरीरसाधनापेक्षं नित्यकर्म भवेद् यमः । आगन्तु साधनं कर्म नियमः परिकीर्तितः ॥ वामस्कन्धे यज्ञसूत्रमुपवीतमुदाहृतम् । तदेव दक्षिणे स्कन्धे प्राचीनावीतमीरितम् ॥ मालाकारं निवीतं स्यात् यद् भवेत् कण्ठलम्बितम् । सर्वाङ्गुल्यग्रतीर्थन्तु दैवमित्यभिधीयते । स्वल्पाङ्गुलिद्वयोर्मध्ये कायतीर्थमुदाहृतम् ॥ अङ्गुष्ठतर्जनीमध्ये पैत्रं तीर्थमिह स्मृतम् । चान्द्रायण-सान्तपन-प्राजापत्यादि यद् व्रतम् ॥ सर्वं कृच्छमिति ख्यातं तद्भेदा बहवोऽपि च । प्रायः पुमानशने सन्न्यासवति कथ्यते ॥ पुत्रादौ गार्हपत्याग्निं समर्प्य वर्षमेककम् । वनप्रवासी यस्तु स्यात् नष्टाग्निर्वीरहा च सः ॥ ;p{0119} अर्थलोभेन या मिथ्या ध्यानमौनादिकल्पना । कुहना कुहनोऽपि स्यात् भवेत् कुहनिकापि च ॥ संस्कारहीनो व्रात्यः स्यादवकीर्णी क्षतव्रते । जीविकादिनिमित्तन्तु यो विभर्ति जदादिकम् । धर्मध्वजी लिङ्गवृत्तिर्द्वयं तत्र निगद्यते ॥ अथानध्ययनेऽपि स्यादस्वाध्यायो निवाकृतिः । सुप्ते यस्मिन्नसौ भानुरुदिते दिवसोदये ॥ स्यादभ्युदित इत्येष कर्मोदायिक इत्यपि । परिवेता कणिष्ठः स्याद् ज्येष्ठेऽनूढे विवाहभाक् ॥ तज्ज्येष्ठः परिवित्तिः स्यात् परिवित्तिक इत्यपि । विवाहः स्यादुपयम उद्वाहः पाणिपीडनम् । उपयामः परिणयो दारकर्म करग्रहः ॥ मुखधन्टा हुलुहुली जयकारो लूलूकावपि । विवाहपुष्पताम्वूले कुहलिः पुजपुष्पिका ॥ अब्रह्मचर्यकं ग्राम्यधर्मञ्च सुरतं रतं । सम्प्रयोगो निधुवनं रमणं मैथुनं रतिः ॥ उपसृष्टं धर्षितञ्च क्रीडारत्रं महासुखम् । त्रिभद्रं योगमिथुनमभिमानितमित्यपि ॥ धर्मार्थकाममोक्षैश्चतुर्वगी निगद्यते । चतुर्भद्रं सवीर्यैस्तैस्त्रिवर्गो मोक्षहीनकः । वरस्यैव वयस्या ये ते हि जन्याः समीरिताः ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां ब्रह्मवर्गप्रकाशः ॥} ;p{0120} क्षत्रियो बाहुजः क्षत्रो द्विजलिङ्गी नृपो विराट् । राजा मूर्धाभिषिक्तश्च राजन्यो मूर्धकोऽपि च ॥ राजन्यो नरपतिः पार्थः पार्थिवो नृपतिर्नृपः । भूपो महीक्षिद् भूपाली भूभृत्‌क्ष्मभुक् महीपतिः ॥ नाभिनाराट् च भूमीन्द्रो नरेन्द्रो नायकोऽधिपः । प्रणताश्रेषसामन्तो भूपालः स्यादधीश्वरः ॥ चक्रवर्ती सार्वभौम एकजन्मा नृपाग्रणीः । तस्मादन्यो मण्डलेशो मण्डलेश्वर इत्यपि ॥ यो राजसूययाजी तु यो वा स्यान्मण्डलेश्वरः । आज्ञया शास्ति राज्ञोऽपि स सम्राट् परिकीर्तितः ॥ राजन्यकं क्षत्रवृन्दो राजवृन्दे च राजकम् । अमात्यः स्याद् ग्रन्थिहरो मन्त्री धीसचिवोऽपि च ॥ अमात्याश्च ततोऽन्ये ये ते कर्मसचिवा मताः । यौक्तिक्ता नर्मसचिवाः क्रीडादिकुशलाश्च ये ॥ प्रधानन्तु महामात्रो मध्यमे चाधिकारिणि । पुरोहितः पुरोधास्तु धर्मकर्मादिकारके । व्यवहारदर्शिनि स्यात् प्राड्विवेकोऽक्षदर्शकः ॥ द्वारपालः प्रतीहारः प्रतिहारश्च दर्शकः । द्वारी दौवारिकोऽपि स्यात् वेतालो द्वारपालके ॥ दौःसाधिको वर्तरूको गर्वाटो दण्डपांशुलः । अनीकस्थो रक्षिवर्गस्त्वङ्गरक्षणकारिषु ॥ आयव्ययाधिकारी स्यादध्यक्षोऽधिकृतश्च सः । एकग्रामाधिकारी यः स्थायुकः सोऽभिधीयते ॥ बहुग्रामाधिकारी च गोपो गोपक उच्यते । सुवर्णाध्यक्षपुरुषे करणकाध्यक्षभौरिकौ ॥ तथैव रजताध्यक्षे रूपाध्यक्षोऽपि नैष्किकः ॥ आदिराजः पृथुर्वैण्यः काकुस्थः स्यात् पुरञ्जयः । यौवनाश्वस्तु मान्धाता कट्वङ्गः स्याद् दिलीपकः ॥ ;p{0121} रामपुत्रौ कुशलवावेकयोक्त्या कुशीलवौ । रावणो दशकण्ठः स्यात् पौलस्त्यः निकषात्मजः ॥ राक्षसेन्द्रस्तु लङ्केशः पङ्क्तिग्रीवो दशाननः । इन्द्रजित् शक्रभित् मेघनादो मन्दोदरीसुतः ॥ अथ शक्रसुतो वालिः किष्किन्धाधिपवालिनः । वानरेन्द्रो रामसखः सुग्रीवो रविनन्दनः ॥ ऐलः पुरोरवा बौध उर्वशीवल्लभोऽपि च । ययातिः स्याद् यजातिश्च नाहुषिर्नहुषात्मजः ॥ शान्तनुः स्याद् महाभीमः प्रतीपः प्रतिपोऽपि च । अथ भीष्मः शान्तनवो गाङ्गेयो गान्दिनीसुतः ॥ गाङ्गो गङ्गायोनिर्देवव्रतो गङ्गाज इत्यपि । स्वेच्छामृत्युः कौणपदन्तः पनच्छ(?) पुरावसुः ॥ धृतराष्ट्रस्त्वाम्बिकेयः प्रज्ञाचक्षुः परव्रतः । अथ पाण्डुः पाण्डुकश्च माद्रीपतिः पृथापतिः ॥ माद्री मद्रसुता स्यात्तु पृथा कुन्ती समीरिता । काली योजनगन्धा च गन्धकाली झषोदरी । व्यासमाता सत्यवती सत्या चित्राङ्गदप्रसूः । विचित्रवीर्यसूः श्रीदा दासेयी दासनन्दिनी ॥ दुर्योधनः कुरुपतिः गान्धारेयः सुयोधनः ॥ कर्णे राधेयचाम्पेशवसुषेणाऽर्कनन्दनाः । अङ्गाधिपः सुतपुत्रो घटोत्कचान्तकोऽपि च ॥ युधिष्ठिरो धर्मराजः कङ्को धर्मसुतोऽपि च । कर्णानुजोऽजातशत्रुरजमीढः शुचिव्रतः ॥ अथ भीमो भीमसेनो वीरवेणुर्वृकोदरः । वककीचककिर्मीरजरासन्धहिडिम्वजित् ॥ कटव्रणो नागबलः गुणाकरोऽपि कीर्तितः । ;p{0122} अर्जुनो फाल्गुनो जिष्णुः सव्यसाची धनञ्जयः ॥ पार्थः किरीटी वीभत्सुः श्वेतवाजी कपिध्वजः । राधाभेदी सुभद्रेशो गुडाकेशो बृहन्नलः ॥ गाण्डीवी विजयश्चेन्द्रिर्जयः स्यात् कृष्ण इत्यपि । द्रौपदी पार्वती कृष्णा पाञ्चाली पाण्डुशर्मिला ॥ सत्यसन्धा याज्ञसेनी वेदिजा नित्ययौवना । स्यात् परीक्षित् परिक्षिच्च परीक्षित-परिक्षितौ ॥ पारीक्षितस्तु राजर्षिर्जनमेजय इत्यपि । जन्मेजयः सर्पसत्री सत्यसन्धास्तिकार्थदः ॥ यायावरो जरत्कारुः क्षान्तः पद्मावतीप्रियः । पद्मा पद्मावती पद्मप्रिया पातालकन्यका ॥ मनसा मनसादेवी जरत्कारुर्भवात्मजा । जगद्गौरी विषहरी वासुकेयस्वसाभया ॥ जरत्कारुप्रिया नागमाता विषहरापि च । आस्तिकजननी नित्या विधात्री च विषोद्भवा ॥ बलिर्वैरोचनो धीरो विरोचनसुतोऽपि च । वाणः स्यात् कोट्टवीपुत्रो वैरीचिर्वलिनन्दनः ॥ दमधोषसुतश्चैद्यः शिशुपालश्च चेदिराट् । बार्हद्रथो जरासन्धो जरापुष्टो नरायणिः । अथ भोजाधिपः कंसो मायावानुग्रसेनजः ॥ मूलेदेवो मूलभद्रः कर्णीपुत्रः कलाङ्करः । शशिदेवः क्रीडाबन्धुः . . . . . . कलिप्रियः ॥ अन्तःपुरे त्वधिकृतो स्यादन्तर्वंशिको जनः । स्थापत्यः कञ्चुकी स स्यात् सौविदः सौविदल्लकः ॥ अथ षण्टो वर्षवरो द्वयमन्तर्महल्लके । जात्या न दुष्टे कार्ये च स्त्रीस्वभावे नपुंसके ॥ ;p{0123} अनुजीवी सेवकोऽर्थी त्रयं स्यात् परिचारके । भूमेरव्यवहितो विजिगीषोः समन्ततः ॥ राजा शतुरिति ख्यात एकार्थाभिनिवेशतः । भूम्येकान्तरितो राजा समित्रं मित्रकार्यतः ॥ तस्मात् परतरो यः स्यादुदासीनः स भूपतिः । तथा शतुहितायैव पृष्ठं गृह्नाति यो नृपः ॥ स पाष्णिग्राह इत्येवं पार्ष्णिग्राहक इत्यपि । अथ शत्रुः सपत्नोऽरिर्विपक्षो द्वेषणो द्विषन् ॥ परिपन्थिः रिपुर्वैरी घातकामित्रदस्यवः । द्वेषी द्विट् शात्रवोऽरातिरभिधाती च विद्विषः ॥ प्रत्यर्थी हिंसको विद्विट् सपत्नान्तकोऽप्रियः । अभिघातिः परो दुर्हृदहिनो दौर्हृदोऽपि च ॥ वयस्ये सवयाः स्निग्धः सहपांशुकिलोऽपि च । मित्रं सखा सुहृच्चैव सख्यं साप्तपदीनवत् ॥ अथानुकूले द्वितयमनुरोधोऽनुवर्तनम् । चरे यथार्हवर्णः स्यादपसर्पोऽपसर्पकः ॥ प्रणिधिर्गूढपुरुषः प्रतिष्कसप्रतिष्कशौ । परः स्पशो गुप्तगतिर्मन्त्रगूढो हितप्रणीः ॥ चित्रोक्तिः पुष्पशकटी दैवप्रश्न उपश्रुतिः । त्रिषु प्रत्ययिनश्चाप्तः द्वयं प्रत्यययोग्यके ॥ दैवज्ञो गणको ज्ञानी मौहूर्तो दैवलेखकः । कार्तान्तिको ज्योतिषिको मौहूर्तिक-भसूचकौ ॥ सांवत्सरो वर्षकोषो रेखाजीवी गणाङ्कभुक् । तान्त्रिको ज्ञातसिद्धान्तः शास्त्रतत्तज्ञ ईरितः ॥ सन्त्री गृहपतिश्चेति गृहायणिक इत्यपि । लेखके स्यात् लिपिकरो वोलकः किरकोऽपि च ॥ मसीपण्योऽक्षरचणोऽक्षरचुञ्चुः करप्रणीः । मसीधानी मसिमरिर्मेलान्धुर्वर्णकूपिका ॥ मेलानन्दा च मेलाम्बुर्मसिधानञ्च कुत्रचित् । द्वयोर्मसिर्मसीमेला काली पत्राञ्जनाञ्जने ॥ ;p{0124} लेखनी वर्णतुली स्यात् वर्णकाक्षरतूलिका । कराश्रयः श्रीकरणश्चित्रकः कलमः पुमान् ॥ वर्णदूतः स्वस्तिमुखो वाचिकहारको लेखः । चतुष्कं लिखिते पत्रे लिखनं लेखनं क्वचित् ॥ भवेदक्षरसंस्थानं लिखितञ्च लिविर्लिवी । लिपिर्लिपी च लिपिका सप्तकं लिखिते मतम् ॥ काचनं तालिकोऽपि स्याल्लिखितस्य निबन्धने । काचनी स्यात् काचनकी तालिकापि क्वचिद् भवेत् ॥ लेख्यस्थानं ग्रन्थकुटी मुद्रा प्रत्ययकारिणी । दूतः सन्दिष्टकथकः सन्देहहर इत्यपि ॥ भावे कर्मणि दूतस्य दूत्यमित्यभिधीयते । पथिको मन्तुरध्वन्योऽध्वनीनो यातुरध्वगः ॥ पथको यात्रिकः पान्थ यातृकोऽपि कुत्रचित् । स्यात् सन्देशे कौशली च सन्दिष्टं प्राभृतं त्रिषु ॥ उपप्रदानमुत्कोच उपदानकमित्यपि । जनान्तिकमप्रकाशे हण्डी स्यान्ध्यायसारिणी (?) ॥ स्वामात्यश्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ॥ परस्परोपकारीदं सप्ताङ्ग राज्यमुच्यते । अमात्यराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ॥ एताः प्रकृतयस्तद्वत् विजिगीषोरुदाहृताः । एताः पञ्च तथामित्रं सप्तमः पृथिवीपतिः ॥ सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ पौरश्रणी तदङ्गञ्च व्रूवते शब्दवेदिनः । स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा ॥ पौरश्रेणीश्च राज्याङ्ग प्रकृतिश्च भवेत् द्वयमम् । पुंसि सन्धिर्विग्रहः स्याद् यानमासनमा श्रेयः ॥ द्वैधमित्थञ्च षट् प्रोक्ताः गुणा राजकुलोद्भवाः । शक्तयो विहितास्तिस्रः प्रभावोत्साहमन्त्रजाः ॥ वृद्धिस्थानं क्षयश्चेति त्रिवर्गोनीतिवेदिनम् । इतरेषान्तु धमार्थकामैरप्यभिधीयते ॥ स प्रतापः प्रभावोऽपि यद्वीर्यं कोषदण्डजम् ॥ ;p{0125} सामदानं दण्डभेदौ स्यादुपाये चतुष्टयम् । साम सान्त्वं दया दानं दमो दण्डस्तु साहसम् ॥ भेदोपजापावित्येषां पर्यायः परिकीर्तितः । उपधाधर्मकामार्थैरमात्यादिपरीक्षणम् ॥ स तु त्रिष्वषडक्षीणो राज्यमन्त्रादिरेव यः ॥ त्रिषु च्छन्ननिःशलाकविविक्तविजना अपि ॥ रहश्च क्लीवलिङ्गं स्यात् रहश्चोपांशु चाव्यये । अथ विश्रम्भविश्वासावाश्वासाश्चाश्रमोऽपि च ॥ भ्रषो यथोचिताद् भ्रंशो भेश इत्यपि कुत्रचित् । न्यायः कल्पो देशरूपमभ्रेषः स्यात् समञ्जसम् ॥ अथ न्याय्यमौपयिकं युक्तं लभ्यं क्रमोचितम् । भजमानं चाभिनीतं. . . . . . . . . . ॥ समर्थनं भवेत् सम्प्रधारणा च समर्थना । आज्ञाववादो निर्देशो निदेशः शासनं तथा ॥ शिष्टिश्च शास्तिरादेशः स्यादादेशनमित्यपि । मर्यादा धारणा संस्था संस्थितिः स्थितिरित्यपि ॥ अथापराधो मन्तुः स्यात्तथागः त्वग इत्यपि । अथ बन्धनमुद्दानं बन्धः संयमनन्तथा । उचिताद्द्विगुणो दण्डो द्विपाद्यमभिधीयते । राजग्राह्ये तु भागे स्यात् भागधेयो बलिः करः ॥ घट्टादिदेये शुल्कोऽस्त्री यौतुकान्तधनेऽपि च । उपहारः प्राभृतं स्यादुपग्राह्यमुपायनम् ॥ उपदा चेति पञ्चैते भेट समाह्वये मताः । उत्कोच इति केषाञ्चित् मतं न बहुसम्मतम् ॥ युतकं योनिसम्बन्धस्तद्भवे स्यात्तु यौतकम् । यौतके व्रतभिक्षायां दायो हरणमित्यपि ॥ तत्कालश्च तदात्वं स्याद् द्वयं सम्प्रति कालके । तथा भविष्यत्काले तु स्त्रियामायतिरायती ॥ अथ सान्दृष्टिकं सद्यःफलं सान्दृष्टकं तथा । भविष्यति फले च स्यादुदर्कः पुंसि निश्चितः ॥ अदृष्टं वह्नितोयादिभयं दैवकृतं हि यत् । स्वचक्रात् परचक्राद् वा भयं दृष्टमिहोच्यते ॥ ;p{0126} भवेदहिभयं राज्ञां निजपक्षभवं भयम् । अधिकारस्त्वधीकारः प्रक्रिया नियते विधौ ॥ प्रकीर्णकारचूर्णे द्वे रोमकेशरचामरे । नृपानामासनं यत्तु भवेद् भद्रासनं हि तत् ॥ सुवर्णरजतं तत्तु सिंहासनमिहोदितम् । अथ च्छत्रं चातपत्रं छायामित्रं प्रकोटजम् ॥ छत्रे कणकदण्डे तु राजशृङ्गमुदाहृतम् । नृपलक्ष्म भवेत्तत्तु यच्छत्रं पृथिवीभुजाम् ॥ अथ चामरवाते च कुचेरमिति कथ्यते । भद्रकुम्भः पूर्णकुम्भो वारिपूरितकुम्भके ॥ भृङ्गारोऽपि च गड्डुको गड्डुकः करकालुका । अथ सैन्यरक्षणे स्यात् सर्जनं चोपरक्षणम् ॥ हस्तिनोऽश्वाः रथाः पत्तिव्रजाः सेनाङ्गमुच्यते । हस्तीमतङ्गमातङ्गमतङ्गजगजद्विपाः ॥ पीलुर्दन्ताबलो दन्ती द्विरदः कुञ्जरः करी । वराङ्गः पुष्करी नागो जलकाङ्क्षः महामृगः ॥ स्तम्वेरमः शूर्पकर्णः सिन्धुरः सामजः कटी । अन्तःस्वेद इभः पद्मी वारणः दीर्घमारुतः ॥ विलोमजिह्वः करटी पिण्डपादो महामदः । पेटकी कटकी कुम्भी निर्लुवः स्यादनेकपः ॥ यूथनाथो यूथपः स्यात् प्रधानः वन्यहस्तिनाम् । मदोत्कटो मदकलो याजको मत्तकुञ्जरे ॥ यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च । विक्कदिक्कौ तथा स्त्री तु करभी कलभीत्यपि ॥ प्रभिन्नो गर्जितो मत्तः स्यान्मतङ्गे क्षरन्मदे । अथ निर्मद उद्वान्तो मदहीने मतङ्गजे ॥ हास्तिकं गजता चेति द्वयं द्विरदसञ्चये । स्यात् करेणूः करेणुश्च रेणुका च करेणुका ॥ धेनुका वासिता वासा हस्तिनी करिणी वशा । स तु गम्भीरवेदी स्याद् दुर्धरो योऽङ्कुशादपि ॥ चालको व्यालको मत्तचालके तु मतङ्गजे । राजवाह्यस्तु यो हस्ती भवेद् विजयकुञ्जरः ॥ राजहस्ती च मारीचो मारिचोजयमङ्गलः । ;p{0127} ईशादन्तो महादन्तो विषाणञ्च भवेत् त्रिषु ॥ गण्डः कटश्च कटकः करटो हस्तिगण्डके । मदो दानं हस्तिमदे कर्णास्फाले सनः सनी ॥ मदप्रयोगे व्यस्तारः वमथुः करशीकरः । विदुर्णा कुम्भसन्धौ तु कम्भो मस्तकपिण्डयोः ॥ अथ हस्तिललाटे स्यादवग्रह उपग्रहः । इषीका त्वीषिका चाक्षिकूटकं नेत्रगोलके ॥ निर्नायनन्तु निर्याणं मतङ्गापाङ्गदेशके । चूलिका कर्णमूले स्याद् वाहित्थं कुम्भयोरधः । तदधः प्रतिमानं स्यात् स्कन्धदेशे तथासनम् ॥ अथ हस्तिमुखादौ तु विन्दुवृन्दे च पद्मकम् । हस्तिनां पार्श्वभागे च पक्षभागः स ईरितः ॥ दन्तभागोऽग्रतोभागे भवेद्दन्तसमन्विते । गात्रं गात्रात् पूर्वभागेऽवरं जङ्घादिदेशयोः ॥ अपरा च परा चेति परभागेऽपरापरे । नासापूर्वं स्थूलहस्तं दन्तमूलौ करीरिका ॥ वंशिके जानुनीख्याते सन्धानं जानुनोरधः । अयस्कारस्तु जङ्घाग्रे प्रोहश्चरणपर्वणि ॥ वैणुकं वेणुकं तोत्रं गजप्रेषणदण्डके ॥ शङ्कुरालानमक्षोडो बन्धस्तम्भे च हस्तिनाम् । हिञ्जीरो निगडोऽस्त्री स्यादन्दुकः शृङ्खलं त्रिषु ॥ अन्धुरन्धुः षडेवैते हस्तिनां निगडे मनाः । अङ्कुशोऽस्त्री हस्तिवाहः शृणिः सृणिरपि द्वयोः ॥ चूषा चूष्या वरत्रा स्यात् कक्ष्या बन्धनरज्जुषु । कल्पना सज्जना चेति हस्तिसज्जीकृतौ द्वयम् ॥ कुथः कुथा प्रवेणी स्त्री रोलवर्णस्तथास्तरः । परिस्तोमोऽस्यास्तरणं कुथञ्च चित्रकम्बले । युद्धाक्षमञ्च हस्त्यश्वं वीतमित्यभिधीयते ॥ अथ वारिश्च वारी स्यात् प्रारब्धिर्गजबन्धनी । आरण्यादिकमातङ्गा बध्यन्ते यत्र रज्जुषु ॥ विधा विधानं द्वितयं गजान्ने परिकीर्तितम् । अथ पाकनमस्त्री तु गजपित्तज्वरे मतम् ॥ कूटपाकनमस्त्री स्यात् हस्तित्रिदोषजे ज्वरे । ;p{0128} घोटकस्तुरगो वाजी तुरङ्गश्च तुरङ्गमः ॥ गन्धर्वः सैन्धवो वाहः पीतिर्वातायनी हयः । श्रीपुत्रश्चामरी ह्रेषी शालिहोत्रे मरुद्रथः ॥ राजस्कन्धो हरिद्रान्तः सप्तिरेकशफो हरिः । अर्वाश्ववीतयः किन्धी नलानञ्च (?) विमानकः ॥ आजानेयस्त्वजानेयः कुलीनो जात्य एव च । वाताश्विरपि पञ्चैते प्रकृष्टचतुरङ्गमे ॥ साधुवाही विनीतः स्यात् सुष्टुवाहनशीलके । वनायुदेशजावश्वौ वानायुजवनायुजौ ॥ काम्बोजदेशजातोऽश्वः काम्बोज इति कीर्तितः । वाह्लिकोऽपि च वाह्लीको हयो वाह्लीकदेशजः ॥ एते हयविशेषाः स्युरन्येऽपि देशभेदतः । अश्वमेधीयतुरगो ययुर्यायावरोऽपि च ॥ पञ्चभद्रस्तु पञ्चाङ्गपुष्पिते स्यात्तुरङ्गमे । अथ सूर्यतुरङ्गेषु वाताटा हरितोऽपि च ॥ जवाधिकस्तु जवनस्तुङ्गवेगतुरङ्गमं । भारवाहनशीलेऽश्वे पृष्ठ्यः स्थौरी च कीर्तितः ॥ रथ्यो रथस्य वीटाश्वः कर्को धवलघोटकः । किशोरो बालतुरगो वाम्यश्वा वडवाश्विका ॥ वडवानां समूहे तु वाडवं समुदाहृतम् ॥ अश्वीय आश्व अश्वीयः स्यादश्वनिवहे त्रयम् ॥ अश्वानां हृदयावर्ते श्रीवृक्षक उदाहृतः । रोचमानस्तु विज्ञेयः आवर्ते तु गलोद्भवे ॥ ऊर्ध्वस्थितौ तुरङ्गानां क्लीबे पुरुषकं भवेत् । अश्वानां विक्रमेऽर्थे तु विक्रान्तिः स्यात् पुलायितम् ॥ आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् । अमूः पञ्चतुरङ्गानां गतयः परिकीर्तिताः ॥ आस्कन्दितं मन्दगते भृशे धोरितकं भवेत् । रेचितं मण्डलाकारे वल्गितं दृढवेगिते ॥ उत्प्लुत्योत्प्लुत्यगमने प्लुतमित्यभिधीयते । आसु पञ्चसु धारा स्त्री धारो न बहुसम्मतः ॥ घोणा प्रोथोऽस्त्रियामश्वनासिकायां भवेद् द्वयम् । खलीनखलिनावस्त्री कवियं कविकापि च । वल्गा दन्तालिका चेति दन्तसञ्चालिकेत्यपि ॥ ;p{0129} खुरः क्षुरः शफं क्लीबे विङ्खा विङ्खः पुटोऽस्त्रियाम् । पुच्छोऽस्त्री पिच्छलाङ्गूललङ्गूललूमलाङ्गूलम् ॥ हयपुच्छाग्रपर्यायः पुच्छमात्रे च कुत्रचित् । बालहस्तो वालधिः स्याद् दनामा (?) बाल इत्यपि ॥ पर्यायणं पल्ययनं हयजीनाह्वये द्वयम् । भूमौ मुहुः परावृत्ते हये लुण्ठितवेल्लितौ ॥ उपावृत्तश्च त्रिष्वेते समे लुठनवेल्लने । शताङ्गस्यन्दनरथा युद्धमाने तु चक्रिणि ॥ पुष्परथश्चक्रयानं संग्रामायोग्ययानके । नन्दिघोषोऽर्जुनरथे नीतिघोषो बृहस्पतेः ॥ कर्णीरथः प्रहरणं हयनञ्च निगद्यते । नयनार्थं स्त्री नराणां क्लिप्ते क्षुद्ररथे त्रयम् ॥ अनः क्लीबे तु शकटं शकटोऽक्षः पुमानपि । शकटे वृषवाह्ये तु गन्त्री स्त्री गन्त्रिरित्यपि ॥ शिविका याप्यमानं तु झापान इति विश्रुते । दोला प्रेङ्क्षा च दोली स्यात् खटला दोलिकापि च ॥ वरदोलेश्वराणाञ्च तथा स्याद् वरदोलिका । द्वीपिचर्मावृतरथे द्वैपो वैयाघ्र इत्यपि ॥ रथे पाण्डुकम्बले तु स भवेत् पाण्डुकम्बली । अथ वास्त्रः काम्बलञ्च वस्त्रैर्वा कम्बलैर्वृतः ॥ त्रिषु द्वैपादयः पूर्वे पञ्चैते बहुसम्मताः । रथ्या च रथकड्या च द्वयमेव रथव्रजे ॥ क्लीबे यानमुखं धूः स्त्री रथाग्रभागके द्वयम् । रथावयवसामान्ये रथाङ्गं स्यादवस्करः ॥ अरिश्चक्रं रथाङ्गञ्च रथचक्रे निगद्यते । चक्रप्रान्ते प्रधिः पुंसि नेमिर्नेमी च सा स्मृता ॥ चक्राकारे चक्रमध्ये नाभिर्नाभी च पिण्डिका । द्वयोराणिरणिश्चापि अक्षाग्रकीलके द्वयम् ॥ वरूयो रथगुप्तिः स्त्री काण्डादिरथरक्षणे । युगकाष्ठञ्च यत्रास्ते नौ युगन्धरकूवरौ ॥ चक्राधोधारणे काष्ठे त्वनुकार्षोऽनुकर्षकः । प्रासङ्गो वत्सदमने शकटस्य युगाद्युगे ॥ सर्वस्मिन् वाहने यानं विमानञ्चापि धोरणम् । युग्यं पत्रं चङ्कुरञ्च यापनं गतिमित्रकम् ॥ ;p{0130} साक्षात् न वाह्यते यत्तु तद्वैनीतकमस्त्रियाम् । हस्त्यारोहः हस्तिपकस्त्वाधोरण-निषादिनौ ॥ सूतः क्षत्ता नियन्ता च प्रवेता प्राजितापि च । सव्येष्ठोऽपि च सव्येष्ठा दक्षिणस्थश्च सारथिः ॥ तथा रथकुटुम्बी च रथाङ्को रथनागरः । रथिनस्तु रथारोहाः हयारोहाश्च सादिनः ॥ योद्धा भटश्च योधः स्यात् सेनारक्षस्तु सैनिकः । अथ सेनासमवेतास्ते तु सैन्याश्च सैनिकाः ॥ ये सहस्रेण बलिनस्ते साहस्राः सहस्रिणः ॥ परिधिस्थः परिचरो युद्धादौ रथरक्षके ॥ सेनापतौ च सेनानीर्वाहिनीपतिरित्यपि । कञ्चुकोऽस्त्री वारवाणो वाणवारोऽपि वारणम् ॥ मध्ये दृढार्थं वध्रन्ति यद्यदेव सकञ्चुकाम् । अधिकाङ्गं सारसनं द्वयं तत्र समीरितम् ॥ शिरस्त्राणे तु शीर्षण्यं शिरस्त्रमपि शीर्षकम् ॥ कवचोऽस्त्री तनुत्रञ्च दंशनं स्यादुरश्छदः ॥ सन्नाहो वर्मजगरस्तथा कङ्कटकोऽपि च । अपिनद्धः पिनद्धः स्यादामुक्तः प्रतिमुक्तवत् ॥ स्यात् परिहितवस्त्रादौ चत्वारः समुदाहृताः । ऊटकङ्कटसन्नद्धौ दंशितः सज्जवर्मितौ । पञ्चकं कृतसन्नाहे अपिनद्धादयस्त्रिषु ॥ समूहे स्यात् कवचिनामुक्तं कावचिकं बुधैः । पत्तिः पदातिः पतगः पादातिकपदातिकौ ॥ पदाजिः पादगः पद्गः पादात् पादाविकः पदात् । पायिकः शवरालिः स्यादेते पुंसि त्रयोदश ॥ अथ पत्तिसमूहे तु पादातमभिधीयते ॥ काण्डपृष्ठश्चायुधीयस्तथा चायुधिकोऽपि च ॥ शस्त्राजीवः काण्डस्पृष्टः शस्त्रधारणजीविके । कृतपुंङ्क्षः सुप्रयोग विशिखः कृतहस्तकः ॥ सुशिक्षितेषु मोक्षे तु पुरुषे परिकीर्तितः । अपराद्धः पृषत्कोऽयं लक्ष्यच्युतशरो हि यः ॥ धनुष्मान् धन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धराः । काण्डीरः काण्डवान् काण्डी काण्डमात्रायुधे जने ॥ शक्तिहेतिकशाक्तीकौ शक्त्यायुधधरे द्वयम् । ;p{0131} स्यात् पारश्वधिकः पर्शुतिकः परशुधारके ॥ याष्ठिको यष्टिहेतिः स्यात् नैस्त्रिंशिकोऽसिहेतकः । प्रासिकः कौन्तिकश्चापि भवेत् कुन्तकरे द्वयम् ॥ चर्मी फलकपाणिः स्यात् चर्मीणः फलकालकः । पताकाधारके पुंसि पताकी वैजयन्तिकः । सहायोऽनुप्लवश्चानुचरोऽभिसर इत्यपि । प्रतिक्षसः सदारक्षः प्रतिष्कशश्च कुत्रचित् ॥ अग्रेसरोऽप्यग्रसरोऽग्रतःसर-पुरःसरौ । पुरोगमः पुरोगश्च प्रष्ठो नासीर इत्यपि ॥ नासीरं नायकस्याग्रेसरिका चह्रिकेत्यपि (?) । मन्दगामी स्वैरगामी मन्थरो मन्द इत्यपि ॥ जङ्घालोऽतिजवोऽत्यर्थे वेगयुक्तजने द्वयम् । अथ डाकचकी आख्ये जङ्घाकरिक-जाङ्घिकौ । वेगी तरस्वी प्रजवी त्वरितो जवनो जवः । जेतुं शक्यो हि जय्योऽसौ जेतव्ये जेय इत्यपि ॥ जेता जैत्रो जेतृमात्रे जयशीले तु कुत्रचित् । अत्यर्थं यो व्रजेत् शत्रुं प्रति निःशङ्कमानसः । सोऽभ्यमित्रोऽभ्यमित्रीयोऽभ्यमित्रीण इत्यपि । स्यादूर्जस्वल ऊर्जस्वी पराक्रमबलाधिके । अथोरस्वानुरसिलः बृहद्वक्षःस्थले जने ॥ रथस्वामिनि साराक्षः रथिको रथिनो रथी । कामङ्गास्यनुकामीनो यथेष्ठगामिनि द्वयम् ॥ अत्यर्थगतिशीलस्तु जनोऽत्यन्तीन उच्यते । वीरे विक्रान्तशूरौ च जिष्णुर्जेता च जित्वरः ॥ रणे साधुः सांयुगीनः काण्डष्पृष्टादयस्त्रिषु । पृतनानीकिनी सेनाध्वजिनी वाहिनी चमूः ॥ वाहना गुल्मिनी सैव वरचक्षुर्वरूथिनी । अनीकमस्त्रियां सैन्यं बलं चक्रं चतुष्टयम् ॥ सेनायां केचिदित्याहुः सेनाङ्गेऽपि च कुत्रचित् । सन्नद्धस्य तु सैन्यस्य विन्यासः स्यानभेदतः ॥ स व्यूह इति विख्यातो युद्धेषु पृथिवीभुजाम् । व्यूहभेदास्तु चत्वारो दण्डभोगश्च मण्डलः ॥ असंहतश्च निर्णीतो नीतिसारादिसम्मताः ॥ अन्येऽपि प्रकृतिव्यूहाः क्रौञ्चचक्रादयः क्वचित् । ;p{0132} तिर्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्वावृत्तिरेव हि । मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥ सैन्यानां नीतिसारादौ व्यूहभेदाः समीरिताः । क्रौञ्चचक्रादिभेदानां लक्षणं भारतादिषु ॥ प्रत्यासारो व्यूहपार्ष्णिः प्रत्यासर इति त्रयम् । व्यूहस्य पश्चाद्भागे वा व्यूहमध्ये च कुत्रचित् ॥ यन्त्रस्थः प्रतिगृह्णाति स्वसैन्यं भूपतिः स्वयम् । तस्य सैन्यस्य पश्चात्तु धनुः शतद्वयान्तरे ॥ तत्त्वानभिज्ञसंघाते प्रतिग्रहपरिग्रहौ । एको हस्ती रथश्चैकस्त्रयोऽश्वाः पञ्चपत्तयः ॥ मिलिता यत्र सेनायां सा पत्तिरभिधीयते । पत्त्यङ्गैस्त्रिगुणैरेभिः सेनामुखमुदाहृतम् ॥ सेनामुखे त्रिगुणिते गुल्मस्तत् त्रिगुणे गणः । गणस्त्रिभिर्वाहिनी स्यात् पृतना वाहिनी त्रयम् ॥ तिसृभिः पृतनाभिस्तु चमूस्तस्या गुणत्रये । अनीकिनी तद्दशभिर्गुणैरक्षौहिनी भवेत् ॥ अथ लक्ष्मीः स्त्रियां सम्पत् सम्पत्तिः श्रीश्च कीर्तिता । एता अपि स्त्रियां तिस्रो विपदापद्विपत्तयः ॥ अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधम् । अस्त्रियौ तु धनुश्चापौ धनुकोदण्डकार्मुकम् ॥ धनुर्ना तावरं क्लीबे स्यादिष्वासः शरासनम् । तृणता काण्डमित्येवं क्वचित् केचित् प्रचक्षते ॥ अथ कालं कालपृष्ठं भवेत् कर्णस्य कार्मुके । अर्जुनस्य च गाण्डीव-गाण्डिवौ न स्त्रियां द्वयम् ॥ अटन्यटनिरस्याग्रद्वये कोटिश्च कोट्यपि । ज्याघातवारणे गोधेस्त्रियौ क्लीबे तले अपि ॥ गोधतला च केषाञ्चिन्मतं . . . . . . . . । क्वचिद्गोधास्त्रियामेका ज्याघात वारणे. . . . . . ॥ अङ्गुलित्रं शस्तकञ्च तथा चाङ्गुष्ठरक्षकम् ॥ लस्तको ना धनुर्मध्यमस्त्रियां लस्तमित्यपि । गुणः शिञ्जा शिञ्जिनी ज्या मौर्वी जीवा पतङ्गिका ॥ तृत् प्रत्यालीढमालीढं समपादं तथा पवम् । वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम् ॥ ;p{0133} स्याद् दक्षपादसंकोचात् वामपादप्रसारणात् । प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्ययात् ॥ तुल्यं पादयुगं यत्र समपादमुदाहृतम् । वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते ॥ मण्डलाकारपादाभ्यां मण्डलस्थानमीरितम् । शरण्यं प्रतिकायः स्याद् वेध्यं लक्ष्यञ्च लक्षवत् ॥ उपासनञ्च खुरली शास्त्राभ्यासो विकर्षणम् । वाणः पत्री चित्रपुङ्खः सायको विशिखः शरः ॥ कलम्वः स्याद् वीरतरो मार्गणोऽप्याशुगः खगः । तूणक्ष्वेडः पृषत्केषुरोपकाण्डविपर्यकाः ॥ अजिह्मगः शरुर्वाजी पत्रवाहोऽस्त्रकण्टकः । प्रक्ष्वेडनो लोहनालो नाराचः स्यादयोमये ॥ पक्षवाजौ वाणपक्षे तीरो निष्फलसायके ॥ अतस्त्रिष्वपि दिग्धान्तं निरस्तः प्रहिते शरे ॥ विषाक्ते सायके तीक्ष्नो लिप्तको दिग्ध इत्यपि । उपासङ्गो निषङ्गश्च तूणीरइषुधिर्द्वयोः ॥ तूणी तूणश्च षट्कं स्यादुक्तं टोनसमाह्वये । अथ खड्गश्चन्द्रहासो मण्डलाग्रः प्रवालकः । कौक्षेयको विशसनः कृपाणः करपालकः । भद्रात्मजो रिष्टिरिष्टौ ऋष्टिर्द्वाराविषोऽपिच ॥ कौक्षेयस्तरवारिः स्यात्तरवारः कृपाणकः । निस्त्रिंशः करवारोऽसिः कृपाणी शस्त्र इत्यपि ॥ कटीतलोऽनुच्चखड्गो वक्रखड्गो निगद्यते । खड्गादिशस्त्रमुष्ट्यान्तु द्वयोर्मुष्टित्सरुः पुमान् ॥ तत्र तालतलश्चेति क्वचित् केचित् प्रचक्षते । मेखलाच्छीकला क्षेतु खड्गादिकनिबन्धने ॥ उड्डनञ्चद्रुफलाकचर्मास्त्री फलकं फलम् । तथा फलकमुष्टौ तु संग्राहोऽपि च संग्रहः ॥ मुद्गराकारशस्त्रे तु द्रुघनो मुद्गरो घोनः । लोहदण्डे च लगुडः परिघः परिघातकः ॥ दण्डान्विते स्वल्पखड्गे स्यादीली विलिका च सा । कुली च करपाली च गुप्तिका करपालिका ॥ भिन्दिपालसृगौ हस्तप्रमाणे काण्डशस्त्रके । ;p{0134} द्वयोः कुठारः परशुः पर्शुश्चापि परस्वधः ॥ परश्वधः श्वधितिः स्त्री स्वधितिष्टङ्क इत्यपि । छुरिका च्छूरिका शस्त्री त्वसिपत्र्यसिधेनुका ॥ पुंनपुंसकयोः शल्यं पुंसि शङ्कुविषाक्षरौ । शूलं समीकं समिकं त्रिशूलन्तु त्रिजालकम् ॥ तोमरोऽस्त्री शर्वला च सर्वला सर्वलीत्यपि । कुन्तो दीर्घायुधः प्रासप्राशौ च शल इत्यपि ॥ अथ शक्तिश्च शक्ती च यष्टिर्यष्टी च यष्टिका । दण्डकाण्डोऽपि लगुडः पशुघ्नो दण्डकोऽपि च ॥ कोणः स्त्रियां पालिरत्रीः कोटिरस्रन्तु न स्त्रियाम् । अश्रिरश्रः पालिका च केचिदेवं प्रचक्षत ॥ सर्वाभिसारः सर्वौघः सर्वसन्नहनन्तथा ॥ अथ शस्त्रभृतां राज्ञामश्वादीनाञ्च शास्त्रनः ॥ महानवमी दीक्षादौ निर्मुञ्च्छनविधौ द्वयम् । लोहाभिसार इत्येष लोहाभिहार इत्यपि ॥ सेनयाभिगमः शत्रौ तद्भवेदभिषेणनम् । प्रस्थानमभिनिर्याणं प्रयाणं गमनं गमः ॥ यात्रा व्रज्या प्रस्थितिश्च यानं प्राणनमित्यपि । स्यादासारः प्रसरणं तथा प्रसरणीति च । सर्वतो व्याप्यसैन्यानां प्रसारे त्रयमुच्यते । त्रिषु प्रचक्रं चलितं चलितार्थे भवेद्द्वयम् ॥ अभिक्रमे रणे शत्रून् प्रत्यभीतस्य सङ्गते । वैतालिको बोधकरः प्रभातबोधकारिणि ॥ मिलिता बहवो ये तु भवेयुः स्तुतिकारकाः । चक्रिकास्ते निगदिताश्चाक्रिका अपि कुत्रचित् ॥ घण्टावाद्यस्तावका ये घाण्टिका घण्टिकाश्च ते । वंशक्रमोचितज्ञानावंशस्तुतिकरास्तु ये ॥ प्रतिसन्धानिका भट्टा मागधा मधुकाश्च ते । बलवीर्यप्रभावज्ञा अग्रतः स्तुतिकारकाः ॥ ते स्युर्वन्द्यचराः सर्वे वन्दिनः स्तुतिपाठकाः ॥ सर्वेषां वन्दिनां पाठे भवेद् भागावलिः स्त्रियाम् । ;p{0135} ते रथसंसप्तकोऽपि स्यात् संसप्तक इति द्वयम् ॥ उल्कासमय इत्येवं संग्रामादनिवर्तिनः । पुंसि पांशुर्द्वयोरेणुर्धूलिर्धूली रजो रजम् ॥ पांसुः क्षितिकणः क्षोदश्चूर्णं दृष्टमहीद्रवः । वातकेतुर्नभःकेतुः कणा क्षितिकणोति च ॥ चूर्णं क्षोदश्चूर्णमात्रे क्वचित् केचित् प्रचक्षते । उत्पिञ्जः पिञ्जलोऽपि स्यात् समुत्पिञ्जल इत्यपि ॥ अत्यर्थव्याकुले पुंसि त्रय एते प्रकीर्तिताः ॥ पताका च पटाका च जयन्ती वैजयन्तिका । ध्वजोऽस्त्री वैजयन्ती च कदली कन्दलीति च ॥ केतुः कदलिका व्योममण्डनं केतनं तथा । स्त्री ककुत् ककुदं क्लीबे राजचिह्ने भवेद् द्वयम् ॥ भयप्रदा युद्धभूमिर्वीराशंसनमीरितम् । अक्षवाटः रङ्गभूमिर्मल्लभूमिः रणस्थली ॥ मुहुर्मुहुरहं पूर्वमित्यहंपूर्विका हि सा । आत्मनि सम्भावना दर्पात् साहोपुरुषिका भवेत् । सा स्यादहमहमिका परस्परमहंकृतिः ॥ शक्तिर्बलं तरः शौर्यं सहः स्थाम च शुष्म च । शुष्मं पराक्रमप्राणौ सहं सामर्थ्यमात्रके ॥ विक्रमस्त्वतिशौर्ये स्याद् वृत्ते भाविनि वा रणे । यत् पानं वीरपाणन्तु वीरपानं तदुच्यते ॥ युद्धमास्कन्दनं जन्यं प्रधनं साम्परायिकम् । मृधमायोधनं संख्यं समीकं प्रविदारणम् ॥ अभ्यामर्दः सम्प्रहारो विग्रहः कलहः कलिः । अभ्यागमोऽभिसम्पातसंग्रामाहवसंयुगाः ॥ समुदायः समाघातः संस्फोटः सम्परायकः ॥ सम्परायः समुदयो विदारो दारणापि च ॥ स्त्रियां संयत्समित्याजिसमित् सम्वित् युधोऽपि च ॥ अस्त्रियस्त्रय एते स्युरनीकः समरो रणः । नियुद्धं मल्लयुद्धञ्च बाहुयुद्धं समीरितम् ॥ अन्योन्यरणसंघट्टे तुमुलं तुमुलोऽपि च ॥ ;p{0136} हस्तियुद्धसमालोकैः सिंहानामिव गर्जिते । क्षेडा च सिंहनादश्च क्षेडितं परभञ्जने ॥ एकतः सज्जनं युद्धात् करिणां घटना भवेत् । क्रन्दनं योधसंरावे बृंहितं हसिगर्जिते ॥ धनुःस्वाने च विस्फारो विस्फारोऽपि च निगद्यते । तथा पटहनिस्वाने आडम्वर उदाहृतः ॥ हठात्कार-बलात्कारौ प्रसभन्तु हठेऽपि च । वीराणां कूटयुद्धादौ स्खलादौ स्खलनं छलम् ॥ पूर्वं स्खलनमप्युक्तं नाड्यादौ धैर्य्यविच्युतेः । उत्पात उपसर्गः स्यादजन्यमपि न द्वयोः ॥ कक्षा स्पर्धा प्रतिस्पर्धा परिकक्षा च कुत्रचित् । मोहो मुर्च्छा कश्मलञ्च मूर्छनञ्चापि कुत्रचित् ॥ परचक्रादौ पीडायामवमर्दस्तु पीडनम् । अभ्यवस्कन्दनं त्वभ्यासादनञ्च समं द्वयम् ॥ विपक्षाणां प्रहारेषु निर्भरेषु निगद्यते । जयो विजय इत्येष भवेत् परपराभवे ॥ प्रतिकार-प्रतीकारौ वैरनिर्यातनं तथा । निर्यातनं वैरशुद्धिर्वैरोद्धारो निगद्यते ॥ अथ प्रद्राव उद्राव-विद्रावौ द्रवविद्रवौ । द्रावसन्द्रावापद्रवौ अपयानं शृगालिका ॥ संदावोऽपक्रमश्चैव चंक्रमश्च पलायने । भङ्गः पराजयो हारी हारिश्चापि पराभवे ॥ लुण्टा लुण्ठा च लुण्टी च लुण्ठी लुण्ठनमित्यपि । पराजिते पराभूतो विजितो निर्जितो जितः ॥ नष्टस्तिरोहितो लुप्ते पराजितादयस्त्रिषु । हरिणीहृदयो भीरुर्भेलकश्च पलङ्कटः ॥ क्षयः क्षतिः क्षितिश्चैव क्षयमात्रे भवेत् त्रयम् । स्याद् वधो मारणं हिंसा घातनं च निहिंसनम् । प्रमापनं संज्ञपनं क्षणनञ्च विदारणम् ॥ निकारणं निर्वहणं निसूदनमपासनम् । निस्तर्हसां प्रमथनं कथनं प्रतिघातनम् ॥ उज्जासनं विशसनं कदनं परिवर्जनम् । ;p{0137} निर्वापणं समाघातो निर्ग्रन्थनं परासनम् ॥ घात उन्मन्थ आलम्भो मारिर्मारी प्रवासनम् । विशरः पिञ्ज उत्पानः परिघः परिघातनम् ॥ मारको मरको मारः संघातोऽपि च घातनम् । अथाघातो वधस्थानं प्रघात इति कुत्रचित् । मरणं प्रलयो नाशः कालधर्मश्च पञ्चता । द्वयोर्मृत्युर्भूमिलाभो निपातो निधनोऽस्त्रियाम् ॥ विलयोऽत्ययोदिष्टान्तश्चान्त आत्ययिक सृतिः । मृतः प्रेतः परेतश्च परासुः संस्थितोऽपि च ॥ प्रमृतः प्राप्तपञ्चत्वस्त्रिष्वेते हि मृतादयः । चिता चीता चितिश्चित्या चीतिः काष्ठमठीत्यपि ॥ दाहभूमौ चूल्लिचूडश्चूल्लिचूडक इत्यपि । कवन्धोऽस्त्री शिरोहीने क्रियायुक्तकलेवरे ॥ श्मशानं स्यात् पितृवनं रुद्राक्रीडः शतानकम् । अस्त्री शरं स्यात् कुनपः क्षितिर्वर्धन इत्यपि ॥ खाटिः खाटी शवरथे खाटिकापि च सा स्मृता । शवारोहणशय्यायां खट्वी वारुठ इत्यपि ॥ संस्क्रिया सत्क्रिया चेति संस्कारोऽपि निगद्यते । वन्दिर्वन्दी वन्दिका च प्रग्रहोपग्रहौ तथा ॥ याचक वसुकीटः स्यात् सौप्तिकं रात्रियुद्धके । हस्तादिवर्जिते वण्डः कवन्धे रण्ड इत्यपि ॥ पञ्चावस्थः कवसरी (?) अवस्थापनमानुषे । काराबन्धनगेहे स्यात् सौप्तिकं रात्रिमारणे ॥ असवः पुंसि भूम्न्येव प्राणाश्च तत्र कीर्तिताः । प्राणधारणमेव स्यात् जीवो जीवितमित्यपि ॥ आयुरायुः क्लीबलिङ्गं जीवकाले निगद्यते । पुंसिक्लीबे च जीवातुः पुंस्येके जीवनौषधे ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां क्षत्रियवर्गप्रकाशः ॥} ;p{0138} ;v{वैश्यवर्गप्रकाशः} विड्वैश्य ऊरुजोरयौ भूमिस्पृक् भूमिजीवनः । जीविका जीव आजीवो वार्ता वृत्तिश्च वर्तनम् ॥ वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवेह वृत्तयः । अथ सेवाश्ववृत्तिः स्यात् स्त्रियां कृषिश्च कर्षणम् ॥ कर्षोऽनृतं प्रणृतञ्च हलभूतिर्महाधनम् ॥ स्यात् शिलोञ्च्छमुञ्च्छशिलं शिलमुञ्च्छमृतं शिलम् । सत्यानृतं वणिग्भावः तृष्णाधनपिशाचिका ॥ अथ धान्यवर्धनन्तु वार्धुष्यं वार्धुषिप्रियम् ॥ ऋणमुद्धारधारौ च प्रामीत्यं पर्युदञ्चनम् ॥ मालाम्लिकाऽर्थप्रयोगः कुसीदं बृद्धिजीविका । अथ याचितकं तत् स्यात् याचना प्राप्तमेव वत् ॥ परिवर्तेन यत्प्राप्तं तद्भवेदापमित्येकम् । ऋणदातर्युत्तमर्णो ह्यधमर्णो ग्रहीतरि ॥ स्याद् बार्धुषि बार्धुषिकः कुसीदश्च कुसीदिकः । बृद्ध्या जीवश्च पञ्चैते बृद्धिजीविजने मताः ॥ ऋणमुक्तिविगणनं ग्रहणं गणनोत्सवम् । कृषीबलः कृषिकश्च कार्षकः कर्षकोऽपि च ॥ क्षेत्राजीवः कृषाणोऽपि कृषकः कृषिकारके । ब्रीहिभवोचितं क्षेत्रं व्रैहेयं तत्समीरितम् ॥ शाल्युद्भवोचितं यत्तु शालेयमभिधीयते । यव्यं यवोचितं क्षेत्रं यवक्यं यवकोचितम् ॥ षष्टिकोद्भवनं यत्तु षष्टिक्यं तत्प्रकीर्तितम् । तिलोद्भवोचितं यत्तु तिल्यं तैलीनमित्यपि ॥ एवं माष्यन्तु माषीणं कोद्रव्यं कोद्रवीणवत् । तथा भङ्ग्यञ्च भाङ्गीनम् उभ्यमौमीनमित्यपि ॥ अथ मुद्ग्यञ्च मौद्गीनमणव्यमाणवीनवत् । माषकोद्रवभङ्गोमामुद्गाणुप्रभवोचितम् ॥ बीजाकृतमुप्तकृष्टमुभनीतिसमाह्वये । सीत्यं कृष्टञ्च हल्यञ्च कृष्टभूम्यामिदं त्रयम् ॥ त्रिसीत्यञ्च त्रिहल्यञ्च तृतीयाकृतमित्यपि । त्रिगुणाकृतमित्येवं त्रिवारकृष्टभूमिषु ॥ शम्बाकृतं द्विहल्यञ्च द्विसीत्यं द्विगुणाकृतम् ॥ द्वितीयाकृतमप्यत्र द्विवारकृष्टभूमिषु ॥ ;p{0139} स्याद् द्रोणाटकखार्यादेर्वापादौ द्रौणिकस्तथा । स्यादाटकिकखारीकौ उत्तमर्णादयस्त्रिषु ॥ आदिभ्यां प्रास्थिकादिश्च पाकादौ द्रौणिकोऽपि च । अस्त्री वप्रन्तु केदारो बलजक्षेत्रमित्यपि ॥ कैदारिकन्तु कैदार्यं क्षेत्रं कैदारकं तथा । वावटञ्चेति पर्यायः क्षेत्रवृन्दे निगद्यते ॥ अस्त्री लोष्टं पुंसि लेष्टुर्दलनी स्त्रीदलिर्द्वयोः । कोटिशोऽपि च कोटीशो लेष्टुघ्नो लेष्टुभेदनः । लेष्टुभेदी चूर्णदण्डो लोष्टभङ्गार्थमुद्गरे ॥ प्राजनं तोदनं तोत्रं तोत्रकं लगुडोऽस्त्रियाम् । दात्रं लवित्रं खड्गीकं खनित्रमवदारणम् ॥ आबन्धो योप्रयोक्त्रे द्वे त्रयं योत्रसमाह्वये । कुटकञ्च निरीषञ्च निरीशं फलमित्यपि ॥ कृषिकं कृषकं फालं (हलं) फालसमाह्वये । गोदारणञ्च सीरश्च हलं हालञ्च लाङ्गलम् ॥ सैद्द्र इत्याह्वये शम्या शम्या स्त्री युगकीलकम् ॥ ईशा लाङ्गलदण्डः स्यादीषापि परिकीर्तिता । बृहत् हलं हलिः सीता शीता लाङ्गलपद्धतिः ॥ पुंसि मेधिः खलेकाष्ठं यत् न्यस्तं पशुबन्धने । आशुर्ब्रीहिः पाटलः स्यात् पाटलञ्चापि कुत्रचित् ॥ यवो ना शितशूकः स्यात् शीतशूकश्च कीर्तितः । तोक्मं तत्रैव हरिते यवगुत्से च कुत्रचित् ॥ स्यात् कलायो हरेणुर्ना खण्डिकोऽपि सतीनकः ॥ कोद्रवः कोद्रवोऽपि स्यात् कोर्दूषः कोरदूषकः ॥ स्यान्मसूरो मसूरा च मसूरो ब्रीहिकाञ्चनम् । मङ्गल्यकोऽपि मङ्गल्यो मसूरी मसुरीत्यपि ॥ बलात्मको हारिनामा वासस्तो (?) मुद्ग इत्यपि ॥ वनमुद्गो मुद्गष्टः स्यात् मकुष्टकमयुष्टकौ । स्यात् सर्षपः सरिषपः शर्षपश्च कदम्बकः । कटुस्नेहस्तुन्तुभोऽस्मिन् सिते सिद्धार्थ इत्यपि ॥ ;p{0140} गोधूमोऽपि च गोधूमं सुमनो म्लेच्छभोजनम् । यवकः स्यात्तु कुल्माषः कुल्मासो यावकोऽपि च ॥ वोरवाख्ये यष्टिके वा कुल्मे काश्मीरदेशजे । शालिधान्येषु चत्वार इति केचित् प्रचक्षते ॥ छोलाख्येऽपि च चानाख्ये चणको हरिमन्थकः । शितशूकः प्रावटः स्यात् पायडा इति नामके ॥ ताम्रवृन्तः कुलत्थश्च सस्यमस्त्री तिलः पुमान् । तिलपिञ्जस्तिलपेजो द्वावेतौ निष्फले तिले ॥ तिले श्वेते स्नेहरङ्गः कृष्णे तस्मिन् स्वधाप्रियः । अथ क्षुधाभिजनकः क्षुताभिजनकोऽपि च ॥ राजिका कृष्णिका रक्तसर्षपः क्षव आसुरी । असुरी तीव्रकटुका नवैते राजिकाह्वये ॥ कङ्गुः प्रियङ्गुः कङ्गूश्च कुङ्गुः कुङ्गूश्च कङ्गुनी । निःस्नेहा चण्डिका चण्डी अतसिस्त्वतसीत्यपि ॥ उमा क्षुमा शनः क्षौमा सैव स्यादतसीसनः । सूर्क्ष्यः परिषमो माषो राजमाषस्तु वर्वटः ॥ अथ भङ्गी मातुलानी ब्रीहौ काश्मीरदेशजे । अणुः पुंसि व्रीहिभेदे चीणा इत्याह्वये क्वचित् ॥ शस्यशूकन्तु किंशारुः कणिशं शस्य मञ्जरी । पुंसि स्तम्बकरिः धान्यं व्रीहिर्ना धान्यमात्रके ॥ अल्पापकृष्टशालिर्यः स भवेत् . . . . . . स्त्रियाम् । स्तम्बो धान्यतृणादीनां गुच्छे पुंसि निगद्यते ॥ अथ धान्यादिकाण्डे स्यात् नाडी नालमिति द्वयम् । स काण्डो निष्फलोऽस्त्री तु पलाल इति कीर्तितः ॥ कडङ्गरो वुषं वूषमसारे तुच्छधान्यके । धान्यत्वचि तुषः पुंसि शूकोऽस्त्री स्यात्तदग्रके ॥ ;p{0141} शमी सिम्बा च शिम्बा च शिम्बिः शिम्वी च सिम्विका । समी च सिम्बिका सिम्बिः पूतान्तास्तु त्रिषूत्तरे ॥ आवसितन्त्ववसितं वसितमृद्धमित्यपि ॥ मर्दनानन्तरं पुञ्जीकृतधान्ये चतुष्टयम् । बहुलीकृतपूते द्वे ह्यपनीतवुषादिके ॥ शमीधान्ये तु माषादिर्यवादिः शूकधान्यके । कलमाद्याः षष्टिकाद्याः शालयः पुंसि कीर्तिताः ॥ नीवरास्तृणधान्ये स्युर्गवेधुः स्त्री गवेधुका । कुत्रा कुत्था गवेडूश्च कुसूलं ब्रीहिभेदके ॥ अयोग्रं कण्डली दण्डो मुषलं मुसलन्तथा । स्यात् कण्डनी कण्डणकी उलूखलमुदूखलम् ॥ अस्त्री सूर्पश्च शूर्पश्च कुल्यः प्रस्फोटनी नला । सूर्पवातः फुल्लकालश्चालनी तितउः पुमान् ॥ चालनं क्लीवमप्याहुर्व्याडिगङ्गाधरादयः । स्यूतः स्यूनः प्रसेवस्तु त्रयं धौतकटे स्मृतम् ॥ वंशादिनिर्मिते भाण्डे कण्डोलः पिण्ड इत्यपि । वीरणादिविरचिते स्यातां कटकिलिञ्जकौ । क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् । स्यातां महानसाध्यक्षे पौरोगवपुरोगवौ ॥ सूपकारो वल्लवः स्यात् सूद औदनिको गुणः । आरालिकश्चान्धसिकः पाकाङ्की पाचकोऽपि च ॥ भक्ष्यकारः कान्दविकः पूपिकः पूपविक्रयी । मोदकादिविक्रयी च त्रिषु पौरोगवादयः ॥ चुल्ली चुल्लिरन्तिकाधिश्रयण्यश्मन्तिकापि च । अश्मन्तास्मन्तमुद्धानमुध्नानमपि कीर्त्यते ॥ हसन्त्यङ्गारधानी च हसन्यङ्गारधानिका । अङ्गारशकटिश्च स्यादङ्गारशकटीत्यपि ॥ अस्त्रियां कोकिलाङ्गारौ आलातालातमुल्मकम् । भ्राष्टेऽम्बरीषं न क्लीबे कन्दुः स्यात् स्वेदनी स्त्रियाम् ॥ ;p{0142} आलिञ्जरालिञ्जरौ च मणिकञ्च मणिर्मणी । गोलनन्दा च गोला च नन्दा च नन्दिकेत्यपि ॥ कर्करी करबर्धन्यालुः स्याच्च गलन्तिका ॥ भाण्डभेदे तु चल्लक उष्ट्रिका चुल्लकेत्यपि । स्थाली कुण्डञ्च कुण्डा च पिठरं कुण्ड्युखापि च ॥ द्वयोर्घटः कुटनिवापस्त्री तु कलशस्त्रिषु । कलसश्च द्वयोः कुम्भः कुम्भी च कलसी घटी ॥ मार्तिकं स्यात् शरावोऽस्त्री सरावो वर्धमानकः । शालाजिरं पार्थिवञ्च मृत्कांस्यमपि कीर्त्यते । लोहिका खरपालञ्च पिण्डानं काष्टभाजनम् ॥ काष्ठानाही च वातर्दिः काष्ठपात्रविशेषके । ऋचीकं पिष्टपचनमम्बरीषं विरीषकम् ॥ अथ कांस्यञ्च कंसोऽस्त्री पानभाजनमित्यपि । कुतूः चर्मस्नेहपात्रे सा स्वल्पा कुतुपस्त्वयम् ॥ भाण्डं पात्रममत्रञ्च कोषकोशौ च भाजनम् । पात्री कोषी च कोशी च कोषिका कोशिकेत्यपि ॥ दर्वी कम्बी दर्विकम्बी खजाकापि खजा खजम् । स्यात् काष्ठहस्तकस्तर्दूद्वितयं काष्ठहस्तके ॥ अस्त्री शाकन्तु शिग्रुर्ना क्लीबे हरितकं भवेत् । वास्तूकादिशाके तु त्रयमस्य तु नाडिका ॥ कलम्वश्च कडम्वोऽपि कडम्बककलम्बकौ । धान्यसर्षपचूर्णादौ वेषवार उपस्करः ॥ तिन्तिडीकञ्च चुक्रञ्च वृक्षाम्ब्लमपि चुक्रकम् । मरीचं मरिचं कृष्णं वेल्लजं धार्मपत्तनम् ॥ उषणं स्यादूषणञ्च वल्लिजं कोलकञ्च तत् । स्याज्जीरो जीरकोऽजाजी जरणः स्त्रीकणापि च ॥ कृष्णजीरे तु मुशवी मुषवी पृथुका पृथुः । कारवी पृथिवी काला पृथ्वी स्यादुपकुञ्चिका । आर्द्रकं शृङ्गवेरं स्यात् शृङ्गवेरार्द्रकञ्च तत् । धन्याकं धान्यकं धान्यं धनिकञ्च धनीयकम् ॥ छत्रा च तुम्बुरी धाना कुस्तुम्बुरु वितुन्नकम् ॥ श्रुण्ठी महौषधं शुण्ठिर्विश्वा विश्वञ्च नागरम् ॥ ;p{0143} स्यादिन्द्रभेषजं विश्वभेषजं भेषजञ्च तत् । काञ्जिकं काञ्जिकासिद्धमसिलं धातुनाशनम् ॥ आरनालकरक्षोघ्नसौविरञ्च तुषोदकम् । कुञ्जकुल्माषाभिषुतं कुल्माषाभिषुतञ्च तत् ॥ कुञ्जलावन्तिमोमे च धान्याम्ब्लम्बुर्कमित्यपि । हिङ्गुपिण्याकवालीकसहस्रबोधिरामठम् ॥ गृहिणी मघुरासूपधूपनं जतुकं जतु । त्वक् पत्री त्वक् च तत्पत्री कवरी कर्वरी पृथुः ॥ पृथ्वीका पृथुला पृथ्वी वाष्पका कारवीति च । वाष्पिका वास्पका वाष्पा पत्री स्यात् कावरीत्यपि ॥ हरिद्रा काञ्चनी पीता निशाख्या पीतवालुका । हेमनाशा भङ्गवासा घर्षिणी वरवणिनी ॥ वशिराक्षीववशिरं सामुद्रं लवणं हि यत् । सैन्धवोऽस्त्रीमणिन्थं माणिमन्थञ्च सिन्धुजम् ॥ शैतशिवं शीतशिवं लवणे सिन्धुसम्भवे । रौमकं वसुकं राष्ट्रं साम्भरीलवणे त्रयम् ॥ पाक्यं विडं विटं विट् च कृतके लवणे भवेत् । सौवर्चलाक्षरुचके लवणे सौछले द्वयम् ॥ तत्रैव कृष्णवर्णे तु तिलकं परिकीर्तितम् । या चेक्षुभेदपाके तु शुष्कखण्डाकृतिर्भवेत् ॥ मत्स्यण्डिका सा मत्स्यण्डी त्वर्धवर्ते च फाणितम् । मत्स्यण्डी शुष्कखण्डे स्यात् तस्य कन्धे च फाणितम् । सामान्यशर्करायान्तु मत्स्यण्डीति क्वचिद् भवेत् ॥ क्षीरखण्डविकारे तु कङ्कफाणितमित्यपि । एतौ खण्डविकारौ च पिप्पटा गुडशर्करा ॥ शर्करा च शिता शार्कः शार्ककः शाकरोऽपि च । कूर्चिका दुग्धविकृतिः सा द्विधा परिकीर्तिता ॥ दध्ना सह पयः पङ्कं तद्भवेद् दधिकूर्चिका । तक्रेण पङ्कं यत् क्षीरं तद्भवेत् तक्रकूर्चिका ॥ गुडो गुलः स्वादुखण्डोऽस्त्रियां गण्डोल इत्यपि । ;p{0144} मृष्टे दध्नि शिखरिणी रसाला मार्जितेत्यपि ॥ अथ शार्कं शार्ककं स्यात् शार्ककः क्षीरफेणके ॥ व्यञ्जनं तेमनं तेम निष्ठानं स्यादतस्त्रिषु । वासितान्तं भटित्रञ्च शूल्यं शूलाकृतञ्च तत् ॥ भवेत् लोहशलाकादिसिद्धमांसादिषु त्रयम् ॥ उरव्यं पैठरमित्येतत् स्थाल्यादिसिद्धमांसके । प्रणीतमुपसम्पन्नं तथा समुपसन्नकम् ॥ पाकरूपरसासक्ते व्यञ्जने तु भवेत्त्रयम् । तैलपाकं सुसंस्कारे प्रयस्तमुपसंस्कृतम् ॥ पिच्छिलं लालसिकञ्च विजिलं विज्जिलञ्च तत् । व्यञ्जने केशकीटादि शुद्धे संसृष्टशोधिते ॥ स्निग्धं मसृणमामृष्टं चिक्कणं चिक्कचक्कणे । सुधूपिते व्यञ्जनादौ भवितं वासितञ्च तत् ॥ आपक्वमवपक्वं स्यादभ्यूषं पौलिपौलिकौ । अभ्युषोऽभ्योष इत्येते ईषत्पक्वयवादिषु ॥ लाजाः पुंसि बहुत्वे स्त्री खदिर्वा क्लीवमक्षतम् । अथ चित्रपिष्टके स्याद् चित्रापूपश्चरुव्रणः ॥ वटकः पिष्टपूरः स्यात् पृथुकश्चिपिटोऽपि च । चिपीटकश्चिपिटकः स्यात् धान्यचमसोऽपि च ॥ अथ भृष्टयवे धाना धानाका भूम्नि च स्त्रियाम् । अपूपः पिष्टकः पूप आपूपः पिष्ट इत्यपि ॥ करम्भश्च करम्बः स्याद् दध्नोपसिक्तसक्तुकः । भक्तान्नमन्धो भिस्साऽस्त्री नपुंस्योदनदीर्दिवी ॥ कूरमापूपिकञ्चैव जीवातुर्ना प्रसादनम् । भिस्सटा दाग्धिका चेति दग्धभक्ते भवेद्द्वयम् ॥ जयेष्ठाम्बु मण्डमस्त्री तु द्वयं सर्वरसाग्रके । अथान्नसम्भवे भण्डे निस्रावाचाममासराः ॥ यागूर्यवागूस्तरला खालिः श्राणा विलेपनी । विलेपी च विलेप्या स्यादुष्णिका च खलीत्यपि ॥ त्रिषु गव्यं गवां सर्वं स्त्री गोविड् गोमयोऽस्त्रियाम् । शुष्के तस्मिन् करीषोऽस्त्री क्षीरदुग्धपयांसि च ॥ ;p{0145} पयस्यं घृतदध्यादि प्राखोटं श्रीघनं दधि । तदेव तरलं द्रप्स्यं तद्भेदाः कटुरादयः ॥ घृतं हविः सर्पिराज्यं नवनीतं नवोद्धृतम् । ह्यो गोदोहोद्भवं घृतं हैयङ्गवीनमुच्यते ॥ घोलं दण्डाहतारिष्टकालशेषानि गोरसम् । तक्रं पादाम्बुनिर्दिष्टमुदश्विदर्धनीरकम् ॥ मथितन्तु निरम्बु स्यात् त्रितयं दधिसम्भवम् । मस्तुर्ना दधिजे मण्डे पेयूषस्तु नवं पयः । स्त्रीक्षुत् क्षुधा वुभुक्षा स्यादशनायाः च सा स्मृता ॥ अथ ग्रासस्तु कवलं स्त्री सग्धिः सहभोजनम् । स्त्रीसपीतिस्तुल्यपानं सह्रपीतिश्च कुत्रचित् ॥ तृष्णा तृषा पिपासा तृट् उदन्या तर्ष इत्यपि । भोजनं जन्धिराहारो विघसोऽशनभक्षणे ॥ देहयात्रा विष्वणनं लेपन्यादौ च जेमनम् । भुक्तिरभ्यवहारः स्याद् घसि प्रत्यवसानकम् ॥ कल्यवर्तः प्रातराशः प्रातःकाले तु भोजने । प्रीणनं तर्पणं तृप्तिः सौहित्यमाशितम्भवम् ॥ फेलिः फेली च फेलञ्च फेला भुक्तसमुज्झिते । निकामकामपर्याप्तप्रकामेष्टयथेप्सितम् ॥ गोपालगोधुगाभीरगोपगोसंख्यवल्लवाः । धनं यादवमित्येतद् गोमहिष्यादिकं हि यत् ॥ गोमान् गोमी गोपतौ तद्व्रजे गोधनगोकुले । स्यादाशितं गवीनं तत् तृप्तिस्थानं गवां पुरा । गोवृषो वृषभः शृङ्गी वलीवर्दर्षभौ वृषः । उक्षाऽनड्वान् सौरभेयः ककुद्मान् भद्र इत्यपि ॥ उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् । वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥ जरद्गवस्तु वृद्धोक्षः महोक्षस्तु महावृषः । जातउक्षा तु जातोक्षः दस्ये वत्सरोऽपि च ॥ ;p{0146} षण्टता योग्यवृषभे आर्षभ्यः समुदाहृतः । षण्टुः षण्टश्च शण्टश्च शण्डो गोपति रिट्चरः ॥ वहः स्कन्धप्रदेशे स्यात् सास्ना स्त्री गलगम्बले । अथ नस्यितनस्योतनस्तिताः नसितोऽपि च ॥ शिक्षार्थं योगपार्श्वे तु योजितो यो वृषो भवेत् । अग्रगं वहतीत्यर्थे प्रष्टवाट् युगपार्श्वगः ॥ अथ युग्याश्च प्रासङ्ग्याः शाकटाश्च क्रमादिमे । युगप्रासङ्गशकटवोटारो वृषभास्तु ये ॥ वत्सः शकृत्करिः दोग्धा दोधको दोध इत्यपि । अथ हम्बारेभणञ्च हाम्बा च गोध्वनौ त्रयम् ॥ इदं खनति येनैव सीरेण च हलेन वा । तयोर्वोटा सैरिकः स्यात् हालिकश्च यथाक्रमम् ॥ धुरन्धरो धुरीणश्च धौरेयधूर्यधूर्वहाः । य एकस्य रथस्यापि लाङ्गलस्यापि वा धुरम् ॥ वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि सः । स तु सर्वधुरीणः स्यात् सर्वां वहति यो धुरम् ॥ गवी गौः सुरभिर्माता माहेयी शृङ्गिनी महा । उस्रा निलिम्पा सुरभी सौरभेयी च रोहिनी ॥ अनड्वाही चानडुही त्विज्या चाघ्न्याऽर्जुनीत्यपि । नैचिकी निचिकी सा स्यादुत्तमा गोषु या भवेत् ॥ गव्यो वर्णादिभेदेन शवलीधवलादयः । विचित्रवर्णा शवली धवला शुक्लवर्णतः ॥ एवं कृष्णादयो ज्ञेया एकाब्दा त्वेकहायनी । द्विहायनी द्विवर्षा च त्रिवर्षा च त्रिहायनी । वश्या बन्ध्या सैव गवी वेहद्गर्भोपधातिनी ॥ स्रवद्गर्भा वतोका स्याद् वृषाक्रान्ता तु सन्धिनी । कालप्राप्ता वृषरते उपसर्याभिधीयते ॥ बाला गर्भवती या स्यात् प्रौष्टौही सा समीरिता । सुविनीता तु सुकरा भूरिसूतिः परेष्टुका ॥ चिरात्सूता वष्कयनी तथा वष्कयिनीति च । नवप्रसूतिका धेनुः सुखदोह्या च सुव्रता ॥ विशालोधसी या स्यात् सा पीनोध्नी पीवरस्तनी । द्रोणक्षीरा द्रोणदुघा द्रोणमानपयस्विनी ॥ ;p{0147} समांसमीना प्रत्यब्दप्रसूता या गवी भवेत् । स्याद् बन्धके स्थिता धेनुर्धेनुष्या परिकीर्तिता ॥ वाणमूधः क्लीवलिङ्गं भवेदापीनमस्त्रियाम् । अथ गोबन्धके द्वौ तु समौ शिवक-कीलकौ ॥ यत्रैकस्मिन्ननेकांस्तु वध्नन्ति निहतान् पशून् । तद्दाम स्त्री तु दामा स्यात् क्लीबे सन्दानमित्यपि ॥ पशुरज्जुर्दामनी स्याद् बन्धनीत्यपि कुत्रचित् । प्रग्राहः प्रग्रहोऽपि स्यात्तथा गवादिरज्जुषु ॥ मन्थान-मन्थ-मन्थानो वैशाखः करघर्षकः । मन्थनोऽपि च तक्राट एते मन्थानदण्डके ॥ कुठरो दण्डविष्कम्भो गर्गरी मन्थनी समे । सन्थनं मथनं माथो मथः स्यात् मन्थ इत्यपि ॥ उष्ट्रः क्रमेलशरभौ करभः कण्टकाशनः । तोलिर्बहुकरो वक्रग्रीवो धकरुद्वीपाः(?) । मय-वासन्त-लम्बोष्ठमहाङ्गाश्च क्रमेलकः । उष्ट्रस्य शिशवो ये स्युः करभाः करभाश्च ते ॥ काष्ठमयैः पादवन्धैरेते शृङ्खलका अपि । अजा छागी छलुष्या(?) च मञ्जा मुखविलुण्ठिका ॥ छागछगलवस्ताजस्तभछगलका अपि । लघुकामः क्रयमहो वर्करः पर्णभोजनः ॥ लम्बकर्णश्च मेनादो वुक्कोऽल्पायुः शिवाप्रियः । मेषो रोमश ऊर्णायुरुरभ्रो भेड-भेडकौ ॥ मेण्टो वृष्णिरविर्मेट्रो हुडुर्हुलुहलावपि । स्यादेडका जालकिनी मेषी च मेषिकेत्यपि ॥ स्यादौष्ट्रकाजकौरभ्रमुष्ट्राजोरभ्रसंहतौ ॥ गर्दभः स्मरस्मर्यः स्यात् चक्रीवान् रासभः खरः । चिरमेही पशुचरिः चारुपुङ्खोऽपि चावटः(?) ॥ ग्राम्याश्चः शङ्कुकर्णः स्याद् बालेयो वनरूषितः (?) । वणिग् वैदेहकः सार्थवाह-नैगमवाणिजाः । वाणिजको वाणिजिको वाणिज्यकार इत्यपि ॥ ;p{0148} क्रयविक्रयिकः पण्याजीव आपणिकोऽपि च । स्वाध्यायी पत्तनवणिक् द्वयं नगरवाणिजे ॥ विक्रयी स्यात्तु विक्रेता तथा विक्रयिकोऽपि च । क्रयिकः क्रायकः क्रेता क्रायिकोऽपि च कुत्रचित् ॥ वाणिज्यं तु वणिज्या स्याद् वाणिज्या वणिगित्यपि ॥ मूल्यन्त्ववक्रयो वस्नो वस्नकोऽपि च कुत्रचित् । निविर्निवी परिपणो भाण्डं मूलधनञ्च तत् ॥ अधिके तु फले लाभो लभ्यं स्याद् बृद्धिरित्यपि । परिवर्तः परीवर्तो नैमेयो नियमोऽपि च ॥ प्रतिदानं विनिमयः परिदानमपि क्वचित् । न्यासोपनिधिनिक्षेपाः प्रतिदानं तदर्पणम् ॥ क्रेयं क्रेतव्यमात्रे स्यात् क्रय्यं प्रसारितं क्रये । पणितव्यञ्च विक्रेयं पण्यं क्रेयादयस्त्रिषु ॥ स्त्रियां सत्याकृतिः सत्यङ्कारः सत्यापनं न ना । विक्रयः स्याद् विपणनं विपणः पणनञ्च तत् ॥ दशश्रुत्यवधिः संख्या द्रव्ये निगदिता त्रिषु । अतः परन्तु या संख्या उक्तास्ता द्रव्यसंख्ययोः ॥ विंशत्याद्याः सदैकत्वे संख्यार्थे द्विबहुत्वयोः ॥ विंशत्याद्यास्तु नवतिपर्यन्ताः स्त्रियः एव हि ॥ विंशतिर्विंशती त्रिंशत् स्याच्च द्वाविंशदित्यपि । पञ्चाशत् षष्ठी षष्टिश्च सप्ततिः सप्ततीत्यपि ॥ स्यादशीतिरशीती च नवती नवतिस्तथा । नवतेः परतो ज्ञेयाः क्रमादेवं शतादिकाः ॥ दशसंख्या हि पंक्तिस्तत् दशबृद्ध्या शतादिकम् । शतं सहस्रमयुतं लक्षं नियुतमेव च ॥ अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि । अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः । अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥ ;p{0149} द्रुवयं मानमुन्मानं पाय्यं यौतव-पौतवे । षट्कं मानार्थकं मानं प्रस्थाङ्गुलितुलादिभिः ॥ पञ्चकृष्णलको माषः माषकोऽपि च कुत्रचित् । माषाः षोडशकर्षोऽस्त्री तत्रैवाक्षः पुमानपि ॥ पलं चतुष्कं स्यान्मुष्टिः. . . . . . मृपाटिकेत्यपि । हेम्नः कर्षे सुवर्णस्तु स एव विस्त इत्यपि ॥ स्यात् सुवर्णपले ज्ञेयं कुरुविस्तं नपुंसकम् । स्त्रियां तुला पलशते स्याद् भारः विंशतिस्तुलाः ॥ दशभाराः आचितः स्याद् भारः शाकट आचितः । पणस्य तूर्यभागः स्यात् काकनी काकिनीति च । काकणी काकणिर्वोड्री काकनिः काकिणीत्यपि ॥ विंशतिगण्डकामूल्यताम्रिके कार्षिके पणः । कार्षापणः पुराणोऽस्त्री कार्षिकास्ते तु षोडशः ॥ अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् । कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥ वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु । रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥ हेमरूप्ये कृते कोषो हिरण्यञ्चाकृते तथा । यदन्यत् हेमरूप्याभ्यां कुप्यमित्यभिधीयते ॥ आहतं तद्द्वयं रूप्यं तथा रौप्यकमित्यपि । मरक्तं स्यान्मरकतं राजनीलं हरिन्मणिः । गारुत्मतं चाश्मगर्भो गरुडाङ्कितमित्यपि ॥ पद्मरागः शोणरत्नं लोहितं कुरुविन्दकम् । मुक्ता मुक्ताफलं शुक्तिवीजं हारी च मौक्तिकम् ॥ प्रवालं विद्रुमं रत्नकन्दलः स्याल्लतामणिः । शालिपिष्टो धौतशिला स्फाटिकं स्फाटिकाश्मनि ॥ इन्द्रनीलो मसारः स्यादुर्णाकापि(?) मसारकः । वैदुर्यं वाणराजञ्च वाणसूर्यकमित्यपि ॥ वज्रोऽस्त्री हीरको हीरो दधीच्यस्थि च वज्रकम् । कषायकन्तु कासायं राजपट्टो विराटजः ॥ अश्मजातौ च मुक्तादौ क्लीबे रत्नं मणिर्द्वयोः । ;p{0150} सुवर्णं काञ्चनं हेम हिरण्यं स्वर्णहाटकम् । गाङ्गेयं कनकं भर्म शातकुम्भञ्च कर्वुरम् ॥ तपनीयं जातरूपं महारजतमभ्रकम् । अग्निवीजं लोहवरं चाम्पेयमुरुषावकम् ॥ रुक्मं जाम्बूनदं कार्तस्वरमष्टापदोऽस्त्रियाम् । चामीकरं स्पर्शमणिप्रभवं मुख्यधातु च ॥ क्लीबे शृङ्गीकनकञ्च स्यादलङ्कारकाञ्चने । आकषो निकषस्तु स्यात् कषो वकष इत्यपि ॥ रजतं रूप्यखर्जुरं दुर्वर्णश्वेतरौप्यकम् । रङ्गवीजं राजरङ्गं लोहराजकमित्यपि ॥ पित्तलन्त्वारकूटोऽस्त्री रीती रीतिः स्त्रियामपि । स्यात् ताम्रं ताम्रकं शुल्वं वरिष्ठं मुनिपित्तलम् ॥ अर्कमुदुम्बरं द्व्यष्टं सूर्याङ्गं लोहितायसम् । कांस्यं कंसन्तु कंसास्थि ताम्रार्धं कास्यमित्यपि ॥ अस्त्रियौ लौहलोहौ च पिण्डं तीक्ष्नञ्च शास्त्रकम् । कालायसायसी क्लीबे स्यादश्मसार इत्यपि ॥ सिंहानमपि सिङ्घासां मण्डूरं लौहजे मले । अयसस्तु विकारः स्यात् फालादिस्तु कुशी स्त्रियाम् ॥ सुवर्णं रजतं ताम्रं रीतिरङ्गरसादि च । सर्वं च तैजसं लौहं क्षारकाचौ समार्थको ॥ रसो रसेन्द्रश्चापलः सूतपारदसूतकाः । हरवीजं सिद्धधातुः पारतोऽपि च कुत्रचित् ॥ गवलं माहिषं शृङ्गे भवेद् गवलकञ्च तत् ॥ गिरिजामलञ्च गिरिजममलञ्च तथाभ्रकम् । कपोताञ्जनसौवीरस्रोतोञ्जनानि यामुनम् ॥ वितुन्नकं शिखिग्रीवं तुत्थाञ्जनमयुरकम् । तुत्थाञ्जने क्वाथभवे कर्परी दार्विकापि च ॥ रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च गर्भकम् । गन्धको गन्धपाषाणो गन्धः सौगन्धिकोऽपि च ॥ ;p{0151} कुलत्थिका कुलाली च चक्षुष्या चाक्षुषीत्यपि । रीतिपुष्पं पौष्पिकञ्च पुष्पकं कुसुमाञ्जनम् ॥ हरितालकतालं स्यादालपीतनपिञ्जरम् । शिलाजतु च गौरेयमर्थ्यं गिरिजमश्मजम् ॥ रसगन्धो गन्धरसः प्राणः पिण्डो रसः शशः । वोलो गोपो गोपरसो वोलजो गोपकोऽपि च । हिण्डीरः स्यादब्धिकफः फेणो हिण्डिर इत्यपि ॥ नागसम्भवसिन्दूरगान्धाररक्तवालुकम् । समीवर्धनसीमन्तवरकं कामचन्द्रकम् ॥ सीसकं वप्रयोगेष्टनागवध्रानि पिच्चटम् । सीसपत्रं सुवर्णारिः स्यात् त्रपु त्रपुरित्यपि ॥ पुरेतनागमृद्वङ्गरङ्गवङ्गत्रपूति च । पिचुतूलस्तूलपिचुस्तूलश्च पिचुस्तूलकम् ॥ कुसुम्भं स्याद् वह्निशिखं वह्निदीपकमित्यपि । स्यान्महारजनं ग्राम्यकुङ्कुमं कमलोत्तरम् ॥ हिङ्गुलुर्हिङ्गुलोऽपि स्याद् रक्तपारद-पारदौ । मेषलोमनिर्मिते स्यादुर्णायुर्मेषकम्बलः । शशोर्णं शशलोम स्यात्तेनापि शशकम्बलः ॥ अथ क्लीबे मधु क्षौद्रं माक्षिकं भ्रामरादिकम् । मधूच्छिष्टं सिक्थन्तु शिक्थकं शिक्थमित्यपि ॥ मनःशिला मनोह्वा च कुनटी नागजिह्विका । नागजिह्वा शिलाह्वा ज गोलापि च मनः शिलम् ॥ नैपाली कुनटी सैव गोलेषोऽपि च कुत्रचित् ॥ यवनालो यवक्षारो यवशूको यवाग्रजः । सारको रेचकः पाक्यो यवनक इत्यपि च ॥ स्वर्जिकाक्षारकापोतस्वर्जिकाः सुखवर्चकः । सौवर्चलं चरुचकं सर्जिका स्वर्जिकापि च ॥ ;p{0152} त्वक्क्षीरा वंशजा वंशा क्षीरिका वंशलोचना । शिग्रूजं शुक्लमरिचमिक्षुमूलन्तु मोरटम् ॥ अथ स्यात् पिप्पलीमूलं ग्रन्थिकं चटिकाशिरः । चटिका च शिरश्चेति चटकाशिर इत्यपि ॥ भूतकेशो भूतकेशी गोलामी भूतकेशिका । रक्तचन्दनपत्राङ्गं पत्राङ्कमपि कुत्रचित् ॥ मरिचं पिप्पली शुण्ठीयुतमेतत् कटुत्रिकम् । त्रिकटु त्र्यूषणव्योषत्र्यषणञ्च कटुत्रयम् ॥ स्याद् विभीतक्यामलकी हरितकी फलत्रयम् । फलंत्रिकञ्च त्रिफला तृफला त्रिफलीत्यपि ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां वैश्यवर्गप्रकाशः ॥} ;p{0153} ;v{शूद्रवर्गप्रक्लाशः} शूद्रो जघन्यजो दासः पादजोऽवरवर्णजः । अन्त्यजन्मा च वृषलो जघन्यो द्विजसेवकः ॥ भवेन्महति शूद्रादौ ग्रामकूटमहोत्तरौ । अतश्चाण्डालपर्यन्तं संकीर्णाकरणादयः ॥ करणो वैश्यशूद्राजोऽम्बष्ठो वैश्याद्विजातिजः । उग्रः शूद्रा क्षत्रियजः क्षत्ता वैश्यासु शूद्रजः ॥ माहिष्यः क्षत्रवैश्याजः वैश्यात् क्षत्रासु मागधः । ब्राह्मणी क्षत्रजः सूतो वैदेहो ब्राह्मणीविशोः ॥ माहिष्यकरणीजातः रथकारः स उच्यते । चाण्डालोऽपि च चण्डालो वृषलब्राह्मणी सुतः ॥ कारुः शिल्पी द्वयोः श्रेणिर्मिलितैस्तैः सजातिभिः । कुलश्रेष्ठी च कुलिकः कुलकोऽपि च कुत्रचित् ॥ मालाकारः मालिकः स्यात् पुष्पलावक इत्यपि । कुलालः कुम्भकारश्च दण्डभृत् मृत्करोऽपि च ॥ पलगण्डः सुधाजीवी लेपी लेपक इत्यपि । तन्त्रवायस्तन्तुवायस्तन्त्रवायः कुविन्दवत् ॥ सौचिकः सूचिकः सौचिः तुन्नवायश्च सूत्रभित् । रङ्गाजीवश्चित्रकरो रङ्गजीवक इत्यपि ॥ शस्त्रमार्जोऽसिमार्जः स्यादसिधावोऽसिधावकः । पादूकृत् चर्मकारः स्यात् चर्मारः कुरटोऽपि च ॥ कर्मकारस्तु कर्मारो व्योकारो लोहकारके । नाडिन्धमो रुक्मकारः कलादः स्वर्णकारकः ॥ शाङ्खिकः शङ्खकारः स्यात् तथा काम्बरिकोऽपि च । ताम्रिकस्ताम्रकारः स्यात् शौल्विकस्ताम्रकुटुकः ॥ ;p{0154} त्वष्टा तु वर्धकिस्तक्षा सूत्रधारोऽपि वर्धकी । रथकारो रथकरः काष्टतट् काष्टतक्षकः ॥ ग्रामाधीने ग्रामतक्षः कौटतक्षोऽनधीनके । नापितः स्यात् क्षुरी मुण्डी छत्री वात्सीसुतोऽपि च ॥ नखकुटुः दिवाकीर्ति-ग्रामण्यन्तावसायिनः । निर्णेजकस्तु शौचेयो रजकः कर्मकीलकः ॥ शुण्डिकः शौण्डिकः शुण्डी शुण्डको मण्डहारकः । अजाजीवस्तु जावालोऽप्यजापालक इत्यपि ॥ देवाजीवो देवलः स्यात् अमरद्विज इत्यपि । साम्बरी शाम्बरी माया मायाकृत् प्रातिहारिकः ॥ जायाजीवस्तु शैलूषरङ्गजीवकधर्षकाः । शैलालिकस्तु शैलाली कृशाश्वी भरतो नटः ॥ कुशीलवश्चारणः स्यादस्थिरे भिक्षुके नटे । मार्दङ्गिको मौरजिकस्त्वाक्षिकोऽप्यौद्घिकोऽपि च ॥ वेणुवादो वैणुकः स्यात् पाणिवादस्तु पाणिधः ॥ वीणावादो वैणिकः स्याद् वीणावादक इत्यपि ॥ जीवान्तकः शाकुनिको द्वाविमौ पक्षिहन्तरि । स्याज्जालिको वागुरिको मृगबन्धनजालिके ॥ वैतंसिकः कौटकिकः कौटिको मांसिकोऽपि च । भृतिभुक् भृतकः कर्मकरो वैतनिकश्च सः ॥ वार्तावहो वैवधिको भवेत् वार्ताहरोऽपि च । भारवाहो भारहरो भारहारस्तु भारिकः ॥ नीचे निहीनहीनापसदजान्मपृथग्जनाः । विवर्णः प्राकृतक्षुल्लक्षुल्लकेतरपामराः । भृत्ये भुजिष्यदासेयदासेरपरिचारकाः ॥ नियोज्य गोप्यकप्रैष्यदासकिङ्करचेटकाः । परैधितपरास्कन्दपरजातपराचिताः ॥ ;p{0155} मन्दस्तुन्दपरिमृजः शीतलः शीतकोऽलसः । आलस्यानुष्णकुण्टाश्च भवेन्मुखनिरीक्षकः ॥ चतुरः पेशलो दक्षः सूत्थानः पटुरुष्णकः । अथ चण्डालमातङ्गप्लवान्तवासिपुक्कसाः ॥ दिवाकीर्तिर्निषादश्च श्वपचोऽपि च जनाङ्गमः । पुक्कशो निषदोऽपि स्यात् तद्भेदाः शवरादयः ॥ शवराश्च किराताश्च पुलिन्दाः म्लेच्छजातयः । त एव पत्रशवरा दरदाः परदाश्च ते ॥ अथ व्याधो लुब्धकः स्यान्मृगयुर्मृगजीवकः । तथा मृगवधाजीवो मृगावित् वनपांशुलः ॥ कुक्कुरः श्वानभषकशुनकामृगदंशकः । कौलेयको रन्तिदेवः सारमेयो रतव्रणः ॥ कुर्कुरो दीर्घसुरतः श्वणो ग्राम्यमृगोऽपि च । वक्रपुच्छः शयालुः स्यात् शवकाम्यः तरत्रपः(?) ॥ औषधादियोगितः श्वा स्यादलकोऽप्यलर्ककः । मृगयाकुशलः श्वा तु विश्वकद्रुः पुमानयम् । कुक्कुरी सरमा श्वाना सारमेयी शुनी भषी ॥ युवापशुर्वर्करः स्याद् विट्चरो ग्राम्यशूकरः । आच्छोदनं मृगव्यं स्त्री मृगयाऽखेटकः पुमान् ॥ दक्षिणशब्दादीर्घस्य व्याधयोगेन नान्तता । दक्षिणाङ्गे व्रणं यस्य दक्षिणेर्मा मृगो भवेत् ॥ चौरो दस्युस्तस्करः स्यात् प्रतिरोधीमलिम्लुचः । स्तेनैकागारिकः स्तन्यप्रच्छन्नजनमोषकाः ॥ पाटच्चरः परास्कन्दी कुम्भिलः खनकोऽपि च । चोरः शङ्कितवर्णः स्यात्तथा खनिक इत्यपि ॥ कुजम्भिलः सुरङ्गाहिरधश्चौरः सुरुङ्गयुक् । वन्दीकारः माचलः स्यात् चिल्लाभो हठचौरकः ॥ काव्यचौरश्चन्द्ररेणुः स्त्रीचौरः रतहिण्डकः । भित्तिचौरः खानिलः स्यात् कुड्यच्छेद्यपि स स्मृतः ॥ सुरुङ्गा सन्धिला सन्धिस्तद्भेदा गोमुखादयः । ;p{0156} चौरी च चौरिका चौर्यं स्तैन्यं स्तेयञ्च वेत्यपि ॥ अथ चौरधने लोत्रं लोतं लोत्रञ्च लुप्तवत् । वीतंसं मृगपक्ष्यादिबन्धोपकरणेऽपि च । उन्माथः कूटयन्त्रं स्यादुन्मथः शूलयन्त्रके ॥ मृगबन्धनजाले तु वागुरा मृगबन्धनी । रज्जुः स्त्रियां त्रिषु वटी गुणः शुल्ववरा स्त्रियाम् ॥ उद्घाटनं घटीयन्त्रं कूपायुद्धारपात्रके । वापदण्डः पुंसि वेमा वेसो ना वेमनं द्वयोः ॥ सूत्रं क्लीबे च ना तन्तुः तर्कुः कपालनालिका । तर्कुशानः झामरः स्यात् तर्कुपीठी च वर्तिनी ॥ पिञ्जलस्तूलचापः स्यात् पञ्जिका तूलनालिका । तन्तुकाष्ठं तुलिः तुली तुरिस्तुरी च सम्मता ॥ तत्त्रञ्च तन्त्रवापोऽस्त्री तच्छलाका प्रवाणिका । वाणिक्रियायां वाणिः स्त्री वाणी च व्यूतिरित्यपि ॥ स्याद् वस्त्रशृङ्गदण्डाद्यैः कृता पुत्तलिका हि या । पञ्चालिका पुत्रिका सा पञ्चालीत्यपि कुत्रचित् ॥ पिटकः पेटकः पेटः पेटिका च तरिस्तरी । मञ्जुषापि च मञ्जूषा पेटा च पेडिकेत्यपि ॥ विहङ्गिका भारयष्टिस्तथा विहङ्गमेत्यपि । शिक्यं काचः पुमानेव शिक्या शिक् च भवेत् क्वचित् ॥ विवधा वीवधः पर्याहारभारभरा अपि ॥ उपानत् पादुका पादूः स्त्रियामेव त्रयं भवेत् । पन्नध्री स्यात् प्राणिहिता कोषी पादरथी च सा ॥ पदायता च सैवानुपदीना च भवेत् स्त्रियाम् । जलत्रा जङ्गमकुटी भ्रमत् कुट्यातपत्रकम् ॥ नद्ध्री वद्ध्री वरत्रा च त्रयं चर्मादिरज्जुषु । अश्वादेरपि ताडन्यां कश स्त्री ना प्रतिक्षणः ॥ ;p{0157} चाण्डालिका च चण्डालवीणा चण्डालवल्लकी । कटोलवीणा कण्डोली किन्नराह्वययन्त्रके । नारचिका च नाराची भवेदेषनिकैषिणी ॥ स्यात् पुंसि निकषः शासा आकषः कष इत्यपि । व्रश्चनः पत्रपरशुः स्यात् पत्रपर्शुरित्यपि । ईषिका तूलिका च स्यादेषिका च भवेत् स्त्रियाम् ॥ तैजसावर्तनी मूषा मूष आवर्तनीत्यपि ॥ भस्त्राका भस्त्रका भस्त्रा भस्त्री चर्मप्रसेविका । आस्फोटनी वेधनिका वेधनीत्यपि कुत्रचित् ॥ कृपानी कर्तरी कत्री तथा सन्दंशिकापि च । वृक्षादनो वृक्षभेदी निहनीडत्याह्व्ये द्वयम् ॥ पाषाणदारणः टङ्कः शिलाकुटुर इत्यपि । क्रकरक्रकचावस्त्री करपत्रं नपुंसकम् ॥ वासिर्वासी तक्षणी स्यात् कुङ्गचक्रभ्रमिः स्त्रियाम् । स्याल्लोहप्रतिमा स्थूणा शूर्मी च शूर्मिकेत्यपि ॥ शिल्पं कलादिकं कर्म आरा चर्मप्रभेदिका । प्रतिमानं प्रतिकृतिरर्ची प्रतिनिधिः पुमान् ॥ प्रतिबिम्बं प्रतिच्छाया प्रतिमा प्रतियातना । उपमोपमितिः स्त्री स्यादुपमानं नपुंसकम् ॥ समः समानः सदृशस्तुल्यः साधारणः सदृक् । सदृक्षश्चेति सप्तैते वाच्यलिङ्गाः समार्थकाः ॥ निभसङ्काशनीकाशप्रतीकाशप्रभोपमाः । कल्पभूताभरूपाद्याः स्युरुत्तरपदे त्रिषु ॥ वेतनन्तु विधा भृत्या कर्मण्या भरणं भृतिः ॥ भरण्यं भर्म निर्वेशो मूल्यञ्च पण इत्यपि । सुरा कादम्बरी हाला मदिरा च हलिप्रिया ॥ इरा गन्धोत्तमा मद्यं कश्यञ्च वरुणात्मजा । मालिका च प्रसन्ना स्यात् परिस्रूच्च परिस्रूता ॥ अवदंशः सुरापानं शुण्डापानं मदस्थलम् । पुनः पुनः सुरापाने मधुवारा मधुक्रमाः ॥ मध्वासवो माधवको माध्वीकं चषकं मधु । ;p{0158} सैरेयं सीधुकं सीधुः शीधुश्च मद आसवः ॥ गौडी यक्षरसो गोलं वाल्कली कापिशायनम् । नारिकेली तु नलिनी तालजा या तु तालकी ॥ भेदाः स्मरासवो वीरा मेदको जगलो गलः । सन्धानं स्यादभिषवः सन्धानी सन्धिकेत्यपि ॥ सुरावीजे तु किण्वं स्यात् नग्नहूश्च भवेत् पुमान् । कारोत्तरो मद्यमण्ड आपानं पानगोष्टिका ॥ पानपात्रञ्च सरकोऽनुतर्षोऽनुतर्षणम् । पारी स्त्रियान्तु पारीकं भवेत् चषकमस्त्रियाम् ॥ धार्तो धूर्तोऽक्षधूर्तः स्यादक्षदेवी दुरोदरः । द्यूतकृत् कितवो द्यूतकारः स्यात् कृष्णकोहलः ॥ लग्नकः प्रतिभूः पुंसि तुणमत्कु(ण) इत्यपि । सभीकः सभिकोऽपि स्याद् द्यूतकारक इत्यपि ॥ द्यूतोऽस्त्री कैतवञ्चाक्षवती पण-दुरोदरौ । पणोऽक्षेषु ग्लहः पुंसि अक्षदेवनपाशकाः ॥ सारिः शारिः सारशारौ पाशा इत्यपि कुत्रचित् । नयने सर्वमारीणां परिणायस्तु सर्वतः ॥ अष्टापदं शारिफलं फलकस्त्रयमस्त्रियाम् । चुञ्चुरी तिन्तिडी द्यूतं पञ्चनी शारिशृङ्खला ॥ नयपीठी चाष्टकाङ्गो नयः स्याद् जयपुत्रकः । एते पाशकभेदाः स्युर्जयकोलाहलोऽपि च ॥ मेषादिप्राणिद्यूते स्यात् साह्वयश्च समाह्वयः । भूम्यादिशूद्रवर्गान्ता दशैते सयुरिहोदिताः ॥ शब्दरत्नावलीकोषे भूकाण्डोऽयं द्वितीयकः ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां शूद्रवर्गप्रकाशः ॥} ;p{0159} ;k{भुवकाण्डः} ;v{प्राणिवर्गप्रकाशः} योषिद्दारकलत्राद्यैर्विशेष्यं प्रस्तुतं तु यत् । तल्लिङ्गवचनार्थाश्च क्रियाद्रव्यगुणादयः ॥ यथा सुकृतिनी स्त्रीयं दाराः सुकृतिनोऽपि च । कलत्रं सुकृति स्यात्तु विशेषविहितं विना ॥ सुकृती पुण्यवान् धन्यो धर्मी च धर्मवानपि । महाशयः महेच्छः स्यान् महानुभाव इत्यपि ॥ हृदयालुः सहृदयो भवेत् सुहृदयोऽपि च । प्रवीणो विज्ञनिष्णातनिपुनाभिज्ञशिक्षिताः ॥ वैज्ञानिकः कृतमुखस्तथा विज्ञानिकः कृती । कुशलः कुसलोऽपि स्यात् कुषलश्चापि कुत्रचित् ॥ पूज्यः प्रतीक्ष्य आर्यः स्यान्मान्यः पूजार्ह इत्यपि । अथ संशयिकोऽपि स्यात् संशयापन्नमानसः ॥ दक्षिणार्हः दक्षिणीयो दक्षिण्योऽपि निगद्यते । वदान्यश्च स्थूललक्षः स्थूललक्ष्यो बहुप्रदः । दानवीरो दानशौण्डो दानपूर्णोऽपि कुत्रचित् । आयुष्मानपि दीर्घायुर्भवेज्जैवातृकोऽपि च ॥ अन्तर्वाणिः शास्त्रदर्शि-शास्त्रविच्छास्त्रचारिणः । परीक्षकः कारणिकः परीक्षाकार इत्यपि ॥ समर्धकः समर्धः स्यात् वरदो वाञ्छितार्थदे । हर्षमाणो विकुर्वाणः प्रमणाः प्रीतमानसः ॥ विमना दुर्मना अन्तर्मना दुःखितमानसे । स्यादुत्क उन्मनास्तु स्यादुत्कण्ठायुक्तमानसे ॥ ख्यातप्रथितविज्ञातप्रतीतवित्तविश्रूताः । गुणैः ख्यातेऽपि च कृतलक्षणाहितलक्षणौ ॥ धनयुक्ते तु धनवान् इभ्य आट्यो धनीत्यपि । ईश्वरो नायकः स्वामी प्रभुः परिवृटोऽपि च ॥ अधिभूरधिपो नेता पालकः पतिरीशिता । अधिकर्धिः समृद्धः स्यादतिसम्पत्तिशालिनि ॥ भवेदभ्यागारिकस्तु कुटुम्बव्यापृते जने । तस्मिन्नुपाधिः पुंस्येव क्लीबादिकविशेषणे ॥ स्यात् सिंहसंहननो वराङ्गरूपसंयुते । निर्वार्यः कार्यकर्ता यः सत्त्वसम्पत्तिसङ्गतः ॥ मनोजवः पितृनिभः स्यान्मूकोऽवाचि कथ्यते । ;p{0160} कूकुदोऽलङ्कृतां कन्यां सत्कृत्य यो ददाति सः ॥ श्रीमान् श्रीलश्च लक्ष्मीवान् लक्ष्मणः श्रीयुते जने । स्निग्धस्तु वत्सलो वत्स-स्नेहयुक्तजने भवेत् ॥ कृपालुः स्यात् कारुणिको दयालुः सूरतोऽपि च । स्वच्छन्दोऽपावृतः स्वैरी स्वतन्त्रो निरवग्रहः ॥ पराधीनश्च परवान् परतन्त्रश्च नाथवान् । आयत्तो गृह्यको निघ्नोऽस्वच्छन्दोऽधीन इत्यपि ॥ खलपुः स्याद् बहुकरो भूमिसम्मार्जकोऽपि च । चिरक्रियो दीर्घसूत्रश्चिरकालस्थिरक्रिये ॥ जाल्मोऽसमीक्ष्यकारी स्याद्बुद्ध्वा कर्मकारके । कायेषु मन्दे कुण्ठः स्यात् सन्देहाकुलितेऽपि च ॥ कर्मक्षमोऽलंकर्मोणः सर्वकार्यक्षमे जने ॥ कर्मशीलो भवेत् कार्मः क्रियावान् कर्मसूद्यतः । कर्मठः कर्मशूरः स्यात् कर्मशासन इत्यपि ॥ भरण्यभुक् कर्मकरो वैतानः कर्मकर्तरि । स्वकीयकार्यकर्ता यः कर्मकारोऽपि स स्मृतः ॥ आमिषाशी शौष्कलः स्यात् शुष्कलोऽपि निगद्यते । बुभुक्षितो जिघत्सुः स्यात् क्षुधितोऽप्यशनायितः ॥ परान्नः परपिण्डादः परभक्तोऽपि स स्मृतः । भवेत् भक्षणपरे तु घस्मरो भक्षकोऽद्मरः ॥ स्यादौदरिक आद्यूनो विजयेच्छाविवर्जिते । आत्मम्भरिर्भवेत् कुक्षिम्भरिः स्वोदरपूरके ॥ सर्वान्नीनस्तु सर्वान्नभोजी सर्वान्नभक्तरि । लुब्धो गृध्नुर्गर्धनोऽपि स्यात् तृष्णगभिलाषुकः ॥ मत्ते शौण्डोत्कटक्षीवा अविनीते समुद्यतः । कामुके कमिताभीकः कम्रः कामयिताभिकः ॥ अनुकः कमनः कामः कामी च कामिरित्यपि । आश्रवो विनयग्राही विधेयः वचने स्थितः ॥ वश्यो वशः प्रणेयः स्यात् प्रगल्भः प्रतिभायुते । अधृष्टस्त्वप्रगल्भः स्यात् शालीनोऽप्रतिभोऽपि च ॥ धृष्टो धृष्णुर्वियातश्च तथा धर्षित इत्यपि । स्याद् विनीते तु निभृतः प्रश्रितोऽपि निगद्यते । ;p{0161} स्याद् विलक्षो विलक्ष्यश्च विस्मयान्वित इत्यपि । अधीरः कातरोऽपि स्यात् द्वयं धैर्यविवर्जिते । स्यात् त्रस्नुर्भीरुको भीरुर्भीलुर्भीलुक इत्यपि । स्यादाशंसुक आशंसुर्भवेदाशंसिता च सः ॥ पातुकः पतयालुः स्यात् श्रद्धालुः श्रद्धयान्वितः । लज्जाशीलो लज्जितः स्यादपत्रपिष्णुरित्यपि ॥ अभिवादस्तु वन्दारुरभिवादयितापि च । घातुको हिंसको हिंस्रः शरारुरपि हन्तरि ॥ वर्धिष्णुर्वर्धनोऽपि स्यात् द्वयं वर्धनशीलके । अलंकर्ताऽलंकरिष्णुर्मण्डनोऽपि च भूषके ॥ उत्पतिता चोत्पतिष्णौ वर्तिष्णौ वर्तनोऽपि च । भविष्णुर्भविता भृष्णौ सान्द्रस्निग्धे तु मेदुरः ॥ क्षिप्नुर्निराकरिष्णौ स्यात् विकासिनि विकस्वरः । वेदिता विदुरो विन्दुर्ज्ञाता ज्ञानसमन्विते ॥ प्रसारी स्याद् विसृमरो विसारी स्यात् विसृत्वरः । तितुक्षुः क्षमिना क्षन्ता सहिष्णुः सहनः क्षमी ॥ क्रोधनः कोपनः कोपी तथाऽमर्षण इत्यपि । अत्यन्तकोपने चण्डो घूर्णिते प्रचलायितः ॥ जागरूको जागरिता द्वयं जागरशीलके । निद्राशीले तु निद्रालुः शयालुः स्वप्नगित्यपि ॥ निद्राणः शयितेऽपि स्यात् पराचीनः पराङ्मुखः । अवाङधोमुखः स्यात्तु देवद्र्यङ् देवपूजकः ॥ विश्वगञ्चति विश्वद्र्यङ् सध्र्यङ् यश्च सहाञ्चति । यस्तिरोऽचति तिर्यङ् स्यादुदङ् यश्चोर्ध्वमञ्चति ॥ यः समञ्चति सम्यङ् स्यादद्रङ् त्वमुकञ्चति । वदावदो वदो वक्ता त्रयं सामान्यवक्तरि ॥ वाग्ग्मी वाग्मी वावदूको वाचोयुक्तिपटुस्तथा । वागीशो वाक्पतिश्चेति षडेते सुष्टुवक्तरि ॥ वाचाटोऽपि च वाचालो जल्पाको बहुगर्हवाक् ॥ मुखरो दुर्मुखोऽपि स्यादबद्धमुख इत्यपि । शक्लः प्रियम्वदे ख्यातः लोहलोऽस्फुट्वाग् भवेत् ॥ ;p{0162} कद्वदो गर्ह्यवादी च द्वयं निन्दितवादिनि । स्यात् कुवादः कुवचनः कुचरोऽपि निगद्यते ॥ स्यादशान्तस्वरोऽसौम्यस्वरश्चास्वर इत्यपि । खणः शब्दने नान्दीवादी नान्दीकरेऽपि च ॥ देशकः शासिता शास्ता त्रयं शासनकर्तरि । अथ सर्वत्रकर्तव्यं संमूटेऽज्ञो जडो जलः ॥ एडमूकोऽनेडमूकः श्रोतुं वक्तुमशिक्षिते । साम्यः सौम्यो हितप्राये दीर्घे तु व्यायतायतौ ॥ हर्षणो हर्षकोऽपि स्यात् पूरणः पूरकोऽपि च । प्रतिवेशी प्रतीवेशी चासन्नगृहमेधिनि ॥ आमुष्यायणनिर्णीतौ प्रसिद्धपितृकोऽपि च । निरुत्तरे तु तुष्णीकः तुष्णींशीलोऽपि कथ्यते ॥ वस्त्रहीने तु नग्नः स्यादवासाश्च दिगम्बरः । निष्कासितश्चावकृष्टो भवेत् निर्गमिते जने ॥ धिक्कृतः स्यादवध्वस्तो धिक्कारभर्त्सिते भवेत् । अभिभूतश्चात्तगर्वो वैरादिभग्नगर्वके ॥ दायितो दापितोऽपि स्यात् साधितः शोधितोऽपि च । अधिक्षिप्ते प्रतिक्षिप्तो बद्धे संयतकीलितौ ॥ स्यादापत्प्राप्ते आपन्नः संप्राप्तेऽपि च कुत्रचित् । भयद्रुतः कान्दिशीकः भवेद्भयपलायिते ॥ अभिशस्ते क्षारितश्च भवेदाक्षरितोऽपि च । अस्थिरे स्यात् सङ्कसूको विहस्तः व्याकुले भवेत् ॥ उपरक्तो व्यसनार्ते विक्लवो विह्वले मतः । अथ कश्यः कशार्हे स्यात् विवशोऽरिष्टदुष्टधीः ॥ आततायी स हि भवेत् सन्नद्धो यो वधोद्यतः । अथ द्वेष्यश्चाक्षिगतो द्वेषयोग्ये भवेद्द्वयम् ॥ शीर्षच्छेद्यश्च वध्यश्च वधार्हे द्वितयं भवेत् ॥ ;p{0163} मुषल्यो मुषलैर्वध्यो विषेण विष्य इत्यपि । शिश्विदानः कृष्णकर्मा द्वयं मलिनकर्मणि ॥ दोषैकदृक् पुरोभागी दोषमात्रप्रदर्शके । वक्राशये तु निकृतः कुटिलश्चालनृजुः शठः ॥ कर्णेजपः सूचकः स्यादनौचित्यप्ररोचके । परस्परं भेदशीलः पिशुनो दुर्जनः खलः ॥ क्रूरः पापो नृशंसस्तु घातुकः द्रोहशीलके । स्यात् प्रतारणशीले तु धूर्तो वञ्चुकवञ्चकौ ॥ मूर्खो मूढाज्ञवैधेययथाजाताश्च वालिशः । कदर्ये कृपणः क्षुद्रः किम्पचानः मितम्पचः ॥ दरिद्रो दुर्विधो दीनो निस्वो दुर्गत इत्यपि । याचकोऽर्थी याचनको मार्गणश्च वनीयकः ॥ वनीपको भिक्षुकश्च स्याद् भिक्षाकर इत्यपि । अहङ्कारान्वितोऽहंयुः शुभंयुः स्यात् शुभान्वितः ॥ दिव्योपपादुका देवा यस्मादयोनिजाश्च ते । गोमनुष्यतुरङ्गाद्या स्नेहि सर्वे जज्ञयुजाः ॥ अण्डजाः पक्षिसर्पाद्या घर्मजा मशकादयः । ;c{इति प्राणिवर्गः ॥} ;k{विशेषणवर्गप्रकाशः} भुवमुद्भिद्य जायन्ते तरुगुल्मतृणादयः ॥ तेनैवोद्भिदमुद्भिज्जमुद्भिदिति निगद्यते । सुन्दरं शोभनं साधु मञ्जु कान्तं मनोरमम् ॥ मनोज्ञं मञ्जुलं चारु बन्धूरमपि वन्धुरम् । पेशलं पेमलं वामं सुषमञ्च मनोहरम् ॥ रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् । विज्ञेयमासेचनकमासेचनकमित्यपि । यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् । दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥ अधमस्तु निकृष्टोऽर्वा कुपूयः कुत्सितोऽवमः । खेटगर्ह्यावद्ययाप्या अणकः रेकरेपसौ ॥ रेफकाण्डौ गर्हितः स्यात् प्रतिकृष्टः प्रकृष्टकः । मलीमसः कच्चरः स्यात् मलिनौ मलदूषितः ॥ ;p{0164} पूतं मेध्यं पवित्रं स्याद् वीध्र प्रयतनिर्मलम् । निःशोध्यं शोधितं मृष्टं निर्णिक्तमनवस्करम् ॥ असारं फल्गु निःसारं निष्फलञ्चापि कुत्रचित् । शून्यं शुन्यं तुच्छमृक्तं रिक्तं वशिकमीरितम् ॥ अथातिशोभने मुख्यं श्रेष्ठपुष्कलसत्तमाः । वरेण्यः प्रमुखः श्रेयान् अग्रप्राग्रहरोत्तमाः ॥ प्रग्रहोऽनुत्तमोऽग्रीयः प्रवेकाग्र्याग्रिया अपि । परार्ध्योऽनवरार्ध्योऽपि प्रधानं प्रवीरमित्यपि ॥ श्रेष्ठार्थवाचकाः पुंसि स्युरुत्तरपदेष्वमी । शार्दूलसिंहनागाद्याः कुञ्जरर्षभपुङ्गवाः ॥ अप्राग्र्यं न द्वयोरेते अप्रधानोपसर्जने । बृहद्विशालपृथुलं महत् पृथुविशङ्कटकम् ॥ पूलं विपुलवड्रोरुविस्तीर्णे दशकं भवेत् । अथ स्थूले भवेत् पीनं पीवा पीवरमित्यपि ॥ अल्पे स्तोकक्षुल्लसूक्ष्मं क्षुल्लकञ्च कृशं तनु । दभ्रं क्षुल्वं क्षुल्वकञ्च स्त्रियां मात्रा त्रूटी कणा ॥ पुमानणुर्लवोलेश कणोऽपि च निगद्यते । बहुले प्रचुरे प्राज्यं प्रभूतं पुरुहंपुरु ॥ स्फिरंभू यश्च भूपिष्ठमदभ्रं बहुभूरि च । शतादिकात् परा संख्या येषां ते तु परः शताः ॥ एवं परः सहस्राद्या विज्ञेयाः शब्दवेदिभिः । गणेयं गणनीये तु संख्याते गणितं भवेत् ॥ अथ सर्वं समं विश्वमशेषं निखिलाखिलम् । समस्तं सकलं कृत्स्नं समग्रं स्यादनूनकम् ॥ स्यादखण्डञ्च निःशेषमनन्तं पूर्णमित्यपि । निरन्तरं घनं सान्द्रं विरलं पेलवं तनु ॥ समीपेऽभ्यास आसन्नः सवेशः सन्निकृष्टवत् । अन्तोऽन्तिकः समर्यादः सनीडः सदेशवत् ॥ अभ्यग्राभ्यर्णसविधा उपकण्ठोऽभितोऽव्ययम् । ;p{0165} अथाव्यवहितं लग्नं संसक्तमपदान्तरम् ॥ नेदिष्ठमन्तिकतममत्यन्तनिकटे द्वयम् । विप्रकृष्टमनासन्नं दूरे स्याद् दीर्घमायते ॥ सुदूरन्तु दविष्टं स्याद् दवीयश्चापि तद्भवेत् । वर्तुले निस्तलं वृत्तं मण्डलायितमित्यपि ॥ स्वभावादुन्नतं कार्यवशान्नतञ्च बन्धुरम् । उच्चे तुङ्गोन्नतप्रांशूच्छ्रितोदग्रास्तथोच्चकैः ॥ वामने ह्रस्वखर्वन्यङ्नीचा नीचैस्तथाव्ययम् । आनते स्यादवाग्रन्तु भवेदवनतोऽपि च ॥ कुटिले वृजिनं जिह्ममरालं कुञ्चितं नतम् । आविद्धमूर्मिमद्वक्रं भुग्नं वेल्लितमित्यपि ॥ बन्धूरबङ्क्यविनतं क्वचिद् बन्धुरमित्यपि । ऋजौ तु प्रगुणाजिह्मौ व्यस्ते चा प्रगुणाकुलौ ॥ नित्ये ध्रूवः शाश्वतश्च सदातनसनातनौ । अथ स्थेयान् स्थिरतरः स्थास्नुर्दृटतरोऽपि च ॥ कूटस्थः एकरूपेण कालव्यापी तु यो भवेत् । स्थावरो जङ्गमाद् भिन्नो भूभृद् भूमिरुहादिकः ॥ चराचर एसमिङ्गं चरिष्णुश्चरजङ्गमौ । चलनः कम्पनः कम्प्रः त्रयं चलनशीलके ॥ चलं पारिप्लवं लोलं चञ्चलञ्च परिप्लवम् । चलाचलञ्च तरलं भवेत् चलनमात्रके ॥ अतिरिक्तः समधिके दृढसन्धौ तु संहतः । कठोरं कठिनं दृटं कक्खटं जरठं दृढम् ॥ निष्ठुरं मूर्तिमन्मूर्तं जठरं कमठायितम् । प्रवृद्धमेधितं प्रौटे ईषदर्थे वरोवरम् ॥ प्रवीनं प्रतनं प्रत्नं चिरन्तनपुरातने । नवीननूत्रनव्याश्च प्रत्यग्रो नूतने नवः ॥ सुकुमारं मृदु भवेत् मृदुलञ्चापि कोमलम् । अनुगेऽन्वक्षमन्वक् चानुपदं क्लीबमव्ययम् ॥ ;p{0166} ऐन्द्रिकयन्तु प्रत्यक्षे चाप्रत्यक्षेऽप्यतीन्द्रियम् ॥ अनन्यवृत्तिरेकाग्र्य एकायनगतोऽपि च । एकाग्रैकायनावेकतानः स्यादेकसर्गवत् ॥ प्रथमे पूर्वपौरस्त्यौ भवेदादिः पुमानिह । अन्तोऽस्त्रियान्तु चरमं स्याद् जघन्यान्त्यपश्चिमम् ॥ मोघे निरर्थकं स्पष्टे प्रव्यक्तं स्फुटमुल्वणम् । समं समानं सामान्यं स्यात् साधारणमित्यपि ॥ भवेदेकक एकाकी त्वेक एकल इत्यपि । भिन्नोऽन्यतर एकः त्वो नेमोऽन्य इतरोऽपि च ॥ भवेदेकतरोऽप्यस्मिन् अष्टकं भिन्नवाचिनि । उच्चावचं नैकभेदः स्यादनेकप्रकारके ॥ अविलम्वितमुच्चन्तं त्वरायुक्ते भवेद् द्वयम् । अरुन्तुदन्तु मर्मस्पृक् द्वितयं मर्मपीडके ॥ निरर्गलमबाधं स्यात् द्वयं बाधाविवर्जिते । प्रतिकूले प्रसव्यं स्यादपसव्यमपष्ठु च ॥ पराचीनं प्रतीपञ्च विपरीतञ्च कुत्रचित् । देहस्य वामे सव्यं स्यादपसव्यन्तु दक्षिणे ॥ अल्पावकाशे द्वितयं सम्बाधः पुंसि सङ्कटम् । दुष्प्रदेशे तु कलिलं गहनञ्च भवेद् द्वयम् ॥ व्याप्ते सङ्कीर्णमाकीर्णं समाकीर्णञ्च सङ्कुलम् । मुण्डितं वापितञ्चापि परिवापितमित्यपि ॥ ग्रथिते ग्रन्थितं दृब्धं विस्तृते विसृतं ततम् । विस्मृतेऽन्तर्गतं प्राप्ते प्राप्तं प्राणिहितञ्च तत् ॥ कम्पिते चलिताधूतवेल्लितप्रेङ्खिताधुतम् । व्याधूतं विधुतं धूतमाकम्पितविकम्पितम् ॥ क्षिप्ते तु नुन्ननुत्तास्तनिष्ठ्यूताविद्धमीरितम् । निवृतन्तु परिक्षिप्तमतिक्षिप्ते भवेद् द्वयम् ॥ ;p{0167} मूषितं मुषितञ्चैव चौर्यार्थे खण्डितेऽपि च । स्यात् प्रवृद्धं प्रसृतञ्च द्वितयन्तु प्रसारिते ॥ न्यस्तो निसृष्टः स्थाप्ये स्यात् आहतं गुणिते भवेत् ॥ स्यान्निदिग्धमुपचिते गूढं गुप्तञ्च गोपिते । रूषितं गुण्डितञ्चैव म्रक्षिते तु भवेद्द्वयम् ॥ अथ द्रुतञ्चावदीर्णं द्रवीभूते निगद्यते । काचितं शिक्यितं शिक्यसमारोपितवस्तुनि ॥ घ्राणञ्च शिङ्घितं घ्राते दिग्धं लिप्तं विलेपिते । समुदक्तमुद्धृते स्याद् भग्नं रुग्ने निगद्यते ॥ स्याद् वेष्टिते वलयितं रुद्धं संवीतमावृतम् । तेजितं निशितं शातं क्षुतं शानादिमार्जिते ॥ स्याद् विनाशोन्मुखं पक्वं ह्रीणं ह्रीतञ्च लज्जिते ॥ वावृत्तञ्च वृतं वृत्तं कृतसम्वरणे त्रयम् । पदार्थान्तरसंयुक्ते संयोजितमुपाहितम् ॥ प्राप्यं गम्यं समासाद्यं प्राप्तव्ये तु भवेत् त्रयम् । स्यन्नः स्रूतः स्नुतो रीणश्चतूष्कं द्रवसंयुते ॥ संगूटः स्यात् संकलितो लेख्यादिसंवृतीकृते । विख्यातगर्हासंयुक्तेऽवगीतः ख्यातगर्हणः ॥ नानारूपे बहुविधो विविधश्च पृथग्विधः । अवरीणः धिक्कृते स्यादवध्वस्तोऽवचूर्णिते ॥ फाण्टमनायासकृते स्वनिते ध्वनितं भवेत् । उद्दितं सन्दितं बद्धं सूतं सन्दानितं सितम् ॥ निष्पक्वं क्वथितञ्चैव निःशेषपाकसंयुते । क्षीराज्यपयसां पाके शृतमेव निगद्यते ॥ निर्वाणस्तु मुनौ वह्नौ प्रदीपादिषु कुत्रचित् । गतेऽनिले तु निर्वातः पक्वं परिणते भवेत् ॥ गूनं हन्नं हागाते स्यात् सूत्रिते मीटमित्यपि । अथ स्यात् पूषितः पुष्टे त्वार्दितः प्रार्थिते भवेत् ॥ ;p{0168} ज्ञाते तु ज्ञापितो ज्ञप्तः छादिते छन्न इत्यपि । अञ्चितः पूजितश्चेति भवेद् द्वितयमर्चिते ॥ आप्यायिते तु पूर्णः स्यात् पूरितः पूर्णतान्विते । स्यात् क्लिष्टः क्लिशितश्चेति भवेत् क्लेशयुते द्वयम् ॥ सितञ्चावसिते दग्धे प्रूष्टं प्लुष्टं तथोषितम् । तनूकृते त्वष्टतष्टौ विद्धे छिद्रितवेधितौ ॥ विचारिते विन्नवित्तौ विगतारोकमप्रभे । द्रवीभूतघृतादौ तु विलीनं विद्रुतं द्रुतम् ॥ सिद्धनिर्वृत्तनिष्पन्नास्त्रयं निष्पत्तिमागते । अथ भिन्नं भेदितञ्च दारितञ्च विदारिते ॥ अथ तन्तुसन्तते स्यादूतः स्यूत उतोऽपि च । नमस्यितं नमसितमपचायितमर्चितम् । अर्हितं स्यादपचितं नमस्कारप्रपूजिते ॥ सेविते वरिवसितो वरिवस्यित इत्यपि । उपासितोपचरितौ गुर्वादौ समुपासिते ॥ दूनः सन्तापितस्तप्तः धूपायितश्च धूपितः । प्रीतः प्रमुदितस्तृप्तः प्रह्लन्नहृष्टमत्तवत् ॥ छातच्छिन्नलूनकृत्तवृक्नदातदितच्छिताः । स्रस्तध्वस्तच्युतस्कन्नगलितभष्टपन्नवत् ॥ लब्धप्राप्तविन्नभूतभावितासादिता अपि । मार्गितान्विष्टमृगितमन्वेषितगवेषितम् ॥ सार्द्रास्तिमिता क्लिन्नतिमितोत्तसमुन्नवत् । त्राणो गोपायितस्त्रातो गुप्तश्चारितरक्षितौ ॥ परिभूतमवज्ञातमवमानितमित्यपि । अप्रस्तुतावगणितं तथावमतमित्यपि ॥ त्यक्तं हीनञ्च विधुतं धूतोत्सृष्टसमुज्झितम् । भाषितोक्तोदिताख्यातलपिताभिहितजल्पितम् । विदितं बूधितं बुद्ध मनितं प्रतिपन्नवत् ॥ भवेदवगतञ्चैव तथावसितमित्यपि । अङ्गीकृते प्रतिज्ञानं संश्रुतं विदिताश्रुतौ ॥ ;p{0169} उरीकृतञ्चोपगतं संगीर्णमुररीकृतम् । अथाभ्युपगतञ्चेति प्रतिश्रुतसमाहिते ॥ स्यात् स्फूर्तिमति चिद्रूपः पिण्डिते गुणितो भवेत् । तत्रभवान् अत्रभवान् श्लाघ्ये पूज्ये च कथ्यते ॥ बन्धुदग्धे च हतकः खट्वारुटोऽविनीतके ॥ गौरवितस्त्वार्यमिश्रो द्वितयं गौरवान्विते । करम्बितं खचितञ्च व्याप्ते सूक्ष्मे सरुः स्मृतः ॥ स पात्रे समितोऽन्यत्र भोजनात् मिलितो न यः । स्याद् देवानांप्रियः क्षेपे लड्डो लड्ढश्च दुर्जने । पाकिमं पक्त्रिमेऽपि स्यात् अन्तर्गडुनिरर्थकम् ॥ स्यादागन्तुकमाहार्यम् अधिकारश्चयोरपि (?) । व्युत्पन्नः संस्कृते पूर्णे पूरितं भरितं भूतम् ॥ स्फुटे प्रकाशप्रकटौ नगडश्चारुबन्धने । ईलितः प्रणुतः शस्तः पणायित्-पणायितौ ॥ पणितः पणितो गीर्णः वर्णिताभिष्टुतेरिताः । भक्षितश्चर्वितो लिप्तः प्सातो गिलितखादितौ ॥ गग्धोऽन्नः प्रत्यवसितो भुक्तोऽभ्यवहृतोऽपि च । भवेद् ग्रस्तोऽशितो ग्लस्तस्तथाजक्षित इत्यपि ॥ क्षेपिष्ठ उक्तः क्षिप्रार्थे क्षुद्रे क्षोदिष्ठ इत्यपि । अभीप्सिते तु प्रेष्ठः स्याद् वरिष्ठः पृथुलार्थके ॥ स्थविष्ठाः पीवरार्थे स्यात् बंहिष्ठो बहुलार्थके । साधिष्ठोऽपि भृशार्थे स्याद् द्राघिष्ठो दीर्घतार्थके ॥ स्फेष्ठो भवति बह्वर्थे गरिष्ठो गुरुतार्थके । वामनार्थे ह्रसिष्ठः स्याद् वृन्दिष्ठो देवतार्थके ॥ क्षेपिष्ठादिः प्रकर्षार्थः साधिष्ठादिर्भृशार्थकः । भट्टारकस्तु भट्टारो भगवान् पूज्य इत्यपि ॥ आसीन उपविष्टे स्यात् चक्षुष्यः प्रियदर्शने । विदग्धे नागरोऽणुकः शिथिले प्रश्लथः श्लथः ॥ षिड्गः व्यलीकः षट्प्रज्ञः कामकेलिर्विदूषकः । षट्प्रज्ञो लोकतत्त्वार्थचतुर्वर्गेषु यस्य धी ॥ ;p{0170} नास्तिको दुर्दूरूटः स्यात् सकर्णः श्रुतितत्परे । शङ्कितश्चकितो भीते तर्षितस्तृषितः सतृट् ॥ भवेदुद्भट उत्ताल उड्डामरक इत्यपि । पुत्रान्नभक्षके स्यातां पुत्रान्नादकुटीचकौ ॥ विषमे स्थपुढः प्रोक्तः प्रपन्ने शरणागतः ॥ समञ्जसे समीचीनो भविल-छिदुरौ विटे । मेधान्विते च मेधावी तथा मेधिर इत्यपि ॥ स्वस्त्रीदातरि भार्याटः पार्श्वकः सन्धिजीवके । वाच्याभिधायिनि जने पृष्ठमांसाद इत्यपि ॥ कृपणे दृढमुष्टिः स्यात् शक्तः स्यात् प्रबलेऽपि च । धूर्ते स्थगश्च निर्लज्जः पटुः पाटविकोऽपि च ॥ मध्यस्थे च वपुष्ठः(?) स्याद् व्यंसितस्तु प्रतारिते । स्यात् कथङ्कथिकः प्रष्टा जिज्ञासाकारिणि द्वयम् ॥ पापक्रवेऽप्यपसदोऽधमो धर्महीनके । ;c{(अतः परम् . . . . . . स्यात् स्फूर्तिमति चिद्रुप इत्यारभ्य निगडश्चारुबन्धने इत्यन्तपुनरुक्तः पाठो दृश्यते ।)} ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां विशेषणवर्गप्रकाशः ॥} ;p{0171} ;k{सङ्कीर्णवर्गप्रकाशः} प्रकृत्यर्थेन च क्वापि प्रत्ययार्थेन कुत्रचित् । रूपभेदादिभिः क्वापि सङ्कीर्णे लिङ्गमुन्नयेत् ॥ कर्मक्रिया कृतिः कृत्या विधानञ्च विधिः स्त्रियाम् । क्रियावताञ्च सातत्ये भवेयुरपरस्पराः ॥ क्रिया सातत्यमात्रे स्यादपरस्परमित्यपि । भवेत् साकल्यवचने पारायणमिति स्फुटम् ॥ आसङ्गवचने स्यात्तु परायणमपि त्रिषु । वृत्तिर्विनाभिसन्धानं यदृच्छास्वैरिता च सा ॥ स्थितिः कारणश्रुसय्या हि विलक्षणमिहोदितम् । प्रशमोपशमौ शान्तिः प्रशान्तिः शमथः शमः ॥ दमथस्तु दमो दान्तिग्लान्यां प्रग्लानिरित्यपि ॥ वृत्तं कर्मावदानं स्यात् कन्यादाने प्रवारणम् । वशक्रिया संवदनं भवेत् संवननञ्च तत् ॥ विधूनने विधूवनं मूलकर्मणि कार्मणम् । अवमानमपमाने तर्पणे प्रीणनावने ॥ परित्राणे तु पर्याप्तिः तथा च हस्तवारणम् । अनुमा स्यादनुमितिस्तथानुमानमित्यपि ॥ सीवनं सेवनं स्यूतिः स्यादूतिर्व्यूतिरित्यपि । विदारणञ्च विदरो दारणं स्फुटनं भिदा ॥ अभिषङ्गस्तु शापः स्त्री गालिराक्रोशनं तथा । भवेदनुभवे पुंसि संवेदो वेदना न ना ॥ संमूर्छनमभिव्याप्तौ छेदने वर्धनं भवेत् । भिक्षार्थना प्रार्थनञ्च स्याद् याच्ञा याचनार्दना ॥ स्यातामाप्रच्छने च द्वे प्रानन्दनसभाजने । आम्नायः सम्प्रदाये स्याद् क्षयमात्रे क्षयः क्षिया ॥ भवेदुच्छ्वास आश्वासे तेवनं देवनेऽपि च । ग्रहग्राहौ च ग्रहणे निर्बन्धे च समीरितौ ॥ वशः कान्तौ रणक्वाणौ क्वणिते च भ्रमिर्भ्रमो ॥ रक्ष्नस्त्राणे व्यधो वेधे वरणे तु वृतिर्वरः । पचा पाको निपाकश्च पचने तु भवेत् त्रयम् ॥ ओषः प्लोषश्च दाहे स्यात् ज्यानिः जीर्णिश्च हानिषु । आह्वानेषु हवो हूतिः स्फातिर्वृद्धौ स्नवः स्रवे ॥ ;p{0172} स्पृष्टिः पृक्तिः स्पर्शने स्यात् नये नायो भवेदिह । प्रमा प्रमाणं प्रमितौ प्रथा ख्यातौ निगद्यते ॥ विधा समृद्धौ प्रस्रावे स्रावस्रवस्रूवा अपि । स्फरणं स्फुरणे क्लान्तौ क्लमथः क्लम इत्यपि ॥ श्चोतः प्राधार इत्येवं घृतादिस्यन्दिते द्वयम् । प्रसूतिः प्रसवः प्राणिगर्भमोचनके द्वयम् ॥ उत्कर्षः स्यादतिशये कथितो जयने जयः । आशयो विषयोऽपि स्यात् द्वितयो नित्यसेविते । क्षेपणे तु क्षिपाश्लेषे सन्धिः गूण्णमुद्यमे ॥ गीर्णिर्गिरश्च गिरणे ज्ञाने तून्नाय उन्नयः । उद्वेग उद्भ्रमेऽपि स्यात् श्रायस्तु श्रयणो मतः ॥ मादो मदो मत्ततायां निगादो निगदेऽपि च ॥ विमर्दनं विमर्दश्च भवेत् परिमलोऽपि च ॥ अनुग्रहोऽभ्युपपत्तिर्निग्रहस्तद्विरुद्धकः ॥ कलहादिसमाह्वानमभियोगस्त्वभिग्रहः ॥ इश्चनादौ(?) घातकानां डिम्बे डमरविप्लवौ । अस्त्रादिकलहे केचित्त्रयमेतत् प्रचक्षते ॥ मुष्टिबन्धे च संग्राहः खटका मुष्टिकेऽपि च ॥ प्रसितिर्बध्यते येन बन्धनञ्चार इत्यपि । स्पर्शः स्प्रष्टोपतप्ता च रोगभेदे निगद्यते ॥ निकारो विप्रकारश्च खलीकारो निगद्यते । निकारे विप्रकारश्च खलीकारोपकारयोः(?) ॥ अथाभिप्रायानुरूपक्रियाविष्करणेऽपि च । भृकुट्याद्यङ्गविकृतावाकार इङ्गइङ्गितम् ॥ विकारे परिणामस्तु समे विकृतिविक्रिये ॥ चयभङ्गादपचयस्तथापहार इत्यपि । राशौ द्वयोर्बहूनाञ्च समाहारः समुच्चयः ॥ अथ स्व स्व विषयेभ्य इन्द्रियाकर्षणे द्वयम् । प्रत्याहार उपादानं प्रत्याहरणमित्यपि ॥ पद्भ्यां गमनभेदे तु विहारः स्यात् परिक्रमः । अथ संग्रहसंग्राहौ संक्षेपे ग्रहणेऽपि च ॥ अभिहारोऽभिग्रहणे चाभियोगेऽपि कुत्रचित् । ;p{0173} निःसारापकर्षणे तु निर्हारोऽभ्यवकर्षणम् । अनुहारोऽनुकारश्च सादृश्ये द्वितयं भवेत् ॥ व्ययो वित्तसमुत्सर्गे प्रवहोऽपगमनं वहिः । प्रवाहस्तु प्रवृत्तिः स्यादनवच्छिन्नसन्ततौ ॥ संयामः संयमः यामः वियामो यम इत्यपि । अथाभिचारोऽथर्वादिहिंसैकफलकर्मणि ॥ निद्राक्षये तु जागर्या जागरा जागरोऽपि च । विघ्नेऽन्तरायप्रत्यूहावुपघ्नो निकटाश्रये ॥ उपभोगे तु निर्वेशः पर्यवस्था विरोधनम् । परिक्रिया परिमर्शः स्याज्जलादिकवेष्टने ॥ प्रविश्लषस्तु विधुरं दुःस्थितत्वे द्वयं भवेत् । छन्दाशयावभिप्राये स्थितौ चास्यासनापि च ॥ संक्षेषनं समसनं विस्तीर्णार्थादिसंग्रहे । परिसर्या परिसारः सर्वभूसरणे द्वयम् ॥ विस्तीर्णतायां विस्तारो विग्रहो व्यास इत्यपि । विस्तरः शब्दसम्बन्धी लोकात्तुगुणविस्तरः ॥ संवाहनं मर्दनञ्च स्यात् संवहनमित्यपि । गुप्तस्थितौ विनाशस्तु स्याददर्शनमित्यपि ॥ संस्तवः स्यात् परिचयस्तथा प्रणय इत्यपि । वर्धने विटपादीनां प्रसरः परिसर्पणम् ॥ अथ प्रयामनिवाकौ धान्यादतिशयादरे । समीपार्थे सन्निधिः स्यात् सन्निधं सन्निकर्षणम् ॥ धान्यादीनां छेदनेऽभिलावश्च लवनं लवः । धान्यादिनिर्वुषीकार्ये बहुलीकरणादिषु । तथा च पूतीकरणे निष्पावः पवनं पवः ॥ प्रस्तावः स्यादवसरः प्रस्तुते द्वितयं भवेत् । त्र्यसरस्तसरोऽपि स्यात् सूत्रवेष्टनमित्यपि ॥ गोगर्भग्रहणकाले प्रजनोपसरौ समौ ॥ निष्क्रमोऽस्त्री तु धीशक्तिर्भवेत् बुद्धिबले द्वयम् ॥ प्रश्रयः प्रणयेऽपि स्यात् संक्रामो दुर्गसञ्चरः । ;p{0174} द्वाविमौ प्रथमारम्भे प्रक्रमोपक्रमौ समौ ॥ प्रत्युत्क्रमप्रयोगार्थौ प्रयुद्धार्थावुभौ समौ । अथाभ्यादानमारम्भ उद्घातश्च समा इमे ॥ प्रतिबन्धप्रतिष्टम्भौ समार्थौ सम्भ्रमे त्वरा । निपातनश्चावनायः स्यादधोनयने द्वयम् ॥ उपलम्भश्चानुभवः पूर्वज्ञातार्थवेदने । कुङ्कुमादिलेपनार्थे समालम्भो विलेपनम् । विप्रयोगो विप्रलम्भो विलम्भस्त्वतिसर्जनम् ॥ विश्रावस्तु प्रविख्यातिरत्यन्तख्यातिषु द्वयम् । अथ प्रतिजागरः स्यादवेक्षा प्रत्यवेक्षणे ॥ पाठे निपठ-निपाठौ पठनञ्च पठः पठा । अथाद्रीकरणेऽपि स्यात् तेमः स्तेनः समुन्दनम् ॥ रोगरागादिना दुःखे क्लेश आदीनवास्रवौ । मेलने सङ्गमः सङ्गो निषङ्गो मेल इत्यपि ॥ मार्गणं मृगणा मार्गो भवेद् विचयनं मृगः । संवीक्षणञ्चापि हृतद्रव्यतात्पर्ययाचने ॥ परिरम्भः परीरम्भः संश्लेषः परिरम्भसाम् । स्यादङ्कपालिराश्लेषः आलिङ्गनोपजूहने ॥ दर्शनेक्षणनिध्यानालोकनञ्च निर्वर्णनम् । प्रत्यादेशो निरसनं प्रत्याख्यानं निराकृतिः ॥ विशाय उपशायश्च पर्यायशयने द्वयम् । स्यादर्तनं हृणीया च ऋतीया च घृणार्थके ॥ विपर्यये विपर्यासो व्यत्यासो व्यत्ययोऽपि च । अतिक्रमोऽतिपातश्च स्यात् पर्यय उपात्ययः ॥ भृत्यादिकं समाहूय प्रेषणं प्रतिशासनम् । छन्दोगयागस्तुतिभूः संस्तावः सवेदिह (?) । उद्घनस्तक्ष्यते यत्रकाष्ठे काष्ठं निधाय सः । स्यात् स्तम्बघ्नः स्तम्बघनः येन स्तम्बो निहन्यते ॥ आविधो विध्यते येन तत्रैव भ्रमरादिके । निघो विष्वक्समः समानारोहपरिणाहके ॥ ध्यानादूर्ध्वप्रेरणादौ स्यादुत्कारो निकारवत् । ;p{0175} निगारोऽभ्यवहारे स्यादुद्गारो वमने स्वने ॥ विक्षावः शब्दभेदे स्याद् उद्ग्राह उर्ध्वधारणम् । उपरामोऽप्यारतिः स्यात् विरत्यवरती अपि ॥ निष्ठेवनञ्च निष्ठ्यूतिः स्यात् निष्ठीवनमित्यपि । निष्ठवोऽस्त्री श्लेष्मरक्तवमने तत् चतुष्टयम् ॥ अवसाने तु सातिः स्यात् जवने जूतिरित्यपि । ज्वरे जूतिः स्यादुदजः पशूनां प्रेरणे मतः ॥ आक्रोशोऽकरणिश्च स्युरजीवनिमुखा अपि । गोत्रान्तेभ्यस्तस्य वृन्दं स्यादौपगवकादिकम् । एवमचेतसां वृन्दे भवेत् शाष्कुलिकादिकम् । मानवानान्तु यद्वृन्दं मानव्यं समुदाहृतम् ॥ हल्या हलानामेवं स्यात् सहायानां सहायता ॥ ब्राह्मण्यं ब्राह्मणानाञ्च वाडव्यं वाडवात्मनाम् । पर्शुकानान्तु पार्श्वं स्यात् पृष्ठानां पृष्ठ्यमित्यपि ॥ भवेत् खलानां खलिनी खल्या च समुदाहृता । मानुष्यकं मनुष्यानां ग्रामानां ग्रामता भवेत् ॥ धूमानामपि धूम्या स्यात् जनानां जनतापि च । पाश्या भवति पाशानां गल्या च गलवृन्दकम् ॥ सहस्राणान्तु साहस्रं वर्मिणां वार्मणं भवेत् । कारीषाणाञ्च कारीषमथर्वाणामाथर्वणम् ॥ परभागः परोत्कर्षे प्रणये सान्त्वना न ना । प्रणिपातस्त्वनुनये त्वासारश्च सुहृद्बले । प्रबन्धे गुम्फसन्दर्भेग्रन्थाश्च रचना न ना ॥ क्रीडायान्तु विनोदः स्यादत्याधानमतिक्रमे ॥ भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् । भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च । स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥ प्रतिरूप प्रतिछन्दो दर्शने तु निभालनम् । छेकोक्तिर्वक्रभणितौ दुर्जातमसमञ्जसे ॥ शपने दुःषमं गालिः शास्त्रे तु स्मृतिरागमः । झलज्झला स्यादास्फाले वसनग्रन्थिरुच्चयः ॥ ;p{0176} स्तनाभोगः स्तनभर पर्यङ्कस्त्ववसक्थिका । जलयन्त्रगृहं यत्तु समुद्रगृहमुच्यते ॥ स्त्रीपुंसयोर्यदन्योन्यं सम्भोगं प्रति कौतुकम् । स शृङ्गार इति ख्यातः क्रीडारत्यादिकारकः ॥ प्राक्सङ्गीतं गुणनिका पूर्वरङ्गश्च स स्मृतः । प्रस्तावना स्यादारम्भो मुखबन्धश्च स स्मृतः ॥ सर्गबन्धो महाकाव्यं विजल्पो विहितोदिते ॥ नाटके तु महारूपं गोमुखन्तूपलेपने । अथ वाङ्मयभेदाः स्युश्चम्पूराख्यायिका कथा ॥ सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः । उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥ प्रकीर्णाह्णिकपर्वाणि प्रकाशो ग्रन्थसन्धयः । प्रक्लीप्तिः परिभाषायाः शैली सङ्केतिकेति च ॥ हर्षादुत्सवकाले यदलङ्कारांशुकादिकम् । आकृष्य गृह्यते पूर्णापात्रं पूर्णालकन्तु तत् ॥ हर्षस्वने किलकिला दुरभिः स्यादसद्ग्रहः । अवसानं विरामः स्याद् हारिः पथिकसन्ततिः ॥ झम्पः सम्पातपतने चुलुम्पः बाललालने । संराविणं गणरवे लहरी तरलायिते ॥ हक्को गजसमाह्वाने चडक्कोजनदासनौ(?) । कष्टस्थाने चावकं स्यात् हल्लनं प्रचलायिते ॥ अत्याकारः समाक्षेपे तृष्णा धनपिशाचिका ॥ वक्कश्चाध्यवसायः स्याद् दर्पारम्भे तटस्फटः (?) । कलञ्जौ तौ विषास्त्रेण हतौ यौ मृगपक्षिणौ ॥ पिण्डस्त्रीलिङ्गम् आहारे प्रतिवाणिस्तथोत्तरे । मैत्रेयिका मित्रयुद्धे संवेशने रतिक्रिया ॥ अङ्कपाली परिषङ्गे आलस्यमजिगीषुता ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां सङ्कीर्णवर्गप्रकाशः ॥} ;p{0177} ;k{नानार्थवर्गप्रकाशः} तत्वा ज्योतिः परं ब्रह्म मुछाखाननृपाज्ञया । नानार्थशब्दा लिख्यन्ते मथुरेशेन यत्नतः ॥ द्वित्रिचतुःपञ्चषट्कवर्णकान्तादिचिह्निताः । स्वरान्ता व्यञ्जनान्ता वा नानार्थाः स्युरिहोदिताः ॥ एकवर्णोऽपि नानार्थः क्रमादादौ निबध्यते । नानार्थः प्रथमान्तः स्यात् सप्तम्यन्ते तु वर्तते ॥ ;v{कान्ताः} ;vv{क एकः} को ब्रह्माण्डवायुसूर्याग्नियमदक्षान्मवर्हिषु ॥ ;vv{क द्वि} अर्क्कः स्फटिकसूर्यार्कपर्णतार्म्रेन्द्रसूरिषु । अङ्कः परिच्छेदे रेखाचित्राजिभूषणेष्वपि ॥ क्रोडान्तिकापराधेषु तथाङ्कं पापदुःखयोः । एकः संख्याभेदे श्रेष्ठे त्रिषु स्यात् केवलान्ययोः ॥ कर्कः श्रेष्ठे घटे कर्के शुक्लाश्वदर्पणाग्निषु । कङ्कः पक्षिविशेषे स्यात् कृतान्ते कैतवद्विजे ॥ कल्कोऽस्त्रीघृततैलादिशेषे कर्णमले विटे । दन्ते विभीतके दम्भे पापे पापाशये त्रिषु ॥ काकः पक्षिवृक्षमानव्याघ्रभेदेऽतिधृष्टके । काको भेकवृकज्येष्ठी खर्जूरीचक्रवाकके ॥ काका गुञ्जा काकमाचीकाकाङ्गीमलपूष्वपि । काकं सुरतबन्धे स्यात् तथा च काकसंहतौ ॥ किष्कुर्हस्ते वितस्तौ च मानभेदेऽपि च द्वयोः । छेकः स्यान्नागरे वेश्मसंस्थयोर्मृगपक्षिणोः ॥ टङ्को दपे खनित्रे च खड्गे पाषाणदारणे । स्यादस्त्री टङ्कसो स्त्री तु जङ्घायां कोषके पुमान् ॥ तर्को वितर्काकाङ्क्षोहहेतुशास्त्रेषु दृश्यते ॥ त्रिका तु कूपनेमौ स्यात् क्लीबे पृष्ठाधरे त्रये ॥ तोकं पुत्रदुहित्रोश्च त्विकः स्यात् कोककाकयोः । न्यङ्कुर्ना मनिमृगयोः नाकः स्वर्गान्तरीक्षयोः ॥ वा पुंसि निष्कं दीनारे कर्षे वक्षो-विभूषणे । सुवर्णानां शते माष्टे हेम्नि हेममानेऽपि च ॥ पाकः परिणतौ स्थाल्यां शावके पेचकेऽपि च । केशादीनां जराशौक्ले राष्ट्रादिभङ्गभीतिषु ॥ पङ्कोऽस्त्री कर्दमे पाके भूकः स्यात् कालरन्ध्रयोः । वकः कह्वे धनेशे च बहुपुष्पे च रक्षसि ॥ ;p{0178} नाकुः पर्वनवह्लीकमुनिभेदेषु पुंस्ययम् । भेकः मण्डूकधनयोर्भूको नार्वाचिदैत्ययोः ॥ मुष्कोऽण्डकोषे वृन्दे च मोक्षकाख्ये महीरुहे ॥ राका पूर्णेन्दुपौर्णम्यां नवजातरजःस्त्रियाम् । रोकः क्रयान्तरे दीप्तौ रोकं विवरनौकयोः ॥ रेकः विरेके शङ्कायां रङ्कः कृपणमन्दयोः । लङ्कादेशस्य पूःशाखाशाकिनीकुलटासु च ॥ वल्कं स्याद्वल्कले शल्के लोकः स्याद् भुवने जने । अथ वङ्को नदीवक्रे पर्याणाङ्के च तङ्कुरे(?) ॥ शल्कन्तु वल्कले शकले शको जात्यन्तरे नृपे । शङ्कर्ना शङ्करे कीले संख्यास्त्रपापजन्तुषु ॥ शूकोऽस्त्री शृङ्गदययोः शङ्का त्रासवितर्कयोः । शाको द्वीपान्तरे शक्तौ द्रुमे ना हरितकेऽस्त्रियाम् ॥ शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् । शुकः कीरे व्याससुने तथा रावणमन्त्रिणि ॥ श्लोको यशसि पद्ये च स्तोकः स्याच्चातकाल्पयोः । शुल्कं घट्टादिदेये तु वरादर्थग्रहे स्त्रियाः ॥ ;vv{क त्रि} अशोकस्त्रिषु निःशोके पुमान् वञ्जुलभूरुहे । स्त्रियां स्यात् कटुरोहिण्यां पारदे तु नपुंसकम् ॥ अलकश्चुर्णकेशे स्यात् धनाधीशपुरि स्त्रियाम् । अनूको ना कुले शीले सुगते गतजन्मनि ॥ अभीको निर्भये क्रूरे कामुके चोत्सुके त्रिषु । अलीकमप्रियासत्यस्वल्पेषु त्रिषु कुत्रचित् ॥ अंशूकं सूक्ष्मवसने वस्त्रमात्रोत्तरीययोः । अन्तिकं वाच्यलिङ्गन्तु निकटे शातलौषधे ॥ चुल्ली ज्येष्ठभगिन्योश्च नाट्टोक्तौ कथ्यतेऽन्तिका । अलर्को धवलार्के स्यात् योगोन्मादितकुक्कुरे ॥ अम्बिका जननीगौर्य्यौर्धृतराष्ट्रस्य मातरि । अन्धिका रजनी नारी द्युतभेदेऽक्षिदूषिते ॥ अम्लिकाऽम्लोद्गारचिञ्चापाचाचाङ्गेरिकासु च । अर्भकः स्यात् कृशे स्वल्पे तथा मूर्खे च वालके ॥ आनको रसदभ्रे तु भेरीपटहमर्दने । आटकी स्त्री तुवर्यान्तु मानभेदे भवेत् त्रिषु ॥ आलोको वन्दिभाषायां प्रकाशे दर्शनेऽपि च । ;p{0179} आह्निकं दिननिर्वाह्ये त्रिलिङ्गमपि न द्वयोः ॥ नित्यक्रियाभोजनयोर्वृन्दे प्रकरणस्य च । आतङ्को मुरजध्वाने रोगे सन्तापशङ्कयोः ॥ ईक्ष्वाकुः स्त्री कटुतुम्व्यां सूर्यवंशाधिपे पुमान् । उलूकः पेचके शक्रे तथा भारतयोद्धरि ॥ उदर्कः उत्तरे काले फले मदनकण्टके । उष्णकस्तु निदाघे स्यादातुरे शीघ्रकारिणि ॥ उष्ट्रिका करभस्त्रीषु मृत्तिका भाण्डभेदके । ऊर्मिका वस्त्रभङ्गे स्यादङ्गुरीयतरङ्गयोः ॥ कनकः किंशुके नागकेशरे धूस्तूरेऽपि च । काञ्चनेऽपि च कालीये चाम्पके हेम्नि न द्वयोः ॥ करकः पक्षिभेदे स्याद् दाडिमे च पुमानयम् । वर्षोपले द्वयोरस्त्री कुसुम्भे च कमण्डलौ । क्रमुकः स्यात् पुमानेव पट्टिकालोध्रपूगयोः । कार्पासिकाफले भद्रमुस्तके ब्रह्मदारुणि ॥ कटकोऽस्त्री दन्तिदन्तमण्डनेऽचलमध्यके । सामुद्रलवणे राजधान्याञ्च बलयेऽपि च ॥ कटुका कटुरोहिण्यां स्त्रियां व्योषे तु न द्वयोः । कटुकोऽस्त्री क्षुद्रशत्रौ मत्स्यादीनाञ्च कीकसे ॥ नैयायिकादिदोषोक्त्यां रोमाञ्चे च द्रुमाङ्गके । करङ्को मस्तकेऽशस्यनारिकेलफलेऽस्थनि ॥ कलङ्कोऽङ्केऽपवादे स्यात् कालायसमलेऽपि च । कर्णिका करिहस्ताग्रे हस्तमध्याङ्गुलावपि ॥ गुवाकादिछटांशे च पद्मान्तःकर्णभूषणे । कर्णिका स्यादग्निमन्थे यात्यन्तसुखवस्तुनि ॥ कचाकुः स्यात्तु दुःशीले दुराधर्षे विलेशये । कुञ्चुको नारबाणे स्यादङ्गवस्त्रविशेषके ॥ निर्मोके कवचे चोले कञ्चुकी त्वोषधिभिदि । कारिका स्यात्तु नर्तक्यां यातनाशिल्पयोरपि ॥ तथा विवरणश्लोके वेदादिकर्तरि त्रिषु । नपुंसकन्तु कर्त्रादिषट्सु कारकमित्यपि ॥ कामुकोऽशोकवृक्षे च कामनेऽप्यतिमुक्तके । कार्मुकं स्यात्तु चापे ना वंशे कर्मक्षमेऽन्यवत् ॥ कावूकः कृकवाकौ स्यात् पीतमस्तककाकयोः । ;p{0180} क्षारको जालके पक्षिमत्स्यादिपिटकेऽपि च ॥ कालिका शक्तिभेदेऽपि मसी वृश्चिकपत्रयोः । क्रमदेयवस्तुमूल्यभृङ्गीनवघनेषु च ॥ धूमरोमघनालीषु काकीमांसीशिवासु च । किम्पाकं स्यात् महाकालफले मूर्खजनेऽपि च ॥ कीचको दैत्यभेदे स्यात् वंशमात्रे सरन्ध्रके । वातोद्धूतस्वनद्वंशे तथा रक्षोविशेषके । कीटकः पुंसि कीटे स्यात् निष्ठुरे पुनरन्यवत् ॥ कुलकः पुंसि वल्मीककाकेन्दुश्रेष्ठकेषु च । क्लीबं पटोले सम्बन्धश्लोकवृन्दे निगद्यते ॥ क्षण्णकः स्त्रीषु नीचेऽल्पे कुशिको मुनिसर्जयोः । कुषाकुर्वानरेर्केऽऽग्नौ परोत्तापिनि तु त्रिषु ॥ कुलिकः कुलगुह्ये तु भुजगद्रुमभेदयोः । क्षुरकः स्यात् कोकिलाक्षे गोक्षुरे तिलकद्रुमे ॥ कूपकस्तैलपात्रे स्यात् गुणवृक्षे कुकुन्दरे ॥ उदपाने चितायान्तु शिलायां कूपिकापि च ॥ अस्त्रियां कूलकस्तूपे पुंसि स्यात् क्रिमिपर्वते । कूर्चिका तूलिकायाञ्च सूचिकायान्तु कुट्मले ॥ स्यात् कपाटाकुले दुग्धविकृतावपि (चेष्यते) । कृषकः फालके पुंसि कर्षके त्वभिधेयवत् ॥ कोरकोऽस्त्री कुद्मले स्यात् कक्कोलकमृणालयोः । कौतुकस्त्वभिलाषे च नर्मण्युत्सवहर्षयोः ॥ ख्याते कुतूहलेऽन्योन्यसमायाते च मङ्गले । विवाहसूत्रे गीतादिभोगे स्यादिह न द्वयोः ॥ कौशिको नकुलोलूकव्यालग्राहिषु गुग्गुलौ । कोषज्ञे कोषकारेऽपि विश्वामित्रमहेन्द्रयोः ॥ कौशिकी तु नदीभेदे भवान्यामपि योषिति ॥ खनको ना सन्धिचौरे उन्दुरे त्रिषु दारके । खड्गिगो महिषी क्षीरफेसो च शौनिकेऽपि च ॥ खोलकः पूगवल्मीककोशपाकशिरस्त्र्रके । गणिका यूथिवेश्येभीष्वपि स्त्रीगणके पुमान् ॥ ग्रन्थिकं पिप्वलीमूले ग्रन्थिपर्णे च गुग्गुलौ । पाण्डवे सहदेवाख्ये करीरे गणके पुमान् ॥ गण्डको ना खड्गजन्तौ विद्यासंख्याप्रभेदयोः । ;p{0181} अन्तरायेऽप्यवच्छेदे नदीभेदे तु गण्डकी ॥ ग्राहको हिंस्रविहगे व्यालग्राहे ग्रहीतरि । गान्धिको लेखकै गन्धव्यवहारिणि कीटके ॥ गुण्डकः स्नेहपात्रे स्याद् धूलौ च मण्डलेऽपि च । गैरिकं कणके धातौ गृह्यकण्ठोकनिघ्नयोः(?) । गोलकस्तु गुडे जारात् विधवातनयेऽपि च । गोरङ्कुः पक्षिभेदे स्यान्नग्नके वन्दितेऽपि च ॥ चषकोऽस्त्री सुरापात्रे मद्ये मद्यविशेष्यके । चुलुकोऽस्त्री भाण्डभेदे निम्नपाणितलेऽपि च ॥ चतुष्की मशहर्यान्तु यष्टिभेदे च न द्वयोः । चारकश्चारके रन्ध्रे हयादीनाञ्च पालके ॥ चित्रकं तिलके पुंसि व्याघ्रभेदे शुकादिषु । चुम्बकश्चुम्बनप्रदेप्ययस्कान्ते च धूर्तके ॥ बहुग्रन्थैकदेशज्ञे घटस्योर्ध्वावलम्बने । चुल्लुकी शिशुमारे स्यात् कुण्डी भित्कुलभेदयोः ॥ चूलिका नाटकाङ्गे स्यात् करिणां कर्णमूलके । जनकस्तातनृपयोश्चूतकः कूपकाम्रयोः ॥ जम्बुको वरुरो नीचे शृगाले तर्कभेदके । जतुकाऽजिनपत्रायां क्लीबं स्यात् हिङ्गुयावयोः ॥ जालकं कोरके नीडे दम्भे जाले समूहके । न पुंसि मोचके फले जालिका विधवा स्त्रियाम् ॥ गिरिसारे च नौकायां स्त्रियान्तु भुवनान्तरे । अश्मादिरचितस्वाङ्गरक्षिण्यामपि जालिका ॥ जालिको वाच्यवद्ग्रामजालिकैवर्तयोरपि । जीवकः पीतशाले स्यात् प्राणके क्षपणेऽपि च । न पुंसि कूर्चशीर्षे स्यादाजीवे जीविकाऽपि च ॥ त्रिषु सेवकवृद्याशिजीविषु त्वहितुण्डिके । झल्लिका स्यात् पुटे द्योते तूद्वर्तनमलेऽपि च ॥ झिल्लिका झिल्लिकारावे विलेपनमलेऽपि च । उद्वर्तनांशुकरुचौ आतपस्य रुचावपि ॥ टुण्टुकः श्योणाकतरौ स्वल्पे नीचेऽपि पक्षिणि । डिम्बिका कामुकी नीरविम्बशोणकभूरुहे ॥ तण्डकः स्यात् तरुस्कन्धे गृहदारुणि खञ्जने । माया बहुलके फेसे समासप्रायवाचि च ॥ ;p{0182} तक्षकः स्यान्नागराजे विश्वकर्मणि बर्धकौ । तारकः स्यात् कर्णधारे देत्ये ना न द्वयोर्हसि(?) । कणीनिकायां नक्षत्रे न पुमान् त्रातरि त्रिषु ॥ तिलको वृक्षसर्पाश्वभेदेषु तिलकालके । क्लोम्नि सौवर्चले क्लीबमस्त्रियान्तु विशेषके ॥ त्रिशङ्कुर्ना पतङ्गे स्यान्नृपभेदे विडालके ॥ तुरष्कः जवने देशविशेषे सिद्रूके(?)ऽपि च ॥ तूलिका स्यात् कूर्चिकायां शय्योपकरणेऽपि च । दर्शकः स्याद् दर्शयितृ-द्वाःस्थयोश्च प्रवीणके । दावको बालके पुंसि वाच्यलिङ्गन्तु भेदके ॥ द्रावको रसभेदे स्यात् विदग्धे ग्रावभेदके । दीपकं वागलङ्कारे दीप्तिकारिणि वाच्यवत् ॥ दीप्यकं त्वजमोदायां रजन्यां बर्हिचूडके । दूषिका स्यात् तूणिकायां तथा नेत्रमलेऽपि च ॥ धनिकः साधुधन्यके धनिषु स्त्रीषु च स्त्रियाम् । धेनुको दैत्यभेदे ना करिण्यां गवि च स्त्रियाम् ॥ धैनुकं धेनुबृन्दे स्यात् नारीणां करणेऽपि च (?) । नर्तकः स्यात् पोटगले चारणे केलके नटे ॥ नर्तकी स्यात्तु हस्तिन्यां लासिकायाञ्च योषिति । नग्निका तु कुमार्यां ना क्षपस्तुतिपाठके(?) ॥ नरको निरये पुंसि तथा दैत्यविशेषके ॥ नन्दको विष्णुखड्गे स्यात् हर्षके कुलपालके । नालीकः शरशल्याङ्गेष्वब्जषण्डे तु न द्वयोः ॥ नायको हारमध्यस्थमणौ श्रेष्ठे च नेतरि । निर्मोको व्यम्नि सन्नाहमोचने सर्पकञ्चुके ॥ नीलिका स्यात् क्षुद्ररोगनिलीशेफालिकासु च । प्रसेकः स्यात् च्युतौ सेके पराको व्रतखड्गयोः ॥ प्रतीकः प्रतिकूले स्याद् विलोमेऽवयवेऽपि च । पद्मकं पद्मकाष्ठे च बिन्दुजालकयोरपि ॥ स्यात् पार्श्वकः पार्श्वमात्रे पार्श्वद्वारसहायके । पर्यङ्कः स्याद् वृषी मञ्चखट्वापर्यन्तिकासु च ॥ पताका स्यात् वैजयन्त्यां सौभाग्यनाटकाङ्गयोः । पातुकः पातशीले स्यात् प्रपाताम्बुनि हस्तिनि ॥ प्राणकः सत्त्वजातीये चोले च जीवकद्रुमे । ;p{0183} पालङ्कः पक्षिभेदे स्यात् शल्लकीशाकभेदयोः ॥ पावकोऽग्नौ विडङ्गे च भल्लातके च चित्रके । प्रियकः पीतशाले स्यात् नीपचित्रमृगालिषु ॥ पक्षिभेदे शशाङ्के च प्रियङ्गौ कुङ्कुमेऽपि च । पिण्याकस्तिलकल्केऽस्त्री वाह्लीक हिङ्गुसिह्लके ॥ पिनाकोऽस्त्री धूलिवर्षे रुद्रचापात्रिशूलयोः । पिटकस्त्रिषु विस्फोटे मञ्जुषायामसौ पुमान् ॥ पिष्टको ना नेत्ररोगे घृतपूरादिकेऽपि च । पुलको मणिदोषे स्यात् प्रस्तर-क्रमि(?)भेदयोः ॥ गजान्नपिण्डे गन्धर्वे रोमाञ्चे हरितालके । पुलाको भक्थसिक्थे स्यात् संक्षेपे तुच्छधान्यके ॥ पुष्पकं धननाथस्य विमाने रत्नकङ्कणे । रसाञ्जनमृदङ्गारलोहकांस्येऽपि न द्वयोः ॥ पुत्रिका स्यात् पुत्तलिका दुहित्रोर्ना पतङ्गके । पुत्रे धूर्ते द्रुमे शैलेऽप्यनुकम्पान्विते जने ॥ पृदाकुश्चित्रके सर्पे व्याघ्रवृश्चिकयोः पुमान् । पुयुको ना चिपिटके बालकेऽप्यभिधेयवत् ॥ पेचकः स्यादुलूके तु गजलाङ्गुलमूलके । पेटकं पुस्तकादीनां न्यासपात्रे कदम्बके ॥ वल्मीको रोगभेदे ना तथा नाकौ च न स्त्रियाम् । बन्धूकः पीतशाले स्यात् बन्धूकं बन्धूजीवके ॥ बन्धको ना भवेदाधौ पुंश्चलीभ्यश्च बन्धकी । बहुको जलखाते स्यात् दात्यूहे कर्कटे रवौ ॥ बालकः स्यात् शिशौ मूर्खे पुच्छे च हयहस्तिनोः । अङ्गुरीये च ह्रीवेरे निर्वणे वलये पुमान् ॥ बालिका काहला बाला बालुका कर्णभूषणे । वारको ना हयगतौ निषेधके तु वाच्यवत् ॥ बालुका सिकतायान्तु क्लीबं स्यादेलबालुके । भस्मकं व्याधिभेदे च विडङ्गेऽपि च काञ्चने ॥ भ्रामकः फेरवे धूर्ते सूर्यावर्तेऽश्मभेदके । भालाङ्कः कच्छपे रुद्रे शाकभेदे च रोहिते ॥ महालक्ष्मणसम्पन्नपुरुषे करपत्रके । भूकाकः स्वल्पकङ्के स्यात् क्रौञ्चनीलकपोतयोः ॥ भूमिका रचनायाञ्च वेशान्तरपरिग्रहे । ;p{0184} भूतीकं भूस्तृणे दीप्ये भूनिम्बे कत्तृणेऽपि च ॥ मधुका स्त्री मधुपर्ण्यां क्लीबे यष्टिमधुष्वपि । मशकश्चर्मभेदे स्यात् कीटरोमप्रभेदयोः ॥ मण्डूको मुनिभेदे च स्यात् शोसाके गाटतेजसि । भेके मण्डूकपर्ण्यान्तु मण्डूकी धृष्टयोषिति ॥ मल्लिका हंसभेदे स्यात् मल्लीवृक्षे तु मल्लिका । मृत्तिका पात्रभेदे च तथा मत्स्यविशेषके ॥ मामकं स्यात् त्रिषु स्वीये भवेत् पुंसि च मातुले । मातृका जननी धात्री देवी भेदगृहाक्षरे ॥ मालिका तु नदीभेदे पुष्पमालात्मजासु च । मालिकः पक्षिमल्ले स्यात् मालाकारे च रञ्जके ॥ मेचकस्तिमिरे श्यामे श्यामवर्णयुतेऽपि च । मयूरचन्द्रके धूमे मेघे शोभाञ्जनेऽपि च ॥ मोचकं शिग्रू कदली विरागिमोक्षकेषु च ॥ मोदकोऽस्त्री खाद्यभेदे हर्षके वाच्यलिङ्गकः । यमकं यमके शब्दालङ्कारे ना तु संयमे ॥ यजको यज्ञिकोऽपि स्यात् तथा राजगजेऽपि च । याज्ञिको दर्भभेदे स्यात् याजके यज्ञकर्तरि ॥ युतकं चलनाग्रे तु यौतुके संशये युगे । नारीवस्त्राञ्चले युक्ते स्यात् मैत्रीकरणेऽपि च ॥ यूथिका पुष्पभेदे स्यादम्लानेऽपि च योषिति । रसिका च रसालेक्षुरसयोः सरसेऽन्यवत् ॥ रक्तकोऽम्लानबन्धूकरक्तांशुकविनोदिषु । याजिका स्यात्तु केदारे लेखायां सर्षपान्तरे ॥ यात्रकं पञ्चरात्रे स्यात् वेश्या वेश्याब्दवासिनि । रुचको मातुलुङ्गे स्यात् निष्के दन्ते कपोतके ॥ न द्वयोः सर्जिकाक्षारे माल्यमङ्गल्यवस्तुनोः । सौवर्चलेऽश्वाभरणे तथास्वाद्यरसादिषु ॥ रुण्डिका युद्धभूमौ स्याद् द्वारपिण्ड्यां विभूतिषु । रूपकं स्यादलङ्कारभेदे नाटकधूर्तयोः ॥ रेणुकापि हरेणौ स्याद् जमदग्निस्त्रियामपि । लम्पाको लम्पटो देशे लिम्पाको जम्बिरे खरे ॥ लासकस्तु मयूरे स्यात् लम्पटे लास्यकारिणि । लोचको नेत्रतारायां मांसपिण्डे च कज्जले ॥ ;p{0185} स्त्रीणां ललाटाभरणे मूर्व्यां भ्रूश्लथकर्मणि । निर्मोके कर्णपूटे च कदलीनीलवस्त्रयोः ॥ वसुकं वौमके ना तु शिवमल्ल्यर्कपर्णयोः । कर्णिका काञ्चनोत्कर्षे वर्णको मण्डले पुमान् ॥ द्वयोर्नील्यादिषु क्लीबे चन्दने च विलेपने । वर्तको ना खुरेऽश्वस्य विहङ्गे वर्तिका द्वयोः ॥ वञ्चको जम्बुके धूर्ते गृहवभ्रौ खलेऽपि च । व्यलीकमप्रियाकार्यवैलक्ष्यपीडनेष्वपि । व्यलीकानागरे पुंसि वह्लीकं वाह्लिकं तथा । धीरे हिङ्गुनि देशाश्वभेदयोः पुंसि च द्वयम् ॥ बार्धकं बृद्धवृन्दे स्यात् बृद्धानां भावकर्मणोः । वार्षिकं त्रायमानायां तथा वर्षाभवे त्रिषु ॥ बालको वलयेऽस्त्री तु त्रिषु स्यादङ्गुरीयके । वितर्कः स्यात् पुमानूहे संशये ज्ञानसूचके ॥ विपाकः पचनस्वेदकर्मादि विसदृक् फले । विवेकः स्यात् पृथग्भावे जलद्रोण्यां विचारणे ॥ वृश्चिको राशिभेदे स्याद् द्रूणे कीटौषधीभिदोः । वृषाङ्कः साधुशिवयोः भल्लातकमहल्लयोः ॥ वैजिकः कारणे शिग्रूतैले सद्योऽङ्करे पुमान् । शलाका मदने शल्ये शारिका शल्लकीभिदोः ॥ छत्रादिकाष्ठीशरयोः शल्लकी पशुवृक्षयोः । शङ्खकः स्यात् शिरोरोगे शङ्खेऽस्त्रीवलयेऽपि च ॥ शम्बूको गजकुम्भान्ते जलजन्तुविशेषके । सलज्जे दैत्यभेदे च घोङ्गेऽपि शूद्रतापसे ॥ शार्ककः शर्करापिण्डे दुग्धफेणे च पुंस्ययम् । शिशुको बालकोलूपी शिशुमारे पुमानसौ ॥ शीतकः स्यात् शीतकाले दीर्घसूत्रिणि सुस्थिते । सस्यको मेलको खड्गे सम्पर्धे(?) मणिभेदके ॥ सम्पाकः तर्कके धृष्टे त्रिषु ना चतुरङ्गुले । स्यमीका नीलिकायाञ्च पुमान् वल्मीकवृक्षयोः ॥ स्वस्तिकः स्यात् चतुष्के तु मङ्गलद्रव्यगेहयोः । मरकोऽस्त्री सीधु शीधुपानेक्षु शीधुपात्रके । अच्छिन्नपान्थपंक्तौ च त्रिषु स्यात् गतिशीलके ॥ सायकस्तु शरे शङ्खे सायिका च क्रमस्थितौ । ;p{0186} स्थासको ना तु चार्चिक्ये फेनादिबुद्बुदेऽपि च ॥ सूचकः पिशुने काके बिडाले बोधके शुनि । सीवनद्रव्यभेदे च वृद्धे सिद्धपिशाचयोः ॥ सूतकः पारदेऽस्त्री स्यादुत्पत्तावपि न द्वयोः । सृदाकुः पुंसि वज्रेऽग्नौ समीरे प्रतिसूर्यके । सेवको वाच्यवद् भृत्ये भवेत् पुंसि प्रसेवके ॥ सेचकः पुंसि जलदे सेककर्तरि वाच्यवत् । सैनिकोऽपि च सेनायाः रक्षके समवेतके ॥ हारकः कितवे गद्ये चौरविज्ञानभेदयोः । हड्डुको ना तु दात्यूहे वाद्यभेदे च दण्डके ॥ हेककः स्यान्महाकालगणवृद्धविशेषयोः । ;vv{क चतुः} पद्मकेशरभेकालिष्वलिवकः पुमान् (पिके) ॥ कुरुण्टके चोन्त्यकाङ्गे(?) मङ्गलेऽङ्गारकोऽपि च । इक्षुकाण्डे पलाशद्रुकोरकेऽङ्गारके भवेत् ॥ प्रीत्युत्कण्ठा तमोमोहग्रन्थिष्वाकल्पको मतः । वायुव्याधौ व्याधनिन्दाकरेष्वाक्षेपको भवेत् ॥ शूकरे मूषिके चौरे भवेदाखनिकः पुमान् । हेलोत्कण्ठातरङ्गेषु भवेदुत्कलिका स्त्रियाम् ॥ शठे वाक्श्रुतिहीने स्यादेडमूकोऽन्यलिङ्गकः । कविवल्ले च पर्णासे मण्डूके च कारत्वकः(?) ॥ महादेवः जटाजूटे वराटे च कपर्दकः । नागभेदे बिल्वतरौ भवेत् कर्कटकोऽपि च ॥ कलिङ्गे ग्रामचटके कलविङ्को भवेत् पुमान् । स्यात् कनिष्ठाङ्गुलिनेत्रतारकयोः कनीनिका ॥ परमर्मज्ञशिष्ये ना शठे कापाटिकस्त्रिषु । काकरूको दम्भनग्नस्त्रीजित्पेचकभीरुषु ॥ निःशेषु चाम्लानझिण्टीभिदोः कुरवको भवेत् । पीतपुष्पाम्लानझिण्ठीद्रुमयोस्तु कुरुण्ठकः ॥ मयूरे ताम्रचूडे च कृकवाकुरुदाहृतः । पटोल्ल्यां घोषके स्त्री स्यात् कचे कोषातकः पुमान् ॥ अदूरप्रेरिताक्षे च दाम्भिके कुटिको भवेत् । कुलीनो सारमेये च पुंसि कौणेयको मतः ॥ ग्रामणीभङ्गिनाराचेषूपधाने खरालिकः । पाठनिश्चयशूण्याङ्के नृत्ये गुणनिका भवेत् ॥ ;p{0187} स्थपुटे गोखुरे गोक्षुरके गोकण्ठको भवेत् । काकोले पत्रके पीतमणौ गोमेदकं भवेत् ॥ बलिरोपेक्षिपङ्कस्थगोषु गोकुलिको भवेत् । वाद्यदण्डक्षुद्रघण्ठिकयोर्घर्घरिका मता ॥ महाकाले च सीमन्ते शाके चर्चारीको द्विधा । किन्नरायामुमौषध्यां भवेत् चण्डालिका स्त्रियाम् ॥ चाटुकारचक्रगण्डुदृग्गोचरनियन्तृषु । भवेत् चातुरकः पुंसि दक्षभाजनयोस्त्रिषु ॥ बहुच्छिद्रे जर्जरीकं वाच्यलिङ्गं जरातुरे । वन्दागुडुचीजीवाख्यशाके जीवन्तिका भवेत् ॥ त्रिषु दीर्घायुः कृशयोश्चन्द्रे जैवातृकः पुमान् । बहित्रे तर्तरीकं स्यात् पारगे त्रिषु कीर्त्यते ॥ तिक्तशाकस्तु वरुणे खदिरे पत्रसुन्दरे । कटुत्रिके गोक्षुरके त्रिफलायां त्रिवर्णकम् ॥ स्वयं जाते तिले पृश्न्यां गैरिके नागकेशरे । महत्तरे च फेसो च खातके च दलाटकः ॥ राक्षसे स भुजङ्गे च दन्दशूकः समीरितः । धीवरे करमे दासीपुत्रे दासेरको मतः ॥ कर्णधारे पोतवाहे नियन्तरि नियामकः । स्वैरे समीरणे विष्ठाक्षये निश्चारको भवेत् ॥ निपुने क्षपणे हीने निर्ग्रन्थिक उदाहृतः । शिखण्डे भुजगे बाणे प्रचलाकः समीरितः ॥ चामरे विस्तरे क्लीबं सर्गे पुंसि प्रकीर्णकः । स्याद् वस्त्रपुत्रिका पीतिभिदोः पाञ्चालिका स्त्रियाम् ॥ वक्षोजवृन्त-सीव्यादिसूत्रे पिप्पलको मतः । नगरे मदनाख्ये तु द्रुमे पिण्डीतको भवेत् ॥ गन्धमृगेक्षपणके कीले पुष्यलको पुमान् । पुंसि व्याघ्रदिङ्मतङ्गजेन्द्रकोषकारान्तरेषु च ॥ भेषजावज(?) सितच्छत्रे पुण्डरीकं नपुंसकम् । बद्धपात्रे च पटहे पूर्णालकमुदीरितम् ॥ चपेटे ना मार्दवेऽस्त्री फर्फरीकं निगद्यते । गिरौ मेघे दैत्यभेदे नागभेदे वलाहकः ॥ रज्ज्वां कपर्दके पद्मवीजकोषे वराटकः । वातावर्जितशाखायां वलाकायां वकेरुकाः ॥ ;p{0188} वर्तुले गजवेद्याञ्च तथा यौवनकण्टके । विशाले भयसम्पन्ने कृपणे च वरण्डकः ॥ वणिजि स्याद् वडवाग्नौ धूर्ते वाणिजिकः पुमान् । पुंसि देवे मनोज्ञे नु श्रेष्टे वृन्दारकस्त्रिषु ॥ गिरिकेऽलकभेदे च भृङ्गे भ्रमरको मतः । तापसे नाट्यवाग्भेदे नृपे भट्टारको मनः ॥ भयङ्करव्याघ्रराहुरसभित्सु भयानकः । स्त्रीजिते मृगभेदे च भवेद् भार्याटिकः पुमान् ॥ शल्ये फले [तथा] पुष्पभेदे मरुवकः स्मृतः । आतर्पणे चित्ररागे स्यात् मण्डोदकोऽस्त्रियाम् ॥ दर्पणे कुष्ठभेदे च बिम्बे मण्डलकं स्मृतम् । लूतायां मत्स्यभेदे च दैत्ये मर्कटको मनः ॥ अथ तुत्थाञ्जने क्लीबं अपामार्गे मयूरकः । शिशौ कुपुरुषे हारभेदे माणवकः पुमान् ॥ मिष्टाशिन्यतिथिद्वेषिण्यपि मृत्तेरुको भवेत् । दिनेष्टमङ्गले सख्ये स्नाते रातर्दिकं द्विधा ॥ शिला शीकरशीरेषु राधवङ्कुर्भवेत् पुमान् । प्रभुभावदर्शिनि स्यात् तथा च श्लेषनान्तरे ॥ कार्याक्षमे च पुरुषे लालटिक इति स्मृतः । अथान्यहस्तलेखे च तथा च लेखहारके ॥ स्वहस्तलेखकेऽपि स्यादसौ लेखनिको मतः । काकनीडे नदीभेदे वर्तरूको जलावटे ॥ हेरम्बगरुडे विघ्ने जिने पूज्ये विनायकः । मयूरकेऽप्यज्झटायां धन्याके च वितुन्नकम् ॥ त्रिषु तत्कारकेऽस्त्री तु तिलके स्याद् विशेषकम् । परनिन्दाकरे चाटुवटौ पुंसि विदूषकः ॥ क्षणिको मर्कटे चाम्बतन्त्रे वैनाशिको मतः । शूद्राद्वैथ्यासुते वाणिजके वैदेहको भवेत् ॥ खेड्डताले पुमान् बोधकरे वैतालिकस्त्रिषु । वृद्धे मुनौ राजभेदे शतानीक उदीरितः ॥ कुक्कुरे वानरे फेरौ मृगे शालावृको मतः । अट्टालिकायां विवरे स्यात् शिलाटकमस्त्रियाम् ॥ त्रासात् पलायने स्त्री तु शिलायाञ्च शृगालिका । स्याद् वारिकण्टके तुर्यपथे शृङ्गाटकं भवेत् ॥ ;p{0189} लूताजाले च दुग्धादिवे सन्तानिकापि च । सुचुय्यां लोहयन्त्रादिभेदे सन्दंशिका मता ॥ कुटुन्यां युगले घ्राणे दूत्यां सञ्चारिका मता । सङ्घाटिका च कुटुन्यां युगले जलकण्टके ॥ दिग्गजे शोभनाङ्गे च सुप्रतीको निगद्यते । न्यस्ते क्षपणके मातृयात्रा मङ्गलसूत्रके ॥ पुंसि सन्देहजीवे तु भवेत् सैकतिकस्त्रिषु । कट्फले शुभ्रखदिरे सोमवल्कः समीरितः ॥ क्लीबे कत्तृणकह्लारपद्मरागेषु पुंस्यपि । गन्धके गन्धपाषाणे सौगन्धिक उदाहृतः ॥ ;vv{क पञ्च} शठे वाक्यश्रुतिहीनेऽप्यनेडमूक ईरितः । हासभेदे नखाघाते स्यादाच्छुरितकं हि तत् ॥ नृपालये तूपकर्त्र्यां पिष्टभिद्युपकारिका । षिड्गे काव्यकरे द्वाःस्ये शुद्धान्तोद्यानपालयोः ॥ रङ्गाजीवे रसोत्साहे कक्षावेक्षक इत्यसौ । फेरुभोक्तृकाककाचकुम्भेषु कटखादकः ॥ उडुम्बरविडम्बाख्यचित्राङ्गे क्रिमिकण्टकम् । स्यात् कण्ठकारिके पुंसि क्लीबं गोजागरिकं शुभे ॥ कण्ठीभेदे विद्युति स्यात् खद्योते चिलमीलिका । मेघे शके नारिकेलफले जललतासु च ॥ पुमान् जलकलङ्कः(२) स्यात् काष्ठे पात्रे च कुत्रचित् । इल्लीशे काकचीमत्स्ये जलतापिक इत्यसौ ॥ अथ नव्ये नवफलिते नवधृतकुसुमासु च स्त्रीषु । नवफलिका नवकलिका द्वयमिदमुदितं स्त्रियामेव ॥ गणस्थे राजे गरुढे हस्तिये राजकुञ्जरे । चित्रमेखलके पुंसि वागरे नागवारिकः ॥ कङ्गुधान्ये चीनकाख्यधान्ये च व्रीहिराजकः । सम्मार्जनीङ्गुदीलोकयात्रासु व्यवहारिका ॥ वचायामपि दूर्वायां यवे च शतपर्विका । अथ दीपे दर्पणे च कथितः शीतचम्पकः ॥ उत्सवे मदनेऽपि स्यात् माधव्यं सुवसन्तकः । अथ यूय्यां हेमपुष्प्यां चम्पके हेमपुष्पकः ॥ ;vv{क षट्} शृङ्गीमत्स्ये ग्रामयुद्धे ग्राममद्गुरिका भवेत् । अथ कामोद्दीपके स्यात् औषधे सारिकासु च । ;p{0190} कोकिलायाञ्च मदनशलाका परिकीर्तिता ॥ मातुलात्मजधुस्तूरफले मातुलपुत्रकः । श्लोकचौरे सन्धिचौरे भवेत् वर्णविलोडकः ॥ मतङ्गे पुंसि कामिन्यां सिन्दूरतिलकः स्त्रियाम् । ;c{इति कान्तवर्गः} ;v{खान्ताः} ;vv{ख एकः} खं पुरेन्द्रियशून्येषु बिन्दुक्षेत्रविहायसि । सुखे संवेदने देवलोके दीप्तौ नपुंसकम् ॥ ;vv{ख द्वि} नखी शुक्तौ स्त्रियां क्लीबे नखरेऽपि च न द्वयोः । न्युङ्खः साधुमनोज्ञे च साम्नां षट्प्रणवेष्वपि ॥ भवेत् प्रेङ्खा हयगतौ समनाटहयोरपि (?) । मुखमाद्यप्रधानास्यशब्दनाटकसन्धिषु ॥ प्रारम्भोपायवेदेषु तथा निःसरणेऽपि च । लेखो ना विबुधे लेख्ये लेखाश्रेण्यां लिपिष्वपि ॥ विङ्खाश्वगतिभिच्छकसिम्बीनर्तनसन्धिषु ॥ ? ॥ शङ्खोऽस्त्री कम्बुके पुंसि भालास्थिनिधिभिन् नखे । शाखा द्रुमाङ्गे वाहौ च पक्षिभिद्वेदभागयोः ॥ शिखा शाखा शिफा ज्वाला माङ्गलिक्यग्रमात्रके । पादाग्रे शिखिचूडायां चूडामात्रे स्मरज्वरे ॥ सखा सहाये मित्रे च वयस्यासु स्त्रियां सखी । सुखा वरुणपूर्यान्तु सुखं त्रिदिवशर्मणोः ॥ ;vv{ख त्रि} गोमुखं वाद्यभाण्डे च लेपने कुटिले गृहे । पुमान् महेश्वरगणान्तरि(?) मातलिपुत्रयोः ॥ त्रिशिखः कौपणे क्लीबं त्रिशूले भूषणान्तरे । दुर्मुखोऽहीन्द्रभिदोर्ना मुखरे . . . त्रिषु ॥ प्रमुखः श्रेष्ठ आद्ये च त्रिषु मान्यसमूहयोः ॥ मयूखः किरणज्वालाशोभासु तीक्ष्णतेजसि । विशिखः तोमरे बाणे खनित्रीरथ्ययोः स्त्रियाम् ॥ विशाखः कार्त्तिकेये ना ऋक्षपर्णासयोः स्त्रियाम् । वैशाखोऽपि च मन्थाने मासमण्डलभेदयोः ॥ सुमुखस्तार्क्ष्यहेरम्बशाकभिद्नागभित्सु च । नखक्षतान्तरे क्लीबं मनोज्ञे सुन्दरानने ॥ ;vv{ख चतुः} कोषानक्याञ्च भूदेवे विविधेऽग्निमुखः पुमान् । कुसुम्भे कुङ्कुमे दीपे बाणेऽप्यग्निशिखः मतः ॥ ;p{0191} लाङ्गलिक्यां विशल्यायां भवेदग्निशिखा स्त्रियाम् । सोमवल्ल्यमृताचन्द्रेष्विन्दुरेखा निगद्यते ॥ उच्चाटने पुमान् बाणे द्वयोर्बद्धशिखः मतः । संख्यालिकमनुष्यास्थि महाशङ्ख उदीरितः ॥ गन्धद्रव्ये नखाधाने कन्दे व्याघ्रनखोऽस्त्रियाम् । बाणे युद्धे जडीभूते भ्रमरे च शिलीमुखः ॥ ;vv{ख पञ्च} त्रिषु स्यात् मलिनमुखः क्रूरगोपुच्छवह्निषु । अथ शितमयुखस्तु घनसारमृगाङ्कयोः ॥ सर्वतोमुख उग्रे च ब्रह्मब्राह्मणयोः पुमान् । क्लीबं वियति पानीये क्षेत्रज्ञे च पुमानयम् ॥ ;c{इति खान्तवर्गः ॥} ;v{गान्ताः} ;vv{ग एकः} गौ पुंसि वृषभे रश्मौ कुलिशे त्रिदिवेऽपि च । स्त्रियां गवीषु दृग्-वाग्-भूदिक्षु वारिणि भूम्नि च ॥ ;vv{ग द्वि} अगो नगश्च धरणीधरपादपयोः पुमान् ॥ अङ्गं गात्रे प्रतीके च पुंसि भूम्नि च नीवृत्ति ॥ क्लीवैकत्वे तु मुख्य स्यादन्तिकेऽङ्गवति त्रिषु । इङ्ग आङ्गश्च विज्ञाने इङ्गिते जङ्गमेऽपि च ॥ खगो विहङ्गे देवे च ग्रहे सूर्ये च मङ्गले । खङ्गो गण्डशृङ्गेऽसिबुद्धभिद् गण्डकेषु च ॥ गाङ्गः पुंसि गुहे भीष्मे स्याद् गङ्गासम्भवे त्रिषु । चङ्गो दक्षे शोभने च सारङ्गे हलयाजके । टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि । त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥ तुङ्गः पुन्नागनगयोर्निशावर्वरयोः स्त्रियाम् । ग्रहयोगभिदोरुग्रे प्रधानेऽप्युन्नते त्रिषु ॥ दुर्गा स्त्री चण्डिका नील्योः सङ्कटे दुर्गमे त्रिषु । नागं क्लीबे तु रङ्गे स्यात् सीसके करणान्तरे । पुंसि पन्नगमातङ्गक्रूराचारिषु नीरदे ॥ देहवायुभिदि श्रेष्ठे पुन्नागे नागकेशरे । स्यात्पिङ्गा चण्डिका हिङ्गु नाडीगोरचनासु च ॥ पिङ्गी शस्यां शिशौ क्लीबं पिशङ्गे तु पुमानयम् । पुगो बृन्दे गुवाके च भावे कण्टकिभूरुहे ॥ फल्गुः स्त्रियां नदीभेदरेणुभिद्मलपूषु च । ;p{0192} मिथ्या वचसि निःसारे तद्भवेदभिधेयवत् ॥ भङ्गा शस्यभेदे भङ्गः पराजयतरङ्गयोः । रोगभेदे भये पुंसि भङ्गिस्त्रियामनुक्रमे ॥ भगं स्त्रीज्ञानवैराग्ययोनिमाहात्म्यकीर्तिषु । ऐश्वर्यधर्मकामेषु मोक्षे यत्नेऽथ ना रवौ ॥ भागो रूप्यार्द्यके भाग्ये एकदेशेऽशंकेऽपि च । भृगुः शुक्रे महेशे स्यादतटे नारकादिभिः (?) ॥ भृङ्गः षिड्गे च धूम्याटे भृङ्गराजे मधुव्रते । भृङ्गारे भृङ्गरोले च भृङ्गं क्लीबे गुडत्वचि ॥ भोगः सर्पे सुखे देहे धने माने च पालने । सर्पाणां कायफणयोर्योषिद्भरणभोजने ॥ मार्गो मासे मृगमदे पथि चान्वेषणेऽपि च । मृगः पशौ च हरिणे हस्तितारकभेदयोः ॥ अन्वेषणे च याच्ञायां मृगीकान्तान्तरेऽपि च । युगो हलरथाङ्गे ना कृतादिषु नपुंसकम् ॥ बृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये । योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे । देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥ वस्तूपायसन्नहने विश्रब्धघातकेऽपि च ॥ रङ्गो नृत्ये रणस्थाने रागे रङ्गं त्रपुन्यपि ॥ रागोऽनुरागे क्लेशादौ गान्धारादौ महीपतौ । मात्सर्यादौ लोहितादौ स्याच्चन्द्रमसि भाष्करे ॥ लङ्गः सङ्गे च षिङ्गे च रोगः स्याद् व्याधिकुष्ठयोः । लिङ्गं चिह्ने महादेवमूर्तिभेदेऽनुमानके । सांख्योक्तप्रकृतौ चापि मेहनेऽपि नपुंसकम् ॥ व्यङ्गः प्लवे च हीनाङ्गे वङ्गः सीसकरङ्गयोः । वल्गुश्छागलके पुंसि सुन्दरेऽपि च वाच्यवत् ॥ वेगो महाकालफले प्रवाहेऽपि जवेऽपि च ॥ शार्ङ्गं तु चापमात्रे स्यात् तथा कृष्णशरासने ॥ शुङ्गी स्त्रियान्तु पर्कय्यां वटाम्रातकयोरपि । शृङ्गं प्रधाने चिह्ने च शिखरे जलयन्त्रके ॥ विषाणोत्कर्षयोरूर्ध्वे तीक्ष्णे सूक्ष्मे च पङ्कजे । शृङ्गो ना कूर्चशीर्षे तु मुनिभेदे च स स्मृतः ॥ ;p{0193} शृङ्गी स्वर्णे विषामीनभेदयोर्मृषत्रौषधे । सर्गोऽध्यायनिश्चयात्ममोक्षोत्साहादिसृष्टिषु । ;vv{ग त्रि} अयोगः कूटविश्लेषविधुरे कठिनोद्यमे । अनङ्गो मदने क्लीबं मनस्याकाशकेऽपि च ॥ अपाङ्गो लोचनान्ते स्यात् तिलके चाङ्गहीनके । आभोगः पूर्णतायान्तु यत्ने छत्रे च वारुले । आयोगः व्यापृतौ तीरे गन्धमाल्योपहारके । आशुगः पवने बाणे तीव्रे सत्वरगन्तरि ॥ उत्सर्गस्त्यागसामान्यन्यायदानेषु वर्तते । कलिङ्गोऽपि च धूम्याटे स्यात् पूतिकरजेऽपि च ॥ पुंसि तीवृति भूम्नि स्यात् न द्वयोः कूटजे फले । वनितायां कलिङ्गी च लताभेदे च कुत्रचित् ॥ कालिङ्गो भूमिकर्कारुदन्ताबलफणिष्वपि । कालिङ्गी राजकर्कय्यां चक्राङ्गो मानसौकसि ॥ चक्राङ्गी कटुरोहिण्यां जिह्मगः फणिमन्दयोः । तडागः स्यात् कूटयन्त्रे जलाधारविशेषके ॥ तातगुः स्यात् क्षुद्रताते जनकस्य हिते त्रिषु । त्रिवर्गः त्रिफलावृद्धिस्यानक्षयकत्रिके ॥ सुनीतौ धर्मकामार्थे सत्त्वरजस्तमस्यपि । तुरङ्गी चाश्वगन्धायां तुरङ्गो हयचित्तयोः ॥ धाराङ्गो मेहने तीर्थे खङ्गे चापि वरण्डके । नारङ्गो यमजप्राणि नागरङ्ग महीरुहोः ॥ निसर्गः सर्गरूपादौ निषङ्गः सङ्गतूणयोः । पत्राङ्गोऽस्त्री भूर्जपत्रे पद्मके रक्तचन्दने । पन्नगः स्याद् औषधीभित् पन्नगाशनयोरपि । प्लवगोऽरुणमण्डूकवानरप्लवपक्षिषु ॥ परागः पुष्परेणौ तु धूलिसानीयचूर्णयोः । चन्दने गिरिभेदे च स्वच्छन्दगमनेऽपि च ॥ प्रयागः स्यात् तीर्थभेदे यज्ञे शतमखे हये । प्रयोगः कार्मणे... प्रयुक्तौ च निदर्शने ॥ पतङ्गः शालिभेदेऽपि शलभे पक्षिसूर्ययोः । प्रियङ्गुः स्त्रीराजिकायां कणायां कङ्गुशस्यके ॥ पुन्नागः स्यान्नरश्रेष्ठे वृक्षभित् पाणुनागयोः । ;p{0194} सितास्मजातीफलयोः मृगे मत्तमतङ्गजे ॥ वराङ्गं मस्तके योनौ मातङ्गे ना गुडत्वचि । भुजङ्गः सर्पषिड्गाहिकुटुलेषु(?) मलीमसे ॥ मानङ्गो मेत्तचाण्डालकुञ्जरेषु जटेऽपि च । मृदङ्गः पटहे घोषे काष्ठाङ्गे मङ्गलेऽपि च ॥ रक्ताङ्गो मण्डले स्त्री तु जीवन्त्यां विद्रुमेऽस्त्रियाम् । अस्त्री रथाङ्गं चक्रे ना चक्रवाकविहङ्गमे ॥ वातिगो ना तु भण्ढाक्यां धातुवादिनि वाच्यवत् । स्याद् विडङ्गं क्रिमिघ्ने तु तथाभिक्षे भवेत् त्रिषु ॥ विसर्गस्तागदानादौ विसृष्टे मलनिर्गमे । विहङ्गो विहगे बाणे जलदे चन्द्रसूर्ययोः ॥ सर्वगन्तु जले क्लीबं पुमानम्बहये(?) प्रभौ । सम्भोगः सुरते भोगे हर्षे च वुद्यशासने ॥ सारङ्गो हरिणे छुत्रे भ्रमरे राजहंसके । कुञ्जरे चातके चित्रे रागभेदेंऽशुकेऽपि च ॥ हेमाङ्गो गरुडे सिंहे सुमेरौ परमेष्ठिनि । ;vv{ग चतुः} अपवगस्तागमोक्षकार्यसमाप्तितत्फले । अभिषङ्गः समाक्रेशे शपथे च पराभवे ॥ ईहामृगस्तु कोके स्यात् तथा रूपकभेदके । उपरागे दुर्नये स्याद् ग्रहकल्लोलसूर्ययोः ॥ तथा विधुन्तुदे चैव ग्रहणे चन्द्रसूर्ययोः । उपसर्गो रोगभेदे प्राणिषु स्यादुपप्लवे । कटभङ्गः शस्यहस्तछेदे चैव नृपात्यये ॥ छत्रभङ्गो वैधव्ये च स्वातन्त्र्ये नृपनाशने । मल्लनागो लेखहारो व्यात्सायने च दिग्गजे ॥ समायोगः समाधाने संयोगे च प्रयोजने । संप्रयोगः रतिकर्मसमर्थे चान्वितावपि ॥ ;vv{ग पञ्च} कथाप्रसङ्गो जल्पाके वातूलविषवैद्ययोः । नाडीतरङ्गः काकोलहिण्डयोः रतहिण्डके ॥ ;c{इति गान्तवर्गः ॥} ;v{घान्ताः} ;vv{घ एकः} घो घन्ढायां ध्वनौ घश्च किंकिन्याहननेऽपि च । ;vv{घ द्वि} अघं तु दुरिते दुःखव्यसन . . . चिन्तने । अर्घः पूजाविधौ मूल्ये मङ्गलादिकयोजने । ;p{0195} उद्घः हस्तपुटे वह्नौ देहजातसमीरणे ॥ औघो वृन्दे नीरवेगे द्रुते नृत्योपदेशके । मघा नक्षत्रभेदे स्यात् मघी धान्यविशेषके ॥ मेघः स्याद् वारिवाहेऽपि मुस्तके राक्षसेऽपि च । मोघा तु पाटलायां स्त्री त्रिषु निष्फलहीनयोः ॥ लघुर्मनोज्ञे निःसारे चागुरावपि वाच्यवत् । कृष्णागुरुणि शीघ्रे च क्लीबं पृक्कौषधौ स्त्रियाम् ॥ श्लाघा स्त्री परिचर्यायामभिलासप्रशंसयोः । ;vv{घ त्रि} अनघस्त्रिषु निष्पापमनोज्ञनिर्मलेषु च । अमोघं त्रिषु सफले स्त्रियां पय्याविडङ्गयोः ॥ उल्लाघः प्रयते कृष्णे नीरोगदक्षयोस्त्रिषु । निदाघः स्वेदसलिले ग्रीष्मकाले तयोष्मनि । पलिघः कलशे काचघटगोपुरसद्मसु । परिघोऽर्मलघाताऽस्त्रयोगभेदेषु कीर्तितः । प्रतिघः प्रतिघातेऽपि क्रोधमूर्छनयोरपि ॥ महार्घो लावके पुंसि महामूल्येऽपि च त्रिषु । सर्वौघो गुरुवेगे स्यात् सैन्यमल्लहनेऽपि च ॥ ;c{इति घान्तवर्गः ॥} ;v{ङान्ताः} ;vv{ङ एकः} ङकारो विषयेच्छायां भैरवेऽपि च निगद्यते । ;c{इति ङान्ताः ॥} ;v{चान्ताः} ;vv{च एकः} चः स्याच्चौरे हिमकरे निर्वीजे दुर्जनेऽपि च । ;vv{च द्वि} अर्चा स्यात् प्रतिमा पूजा जातकशुश्कषणेऽपि च । कचः बृहस्पतिसुते केशे शुष्कव्रणेऽपि च ॥ बन्धनेऽपि च शोभायां करिण्याञ्च कचा स्त्रियाम् । काचो मनौ च शिक्ये च नेत्ररुग्मृत्तिकाभिदोः । काञ्चीनगरभेदे च स्त्री कटिमेखलासु च । कूर्चमस्त्री भ्रुवोरन्तः कठिन श्मश्ककैतवे ॥ क्रोञ्चः पर्वतभेदे स्यात् पक्षिद्वीपभिदोरपि । चर्चा तु चर्चिकायां स्त्री चिन्ताविचारयोरपि ॥ चञ्चा नलादिनिर्माणे तृणनिर्मितपुरुषे ॥ चञ्चुरेरण्डमृगयोः पुंसि त्रोटौ स्त्रियामपि । त्वक् स्त्रियान्तु वल्कले स्यात् चर्मण्यपि गुडत्वचि ॥ न्यङ् निम्ननीचयोर्नीचो वामने पामरेऽपि च । प्राक् पूर्वदिशि देशे पूर्वकाले च वाच्यवत् ॥ ;p{0196} पिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् । रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग् दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ वाग् वाचा च समानार्थे भारतीवचसोः स्त्रियौ । वीचिस्तरङ्गावकाशसुखस्वल्पेषु च द्वयोः ॥ शुचिः ग्रीष्मसिताषाटज्यैष्ठशृङ्गारवह्निषु । शुद्धमन्त्रिणि शुद्धे वा तथानुपहते त्रिषु ॥ शची शतावरीन्द्राण्योः सचिः स्त्रीकरणान्तरे । सूचिरङ्गाभिनयभित् सीवनद्रव्ययोरपि ॥ ;vv{च त्रि} कनीचिः सङ्कटे गुञ्जाप्रफुल्ललतयोः स्त्रियाम् । कवचः पर्पटे गन्धभाण्डसन्नाहयोरपि ॥ नमुचिर्दैत्यभेदे स्यात् तथा कुसुमसायके । नाराचो लोहबाणाम्बुहस्तिनोस्तेषनीषु च(?) ॥ प्रपञ्चोऽपि च विस्तारे सञ्चरे नवतोरणे । क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यद्रुमे पुमान् ॥ मरीचिः स्याद् द्वयोर्दीप्तौ मुनिभेदे पुमानपि । मारीचः कुष्ठिते रक्षोभेदे स्याद् याजकेऽपि च ॥ स्याद् विपञ्ची तु वीणायां क्रीडायामपि कीर्तिता । विरिञ्चिः स्याद् विरिञ्चोऽपि शिवे विष्णौ विधातरि ॥ शङ्कोचिः मीनभेदे स्याद्वल्के क्लीबञ्च कुङ्कुमे । सम्यग् मनोज्ञे शुद्धे तु सङ्गते चाप्यलिङ्गकम् ॥ ;vv{च चतुः} जलसूचिर्भवेत् कङ्कत्रोटिशृङ्गाटयोरपि । पुंलिङ्गः शिशुमारे तु जलौकायां स्त्रियामिह ॥ मलिम्लुचश्चौरे चाग्नौ मासभेदे च पुंस्यपि । ;vv{च पञ्च} स्त्री शीत्कारश्चस्मरेषु रतनारीच उच्यते ॥ ;c{इति चान्तवर्गः ॥} ;v{छान्ताः} ;vv{छ एकः} छं निर्मले च तरणे छेदे तु स्यात् पुमानयम् । ;vv{छ द्वि} अच्छो निर्मलभल्लूकस्फटिकेन्दुकरेषु च ॥ आभिमुख्येऽव्ययन्त्वछं मान्तमित्यपि कुत्रचित् । कच्छोऽनूपे तुन्नद्रुमे नौकाङ्गे च पुमानयम् ॥ वाराह्यां चीरिका वस्त्रप्रान्ते कच्छा निगद्यते । ;p{0197} गुच्छस्तम्बे हारभेदे कलापे स्तवकेऽपि च ॥ पिछा तु शाल्मली वेष्टमोचा पूगफलेषु च । कोषे भक्तसमुद्भूतमण्डे चाश्चपदामये ॥ स्त्रियां पुंसि तु लाङ्गुले न द्वयोस्तूलबर्हयोः । म्लेच्छोऽपभाषणे पापरक्तपामरभेदयोः ॥ ;vv{छ चतुः} महारुच्छ(?)स्तु वरुणे समुद्रे पर्वतेऽपि च ॥ ;c{इति छान्तवर्गः ॥} ;v{जान्ताः} ;vv{ज एकः} जो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद् वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ ;vv{ज द्वि} अजो हरिहरब्रह्मछागस्मरनृपेषु च । अब्जो शङ्केऽस्त्रियां नातु धन्वन्तर्यम्बुजेन्दुषु ॥ क्लीबे पद्मे तथाब्जस्तु पदमेन्दु श्रीष्वसौ (?) पुमान् । आजिः स्त्रीसमभूमौ स्यात् संग्रामाक्षेपयोरपि ॥ ऊर्ज उत्साहबलयोः प्राणने कार्त्तिकेऽपि च । कज्जं सुधापङ्कजयोः कञ्जः केशविरिञ्चयोः ॥ कुजः स्यान्नरके गुमौ कात्यायन्यां कुजा स्त्रियाम् । कुजः पुंसि वृक्षभेदे न्यूब्जे तु वाच्यलिङ्गगः ॥ कुञ्जोऽस्त्री स्यात् निकुञ्जेऽपि दन्तिदन्ते हनावपि ॥ खञ्जस्त्रिषु च वक्रोङ्घ्रौ खञ्जा छन्दोभिदि स्त्रियाम् । खजा प्रहस्तेमन्थे च मरणेऽपि च कुत्रचित् ॥ खर्जूः स्त्रियान्तु कण्डूतौ खर्जूरी द्रुमकीटयोः । गञ्जा खनौ स्वरागे(?) स्यात् तथा पामरसद्मनि ॥ गञ्जः पुमानवज्ञाते भाण्डागारे तु न स्त्रियाम् । गुञ्जा तु कृष्णलायां स्यात् पटहे च कलस्वने ॥ द्विजो ना ब्राह्मणक्षत्रवैश्यदन्तेन्दुपक्षिषु । स्त्रियां हरेणौ भार्यायां वीणाभेदे च कुत्रचित् ॥ ध्वजः स्याच्शौण्डिके पुंसि पताकायान्तु न स्त्रियाम् । खटवाङ्गमेद्रचिह्नेषु स्याद् गर्वदर्पयोरपि । निजः स्वीये च नित्ये च वाच्यलिङ्गन्तु कुत्रचित् । न्युब्जो दर्भस्रुचि क्लीबं कर्मरङ्गफलेऽपि च ॥ श्राद्धादिपात्रभेदे च कुब्जे चाधोमुखे त्रिषु । पिञ्जा तूले हरिद्रायां बले क्लीबं वधे पुमान् ॥ भुजं द्वयोः करे वाहौ प्रजा सन्ततिलोकयोः । ;p{0198} मर्ज्जः स्त्रियान्तु श्रुद्धौ ना रजके पीठमर्दके ॥ रजः परागे रेणौ च गुणभेदे तथार्त्तवे । रज्जुः स्त्रियां गुणे वैण्यां स्त्रीराजिः पंक्तिलेखयोः ॥ रुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् । क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥ बहुत्वे पुंसि लाजाः स्युर्व्याजोऽपदेशशाठ्ययोः । ब्रजो गोष्ठे पथिच्छन्दे वाजः पक्षे च निस्वने । मुनौ पुमान् जले क्लीबं यज्ञे चैव घृतान्नयोः ॥ बीजं स्यादङ्कुरे हेतौ तत्त्वाधाने च शुक्रके । स्त्री सर्जूरभिसारे च हारे वणिजि विद्युति ॥ स्वजं क्लीबन्तु रक्ते स्यात् स्वजो ना धर्मपुत्रयोः । सज्जः स्यादपि सन्नद्धे आदृते निभृते त्रिषु ॥ ;vv{ज त्रि} अण्डजः स्यान्मृगमदे सरटे पक्षिमत्स्ययोः । अङ्गजं रुधिरे ना तु कामे पुत्रे मदे कचे ॥ अम्बुजं कमले क्लीबं हिज्जले तु पुमानयम् । कम्बोजो हस्तिभेदे स्याच् शङ्खे देशविशेषके ॥ करञ्जः करजेऽपि स्याद् ना तू व्याघ्रनखे स्त्रियाम् । करिजः स्यात्तु वाल्मीके शिल्पिचित्रे गजार्भके ॥ काम्बोजः सोमवल्के स्यात् पुम्नागे च हयान्तरे । काम्बोजी खदिरे शुक्ले माषपर्ण्यामपि स्त्रियाम् ॥ कुटजः स्यादगस्त्ये तु द्रोणे वृक्षविशेषके । गिरिजं शैलजे चाभ्रे शिलाजतुनि लोहके ॥ गिरिजा मातुलुङ्ग्यान्तु पार्वत्यामोषधीभिदि । नीरजं पद्मके कुष्ठे जलजं पद्मशङ्खयोः ॥ परञ्जस्तैलयन्त्रे तु फले च छुरिकादने । बलजं सङ्गरे क्षेत्रे शस्ये सारे च गोपुरे ॥ बलजा वणिजो नार्यां युथीभम्योर्वरस्त्रियाम् । बाहुजः स्यात्स्वयं जाते तिले क्षत्रियकीरयोः । वनजा मुद्गपर्ण्यां ना मुस्तके क्लीबमम्बुजे ॥ भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा । सहजस्तु स्वभावे ना सोदरे पुनरन्यवत् ॥ समजः पशुबृन्दे स्याद् विपिने मूर्खसंहतौ । सामजः सामसम्भूते भवेन्मत्तमतङ्गजे ॥ हिमजा पार्वतीशय्योः पुमान् मैनाकपर्वते । ;p{0199} ;vv{ज चतुः} अहिभुक् च मयूरे स्याद् विनतानन्दनेऽपि च ॥ कश्मीरजारुणायां स्त्री क्लीबे कुङ्कुमकुष्ठयोः ॥ क्षीराब्धिजं मौक्तिके स्यात् समुद्रलवणेऽपि च ॥ शीतभानौ पुमान् स्त्री तु कमलायां निगद्यते । ग्रहराजो हिमकरे गीष्पतौ च दिवाकरे ॥ जघन्यजः कनिष्ठे स्याच् शूद्रजातौ च कीर्तितः । द्विजराजः शशधरे ब्राह्मणे विनतासुते ॥ धर्मराजो नरपतौ यमे बुद्धे युधिष्ठिरे । भरद्वाजो गुरुसुते मुनौ व्याघ्राटपक्षिणि ॥ भारद्वाजी मुनौ द्रोणे वनकार्पासके स्त्रियाम् । भृङ्गराजः पक्षिवृक्षभिदो मधुकरेऽपि च ॥ यमराट् स्यात् कुवेरेऽपि मञ्चानां रङ्गबन्धने । राजराजः सार्वभौमे धनदे च सुधाकरे ॥ ;vv{ज पञ्च} वृषभध्वज इत्युक्तो वृद्धभेदे च शङ्करे । मुनिभेषजमगस्त्ये हरितक्याञ्च लङ्घने ॥ ;c{इति जान्तवर्गः ॥} ;v{झान्ताः} ;vv{झ एकः} झकारः कथितो नष्टे झञ्झायामम्बुवर्षणे ॥ ;c{इति झान्तवर्गः ॥} ;v{ञान्ताः} ;vv{ञ एकः} ञो गायने घर्घरे च ञो ब्रह्मबुधसूरिषु । ;vv{ञ द्वि} अज्ञो जडे च मूर्खे च प्राज्ञः पण्डितदक्षयोः । प्रज्ञा बुद्धिसरस्वत्यो राज्ञी छायानृपस्त्रियोः ॥ संज्ञा सूर्यस्त्रियां नाम्नि गायत्यां चेतनासु च । हस्ताद्यर्थसूचनायां मनीषायाञ्च योषिति ॥ ;vv{ञ त्रि} कृतज्ञः कुक्कुरे ना तु मर्यादिन्यपि वाच्यवत् । क्षेत्रज्ञ आत्मनि छेके विदग्धे कृषकेऽपि च ॥ ;c{इति ञान्तवर्गः ॥} ;v{टान्ताः} ;vv{ट एकः} टङ्कारे च ध्वनौ टोऽपि पृथिव्यां ठासमीरिता । ;vv{ट द्वि} अट्टं भक्ते पुंसि शुष्के क्षौमेऽत्यर्थे गृहान्तरे । इष्ट आशंसिते पूज्ये क्रतौ ना प्रेयसि त्रिषु । संस्कारे क्लीबलिङ्गं स्याद् व्रते च क्रतुकर्मणि ॥ इष्टिर्यज्ञेऽभिलाषे च संग्रहश्लोकयोः स्त्रियाम् । कटः कट्यां द्वयोर्ना तु सूक्ष्मकाष्ठे तृणे शवे ॥ समये हस्तिगण्डेऽपि पिप्पल्याञ्च स्त्रियां कटी । ;p{0200} कटुर्ना रसमात्रेऽस्त्री रोहिणीकलिराजिषु ॥ कटुकार्ये सुगन्धौ च मत्सरे च खरे त्रिषु । कष्टं कृच्छ्रे च गहने क्रुष्टं रुदितशब्दयोः ॥ कुटः कोटे ना स्त्रियान्तु घटे गेहेऽपि च द्वयोः ॥ कुटी स्त्रियां कुम्भदास्यां मुरायां चित्रगुच्छके ॥ कूटोऽस्त्रियां स्थिरे राशौ दम्भे च लोहमुद्गरे । मायायां गिरिशृङ्गेऽपि सीराङ्गेऽनृतयन्त्रयोः ॥ कृष्टिः प्रमाणपण्डिते भवेदाकर्षणे स्त्रियाम् । कोटिः स्त्री वहिणचापाग्रसंख्याभेदोत्कर्षकेष्वपि ॥ खटः प्रहारे भेदान्धकूपटङ्ककफेषु च । खाटिः किणे शवरथे भीषितेऽसद्ग्रहे स्त्रियाम् ॥ खेटोऽस्त्रीचर्मणि ग्रामकफयो घोटके त्रिषु । गृष्टिः सकृत्सूतगव्यां बदरायामपि स्त्रियाम् ॥ घटः कुम्भशिरः कूटे समाधिभिदि पुंस्ययम् । घटागोष्ठीभघटनाघटनेष्वपि च स्त्रियाम् ॥ घृष्टिर्ना शूकरे विष्णुक्रान्ताघर्षणयोः स्त्रियाम् ॥ घोन्टा स्त्री बदरी वृक्षगुवाकद्रुमयोरपि । चटः पिचिण्डे चाटौ च व्रतिनामासने पुमान् ॥ जटामूले लग्नकचे मांस्यां प्लक्षे जटीत्यपि । जुष्टं तत्क्लीबमुच्छिष्टे वाच्यलिङ्गन्तु सेविते ॥ झाटा स्त्रियान्तु कान्तारे कृष्णे व्रणादिमार्जने । तटं क्षेत्रे क्लीबलिङ्गं तीरेऽपि च तटी त्रिषु ॥ त्वष्टा सूर्य प्रभेदेऽपि विश्वकर्मणि वर्द्धकौ ॥ त्रुटिः स्त्रियां संशयेऽल्पे सूक्ष्मैलकालमानयोः ॥ त्रोटिश्चञ्च्वां कटफले कन्ठे मीनभिदि स्त्रियाम् । दिष्टं दैवे तु काले ना दिष्टिः स्त्री हर्षमानयोः ॥ अथ दृष्टिर्मनीषायां दर्शने नयनेऽपि च । घटो दिवा तुलायां ना खण्डवस्त्रे घटी स्त्रियाम् ॥ नटी नील्याञ्च वेश्यायां शैलूषाशीकयोः पुमान् । पटी वस्त्रे पटश्चित्रवस्त्रे पियालभूरुहे ॥ पटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् । पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि । राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे । पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे । ;p{0201} पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च । वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥ भटः पामरभेदे स्याद् वीरे च रजनीचरे । भृष्टिः शून्ये भर्जने च वाटिकायामपि स्त्रियाम् ॥ म्लिष्टस्त्रिष्वपि चाव्यक्तवाचि म्लाने चिरन्तने । मुष्टिः पले बद्धपाणौ त्सरौ मानभिदि द्वयोः ॥ यष्टिर्ना ध्वजदण्डे तु भार्गीमधुकयोर्द्वयोः । तथा हारलताभेदेऽखण्डे शस्त्रविशेषके । रिष्टं शुभेऽशुभे ना तु फेनिलद्रुमखङ्गयोः । रिष्टिः खङ्गे-पुमान् स्त्री स्यादशुभे शस्त्रभिद्यपि ॥ लाटो देशान्तरे वस्त्रे जीणेषु भूषणादिषु । वाटः पथि वृतिस्याने वाटी स्यात्कुटिवास्तुनोः ॥ विटोऽद्रौ खदिरे षिङ्गे लवणे मूषिकेऽपि च ॥ त्रिषु विष्टिः कर्मकरे आजुर्वेतनयोः स्त्रियाम् ॥ व्युष्टं त्रिषूषिते कल्ये समृद्धिफलयोः स्त्रियाम् । सटा जटाकेशरयोः शिखायां शिखरेऽपि च ॥ स्फुटो व्यक्ते प्रपुल्ले च व्याप्ते चापि भवेत्रिषु । स्फुटिः पादस्फाटरोगे निर्भिन्नकर्कटीफले ॥ सृष्टन्तु निर्मिते युक्ते बहुले निश्चितेऽपि च । सृष्टिः स्वभावे निर्माणे निर्गुणे सगुणेऽपि च ॥ हृष्टो रोगाञ्चिते जातहर्षे प्रतिहतेऽन्यवत् । ;vv{ट त्रि} अवटः कूपकुहकजीविगर्त्राखिलेषु च ॥ अरिष्टः फेनिले कङ्के काके लवणनिम्बयोः । अरिष्टमशुभे तक्रे सत्यसूतीगृहे शुभे ॥ आदिष्टं क्लीबमाज्ञप्तोच्छिष्टयोर्देशिते त्रिषु । उत्कटो विषमे तीव्रे गाटमत्ते मदेऽपि च ॥ उन्मुटो भास्करे कूर्मकार्पाटो जनुकाष्ठिनोः(?) । कर्कटो राशिभेदे च पक्षिभेदे कुलीरके ॥ स्त्रियां वान्नाकायान्तु(?) भुजङ्ग्यां शाल्मलीफले । कर्कटः पङ्कपङ्कारकरहाटेषु(?) कथ्यते ॥ करटो दर्दरूटे स्याद् गजगण्डे च वायसे । एकादशाहादिश्राद्धे कुसुम्भे निन्दय जीविते ॥ कीकटो भूम्नि देशे ना निम्बेऽपि कृपणे त्रिषु । ;p{0202} कुरुन्टी स्त्री दारुपुत्र्यां झिण्ट्यम्लानभिदोः पुमान् ॥ कुक्कुट्यसत्यचर्मायां ताम्रचूडे पुमानपि ॥ निषादे शूद्रपुत्रे च तृणोल्कायाञ्च कुक्कुभे । कुनटी स्त्री तु नैपाल्यां तथा गनःशिलासु च । कृपीटं जठरे नीरे विपिनेन्धनयोरपि ॥ केशटो भातरि हरौ स्यादजौकणयोरपि । चर्पटः पर्पटे क्षारे चपेटे विपुलेऽपि च ॥ चक्राटो धूर्तदीनारविषवैद्यखलेषु च । चिपिटो विस्तृते खाद्यभेदे ना त्रिषु पिष्टिते । चिरिन्टी स्यात्तरुण्यान्तु स्ववासिन्यामपि स्त्रियाम् ॥ त्रिकूटं सिन्धुलवणे पुमांस्तु पर्वतान्तरे । त्रिपुटा स्त्री तु सूक्ष्मैला त्रितृतामम्बिकासु च ॥ तीरे सतिलके पुंसि हस्तभेदे च तालके । त्रोहाटो व्याधिधाताभिद् (?) वैडालव्रतिकेषु च ॥ धाराटश्चातके मेघे तुरङ्गे मत्तहस्तिनि । निर्दटो वाच्यलिङ्गः स्यात्परापवादशालिनि ॥ दयाशून्ये च तीव्रे च मत्ते च निष्प्रयोजने । निष्कुटः पुंसि केदारे गृहीय्यानकपाटयोः ॥ पर्कटी प्लक्षवृक्षे स्यात्पूगादेर्नूतने फले । परीष्टिः परिचर्यायां प्राकाम्येऽन्वेषणेऽपि च ॥ पर्पटः पिष्टगेदे स्त्रीपुंसि स्याद् भेषजान्तरे । पात्रटो वाच्यलिङ्गः स्यात्कृशे कर्पटके पुमान् ॥ पिच्चटं सीसके रङ्गे पुमांस्तु नेत्ररोगके । वर्वटी व्रीहिभेदे स्यात्पण्यजीविस्त्रियामपि । वेकटो मत्स्यभेदे स्यात्तरुणे च विदूषके । भावाटः कामुके साधुविशेषे भावके नटे ॥ मर्कटो लूतिके कीशे स्त्रियां शिखिकरञ्जयोः । मोचाट स्यान्मलयजे रम्भास्थिकृष्णाजीरके । मोरटं स्यादिक्षुमूले तथाङ्कोठप्रसूनके । सप्तरात्रात्परक्षीरे भूर्विकायाञ्च मोरटा ॥ वर्णाटो गायने चित्रकरे स्त्रीकृतजीवने । विकटः स्यात्कराले तु विशालेऽपि च वाच्यवत् ॥ शैलाटः स्याच्छुक्लकाचे देवे सिंहकिरातयोः । ;p{0203} ;vv{ट चतुः} उच्चिङ्गटस्तृणगडमीने कोपनपूरुषे ॥ करहाटः पद्मशिफाकन्दे च मदने द्रुमे । कार्यपुटस्तु कृपणे उन्मत्तेऽनर्थकारिणि ॥ कामकूटस्तुर्वेश्यानां प्रियेषु विभ्रमेषु च । कुटन्नटः शोनके ना क्लीबे कैवर्त्तिमुस्तके ॥ कुन्टकीटस्तु पतितब्राह्मणतनयेऽपि च । चार्वाकवचनाभिज्ञदासीकामुकयोरपि ॥ खड्गारीटस्तु चर्मणि धाराव्रतादिधारिणोः । नारकीटः स्वदत्ताशाघातके चाश्मकीटके ॥ पुरपुष्टः कोकिले स्यात् स्त्रियां वारस्त्रियामपि । प्रतिकृष्टन्तु गर्ह्ये स्याद् द्विष्णवल्या च कर्षिते ॥ प्रतिमृष्टः प्रेषिते ना खण्डिते वाच्यलिङ्गकः । वर्कराटः कटाक्षे ना तरुणादित्यतेजसि ॥ कान्तास्तनयुगोत्सङ्ग कान्तार्पित नखखते । शिपिविष्टः स्मरहरे खलतौ दुष्टचर्मणि ॥ अथ श्रुतिकटः प्राञ्चल्लोहाहिपापशोधने । ;vv{ट पञ्च} स्यात्पुंसि दशनोच्छिष्टः निश्वासाधरचुम्बयोः ॥ ;c{इति टान्ताः ॥} ;v{ठान्ताः} ;vv{ठ एकः} शिवे ठश्च बृहद्धनौ शून्ये शीतांशुमण्डले । ;vv{ठ द्वि} कठो गुनौ च वेदज्ञे वेदभागे स्वरेऽपि च ॥ कण्ठो ध्वनौ सन्निधाने गले मदनभूरुहे । काष्ठा दारुहरिद्रायां कालमाने प्रकर्षके ॥ स्थानमात्रे दिशि स्त्री तु काष्ठं दारुणि न द्वयोः । कुण्ठः स्यादलसे मूर्खे कुष्ठं पुष्कररोगयोः ॥ कोष्ठः कुशूले स्वीये च जठरावासमद्ययोः । गोष्ठी संलापसभयोः क्लीबे गोस्थानकेऽपि च ॥ पाठस्तु पठने पुंसि विद्धकर्ण्यामपि स्त्रियाम् । वण्ठः कुन्तायुधे खर्वे अकृतोद्वाहपूरुषे । शठो धूर्ते च धूस्तूरे मध्यस्थपुरुषेऽपि च ॥ श्रेष्ठो दुधे धनेशे च नृपे ज्येष्ठे द्विजेऽपि च ॥ शोठो मूर्खेऽलसे धूर्ति नीचे पापरतेऽपि च । षष्ठी रेमवतीतिथ्योः षण्णाञ्च पूरणे त्रिषु ॥ ;p{0204} ;vv{ठ त्रि} अपष्ठुः पुंसि कामे स्याद् वामे तु वाच्यलिङ्गकः । अम्बष्ठो द्विजवैश्याजे देशे हस्तिपके पुमान् ॥ अम्बष्ठा यूथिका केशी पाठाम्ललीनिकासु च । कमठः कच्छपे वंशे क्लीबं भाण्डविशेषके । कनिष्टाङ्गुलिभेदेऽतियुवात्यल्पानुजेषु ना । जरठः कठिने पाण्डौ जीर्णे तु वाच्यलिङ्गकः ॥ नर्मठश्चूचुके षिङ्गे परिहासरतेऽपि च ॥ प्रतिष्ठा गौरवे स्थाने कलापद्यभिदोः क्षितौ ॥ वरिष्ठो मरिचे ताम्रे तित्तिरौ ना महत्तरे । मकुष्ठो व्रीहिभेदे स्यान्मन्थरे वाच्यलिङ्गकः ॥ साधिष्टोऽतिदृढेऽत्पार्थे श्रीकन्ठे हरदेशयोः । ;vv{ठ चतुः} कलकण्ठः कलरावे स्यात्पारावतहंसयोः ॥ कालकण्ठः खञ्जने स्याद् दात्यूहकलविङ्कयोः ॥ मयूरे च महादेवे पीतिसारे च पुंस्यपि ॥ कालपृष्ठं कर्णचापे कङ्कपक्षिणि पुंस्ययम् ॥ दन्तशठस्तु जम्बीरे कर्मरङ्गकपित्थयोः । नागरङ्गे पुमानेव चाङ्गेर्यामपि च स्त्रियाम् ॥ पूतिकाष्ठञ्च सरले देवदारुणि न द्वयोः । सूत्रकण्ठो द्विजार्ग्रतुखर्जरीटे कपोतके ॥ हारिकण्ठः कोकिले ना हारकण्ठान्विते त्रिषु ॥ ;c{इति ठान्तवर्गः ॥} ;v{डान्ताः} ;vv{ड एकः} डस्त्रासे शङ्करेध्वाने दस्युवृन्दे खलेऽपि च । ;vv{ड द्वि} इडा बुधस्त्री वाक् पृथ्वी स्वर्मतीषु च गोषु च ॥ काण्डं बाणे तरुस्कन्धे स्तम्बे नीचेऽपि कुत्सिते । नाडी व्रणान्तरे वृक्षभेदे महसि न स्त्रियाम् ॥ क्रीडा केलिप्रभेदे स्यादवज्ञाखेलयोरपि । कुण्डं वह्निगृहे मानभेदे सुरजलाशये ॥ कुण्डी कमण्डलौ स्थाल्यां कुण्डो जारसुते पुमान् । क्ष्वेडो ध्वनौ विषे कर्णरोगे ज्वालाकुलेऽपि च ॥ क्ष्वेडा तु सिंहनादे स्याच्शलाकायामपि स्त्रियाम् ॥ रक्तार्कपर्णप्रसवे घोषपुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गं निगद्यते ॥ क्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् । खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥ ;p{0205} खडः स्यात्पानभेदे च भेदे लघुतृणे स्त्रियाम् । गण्डः खड्गे यागभेदे हयभूषणबुद्बुदे ॥ वीथ्यङ्गे पिटके चिहणे ग्रहे वीरे कपोलके । गडुः कुब्जे गले पृष्ठे गुडे शल्ये पुमानयम् ॥ गडो मत्स्यप्रभेदे स्यात्परिखाव्यवधानयोः । गुडो द्विरदसन्नाहे गोलकेक्षुविकारयोः ॥ गुडा स्रुहीद्रुमे स्त्री स्याद् गुडिकामलयोरपि । गोण्डः स्याद् वृद्धनामौ च नीके पामरजातिषु ॥ चण्डः शमनदूते ना दैत्ये च तित्तिडीद्रुमे । चण्डी भवान्यां हिंस्रायां कोपनायाञ्च योषिति ॥ चण्डा धनहरी शङ्खपुष्प्योश्च कोपन त्रिषु । चूडा शिखायां वडभौ शिखर करभूषणे ॥ जडो मूकहिमग्रस्तमूर्खेषु शिखिषु स्त्रियाम् । ताडी पत्रद्रुमे ना तु ताडने मुष्टिशब्दयोः ॥ दण्डोऽस्त्री लगुडे पुंसि व्यूहभेदे प्रकाण्डके । अग्निकोणे च मन्थाने नाडीमानाभिमानयोः । सैन्ये दमे यमे कालमानभेदे व्रणान्तरे ॥ तथा षट्क्षणकाले च चण्डांशु पारिपार्श्विके । स्याद् धण्ड(?) दूर्वाशिवयोश्चर्यायां गहनादिभिः ॥ नीडं कुलाये स्थानेऽस्त्री पण्डः षण्डे मतौ स्त्रियाम् । पाण्डुर्ना नृपतौ रोगनागभेदसितेषु च ॥ पिण्डो गृहैकदेशे ना बले बाणे च सान्द्रके । पितृदाने देहमात्रे गोलसिह्लकयोरपि ॥ ओड्रपुष्पे च पुंसि स्यात् पिण्डमाजीवलीहयोः । स्यात्पिण्डी पिण्डतगरे तुम्बी खर्जूरभेदयोः ॥ पीडापमर्दसरलशिरोमालाकृपासु च । भाण्डं वणिक् मूलधने पात्रे भूषाश्चभूषयोः ॥ मण्डः शाकविशेषे स्यादेरण्डदधिमण्डयोः । मण्डा त्वामलकीवृक्षे न स्त्रियां पिच्छसारयोः ॥ मुण्डो दैत्यप्रभेदे स्याद् राहो ना मुण्डिते त्रिषु । मुण्डा मुण्डीरिकौषध्यां मुण्डमन्द्रीतु मूर्द्धनि ॥ रण्डा स्त्री विधवायां स्यान्मूषीपर्ण्यामपि स्त्रियाम् । रोडस्तृप्तो वाच्यलिङ्गः क्षते तृप्तो भवेत्पुमान् ॥ वण्डा स्त्रियां पांशुलायां हस्तादिवर्जिते त्रिषु । ;p{0206} व्याडो विषधरे हिंस्रपशौ शतमखेऽपि च । शुण्डा तु जलहस्तिन्यां हस्तिहस्ते सुरागृहे ॥ वेश्यायां मदिरायाञ्च तथा पानगृहे स्त्रियाम् । अथ शौण्डा तु पिप्पल्यां शौण्डो विख्यातमत्तयोः ॥ षण्डः स्याद् गोपतौ पुंसि षण्डं पद्यादिसंहतौ । ;vv{ड त्रि} कुष्माण्डः पुंसि कर्कारौ शत्रुभेदे गणान्तरे ॥ उमायामपि कुष्माण्डी तथा यागक्रियान्तरे । कोदण्डं कार्मुके पुंसि भ्रूलतादेशभेदयोः ॥ गारुडं विषमन्त्रे स्याद्रले मरकतेऽपि च । तरण्डो भेलके वर्शीसूत्रादिबद्धदारुणि ॥ नौकायामस्त्रियां कुम्भतुम्बीरम्भादिसञ्चरे । निर्गुण्डी सिन्धुवारे स्यान्नीलशेफालिकासु च ॥ प्रचण्डो दुर्धरे शुक्लकरवीरे प्रतापिनि । प्रकाण्डोऽस्त्री तरुस्कन्धे प्रशस्तविटपेषु च ॥ पिचिण्डो जठरे स्यात्तु पशोरवयवेऽपि च । वरण्डो मुखरोगे स्यादन्तरावेदिभेदयोः ॥ वारुण्डी स्त्री द्वारपिण्ड्यां गले स्थ(?) राजके पुमान् ॥ न स्त्रियां श्रवणाक्ष्णोश्च मले च सेचपात्रके । भेरुण्डी यक्षिणीभेददेवतान्तरयोः स्त्रियाम् । भयानके भिन्नलिङ्गं भेरुण्डं गर्भधारणे । मार्तण्डो मिहिरे क्रोडे शिखण्डो वर्हचूडयोः । मारुण्डोऽपि च सर्पाण्डे पथगोमयमण्डले । वण्डोशाविकाश(?) स्त्रीवर्त्तिभेदेषु च स्त्रियाम् । वितण्डा स्त्री वादभेदे कच्वी शाके शिफाद्वये । सरण्डः सरटे धूर्ते कामुके भूषणान्तरे । ;vv{ड चतुः} अपोगण्डस्तु वलिने विकलाङ्गे च बालके । चक्रवाडः शैलभेदे चक्रवाडस्तु मण्डले । जलरण्डः पयौरेणौ जलावर्ते भुजङ्गमे । देवताडश्च जीमूते सैंहिकेये हुताशने ॥ ;c{इति डान्तवर्गः ॥} ;v{ढान्ताः} ;vv{ढ एकः} ढकारो निर्गुणेऽपि स्याद् ढक्कायामपि कथ्यते । ;vv{ढ द्वि} गूढं रहसि गुह्ये च क्लीबं स्यात्सम्बृते त्रिषु ॥ दृढं त्वतिशयस्थूले स्यात्प्रगाढनितान्तयोः । ;p{0207} माढिः स्त्री पत्रभङ्गे च तथा दैन्यप्रकाशने । मूढः शिशौ तन्द्रिते च वाढा च दीप्तिमुख्ययोः । बाढं प्रतिज्ञादृढयो रूढं जातप्रसिद्धयोः । व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ वोढा ना भारिके मूढे परिनेतरि कुत्रचित् । सोढा शक्रे भिन्नलिङ्गस्तितिक्षासंयुतेऽपि च ॥ ;vv{ढ त्रि} अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति । आषाढो व्रतिदण्डे स्यान्मासे च मलयाचले ॥ आलीढः स्यात्पदन्यासभेदे चाप्यक्षिते त्रिषु । उदूढः स्थूल ऊढे स्यादुपोटो निकटोढयोः ॥ प्रमीढो मूत्रिते मेघे प्रगाढो दृढकृच्छ्रयोः । प्ररूढो जठरे बद्धमूले जातप्रवृद्धयोः । आरूढः(?) सम्बले वहणौ भुग्ने सद्योजातेऽनुपस्थिते ॥ ;c{इति ढान्तवर्गः ॥} ;v{णान्ताः} ;vv{ण एकः} णकारः कीर्तितो ज्ञाने निर्णयेऽपि निगद्यते । ;vv{ण द्वि} अणुर्ना व्रीहिभेदे स्यात्सूक्ष्मे तु वाच्यलिङ्गकः ॥ अणिराणिर्युद्धबन्धे सीम्नि चक्राङ्गकीलके । उष्णोऽशीते दक्षे च वाच्यलिङ्गः शुचौ पुमान् ॥ ऊर्णा स्यादन्तरावर्ते भ्रुसोर्मेषादिलोमनि । कर्णः स्यात्तु पृथापुत्रे श्रवणे काञ्चनी(?) त्रिषु(?) । क्षण पर्वण्युत्सवे च कालमानेऽपि न द्वयोः । कणा तु जीवके चाल्पपिप्पलीमक्षिकासु च ॥ काणोऽतिसूक्ष्मे धान्यांशे काणः काकैकचक्षुषोः ॥ कीर्णः श्लक्ष्णे विनिक्षिप्ते हिंसिते वाच्यलिङ्गकः । कृष्णो व्यासे वायसे च केशवार्जुनयोरपि । कृष्णा च द्रौपदी द्राक्षा कणा नीलीषु च स्त्रियाम् ॥ मोचके वाच्यलिङ्गः स्यादस्त्री लोहमरिचके । कोणो गृहाद्येकदेशे वीणादीनाञ्च वादने । वाद्यप्रभेदे लगुडे तथाग्रे च पुमानयम् ॥ गणश्च प्रमथे वृन्दे संख्यायां सैनिकेऽपि च । गुणः सूत्रे चाप्रधाने मौर्व्वी त्यागवटीषु च । कषादिशौर्यगन्धादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि पुंसि स्याद् गेष्णुर्ना गायने नटे ॥ ;p{0208} क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु । जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् । त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च । आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये । देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् । पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् । पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा । प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ वोले ना पूरिते वाच्यलिङ्गः पुंभूम्नि चामुषु । पूर्णः समग्रे शब्दे ना प्यायिते चाभिधेयवत् ॥ फाणिः करम्भे गुडे च वाणी भारतीभाषयोः ॥ मणिर्द्वयोरश्मजातौ मुक्तादौ स्यादलिञ्जरे ॥ कण्ठदेशस्तनेऽजानां योनिलिङ्गाग्रभागयोः । मोणः शुष्कफले सर्गे कुम्भीरे मक्षिकास्वपि ॥ रणोऽस्त्री समरे पुंसि स्वने कणे गतावपि । वर्णो यशोगुणकुथाद्विजशुक्लादिषु स्तुतौ ॥ पुमांस्तु न स्त्रियां रूपभेदाक्षरविलेपने । वारणो दैत्यान्तरे काण्डे केवले गोस्तनेऽपि च ॥ वाणा द्वयोर्नीलझिण्ट्यां वानमूले स्त्रियामपि । वीणा तडिति वल्लव्यां रुद्रवीणादिषु स्त्रियाम् ॥ वृष्णिर्ना यादवे मेषे त्रिषु पाषण्डचण्डयोः । वेणीकेशबन्धने स्यान्नदीभिद्देवताभिदोः ॥ वेणुनृपान्तरे वंशे वाद्यभेदेऽपि पुंस्ययम् । शाणो माषचतुष्के स्यान्निकषे लोहवस्तुनः ॥ शाणीहस्तकटाक्षादिसूचनावरणान्तरे । शीर्णं तनौ विशीर्णे च श्राणं यावागूपक्कयोः ॥ श्रेणी स्त्रीपुंसयोः पङ्क्तौ समानशिल्पिसंहतौ । ;p{0209} शोणोऽग्रौ लोहिताश्वे च श्योनाके लोहिते पुमान् ॥ स्थाणुरस्त्री ध्रुवे पुंसि कीले स्मरहरेऽपि च । स्थूणा लोहप्रतिमायां गृहस्तम्भेऽपि च स्त्रियाम् ॥ ;vv{ण त्रि} अरुणोऽर्केऽव्यक्तरागे निःशब्दे सूर्यसारथौ । सन्ध्यारागे कुष्ठभेदे कपिले तद्वति त्रिषु ॥ अरुणा त्रिवृता श्यामा मञ्जिष्ठातिविषासु च ॥ अरणिर्ना वह्निमन्थे निर्मन्थदारुणि द्वयोः ॥ आभीक्ष्णमत्यर्थे नित्ये च तद्युक्ते क्रियायां त्रिषु । इन्द्राणीसिन्धुवारेस्याच्शच्याञ्च करणे स्त्रियाम् ॥ ईक्षणं नयने दृष्टौ ईरिणं शून्य उषरे । उषणा स्त्रीकणायां स्यादुषणं मरिचेऽपि च । एषणी व्रणमार्गानुसारिण्यां मानभेदके । करुणा स्त्री कृपायाञ्च करुणो रसवृक्षयोः ॥ करणं कर्मणि क्षेत्रे हेतौ च साद्वरादिषु । हस्तलेपे नृत्यगीतप्रभेदे साधनेऽपि च ॥ कायस्थेन्द्रियकायेषु क्लीबं ना वर्णसङ्करे । कल्याणं मङ्गले क्लीबं तथा चाक्षयकाञ्चते ॥ कङ्कणं मण्डने सूत्रे कौतुके करभूषणे । करेणुः स्त्री तु हस्तिन्यां मातङ्गे तु भवेत्पुमान् । कार्मणः कर्मठे क्लीबं मन्त्रतन्त्रादि योजने । काकिनीमानदण्डे स्यात्पणतूर्यांशकेपि च ॥ वराट्यामपि गुञ्जायां काकनीत्यपि कुत्रचित् । कारणं करणे हेतौ यातनायान्तु कारणा ॥ कुर्वाणः कारके भृत्ये कृपणः कुत्सिते कृशे । कृमौ तु कृपणः पुंसि चान्यत्र द्वितये त्रिषु । कृपाणः पुंसि खङ्गे स्याच्छुरिकायामपि स्त्रियाम् ॥ प्रेरणे क्लीबलिङ्गं स्यात्तथाक्षेपोपदेशयोः । ग्रहणं स्वीकृतौ वन्द्यामुपलब्ध्युपरागयोः ॥ स्यात्करादरयो राजभागधेये न च द्वयोः । ग्रामणीर्नापिताध्यक्षप्रधानभोगिकेषु ना । ग्रामीणा नीलिकौषध्यां ग्रामोद्भूते तु वाच्यवत् ॥ गोकर्णोऽनामिकाङ्गुष्ठमाने चाश्चतरेऽपि च । मृगसर्पगणे पुंसि गोकर्णीमूर्विकाद्रुमे ॥ ;p{0210} चरणोऽस्त्रीपदे गोत्रे मूले च बह्वृचादिके । नपुंसकन्तु भ्रमणेऽप्याचारादनयोरपि ॥ जरणो जीरके जीर्णे कृष्णे सौवर्चलेऽपि च । जरणं हिङ्गुनि ख्यातं क्लीबं स्यादोषधीभिदि ॥ तरुणः कुब्जपुष्पे ना चित्रके यूनि च त्रिषु । तरणिः पुंसि मार्तण्डे कुमारीनौकयोः स्त्रियाम् ॥ दक्षिणः सरले छन्दवर्तिदक्षिणजातयोः । आरामे त्रिषु यागान्तदाने च दिशि च स्त्रियाम् ॥ द्रविणं काञ्चने वित्ते पराक्रमे च न द्वयोः । द्रुघणो द्रुहिणेऽपि स्याद् मुद्गरे च परश्वधे ॥ धरणं स्यान्मानभेदे धारणे धरणी भुवि । धरुणः सम्मते स्वर्गे सलिले च पितामहे ॥ धारणी नाडिकायाञ्च बृद्धोक्तमन्त्रभिद्यपि । धारणा स्यात्तु योगाङ्गे न पुमांस्तु विधारणे ॥ निर्याणं क्लीबलिङ्गं स्यान्मतङ्गापाङ्गमोक्षयोः । निर्माणं निर्मितौ सारे परिमाणे हमञ्जसे ॥ निर्वाणं निर्वृतावस्तगमने गजमञ्जने । सङ्गमे निश्चले मोक्षे शून्ये विद्योपदेशने ॥ प्रवणं नम्रजठरक्रमनिम्नमहीषु च ॥ त्रिषु क्लीबं प्लुते स्निग्धे प्रगुणे च चतुष्पथे ॥ प्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे । प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥ इयत्ता परिमाणार्थप्रधानसत्यवादिषु । पक्षिणी पूर्णिमायां स्याद् विहङ्गीशाकिनीभिदोः ॥ आगामिवर्तमानाहर्युक्तायां रजनावपि । प्रवेणी च कुथावेण्योः पूरणं पूरपिण्डयोः ॥ पूरणी तु पटारम्भसूत्रे शाल्मलीभूरुहे । प्रोक्षणं क्लीबलिङ्गं स्यात्सेचने च वधेऽपि च ॥ पुराणस्तु पणे पुंसि त्रिषु स्याच्च पुरातने । अस्त्री कार्षापणे क्लीबलिङ्गन्तु पञ्चलक्षणे ॥ वरुणस्तरुभेदे स्याज्जले पश्चिमदिक्पातौ । वरणं पूजनादौ ना प्राकारतिक्तशाकयोः ॥ वरणा स्त्री नदीभेदनगरीभेदयोरपि । वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ॥ ;p{0211} ब्राह्मणः स्याद्द्विजे पुंसि फक्किकापृक्कयोः स्त्रियाम् । स्याद्वेगभागके ब्रह्मसमूहे च नपुंसकम् ॥ वारुणी स्यात्सुरागण्डदूर्वापश्चिमदिक्षु च । भरणी तारकाभेदे तथा घोषकभूरुहे ॥ भरणं पोषणादौ च क्लीबं स्याद्वेतने भृतौ । भीषणो रसशल्लक्योः प्रघाढे दारुणे त्रिषु ॥ मत्कुणो नारिकेले स्यादुद्दंशादन्तकुम्भिनोः । अजातश्मश्रुपुरुषेऽजातलोमभगे स्त्रियाम् ॥ मार्गणो याचके बाणे क्लीबमन्वेषणार्थयोः । यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च । रवणः शब्दने तीक्ष्णे भण्डके चञ्चलेऽपि च । रमणं पटुमूले स्यान्नार्यां स्त्री स्यात्प्रिये पुमान् । रोषणः क्रोधने हेमघर्षणाश्मनि पारदे ॥ रोहिणी कण्ठरुग्तारासोमवल्ककटम्भरेः । लवणं सैन्धवादौ तु ना सिन्धौ रसरक्षसोः ॥ नदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु । लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥ प्रतीत्यनुपपत्तौ स्त्री सारस्यां लक्षणापि च । लक्ष्मणोऽपि च सश्रीके सुमित्रानन्दनेऽपि च ॥ स्त्रियां स्यादोषधीभेदे सारस्यामपि लक्ष्मणा । विषाणी क्षीरकाकल्यामजशृङ्ग्यामपि स्त्रियाम् ॥ पशुशृङ्गे हस्तिदन्ते त्रिषु क्लीबन्तु कुष्ठके । विपणिः स्त्री पण्यवीथ्यां पण्ये स्यादापणेऽपि च ॥ शरणं घातके गेहे रक्षणे रक्षकेऽपि च । श्रवणन्तु श्रुतौ कर्णे न पुंसि तारकाभिदि ॥ श्रमणो यतिभेदे स्यात्त्रिषु स्यान्निन्द्यजीविषु । भवेत्सुदर्शनायां स्त्री मुण्डीरीष्वपि च स्त्रियाम् ॥ सिङ्घाणं नासिकालोहमले स्यात्काचपात्रके । श्रीपर्णी कुम्भिगम्भार्यो क्लीबे पद्माग्निमन्थयोः ॥ संकीर्ण निश्चिते व्याप्ते स्यादशुद्धे तु वाच्यवत् । सरणिः पथि पंक्तौ स्त्री सारणो रोगरक्षसोः ॥ सारणी स्वल्पनद्यान्तु प्रसारण्यामपि स्त्रियाम् । सुषेणः कपिवैद्ये स्यात्करमर्दे च केशवे । सुवर्णः स्वर्णकर्षे स्यात्सुष्ठुवर्णे च वाच्यवत् । ;p{0212} रुक्मचन्दनयोः क्लीबे स्त्रियां कृष्णागुरुण्यपि ॥ सुपर्णः कृतमाले स्याद् गरुडे स्वर्णचूडके । सुपर्णा विनतायाञ्च कमलिन्यामपि स्त्रियाम् ॥ हरणुर्ना सतीले स्त्री रेणुकायां कुलस्त्रियाम् । हरणं यौतुकद्रव्ये भुजे च हरणेऽपि च ॥ हरिणस्तु मृगे पुंसि विषदे(?) वाच्यलिङ्गकः । हरिणी हरितायाञ्च वृत्तनारीविशेषयोः ॥ काञ्चनप्रतिमायाञ्च तरुण्याञ्च वरस्त्रियाम् । हर्षणी योगभेदे स्याच्चक्षूरोगविशेषके ॥ श्राद्धभेदे श्राद्धदेवे तथा च हर्षकारके ॥ ;vv{ण चतुः} अङ्गारिणी हसन्त्याञ्च रवित्यक्तदिशि स्त्रियाम् । आतर्पणन्तु मङ्गल्ये लेपने प्रीणनेऽपि च ॥ उत्क्षेपणं धान्यमर्दवस्तुनि व्यञ्जनेऽपि च । स्यादुद्धरणमुन्मूलवान्तान्नोद्धारमुक्तिषु ॥ कार्षापणः कार्षिकेऽस्त्री पणषोडशकेऽपि च । पुंसि कामगुणो रागे चाभोगे विषयेऽपि च ॥ चीर्णपर्णो निम्बवृक्षे पुमान् खर्जूरभूरुहे ॥ चूडामणिः कृष्णालके शिरोरले पुमानयम् । जुहुराणो हुताशे स्यादध्वर्यो होतृशालिनि ॥ तुण्डरीणो वर्वरे स्यात्तण्डुलोदककीटयोः ॥ तैलपर्णी सिह्लके स्याच्श्रीवासे चन्दनेऽपि च ॥ दाक्षायणी भावान्यां स्यादश्विन्यादिकभेषु च ॥ भवेत्रिःसरणं मोक्षमृत्यूपायागमेषु च । निरूपणं विचारे स्यादालोके च निदर्शने ॥ नारायणयभीरु-गौर्योः केशवे पुंसि कीर्त्यते । पर्वरीणः पर्ववृन्तरसे गर्वे च मारुते ॥ तथा पर्णशिरायाञ्च मृतके द्यूतकम्बले । पत्रचूर्णरसे पुंसि क्लीबलिङ्गन्तु पर्वणि ॥ परीरणश्च (?) दण्डे स्यात्कमठे पढशाकटे । परायणं तत्परे स्यादभीष्टाश्रययोरपि ॥ परवाणिर्वत्सरे ना धर्माध्यक्षजनेऽपि च । परायणन्तु साकल्ये समासङ्गे गतावपि ॥ पीणुपर्ण्योषधिभेदे मूर्वाविम्बिकयोरपि । पुष्करिण्यपि हस्तिन्यां नलिन्याञ्च जलाशये ॥ ;p{0213} मधुपर्णी तु गम्भार्यां नीलीनाम महोषधे । मीनाम्रीणः खञ्जने स्याद्दर्दुरे सहकारके ॥ रक्तरेणुः कोरके स्यात् सिन्दूरे च पलाशके । रागचूर्णः कामदेवे फल्गुके दन्तधावने(?) ॥ लेलिहानो महादेवे भक्षके दनुजेऽपि च । लघुकर्णश्छागले स्यादङ्कोठे राक्षसे द्विपे ॥ विदारणं विडम्बे स्याद् भेदे क्लीबं द्वयोर्मुपि । अथ वैतरणी प्रेतनदयो राक्षसमातरि ॥ शरवाणिर्बाणमुखे पचौ ना शरजीविते । भवेच्शिखरिणीछन्दोभेदे रोमावलीषु च ॥ नारीरत्ने च शालायां मल्लिकायाञ्च योषिति । भवेत्संवरणं क्लीबे संसारे गतिमात्रके ॥ घन्टापथे रणारम्भे असम्बादचमूपतौ । समीरणः समीरे स्यात्पयिके च फणिज्झके ॥ हस्तिकर्णः पलाशे स्यादेरण्डगणभेदयोः । ;vv{ण पञ्च} अथावग्रहणं क्लीबं प्रतिरोधेऽप्यनादरे ॥ अवतारणं भूतादिग्रहे वस्त्राञ्चलार्चने । प्रविदारणमाकीर्णे युद्धे स्यादवदारणे ॥ परिभाषणमुक्तौ स्यान्निन्दोपालम्भने यमे । अथ मत्तवारणं स्यात्प्रभिन्नमदकुञ्जरे ॥ प्रासादवीथीकुन्दद्रुमानां गाढावृतावपि । मण्डूकपर्णी मञ्जिष्ठाब्राह्मण्योः पुंसि गोलके ॥ रोमहर्षणं रोमाञ्चे सूते विभीतके पुमान् । बादरायण उन्मत्ते काण्डे च करपात्रके ॥ निष्प्रयोजनः पुंसि स्यात्सरणद्रुमकीटयोः । ;vv{ण षट्} वयः सन्धौ च गर्भे च भवेद्दोहदलक्षणम् ॥ लावण्ये स्तनयुग्मे च कान्तौ यौवनलक्षणम् ॥ ;c{इति णान्तवर्गः ॥} ;v{तान्ताः} ;vv{त एकः} तकारस्तस्करे गर्भे कोडे पुच्छे तथा शठे ॥ ;vv{त द्वि} अस्तः पुंसि पश्चिमाद्रौ क्षिप्तावसितयोस्त्रिषु । अन्तं स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु ॥ आर्त्तिः स्त्री पीडने गत्यां धनुष्कोप्याञ्च याचने । आप्तिर्योगे च संप्राप्तौ इतः स्मृते गते त्रिषु । ;p{0214} ईतिः स्यादतिदृष्ट्यादिषट्सु डिम्बप्रवासयोः ॥ उक्तमेकाक्षरच्छन्दोभाषिते प्रेरिते त्रिषु । ऊतिः स्त्रियां रक्षणे स्यात्सीवणे क्षारणेऽपि च ॥ कृतिर्जुगुप्साकल्याणसार्द्धासु वर्त्मनि स्त्रियाम् । कृतमुच्छशिले नीरे सत्ये दीप्ते च पूजिते ॥ तुरार्तवदीप्त्योश्च वर्षादिषट्सु पुंस्ययम् । एतः कुर्वरवर्णे स्यादागते हरिणे क्वचित् ॥ क्षत्ता सूते प्रतीहारे क्षत्रियाशूद्रजेऽपि च । नियुक्ते च विरिञ्चे च भुजिष्यातनये पुमान् । कर्ता विधातरि स्यात्तु कारके वाच्यलिङ्गकः ॥ कान्तिः शोभेच्छयोः स्त्री तु क्रतुर्यज्ञे मुनौ पुमान् । कान्ता प्रियङ्गौ नार्यां स्त्री प्रिये ना शोभने त्रिषु । लोहं च चन्द्रसूर्ययोः पर्यायान्तशिलासु ना । क्षितिः क्षये निवासे च पृथिवी कालभेदयोः । कीर्तिः प्रसादे यशसि शब्दे दीप्तौ च योषिति । कुन्तो गर्वधुकायां स्यात्पुमान् प्रासायुधेऽपि च ॥ कुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके । हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् । कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च । गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ गतिर्दशायां मार्गे च ज्ञाने यात्राभ्युपाययोः । नाडीव्रणपथे दाने यातविज्ञातयोर्गतम् । गातुः पुंसि पिके भृङ्गे गन्धर्वे रोषणे त्रिषु ॥ गीतिर्गाने छन्दसि स्त्री गीतं गाने च शब्दिते । गुप्तिः कारागृहे स्त्री स्याद् रक्षणेऽवकरस्थले ॥ गुप्तन्तु रक्षिते गूढे सङ्गतेऽप्यभिधेयतत् । घातः प्रहारे कान्ते स्यात्तालावस्थान इत्यपि । घृतं नीले क्लीबमाद्ये दीप्तिसेचनयोस्त्रिषु ॥ जातं त्रिलिङ्गमुत्पन्ने क्लीबं व्यक्तौघजन्मसु । जातिर्जन्मनि गोत्रे च सामान्ये ब्राह्मणादिके ॥ ;p{0215} जातीफले च मालत्यां छन्दस्यश्मन्तिकासु च । ज्ञातिस्ताते सगोत्रे च पुमानप्रसवेऽपि च । ततं वाद्यव्याप्तयोर्ना मारुते विस्तृते त्रिषु । तातः पितरि पूज्ये स्यादनुकम्प्ये च पुंस्ययम् । तिक्तः सुगन्धरसयोः पर्पटे तु नपुंसकम् । तिक्ता च कटुरोहिण्यां वचनादौ तु वाच्यवत् ॥ तूस्तं धूलौ जटायाञ्च पापे सूक्ष्मे च न द्वयोः । त्रेताग्नित्रितये युगे तिप्राणितेरिते ॥ दन्तः कुञ्जे च दशने दन्ती स्यादोषधीभिदि । दान्तस्तू दलिते पुंसि तपः क्लेशसहे त्रिषु ॥ दितिः स्त्रियां खण्डने स्यात्तथा च दैत्यमातरि । दीप्तं निर्भासिते दग्धे ज्वलितेऽपि च वाच्यवत् । द्रुतं शीघ्रे विनीते च विम्राणे चाभिधेयवत् । दृतिश्चर्मपुटे मीते द्युतिः स्त्री रश्मिशोभयोः । धातुर्मनःशिलादौ तु श्लेष्मादौ गैरिकेऽपि च ॥ शब्दयोनिमहाभूततद्गुणेषु रसादिषु । इन्द्रियेषु च धाता स्याद् विधौ तु पालके त्रिषु ॥ धुतं त्यक्ते विधूते स्याद् धूतं कम्पितभर्त्सिते ॥ धूर्तो ना धुस्तरे खण्डणवणे स्याद् विटे त्रिषु । धृतिर्धैर्ये धारणे च योगभेदेष्टितुष्टिषु ॥ नतं तगरपाद्यान्तु त्रिषु स्याद् वक्रनम्रयोः । नीतिर्नये प्रायणे च पक्ति गौरवपाकयोः ॥ स्यात्पत्तिः पदगे पुंसि गतौ पत्यामपि (?) स्त्रियाम् ॥ पंक्तिर्दशाक्षरच्छन्दो दिक्संख्याश्रेणिषु स्त्रियाम् । प्राप्तं समञ्जसे लब्धे पतिः स्वामिन्यधीश्वरे । पातः पुमान् पतने स्यात्त्राते निगदिते त्रिषु ॥ प्राप्तिः स्त्री प्रायणे लाभे सङ्गतौ च महोदये । प्रीतिः प्रेम्णि च योगे स्यात्प्रीतं हर्षणनर्मयोः ॥ पीतिः स्याद् घोटके पुंसि स्त्रियां पाने निगद्यते । पीता स्त्री तु हरिद्रायां पाने क्लीबं सिते त्रिषु ॥ प्रीतिः प्रदेशपूज्येऽस्त्री रतौ हर्षेऽपि च स्त्रियाम् । पुस्तं न ना पुस्तके स्यात्क्लीबे लेप्यादिकर्मणि ॥ प्लुतस्त्रिमात्रके पुंसि क्लीबे हयगतौ भवेत् । पूर्तं त्रिषु पवित्रे स्याच् शटिते (?) बहुलीकृते ॥ ;p{0216} पूर्तं खातादिके क्लीबं पालने पूरिते त्रिषु । प्रेतो मृते वाच्यलिङ्गः पुंसि भूतान्तरे मतः ॥ पोतः शिशौ गृहे स्थाने वहित्रेऽपि च वाससि ॥ वृतिः स्त्रियान्तु वरणे वेष्टने गोपनेऽपि च ॥ भर्ता पत्यौ भवेत्पुंसि त्रिषु पोष्टरि धातरि । भक्तिर्विभागे सेवायां भ्रान्तिर्मिथ्यामतौ गतौ ॥ भित्तिः कुड्ये प्रदेशे स्यादाश्रयेऽपि भवेत्स्त्रियाम् ॥ भीतं भये क्लीबलिङ्गं भवेद्भीतियुते त्रिषु ॥ भूतिः स्यात्कुम्भिशृङ्गारभस्मसम्पत्त्रिषु स्त्रियाम् । अथ भूतं पृथिव्यादौ पिशाचादिषु जन्तुषु ॥ क्लीबं त्रिषु चिते प्राप्ते वृत्ते सत्ये समेऽपि च । पुमान् कुमारयोगीन्द्रदेवयोन्यरेषु च ॥ मतं ज्ञाते सम्मते च मतिबुद्धीच्छयोः स्मृता । मन्तुः पुंस्यपराधे स्याद् विद्यातरि च मानुषे ॥ माता गौर्यां जनन्याञ्च ब्राह्मणीगोविभूतिषु । मितिर्माने च विज्ञानेऽप्यवच्छेदेऽपि च स्त्रियाम् ॥ मुक्तिर्मोक्षे मोचने च भवेत्सौख्यभिदि स्त्रियाम् । मुक्तः स्यात्प्राप्तमोक्षे च नन्दिते मोचिते त्रिषु ॥ मौक्तिके तु भवेन्मुक्ता मूर्तिः काठिन्यदेहयोः । मूर्तं त्रिषु स्यात्कठिनमूर्छने मूर्तिमत्सु च ॥ मृतं मृत्यौ याचिते स्यात्क्लीबं मृत्युमति त्रिषु । यतिः स्त्रीपाठविच्छेदविधवारोगसन्धिषु ॥ निकारयतिनोः पुंसि शान्ते विवतयोरपि ? ॥ युतं हस्तचतुष्ट्वे नाऽपृथग्भूते युतेऽपि च ॥ युक्तिर्न्याये च योगे च यन्ता स्यान्मठसूतयोः ॥ रक्तस्त्रिषु लोहितानुरक्तनील्यादिरञ्जिते । क्लीबं कुङ्कमताभ्रासृक् प्राचीनामलकेषु च ॥ रतिः स्त्रियां कामपत्न्यां बाणे गुह्ये रतेऽपि च ॥ रतञ्च सुरते गुह्ये रत्नः सरिति वर्त्मनि । रिक्तस्तु विपिने शून्ये निर्धने त्रिषु कीर्तितम् ॥ रीतिः प्रचारे स्यन्दे च पित्तले लोहकिहके । लता स्यान्माधवीदूर्वापृक्काज्योतिष्मतीषु च ॥ प्रियङ्गुशाखा कस्तूरीलतावल्लीषु च स्त्रियाम् । लिप्तं भुक्तेऽवलिप्ते च विषदिग्धेऽपि न द्वयोः ॥ ;p{0217} लूता पिपीलिकायान्तु मर्कटे च गदान्तरे । वप्तः स्यात्पुंसि जनके वापके वाच्यलिङ्गकः ॥ वक्ता स्यात्पण्डिते पुंसि वावदूके तु वाच्यवत् । व्यक्तं व्याप्ते व्याकुले च व्यक्तः स्यात्पण्डिते स्फुट ॥ वर्तिर्गात्रानुलेपन्यां दीपे दीपर्दशासु च । नेत्राञ्जने च लेखायां निर्माणे भेषजस्य च ॥ वार्त्ता वातिङ्गने कृष्यां वृत्तान्ते वर्चनेऽपि च । निःसारारोग्ययोर्वार्तं वर्त्तिर्मल्लीरुजे स्त्रिषु ॥ वित्तिर्लाभे विचारे च सम्भवे स्यादपि स्त्रियाम् । वित्तं धने क्लीबलिङ्गं त्रिषु ख्याते विचारिते ॥ वीतन्त्वसारहस्त्यश्चे तथा चाङ्कुशकर्मणि । वस्तिर्द्वयोरधोनाभेर्दशासु च निरूहणे ॥ वीतिर्दीप्तौ गतौ भुक्तौ प्रजने वाधनेऽपि च । वृत्तिर्विवरणाजीवकौशिक्यादिप्रवर्त्तने ॥ वृन्तं प्रसवबन्धे स्यात्कुम्भधारास्तनाग्रयोः । वृत्तोऽतीते मृतेऽधीते वृतवर्तुलयोरपि ॥ वाच्यलिङ्गं दृढे क्लीबं छन्दश्चारित्रवृत्तिषु । शक्तिरुत्साहगौर्योस्तु बले वस्त्रान्तरे स्त्रियाम् ॥ शान्तोऽभियुक्तरसभिच्छान्तियुक्तेषु पुंस्ययम् । शितिस्त्रिषु सिते कृष्णे भूर्जे सारेऽपि च द्वयोः ॥ शीतं हिमगुणे शीते वाणीरे त्रिषु शीतले । शुक्तः स्यान्निष्ठुरे श्लिष्टे पूताम्ले निर्जनेऽपि च ॥ श्रुतिः स्त्री श्रवणे वार्ते वेदे श्रवणकर्मणि । शुक्तिः शङ्खे शङ्खनखमुक्तास्फोटनखीषु च ॥ कपालखण्डदुर्नामव्याद्यश्चावर्त्रकेषु च । श्रुतं स्यात्क्लीबलिङ्गन्तु शास्त्रे श्रवणगोचरे ॥ श्वेतं रूप्ये सिते नाद्रौ श्वेताम्रे च कपर्दके । शितं शातञ्च निशिते शातं स्यात्कृशशर्मणोः ॥ सत्प्रशस्ते विद्यमानेऽत्यादृते साधुसत्ययोः । धीरेऽपि च वाच्यलिङ्गं स्यात्सतीसाध्वीमयो(?) स्त्रियाम् ॥ सातिर्दानेऽवसाने च स्वान्तं गह्वरचित्तयोः । स्थितमूर्द्धे गत्यभावप्रतिज्ञाते च निश्चिते ॥ स्थितिर्मर्यादावसानसीमास्थानेषु च स्त्रियाम् । सीता लाङ्गलपद्धत्यां जानकीगङ्गयोरपि ॥ ;p{0218} सुतः स्यात्पार्थिवे पुत्रे स्त्र्यपत्ये तु सुता स्त्रियाम् । स्वान्तः स्पर्शाज्ञता निद्राविश्रम्भशयनेऽपि च ॥ सितं धवलबद्धावसिते खण्डान्तरे सिता । स्यूतिः सीवनसन्तत्योः स्यूतः सूतप्रसेवयोः ॥ सूतः स्याद्वाहनणक्षत्रसुतपारदयोरपि । प्रसूते प्रेरिते तक्ष्णि नन्दिसारथिवन्दिषु ॥ सृतिर्गतौ वर्त्मनि स्यात्सेतुराशौ शिशौ पुमान् । हस्तः करिकरे सप्रकोष्ठकरेऽपि च ॥ तथा नक्षत्रभेदे च समूहार्थे कचात्परे । हेतिरस्त्रे शिखायाञ्च तथा सूर्यार्चिषि स्त्रियाम् ॥ ;vv{त त्रि} अमृतं स्यात्तु पीयूषे यज्ञशेषे जले घृते । मोक्षायाचितयोर्ना तु धन्वन्तरिसुधाभुजोः ॥ अमृतामलकीपथ्यागुडूचीमागधीषु च । अमृतन्तु भवेत्कृष्यामसत्ये च नपुंसकम् ॥ अजितः केशवे पुंसि त्रिषु च स्यादनिर्जिते । अच्युतः पुंसि गोविन्दे वाच्यलिङ्गे स्थिरेऽपि च ॥ अर्दितो व्याधिते संस्ये हिंसिते याचिते त्रिषु । अक्षतं न द्वयोर्त्वाजिपिण्डयोस्त्रिषु खण्डिते ॥ अनन्तं क्लीबमाकाशे स्यात्पुमान् कृष्णशेषयोः । अनन्ता सारिवापथ्याविशल्यामलकीषु च ॥ दूर्वादुरालभागौरीगुडूचीपिप्पलीषु च । अम्बन्तं मरणे चूल्यामसृभे(?)ऽनवधावपि ॥ अमतिः पुंसि काले च दुष्टे हिमकरेऽपि च । स्यादर्हन् क्षपणके बुद्धे मान्ये शिष्टे पुमानयम् ॥ अर्हन्तः पुंसि वृद्धे स्यात्सुगते च महेश्वरे । अर्वती वडवायाञ्च कुम्भदास्यामपि स्त्रियाम् । अङ्गतिर्ना ब्रह्मविष्ण्वोरग्निहोतरि केशवे ॥ अदितिश्च स्त्रियां भूमौ अखण्डे देवमातरि ॥ अहंतिः स्यात् स्त्रियां त्यागे रोगे रोगभयेऽपि च ॥ आपातश्च तदात्वे स्यात्पतने पातनेऽपि च । आघ्रातं शिङ्घिते क्रान्ते आख्यातं त्यादिभाषयोः ॥ आध्मातो वातरुग्भेदे दग्धसंयतशब्दिते । आप्नुतः स्नातके स्नाते आदृतः सादरेऽर्चिते ॥ आचितः स्यात्त्रिषुच्छन्ने संगृहीते पुमानयम् । ;p{0219} शकटोन्मयकद्रव्ये पलानामयुतद्वये ॥ आहतन्तु मृषार्थे स्यात्ताडिते गुणितेऽपि च । पुरातनांशुके नूत्ने वस्त्रे स्यात्युंसि चानके ॥ आनर्त्तस्तरणे नृत्यस्थाने देशभिदि जले । आवर्तश्चिन्तने नीरभ्रमे चावर्त्तने पुमान् ॥ आस्फोता वनमाल्यान्तु गिरिकर्ष्यामपि स्त्रियाम् । आयस्तः क्लिशिते क्षिप्ते तेजसि कुपिते हते ॥ आयतिः स्यात् स्त्रियां दैर्घ्ये भाविकालप्रभावयोः । आयत्तिः स्नेहवलयोर्वशित्वे वासरे स्त्रियाम् । आकृतिः स्यात् स्त्रियां देहेहृतौ (?) सामान्यरूपयोः ॥ आसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः । स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥ उषितं व्युषिते दग्धे ऊषितं रोगवोधयोः । उदात्तः स्वरभेदे स्याद्दानवादयप्रभेदयोः ॥ दयात्यागादिसम्पन्ने काव्यालङ्कारहृदययोः । उत्तप्तं शुष्कमांसे स्यात्तप्ते परिप्लुते त्रिषु ॥ उचितन्तु मिते त्यस्ते ज्ञाते ग्राह्ये समञ्जसे । उद्धृतन्तु त्रिषूत्क्षिप्ते संभुक्तोज्झितयोरपि ॥ उत्थितं स्याद्वृद्धिमति संजाते प्रोच्यते त्रिषु । उद्घातः पवनाभ्यासयोगकालविशेषके ॥ उत्तुङ्गे मुद्गरे पादस्खलने समुपक्रमे । उच्छ्रितन्तु समुन्नद्धे प्रवृद्धे सम्भूते त्रिषु ॥ उन्मत्तो मुचुकुन्दे च धुस्तूरोन्मादयुक्तयोः । उद्वान्तः स्यात्त्रिषु वान्ते पुंसि निर्मदकुञ्जरे ॥ एधतुः स्याद्वीतिहोत्रे वर्द्धिते पुरुषे पुमान् । कलितं विदिते चाप्ते गणिते भेदितेऽपि च ॥ कपोतश्चित्रकण्ठाङ्गपारावतविहङ्गयोः । क्रन्दितं रुदिताह्वानयोधचित्करणेषु च ॥ क्षारितस्त्रिष्वभिशस्ते स्यात् क्षारे स्राविसे पुमान् । कापोतं स्यात् कपोतौधाञ्जनयोरुचके पुमान् । किरातो म्लेच्छभेदे स्याद् भूनिम्बाल्पशरीरयोः ॥ स्त्रियाञ्चासवधारिण्यां कुहनीदुर्गयोरपि । कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ;p{0220} ग्रथितं गुम्फिताक्रान्तहिंसितेष्वभिधेयवत् । गर्भास्तर्ना करे सूर्ये स्वाहायामपि च स्त्रियाम् ॥ गर्म्मुत् धमनहेम्नोः स्त्री गीष्पतिर्गुरुसूरिणोः । गोपतिर्नृपतौ सूर्ये षण्डे स्मरहरे पुमान् ॥ स्याज्जगद्भुवने क्लीबं समीरे जङ्गमे त्रिषु । जगती पिष्ठपे भूमौ जनच्छन्दोविशेषयोः ॥ जयन्ती सुतागौर्य्यौः पताका वृक्षभेदयोः । जयन्तः स्यादिन्द्रपुत्रे भीमे च त्रिपुरान्तके ॥ जामाता दुहितुः पत्यौ सूर्यावर्चे च भर्तरि । जीमूतः पर्वते मेघे देवताडे महत्यपि ॥ जीवातुरस्त्रियां भुक्त जीवनौषधजीविते । जीवन्ती तु शमी वन्दा गुडूची जीवनीषु च ॥ जृम्भितं करणे स्त्रीणां तथा स्फुटितचेष्टयोः । त्रिगर्त्तो देशभेदे स्याद् गणिते कामुकेऽपि च ॥ त्रिगर्ता स्याद् घुर्घुरिका कामुकाङ्गनयोरपि । तृणता स्यात्तृणत्वेऽपि स्त्रियामेव शरासने ॥ दुर्गतिर्नरके निःस्वे द्विजातिर्विप्रपक्षिणोः । दुर्जातं व्यसने क्लीबमसज्जातेऽभिधेयवत् ॥ दृष्टान्तो मरणे शास्त्रे स्यादुदाहरणेऽपि च । निर्ऋतिः पुंसि दिक्पालभेदेऽलक्ष्म्यामपि स्त्रियाम् ॥ निकृतं विप्रलम्भे स्यात्त्रिषु विप्रकृते शठे । निर्मुक्तः स्यान्मुक्तसङ्गमुक्तकञ्चुकसर्पयोः ॥ निरस्तं त्रिषु निष्ठूते त्यक्तशरे त्वरोदिते । परित्यक्ते प्रतिहते आश्वासरहितेऽपि च ॥ निमित्तं कारणे चिह्णे निष्पन्नं जातसिद्धयोः । निवातो दृढसन्नाहनिर्वाताश्रययोरपि । निशान्तमूषागृहयोस्तथा शान्तजने त्रिषु ॥ निकृतिः स्त्री शठे शाठ्ये दैन्ये क्षेये च भर्त्सने । निर्वृतिः सुत्थितौ सौख्ये तथास्तङ्गमने स्त्रियाम् ॥ नियतिर्नियमे दैवे पतत्पातुकपक्षिणोः । प्रहतं वितते क्षुण्णे पर्यस्ते च हते त्रिषु । प्रभूतं बहुले भूते उन्नतेऽप्युद्गते त्रिषु ॥ ;p{0221} पलितं शैलजे तापे केशपाके च कर्दमे । प्रसृतोऽर्द्धाञ्जलौ स्त्री तु जङ्घायां वेगिते त्रिषु ॥ प्रणीतः संस्कृतोग्नौ स्याद् विहितक्षिप्तयोरपि । प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः ॥ योन्तैन्विङ्गे पौरवर्गे शक्तौ च योषिति स्त्रियाम् । पार्वती शल्लकी दुर्गा गोपालपुत्रिकासु च ॥ प्रार्थितं शत्रुसंरुद्धे याचितेऽभिहिते त्रिषु । पित्सन् पुंसि विहङ्गे स्यात्पतनेच्छुजने त्रिषु ॥ पिशितं पिण्डिते मांसे गणिते च घनेऽपि च । जटामांस्यान्तु पिशिता स्त्रियामेव निगद्यते ॥ पीडितं करणे स्त्रीणां बाधिते यन्त्रितेऽपि च । पुटितं स्याद् हस्तपुटे स्यूतपाटितयोरपि ॥ पृषत्पुमान्मृगे बिन्दौ न द्वयोः पृषतोऽपि च । प्रेक्षितं स्याद्विनिहते सिक्ते च संस्कृते त्रिषु ॥ बृहती क्षुद्रवार्ताकीच्छन्दोभिद्वसनान्तरे । कन्टकारी-वारिधानी-महतीषु च वाचि च ॥ भवती बाणभेदे स्याद् युष्मदर्थसतोस्त्रिषु । भरतो मुनिदौष्मन्तिरामानुजनटेषु च ॥ स्याद् भास्वान् भास्करे सूर्ये भारतं ग्रन्थवर्षयोः । भारती वचने वाण्यां पक्षिवृत्तिप्रभेदयोः ॥ भासन्तः पुंसि भासाख्यविहङ्गे सुन्दराकृतौ । भावितं वासिते प्राप्ते भूभृन्नाभूपशैलयोः ॥ महती वल्लकीभेदे तत्त्वे ना वड्रकेन्यवत् । मथितं लोडिते घृष्टे त्रिषु क्लीबन्तु घोलके ॥ मरुत्समीरे देवे ता ग्रन्थिपर्णे नपुंसकम् । मूर्च्छितं चोच्छ्रये मूढे मूषितं खण्डते भिदि ॥ रजतं स्यात्त्रिषु श्वेते क्लीबन्तु रूप्यहारयोः । रमतिः पुंसि काके स्यान्नायकेऽपि निगद्यते ॥ रसितं क्लीबलिङ्गं स्याद् रुते जलदगर्जिते । त्रिषु स्वर्णादिखचिते रसयुक्ते च कुत्रचित् । रेवती तारकामातृभिदोश्च रामयोषिति । रैवतः स्यात्सुवर्णालुवृक्षे शैलान्तरे शिवे । रोहितो मीनमृगभिद् रोहितकद्रुमेषु च ॥ ;p{0222} रोहितं कुङ्कुमे रक्ते सरलेन्द्रशरासने । रोहित् स्त्रियां मृगीवल्लीभिदोर्दिनकरे पुमान् ॥ ललितं हारभेदे स्याच्चलितेप्सियोस्त्रिषु । लोहितो तद्भिद्भौमरक्तेषु त्रिषु तद्वति ॥ क्लीबन्तु रक्तगोशीर्षे कुङ्कुमे चैव चन्दने । वर्द्धितं न द्वयोश्छिन्ने प्रसृते पूरितेऽपि च ॥ वहतुः सचिवे पान्थे वलीवर्दे पुमानयम् । वनिता स्त्री तु कान्तायां जातरागस्त्रियामपि । याचिते सेविते ख्याते त्रिषु स्याद् ददिभिद्यपि (?) । वसतिर्वेश्मरजनीवासभूमिषु च स्त्रियाम् । व्यायतञ्च दृढे दीर्घे व्यापितेऽतिशयेऽन्यवत् ॥ व्याघातः स्यादन्तराये प्रहारे योगभिद्यपि । वासिता हस्तिनीनार्य्योः क्लीबं स्याद् भाविते रुते ॥ विविक्तं निर्जने पूते विवेकापृक्तयोस्त्रिषु । विहस्तः पुंसि पण्डे स्याद् व्याकुले निष्करे त्रिषु ॥ विनीतः स्यादपि साधुवाहाश्वयोरपि । जितेन्द्रियेप्यपनीते रह इत्येतेषु त्रिषु ॥ विश्वस्ता विधवायां स्याज्जातविश्वासके त्रिषु । विद्यत् त्रिषु निष्प्रभे स्यात्सन्ध्याचपलयोः स्त्रियाम् ॥ विवृता क्षुद्ररोगे स्याद् वाच्यलिङ्गन्तु विस्तृते । विनेता देष्टृनृपयोर्विधाता कामवेधसोः ॥ विनता पिटकाभेदे तार्क्ष्यमातरि च स्त्रियाम् । विच्छित्तिः स्यादङ्गरागे विच्छेदहारभेदयोः ॥ विदितञ्चाप्युपगमे ज्ञाते स्यादभिधेयवत् । विपत्तिर्यातनायाञ्च घातने चापदि स्त्रियाम् ॥ वृत्तान्तः प्रक्रिया कार्त्स्न्यवार्ताप्रस्तावकेषु च । वेष्टितं लासके रुद्धे नाट्यादिकरणान्तरे ॥ वेल्लितञ्च गतौ क्लीबं विधूत कुटिले त्रिषु । शकुन्तो विहगे भासपक्षिकीटभिदोः पुमान् ॥ श्रीमान् मनोज्ञे धनिके त्रिषु ना तिलकद्रुमे । श्रीपतिः पृथिवीनाथे भवेन्मुरहरे पुमान् ॥ सम्वर्त्तो मुनिभित्कर्षफलयोः प्रलये घने । संस्कृतं लक्षणोपेते कृत्रिमे भूषितेऽन्यवत् ॥ ;p{0223} स्थपतिः कभ्युकित्वष्ट्रारिज्येष्टियाजकेषु ना । संघातो नरके घाते संहतौ च भवेत्पुमान् ॥ सन्ततिः प्रणतिध्वन्योः सङ्गतिर्ज्ञानसंज्ञयोः । सम्बित्तिश्चेतनायां स्याज्जनानामविवादके ॥ सन्ततिर्गोत्रपंक्तयोस्तु पारम्पर्यसुतादिषु । समितिः सङ्गमे युद्धे सभायामपि च स्त्रियाम् ॥ समाप्तिः स्त्रीपरिप्राप्तावनसाने समर्थने । सम्मतिः स्यादनुज्ञायामभिलाषेऽपि च स्त्रियाम् ॥ स्यापितं निश्चिते क्लीबं भवेदारोपिते त्रिषु । सिकता स्त्री सिकतिले बालुकायान्तु भूम्नि च ॥ सुकृतं पुण्यशुभयोः क्लीबं सुविहिते त्रिषु । सुव्रता सुखदोद्यायां गवि सुष्ठुव्रतस्त्रियाम् । सुनीतिः सुष्ठुनीतौ स्याद् ध्रुवमातरि च स्त्रियाम् ॥ सुनृतं मङ्गले क्लीबं सत्यप्रियवचस्यपि । हरिद्दिशि स्त्रियामस्त्री तृणे ना हयवर्णयोः ॥ हरिता स्त्री तु दूर्वायां हरितो वर्णभेदके । हसन्ती मल्लिकाङ्गारधान्योश्च शाकिनीभिदि ॥ हारितो मुनिभित्पक्षिभिदोः पारावतोऽपि च । हृषितः प्रहृतप्रीतरोमाञ्चयुतविस्मृते । ;vv{त चतुः} अथावसितमृद्ध स्याज्ज्ञातेऽवसानगे त्रिषु । अर्थपतिर्धनाधीशे भवेन्नरपतौ पुमान् । अवदातो विशुद्धे स्यात्सिते गौरेऽन्यलिङ्गकम् । अवगीतन्तु दृष्टे स्यान्निर्वादे गर्हितेऽपि च । अन्तर्गतं विस्मृते स्यान्मध्यप्राप्तेऽभिधेयवत् । अङ्गारितं स्यात्पलाशकलिकोद्गमदग्धयोः । अपावृतं स्वतन्त्रे स्यात् पिहितेऽप्यभिधेयवत् । अत्याहितं गुरुभये जीवानपेक्षिकर्मसु । अभिनीतः संस्कृते स्यादमर्षिन्याय्ययोस्त्रिषु । अभिजातः पण्डिते स्यात् त्रिषु न्याय्यकुलीनयोः ॥ अभियुक्तस्तत्परे स्यात्परवद्धेऽभिधेयवत् । अतिमुक्तस्तु वासन्त्यां निःसङ्गे तिनिशेऽपि च ॥ अपध्वस्तं निन्दिते स्यात्परित्यक्तेऽवचूर्णिते । अधिक्षिप्तः प्रणिहिते भर्त्सिते निन्दितेऽन्यवत् ॥ ;p{0224} अंशुमान् पुंसि मिहिरे शालपर्ण्यामपि स्त्रियाम् । स्त्रियामपचितिः पूजा निष्कृतिव्ययहानिषु ॥ अनुमतिः कलाहीनशशाङ्कानुज्ञयोरपि । अभिशस्तिः प्रार्थनायामपवादेऽपि च स्त्रियाम् ॥ आयुष्मान् पुंसि योगे स्याच्चिरजीविनि वाच्यवत् । अथोपचितमृद्धेऽन्यलिङ्गं दिग्धे नपुंसकम् । उज्जृम्भितन्तु चेष्टायां क्लीबमुत्फुल्लके त्रिषु । उपरक्तो हि दुःखार्ते राहुग्रस्तेन्दुसूर्ययोः । उपाकृतो यज्ञहतपशौ च स्यादुपद्रुते ॥ उदास्थितः प्रतीहारे प्रव्रज्यावसिते चरे । स्यादुल्लिखितमुत्कीर्णे चित्रिते च तनूकृते । उद्ग्राहितमुदीर्णे स्याद् बद्धग्राहितयोस्त्रिषु । उपसत्तिः सङ्गमात्रे सेवायामपि च स्त्रियाम् ॥ तटष्यप्रोक्ता शतावर्यामबला शूकशिखयोः । ऐरावतो दिग्गजे स्यान्नारङ्गे लकुचद्रुमे । नागान्तरे च पुंसि स्यात् स्त्रियां तडिति तद्भिदि । क्लीबं महेन्द्रकोदण्डे नटजुदीर्घे निगद्यते । कलधौतं शातकुम्भे रजते च नपुंसकम् । कुमुद्वान् वाच्यलिङ्गः स्यात्कुमुदप्रायदेशके । कुमुद्वनी कुमुदिनीकुशपर्ण्योरपि स्त्रियाम् । भवेत्कुहरितं क्लीबं रतशब्दे पिकध्वनौ । कृष्णवृन्ता माषपर्ण्यां पाटलायामपि स्त्रियाम् ॥ भवेद् गन्धवती व्यासमातृपृथ्वीसुरासु च । गरुत्मान् पक्षिमात्रे स्याद् गिरिभेदे सुधाहरे । भवेद्गृहपतिर्नातुधर्मे मन्त्रिगृहस्थयोः ॥ चन्द्रकान्तः कैरवे स्यान्मणिभेदे च पुंस्ययम् । चर्मण्यती सरिद्भेदकदलीद्रुमयोः स्त्रियाम् । चित्रगुप्तो धर्मराजे पुंसि तस्मैव लेखके ॥ दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । दिवाकीर्तिः पुमानेव नापितान्तावसायिनोः । द्वीपवती भूमिनदयोः पुंसि सिन्धौ नदेऽपि च । स्याद् धूमकेतुर्ज्वलेने तथा चोत्पातशेषके । ;p{0225} नन्द्यावर्त्तश्च नगरे गृहभेदे च पुंस्ययम् । नदीकान्तः सिन्धुवारे हिज्जले च सरित्पतौ ॥ नदीकान्ता भवेज्जम्ब्व्यां काकजङ्घौषधौ स्त्रियाम् । नागदन्तो हस्तिदन्ते गृहनिर्गतदारुणि ॥ श्रीहस्तिन्यां नागदन्ती कुम्भायामपि च स्त्रियाम् । निष्काशितो निर्गमितेऽधिकृते चाहिते त्रिषु । निस्तुषितं त्वग्विहीने त्यक्ते लघूकृतेऽपि च ॥ निराकृतिरनध्याये इनाकारे वारणे स्त्रियाम् । भवेत्परिगतः प्राप्तज्ञातविस्मृतवेष्टिते । अथ प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । पल्लवितं विस्तृते स्याल्लाक्षारक्ते सपल्लवे । अथ प्रतिहतं रुद्धे द्विष्टस्खलितयोस्त्रिषु ॥ प्रतिक्षिप्तं प्रेषिते स्याद्वारितक्षिप्तयोस्त्रिषु । परिवर्त्तः कूर्मराजे भवेद्विनिमयेऽपि च ॥ परिस्तुता स्याद् वारुण्यां स्त्रियां स्यन्देऽभिधेयवत् । पञ्चगुप्तः कच्छपे स्याच्चार्वाकदर्शने पुमान् । प्रजापतिर्ना भूपाले दक्षादौ च विधातरि । प्रतिपत्तिश्च संप्राप्तौ प्रबोधे गोरवेऽपि च ॥ पदप्राप्तौ प्रवृत्तौ च प्रागल्भ्ये स्यादपि स्त्रियाम् । अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च ॥ प्रतिकृतिः प्रतिनिधौ प्रतिकारार्चयोः स्त्रियाम् । बकपुष्पे पाशुपतः पशुपत्यधिदैवते । पारिजातः पारिभद्रद्रुये सुरतरावपि ॥ पारावती नदीगोपगीत्योश्च लवलीफले । पारावतः कलरवे पुमान् मर्कटतिन्दुके । पुष्पदन्तो भवेद्विद्याधरे दिग्वारणान्तरे । भगवान् त्रिषु पूज्ये स्याद् गौर्यां स्त्री तु जिने पुमान् । स्त्रियां भोगवती गङ्गा सर्पपुर्योरहौ पुमान् । रङ्गमाता च कुट्टन्यां रोगवृक्षभिदोः(?) स्त्रियाम् । लक्ष्मीपतिर्नरपतौ वासुदेवे भवेत्पुमान् । व्यतिपातो योगभेदे महोत्पातापमानयोः ॥ वनस्पतिर्वृक्षमात्रे विना पुष्पं फलिद्रुमे । ;p{0226} विनिपातश्च दैवादिव्यसने चावमानने ॥ विवस्वान् वरुणे सूर्ये तत्रगर्यां विवस्वती । वैजयन्तोऽपि शक्रस्य प्रासादध्वजयोः पुमान् ॥ वैजयन्ती जयन्त्यान्तु पताकायामपि स्त्रियाम् । शुभदन्ती स्त्रियामेव सुदती दिग्गजस्त्रियोः ॥ सदागतिर्ना वातार्कमोक्षेषु च सदीश्वरे । सरस्वान्नदभेदेऽब्धौ पुंसि स्याद्रसिकेऽन्यवत् । सरस्वती च वाग्देवीवाणीस्त्रीरत्नगोषु च । सत्यवती व्यासमातृनारदर्च्चीकयोषिति । समुद्रान्ता तु कार्यासीपृक्कादुरालभासु च । समाहितो निर्विवादे प्रतिज्ञातेऽभिधेयवत् ॥ आहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् । संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च । सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् । हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ ;vv{त पञ्च} निरीक्षिते लोकनाथे पुंसि स्यादवलोकितः ॥ गिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः । शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति । ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि । अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि । पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । ;vv{त षट्} चित्रकण्ठे तित्तिरौ स्यादर्द्धपारावतः पुमान् । ;vv{त सप्त} समुद्रनवनीतन्तु सुधायां स्यात्सुधाकरे ॥ ;c{इति तान्तवर्गः ॥} ;v{थान्ताः} ;vv{थ एकः} थकारो भयचिह्ने स्याद्भक्षणे च शिलोच्चये । ;p{0227} ;vv{थ द्वि } अथोऽर्थने च विषये धने वस्तुनि कारणे । अभिधेये निवृत्तौ च कुशले च प्रयोजने । आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् । कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे । क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च । कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि । कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥ गन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले । गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि । उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् । दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ पीथः पुंसि भास्करेऽग्नौ सलिले तु न पुंसकम् । पृथुरग्नौ नृपे पुंसि निपुणे महति त्रिषु । त्वक्पत्रीकृष्णजिराहिफेणेषु च भवे स्त्रियाम् । प्रोथोऽस्त्री वाजिघोणायां कटे ना पथिके त्रिषु ॥ पार्थः स्यात्पृथिवीपाले पृथापुत्रेऽर्जुनेऽपि च ॥ मन्थो मन्थान-चण्डांशु-साक्तवेषु पुमानयम् । रथः पुमान् स्यन्दने स्याद् वेतसेऽवयवेऽपि च ॥ वीथिः पंक्तौ पुंसि पथे गृहाङ्गे रूपकान्तरे । संस्थो मृतावस्थितयोः स्त्रियान्तु स्थितिनाशयोः ॥ सार्थः संघातमात्रे स्याद् वणिगवृन्दे च पुंस्ययम् । सिक्थं क्लीबं मधूच्छिष्टे पुमान् भक्तपुलाकके ॥ ;vv{थ त्रि} अतिथिर्ना दर्भपुत्रे भवेदागन्तुके त्रिषु । अश्वत्थो वृक्षभेदे स्यादश्वत्था पूर्णिमातिथौ ॥ अव्यथा पथ्याचारटयोः पुंसि निर्व्यथसर्पयोः । उन्माथः कूटयन्त्रे ना मारणे घातनेऽपि च ॥ उपास्थो ना समीपस्थे क्रोडे च योनिशेफयोः । उद्रथो रथोकीले स्यात्ताम्रचूडतिहङ्गमे । क्षवथुर्ना क्षुते कासे कण्ठकण्डूयनेऽपि च ॥ कायस्था स्त्री हरीतक्यां ना नृजातिपरात्मनोः । ;p{0228} गोग्रन्थिर्गोष्ठगोजिह्वाकरीषेषु भवेत्पुमान् ॥ दमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके । प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः । मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ ब्राह्मीगुडूचीपश्यासु स्त्रियां स्यात्तरुणे त्रिषु । वमथुर्वमने पुंसि स्यात्कुम्भिकरशीकरे । विदिथः पण्डिते योगे शमथुः शान्तिमन्त्रिणोः । षड्ग्रन्थो ना करञ्जे स्याद्वचायामपि च स्त्रियाम् । समर्थः शक्तहितयोः सम्बन्धे चान्यलिङ्गकः । सिद्धार्थः शाक्यसिंहे च सार्थके श्वेतसर्षपे । ;vv{थ चतुः} अनीकस्थो हस्तिशिक्षाशूरे युद्धगतेऽपि च । स्याद्वीरमर्दलके चिह्ने भूपालगणरक्षिणि । भवेदतिकथाऽश्रद्धे नष्टेऽपार्थवचस्यपि । चतुष्पथो द्विजे पुंसि चतुर्मार्गे न पुंसकम् । चित्ररथश्चण्डभानुगन्धर्वराजयोः पुमान् ॥ दशमीरथोऽपि वृद्धे स्यान्नष्टबीजेऽन्यलिङ्गकः । वानप्रस्थे मधुकद्रुतृतीयाश्रमयोः पुमान् ॥ ;c{इति थान्तवर्गः ॥} ;v{दान्ताः} ;vv{द एकः} दं कलत्रे खण्डने ना दा दानच्छेददातृषु । ;vv{द द्वि} अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ । अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् । कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि । गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके । छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि । नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् । पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ ;p{0229} निन्दा स्थियान्तु कुत्सायामपवादे च दुष्कृतौ । पदं वाक्ये व्यवसाये शब्दप्रदेशयोरपि । पादे च पादचिह्णो च स्थाने त्राणे च वस्तुनि । अङ्के च श्लोकपादे च क्लीबं स्यात्किरणे पुमान् ॥ पादो ब्रध्ने चतुर्थांशो गिरिप्रत्यन्तपर्वते । मयूखे चरणे वेदभागे चैव पुमानयम् ॥ वन्दा तु भिक्षुकी वन्द्यालताभेदेष्वपि स्त्रियाम् । विन्दुर्दन्तक्षतभिदि भ्रूमध्ये प्रकृतावपि । रूपकार्थे ज्ञानशीले पृषति च पुमानयम् । वाच्यलिङ्गो वेदितव्ये भन्दं(?) मङ्गलशर्मणोः ॥ भेदो विदारणे द्वैधे स्याद्विशेषोपजापयोः । मदो गर्वे च कस्तूर्यां वीर्ये च हर्षदानयोः । मन्दः स्वैरे च तीक्ष्णे च मूर्खे चाभाग्यरोगिणोः । अल्पे च त्रिषु पुंसि स्यात्कविजात्यान्तरे शतौ ॥ वेदः स्यात्केशवश्रुत्योः शादः कर्दमशष्पयोः ॥ स्वादुर्मिष्टे मनोज्ञे च सूदो व्यञ्जने पाचके । स्वेदो घर्मस्वेदनयो हृत्क्लीबं चित्तबुक्कयोः । ;vv{द त्रि} अङ्गदः कपिभेदे स्यात्केयूरेऽपि च नद्वयोः । अङ्गदा दक्षदिग्दत्तिहस्तिन्यामपि च स्त्रियाम् । अर्द्धेन्दुरर्द्धशीतांशौ गलहस्ते नखाङ्किते ॥ अर्द्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने । अर्बुदो मांसरुग्भेदसंख्यापर्वतभित्सु च ॥ आसन्दः केशवे पुंसि खट्वाभेदेऽपि च स्त्रियाम् । आक्रन्दस्तु नेत्राचर्याह्वाने क्रन्दनमित्रयोः ॥ आमोदः पुंसि हर्षे च गन्धे च सुमहत्यपि । ककुदोऽस्त्री ककुत्स्त्री तु वृषाङ्गे च धजेवरे । क्षणदो गणके पुंसि रात्रौ स्त्री क्लीबमहति ॥ कपर्दाः स्यात्पशुपतिजटाजूटे वराटके । कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च । कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि । कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे । नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ । गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे । गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥ ;p{0230} गानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च । जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥ तरत्प्लवे स्त्रियामेव कारण्डविहायसि । दरत्प्रपाते भीतौ च रोगभेदे च पर्वते । दारदः पारदे पुंसि विषभेदे च हिङ्गुले । दायादस्तनये पुंसि सपिण्डे च सगोत्रके । नलदं स्यादूशीरे च मांस्यां पुष्परसेऽपि च ॥ नर्मदा स्त्री नदीभेदे स्यात्केलिसचिवे पुमान् । निर्वादो लोकवादे स्याद् वादे च परितिष्ठिते ॥ निषादः स्याचु चण्डाले धीवरस्वरभेदयोः । प्रमदोत्तमकायायां पुमान् सम्मदमत्तयोः । प्रसादोऽनुग्रहे काव्यगुणे स्वास्थ्ये प्रसादिते ॥ प्रणादस्तारशब्दे स्यात्पुंलिङ्गः श्रवणामये । भसद्भास्करयोन्योः स्त्रीमर्यादासीम्नि संस्थितौ ॥ माकन्दी नगरीधाल्योः पुंसि स्यादाम्रनूरुहे । मुकुन्दः कृष्णनिधिभिद्रत्नभित्कुन्दुरुष्वपि ॥ मेनादो दीनमार्जारमयूरच्छागलेषु च । विशदो धवले व्यक्रे शरत्स्त्री ऋतुवर्षयोः ॥ शारदी तोयपिप्पल्यां सप्तपर्णमहीरुहे । शस्ये क्लीबं पुंसि वर्षे नूत्ने शरद्भवे त्रिषु ॥ षड्बिन्दुः पुण्डरीकाक्षे कीरभेदे च पुंस्ययम् । सम्पत्स्त्री तु गुणोत्कर्षहारभेदविभूतिषु । सम्बित् ज्ञाने प्रतिज्ञायामाचारे युधितोषणे । क्रियाकारे समाधौ च तथा सम्भाषणे स्त्रियाम् ॥ ;vv{द चतुः} स्यादभिष्यन्द आम्राव-चक्षुर्गदातिवृद्धिषु । अष्टापदोऽस्त्री स्वर्गेस्यात्तथा शारिफलेष्वपि ॥ अष्टापदी चन्द्रमाल्यां मर्कटे शरभे पुमान् । अववादः समाज्ञायां निन्दाविश्रम्भयोरपि ॥ अभिमर्दः सम्परायेऽप्यवमर्दे च पुंस्ययम् । कटुकन्दः शृङ्गवेरे रसोने शिप्रके पुमान् ॥ तमोनुदनले सूर्ये दीपे हिमकरे पुमान् । प्रतिपत्तिथिभेदे स्याच्चेतनायामपि स्त्रियाम् ॥ परिवादोऽभिशापे स्याद् वीणावादनवस्तुनि । प्रियम्वदः खेचरे ना वाच्यवत् प्रियभाषिणि ॥ ;p{0231} पीठमर्दो नायके स्यात्सचिवे चातिधृष्टके । पुटभेदो नदीवक्रे आतोद्ये पत्तने पुमान् । महानादो वर्षुकाब्दे कुञ्जरे स्यान्महास्वने । मेघनादस्त्विन्द्रजिति प्रचेतसि भवेत्पुमान् ॥ विशारदः पुंसि धृष्टे पण्डितेऽपि भवेत्पुमान् । भवेद्विष्णुपदं खेतु क्षीरोदेऽपि च न द्वयोः । तथा भागिरथी सूर्यसंक्रान्तिभेदयोः स्त्रियाम् । शतानन्दः पुमान् कृष्णे मुनि भेदे च पुंस्ययम् । भवेच्छतह्रदा वज्रे सौदामन्यामपि स्त्रियाम् । समर्यादः समीपे ना मर्यादासंयुते त्रिषु ॥ ;vv{द पञ्च} स्त्रियामुपनिषद्धर्मवेदान्तविजनेष्वपि । ;c{इति दान्तवर्गः ॥} ;v{धान्ताः} ;vv{ध एकः} धं धने क्लीबलिङ्गं स्यात्पुमान् धातरि कीर्त्तितः ॥ ;vv{ध द्वि} अन्धं क्लीबमन्धकारे नेत्रहीनेऽपि वाच्यवत् । आधिर्ना चित्तपीडायां व्यसने बन्धनेऽपि च ॥ प्रत्याशायामधिष्ठाने समाधावपि कुत्रचित् ॥ इन्धं स्यादातपे दीप्ते निर्मलेऽपि च वाच्यवत् । ऋद्धं सम्पन्नधान्ये स्यात्सुसमृद्धेऽभिधेयवत् । ऋद्धिः समृद्धै गौर्याञ्च वृद्धिनामौषधिभिदि ॥ गन्ध आमोदे सम्बन्धे प्रतिवेशिनि गन्धके । गोधा तले निहाकायां गाधः स्यात्स्थानलिप्सयोः ॥ दधिक्षीरविकारे स्यात् स्त्रीवासे वसनेऽपि च । दिग्धो लिहो वाच्यलिङ्गो विषाक्तसायके पुमान् ॥ दुग्धी क्षीराविकौषैध्यां दुग्धं क्षीरे प्रपूरिते । दोग्धा तु करिभेदे स्याद्गोपालवत्सयोः पुमान् ॥ नद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः । बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि । बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः । बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् । बोधः समाधिभेदे ना तथा पिप्पलभूरुहे । मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे । पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥ स्त्रियां माध्वीके वृद्धौ च जीवन्त्यामपि योषिति । सिद्धं क्लीबन्तु निद्रायामालस्ये चित्तविभ्रमे ॥ ;p{0232} मेधो यज्ञे स्त्रियां बुद्धौ मुग्धः सुन्दरमूढयोः । राधो वैशाखमासे ना राधा चित्रे च धन्विनाम् ॥ विशाखामलकीगोपीविष्णुक्रान्तातडित्सु च ॥ लुब्धो व्याधे लम्पटे स्यादाकाङ्क्षाभियुते त्रिषु ॥ विधिः पितामहे काले विधाने नियतावपि । विधा प्रकारे ऋद्धो च गजान्ने वेतने विधौ ॥ वृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे । वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥ स्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् । श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् । श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु । शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥ सन्धा स्थितौ प्रतिज्ञायां सन्धानेऽपि च कुत्रचित् । स्पर्धा क्रमोन्नतो साम्ये तथा संहर्षणे स्त्रियाम् ॥ सन्धिर्ना तु सुरुङ्गायां संहितोपाययोरपि । स्त्रियां भगे च घट्टनेऽवकाशे नाटकाङ्गके ॥ स्कन्धश्छन्दो विशेषाकेसयुद्धभूषतिवर्ष्मसु । तरुप्रकाण्डे भद्रादौ समूहे च भवेत्पुमान् । अथ साधुर्वार्द्धुषिके सुन्दरे सज्जने त्रिषु । सिद्धो योगभिदि व्यासे देवयोनिसुसिद्धयोः ॥ नित्ये त्रिषु च निष्पन्ने व्यवहारेऽपि कुत्रचित् । स्निग्धं त्रिषु स्नेहयुते चिक्कणेऽपि च न द्वयोः ॥ सिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् । सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥ सुधा गङ्गेष्टकामूर्वीस्नुहीलेपामृतेषु च । ;vv{ध त्रि} अवधिः सीम्नि काले स्यात् अवधाने बिले पुमान् ॥ अगाधमतलस्पर्शो त्रिषु छिद्रे तु न द्वयोः । आविद्धः कुटिले मूर्खे वाच्यलिङ्गः पराहते ॥ आबन्धः प्रेम्नि योक्त्रे नालङ्कारदृढबन्धयोः । उत्सेधोऽस्त्री चोच्छ्रये स्यात् क्लीबं संहननेऽपि च ॥ उपाधिर्धर्मचिन्तायां स्याच्छले च विशेषणे । कुटुम्बव्यापृते पुंसि नामचिह्ने तु कुत्रचित् ॥ उपधिस्तु रथाङ्गे स्यात् व्याजेऽपि च भवेत् पुमान् । कबन्धोऽस्त्री क्रियायुक्तमूर्धहीनकलेवरे ॥ ;p{0233} जले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे । दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥ न्यग्रोधस्तु वटे व्यासे शमीभूमिरुहे पुमान् । न्यग्रोधी चोपचित्रायां न्यग्रोधापि च कुत्रचित् ॥ निरोधः प्रतिषेधे स्यात् नाशे आवरणेऽपि च ॥ निषधः राजभेदे स्यात् शैले कठिन-देशयोः ॥ परिधिः पुंसि यक्षद्रुशाखायामुपसूर्यके । मागधः क्षत्रिया वैश्यजाते जीरकवन्दिनोः ॥ कणायूथिकयोः स्त्री तु वाच्यवद् भगदोद्भवे ॥ वीवधो विवधो भारपर्याहारपयेषु च । विस्रब्धो गाढविश्रब्धानुद्भटेषु भवेत्त्रिषु ॥ विविधः पत्तिभेदे वे(?) वीरुत्स्त्री वल्लीशाखयोः । सन्नद्धः कृतसन्नाहे व्यूढे मन्त्रादिसंयुते ॥ सम्बाधः सङ्कटे योनौ भये नरकवर्त्मनि । सन्निधिर्ना सन्निधाने भवेदिन्द्रियगोचरे ॥ संसिद्धिः स्त्रीमदोग्रायां सिद्धौ च प्रकृतावपि । समाधिर्नियमे ध्याने तथा काव्यगुणान्तरे ॥ समर्थने च नीलाके स्यादिन्द्रियनिरोधने । सुगन्धिवालुके क्लीबं दूष्टगन्धे भवेत् त्रिषु । ;vv{ध चतुः} अवरोधो नृपगृहे तिरोधाने नृपाङ्गने । अवष्टब्धः समाक्रान्तेऽविदूरेऽप्यवलम्बिते । अनुबन्धी च तृष्णायां हिक्कायाभवि च स्त्रियाम् । अनुबन्धो बन्धे दोषोत्पादने च विनश्वरे ॥ आरम्भे प्रकृता वृत्तौ पुमान् मुखानुयापिनि । अनिरुद्धः कामपुत्रे वाच्यलिङ्गस्त्वनर्गले ॥ आशाबन्धः समाश्वासे पुमान् मर्कटवासके । इक्षुगन्धः कोकिलाक्षे शृगाली काशगोक्षुरे ॥ उपलब्धिरपि ज्ञाने मतौ प्राप्तावपि स्त्रियाम् । उग्रगन्धा वचायां स्याद् यवान्यां चिक्ककोषधौ ॥ कालस्कन्धस्तिन्दुके स्यात्तमाले जीवकद्रुमे । तीक्ष्णगन्धा वचाराजिकयोः शोभाञ्जने पुमान् ॥ चित्रगोधा चित्रकोले स्त्रियामेव तृणाञ्जने । परिव्याधो भवेत्पुंसि वेतसे च द्रुमोत्पले ॥ ब्रह्मवन्धूरधिक्षेपे द्विजातिर्देशयोः पुमान् । ;p{0234} महोषधं विषायां स्यात्शुण्ठयाञ्चलशुतेऽपि च ॥ समुत्रद्धो गर्विते स्यात्पंण्डितम्मन्य उन्नते । ;vv{ध पञ्च} योजनगन्धा सीतायां कस्तूर्यां व्यासमातरि ॥ ;c{इति धान्तवर्गः ॥} ;v{नान्ताः} ;vv{न एकः} नकारः सुगति बन्धे नेता नीस्तरणो च नौः । नुः स्तुतौ ना निषधे च नो भवेत्प्रतिषेधके ॥ ;vv{न द्वि} अग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ धनं मध्यमनृत्ये स्यात्कांस्यतालादिवाद्यके ॥ घनं मध्यमनृत्ये स्यात्कांस्यतालादिवाद्यके । पुंसि मुस्तामेघदार्ढ्यविस्तारमुद्गरेषु च ॥ त्रिषु सान्द्रे दृढे पूर्णे निबिडे सम्पुटेऽपि च । चीनो व्रीहिमृगभिदोस्तन्तौ देशेंऽशुके पुमान् ॥ छन्नन्तु निर्जने क्लीबं छादितेऽप्यभिधेयवत् । छिन्ना स्त्रियां गुडूच्याञ्च तथा कृत्ते त्रिलिङ्गकम् ॥ जनो लोकान्तरे लोके महर्लोके च पामरे । जनी वधे(?) तथोत्पत्तौ कान्तायामोषधिभिदि ॥ जह्नुः पुंसि तु राजर्षिभेदे नारायणेऽपि च । ज्यानिर्हानौ जीर्णतायां तटिन्यामपि च स्त्रियाम् ॥ जिनो बुद्धे जित्वरे च तथार्हति पुमानयम् । ज्योत्स्ना ज्योत्स्नायुतनिशि ज्ञेया चन्द्रातपेऽपि च ॥ ज्योत्स्नी पटोलिकायान्तु ज्योत्स्नायुतनिशि स्त्रियाम् । तनुर्देहे त्वचि स्त्री स्यात्त्रिष्वल्पे विरले कृशे । दानं त्यागे हस्तिमदे च्छेदपालनशुद्धिषु ॥ दानु विक्रान्तदात्रोश्च दीना मूषिकयोषिति । वाच्यवद्दुर्गते भीते द्युम्नञ्च बलवित्तयोः ॥ धनुर्ना राशिभेदे स्यात्पियालद्रुमचापयोः । धनं वित्ते गोधने च स्नेहपात्रेऽपि न द्वयोः ॥ धानाः स्त्रियां भृष्टयवे धन्याकेऽभिनवाङ्कुरे । धेना नद्यां नदे पुंसि न्यूनं गर्ह्योनयोरपि । नग्नस्त्रिषु विवसने बन्दिक्षपणयोः पुमान् ॥ पानं पीतौ भोजने च रक्षणे च नपुंसकम् । भानुर्ना भास्करे रश्मौ भानुमत्यामपि स्त्रियाम् । ;p{0235} भिन्नस्तु सङ्गतेऽन्यस्मिन् फुल्ले च दारिते त्रिषु । मानं क्लीबे प्रमाणादौ मानश्चित्तोन्नतौ ग्रहे ॥ मुनिर्ना नारदादौ तु वङ्गसेनद्रुमे जिने । मृत्स्ना मृत्सा तु काक्ष्यां स्त्री यानं स्याद्वाहने गतौ । योनिर्द्वयोराकरे स्याद्भगे भूमौ च कारणे ॥ रत्नं श्रेष्ठे मनोज्ञे च मणावपि नपुंसकम् । रास्ना स्त्रियां भुजङ्गाक्ष्यामेलापर्ण्यौषधावपि ॥ लग्नं राश्युदये क्लीबं त्रिषु सक्ते च लज्जिते । वस्नन्तु वेतने क्लीबं पुंसि चारद्रुमे भवेत् ॥ वनं नीरे निवासे स्यादालये विपिनेऽपि च । वह्निः स्याच्चित्रकौषद्यां भवेद्वैश्वानरे पुमान् ॥ वानं शुष्के शुष्कफले स्यूतिकर्मकरे गतौ । शानस्त्वजगरे मूर्खे श्येनः पाण्डौपतत्रिणि ॥ स्वप्नस्तु शयने सुप्तविज्ञाने दर्शने पुमान् ॥ सानुरस्त्री वने प्रस्थे वात्यामार्गाग्रकोविदे ॥ स्थानं तुल्येऽवकाशे च स्थितौ वृद्धिक्षयेतरे । स्त्यानं घनत्वे जघने स्निग्धे चालस्यकेऽपि च ॥ स्नानं स्नानीयद्रव्ये स्याद् यजने च नपुंसकम् । सूनञ्च प्रसवे पुष्पे सूनुः पुत्रेऽनुजार्कयोः ॥ सूनापुत्र्यां वधस्थानगलशुण्डिकयोः स्त्रियाम् । स्योनन्तु किरणे सूर्ये स्याना स्यादोषधिभिदि ॥ हनुः कपोलावयवे द्वयोर्नृत्यपदेऽस्त्रियाम् । स्त्रियां हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु ॥ ;vv{न त्रि} अयनं पथि चण्डांशोर्दक्षिणोदग्रगतो गतौ । अञ्जना वानरीभेदे ज्येष्ठीदिग्गजयोः पुमान् ॥ क्लीबं रसाञ्जने चाक्तौ सौविरे कज्जलेऽपि च । अवनं रक्षणे प्रीतौ अवनिः क्षितिरक्षयोः ॥ असनो वृक्षभेदे स्यादसनं क्षेपणेऽपि च । अङ्गनाऽपि च कामिन्यां क्लीबं प्राङ्गनयानयोः ॥ अर्जुनः ककुभे पार्थे मातुरेकसुतेऽपि च । कार्तवीर्ये मयूरे च कुक्कुभे ना सितेऽन्यवत् ॥ तृणे नेत्रगदे क्लीबं स्त्रियां स्यादर्जुनी गवि । ऊषायामपि कुहन्यां बाहुदा सरिति क्वचित् ॥ अम्लानो वृक्षभेदे स्याद्वाच्चलिङ्गन्तनिर्मले । ;p{0236} अर्शोघ्नी तालमूल्यान्तु शूरणे तु पुमानयम् ॥ असिक्नी स्यादवृद्धात्तपुर-प्रेष्यासरिद्भिदोः । अशनिश्चञ्चलायां स्यात्कुलिशेऽपि भवेद्द्वयोः ॥ अरत्निः पुंसि कफनौ स्यात्प्रकोष्ठकरेऽपि च । अली मधुकरे पुंसि वृश्चिके च भवेत्पुमान् ॥ अर्थी च सेवके पुंसि याचके च विवादिनि । अर्वा तु घोटके पुंसि कुत्सिते वाच्यलिङ्गकः ॥ आसनं स्याद्गजस्कन्धे पीठे यात्रानिवर्तने । आजीनं वाजिभूषायां ग्रहणे च नपुंसकम् । आत्मा स्वभावे मनसि प्रयत्ने च धृतावपि ॥ वुद्धौ ब्रह्मणि देहे च तनये च भवेत्पुमान् । उत्तानं स्यादगम्भीरे ऊर्द्धास्यशयिते त्रिषु ॥ उत्थानं पौरुषे तन्त्रे पुस्तकोद्यमसंयुगे । प्राङ्गनोद्यमहर्षेषु मलोत्सर्गेषु न द्वयोः ॥ उद्यानं स्यान्निःसरणप्रयोजनवनान्तरे । उदानो वायुभिज्जठरावर्तनाभिपक्ष्मसु ॥ उद्घानं क्लीबलिङ्गन्तु चूल्ल्यां वाच्यवदुद्गते । ओदनोऽस्त्री तु भक्ते स्याद्वलायामोदनी स्त्रियाम् । कमनः कामुकेऽशोके कामदेवाभिरूपयोः ॥ कठिनं निष्ठुरे स्तब्धे त्रिषु स्थाल्यां नपुंसकम् । कठिनी खटिकायाञ्च कठिनासितगोलयोः ॥ क्रन्दनं रोदने ध्वानयुद्धसंरावयोरपि । कल्पनं कर्तने क्लिप्तौ कल्पना हस्तिसज्जने ॥ कर्तनं न द्वयोश्छेदे स्त्रीणां सूत्रादिनिर्मितौ । काञ्चनश्चम्पके नागकेशरे काञ्चनालके ॥ धुस्तूरे डुम्बुरे पुंसि हरिद्रायान्तु काञ्चनी । काञ्चनं शातकुम्भे च स्यात्पद्मकेशरेऽपि च ॥ कामी पारावते चक्रवाके चटककामुके । कानीनः कन्यकाजातसुते च व्यासकर्णयोः ॥ काकिनी मानदण्डे स्यात्पनपादे वराटके ॥ काननं धातृवक्त्रे स्याद्गेहे च विपिनेऽपि च ॥ नद्धानं(?) काचपात्रे स्यान्मृत्तिकाभाण्डभेदयोः । कुहना दम्भचर्यायां स्यादीर्ष्यापथकल्पने ॥ कृती योगे पण्डिते स्यात्साधौ पुण्यरतेऽपि च ॥ ;p{0237} केतनं गृहकेतौ स्यात्कृत्ये स्थाने निमन्त्रणे । केशी दैत्ये पुमांश्चोरपुष्प्यां स्त्रीतद्वति त्रिषु ॥ कौलिनन्तु कुलीनत्वे गुह्यजन्यकुकर्मसु । पशुपक्षिभुजङ्गानां युद्धेऽपि च निगद्यते ॥ कौपीनं गुह्यदेशे स्याच्चीरे च मूर्खकर्मणि । खलिनी तालपर्ण्याञ्च खलैवृन्देऽपि च स्त्रियाम् ॥ खञ्जनः खञ्जरीटे स्त्रीसर्षपे न द्वयोर्गतौ । खड्गी खड्गमञ्जुघोषे पुमान् खड्गधरे त्रिषु ॥ गर्ज्जनं कोपनिनदभर्त्सनोभुजनेषु(?) च । गहनं गह्वरे दुःखे वने क्लीबं युते त्रिषु ॥ गञ्जनन्तु भवेद्धिंसासूचनोत्साहदीप्तिषु । ग्रामीनः शुनि काके ना स्याद्ग्रामसंस्कृते त्रिषु ॥ ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च । गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके । गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी । गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु । चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु । चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् । चक्री काककुलालाजग्रामजालिकसूचके । सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् । चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः । चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् । चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् । छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे । छदनं चलने पक्षे पिधानेऽपि नपुंसकम् । छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः । जवनस्तु रये वेगिहये वेगवति त्रिषु ॥ जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः । जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते । जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च । जघनं योषितां श्रोणिपुरोभागे कटावपि । ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् । जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च । जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके । ;p{0238} तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च । तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् । तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः । तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु । त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् । तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् । तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च । तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥ तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु । दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् । दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने । देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना । ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे । धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु । धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी । धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः । नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् । नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् । निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे । पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च । प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् । ;p{0239} पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु । प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु । पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि । पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ पावनं सलिले कृच्छे व्यासपावकयोः पुमान् । पाचनं दशमूल्यादौ प्रायश्चित्ते पुमानशुचौ ॥ पाचनी तु हरीतक्यां पाककारिणि वाच्यवत् । पिशुनो नारदे काके पुंसि क्लीबन्तु कुङ्कुमे ॥ पृक्कायां पिशुना स्त्री स्यात्क्रूरसूचकयोस्त्रिषु । पीतनं हरिताले च पीतदारुणि कुङ्कुमे ॥ क्लीबलिङ्गं पुमानयं भवेदाम्रातके मतः । पूतना दानवीपथ्यारोगभेदेषु च स्त्रियाम् । पृतना तु स्त्रियां सेनामात्रे सेनाविशेषके । प्रेमाऽस्त्री नर्मणि स्नेहे प्रेमा ना रतिशक्रयोः ॥ फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु । फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः । मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी । ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना । ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः । वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) । बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥ वाहिनी तु भवेन्नद्यां शैलसेनाविशेषयोः ॥ बालिनी नासिकामत्ताविदग्धावनितासु च ॥ बुधानो गीष्पतौ विज्ञवृद्धभेदे भवेत्पुमान् । बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने । भण्डनञ्च खलीकारे न द्वयोर्युद्धवर्मणोः । भट्टिनी द्विजकान्तायां नाट्टोक्तौ नृपयोषिति । भवनं भावगृहयोर्भाजनं पात्रयोग्ययोः ॥ भावना स्यान्न ना ध्यानपर्यालोचाधिवासने । भुवनं गगणे नीरे पिष्टपे च जनेऽपि च ॥ ;p{0240} भोगी पुंसि भुजङ्गे स्याद् ग्रामपात्रे महीपतौ । महिषी व्यतिरिक्तायां राजयोषिति भोगिनी । मदनः कामधुस्तूरवसन्तद्रुमसिकथके । मलनं मर्दने क्लीबं पटवासे भवेत्पुमान् । मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यपि ॥ मार्जनो लोध्रवृक्षे स्यात्क्लीबं मार्ष्टौ तु मार्जनम् । मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु । मैथुनं सङ्गते क्लीबं सुरते च नपुंसकम् । यमनो ना यमे क्लीबं बन्धे चोपरतावपि । यवनो जातिभिद्देशभिदोर्वेगाश्वयोरपि । यवन्योषधिभेदे स्त्री वेगिनि त्वभिधेयवत् । यापनं स्यान्निरसने कालक्षेपे च वर्त्तने । युवा श्रेष्ठे च तरुणे निसर्गबलसंयुते । योजनं स्याच्चतुष्क्रोश्यां योगमाने परात्मनि । रसनं स्वादने शब्दे स्याद् रास्नाजिह्वयोः स्त्रियाम् ॥ रञ्जनो रागजनने रञ्जनं रक्तचन्दने । नीलीरोचनिकाशुण्डामञ्जिष्ठासु च रञ्जिनी । रजनी रात्रिजतुकाहरिद्रानीलिनीषु च । राधना तोषणे स्त्री स्यात्क्लीबं प्राप्तौ च साधने । राजा नृपे प्रभौ चन्द्रे क्षत्रिये च पुमानयम् । रेचनी कर्कश-दन्ती-रोचनी-त्रिवृतासु च ॥ रोचना स्त्री तु गोपित्ते रक्तकह्लारयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु । रोही वटद्रुमेऽश्वत्थे तया रोहितके पुमान् । लङ्घनं क्रमणे चोपवासे प्लवनेऽपि च । ललना स्त्री शिवाभेदरसनाकामिनीषु च । लेखनन्तु लिपिन्यासे भूर्जे च छर्दनेऽपि च । वर्जनं हिंसने दाने तथा त्यागविशेषके । वपनं मुण्डने क्लीबं वीजाधानेऽपि तत्स्मृतम् ॥ वसनं छादने वस्त्रे निवासे चापि कुत्रचित् । वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् । व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च । व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे । पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) । ;p{0241} वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥ स्त्रीपुंसयोस्तूलनाले जीवने तर्कुपीठके । वर्त्तिष्णौ च त्रिषु क्लीबं स्यात्साधारणवर्तुले ॥ वज्री बुद्धे देवराजे वचक्नुर्वत्कृविप्रयोः । वर्णी चित्रकरे ब्रह्मचारिणि स्यात्तुलेखके ॥ वर्ष्म देहे प्रमाणेऽतिसुन्दरेऽपि च न द्वयोः । वाजी पक्षिशराश्वेषु वर्त्म नेत्रच्छदाध्वनोः । वामनो दिग्गजे विष्णौ तथाङ्कोठद्रुमे पुमान् । अस्त्री रोगप्रभेदेऽपि त्रिषु स्यान्नीचखर्वयोः ॥ वासनं वसने वारिधान्यां धूपनवासयोः । क्लीबं स्त्रियान्तु प्रत्याशाज्ञानयोरपि वासना ॥ वितुन्नं शैवले क्लीबं सुनिषण्णेऽपि च नद्वयोः । विमानोऽस्त्री व्योमयाने यानमात्रतुरङ्गयोः ॥ सार्वभौमगृहेऽपि स्यादहङ्कारपरे त्रिषु । वितानोऽस्त्री तु विस्तारचन्द्रातपमखेषु च ॥ क्लीबन्तु वृत्तिभेदे स्यात्त्रिलिङ्गस्तुच्छमन्दयोः । विक्लिन्नन्तु जराजीर्णे आर्द्रे शीर्णे च वाच्यवत् ॥ विपन्नो भुजगे पुंसि विपदाक्रान्तके त्रिषु । विच्छिन्नन्तु समालब्धे विभक्तेऽपि च वाच्यवत् । विलग्नं लग्नमात्रे स्यात्त्रिषु मध्ये तु न स्त्रियाम् । विषघ्नी त्रिवृतायां स्त्री गुडुच्यां ना शिरीषके । व्युत्थानं नृत्यभेदे स्याद्विरोधाचरणेऽपि च । वृजिनं किल्विषे क्लीबं कचे ना कुटिले त्रिषु ॥ वृषा कर्णेन्द्रयोः पुंसि वेदना ज्ञानदुःखयोः । वेष्टनं कर्णशष्कुल्यामुष्णीषे मुकुटे वृतौ ॥ शकुनिः स्यात्करणभिद् विहङ्गदैत्यभित्सु च । शिल्पी कारौ वाच्यलिङ्गः शिल्पिन्योषधिभिद्यपि ॥ शृङ्गी शृङ्गयुते वृक्षे पर्वते द्विरदे पुमान् । शयनं सुरते शय्यानिद्रयोश्च नपुंसकम् ॥ श्वसनं स्याद्गन्धवाहे श्वसिते मदनद्रुमे । शकुनः पक्षिमात्रे स्यात्पक्षिभिच्छुमसंशिवोः ॥ शङ्खिनी श्वेतचक्रायां चोरपुष्प्यां वधूभिदि । शङ्खी शङ्खयुते विष्णौ शाङ्खिके सरिताम्पतौ ॥ शतघ्नी शस्त्रभेदे स्याद्वृश्चिकाल्यां करञ्जके । ;p{0242} शासनं लेखशास्त्राज्ञाराजदण्डाङ्कशास्त्रेषु ॥ शिखी वह्णिवलीवर्द-शर-केतुग्रहेषु च । मयूरे कुक्कुटे वृक्षे पुमान् शिखावति त्रिषु ॥ श्लैषघ्नी मल्लिकाज्योतिष्मत्योस्त्रिकटुके स्त्रियाम् । शोभनः स्याद्योगभेदे स्यात्पुमान् सुन्दरे त्रिषु ॥ सवनन्तु मखे स्नाने सोमनिर्दलनेऽपि च । स्तननं शब्दमात्रे स्याद्घनशब्दे च कुन्दुने(?) ॥ समानो नाभिवायौ ना सत्समैकेषु च त्रिषु ॥ सन्तानो गोत्रसन्तत्योरपत्ये च सुरद्रुमे । स्पर्शनं पवने पुंसि क्लीबं स्यात्स्पर्शदानयोः ॥ संस्थानं मरणाकृत्योः सन्निवेशे चतुष्पथे । स्पन्दनं क्षरणे नीरे रथेऽस्त्री तिनिशे पुमान् ॥ सज्जनं क्लीबलिङ्गं स्यादुपरक्षणघट्टयोः । कुलीने वाच्यलिङ्गं स्यात्कल्पनायामपि स्त्रियाम् ॥ सन्धानं स्यात्संघट्टनेऽभिषवेऽपि च न द्वयोः । सम्पन्नं साधिते क्लीबं सम्पत्तिसहितेऽन्यवत् । सन्धिन्यकालदुग्धासु वृषाक्रान्तासु गोषु च ॥ सद्म स्यात्सलिले गेहे संव्यानंदादनेंऽशुके । सादी गजरथश्वादिसमारोहेषु पुंस्ययम् ॥ स्वामी पुमान् कार्त्तिकेये प्रभौ विष्णौ हरे हरौ । स्थापन्योषधिभेदे स्त्री क्लीबं सवनरोपणे ॥ सावनः क्रतुकर्मान्ते यजमाने प्रचेतसि । साधनं दापने सैन्ये शिश्ने च गमने धने । तथा निर्वर्त्तनोपायमृतसंस्कारयोरपि । समे वेदान्तरोपायभेदयोरपि न द्वयोः(?) ॥ सीमा तु कोषमर्यादास्थितिक्षेत्रेषु च स्त्रियाम् । सूचनाभिनये दृष्टौ गन्धने व्यधनेऽपि च ॥ सेचनं तरणीसेकभाजने सेकरक्षयोः । सेनानी कार्त्तिकेये स्यात्पुमान् सेनापतावपि । हली कर्षके रामे च सेवनं सीवनार्चयोः ॥ हस्तिनी हस्तिकामिन्यां योषिज्जातिभिदि स्त्रियाम् । हसन्यङ्गारधान्यां स्त्री हासे हसनमित्यपि । हायनोऽस्त्री वत्सरे ना वहयर्चिर्व्रीहिभेदयोः ॥ हिण्डनं सुरते भान्तौ ह्रादिनी वज्रविद्युतोः । ;p{0243} ;vv{न चतुः} अवलम्बो(?) नयमात्रे त्रिषु मध्येऽपि च त्रियाम् ॥ अनूचानः साङ्गवेदविदुषि स्याद्विनीतके । अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते निपद्गते । अवदानं खण्डनाभिवृत्तकर्मावदातृषु । अभिमानी ज्ञानहिंसाप्रणयार्थादिदर्पके । अनीकिनी च सेनानां सेनाभेदेऽपि च स्त्रियाम् ॥ अधिष्ठानं प्रभावेऽध्यासने चक्रे पुरेऽपि च । अन्वासनञ्चकारार्थशोचनस्नेहवस्तिषु । अर्यमा भास्करे पुंसि पितृदेवात्तरेऽपि च ॥ अथर्वनो द्वयोर्वेदे भूमिदेवे च पुंस्यपि । अभिजनं कुले ख्यातौ जन्मभूमौ कुलध्वजे । आयोधनं क्लीबलिङ्गं भवेद्युद्धे वधेऽपि च । भवेदाकलनं काङ्क्षा परिसंख्यानबन्धने । आतञ्चनं प्रतीवायाप्यायनजीवनेष्वपि । आराधनं तोषणे स्यात्संप्राप्तो पचनेऽपि च । आच्छादनं पिधाने स्याद्वस्त्रेऽपि वृतिमात्रके । आक्रन्दनं शोचने च तिरस्कारणे(?)पि च । आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ॥ आत्मयोनिः शिवे कामे हरौ च परमेष्ठिनि । उद्वर्त्तनमुत्पतने विलेपे घर्षणेऽपि च । उद्वाहनी भवेद्रज्वां द्विसीत्ये तु नपुंसकम् । उपासनं शराभ्यासे सेवनासनयोरपि । कपीतनश्चलदले गर्दभाण्डे शिरीषके । आम्रातके च पूगे च मालूरेऽपि च कुत्रचित् । कलापी स्यान्मयूरे च प्लक्षभूमिरुहे पुमान् । क्षौमं(?) शुद्धार्द्धजरती विधवादुर्गयोः स्त्रियाम् । कुम्भयोनिर्वशिष्ठे स्याद् द्रोणेऽगस्त्ये पुमानयम् । कुचन्दनं वृक्षभेदे कुङ्कुमे रक्तचन्दने । कुण्डली कुण्डलवति व्याले बर्हिप्रचेतसोः । केशरी सिंहपुन्नागनागकेशरवाजिषु ॥ क्रौञ्चादनं किञ्चुल्वकमृगालपिप्पलीषु च । खड्गधेनुः खड्गपुत्री खड्गपत्न्योरपि स्त्रियाम् ॥ गवादनीन्द्रवारुण्यां गोघासग्रसनालये । गदयित्नुः कामदेवे जल्पाके कामुके पुमान् ॥ ;p{0244} घनाघनो मत्तगजे महेन्द्रवर्षुकाब्दयोः । घोषयित्नुः पिके पुंसि भूमिदेवे च वन्दिनी ॥ चित्रभानुर्वीतिहोत्रभैरवे भास्करे पुमान् । चोलकी नागरङ्गे ना करीरे किष्कुपर्वणि । जलाटनन्तु कङ्के स्याज्जलौकायां जलाटनी । तपस्विनी जटामांसीरोहिन्योस्तापसु त्रिषु ॥ तपोधना तु मुण्डीर्यां तपसे तु तपोधनः । द्विजन्मा भूमिदेवे ना दशने च विहङ्गमे । दुर्नामा दीर्घकौष्यां स्त्री दुर्णामक्लीबमर्शसि । देवसेना शक्रपुत्री देवनासेनयोः स्त्रियाम् । नागाञ्जना तु हस्तिन्यां नागयष्ट्यामपि स्त्रियाम् । क्लीबं निधुवनं कल्पे सुरते नर्मकेलिषु । निर्वासनं नगरादेर्बहिष्कारे च हिंसने । निर्भत्सनमलक्ते च खलीकारे च न द्वयोः ॥ निर्यातनं वैरशुद्धिदानन्यासार्पणेषु च ॥ निशामनं क्लीबलिङ्गं दर्शनालोचनयोरपि । भवेन्निगमनं दृष्टौ श्रुतौ विनशनेऽपि च ॥ भवेन्निरसनं क्षेपनिष्ठीवनवधेषु च । भवेत्प्रजननं योनिगर्भग्रहणयोरपि ॥ पञ्चावनः शिवे सिंहे भवेदत्युग्रकेऽपि च । प्रहसनं परिहासे प्रहासे रूपकान्तरे ॥ प्रणिधानं समाधौ स्यात्प्रयत्ने च प्रवेशने । प्रयोजनं कार्यहेत्वोः पलाशी राक्षसे द्रुमे ॥ भवेत्प्रवचनं वेदे प्रशस्तवचनेऽपि च । प्रतिपन्नो वाच्यलिङ्गे ज्ञाताङ्गीकृतयोरपि ॥ प्रस्फाटनं ताडने स्यात्सूर्वेऽपि च विकाशने । प्रतिमानं प्रतिच्छायादन्तिदन्तान्तरालयोः । प्रतियत्नस्तु लिप्सोपग्रहसंस्कारकर्मसु । प्रत्यर्थी तु भवच्छत्रौ प्रतिवादिनि वाच्यवत् ॥ प्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः । पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् । पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि । पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि । फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते । ;p{0245} वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) । भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि । महाधनं महामूल्यसुवर्णसिह्लकादिषु । महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् । मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः । महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे । मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥ मालुधानी लताभेदे सर्पभेदे भवेत्पुमान् । मेधाविनी स्त्रियां लाक्ष्याशुके ना तद्वति त्रिषु ॥ रसायणः पुंसि तार्क्ष्यविडङ्गाख्यौषधिभिदोः । क्लीबं विषजराव्याधिजिदोषध्यां रसप्रिये । राजादनं पियालद्रुक्षीरिकाकिंशुकेषु च ॥ ललाम स्याद्ध्वजे शृङ्गे प्रभावे च तुरङ्गमे । प्रधाने लाञ्छने पुण्ड्रे वालधौ भूषणेऽपि च । लाङ्गली रेवती कान्ते नारिकेलद्रुमे पुमान् । ......वञ्चकव्याघ्रगन्धमार्जारकेषु च । वर्द्धमानः पशुविष्णुशरावैरण्डसूरिषु । विस्मापनः स्मरे पूर्यां गन्धर्वे कुहनेऽपि च । विसर्जनं परित्यागदानसंप्रेरणेषु च । विरोचनोऽग्निसूर्येन्दुप्रह्लादतनयेषु च । विहेठनं मर्दने स्याद् हिंसायाञ्च विडम्बने ॥ भवेद्विहननं विघ्ने तूलपिञ्जलहिंसयोः । विषयित्पिन्द्रिये क्लीबं विषयासङ्गतेऽन्यवत् ॥ पुमान्नरपतौ कामदेवे वैषयिकेऽपि च । विश्वक्सेनो वासुदेवे गन्धफल्यामपि स्त्रियाम् । विलेपनी यवाग्वान्तु सुरेशवरयोषिति । विलासी तु स्मरे कृष्णे हरे भुजगभोगिनोः ॥ विश्वप्सा पुंसि मिहिरे वीतिहात्रे सुधाकरे । वृक्षादनी स्त्री वृन्दायां विदरीकन्दकेऽपि च ॥ वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः । शिखरी द्रुममात्रे स्यादपामार्गे महीधरे । शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि । शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च । शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः । ;p{0246} भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥ संमृर्च्छनन्तु मोहे स्यादभिव्याप्तौ तथोच्छ्राये । समुत्थानं समुद्योगं व्याधिनिर्णययोरपि ॥ सदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च । समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने । समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि । सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् । सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि । संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) । सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये । क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः । सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि । सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ सुदामा गोपभेदे स्यात्समुद्राचलयोः पुमान् । सौदामनी विद्युति स्त्री विद्युद्भेदेऽप्सरोभिदि । हर्षयित्नुः सुते पुंसि क्लीबलिङ्गन्तु काञ्चने । ;vv{न पञ्च} तथातिसर्ज्जनं दाने रोगेऽपि च नपुंसकम् ॥ अपवर्जनं निर्वाणे त्यागे दाने च न द्वयोः । अपसर्जनमाम्नाते दाने च परिवर्जने ॥ ज्येष्ठभातृ-धातृ-विप्रेष्वग्रजन्मा निगद्यते । विसर्गेऽक्षरमात्रे स्यादभिनिष्ठानमित्यपि । चण्डाले प्रान्तगे शिष्ये चान्तेवासी भवेत्पुमान् ॥ स्नानेऽप्या चमने स्पर्शे स्यादुपस्पर्शनं तथा । सुसंस्कृते विनिहते उपसम्पन्नमीरितम् ॥ धातुवादरते कांश्यकारे कारन्धमी पुमान् । ;p{0247} स्वच्छन्दे चटके कामे कामचारी भवेत्पुमान् । इक्ष्यौ वेणौ पोटगले किष्कुपर्वा पुमानयम् । अग्नौ राहौ दुराचारे कृष्णवर्मा निगद्यते । कपिभिद्गन्धकभृङ्गे पुंसि स्याद् गन्धमादनः । पर्वते न स्त्रियामेष सुरायां गन्धमादनी । मार्कण्डेये विधौ कङ्के चिरजीवी भवेत्पुमान् । यमे जाम्बवति क्ष्माभृत्कपिराक्षसभित्सु च ॥ अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते । स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः । केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः । शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः । दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् । भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् । धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः । वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना । कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् । भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् । देवदारुणि कालीये न द्वयोर्वरचन्दनम् । स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च । साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी । वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥ शातकुम्भे कुसुम्भे च महारजनमुच्यते । श्रीफले द्रोणकाके च त्र्यम्बके मृत्युवञ्चनः ॥ गोविन्दे वनमाली स्याद्वाराह्यां वनमालिनी । राज्ञि वैषयिके पुंसि विषयेध्मास्मरेऽपि च ॥ देवशिल्पिनि चण्डांशौ विश्वकर्मा मुनावपि । विघातिघोरदृष्ट्योस्तु विघ्नकारी पुमान्भवेत् । महेशे दैत्यभेदे स्याद् वृषपर्वा पुमानयम् । विहङ्गे देवतायाञ्च व्योमचारी भवेत्पुमान् । शाकभेदे कृष्णभेद्यां स्त्रियाञ्च शकुलादनी । मुनिभेदे नन्दिनि स्याच् शालङ्कायन इत्यपि ॥ भृङ्गरोट श्रीधरे च शैले च शिवकीर्तनः । धनञ्जये हिमकरे मकरे श्वेतवाहनः । कुञ्जरे धान्यभेदे च स्यात्पुमान् षष्टिहायनः । ;p{0248} कर्पूरफेणचन्द्रेषु श्वेतधामा पुमानयम् । कामुके च कलाकेलौ संप्रयोगी निगद्यते । स्वर्गद्रुमे पुमान्क्लीबं गोशीर्षे कुङ्कुमेऽपि च ॥ ज्योत्स्नायां स्यान्मलयजे कान्ताङ्गे हरिचन्दनम् । महेन्द्रे गरुडे सूर्ये स्यात्पुमान् हरिवाहनः ॥ ;vv{न षट्} अन्तावसायी मुनिभिन्नापितश्वपचेषु ना । कलानुनादी भ्रमरे कलविङ्के कपिजले ॥ जायानुजीवी विहगे नटे वेश्यापतिष्वपि । सहस्रवेधि तु क्लीबं रामठे पुंसि वेतसे ॥ ;c{इति नान्तवर्गः ॥} ;v{पान्ताः} ;vv{प एकः} पकारं पवने ख्यातं पा पाने पाश्च पातरि । ;vv{प द्वि} कल्पो ब्रह्मदिने न्याये विधौ शास्त्रे क्षयेऽपि च ॥ कपिर्ना वानरेऽपि स्याद्वासुदेवे च सिरके । कूपःकूपकगर्त्ताह्वमृन्मानगुणवृक्षके ॥ कृपी स्त्रियां द्रोणपत्न्यां स्याद्द्रोणश्यालके कृपः । कृपा दयायां हर्षे च खष्पः क्रोधे वलात्कृतौ ॥ क्षेपः स्यात्प्रेरणे गर्वे निन्दाविक्षेपलेपने । गोपः पुंसि नृपे गोष्ठ्याध्यक्षे गोपालकेऽपि च ॥ भूरि-ग्रामाद्यधिकृते रक्षकेतूपकारके । गोपी गोपालकान्तायां सारिवाख्यौषधौ स्त्रियाम् ॥ छपः क्षुपे स्पर्शने च अपुरङ्गे च सीसके । अल्पमट्टे क्लीबलिङ्गं शयनीयकलत्रयोः ॥ तापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ नीपः कदम्बे बन्धूके नीलवञ्जुलभूरुहे ॥ पुष्पां विकाशे कुसुमे कान्तारजसि न द्वयोः । रूपं सौन्दर्ये स्वभावे मानके निनदे पशौ ॥ ग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च । रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥ लेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि । वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥ शापो दिव्ये तथाक्रोशे शिल्पं योग्ये स्रुवेऽपि च । ;p{0249} स्वापः स्पर्शाज्ञताज्ञाननिद्रासंवेशनेषु च । सूपः स्याद्व्यञ्जने सूदे सूर्पो भाण्डे तु शायके । ;vv{प त्रि} अनूपः कासरे पुंसि देशभेदे तु वाच्यवत् । आवापो वपने भाण्डे परिक्षेपालवालयोः ॥ आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कारणेषु च । उडुपन्तु प्लवे न स्त्री पुमान् हिमकरे भवेत् । उलपोऽस्त्री तु गुल्मिन्यां तृणभेदे भवेत्पुमान् । कच्छपो निधिभित्कूर्ममल्लबन्धान्तरेषु च ॥ कच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि । कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ । कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी । पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥ काश्यपो मुनिभेदे स्यान्मृगे पुंसि क्षितौ स्त्रियाम् ॥ कुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् । कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च । प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् । विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ पुमान् कुटन्यनिद्रात्मकलत्रे(?) च विटाधिपे । विकल्पः कल्पने भ्रान्तौ द्वैधेऽपि च भवेत्पुमान् ॥ ;vv{प चतुः} अभिरूपो बुधे रम्ये कामेन्दुहरविष्णुषु । अवन्वेपो दूषणे स्यादहङ्कारे च लेपने ॥ उपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् । नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे । परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ पिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले । बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः । मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः । विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥ ;p{0250} बीजपुष्पञ्च मदने क्लीबं मरुवकेऽपि च । वृषाकपिः पुंसि कृष्यो वीतिहोत्रे शिवेऽपि च । हेमपुष्पं जवापुष्पेऽप्यशोके च नपुंसकम् । ;vv{प पञ्च} अस्त्री चामरपुष्पन्तु काशपूगाम्रकेतके ॥ ;c{इति पान्तवर्गः ॥} ;v{फान्ताः} ;vv{फ एकः} फकारश्चाक्षरे ख्यातस्तथा झञ्झासमीरणे । फः कोपे फाश्चसन्तापे तथा निष्फलभाषणे ॥ ;vv{फ द्वि} गुम्फन्तु गुम्फने श्मश्रुभेदे बाह्वोरलङ्कृतौ ॥ रेफो रवर्णे रागे च कुत्सितेऽपि च वाच्यवत् । शफं विटपिमूले स्याद्गवादीनां खुरेऽपि च । शिफा सरिज्जटामांसीजनयित्रीजटासु च ॥ ;v{बान्ताः} ;vv{ब एकः} बकारो वरुणे कुम्भे बिः पक्षिण्यथवीर्गतौ । ;vv{ब द्वि} कम्बुर्नागजशम्बूकवलये शङ्खकेऽस्त्रियाम् । कम्बिः स्त्रियान्तु वंशांशे खजाकायामपि स्त्रियाम् । अथ क्लीबं शण्डकेऽस्त्रीवाच्यलिङ्गन्त्वविक्रमे ॥ खर्वं संख्याभिदि क्लीबं नीचे स्यात्त्रिषु वामने ॥ जम्बूः स्त्री वृक्षभिन्मेरुद्वीपभेदनदीषु च ॥ डिम्बो वारिप्लवप्लीहाफुस्फुसाण्डभयस्वने । दर्वी सर्पफणायान्तु खजाकायामपि स्त्रियाम् । पूर्वस्तु पूर्वजे पुंसि पूर्वं प्रागादपयोस्त्रिषु ॥ लम्बा स्यात्कमलागौर्य्योः स्यात् स्त्रियां तिक्ततुम्बीषु । बिम्बोऽस्त्री तु मण्डपे स्यात्प्रतिबिम्बे च पुंस्यपि ॥ बिम्बीफले क्लीबलिङ्गं सरटे च पुमान् क्वचित् । शम्बो ना वज्रमूषललोहे त्रिषु शुभान्विते ॥ स्तम्बो गुत्से पुमानेव स्यात्प्रकाण्डमहीरुहे । ;vv{ब त्रि} कदम्बः सर्षपे नीपे निकुरम्बे नपुंसकम् ॥ कलम्बी शाकभेदे स्त्री कदम्बे च शरे पुमान् । कादम्बः पक्षिभेदे स्यात्सायके च भवेत्पुमान् ॥ गजाह्वा गजपिप्पल्यां क्लीबन्तु हस्तिनापुरे । गन्धर्वः कोकिले पुंसि पशुभेदे तुरङ्गमे ॥ अन्तराभवसत्त्वे च खेचरे दिव्यगायने । गोडुम्बा तु गवादन्यां गोडुम्बः शीर्णपर्णके ॥ ;p{0251} द्विजिह्वः सूचके चौरे दुःसाध्ये च भुजङ्गमे । नितम्बः स्त्रीकटीपश्चाद्भागे तत्कटिमात्रके । पर्वतःस्कपिकटके स्कन्दे वेधसि कुत्रचित् ॥ प्रलम्बो हारभेदे स्यात् शाखायाञ्च पयोधरे । लताङ्कुरे दैत्यभेदे त्रपुषे च प्रलम्बने ॥ हेरम्बो महिषे लम्बोदरे च शौर्यगर्विते । ;vv{ब चतुः} राजजम्बूश्च जम्बुभित्पिण्डखर्जुरयोः स्त्रियाम् ॥ ललजिह्वः पुमानुष्ट्रशुनो हिंस्रेऽपि चान्यवत् । शतपर्वा वचायान्तु दूर्वायां भार्गव स्त्रियाम् । ;vv{ब पञ्च} धुलीकदम्बस्तिनिशे कदम्बे वरुणद्रुद्मे । शृगालजम्बू गोडुम्बे तथा घोषाफले स्त्रियाम् ॥ ;c{इति बान्तवर्गः ॥} ;v{भान्ताः} ;vv{भ एकः} भः पुंसि भार्गवभ्रान्त्योर्भा दीप्तौ भीर्भये स्त्रियाम् ॥ भूर्भूमौ स्थानमात्रे च भमृक्षगृहनामसु । ;vv{भ द्वि} कुम्भो ना कुम्भिमूर्द्धांशे राशौ च राक्षसान्तरे ॥ वारस्त्री कामुके मत्ते घटे क्लीबन्तु गुग्गुलौ । कुम्भी स्त्रियामुखापृश्नी पाटला कट्फलेषु च ॥ गर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकन्टके । जम्भो दन्तशठे दन्ते दैत्यभेदे च भक्षणे ॥ जृम्भस्त्रिषु विकाशे च जृम्भरणे स्फारितेऽपि च । डिम्भः स्याद्वालिशे मध्ये क्षत्रिये शावकेऽपि च ॥ दम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् । नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे । निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् । विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने । शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् । स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । ;p{0252} ;vv{भ त्रि} आरम्भः पुंसि दर्पे च त्वरायामुद्यमे वधे । आत्मभूः कामदेवे स्याद्विधौ विष्णौ भवेत्पुमान् ॥ ऋषभः स्वरभेदे स्यादष्टवर्गोषधान्तरे । कर्णरन्ध्रे च कुम्भीरपुच्छे धर्मे वृषेऽपि च । पुमानुत्तरभाक्श्रेष्ठे नराकारस्त्रियां स्त्रियाम् । विधवायां शिरालायां पूकशिम्ब्यामृषभ्यपि ॥ ककुप् प्रवेणी दिक्शोभाचम्पकस्रक्षु च स्त्रियाम् ॥ ककुभोऽर्जुनवृक्षे ना वीणाङ्गरागभेदयोः । कटभी तरुभेदे स्याद् ज्योतिष्मत्यामपि स्त्रियाम् । करभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते । कुसुम्भं हेम्नि च महारजने नाकमण्डलौ ॥ गर्दभं शुक्लकुमुदे खरगन्धभिदोः पुमान् । गर्दभी क्षुद्ररोगे च स्त्रियां जन्तुविशेषके । दुर्लभस्त्रिषु दुष्प्रापे कर्चुरादिप्रशस्तयोः । दुन्दुभिर्वरुणे दैत्ये स्त्र्यक्षे बिन्दुत्रिके द्वयोः । भेर्याञ्च वाद्यभेदे स्याद्रक्षोभेदे तु पुंस्ययम् । निकुम्भो दन्तिकौषध्यां कुम्भकर्णसुतेऽपि च ॥ वल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् । विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः । विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् । वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च । सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् । वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु । ;vv{भ चतुः} अनुष्टुप्छन्दसि भेदे सरस्वत्यामपि स्त्रियाम् । अवष्टम्भः काञ्चने स्यात्प्रारम्भस्तम्भयोरपि । शातकुम्भोऽश्वमात्रे स्यात्काञ्चने तु नपुंसकम् ॥ ;c{भान्ताः ।} ;v{मान्ताः} ;vv{म एकः} मो ब्रह्मणि शिवे चन्द्रे मा लक्ष्मीमानमातृषु । मूर्बन्धने स्त्रियामेव मा निषेधे बदव्ययम् ॥ ;p{0253} ;vv{म द्वि} आमोऽपक्वेऽन्यलिङ्गः स्याद्रोगरोगभिदोः पुमान् । उमा गौर्य्यतसी कीर्तिहरिद्राकान्तिशान्तिषु ॥ ऊर्भिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः । वस्त्रसङ्को च रेखायां पीडावेदनयोरपि ॥ क्रमोऽनुक्रमशक्त्योर्ना कल्पाक्रमणयोरपि । क्षमा क्षान्तौ क्षितौ स्त्री तु क्षमं युक्ते नपुंसकम् । वाच्यलिङ्गं हिते शक्ते क्षये क्षीणेऽबले त्रिषु । कामः स्मरेच्छयोः कामं काम्ये वीर्यनिकामयोः ॥ कामिः पुंसि कामुके स्यादथ रत्यामपि स्त्रियाम् । किंक्षेपे च वितर्के च वाच्यवत्प्रश्ननिन्दयोः । कृमिः क्रिमिः पुंसि कीटे लाक्षायां कृमिले खरे । किर्मी स्त्री हेमपुत्याञ्च शालापलालयोरपि ॥ क्षुमा स्त्रियामतस्याञ्च नालिकायां लताभिदि । क्षेमं लब्धरक्षणे स्याच्चण्डानामौषधे पुमान् ॥ अस्त्रियान्तु शुभे वल्ये क्षेमा गौर्य्यामपि स्त्रियाम् । क्षौमं स्याद्दुकूले चाट्टे पुनपुंसकयोरिह । क्षौमन्तु शणजेऽपि स्यादतसीजे नपुंसकम् । खर्मश्च पौरुषेऽपि स्यात्कोषजांशुक इत्यपि । गमो नाक्षविवर्ते स्यादपर्यालोचिते पथि ॥ ग्रामः पुमान् संवसथे समूहस्वरभेदयोः । गुल्मः सेना सैन्यरक्षाधहभिद्व्याधिभित्सु च ॥ वस्त्रवेश्मामलक्येलावनीस्तम्बेषु च स्त्रियाम् । घर्मो ग्रीष्मातपोष्णेषु स्वेदाम्भसि भवेत्पुमान् ॥ चमूः सेनामात्रकेतु सेनाभेदेऽपि च स्त्रियाम् । जाल्मः क्रूरे पामरेऽसमीक्ष्यकारिण्यपि त्रिषु । जिह्मः स्यात्कुटिले मन्दे क्लीबं तगरभूरुहे । तोक्मं कर्णमले ना तु हरिते च हरिद् यवे ॥ दमो दन्ते च दमथे दमने कर्दमे पुमान् । दस्मो ना यजमाने स्यात्खले चौरहुताशयोः ॥ द्रुमः किम्पुरुषे कामे पारिजाते महीरुहे । धर्मोऽस्त्री सुकृता चारस्वभावोपनिषत्सु च ॥ हिंसोपमाक्रतुन्याये ना धनुर्यमसोमपे । ध्यानं श्यामे त्रिषु क्लीबं दमने गन्धखटके । नेमिः कूपत्रिकाचक्रान्तयोः स्त्री तिनिशे पुमान् ॥ ;p{0254} नेमः खण्डेऽवधौ गर्ते नाहादौ कैतवान्ययोः । पद्मोऽस्त्रीपद्मके पद्मे निधिसंख्याभिदोर्न्नजौ(?) । नागे ना स्त्री चारटी-श्री-फञ्जिका-पन्नगीषु च ॥ ब्रह्मी मत्स्यप्रभेदे स्यात्फञ्जिकाशाकयोः स्त्रियाम् । ब्राह्मी स्त्रियां सोमवल्लीभारतीब्रह्मशक्तिषु । भ्रमः कुन्दभमणयोः भ्रान्तौ च जलनिर्गमे । भामः स्याद् भास्करे क्रोधे दीप्तौ च भगिनीपतौ ॥ भीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् । भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे । अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् । भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे । यमः शत्रौ च शमने काके ना यमजेऽन्यवत् । ना देहसाधनापेक्षनित्यकर्मणि संयमे । यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥ यामिः स्त्री स्याद्भग्नित्याञ्च यामिन्याञ्च कुलस्त्रियाम् ॥ रमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले । रामो हलिनि शारङ्गे राघवे वरुणे हये ॥ रेणुकातनये पुंसि त्रिषु चारुसितासिते । वास्तूककुष्ठयोः क्लीबं नारी हिङ्गुलयोः स्त्रियाम् ॥ रुमा स्त्रियां लवणभित्सुग्रीवकान्तयोः स्त्रियाम् । अथ लक्ष्मीस्तु सम्पत्त्यां शोभायां वरयोषिति । वृद्धिनामौषधे फल्यां कमलायामपि स्त्रियाम् । वमिर्वान्तौ स्त्रियामेव पुंसि धूर्ते हुताशने ॥ वामः स्तने हरे कामे पुंसि क्लीबं धनेऽपि च । चारुप्रतीपसव्येषु नार्यामपि वामा स्त्रियाम् ॥ वामी शृगाली करभी रामभी वडवासु च । श्यामः कृष्णे पिके मेघे हरिते वृद्धदारके ॥ प्रयागस्य वटे पुंसि स्यादयं तद्वति त्रिषु । सैन्धवे मरिचे क्लीबं स्त्रियान्तु सारिवोषधौ ॥ नीलिकायां त्रियामायां यमुनायाञ्चवागुजौ । प्रियङ्गौ त्रिवृतौषध्यामप्रसूताङ्गनासु च ॥ श्रामो मासे च काले च पुंसि मण्डपकाणयोः ॥ शुष्मं वीर्ये रवौ पुंसि समा स्याद्वत्सरे स्त्रियाम् । साधुसर्वसमानेषु समं स्याद्वाच्यलिङ्गकम् ॥ ;p{0255} सीमाऽवधिस्थितिक्षेत्रेष्वण्डकोषेऽपि च स्त्रियाम् । सूक्ष्मो नाकतकेद्यात्मे क्लीबं स्यात्त्रिषु चाल्पके ॥ सूमं नपुंसकं क्षीरे सलिले च वियत्यपि । सोमश्चन्द्रे समीरे च पितृदेवे धनाधिपे ॥ कर्पूरवसुभिन्नीर कपि सोमलतासु च । हिमं शीते मलयजे क्लीबं स्याच्छीतलेऽन्यवत् ॥ होमिः पुमान् वीतिहोत्रे घृते च सलिलेऽपि च । ;vv{म त्रि} अधमो गर्ह्यन्यूने स्यादागमः शास्त्र आगतौः ॥ आश्रमो ब्रह्मचर्यादौ वानप्रस्थे वने मठे । उद्दामो वरुणे बन्धरहिते च स्वतन्त्रके ॥ कलमः पुंसि लेखन्यां शालौ पाटच्चरेऽपि च । कुसुमन्तु फले पुष्पे स्त्रीरजोनेत्ररोगयोः ॥ गोलोमी श्वेतदूर्वायां वचायां भूतकेशरे । गोधूमोऽपि च नारङ्गे व्रीहिभिदौषधीभिदोः ॥ गौतमः पुंसि बुद्धे च मुनिभेदे च कीर्त्यते । गौतमी स्त्री तु दुर्गायां रोचनी शप्तसीभिदोः ॥ तलिमं कुट्टिमे तल्पे वितानचन्द्रहासयोः । निष्क्रमो वृद्धिसंप्राप्तौ दुष्कुले निर्गमेऽपि च ॥ निगमो वाणिजे वेदे कटे पूर्यां वणिक्पथे । नियमश्च प्रतिज्ञायां मन्त्रणानिश्चयव्रते ॥ नैगमो नागरे पुंसि वणिज्युपनिषद्यपि । प्रथमस्तु भवेदाद्ये प्रधानेऽप्यभिधेयवत् । प्रतिमाऽनुकृतौ कुम्भिदन्तवन्धेऽपि च स्त्रियाम् । पञ्चमो रागभेदे स्यात्स्वरभेदे भवेत्पुमान् ॥ पञ्चमी स्त्री तु पाञ्चाल्यां पञ्चानां पूरणे त्रिषु । मध्यमः स्वरभिन्मध्यदेशयोर्मध्यजेऽन्यवत् । अवलग्नेऽस्त्रियां स्त्री तु नार्यां दृष्टरजस्यपि । ल्यक्षरच्छन्दसि तथा कर्णिकाङ्गुलिभेदयोः ॥ ललामं भूषणे शृङ्गे प्रधाने लाञ्छने ध्वजे । हयवालधिपुण्ड्रेषु प्रभावेऽपि च न द्वयोः ॥ विभ्रमो भ्रमणे भ्रान्तौ स्त्रीणां शृङ्गारभावजे । विद्रुमः स्यात्प्रवालेऽपि रत्नवृक्षे पुमानयम् ॥ विलोमो भुजगे वह्नौ प्रतीपे वरुणे शुनि । ;p{0256} आमलक्यां विलोमी च क्लीबं स्यादरघट्टके ॥ विक्रमः क्रान्तिमात्रे स्याच्छक्तिसम्पदि पुंस्यपि । संक्रमः क्रमणे पुंसि न स्त्री स्याद्दुर्गसञ्चरे ॥ सम्भ्रमः पुंसि संवेगादरयोः साध्वसेऽपि च । सरमा राक्षसीभेदे कुक्कुर्यामपि च स्त्रियाम् । सुषमाऽत्यन्तशोभायां स्त्री मनोज्ञे समे त्रिषु । सुषीमो नागभेदे ना मनोज्ञशीतयोस्त्रिषु । ;vv{म चतुः} स्त्री सुप्रतीकहस्तिन्यां श्रेष्ठत्वनुपमस्त्रिषु । वैराघातनिकटाभ्युत्थानेऽप्यभ्यागमः पुमान् ॥ ज्ञात्वारम्भे विक्रमे स्याच्चिकित्सायामुपक्रमः । स्वीकारेऽप्यभ्यागमने भवेदुपगमः पुमान् ॥ कूर्मनीराङ्गनावर्ते जलगुल्मो निगद्यते । दिनेऽगस्त्ये पितृपतौ दण्डयामः पुमानयम् ॥ शाखामृगे पक्षिभेदे मण्डूके च प्लवङ्गमः । सामर्थ्योद्योगनिष्क्रान्तिष्वपि पुंसि पराक्रमः ॥ संख्याभेदे निधौ नागे महापद्मो भवेत्पुमान् । परिभुक्तोज्झिते जीर्णे यातयामोऽपि वाच्यवत् ॥ दिङ्नागे सर्वपृथ्वीशे सार्वभौमः पुमान् भवेत् । ;vv{म पञ्च} अथाभ्युपगमः पुंसि स्वीकारे निकटागमे ॥ नक्षवनेमी रेवत्यां स्त्रियां ना ध्रुवचन्द्रयोः ॥ ;c{इति मान्तवर्गः ॥} ;v{यान्ताः} ;vv{य एकः} यकारो वायुयशसोर्योगे याने च यातरि । ज्या मातरि क्षितौ मौर्व्यां द्यु क्लीबं गगणे दिने ॥ द्युः पुंसि ज्वलने द्योस्तु स्वर्गे च विपति स्त्रियाम् । ;vv{य द्वि} अर्थ्यो बुधे जतुन्यर्थ्यं न्याय्ये चाप्यभिधेयवत् । अन्त्यो ना मुस्तके नीचे भवेदन्तभवे त्रिषु । अर्घ्यं वाच्यवदर्घ्यार्थेऽप्यर्घयोग्ये नपुंसकम् ॥ अन्योऽप्यसदृशे भिन्ने वाच्यलिङ्गोऽपि कुत्रचित् । अर्य्यः स्वामिनि वैश्ये स्यादास्यं वक्रे स्थितौ स्त्रियाम् । इज्याचीयां क्रतौ दाने सङ्गमे स्त्री गुरौ त्रिषु । इभ्या करेणौ शल्लक्यां स्त्रियागाढ्येऽभिधेयवत् ॥ कश्यं त्रिषु कशार्हे तु क्लीबं मध्येऽश्वमद्ययोः । ;p{0257} कन्या नारीकुमार्योस्तु राशिभिद्योषधीभिदि ॥ क्षयः कल्पान्तवेश्मापचयेषु रोगभिद्यपि । कल्यं क्लीबं प्रभाते स्यात्त्रिषु वाक्श्रुतिवर्जिते । अपि कल्याणवार्तायां सज्जे स्याद्दक्षारोगयोः ॥ उपायवचनेऽपि स्यात्त्रिषु मद्येऽपि च स्त्रियाम् । कक्ष्या मध्ये कुम्भिवन्धे हर्म्यादीनां प्रकोष्ठके ॥ तथा बृहतिकायाञ्च काकचिञ्च्यामपि स्त्रियाम् । काव्यः शुक्रे पुमान् ग्रन्थे क्लीबं स्त्री पूतनाधियोः ॥ कांस्यं तैजसभेदे स्याद्वाद्यभित्पानपात्रयोः ॥ कायो मूर्त्तौ स्वभावे च संघे लक्ष्ये कदैवते ॥ पुंसि क्लीबन्तु कायं स्यान्मनुष्यतीर्थभिद्यपि । क्रिया कर्मणि पूजायामारम्भे सम्प्रधारणे । उपाये निष्कृतौ शौचे चेष्टायामपि च स्त्रियाम् । कुड्यं विलेपने भित्तौ क्लीबं कौतुहलेऽपि च । कुल्यं सूर्पे कीकशे स्यादामिषे द्रोणभिद्यपि । कुल्या जीवन्तिकौषध्यां प्रणाल्यां सरिति स्त्रियाम् । अमात्ये पुंसि च कुलीद्भवे कुलहिते त्रिषु । कृत्या कर्मणि देवे स्त्री विद्विष्टकार्ययोस्त्रिषु । गयो ना पशुराजर्षिभेदे तीर्थे पुनः स्त्रियाम् । गव्या गोसंहतौ क्लीबं रागद्रव्ये धनुर्गुणे । गोदुग्धादिगोहितयोस्त्रिषु गव्यं निगद्यते ॥ ग्राम्यं क्लीबं स्त्रीकरणे प्राकृताश्लीलयोस्त्रिषु । गुह्यं रहस्युपस्थे च गुह्यो ना दम्भकूर्मयोः । गृह्यं क्लीबं ग्रन्थभेदे स्त्री शाखानगरेऽपि च ॥ गृहासक्तमृगादौ ना चास्वैरिपक्षयोस्त्रिषु । गेयं गानेन गेयो ना? गातव्ये गायने त्रिषु । गोप्यो ना चेटिकापुत्रे रक्षणीये तु वाच्यवत् । चव्या स्त्री तु वचायां स्याच्चविकेतु नपुंसकम् । चयः समाहृतौ वृन्दे प्राकारमूलबन्धने । चित्या स्मृता चितौ स्त्री तु चित्यं नृतकचित्यके ॥ चैत्यमायतनेऽपि स्यात्पुमानुद्देशभूरुहे । चोद्यन्तु प्रश्नाद्भुतयोश्चोदनार्हेतु वाच्यवत् ॥ छाया स्त्री सूर्यकान्तायामातवाभावबिम्बयोः ॥ उत्कोचपालनश्रेणिप्रभाकात्यायनीषु च ॥ ;p{0258} जया जयन्त्यां पार्वत्यां तत्सख्यां तिथिवृक्षयोः । पुमान् जयन्ते विजयेऽप्यग्निमन्थे युधिष्ठिरे । जन्यं युद्धे परीवादे हहेऽपि च नपुंसकम् । जन्या स्त्री मातृसख्याञ्च जनके तु भवेत्पुमान् । वरस्निग्धोत्पाद्यभृत्य नवीदाज्ञातिषु त्रिषु । जन्युः पुमान् वीतिहोत्रे शरीरिणि विधातरि । तार्क्ष्ये शालेह्ये स्वर्णे गरुडे गरुडाग्रजे । पुमान् रसाञ्जने क्लीबं तार्क्ष्यी वनलतादिषु । तिष्यो ना कलिनक्षत्रे तिष्योधात्र्यामपि स्त्रियाम् । द्रव्यं लेपे च पृथ्यादौ क्लीबं पित्तलवित्तयोः ॥ भेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च । दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् । दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् । दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि । धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो । धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते । पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि । पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ प्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् । पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु । पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु । वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे । ;p{0259} बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ भयं घोरे प्रतिभये कुसुमे कुब्जकस्य च । भव्यं त्रिषु भाविनि स्याद् योग्ये च शुभसत्ययोः ॥ पुंसि कर्मरङ्गतरौ भव्या करिकणोभयोः । अस्थनि क्लीबलिङ्गं स्यादस्त्रियां सत्यवित्यपि(?) ॥ अथ भाग्यं क्लीबलिङ्गं स्याच्छुभाशुभकर्मणोः । मयो दैत्ये च करभे शिल्पिन्यश्वतरेऽपि च । मध्यमस्त्री विलग्ने स्यान्न्याय्येऽन्तरेऽधमे त्रिषु । मत्स्याः पुंभूम्नि देशे तु मीने नारायणे पुमान् । मन्युर्ना दैन्यशोकेष्टिक्रोधेष्वहङ्कृतौ क्वचित् ॥ माल्यं प्रसूनमात्रे स्यात्पुष्पस्रजि च न द्वयोः ॥ मूल्यं स्याद्वेतने वस्ने मृत्युर्ना शमने मृतौ ॥ मेध्या स्त्री रोचनारक्तवचयोस्तु शुचौ त्रिषु । ययुः पुंसि तुरङ्गे स्यादश्वमेधहयेऽपि च ॥ योग्यः प्रवीणे योगार्हे ह्युपायिशक्तयोस्त्रिषु । योग्यमृद्धौषधे पुष्ये नाऽन्तिकार्कस्त्रियोः स्त्रियाम् ॥ याप्यस्त्रिषु निन्दिते स्याद् यापनीये तु वाच्यवत् ॥ याम्याभरण्यवाच्योश्च याम्योऽगस्त्ये च चन्दने । रम्यं त्रिषु मनोज्ञे स्याद्रात्रौ स्त्री चम्पके पुमान् ॥ पटोलमूले क्लीबं स्यान्नदीभेदेऽपि च स्त्रियाम् । रूप्यं चारौ त्रिषु स्वर्णरजतेऽपि नपुंसकम् ॥ लयः सङ्गीतसाम्ये स्यात्संश्लेषणविनाशयोः । लक्ष्यं शरव्ये क्लीबं स्यादपदेशेऽपि कीर्त्यते । व्रज्या पर्यटने वर्गे प्रस्थाने संगतेऽपि च । वाच्यं हीने कुत्सिते स्याद्वचनार्हे तु वाच्यवत् । वन्या वनाम्बुसन्दोहे वन्यं बनभवे त्रिषु । विन्ध्यो व्याधाचलभिदोर्विन्ध्याचलवलीद्रुमे ॥ वीक्ष्यन्तु विस्मये दृश्ये पुंसि लासकवाजिनोः । वेश्या स्त्री गणिकायान्तु वेश्यं वेश्यागृहे मतम् ॥ शल्यं क्ष्वेडे तोमरे च मदनश्वाविदोः पुमान् । विषायुधभिदोः क्लीबं दुःसहे दुर्वचस्यपि ॥ शून्यानल्यौषधौ स्त्री तु निर्जनेऽपि च वाच्यवत् । शयः पाणौ भुजङ्गे च शयनीये च पुंस्यपि ॥ ;p{0260} सह्यः शैलान्तरे पुंसि सोढव्ये वाच्यलिङ्गकः । आरोग्ये क्लीबलिङ्गं स्यात्साम्ये सुमधुरेऽपि च ॥ अथ सन्ध्या पितृप्रस्वां युगसन्धिनदीभिदोः । सत्यं कृतयुगे दिव्ये तथ्ये त्रिषु च तद्वति ॥ स्मयोऽद्भुते च गर्वे च सव्यं वामप्रतीपयोः । सायो दिनान्ते बाणे च साध्यो योगभिदि स्मरे ॥ गणदेवविशेषे ना साधनीयेऽभिधेयवत् । सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः । स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः । सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके । सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् । सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः । हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे । हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः । भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् । ;vv{य त्रि} अनयो व्यसने दैवे विपत्त्यशुभयोरपि । अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि । अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् । अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः । निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च । आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् । आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते । उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ औचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने । अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् । ;p{0261} क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे । गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ कुलत्थिकासुभगयोः स्त्रियाभक्षिहिते त्रिषु । चाम्पेयश्चम्बकस्वर्णकिञ्जल्ककेशरेषु च ॥ जघन्यं मेहने क्लीबं चरमे गर्हितेऽन्यवत् । जटायुर्ना पक्षिभेदे गुग्गुलौ च कनीपसि ॥ जरायुस्तत्र विहगे भवेद्गर्भाशये पुमान् । तपस्यः फाल्गुणे पुंसि व्रतचर्यास्वपि स्त्रियाम् । द्वितीया तिथिपत्न्योः स्त्री पूरणे तु द्वयोस्त्रिषु । देवयुर्ना सुरे धर्मशीलेऽभिमातृके(?)ऽन्यवत् ॥ नादेयी भूमिजम्बां स्त्री जरायाम्बुवेतसे । नागरङ्गे जयायाञ्च व्यङ्गुष्ठेऽपि च कुत्रचित् । निकायो निलये लक्ष्ये सधर्मिप्राणिसंहतौ । समुच्चये संहतानां स्यात्पुमान् परमात्मनि । नेपथ्यं रङ्गवाह्ये स्यादलङ्कारेऽपि च द्वयोः । प्रणयः प्रसवे प्रेम्णि मोक्षविश्रम्भयोरपि । प्रत्ययः प्रथिते ज्ञाने स्यादित्यादियनादिषु ॥ आचारशपथाधीनच्छिद्रविश्वासहेतुषु । पर्यायः स्यात्क्रमे पुंसि प्रकारेऽवसरेऽपि च । प्रलयोऽपायकल्पान्तमृत्युमूच्छासु पुंस्ययम् । पर्यण्योऽपि घनस्वाने स्वतद्घनमहेन्द्रयोः । प्रसव्यं प्रतिकूले स्यादनुकूलेऽपि वाच्यवत् । प्रणाय्योऽनभिलाषे स्यात्तथा चासम्मतेऽपि च ॥ पयस्यं वाच्यलिङ्गं स्यात्पयोजाते पयोहिते । दुग्धिका क्षीरिका कोलीस्वर्णक्षीरीष्वपि स्त्रियाम् । पारुष्यो ना गुरौ क्लीबं दुर्वाक्यपरुषत्वयोः ॥ पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे । वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् । ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ । ;p{0262} भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् । मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके । स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु । मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् । विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि । विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे । रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ विशल्या त्रिपूटादन्तीगुडुच्यग्निशिखासु च । स्त्रियां विगतशल्ये तु वाच्यलिङ्गन्तु कुत्रचित् ॥ लौहित्यं लोहितत्वे स्यात्क्लीबं पुंसि नदान्तरे । श्वशुर्यो देवरे श्याले श्यालीनन्दिकयोः स्त्रियाम् । शाण्डिल्योऽग्निमुनिभिदोः श्रीफले च भवेत्पुमान् । शालेयः स्यान्मिसौ पुंसि त्रिषु शाल्योद्भवोचिते ॥ शीर्षण्यं शीर्षके क्लीबं सुकेशे तु भवेत्पुमान् । शैलेयं तालपर्ण्यान्तु सैन्धवे शैलजेऽपि च ॥ पुमान् सिंहे मधुकरे शिलातुल्ये तु वाच्यवत् । संस्त्यायः पुंसि विस्तारे संस्थानसन्निवेशयोः ॥ सन्नयः समवाये ना पृष्ठस्थायिबलेऽपि च । समयश्च क्रियाकाले निर्देशे भावकालयोः । सङ्केतशपथाचारसिद्धान्तधिषणासु च । सरण्युर्ज्वलने पुंसि वारिवाहे समीरणे ॥ सामर्थ्यं क्लीबलिङ्गं स्याद्योग्यतायां बलेऽपि च । सौरभ्यमपि चारुत्बे सौगन्ध्ये गुणगौरवे । हिरण्यं शातकुम्भे स्यादक्षये मणिभेदके । रजते रजसि द्रव्ये धनेऽपि च नपुंसकम् । हृदयं स्यादुरोवुक्कमानसेषु च न द्वयोः ॥ ;vv{य चतुः} पश्चात्तापेऽनुबन्धे च द्वेषेऽप्यनुशयः पुमान् । अथाहङ्कारहिमयोरवश्यायः पुमान् भवेत् ॥ ;p{0263} दक्षिणे प्रतिकूले स्यादपसव्यं नपुंसकम् । श्मशानमृतिभूशय्यास्वन्तशय्या भवेत्स्त्रियाम् ॥ उशीरे न द्वयोः पुंसि जलाधारे जलाशयः । केतक्यां मल्लिकायाञ्च तृणशून्यं नपुंसकम् ॥ देहवायुहस्तिभिदोरग्नौ पार्थे धनञ्जयः ॥ आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः । हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः । पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु । पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे । प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते । लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः । परमात्मनि तीर्थे च विहारे च महालयः । अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः । शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् । बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ । कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः । युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् । पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥ उद्गमे संयुगे संघे भवेत्समुदयः पुमान् । पुमान् युद्धे समूहे च समुदायश्च तादृशः । विरोधोत्सेधयोः पुंसि समुच्छ्रय उदाहृतः । त्रिषु स्वर्णमये ना तु सुरज्येष्ठे हिरण्मयः । ;vv{य पञ्च} कालानुसार्यं कालीये शैलेये शिंशपाद्रुमे । भवेच्च दुग्धतालीयं क्षीरफणाम्रदुग्धयोः ॥ त्रिषु प्रवचनीयञ्च प्रवक्तरि च वाच्यके । वृषाकपायी गौरीश्रीवरीजीवन्तिकासु च ॥ ;vv{य षट्} विष्वक्सेनप्रिया लक्ष्म्यां वाराह्यायपि च स्त्रियाम् । स्यात्प्रत्युद्गमनीयञ्च धौतांशुकपुमेऽपि च । समुपस्थानयोग्ये तु पूजनीयेऽभिधेयवत् ॥ ;c{इति यान्तवर्गः ॥} ;v{रेफान्ताः} ;vv{र एकः} रः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । ;p{0264} विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ तथोपकरणे वृद्धौ सिद्धावपि भवेत् स्त्रियाम् । द्रुर्द्रुमे ना गतौ स्त्री तु स्रुः स्त्रियां निर्झरे स्रवे । ;vv{र द्वि} अराऽन्यवत् शीघ्रगे स्यात्क्लीबं चक्राङ्गशीघ्रयोः । अग्रमालम्बने वृन्दे परिमाणे पलस्य च । पुरस्तादुपरिप्रान्ते एकाग्रे च नपुंसकम् । अतिरिक्ते प्रधाने च प्रमाणे चाभिधेयवत् । अस्त्रं चापे प्रहरणे कृपाणे च नपुंसकम् । अभ्रं धातुभिदि स्वर्णे गगने स्याद् घनेऽपि च ॥ अद्रिः पुंसि द्रुमे शैले मावभेदे च भास्करे । आरः शनैश्चरे भौमे त्वग्भेदिन्यामपि स्त्रियाम् ॥ आरुर्वराहे पुंसि स्यात्तरुभेदे च कर्कटे । इन्द्रः शक्रे योगभेदे सूर्यभेदेऽन्तरात्माने । इन्द्रा फणिज्झके स्त्री स्यादिन्द्रान्यामपि कुत्रचित् । उग्रस्त्रिषूत्कटे पुंसि क्षत्राच्छूद्रासुते शिवे ॥ करभेऽस्त्री तु कर्कट्यां स्त्री वचाक्षुद्रयोरपि । उस्रो रश्मौ वलीवर्देऽप्युस्राऽर्जुन्युपचित्रयोः ॥ ऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् । करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् । कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके । कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् । कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः । कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् । क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च । क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि । क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । ;p{0265} खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् । खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ गरो विषोपविषयोर्वेण्यां स्त्री करणे गरम् ॥ गात्रं गजाग्रजङ्घादिभागे देहाङ्गयोरपि । गीः स्त्रियामेव भाषायां सरस्वत्यां यशस्यपि । गुरुर्निषेकादिकरे पित्रादौ गीष्पतौ पुमान् ॥ त्रिलिङ्गं दुर्जरेत्यर्थे महत्यलघुनीत्यपि । गोत्रं कुलास्ययोर्गोत्रः शैले कुगव्ययोः स्त्रियाम् । सम्भावनीयबोधे च विपिनच्छत्रवर्त्मसु । गौरं श्वेतेऽरुणे पीते विशुद्धेऽप्यभिधेयवत् । क्लीबं पद्मकेशरे स्याच्चन्द्रसर्षपयोः पुमान् । गौरीभवानीवसुधाप्रियङ्गुरोचनासु च । असञ्जातरजः कन्या वरुणाणी नदीषु च । घोरो भीमे महेशे च घस्त्रो दिवसहिंस्रयोः । चरश्चारे द्यूतभेदे भौमे च जङ्गमे गमे । चन्द्रः सुधांशुकाम्पिल्लकर्पूरे काञ्चने जले । चक्रमस्त्रे व्रजे सैन्ये रथाङ्गे राष्ट्रदम्भयोः ॥ कुम्भकारोपकरणे क्लीबं ना चक्रवाकके । चारो गतौ पियालद्रुबन्धापसर्पणेषु च । चित्रा नक्षत्र गोडुम्बा नदी भिद्दन्तिकासु च । मायासर्पाखुपर्णीषु नाडीसुभद्रयोः स्त्रियाम् । आलेख्यतिलकाश्चर्यकर्बुरेषु च न द्वयोः । चीरं वस्त्रान्तरे रेखागोस्तनलेखनेषु च ॥ चीरी स्त्रियां झिल्लिकायां चीरिर्नेत्रांशुकेऽपि च । चुक्रं वृक्षाम्लके स्त्री तु चाङ्गेर्य्यां ना तु वेतसे । चैत्रे मासे गिरौ पुंसि चैत्रं देवकुले मृते । छत्रं क्लीबमातपत्रे छत्रामिशिशिलीन्द्रयोः ॥ कुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि । तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे । कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके । इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च । शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् । गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः । तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥ ;p{0266} तारस्त्रिषूच्चनिनादमुक्तार्कशुद्धमुक्तयोः (?) । ऋक्षाक्षिमध्ययोर्न ना रजते च नपुंसकम् । स्त्रियां बुद्धदेवतायां वालिदेवगुरुस्त्रियोः । ताम्रन्तु शुल्वारुणयोर्दरोऽस्त्रीभयगर्त्तयोः ॥ दरी तु कन्दरे स्त्री तु मनागर्थे दराव्ययम् । दस्रः खरेऽश्विनीपुत्रे दारु पिचलकाष्ठयोः । देवदारुणि च द्वारं निर्गमोपाययोरपि । धरी गिरौ कूर्मराजे वसुकार्यासतूलयोः ॥ धरा मेदसि मेदिन्यां स्त्री गर्भाशययोषितीः । धात्री पृथिव्यामामलक्यामुपमातरि मातरि ॥ धारा सेनाग्रिमस्कन्धे खड्गादि निशितानने । द्रवप्रपाते कुम्भादिच्छिद्रे यशसि सन्ततौ ॥ अतिवृष्टौ समूहे च तुरङ्गगतिपञ्चके । धारः प्रान्ते ग्रावभेदे ऋणगम्भीरयोः पुमान् ॥ धीरः स्वैरे वलयुते बुधे क्लीबन्तु कुङ्कुमे । नरं स्याद्रामकर्पूरे नार्जुने मनुजे विधौ ॥ नक्रः कुम्भीरके क्लीबं नासायामनदारुणि । नारं स्यात्तर्वके नीरे स्त्री वहुत्वे कुत्रचित् ॥ नीव्रं वने वलीकेन्दुरेवतीऋक्षनेमिषु । नेत्रं स्यान्नेत्रभिन्मन्थागुणयोर्द्रुममूलके ॥ विमाने चक्षुषि क्लीबं लक्ष्मीनाड्योरपि स्त्रियाम् । परो विदूरश्रेष्ठान्योत्तरे क्लीबन्तु केवले ॥ पत्रं पर्णे वाहने स्याद्बाणे पक्षे च पक्षिणः । पारी गजाङ्घ्रिरज्वाञ्च कर्करीपूरयोः स्त्रियाम् । पात्रं योग्यस्रुवादौ च पृथिवीपालमन्त्रिणि । तीरयुग्मान्तरे क्लीबलिङ्गं स्याद्भाजने त्रिषु ॥ पुरुः पुमान् देवलोकपरागनृपभित्सु च । प्रचुरे वाच्यलिङ्गं स्यान्नदीभेदेऽपि च स्त्रियाम् । रसभेदे पुमानेव स्याद्भटातुरयोस्त्रिषु ॥ भरुर्ना स्वर्णशिवयोर्भरौर्भावितिवेणयोः (?) । भद्रो हस्तिजातिभेदे खञ्जने गिरिशे वृषे ॥ पुंसि क्लीबं शातकुम्भे तथा मङ्गलमुस्तयोः । स्त्रियां कृष्णा व्योमगङ्गारास्नाप्रसारिणीषु ॥ कट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । ;p{0267} त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे । भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) । भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ मन्त्रो वेदगुह्यवाददेवादिसाधनेषु च । मात्रा विचे परिच्छेदे माने कर्णविभूषणे ॥ स्वल्पवर्णान्तयोः स्त्री तु मात्रं कार्त्स्न्येऽवधारणे । मारः स्मरे विघ्नमृत्योर्मारिः स्त्री मृतिवर्षयोः ॥ मारी चण्डायां धनजनक्षये राष्ट्रजये स्त्रियाम् । मित्रं सख्यौ क्लीबलिङ्गं भवेद्दिनकरे पुमान् ॥ पुरमस्त्री पुरी क्लीबं गेहे देशे च वर्ष्मणि । प्रसूनादिदलावृत्तौ भवेत्पुंसि तु गुग्मुलौ ॥ पुण्ड्रः स्यान्माधवीवल्ल्यां दैत्यभेदेक्षुभेदयोः । कीटे चित्रे पुण्डरीके ना पुं भूम्नि च निवृति ॥ पूरो ना व्रणसंशुद्धौ खाद्यभिज्जलवृन्दयोः । पोत्रं वराहहलयोर्मुखाग्रे रसनेऽपि च ॥ पौत्रं क्लीबं कर्पूणे (?) स्यात्पुत्रोद्भवे भवेत्त्रिषु । वरो देवाद्यभीप्सायां वृतौ यामातृषिङ्गयोः ॥ पुमान् क्लीबं कुङ्कुमे स्यात्तथा श्रेष्ठे भवेत्त्रिषु । वरी स्त्रियां शतावर्यां त्रिफलायां वरापि च । वरं क्लीबं मनागिष्टे कुत्रचिन्मान्तमव्ययम् । वम्रूर्विशाले नकुले महेशवह्निविष्णुषु ॥ देशभेदे पुमानेव पिङ्गलेऽपि च वाच्यवत् । वक्रः शनौ पुटे क्लीबं कुटिलक्रूरयोस्त्रिषु । वारी मतङ्गवन्धन्यां कलस्यामपि च स्त्रियाम् । वारिर्वाणीभ-वन्धन्योः स्त्रियां क्लीबेऽम्बुवालयौः ॥ वीरास्त्री दुग्धिकारम्भागम्भारीमदिरासु च ॥ पतिपुत्रवती क्षीरकाकोल्योरेलवालुके ॥ आमलक्यां विदार्याञ्च मलप्वामपि च स्त्रियाम् । यात्रा स्त्रियामुत्सवे स्याद्गमने यापनेऽपि च ॥ रन्घ्रं छिद्रे भूषणे च रुरुर्ना मृगदैत्ययोः । रेत्रसूतकपीयूषपटवासेषु तेजसि ॥ रौद्रं धर्मे रसे क्लीबं चण्डायां स्त्री भीषणे त्रिषु । ;p{0268} वज्रो योगान्तरे पुंसि क्लीबं धात्र्याञ्च बालके । वज्रा स्नुहीगुडुच्योस्तु वज्री स्रुह्यन्तरे स्त्रियाम् ॥ वज्रोऽस्त्री कुलिशे हीरे कठिनेऽपि च कुत्रचित् ॥ वप्रो ना जतुके न स्त्री क्षेत्रे रेणौ तटे व्रते । व्याघ्रः करञ्जशार्दूलरक्तैरण्डेषु पुंस्ययम् ॥ श्रेष्ठे जनोत्तरस्थेपि व्याघ्री बृहतिकौषधे । वृत्रो दैत्यशैलभेदे शत्रौ ध्वान्ते वने पुमान् ॥ वेरं कामे पुमान् क्लीबं वार्त्ताकौ कुङ्कुमेऽपि च । शारिर्नाक्षोपकरणे व्यवहारान्तरेऽपि च । युद्धार्थगजपर्याणभागे शकुनिके स्त्रियाम् ॥ शारीऽनिलाक्षोपकृत्योः शवलेऽपि च वाच्यवत् । शिग्रुः पुंसि शाकमात्रे तथा शोभाञ्जनद्रुमे । शिरा नाड्यां स्त्रियामेव पिप्पलीमूलके पुमान् । शीघ्रं नलद चक्राङ्ग(?) क्लीबं द्रुते गतौ(?) त्रिषु । शुभमम्रे क्लीबलिङ्गमुद्दीप्तशुक्लयोस्त्रिषु । शुक्रो मासि भृगौ वह्नौ ना क्लीबे रोगरेतयोः ॥ स्वरुर्व्रजे यूपखण्डे सायकेऽप्यध्वरे पुमान् । सद्रं (?) वनसदादानयज्ञाच्छादनकैतवे । सरः पुंसि गतौ तुङ्गे दद्यग्रे च निगद्यते ॥ स्वरो नासानिलोदात्तध्वनिषड्जादिके पुमान् । सारो मज्जास्थिरांशे च बलेऽप्यतिदृढे पुमान् । विपिनन्याय्यनीरेषु क्लीबलिङ्गं वरे त्रिषु । सान्द्रं स्निग्धे मनोज्ञे च नालवाले नपुंसकम् । सिप्रो निदाघनीरे ना सिप्रा स्त्री सरिदन्तरे । सूत्रन्तु सूजनाग्रन्थे व्यवस्थायाञ्च तन्तुषु ॥ स्वैरं पुमांस्तु स्वच्छन्दमन्दयोः क्वापि वाच्यवत् । हरिरिन्द्रांशुब्रह्मेन्दुमण्डूकयमबर्हिषु ॥ हंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु । लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु । हारः पुमानुरोभूषायुद्धमुक्तावलीषु च । हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥ हिंस्रा त्वेलावलीमांस्योः स्त्रियां स्यात्त्रिषु घातुके । हीरो ना शङ्करे वज्रे हीरा लक्ष्मयम्बुतैलयोः । होरा स्त्री शास्त्रभेदे स्याल्लग्ने राश्यर्द्धरेखयोः । ;p{0269} ;vv{र त्रि} अमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् । गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् । अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् । अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ बहिर्विनार्थे चात्मीये क्लीबं स्यादन्तराव्ययम् । अम्बरं चांशुके क्लीबं व्योम्नि सौगन्धिकवस्तुनि ॥ अङ्गारस्तु पुमान् भौमे न स्त्रियायुल्मुकेऽपि च । अङ्कुरो रक्तपानीयलोमस्वभिनवोद्भिदि ॥ अजिरं प्राङ्गने देहे दर्द्दूरे विषयेऽनिले । अक्षरं न द्वयोर्ब्रह्मवर्णयोर्ना हरे हरौ ॥ अशिरो राक्षसे सूर्ये वीतिहोत्रे भवेत्पुमान् । अत्तीरं शक्तपुंसोर्ना वरं छदकपाटयोः(?) । आकरः श्रेष्ठसन्दोहस्थानोत्पत्तिषु पुंस्ययम् । ओधारोऽम्बुधारणेऽधिकरणे त्वालबालके ॥ आसारो वेगवर्षे स्यात्प्रसारे च सुहृद्बले । आहारो भोजने पुंसि भवेदाहरणेऽपि च ॥ आशरो राक्षसे पुंसि तथा वैश्वानरेऽपि च । इत्वरी कुलटायां स्त्री पथिकक्रूरयोस्त्रिषु । ईश्वरः शङ्करे कामे नाट्ये स्वामिनि वाच्यवत् । ईश्वरा चेश्वरी गौर्य्यां लक्ष्मीवाण्यादिशक्तिषु ॥ उदारो दातृमहतोरनुकूलेऽभिधेयवत् । उत्तरा स्त्री तु दिग्भेदे स्नुषायां फाल्गुणस्य च । विराटतनये पुंसि क्रूरे दिव्युत्रये त्रिषु । प्रतिवाक्ये क्लीबलिङ्गमुत्तरन्तु निगद्यते । एकाग्रं वाच्यलिङ्गं स्यादनाकुलैकतानयोः । औशीरमासने क्लीबं स्वापचामरदण्डयोः । कृकरः पक्षिभेदे स्यात् क्रकचे पक्षिदीनयोः(?) । कदरः क्रकचव्याधिभिदोश्च खदिरे सिते । कर्वुरो राक्षसे पापे जलहेम्नोर्नपुंसकम् ॥ शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः । ;p{0270} कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे । करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ कच्छुरा स्त्री शूकशिम्ब्यां शटीदुष्पर्शयोरपि । कवरी स्त्री भवान्यां ना धक्षः पापौषधीषु च (?) । कर्मारः पुंसि वंशे स्याज्जातिभेदेऽपि कीर्त्तितः । कर्करो दर्पणे स्त्री तु मृद्भाण्डे कठिने त्रिषु । कडारः पिङ्गले भृत्ये दानमानविधावपि । कलत्रं नृपातदुर्गस्थानेऽपि श्रौणिभार्ययोः ॥ कटप्रूः कौणये पुंसि हाहि(?) रुद्रेऽक्षदेवने । कन्दरं कन्दरादर्यां कन्दूरस्त्वङ्कुशे पुमान् । काश्मीरं कुङ्कुमे टङ्के क्लीबं पुष्करमूलके । कावेरी पण्यनार्याञ्च सरिद्भेदहरिद्रयोः ॥ कान्तारी नेक्षुभेदेऽस्त्री बिलदुर्गाधकानने । किशोरोऽश्वशावके स्यात्तरुणावस्थसूर्ययोः । किर्मीरः कर्वुरे नागरङ्गे च कौणपान्तरे । किंशारुः शस्यशूके ना कङ्कपक्षिणि सायके । कुहरः सर्पभेदेनो क्लीबं गह्वररन्ध्रयोः । कुक्कुरं ग्रन्थिपर्णे स्यात्सारमेये भवेत्पुमान् । कर्पूरः कफोणौ पुंसि जानुन्यपि निगद्यते । कुञ्जरो ना कटे नागे धातक्यां पाटले स्त्रियाम् ॥ कुमारः स्कन्दशुकयोर्युवराजाश्ववारयोः । बालके वरुणे पुंसि क्लीबं स्याज्जात्यकाञ्चने ॥ कुमारी वनमाल्यां स्त्री भवान्याञ्च नदीभिदि । जम्बुद्वीपसहाकन्याऽपराजितास्वपि स्त्रियाम् ॥ कुचारुर्वानरे वृक्षे शस्त्रकारे भवेत्पुमान् । केशरोऽस्त्री तु किञ्जल्के क्लीबलिङ्गन्तु हिङ्गुनि ॥ पुमान् सिंहशटानागपुन्नागवकुलेषु । केदारः क्षेत्रभूभेदं शिवाद्रिष्वालबालके ॥ शिरः कपोलसन्धौ तु स्यात्कुम्भिनरकेऽपि च । कोहारो नागरे कूपे पुष्करिण्याश्च पाटके ॥ खपुरोऽलसके भद्रमुस्तके क्रमुकेऽपि च । खर्परस्तु शठे चौरे भिक्षादिभाण्डगण्डयोः ॥ ;p{0271} खर्जूरस्तु खले रूप्ये शल्ये ना भूरुहे द्वयोः । खदिरी शाकभेदे स्त्री खदिरो वृक्षचन्द्रयोः ॥ खण्डाभ्रं न द्वयोर्दन्तक्षतभेदाभ्रलेशयोः । गणेरुः करिणीवेश्याकर्णिकारेषु च स्त्रियाम् । गर्गरो मीनभेदेऽस्त्री मन्थन्यां न पुमानयम् । गह्वरन्तु गुहादम्भवने कुञ्जे तु पुंस्यपि । गान्धारो रागसिन्दूरदेशभेदेषु पुंस्ययम् । घर्घरो नदभेदे ना स्यादुलूके च निर्झरे ॥ स्त्रियां वीणाक्षुद्रघण्ट्योर्भेदे स्वरान्तरे त्रिषु । चमरी मृगमञ्जर्योश्चमरेञ्चामरेऽपि च ॥ चिकुरः केशचिष्काहि-वि-द्रुमिच्यपलाद्रिषु (?) । छित्वरस्त्रिषु धूर्ते स्याच्छेदनद्रव्यवैरयोः ॥ जठरोऽस्त्री भवेत्कुक्षौ त्रिषु बद्धे च कक्खटे । जर्जरं शैवले शक्रध्वजे त्रिषु जरातुरे ॥ झर्झरो नदभिद्वाद्यभेदयोस्तु भवेत्कलौ । टहरी स्यान्मृषावाचिझम्पापटहवाद्ययोः । टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मये पुमान् । डिङ्गरो डङ्गरे क्षेपे खले धूर्ते च चोरके ॥ तीवरोऽब्धिव्याधयोर्ना शुनीधन्याकयोः स्त्रियाम् । तुवरी स्त्री तु कक्षायामाढक्यां ना कषायके ॥ तूवरोऽपि कषाये स्यादश्मश्रुपुरुषेऽपि च । पुरुषव्यञ्जनत्यक्ते त्वशृङ्गगवयेऽपि च ॥ दहरो मूषिकाशारे भ्रातरि स्वलाकेऽपि च । दन्तुरः स्यादुन्नतातिनतोन्नतरदेषु च ॥ दर्दरः पुंसि शैले स्याद्भग्नभाजनके त्रिषु । दर्दूरो वाद्यभाण्डादिभेदभेकघनेष्वपि ॥ दासेरो दास्यपत्ये स्याद्ग्रामजाले नपुंसकम् । धूसरो ना खरे स्त्री तु किन्नर्यां पाण्डरे त्रिषु । निकरो निवहे न्याये धने सारे निधावपि ॥ निकारः स्यात्तिरस्कारे धान्योत्क्षेपणकेऽपि च । निष्ठुरं निर्भरे सारे निर्लज्जे कठिनेऽन्यवत् । प्रवरं गोत्रसन्तत्योः क्लीबं श्रेष्ठेऽभिधेयवत् । प्रखरो वाजिसन्नाहकुक्कुराश्वतरेषु ना ॥ त्रिषु स्यान्मुखरे वेगयुक्तेऽपि चञ्चलेऽपि च ॥ ;p{0272} पवित्रं कुशताम्राप्सु क्लीबं मेद्ये तु वाच्यवत् । प्रदरो भङ्गशरयो रोगभेदविदारयोः ॥ प्रकरः पुंसि वृन्दे च विकीर्णकुसुमेऽपि च । न द्वयोर्जोङ्गके स्त्री च नाहाङ्गे चत्वरक्षितौ ॥ पङ्कारः सेतुसोपानशैवलेष्वम्बुकुब्जके । प्रसरः प्रणये वेगे समूहेऽपि च कुत्रचित् ॥ पदारः स्यात्पादधूल्यां पादालिन्दे च पुंस्ययम् । पटीरं तितउतुङ्गमूलके दारवारिदे । वेणुसारे वातिके च चन्दनेऽपि निगद्यते । पार्परः पुंसि कीनाशे राजलक्षणि सिक्थके ॥ प्रान्तरं कोटरारण्यदूरशून्यपथेषु च । पिठरन्तु पुमान् स्थाल्यां क्लीबं मुस्तकदण्डयोः ॥ पिञ्जरः पीतहेमाश्वभेदपीतनकेषु च । पिण्डारः कृपणे गोवे महिषीरक्षके द्रुमे ॥ पुष्करं हस्तिहस्ताग्रे वाद्यभाण्डे मुखे जले । व्योम्नि खङ्गफले काण्डे पद्मे तीर्थोषधीभिदोः ॥ क्लीबं ना पक्षिभूपालरोगद्वीपाद्रिभित्सु च । तथा वरुणपुत्रे च क्वचित्केचिप्रचक्षते ॥ बन्धुरो मुकुटे रम्ये नम्रे बकविहङ्गयोः । बन्धुके बधिरे हंसे बन्धुरोऽप्यन्नतानते ॥ भ्रामरः कामुके भृङ्गे भ्रामरं मधुशिलयोः । मत्सरः कृपणे क्रोधे मात्सर्येऽसह्यसम्पदि ॥ मधुरा शतपुष्पायां तथा मधुरिकापुरोः । मन्दरो मन्दबहुलमन्थाद्रिवृक्षभित्सु च ॥ मन्दारः पारिभद्रे स्याद्दद्रुपर्णे शरद्रुमे । मदारो धूर्तकरिणोर्मन्दिरं नगरे गृहे ॥ मन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु । मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः । महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ मसूरा मसुरा वेश्यास्वथ व्रीहौ पुमानयम् । पापरोगे मसूरी स्यात्तथा मसुरिकेत्यपि । ;p{0273} मर्मरः पीतकाष्ठे स्याद्वस्त्रपर्णादिनिस्वने । मञ्जरं मञ्जरी च स्यान्मुक्तातिलकवल्लीषु । मदिरा तु सुरायां स्त्री मदिरो मत्तखञ्जने । मुकुरः कुलवृक्षे स्याद्दर्पणे दण्डभिद्यपि । मार्जार ओतौ खट्टासे मिहिरो वृद्धसूर्ययोः । मुदिरः कामुके मेघे मुहिरो मूर्खकामयोः ॥ मुर्मुरः सूर्यतुरगे तुषाग्नौ च मनोभवे । रुधिरं कुङ्कुमे रक्ते स्यात्पुमान् मङ्गलग्रहे । वटरः कुक्कुटे वेष्टे शठे चोरे च चञ्चले । वर्वरः पामरे केशे चक्रले शाकभिद्यपि । पुष्पभेदे देशभेदे वर्वरा मक्षिकाभिदि । वर्करः स्याद्युवपशौ स्याच्छागपरिहासयोः ॥ वल्लरः पुंसि गहननवक्षेत्रोत्सवेषु च । मार्गरो दक्षिणावर्त्तशङ्खकृष्णलवीजयोः ॥ विष्टरः कुशमुष्टौ स्यादासनेऽपि भवेत्पुमान् । विस्तरो बाक्प्रपञ्चे स्याद्विस्तोरेऽपि च संहतौ ॥ विदुरो नागरे धीरे तथा पाण्डवमन्त्रिणि । विधुरा तु रसालायां विश्लेषे विकले त्रिषु ॥ विदारी रोगभेदे स्याच्छालपर्णीक्षुगन्धयोः । विवरं दूषणे गर्ते विसरः प्रसरे व्रजे । विहारी भमणे स्कन्धे सुगतालमलीलयोः । शल्वरः(?) शङ्करम्लेच्छविशेषखलभित्सु च ॥ शम्बरं सलिले क्लीबं ना देत्यमृगभेदयोः । शम्बरी स्यादासुपर्ण्यां मायायामपि च स्त्रियाम् । शर्वरी स्त्री तु यामिन्यां प्रमदायामपि स्त्रियाम् । शर्करा कर्परांशेऽपि सिता शार्करदेशयोः ॥ शार्करो दुग्धफेणे स्याच्छर्करान्वितदेशके । शाक्करस्तु बलीवर्दे च्छन्दोभेदे भवेत्पुमान् ॥ शार्वरञ्चान्धतमसे धातुके राक्षसेऽपि च । शालारं स्यात्करिनखे सोपाने पक्षिपञ्जरे ॥ शिखरोऽस्त्री तु वृक्षाग्रे पुलाकेऽप्यग्रकक्षयोः । पक्वदाडिम्बबीजादितुल्यमाणिक्यमुकयोः ॥ शिलीन्ध्रो वृक्षभेदे स्याच्छत्राककरकासु च । शिलीन्ध्री मृत्तिकागण्डूपदी विहङ्गिकासु च । ;p{0274} शीकरः शरले वात क्षिप्तनीरकणेऽपि च ॥ शुषिरं मूषिके च्छिद्रवंश्यादिवाद्यभेदयोः । शुविराप्योषधीभेदे भवेद्रन्ध्रान्विते त्रिषु । शृङ्गारः सुरते नाट्ये रसे ना गजभूषणे । क्लीबं चूर्णे च सिन्दुरे लवङ्गेऽपि च कुत्रचित् । सम्बरो दैत्यभिच्छैलमृगभिन्मीनभित्सु च । बुद्धभेदे पुमान् क्लीबं जले बौद्धव्रतेऽपि च । सङ्करोऽग्निचटत्कारे समार्जन्यवपुञ्जिते ॥ नवदूषितकन्यायां सङ्करीति निगद्यते ॥ क्लीबन्तु प्रतियत्नान्तर्भावमानसकर्मसु । सङ्गरस्तु क्रियाकारे विषाङ्गीकारयोर्युधि ॥ शमीफले विपत्तौ च मारणेऽपि हठेऽस्त्रियाम् । सम्भारः सम्भृते स्तोमे सावित्रो वसुभर्गयोः । सावित्री सत्यवत्पत्नीब्रह्माणीपार्वतीषु च । सामुद्रं देहचिह्ने तु समुद्रप्रभवे त्रिषु ॥ सुनारः पुंसि सर्पाण्डे कलविङ्के शुनीस्तने । सैरिन्ध्री परवेश्मस्थशिल्पिनी निजवेश्ययोः ॥ वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि । हिण्डीरः फनवार्ताकुपुरुषेष्वपि पुंस्ययम् ॥ ;vv{र चतुः} अरुष्करो व्रणकरे भवेद्भल्लातकेऽपि च । भवेदभिसारो युद्धे वधे च बलसाधने । अत्युत्तरं त्रिषु ज्येष्ठे प्रतिवाक्यविवर्जिते । अलङ्कारोऽलङ्कारणे हारादावुपमादिके ॥ अवहारो द्यूतयुद्धविश्रामे ग्राहचौरयोः । निमन्त्रणे चोयनेयद्रव्ये धर्मान्तरेऽपि च ॥ अकूपारः कुर्मराजे समुद्रे च भवेत्पुमान् । अभिहारोऽभियोगे स्याच्चौर्ये सन्नहनेऽपि च ॥ अर्द्धचन्द्रो बाणभेदे गलहस्ते नखक्षते । हस्तभेदे पुमानेव त्रिवृतायामपि स्त्रियाम् ॥ आडम्बरस्तूर्यरवे संरम्भे गजगर्जिते । आत्मवीरः प्राणवति श्यालके च विदूषके ॥ उडुम्बरः पण्डताम्रकुष्ठभिद्वृक्षभित्सु च । उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटयोरपि ॥ उपकारस्तूपकृतौ विकीर्णकुसुमादिके । ;p{0275} औदुम्बरो रोगभेदे भवेद्वैवस्वते पुमान् । कर्मकरो यमे भृत्ये वेतनाजीवितेऽपि च ॥ कर्मकरी भवेद्दास्यां बिम्बिकाभूर्वयोरपि । कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ॥ कर्णपूरः शिरीषे स्यान्नीलोत्पलावतंसयोः । करवीरी श्रेष्ठगवीपुत्रवत्यादितिष्वपि ॥ कटम्भरा प्रसारण्यां रोहिणीगजकान्तयोः । करवीरो दैत्यभेदे करवालाश्चमारयोः ॥ कादम्बरोऽस्त्री दध्यग्रे मद्यभेदे स्त्रियामपि । कादम्बरी कोकिलायां भारतीसुरयोरपि ॥ कालञ्जरो योगिचक्रमेलकाद्रिशिवेषु च । कृष्णसारो मृगस्नुह्योः शिंशपायामपि स्त्रियाम् । गिरिसारस्तु मलये लोहे बङ्गे च कीर्त्यते । चराचरं भवेत्क्लीबं जगति त्रिषु जङ्गमे । चक्रधरो ग्रामजालिभुजङ्गमहरिष्वपि । तोयधरो मेघमुस्तासुनिषम्रौषधीष्वपि ॥ दण्डयात्रा दिग्विजये संयानवरयात्रयोः । दण्डधारः शवपतौ यमे दण्डधरेऽपि च ॥ दिगम्बरः शिवे नग्ने क्षपणे च तमस्यपि । दुरोदरो द्यूतभेदे द्यूतकारे पणेऽपि च ॥ देहयात्रा भोजने स्यात्कृतान्तगगनेऽपि च । द्वैमातुरश्च हेरम्बे जरासन्धे नृपेऽपि च ॥ धाराधरो घने खड्गे धराधरोऽद्रिकृष्णयोः । धाराङ्करस्तु नाशीरे शीकरे च घनोपले ॥ धार्तराष्ट्रो हंसभेदे कौरवे च भुजङ्गमे । धुन्दुमार इन्द्रगोपे गृहधूमे पदालिके ॥ धृतराष्ट्रो नागभेदे सुनृपे क्षत्रभिद्यपि । नभश्चरो विहङ्गे स्याद्धने विद्याधरेऽनिले । निशाचरे राक्षसे स्याच्शृगालपेचकाहिषु । वनजेषु पशुष्वेवं कुलटायां विशाचरी ॥ नीलाम्बरो रौहिणेये राक्षसे च शनैश्चरे । परिकरः समारम्भे पर्यङ्कवृन्दयोरपि ॥ प्रगाढगात्रबन्धे च विवेकपरिवारयोः । अथ पक्षचरश्चन्द्रे पृथक्चारिणिवुञ्जरे ॥ ;p{0276} प्रतिसरश्चमूपृष्ठे भेदे माल्ये च कङ्कणे । मण्डले करसूत्रे च व्रणशुद्धिनियोज्ययोः ॥ भवेत्परिसरी मृत्युविधिपर्यन्तभूमिषु । परम्परो मृगभिदि प्रपौत्रतनयेऽपि च ॥ परम्परा परिपाट्यां तथा सन्तानहिंसयोः । पयोधरः कोषकारे नारिकेले घने स्तने ॥ प्रभाकरोऽनले सूर्ये शीतभावुसमुद्रयोः । परिवारः परिजने खड्गकोषे परिच्छदे ॥ पात्रटीरो लोहकांस्ये जरत्पत्रे विभावसौ । पिङ्गाशे वायसे कङ्के युक्तव्यापारमन्त्रिणि ॥ पारिभद्रो निम्बवृक्षमन्दारदेवदारुषु । पीताम्बरः कैटभारौ शैलूषे वेशधारिणि ॥ पीतसारी मलयजे मणिगोमेदयोरपि । बलभद्रो बले स्त्री तु कुमारी क्रयमानयोः ॥ वावकीरस्तु वेधिन्यां नीराजितहयेऽपि च । वीरभद्रोऽश्वमेधीयघोटके वीरणार्ययोः ॥ विन्दुतन्त्रः शारिफले प्रशस्तनुरगेऽपि च । महावीरः सिंहशूरयज्ञाग्निगरुडेषु च ॥ सञ्चानपक्षिणि श्वेतघोटके च धनुर्द्धरे । लक्ष्मीपुत्रः स्मरे चाश्वे स्यात्कुशे चैव लवेऽपि च ॥ व्यवहारः स्थितौ न्याये वृक्षभेदे पणेऽपि च । भवेद्व्यतिकरो वृन्दे व्यसनव्यतिषङ्गयोः ॥ वातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् । विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि । विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च । विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् । शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥ पुमांस्तु कमले क्लीबं पुष्पभेदेऽपि च स्त्रियाम् । समुद्रारुः सेतुबन्धे ग्राहे तिमिङ्गिलेऽपि च ॥ स्थिरदंष्ट्रो भुजङ्गे स्यात्तथा चादिवराहके । सूत्रधारः शिल्पिभेदे शके नान्द्यन्तचारिणि ॥ ;vv{र पञ्च} तमालपत्रं तापिञ्जे तिलके पत्रकेऽपि च । तालीशपत्रं भूश्यामलकीतालीशयोरपि ॥ ;p{0277} स्यात्पांशुचामरो दुर्वातटीभूर्य्याञ्चतेषु च । धूलिगुच्छप्रशंसाङ्कपूरोटिषु च न स्त्रियाम् ॥ स्यात्पादचत्वरश्छागे सैकते पिप्पलेऽपि च । करके दुष्टशीले च परदोषैकवक्तरि ॥ विप्रतीसारः कौकृत्येऽनुशमक्रोधयोरपि । भवेत्समभिहारस्तु पौनःपुन्यभृशार्थयोः ॥ अथ स्यात्सर्वतोभद्रः काव्यचित्रे गृहान्तरे । निम्बे ना नटनार्यान्तु गम्भार्यामपि च स्त्रियाम् ॥ ;c{इति रान्तवर्गः ॥} ;v{लान्ताः} ;vv{ल एकः} ल इन्द्रे लवणे लूः स्याल्लादानेश्लेषणेऽपि लीः । ;vv{ल द्वि} अलिः सुरायां भ्रमरे काककोकिलयोरपि । आलिः सख्यां सेतुपंक्त्योः सन्ततौ विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबं पेचकमूलयोः ॥ इला स्याद्बुधनार्याञ्च भूमिवाण्योरपि स्त्रियाम् । ओलः स्याच्छूरणेऽप्यार्द्रे ओलमप्यत्र न द्वयोः ॥ कला चन्द्रषोडशांशे शिल्पादौ चांशमात्रके । कलो ना मूलवित्तर्द्धौ कालमानविशेषके ॥ कलं शुक्रेऽन्यलिङ्गं स्यादजीर्णे मधुरध्वनौ । कलिः कलहशूराजिकलिकायुगभित्सु च ॥ कालः कृष्णे च समयमहाकालयमेषु च । काला तु कृष्णात्रिवृतामञ्जिष्ठानीलिकासु च ॥ काली गौर्या क्षीरकीटे कालिकामातृभेदयोः । कीलः सर्पे शिवे ज्वालाशङ्कुलेषेषु पुंस्ययम् ॥ कीला कफोणिघाते स्यात् कीलं रुग्मुष्टिघातयोः । कुलं गोत्रे जनपदे सजातीयगणे गृहे ॥ देहे क्लीबं कष्टकार्या स्त्रियां कुलिरुदाहृता । खलं भूस्थानकल्लेषु वाच्यवत्क्रूरनीचयोः ॥ खल्लो गर्ते यन्त्रभेदे चर्मण्यपि च चातके । खल्ली चरणहस्तावमर्दरोगे भवेत्स्त्रियाम् ॥ खिलमप्रहते वेदसारसंक्षिप्तयोरपि । गलः कण्ठे सर्ज्जरसे वादभेदेऽपि पुंस्ययम् ॥ गोला गोदावरीगौर्य्योः सखीषु कुनटीषु च । चला लक्ष्म्यां शिरःकम्पे कम्पयुक्ते भवेत्त्रिषु ॥ चुल्ली चितायामुद्धाने चलं स्यादधमेंऽशुके । ;p{0278} छलं स्यात्स्खलिते शाष्ये छल्ली सन्तानवल्कयोः ॥ जलं गो कलने नीरे ह्रीवेरे च जडेऽन्यवत् । जालमानायदम्भौघगवाक्षक्षारकेष्वपि ॥ कदम्बभूरुहे क्लीबं जाली पटलिकौषधौ । झला स्त्रियां दुहितरि स्यादूर्म्य्यातयोरपि ॥ झिल्ली चीरावर्त्तीरुच्य तपोद्वर्तनकांशुके । तलश्चपटे पुंसि स्यादस्त्री चाधःस्वरूपयोः ॥ ज्याघातवारणे क्लीबं कार्यबीजे च कानने । तालं करतलास्फालमध्यमाङ्गुष्ठसस्मिते ॥ गीतकालक्रियामाने वाद्यकांस्ये द्रुमान्तरे । ताली स्यादज्झटोषध्यां तालन्तु हरितालके ॥ तुला माने च सादृश्ये भाण्डराशिप्रभेदयोः । तूली प(?) ब्रह्मदारुवियत्सु च नपुंसकम्(?) ॥ दलं पत्रोत्सेधखण्डपाशशस्त्रिघनेषु च । वलः पोटगले राज्ञि कविभित्पुतृदेवयोः ॥ सिहली वस्तुपक्षे स्त्री नली कुनरिकौषधौ । नाला नीलं पद्मदण्डे ताली शाककडम्बके ॥ नीलः पुंसि कयौ श्याम नीली रागद्रुमेऽपि च । पलन्तु मानके मांसे पल्लं स्थूलकुशूलयोः ॥ पल्ली स्वल्पग्रामकुट्योस्तथा नगरभिद्यपि । पालिरङ्कप्रभेदाश्रिपंक्तिकर्णलताग्रके ॥ पालीच्छात्रादिदेये तु यूकाश्पश्रुयुतस्त्रियोः । पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥ फलं हेतुसमुत्थे स्याद्व्युष्टौ फलकलामयोः । शष्यकक्कोलवाणाग्रजातीफलार्त्तवेषु च । क्लीबलिङ्गं स्त्रियामेव प्रियङ्गौ तु फलीति च । फालः सीरोपकरणे त्रिषु कार्पासवाससि ॥ वलिर्देत्ये चोपहारे करचामरदण्डयोः । जठरावयवेऽपि स्याज्जरयाश्चयचर्मणि ॥ बलं सैन्ये गन्धरसे सामर्थ्यस्थौल्यरूपयोः । बला वाहालके ना तु वायसे दैत्यसामयोः ॥ बालः केशे शिशौ मूर्खे वालधौ वालमौषधौ । बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥ वेला स्त्री कालसीमाब्धिकूलेष्वीश्वरभोजने । ;p{0279} भल्लः स्यात्पुंसि भल्लुके भल्लातकास्त्रयोर्द्वयोः ॥ भेलः प्लवे मुनौ भीरौ मूर्खेऽपि चञ्चलेऽपि च । मलं पापे विटकिट्टे कृपणे वाच्यवत्क्वचित् ॥ मल्लः पात्रे बलवति कपोलमत्स्यभेदयोः । मल्ला नार्यां पत्रवल्ल्यां मल्ल्किायामपि क्वचित् ॥ मालः क्षेत्रजातिभिदोर्माला पृक्कास्रजोरपि । मूलमाद्ये शिफायाञ्च निकटेभेतु नास्त्रियाम् ॥ मौलिः किरीटे चूडायां धम्मिल्लाशोकवृक्षयोः । लीलाशृङ्गारचेष्टायां स्त्रियां केलिविलासयोः ॥ लीला स्त्री रसनालक्ष्म्योर्लोलञ्चलसतृष्णयोः । व्यालो दुष्टे गजे सर्पे खलश्वापदयोरपि ॥ बिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये । शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि । शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु । शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥ शिला कुनट्यां दृशदि द्वाराधःस्थितदारुणि । शिलमुञ्छे शिली भेक्यां शीलं सद्वृत्तभावयोः ॥ शूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने । शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥ शालः सर्जद्रुमे वृक्षमात्रप्राकारयोरपि । स्थालं भोजनपात्रे स्यात्स्थाली च पाटलेखयोः ॥ हलो हले सुरायां स्त्री हलाहाली च कुत्रचित् । हेला स्त्रियां स्त्रीविलासेऽवज्ञायाञ्च निगद्यते ॥ ;vv{ल त्रि} अनलो वसुभिद्वह्न्योरनिलो वाजिवातयोः । अर्गलस्त्रिषु कल्लोले चान्तर्दण्डकपाटयोः ॥ अरालो हस्तभेदे स्यात्कुटिले मत्तहस्तिनि । पुंसि सर्जरसे स्त्री तु कुलटाधृष्टयोरपि ॥ अचलः पर्वते पुंसि भुवि स्त्री निश्चले त्रिषु । अञ्जलिः पुंसि कुडवे हस्तभेदेऽपि कीर्त्यते ॥ अवेलमपलापे स्यादवेला पूगचर्विते । इल्वला तारकाभेदे दैत्यमीनभिदोः पुमान् ॥ उपला शर्करायां स्त्री पुंसि पाषाणरत्नयोः । उज्ज्वलः पुंसि शृङ्गारे दीप्ते विकसिते त्रिषु ॥ कमलो मृगभेदे ना जले पद्मे नपुंसकम् । ;p{0280} कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि ॥ कपिला गोदिक्करिणीरेणुकाशिंशपासु च । कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि । कपिला गोदिक्करिणीरेणुकाशिंशपासु च । कपिलो मुनिभेदे ना वाच्यभेदे तु वाच्यवत् ॥ कम्बलो नागराजेऽपि सास्वाप्रावारयोरपि ॥ करालं सर्जतैले स्याद्भीषणे दन्तुरेऽन्यवत् । कन्दलोऽस्त्री कलध्वाने नवाङ्कुरकपालयोः ॥ कन्दली मृगभेदे स्त्री त्रिष्वङ्कुरोपरागयोः । कदला कदलः पृश्न्यां कदला शाल्मलीद्रुमे ॥ कदली कदलं रम्भाद्रुमेऽपि न निगद्यते । कामलः कामलारोगे पुमान् मरुवसन्तयोः ॥ कामलं कुम्भकारे च विषभिछ्राणकाकयोः । सर्पे नरकभेदे च तथा शूकरभिद्यपि । काहला स्त्री वाद्यभेदे स्त्रियां स्यादप्सरीभिदि ॥ काहली स्यात्तरुण्याञ्च काहलः शब्दमात्रके । कुक्कुटे ना भृशे शुष्के खलातिशययोस्त्रिषु ॥ किहालस्ताम्रकलसे तथा लोहमलेऽस्त्रियाम् । कीलालं रुधिरे तोये पीयूषे च मधुन्यपि । कुशलं शिक्षिते क्षेमे पर्याप्तौ सुकृते त्रिषु । कुवलं तूत्पले मुक्ताफले च बदरीफले ॥ कुन्तलेश्चषके केशे ह्रीवेरयवयोरपि । कुलालः कुम्भकारे स्यात्कौशिके कुक्कुभेऽपि च । कुम्भिलः शालमत्स्ये स्याच्चौरश्लोकार्यचौरयोः ॥ कुकूलं शङ्कुसङ्कीर्णरन्धे पुंसि तुषानले । कुण्डलं कर्णभूषायां तथा वलयपार्श्वयोः ॥ कुण्डली स्त्री गुडुच्याञ्च तथा काञ्चनभूरुहे । केवलं त्वतिनिर्णीते त्रिलिङ्ग्यामेककृत्स्नयोः ॥ केवली ज्ञानभेदे स्त्री केवली शास्त्रहोरयोः । कोमलं मृदुले नीरे मनोज्ञेऽपि च न द्वयोः ॥ कोहलो मध्यभेदे स्यात्पुंसि नाट्टप्रवक्तरि ॥ गरलं तृणपूले स्यात्परिमाणे विषेऽपि च । गोपालो गोपुरे गोपे भवेन्नरपतावपि ॥ गोरिलोऽस्त्री लोहचूर्णश्वेतसर्षपयोरपि ॥ ;p{0281} चपलः पारदे मीने चौरे च चञ्चलाश्मनोः । चपला कुलटालक्ष्मीपिप्पलीचञ्चलासु च ॥ चपलं तरले शीघे चञ्चले विकलेऽपि च ॥ चञ्चला स्त्री तडिल्लक्ष्म्यीश्चञ्चलचपलेऽनिले ॥ चूडाला तूच्चटायां स्त्री चूडायुक्ते भवेत्त्रिषु । छगला वृद्धदारे स्यात्पुंसि नीलीशूकाञ्जयोः ॥ जटिलस्तु जटायुक्ते मिस्यान्तु जटिला स्त्रियाम् । जाङ्गलं त्रिषु निर्वारिदेशे स्यात्पिशिते स्त्रियाम् ॥ ज्याङ्गुली विषविद्यायां जाङ्गलं जालिनीफले ॥ जाङ्गुली शूकशिम्ब्याञ्च जाङ्गलश्च कपिञ्जरे । तरला मदिरायाञ्च यवाग्वामपि च स्त्रियाम् । तण्डुलो ना विडङ्गे च धान्यादिनिकरेऽपि च । तमालस्तिलके खङ्गे तापिञ्जे वरणे द्रुमे ॥ ताम्बुली नागवल्ल्यां स्त्री क्लीबं पूगविशेषके । तैतिलो गण्डके पुंस्सि क्लीबञ्च करणान्तरे ॥ दुकूलं श्लक्ष्णवसने क्षौमेऽपि च निगद्यते । धवली धेतुभेदे स्याद्धवलापि च कुत्रचित् ॥ धवलं सुन्दरे शुभे त्रिषु ना वृषपुङ्गवे । निर्मलं क्लीबमभेऽपि निर्माल्ये विमले त्रिषु ॥ नकुली कुक्कुटीमांस्योर्नकुलः पाण्डवे पणौ (?) । नाभीलो वङ्क्षणे नार्या कृच्छ गर्भाण्डयोरपि । निष्कलस्तु कलाशून्ये नष्टवीर्ये भवेस्त्रिषु । नेपाली स्त्री तु कुनटी सुवहामल्लिकासु च । पटलं नेत्ररोगे स्यापिटके गृहचालके ॥ परिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः । प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥ पञ्चाली पुत्रिकागीतिभिदोः पुंभूम्नि देशके । प्रतलोऽधोलोकभेदे तताङ्गुलिकरेऽपि च ॥ पांशुलः पापिहरयोः पुंश्चले . . . द्वयोः । पांशुला कुलटायाञ्च तथा भूय्यामपि स्त्रियाम् । पाकलं कुष्टकौषध्यां न स्त्रियां कुञ्जरज्वरे ॥ पाचलं पाचने वह्नौ राधनद्रव्यवातयोः । पाटलः श्वेतरक्ताशुधान्ययोः पाटलाद्रुमे । पातालं नागलोके स्याद्विवरे ना तु वाडवे ॥ ;p{0282} पातिली वागुरायान्तु नारी मृत्पात्रयोरपि । पिचुलो जलकाके स्यादिज्वले झावुकेऽपि च ॥ पिङ्गलो नागभित्सूर्यपारिर्पार्श्वकवह्निषु । निधिभेदे कपौ रुद्रे गुनौ ना कपिले त्रिषु ॥ पिङ्गला गणिकाभेदे तथा दिग्गजयोषिति । पिच्छिला शाल्मलीसिन्धुभेदयोः पौतिकाह्वये ॥ शिंशपायां स्त्रियामेव विजिले पिच्छिलं त्रिषु । पुङ्गलः सुन्दराकारे त्रिष्वात्मदेहयोः पुमान् । पेशलं रुचिरे धूर्ते चतुरेऽपि च वाच्यवत् । बहुलः कृष्णपक्षाग्न्योर्वाच्यवद्भूरिकृष्णयोः ॥ एला नीली गोषु स्त्री च बहुत्वे कृत्तिकासु च ॥ वार्दलं दुर्दिने मेलानन्दायां दुष्टसद्मनि । मङ्गला पार्वतीशुक्लदूर्वापतिव्रतासु च ॥ मङ्गलो भूमिपुत्रे स्यात्कल्याणे तु नपुंसकम् । मण्डलं परिधौ कोठे देशे द्वादशराजके ॥ स्यात्पुमान् कुक्कुरेऽपि स्यात्रिषु बिम्बः पोरपि । मञ्जुलो जलरङ्कौ स्यान्निकुञ्जे ललिते त्रिषु ॥ महिला फलिनीनार्य्योर्मदमत्तास्वपि स्त्रियाम् । मातुलो व्रीहिभेदे स्यान्मातृभ्रातरि धुस्तूरे ॥ माचलोऽपि ग्रहे रोगे स्यात्पुमान् वन्दिचौरयोः । मुषली तालमूल्याखुपर्णिकागृहगोधिषु । मेखला स्त्रीनितम्बे स्यात्स्त्री काञ्ची खड्गकोषयोः । रसाला रसना दूर्वा विदारी मार्जितासु च ॥ रसाले इक्षौ पनसे च माकन्दे सिह्लकेऽपि च । रामिलो रमणे कामे लाङ्गुलं पुच्छशेफयोः ॥ लाङ्गलं तृणराजे स्यात्पुष्पभिद्गृहदारुणोः । गोदारणेऽपि च क्लीबं पिप्पल्यामपि लाङ्गली ॥ लोहलः शृङ्खलाचार्येऽव्यक्तवाच्यभिधेयवत् ॥ वञ्जुलस्तिनिशेऽशोके वेतसे स्थलपङ्कजे ॥ वण्ठालः स्याद्युद्धभेदे तथा नौकाखनित्रके । वातुलः पुंसि वात्यायां वाच्यवन्मारुतासहे ॥ वामिलो दाम्भिके वामे विमला सप्तलाभुवोः । विमलो वाच्यवच्चारौ निर्मलेऽपि निगद्यते ॥ विपुलः पृथुलेऽगाधे त्रिषु ना पश्चिमाचले । ;p{0283} विपुलो वेतसे चाम्बुवेतसे च भवेत्पुमान् ॥ विडालोऽस्त्री नेत्रपिण्डे पुंसि मार्जारकेऽपि च । विशाला त्विन्द्रवारुण्यामुज्जयिन्यामपि स्त्रियाम् ॥ विशाली नृपभिद्वृक्षभिदोर्ना पृथुले त्रिषु । वृषलो गृञ्जने शूद्रे चन्द्रगुप्ते च वाजिनि ॥ शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले । शयालुः शुन्यजगरे निद्राशीले भवेत्त्रिषु । श्रद्धालुर्दोहदयुतस्त्रियां श्रद्धायुते त्रिषु । श्यामलः पिप्पले पुंसि कृष्णवर्णेऽभिधेयवत् ॥ शार्दूलो राक्षसे व्याघ्रे पशुभेदे पुमानयम् । स्यादुत्तरपदस्थोऽयं श्रेष्ठ एव निगद्यते ॥ शाल्मली तरुभेदे स्याद् द्वीपभेदे च पुंस्ययम् । श्रीफलः पुंसि बिल्वे स्याद्धात्रीनीलिकयोः स्त्रियाम् । शीतलं चन्दने शैत्ये शैलजे ना द्रुमान्तरे । शीवलं शैवले क्लीबं शैलेयेऽपि निगद्यते ॥ शृगालो जम्बुके दैत्ये शृगाली डमरे स्त्रियाम् । शृङ्खलः पुंस्कटीवन्ध्यांशुके च निगडे त्रिषु ॥ शैवलं पद्मकाष्ठे स्याच्छैवाले तु भवेत्पुमान् । शौष्कलः स्याच्छुष्कमांसे पणके पिशिताशिनि ॥ षण्डाली तु सरस्यां स्त्री कामुकी तैलमांसयोः । सरलः पूतिकाष्ठे स्यादुदारवक्तयोस्त्रिषु ॥ सङ्कुलं न द्वयोर्व्याप्ते त्वविस्पष्टवचस्यपि । सप्तला स्त्री नवमालीगुञ्जाचर्मकषासु च ॥ सन्धिला स्यात्सुरङ्गायां नदीमदिरयोः स्त्रियाम् । सिध्मला मत्स्यविकृतौ पुमान्किलामरोगिणि ॥ सुवलः पर्वते पुंसि शान्तप्रणतयोस्त्रिषु । सुतलोऽहालिकावन्धनागलोकप्रभेदयोः । हिङ्गुला वर्णकद्रव्ये वार्त्ताक्यां हिङ्गुली स्त्रियाम् । हेमलः स्वर्णकारे स्यात्कृकलाशे शिलान्तरे । ;vv{ल चतुः} अक्षमाला चाक्षसूत्रे त्वरुन्धत्यामपि स्त्रियाम् । अङ्कपाली परिरभ्ये कोटिधात्रिकयोः स्त्रियाम् । भवेदतिवलौषध्यां प्रबलेऽप्यभिधेयवत् । उदूखलं गुग्गुलौ स्याद्भवेदुलूखलेऽपि च । एकाष्ठीला पापचेल्यां वकपुष्पेऽपि च स्त्रियाम् । ;p{0284} भवेत्कलकलः कोलाहले सर्जरसेऽपि च । भवेत्कर्मफलं कर्मरङ्गे च सुखदुःखयोः ॥ कन्दराली गर्द्धभाण्डे प्लक्षभूमिरुहेऽपि च । कुतूहलं क्लीबलिङ्गं शस्तकौतुकयोरपि ॥ खतमालो घने धूमे गन्धमालोऽनिले रवौ । गण्डशैलो गिरिध्वस्तस्थूलग्रावकपालयोः ॥ गन्धफली तु गुन्द्रायां स्त्रियां चम्पककोरके । चक्रवालो मण्डले स्याद्गिरिभेदे भवेत्पुमान् । जलाञ्चलं शैवले स्यात्स्वतोवारिविनिर्गमे । जयपालो विधौ विष्णौ भूपाले वृक्षभिद्यपि । जम्बूमालाऽप्सरोभेदे कपिभूधरयोः पुमान् । दलामलो मरुवके दमने मदनद्रुमे ॥ ध्वनिनाला काहलायां स्याद्वेणुवीणयोः स्त्रियाम् ॥ भवेत्परिमलोऽत्यन्तचारुगन्धविमर्दयोः ॥ रतिमर्दाङ्गरागादिसौरभे च बुधव्रजे । अथ पोटगलः काशे नलमत्स्यप्रभेदयोः ॥ भवेद्बहुफलो नीपे मलप्वां बहुफल्यपि । भस्मतूलो ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥ भद्रकाली च गन्धोल्यां कात्यायन्यामपि स्त्रियाम् । महाकालो महादेवे किम्पाके प्रथमान्तरे । भवेन्मदकलो पचगजेऽव्यक्तप्रलापिनि । महाबलो बृहद्वीर्ये सीसकेऽपि च न द्वयोः । महानीलो भृङ्गराजे मणिनागविशेषयोः । मणिमाला स्त्रियां हारे लक्ष्म्यां दन्तक्षतान्तरे । मुक्ताफलञ्च कर्पूरे मौक्तिके लवलीफले । भवेद्यवफलो मांसकूटजप्लक्षवेणुषु । रजस्वला पुष्पवत्यां महिषे तु रजस्वलः ॥ रतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च । भवेद्वायुफलं शक्रकार्मुके करकेऽपि च । तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च । बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च । सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे । सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि । सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि । ;p{0285} हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः । हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि । हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥ ;vv{ल पञ्च} स्यादासुतीवलः पुंसि कल्पपालकयज्वनोः । भवेदुद्दण्डपालस्तु मत्स्यसर्पविशेषयोः । स्यादेककुण्डलः पुंसि बलभद्रकुबेरयोः । कृपीटपालः पवने नीरधौकेनिपातके । स्यात्तु पाण्डुकम्बलः श्वेतकम्बलग्रावभेदयोः । भवेत्सुरतताली स्त्री दूतिकामौलिमालयोः ॥ ;c{इति लान्तवर्गः ॥} ;v{वान्ताः} ;vv{व एकः} वकारः पवने वाहौ वरुणे मन्त्रणेऽपि च । कल्याणे बलवत्यश्वे वसतौ वरुणालये । वो गन्धने गतौ वाले तन्त्रवायकुविन्दयोः ॥ स्वः पुमानात्मनि ज्ञातौ त्रिष्वात्मीपेऽस्त्रियां धने । ;vv{व द्वि} अविः कम्बलशैलार्कमेषा धहकिषु (?) ना । अश्वस्तुरङ्गे पुरुषजातिभेदे भवेत्पुमान् ॥ ऊर्द्धः स्यादुच्छिते तुङ्गे तथा पर्य्युत्थितेऽपि च । क्षवः क्षुते राजिकायां भवेत्काशेऽपि च क्वचित् ॥ कविः स्त्री कविकायां ना काव्यकृच्छुक्रसूरिषु । कण्वो मुनिविशेषे ना भवेत्पापे नपुंसकम् ॥ चार्वी धनदभार्यायां स्त्री ज्योत्स्नाबुद्धिदीप्तिषु । जवो वेगे वेगवति स्यादोड्रकुसुमे जवा ॥ जीवोऽस्त्री जीविते ना तु वृत्तिप्राणिगुरुद्रुमे । जीवा मौर्व्वी वचा भूमिजीवन्तीष्वपि च स्त्रियाम् ॥ तत्त्वं विलम्बिते नृत्ये परमात्मस्वरूपयोः । द्रवः प्रद्रावरसयोः स्यान्नर्मतरसोरपि । दवो दावो वन्यवह्न्यावरण्ये च भवेद्वयम् ॥ द्वंद्वं रहस्ये कलहे तथा मिथुनयुग्मयोः ॥ समासे तु भवेत्पुंसि रोगभेदे च कुत्रचित् । दार्वी दारुहरिद्रायां स्त्रियां गोजिह्विकौषधौ ॥ देवं स्यादिन्द्रिये मेघे सुरे नरपतौ पुमान् । देवी कृताभिषेकायां तेजनीपृक्कयोरपि ॥ द्यौः स्त्रियां स्वर्गनभसोर्दिवञ्चापि नपुंसकम् । ;p{0286} ध्रुवो धूर्ते वृक्षभेदे पतिमानुषयोरपि । ध्रुवः शङ्कौ हरे विष्णौ भर्भदे वटयोगयोः ॥ तर्कनिश्चितयोः क्लीबं नित्यनिश्चलयोस्त्रिषु । स्त्रियान्तु शालपर्ण्यां स्यात्तथा साध्वी स्त्रियामपि । गीतभेदे च स्रुग्भेदे त्रिलिङ्ग्यामाह माधवः । नवस्त्रिषु नूतने स्यात्स्तुतिमात्रे पुमानयम् । नीवी परिपणे स्त्री तु स्त्रीकट्यंशुकबन्धने । पक्वं विनाशाभिमुखे तथा परिणते त्रिषु । प्लवो ना विहगे भेके निषादे भेलके कपौ । शलके प्रेरणे शत्रौ श्वपचे प्लवनेऽपि च ॥ पर्कटीप्लुतगत्योश्च कैवर्त्ती मुस्तके प्लवम् । पार्श्वं कक्षाधरे चक्रोपान्ते पशुगुणेऽपि च ॥ प्राध्वोऽतिप्रणते प्रज्ञे बन्धने दूरवर्त्मणि । पृथ्वी स्त्री हिङ्गुपत्रीभूचन्द्रेलाकृष्णजीरके ॥ भवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु । भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥ पदार्थाभिनयभिदोर्माल्यजन्तुविभूतिषु । रेवा रतौ नदीभेदे तथा नील्योषधौ स्त्रियाम् ॥ लवः श्रीरामतनये लेशच्छेदनयोरपि । लट्वा वाद्ये करञ्जे च तुलिकाविहगेषु च ॥ लघ्वी स्यन्दनभेदे स्यात्तथा लाघवविस्तृतौ । विश्वं जगत्यना शुण्ठ्यां देवे वा निखिले त्रिषु ॥ विश्वा त्वतिविषायाञ्च स्त्रियां सिन्धुनदीभिदि । शवं जलेऽस्त्री कुणये शिविर्भूर्जे भूपान्तरे ॥ शिवः स्वरे हरे योगे कीलके ग्रहवालयोः । मोक्षगुग्गुलयोः पुंसि शिवं भद्रसुखाप्सु च ॥ शिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च । सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः । व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥ सवो यज्ञे च सन्ताने सान्त्वं साम्नि च दक्षिणे । स्रुवा तु मूर्वा शल्लक्यां यज्ञपात्रे स्नुवः पुमान् ॥ हव आज्ञाह्वानयज्ञे ह्रस्वः स्यात्खर्वनीचयोः । ;vv{व त्रि} अक्षीवमप्रमत्ते स्यादशिवाभावमृत्युषु । आर्त्तवं स्त्रीरजःपुष्पे आहवो युद्धयज्ञयोः । ;p{0287} आश्रवोऽङ्गीकृतौ क्लेशे पुमान् वाक्यस्थिते त्रिषु ॥ उद्धवः पुंसि यज्ञे स्यादयादवोत्सवयोरपि । उत्सवो महकोपेच्छाप्रसवेषु पुमानयम् ॥ अभावो मरणेऽसत्त्वे कैतवं द्यूतमिथ्ययोः । कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके ॥ कितवो वञ्चके मत्ते खले च कनकाह्वये । केशवः कृष्णपुन्नागप्रशस्तकेशवत्स्वपि ॥ कुटुम्बोऽस्त्री जनज्ञातिबान्धवेषु च सन्ततौ । कैरवं कुमुदे धूर्ते चन्द्रिकायान्तु कैरवी । गाण्डीवगाण्डिवौ चापे पार्थचापेऽपि न स्त्रियौ । गालवो मुनिभेदे स्यात्तथा लोध्रमहीरुहे । ताण्डवोऽस्त्री तृणभिदि ख्याते नृत्ये समुद्धते । त्रिदिवा तु नदीभेदे स्वर्लोके तु भवेत्पुमान् ॥ दीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते । निष्पावः सूर्पपवने राजमाषे कडङ्गरे । निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः । पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च । शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् । प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये । प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥ प्रसवोऽस्त्री फलेऽपत्ये कुसुमे गर्भमोचने । पार्थिवो भूपतौ पुंसि पार्थिवी तुत्थसीतयोः ॥ पृथिवी विकृतौ वाच्यलिङ्ग एव निगद्यते । पुङ्गवस्तु वलीवर्दे पुमानौषधभिद्यपि ॥ अथोत्तरपदस्थोऽपि श्रेष्ठवाची भवेदयम् । फेरवो जम्बुके धूर्ते हिंस्रे च क्षणदाचरे । माधवो यादवे विष्णौ मधुवैशाखयोरपि । माधवी स्यान्मधुरिकावासन्तीशर्करासु च । राजीवं कमले क्लीबं स्यात्पुंसि मृगनीलयोः । राघवो रघुनाथे स्याबृहन्मत्स्यविशेषके । रौरवाश्चञ्चले धूर्ते घोरे च नरकान्तरे । वडवा कुम्भदास्यश्वाब्राह्मणकामिनीषु च ॥ वाडवं तु हयव्यूहे क्लीबं स्त्रीकरणेऽस्त्रियाम् । पाताले ना वाडवाग्नौ ब्राह्मणे दुर्जनेऽपि च ॥ ;p{0288} विभवो मोक्षसम्पत्त्योर्विद्रवो द्रुतिनिन्दयोः । विभावः स्यात्परिचये मन्मथोद्दीपनादिषु ॥ शात्रवः पुंसि शत्रौ स्यात्क्लीबं तद्भावनन्दयोः । षाडवो गालभेदे स्याद्रसभेदे भवेत्पुमान् । सम्भवो मेलके हेतौ जन्मन्यांधेयधारणे । सुग्रीवो विष्णुतुरगे सुन्दरे च कपीश्वरे ॥ ;vv{व चतुः} अनुभावः प्रभावे च निश्चये भावबोधके । भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः । उपप्लवः स्यादुत्पाते विप्लवे च विधुन्तुदे । जलबिल्वः पञ्चगुप्ते कर्कटे जलचत्वरे ॥ जीवञ्जीवः पक्षिभेदे प्रियवृक्षभिदोरपि ॥ परिप्लवस्तिरस्कारे विलासाकुलयोरपि । पारशवः शस्त्रभेदे द्विजाच्छुद्रासुतेऽपि च ॥ परस्त्रीतनये चापि तथा मागेधभिद्यपि । पुटग्रीवस्ताम्रकुम्भे गर्गर्यां न नपुंसकम् । बलदेवः समीरे स्याद्बलरामे च पुंस्ययम् । रन्तिदेवो नृपभिदि स्मरे च गरुडध्वजे ॥ रोहिताश्वश्चित्रभावौ हरिश्चन्द्रनृपात्मजे । भवेच्छीतशिवः शम्यां क्लीबे शैलेयसैन्धवे ॥ सहदेवः पाण्डवे स्यात्सर्पाक्ष्यां सहदेव्यपि । सहदेवा बलानन्तापलदण्डोत्पलेषु च ॥ ;vv{व पञ्च} अशितम्भवमन्नादौ तृप्तौ स्यादाशितम्भवम् ॥ ;c{इति वान्तवर्गः ॥} ;v{शान्ताः} ;vv{श एकः} शः शस्त्र ईश्वरेऽपि स्यान्मङ्गले तु नपुंसकम् । शान्तौ च शयने शी स्याद्धियांशा शूर्निगद्यते । ;vv{श द्वि} अंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् । आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे । आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् । ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके । काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् । अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥ कीशो दिगम्बरे सूर्ये शाखामृगविहङ्गयोः ॥ कुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् । ;p{0289} पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः । केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥ क्लेशो दुःखे च कोपे च व्यवसाये भवेत्पुमान् ॥ कोशः पाने जातिकोषखड्गपिधानकुट्मले । पेश्यां दिव्येऽर्थसंघाते शब्दादिसंग्रहेऽपि च ॥ दर्शोऽवलोकने यागभेदाभावास्ययोरपि । दंशः कीटविशेषे स्यात्कवचे भुजगक्षते । दशाऽवस्था दीपवर्त्योरंशुकाग्रे तु भूम्नि च । दृग्दृष्ट्यां दर्शने ज्ञाने स्त्रियां ज्ञातरि च त्रिषु ॥ नाशः पलायने पुंसि निधनानुपलम्भयोः । निशा दारुहरिद्रायां स्त्री त्रियामाहरिद्रयोः ॥ पांशुर्धूलिषु शय्यासु चिरसञ्चितगोमये । पशुर्मृगादौ प्रमथे देवे च प्राणिमात्रके । पशुसन्दर्शनेऽपि स्यादव्ययं पश्वेति स्मृतम् । पशो ना बन्धने शस्त्रे छात्राद्यन्तश्च निन्दिते । कर्णान्तः शोभनार्थे च केशान्तः संहतार्थके । पेशी स्त्री मांसपिण्ड्याञ्च मांसीखड्गपिधानयोः । अण्डभेदे नदीभेदे पिशाचीराक्षसीभिदोः । वंशः कुले च पृष्ठांशे वर्गतेजनयोरपि ॥ वशा योषासुतावन्ध्यास्त्रीगवोहस्तिनीषु च । त्रिष्वायत्ते क्लीबमिच्छाप्रभुत्वायत्ततासु च ॥ वेशो गृहे च नेपथ्ये भवेद्वेश्यागृहेऽपि च । शशः पशुविशेषे स्याद्वोले लोघे नृपान्तरे ॥ स्पर्शो दाने स्पर्शने च रोगस्पर्शकयोरपि । स्पशश्चरे सम्पराये बन्धभेदे च कामिनाम् ॥ ;vv{श त्रि} आदर्शः पुंसि टीकायां दर्पणे प्रतिपुस्तके । कपिशः सिह्लके पिङ्गे माधव्यां कपिशी स्त्रियाम् ॥ कर्कशो निर्दये क्रूरे काम्पिल्येऽमसृणेऽपि च । काशमर्दे साहसिके दृढे हिमकरे पुमान् ॥ कीनाशः शमने क्षुद्रे कर्षकोपांशुधातिनोः । कुलिशोऽस्त्री वज्रे स्यान्मीनभेदे भवेत्पुमान् ॥ गिरीशः पर्वतपतौ गीष्पतौ च महेश्वरे । तुङ्गीशः शङ्करे कृष्णे सूर्ये हिमकरेऽपि च ॥ दुष्पर्शी धन्वयासे ना कण्टकार्यामपि स्त्रियाम् । ;p{0290} खरस्पर्शे तु न क्लीबं निस्त्रिंशः क्रूरखड्गयोः ॥ निर्वेशो वेतने भोगे मूर्च्छने च भवेत्पुमान् । निवेशः शिबिरोद्वाहविन्यासेषु निवेशने ॥ निदेशः शासनोपान्तकथनेषु पुमानयम् । पलाशन्तु दले ना तु हरित्किंशुकराक्षसे ॥ प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे । प्रदेशी देशभेदे स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥ पिङ्गाशी नीलिकायां स्त्री पुंसि स्याज्जात्यकाञ्चने । पल्लीपतौ मत्स्यभेदे सर्पे च राक्षसान्तरे ॥ बालिशी बालके मूर्खे भूकेशः शैवले वटे । भूकेशी वल्लजेऽपि स्याद्भुकेश राक्षसीभिदि ॥ लोमशी लोमयुक्ते स्यान्मेषे मुनिविशेषके ॥ लोमशा काकजङ्घायां काशीसवचयोरपि ॥ शूकशिम्पी महामेदा शाकिनीभित्स्वपि स्त्रियाम् । विवशः स्यादवश्यात्मारिष्टदुष्टधियोस्त्रिषु ॥ विकाशो विजने दीप्तौ सदृशस्तुल्ययोग्ययोः । संवेशः शयने स्त्रीणां रतबन्धेऽपि पुंस्ययम् ॥ सुखाशो राजतिनिशे वरुणे सुखभोजने । हताशः पिशुने वन्ध्ये आशाहीने च निर्दये ॥ ;vv{श चतुः} अपदेशो व्याजलक्ष्यनिमित्तसङ्कटेषु च । अपभ्रंशोऽपशब्दे स्याद्भाषाभेदे च पतने । आश्रयाशः पुमानग्नौ त्रिषु चाश्रयनाशके । उपस्यर्शस्त्वाचमने स्नानस्पर्शनयोरपि ॥ उपदंशोऽवदंशे स्याच्शिश्नरोगविशेषके । क्रूरदृक्पिशुने मत्ते भौमे शनिग्रहेऽपि च । खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि । खण्डामलकभैषज्ये राहौ भग्नरदद्विपे ॥ जीवितेशः प्राणनाथे यमे विधुविवस्वतोः । नागपाशः स्त्रीकरणे दुर्बुद्धौ वरुणायुधि । पञ्चदशी पौर्णमास्यां अमावस्यातिथावपि । प्रतिष्कशः पुरोगे स्याद्वार्ताहरसहाययोः । परिवेशः सूर्यपार्श्वमण्डले परिवेष्टने । पादपाशी खुतुक्कायां शृङ्खलायामपि स्त्रियाम् । ;p{0291} पुरोडाशो हविर्भेदे पिष्टके हुतशेषके । भूमिस्पृक्मानुषे वैश्ये चौरभेदेऽन्धखञ्जयोः ॥ ;c{इति शान्तवर्गः ॥} ;v{षान्ताः} ;vv{ष एकः} षकारः श्रेयसि श्रेष्ठे षूश्च गर्भविमोचने । ;vv{ष द्वि} अक्षो रुद्राक्षजातान्धव्यवहारेषु पाशके ॥ सर्पे विभीतके तार्क्ष्ये चक्रे कर्षे भवेत्पुमान् । क्लीबे खौवर्चले तुत्थे इन्द्रियेऽपि निगद्यते । उषा स्त्री बाणकन्यायां कामिगुग्गुलयोः पुमान् । ऊषा च रात्रिशेषे स्यादुषाऽव्ययमपीष्यते ॥ ऋषिर्वेदे वशिष्ठादौ दीधितौ मत्स्यरूपिणि । ऋक्षं कैतवनक्षत्रधनेष्वपि नपुंसकम् ॥ पुमान् पर्वतभेदे स्याद्भल्लूके शोणकेऽपि च । कक्षा स्पर्धापदे बाहुमूले च कर्त्तृणेऽपि च । काञ्चीगुणेऽन्तरीयस्य पश्चादञ्चलपल्लवे ॥ कर्षो मानविशेषे स्यात्कर्षणे च पुमानयम् । कर्षूः पुंसि करीषाग्नौ स्त्रियां कुल्येष्टखातयोः । काक्षी सौराष्ट्रमृद्भदे स्त्रियान्तु वरिकोषधौ । घोषमाभीरपल्ल्याञ्च ध्वनिगोपालघोषके । चोक्षो दक्षे मनोज्ञे च तीक्ष्णे च शुचिगीतयोः । झषा नागवलायां स्त्री तापमीनवनेषु ना ॥ तर्षो वाञ्छातृषोः पुंसि त्विट् स्त्री वाक्द्युतिकात्तिषु । तुषो विभीतकतरौ धान्यादित्वचि पुंस्ययम् ॥ तृषा कामसुतावाञ्छापिपासास्वपि च स्त्रियाम् । पिपासितस्य वाञ्छायामपि तृट् सैव कीर्त्यते । दक्षः पटौ ताम्रचूडे महेशे च प्रजापतौ । वृषभे वृक्षभेदे स्याद्दक्षा स्त्री चतुराभुवोः ॥ दोषा भुजे रजन्याञ्च दोषो दूषणपापयोः । ध्याङ्क्षो भिक्षुकमत्स्याशिपक्षिणोः काककर्कयोः । ध्याङ्क्षी कक्कोलिकायान्तु पिशाचीराक्षसीभिदोः । न्यक्षं साकल्यतृणयोर्महिषे नाऽधमे त्रिषु ॥ प्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः । विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे । ;p{0292} प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ भिक्षा तु भिक्षितद्रव्ये याञ्चासेवागतिष्वपि । माषो मूर्खे व्रीहिभेदे मानत्वग्दोषयोरपि । मिषं छले क्लीबलिङ्गं स्पर्द्धायां ना मिषाव्ययम् । मेषो भैषज्यभेदे स्यात्पशुभिद्राशिभेदयोः । मोक्षो मुक्तौ मोचने स्यात्पाटलौ भवेत्पुमान् ॥ यक्षो गुह्यकमात्रे स्याद् गुह्यकेश्वर इत्यपि ॥ रूक्षमप्रेम्णि कठिने रक्षा जतुनि रक्षणे । लक्षं व्याजे शरव्ये च लक्षसंख्यान्तरेऽपि च ॥ वर्षोऽस्त्री भारताद्यब्दजम्बुद्वीपेषु वर्षणे । केचित्क्लीवमिति प्राहुर्बहुत्वे प्रावृषि स्त्रियाम् । विट् व्याप्तिविष्ठयोः स्त्री स्याद्विषञ्च गरलाम्बुनोः । भवेदतिविषायां स्त्री विषो दन्तः क्वचिद्भवेत् ॥ वृषो धर्मे वलीवर्दे संख्याराशिभिदोरपि । मूषिके शुक्तलेऽपि स्यादुत्तरस्थो वरार्थकः ॥ वृषा मूषिकपर्ण्यान्तु व्रतिनामासने वृषी । शुषिः शोषे च विवरे सर्पदन्तान्तरालके ॥ शेषः सङ्कर्षणेऽनन्तं वधयुक्तेतरेषु च । शेषा प्रसादार्पणयोरात्यनिर्माल्यकेऽपि च । शेषः स्याद्यक्ष्मरोगे ना शोषणे च भवेत्पुमान् । ;vv{ष त्रि} अध्यक्षोऽधिकृते पुंसि प्रत्यक्षेऽतिप्रधानके । अभीषुः प्रग्रहे कामकिरणानुरागेषु ना । उष्णीषोऽस्त्री शिरोवेष्टे किरीटचिह्नभेदयोः ॥ उत्प्रेक्षाऽवधारणे स्यात्काव्यालङ्कारभिद्यपि । कल्माषो राक्षसे पुंसि कृष्णे च कृष्णपाण्डरे । कलुषं चाविले पापे किल्विषन्तु रुगागयोः । कुल्माषः काञ्जिकायान्तु यावके रुग्विशेषके । गण्डूषा हस्तिहस्ताग्रे पुंसि वा मुखपूरणे । प्रसृतोन्मितनीरादौ क्लीबलिङ्गञ्च कुत्रचित् । गवाक्षी शक्तवारुण्यां गवाक्षो जालके कपौ । गोरक्षके नागरङ्गे पिच भवेत्पुमान् । जिगीषा स्त्री जयेच्छायां व्यवसायप्रकर्षके ॥ तरीषः शोभनाकारे व्यवसायेऽब्धिभेलयोः । ;p{0293} तारिषी शक्रकन्यायां ना स्वर्गाम्बुधिकाञ्चने ॥ नहुषो नागभेदे स्यात्सूर्यवंशनृपान्तरे । निकषः शानफलके स्त्रियां राक्षसमातरि । निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने । परुषं कर्बुरे रूक्षे तथा निष्ठुरभाषणे । प्रदोषः पुंसि दोषे स्यात्तथा च समयान्तरे । प्रत्यूषः स्याद्दिनमुखे चण्डांशुवसुभेदयोः ॥ पीयूषममृते सप्तदिवसावधिदुग्धके । पुरुषः सांख्यतत्त्वज्ञे पुन्नागभूरुहात्मनोः । पौरुषं पुरुषस्यैव प्रभावे कर्मभावयोः । ऊर्द्धविस्तृत . . .मारिषी दक्षमातरि ॥ मृगाक्षी तु विशालायां मृगनेत्रा सुयोषितीः । मारिषः शाकभेदे स्यादार्द्रे नाहोक्तितः पुमान् ॥ मारिषा राक्षसीभेदे . . . समुपाशने । शैलूषस्तु नटे धूर्ते श्रीफले तालधारके ॥ संघर्षो घर्षणस्पर्धासंसर्पे च पुंस्ययम् । समीक्षा तु मनीषायां तत्त्वे यत्ने निभालने ॥ ;vv{ष चतुः} अनेकर्षो रथाधःस्थकाष्ठेऽनुकर्षणेऽपि च ॥ अम्बरीषो हरे भूपकिशोरमिहिरेषु ना । क्लीबलिङ्गं रणे भाष्ट्रेऽनुतपिनरकेऽस्त्रियाम् ॥ अनिमेषः सुरे मीने कामिनीबन्धमित्यपि । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ अहिद्विड्गरुडे शक्ते मयूरे नकुलेऽपि च । अलम्बुषः प्रहस्ते स्याच्छर्दने तालरक्षसोः ॥ अलम्बुषा तु मुण्डरी स्वर्वेश्याभेदयोरपि । भवेत्किंपुरुषो लोकविशेषे किन्नरेऽपि च ॥ नन्दिघोषोऽर्जुनरथे पुंसि वन्दिजनस्तुतौ ॥ परिघोषस्तु निनदे दुर्वाच्ये जलदस्वने ॥ परिवेषस्तु परिधौ स्वकरे परिवेषणे । पलङ्कषा तु मुण्डीर्यां लाक्षागुग्गुलगोक्षुरे ॥ रास्नाकिंशुकयोः स्त्री तु राक्षसे तु पलङ्कषः । वीरवृक्षस्तु भल्लातककुभद्रुमयोरपि । भूतवृक्षस्तु शाखोटद्रुमश्योनाकवृक्षयोः ॥ महाघोषश्चातिशब्दहहकर्कटशृङ्गीषु । ;p{0294} राजवृक्षः पियालद्रुस्वर्भानुद्रुमयोरपि ॥ विशालाक्षो हरे तार्क्ष्ये दीर्घनेत्र-सुनेत्रयोः ॥ ;c{इति षान्तवर्गः ॥} ;v{सान्ताः} ;vv{स एकः} सकार ईश्वरे सर्पे गौरीलक्ष्म्योश्च सा स्त्रियाम् । ;vv{स द्वि} कंसस्तु तैजसे द्रव्ये कांस्ये मानान्तरेऽसुरे ॥ कासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः । गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः । गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः । त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥ दासो भृत्ये धीवरे च शूद्रे ज्ञातार्थयोरपि । नासाद्वारोर्द्धकाष्ठे स्यान्नासिकायामपि स्त्रियाम् ॥ प्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ भासः प्रभाते विहगे भाः प्रभावमयूखयोः । माश्चन्द्रमासयोः पुंसि मासो ना कालमानयोः ॥ मांसं स्यादामिषे क्लीबं मांसी स्यादोषधिभिदि । मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥ रसो गन्धरसे नीरे शृङ्गारादौ विषे द्रवे । रागवीर्यदेहधातुप्रभेदास्वादपारदे ॥ तिक्तादौ च गुणे पुंसि द्रवे क्लीबन्तु कुत्रचित् । रसा स्त्री रसना पाठाशल्लकीभूमिकङ्गुषु ॥ रासः कोलाहले गोपक्रीडाशृङ्खलवाक्सु च । वत्सं वक्षसि वत्सः स्याद्वर्षपुत्रादितर्णके ॥ व्यासो मुन्यन्तरे पुंसि विस्तारभावभेदयोः । शंसा वाक्ये तु वाञ्छायां प्रशंसायामपि स्त्रियाम् ॥ हंसो निर्लोभनृपतौ परमात्मनि मत्सरे । विष्ण्वर्कयोगिभिन्मन्त्रशरीरपवनेषु च ॥ गुरौ तुरगभेदे स्याद्भूधरविहगान्तरे । हासो रसे च हसने हिंसा तु घातचौर्ययोः ॥ ;vv{स त्रि} अलसा स्त्री हंसपद्यां स्यात्पुमान् द्रुमरुग्भिदोः । क्रियामन्दे वाच्यलिङ्गमलसी सरिदन्तरे ॥ अदः परस्मिन्नत्र त्रिष्वभ्यासोऽभ्यसनेऽन्तिके । ;p{0295} आगः पापेऽपराधे स्यादाग इत्यपि कुत्रचित् ॥ आश्वासः स्यात्परिच्छेदनिर्वृत्याख्यायिकासु च । आशीर्हिताशंसने स्यात्सर्पदन्तेऽपि च स्त्रियाम् ॥ इष्वासो बाणविक्षेपकारके कार्मुकेऽपि च । उच्छ्वासः प्राणनाश्वासाख्यायिकादिसमाप्तिषु ॥ भवेदुत्तंस उत्तसः कर्णपूरेऽपि शेखरे । उरः श्रेष्ठे हृदि क्लीबमूषः प्रत्यूषसन्ध्ययोः ॥ ओजः क्लीबं बले दीप्ताववष्टम्भप्रकाशयोः । एनः पापेऽपराधेऽपि निन्दायामपि न द्वयोः ॥ ओक आश्रयमात्रे स्यान्मन्दिरे च नपुंसकम् । कीकसं क्रिमिजातौ स्यात्क्लीबं कुल्ये तु कर्कशे । चमसा पिष्टके यज्ञपात्रभेदे नपुंसकम् ॥ ज्यायानतिप्रशस्ते स्याद् वृद्धेऽपि च भवेत्त्रिषु । ज्योतिर्दृष्टिप्रकाशर्क्षे क्लीबं ना सूर्यशुष्मणोः ॥ तरस्तीरे बले वेगे प्लवने च नपुंसकम् । तपः क्लीबं लोकभेदे धर्मे चान्द्रायणादिषु । पुंसि माघे च शिशिरे त्वस्त्रियामपि कुत्रचित् ॥ तमः शोकगुणध्वन्ति क्लीबं राहुग्रहे पुमान् । तामसी निशि दुर्गायां सर्पे पुंसि खलेऽन्यवत् ॥ तेजः क्लीबं पराक्रान्तिप्रभाववीर्यदीप्तिषु । धनुः पियाले राशौ ना चापेऽस्त्री धन्वनि त्रिषु ॥ नभः क्लीबं वियति ना मेघे श्रावणप्रावृषोः । पनवः कण्टकिफले कन्टके वानरान्तरे ॥ पनसा रोगभेदे स्याद्वानरीराक्षसीभिदोः । पयः क्षीराम्बुनोः क्लीबं पुक्कसश्वपचेऽधने ॥ पुक्कसी कालिकानील्योर्बीभत्सुः क्रूरपार्थयोः । भूयोऽव्ययं पुनरर्थे भूयान् बहुतरे त्रिषु ॥ महः क्लीबमुत्सवे स्यात्तेजस्यपि नपुंसकम् । मानसं चित्तसरसो रभसं हर्षवेगयोः ॥ रहस्तत्त्वे च गुह्ये च सुरते च नपुंसकम् । रजः क्लीबं गुणभित्सपरागार्त्तवरेणुषु ॥ रेफाः क्रूरेऽधमे दुष्टे कृपणे च पुमानयम् । रोदश्च रोदसी चोभे द्यावाभूम्योर्दिविक्षितौ ॥ लालसो लालसा तृष्णायाचनौत्सुक्यगाढयोः । ;p{0296} वयो योवनबाल्याद्योः क्लीबं स्याद्विहगेऽपि च ॥ वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् । बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् । वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥ वायसोऽगुरुवृक्षे स्याच्श्रीवासकाकयोरपि ॥ वायसी काकमाच्याञ्च काकोडुम्बिकाद्रुमे ॥ विलासो हारभेदे स्याल्लीलायाञ्च पुमानयम् । विद्वानात्मविदि प्राज्ञे दैवज्ञेऽप्यभिधेयवत् ॥ श्रेयसी गजपिप्पल्यामभयापाठयोरपि । सहो ज्योतिर्बले क्लीबं पुमान् हेमन्तमार्गयोः ॥ सरो नीरे तडागेऽपि सरसी च सरोवरे । समासः पुंसि संक्षेपे संज्ञाभेदे समर्थने ॥ सारसं पङ्कजे क्लीबं स्यात्पुमान् पक्षिचन्द्रयोः । साहसन्तु बलात्कारकृतकार्ये दमेऽपि च । सुरसा स्त्री तु पर्णसे रास्नायां नागमातरि । स्रोतः स्यादिन्द्रिये नीरवेगेऽपि च नपुंसकम् ॥ हविर्होतव्यमात्रे स्याद्घृतेऽपि च नपुंसकम् । ;vv{स चतुः} अधिवासो धूपनादिसंस्कारे च निवासके ॥ अवध्वंसोऽवचूर्णे स्यात्परित्यागे च निदने । अवतंसः कर्णपूरे शेखरे च निगद्यते ॥ अगौकाः शरभे पुंसि कण्ठीरवविहङ्गयोः । उदर्चिर्वीतिहोत्रे स्यादुत्प्रगे हरकामयोः ॥ कलहंसश्च कादम्बे राजहंसे परात्मनि । कनीयाननुजेऽत्यल्पे तरुणेऽपि च वाच्यवत् ॥ कुम्भीनसः क्रूरसर्पे स्त्रियां लवणमातरि । भवेद् धनरसः सान्द्रनिर्यासे मोरटेऽम्बुनि ॥ सम्यक्सिद्धरसे पीलुपर्णीकर्पूरयोरपि । चन्द्रहासः खड्गमात्रे दशकण्ठकृपाणके । भवेत्तामरसं ताम्रे पङ्कजे काञ्चनेऽपि च । त्रिस्रोताः स्यात्तरङ्गिन्यां गङ्गायामपि च स्त्रियाम् ॥ दीर्घायुः काकशाल्मल्योर्मार्कण्डे जीवकद्रुमे । दिवौकाश्चातके देवे नगौकाः सिंहपक्षिणोः ॥ निःश्रेयसं शुभे मोक्षे विद्यानुभावभक्तिषु । नीलाञ्जसा विद्युति स्त्री नदीविद्याधरीभिदोः ॥ ;p{0297} पुनर्वसुर्भभेदे स्याद्द्वयोः कात्यायने पुमान् । लोकभेदे धनारम्भे गरुडध्वजशूलिनोः ॥ महारसस्तु खर्जूरे कशेरुकोषकारयोः । मलीमसं लोहपुष्पे कासीसमलिनेषु च ॥ भवेन्मधुरसा द्राक्षादुग्धिकामूर्विकासु च ॥ यमस्वसा तु यमुनादुर्गयोरपि च स्त्रियाम् ॥ रासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ वरीयान् योगभेदे स्याद्युनि श्रेष्ठवरिष्ठयोः । विहायाश्च खगे पुंसि गगणे पुनरस्त्रियाम् । विभावसुर्दिनकरे हारभेदे च पावके । श्वश्रेयसन्तु कल्याणे सुखे च परमात्मनि ॥ भवेत्सर्वरसो वीणाभेदे धूनकसूरिणोः । सप्तार्चिः क्रूरनेत्रे स्याद्वीतिहोत्रे खलेऽपि च ॥ साधीयानतिवाढे स्यादतिसाधौ तु वाच्यवत् । अथ सिद्धरसो धातुप्रमुखे च महारसे ॥ सुमनः पुष्पमालत्योः स्त्रियां ना धीरदेवयोः । सुमेधास्त्रिषु सद्बुद्धौ ज्योतिष्मत्यामपि स्त्रियाम् । ;vv{स पञ्च} दिव्यचक्षुः सुनेत्रेऽन्धसुगन्धभेदयोरपि । स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः । कथ्यते हिङ्गुनिर्यासो निम्बे हिङ्गुरसेऽपि च । हिरण्यरेता मिहिरे वीतिहोत्रे हरेऽपि च ॥ ;c{इति सान्तवर्गः ॥} ;v{हान्ताः} ;vv{ह एकः} हकारः पापहरणे हरे हिमकरेऽपि च । हा विषादे गुणेष्वत्तौ हे च सम्बोधनेऽपि च ॥ ही पूरणाश्चर्ययोः स्याद्धि हेतावनधारणे । ;vv{ह द्वि} अहिर्ना भुजगे वृत्रे ईहा वाञ्छितचेष्टयोः ॥ कुहूः स्त्री कोकिलालापनष्टेन्दुकलदर्शयोः । ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ॥ सूर्पादौ पूतनादौ च राहूपरागयोः पुमान् । ग्राहोऽवहारग्रहयोः सामान्याम्बुचरे क्वचित् ॥ गृहं नाम्नि कलत्रे च गेहे पुंभूम्नि च क्वचित् । गुहः पुंसि महासेने भृशवेगितरङ्गयोः (?) ॥ ;p{0298} गुहा गर्ते सिंपुच्छी धवगह्वस्केषु च । वाहः स्याद्वन्धने कूटे बर्हं पुच्छे दलेऽस्त्रियाम् ॥ प्रोहस्तु निपुणे तर्के गजानां पादपर्वणि । बहुस्त्रित्वादिसंख्यासु तथा सुविपुले त्रिषु ॥ मही भूम्यां नदीभेदे मह उत्सवतेजसोः । मोहो मूर्छाविद्ययोर्ना दुःखमात्रे क्वचिद्भवेत् ॥ लोहः शस्त्रेऽस्त्रियां क्लीबं सर्वतैजसजोङ्गके । वहस्तु वृषभस्कन्धे स्याद्गन्धवाहवाहयोः ॥ वाहो द्वयोर्भुजे पुंसि मानभेदे हये वृषे ॥ व्रीहिः शरत्पक्वधान्ये धान्यमात्राशुधान्ययोः ॥ व्यूहस्तु बलविन्यासे तर्के निर्माणवृन्दयोः । सहं बले स्यादस्त्री तु क्षमे चाप्यभिधेयवत् ॥ सहा पृथ्वीमुद्गपर्णीकुमारीषु नखौषधे । सिंहः कण्ठीरवे राशौ चोत्तरत्थो भवेद्वरे ॥ सिंही वासकवार्चाकीकण्टकारीष्वपि स्त्रियाम् । स्नेहः स्यात्सौहृदे पुंसि तैलादिरसवस्तुनि ॥ ;vv{ह त्रि} प्रत्यूहा नीलिकायां ना कालकण्ठे विहङ्गमे । आग्रहो ग्रहणे शक्तौ क्रमणेऽनुग्रहेऽपि च ॥ आरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च । कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि । उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥ कटाहो दीपतैलादिपाकयाजनकर्परे । कूपे जातविषाणाग्रमहिषे कूर्मपृष्ठके ॥ कलहः खड्गकोषे स्याद्युद्धबन्धनवर्त्मषु । दात्यूहश्चातके कालकण्ठपक्षिणि तोयदे ॥ निग्रहो भर्त्सने बन्धमर्यादाभङ्गयोरपि । निर्व्यूहः शेखरे द्वारे निर्यासनागदन्तयोः ॥ निरूहो वस्तिभेदे स्यादूहशून्यविवेकिनोः । प्रग्राहस्तु तुलासूत्रे वृषादिप्रग्रहेऽपि च ॥ पटहस्तु समारम्भे वाद्यभेदे तु हिंसवे । प्रवहो वायुभेदे स्याद्वायुमात्रे वहिश्चरे ॥ प्रग्रहस्तु रश्मिमात्रे तुलासूत्रे च वन्दिनि । स्वर्णालुवृक्षे नियमे हयादीनाञ्च रश्मिषु ॥ प्रवाहस्तु प्रवृत्तौ स्यान्नीरस्रोतसि पुंस्ययम् । ;p{0299} वराहः शूकरे मुस्ते मावभेदाब्दसूरिषु ॥ वाराही मातृभेदे स्याद्विश्वक्सेनप्रियौषधौ । राजार्हं जोङ्गके राजयोग्ये चाप्यभिधेयवत् ॥ विग्रहं समरे देहे विस्तारप्रविभागयोः । विदेहो मिथिलाभूपे देहशून्ये तु वाच्यवत् । वैदेही पिप्पलीसीतारोचवासु वणिक् स्त्रियाम् । संग्रहो ग्राहसंक्षेपबृहदुत्तुङ्गकेषु च ॥ सुवहा शल्लकीवीणारास्नागोधापदीषु च । शेफालिकैलापर्ण्योश्च सुवहः सुखबाह्यके ॥ ;vv{ह चतुः} अवग्रहो वृष्टिरोधे ललाटेऽपि च हस्तिनाम् । अभिग्रहोऽभिग्रहणेऽभियोगे गौरवेऽपि च ॥ अवरोहोऽवतरणे समारोहे लतोद्गमे । अश्वारोहोऽश्वगन्धायां त्रिषु स्यादश्ववाहके ॥ उपनाहो व्रणालेपपिण्डे वीणानिबन्धने । उपग्रहोऽनुकूले स्यादुपयोगे च वन्दिनि ॥ गन्धवहः समीरे स्यान्नासिकायां भवेत्स्त्रियाम् । तनूरुहं भवेल्लोम्नि पतत्रे च नपुंसकम् ॥ तमोपहो हिमकरे चण्डभानुजिनाग्रिषु । प्रतिग्रहो ग्रहभिदि स्वीकारसैन्यपृष्ठयोः । पतद्ग्रहग्रहणयोर्विधिदावव्यवस्तुनि । परिग्रहः स्त्रीस्वजनादानेषु मूलशापथोः । परीवहो जलोच्छ्वासक्षितिभिद्योग्यवस्तुनीः ॥ पितामहः पितुस्ताने विरिञ्चावपि पुंस्ययम् । ;vv{ह पञ्च} प्रपितामहः स्याद्विधौ ताते पितामहस्य च ॥ ;c{इति हान्तवर्गः ॥} ;k{अव्ययवर्गप्रकाशः} अः स्यात्कृष्णे आ विधौ स्याद् इः कामे ईः श्रियामपि । उः शिवे ऊ विधौ ऋः स्याद्देवमातरि ऋर्दिवि ॥ लृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे । ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥ ;p{0300} ;v{नानार्थवर्गः} अथाव्ययनानार्थाश्च कियन्तः कथिता परे । ;vv{अ} अ अभावे निषेधाल्पार्थानुकम्येषु दृश्यते ॥ ;vv{आ} आ समुच्चयवाक्यानुकम्पाप्रगृह्यनिर्णये । ;vv{इ} इः स्यान्निष्ठुरवाग्भेदानुकम्पापाकृतिष्वपि ॥ ;vv{ई} ई विषादे समुत्त्रासे तथानुकम्पनेऽपि च । ;vv{उ} उ पादपूरणे रोषे सम्बोधनविषादयोः ॥ ;vv{ऊ} ऊ वाक्यारम्भरक्षाकम्पनेषु च कीर्त्यते । ;vv{ऋ} ऋ गर्हणे परिहासे वाक्ये वाक्यविकारके ॥ ;vv{ॠ} ॠ दम्भे भीतिसम्पाने निन्दायामूर्द्ध्वदर्शने । ;vv{ए} ए स्यात्सम्बोधनाह्वानस्मृत्यसूयानुकम्पने ॥ ;vv{ऐ} ऐ स्यात्सम्बोधनाह्वानस्मरणेष्वपि शोचने । ;vv{ओ} ओ आह्वानस्मरणयोः सम्बोधनानुकम्पयोः । ;vv{औ} औ निर्णये समाह्वाने सम्बोधननिरोधयोः । ;vv{क} क कुत्सायामीषदर्थे पापवारणयोरपि ॥ धिक् भर्त्सने च निन्दायां मनाक् स्यादल्पमन्दयोः । हिरुक् विनार्थे मध्यार्थेऽप्यमार्थे च दृश्यते ॥ ;vv{ग} अङ्ग सम्बोधनेऽसूयाहर्षसम्भ्रमभीतिषु । ;vv{ङ} आङ् क्रियायोगसीमेषदर्थाभिव्याप्तिषु स्मृतम् । ;vv{च} चात्योन्यार्थे समाहारेऽन्वाचये पादपूरणे । समुच्चये च निर्द्वन्द्वे पक्षान्तरेऽवधारणे । किञ्च पक्षान्तरारम्भसाकल्यपूर्वदूषणे । प्राक् पूर्वानन्तराग्रेषु प्रभावातीतयोरपि । दिग्देशकालभेदेषु क्रमप्राप्तावपि स्मृतम् । तिर्यक् तिरोऽर्थे वक्रार्थे विरुद्धार्थेऽपि दृश्यते । ननु च प्रश्नदुष्टोक्तयोः सम्यग्दृढप्रतिज्ञयोः ॥ ;vv{ञ} नञभावे निषेधे च स्वरूपार्थे व्यतिक्रमे । ईषदर्थे च सादृश्ये तद्विरुद्धतदर्थयोः ॥ सुष्ठु प्रशंसनेऽत्यर्थे दुष्ठु निन्दाप्रशंसयोः । अपष्ठु शोभनार्थे स्यान्निरवद्ये च तद्भवेत् ॥ ;vv{ण} अन्तरेण विनार्थे स्यान्मध्यार्थेऽपि क्वचिद्भवेत् । ;vv{त} तु पादपूरणे भेदे समुच्चयेऽवधारणे ॥ पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे । अस्तु प्रकर्षे पीडायां प्रशंसायाञ्च लङ्घने । ;p{0301} असम्प्रत्यभ्यनुज्ञानेऽधिक्षेपासूययोरपि । इति प्रकरणे हेतौ परकृत्यनुकर्षयोः ॥ निदर्शनसमाप्त्योश्च प्रकारे च प्रकाशने । उत प्रश्ने वितर्के च विकल्पे पादपूरणे ॥ उत्प्रश्नात्यर्थतर्केषु सन्देहेऽपि च कुत्रचित् । चित्पक्षान्तरसाकल्यप्रशंसाकुत्सितेषु च ॥ जात्वसम्भावितार्थे च गर्हा कदाचिदर्थयोः । निद्विकल्पे निषेधे च प्रतिज्ञालङ्घनेऽपि च । प्रति प्रतिनिधौ वीप्सेत्थम्भूताख्यानलक्षणे । प्रतिदाने चाभिमुख्ये स्वभावमात्रयोरपि । हन्त हर्षार्त्तिवादेषु वाक्यारम्भे च सम्भ्रमे । पश्यत स्यात्प्रशंसायां विस्मयाक्षेपभाषणे । बत हर्षामन्त्रणयोः खेदानुक्रोशविस्मये । स्वस्ति स्यान्मङ्गलाशसापुण्यसन्तोषणेषु च ॥ अस्ति सम्भाषणे सत्ये विद्यमानेऽन्तिकेऽपि च । स्वित्पादपूरणे तर्के दूषणाख्यानयोरपि ॥ आराद्दूरे समीपे च तथाभ्यन्तरगाढयोः । स्यात्कच्चिन्मङ्गले प्रश्ने हर्षे कामप्रवेदने । पश्चात्प्रतीच्याञ्चरमे त्वधिकारे च दृश्यते । यदुत्प्रश्ने वितर्के च प्रकारार्थोपमानयोः ॥ यावत्तावत्प्रशंसायां साकल्ये चावधारणे ॥ अधिकारपरिच्छेदमानपक्षान्तरेषु च ॥ शश्वत्सदार्थे कल्याणे पुनरर्थभृशार्थयोः ॥ अनु प्रश्ने पुराकल्पे परिवेदनचिन्तयोः । सकृत्स्यादेकवारार्थे सहार्थपुनरर्थयोः ॥ अहो बतानुकम्पायां खेदे सम्बोधनेऽपि च । पुरस्तात्प्रथमेऽवाच्यामग्रे चाल्पपुरार्थयोः ॥ ;vv{थ} अथो अथ समारम्भे सत्ये कल्याणकार्स्त्थयोः । विकल्पानन्तरप्रश्नेष्वधिकारे समुच्चये ॥ तथाङ्गीकारसदृशप्रतिवाक्यसमुच्चये ॥ यथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने । अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते । ;p{0302} ;vv{द} तदप्रकाशे विभागे च शक्तौ प्राधान्यबन्धयोः । भावे मोक्षे च लाभे च स्यादाबद्धोर्द्ध्वकर्मणोः (?) । यद्गर्हायामधृतौ च हेतावपि निगद्यते । यदि स्यात्तु विगर्हायां विकल्पे विस्मयेपि च । ;vv{ध} अधि स्यादधिके वीर्येऽधिकारेश्वरयोरपि । ;vv{न} न निषेधे तूपमायां शिरश्चालन इत्यपि । नि सामीप्ये निवेशेऽतिशये दाने च संशये । नित्यार्थे कोशले क्षेपे बन्धेऽन्तर्भावमोक्षयोः । आश्रये राश्यधोभावविन्यासोयरमेष्वपि । नु प्रश्नातीततर्कानुनयोपमानहेतुषु ॥ अनु लक्षणसादृश्यपश्चादर्थेष्वनुक्रमे । वीप्सा सहार्थभागार्थभूतेष्वाख्यासमीपयोः ॥ इनायासपराक्रान्ते किन्नु प्रश्नवितर्कयोः । चन पक्षान्तरे कार्त्स्न्ये विस्मये च निगद्यते ॥ ननु प्रश्ने परकृतावधिकारे विनिग्रहे । सम्भ्रमानुनयानुज्ञागमन्त्रणेषु . . . ॥ नानाविनार्थानेकार्थोभयार्थेषु च दृश्यते । स्थाने योग्ये कारणार्थे सादृश्यसत्ययोरपि ॥ ;vv{प} अप चौर्ये च निर्देशे विकृतौ च विपर्यये । विनियोगे वर्जनार्थे हर्षापकृष्टयोरपि । अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । कामचारक्रियायुक्तपदार्थे च निगद्यते । उप दाक्षिण्यसामर्थ्यहीवात्मय . . . । अधिकार्थे समीपे च दाषाख्याननिदर्शने । आश्चर्यकरणे दाने मारणे व्याप्तिलिप्सयोः । उपमारम्भपूजासु भवेदुद्योग इत्यपि । ;vv{ब} व स्यादेकार्थे श्रेष्ठार्थे वरुणार्थे त्वनव्ययम् । वा स्यात्समुच्चयैवार्थविकल्पार्थोपमासु च ॥ वि स्याद्विगतनानार्थश्रेष्ठार्थेषु समुच्चये । वै पादपूरणे सत्यानुनयामन्त्रणेषु च ॥ ;vv{भ} अभीत्थम्भूतवीप्साभिमुख्याभिलाषसन्धिषु । ;vv{म} मा विकल्पे वारणे स्यात्स्मातीते पादपूरणे । मा स्म स्यान्मङ्गले तथ्ये वारणेऽन्यकृतावपि । अमासहार्थे रश्म्यर्थे निकरार्थे रसार्थके । ;p{0303} अज्ञाते विस्मये स्मृत्यामुद्यमार्थे निगद्यते । उं प्रश्ने चाभ्युपगमे क्रोधे च कोपगर्जिते । ऊं पृच्छायामपक्रोशे रोषोक्तौ दम्भभाषिते । उमङ्गीकारकल्याणप्रणवोपक्रताह्वये ॥ कं पादपूरणे नीरे मस्तके मङ्गले सुखे । किं निषेधे वितर्के च सन्देहे प्रश्नकृत्स्न्योः ॥ किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते । सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः । हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने । एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके । अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः । कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च । परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः । अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि । तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि । भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । ;vv{य} अयि सम्बोधने सानुनयप्रश्नानुरागयोः । अये विषादे क्रोधे च स्मृतौ सम्बोधनेऽपि च । पश्य प्रशंसास्मययोर्दिष्ट्या मङ्गलहर्षयोः । समया निकटे मध्ये कालविज्ञायनेऽपि च । ;vv{र} प्र प्रकर्षे गताद्यर्थे अरे सम्बोधने क्रुधि । उर्य्युरी चोररी च स्याद्विस्तारेऽङ्गीकृतावपि । दुर्निषेधे च दुःखे च निर्निषेधे च निश्चये । ;p{0304} परि स्यात्सर्वतीभावभागवर्जनदूषणे । व्याप्ति वीप्सालक्षणेत्थम्भूतदोषप्रकाशने ॥ आलिङ्गने निरसने पूजा सन्तोषभाषणे । परा प्राधान्यमोक्षाभिमुख्यविक्रमहर्षणे । प्रातिलोम्ये भृशार्थे च तथा गतिवधार्थयोः । पुरा पुराणे निकटे प्रबन्धातीतभाविषु । स्वराकाशे शोभने च स्वर्गेऽपि च भावान्तरे ॥ अन्तरङ्गीकृतौ मध्ये व्यवधानेऽपि दृश्यते । अन्तरा तु विनार्थे स्यात्समीपमध्योरपि । प्रादुः प्राकाश्यसम्भाव्यवृत्तिष्वपि निगद्यते । पुनरप्रथमे भेदे पक्षान्तराधिकारयोः । ;vv{ल} किल सम्भाव्यवार्त्तानुनयनिश्चिततुष्टिषु । खलु निश्चितजिज्ञासापदवाक्यादिपूरणे । हेतावसहने गत्यां विशेषे च निगद्यते ॥ ;vv{व} अव व्याप्तावीषदर्थवियोगालम्भशुद्धिषु ॥ विज्ञाने स्यात्परिभवे पालनेऽपि निगद्यते । एवोपमा नियोगावधारणे वाक्यपूरणे ॥ ;vv{ष} ऊषा रात्रौ च रात्र्यन्ते दोषा रात्रौ निशामुखे । मंक्षु शीघ्रातिशययोर्निकर्षान्तिकमध्ययोः । ;vv{स} सु भृशार्थे चानुमतौ समृद्धिपूजयोरपि । आः पीडायां स्मृतौ कोपे साटोपतर्जनेऽपि च । इः कोपेऽपि च सन्तापे दुःखभावनयोरपि । निः साकल्ये चोभयार्थे निषेधे निश्चयेऽपि च । दुः गतौ दूषणेऽपि स्याल्लज्जासम्भावनेऽपि च ॥ भोः स्यात्सम्बोधने प्रश्ने विषादेऽपि निगद्यते । अञ्जसा च द्रुते तत्त्वे निरस्त्वर्द्धिवक्रयोः । नीचैः स्वच्छन्दाल्पयोः स्यात्पुरश्च प्रथमाग्रयोः । पूर्वेद्युः प्रातःसमये धर्मादौ पूर्ववासरे । पतस्ततः प्रभृतयस्तूहनीयाः प्रयोगताः ॥ ;vv{ह} ह पादपूरणे कुत्सानियोगक्षेपनिग्रहे । हा विषादे शोककुत्सादुःखार्थेषु निगद्यते । हि सम्भ्रमासूययोः स्यात्पादपूरणशोकयोः ॥ ही विस्मये विषादे च दुःखहेतुशुचोरपि । हे च सम्बोधनाह्वानासूयादम्भादरेषु च ॥ ;p{0305} रे हौ च द्वयमेतत्तु हे शब्दार्थे निगद्यते ॥ अह कोपे प्रशंसायां नियोगे च विनिग्रहे । अहो धिगर्थे शोके च करुणार्थविषादयोः । सम्बोधने प्रशंसायामाश्चर्ये पादपूरणे । असूयायां वितर्के च खेदाख्याने निगद्यते ॥ अहहाक्षेपनिर्वेदनियोगाद्भुतदर्शने । आह क्षेपे नियोगे च दृढसम्भाषणेऽपि च ॥ आहो प्रश्ने विचारे च उताह प्रश्नचिन्तयोः । सह साकल्य-सामर्थ्य-विद्यमान-समृद्धिषु । सम्बन्धे यौगपद्ये च साहाय्ये च निगद्यते । हीही हास्ये विस्मये च हेहै सम्बोधनाख्ययोः ॥ हं सम्बोधने च दर्पे च दम्भप्रश्ने च कीर्त्यते । अहह स्यात्परिक्लेशखेदेऽद्भुतप्रहर्षयोः । ;c{इत्यनेकार्थवर्गः ॥} ;v{एकार्थवर्गः} अथ चिरं चिरेण स्याच्चिराय चिरतश्चिरात् । चिरस्य चिररात्राय दीर्घकालार्थका इमे ॥ वारंवारं मुहुः शश्वदसकृच्च पुनः पुनः । वारं वारेण वा भीक्ष्ण्यं पौनःपुन्यं प्रतीक्षणम् ॥ स्यात्सपद्यञ्जसाह्नाय मङ्क्षुद्राक्झटिति द्रुते । अत्यर्थे बलवत्सुष्ठु किमुतातिस्वतीव च ॥ नाना विनाऽन्तरेणार्ते हिरुक् पृथक् च बद्धने । अन्तरेण च मध्यार्थे हिरुक् सामीप्यमध्ययोः ॥ असाकल्ये चिच्चन स्याद्धेतौ यत्तद् यतस्ततः । कदाचिज्जात्पनित्ये स्याद् व्यर्थार्थे तु मृषा वृथा ॥ सहार्थे तु सजूः साकं सत्रं सार्द्धं समं सह ॥ नम्रानुकूलयोः प्राध्वं भवेदतिसुपूजने ॥ तु हि च स्म हवै षट्कं श्लोकानां पादपूरणे । अहो आहो उताहो किं किमुत च वितर्कणे ॥ दोषा नक्तं रजन्यां स्यादहनीत्यर्थे भवेद्दिवा । हं हो रे रेऽङ्ग पाट्प्याट् हे है भोः सम्बोधवाचकाः ॥ तिरः साचि तिर्यगर्थेऽभीक्ष्यां शश्वन्निरन्तरे । सामीप्ये चैव मध्यार्थे समया निकषा हि रुक् ॥ अकस्मात्सहसा चेतिद्वयमेतदर्किते । ;p{0306} पुरः पुराग्रे पुरतोऽग्रताद्यसमक्षयोः ॥ स्वाहा स्वधा वषट् वौषट् श्रोषट् दावे दिवौकसाम् । मनाक् किञ्चिदीषदल्पे स्यादहो ही च विस्मये । जन्मान्तरेऽपि च प्रेत्यामुत्र चेति द्वयं भवेत् । साम्ये यथा तथा चैवं वद्वा स्यादेव चेत्यपि । स्थाने च साम्प्रतं युक्ते सद्यः सपदि तत्क्षणे । शं जोषमुपजोषञ्च शुभं दिष्ट्याभिनन्दने । भवेन्मध्ये च त्रितयं अन्तरेणान्तरान्तरे । प्रसह्य तु बलात्कारे भवेत्पक्षान्तरे यदि । निषेधे मास्म मालं स्यादभावे नह्यनो नना । अद्धाऽञ्जसा च सत्ये स्यात्प्रासाद्धवाचिः (?) प्रकाशिते ॥ ओमभ्युपगमे प्रोक्तं परमं परमित्यपि । कच्चिदिच्छासमाख्याने प्रागतीतार्थकं भवेत् ॥ असत्ये तु मृषा मिथ्या यथार्थन्तु यथायथम् । दुःषमं निःषमं गर्ह्ये अवश्यं न्यूनन्तु निश्चिते । पुनरेव तु वै वो च षट्कं स्यादवधारणे ॥ आत्मनार्थे स्वयं . . .संवसेऽर्वागधरेऽपि च । आमेवं स्यादवगतौ नीचैरल्पेऽद्रुते शनैः । प्रायो भूम्नि महत्युच्चैरहे वीर्येऽपि सान्त्वने ॥ उं प्रश्ने च रोषोक्तावूं सदा नित्ये नतौ नमः । हूं तर्के विद्यमावेऽस्ति स्मातीते विकषान्तिके ॥ पुनरर्थेऽङ्गरात्र्यन्ते स्यादुषांस्तमदर्शने । सायं साये प्रशंसायां सुष्ठु स्यात् दुष्ठु निन्दिते ॥ प्रगे प्रातः प्रभाते स्यात् त्वन्मदर्थेऽसि चास्मि च । पूर्वे वर्षे परुत् पूर्वतरे वर्षे परारि च ॥ अस्मिन् वर्षे ऐषमः स्यादस्मिन्नहनि अद्यवैः । एवं पूर्वेह्नि पूर्वेद्युरुत्तरेद्युस्तथोत्तरे ॥ अपरस्मिन्नपरेद्युरधरेद्युश्च तादृशः । अन्यस्मिन्नह्नि चान्येद्युरेवमन्यतरेद्यवि । तथाचान्यतरेद्युः स्यादितरेद्युश्च तादृशः । उभयद्युश्चोभयेद्युः परेऽहनि परेद्यवि । अतीते हयो भाविनि श्वः परश्वः श्वः परेदिने ॥ इत्थमेतर्हि युगपत्कथं सम्प्रति साम्प्रतम् । इदानीमधुना क्वेह कदा सर्वत्र सर्वदा ॥ ;p{0307} सदा तदा तदानीञ्च किन्तरां किन्तमामिति । पूर्वादौ प्रागुदक्प्रत्यक् ज्ञेया दिग्वेशकालतः ॥ प्रथमा सप्तमी पञ्चभ्यन्तादिलोपतः... । तथाच पूर्वाधरयोस्तातौ च पुराधावपि ॥ स्यात्पुरस्तादधस्ताच्च रिष्टातिरूर्द्धशब्दतः । एतस्मिन्नुपभावे स्याद् उपरिष्टादुदाहृतम् ॥ भवेदपितु किन्वर्थेऽणहात्युच्चैरिति स्मृतम् । अरे विकारसम्बोधे अररे त्वरयान्विते ॥ अथ किं स्यादनुमतौ स्नेहेतु वापु-वापुरे । अले पिशाचीभाषायाम् अलेले अललेऽपि ॥ विभाषान्यतरस्यां वा विकल्पे तु विभाषया । कटरे पूतने स्नेहे नववीकव(?)चनार्थकम् ॥ ते त्वया मे मया चेति अस्यार्थेऽस्मिन् उदं त्रिषु (?) ॥ ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्याम् अव्ययवर्गप्रकाशः ॥} ;p{0308} ;k{स्त्रीलिङ्गसङ्ग्रहः} शर्ववर्म-वररुचि-दुर्गसिंहोक्तशास्त्रतः । सनाद्यन्तर्गतैः कृद्भिः क्रान्ताद्यैश्च समासजैः ॥ तद्धितैः प्रत्ययैरत्र लिङ्गं सङ्कीर्णवद्वदेत् । कृत्तद्धिताद्यविषयो लिङ्गशेषो भवेदिह ॥ तद्विधिर्व्यापकः स्वार्थे विशेषावाधितो यदि । तथा च स्वर्गपर्यायः पुरतः पुंसि वक्ष्यते ॥ विशेषे द्योदिवौ स्त्रीत्वे क्लीबे चापि त्रिपिष्टपम् । स्त्रियामेकस्वरेदूदन्ताः श्रीः ह्रीः भ्रूश्च भीरपि ॥ द्रूर्हिरण्ये च राक्षस्यां जूः पिशाचीपिशाचयोः । भ्रूः(?)स्याद्भयङ्करे इत्याद्यूदन्ताः कथिताश्च दिक् ॥ योनिमत्प्राणिनामपि स्त्रियां माता स्वसा वधूः । ननान्दा दुहिता धेनुर्योषिदित्याद्यश्च दिक् ॥ रात्रि लज्जा वाणी वीणा दिग्भूमिविद्युतामपि । धीवल्ल्योर्नाम रजनी रात्रिलज्जात्रपा च ह्रीः ॥ नदी सरित् शैवलिनी वाणी गीर्गोश्च वागपि । वीणा विपञ्ची दिक्ककुप् स्याद्भूर्भूमिरवणि क्षितिः ॥ विद्युत्तडिच्च धीर्बुद्धिर्वल्ली नीरुदियाः स्त्रियाम् । शिष्टप्रयोगात्पुंस्त्वे च लज्जायां व्रीड इत्यपि ॥ पूलादिभिः सहादन्तैरेकार्थोपि द्विगुः स्त्रियाम् । समासान्तैरदन्तैश्च न च पात्रयुगादिभिः । पञ्चपूली त्रिलोकी च त्र्यक्षरी च षडक्षरी । द्विपुरी त्रिपुरी चैव द्विधुरी त्रिधुरीत्यपि ॥ अदन्तान्यद्विगौ पञ्च कीलालपमिति स्मृतम् । पात्रादिप्रतिषेधेन द्विपात्रमिति पात्रवत् । दशगवं पञ्चगवं त्रिभुवनं चतुर्युगाम् ॥ दर्शनादर्शनाभ्याञ्च तथा पात्रयुगादिषु । पञ्चमूलं पञ्चमूली पञ्चवीजी त्रिरूपभाक् ॥ पञ्चबीजं पञ्चबीजा क्लीबे चानित्यता यदि । मतभेदप्रपञ्चोऽत्र वाहुल्यात्समुपेक्षितः ॥ भावे तल् प्रत्ययो गोता वृन्दे च ग्रामतादयः । बहुता स्याच्च गवता जनता च सहायता ॥ कर्माद्यर्थे च जडतादेवता स्वार्थ इत्यपि । एवं यः प्रत्ययो वृन्दे खलपाशतृणादितः ॥ खल्या पाश्या च तृण्या च नज्या च दर्शिता स्त्रियाम् । ;p{0309} स्यात्खलादिभ्य इनवृन्दे खलिनी समुदाहृता ॥ स्त्रियां ए प्रत्यये गोत्रा वरत्राद्या निपातनात् । वृन्दादन्यत्र दण्डी च मुख्य इत्यादयोऽन्यवत् ॥ वैरार्थे च विवाहार्थे द्वन्द्वे वुञ् प्रत्ययः स्त्रियाम् । अश्वश्च महिषश्चाश्वमहिषन्तु भवेदिह । तद्वैरेऽश्वमहिषिका तथैवाश्वशृगालिका ॥ तथैवाहिनकुलिका स्यात्कोकोलूकिकापि च । अत्रिश्च भारद्वाजी च तद्विवाहो भवेद्यदि । अत्रि भारद्वाजिका कुत्सुकुत्सकिकापि च । दण्डदाने च वीप्सायां संख्यादेर्तु मपि स्त्रियाम् । द्वे द्वे शते द्विशतिका द्वौ द्वौ पादौ द्विपादिका । एवं द्विमोदिका चेति दण्डदाने च कुत्रचित् । स्त्रीत्वविशिष्टभावे वा कारके प्रत्यया इमे । अनिर्णिर्ण च क्यपोऽयुरङ् वुञ् शइञ् च स्त्रियाम् ॥ अजीवनिरकरणिर्हानिर्लानिः स्तुतिः कृतिः । वात्यक्षी व्यवहारी च व्यावहासीत्यपि स्मृता ॥ सन्ध्या समस्या व्रज्या च कारणा च सनापि च । जरा धरा भिदा हारा पाठालेखा गुहादयः ॥ प्रच्छर्दिका च रोगेऽलमासिकासुखमासिका । चिकीर्षा पुत्रकाम्या च मीमांसा प्रमुखा अपि ॥ क्रिया चैव हि काङ्कारिरकार्षीरिति कथ्यते (?) । परेषां स्त्यधिकारे च वसिवस्यावसीञ् जे ॥ वासिर्वापि स्तथाजिः स्यादिति सद्भिः प्रयुज्यते । इच्छा जायाप्रभृतयो ज्ञातेः पुंरत्त्वं निपातनात् । भावमायोभ्यञ्च (?) ब्रह्मभूयञ्च न द्वयोः । भ्रूणहत्या ब्रह्महत्या भवे च शिष्टप्रयोगतः ॥ निरूवी स्यादयोन्यादौ स्त्रियां वेणिवेणिवत् ॥ श्रेणिः श्रोणिश्च धमनिवर्त्तनिस्तरणिस्तरौ । तनूर्जम्बूश्चमूरत्तर्दूः कर्कन्धूर्वाधिता द्वयोः ॥ तन्त्री रवीस्तरीर्लक्ष्मी र्वातप्रम्यपि वाधिता । श्रद्धाकारनदीकारावुङ्‌ स्त्रियान्तु चराचरे ॥ चरे शिवा च वनिता कन्दली कदलीति च । ब्रह्मवन्धूर्वीरबन्धूर्निन्दायामूङि तद्धिते ॥ अचरे खटरा(?) माला स्याञ्चा(?) ताडी च केतकी । ;p{0310} अलाबूरपि कर्कन्धूरप्राणिन्यूङपि क्वचित् । अथ मुष्टिः पल्लवं वा यस्यां प्रहरणं भवेत् । क्रीडायाणस्तद्धितोऽयं स्यान्यौष्टापाल्लवा स्त्रियाम् ॥ घञन्तो दण्डपातोऽस्यां फाल्गुण्यामणु तद्धितः । सा फाल्गुणी दण्डपाता हालपाता च भूरपि ॥ एवं मौषलपाता णौस्तिलं पाता स्वधा क्रिया । श्यैनं पाता च मूयालुः (?) स्यात् श्येनतिलयोरपि ॥ स्यात्तद्धितेऽपवादोऽयं त्रिलिङ्गत्वे स्त्रियामिह । क्वचिदल्पविवक्षायां मृणाल्यादिरपि स्त्रियाम् । मृणाल्यल्पं मृणालन्तु प्रणाली मुषली घटी । ह्रस्वो वंशस्तु वंशी स्यात्कुम्भीपाठी पटी नटी ॥ विषाणी वीरणीपूगी चज्जूरी च नदादिषु । पुटिकेन्मालिकाद्यास्तु स्त्रियामादादिषु स्मृता । लक्ष्मीर्वाणी भवानी रजनिजविरतिकान्तिसीता जुगुप्सा । चिन्ताऽसूयाविभूतिद्युतितरणिमतिक्षेपणीविष्टि पीडा । तन्त्रीस्तन्द्री विपञ्चिद्रुणिविपणिकृपावेदनामुक्तिविद्या । ज्योत्स्ना वेश्या कलावाक्सरणिविषहरीहूतिकाकूप्रपाश्च । ...वदितिकथादेवताद्योदिवौ च । ढक्काव्रीडावहित्थासुरभिकुमुदिनीपद्मिनीपूर्णिमाश्च । ताराश्रेणी च वीथीद्युतिरवनि नदीपुष्करिण्यम्बिकोम्रा । निद्राहेला च लीलायुवतिरनुमतिर्दिक्कुहुः पक्षतिश्च ॥ अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः । आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि । वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् । दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥ वेणी जयन्ती भूरुण्डीशिवमल्लीसहा जवा । गम्भारी बदरी जातीपाटला नवमालिका ॥ दूर्वा मूर्वा-शमीश्यामा कर्कन्धूश्च कटुम्भरा । मञ्जिष्ठा रोदनी गुञ्जा शृङ्गी नीली शतावरी ॥ अरण्यानी स्नुही शाखा शर्कराशल्लकीशटी । इङ्गदीपिच्छिला घोण्टा कुम्भीदार्वी वचा मिसी ॥ प्रियङ्गुः शिंशपामुस्तामलयूःशङ्खिनीसुरा । घुटिकाघातकीरास्नाताम्बूलीसुषवी बला ॥ शारिवा त्रिवृता द्राक्षा लाङ्गली काबरी स्थिरा । ;p{0311} कालाहरेणुः काकाङ्गीनादेयी बृहतीवरी ॥ सम्मार्जनी सोमराजीफञ्जिका कटकाजटा । जीवन्ती खदिरी मांसी चण्डा तुम्बी यमानिका ॥ कदम्बीशरणाछत्रा तृण्यानडया विचिका । परोष्णीगिरिकाकेकामक्षिका लक्षणा शिखा । जतुका वटका काञ्ची गायत्र्यामलकी तनूः ॥ याता माता स्वसा भार्या नारी नप्रीतिपादिका । दूती ननान्दा विधवा योनिः श्रोणिः सभा वृषी ॥ शुश्रूषाऽन्वेषणा कुम्भाव्रज्या चर्या कृषिर्लिपिः । पताका कतिका धूली रचनासन्ततिर्षृतिः ॥ वाहिनीशिञ्जिनीतूलीतिन्दुकीसारिकादकी । आहोपुरुषिका मूर्छा स्यादहपूर्विका सुरा ॥ वितण्डा काकिनी पिच्छाराजिका प्राचिका मिसी । किङ्किनी संहतिर्लाक्षा जीविका च मसीदवत् (?) । दूषिका पञ्जिका हिक्का मन्या लाला पिपीलिका । उल्काभङ्गिः सुरङ्गर्त्तिर्वृत्तिर्वर्त्तिः क्षुमा द्रुणु ॥ कङ्गर्गवेधुरासन्दी मोचिः सूचिर्गलन्तिका । गण्डूषा फर्फरी पारी वालद्याद्या(?) लनीवशा ॥ चूर्णिसातिकन्यानाडीभङ्गा च सिध्मला... । लिक्षा हसन्तीकुनटी गोलिमी लोचना. . . ॥ सन्धिः पञ्चालिका फेरेहद्दव्या (?) परेष्टुका । रातिः शाली तुलामस्त्रालट्टाहोरा च कर्तरी ॥ नाराची पादुका नद्ध्री शूर्म्मी मूषा च गृधसी । गण्डूषा कर्परी नीवी प्रतिमा च कुलत्थिका ॥ समांसमीना शालाञ्ची हरिद्रा दर्वी सिध्रका । तर्दूः स्रक् कणिका खल्ली मन्दुनी छर्दिरित्यपि । ;c{इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां स्त्रीलिङ्गसंग्रहः ॥} ;c{१६२६ शकाब्दा ॥} अरंजवो यदापात्सा दिल्लीतत्क्थे महायशाः । कार्त्तुलप् खाँ यदादेयान् बङ्गालायां प्रतापवान् ॥ नामका वेपितप्राणाः शुष्कजीवाप्रजास्तदा । सोनापातिलं आरम्भ्य गोडागच्छां समापिता ॥ ;c{सन् ११११ १६ इ श्रावण ।} ;c{श्रीविनोदवल्लभशर्मणः पुस्तकमिदम् ॥}