;METADATA ;title{शिवकोष} ;author{घासीलालजी महाराज} ;bookFullName{पूज्य जैनाचार्य श्री घासीलालजी महाराज विरचित श्रीशिवकोष} ;bookSeriesDetails{} ;editor{} ;editorQualifications{} ;publisher{पंडित करुणाशंकर वेणीराम पंड्या, काव्यतीर्थ, ठि० डो० गांधी की चाली, नं० ९२|१०, चमनपुरा, असारवा, अमदाबाद} ;pressDetails{श्रीरामानन्द प्रिन्टिंग प्रेस, कांकरिया रोड, अहमदाबाद-२२} ;publicationYear{1976 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Foundation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SKGL} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Acharya Shri KailasSagarsuri GyanMandir (http://kobatirth.org/) for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to digitize and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{never} ;version0.0.1{03 July 2019} ;version0.0.2{03 July 2019} ;version0.0.3{04 August 2019} ;version0.0.4{04 August 2019} ;version0.1.0{04 August 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;c{शिवकोषः} ;k{प्रथमः काण्डः} ;v{देववर्गः} ;c{देववर्गः ॥} ;vv{मङ्गलाचरणम्} ;p{0001} इन्द्रचन्द्रनरेन्द्राणां वन्द्यं वन्दे जिनेश्वरम् । ध्रौव्योत्पादव्ययाधारं शब्दलिङ्गावबुद्धये ॥ १ ॥ श्रीवर्धमानं च शिवस्वरूपं शिवप्रधानं शिवदं प्रणम्य । प्रयत्नतोऽहं व्रति घासीलालः करोमि कोषं च शिवाभिधानम् ॥ २ ॥ ;vv{परिभाषा} रूपभेदात् साहचर्यात् सुप्रसिद्धेरपि क्वचित् । क्वचिद् विशेषनाम्नैव लिङ्गमत्र निरूपितम् ॥ ३ ॥ त्रिष्विति स्यात् त्रिलिङ्गेषु द्विलिङ्गेषु द्वयोरिति । निषिद्धलिङ्गं सर्वत्र शिष्टस्पष्टावबुद्धये ॥ ४ ॥ द्वन्द्वाद्यभावो लिङ्गानां पार्थक्येन प्रतीयते । क्वचित्क्वचिद्यथायोगं बोद्धव्यः शुद्धबुद्धिभिः ॥ ५ ॥ तु शब्दान्तोऽथ शब्दादिः क्वापि पूर्वत्र नान्वितः । प्राय एकार्थकाः शब्दा एकत्रैव प्रपञ्चिताः ॥ ६ ॥ ;p{0002} जिननामानि २४ चतुर्विंशतिः} तीर्थङ्करो जिनेशोऽर्हन् केवली बोधिदो जिनः । स्वयंभूर्भगवान् शम्भुर्जगत्पति-रधीश्वरः ॥ ७ ॥ देवस्त्रिकालविच्चैव क्षीणकर्माऽथ पारगः । सर्वज्ञोऽभयदः सार्वः स्याद्वादी सर्वदर्शकः ॥ ८ ॥ आप्तस्तीर्थकरो देवाऽधिदेवः पुरुषोत्तमः । वीतरागः पुमांसोऽमी सर्वे ते जिनवाचकाः ॥ ९ ॥ ;vv{अतीति २४ चतुर्विंशतिः} अतीतोत्सर्पिणीकाले चतुर्विंशोऽर्हतां क्रमः । केवलज्ञानि निर्वाणि सागराश्च महायशाः ॥ १० ॥ विमलः सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सूतेजाश्च स्वामी च मुनिसुव्रतः ॥ ११ ॥ सुमतिश्च शिवगतिरस्ताधश्च नमीश्वरः । ;p{0003} अनिलो यशोधराख्यः कृतार्थश्व जिनेश्वरः ॥ १२ ॥ शुद्धमतिः शिवकरः स्यन्दनः संप्रतिस्तथा । ;vv{वर्तमान २४ चतुर्विंशतिः} एतस्यामवसर्पिण्यामृषभाऽजितसम्भवाः ॥ १३ ॥ अभिनन्दनश्च सुमतिः पद्मप्रभसुपार्श्वकौ । चन्द्रप्रभश्च सुविधिः शीतलश्च ततः परम् ॥ १४ ॥ श्रेयांसो वासुपूज्योऽथ विमलोऽनन्तनामकः । धर्मः शान्तिः कुन्थुऽररो मल्लिश्च मुनिसुव्रतः ॥ १५ ॥ नमिर्नेमिः पार्श्ववीरौ सर्वेऽप्येते जिनेश्वराः । ;vv{जिनानां नामान्तराणि} श्रेयांस इष्यते श्रेयान् अनन्तोऽनन्तजित्स्मृतः ॥ १६ ॥ सुविधिः पुष्पदन्तः स्याद् ऋषभो वृषभो मतः । सदृशस्त्येक एकस्य मुनिसुव्रत सुव्रतौ ॥ १७ ॥ अरिष्ठनेमिर्नेमि वा वीरश्चरमतीर्थकृत् । वर्द्धमानो महावीरो देवार्यो ज्ञातनन्दनः ॥ १८ ॥ ;p{0004} ;vv{एकादश गणधरनामानि} एकादश गणाधीशास्त्रयो गौतमगोत्रजा । इन्द्रभूत्यग्निभूतिः द्वौ वायुभूतिः क्रमादिमे ॥ १९ ॥ व्यक्तः सुधर्ममण्डितमौर्यपुत्रा अकम्पितः । अचलभ्रातृमेतार्यौ प्रभासोऽमी पृथक्कुलाः ॥ २० ॥ ;vv{श्रुतकेवलिनः षट् नामानि} चरमः केवली जम्बूस्वाम्यथ प्रभवः प्रभुः । शय्यम्भवयशोभद्रौ सम्भूतिविजयस्तथा ॥ २१ ॥ भद्रबाहुः स्थूलभद्रो श्रुतकेवलिनश्च षट् । ;p{0005} ;vv{दशपूर्विणः नामानि} महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः ॥ २२ ॥ ;vv{तीर्थंकरकुलानि} इक्ष्वाकुकुलसम्भूता स्याद् द्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवौ ॥ २३ ॥ ;vv{भविष्यत् चतुर्विंशति जिन नामानि} आगामिन्यां महापद्मः सूरदेवसुपार्श्वकौ । स्वयंप्रभश्च सर्वानुभूतिदेवश्रुतोदयाः ॥ २४ ॥ पेढालः पोट्टिलश्चोभौ शतकीर्तिश्च सुव्रतः । अममः सर्वभाववित् निष्कषायश्चतुर्दशः ॥ २५ ॥ निष्पुलाको निर्ममश्च चित्रगुप्तः समाधिकः । संवरोऽनिवृत्तिश्चैव विजयो विमलस्तथा ॥ २६ ॥ देवोपपातश्चानन्तविजयश्चान्तिमः स्मृतः । ;p{0006} ;vv{मुक्तेरेकादश नामानि} सिद्धालयश्च निर्याणं सिद्धिर्मोक्षोऽपवर्गकः ॥ २७ ॥ मुक्तिः कैवल्यं निर्वाणं श्रेयो निःश्रेयसाऽमृतम् । ;vv{बुद्धस्य चतुर्विंशति नामानि} समन्तभद्रः सर्वज्ञो धर्मराजो विनायकः ॥ २८ ॥ सुगतो लोकजिद्बुद्धोऽद्वयवादी जिनो मुनिः । षड्भिज्ञो मारजिच्च श्रीघनश्च तथागतः ॥ २९ ॥ बोधिसत्त्वो मुनीन्द्रश्च शास्ता दशबलस्तथा । यं शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिस्तथा ॥ ३० ॥ अर्कबन्धुर्गौतमश्च मायादेवीसुतो मतः । ;p{0007} ;v{सुरवर्गः} ;c{अथ सुरवर्गः प्रारभ्यते ।} ;vv{देवलोकस्य नव नामानि} देवलोकः स्वर्गनाकौ त्रिदिवस्त्रिदशालयः । क्लीबे त्रिविष्टपं स्त्रीत्वे द्यौदिवौ द्वे स्वरव्ययम् ॥ १ ॥ ;vv{देवानां चतुर्विंशति नामानि} देवोऽस्वप्नस्त्रिदशौ निर्जरो विबुधोऽमरः । अनिमेषी दिवौकाश्च सुपर्वा सुमनाः सुरः ॥ २ ॥ वृन्दारकाऽदितिसुतौ देवतं पुंनपुंसकम् । बर्हिमुखक्रतुभुजौ गीर्वाणो देवतास्त्रियाम् ॥ ३ ॥ आदित्यदिविषल्लेखा अमर्त्याऽमृतभोजनौ । दानवारिरिमे पुंसि लेखा देवे स्त्रियां मता ॥ ४ ॥ ;p{0008} ;vv{देवानां भेदप्रदर्शनम्} देवाश्चतुर्विधाः प्रोक्ता आद्या भवनवासिनः । वानव्यन्तरज्योतिष्काः पुनर्वैमानिका मताः ॥ ५ ॥ असुराद्या दशविधा देवा भवनवासिनः । व्यन्तराश्च पिशाचाद्या इमे षोडश संमता ॥ ६ ॥ पिशाचा भूत यक्षाश्च राक्षसाः किन्नरास्तथा । किंपुरुषा महोरगाः गन्धर्वा अप्रज्ञप्तिकाः ॥ ७ ॥ पंचप्रज्ञप्तिका ऋषिवादिनो भूतवादिनः । क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतगास्तथा ॥ ८ ॥ ;vv{ज्योतिष्कदेवानां पञ्चनामानि} ज्योतिष्काः पञ्चचन्द्रार्कग्रहनक्षत्रतारकाः । वैमानिकाः कल्पभवाः सौधर्मादिनिवासिनः ॥ ९ ॥ ;p{0009} ;vv{देवलोकस्य द्वादशभेदाः} सौधर्म ईशानसनत्कुमारा माहेन्द्रको ब्रह्मततश्च लान्तकः । शुक्रः सहस्रारक आनतश्च, ततः परं प्राणत आरणाच्युतौ ॥ १० ॥ ;vv{कल्पातीतदेवानां चतुर्दशभेदाः} ग्रैवेयका अनुत्तराः कल्पातीताश्चतुर्दशः । ;vv{इन्द्रस्यैकत्रिंशद् नामानि} इन्द्रस्तु मघवा शक्रः सुनासीरः पुरन्दरः ॥ ११ ॥ शतमन्युर्विडौजाश्च पुरुहूतो दिवस्पतिः । जिष्णुर्वज्री वृत्रहा च मरुत्वान् पाकशासनः ॥ १२ ॥ सक्रन्दनः सुरपतिर्गोत्रभिद् वासवो वृषा । सुरेश्वरो बलारातिः सहस्राक्षः शचीपतिः ॥ १३ ॥ हरिर्हरिहयो मेघवाहनो जम्भभेदनः । आखण्डलो देवराजः स्वाराड् देवेन्द्र इत्यपि ॥ १४ ॥ ;p{0010} ;vv{इन्द्रपरिवारस्य नामानि} पुत्रो जयन्त एतस्य प्रियेन्द्राणी शची मता । उच्चैःश्रवा घोटकश्च नगरी त्वमरावती ॥ १५ ॥ ऐरावतो गजः प्रोक्तः स ऐरावण उच्यते । सारथिर्मातलिः पर्षत् सुधर्मा नन्दनं वनम् ॥ १६ ॥ ;vv{कल्पवृक्षस्य पञ्चनामानि} पारिजातश्च सन्तानो मन्दारः कल्प इत्यपि । पञ्चैते देवतरवः पुंसि वा हरिचन्दनम् ॥ १७ ॥ ;p{0011} दम्भोलिर्वज्रमस्त्री स्याद् ह्रादिनी भिदुरं पविः । शतकोटिः स्वरुः शंबः कुलिशमशनिर्द्वयोः ॥ १८ ॥ ;vv{ब्रह्मणो अष्टाविंशतिनामानि} ब्रह्मात्मभूरब्योनिर्विधाता चतुराननः । परमेष्ठी सुरज्येष्ठः स्वयंभूः कमलासनः ॥ १९ ॥ वेधा विरिञ्चिर्लोकेशो विधिः स्रष्टा प्रजापतिः । विश्वसृट् सत्यको धाता सृष्टिकर्त्ता पितामहः ॥ २० ॥ नाभिजन्माण्डजो हंसवाहनः कमलोद्भवः । हिरण्यगर्भो द्रुहिणो रजोमूर्तिश्चतुर्मुखः ॥ २१ ॥ ;p{0012} ;vv{विष्णोः एकोनचत्वारिंशद् नामानि} हरिर्विष्णुर्हृषीकेशः केशवो गरुडध्वजः । गोविन्दो माधवः कृष्णः स्वभूर्दामोदरोऽच्युतः ॥ २२ ॥ नारायणश्चक्रपाणिः शौरिः श्रीशश्चतुर्भुजः । उपेन्द्रः पुण्डरीकाक्षो वासुदेवो जनार्दनः ॥ २३ ॥ त्रिविक्रमः पद्मनाभः श्रीपतिर्जगतीपतिः । देवकीनन्दनो विष्वक्सेनः श्रीवत्सलाञ्छनः ॥ २४ ॥ वनमाली बलिध्वंसी कंसारिर्विश्वनायकः । अधोक्षजो मधुरिपुर्मुकुन्दः पुरुषोत्तमः ॥ २५ ॥ विश्वरूपः कैटभजिद् मुरारिर्मधुसूदनः । ;vv{कृष्णपितुर्द्वे नाम्नी} जनको वसुदेवोऽस्य स एवाऽनकदुन्दुभिः ॥ २६ ॥ ;p{0013} ;vv{बलदेवस्य एकोनविंशति नामानि} स्याद् रामस्तु प्रलंबघ्नो बलदेवो हलायुधः । बलभद्रो रौहिणेयो बली नीलाम्बरो हली ॥ २७ ॥ रेवतीरमणः कामपालः संकर्षणः पुनः । कालिन्दीभेदनः सीरपाणिश्च मुसली तथा ॥ २८ ॥ बलरामो हलधरस्तालाङ्कश्चाऽच्युताग्रजः । ;vv{कामदेवस्य एकोनविंशतिर्नामानि} प्रद्युम्नो मदनो मारः कन्दर्पो मन्मथः स्मरः ॥ २९ ॥ अनङ्गो दर्पकः कामः पञ्चबाणो मनोभवः । कुसुमेषुः पुष्पधन्वा शम्बरारिरनन्यजः ॥ ३० ॥ आत्मभूर्मीनकेतुश्च रतीशो मकरध्वजः । ;p{0014} ;vv{लक्ष्म्या एकादश नामानि} रमा लक्ष्मीर्विष्णुकान्तापद्मापद्मालयास्तथा ॥ ३१ ॥ इन्दिरा कमला श्रीर्मा भार्गवी कमलासना । ;vv{गरुडस्य एकादश नामानि} कृष्णस्य वाहनस्तार्क्ष्यो गरुडः पन्नगाशनः ॥ ३२ ॥ नागान्तको वैनतेयो गरुत्मांश्च खगेश्वरः । पक्षिराजो विष्णुरथः सुपर्णो भोगिभोजनः ॥ ३३ ॥ ;vv{कृष्णस्य उपकरणनामानि} श्रीपतेः पाञ्चजन्यः स्याद् शंखश्चक्रं सुदर्शनम् । गदा कौमोदकी खड्गो नन्दकः कौस्तुभो मणिः ॥ ३४ ॥ ;p{0015} ;vv{महादेवस्याष्टचत्वारिंशत् नामानि} अथ शम्भुः शिवः शूली शर्व ईशो महेश्वरः । ईशानः शंकरश्चन्द्रशेखरो गिरिशो मृडः ॥ ३५ ॥ भूतेश ईश्वरः खण्डपरशुः प्रमथाधिपः । मृत्युंजयः पशुपतिः कृत्तिवासाः कपालभृत् ॥ ३६ ॥ उग्रः कपर्दी श्रीकण्ठः पिनाकी नीललोहितः । शितिकण्ठो महादेवो वामदेवस्त्रिलोचनः ॥ ३७ ॥ त्र्यम्बको धूर्जटिर्व्योमकेशः स्मरहरो हरः । गङ्गाधरो विरूपाक्षो भर्गश्च वृषभध्वजः ॥ ३८ ॥ भूतनाथो भवो भीमो बुध्न्यः स्थाणुरुमापतिः । रुद्रो गिरिशोऽष्टमूर्तिर्नीलकण्ठो जटाधरः ॥ ३९ ॥ जटाजूटः कपर्दोऽस्य पिनाकोऽजगवं धनुः । पार्षदाः प्रमथाः प्रोक्ताः कैलासः स्थानमव्ययम् ॥ ४० ॥ ;p{0016} ;vv{पार्वत्याः षड्विंशति नामानि} अथाऽस्य भार्या रुद्राणी भवानी सर्वमङ्गला । गौरी कात्यायनी काली शर्वाणी चण्डिकाऽम्बिका ॥ ४१ ॥ मृडानी पार्वती चण्डी श्यामा हैमवतीश्वरी । उमा माहेश्वरी तारा भद्रकाली च भैरवी ॥ ४२ ॥ चामुण्डी गिरिजा दुर्गा सत्याऽऽर्या भुवनेश्वरी । ;vv{कार्तिकेयस्य चतुर्दश नामानि} अथाऽस्य तनयः स्कन्दः कार्तिकेयः षडाननः ॥ ४३ ॥ पार्वतीनन्दनः क्रौञ्चदारणः शिखिवाहनः । षाण्मातुरो महासेनः शरजन्मा गुहोऽग्निभूः ॥ ४४ ॥ तारकारिः शक्तिधरः कुमारो- ;vv{गणेशस्य त्रयोदशनामानि} -ऽथ गणाधिपः । ;p{0017} विनायको विघ्नहरो विघ्नराजो गजाननः ॥ ४५ ॥ हेरम्ब एकदन्तश्च लम्बोदर उमात्मजः । द्वैमातुरो गणाध्यक्षो गणेशो गणनायकः ॥ ४६ ॥ ;vv{अग्नेः षड्विंशतिर्नामानि} स्यादग्निरनलो वह्निः कृष्णवर्त्मा हुताशनः । वैश्वानरो जातवेदा ज्वलनो हव्यवाहनः ॥ ४७ ॥ तनूनपादाश्रयाशः पावकश्च धनञ्जयः । कृपीटयोनिः सप्तर्चिः कृशानुश्चाशुशुक्षणिः ॥ ४८ ॥ विभावसुश्चित्रभानुर्हुतभुग् दहनः शुचिः । हिरण्यरेताः शुक्रश्च शिखी वायुसखः पुमान् ॥ ४९ ॥ ;p{0018} ;vv{वडवाग्निप्रभृतीनां नामानि} और्वो वाडवनामाग्निः सन्तापोऽग्नेऽस्तु संज्वरः । उल्का प्रशान्तज्वाला स्यादिङ्गालं दग्धमिन्धनम् ॥ ५० ॥ कीलज्वालौ द्वयोरर्चिः क्लीबे हेतिः शिखा स्त्रियाम् । दावो दवश्च वन्याग्निः स्फुलिङ्गोऽग्निकणस्त्रिषु ॥ ५१ ॥ रक्षा भूतिः स्त्रियां क्षारः पुमान् भसितभस्मनी । ;vv{यमस्य दश नामानि} प्रेतराड् यमराट् कालः कृतान्तः शमनो यमः ॥ ५२ ॥ ;p{0019} धर्मराजोऽन्तको वैवस्वतो दण्डधरस्तथा । ;vv{राक्षसस्य नव नामानि} क्रव्यात्तु राक्षसो रात्रिचरो रात्रिञ्चरोऽसुपः ॥ ५३ ॥ क्रव्यादः कौणपो यातुधानो रक्षो नपुंसकः । ;vv{वरुणस्य पञ्च नामानि} वरुणोऽप्पतिः प्रचेताश्च पाशी च यादसांपतिः ॥ ५४ ॥ ;vv{वायोः सप्तदशः, जलयुक्तयोः एकम्, उग्रवायोर्द्वे नामानि} मारुतः पवनो वातो मातरिश्वाऽनिलो मरुत् । सदागतिर्गन्धवहो गन्धवाहः समीरणः ॥ ५५ ॥ समीर आशुगो वायुर्जगत्प्राणः प्रभञ्जनः । नभस्वच्छ्वसनौ झंझा वातस्तु प्राप्तवर्षणः ॥ ५६ ॥ प्रकम्पनस्तूग्रवातोऽथाऽसौ शारीरिको यथा । ;p{0020} ;vv{प्राणवायोः पञ्च, वेगस्य पञ्च, शीघ्रस्यैकादश, निरन्तरस्य नवनामानि} व्यानः सर्वशरीरेऽन्तः प्राणोऽपानो गुदस्थले ॥ ५७ ॥ समानो नाभिदेशे स्यादुदानः कण्ठसंस्थितः । क्लीबे रंहस्तरः पुंसि जवो वेगो रयः स्यदः ॥ ५८ ॥ अथ शीघ्रमरं क्षिप्रं चपलं सत्वरं द्रुतम् । त्वरितं लघु तद्वत्स्यात्तूर्णमाश्च विलम्बितम् ॥ ५९ ॥ संतताऽविरताऽश्रान्तसतताऽनारताऽनिशम् । नित्याऽनवरताऽजस्त्रं नस्त्री नैव पुमान् क्वचित् ॥ ६० ॥ ;p{0021} ;vv{अतीशयस्य चतुर्दश नामानि} भरोऽतिशय एतौ द्वौ पुंस्युद्गाढं च निर्भरम् । अतिमात्रं नितान्तं च गाढबाढदृढानि च ॥ ६१ ॥ अत्यर्थमतिवेलं च भृशं तीव्रमुदाहृतम् । एकान्तमपि शीघ्रादि सत्वेनैव नपुंसकम् ॥ ६२ ॥ ;vv{वात्यायाः पञ्च नामानि} वात्या स्त्री वातुलो वातग्रन्थिस्तृणविघूर्णकः । वातुलो ह्रस्वमध्योऽपि क्षीरस्वामिमतं यथा ॥ ६३ ॥ ;vv{स्वर्गवेश्याया द्वे नामानि} उर्वश्याद्या दिवो वेश्या बहुत्वेऽप्सरसः स्त्रियाम् । बहुत्वेऽप्सरसो वादः प्राय आह पतञ्जलिः ॥ ६४ ॥ ;p{0022} ;vv{देवगायकानां ‘हाहा हूहू’ इत्यादीनि नामानि} गन्धर्वा ये च हाहाद्याः सर्वे ते देवगायकाः । ;vv{विश्वकर्मणश्चत्वारि नामानि} विश्वकर्माऽथवा त्वष्टा विश्वकृद् देववर्धकिः ॥ ६५ ॥ ;vv{विमानस्य द्वे नारदस्य द्वे नामानि} विमानोऽस्त्री नभोयानं नारदः कलहप्रियः । ;vv{किन्नरस्य चत्वारि नामानि} किन्नरो यस्तुरङ्गाऽऽस्यो मयुः किंपुरुषश्च सः ॥ ६६ ॥ ;vv{कुबेरस्यैकादश नामानि} कुबेरो यक्षराजः स्याद् धनदश्च धनेश्वरः । गुह्यकेश्वरपौलस्त्यौ राजराड् विश्रवः सुतः ॥ ६७ ॥ किंपुरुषेश्वर ईशानसखश्च नरवाहनः । ;p{0023} ;vv{कुबेरस्य स्थानपुरीसुतविमानोद्यानानामेकैकम्} कैलासः स्थानमलका पूः सुतो नलकूबरः ॥ ६८ ॥ विमानं पुष्पकं चैत्ररथमुद्यानमुत्तमम् । ;vv{निधेः द्वे नाम्नी, तत्प्रभेदा नव} निधिस्तु शेवधिः पुंसि प्रभेदा नव कीर्तिताः ॥ ६९ ॥ तथाहि मकरः खर्वः शंखः पद्मश्च कच्छपः । महापद्मो मुकुन्दश्च कुन्दो नीलः क्रमादमी ॥ ७० ॥ ;c{इति सुरवर्गः समाप्तः ।} ;v{व्योमवर्गः} ;c{॥ अथ व्योमवर्गः प्रारभ्यते ॥} ;vv{आकाशस्योनविंशतिर्नामानि} अथ व्योम वियद् विष्णुपदं खं पुष्करं नभः । अन्तरीक्षाऽम्बराऽनन्तगगनानि नपुंसके ॥ १ ॥ अस्त्री विहाय आकाशोऽन्तरिक्षसुरवर्त्मनी । ;p{0024} तारापथो द्योदिवौ स्त्री मेघमार्गो विहायसः ॥ २ ॥ ;vv{मेघस्य त्रयोदश नामानि} धाराधरो जलधरो जीमूतो मुदिरोऽम्बुभृत् । जलमुग् धूमयोनिश्च वारिदश्च बलाहकः ॥ ३ ॥ वारिवाहो घनो मेघस्त्वभ्रमेव नपुंसकम् । ;vv{मेघमालाया द्वे विद्युतोऽष्टौ नामानि} कादम्बिनी मेघपङ्क्तिर्विद्युत्सौदामिनी तडित् ॥ ४ ॥ ह्लादिनी चञ्चला शम्पा चपला च क्षणप्रभा । ;p{0025} ;vv{मेघध्वनेश्चत्वारि नामानि} मेघध्वनिस्तु रसित-गर्जितस्तनितानि च ॥ ५ ॥ ;vv{१ वज्रघोषस्य द्वे, २ घनज्योते र्द्वे ३ करकाया द्वे, ४ दुर्दिनस्य द्वे ५ धारासंपातस्य द्वे ६ अम्बुकण्स्य द्वे, ७ इन्द्रधनुषो द्वे नाम्नी} वज्रघोषः स्फूर्जथुः स्याद् घनज्योतिरिरंमदः । वर्षोत्पलस्तु करका मेघाच्छन्नं तु दुर्दिनम् ॥ ६ ॥ धाराप्रपात आसारः शीकरोऽम्बुकणः पुमान् । इन्द्रधनुः शक्रचापे दृश्यते वार्दलोद्गमे ॥ ७ ॥ ;vv{अन्तर्धानस्य दश, चन्द्रस्य विंशतिः} पुंस्यन्तर्धिर्निलयने ह्यन्तर्धा व्यवधा स्त्रियाम् । पिधानमपिधानं च तिरोधानाऽपवारणे ॥ ८ ॥ निकोचनाऽऽच्छादने च चन्द्रस्त्विन्दुर्निशापतिः । सोमः सुधांशुः शुभ्रांशुर्हिमांशुश्चन्द्रमा विधुः ॥ ९ ॥ ;p{0026} शशी शशधरः शीतरश्मिः कुमुदबान्धवः । नक्षत्रेशो मृगाङ्को ग्लौरोषधीशः कलानिधिः ॥ १० ॥ क्षपाकरनिशानाथौ विंशतिः केवलं पुमान् । ;vv{सूर्यचन्द्रमण्डलस्य द्वे, चन्द्रकिरणानां षोडशांशस्यैकम् खण्डस्य चत्वारि} मण्डलं त्रिषु बिम्बोऽस्त्री षोडशांऽशः कला स्त्रियाम् ॥ ११ ॥ खण्डोऽस्त्री शकले भित्तं पुंस्यर्धोऽर्ध समांशके । ;vv{१ चन्द्रचन्द्रिकायाः पञ्च, २ प्रसन्नताया द्वे ३ चिह्नस्य षट् ४ शोभायाश्चत्वारि ५ अगस्त्यस्य चत्वारि ६ नक्षत्रस्य षट्, ७ मृगशिरसो द्वे} ;p{0027} चान्द्री स्याच्चन्द्रिका चन्द्रकला ज्योत्स्ना च कौमुदी ॥ १२ ॥ प्रसन्नता प्रसादः स्यात् लाञ्छनं लक्ष्मलक्षणम् । चिह्नमङ्कः कलङ्कश्च चत्वार्याहुर्नपुंसके ॥ १३ ॥ द्युतिः कान्तिश्छविः शोभा सुषमा तु महाद्युतिः । अगस्त्यो घटयोनिश्च मैत्रावरुणकुम्भजौ ॥ १४ ॥ उडु नक्षत्रमृक्षं भं तारा स्त्री तारका न ना । मृगशीर्षं मृगशिर आह गोपालितः स्त्रियाम् ॥ १५ ॥ ;vv{१ बृहस्पतेः पञ्च, २ शुक्रस्य षट्, ३ मङ्गलस्य चत्वारि, ४ त्रीणि बुधस्य, ५ त्रीणि शनेः, ६ राहोः पञ्च, ७ सूर्यत्रिंशन्नाम} जीवो गुरुः सुराचार्यो वाचस्पतिबृहस्पती । भार्गवो भृगुजः काव्यः शुक्रो दैत्यगुरुः कविः ॥ १६ ॥ मङ्गलोऽङ्गारको भौमः कुजो भूमिसुतस्तथा । रौहिणेयो बुधः सौम्यः शनिः शौरिः शनैश्चरः ॥ १७ ॥ ;p{0028} स्वर्भानुः सैंहिकेयोऽपि तमो राहुर्विधुन्तुदः । सूर्यः स्यादर्यमासुर आदित्यो भास्करो रविः ॥ १८ ॥ अर्को विभाकरो भास्वान् प्रभाकरदिवाकरौ । मार्तण्डो मिहिरो लोकचक्षुर्ग्रहपतिस्तथा ॥ १९ ॥ उष्णरश्मिश्च चण्डांशुः सप्ताश्वः पूषणोऽपि च । तरणिस्तपनः पूषा तमोहन्ता ह्यहर्पतिः ॥ २० ॥ विवस्वानंशुमान्भानुर्मित्रो द्युमणिरुष्णगुः । ;p{0029} ;vv{१ सूर्यतेजोमण्डलस्य द्वे २ सूर्यस्य पार्श्वचरा अष्टादश ३ सूर्यपत्न्या द्वे ४ उदयस्य द्वे ५ अस्तकालस्य द्वे ६ सूर्यस्य रथेश्चत्वारि} परिधिः परिवेषस्तु सूर्यमण्डलतः परे ॥ २१ ॥ रवेः पार्श्वचरा नित्यं माठराद्या उदाहृताः । सूर्यप्रिया तु छाया स्यात् समौस्त उदयोद्गमौ ॥ २२ ॥ अस्तंगतेऽर्थेऽस्तमनं तथाऽस्तमयनं द्वयम् । अनूरुररुणः सूरसूतश्च गरुडाऽग्रजः ॥ २३ ॥ ;vv{१ सूर्यकिरणानामेकादश २ प्रभाया एकादश ३ आतपस्य त्रीणि ४ ईषदुष्णस्य चत्वारि ५ अत्युष्णस्य त्रीणि ६ मृगतृष्णाया द्वे ७ राशयो द्वादश} मयूखांऽश्वस्रकिरणा गभस्तिघृणिरश्मयः । भानुःकरो मरीचिस्तु द्वयोः स्याद् दीधितिः स्त्रियाम् ॥ २४ ॥ भा भाः प्रभा रुचिस्त्विड्रुग्दीप्तयश्च द्युतिश्छविः । शोचिरोचिरमू क्लीबे प्रकाशो द्योत आतपः ॥ २५ ॥ ;p{0030} कवोष्णं कोष्णमन्दोष्णे कदुष्णं त्रिषु तद्वति । तथा तीक्ष्णं स्वरं तिग्मं मृगतृष्णा मरीचिका ॥ २६ ॥ मेषो वृषश्च मिथुनं कर्कः सिंहश्च कन्यका । तुला च वृश्चिको धन्वी मकरः कुम्भमीनकौ ॥ २७ ॥ ;vv{१ राशीनामुदयस्यैकम्, २ हिमस्य सप्त, ३ हिमसमूहस्य द्वे, ४ गुणे नपुंसकं शीतं तद्वदर्थाः सप्त ५ दिशायाः पञ्च ६ चतसृषु दिक्षु प्रत्येकदिशो द्वे द्वे नाम्नी ७ दिश्यं त्रिलिङ्गम्} राशीनामुदयो लग्नं द्वादश स्युः क्रमादमी । अवश्यायस्तुषारश्च नीहारस्तुहिनं हिमम् ॥ २८ ॥ ;p{0031} प्रालेयं मिहिका वाऽपि हिमानी हिमसंचयः । शीतं गुणे तदर्था ये सुषीमः शिशिरो जडः ॥ २९ ॥ तुषारशीतलौ शीतहिमौ तल्लिङ्गवाचकाः । स्त्रियां दिक्ककुभौ काष्ठा हरिदाशाऽथ तद्भिदाः ॥ ३० ॥ पश्चिमादि प्रतीची स्यादवाची दक्षिणा मता । पूर्वा प्राच्युत्तरोदीची शदिश्यं तु दिग्भवे त्रिषु ॥ ३१ ॥ पूर्वे भवतु प्राचीनमर्वाचीनं ततः परम् । अर्वाचीनमुदीचीनं भवार्थे सर्व एव ते ॥ ३२ ॥ ;p{0032} ;vv{१ अष्टौ तिर्यग्दिशां पतयः अष्ट, २ सूर्यादयोऽष्टौ पूर्वादिदिशां क्रमशो ग्रहाः, ३ दिशोर्मध्यस्यैकम् ४ मण्डलस्य द्वे ५ विदिशो द्वे} तिर्यग्दिशां तु पतय इन्द्रोऽग्निर्यम नैर्ऋतौ । वरुणो वायुयक्षेशावीशानश्च यथाक्रमम् ॥ ३३ ॥ सूर्यः शुक्रः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः । अष्टावेते क्रमाज्ज्ञेयाः पूर्वादीनां दिशां ग्रहाः ॥ ३४ ॥ अन्तरालं दिशोर्मध्यं चक्रवालं हि मण्डलम् । विदिक् स्त्रियां दिशोर्मध्येऽपदिशं क्लीबमव्ययम् ॥ ३५ ॥ ;c{व्योमवर्गः समाप्तः} ;p{0033} ;v{समयवर्गः} ;c{॥ अथ समयवर्गः प्रारभ्यते ॥} ;vv{१ समयस्य पञ्च २ तिथेर्द्वे ३ दिवसस्य पञ्च ४ प्रभातस्य पञ्च ५ सन्ध्याकालस्य पञ्च ६ एकं दिनाद्यन्तमध्यानाम्} समयः कालदिष्टौ चाऽनेहा च क्षण उच्यते । पक्षतिः प्रतिपत्स्त्रीत्वे तदाद्यास्तिथयोर्द्वयोः ॥ १ ॥ दिवसो वासरो घस्रः पुंसि क्लीबे दिनाहनी । प्रभातोऽहर्मुखं कल्यं प्रत्यूष ऊष इत्यपि ॥ २ ॥ सायं सन्ध्या दिनान्तश्च सायः पितृप्रसूरपि । त्रिधा विभक्ते दिवसे पूर्वाह्नः प्रथमस्ततः ॥ ३ ॥ ;p{0034} मध्याह्णो ह्यपराह्णोऽन्तस्त्रिसन्ध्यी न पुमान्भवेत् । शर्वरी क्षणदा रात्रिस्त्रियामा च क्षपा निशा ॥ ४ ॥ तमस्विनीविभावर्यौ यामिनी रजनी तमी । निशीथिनी तमिस्राऽपि तामसी तिमिरेऽधिके ॥ ५ ॥ चन्द्रस्य कलया युक्ता रात्रिर्ज्योत्स्नी निगद्यते । पूर्वाऽऽगामिदिनाभ्यां या युक्ता सा पक्षिणी निशा ॥ ६ ॥ गणरात्रं निशाबह्व्यः प्रदोषः क्षणदामुखम् । अर्धरात्रौ निशीथः स्याद् यामस्तु प्रहरः समौ ॥ ७ ॥ कः पर्वसन्धिः प्रतिपत् पञ्चदश्योर्यदन्तरम् । ;p{0035} राका च पूर्णिमा पौर्णमासी पूर्णे निशाकरे ॥ ८ ॥ कलया हीयमाने तु चन्द्रः सानुमतिः स्मृता । सूर्येन्दोः सङ्गमो दर्शोऽमावस्याऽप्यमामसी ॥ ९ ॥ अमावास्या सिनीवाली दृष्टेन्दुः कलया कुहूः । नष्टेन्दुः कृष्णशुक्लेषु पक्षान्तः पञ्चदश्यपि ॥ १० ॥ उपरागो ग्रहो राहुग्रस्ते चन्द्रे रवावपि । अजन्यमीतिरुत्पातो वह्न्युत्पात उपाहितः ॥ ११ ॥ स्यातां सहोक्तौ चन्द्रार्कौ पुष्पवन्तौ नचाऽन्यथा । उच्छवासेन च निश्वासे नैकेन प्राण उच्यते ॥ १२ ॥ ;p{0036} सप्तप्राणैर्भवेत्स्तोकः सप्तस्तोकैर्लवो लवैः । सप्तसप्ततिसंख्यावान् मुहूर्तस्त्रिंशता पुनः ॥ १३ ॥ मुहूर्तैश्च दिवारात्रिस्ताभ्यां च दशपंचभिः । पक्षः शुक्लोऽथ कृष्णश्च ताभ्यां मासः प्रकीर्तितः ॥ १४ ॥ द्वाभ्यां मार्गादिमासाभ्यामृतुस्तैरयनं त्रिभिः । दक्षिणोदग्गतार्कस्य ह्ययने द्वे तु वत्सरः ॥ १५ ॥ विषुवं विषुवद् यत्र समा रात्रिर्दिवा समम् । पुष्येण संयुता पौर्णमासी पौषी तया युतः ॥ १६ ॥ ;p{0037} पौषो माघादयोऽप्येवं तत्तन्नक्षत्रयोगतः । आग्रहायणिको मार्गोऽग्रयणं चाऽऽग्रहायणः ॥ १७ ॥ मार्गशीर्षः सहाः पौषे तैषो माघे तपा इति । फाल्गुनस्तु तपस्यः स्यात् चैत्रे तु चैत्रको मधुः ॥ १८ ॥ वैशाखो माधवो राधो ज्येष्ठ शुक्रः शुचिः पुमान् । आषाढः श्रावणो मासो नभाः श्रावणिको मतः ॥ १९ ॥ स्युर्नभस्यो भाद्रपदो भाद्रः प्रौष्ठपदोऽपि च । ;p{0038} अश्विनाऽश्वयुजौ तुल्यौ बाहुलोजौ तु कार्तिके ॥ २० ॥ हेमन्तशिशिरो न स्त्री वसन्तसुरभी समौ । ग्रीष्मो निदाघ उष्णश्च तपः प्रावृट् स्त्रियां स्मृता ॥ २१ ॥ भूम्नि वर्षाः शरत्स्त्रीत्वे ऋतवोऽमी प्रकीर्तिताः । हायनोऽब्दो वत्सरश्च संवत्सर इमेऽस्त्रियाम् ॥ २२ ॥ शरत् स्त्रियां समाश्चैव कल्प एभिः प्रवर्तते । संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त उच्यते ॥ २३ ॥ कालोऽवसर्पिणी नामोत्सर्पिणी सागरस्य यः । कोटीनां कोटयस्तासां विंशत्या स समाप्यते ॥ २४ ॥ षडराः पूर्वकालस्य विपरीताः परस्यते । कालचक्रमिदं लोको द्वादशैते विवर्तते ॥ २५ ॥ ;p{0039} पापे पङ्कं पुमान् पाप्मा कल्मषं किल्बिषं च तत् । कलुषं दुरितं चाऽघमेनो वृजिनदुष्कृते ॥ २६ ॥ स्याद्वृषः सुकृतं श्रेयः पुण्यं धर्मस्तु न स्त्रियाम् । प्रमोदाऽऽमोदहर्षाः स्युः प्रमदाऽऽनन्दसंमदाः ॥ २७ ॥ मुत्प्रीतिस्तः स्त्रियां क्लीबे शातं शर्म सुखे अपि । कल्याणं मङ्गलं भद्रं शुभं खः श्रेयसं शिवम् ॥ २८ ॥ कुशलं भवुकं भव्यं क्षेमं भविकमस्त्रियाम् । ;p{0040} शस्तं च त्रिषु द्रव्ये चेत् पुण्यं पापं सुखादिकम् ॥ २९ ॥ मतल्लिका प्रकाण्डं च तल्लजोद्घौ मचर्चिका । प्रशंसावचनान्येतान्ययस्तु सशुभो विधिः ॥ ३० ॥ यौवनादिरवस्था स्यात्प्रधानं प्रकृतिः स्मृताः । ;p{0041} क्षेत्रज्ञपुरुषावात्मा तमः सत्त्वं रजो गुणाः ॥ ३१ ॥ भाग्यं दिष्टं भागधेयं दैवं स्त्री नियतिर्विधिः । स्यान्निदानं मूलबीजं हेतुर्ना बीजकारणे ॥ ३२ ॥ उत्पत्तौ जननं जन्म जनुर्जनिसमुद्भवौ । शरीरी चेतनः प्राणी जन्तुर्जीवी च जन्मिनि ॥ ३३ ॥ हृदयं मानसं चित्तं हृन्मनः स्वान्तचेतसी । उक्तं कोषविदायत्तन्मयाप्यत्र प्रकीर्तितः ॥ ३४ ॥ ;p{0042} ;v{मतिवर्गः} ;c{॥ अथ मतिवर्गः प्रारभ्यते ॥} मतिर्धीर्धिषणा बुद्धिः शेमुषी चेतनाऽपि च । मनीषौत्पत्तिकी ज्ञेया ततो वैनयिकी मता ॥ १ ॥ कर्मजा सा तृतीया तु चतुर्थी पारिणामिकी । मनसः कर्मसङ्कल्पो मेधा तु धारणा धियः ॥ २ ॥ तर्कोऽध्याहर ऊहस्तु विचारे च विचारणा । संशयो विचिकित्सा स्त्री सन्देहः पुंसि कीर्तितः ॥ ३ ॥ अवधानं समाधानं द्वयमुक्तं नपुंसके । विमर्शो भावना चैव वासनापि निगद्यते ॥ ४ ॥ ;p{0043} मिथ्यादृष्टिरसच्छास्त्री निर्णयो निश्चयः पुमान् । उभौ सिद्धान्तराद्धान्तौ द्वेषो हि द्रोहचिन्तनम् ॥ ५ ॥ अतद्वस्तुनि तज्ज्ञाने भ्रान्तिर्मिथ्यामतिर्भ्रमः । अङ्गीकारेऽभ्युपगमः स्वीकारः स्वीकृतिस्तथा ॥ ६ ॥ मोक्षबुद्धिर्भवेज्ज्ञानं विज्ञानं शिल्पशास्त्रता । पुंसि मोक्षोपवर्गश्च स्त्रियां मुक्तिर्नपुंसके ॥ ७ ॥ निर्वाणाऽमृतकैवल्यश्रेयोनिःश्रेयसान्यपि । तिक्तः कटुः कषायोऽम्लो मधुरश्च रसा इमे ॥ ८ ॥ शब्दाद्या विषयाः पञ्च कर्णादीनीन्द्रियाण्यिमौ । ;p{0044} गन्धौ परिमलाऽऽमोदौ मर्दनोत्थमनोहरौ ॥ ९ ॥ इष्टगन्धस्तु सुरभिः सुगन्धिरपि गीयते । दुर्गन्धो पूतिगन्धस्तु विस्रं च मांसगन्धके ॥ १० ॥ अथ शुक्लोऽवदातश्च शुभ्रश्च धवलः सितः । श्वेतो गौरोऽवलक्षाश्चाऽर्जुनपाण्डरपाण्डवः ॥ ११ ॥ कापोतस्तु कपोताभः स्वल्पपीतस्तु धूसरः । कालेकृष्णाऽसितश्यामनीलश्यामलमेचकाः ॥ १२ ॥ हारिद्रः पीत आख्यातः पालाशे हरितो हरित् । ;p{0045} रक्ते लोहितशोणौ तु श्वेतरक्ते च पाटलः ॥ १३ ॥ पिञ्जरः पीतरक्तो यो बालसन्ध्याप्रभोऽरुणः । पिशङ्गपिङ्गकपिलकडाराः कद्रुपिङ्गलौ ॥ १४ ॥ कृष्णलोहितवर्णे तु पुमांसौ धुम्रधूमलौ । कर्बुरे चित्रकिर्मीरकल्माषशवलास्त्रिषु ॥ १५ ॥ गुणि लिङ्गा इमे प्रोक्ता गुणाः पुंसि तु केवलम् । ;c{॥ इति मतिवर्गः समाप्तः ॥} ;p{0046} ;v{वाणीवर्गः} ;c{अथ वाणीवर्गः प्रारभ्यते} वाणी गीर्भारती भाषा ब्राह्मी वाक् च सरस्वती । आगमो वाक्यमाप्तानां सूत्रं शास्त्रं प्रचक्षते ॥ १ ॥ लपितं भाषितं लोके वचनं वच उच्यते । कृतिः क्रिया प्रयत्नश्च वाक्यं तु सुप्तिङां चयः ॥ २ ॥ ऋक् स्त्रियां सामयजुषी श्रुतिर्वेदास्त्रयस्त्रयी । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दज्योतिषी ॥ ३ ॥ षडङ्गानि तु वेदस्य ओंकारः प्रणवः स्मृतः । ;p{0047} त्रयः स्वरा उदात्ताद्या इतिहासः पुरातनम् ॥ ४ ॥ आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा । पुराणं धर्मशास्त्राणि स्मृतयो धर्मसंहिता ॥ ५ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् ॥ ६ ॥ षडङ्गानि चतुर्वेदा मीमांसाऽऽन्वीक्षिकी तथा । पुराणं धर्मशास्त्रं च विद्या एताश्चतुर्दश ॥ ७ ॥ आचाराद्यागमा एकादशाङ्गानि जिनोदिताः । ;p{0048} औपपातिकमारभ्य द्वादशोपाङ्गकानि च ॥ ८ ॥ चत्वारि मूलसूत्राणि छेदान्यपि तथैव च । अन्त्यमावश्यकं प्राक्तं द्वात्रिंशत्ते प्रकीर्तिताः ॥ ९ ॥ आकाशगामिनी विद्या परकायप्रवेशिनी । रूपान्तरकरी नाम्नी चतुर्थी स्तम्भनी मता ॥ १० ॥ मोहिनी पञ्चमी षष्ठी स्वर्गसिद्धिकरी खलु । रौप्यसिद्धिकरी ख्याता रससिद्धिकरी तथा ॥ ११ ॥ दमनी नवमी ज्ञेया स्याद् वशीकरणी क्रमात् । भूतदमनी च नागदमनी द्वादशी मता ॥ १२ ॥ ;p{0049} सर्वसम्पत्करी चान्त्या शिवदाख्या चतुर्दशी । लोकलोकोत्तराः सिद्धा विद्याश्चैता श्चतुर्दश ॥ १३ ॥ प्रबन्धकल्पनायान्तु कथा साऽऽख्यायिका यदि । सत्यार्थेनोपलब्धा स्याद् गूढार्थे तु प्रहेलिका ॥ १४ ॥ ;p{0050} समासार्था समस्योक्ता संग्रहस्तु समाहृतिः । वार्ता प्रवृत्तिर्वृत्तान्त उदान्तोऽथ जनश्रुतिः ॥ १५ ॥ किंवदन्ती भवेत्सत्या वाऽसत्या निर्णयो नहि । आख्याऽऽह्वे अभिधानं च नामधेयं च नाम च ॥ १६ ॥ बहुकर्तृकमाह्वानं संहूतिरथ भूमिका । उपोद्घातो विरुद्धार्थो विवादः शपथः पुनः ॥ १७ ॥ ;p{0051} प्रतिज्ञावचने प्रोक्तः शास्त्रविद्भिः पुमानयम् । पृच्छा प्रश्नोऽनुयोगश्च प्रतिवाक्योत्तरे समे ॥ १८ ॥ घोषणोच्चैस्तु घोषो यः स्तुतिः स्तोत्रं स्तवो नुतिः । आम्रेडितं द्विरुक्तं च पुनः पुनरुदाहृतम् ॥ १९ ॥ परोक्षे निन्दनं लोके पृष्ठमासं नपुंसकम् । कुत्सा जुगुप्सा निन्दा स्त्री परिवादाऽपवादवत् ॥ २० ॥ आक्षेपो गर्हणायां स्यात् काकुः स्त्री विकृतिर्ध्वनेः । कठिनं च कठोरं च कर्कशं परुषं वचः ॥ २१ ॥ स्यात्सम्भाषणमालापः प्रलापोऽनर्थभाषणम् । ;p{0052} मिथ्यावागपलापः स्याद् विलापः परिवेदनम् ॥ २२ ॥ मिथ्यास्तुतौ चटुश्चाटु वाचिकं वचसाहृतम् । सूनृतं स्यात् प्रियं सत्यं सङ्गतं हृदयंगमम् ॥ २३ ॥ अवक्तव्यमवाच्यं स्याद्भणितं रतिकूजनम् । ग्राम्यमश्लीलवचनं वितथं त्वनृतं वचः ॥ २४ ॥ तथ्यं च सत्ये स्याद्ध्वाननिस्वाननिस्वनाः । स्वः स्वानः स्वनो नादो निनादनिनदौ ध्वनिः ॥ २५ ॥ आरवाऽरावसंरावविरावाः स्युश्चतुर्दश । ;p{0053} कोलाहलः कलकलः प्रतिश्रुत् स्त्री प्रतिध्वनौ ॥ २६ ॥ शिञ्जितं क्वाणनिक्वाणक्वणक्वणननिक्वणम् । भूषणानां ध्वनौ चाऽपि वीणायाः प्रक्वणादयः ॥ २७ ॥ गीतगाने विवक्षार्थबोधे चाऽऽलापको भवेत् । ;c{॥ इति वाणीवर्गः समाप्तः ॥} ;v{नृत्यवर्गः} ;c{॥ अथ नृत्यवर्गः प्रारभ्यते ॥} नाट्यं तु नटनं नृत्यं ताण्डवं नर्तनं च यत् । नाट्यं तौर्यत्रिकं नृत्यगीतवाद्यत्रयं त्विदम् ॥ १ ॥ ;p{0054} रङ्गः स्थानं तु नाट्यस्य पूर्वरङ्ग उपक्रमः । निषाद ऋषभश्चैव गान्धारः षड्जमध्यमौ ॥ २ ॥ धैवतः पञ्चमः सप्त स्वरास्तन्त्रीगता इमे । भरतादिमते रागाः षट् षडेषां च वल्लभाः ॥ ३ ॥ एकैकस्य च षट्त्रिंशद् रागिण्यो गुणिताश्च षट् । हिन्दोलकौशिकौ रागौ, रागौ भैरवदीपकौ ॥ ४ ॥ श्रीरागो मेघरागश्च रागः षट् नामतः क्रमात् । ;p{0055} केचिन्मालवमल्लारौ श्रीरागश्च वसन्तकः ॥ ५ ॥ हिन्दोलश्चाऽपि कर्नाट इति रागान् प्रचक्षते । उच्चैस्तारोऽथ गम्भीरे मन्द्रः स्यान्मधुरेऽस्फुटे ॥ ६ ॥ कलस्तस्मिन् कले सूक्ष्मे काकली स्वर ईर्यते । एकतालस्तु गीतस्य सामस्त्ये लयवाद्ययोः ॥ ७ ॥ विपञ्ची वल्लकी वीणा सप्तभिः परिवादिनी । तन्त्रीभिर्वाद्यवीणादि ततं स्यान्मुरजादिकम् ॥ ८ ॥ आनद्धं सुषिरं वेणुः कांस्यघण्टादिकं घनम् । वाद्यवादित्रतोद्यानि चतुर्णां नाम गीयते ॥ ९ ॥ ;p{0056} आङ्ग्याऽऽलिङ्ग्योर्ध्वकाभेदा मृदङ्गो मुरजः स्मृतः । आनकः पटहोऽस्त्री स्यात्कदाचित्पुंनपुंसकम् ॥ १० ॥ ढक्का स्त्रियां पुमान् ढोलः स्त्री भेरी पुंसि दुन्दुभिः । झर्झरो वाद्यभेदः स्याद् डमरुर्मड्डुडिण्डिभौ ॥ ११ ॥ लयः साम्ये भ्रकुंसश्च भ्रूकुंसश्च भ्रुकुंसकः । नर्तकः पुरुषः स्त्रीणां वेषधारी रसा नव ॥ १२ ॥ शृङ्गारकरुणाहास्याऽद्भुतरौद्रभयानकाः । बीभत्सवीरशान्ताश्च शृङ्गारः शुचिरुज्वलः ॥ १३ ॥ ;p{0057} अनुक्रोशाऽनुकम्पा च कारुण्यं करुणा कृपा । दया चाऽप्यथ हास्यं च हसो हासोऽथ विस्मयः ॥ १४ ॥ अद्भुताऽऽश्चर्यचित्राणि रौद्रमुग्रं भयानके । भीषणं दारुणं भीष्मं भीमं घोरं भयङ्करम् ॥ १५ ॥ भैरवं च प्रतीभयं त्रिष्वेते स्युश्चतुर्दश । त्रासाऽतङ्कौ भयं भीतिर्भीस्त्री क्लीबं तु साध्वसम् ॥ १६ ॥ मनोविकारे वैकृत्यं विकृतं विकृतिः स्त्रियाम् । गर्वे मानाऽभिमानाऽहङ्कारा दर्पमदौ स्मयः ॥ १७ ॥ अपलेपस्तिरस्कारोऽनादरश्चाऽवमानना । अपमानः परिभवस्तथाऽवज्ञाऽवलेहना ॥ १८ ॥ ;p{0058} ह्रीस्तु व्रीडा त्रपा लज्जा सैवाऽन्यस्मादपत्रपा । तितिक्षायां क्षमाक्षान्तिरभिध्या तु परस्पृहा ॥ १९ ॥ ईर्षा त्वीर्ष्या तितिक्षास्यादसूयाऽलीकदूषणम् । द्वेष वैरो विरोधेऽथ शोको मन्युः स्त्रियां तु शुक् ॥ २० ॥ पश्चात्तापोऽनुतापः स्याच्छीलं तु चरितेऽमले । क्रोधेऽमर्षस्तथा कोपो रोषो रुट् कृध् स्त्रियामुभे ॥ २१ ॥ ;p{0059} पुंसि प्रेमा तथा स्नेहः प्रेम हार्दे तु न द्वयोः । चित्तविभ्रान्तिरुन्मादः स्यादाधिर्मनसो व्यथा । कामे तर्षोऽभिलाषश्चाऽत्यभिलाषस्तु लालसा ॥ २२ ॥ वाञ्छा स्पृहेच्छा कांक्षेहा लिप्सा दोहो मनोरथः ॥ २३ ॥ तृडथोत्कलिकोत्कण्ठाऽऽध्यानं तूत्कण्ठया स्मृतिः । दम्भो व्याजश्छलं छद्मं कैतवं कपटोऽस्त्रियाम् ॥ २४ ॥ निकृतिः कुसृतिश्चापि शठतायां तु केचन । कुतुकं कौतुकं चित्रं कौतूहलकुतूहले ॥ २५ ॥ उत्साहोऽध्यवसायः स्यात्प्रमादोऽनवधानता । स्वेदे घर्मो निदाघश्चाऽवहित्थाऽऽकारगोपने ॥ २६ ॥ ;p{0060} मूर्च्छायां कश्मलं मोहः कल्पान्तः प्रलयो मतः । संवेगश्चैव निर्वेदो वैराग्यं तु नपुंसकम् ॥ २७ ॥ क्रदनं रोदने जम्भा जृम्भा जृम्भश्च जृम्भणे । स्वापः स्वप्नश्च निद्रायां शयनं च निगद्यते ॥ २८ ॥ असम्यक्त्वं विसंवादं समे स्खलनरिङ्गणे । तन्द्री तन्द्रा प्रमीला स्याद् भ्रुकुटिभ्रुकुटी समे ॥ २९ ॥ कम्पो वेपथुरुद्धर्षे तु क्षणो मह उत्सवः । स्वभावे प्रकृतिः स्त्री स्यान्निसर्गः पुंस्युदाहृतः ॥ ३० ॥ सन्तुष्टस्य च गुर्वादेः कृपादृष्टिः प्रसन्नता । ;c{॥ इति नृत्यवर्गः समाप्तः ॥} ;p{0061} ;v{पातालवर्गः} ;c{॥ अथ पातालवर्गः प्रारभ्यते ॥} पाताल स्यादधोलोको बलिसद्म रसातलम् । बिलं तु सुषिरं क्लीबं कुहरं विवरं स्मृतम् ॥ १ ॥ रोकं छिद्रं रन्ध्रमथ श्वभ्रे गर्ताऽऽवटावुभौ । ध्वान्ते तमिस्रं तिमिरमन्धकारोऽस्त्रियां तथा ॥ २ ॥ अल्पे ध्वान्तेऽवतमसं घोरेऽन्धतमसं तथा । सर्पस्तु भुजगो व्यालो द्विजिह्वोऽहिः सरीसृपः ॥ ३ ॥ चक्षुःश्रवा फणी काकोदरो भोगी भुजंगमः । पन्नगः कुण्डली चक्री भुजंगः पवनाशनः ॥ ४ ॥ ;p{0062} अशीविषो द्विरसनो लेलिहानश्च जिह्वगः । विलेशयो दन्तशूको गूढपदुरगोऽपि च ॥ ५ ॥ गोकर्णः कञ्चुकी कुम्भीनसो विषधरस्तथा । काद्रवेयास्तु नागा स्युः शेषोऽनन्तस्तदीश्वरः ॥ ६ ॥ तिलित्सगोनसौ तूल्यौ सर्पराजस्तु वासुकिः । अलगर्दो दराधरोऽजगरो वाहसः शयुः ॥ ७ ॥ स्याद् घोणो निर्विषः सर्पस्तुल्यौ घर्मणधावनौ । राजीलो डुण्डुभो मालुधानो मातुलपन्नगः ॥ ८ ॥ ;p{0063} शरीरमस्य भोगः स्याद् दंष्ट्रा त्वाशीः फणा स्फटा । विषं तु गरलं क्ष्वेडो विषभेदा इमेऽस्त्रियाम् ॥ ९ ॥ हलाहलः कालकूटः काकोलश्च प्रदीपनः । शौक्लिकेयो ब्रह्मपुत्रो वत्सनाभश्च दारदः ॥ १० ॥ कञ्चुकः स्यात्तु निर्मोक आहियं स्यात् त्रिलिङ्गकम् । व्यालग्राही जाङ्गुलिको विषवैद्याऽऽहितुण्डकौ ॥ ११ ॥ नरको निरयः किञ्च नारको दुर्गतिः स्त्रियाम् । तत्प्रभेदास्तु तपनो महारौरवरौरवौ ॥ १२ ॥ ;p{0064} कालसूत्रं च सङ्घातोऽवीचिर्जीवास्तु नारकाः । सिन्धुवैतरणी प्रेता यातना घोरवेदना ॥ १३ ॥ कष्टं प्रसूतिजं दुःखमाभीलं कृच्छ्रमित्यपि । पीडाबाधा व्यथैतेषां त्रिषु ज्ञेयं विशेष्यगम् ॥ १४ ॥ घर्मावंशा तृतीया तु शैला तुर्य्याऽञ्जना क्रमात् । रिष्टा षष्टी मघा माघवती नरकभूमयः ॥ १५ ॥ ;c{॥ इति पातालवर्गः समाप्तः ॥} ;p{0065} ;v{जलवर्गः} ;c{॥ अथ जलवर्गः प्रारभ्यते ॥} जलं स्यात्सलिलं वारि मेघपुष्पं दकं च कम् । पानीयमुदकं नीरं क्षीरं जीवनमम्बु च ॥ १ ॥ कीलालममृतं तोयं पाथोऽर्णोऽम्भश्च शंवरम् । क्लीबमापो बहुत्वे स्त्री पयो वाः पुष्करं वनम् ॥ २ ॥ नदी निर्झरिणी स्रोतस्वती द्वीपवती धुनी । तरङ्गिव्यापगा कूलंकषा शैवलिनी सरित् ॥ ३ ॥ सरस्वती स्रवन्ती च तटिनी ह्रदिनी तथा । निम्नगाऽमूः स्त्रियः सर्वा गङ्गा जह्नुसुताऽपि च ॥ ४ ॥ भागीरथी त्रिपथगा तथा विष्णुपदीति च । सूर्यात्मजा तु यमुना कालिन्दी शमनस्वसा ॥ ५ ॥ ;p{0066} सोमजा नर्मदा रेवा सैव मेकलकन्यका । करतोया सदानीरा चन्द्रभागा सरस्वती ॥ ६ ॥ शरावती वेत्रवती कावेर्याद्याः अनेकशः । ब्रह्मपुत्रो नदः शोणः कुल्योऽल्पा कृत्रिमा सरित् ॥ ७ ॥ समुद्र उदधिः सिन्धुरब्धिर्जलधिरर्णवः । सरस्वान् सागरः पारावारो रत्नाकरस्तथा ॥ ८ ॥ यादःपतिरुदन्वांश्च सरित्पतिरपांपतिः । भेदा लवणक्षीराऽऽज्यसुरेक्षुदधिवारयः ॥ ९ ॥ ;p{0067} तरङ्गभङ्गौ लहरी वीचिरूर्मिर्द्वयोर्मतः । जलभ्रमिः स्यादावर्तः कल्लोलोल्लौ महोर्मिषु ॥ १० ॥ विप्रुट् स्त्रियां पृषत्क्लीबे स्याद् बिन्दुः पृषतः पुमान् । पुटभेदो भ्रमः पुंसि चक्रं च जलनिर्गमे ॥ ११ ॥ स्यात् त्रिलिङ्गं तटं कूलं प्रतीरं तीररोधसी । परतीरं तु पारं स्यादवारमपरं तथा ॥ १२ ॥ सिन्धुमेले तु संभेदः प्रणाली जलपद्धतौ । अस्त्री द्वीपोऽन्तरीपं च जलाभ्यन्तस्तटे द्वयम् ॥ १३ ॥ सैकतं सिकतापुञ्जे द्वे सिक्ताऽसिकते स्त्रियौ । जलक्रमेण संजाते तटे पुलिनमीरितम् ॥ १४ ॥ ;p{0068} परीवाहो जलोच्छ्वासः प्रवृद्धजलनिर्गतौ । ह्रदोऽगाधजले पुंसि जलाधारो जलाशये ॥ १५ ॥ उदपानं स्त्रियां न स्यादन्धुः कूपः प्रहिः पुमान् । विदारको भवेत्कूपो गर्तेऽम्बुप्राप्तये कृतः ॥ १६ ॥ त्रिका तु नेमिः कूपस्य वीनाहो मुखबन्धनम् । देवखातमखातं स्यात्खातं पुष्करिणी स्त्रियाम् ॥ १७ ॥ पद्माकरस्तटाकोऽस्त्री तडागः सरसी सरः । कासारः पल्वले त्वल्पसरो वेशन्त इत्यपि ॥ १८ ॥ आधारो जलाधान्यालवाला वापोऽऽवालस्तु क्षुद्रजे । खेयं स्यात्परिखा वाप्यां दीर्घिका द्वे अमू स्त्रियाम् ॥ १९ ॥ ;p{0069} जलनील्यान्तु शैवालः वारिपर्णी तु कुम्भिका । सौगन्धिकं सिताम्भोजं कल्हारं यत् त्रिसन्ध्यकम् ॥ २० ॥ रक्तं तद् हल्लकं ज्ञेयं कमलेषु कुशेशयम् । पद्मारविन्दे नलिनं शतपत्रं स्त्रियं विना ॥ २१ ॥ सहस्रपत्रमम्भोजमब्जं राजीवमम्बुजम् । कञ्जं पङ्केरुहं पुण्डरीकं तामरसोत्पले ॥ २२ ॥ अम्भोरुहं सरसिजं सारसं सरसीरुहम् । रात्रीपद्मं कुवलयं कैरवं कुमुदं सिते ॥ २३ ॥ ;p{0070} नीले चेन्दीवरं कन्दस्त्वेषां शालूकमुच्यते । पद्ममूलं शिफाकन्दः करहाट उभौ पुमान् ॥ २४ ॥ नलिन्यां बिसिनी प्रोक्ता कुमुदिन्यां कुमुद्वती । नाला नालं स्त्रियां क्लीबे रक्तः कोकनदोऽम्बुजः ॥ २५ ॥ मृणालं च मृणाली स्त्री बिसे किञ्जल्ककेसरौ । वराटको बीजकोशे परागो रेणुरुच्यते ॥ २६ ॥ पङ्कोऽस्त्री कर्दमः शादो जम्बालश्च निषद्वरः । ;p{0071} नौतार्ये त्रिषु नाव्यं स्यात्तरणिर्नौर्स्तरिः स्त्रियाम् ॥ २७ ॥ पोतस्तु पुंसि वोहित्थं वहित्रं वहनं च तत् । स्रोतः स्वतोऽम्बुसरणे प्लवकोलौ तथोडुपः ॥ २८ ॥ काष्ठाऽम्बुवाहिनी द्रोणी गुणवृक्षस्तु कूपकः । अरित्रं केनिपातेऽथ नौदण्डे क्षेपणी स्त्रियाम् ॥ २९ ॥ आतराऽतितरौ स्यातां तरपण्येऽथ सेचनम् । सेकपात्रेऽथ नावोऽर्धेऽर्धनावं क्लीबलिङ्गकम् ॥ ३० ॥ नाविकः कर्णधारः स्यात्पोतवाहो नियामकः । पारगस्त्रिषु पारीणोऽवारपारीण इत्यपि ॥ ३१ ॥ ;p{0072} सांयात्रिको द्वयोर्नौका वणिक् पोतवणिक्च सः । अभ्रिः काष्ठस्य कुद्दाले प्रसन्नाऽच्छौतु निर्मलः ॥ ३२ ॥ समलः कलुषोऽनच्छ अविलश्चेत्यमी समाः । निम्नं गभीरगम्भीरे अगाधेऽस्ताद्य इत्यपि ॥ ३३ ॥ धीवरे दाशकैवर्तौ मत्स्याधानी कुवेणिका । मत्स्यवेधनयन्त्रे स्याद्बडिशं बडिशा स्त्रियाम् ॥ ३४ ॥ आनायो ना च जालं स्यान्मीने वैसारिणो झषः । पृथुरोमा च मत्स्यश्च विसारः शकली पुमान् ॥ ३५ ॥ ;p{0073} सहस्रदंष्ट्रपाठीनौ प्रौष्ठी तु शफरी द्वयोः । मद्गुरः शालराजीवौ शकुलस्तिमिरोहितौ ॥ ३६ ॥ झषास्तिमिङ्गिलोऽन्ये तु यादांसि जलजन्तवः । शङ्कुद्रशिशुमाराः स्युस्तद्भेदे मकरादयः ॥ ३७ ॥ कच्छपः कमठः कूर्मे कुलीरः कर्कटः पुमान् । ग्राहेऽवहारो नक्रस्तु कुम्भीरेऽथ महीलता ॥ ३८ ॥ ;p{0074} गण्डूपदः किंचुलुको निहाका स्यात्तु गोधिका । मुक्तास्फोटः पुमान् शुक्तिः स्त्रिजलौका तु रक्तपा ॥ ३९ ॥ क्षुद्रशङ्खे शङ्खनखाः शङ्खः कम्बुर्न तु स्त्रियाम् । भेके मण्डूकशालूरवर्षाभूदर्दुरप्लवाः ॥ ४० ॥ शृङ्गी मग्दुरपुंयोगे भेकी स्त्री कमठी डुलिः । ;c{॥ इति जलवर्गः समाप्तः ॥} ;v{अव्ययवर्गः} ;c{॥ अथ अव्ययवर्गः प्रारभ्यते ॥} प्रादुराविः प्रकाशले श्वस्त्वनागतवासरे । परेद्यवि परश्वः स्यात्प्रपरश्वस्तदुत्तरे ॥ १ ॥ दुष्ठु प्रोक्तं जुगुप्सायां सुष्ठु प्राशस्त्यवाचकम् । अधुना सम्प्रतीदानीं स्यादेतर्हि च साम्प्रतम् ॥ २ ॥ समया निकषाऽसन्ने प्रभाते प्रातरुच्यते । सन्ध्याकाले स्मृतं सायमुषा रात्र्यन्तमीरितम् ॥ ३ ॥ ;p{0075} बत हर्षे विषादे च स्याद्यथार्थे यथायथम् । कच्चित्कल्याणपृच्छायामुद्याऽस्मिन्नहनीष्यते ॥ ४ ॥ ह्यो गतेऽहन्यद्रुते तु शनैः प्रायस्तु भूमनि । अयि कोमलसंबुद्धावोमा मेवं च सम्मतौ ॥ ५ ॥ स्वीकृता वस्तुपर्याप्ते कामं वा स्याद्विकल्पने । बाह्ये बहिरदृष्टेऽस्तं स्यादनेके च निश्चये ॥ ६ ॥ उच्चैरूर्ध्वं सना नित्येऽधस्तान्नीचैः पुनर्मुहुः । मामास्माऽलं निरोधे स्युः पुरस्तादयतः पुरः ॥ ७ ॥ न नो नहि निषेधेऽर्थे हा खेदेऽहो तु विस्मये । सत्रा साकं समं सार्धं सहार्थे धिक् च भर्त्सने ॥ ८ ॥ ;p{0076} यदि चेद् अन्यपक्षे द्वे ह्यः पूर्वेद्युः समावुभौ । एकदा युगपत्सद्यः सपद्यऽत्र त्विहार्थकम् ॥ ९ ॥ तदानीं तदा तस्मिन्कालेऽमुत्र भवान्तरे । किञ्चिदीषन्मनागल्पे स्याद् व्यर्थे तु मुधा वृथा ॥ १० ॥ चिरं च चिररात्राय चिरस्य च चिराय च । चिराच्चिरे चिरेणाऽपि चिरार्थे योजिताः पुरा ॥ ११ ॥ कदाचिज्जातु तुल्ये द्वे सहसाऽतर्किते मतम् । विनामध्यार्थयोः प्रोक्ता व्यन्तरेणाऽन्तरेऽन्तरा ॥ १२ ॥ तिर्यगर्थे तिरः साचि दिष्ट्याऽऽनन्देऽर्चने स्वति । ;p{0077} सम्बोधनेऽङ्ग हे है भोः किल सम्भाव्यवार्तयोः ॥ १३ ॥ उताहो किमुताऽऽहो च तु विकल्पे नु निश्चये । नीचाह्वाने त्वरे रे च त्वरा च सम्भ्रमः समौ ॥ १४ ॥ प्रसह्य तु हठार्थे स्यात्प्रतिक्षणमनुक्षणम् । वर्जने स्तो हिरुक् नाना हेतौ यत्तद् यतस्ततः ॥ १५ ॥ सुदि शुक्ले दले कृष्णे वदि संवत्तु वत्सरे । अह्नीत्यर्थे दिवा नक्तं दोषा च रजनाविति ॥ १६ ॥ स्वयं स्यादात्मनेत्यर्थे तत्त्वेऽद्धाऽर्वाक् तथाऽवरे । निश्चये पादपूर्तौ च तुहि च स्म ह वै इति ॥ १७ ॥ ;p{0078} साम्ये यथा तथा वे वाऽतिशयेऽतीव सुष्ठु च । झटित्यह्नाय मङ्क्षुद्रा गञ्जसा सपदि द्रुते ॥ १८ ॥ हविर्दाने स्वधा स्वाहाऽसाकल्पे चित् चनेत्युभे । तूष्णीं च तूष्णिकां मौनेऽवश्यं नूनं च निश्चिते ॥ १९ ॥ आम् एवं निश्चये प्रातः प्रभातार्थे प्रगेऽपि च । तर्के वितर्के हुं प्रश्ने ऊं ननु द्वे प्रयोजिते ॥ २० ॥ ;p{0079} एषमोऽस्मिन् परुत् पूर्वे परार्यद्बे ततोऽपि च । पूर्वोत्तराऽपराऽन्याऽन्यतरादितरतोऽधरात् ॥ २१ ॥ पूर्वाद्यहःसु पूर्वेद्युरादयः स्युः क्रमादिमे । रुद्रकोशे तु पूर्वेद्युः प्रातर्वा पूर्ववासरे ॥ २२ ॥ परेद्यवि परेऽह्नि स्यादुभयेद्युर्दिनद्वये । वितथे स्तो मृषा मिथ्या सत्त्वेऽस्ति नमने नमः ॥ २३ ॥ ;p{0080} सर्वतः परितो विष्वक् समन्तादभितस्तथा । ;c{॥ अव्ययवर्गः समाप्तः ॥} ;c{॥ इति प्रथमः काण्डः समाप्तः ॥} ;k{द्वितीयकाण्डम्} ;c{॥ श्री ॥} ;c{॥ अथ द्वितीयकाण्डम् ॥} ;v{लोकवर्गः} ;c{॥ अथ लोकवर्गः प्रारभ्यते ॥} लोकोऽयं जगती स्त्री स्याद् जगद् भुवनविष्टपम् । भरतैरवतानि स्युर्विदेहाः कर्मभूमयः ॥ १ ॥ अन्ये हैमवताद्याः स्युस्त्रिंशच्चाऽकर्मभूमयः । आर्यावर्तो जन्मभूमिः सत्तीर्थङ्करचक्रिणाम् ॥ २ ॥ आचारवेदिः पूण्याभू दक्षिणार्धस्य मध्यमः । ;p{0081} भूमिर्वसुमती क्षोणी रत्नगर्भा वसुन्धरा ॥ ३ ॥ जगती वसुधा गोत्राऽचलाऽनन्ता रसा च भूः । विश्चम्भरा च पृथिवी स्थिरा कुः सागरांबरा ॥ ४ ॥ महीधात्री च पृथ्वी च धरित्री धरणी क्षमा । धरा क्षोणिः क्षितिक्ष्मा गौरिला सर्वसहाऽवनिः ॥ ५ ॥ मृत्तिका मृत् प्रशस्ता चेत् मृत्सा मृत्स्ना च सा मता । ऊषः स्यात्क्षारमृत् सर्वसस्याढ्या योर्वरा च सा ॥ ६ ॥ स्थलं स्थलाऽकृत्तिमा तु स्थली चोषरमूषवत् । ;p{0082} निर्जले मरुधन्वानौ खिलमप्रहतं त्रिषु ॥ ७ ॥ निवृज्जनपदो देशविषयौ तूपवर्तनम् । शाद्वलः स्यादहरिते सपङ्के पङ्किलः स्थले ॥ ८ ॥ सवेतसे तु वेतस्वान् कुमुद्वान् कुमुदैर्युते । नड्वांस्तु नड्वलः प्रोक्तः समौ चिक्कणपिच्छिलौ ॥ ९ ॥ स्थलं नद्यम्बुवृष्ट्यम्बुजातसस्यसुरक्षितम् । नदीमातृकमेकं तद् द्वितीयं देवमातृकम् ॥ १० ॥ सुराज्ञि सति राजन्वान् देशोऽन्यत्र तु राजवान् । रजोयुक्ते सिकतिलः सैकतः शार्करोऽपि च ॥ ११ ॥ ;p{0083} गोष्ठं स्याद्गोव्रजस्थानं गोष्ठीनं भूतपूर्वकम् । कच्छः पुमान् जलप्रायप्रदेशेऽनूपमित्यपि ॥ १२ ॥ पुमान् परिसरः प्रान्ते पर्यन्तो जलबन्धने । सेतुः पुमान् स्त्रियामालिर्वल्मीके पुंनपुंसकम् ॥ १३ ॥ वामलूरश्च नाकुश्च वर्त्म त्वयनमेकपात् । वर्तनी पद्धतिः पद्या पदवी सरणिः सृतिः ॥ १४ ॥ पुंसि मार्गाऽध्वपन्थानः सत्पथस्त्वर्चितोऽध्वनि । सुपन्था अतिपन्थाश्च कापथे विपथोऽपथः ॥ १५ ॥ अपन्थाश्च कदध्वाच दुरध्वव्यध्वकत्पथाः । ;p{0084} शृङाटकं पथांयोगे चतुर्णां स्याच्चतुष्पथः ॥ १६ ॥ घण्टामार्गो राजमार्गे क्लीबं संसरणं विदुः । दुर्गे मार्गे तु कान्तारं प्रान्तरं शून्यवर्त्मनि ॥ १७ ॥ ;p{0085} द्वाभ्यां धनुःसहस्राभ्यां गव्यूतं क्रोश उच्यते । क्रोशद्वयं स्त्री गव्यूतिर्नल्वो हस्तचतुःशती ॥ १८ ॥ भूद्यावौ रोदसी पुर्या अध्वा स्यादुपनिष्करम् । ;c{॥ इति लोकवर्गः समाप्तः ॥} ;v{नगरवर्गः} ;c{॥ अथ नगरवर्गः प्रारभ्यते ॥} नगरं नगरी पूः स्त्री पुरी वा पत्तनं पुरम् । वणिजां सति वासे तु निगमः पुटभेदनम् ॥ १ ॥ सर्ववस्तूपलब्धौ तद्भेदे ग्रामस्ततस्ततः । वसतेर्वासभेदाः स्युः खेटकर्बटकादयः ॥ २ ॥ ;p{0086} लघुर्ग्रामठिका ग्रामा वेशो वेश्यालयस्थलम् । द्विकानमापणो हट्टो विपणिः पण्यवीथिका ॥ ३ ॥ प्रतोली विशिखा रथ्या वप्रः स्यान्मृच्चयोऽस्त्रियाम् । कृत्रिमेवेष्टने सालः प्राकारो वरणस्तथा ॥ ४ ॥ प्राचीरं चैव प्राचीनं प्रान्ततो वृत्तिरिष्यते । कुड्ये भित्तिः स्त्रियामन्तर्न्यस्तास्थ्न्येडूक मुच्यते ॥ ५ ॥ ;p{0087} गृहं स्याद् वेश्म भवनं गेहं सद्म च सादनम् । निकेतनमगारं चाऽऽगारं च सदनं तथा ॥ ६ ॥ गृहाः पुंस्यपि भूम्न्येव निकाय्यो निलयाऽऽलयौ । कुटीरो यतिनां गेहं पर्णशालोटजः कुटी ॥ ७ ॥ हर्म्यं तु धनिनां वेश्म प्रासादो देवभूभृताम् । स्वस्तिकादीनि चिह्नानि गृहेष्वीश्वरवेश्मनाम् ॥ ८ ॥ अरिष्टं सूतिकागेहं मण्डपस्तु जनाश्रयः । वस्त्रनिर्मितगेहं यद् उपकार्योपकारिका ॥ ९ ॥ क्षत्रियाणां स्त्रिया वेश्म शुद्धान्तोऽन्तःपुरं तथा । ;p{0088} वलभी चन्द्रशाले द्वे तस्यैवोर्द्धं तु वेश्म यत् ॥ १० ॥ प्रपा पानीयशालायां गञ्जा यन्मदिरागृहम् । ग्रामे गेहे च गोपस्य घोषः पल्लिरिति द्वयम् ॥ ११ ॥ धर्मशालं धर्मशाला शालान्तो न क्वचित्पुमान् । मन्दुरावाजिनः शालाऽऽवेशनं शिल्पिवेश्मनि ॥ १२ ॥ श्मशाने यज्ञशालायां चैत्यमायतनं गृहे । वातायनं गवाक्षोऽस्त्री क्षोममट्टः शिरोगृहम् ॥ १३ ॥ विष्कम्भो नाऽर्गला नान कपाटमररं त्रिषु । तालं च तालिका ताला मोचनोद्घाटने समे ॥ १४ ॥ ;p{0089} च्यावी स्त्री कुंचिका कुञ्ची कुंजिकोद्घाटनीति च । देहल्युदुम्बरोऽपि स्याद् गृहावग्रहणी तु या ॥ १५ ॥ स्तम्भादूर्ध्वमधस्ताद्वा दारु नासा शिला मता । गोपानसी च वलभी छादने वक्रदारुणि ॥ १६ ॥ विटङ्कोऽस्त्री स्त्रीकपोतपाली पारावतालये । नीघ्रं वलीकं पटलप्रान्तेऽथो पटलं छदिः ॥ १७ ॥ प्रघाणः प्रघणोऽलिन्दो बाह्ये द्वारप्रकोष्ठके । ;p{0090} वेदिस्तु वेदिकाद्वारे द्वाः प्रतीहार इत्युभौ ॥ १८ ॥ आरोहणं तु सोपानं निःश्रेण्यामधिरोहिणी । गोपुरं स्यात्पुरद्वारं बहिर्द्वारेऽस्त्रि तोरणम् ॥ १९ ॥ पुरोभागे समतले ह्यङ्गनं चत्वराजिरे । मतो हस्तिनखः कूटेऽवतारार्थे पुराद्बहिः ॥ २० ॥ वेश्मभूर्वास्तुरस्त्री स्याद्भिल्लग्रामस्तु पक्वणः । संकराऽवकरक्षेप्त्यां सम्मार्जन्यैव शोधनी ॥ २१ ॥ ;p{0091} उपकण्ठं तूपशल्ये सीमा सीमा स्त्रियां द्वयम् । ;c{॥ इति नगरवर्गः समाप्तः ॥} ;v{मेरुवर्गः} ;c{॥ अथ मेरुवर्गः प्रारभ्यते ॥} मेरुर्हिमालयो विन्ध्यो निषदो माल्यवानपि । वैताढ्यादय इत्येवं विशिष्टा भूध्रभूधरौ ॥ १ ॥ पर्वतः शिखरी शैलो महीध्रोऽद्रिर्गिरिर्नगः । शिलोच्चयोऽचलः क्ष्माभृद्भूभृच्च सानुमानिति ॥ २ ॥ पाषाणोऽश्मोपलो ग्रावा प्रस्तरः स्त्री शिला दृषत् । शृङ्गं तु शिखरं कूटोऽस्त्री प्रपातोऽतटो भृगुः ॥ ३ ॥ ;p{0092} नितम्बे कटकोऽद्रे स्यात् प्रस्थः स्नुः सानुरस्त्रियाम् गुहायां गह्वरः किञ्च कन्दरः कन्दरा दरी ॥ ४ ॥ स्थूलो पलो गण्डशैलो यश्च्युतः पर्वताद्भूवि । आकरः स्त्री खनिः खानिः पादः प्रत्यन्तपर्वते ॥ ५ ॥ लताऽऽद्याऽऽच्छादितस्थानं निकुञ्जः कुञ्ज इत्युभौ । अधित्यकोर्ध्वभूरद्रेरासन्ना भूरुपत्यका ॥ ६ ॥ झरोत्सनिर्झरा वारिप्रवाहो गैरिकादयः । ;p{0093} धातवो गिरिसम्भूताः सन्ति तेऽन्यत्र विस्तराः ॥ ७ ॥ ;c{॥ इति मेरुवर्गः समाप्तः ॥} ;v{वनस्पतिवर्गः} ;c{॥ अथ वनस्पतिवर्गः प्रारभ्यते ॥} अपुष्पैः फलवान् यः स वानस्पत्यो वनस्पतिः । फलैस्तु फलवांश्चेत्स पलाशी पादपस्तरुः ॥ १ ॥ सालो महीरुहः शाखी विटपी च कुटोऽगमः । द्रुर्द्रुमोऽनोकहो वृक्षः शिखरी पुष्पदो नगः ॥ २ ॥ अवकेश्यफलो बन्ध्यः फलिनः फलवान्फली । फलेग्रहिः स्वकाले योऽबन्ध्यः पाकान्ततौषधिः ॥ ३ ॥ ;p{0094} गुल्मः स्तम्बोऽप्रकाण्डद्रौ स्याद्वल्ल्यां व्रततिर्लता । प्रतानिनी लता या सा भवेद् वीरुच्च गुल्मिनी ॥ ४ ॥ दैर्घ्ये उत्सेध आरोह उच्छ्रायश्चोच्छ्रयस्तरोः । स्कन्धः प्रकाण्ड आमूलाच्छाखापर्यन्तमस्त्रियाम् ॥ ५ ॥ वृक्षमूलं तु बुध्नः स्याच्छिरोऽग्रं शिखरोऽस्त्रियाम् । शाखा लता द्रुमांशे स्यात्स्कन्धशाखा तु या पुरा ॥ ६ ॥ शिफाऽवरोहः शाखाया मूले मूले शिफाजटे । त्वच्यस्त्री वल्कलो वल्कः सारो मज्जा समावुभौ ॥ ७ ॥ काष्ठमात्रे दारु काष्ठं शुष्के त्वत्रेन्धनैधसी । ;p{0095} पुमानेधः समित्तु स्त्री वृक्षरन्ध्रे तु कोटरम् । निष्कुहो वल्लरिस्तस्यान्मञ्जरिर्मञ्जरी स्त्रियाम् ॥ ८ ॥ पलाशं छदनं पर्णं दलं पत्रं पुमान् छदः । स्यात्पल्लवः किसलयं वृन्तं पुष्पादिबन्धनम् ॥ ९ ॥ ततौ विस्तारविटपौ कलिका कोरकः पुमान् ॥ १० ॥ आरामः कृतिमाऽरण्यं तथैवोपवनं मतम् । स्यात्पुंस्याक्रीड उद्यानं राजसाधारणं वनम् ॥ ११ ॥ ;p{0096} अमात्यादेर्गृहाऽऽसन्न आरामो वृक्षवाटिका । अन्तःपुरोचितं यत्स्यात्प्रमदावनमुच्यते ॥ १२ ॥ वनेऽटवी स्त्री विपिनाऽरण्ये गहनकानने । निष्कुटस्तु गृहारामोऽरण्यानी तु महावनम् ॥ १३ ॥ वनानां संहतिर्वन्या नूतनोद्भिदि वाऽङ्कुरः । वीथी श्रेण्याबलिः पङ्क्तिःरालिर्लेखासुराजयः ॥ १४ ॥ व्याक्रोशो विकचः फुल्लः स्फुटो विकसिते द्रुमे । क्षुद्रशाखे क्षुपः प्रोक्तः शङ्कौ स्थाणु ध्रुवः पुमान् ॥ १५ ॥ ;p{0097} आमे शलौटुः शुष्के तु वानं सत्ये फले त्रिषु । विकसन्ती तु कलिका कुड्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥ वृक्षादेर्वल्कलाज्जातो रसो निर्यास इष्यते । प्रसूनं कुसुमं पुष्पं सुमं सुमनसः स्त्रियः ॥ १७ ॥ रजः परागः पुष्पाणां मकरन्दो रसः स्मृतः । फले स्याज्जाम्बवं जम्बुवृक्षे जम्बूः स्त्रियां मता ॥ १८ ॥ पुष्पे जातिः फले व्रीहिः विदारी पाटलः पुमान् । वासन्ती मालती जातिश्चम्बेली तूपजातिका ॥ १९ ॥ ;p{0098} वार्षिकी मल्लिका श्वेता हेमपुष्पा तु यूथिका । चन्द्रवल्यतिमुक्ता च वासन्ती माधवी लता ॥ २० ॥ लाक्षापुष्पा तु सेवन्ती शतपुष्पा महासहा । चाम्पेयश्चम्पको हेमपुष्पको भ्रमरातिथिः ॥ २१ ॥ बकुलो मुकुलो वृद्धबकुलस्तु बुको वसुः । माध्यः कुन्दो मुकुन्दस्तु पालक्यां कुन्दकुन्दरू ॥ २२ ॥ पुन्नागस्तिलको नीपकदम्बौ तु हरिप्रिये । ;p{0099} कर्णिकारः परिव्याधः लिकुचे लकुचो डहुः ॥ २३ ॥ केतकी पांशुला च स्त्री केतकः क्रककच्छदः । अशोको वञ्जुलः पुंसि स्यात्पुंनागे तुङ्गकेसरौ ॥ २४ ॥ झिंटी सैरीयकः सैव रक्तः कुरुवको मतः । दासी वाणा द्वयोरार्तगलो नीला भवेद्यदि ॥ २५ ॥ महासहा तथाऽऽम्लानो झिण्टीभेदे बुधैः स्मृतौ । पीते कुरूण्टकः शोणे भवेत्कुरवकः स च ॥ २६ ॥ बन्धुजीवो ज्वरघ्नश्च बन्धूको बन्धुजीवकः । पारिजातो निम्बभेदे ओड्रपुष्पे जपा जवा ॥ २७ ॥ ;p{0100} तुलसी पावनी वृन्दा मरुन्मरुवकौ समौ । गन्धोत्कटो दमनको बर्बरी वनबर्बरी ॥ २८ ॥ अव्यथाऽतिचरा पद्मा सारदा स्थलपद्मिनी । आम्रो रसालो माकन्दः सहकरोऽतिसौरभः ॥ २९ ॥ राजाम्रः कलभाम्रः स्यात्कोशाम्रस्तु सुकेशकः । पक्वस्याऽस्य रसो घर्मशुष्क आम्रातकः स्मृतः ॥ ३० ॥ आम्रातके पीतनः स्यात्समौ दाडिम्बदाडिमौ । ;p{0101} रम्भायां कदली मोचा नारिकेलो जटाफलः ॥ ३१ ॥ स्त्री खर्जूरी च खर्जूरः छोहारा तत्प्रभेदभाक् । स्याद् वातादस्तु वादामो वदामः सुफलश्च सः ॥ ३२ ॥ नागरङ्गो नागरूको नारङ्गो नागरोऽपि च । बीजपूरे मातुलुङ्गः कपोतो रुचकस्तथा ॥ ३३ ॥ जम्बीरो जम्भिरो जम्भो जम्भलश्चेत्यमी समाः । निम्बूकं निम्बुकं क्लीबे निम्बुनिम्बू उभे स्त्रियाम् ॥ ३४ ॥ चुक्रमम्लं तिन्तिडीकं वृक्षाम्लं च द्वयो समी । कालस्कन्धस्तिन्दुकः स्यात्किम्पाकस्तु विषद्रुमः ॥ ३५ ॥ ;p{0102} मधुवारो मधुकः स्यात् पीलुर्गुडपलो मतः । इम आक्षोट आखोट आखरोटः पुमंसकाः ॥ ३६ ॥ गुवाकः पूगगूवाकौ क्रमुकः खपुरः क्रमुः । तृणराजः तलस्तालः कपित्थं तु कपिप्रियम् ॥ ३७ ॥ कारुकः कर्मरङ्गः स्यात् करम्लः करमर्दनः । विकङ्कतो यज्ञवृक्षो ग्रन्थिलः स्वादुकण्टकः ॥ ३८ ॥ राजादनं प्रियालोऽपि प्रियालः क्षीरिणीतरौ । म्रियेतैकफलं सूत्वा तदनन्नासमुच्यते ॥ ३९ ॥ सीताफलं स्यादातृप्यं लवनी स्त्री मृदूफलम् । ;p{0103} तथा रामफलं प्रोक्तं स्यात्पिस्तं तु निकोचकम् ॥ ४० ॥ तूतस्तूदस्तिन्दूकः स्याल्लघुद्राक्षा तु काकली । स्वाद्वी मधुरसा द्राक्षा मृद्वीका गोस्तनीति च ॥ ४१ ॥ लताम्रं तुवरं तद्वत् दृढबीजं च फेरुकम् । वटे जटालो न्यग्रोधो बहुपाद् दीर्घजीवनः ॥ ४२ ॥ विप्रश्चैत्यद्रुमोऽश्वत्थः पिप्पलः कुञ्जराशनः । जटी स्यात्पर्कटी प्लक्षः काकोदुम्बरिका तु सः ॥ ४३ ॥ उदुम्बरो वा क्षीरी वा शिरीषस्तु कपीतनः । शिंशपा सारिणीपीता गजभक्षा तु सल्लकी ॥ ४४ ॥ ;p{0104} सालोऽश्वकर्णकः सर्जः तत्प्रभेदे तु सर्जकः । जीवकोऽसनबन्धूकपुष्पाविन्द्रद्रुमोऽर्जुनः ॥ ४५ ॥ खदिरो रक्तसारः स्यात् प्लीहशत्रौ तु रोहितः । तुल्यौ बबूलबब्बूलौ स्यादरिष्टे तु फेनिलः ॥ ४६ ॥ इङ्गुदस्तापसो वृक्षः पुत्रंजीवस्तु गर्भदः । मण्डुकपर्णी मञ्जिष्ठा स्यात्पलाशस्तु किंशुकः ॥ ४७ ॥ स्थिरायुः पूरणी मोचा पिच्छिला शाल्मलिर्द्वयोः । ;p{0105} तापिच्छलश्च तमालः स्यात् कालस्कन्धस्तमोऽपि च ॥ ४८ ॥ धवलश्च धवो गौरः करीरक्रकचौ समौ । भूतवासस्तु शाखोटो वरुणे सेतुसेतुकौ ॥ ४९ ॥ शम्यैकाऽल्पा समीरोऽन्यः शिवा सक्तुफली शमी । शमी शिम्बाफलं यस्या अग्निगर्भा शमीतरुः ॥ ५० ॥ करवीरः शतप्राशो रथद्रुस्तिनिशे स्मृतः । शारदः सप्तपर्णः स्याद् विशालत्वगयुक्छदः ॥ ५१ ॥ मृगनाभौ मृगमदः कस्तूरी च द्रुमेष्वपि । ;p{0106} घनसारस्तु कर्पूरश्चन्द्रः स्त्री हिमतालुका ॥ ५२ ॥ पुलिके स्यादर्कमूला सुनन्दा च विषापहा । कुङ्कुमं केसरे रक्तचन्दनन्तु कुचन्दनम् ॥ ५३ ॥ श्रीखण्डे चन्दनं गन्ध-सारं पाटीरमस्त्रियाम् । देवदार्विन्द्रदारु स्यात् क्लीबेऽगरुकजोङ्गकम् ॥ ५४ ॥ धूपवृक्षश्च सरलस्तगरश्च महोरगः । पद्मकं पद्मकाष्ठे स्यात् समौ कोशिकगुग्गुलौ ॥ ५५ ॥ ;p{0107} रालः सर्जरसो देवधूपो धूनकधूपने । श्रीवासे तिलपर्णः स्यात् पालङ्के कुन्दुकुन्दुरू ॥ ५६ ॥ जातीफलं जातिफलं लवङ्गं तु लवङ्गकम् । जातीकोषा जातिपत्री स्थूलैला गर्भसम्भवा ॥ ५७ ॥ कङ्कोलकं कोषफलं केशरो नागकेशरः । त्वक्पत्रम् स्याद्दारुसिता सूक्ष्मैला द्राविडिस्त्रुटिः ॥ ५८ ॥ तेजपत्रे पत्रकं स्यात् पाकरञ्जनमित्यपि । लोमशा जटिलाऽपि स्याज्जटामांसी तपस्विनी ॥ ५९ ॥ ;p{0108} प्रियङ्गुः फलिनी गुन्द्रा गौरी गोरोचनेऽस्त्रियाम् । उशीरे नलदं व्याघ्रनखे व्याडायुधं स्मृतम् ॥ ६० ॥ शैलेयमश्मनो जातं कन्दं पुष्पं मधुद्रवः । मुस्ता नगरमुस्ता स्त्री वन्यं कैवर्तमुस्तकम् ॥ ६१ ॥ शंखिनी चोरपुष्पी स्यात् तस्करश्चोरके पुमान् । कुष्ठं तु जरणं रामं कर्चुरे कल्पकः स्मृतः ॥ ६२ ॥ गन्धिनी तालपर्णी स्याद् दैत्या गन्धकुटी मुरा । ;p{0109} उक्तं खसफलक्षीरं माफूकं महिफेनकम् ॥ ६३ ॥ उच्यन्ते खसबीजानि ते खाखसतिला अपि । एला वालुकमैरेयं स्पृक्का देवी लघुर्लता ॥ ६४ ॥ शौण्डी कृष्णोपकुल्या च मागधी पिप्पली कणा । नली नटी कपोताङ्घ्रिः पुदिनो वान्तिहारकः ॥ ६५ ॥ हरीतक्यभया पथ्या कायस्था श्रेयसी शिवा । विभीतकः कलिद्रुर्ना भूतावासो बहेडुकः ॥ ६६ ॥ द्वयो रामलको धात्री स्त्रियां तिक्तफलाऽमृता । ;p{0110} आर्द्रकं शृङ्गवेरं स्यादथ शुण्ठी महौषधम् ॥ ६७ ॥ कोलकं कृष्णमरिचं मरीचे शिग्रुजं सिते । श्रेयसी कपिवल्ली च वशिरो गजपिप्पली ॥ ६८ ॥ ऊषणं पिप्पलीमूलं ग्रन्थिलं चटकाशिरः । कणामूलं गुणं चन्यं चविका गुदजापहम् ॥ ६९ ॥ चविकायाः फलं प्राज्ञैः कथ्यते गजपिप्पली । अतिच्छत्रा सितच्छत्राऽवाक्पुष्पी कारवी मिसिः ॥ ७० ॥ मधुरा शतपुष्पा च शालेयो वनजो यदि । मिश्रेयोऽसौ शीतशितश्छत्रा मधुरिका मिसिः ॥ ७१ ॥ शतपुष्पा त्वहिच्छत्रा चित्रके व्यालपाठिनौ । ;p{0111} चन्द्रिका चन्द्रशुरोऽपि पशुमेहनकारिका ॥ ७२ ॥ मेथिका मेथिनी मेथी कालाऽजाज्यपि जीरकः । धान्यकं तुवरं प्रोक्तमजमोदा यवानिका ॥ ७३ ॥ वचा तीक्ष्णोग्रगन्धायां पारसीकवचा तथा । द्वीपान्तरवचा चाऽपि कुलिञ्जनमितः पृथक् ॥ ७४ ॥ हपुषा पुष्पवस्ता च पराऽश्वत्थफला मता । फिरङ्गजा चोपचीनी विडङ्गं वह्निकृल्लघु ॥ ७५ ॥ ;p{0112} यवजं तु तवक्षीरं त्वक् क्षीरी वंशलोचना । निचुलः सिन्धुफेनः स्यादिज्जलो हिज्जलस्तथा ॥ ७६ ॥ मधुकं मधुयष्टी च यष्टीमधु मधुश्रवा । आरग्वधे तु संपाकव्याधिघातसुवर्णकाः ॥ ७७ ॥ कटुका कटुकी कट्वी चिरतिक्तः किरातकः । कुटजः कौटकः कौटः कलिङ्गेन्द्रयवौ समौ ॥ ७८ ॥ मदनो मुचुकुन्दः स्याद्रास्ना तु सुरसा रसा । ;p{0113} मत्स्याक्षी च वयस्था च ब्राह्मी च सोमवल्लरी ॥ ७९ ॥ स्वर्णक्षीरी हिमावत्यां समे काफलकट्फले । घोषा कर्कटशृङ्गी स्याद् घातकी घातपुष्पिका ॥ ८० ॥ मञ्जिष्ठा विकसा भण्डी कुसुम्भं ग्राम्यकुङ्कुमम् । पुमानलक्तो यावश्च स्त्री लाक्षा जतु न द्वयोः ॥ ८१ ॥ हरिद्राकाञ्चनी पीता निशाह्वा वरवर्णिनी । दार्वी दारुहरिद्रायां बाकुची सोमराजिका ॥ ८२ ॥ काश्मीरं पौष्करे मूले दद्रुघ्नश्चक्रमर्दनः । ;p{0114} द्वयोर्भल्लातको भल्लः वीरवृक्षो ह्यरुष्करः ॥ ८३ ॥ जया च विजया भङ्गा गञ्जा स्त्री च रसः पुमान् । सर्जिक्षारः सर्जिका च यवक्षारो यवाग्रजः ॥ ८४ ॥ सैन्धवं माणिमन्थं च विडं द्राविडभासुरम् । सांभरं रौमलवणं रुच्यं सौवर्चलं लघु ॥ ८५ ॥ लवणोदधिसंजातं सामुद्रं वशिरं च तत् । औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् ॥ ८६ ॥ सौभाग्यं टंकणं क्षारो नवसारो नसादरः । ;p{0115} सूर्यक्षारस्तीक्ष्णरसः सर्वक्षारो मलापनुत् ॥ ८७ ॥ ताम्बूल्येव तु ताम्बूलवल्ली स्यान्नागवल्ल्यपि । मालूरः श्रीफलो बिल्वो गम्भारी मधुपर्णिका ॥ ८८ ॥ अमोघा पाटला कृष्णवृन्ता सैव फलेरुहा । अग्निमन्थस्तु कणिका श्रीपर्णं गणिकारिका ॥ ८९ ॥ मयूरः कारवी दीप्यः खराश्वालोचमस्तकः । ध्रुवा स्थिरा शालपर्णी लाङ्गली तोयपिप्पली ॥ ९० ॥ वार्ताकी बृहती सिंही कासघ्नी कण्टकारिका । ;p{0116} गोकण्टको गोक्षुरको जीवन्ती स्यान्मधुव्रता ॥ ९१ ॥ वनमुद्रा मुद्गपर्णी माषपर्णी तु पर्णिनी । एरण्डको व्याघ्रपुच्छः स्यान्मन्दारोऽर्कद्रुमो मत ॥ ९२ ॥ स्नुहा स्नुही भूरिदुग्धा सत्तला सातलाऽमला । वज्रवल्ल्यस्थिसंहारी कालिकारी तु लाङ्गली ॥ ९३ ॥ करवीरो दिव्यपुष्पो हयमारोऽश्वमारकः । कनको मत्तधत्तूरधूर्तधत्तूरधुस्तुराः ॥ ९४ ॥ वासकोऽटरुषो वासो वरतिक्तस्तु पर्पटः । निम्बो नियमनो नेता पिचुमन्दः शुकप्रियः ॥ ९५ ॥ ;p{0117} पाकारिः काञ्चनालञ्च काञ्चनो यमलच्छदः । कर्बूदारः कोविदारो विष्णुक्रान्ताऽपराजिता ॥ ९६ ॥ शोभाञ्जनः शिग्रुरुग्रो मुखमोदः शुभाञ्जनः । निर्गुण्डीन्द्राणिका सिन्धुवारकः सिन्दुकस्तथा ॥ ९७ ॥ कुटजः कुटकः शक्रः करञ्जः कलिमारकः । वल्लीकण्टकरञ्जः स्यात्काकजङ्घा तु रक्तिका ॥ ९८ ॥ गुञ्जाऽथ श्वेतेगुञ्जायां स्याच्चूडाला भिरिण्टिका । आत्मगुप्ता तु दुःस्पर्शा कपिकच्छूश्च कण्डुरा ॥ ९९ ॥ ;p{0118} समौ वेतसवानीरौ निचुलो हिज्जलोऽम्बुजे । वाट्यालका बलायां स्यादङ्कोटस्तु निकोचकः ॥ १०० ॥ गाङ्गेरुकी नागबला पुत्रकन्दा तु लक्ष्मणा । कृष्णाभा वनकार्पासी नलपोटगलौ समौ ॥ १०१ ॥ वंशस्तृणध्वजो वेणुस्त्वचिसारो बृहत्तृणः । वंशोऽसौ कीचको यः स्याद्रन्ध्रस्वानोऽनिलोद्धतेः ॥ १०२ ॥ स्थूलदण्डः सुरद्रुश्च देवनालो महानले । द्वयोर्मुञ्जः शरो वाणो गुन्द्रोरच्छः पटेरकः ॥ १०३ ॥ ;p{0119} काशेकासः पुमान्काशीषीकाकाशाः स्त्रियामिमाः । गुन्द्रैरके समे दर्भो बर्हिः क्लीबे कुशोऽस्त्रियाम् ॥ १०४ ॥ कत्तृणं श्यामकं पौरं स्याद्भूतोकं तु भूतृणम् । बल्वजा दृढपत्री स्यात्पण्यन्धा कङ्कनी दला ॥ १०५ ॥ सुनाला चणिका दुग्धा शूली तु महिषीप्रिया । अनन्ता दुर्भरा दूर्वा गोलोमी शकुलादनी ॥ १०६ ॥ भूकूष्माण्डी विलाडी च विदारी वाजिवल्लभा । अन्या क्षीरविदारी स्यादिक्षुगन्धा पयोलता ॥ १०७ ॥ ;p{0120} जीमूतः कुक्कुटो वेणी देवदाली गरागरी । कर्कटी च खरस्पर्शा विषघ्नी गरनाशिनी ॥ १०८ ॥ अर्शोघ्नी मुसली ताली तालमूली च तालिका । नारायणी वरी दिव्या शतमूली शतावरी ॥ १०९ ॥ अश्वगन्धा हया बल्या पाठा स्याद्विद्धकर्णिका । रेचनी सुवहा श्यामा दन्ती तु श्वेतघण्टिका ॥ ११० ॥ जयपालश्च जैपालो विशाला त्विन्द्रवारुणी । कल्याणी स्वर्णपात्री स्याद्रेचिका मलधारिणी ॥ १११ ॥ ;p{0121} रञ्जनी नीलिका नीला काला नीली च नीलनी । दुरालभा समुद्रान्ता यवासो बहुकण्टकः ॥ ११२ ॥ अपामार्गश्चमत्कारः श्वेते रक्ते क्षवा स्मृतः । काण्डेक्षुः कोकिलाक्षः स्यादिक्षुगन्धे क्षुरक्षुरौ ॥ ११३ ॥ कन्या घृतकुमारी स्यादेलीयः कृष्णबोधकः । पाटलिः पाण्डुफल्यां स्याद् वनप्सा तु ज्वरापहा ॥ ११४ ॥ नीलाऽसौ नीलिनी श्यामा राजपर्णी प्रसारिणी । अनन्ता सारिवा गोपी भृङ्गराजस्तु मार्कवः ॥ ११५ ॥ ;p{0122} शणपुष्पी पीतपुष्पी त्रायमाणा तु पालिनी । शंखिनी यवतिक्ता स्याल्लिङ्गिनी शिवमल्लिका ॥ ११६ ॥ गोकर्णी मोरटा मूर्वा काकमाची तु वायसी । काकजंघा तु काकाक्षी मेषशृङ्गी विषाणिका ॥ ११७ ॥ गुडूची त्वमृता सोमा सोमवल्ली त्रिदोषहा । चन्दा जीवन्तिका वृक्षरुहा वृक्षादनी स्मृता ॥ ११८ ॥ लज्जावती तु लज्जालुः स्पर्शलज्जा प्रसारिणी । ;p{0123} द्रोणपुष्पी फलेपुष्पाऽऽदित्यभक्ता सुवर्चला ॥ ११९ ॥ वन्ध्या कर्कोटकी नागारातिः सर्पविषापहा । मार्कण्डिका पीतपुष्पी मार्कण्डी मृदुरेचनी ॥ १२० ॥ देवदाली कोषफला लाङ्गली जलपिप्पली । भूम्यामली विषघ्नी स्याद्ब्राह्मी मण्डूकपर्णिका ॥ १२१ ॥ गोजिह्वा दार्विका गोभी छिक्कनीछिक्कके समे । रक्तपुष्पी बला नागदमनी विषमर्दिनी ॥ १२२ ॥ मूषाकर्णी मूषिका च द्रवन्ती शम्बरी वृषा । ;p{0124} शिखिनी बर्हिचूडा च स्यान्मयूरशिखा शिखा ॥ १२३ ॥ ब्रह्मदण्ड्यजदण्डी स्त्री रेवट्चीनी तु गन्धिनी । चहि स्त्री चविका चाहा तमाखुस्ताम्रकुट्टकः ॥ १२४ ॥ इषद्गोलं स्निग्धबीजं सुधामूली तु जीवनी । शिलीन्ध्रं गोमयच्छत्रं स्यादहिच्छत्रमित्यपि ॥ १२५ ॥ कीटारिः कीटमारी स्त्री सर्पदंष्ट्रा विषापहा । उष्ट्रकण्टस्तु कण्टालुर्मेदिका नखरञ्जिनी ॥ १२६ ॥ सञ्जीवनी रुदन्ती स्यात्पर्पोटी चिरपोटिका । ;p{0125} चिचोडकं चिचोडं स्यादजगन्धा तु काबरी ॥ १२७ ॥ पुमान्स्यादण्डखर्जूरः स एवैरण्डचिर्भिटः । ;c{॥ वनस्पतिवर्गः समाप्तः ॥} ;p{0126} ;v{धान्यादिवर्गः} ;c{॥ अथ धान्यादिवर्गः प्रारभ्यते ॥} धान्ये स्तम्बकरिर्व्रीहिः कलमे शालितण्डुलौ । समौ गोधुमगोधूमौ यवकस्तु यवो मतः ॥ १ ॥ जूर्णलो यावनालश्च जूर्णो यवयवोऽपि च । स्त्री बर्जरी बर्जरिका नाली स्यात्पुंसि साजकः ॥ २ ॥ पुंसि भुक्तिप्रदो मुद्गो हरिन्मुद्गस्तु शारदः । माषे पित्र्यो धान्यवीरो मकुष्ठस्तु मकुष्ठके ॥ ३ ॥ बर्बटश्चवलो राजमाषश्चपल इत्यपि । निष्पावो वल्लको वाजिमन्थस्तु चणकश्चणः ॥ ४ ॥ ;p{0127} द्वयोर्मसूरमसुरौ तुवरी त्वाढकी स्त्रियाम् । कलायो मुण्डचणकः खञ्जकारिस्तु सण्डिकः ॥ ५ ॥ कुलत्थिस्तु कुलत्थेः स्यात्तिलस्तैलसमन्वितः । निष्फले तिलपिञ्जः स्यादारण्ये जतिलो मतः ॥ ६ ॥ राजी तु राजिका कृष्णे सिद्धार्थः श्वेतसर्षपः । क्षुमोमे अतसी कङ्गौ प्रियङ्गुः स्युः स्त्रियामिमाः ॥ ७ ॥ चीनकः काककङ्कुश्च मण्डूकन्तु मलीयसः । मुनिधान्यं तु नीवारः स्त्रियामोडी तथौडिका ॥ ८ ॥ ;p{0128} श्यामाकश्यामकश्यामाः कोरदूषस्तु कोद्रवः । स्यान्मक्कायो महाकायः स्त्रीगवेधुर्गवेधुका ॥ ९ ॥ शाकराड् वास्तु वास्तूकं लोणा लोण्यौ तु धोलिका । अम्लं रसाम्लपत्राम्ले तुल्यौ वार्ष्पकमारिषौ ॥ १० ॥ कञ्चटः कञ्चुकी द्वे स्त उपोती स्यादपोदका । रसोनो लशुनोऽरिष्टं कलम्बी तु कलम्बिका ॥ ११ ॥ नाडीकः पट्टशाकः स्याम्नत्स्याक्षी हिलमोचिका । ;p{0129} प्रलम्बिका स्त्री करली शितिवारस्तु कुक्कुटः ॥ १२ ॥ एर्वारुः कर्कटी मूत्रफला तोयफला स्त्रियाम् । त्रपुषं कण्टकिफलं सुधावासः सुशीतलम् ॥ १३ ॥ चिर्भिटं स्याच्चिर्भटिका कुम्भसी कट्फला स्त्रियाम् । कृष्णबीजं कलिन्दे स्यात्तद्भेदस्तु दशाङ्गुलम् ॥ १४ ॥ कोषातकी सुघोषा स्त्री जालिनी राजिमत्फला । घण्टाली शोधनी क्ष्वेडा तिक्तकोशातकी स्त्रियाम् ॥ १५ ॥ श्वेतराजिश्चिचिण्डः स्यात्पटोलकुलकौ समौ । ;p{0130} शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः ॥ १६ ॥ श्रीवारकः सूचिपत्रः पर्णकः कुक्कुटः शिखी । बिम्बं बिम्बफलं तुण्डीकेरी तुण्डी समाऽसमा ॥ १७ ॥ कर्कोटकी पीतपुष्पी कारवेल्लः कठिल्लकः । भिण्डी भिण्डा पुमान् भिण्डः शिम्बिनीशिम्बके समे ॥ १८ ॥ बाकुची कालमेषी च शिम्बी तु फलिनी मता । वारिकण्टकशृङ्गाटके स्त्री संघाटिका मता ॥ १९ ॥ गृञ्जनं गाजरं क्लीबे पलाण्डुर्मुखदूषणः । ;p{0131} वानेयं स्थूलमूलं स्यान्मूलकं हस्तिदन्तकम् ॥ २० ॥ ओल्ल ओलः पुंसि पिण्डीतकस्तु स्वादुकन्दकः । आरवे स्यादारवी स्त्री राजालुस्त्वारुरारुकः ॥ २१ ॥ कोलकन्दे पुटालुर्ना हस्तिकन्दीति कन्दके । स्तम्भालु धरणीकन्दस्तुल्ये रक्तालुकाऽऽलुके ॥ २२ ॥ सुकन्दः स्यात्तु वाराहीकन्दं क्लीबे महौषधम् । कन्दालूकं सुकन्दं स्यात् शोथघ्नी तु पुनर्नवा ॥ २३ ॥ पुष्पगोभी पत्रगोभी ग्रन्थिगोभी च गोभिका । ;p{0132} कासमर्दनकासारि मखान्नं वारिजं फलम् ॥ २४ ॥ कटुवीरा तीव्रशक्तिर्द्वे रक्तमरिचे स्त्रियाम् । गुडकन्दः कसेरुः स्यात्कशेरुश्च कसेरुकः ॥ २५ ॥ पूपाऽपूपौ पिष्टकोऽपि वाटिकाऽङ्गारकर्पटी । दुग्धं क्षीरं पयश्चाऽपि पयस्यं तु भवेद्दधि ॥ २६ ॥ नवप्रसूते र्धेनोर्यत् प्रकृत्या स्फुटितं पयः । पीयूषमग्नियोगेन घनीभूतं किलाटकः ॥ २७ ॥ अपक्वमेव नश्येत क्षीरशाकं तु तत्पयः । हीनं तद्द्रवभागेन तक्रपिण्ड उदाहृतः ॥ २८ ॥ ;p{0133} नष्टदुग्धस्य यन्नीरं मोरटो जेज्जटोऽब्रवीत् । क्लीबे हैयङ्गवीनं तु नवनीतं नवोद्धृतम् ॥ २९ ॥ दध्नः स्निग्धो घनोभागे उपरिष्टः सरः स्मृतः । मस्तु स्याद् दधिजं मण्डं तक्रघोले तु छच्छिका ॥ ३० ॥ घृतमाज्यं हविः सर्पिर्गव्यादि दधिजं स्मृतम् । यस्तिलादिसमुद्भूतः स्नेहस्तत्तैलमुच्यते ॥ ३१ ॥ मयने स्यान्मधूच्छिष्टं मधुनि क्षौद्रमाक्षिके । गुडमूलं पुमानिक्षुस्तद्भेदाः पौण्ड्रकादयः ॥ ३२ ॥ ;p{0134} यन्त्रैर्निष्पीडितस्येक्षोर्विकारो यो रसः स्मृतः । पक्वो रसो यदा गाढो राव इत्युच्यते बुधैः ॥ ३३ ॥ ततो गाढतरे क्लीबं फाणितं गुड इष्यते । अस्त्री खण्डोऽतिगाढ स्यान्मत्स्यण्डी स्त्री सिता भवेत् ॥ ३४ ॥ एकैकं नाम वक्ष्येऽथ पोलिकान्तं पृथक् पृथक् । संयावो मठकः पक्ववटी च तिलपर्पटी ॥ ३५ ॥ स्त्रियां पाटलजम्बूः स्यात् शट्टकं मुद्गमोदकः । यूषः पुमान् स्त्रियां लोप्त्री चूर्णिका दुग्धकूपिका ॥ ३६ ॥ ;p{0135} कलाकन्दः कुण्डलिनी वटाका घृतपूरकः । क्वाथः प्रहेलकश्चाम्लपानीयं शर्करोदकम् ॥ ३७ ॥ स्फुटितं चलिकं पेष्ठा स्त्रियां सेवनमोदकः । पूर्णपोली वेट्टमिका पर्पटी वटकस्तथा ॥ ३८ ॥ काञ्जीयवटकं खानपानं सेविश्च पोलिका । ;p{0136} ओदनोऽस्त्री भक्तमन्नमन्धोऽपि च नपुंसकम् ॥ ३९ ॥ दालिर्दाली व्यञ्जनं तु शाको लप्सी तु लप्सिका । निष्ठानं तेमनं चूर्णं क्षोदश्च वटिका वटी ॥ ४० ॥ घारट्टं वेशनं पिष्टदालिकायां तु पिष्टिका । प्रातराशः कल्पजग्धिः शष्कुली पुरिका पुरी ॥ ४१ ॥ समौ तु ग्रासकवलौ लेहाऽऽहारौ तु जेमनम् । स्यादुद्गिरणमुद्गारः कचोरी तु कचोरिका ॥ ४२ ॥ ;p{0137} क्षुद् बुभुक्षा क्षुधा तुल्यास्तृट् पिपासा तृषास्तथा । सपीतिः सहपानं स्यात्स्त्रियां सग्धिः सहाशनम् ॥ ४३ ॥ भुक्तशिष्टमथोच्छिष्टं फेला भुक्तोज्झिते स्त्रियाम् । चुलुकश्चुलुगण्डूषौ तृप्तौ सौहित्यतर्पणे ॥ ४४ ॥ स्याद् घरट्टः शिलाचक्रं तस्य दण्डे तु हस्तकम् । चक्रला चक्रिका द्वे स्तः साधनी वेलनी स्त्रियाम् ॥ ४५ ॥ शिलापुत्रः शिलालो घर्षणालस्तु पेषणी । ;p{0138} क्लीबे महानसं पाकस्थानं रसवती स्त्रियाम् ॥ ४६ ॥ पौरोगवोऽधिकार्यस्य सूपकारस्तु पाचकः । भवेत्कान्दविकोऽनेकभोज्यवस्तुविधायकः ॥ ४७ ॥ हसन्यङ्गारशकटी हसन्त्यङ्गारधानिका । अङ्गारस्तूल्मुकाऽलाते मणिकाऽलिंजरः समौ ॥ ४८ ॥ अम्बरीषं पुमान् भ्राष्टः कर्करी तु गलन्तिका । चुल्लिश्चुल्ली स्त्रियां क्लीबेऽश्मन्तमुद्धानमित्यपि ॥ ४९ ॥ स्वेदनो स्त्री द्वयोः कन्दुः घटः कुटनिपावपि । ;p{0139} कलशः पिठरः कुण्डं स्थाल्युखा त्रिषु न स्त्रियाम् ॥ ५० ॥ शरावः पत्रभेदे स्यात्तथैव वर्द्धमानकः । स्यात्कटोरं कटोरी स्त्री कटोरा तु महत्यसौ ॥ ५१ ॥ दुग्धादीनां हि यत्पानभाजनं सा कुपी स्त्रियाम् । अस्त्री कंसः पानपात्रमृजीकं पिष्टपाचनम् ॥ ५२ ॥ पात्रमात्रेऽमत्रपात्रभाण्डान्यावपनं तथा । भाजनं दर्विकम्बी तु स्त्री तर्दूर्दारुमुष्टिकः ॥ ५३ ॥ पिधानपात्रे तु प्रोक्तावुदञ्चनमुदञ्चनी । ;p{0140} चर्मणः स्नेहपात्रं स्यात्कुतूः सा कुतुपोऽल्पिका ॥ ५४ ॥ पर्णपात्रे करङ्को ना पर्णधान्युपहन्तिका । उपस्करो वेषवारो राज्यक्तस्तु रसालिका ॥ ५५ ॥ ;c{॥ इति धान्यादिवर्गः समाप्तः ॥} ;p{0141} ;v{पशुवर्गः} ;c{॥ अथ पशुवर्गः प्रारभ्यते ॥} मृगधूर्तकगोमायुफेरवाः फेरजम्बुकौ । शृगालो वञ्चकः क्रोष्टा भूरिमायः शिवा स्त्रियाम् ॥ १ ॥ अच्छो भल्लुकभालूकौ ऋक्षो भल्लश्च भाल्लुकः । खड्गी च गण्डकः खड्गो लुलायो महिषस्तथा ॥ २ ॥ कासारः सैरिभो वाहद्विषच्च गोधिकात्मजे । गौधेयश्चापि गौधेरो गौधारश्च त्रयो मताः ॥ ३ ॥ भूदारः सूकरः कोलो वराहः क्रोडघोणिनौ । घृष्टिर्दंष्ट्री किरः पोत्री स्तब्धरोमा किटिस्तथा ॥ ४ ॥ व्याघ्रे द्वौ द्वीपिशार्दूलौ स्यात्तरक्षुर्मृगादने । ;p{0142} सिंहः पञ्चाननः कण्ठीरवः पञ्चनखो हरिः ॥ ५ ॥ पुण्डरीको मृगेन्द्रश्च केसरी मृगसूदनः । वानरो मर्कटो वाऽपि वनौका अपि कथ्यते ॥ ६ ॥ प्लवंगः प्लवगः कीशः शाखामृगवलीमुखौ । बिलाल ओतुमार्जारौ आखुभुग् वृषदंशकः ॥ ७ ॥ शल्यस्तु शल्लकी श्ववित्तल्लोम्नि शललं शलम् । ईहामृगो वृकः कोके कुरङ्गः हरिणो मृगः ॥ ८ ॥ रङ्कुरेणोरुरुर्न्यङ्कुः कृष्णसारश्च शम्बरः । ;p{0143} गोकर्णो रोहितश्चैव चमूरुश्चेति द्वादश ॥ ९ ॥ गवयः सृममरो रामो गन्धर्वः शरभः शशः । खनकः स्यादधोगन्ता पुंध्वजो वृष उन्दुरः ॥ १० ॥ मूषकोऽप्याखुरुन्दुश्च गिरिका बालमूषिका । दिवान्धा दीर्घतुण्डीच गन्धास्या तुर्च्छुछुन्दरी ॥ ११ ॥ मुसलो गृहगोधायां सरटः कृकलासकः । वृश्चिकेऽलिद्रुणद्रोणाः पत्रिश्येनौ शशादनः ॥ १२ ॥ भवेत्कलरवः पुंसि पारावतकपोतकौ । कौशिकोलूककाकारिदिवान्धघूकपेचकाः ॥ १३ ॥ ;p{0144} खञ्जनः खञ्जरीटौ द्वौ चाषश्चासः किकीदिविः । शारङ्गश्चातकः स्तोको दार्वाघाटे शतच्छदः ॥ १४ ॥ भृङ्गे कलिङ्गधूम्याटौ गोमयस्थानवासिनौ । कृकवाकुस्ताम्रचूडश्चरणायुधकुक्कुटौ ॥ १५ ॥ करेटौ कर्करेटुः स्यात्करटुः कर्कराटुकः । कृकणे क्रकरः कीरे शुकः परभृते पिकः ॥ १६ ॥ वनप्रियः कोकिलोऽपि काके ध्वांक्षश्च वायसः । बलिभुक्करटाऽरिष्टबलिपुष्टसकृत्प्रजाः ॥ १७ ॥ ;p{0145} आत्मघोषोऽथ चटकः कलविङ्कः स्त्रियां तु सः । चटका तदपत्येऽपि चटकेरः पुमान् यदि ॥ १८ ॥ दात्यूहः कालकण्ठेऽपि काकोलो द्रोणवायसः । दाक्षाय्यः कथितो गृध्रेऽथ चिल्लाऽऽतायिनौ समौ ॥ १९ ॥ क्रौञ्चे क्रुङ् स्याद्बके कह्वः सारसे पुष्कराह्वयः । रथाङ्गश्चक्रवाकः स्यात् कोकश्च कुररस्त्वयम् ॥ २० ॥ उत्क्रोशे मानसौकास्तु चक्राङ्गो हंस उज्ज्वलन् । मरालः कलहंसोऽपि कादम्बो राजहंसकः ॥ २१ ॥ ;p{0146} रथोऽङ्घ्रिचञ्चुभिर्योऽथ मलिनो मल्लिकेक्षणः । धार्तराष्ट्रो यदा नीलो ज्ञायते लक्ष्मभिः क्रमात् ॥ २२ ॥ लक्ष्मणा सारसस्य स्त्री हंसस्य वरटा मता । जतुकाऽजिनपत्रायां परोष्णी तैलपायिका ॥ २३ ॥ वर्वणा मक्षिका नीला विशिष्टा मधुमक्षिका । सरघा मधुदात्रिषु पुत्तिका वा पतङ्गिका ॥ २४ ॥ वनमक्ष्यां मतो दंशो दंशी तज्जातिरल्पिका । ततोऽपि क्षुद्रदंशे तु मशो मशक इत्युभौ ॥ २५ ॥ अन्यः शुलशुलः कीटः खट्वाकोटस्तु मत्कुणः । ;p{0147} पतङ्गः शलभो झिल्ल्यां चीरी झीरी च झीरुका ॥ २६ ॥ भृङ्गो मधुकरोऽलिश्च मधुपोऽली मधुव्रतः । मधुलिड् भ्रमरः पुष्पलिड् द्विरेफश्च षट्पदः ॥ २७ ॥ व्याघाटस्तु भरद्वाजे ज्योतिः खद्योत इङ्गणे । स्त्रीलूता चोर्णनाभोर्णौ तथा मर्कटकः पुमान् ॥ २८ ॥ मेघनादानुलासी च नीलकण्ठश्च बर्हिणः । शिखावलो मयूरोऽपि शिखी केकी भुजङ्गभुक् ॥ २९ ॥ बर्ही चाऽस्य शिखाचूडा वाणी केका निगद्यते । नेत्राकारेषु चिह्नेषु प्रोक्तौ मेचकचन्द्रकौ ॥ ३० ॥ ;p{0148} स्याच्छिखण्डः पुमान् बर्हं पिच्छं च स्यान्नपुंसकम् । खगो द्विजो विहङ्गश्च विहङ्गमविहायसौ ॥ ३१ ॥ विहगः शकुनिः पक्षी शकुन्तिः शकुनोऽण्डजः । पतन् पत्ररथः पित्सन् नगौका नभसंगमः ॥ ३२ ॥ गरुत्मान् पतगः पत्री शकुन्तो नीडजोऽपि विः । पतत्रिर्विष्किरो वाजी पतत्री विकिरः पुमान् ॥ ३३ ॥ विशेषाः कुक्कुभो मद्गु जीवं जीवश्च कोरकः । हारीतस्तित्तिरिः कोयष्टिकष्टिट्टिभकः प्लवः ॥ ३४ ॥ लावः कारण्डवो वर्तकः पुमान् वर्तिकादयः । पक्षतिः पक्षमूलं स्त्री त्रोटिश्चञ्चुः स्त्रियामिमे ॥ ३५ ॥ ;p{0149} तनूरुहं पतत्रश्च पत्रं पक्षच्छदौ गरुत् । डयनोड्डीनसंडीनप्रडीनानि नभोगतिः ॥ ३६ ॥ कोषः कोशं स्त्रियां पेशी पेशिश्चाण्डं नपुंसके । निवासे पक्षिगेहे च कुलायो नीडमस्त्रियाम् ॥ ३७ ॥ शिशौ डिम्भोऽर्भकः पोतः शावकः पृथुकोऽपि च । युगले तु युगं युग्मं द्वन्द्वं स्त्रीपुंसयोर्युतौ ॥ ३८ ॥ मिथुनं च समूहे तु निवहो व्यूहसंचयौ । संघातस्तोमनिकरसमुदायचयव्रजाः ॥ ३९ ॥ संदोहविसरव्राता ओघः समुदयो गणः । ;p{0150} समवायस्तथा वारः संहतिः स्त्रीनपुंसकम् ॥ ४० ॥ निकुरम्बं कदम्बं च वृन्दं वर्गः समैः स्मृतः । सजातीयैः कुलं संघसार्थौ स्यातां तु जन्तुभिः ॥ ४१ ॥ समजः पशुवृन्दे ना तिरश्चां यूथमस्त्रियाम् । अन्येषां तु समाजोऽथ निकायः सह धर्मिणाम् ॥ ४२ ॥ धान्यादेरुत्करः पुञ्जराशी ना कूटमस्त्रियाम् । शौकतैत्तिरमायूरकापोतादि स्वके गणे ॥ ४३ ॥ छेका वा गृह्यका गेहाऽऽसक्ता ये पक्षिणो मृगाः । ;c{॥ इति पशुवर्गः समाप्तः ॥} ;p{0151} ;v{मानववर्गः} ;c{॥ अथ मानववर्गः प्रारभ्यते ॥} मानवो मनुजो मर्त्त्यो मनुष्यो मानुषो नरः । ना पुमान् पुरुषः किञ्च पुरुषोऽथाऽबला वधूः ॥ १ ॥ नारी सीमन्तिनी योषा योषित् स्त्री वनिता तथा । स्याद्वामा महिलैतस्याः प्रभेदा भीरुरङ्गना ॥ २ ॥ कामिनी ललना कान्ता मानिनी वामलोचना । प्रमदा रमणी रामा सुन्दरी च नितम्बिनी ॥ ३ ॥ उत्तमा तु वरारोहा या प्रोक्ता वरवर्णिनी । मत्तकाशिन्यपि स्यात्सा भामिनीकोपने समे ॥ ४ ॥ महिषी साभिषेका स्याद् राज्ञोऽन्या भोगिनी मता । ;p{0152} अध्यूढा चाधिविन्ना च कृतसापत्निका तु या ॥ ५ ॥ पत्नी पाणिगृहीती स्याद् द्वितीया सहधर्मिणी । जाया भार्या बहुत्वे तु पुंसि दाराः कुटुम्बिनी ॥ ६ ॥ पुरन्ध्य्रथ सती साध्वी सुचरित्रा पतिव्रता । स्वयंवरा तु वर्या स्यात् सैव प्रोक्ता पतिंवरा ॥ ७ ॥ कुलजा कुलसंपन्ना कुलस्त्री दुहिता च समा इमाः । कुमारी दारिका कन्या दुहिता च समा इमाः ॥ ८ ॥ तरुणी युवतिः प्रोक्ता स्नुषायां तु जनी वधूः । ;p{0153} सुवासिनी चिरण्टी स्यात्पार्श्वस्था प्रतिवेशिनी ॥ ९ ॥ पुंश्चली पांशुला स्वैरिण्यसती कुलटोच्यते । विश्वस्ता विधवा रण्डा वीरा स्वामिसुतान्विता ॥ १० ॥ पतिवत्नी सनाथा स्यात्पलिक्नी जरती मता । किञ्चिद्विज्ञा भवेत् प्राज्ञी प्राज्ञा तूत्कृष्टधीयुता ॥ ११ ॥ जातिः शूद्रस्य शूद्रा स्याद् भार्या शूद्री प्रकीर्तिता । स्यादाभीरी गोपपत्नी पोटा श्मश्व्रादिचिह्निनी ॥ १२ ॥ उपाध्याय्यप्युपाध्याया स्वयं विद्योपदेशिका । ;p{0154} आचार्याणी तु पुंयोगादाचार्या विदुषी स्वयम् ॥ १३ ॥ अर्याण्यर्या जातिमात्रे क्षत्रिया क्षत्रियाण्यपि । जातापत्या प्रसूता च प्रयाता च प्रसूतिका ॥ १४ ॥ कोटवी नग्निका नग्ना वीरमातरि वीरसूः । वीरपत्नी भवेद् वीरभार्या दूतिस्तु दूतिका ॥ १५ ॥ साऽसिक्नी याऽवरोधस्तथा युवती दूतिकापदे । स्ववशा परवेश्मस्था सैरन्ध्री शिल्पकारका ॥ १६ ॥ वेश्या वारङ्गना रूपाजीवा च गणिका जनैः । ;p{0155} सत्कृता वारमुख्या स्याद् शम्भली कुट्टनी समे ॥ १७ ॥ आत्रेयी मलिनी पुष्पवत्यविर्ऋतुमत्यपि । रजस्वला तथोदक्या स्त्रीधर्मिण्यामथो रजः ॥ १८ ॥ पुष्पमार्तवमेतस्माद् श्रद्धालुर्दोहदार्थिनी । गर्भिण्यापन्नसत्त्वायामन्तर्वत्नी च गुर्विणी ॥ १९ ॥ निष्कला विगताऽऽर्तायां गणिकादेस्तु संहतौ । गाणिक्यं गर्भिकं तद्वद् यौवतं च नपुंसकम् ॥ २० ॥ सौभागिनेय आख्यातः सुभगायाः परस्त्रियाः । ;p{0156} पारस्त्रैणेय एवं यः कानीनोऽनूढकन्यका ॥ २१ ॥ तस्याः सुतो विमातुस्तु वैमात्रेयः पितृष्वसुः । पैतृष्वस्रेयपैतृष्वस्त्रीयौ मातृष्वसुस्तथा ॥ २२ ॥ भवेद्बान्धकिनेयोऽपि कौलटेरश्च बन्धुलः । कौलटेयसुतेऽसत्याः अपि चेद् भिक्षुकी सती ॥ २३ ॥ तस्याः कौलटिनेयः स्यात्कौलटेयः स्वआत्मजः । आत्मजन्मा सुतः सुनुः पुत्रस्यनय आत्मजान् ॥ २४ ॥ प्राहुर्दुहितं स्त्रीत्वे तोकाऽपत्ये तयोः समे । स्वस्माज्जातः सवर्णायामुरस्यः स्यात्तथोरसः ॥ २५ ॥ ;p{0157} तातः पिता च जनके माता तु जननी प्रसूः । जनयित्री ननन्दा स्याद्भर्तुः स्वस्य तु या स्वसा ॥ २६ ॥ भगिनी पुत्रपुत्री तु पौत्री नप्त्री सुतासुता । मातुली मातुलानी स्याद्भ्रातृजाया प्रजावती ॥ २७ ॥ यातरो भ्रातृवर्गस्य भार्याः स्युस्तु परस्परम् । दम्पत्योर्जननी श्वश्रुर्जनकः श्वशुरो मिथः ॥ २८ ॥ पत्नीभ्राता भवेच्छ्यालः स्वामिभ्राता तु देवरः । स्यात्पितृव्यः पितृर्भ्राता मातुरेष च मातुलः ॥ २९ ॥ ;p{0158} जामाता कन्यकाकान्तो भागिनेयः स्वसुः सुतः । मातामहो मातृतातः पितृतातः पितामहः ॥ ३० ॥ प्रमातामह आख्यातः पिता मातामहस्य यः । पिता पितामहस्य स्यात्प्रपितामहनामवान् ॥ ३१ ॥ उभयोः पितरौ वृद्धविशेषणविशेषितौ । सनाभिस्तु सपिण्डः स्याद्बन्धुसंघस्तु बन्धुता ॥ ३२ ॥ सगोत्रे बान्धवो बन्धुर्ज्ञातिः स्वः स्वजनोऽपि च । सहोदरसगर्भ्यः स्यात्सोदर्यः सहजस्तथा ॥ ३३ ॥ ;p{0159} उपभर्तरि जारः स्यात् पत्यौ भर्ता प्रियो धवः । जारजो गोलकः पत्यौ मृते कुण्डस्तु जीविते ॥ ३४ ॥ भ्रात्रीयो भ्रातृजो भ्रातृपुत्रे भ्रातृव्य इत्यपि । जंपती दंपती जायापती स्त्रीपुरुषावुभौ ॥ ३५ ॥ गर्भाशयो जरायुर्द्वौ गर्भवेष्टनचर्मणः । कुक्षिस्थस्य भवेद्भ्रूणो गर्भो वैजननस्तु यः ॥ ३६ ॥ सूतिमासस्तृतीयस्तु शण्डः क्लीबो नपुंसकः । प्रकृतिः स्थाविरं वृद्धसंघोऽपि स्याच्च वार्धकम् ॥ ३७ ॥ ;p{0160} शिरोजातस्य पलितं शुक्लता विस्रसा जरा । डिम्भोत्तानशया बाला स्तनपाऽपि स्तनन्धयी ॥ ३८ ॥ बाले माणवको हारभेदे कुपुरुषेऽपि च । स्थविरे प्रवया वृद्धो वयःस्थे तरुणो युवा ॥ ३९ ॥ अतिवृद्धे द्वयोर्ज्यायान् ज्येष्ठे स्तः पूर्वजाऽग्रजौ । यविष्ठश्च कनिष्ठश्च जघन्येऽवरजाऽनुजौ ॥ ४० ॥ वलिनो वलिभद्रश्च जरसाश्लथचर्मणि । सुकेशो केशिकः केशी ह्रस्वखर्वौ तु वामनः ॥ ४१ ॥ ;p{0161} अवभ्रटोऽवटीटोऽवनाटो यो नतनासिकः । न्यूनाङ्गे स्यादपोगण्डः खरणास्तीक्ष्णनासिकः ॥ ४२ ॥ दुर्बलाऽमांसलौ तुल्यौ बलिन्यंसलमांसलौ । संज्ञुः संहतजानुः स्यात्प्रज्ञुर्विरलजानुकः ॥ ४३ ॥ स्यात्कृतनासिको विग्रः खुरणाः स्थूलनासिकः । एकाक्षे कननः काणः केकरो बलिरस्तथा ॥ ४४ ॥ स्यादेडो बधिरे कुब्जे न्युब्जो गडुल इत्युभौ । रोगाद्यैर्दूषिते हस्ते कुणिर्मुण्डस्तु मुण्डिते ॥ ४५ ॥ ;p{0162} स्यातां खञ्जखोणावूर्ध्वज्ञस्तूर्ध्वजानुके । पङ्गुः श्रोणश्च निर्जङ्घे त्रिष्वेते पलितात्परे ॥ ४६ ॥ देहोऽस्त्री विग्रहः कायः पुंसि मूर्तिस्तनुः स्त्रियाम् । शरीरवर्ष्मगात्राणि वपुः क्लीबं कलेवरम् ॥ ४७ ॥ समाः परिणेयोद्वाहविवाहोपयमास्तथा । पाणीपीडनमानन्दपटस्तूढाम्बरे नवे ॥ ४८ ॥ छत्रामिषिः स्त्री मौलित्रे स्याद्वरः परिणेतरि । ज्येष्ठेऽनूढे कृतोद्वाहः परिवेत्ताऽनुजः स्मृतः ॥ ४९ ॥ ;p{0163} तज्ज्येष्ठः परिवित्तिः स्याद् व्यवायः पुंसि मैथुनम् । तिलकस्तिलचिह्ने स्याज्जडुले पिप्लुकालकौ ॥ ५० ॥ चिकित्सा रुक्प्रतीकारः आरोग्याऽनामये समे । औषधं भेषजं किञ्च भैषज्यमगदः पुमान् ॥ ५१ ॥ व्याध्यामयगदाः रोगोपतापौ रुग्रुजा स्त्रियाम् । यक्ष्मा शोषः क्षवो राजरोगाः स्त्री क्षुत् क्षवः क्षुतम् ॥ ५२ ॥ पीनसः स्यात्प्रतिश्यायः पादस्फोटे विपादिका । ;p{0164} खर्जूः कण्डूश्च कण्डूया शोफशोथौ समावुभौ ॥ ५३ ॥ पुंसि स्यात्क्षवथुः कासः कच्छू पामा विचर्चिका । पिटकश्चापि विस्फोटस्त्रिषु सिध्मं किलासकम् ॥ ५४ ॥ त्वक्पुष्पी श्वित्रकुष्ठे द्वे कोठो मण्डलकं पृथक् । वमिः प्रच्छर्दिकावन्तिर्मूत्रकृच्छेऽश्मरी स्त्रियाम् ॥ ५५ ॥ मूत्राघाते निबन्धो ना ग्रहणी तु प्रवाहिका । सालित्यरोगे शेशघ्नस्तापरोगे ज्वरः पुमान् ॥ ५६ ॥ ;p{0165} प्रमेहे स्यु र्मूत्रमेहमधुमेहादयो भिदाः ॥ ५७ ॥ अर्शो दुर्नामकं क्लीबं महामाया विसूचिका । भगन्दरादयोऽप्येवं व्याधिभेदा उदाहृताः ॥ ५८ ॥ आतुरो व्याधितो रोगी स्यादुल्लाघस्तु निर्गदः । भिषग् वैद्याऽगदंकाररोगहारिचिकित्सकाः ॥ ५९ ॥ चिल्लो विल्लश्च पिल्लश्च क्लिन्ने नेत्रे च तद्वति । अतिसारोऽप्यतीसारी वातरोगी तु वातकी ॥ ६० ॥ अन्धो नेत्रविहीनः स्यादुन्मत्तोन्मादिनौ समौ । ;p{0166} मूर्च्छलो मूर्च्छिते न्युब्जे भुग्ने शोषिणि तु क्षयी ॥ ६१ ॥ खल्वाटे खलतिर्व्याधे वृद्धनाभौ च तुन्दिलः । श्लेष्मा कफः श्लेष्मलस्तु श्लेष्मणः कफिनि स्मृतः ॥ ६२ ॥ सकुष्ठकुष्ठिनौ तुल्यौ त्रिलिङ्यामातुरादयः । दद्रुणोऽसृग्धरा चर्म तरलं पिशिताऽमिषे ॥ ६३ ॥ मांसं क्रव्यं च पललं शोणिते रुधिराऽसृजौ । क्षतजं लोहितं रक्तमस्रमश्रुणि लोहिते ॥ ६४ ॥ ;p{0167} वुक्काऽग्रमांस स्त्री गुल्मः प्लीहा मेदो वसा वया । मायुः पुंसि भवेत्पित्तं स्नायुस्तु वस्नसा स्त्रियाम् ॥ ६५ ॥ कालखण्डं यकृत्क्लीबे तिलकं क्लोम फुप्फुसे । गोदं गोर्दं च मस्तिष्कं क्लीबे किट्टे मलोऽस्त्रियाम् ॥ ६६ ॥ क्लीबे पुरी तदन्त्रे च लाला तु स्यन्दिनी स्त्रियाम् । स्यात्पिञ्जूषं श्रोत्रमलं सिंघाणं नासिकामलम् ॥ ६७ ॥ दूषिका स्त्री नेत्रमलं कुल्यं कीकसमस्थिनि । ;p{0168} प्रस्रावः पुंसि मूत्रं स्याद् रेचनं तु विरेचने ॥ ६८ ॥ उच्चाराऽवस्करौ पुंसि गूथं च शमलं शकृत् । विष्ठा विट् च स्त्रियामेव वर्चस्कं न स्त्रियां क्वचित् ॥ ६९ ॥ कङ्कालः पुंसि कायाऽस्थ्नि पृष्ठाऽस्थ्नी स्त्री कशेरुका । स्यात्पर्शुका स्त्री पार्श्वास्थि करोटिः स्त्री शिरोऽस्थनि ॥ ७० ॥ क्लीबे शीर्षं शिरो मूर्ध मौली पुंस्यस्त्रि मस्तकम् । चक्षुरक्षीक्षणं नेत्रं नयनं लोचनं समम् ॥ ७१ ॥ दृग् दृष्टिश्च स्त्रियां क्लीबे श्रोत्रं तु श्रवणं श्रवः । ;p{0169} पुंसि शब्दग्रहः कर्णः श्रुतिः स्त्रीलिङ्गमुच्यते ॥ ७२ ॥ कटाक्षोऽपाङ्गचेष्टायां नेत्रान्तोऽपाङ्ग उच्यते । तारकाऽक्ष्णः कृष्णगोले भ्रूमध्यं कूर्चमस्त्रियाम् ॥ ७३ ॥ भ्रूः स्त्रियां चक्षुषोरूर्ध्वमोष्ठान्ते सृक्किसृक्कणी । गण्डः कपोलः पुंस्योष्ठे त्वधरो रदनच्छदः ॥ ७४ ॥ ओष्ठात्परं स्याच्चिबुकं कपोलस्तु हनुः स्त्रियाम् । क्लीबमास्यं मुखं तुण्डं वदनं वक्त्रमाननम् ॥ ७५ ॥ जंभा जृम्भा स्त्रियां जृम्भः पुंसि क्लीबे तु जृम्भणम् । जिह्वा रसज्ञा रसना समे काकुदतालुनी ॥ ७६ ॥ ;p{0170} ललाटमलिकं भालं घ्राणं घोणाऽपि नासिका । ग्रीवाऽग्रो गलकण्ठौ च ग्रीवात् कन्धरा स्त्रियाम् ॥ ७७ ॥ कृकाटिकाऽवटुर्घाटा गलवृद्धिर्गडुः पुमान् । प्रसृतिः स्त्री करे कुब्जे युक्तयोर्नाऽञ्जलिस्तयोः ॥ ७८ ॥ पाणिः शयः करः पुंसि तच्छाखा त्वङ्गुलिः स्त्रियाम् । पुंस्यङ्गुष्ठस्तर्जनी स्त्री सैव ख्याता प्रदेशिनी ॥ ७९ ॥ मध्यमाऽनामिका किञ्च कनिष्ठेति क्रमादसौ । हस्ताघातश्चपेटा स्त्री करर्द्धिः करतालिका ॥ ८० ॥ ;p{0171} कफोणिः कूर्परस्तुल्यः प्रगण्डः कूर्परोपरि । प्रकोष्ठस्तदधः पुंसि भुजबाहू द्वयोः समौ ॥ ८१ ॥ मध्योऽस्त्री मध्यमं क्लीबं पृष्ठं स्यात्कायपश्चिमम् । पुंसि कक्षो बाहुमूलं तदधः पार्श्वमस्त्रियाम् ॥ ८२ ॥ अंसस्कन्धौ समौ तस्य सन्धिर्जत्रु नपुंसकम् । स्त्रीनपुंसकयोः क्रोडमुरो वक्षो भुजान्तरे ॥ ८३ ॥ स्तनाग्रः चूचुकं न स्त्री वक्षोजस्तु कुचः स्तनः । कुक्षिः पुंस्युदरं तुन्दं क्लीबं जठरमस्त्रियाम् ॥ ८४ ॥ ;p{0172} योनिर्द्वयोर्भगं शिश्ने शेफो मेढ्रं च मेहनम् । मुष्केऽण्डकोशवृषणावुपस्थो भगशिश्नयोः ॥ ८५ ॥ स्यान्नितम्बः पुंसि पश्चात् स्त्रीकट्या जघनं पुरः । पृष्ठवंशादधोगर्तदेशः क्लीबं कुकुन्दरम् ॥ ८६ ॥ श्रोणिः कटिः स्त्रियां वस्तिर्द्वयोर्मूत्राशयः पुमान् । क्लीबेऽपानं गुदं पुंसि पायुरूरुस्तु सक्थनि ॥ ८७ ॥ जानूरुपवर्णी तुल्ये जंघा तु प्रसृता स्त्रियाम् । ;p{0173} ऊरोः सन्धिर्वङ्क्षणः स्यात्पादाग्रप्रपदे समे ॥ ८८ ॥ क्रमः पादः पदङ्घ्रिश्च चरणोऽस्त्री समा इमे । नववरोऽपि नखोऽस्त्री ना करेरुहपुनर्भवौ ॥ ८९ ॥ पञ्चशास्वकरेऽङ्गुष्ठे तर्जन्यादि चतसृभिः । साकं तते तत्तदन्तर्देशाः स्युः क्रमशस्त्विमे ॥ ९० ॥ प्रादेशतालगोकर्णा वितस्तिर्द्वादशाङ्गुलः । द्वयोश्चपेटः प्रतलः पुंसि पाणौ तताऽङ्गुलौ ॥ ९१ ॥ वामश्च दक्षिणः पाणिः संहतौ विततौ यदि । तयोर्यः प्रतलः स स्याद् नाम्ना सिहतलः स्मृतः ॥ ९२ ॥ ;p{0174} केशः शिरोरुहो बालः कचश्चिकुरकुन्तलौ । केशवेशस्तु कवरी धम्मिलः संयतः कचः ॥ ९३ ॥ केशपाशी शिखा चूडा तापसानां जटा मता । अलकः कुटिलो बालस्तद्वृन्दं कैश्यकैशिकौ ॥ ९४ ॥ स्त्रीणां शिरःस्थिता वेणिः प्रवेणिर्जूटिकाऽऽकृतिः । बाह्वोरङ्गदकेयूरे भूषणं तन्नपुंसकम् ॥ ९५ ॥ रशना मेखला काञ्ची कटिसूत्रं च शृङ्खलम् । मञ्जीरो नूपुरो न स्त्री हंसकश्च पुमानयम् ॥ ९६ ॥ किङ्किणी क्षुद्रघण्टा स्यात्तूलं रूतमुभे समे । ;p{0175} वस्त्रयोनिः कृमी रोम त्वक् फलं त्रिषु ते दश ॥ ९७ ॥ कार्पासं बादरं फालं कौशेयं कृमिकोशजम् । वाल्कं क्षौमं राङ्कवन्तु मृगरोमोद्भवाऽम्बरम् ॥ ९८ ॥ नववस्त्रं निष्प्रवाणि तन्त्रकाऽनाहते अपि । क्लीबे तूद्गमनीयं तद् यद् धौताऽऽच्छादनद्वयम् ॥ ९९ ॥ क्षौमे दुकूलं, पत्रोर्णधौतकौशेयवाससि । तसरत्रसरौ दिव्यसूत्रनिर्मितमम्बरम् ॥ १०० ॥ दशाः स्त्रियां भूमनि स्युर्वस्त्रस्य प्रान्तयोर्द्वयोः । पटच्चरं जीर्णवस्त्रं कन्था स्त्री स्यूतवाससि ॥ १०१ ॥ ;p{0176} जीर्णवस्त्रे खण्डिते तु कर्पटो लक्तकः समौ । स्त्रियां मशहरी स्यूतवस्त्रे मशकवारणे ॥ १०२ ॥ स्यात्स्त्रियां चीरिका कच्छा कौपीनं मलमल्लकम् । रल्लकः कम्बलः पुंसि वराशिः स्थूलवाससि ॥ १०३ ॥ सुचेलः शोभने वस्त्रे निचोलः प्रच्छदः पटः । संख्यानमुत्तरासङ्गोऽथोत्तरीयेष्वधोंऽशुकं ॥ १०४ ॥ परिधानोपसंख्यानाऽन्तरीयाण्यथ चोलकः । कूर्पासकः स्त्रियां मूर्ध्नि वस्त्रं स्यादवगुण्ठनम् ॥ १०५ ॥ ;p{0177} चण्डातकं तु स्याच्छ्रेष्ठं स्त्रीणामर्द्धोरुकेंऽबरे । बहुमूल्ये तूर्णवस्त्रे स्याद् द्विशालो द्वयोरयम् ॥ १०६ ॥ नीशारो ना प्रावरणे शीतवातादिवारणे । चैलमाच्छादनं वस्त्रं वासो वसनमंशुकम् ॥ १०७ ॥ दूष्या पटकुटी साऽल्पांऽशुकुटीरः पुमानयम् । विताने चन्द्रकोल्लोचौ काण्डपट्टे तु कोणिका ॥ १०८ ॥ परदायां जवनिका तिरस्करिणिकाऽपि सा । स्यादुद्वर्तनमुत्सादो मार्जना तु मृजा स्त्रियाम् ॥ १०९ ॥ ;p{0178} परिकर्माङ्गसंस्कारे स्नाने त्वाप्लाव आप्लवः । चर्चा स्त्री स्थासकः पत्रालेखा पत्राङ्गुली समे ॥ ११० ॥ विशेषकं स्यात्तिलकेऽनुबोधस्तु प्रबोधने । यावालक्तौ जतु क्लीबे लाक्षायां स्यादथाऽगुरु ॥ १११ ॥ वंशिकं जोङ्गकं च स्यान्न द्वयोरथ यावनः । सिह्लोऽथ यक्षधूपस्तु रालः सर्जरसः पुमान् ॥ ११२ ॥ कालीयकं जायकं स्यात्कुङ्कुमाऽग्निशिखे समे । ;p{0179} कालागुरुणि मङ्गल्या श्रीवासः सरलद्रवः ॥ ११३ ॥ वृकधूपोऽनेकवस्तुकृते धूपे मनोहरे । कर्पूरो घनसारः स्याच्चन्द्रः स्त्री हिमवालुका ॥ ११४ ॥ पाटीरश्चन्दनो गन्धसारो मलयजः समाः । केशराऽगुरुकर्पूरकस्तूरीकोलकैः कृतम् ॥ ११५ ॥ मिश्रितं सर्वमेकत्र प्रोच्यते यक्षकर्दमः । विलेपनं वर्णकं स्याद्वर्तिर्गात्राऽनुलेपनी ॥ ११६ ॥ पिष्टातः पटवासोऽपि वासयोगोऽथ वासितम् । ;p{0180} भाविते त्रिषु माल्यादेः संस्कारस्त्वधिवासनम् ॥ ११७ ॥ न्यस्ता मूर्ध्नि भवेन्माल्यं माला स्रक् कुसुमावलिः । गर्भकः केशमध्यस्थं ललाटस्थं ललामकम् ॥ ११८ ॥ प्रभ्रष्टकं शिखान्यस्ते प्रालम्बं कण्ठलम्बिनि । रचनायां परिस्पन्दः समा वापीडशेखरौ ॥ ११९ ॥ शय्यायां शयनं तल्पं स्यादाभोगस्तु पूर्णता । तूलतल्पं तल्पभेदे गेन्दुकः कन्दुकः पुमान् ॥ १२० ॥ उपधाने तूपबर्होच्छीर्षौ खट्वा तु खट्विका । ;p{0181} निवारशणसूत्राद्याः खट्वावेष्टनसाधने ॥ १२१ ॥ पल्यङ्कमञ्चपर्यङ्काः सनिवारे तमङ्गकः । प्रदीपदीपौ सदृशौ विष्टरः पीठमासनम् ॥ १२२ ॥ पतद्ग्रहे प्रतिग्राहः सम्पुटे तु समुद्गकः । या स्यात्कंकतिका सैव कंकती च प्रसाधनी ॥ १२३ ॥ सिक्थकं स्यान्मधूच्छिष्टं सिक्थिका तस्य वर्तिका । दीपज्वालादीपशिखादीपार्चिस्तु नपुंसकम् ॥ १२४ ॥ दीपधानी स्त्रियां दीपाधारे दीपद्रुमः पुमान् । ;p{0182} दीपावली दीपमाला दीपालिर्दीपशृङ्खला ॥ १२५ ॥ व्यजनं स्यात्तालवृन्तं तुल्ये कज्जलकाजले । समा अमी स्युर्मुकुरमुकुराऽऽदर्शदर्पणाः ॥ १२६ ॥ पुंसि दीपध्वजो दीपकीट्टं स्याद्दीपकज्जलम् । ;c{॥ इति मानववर्गः समाप्तः ॥} ;p{0183} ;v{वंशवर्गः} ;c{॥ अथ वंशवर्गः प्रारभ्यते ॥} वंशोऽन्वयोऽन्ववायश्च सन्तानोऽभिजनः कुलम् । गोत्रं च जननं स्त्री स्यात्सन्ततिः क्षत्रियादयः ॥ १ ॥ वर्णाः ब्राह्मणविट्शूद्रा राजवीजी तु राजजः । सज्जने साधु सम्याऽर्यकुलीनाश्च महाकुलाः ॥ २ ॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टयम् । चत्वार आश्रमा अस्त्री वर्णी स्याद्ब्रह्मचारिषु ॥ ३ ॥ विप्रब्राह्मणभूदेवाऽग्रजन्मद्विजवाडवाः । ज्ञो विपश्चित्कृती धीमान् संख्यावान्प्रज्ञ उच्यते ॥ ४ ॥ कविपण्डितदोषज्ञसुधीविद्वन्मनीषिणः । ;p{0184} सन् कोविदो बुधो धीरः सूरिः प्राज्ञो विचक्षणः ॥ ५ ॥ दूरदर्शी श्रोत्रियस्तु छान्दसो वेदपारगः । स्याद्वादी स्यादार्हकोऽथ वेदान्त्युपनिषद्विदि ॥ ६ ॥ मीमांसको यो मीमांसाज्ञानवान्सांख्यकापिलौ । वैशिषिकज्ञः काणादी न्यायो नैयायिकस्तथा ॥ ७ ॥ सौगतः शून्यवादी स्याच्चार्वाकाद्यास्तु तद्भिदाः । उपेत्याऽधीयते यस्मादुपाध्यायो गुरुस्तु यः ॥ ८ ॥ मन्त्रदाता पिता वाऽपि यष्टाऽऽदेष्टा व्रती मखे । ;p{0185} याजको यजमानश्च यायजूकोऽतियाजकः ॥ ९ ॥ इष्टवान् विधिना यज्वा तथा स आसुतीबलः । अनूचानः प्रवचने साङ्गेऽधीतो गणिर्मतः ॥ १० ॥ अनुयोगकृदाचार्यः उपाध्यायस्तु पाठकः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥ सतीर्थ्यास्त्वेकगुरुका आग्नीध्रा अग्निदीपकाः । छात्रान्तेवासिशिष्याः स्युर्वेदार्थं गुरुसेवकाः ॥ १२ ॥ उपज्ञा त्वादिमं ज्ञानं ज्ञात्वाऽऽरम्भ उपक्रमः । ;p{0186} सत्रं बर्हिर्वितानं च संस्तरः क्रतुरध्वरः ॥ १३ ॥ मखो यज्ञः सवो यागो गोष्ठी तु परिषत्सभा । समज्या समितिः संसद् आस्थानसदसी अपि ॥ १४ ॥ स्थण्डिलं चत्वरं सभ्ये सामाजिकसभासदौ । भूमिर्या संस्कृता वेदिर्यूपः स्याद् यज्ञकीलकः ॥ १५ ॥ सघनाऽऽवरणं कुम्बा निर्मन्थ्यं त्वरणिर्द्वयोः । परमान्नं पायसं च स्यात्क्षीरान्ने नपुंसकम् ॥ १६ ॥ दानं वितरणं त्याग उत्सर्गश्च विसर्जनम् । स्पर्शनं चाऽथ याञ्चा स्याद् याचना च गवेषणा ॥ १७ ॥ ;p{0187} अन्वेषणा प्रार्थना च भवेत्प्राघुणिकस्तु सः । अभ्यागतः प्राघुणकोऽतिथिः प्राधूणकस्तथा ॥ १८ ॥ आतिथेयं त्वाऽतिथेय्यां तथाऽऽवेशिकमित्यपि । अर्घार्थमर्घ्यं पादार्थं पाद्यं त्रिषु त्रयोदश ॥ १९ ॥ अर्हणाऽर्चासपर्याऽपचितिपूजाः समार्थकाः । शुश्रूषोपासना सेवा परिचर्या निगद्यते ॥ २० ॥ योगमार्गे स्थितिश्चर्याऽटा तु पर्यटनं भ्रमः । मुनेर्भावोऽथवा कर्म मौनं नोभाषणं विदुः ॥ २१ ॥ परिपाटी त्वानुपूर्वी पर्यायाऽनुक्रमावपि । पर्युपशमना पर्योसवना पर्यूषणा तथा ॥ २२ ॥ ;p{0188} पर्वण्याष्टाहिके पक्षे भवं तु पाक्षिकं स्मृतम् । पर्वसंवत्सरो नाम्ना सांवत्सरिकमुच्यते ॥ २३ ॥ उपात्ययोऽतिपातः स्यात्समेऽभ्युत्थानगौरवे । सावद्येभ्यस्तु कर्मभ्यो निवृत्तिर्व्रतमस्त्रियाम् ॥ २४ ॥ पृथगात्मता विवेकः स्यादुपवास उपोषणम् । पारणैतस्य निस्तार एकभक्तं सकृद्भुजि ॥ २५ ॥ सदाचाराऽध्ययनयोरुत्कर्षो ब्रह्मवर्चसम् । परिव्राण्मश्करी भिक्षुः सन्न्यासीन्यथ तापसः ॥ २६ ॥ तपस्वी संयमी तु स्याद् दान्तो वाचंयमो मुनिः ॥ ;p{0189} संयतश्च व्रती साधुर्निर्द्वन्द्वो विरजस्तमाः ॥ २७ ॥ पाखण्डः स्त्री पुमान्वाऽपि वैडालव्रतिको मतः । कुण्डी कमण्डलुः पात्रमासनं व्रतीनां बृसी ॥ २८ ॥ भैक्षं भिक्षाचयः कृत्तिः स्त्रियामजिनचर्मणी । अक्षौरे लुंचनं लोचः क्षौरे वपनमुण्डने ॥ २९ ॥ उत्कचः केशशून्ये स्याद् यम इन्द्रियनिग्रहः । प्रतिमा नियमश्चाऽभिग्रहो ज्ञेयः समार्थकः ॥ ३० ॥ ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं यथा तथा । देवभावस्तु देवत्वं देवभूयं क्रमादनु ॥ ३१ ॥ पण्डितत्वं च मूर्खत्वं तत्तत्सायुज्यमर्थ्यताम् । ;p{0190} उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ३२ ॥ अस्वाध्यायस्वनध्यायो वन्दना त्वभिवादनम् । पुंसि ग्रन्थे पद्धतिः स्त्री कृतिः कल्पितवाङ्मये ॥ ३३ ॥ सिद्धान्त आगमः पुंसि शास्त्रं शासनमेव च । तन्त्रं प्रवचनं सूत्रेऽथाऽऽकारो बाह्यमिङ्गितम् ॥ ३४ ॥ कर्मिष्ठकर्मनिष्ठौ द्वौ त्रिषु पुण्यादिकर्तरि । अभ्यासे खुरली योग्या सङ्केतस्त्विङ्गिते पुमान् ॥ ३५ ॥ स्यात्कागदं करगलं मषी स्त्री लेखरञ्जिका । ;p{0191} सञ्चः पत्रे पुमान् सञ्ची पत्रिका द्वे स्त्रियामिमे ॥ ३६ ॥ पट्टः शाणिः शिलापट्टः खटिका कठिनी खटी । पुंसि विद्यालयः पाठशाला स्त्री पाठवेश्मनि ॥ ३७ ॥ मार्जन्यूर्णामयी याऽऽस्ते सा रजोहरणं नना । सैवाऽल्पिष्ठा पुंसि गोच्छः पुञ्जनी च प्रमार्जिका ॥ ३८ ॥ रजोहरणदण्डस्थ वस्त्रं नैषद्यमुच्यते । क्लीबं प्रावरणं पुंसि प्रावारः शाटिका स्त्रियाम् ॥ ३९ ॥ ऊर्ध्ववस्त्रमधोवस्त्रे चोलपट्ट इति स्मृतः । मुखबद्धे खण्डवस्त्रे स्यात्स्त्रियां मुखवस्त्रिका ॥ ४० ॥ श्रमणोपासकः श्राद्धः श्रावकश्च समा इमे । ;p{0192} आषाढीमवधिं मत्वा पञ्चादशद्दिनपञ्चमी ॥ ४१ ॥ संवत्सरी पर्युषण पर्वाऽन्तः शास्त्रसंमतः । ;c{॥ इति वंशवर्गः समाप्तः ॥} ;p{0193} ;v{क्षत्रियवर्गः} ;c{॥ अथ क्षत्रियवर्गः प्रारभ्यते ॥} मूर्धाभिषिक्तराजन्यविराट्क्षत्रियबाहुजाः । नृपे पार्थिवराट्क्ष्माभृद्राजभूपमहीक्षितः ॥ १ ॥ सार्वभौमः समुद्रान्तधरेशे चक्रवर्तिनि । मण्डलेश्वर ऊर्व्येकदेशशास्ताऽथ राजकम् ॥ २ ॥ राजन्यकं भवेदेषां सचिवोऽमात्यमन्त्रिणौ । महामात्रः प्रधानं स्याद् द्वाःस्थो दौवारिकस्तथा ॥ ३ ॥ द्वारपालः प्रतीहारो द्वारपो वेत्रधारकः । प्रहरीयामिकौ द्वौ स्तः प्राड्विपाकोऽक्षदर्शकः ॥ ४ ॥ प्रस्तोता धर्मकृत्यस्य पुरोहितपुरोधसौ । ;p{0194} स्याद्गर्वनरः कर्ममन्त्री तदवरस्तु यः ॥ ५ ॥ स कर्मेशनरः तप्पाऽधीशस्तु करकूटनः । न्यायाधीशस्त्वक्षपाटो धार्मिकोऽथ मनस्विपः ॥ ६ ॥ विवादाधिपतिः स्थेयः प्रान्तेशो मध्यदेशराट् । सेवकोऽर्थ्यऽनुजीवी स्यात्कोट्टपाले तु मुद्रकः ॥ ७ ॥ मुखतारो मुख्यतरः स्यान्मनस्वा तु मुद्रकः । औद्घाटिकः पुलीशस्तु पुरीशो यामिकाधिपे ॥ ८ ॥ पुंस्युद्घाटः स्त्रियां स्थानी यामिकाधिपतिस्थलम् । ;p{0195} नैष्किको रजताध्यक्षः कोशाध्यक्षस्तु कोशपः ॥ ९ ॥ धनपालो धनाध्यक्षः स्वर्णाध्यक्षस्तु भौरिकः । प्रशस्तकर्मकर्तृणां मानदानेऽभिनन्दनम् ॥ १० ॥ अधिकारिण्यधिकृताऽध्यक्षाऽधिपतिमालिकाः । जयपत्रं लब्धिपत्रं समौ मध्यस्थसाक्षिणौ ॥ ११ ॥ माध्यस्थं साक्षिता प्रातिभाव्यलग्नकते समे । यदावेदनपत्रं तत् प्रार्थनादलमुच्यते ॥ १२ ॥ प्रमाणपत्रं यत्तस्याद् व्यवस्थापत्रमित्यपि । अभियोगस्तु राजादिष्वपराधनिवेदनम् ॥ १३ ॥ ;p{0196} शङ्कातत्त्वाभियोगाभ्यां तद्भेदो द्विविधो मतः । अभियोगस्य यार्थाथ्याऽन्वेषणे त्वभियोजनम् ॥ १४ ॥ कारा स्त्री बन्धनाऽगारं बन्द्यां तु प्रग्रहः पुमान् । आवेदकोऽभियोक्ताऽभियोगी वादी च वादकः ॥ १५ ॥ अभियुक्तः प्रतिद्वन्द्वी प्रतिवादी विवादकः । कक्षावेक्षकशुद्धान्तपालाऽन्तर्वेशिकाः समाः ॥ १६ ॥ कञ्चुकी सैविदल्लः स्यात् षण्ढवर्षवरावपि । ;p{0197} आस्थानो राजधानी स्त्री हास्यकारी विदूषकः ॥ १७ ॥ भाण्डागारः कोषकोशौ रक्षी स्याद्राजरक्षकः । घण्टायन्त्रं घटीनाली यामनाली यमेरुका ॥ १८ ॥ स्वेदेशान्तरितो राजा मित्रं शत्रुरितोऽन्यदृक् । उदासीनस्तृतीयः स्यात्पार्ष्णिग्राहोऽनुपृष्ठगः ॥ १९ ॥ समौ स्निग्धवयसौ स्तः क्लीबे मित्रं सखा सुहृत् । शत्रुस्तु शात्रवाऽमित्राऽहिताऽरिरिपुवैरिणः ॥ २० ॥ परप्रतीपप्रत्यर्थिविपक्षाऽरातिविद्विषः । दुर्हृद्द्वेषिद्विषद्दस्युसपत्नपरिपन्थिनः ॥ २१ ॥ ;p{0198} आप्तो विश्वसितो गुप्तचरे चारचरस्पशाः । स्त्री मैत्री मित्रता मैत्र्यं सख्यं साप्तपदीनकम् ॥ २२ ॥ इष्टसंपादनं स्वस्याऽऽराध्यादेरनुवर्तनम् । सत्री सदाव्रती दानी सिद्धान्तज्ञस्तु तान्त्रिकः ॥ २३ ॥ दैवज्ञो गणको ज्योतिर्विद्भविज्ज्योतिषी स्मृतः । सामुद्रिकस्त्वीक्षणिको दूतः सन्देशहारकः ॥ २४ ॥ विविक्तं विजनैकान्ताः उपांशु च रहोऽव्ययः । रहस्यं त्रिषु तज्जाते युक्तौ क्लीबं समञ्जसम् ॥ २५ ॥ ;p{0199} धर्माधिकरणं धर्मासनं नीतिवितर्दिकाः । स्त्रियां न्यायालयः पुंसि तथा कचहरीत्यपि ॥ २६ ॥ स्याद्वार्णिकोऽक्षरकरो लेखकोऽक्षरजीवकः । तथैवाऽक्षरचञ्चुश्च लोकेऽक्षरचणो मतः ॥ २७ ॥ स्यात्कागदं करगलं स्त्रियां स्याल्लिपिधानिका । तथा पुंस्यक्षरन्यासोऽक्षरधिः पत्रिका स्त्रियाम् ॥ २८ ॥ लिपिर्लिबिः स्त्रियां लेखेऽक्षरन्यासोऽक्षराङ्गकम् । जननी त्वक्षरस्य स्याल्लेखन्यक्षरतूलिका ॥ २९ ॥ कलमोऽथ मसीधानी मसीपात्रं मसिप्रसूः । नीतिः स्त्रियां न्यायकल्पौ शासनं तु निदेशनम् ॥ ३० ॥ ;p{0200} स्त्रियामाज्ञाऽपराधे तु मन्तु रागो नपुंसकम् । मन्त्रः स्यादषडक्षीणो भ्रेष औचित्यपातनम् ॥ ३१ ॥ त्रिषु त्वौपायिकं न्याय्यं युक्तं बलिकरौ समौ । स्यात्तदात्वं तु तत्कालः समे उद्दानबन्धने ॥ ३२ ॥ गलहस्तोऽर्धचन्द्रः स्याद् धारा दण्डप्रणालिका । स्यादुद्बन्धनमुत्प्राशः शूलदण्डस्तु शूलिका ॥ ३३ ॥ प्रक्रिया त्वधिकारोऽस्त्रि शुक्लं घट्टादिजः करः । ;p{0201} आयतिः स्युरुत्तरे काले चमरं चामरं समे ॥ ३४ ॥ सुदायो यौतुके देये सज्जनं सैन्यरक्षणे । उपग्राह्योपचारौ द्वा वुत्कोच उपहारकः ॥ ३५ ॥ उपदानं कौशलिकं ढौकनाऽऽमिषप्राभृतम् । उपायनं तथा लञ्चोपदा दाने स्वयं कृते ॥ ३६ ॥ पुंस्युदर्कः फलं भावि सद्यः सान्दृष्टिकं तु यत् । हैमं सिंहासनं तुल्ये भद्रासननृपासने ॥ ३७ ॥ भृङ्गारः पुंसि झारी स्त्री झरीका कनकालुका । ;p{0202} धारायन्त्रमपांयन्त्रे वस्तिः स्याद्रेचके पुमान् ॥ ३८ ॥ स्याद्वेश्यालम्पटः कामकूटः कूर्चं तु कूर्चकम् । वेत्रासनं समावेदी चाऽऽसन्दी कथितास्त्रियाम् ॥ ३९ ॥ स्यादासङ्गस्तु सम्बन्ध आसनं तूपवेशनम् । नागदन्ताश्च भूम्न्येव पुंसि स्याद्घटकर्कटः ॥ ४० ॥ चक्राऽभ्यासश्चक्रशिला तत्स्थानं तु खलूरिका । शिबिरं कटकं षण्ढे निवेशोऽप्यथ कुञ्जरः ॥ ४१ ॥ द्विपो दन्तावली दन्ती द्विरदो वारणो गजः । इभः स्तम्बेरमो नागः करी हस्ती मतङ्गजः ॥ ४२ ॥ ;p{0203} मातङ्गोऽनेकपः पद्मी कुम्भी करीटसिन्धुरौ । मदोत्कटो मदोन्मत्तो मत्तो मदकलः समाः ॥ ४३ ॥ यूथेशो यूथनागः स्यात्कलभोऽतिशिशुः करी । उद्वान्तो निर्मदो यूथे हास्तिकं गजता स्त्रियाम् ॥ ४४ ॥ हस्तिगण्डः कटोऽस्य स्त्री हस्तिनी करिणी वशा । इषीका नेत्रगोलं स्याल्ललाटं स्यात्त्ववग्रहः ॥ ४५ ॥ शुण्डादण्डः करस्तज्जो जलाणुर्वमथुः पुमान् । ;p{0204} दानं मदः शिरःपिण्डः कुम्भोऽस्याभ्यन्तरं विदुः ॥ ४६ ॥ आसनं स्कन्धदेशोऽस्य बिन्दुजालं तु पद्मकम् । अङ्कुशोऽस्त्री सृणिः स्त्री स्यात्कशायां तोत्रवैणुकौ ॥ ४७ ॥ निगडोऽस्त्र्यन्दुको नाऽन्दूः स्त्री नना शृंखलं भवेत् । कल्पना सञ्जना कक्ष्यादूष्ये तूदरबन्धिनी ॥ ४८ ॥ कुथो वर्णः परिस्तोमः प्रवेण्यास्तरणं त्रिषु । आहवो पालितोऽन्ये तु द्वयोरेव कुथं विदुः ॥ ४९ ॥ झलझल्ला तथाऽस्फाले हस्तिनीकर्णचालने । ;p{0205} आलानं बन्धनस्तम्भः स्याद्वारी गजबन्धनी ॥ ५० ॥ हस्तिशाला वरण्डस्तु पुमान् स्त्री गजवेदिका । हस्तिपाऽघोरणौ तुल्यौ वीतं फल्गु हयद्विपम् ॥ ५१ ॥ अश्वस्तुरङ्गतुरगहयवाजितुरङ्गमाः । घोटघोटकगन्धर्वसप्तिवाहाऽर्वसैन्धवाः ॥ ५२ ॥ पीतिर्विनीतः संजाता शिक्षा यस्य स आहवे । भिन्नो जह्यान्नयः संज्ञामाजानेयस्तु सत्कुलः ॥ ५३ ॥ काम्बोजा वाह्लिकास्तद्वत् पारसीका वनायुजाः । सवेगो जवनः पृष्ठ्यस्थौरिणौ भारवाहके ॥ ५४ ॥ ;p{0206} शुल्काऽश्वे पुंसि कर्कः स्याद् रथ्यस्तु रथवाहकः । आश्वीनं येन चैकाह्ना गम्यो गम्येत तत् त्रिषु ॥ ५५ ॥ घोट्यश्वा वडवा वामी वाडवं वडवागणः । अश्वस्य नासिका प्रोथं धारा पञ्चगतिर्यथा ॥ ५६ ॥ प्लुतमास्कन्दितं धौरितकं वल्गितरेचके । हेषा ह्रेषा च शब्दे स्त्री कश्यं मध्ये नपुंसकम् ॥ ५७ ॥ गलदेशो निगालोऽथाऽऽश्वीयमाश्वं हयोच्चयः । खुरः पुंसि शफं क्लीबे पुच्छाग्रं वालधिः पुमान् ॥ ५८ ॥ ;p{0207} लाङ्गूलं लाङ्गुलं लूमं पूच्छेऽथ कविका स्त्रियाम् । दन्तालिका खलिनोऽस्त्री वल्गा स्त्री प्रग्रहः पुमान् ॥ ५९ ॥ यो युद्धार्थो रथश्चक्री शताङ्गः स्यन्दनश्च सः । सुखेन भ्रमणार्थो यः सस्यात्पुष्परथो रथः ॥ ६० ॥ स्त्रीणां रथे पुमान् कर्णी रथः प्रवहणं तथा । क्लीबेऽनः शकटो नस्त्री गन्त्री गान्त्री च गाडिका ॥ ६१ ॥ ताम्रयानं चतुर्दोली पाल्यङ्कीशिबिके समे । प्रेङ्खाहिन्दोलयोर्दोला दोली तु खर्वयोस्तयोः ॥ ६२ ॥ वस्त्राद्यावृतयाने स्यात् त्रिषु वास्त्रादयः स्मृताः । साध्यकीलं तु पद्यानं कारयानन्तु मुष्टिलम् ॥ ६३ ॥ ;p{0208} व्योमयानं वायुयानं वाष्पयानं तु वह्न्यनः । स्थेशनं विश्रमस्थानं गुप्तवाटी तु गुर्वटी ॥ ६४ ॥ चिटिकाऽथो वेशपत्रं तद्द्रष्टा चिटिकेट् त्रिषु । वाष्पयानप्रकोष्ठे तु काम्यपीठं प्रकोष्टकम् ॥ ६५ ॥ अथ लौहपथो लौहकर्म तन्मार्ग उच्यते । उपरिष्टाज्जलादेर्यो मर्गः स पुलमुच्यते ॥ ६६ ॥ प्रधिः पुंसि स्त्रियां नेमिः चक्रभूस्पशि दारुणि । पिण्डिका तु स्त्रियां नाभिश्चक्रमध्यस्थपिण्डिके ॥ ६७ ॥ ;p{0209} समे रथाङ्गचक्रे तत् कीले त्वाणिरणिर्द्वयोः । काष्ठेऽधःस्थेऽनुकर्षोऽथ वरूथो रथवेष्टनः ॥ ६८ ॥ यानमात्रे स्मृतं युग्मं यानं पत्रं च वाहनम् । वृषादिस्कन्धसंसक्तो युगः प्रासङ्ग ईरितः ॥ ६९ ॥ अश्वादिबन्धने काष्ठे कूबरश्च युगन्धरः । रथाऽवयवमात्रेषु रथाङ्गोपस्करावुभौ ॥ ७० ॥ अस्त्री वैनीतकं तत्स्यान्न साक्षाद् वाहनञ्च यत् । रथाऽऽरोही रथी योद्धा सेनापालस्तु सैनिकः ॥ ७१ ॥ ;p{0210} अश्ववारोऽश्ववाहोऽश्वसादोऽश्वारोहसादिनौ । अश्वारोह्यश्च सादी च स्युः सप्तैतेऽश्ववाहकाः ॥ ७२ ॥ अश्वशास्त्रं शालिहोत्रमश्वशालासु मन्दुरा । सूतो यन्ता नियन्ता च सारथावथ सैनिकः ॥ ७३ ॥ सेनासंमिलितः सैन्यः बाणवारस्तु कञ्चुकः । सेनापतिस्तु सेनानीर्भटयोधौ तु योद्धरि ॥ ७४ ॥ वेधन्यास्फोटनी तुल्ये आस्फोटो बाहुताडनम् । परिधिस्थः सैन्यनेतृ नेता परिचरोऽपि सः ॥ ७५ ॥ क्लीबे सारसनं बाणवारबन्धवस्त्रिका । ;p{0211} स्याच्छीर्षण्यं शिरस्त्राणे किरीटे मुकुटं तथा ॥ ७६ ॥ कोटीरं च द्वयोर्मौलिः शिरोवेष्टनकं तु यत् । उष्णीषं शीर्षकं क्लीबे तनुत्रे वर्म दंशने ॥ ७७ ॥ कंकटोरश्छदावस्त्री कवचो जगरोऽपि च । नेत्रत्राणं च चक्षुर्मा उपनेत्रोपचक्षुषी ॥ ७८ ॥ क्लीबे कावचिकं तु स्याद् गणे कवचधारिणाम् । आडम्बरस्तु संरम्भस्तथैवाऽऽटोप इत्यपि ॥ ७९ ॥ व्यूढकङ्कटसन्नद्धसज्जदंशितवर्मिताः । आमुक्तप्रतिमुक्तौ द्वावपिनद्धः पिनद्धवत् ॥ ८० ॥ ;p{0212} गुणाः यानाऽऽसनद्वैधविग्रहोऽऽश्रयसन्धयः । त्रिवर्गस्तु क्षयो वृद्धिः स्थानं दण्डस्तु साहसम् ॥ ८१ ॥ दमश्चाऽथोपधाधर्माद्यैर्भृत्यादिपरीक्षणम् । प्रभावो दण्डजं तेजः प्रतापः कोशजं तथा ॥ ८२ ॥ उपायाः सामदानं च भेदो दण्डोऽथ शक्तयः । तिस्रः स्युर्मन्त्रणोत्साहप्रभावजनिता इमाः ॥ ८३ ॥ राजा मन्त्री सुहृत्कोषो राष्ट्रं सैन्यं च दुर्गभूः । राज्याङ्गं प्रकृतिस्तु स्यात् पुरश्रेणियुतं च तत् ॥ ८४ ॥ ;p{0213} सहायसाधनोपायौ विभागः कालदेशयोः । प्रतीकारो विपत्तीनां सिद्धिः पञ्चाङ्गमिष्यते ॥ ८५ ॥ पुंसि भेदोपजापौ स्तः क्लीबे साम तु सान्त्वनम् । अध्वगः पथिकः पान्थोऽध्वनीनो यात्रिकस्त्रिषु ॥ ८६ ॥ पदातिः पदिकः पत्तिः पदाजिः पदगस्तथा । पादातिकश्च गर्वाटः पादातं तत्कदम्बकम् ॥ ८७ ॥ मन्थरो मन्दगामी स्याज्जङ्घालाऽतिजवौ समौ । पुरोगमः पुरोगोऽग्रेसरः प्रष्ठः पुरःसरः ॥ ८८ ॥ तरस्वी त्वरितो वेगी रथिको रथिनो रथी । ;p{0214} जैत्रजित्वरजेतारो जिष्णावुरसिलस्त्वसौ ॥ ८९ ॥ उरस्वान् सांयुगीनस्तु युद्धे शक्तोऽथ धन्वनि । धनुष्मधन्विधानुष्कनिषङ्ग्यस्त्रिधनुर्धरः ॥ ९० ॥ शक्त्यस्त्रभृत् शाक्तीको याष्टीको यष्टियोधनः । काण्डीरः काण्डवान् पारश्वधिकः पर्श्वधायुधः ॥ ९१ ॥ नैस्त्रिंशिकोऽसिधारी स्यात्कौन्तिकप्रासिकौ समौ । फलकी ढालिकश्चर्मी पताकी वैजयन्तिकः ॥ ९२ ॥ लघुहस्तः शरक्षेपकुशलः सिद्धहस्तकः । ;p{0215} वेध्यच्युतशरस्तु स्यादपराद्धेषुरित्यपि ॥ ९३ ॥ काण्डपृष्ठाऽऽयुधीयाऽऽयुधिकाः स्युः शस्त्रजीविनः । योग्यो जयस्य जेयः स्याच्छक्यो जय्य इति स्मृतः ॥ ९४ ॥ अभ्यमित्रोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभिशत्रुगे । यथेष्टगेऽनुकामीनोऽत्यन्तीनोऽत्यन्तगामिनि ॥ ९५ ॥ वीरः शूरश्च विक्रान्तस्त्रिष्विमे मन्थरादयः । नस्त्रियां तौ धनुश्चापौ पुंसीष्वासः शरासनम् ॥ ९६ ॥ कोदण्डं कार्मुकं धन्व चत्वार्येतानि न द्वयोः । एतत्पार्थस्य गाण्डीवं गाण्डिवं वाऽस्त्रियामुभे ॥ ९७ ॥ लस्तकं धनुषो मध्यं प्रान्ते कोट्यटनी स्त्रियौ । ;p{0216} ज्याघातवारणे गोधा ज्या मौर्वी स्त्री गुणः पुमान् ॥ ९८ ॥ शरो त्विषुर्द्वयोर्बाणविशिखाऽऽशुगमार्गणाः । लौहबाणस्तु नाराचो बाजपक्षावुभौ समौ ॥ ९९ ॥ विषाक्ते लिप्तिको लिप्तो निरस्तः प्रहिते त्रिषु । निषङ्गः तूणतुणीरोपासङ्गेषुधयः समाः ॥ १०० ॥ खड्गः कौक्षेयकोरिष्टिस्तरवारिः कृपाणकः । चन्द्रहासाऽसिनिस्त्रिंशा ईलिका तु कटीतलः ॥ १०१ ॥ अज्झलं फलकं ढालं परिघे परिघातनम् । ;p{0217} भिन्दिपालः सृगस्तुल्यौ मुद्गरे द्रुघणो घनः ॥ १०२ ॥ मुष्टिः फलस्य संग्राहः खड्गादीनां तु सात्सरुः । एषां तीक्ष्णं मुखं धारा मेखला मुष्टिबन्धनम् ॥ १०३ ॥ कुठारः परशुः पर्शुः कुठारी स्त्री परश्वधः । स्त्री वासिस्तक्षणी वास्यमसिपुत्री छुरी समे ॥ १०४ ॥ शल्यं क्लीबे पुमान् शङ्कुर्बाणग्रथितमायुधम् । शर्बला तोमरो न स्त्री प्रासः कुन्तश्च भल्लवत् ॥ १०५ ॥ ;p{0218} कोटिरश्रिः स्त्रियौ कोणोऽक्षवाटो मल्लयुद्धभूः । बन्धूकस्तु भुशुण्डी स्त्री तत्प्रभेदे तु नालिका ॥ १०६ ॥ तोपः पुमान् शतघ्नी स्त्री चक्रं चक्रस्वरूपकम् । गोलिका गुलिका गोला गुटिका च गुटी स्त्रियाम् ॥ १०७ ॥ पृतना वाहिनी सेनाऽनीकिनी ध्वजिनी चमूः । अनीकमस्त्रियां सैन्यं बलं चक्रं च पुंसि तु ॥ १०८ ॥ मण्डलाऽऽलीढवैशाखप्रत्यालीढानि चाऽऽसने । स्याद्व्यूहः सैन्यविन्यासोऽथ पत्त्यादिक्रमो यथा ॥ १०९ ॥ ;p{0219} नाम हस्तीसंख्या रथसंख्या अश्वसंख्या पदातिसंख्या पत्तिः १ १ ३ ५ सेना ३ ३ ९ १५ सेनामुखम् ९ ९ २७ ४५ गुल्मः २७ २७ ८१ १३५ वाहिनी ८१ ८१ २४३ ४०५ पृतना २४३ २४३ ७२९ १२१५ चमू ७२९ ७२९ २१८७ ३६४५ अनीकिनी २१८७ २१८७ ६५६१ १०९३५ ;c{द्वितीयकोष्ठक} सेनानाम गजरथ अश्व पदाति पत्ति १ ३ ५ सेनामुख ३ ९ १५ गुल्म १ २७ ४५ गण २७ ८१ १३५ वाहिणी ८१ २४३ ४०५ पृतना २४३ ७२९ १२२५ चमू ७२९ २१८७ १६४५ अनीकिनी २१८७ ६५६१ १०९३५ अक्षौहिनी २१८७० ६५६१० १०९३५० ;p{0220} पत्तिरेकरथा पञ्च पद्गात्र्यश्वैककुञ्जरा । सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ११० ॥ अनीकिनी त्रिभिर्दिग्भिर्गुणिताऽक्षौहिणी तया । सेनामुखादयोऽक्षौहिण्यन्ता भेदाश्च भूरिशः ॥ १११ ॥ संपत्संपत्तिलक्ष्म्यः श्रीर्विपदापदविपत्तयः । सेनया शत्रु सार्थाऽभिगमनं त्वभिषेणनम् ॥ ११२ ॥ युद्धे शूरस्य शत्रून्प्रत्युपयानमभिक्रमः । अभिनिर्याणप्रस्थानप्रयाणगमनानि च ॥ ११३ ॥ व्रज्या यात्रा गमः पुंसि मागधो वंशवर्णकः । संकेतज्ञः सुधीर्बन्दी तथा वैतालिको मतः ॥ ११४ ॥ वैजयन्ती पताका च केतनं त्रिषु तु ध्वजः । ;p{0221} पांशुः पुमान्द्वयो रेणुर्धूलिः स्त्री न द्वयोः रजः ॥ ११५ ॥ क्षोदच्चूर्णेऽथ वीराऽऽशंसनं भूर्भूरिभीतिदा । अहंपूर्वंक्रियाऽऽशंसा स्यादहंपूर्विका मिथः ॥ ११६ ॥ आत्मसंभावना दर्पादाहोपुरिषिका मता । शक्तिः पराक्रमः प्राणः स्थामशौर्ये सहोबलम् ॥ ११७ ॥ तरोद्रविणशुष्माणि विक्रमोऽत्यन्तशक्तिता । चालनोद्घट्टने वीरपाणं पश्चात्पुरायुधः ॥ ११८ ॥ जन्यमायोधनं युद्धं प्रधानाऽऽस्कन्दने मृधम् । ;p{0222} प्रविदारणसंख्ये च समीकं सम्परायकम् ॥ ११९ ॥ अस्त्रियां कलहाऽनीकरणाः समरविग्रहौ । समुदायसमाघाताभ्यामर्दाऽभ्यागमाऽहवाः ॥ १२० ॥ संग्राम संप्रहाराऽभिसंपातकलिसंयुगाः । संस्फोटः स्त्री समित्याऽऽजिसमित्संयद्युधः स्मृताः ॥ १२१ ॥ बाहुयुद्धं नियुद्धं स्यात्तुमुलं भयदो रणः । धनुर्ध्वनौ तु विस्फारो बृंहितं गजगर्जितम् ॥ १२२ ॥ सिंहनादः स्त्रियां क्ष्वेडा गजसंघट्टनं घटा । मोहो ना कश्मलं क्लीबे मूर्छायामथ पीडनम् ॥ १२३ ॥ ;p{0223} अवमर्दो रणध्वाने पटहाऽडम्बरौ समौ । उत्पातस्तूपसर्गोऽथ मर्यादास्खलनं छलम् ॥ १२४ ॥ छलादाक्रमणं यत्तदभ्यवस्कन्दनं मतम् । आक्रोशपूर्वके शब्दे क्रन्दनं विजये जयः ॥ १२५ ॥ तिरोहितस्तु नष्टः स्याद् युद्धभङ्गः पराजयः । पराजितः पराभूतो विजितो निर्जितस्त्रिषु ॥ १२६ ॥ वैरनिर्यातनं वैरशुद्धिर्वैरविशोधनम् । प्रतीकारोऽथ संद्रावाऽपक्रमौ च पलायनम् ॥ १२७ ॥ ;p{0224} बलात्कारो हठः पुंसि क्लीबं तु प्रसभं भवेत् । निधानोऽस्त्री द्वयोर्मृत्युर्नाशाऽन्तप्रलयाऽत्ययाः ॥ १२८ ॥ कथाशेषश्च मरणं पञ्चत्वं पञ्चताऽपि च । घाताऽऽलम्भवधोन्माथा निषूदननिबर्हणे ॥ १२९ ॥ मारणं हननं चोज्जासनप्रमथने अपि । प्रमीतः प्राप्तपञ्चत्वं परासुः प्रेतसंस्थितौ ॥ १३० ॥ नामशेषः परेतश्च मृतः स्युर्द्वादशः त्रिषु । कबन्धोऽस्त्री स यो नृत्यन्निर्मस्तककलेवरः ॥ १३१ ॥ स्त्रियां चिता चितिश्चित्या श्मशानं तु चितास्थलम् । शवोऽस्त्री कुणपः पुंसि शवयानं तु खाटिका ॥ १३२ ॥ ;p{0225} पुं भूमन्यसवः प्राणाः जीवस्तु प्राणधारणम् । आयुर्जीवनकालः स्याज्जीवातुः पुंसि जीवदः ॥ १३३ ॥ नीराजना स्त्रियामारात्रिकमारार्तिकं यथा । अर्हः पूज्ये सपर्यायामर्हणाऽर्हाऽर्हणं तथा ॥ १३४ ॥ ;c{॥ इति राजन्यवर्गः समाप्तः ॥} ;p{0226} ;v{वणिग्वर्गः} ;c{॥ अथ वणिग्वर्गः प्रारभ्यते ॥} वणिग्विडर्यवैश्योरुजा वार्तैषान्तु जीविका । पुंस्याजीवः स्त्रियां वृत्तिस्तथा जीवनवर्तने ॥ १ ॥ वृत्तिभेदास्तु वाणिज्यं कृषिः स्त्री पशुपालनम् । कुसीदं न द्वयोरर्थप्रयोगे वृद्धिजीविका ॥ २ ॥ पुंस्युद्धार ऋणं सत्यानृतं तु क्रयविक्रयौ । परिप्राप्तं व्यतीहाराद् यन्तदेवाऽऽपमित्यकम् ॥ ३ ॥ ऋणदातोत्तमर्णः स्यादधमर्णो ग्रहीतरि । ;p{0227} अथ वार्धुषिको वृद्ध्याजीवस्तद्वत्कुसीदिकः ॥ ४ ॥ कर्षकः कृषकः क्षेत्राजीवः क्षेत्री कृषीवलः । स्यात्क्षेत्रं वप्रकेदारावस्त्री सेतुस्तु संवरः ॥ ५ ॥ आलिः पाल्यपि शाकस्य क्षत्रं स्यात् शाकशाकटम् । शाकशाकीनमौमीनमुम्यं यव्यं यवक्यवत् ॥ ६ ॥ तैलीनमपि तिल्यं च माषीणं माष्यमुच्यते । व्रैहेयं चापि शालेयं व्रीहिः शाली विवृद्धिमत् ॥ ७ ॥ मौद्गीनं भाङ्ग्यभाङ्गीने अणवीनमणोस्तथा । अणव्यमथ षाष्ठिक्यं कौद्रवीणमनुक्रमात् ॥ ८ ॥ ;p{0228} हल्यं सीत्यं च कृष्टं स्यात्क्षेत्रं कृष्टं यदेकधा । शम्बाकृतं द्विहल्यं च द्विसीत्यं द्विगुणाकृतम् ॥ ९ ॥ त्रिहल्ये तु त्रिसीत्यं स्यात् त्रिगुणाकृतमित्यपि । उप्त्वा कृष्टं भवेदुप्तकृष्टं बीजाकृतं तथा ॥ १० ॥ वापे द्रोणाऽऽढकादेः स्युर्द्रौणिकाऽऽढकिकादयः । खारीवापोऽपि खारीकस्त्रिष्विमा अमृतादयः ॥ ११ ॥ स्युः कैदारिककैदार्ये क्षैत्रं कैदारकं गणे । ;p{0229} लोष्टोऽस्त्रियां पुमाल्लेष्टुः कुद्दालस्त्ववदारणम् ॥ १२ ॥ खनित्रमपि दात्रं तु लवित्रं तत्प्रभेदजम् । लोष्टभेदनहेतुत्वात्कोटिशो लोष्टभेदनः ॥ १३ ॥ आबन्धो योक्त्रयोत्रे स्तस्तोत्रं प्राजनतोदने । गोदारणं हलं सीरो लाङ्गलं हलपद्धतिः ॥ १४ ॥ सीता कृषिकफालौ तु निरीशं कुटकं फलम् । हलयष्टिः स्त्रियामीशा हलीशा युगकीलकम् ॥ १५ ॥ ;p{0230} शम्या मेधिः पुमान् दारु कणमर्दनभूः खलम् । खलिनो च स्त्रियां खल्या खण्टः शङ्कुश्च कीलकम् ॥ १६ ॥ कुसूलोऽस्त्री स्त्रियां कोष्टी तुषभेदेऽवगुण्डितम् । धान्यादिगुच्छे काण्डस्तु नाली स्त्री नालमित्यपि ॥ १७ ॥ अवचूर्णः पलालः स्याद्धान्यकाण्डेऽतिनिष्फले । धान्यत्वचि बुसं क्लीबे तुषः पुंसि कडङ्गरः ॥ १८ ॥ सस्यस्य शूकं किंशारुर्मञ्जर्यां कणिशोऽस्त्रियाम् । ;p{0231} स्तम्बो गुच्छस्तृणादीनां शमीशिम्बे स्त्रियामुभे ॥ १९ ॥ मर्दितं निस्तृणं धान्यमृद्धमावसितं स्मृतम् । राशीकृतं तु पूतं स्यात् तदेव बहुलीकृतम् ॥ २० ॥ पदार्थः पुंसि वस्तु स्यात् क्लीबे उरव्यं तु पैठरम् । संमृष्टगोधिते तुल्या मसृणस्निग्धचिक्कणाः ॥ २१ ॥ सुसंस्कृतः प्रयस्तोऽथ समे विजिलपिच्छिले । तूल्यौ प्रणीतसम्पन्नौ त्रिपूरव्याद्यास्त्रयोदश ॥ २२ ॥ ;p{0232} बल्लवाऽऽभीरगोपाला गोपोऽथ वृषभो वृषः । बलीवर्दर्षभो क्षाणा अनड्वांसोऽथ गौर्द्वयोः ॥ २३ ॥ माहेयी सौरभेय्युस्राऽर्जुन्युध्न्या सुरभिर्गवि । योत्तमा नैचिकी भेदाः शबलीधवलादिकाः ॥ २४ ॥ धेनूनां धैनुकं गव्या गोत्रा च स्त्री गवीगणः । गोरसो दुग्धदध्यादिः समे गोकुलगोधने ॥ २५ ॥ तदाशितं गवीनं गौः पूर्वं यत्राऽऽशिता त्रिषु । वत्सानां वात्सकं तद्वदुक्ष्णामौक्षकमित्यपि ॥ २६ ॥ ;p{0233} जरद्गवः स्याद्वृद्धोक्षो महोक्षस्तु महावृषः । जातोक्षस्तरुणः सद्योजाते तु तर्णकः स्मृतः ॥ २७ ॥ वत्सः शकृत्करिर्बाल्ये दम्यवत्सतरौ ततः । आर्षभः स्पृष्टतारुण्ये इष्टवरः षण्डगोपती ॥ २८ ॥ गोस्कन्धः स्याद्वहः सास्ना स्त्रियां ना गलकम्बलः । प्रासङ्ग्या शाकटा युग्या युगादीनान्तु वोढरि ॥ २९ ॥ एवं हलादिवोढारो हालिकाद्या विदेलिमाः । ;p{0234} धुरिणो धूर्वहो धूर्यो धौरेयश्च धुरन्धरः ॥ ३० ॥ नस्योतो नस्यितः स्यूतनासिको ये तु केवलम् । वोढारः शकटस्यैकधुरीणैकधुरौ समौ ॥ ३१ ॥ समासमीना सा गौर्या वर्षे वर्षे प्रसूयते । एकहायनवत्सायाः संज्ञा वष्कयिणी गवी ॥ ३२ ॥ नव प्रसूता धेनुः स्यात्सुखदोह्या तु सुव्रता । सुकरा गौरचण्डी स्याद्बह्वपत्या परेष्टुका ॥ ३३ ॥ गृष्टिः सकृत्प्रसूतायां वशा वन्ध्या नगर्भभाक् । ;p{0235} धेनुष्या पीतदुग्धा या संस्थिता दुग्धबन्धके ॥ ३४ ॥ क्लीबे द्वे ऊध आपीने रज्जुः सन्दानदामनी । दोरं तु दोरकं दोघ दोग्धारो दोहकर्मकृत् ॥ ३५ ॥ मन्थास्तु मन्थमन्थानवैशाखाः खञ्जकस्तथा । दधिमन्थानपात्रन्तु गर्गरी मन्थनी मता ॥ ३६ ॥ मेषैडकोरणोरभ्रोर्णायुर्मेढ्राऽविवृष्णयः । वस्ताऽजच्छागलस्तभा छागी त्वजा स्त्रियाम् ॥ ३७ ॥ गडेरगड्डुरौ पाले चाले मेषस्य गड्डुलिः[रिः] । ;p{0236} शशोर्णं शशलोमानि ऊर्णायुर्मेषकम्बलः ॥ ३८ ॥ चिरमेही च वालेयखररासभगर्दभाः । चक्रीवान् शङ्कुकर्णोऽपि तथा वैशाखनन्दनः ॥ ३९ ॥ उष्ट्रक्रमेलकौ तुल्यौ करभस्त्वस्य बालकः । नैगमो वाणिजः सार्थवाही वैदेहको वणिक् ॥ ४० ॥ क्रयविक्रयिकः पण्याजीव आपणिकस्तथा । वस्तु गृह्णाति मूल्येन क्रयिकः क्रायिकः क्रयी ॥ ४१ ॥ विक्रीणीते स विक्रेता तथा विक्रयिकः स्मृतः । वणिज्या चाऽपि वाणिज्यं वणिजां कर्म कीर्त्यते ॥ ४२ ॥ ;p{0237} मूल्येऽर्घोऽवक्रयो वस्नः फलं लाभोऽधिकं तु यत् । क्लीबे मूलधनं नीवी स्त्रियाः परिपणः पुमान् ॥ ४३ ॥ पुंस्याधिर्बन्धकं भाटो भाटकः पण आपणः । उपधिर्न्यासनिक्षेपौ प्रतिदानं तदर्पणम् ॥ ४४ ॥ परिवर्तपरावर्तनैमेयनिमया अपि । विनिमयव्यतीहारौ परिदानेऽन्यवस्तुनः ॥ ४५ ॥ क्रय्यं स्यादापणद्रव्यं पण्यं विक्रेयवस्तुनि । क्रेयं क्रेतव्यमात्रेऽपि पणिकाऽऽपणिकौ समौ ॥ ४६ ॥ ;p{0238} सत्यङ्कारः स्त्रियां सत्या-कृतिः सत्यापनं तथा । धारशोधर्णशोधौ च त्रिषु द्वावृणिधारिणौ ॥ ४७ ॥ ऋणं धारोऽथ निष्कोऽस्त्री स्वर्णमुद्राऽथ टङ्कटः । रूप्यं च कार्षिकः कार्षापणः स्यात्ताम्रिकः पणः ॥ ४८ ॥ वराटिका कपर्दी स्याद् विंशतिः सा तु काकिणी । तुर्यांशः कुडवः पादोऽथार्धप्रस्थोऽर्द्धशेटकः ॥ ४९ ॥ समौ स्तः शेटकः प्रस्थो द्विशेटि तु द्विशेटिका । आढको भाजनं कंसः पात्रं सार्द्धद्विशेटिका ॥ ५० ॥ ;p{0239} दशशेटी घटी पञ्चप्रस्थी स्यात्प्रञ्चशेटिका । दशशेटी भवेद् द्रोणः स्त्रियां खारी मणः पुमान् ॥ ५१ ॥ वाहो द्वादश खारी स्याद् वण्टकर्यां पृषाकरा । अक्षकर्षौ तु तोलायामक्षः षोडशमाषकः ॥ ५२ ॥ गुञ्जानामष्टकं माषो मानार्थे क्रम आदृतः । स्वापतेयवसुद्रव्यरिक्थर्क्थद्रविणानि च ॥ ५३ ॥ हिरण्यद्युम्नवित्तानि रा अर्थ विभवा वपि । एको दश शतं तद्वत् सहस्रमयुतं तथा ॥ ५४ ॥ ;p{0240} लक्षं च प्रयुतं कोटिरर्बुदं चाऽब्जमेव च । खर्वो निखर्वः पद्मोऽपि शङ्कुश्च सागरस्ततः ॥ ५५ ॥ अन्त्यं मध्यं परार्धं च संख्या दशगुणोत्तराः । संख्या संख्येययो विंशत्याद्या एकत्ववाचिनः ॥ ५६ ॥ संख्यायते चेत्संख्यैव द्वित्वाद्यपि तदा भवेत् । ;c{॥ इति वणिग् वर्गः समाप्तः ॥} ;p{0241} ;v{अन्यवर्णवर्गः} ;c{॥ अन्त्यवर्णवर्गः प्रारभ्यते ॥} शूद्रा जघन्यजाः पद्या वृषला अन्त्यवर्णकाः । मूर्द्धाऽभिषिक्ताद्रथकृज्जात्यन्तामिश्रजातयः ॥ १ ॥ क्षत्रियायां द्विजाज्जातो मूर्धावसिक्त उच्यते । निषादो यदि शूद्रायां वैश्यायां द्विजजो यदि ॥ २ ॥ अम्बष्ठोऽथ निषादेनाऽम्बष्ठायां बुक्कसः सुतः । मृतपश्चैव विज्ञेयः क्षत्ता वैश्यासु शूद्रजः ॥ ३ ॥ शूद्रायां नृपजश्चोग्रः करणो वैश्यतो यदि । क्षत्रियायां तु सूरतः स्याद् भवेद्वैदेहिकस्तु यः ॥ ४ ॥ ब्राह्मण्यां यदि वा शूद्राच्चाण्डालोऽर्याक्षमाभुजोः । ;p{0242} माहिष्यः कुलकः शिल्पिमुख्येऽथ कारुशिल्पिनौ ॥ ५ ॥ माली तु मालिको मालाकारस्तक्षा तु वर्धकिः । काष्ठतड् रथकारश्च माहिष्यात्करणीसुतः ॥ ६ ॥ कौटतक्षोऽनधीनस्थो ग्रामतक्षो वशे स्थितः । सौचिकस्तुन्नवायोश्च दरजिद्दरजिस्तथा ॥ ७ ॥ शाणकृत्त्वसिधावः स्यात्कुलालः कुम्भकारकः । लेपकृद्राजकारिश्च पलगण्डः सुधाकरः ॥ ८ ॥ अथ चित्रकरो रङ्गराजो रजकधावकौ । ;p{0243} व्योकारो लोहकृत्प्रोक्तः कल्पपालस्तु शौण्डिकः ॥ ९ ॥ रुक्मकृत्स्वर्णकारोऽपि कलादः पश्यतोहरः । नाडिन्धमः कुविन्दस्तु तन्तुवायोऽथ शौल्विकः ॥ १० ॥ ताम्रिकस्ताम्रकुटोऽथ ना काम्बविकशाङ्खिकौ । चर्मकारस्तु पादूकृद्दिवाकीर्तिस्तु नापितः ॥ ११ ॥ अजाजीवस्तु जावालो देवलो देवजीवकः । पाणिघस्तालकृत्तुल्यौ मार्दङ्गिकमृदङ्गिनौ ॥ १२ ॥ भारिको भारवाहः स्यात् तथा वाहक इत्यपि । ;p{0244} कुहकं त्विन्द्रजालं च मायाकर्माऽथ शाम्बरी ॥ १३ ॥ माया मायी तु मायावी मयिकश्चेन्द्रजालिकः । चारणः कथकस्तद्वत् स्यात्कुशीलव इत्ययम् ॥ १४ ॥ नटशैलालिशैलूषभरतास्तु कृशाश्विनि । वेणुध्मा वैणुको वैणविकः स्युर्वेणुवादके ॥ १५ ॥ कार्मणज्ञवशीकारौ तुल्यौ भाणिप्रहासिनौ । भृतको भृतिभुक्कर्मकरवैतानिकाः समा ॥ १६ ॥ भर्जको भ्राष्टिको भ्राष्ट्री स्तोवागुरिकजालिकौ । ;p{0245} पुंसि वैवधिको वार्तावाही वार्तावहोऽपि च ॥ १७ ॥ चाक्रिको धूसरस्तैली तैलिकश्च तिलन्तुदः । पक्षिहन्तरि जीवान्तकः शाकुनिक इष्यते ॥ १८ ॥ मांसिकः कौटिको वैतंसिको यो मांसविक्रयी । प्राकृतोऽपसदो जाल्मो नीचो हीनश्च पामरः ॥ १९ ॥ पृथग्जनो विवर्णश्च क्षुल्लकोऽपि तथेतरः । अनाथभिक्षुकौ रङ्केऽथान्तेवासी च वुक्लसौ ॥ २० ॥ निषादप्लवचण्डालचाण्डालश्वपचोऽपि च । मातङ्गो वांशिको वंशजीवी हाडिमहत्तरौ ॥ २१ ॥ किराताः शबला भिल्लाः पुलिन्दा वरुटाः समाः । ;p{0246} मृगयुर्लुब्धको व्याधोऽथ भृत्यो दासकिंकरौ ॥ २२ ॥ नियोज्यप्रैष्यदासेयदासेरपरिचारकाः । भुजिष्यो गोप्यचेटौ च सूत्थानस्तूष्णपेशलौ ॥ २३ ॥ चतुरश्च पटुर्दक्षो मन्दस्तु यद्भविष्यकः । तुन्दपरिमृजाऽऽलस्या वलसाऽनुष्णशीतकाः ॥ २४ ॥ क्षुरभाण्डं क्षुराधारः क्षुरधानी क्षुरालिका । विष्टिराजूर्हठान्तीतभृत्ये तत्कर्म विष्टिता ॥ २५ ॥ तन्त्रं तु चर्मतन्तुः स्याद् भिक्षापात्रं तु खर्परः । तैलयन्त्रन्तु चक्रं स्यात् स्त्रियां गाली तु गालिका ॥ २६ ॥ ;p{0247} कुक्करो भषकः सारमेयः श्वा मृगदंशकः । कुकुरः शुनकोऽलर्कस्तून्मत्तो यः प्रयोगतः ॥ २७ ॥ शुनी स्यात्सरमा विश्वकद्रुः श्वा मृगयापटुः । आखेटो मृगयाऽऽच्छोदनं मृगव्यं नपुंसकम् ॥ २८ ॥ विट्चरो ग्राम्यघोणा स्याद् वर्करो यो युवा पशुः । परैरनिच्छतां वस्तुहरणं लुण्ठनं बलात् ॥ २९ ॥ वेष्टकाऽऽवेशिकौ वीराऽऽवेशः संरंभ ईरितः । स्तेनैकागारिकौ चौरदस्युमोषकतस्कराः ॥ ३० ॥ पाटच्चरपरास्कन्दिप्रतिरोधिमलिम्लुचाः । पेटा स्त्रियां च मञ्जूषा पिटकः पेटकः पुमान् ॥ ३१ ॥ ;p{0248} न ना शुल्वं वराटः स्त्रीरज्जुस्त्रिषु वटी गुणः । चौर्यं तु चोरिका स्तेयं स्याल्लोप्त्रं चौरिकाधनम् ॥ ३२ ॥ सूत्रं तन्तौ वायदण्डो वेमा व्यूतिस्तु वाणिषु । अरहट्टो घटीयन्त्रे कूपात्सलिलवाहने ॥ ३३ ॥ पुंसि पेषणयन्त्रै स्याद् घरट्टोऽञ्जी तथा स्त्रियाम् । कूटयन्त्रं तदुन्माथो मृगपाशस्तु वागुरा ॥ ३४ ॥ बन्धने लोभहेतुस्तु वीतंसो मृगपक्षिणाम् । पाञ्चालीपुत्रिके तुल्ये भारयष्टिर्विहंगिका ॥ ३५ ॥ ;p{0249} शिक्यं काचो वरत्रा तु वर्ध्री नध्री स्त्रियामिमाः । उपानत्पादुका पादूः कशा त्वश्वादिताडनी ॥ ३६ ॥ पाषाणभेदनस्टंको भस्रा चर्मप्रसेविका । काष्ठादिभेदनी त्वारा शलाका तूलिकैषिकाः ॥ ३७ ॥ कषः स्यान्निकषः शाणः कर्तरी तु कृपाणिका । मूषी त्वावर्तनी मूषा व्रश्चनः पत्रदारणः ॥ ३८ ॥ हस्तकुट्टः शिलाकुट्टोऽयोघनः कूटमस्त्रियाम् । ;p{0250} संदंशिका तु संदंशो सूर्म्ययोमूर्तिरेव तु ॥ ३९ ॥ शिल्पं कलादिकं कर्म नाराच्येषणिके समे । स्त्रियां प्रतिकृतिश्चाऽर्चा प्रतिमा प्रतियातना ॥ ४० ॥ प्रतिच्छाया प्रतिच्छन्दः पुमान्प्रतिनिधिस्तथा । कायो मानं रूपे बिंबे प्रत्यन्ताः प्रतिमार्थकाः ॥ ४१ ॥ उपमानोपमेयौ तु यस्य यस्मिन्क्रमात्स्थितौ । उपमोपमिती तुल्ये वाच्यलिङ्गा व्यवस्थिताः ॥ ४२ ॥ साधारणः सरूपोऽपि सवर्णः सन्निभः समः । सधर्मा तुल्यसदृक्षसमानसदृशाः सदृक् ॥ ४३ ॥ ;p{0251} मदिरा तु सुरा मद्यं कश्यं हाला परिस्रुता । सीध्वासवौ तु मैरेयं शुण्डा पानं तु मद्यभूः ॥ ४४ ॥ सरको मद्यपानो स्याच्चषकः पानभाजनम् । पाशको देवनोऽक्षः स्यात्कैतवं द्यूतमस्त्रियाम् ॥ ४५ ॥ समिकः कितवो धूर्तोऽक्षधूर्तो द्यूतकारकः । शारी स्याद्गुटिका गोटी प्रतिज्ञा तु पणः पुमान् ॥ ४६ ॥ शारिधिः शारिफलकं स्यादष्टापदमित्यपि । ;p{0252} शुककुक्कुटमेषादि प्राणिक्रीडासमाह्वयः ॥ ४७ ॥ सर्गेऽत्र ये यथा प्रोक्ता यौगिकाः शिल्पकादयः । लिङ्गान्तरेऽपि ताद्धर्म्याद्भविष्यन्ति भवन्ति ते ॥ ४८ ॥ ;c{॥ इत्यन्त्यवर्णवर्गः समाप्तः ॥} ;c{॥ इति द्वितीयः काण्डः समाप्तः ॥} ;p{0253} ;c{॥ श्रीः ॥} ;k{तृतीयकाण्डम्} ;c{॥ अथ तृतीयकाण्डम् ॥} ;c{॥ अथ प्रकीर्णवर्गः प्रारभ्यते ॥} प्रकीर्णवर्गे लिङ्गोहः प्रकृतिप्रत्ययादिभिः । संचयोऽपचयो तुल्यौ संक्षयाऽपचयो क्षये ॥ १ ॥ निष्ठीवने तु थूत्कार उदजः पशुचालनम् । विरामोपशमौ तुल्यौ वान्तिस्तु वमनं वमिः ॥ २ ॥ छर्द्युद्गाराऽऽविधस्तु स्याद् वेधनी भृङ्गसूचिका । स्तम्बघ्नस्तु क्षुरपे स्यात्प्रत्याख्यानं निराकृतौ ॥ ३ ॥ ;p{0254} विपर्ययविपर्यासौ व्यत्यासव्यत्ययावपि । प्रतिशासनमाहूय दूतादिप्रेषणे स्वतः ॥ ४ ॥ परिरम्भपरिष्वङ्गाऽऽश्लेषाआलिङ्गनार्थकाः । दर्शनं त्वीक्षणं वीक्षा निर्वर्णनमुदीक्षणम् ॥ ५ ॥ समौ प्रारम्भः आरम्भस्त्वरायां वेगसंभ्रमौ । प्रतिबन्धोऽन्तरायः स्यात्समालेपे विलेपनम् ॥ ६ ॥ प्रतिज्ञायां च वचने स्थित आस्रव इष्यते । सामीप्ये सन्निधिः पुंसि धान्यादिवपनः पवे ॥ ७ ॥ ;p{0255} अभिप्रायाऽऽशयच्छन्दाः प्रस्तावेऽवसरः स्मृतः । विग्रहे व्यासविस्तारौ विस्तरः शब्दविग्रहः ॥ ८ ॥ प्रसरो वस्तुविस्तारे संवाहस्त्वङ्गमर्दने । धीशक्तिर्निष्क्रमः सूत्रवेष्टने त्रसरः स्मृतः ॥ ९ ॥ प्रणयप्रश्रयौ प्रेम्णि प्रजनोपसरौ समौ । समौ समाससंक्षेपौ आस्या स्यादासना स्थितौ ॥ १० ॥ ;p{0256} नीवाको धनधान्यादेः प्रयामेऽर्थक्षतौ व्ययः । संक्रमो दुर्गसंचारोऽवेक्षा स्त्री वस्त्ववेक्षणे ॥ ११ ॥ विरहे विप्रलम्भः स्याद् विप्रयोगोऽपि रागिणः । विधुरं स्यात्प्रविश्लेषे परिसर्पे परिक्रिया ॥ १२ ॥ प्रक्रमः प्रथमारम्भ उन्नतौ तु समुन्नयः । मेलायां मेलको मेलः संमेलः सङ्गसंगमौ ॥ १३ ॥ भूरिदाने विलम्भः स्याद् विख्यातिस्त्वतिविश्रुतिः । उद्घनः परिकाष्ठं च यत्राऽऽधायाऽऽशु तक्ष्यते ॥ १४ ॥ ;p{0257} परिसर्या परीसारे उपघ्नस्त्वन्तिकाश्रये । उपभोगे तु निर्वेशो मदहर्षो प्रमोदने ॥ १५ ॥ अभिचारस्तु हिंसादिक्रिया सन्धिस्तु मेलनम् । समुच्चये समाहारोऽपहारोऽपहृतौ मतः ॥ १६ ॥ पादचारे विहारः स्यात् प्रवाहो जलनिर्गमे । अनुहारेऽनुकारः स्यात् स्यान्निरोधस्तु निग्रहः ॥ १७ ॥ विप्लवो डमरो डिम्बो बन्धने बन्ध इत्यपि । विप्रकारो निकारे स्याद् आधारे विषयाऽऽश्रयौ ॥ १८ ॥ ;p{0258} वृतौ वरो हवो हूतौ, निगादः परिभाषणे । अनुग्रहोऽनुकम्पायामभियोगस्त्वभिग्रहे ॥ १९ ॥ परिणामः फले श्रायः श्रयणे जयने जयः । इङ्गिते त्विङ्ग आकारो विकारो विक्रियार्थकः ॥ २० ॥ प्रसूतौ प्रसवो दान्तौ दमः शान्तौ शमस्तथा । उत्कर्षाऽतिशयौ तुल्यौ क्लमो ग्लानौ स्नवः स्तवे ॥ २१ ॥ ;p{0259} परस्परं मिथोऽन्योऽन्यमितरेतरमित्यपि । घृतादीनां द्रवीभावे आधारो द्रव इत्युभौ ॥ २२ ॥ न्यायो नीतौ भ्रमो भ्रान्तौ व्यधो वेधे रणः क्वणे । न्याय्यं न्यायपथोपेते प्लोषो दाहे वरः पतिः ॥ २३ ॥ परम्परोपदेशे स्यादाम्नायो ग्रहणे ग्रहः । स्फुरणा स्फुरणं स्फूर्तौ यदृच्छास्वैरिते समे ॥ २४ ॥ स्फातिर्वृद्धौ क्षिया ह्रासे जागर्याजागरे समे । ;p{0260} प्रथा ख्यातौ प्रमा सम्यग्ज्ञाने प्रमिति रित्यपि ॥ २५ ॥ तर्पणं प्रीणनं तुल्ये कम्पनं तु विधूननम् । व्याप्तौ संमूर्छनं छेदे वर्द्धनं गदने गदः ॥ २६ ॥ शुभकर्माऽवदाते स्तः कार्मणं मूलकर्मणि । शष्कुल्यादिसमूहे स्यादेकैकं वक्ष्यमाणकम् ॥ २७ ॥ क्रमाच्छाष्कुलिकं पृष्ठ्यं ब्राह्मण्यं शाक्तुकं तथा । आपूपिकञ्च साहस्रं भैक्ष्यं कारीष्यधैनुके ॥ २८ ॥ काकं मानुष्यकं बाकं स्त्रैणं पौस्नं च यौवतम् । ;p{0261} पाश्या सहायता खल्या हल्यैवं जनतादिकम् ॥ २९ ॥ एवमन्येपि संकीर्णाः शब्दा बोध्या यथामति । ;c{॥ इति प्रकीर्णवर्गः समाप्तः ॥} ;p{0262} ;v{विशेषणवर्गः} ;c{॥ अथ विशेषणवर्गः प्रारभ्यते ॥} विशेष्ये यादृशे यादृक् स्याल्लिङ्गवचनादिकम् । गुणद्रव्यक्रियारूपे तत्तादृक् तद्विशेषणे ॥ १ ॥ दानशौण्डौ वदान्यश्च दानशूरो बहुप्रदः । निपुणो विज्ञनिष्णातप्रवीणाऽभिज्ञशिक्षिताः ॥ २ ॥ वैज्ञानिकः कृती किञ्च कुशलोऽथ परीक्षकः । हैतुको हृदयालुस्तु यः स्यात्सुहृदयः पुमान् ॥ ३ ॥ उन्मना उत्क उत्कण्ठावाञ्जनोऽन्तर्मनास्तु यः । दुर्मना विमना हृष्टचेता हर्षितमानसे ॥ ४ ॥ प्रमनाश्चाऽपि दुर्वाचि दुर्वक्ताऽपि च कद्वदः । ;p{0263} पुण्यवान् सुकृती धन्योऽथ महेच्छमहाशयौ ॥ ५ ॥ महोद्योगी महोत्साहे प्रतीक्ष्याऽऽपराध्य पूज्यकाः । स्याज्जैवातृक आयुष्मान् शास्त्रज्ञः शास्त्रवित्समौ ॥ ६ ॥ दक्षिण्यो दक्षिणार्हे स्याद्वरदो वरदायकः । सुकलो दातृभोक्ता स्यात्सेवकोपासकौ समौ ॥ ७ ॥ सन्दिहानः सांशयिके सरलोदारदक्षिणाः । विख्यातवित्तविज्ञातप्रतीतप्रथिताः समाः ॥ ८ ॥ स्याद्गुण्यो गुणसम्पन्नो निर्वार्यो दृढकार्यकृत् । ;p{0264} प्रसिताऽऽसक्ततल्लीनोत्सुकाऽऽविष्टास्तु तत्परे ॥ ९ ॥ कुटुम्बव्यापृतोऽभ्यागारिकोऽथ निरवग्रहः । स्वैरी स्वतन्त्रः स्वच्छन्द इभ्याऽऽढ्यधनिनः समाः ॥ १० ॥ प्रभुः परिवृढो नेता नायकः पतिरीश्वरः । अधिपस्वामिनौ चाऽथ समृद्धोऽत्यधिकर्द्धिकः ॥ ११ ॥ श्रीलः श्रीमांश्च लक्ष्मीवांल्लक्ष्मणश्चाऽथ वत्सलः । स्निग्धो मूकस्त्ववाक् कार्मः कर्मशालिनि कर्मठे ॥ १२ ॥ कर्मशूरः कृपालुस्तु दयालुः सूरतस्तथा । भवेत्कारुणिको यस्तु परतन्त्रः स नाथवान् ॥ १३ ॥ ;p{0265} पराधीनश्च परवान् क्रियावांस्तु क्रियापरः । आयत्ताऽधीननिघ्नाः स्युरस्वच्छन्दश्च गृह्यकः ॥ १४ ॥ क्षीबशौण्डोत्कटाः मत्ते गृध्नौ लुब्धोऽभिलाषुकः । तृष्णक्यगर्धनो लिप्सु लेलुभो लोलुपः समौ ॥ १५ ॥ उन्मदिष्णून्मदौ तुल्यौ जिघत्सुरशनायितः । बुभुक्षितोऽपि क्षुधित आघूनोऽदरिकावथ ॥ १६ ॥ परान्नः परपिण्डादभक्षकेऽद्मरघस्मरौ । परलोकोऽस्ति नाऽस्तीति मतिमन्तौ क्रमादमू ॥ १७ ॥ आस्तिको नास्तिको दिष्टं मन्वानो दैष्टिको मतः । दुर्विनीतोऽविनीतौ द्वौ सर्वान्नीनोऽखिलान्नभुक् ॥ १८ ॥ ;p{0266} कर्मण्यं च भरण्यं च वेतनं कर्मकृन्नरः । भुङ्क्ते कर्मकरोऽतः स्यात् कर्मकारस्तु तत्क्रियः ॥ १९ ॥ पिपर्त्यात्मम्भरिः कुक्षिम्भरिः स्वमुदरम्भरिः । मृतस्नातस्त्वपस्नात आमिषाशिनि शौष्कलः ॥ २० ॥ कामुकः कमनः कम्रः कामनः कमिताऽभिकः । कामयित्र्यनुकाऽभीका गोष्ठश्वो गृहनिन्दकः ॥ २१ ॥ बाधाशून्यो निराबाधो निष्कामस्तु निरामिषः । निरीहो निरपेक्षः स्यान्निर्विकारे निरञ्जनः ॥ २२ ॥ कर्मक्षमोऽलङ्कर्मीणो जाल्मो यस्त्वसमीक्ष्यकृत् । ;p{0267} द्वयोर्बहुकरा किञ्च खलपूः खलशोधकः ॥ २३ ॥ चिरक्रियो दीर्घसूत्रो मन्दः कुण्ठः क्रियालसः । अत्यन्तकोपनश्चण्डः क्रोधनः कोप्यमर्षणः ॥ २४ ॥ स्त्री दोहदिन्यां श्रद्धालुः श्रद्धायुक्तस्तु वाच्यवत् । ईर्ष्यालुरीर्ष्यकस्तन्द्रायुक्तस्तन्द्रालुघूर्णितौ ॥ २५ ॥ समौ शयालुनिद्रालू जागरूकस्तु जागरी । यदुन्नताऽऽनतं तत्तु बन्धुरं दीर्घमायते ॥ २६ ॥ ;p{0268} प्रोच्छ्रितोदग्रप्रांशूच्चतुङ्गा निस्तलवर्तुले । वृत्ते वामननीचन्यक्खर्वह्रस्वा अधोमुखे ॥ २७ ॥ आनताऽवनताऽवग्रा नेदीयोऽत्यन्तमन्तिके । सवेशनिकटाऽभ्याशसमीपाऽऽसन्नपार्श्वकाः ॥ २८ ॥ संनिकृष्टसमर्यादसदेशसविधानि च । संनिधानोपकण्ठे चाऽभ्यग्रोपान्तसनीडवत् ॥ २९ ॥ संनिकर्षाऽन्तिकाऽभ्यर्णाः संनिधिः सविधेऽभितः । पुङ्गवर्षभशार्दूलसिंहव्याघ्रादिकुञ्जराः ॥ ३० ॥ नृपुङ्गवादयः शब्दाः पुंसि प्राशस्त्यवाचकाः । परः शतादयो ये स्युस्ते संख्येयाः शतात्परे ॥ ३१ ॥ ;p{0269} निबिडं तु घनं सान्द्रं विरले पेलवं तनु । समौ विरक्तनिर्विण्णौ स्याद्विकासी विकस्वरः ॥ ३२ ॥ क्षमाशीलः क्षमिक्षान्तृसहिष्णुसहनाः समाः । निद्राणः शयितः सुप्तः स्निग्धसान्द्रे तु मेदुरः ॥ ३३ ॥ क्षिप्नुर्निराकरिष्णुः स्यात्प्रसारी तु विसृत्वरः । भविष्णुर्भविता भूष्णुर्विदुरज्ञातृबिन्दवः ॥ ३४ ॥ लज्जाशीलेऽपत्रपिष्णुर्वन्दारुर्वन्दकः समौ । मण्डनोऽलङ्करिष्णुः स्याद् हिंसके हिंस्रघातुकौ ॥ ३५ ॥ ;p{0270} उत्पतित्रुत्पतिष्णू द्वौ भ्राजिष्णुः सुषमाऽन्वितः । रोचिष्णू रोचको विभ्राड् अविनीते समुद्धतः ॥ ३६ ॥ घृष्टघृष्णग्वियाताः स्युरधीरे त्रस्तकातरौ । वश्यः प्रणेये प्रश्रितविनीतनिभृताः समाः ॥ ३७ ॥ प्रगल्भः प्रतिभायुक्तो भीरुके भीरुभीलुकौ । त्रस्नुर्विस्मयमापन्ने विलक्षो विस्मितो मतः ॥ ३८ ॥ लज्जिताऽधृष्टशालीना आशंसाऽऽशंसिनौ समौ । तुल्यौ वाक्पतिवागीशौ वदवक्तृवदावदाः ॥ ३९ ॥ ;p{0271} वावदूकोऽतिवक्ता स्याद् वाग्मी तूचितवाक्पटुः । वाचाटः स्यात्तु जल्पाको वाचालो बहुगर्ह्यवाक् ॥ ४० ॥ यस्तु प्रियवदः शक्लः प्रियवादी स एव हि । मुखरो दुर्मुखो गर्ह्यवादी दुर्वाक्यकद्वदः ॥ ४१ ॥ लोहलोऽस्फुटवाक् काकस्वरोऽसौम्यस्वरोऽस्वरः । कुवादः कुचरस्तुल्यौ शब्दनो रवणः समौ ॥ ४२ ॥ आश्रवो विनयग्राही विधेयवचने स्थितौ । अतिमूढो जडश्चाऽज्ञः पराचीने पराङ्मुखः ॥ ४३ ॥ ;p{0272} एडमूकस्ववाक्कर्णस्तूष्णीको मौनमास्थितः । प्रत्याख्यातो निरस्तोऽपि प्रत्यादिष्टो निराकृतः ॥ ४४ ॥ शठेऽनृजुर्विप्रलब्धे वञ्चितो नाटकादिषु । भेर्यादिवादके नान्दीवादी नान्दीकरो मतः ॥ ४५ ॥ नग्नो दिगम्बरोऽवासा अपध्वस्ते तु धिक्कृतः । व्यसनि न्युपरक्तः स्यात्समौ संकसुकाऽस्थिरौ ॥ ४६ ॥ निष्कासितेऽवकृष्टः स्याद् विवशाऽरिष्टदुर्मतिः । व्यासक्तो व्याकुलो व्यग्रस्तुल्यौ विह्वलविक्लवौ ॥ ४७ ॥ ;p{0273} क्षारिताऽऽक्षारितौ वाच्योऽभिशस्तोऽथ मनोहतः । हतः प्रतिहतश्चैव प्रतिबद्धोऽमनोरथे ॥ ४८ ॥ दूष्यस्तिरस्करिण्यादिः कशार्हे कश्य इष्यते । पिशुनो दुर्जनो वाऽपि खलो भेदक्रियापटुः ॥ ४९ ॥ गुप्तसंसूचनात्कर्णेजपः सूचक इत्युभौ । हननीयः स्मृतो बध्ये धूर्ते व्यंसकवञ्चकौ ॥ ५० ॥ क्रूरे पापे नृशंसश्च चिकुरश्चलेऽपि च । दरिद्रे दुर्गतो दीनो रङ्को निःस्वश्च दुर्विधः ॥ ५१ ॥ प्रोच्यते कृपणे क्षुद्रः कदर्यस्तु मितंपचः । ;p{0274} मूर्खे मूढाऽज्ञवैधेययथाजाताश्च बालिशः ॥ ५२ ॥ अहंयुः स्यादहंकारी शुभंयुर्यः शुभाऽन्वितः । स्वेदजा मत्कुणाद्याः स्युर्गोनराद्या जरायुजाः ॥ ५३ ॥ अण्डजाः पक्षिसर्पाद्या उद्भिजा वृक्षगुल्मकाः । प्रतिश्रुतं परिज्ञातमूरीकृतमुरीकृतम् ॥ ५४ ॥ संगीर्णोपश्रुते चैव विदितं चोररीकृतम् । संश्रुतोपगते अंगीकृतं चाऽपि समाहितम् ॥ ५५ ॥ आश्रुते रक्षिते त्राणत्रातगोपायिताऽविताः । शोभनं मञ्जुलं मञ्जु मनोज्ञं चारु सुन्दरम् ॥ ५६ ॥ कान्तं मनोहरं साधु रुचिरं चाऽथ वल्लभम् । ;p{0275} अभीप्सितं प्रियं हृद्य अभीष्टमथ शोधितम् ॥ ५७ ॥ निःशोध्यं मृष्टनिर्णीक्ते अनवस्करमित्यपि । मलीमसे स्यान्मलिनं मलदूषितकच्चरे ॥ ५८ ॥ पवित्रमेध्यपूतानि पावनं पुण्यमुज्ज्वले । विमलाऽनाविले वीध्राऽवदातविशदानि च ॥ ५९ ॥ विशुद्धं शुचि शून्यन्तु रिक्तं तुच्छमथाऽधमः । अवमश्च निकृष्टोऽपि गर्ह्ये निन्द्यश्च कुत्सितः ॥ ६० ॥ प्रमुखं च प्रधानं तु सदैकत्वे नपुंसकम् । प्रवेक उत्तमो वर्यो वरेण्योऽनुत्तमोऽग्रियः ॥ ६१ ॥ परार्ध्याऽनवरार्ध्याग्राऽग्रीयप्राग्र्यऽग्र्यमुख्यवत् । वरः प्राग्रहरश्चाऽपि प्रवहोऽथाऽतिशोभनः ॥ ६२ ॥ ;p{0276} सत्तमः पुष्कलः श्रेयान् श्रेष्ठोऽसारं तु फल्गुनि । विशङ्कटं विशालोरुविपुलानि बृहन्महत् ॥ ६३ ॥ पृथुलं पृथु वड्रं च पीनस्तु स्थूलपीवरौ । स्तोकेऽल्पक्षुल्लसूक्ष्माणि दस्रं श्लक्ष्णं कृशं तनु ॥ ६४ ॥ त्रुटिर्मात्रा स्त्रियां पुंसि कणलेशलवाणवः । अल्पीयोऽत्यल्पमल्पिष्ठं भूरि तु प्रचुरं बहु ॥ ६५ ॥ अदभ्रं बहुलं प्राज्यं भूरिष्ठं स्फारभूयसी । स्फिरं पुरु प्रभूतं च पुरुहं चाऽखिले समम् ॥ ६६ ॥ समग्राऽखण्डकृत्स्नानि सकलाऽशेषविश्ववत् । सर्वपूर्णसमस्ताऽनूननिःशेषाण्यथो नतम् ॥ ६७ ॥ ;p{0277} वेल्लितं वक्रमाविद्धमाभुग्नं जिह्मकुञ्चिते । ऊर्मिमत्कुटिलं भुग्नमशलेऽनश्वरे ध्रुवः ॥ ६८ ॥ नित्योऽपि शाश्वतश्चाऽपि सनातनसदातनौ । किमसेचनकं तृप्तेर्नाऽस्त्यन्तो यस्य दर्शनात् ॥ ६९ ॥ चरस्त्रसश्चरिष्णुश्च जंगमेङ्गचराचरः । कालव्यापी तु कूटस्थ एकरूपतया स्थितः ॥ ७० ॥ स्थेयान् स्थिरतरः स्थाष्णुर्दवीयस्त्वतिदूरके । चलनं चञ्चलं लोलं चलं क्रमं चलाचलम् ॥ ७१ ॥ तरलं चटुलं पारिप्लवं चाऽपि परिप्लवम् । न द्वयोः कम्पनं क्रमुकम्पयोर्मेदिनी त्रिषु ॥ ७२ ॥ ;p{0278} संहते दृढसन्धिः स्याद् अवाग्रेऽवनताऽऽनतौ । अतिरिक्तोऽधिके तु स्यात्तथा समधिकोऽपि च ॥ ७३ ॥ प्रौढेधितप्रवृद्धानि प्रतनस्तु पुरातनः । चिरन्तनः पुराणश्च प्रत्न ऐन्द्रियकं तु यत् ॥ ७४ ॥ प्रत्यक्षमिन्द्रियैर्ज्ञातमप्रत्यक्षमतीन्द्रियम् । मोघं निरर्थकं व्यर्थ स्पष्टे प्रव्यक्तमुल्बणम् ॥ ७५ ॥ स्फुटं साधारणं तु स्यात्सामान्यं च निरर्गलम् । निर्बाधमसहायेऽर्थे एकाकी चैक एककः ॥ ७६ ॥ ग्रन्थिले ग्रन्थितं दृब्धं गुम्फितं संदितं तथा । ;p{0279} जघन्याऽन्ताऽन्त्यपाश्चात्याश्चरमः पश्चिमोऽस्त्रियाम् ॥ ७७ ॥ संकटं पुंसि संबाधो वपुः सव्यं तु वामकम् । दक्षिणं त्वपसव्यं स्याद् विस्मृताऽन्तर्गते समे ॥ ७८ ॥ अन्योऽन्यतर एकस्त्व इतरस्त्वोऽन्यवाचिनि । स्युर्वलयितसंवीतरुद्धान्यावृतवेष्टिते ॥ ७९ ॥ मुषितचोरिते विश्वकोष आहत्य मूषितम् । निवृतं तु परिक्षिप्तं प्रवृद्धप्रसृते समे ॥ ८० ॥ अरुन्तुदं यन्मर्मस्पृग् विस्तृते विततं ततम् । ;p{0280} चलिते कम्पिताऽऽधूतधुतप्रेङ्खितवेल्लिताः ॥ ८१ ॥ द्रुताऽवदीर्णे न्यस्तं तु निसृष्टे गुणिताऽऽहते । निदिग्धोपचिते घ्राते घ्राणमुद्गूर्ण उद्यतम् ॥ ८२ ॥ गुण्डितो रूषितो लिप्तो दिग्धे मीढं तु मूत्रितम् । नुन्ननिष्ठ्यूतनुताऽस्तक्षिप्ताऽऽविद्धेरिता अथ ॥ ८३ ॥ शिक्यितं काचितं शिक्ये ह्रीतह्रीणौ तु लज्जिते । निशितं तेजितं शातं क्ष्णुतेऽथ पूजितेऽञ्चितम् ॥ ८४ ॥ ;p{0281} भवेद् याचितकं याञ्चा प्राप्ते प्रार्थितयाचिते । प्राप्तेऽप्राप्तेऽर्दिते भिन्ने दीर्णदारितभेदिताः ॥ ८५ ॥ दग्धे प्लुष्टोषितप्रुष्टः समाप्तेऽवसितः सितम् । ज्ञप्तं तु ज्ञपिते रुग्णं भुग्ने विद्धे तु वेधितम् ॥ ८६ ॥ छिद्रं निर्वाणमग्नौ च मुन्यादौ च तनूकृते । तष्टस्त्वष्टोऽथ शमिते शान्तः संदानिते सितः ॥ ८७ ॥ मूतं मुद्दितबद्धे च सन्दितं स्यात्तिरोहितम् । क्लीनेऽन्तर्हितं चापि निलीनं क्लिशिते पुनः ॥ ८८ ॥ ;p{0282} क्लिष्टं क्वथितनिष्पक्वे स्वनितध्वनिते अथ । विविधस्तु बहुविधनानारूपपृथग्विधाः ॥ ८९ ॥ पुष्टे स्यात्पुषितं संगूढे तु संकलितः स्मृतः । मृगिताऽन्वेशिताऽन्विष्टमार्गितानि गवेषिते ॥ ९० ॥ पक्वं परिणते सोढे क्षान्तं पूर्णे तु पूरितम् । दान्तः स्यात् शमिते हन्नगुने निष्कासिते गुदात् ॥ ९१ ॥ ध्वस्तभ्रष्टच्युतस्रस्तगलितस्कन्नपन्नकाः । निन्दिते त्ववगीतं स्याद् वृक्णे कृत्तं छितं दितम् ॥ ९२ ॥ ;p{0283} छिन्नं छातं लूनदाते संयोजित उपाहिते । स्यूतमूतमुतं चेति तितयं तन्तुसंतते ॥ ९३ ॥ संतापिते तु सन्तप्तं दूनं धूपिततापिते । विधुतत्यक्तहीनास्तु धूतोत्सृष्टसमुज्झिताः ॥ ९४ ॥ आख्याताऽभिहितोक्ताः स्युर्लपितोदितजल्पिताः । भाषिते प्रतिपन्ने तु मानितं बुधितं तथा ॥ ९५ ॥ बुद्धं चाऽवसितज्ञातविदिताऽवगतानि च । ;p{0284} भुक्तेऽभ्यवहृतं जग्धमशितं भक्षितं तथा ॥ ९६ ॥ चर्वितं गिलितं लीढं खादितं ग्रस्तमित्यपि । तृप्ते प्रमुदितः प्रीतो हृष्टस्तुष्टश्च हर्षितः ॥ ९७ ॥ ;c{॥ इति विशेषणवर्गः समाप्तः ॥} ;p{0285} ;v{नानावर्गः} ;c{॥ अथ नानार्थवर्गः प्रारभ्यते ॥} ;vv{कान्ताः} पर्यायवृत्त्या नानार्थाः केचनोक्ताश्च शेषिताः । अर्थान्तरे प्रयुञ्जानाः पुनरुक्तिं न बिभ्रति ॥ १ ॥ त्रिदिवाऽऽकाशयोर्नाको नाकुर्वल्मीकशैलयोः । भूवनेऽपि जने लोकः श्लोकः पद्ये यशःसु च ॥ २ ॥ कः समीराऽऽत्मदक्षाऽग्नियमब्रह्मसु बर्हिषु । ब्रध्ने पुमान् सुखे शीर्षे जले कं तु नपुंसकम् ॥ ३ ॥ नागे वा वर्धकौ तक्षकोऽर्कः स्फटिकसूरयोः । जम्बुको वरुणे क्रोष्टौ खड्गे वा सायकः शरे ॥ ४ ॥ कलङ्कोऽङ्केऽपवादेऽथाऽङ्कश्चिह्नोत्सङ्गयोः पुमान् । ;p{0286} आनकः पटहे भेर्यां पृथुकश्चिपिटे शिशौ ॥ ५ ॥ आलोको दर्शने वन्दिभाषणोद्द्योतयोरपि । पेचकः करिणां पुच्छमूलोपान्तेऽप्युलूकके ॥ ६ ॥ पुलाको भक्तसिक्थेऽपि संक्षेपे तुच्छधान्यके । द्वयोर्मेघोपले पक्षिविशेषे दाडिमे पुमान् ॥ ७ ॥ करकः कमण्डलौ नस्त्री करङ्के....... । .......................ऽथ विनायकः । गुरौ तार्क्ष्ये जिने विघ्ने हेरम्बे वृश्चिको द्रुणौ ॥ ८ ॥ राश्योषधिभिदोः शूककीटे किष्कुर्वितस्तिषु । हस्ते च गैरिकं धातुरुक्मयोरनृतेऽप्रिये ॥ ९ ॥ ;p{0287} अलीकं यातनाकृत्योः कारिकेभकरेऽङ्गुलौ । कर्णयोर्भूषणे पद्मबीजकोश्यां च कर्णिका ॥ १० ॥ स्यात् सिते खदिरसोमवल्लकः कट्फलेऽपि च । शालावृकाः कपौ क्रोष्टुशुनोरप्यथ कालिका ॥ ११ ॥ वृश्चिके मेघजालेऽपि करिण्यां गवि धेनुका । सोमे जैवातृकः पुंसि दीर्घायुषि कृशे त्रिषु ॥ १२ ॥ विहङ्गमे द्वयोः पुंसि खुरे त्वश्वस्य वर्तकः । व्याघ्रादौ पुण्डरीकं ना यवान्यादिषु दीपकः ॥ १३ ॥ ;p{0288} आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ । नैकदेशे प्रतीकं तु प्रतिलोमविलोमयोः ॥ १४ ॥ भूनिम्बे भूस्तृणेऽपि स्यात्कट्फलेऽपि च भूतिकम् । हेम्न्युरोभूषणे साष्टशते दीनारकर्षयोः ॥ १५ ॥ अस्त्री निष्कं सुवर्णानां शल्के शकलवल्कले । दम्भैनः शमलेष्वस्त्री कल्कः शीलाऽन्वयादिषु ॥ १६ ॥ अनूकं गुग्गुलूलूकव्यालग्राहिष्वृभुक्षि च । कौशिकोऽथ च पिण्याकस्तिलकल्केऽपि सिह्लके ॥ १७ ॥ रुद्रचापे पिनाकोऽस्त्री पांशुवर्षत्रिशूलयोः । ;p{0289} सुरे वृन्दारकः श्रेष्ठे मनोज्ञे त्रिषु दाम्भिकः ॥ १८ ॥ तथा कोक्कुटिकोऽपि स्याद् योऽदूरे प्रहिते क्षणः । मुख्याऽन्यकेवलेष्वेकं त्रिषु वृन्दारकादयः ॥ १९ ॥ ;c{॥ इति कान्ताः ॥} ;vv{खान्ताः} कार्याऽक्षमः प्रभो लाभदर्शी लालाटिकः स्मृतः । शंखोऽस्त्री निधिभालास्न्थोः कम्बौजा खं पुरादिषु ॥ २० ॥ शिलीमुखोऽलौ बाणे च शिखा ज्वाला घृणी अपि । मयूखः किरणे ज्वालाशोभयोः शैलवृक्षयोः ॥ २१ ॥ ;c{॥ इति खान्ताः ॥} ;vv{गान्ताः} नगाऽगौ स्याद्भगः सूर्ये श्रीकामादौ नपुंसकम् । ;p{0290} शबले त्रिषु सारङ्गो हरिणे चातके पुमान् ॥ २२ ॥ आदित्यभूमिस्वर्गादौ ना स्त्री गौर्ना नपुंसकम् । मृगाः पशौ कृतादौ च यानाद्यङ्गेऽस्त्रियां युगम् ॥ २३ ॥ लिङ्गं चिह्नाऽनुमानादौ शृङ्गं प्राधान्यसानुनोः । गुह्यूमूर्ध्नोर्वराङ्गं च पतङ्गः सूर्यपक्षिणोः ॥ २४ ॥ पराभवेऽभिषङ्गो नाऽऽक्रोशेऽथ प्लवगः कपौ । अहेः काये फणायां च भोगः स्त्र्यादिभृतौ सुखे ॥ २५ ॥ ;p{0291} बाणसूर्ये विहङ्गादौ खगो वेगो रयादिषु । स्नानीये कौसुमे रेणौ परागः स्याद्रजःस्यपि ॥ २६ ॥ सर्गो निश्चयनिर्मोक्षस्वभावाऽध्यायसृष्टिषु । मातङ्गः श्वपचे नागे नागो ना तु गजादिषु ॥ २७ ॥ योगः कवचः सामादिध्यानसङ्गतियुक्तिषु । अपाङ्गस्तिलकेऽप्यङ्गहीननेत्रान्तयोरपि ॥ २८ ॥ पूगः स्यात्क्रमुके वृन्दे आशुगो वायुबाणयोः । ;c{॥ इति गान्ताः ॥} ;vv{घान्ताः} अर्घः पूजाविधौ मूल्ये परिघोऽर्गलघातयोः ॥ २९ ॥ योगभेदे विशेषाऽस्त्रे दुःखांऽहोव्यसनेष्वघम् । ;p{0292} पृक्कायां स्त्री लघुः शीघ्रे कृष्णागुरुणि न द्वयोः ॥ ३० ॥ मनोज्ञेऽल्पे च निःसारे गुरौ स्याद्वाच्यलिङ्गवत् । ओघोऽम्भसां रये वृन्दे काचः शिक्ये मृदन्तरे ॥ ३१ ॥ ;c{॥ इति घान्ताः ॥} ;vv{चान्ताः} नेत्ररोगे प्रपञ्चस्तु विपर्यासेऽपि विस्तरे । रुचिर्गभस्तिस्पृहयोरभिष्वङ्गे स्त्रियां शुचिः ॥ ३२ ॥ ;c{॥ इति चान्ताः ॥} ;vv{जान्ताः} पावकेऽत्युपधाऽमात्ये मासि ना त्रिष्वतोऽधिके । निजं त्रिषु स्वके नित्ये नाऽब्जः शङ्खशशाङ्कयोः ॥ ३३ ॥ समभूमौ रणेऽप्याजिः सन्तानेऽपि जने प्रजा । हरे विष्णौ विधौ कामे छागेऽजो वहगोष्ठयोः ॥ ३४ ॥ ;p{0293} मार्गे व्रजो द्विजो दन्तविप्रादावण्डजेऽहिभुक् । तार्क्ष्ये केकिनि कुञ्जोऽस्त्री दन्तेऽपि बलजा तु या ॥ ३५ ॥ यूथिका वरयोषा वा बलजं गोपुरादिषु । धर्मराजो यमे बुद्धे जिने राज्ञि युधिष्ठिरे ॥ ३६ ॥ ;c{॥ इति जान्ताः ॥} ;vv{ञान्ताः} क्षेत्रज्ञो वाच्यलिङ्गः स्यात्प्रवीणे नाऽऽत्मनि स्थिरः । नामचेतनयोः संज्ञा स्वाङ्गाद्यैरर्थसूचने ॥ ३७ ॥ ;c{॥ इति ञान्ताः ॥} ;vv{टान्ताः} पटुर्दक्षादिके कष्टं कृच्छ्रेऽपि गहने जटा । ;p{0294} मूले लग्नकचे मास्यामिष्टिर्यागेच्छयोरपि ॥ ३८ ॥ ज्ञानेऽक्ष्णि दर्शने दृष्टिर्बहूनि त्रिषु निश्चिते । सृष्टिः संशय कालाऽल्पसूक्ष्मैलासु त्रुटिः स्त्रियाम् ॥ ३९ ॥ अरिष्टं सूतिकागारे आसवादौ शुभेऽशुभे । समृद्धिफलयोर्व्युष्टिर्दैवते दिष्टमद्वयोः ॥ ४० ॥ तक्षाऽदित्यभिदोस्त्वष्टा देवशिल्पिनि ना कटुः । रसेऽकार्येऽद्वयोस्तीक्ष्णे मत्सरे त्रिषु कोटयः ॥ ४१ ॥ संख्याभेदे प्रकर्षे च कोणेऽग्रधनुषः स्त्रियः । खलतौ शिपिविष्टः स्याद्दुश्चर्मणि महेश्वरे ॥ ४२ ॥ ;p{0295} काकेभगण्डौ करटो नागगण्डे कटौ कटः । कैतवाऽनृतमायासु यन्त्रनिश्चलराशिषु ॥ ४३ ॥ सीराङ्गे शैलशृङ्गे चाऽयोघने कूटमस्त्रियाम् । रिष्टं स्यादशुभाभावे पुंसि फेनिलखड्गयोः ॥ ४४ ॥ ;c{॥ इति टान्ताः ॥} ;vv{ठान्ताः} नीलकण्ठः सितापाङ्गे हरेऽपि पीतसारके । दात्यूहे कलविङ्के च खञ्जने कालकंठवत् ॥ ४५ ॥ कोष्ठोऽन्तर्जठरे पुंसि कुसूलेऽन्तर्गृहे स्वके । युवाऽल्पयोः कनिष्ठो ना कनिष्ठा दुर्बलाङ्गुलिः ॥ ४६ ॥ नक्षत्रे गृहगोधायां ज्येष्ठा मासान्तरे पुमान् । त्रिषु श्रेष्ठे च वृद्धे च काष्ठोत्कर्षे दिशि स्थितौ ॥ ४७ ॥ ;p{0296} निष्ठा नाशाऽन्तनिष्पत्तियाञ्चानिर्वहणेषु च । ;c{इति ठान्ताः ।} ;vv{णान्ताः} अभिमानग्रहव्यूहमौनसैन्यदमादिषु ॥ ४८ ॥ कोणप्रकाण्डमन्थानयमाऽश्वलगुडादिषु । पारिपार्श्विकभेदेऽपि चण्डांशोर्दण्ड इष्यते ॥ ४९ ॥ इक्षुपाकेभसन्नाहगोलकेषु गुडो गुडा । स्नुही योषिच्च गुडिका स्यादिडा बुधयोषिति ॥ ५० ॥ गोभूवाक्ष्वपि भाण्डस्तु पात्रे भूषाऽश्वभूषयोः । वणिङ् मूलधने क्ष्वेडो विषे कर्णामये ध्वनौ ॥ ५१ ॥ रक्ताऽर्कस्य फले पर्णे घोषपुष्पे नपुंसकम् । स्त्रियां वंशशलाकायां सिंहनादेऽथ वाच्यवत् ॥ ५२ ॥ दुरासदे च कुटिले काण्डो वर्गाऽश्ववारिषु । बाणस्कन्धरहःस्तम्बनाडीवृन्देषु कुत्सिते ॥ ५३ ॥ ;p{0297} वृक्षभिद्यपि न स्त्री स्यात् नाडी कालेऽपि षट्क्षणे । ;c{॥ इति डान्ताः ॥} ;vv{ढान्ताः} नितान्तबलवत्स्थूलप्रगाढेषु दृढस्त्रिषु ॥ ५४ ॥ प्रतिज्ञाऽतिशयौ बाढं प्रगाढं दृढकृच्छ्रयोः । व्यूढः पृथुलविन्यस्तसंहतेष्वभिधेयवत् ॥ ५५ ॥ ;c{॥ इति ढान्ताः ॥} स्त्रैणगर्भेऽर्भके भ्रूणो बाणो वलिसुते शरे । स्पृहापिपासयोस्तृष्णा जुगुप्साकरुणे घृणा ॥ ५६ ॥ भ्रूवोर्यदन्तराऽऽवर्ते ऊर्णा मेषादिलोमनि । हरिणी हरिताहेमप्रतिमानमृगीष्वपि ॥ ५७ ॥ ;p{0298} स्थूणा स्तम्भेऽपि सूर्म्यां च हरिणः पाण्डुरे त्रिषु । त्रिषु ग्रामाधिपे श्रेष्ठे नापिते ग्रामणीः पुमान् ॥ ५८ ॥ समरेऽस्त्री क्वणे कोणे नापिते ना रणो मतः । क्षणो व्यापारहीनत्वे मुहूर्तोत्सवपर्वसु ॥ ५९ ॥ कार्षापणे वराटानां माने मूल्ये घणे पणः । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ ग्लहे ॥ ६० ॥ मौर्व्यप्रधानरूपादिसन्ध्याद्यावृत्तिरज्जुषु । शुक्लसूदेन्द्रियत्यागसत्त्वसौर्यादिधीषु च ॥ ६१ ॥ गुणः पद्मेऽग्नि मन्थाने श्रीपर्णं हस्तिनीभयोः । करेणुर्द्रविणं वित्ते काञ्चने च पराक्रमे ॥ ६२ ॥ ;p{0299} आपणे विपणिः पण्यवीथिकापण्ययो स्त्रियाम् । प्रतीचीसुरयोर्गण्डदूर्वायां वारुणी रिणम् ॥ ६३ ॥ निराश्रये भूवो भागे ऊषरे प्रवणः क्षणे । निम्नोर्वीक्रम आयत्ते क्षीणे प्रगुणप्रह्वयोः ॥ ६४ ॥ चतुष्पथेषु ना तीक्ष्णं विषेऽभिमरलोहयोः । क्लीबं पुंसि यवाग्रे स्यात्तिग्माऽऽत्मत्यागिनोस्त्रिषु ॥ ६५ ॥ द्रोणा काष्ठाम्बुवाहिन्यां गवादन्यां च नीवृति । पुमान् कृपीपतौ काकेऽस्त्र्याढकादिचतुर्ष्वपि ॥ ६६ ॥ गणः प्रमथसंघातसंख्यासैन्यप्रभेदवान् । मक्षिकापिप्पलीनक्रजीरकेषु कणा कणः ॥ ६७ ॥ ;p{0300} अतिसूक्ष्मे च धान्यांशे स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे प्रमाणं तु शास्त्रेयत्ताप्रमातृषु ॥ ६८ ॥ मर्यादाहेतुनित्येषु चैकत्वं सत्यवादिनि । कायकारणकायस्थसाधनेन्द्रियकर्मसु ॥ ६९ ॥ व्रतबन्धे नाट्यगीतभेदयोः करणं यदि । वधरक्षणरक्षितृगृहेषु शरणं भवेत् ॥ ७० ॥ वाच्यवद् निचितेऽशुद्धे संकीर्णं वर्णसङ्करे । पशुशृङ्गेभदन्तादौ विषाणं त्रिषु न स्त्रियाम् ॥ ७१ ॥ वर्णो द्विजादावरुणो वर्णभेदादिषु त्रिषु । मौर्वीसन्ध्यासत्त्वशुक्लद्रव्यधीषु गुणः पुमान् ॥ ७२ ॥ ;p{0301} घण्टापथे संसरणं प्राण्युत्पादे चमूगतौ । भुक्तोज्झितोन्मूलितयोः समुद्धरणमुन्नतौ ॥ ७३ ॥ ;c{॥ इति णान्ताः ॥} ;vv{तान्ताः} कृतान्तो दैवसिद्धान्तयमाऽकुशलकर्मसु । प्रकारेऽपि प्रकरणे वृत्तान्तः कार्त्स्न्यवार्तयोः ॥ ७४ ॥ आनर्तो देशभेदे स्यान्नृत्यस्थाणे जने रणे । श्लेष्मादिरसरक्तादिमहाभूतानि तद्गुणाः ॥ ७५ ॥ शब्दयोनीन्द्रिये प्रस्थविकृतिर्धातवः स्मृताः । शक्तिरायुधकास्वाः स्यान्मूर्तिकाठिन्यकाययोः ॥ ७६ ॥ शुद्धान्तो नृपनारीणां वेश्म कक्षान्तरोऽपि च । क्षयेऽपचितिरर्चायां सातिर्दानाऽवसानयोः ॥ ७७ ॥ विस्तारे व्रततिर्वल्ल्यां वसतिर्वासवेश्मनी । ;p{0302} रात्रिर्वाऽर्तिर्धनुष्कोट्यां पीडायां हेतिरर्चिषि ॥ ७८ ॥ रवेर्ज्वालासु वा वह्नेः शस्त्रेऽथ जगती क्षितौ । छन्दोभेदेऽपि दशमं पङ्क्तिच्छन्दोऽपि च स्त्रियाम् ॥ ७९ ॥ प्रभावोऽप्यायतिः पत्तिर्ना गतौ स्त्रीषु पक्षतिः । पक्षमूले तिथेर्वाऽपि पक्षिणां वेदकर्णयोः ॥ ८० ॥ वार्तायां च श्रुतिर्योनिलिङ्गादौ प्रकृतिर्धृतिः । धारणाऽध्वरतुष्ट्यादौ गुप्तिर्भूविवरेऽपि च ॥ ८१ ॥ ;p{0303 } वनिता जातरागायां स्त्रियां स्त्री त्रिषु याचिते । वालुका सिकता भूम्नि कैशिक्यादिषु वृत्तयः ॥ ८२ ॥ रीतिस्यन्दप्रचारादिरीतिर्डिम्बाऽतिवृष्टिषु । प्राप्तिर्महोदये लाभे जातिर्जन्मादिषु स्त्रियाम् ॥ ८३ ॥ अग्नित्रये युगे त्रेता भूती रक्षादिसंपदि । पुरी नद्योरहेर्भोगवतीनाऽहौ क्षितिः क्षये ॥ ८४ ॥ वासादौ समितिः संघे सभायां महती पुमान् । ;p{0304} तत्त्वभेदे स्त्रियां वीणाभेदे प्राज्ये नपुंसकम् ॥ ८५ ॥ वृत्तेऽन्यलिङ्गं वृत्तं तु छन्दश्चारित्रवृत्तिसु । त्रिषु रूप्ये सिते हेम्नि रजतं सलिले घृतम् ॥ ८६ ॥ अमृतं कलधौतं तु रूप्यहेम्नोः कृतं युगे । पर्याप्तेऽपि श्रुतं शास्त्रे चाऽवधारणकर्मणि ॥ ८७ ॥ निमित्तं लक्षणे हेतौ रक्तं नील्यादिरागिणि । क्लीबं खगादि सवादौ स्त्रीकरिण्योस्तु वासिता ॥ ८८ ॥ फल्गुन्यरोगयोर्वार्तं वृत्तौ वार्ता जनश्रुतौ । ;p{0305} बृहती क्षुद्रवार्ताक्यां छन्दोवसनयोरपि ॥ ८९ ॥ जीवाऽनपेक्षिकर्माऽत्याहितं यच्च महद्भयम् । भूतं जन्तुपिशाचादौ पुमान् देवे त्रिषूचिते ॥ ९० ॥ जनापवादनिर्वाददुष्टगर्हितवस्तूनि । अवगीतस्त्रिषु श्वेतं रूप्ये स्यादन्यवत्सिते ॥ ९१ ॥ शुद्धे सितेऽवदातः स्यात्पीते बद्धार्जुनौ सितः । उत्थितास्तूद्यतोत्पन्नवृद्धिमन्तः त्रिषूच्छ्रिताः ॥ ९२ ॥ प्रवृद्धोन्नद्धसंजाता आदृतः सादरेऽर्चिते । मूर्च्छितो मूढः सोच्छ्रायो प्रतीतः ख्यातहृष्टयोः ॥ ९३ ॥ ;p{0306} विविक्तो विजने पूतेऽभिजातः कुलजे बुधे । कृत्रिमे भूषिते शस्ते संस्कृतोऽप्यन्यलिङ्गकः ॥ ९४ ॥ पाणिन्यादिकृते सूत्रे क्लीबं युक्तेऽस्ति संस्कृते । मर्षिण्यप्यभिनीतोऽथाऽनन्तो निरवधौ त्रिषु ॥ ९५ ॥ निवासे दृढसन्नाहे निवातो वातवर्जिते । कृतेऽग्रतोऽभियुक्तानां पूजने वाऽग्रतः कृते ॥ ९६ ॥ पुरस्कृतोऽम्लपरुषौ तनुते शुक्तमुच्यते । साध्वभ्यर्हितसत्येषु विद्यमानप्रशस्तयोः ॥ ९७ ॥ ;p{0307} सद्भूर्जे ना शितिः श्वेते मेचके निशिते त्रिषु । मनीषिस्फुटयोर्व्यक्तो दृष्टान्तस्तु निदर्शनम् ॥ ९८ ॥ शास्त्रं क्षत्ता क्षत्रियायां शूद्राद् द्वाःस्थेऽपि सारथौ । हरौ हरे जिनेऽव्यक्ताऽजितौ सूतस्तु तक्षिणि ॥ ९९ ॥ भूपालभूधरौ भूभृत् स्त्रीपुष्पमासयोर्ऋतुः । स्याद्भूपालेऽपि मूर्धाऽभिषिक्तो राजन्यमण्डले ॥ १०० ॥ स्थपतिर्ना सुतः पुत्रे पार्थिवे तनया सुता । सूते हस्तिपके यन्ता भर्ता स्वामिनि ना त्रिषु ॥ १०१ ॥ ;p{0308} पोष्टृधातोः अथो यानपात्रे पोतः शिशावपि । मृते प्राण्यन्तरे प्रेतो हस्तो भेभकरादिषु ॥ १०२ ॥ केतुर्लक्ष्मपताकारुग्ग्रहौत्पाताऽरिषु स्मृतः । उत्पातेऽग्नौ धूमकेतुर्जीमूतोऽद्रौ च वारिदे ॥ १०३ ॥ तदेऽर्णवे सरस्वान् स्याद् गरुत्मान् तार्क्ष्यपक्षिणोः । भासे खगे शकुन्तोऽथ विवस्वान् देवसूर्ययोः ॥ १०४ ॥ ;c{॥ इति तान्ताः ॥} ;vv{थान्ताः} माने सानुनि प्रस्थोऽस्त्री स्यादास्थाऽऽस्थानयत्नयोः । ;p{0309} रैप्रयोजनयोरर्थो निवृत्तावपि वस्तुनि ॥ १०५ ॥ संबद्धार्थे च शक्तिस्थे समर्थस्स्याद्धितेऽपि च । तावन्तो नियमाः संघो भगवान् गौतमप्रभुः ॥ १०६ ॥ आद्यो गणधरश्चातुर्वर्ण्यं तीर्थङ्करस्तथा । अरिहन्ताऽपि तीर्थानि स्तुर्येऽन्येऽप्यागमादयः ॥ १०७ ॥ दशमीस्थो नष्टबीजे वृद्धौ वीथीसरण्यपि । ;c{॥ इति थान्ताः ॥} ;vv{दान्ताः} जीमूतवत्सरावब्दौ सूदस्तु व्यञ्जने त्रिषु ॥ १०८ ॥ वशाऽभिप्राययोश्छन्दो दायादो बन्धुपुत्रयोः । गोष्ठाध्यक्षोऽपि गोविन्दः प्रसादोऽनुग्रहादिषु ॥ १०९ ॥ त्रातर्याक्रन्द आरावे दारुणे रुदिते रणे । ;p{0310} तमोनुदोऽग्निश्चन्द्रार्कौ स्युस्तुर्यांऽशांऽह्रिरश्मयः ॥ ११० ॥ पादा विश्रम्भनिन्दाऽऽज्ञा अपवादोऽथ गोष्पदम् । सेविते चाऽपि मानेऽथ ऋतुवत्सरयोः शरत् ॥ १११ ॥ मन्दाः निर्भाग्यमूढाऽल्पाऽपटवोऽतीक्ष्णकोमलौ । मृदुः विशारदो विद्वत्सुप्रगल्भा तथाऽऽस्पदम् ॥ ११२ ॥ प्रतिष्ठाकृत्ययोः स्वादु मधुरेष्टौ त्रिषु स्त्रियाम् । संविद आजिक्रियाकारसंभाषाज्ञाननामसु ॥ ११३ ॥ ककुच्च ककुदं श्रेष्ठवृषाङ्गराजलक्ष्मसु । शब्दे वाक्ये पदे पादचिह्नाऽपदेशवस्तुषु ॥ ११४ ॥ व्यवसायश्लोकपादत्राणस्थानेषु लक्ष्मणि । पदं क्लीबेऽथ किरणे मेदिनीकृन्मते पुमान् ॥ ११५ ॥ ;p{0311} मद आमोदवद् हर्षे रहस्युपनिषत् स्त्रियाम् । ;c{॥ इति दान्ताः ॥} ;vv{धान्ताः} प्रत्यग्रेऽप्रतिभेऽपि स्याच्छारद----- काय उन्नतौ ॥ ११६ ॥ उत्सेधो व्यामवटयोर्न्यग्रोधोऽथाऽवलम्बिते । अविदूरेऽप्यवष्टब्धः स्नुषाजायास्त्रियो वधूः ॥ ११७ ॥ मद्ये क्षौद्रे पुष्परसे मध्वन्धं तु तमस्यपि । गर्विते पण्डितंमन्ये समुन्नद्धोऽथ भूषिते ॥ ११८ ॥ ख्याते प्रसिद्धः श्रद्धा तु स्पृहासंप्रत्ययोः स्त्रियाम् । त्रिषु रम्येऽपि साधु स्यात्प्रकारे च विधौ विधा ॥ ११९ ॥ सिन्धुर्नदविशेषोऽब्धिर्देशो ना स्त्री सरिद्यदि । ;p{0312} स्कन्धस्तरुप्रकाण्डादौ स्नुहीलेपोऽमृतं सुधा ॥ १२० ॥ मर्यादायां प्रतिज्ञायां संधाऽथ प्रार्थने चरे । प्रणिधिर्बुधो वृद्धौ च पण्डितेऽप्यवधिर्विले ॥ १२१ ॥ परिच्छेदे विधिर्दैवे विधानेऽपि विधुर्हरौ । सोमेऽध्वभारयोः पर्याहारे विवधवीवधौ ॥ १२२ ॥ बन्धे विनश्वरे दोषोत्पादे मुख्याऽनुयायिनि । बाले च प्रकृतस्याऽऽस्ते योऽनुबन्धोऽनिवर्तने ॥ १२३ ॥ ;p{0313} स्याद् यज्ञियतरोः शाखा परिधिश्चोपसूर्यकम् । समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ १२४ ॥ प्रत्याशा बन्धके चित्तपीडाव्यसनयोः पुमान् । अधिष्ठाने स्थितश्चाऽऽधिः -------- ;c{इति धान्ताः ।} ;vv{नान्ताः} ------------------- पत्री तु शरपक्षिणौ ॥ १२५ ॥ हयनोऽर्चिव्रीहिवर्षौ पक्ष्यश्वौ वाजिनः स्मृताः । शिखरी तरुशैलैस्त साद्यश्वारोहसारथी ॥ १२६ ॥ अभिपन्नोऽपराद्धाऽभिद्रुतग्रस्तविपद्गताः । अधिष्ठानं प्रभावाऽध्यासनचक्रपुरेष्वपि ॥ १२७ ॥ तलिनं स्तोकविरलौ वनं कानननीरयोः । स्वश्रेष्ठेऽपि मणौ रत्नं संस्थानं स्याच्चतुष्पथे ॥ १२८ ॥ ;p{0314} आकृत्यां सन्निवेशे च मरणेऽप्यथ लक्ष्म च । चिह्नप्रधानयोर्वह्निबर्हिणौ शिखिनौ मतौ ॥ १२९ ॥ विरोचनोऽग्निश्चन्द्राऽर्कौ ग्रावाप्रस्तरपर्वतौ । प्रतियत्नस्तु संस्कारो लिप्सोपग्रह एव च ॥ १३० ॥ केशे ना वृजिनो जन्मभूम्यामभिजनः कुले । क्रन्दनं रोदनाऽह्वाने सूनाऽधो जिह्विकादिषु ॥ १३१ ॥ वेदाविप्रस्तपस्तत्त्वं ब्रह्मब्रह्मा प्रजापतिः । तनुस्त्वक्काययोः क्रीडा व्यवसायादि देवनम् ॥ १३२ ॥ कृत्ये निमन्त्रणे केतौ केतनं भीरुवन्दयोः । ;p{0315} कामिनी वज्रतडितौ ह्रादिन्यथ च वाहिनी ॥ १३३ ॥ सैन्यं तरङ्गिणी सेना मूर्खनीचौ पृथग्जनः । चित्रभानुस्तु सूर्येऽग्नौ भानू रश्मिदिवाकरः ॥ १३४ ॥ भूतात्मा धातृदेहौ स्तो वर्त्माऽक्षिच्छद्रमार्गयोः । ग्रहदेहः प्रभावस्त्विड्धामानि पिशुनः खले ॥ १३५ ॥ गुह्येऽकार्येऽपि कौपीनं क्षणे पर्वतिथावपि । अवकाशे स्थितौ स्थानं निधनं कुलनाशयोः ॥ १३६ ॥ ;p{0316} उद्यानं वनभेदः स्यान्निःसृतिश्च प्रयोजनम् । समानः सत्समैकेषु तरस्वी वेगिशूरयोः ॥ १३७ ॥ साधनाऽवाप्तितोषेष्वाराधनं बुद्धिचिह्नयोः । प्रज्ञानमभिमानस्तु दर्पे प्रणयहिंसयोः ॥ १३८ ॥ पुस्तकाऽऽहवतन्त्रेषूत्थानं पौरुषेऽपि च । शक्रधातुकमत्तेभवर्षुकाब्दा घनाघनः ॥ १३९ ॥ दाने न्यासार्पणेऽरीणां शुद्धौ निर्यातनं स्मृतम् । व्यसनं भ्रंशविपदोर्दोषे कामजकोपजे ॥ १४० ॥ मेघे निरन्तरे मूर्तिगुणे मूर्ते घनस्त्रिषु । ;p{0317} विरोधाऽऽचरणेऽपि स्याद् व्युत्थानं प्रतिरोधने ॥ १४१ ॥ सूर्य्ये प्रभाविनो राजा नृपे क्षत्रियसोमयोः । सूचनोत्साहहिंसासु गन्धनं सुरशिल्पिनि ॥ १४२ ॥ सूर्य्ये च विश्वकर्माऽथ वर्ष्मदेहप्रमाणयोः । परमात्मनि बुद्धौ च प्रधानं मद्रतुच्छयोः ॥ १४३ ॥ वितानं त्रिषु विस्तारक्रत्वोर्न साधनं गतौ । मारणे मृतसंस्कारे द्रव्योपपादनेऽपि च ॥ १४४ ॥ आतञ्चनं प्रतीवापे वेगतर्पणयोरथ । ;p{0318} आत्मा बुद्धौ धृतौ यत्ने स्वभावे ब्रह्मवर्ष्मणोः ॥ १४५ ॥ आच्छादनं संपिधाने वस्त्रेऽपवृतिमात्रके । कौलीनमपवादेऽपि पशुपक्ष्यहियोधने ॥ १४६ ॥ व्यञ्जनं श्मश्रुनिष्ठानाऽवयवेष्वपि लाञ्छने । किञ्जलकेऽणावक्षिलोम्नि पक्ष्माऽथ सङ्गतौ रते ॥ १४७ ॥ मिथुनं वाणिनी दूती नर्तकी फलपुष्पयोः । प्रसूनं न्यूनहीने स्त ऊने गर्ह्ये ------- ;c{इति नान्ताः ।} ;vv{पान्ताः} -----------------------------ऽथ कच्छपी ॥ १४८ ॥ कूर्म्यां वीणाप्रभेदेऽग्निरीशविष्णू वृषाकपिः । ;p{0319} कलापोबर्हतूणीरभूषणेषु च संहते ॥ १४९ ॥ प्राप्तरूपोऽभिरूपः स्वरूपो बुधमनोज्ञयोः । गोधुग् गोष्ठपतिर्गोपः परीवापस्त्वपां स्थितिः ॥ १५० ॥ शय्याऽट्टालकदारेषु तल्पमाच्छदनाऽन्नयोः ॥ १५१ ॥ कशिपुर्न स्त्रियामूष्माऽश्रुणीवाष्पं ---------------- ;c{इति पान्ताः ।} ;vv{फान्ताः} ---------------------------------------- रवर्णके । ;c{इति फान्ताः ।} ;vv{बान्ताः} ना कुत्सितेऽन्यवद् रेफः -------------------------- -------------------------- कम्बुर्वलयशंखयोः ॥ १५२ ॥ ;p{0320} पुंस्कोकिलेऽपि गन्धर्वः खेचरे दिव्यगायने । अन्तराभवसत्त्वेऽश्वे द्विजिह्वः सर्पसूचकौ ॥ १५३ ॥ पूर्वजे नरि भूम्नि स्युः पूर्वं प्रागग्रतस्त्रिषु । त्रिषु विक्रमहीने स्यात्क्लीबं षण्ढे पुमानपि ॥ १५४ ॥ ;c{॥ इति बान्ताः ॥} ;vv{भान्ताः} बालिशो वा शिशुर्डिम्भः सभा सभ्येऽपि संसदि । कुसुम्भः करके क्लीबं स्यान्महारजनेऽपि च ॥ १५५ ॥ कुम्भो घटेभमूर्ध्नोर्ना शम्भुर्ब्रह्माऽर्हतोः शिवे । कुक्षे भ्रूणेऽर्भके गर्भो विस्रम्भः प्रणयादिषु ॥ १५६ ॥ ;p{0321} स्तम्भः स्थूणा जडीभावः स्त्रियान्तु सुरभिर्गवि । दुन्दुभिः पुंसि भेर्यां स्यात्स्त्र्यक्षे बिन्दुत्रिकद्वये ॥ १५७ ॥ बल्लभो दयिताऽध्यक्षसल्लक्षणतुरङ्गमाः । क्षत्रियेऽपि पुमान्नाभिः ---------------------- ;c{इति भान्ताः ।} ;vv{मान्ताः} ----------------------- रश्मिः किरणप्रग्रहौ ॥ १५८ ॥ परिभुक्तोऽज्झिते जीर्णे यातयामं प्लवंगमः । कपिभेकौ हरित्कृष्णौ श्यामः स्त्री शारिवा निशा ॥ १५९ ॥ वृन्दे स्तोत्रेऽध्वरे स्तोमः शौर्योद्योगौ पराक्रमः । ;p{0322} मनोभवेच्छयोः कामो नैगमो निगमो वणिक् ॥ १६० ॥ ग्रामो वृन्देऽपि शब्दादिपूर्वः क्रान्तौ तु विक्रमः । निगमा वणिक्पथो वेदः पुरं स्वसृकुलस्त्रियोः ॥ १६१ ॥ जामी रुक्सेनयोः स्तम्बे गुल्मः क्षान्तौ क्षितौ क्षमा । अलसे कुटिले जिह्मो न्यूनेऽपि कुत्सितेऽधमः ॥ १६२ ॥ क्षमः शक्ते हिते युक्ते वामं वल्गुप्रतीपयोः । रामो बले नीलचारुसितेऽपि त्रिष्वुपक्रमः ॥ १६३ ॥ उपायपूर्व आरम्भः उपाधाऽध्यात्मकैतवो । ;p{0323} सूक्ष्मं ललाम पुच्छाऽश्वभूषाप्राधान्यकादिषु ॥ १६४ ॥ ललामं धर्म आचारस्वभावन्यायसोमपाः । प्रथमस्तु प्रधानादी ---------------- ;c{इति मान्ताः ।} ;vv{यान्ताः} --------------------- वदान्यो दातृवाग्मिनोः ॥ १६५ ॥ समुच्छ्रयो विरोधेऽपि द्रव्यं भव्यगुणाश्रयौ । तुरगे गरुडे तार्क्ष्योर्मन्युर्दैन्ये क्रुधि क्रतौ ॥ १६६ ॥ समयः कालसिद्धान्तशपथाऽऽचारसंविदः । श्वशुर्यो देवरः श्यालः पर्यद्यपि प्रतिश्रयः ॥ १६७ ॥ प्रेमविश्रम्भयाञ्चासु प्रणयो यच्छुभाऽशुभम् । ;p{0324} कर्म भाग्यं रहस्योपस्थयोर्गुह्यं कलौ युगे ॥ १६८ ॥ पुष्ये तिष्यो विशल्या तु दन्तिका नामशोभयोः । अभिख्या विषयो ज्ञातो यस्तु शब्दादिकेष्वपि ॥ १६९ ॥ अग्न्यृक्षस्थानगेहेषु धिष्ण्यं शपथतथ्ययोः । सत्यं कषायो निर्यासे वीर्यं बलप्रभावयोः ॥ १७० ॥ स्थूलोच्चयस्त्वसाकल्ये गण्डोपलकरण्डयोः । कक्ष्या प्रकोष्ठमध्येभबन्धकाञ्चीषु मध्यमम् ॥ १७१ ॥ न्याय्ये रूप्यं प्रशस्तेऽपि रूपे पुण्यं तु चार्वपि । ;p{0325} अर्थानपेत आत्मज्ञोऽर्थ्यः सौम्यं सुन्दरादिषु ॥ १७२ ॥ वक्तव्यं कुटिले हीने कल्पः शज्जे निरामये । छाया त्वनातपेऽपि स्यात्प्रतिबिंबाऽर्कयोषिताः ॥ १७३ ॥ जनवादेऽपि जन्योऽथ जघन्यश्चरमेऽधमे । व्यसनेऽनिष्टदैवेऽपि विपद्यप्यनयः क्रमे ॥ १७४ ॥ पर्यायोऽवसरेऽप्यर्थः स्याद् वैश्यस्वामिनोरपि । त्रिषु क्रियादेवतयोर्भेद्ये कृत्या धनादिभिः ॥ १७५ ॥ कशेरौ हेम्नि गांगेयं भ्रातृव्यो भ्रातृजे द्विषि । ;p{0326} भूम्न्यन्तगमने प्रायः पूज्यस्तु श्वशुरादिषु ॥ १७६ ॥ प्रत्ययः शपथज्ञानाऽधीनविश्वासहेतुषु । शब्दे रन्ध्रेऽथ संस्त्यायः संघातसन्निवेशयोः ॥ १७७ ॥ ध्वनन्मेघाऽब्दशब्देन्द्राः पर्जन्योऽतिक्रमेऽत्ययः । वृषाकपायी श्रीगौरीवरीजीवन्तिकासु च ॥ १७८ ॥ भवेदनुशयो द्वेषे पश्चात्तापाऽनुबंधयोः । आपदायतियुद्धेषु संपरायोऽथ संनयः ॥ १७९ ॥ पश्चादवस्थायिबले समवायेऽप्यथ क्षयः । निलयेऽपचयेऽपि स्यात् ------------------- ;c{इति यान्ताः ।} ;vv{रान्ताः} ----------------------बल्यंशुपाणयः करः ॥ १८० ॥ ध्वान्ताऽरी दानवो वृत्र आकारस्त्विंगिताऽऽकृती । ;p{0327} कालेऽप्यजातशृङ्गो गौरश्मश्रुर्नाऽपि तूवरः ॥ १८१ ॥ यमेन्दाऽर्काऽनिलाश्चन्द्रवाजिसिंहांशुविष्णवः । कप्यही शुकभेकौ च हरिर्ना कपिले त्रिषु ॥ १८२ ॥ मात्रा परिच्छदे वित्ते माने कर्णविभूषणे । तीर्थौषधिजलव्योमपद्मखड्गफलेष्वपि ॥ १८३ ॥ वाद्यभाण्डमुखे हस्तिहस्ताऽग्रे पुष्करं मतम् । अग्रं पुरस्तादुपरि परिमाणेऽप्यथो दरः ॥ १८४ ॥ श्वभ्रे भयेऽक्षरमोक्षेऽपवर्गेऽप्यथ चाऽम्बरम् । व्योम्नि वाससि गौत्रं तु नाम्नि तन्त्रं परिच्छदे ॥ १८५ ॥ सूत्रवायेऽपि सिद्धान्ते प्रधाने चाऽथ गह्वरः । ;p{0328} गुहादम्भौ सिते पीतेऽरुणे गौरोऽथ शार्वरम् ॥ १८६ ॥ घातुकेऽप्यन्धतमसे वज्रस्तु हीरके पवौ । मुस्तके पिठरं राजकशेरुणि च नागरम् ॥ १८७ ॥ सत्रं वने सदादाने यशाऽऽच्छादनयोः रहः । उपह्वरं समीपेऽपि द्वारमात्रेऽपि गोपुरम् ॥ १८८ ॥ मन्दिरं नगरेऽगारे पुरं च हलकोडयोः । मुखाग्रे पोत्रमौशीरं दण्डस्वापाऽसनादिषु ॥ १८९ ॥ ;p{0329} प्रदरो बाणनारीरुग्भङ्गा अस्राः क्वचित्कचाः । वंशाकुरे करीरोऽस्त्री वृक्षभिद्घटयोश्च ना ॥ १९० ॥ आश्चर्याऽऽलेख्ययोश्चित्र यात्रा गत्युत्सवादिषु । प्रमीलानिद्रयोस्तन्द्रा स्याद् धात्री तूपमातरि ॥ १९१ ॥ सुराऽब्वाग्भूष्विरा कर्परांशेऽपि शर्करा वरः । त्रिषु देवादृते श्रेष्ठे क्लीबं स्यात्तु मनाक्प्रिये ॥ १९२ ॥ उदारस्तु महद्दात्री नीचाऽन्या वितरः स्मृतः । ;p{0330} बभ्रुः स्यान्नकुले विष्णौ विपुले पिङ्गले त्रिषु ॥ १९३ ॥ प्रातीहारी प्रतीहारो द्वाःस्थे द्वार्यथ मत्सरः । त्रिषु तद्वत्कृपणयोः शुभद्वेषे परस्य च ॥ १९४ ॥ परीवारः खड्गकोशे जङ्गमे च परीच्छदे । क्षुद्रा व्यङ्गा नटीकण्ठकारिकासरघासु च ॥ १९५ ॥ क्षुद्रोऽधमेऽल्पे क्रूरेऽपि कलत्रं श्रोणिभार्ययोः । आडम्बरः समारम्भे गजगर्जिततूर्ययोः ॥ १९६ ॥ द्यूतकारे पणे पुंसि द्यूते क्लीबं दुरोदरम् । मुक्ताशुद्धौ पुमांस्तारः शारो वायौ च कर्बुरे ॥ १९७ ॥ अभिहारस्तु चौर्याऽभियोगसंहननेष्वपि । ;p{0331} भवेत्प्रतिसरः पुंसि चमूजघनयोरपि ॥ १९८ ॥ कान्तारः स्यान्महारण्ये तथा दुर्गपथे स्त्रियाम् । गृह्येऽप्यवस्करो यूपखण्डे यज्ञे स्वरुः पुमान् ॥ १९९ ॥ बलस्थिरांशयोः सारः क्लीबं न्याय्ये वरे त्रिषु । विटपिन्यासने दर्भमुष्ट्यां स्याद् विष्टरः पुमान् ॥ २०० ॥ संगरस्तु प्रतिज्ञाऽऽजिसंविदापत्स्वेथो रवौ । मित्रः स्वर्णेऽपि राः स्त्रीणां स्तनावब्दः पयोधरः ॥ २०१ ॥ मन्त्रो गुह्यादिवादेऽथ क्षेत्रं पत्नीशरीरयोः । व्यासक्ताऽऽकुलयोर्व्यग्रः स्वैरः स्वच्छन्दमन्दयोः ॥ २०२ ॥ ;p{0332} उद्दीप्तशुल्कयोः शुभ्रः क्रूरः कठिननिर्दयौ । पक्षेपि वाहने पत्रं पात्रं भाजनयोग्ययोः ॥ २०३ ॥ स्वर्णेऽपि चन्द्रो भूरिश्च कायेऽपि विषयेऽजिरम् । जटायामंशुके नेत्रं शास्त्रं ग्रन्थनिदेशयोः ॥ २०४ ॥ देशोपद्रवयोरस्त्री राष्ट्रं स्यात्क्षीरमप्सु च । हीनेऽनूर्ध्वेऽधरश्चाऽथो एकाग्रः स्यादनाकुलः ॥ २०५ ॥ उत्तरस्तूपरिश्रेष्ठोदीच्येष्वन्यो ह्यनुत्तरः । शस्त्रं लोहाऽऽयुधे क्लीबे परो दूरोत्तमाऽरयः ॥ २०६ ॥ ;p{0333} मधुरो यः प्रियः स्वादु जठरः कठिनेऽपि च । भेदे प्रकारः सादृश्ये द्वापरः संशये युगे ॥ २०७ ॥ विशिखे श(स)स्यशूकेऽपि किंशारुर्गीर्पतिर्गुरुः । पर्यङ्के परिवारे वा वाते परिकरः स्मृतः ॥ २०८ ॥ अद्रिरर्कद्रुशैलाः स्यु र्व्रणकारिण्यरुष्करः । निहवेऽवसरे वारो नामरुर्गिरिधन्वनोः ॥ २०९ ॥ अन्तर्धिभेदतादर्थ्ये च्छिद्राऽऽत्मीयविना बहिः । मध्येऽवकाशाऽवसरपरिधानाऽन्तरात्मसु ॥ २१० ॥ अवधावन्तरं संस्तरोऽध्वरे प्रस्तरेऽपि च । ;c{इति रान्ताः ।} ;p{0334} ;vv{लान्ताः} स्थौल्ये स्थामनि सैन्ये च ना बलं काकसीरिणोः ॥ २११ ॥ मातङ्गपुष्पकाण्डद्रुप्रभेदाः पीलवः कला । शिल्पेऽपि कालभेदेऽथ प्रावारेऽप्यस्ति कम्बलः ॥ २१२ ॥ त्रिषु व्यालः शठे ना तु सर्पश्वापदयोः कलिः । युगेऽपि कमलः पुंसि कुरङ्गेऽन्यन्नपुंसकम् ॥ २१३ ॥ मलं विट्पापकिट्टेष्वस्त्रियां शूलो रुगायुधम् । अङ्कुरेऽपि प्रवालोऽस्त्री पेशलश्चारुदक्षयोः ॥ २१४ ॥ ;p{0335} क्रियाविलासयोर्लीलाऽस्त्री तलोऽधःस्वरूपयोः । क्षेमपर्याप्तिपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २१५ ॥ सतृष्णचलयोर्लोलो बालो मूर्खेऽर्भकेऽपि च । कृत्तिकासु स्त्रियां भूम्नि बहुलोऽग्नौ शिते त्रिषु ॥ २१६ ॥ श्वभ्रे कुकूलं कीर्णे स्यात् शङ्कुभिर्ना तुषाऽनले । गवाक्षाऽऽनायवृन्देषु क्षारे जालमथोपला ॥ २१७ ॥ शर्कराऽपि च कीलालं शोणितेऽम्भसि च पलम् । आमिषे मौलयश्चूडा किरीटं संयताः कचाः ॥ २१८ ॥ ;p{0336} वात्यायां ना तु वातूलं त्रिषु वातासहे बलिः । करोपहारयोर्दैत्ये ना स्त्री प्राण्यङ्गजा सखी ॥ २१९ ॥ सेत्वाबली स्त्रियामालीस्त्रिषु स्याद् विशदाशये । वेलावार्ध्यम्बुविकृतौ मर्यादाकालयोरपि ॥ २२० ॥ पालिरस्त्र्यङ्कपङ्क्त्यादौ कीलः शङ्कादिषु द्वयोः । कृतान्ताऽनेहसौ कालः करालस्तुङ्गदन्तुरौ ॥ २२१ ॥ चेलं वस्त्रेऽधमे स्थूलं जडेऽपि त्रिषु, केवलम् । निर्णीतेऽथ त्रिलिङ्गं तु स्यादेककृत्स्नयोः फलम् ॥ २२२ ॥ ;p{0337} सस्ये हेतुकृते, शीलं सद्वृत्तसत्स्वभावयोः । नेत्ररुट्छदिषोः क्लीबं वृन्दे न पटलं पुमान् ॥ २२३ ॥ और्वाग्नावपि पातालं मूलं भाऽऽद्यशिफासु च । ;c{इति लान्ताः ।} ;vv{वान्ताः} ध्रुवं स्यान्निश्चिते भे ना शाश्वते त्रिष्वथोत्सवः ॥ २२४ ॥ इच्छायाः प्रसवेऽमर्षोत्सेकादिषु महे दवः । दावश्च वनवन्याग्नीआह्वानाऽऽज्ञाऽध्वराहवाः ॥ २२५ ॥ मन्त्रीसहायः सचिवो धवः पतिनृशाखिनः । शैलोऽर्कमेषाववयः सत्ताऽभिप्रायजन्मसु ॥ २२६ ॥ भावश्चेष्टादिके गौरीकेरवे तु शिवा भवः । ;p{0338} हरो जन्म च नीवी तु स्त्रीकटीवस्त्रबन्धने ॥ २२७ ॥ तथा परिपणे मूलद्रव्ये पारशवस्तु यः । द्विजात् शूद्रासुते शस्त्रे द्वन्द्वं युग्मविवादयोः ॥ २२८ ॥ व्यवसायाऽसुद्रव्येषु सत्त्वं जन्तुषु न स्त्रियाम् । ज्ञात्यात्मनोः स्व आत्मीये त्रिष्वस्त्री तु धनेष्वथ ॥ २२९ ॥ उत्पादे प्रसवो गर्भमोचने फलपुष्पयोः । अनुर्भावः प्रभावेऽपि निश्चये भावसूचके ॥ २३० ॥ स्यात्स्थानं प्रभवो जन्महेतुराद्योपलब्धये । ;p{0339} निह्नवोऽपह्नवेऽविश्वासेऽपि ना निकृतावपि ॥ २३१ ॥ ;c{॥ इति वान्ताः ॥} ;vv{शान्ताः} शिश्वज्ञौ बालिशो राशीपुञ्जमेषौ कुशं जले । आशादिक्तृष्णयोर्वंशः कुले वा मस्करे रहः ॥ २३२ ॥ प्रकाशेऽपि च वीकाशः कठोरादौ तु कर्कशः । निर्वेशो भोगभृत्योश्च कीनाशः क्षुद्रकर्षयोः ॥ २३३ ॥ कृतान्ते यदि पुंस्येव स्थितिवर्त्त्यादयो दशाः । ज्ञाने ज्ञातरि दृग्वैश्यमनुजौ तु विशौ स्पशः ॥ २३४ ॥ संपरायचरौ ख्याते प्रकाशः स्फुट आतपे । ;p{0340} अपदेशो निमित्ते स्यात् पदे लक्ष्ये वशा स्त्रियाम् ॥ २३५ ॥ करिण्यपि --------------------------- ;c{इति शान्ताः ।} ;vv{षान्ताः} ------------------सुरे मत्स्येऽजिमिषो विषमप्सु च । आकर्षः शारिफलके द्यूतेऽक्षेऽप्यथ किल्विषम् ॥ २३६ ॥ अपराधेऽपि पक्षस्तु सहायेऽथात्ममानवौ । पुरुषोऽधिकृतेऽध्यक्षः प्रत्यक्षेऽप्यथ वीरुधि ॥ २३७ ॥ कक्षस्तृणेऽपि काको मत्स्यात्खगो ध्वांक्ष इष्यते । भारतादावब्दवृष्टयोर्वर्षमस्त्र्यथ पौरुषम् ॥ २३८ ॥ पुंभावे तत्क्रियायां च भिक्षा सेवार्थना भृती । ;p{0341} वृषभे सुकृते श्रेष्ठे मूषिके शुक्रले वृषः ॥ २३९ ॥ कलिद्रौ व्यवहारोऽक्षो द्यूताङ्गचक्रकर्षयोः । क्लीबं स्यादिन्द्रिये प्रेक्षा प्रज्ञा नृत्येक्षणे अथ ॥ २४० ॥ कुड्मलार्थाघदिव्येषु कोषोऽस्त्री खड्गगोपने । कर्षूर्वार्ताकरीषाग्न्योर्ना कुल्या मात्रकेऽस्त्रियाम् ॥ २४१ ॥ मर्दने प्रेषणे प्रैषस्त्विट् शोभारश्मिप्रग्रहौ । अभीषु सामिषं तु स्यादुपादानेऽस्त्रियामथ ॥ २४२ ॥ निःस्नेहाऽमसृणा रुक्षः शिरोवेष्टकिरीटयोः । उष्णीषं स्यान्निष्कृटेऽपि कार्त्स्न्ये न्यक्षो-------- ;c{इति षान्ताः ।} ;p{0342} ;vv{सान्ताः} ---------------------------------विभावसुः ॥ २४३ ॥ सूर्येऽग्नौ स्याद्धिताशंसाऽहिदंष्ट्राऽऽशी दिवौकशः । सारङ्गा लालसौत्सुक्यप्रार्थने वर्षतर्णकौ ॥ २४४ ॥ वत्सो वसु धने रत्ने नाऽनले रश्मिदेवयोः । बाढसाध्वोऽस्तु साधीयान् ज्यायो वृद्धप्रशस्ययोः ॥ २४५ ॥ पयोऽम्बुक्षीरयोस्तेजः शुक्रदीप्तिबलादिषु । पद्याऽभिलाषयोश्छन्दस्तपःकृच्छ्रादिकर्म यत् ॥ २४६ ॥ वरीया नूरुवरयोः कनीयांस्तु युवाऽल्पयोः । ;p{0343} भद्योतदृष्टिषु ज्योतिः खं नभः श्रावणे नभाः ॥ २४७ ॥ वयः खगेऽपि बाल्यादौ वेधा विष्णौ च रोदसी । रोदस्यौ चाऽपि भूद्यावौ प्रसूरश्वाऽप्यथो रजः ॥ २४८ ॥ स्त्रीपुष्पे च गुणे वर्चो रूपे तेजःपुरीषयोः । विदन् विद्वान् निम्नगाया वेगे स्रोतस्तथेन्द्रिये ॥ २४९ ॥ तमो राहौ गुणे ध्वान्ते सहा मार्गः सहो बले । अर्चिर्मयुखं शिखयोर्नना चौर्यादिकर्मणि ॥ २५० ॥ ;p{0344} हिंसा हिंस्रेऽपि बीभत्स ओजो दीप्तौ बले महः । तेज उत्सवयोरोकः ओकाः सद्माऽऽश्रयो रसः ॥ २५१ ॥ शृङ्गारादौ द्रवे वीर्ये गुणरागविषेष्वपि । पापाऽपराधावागः स्यात्कर्णपूरे च शेखरे ॥ २५२ ॥ उत्तंसश्चाऽवतंसश्च हंसः श्वेतच्छदो रविः । ;c{इति सान्ता ।} ;vv{हान्ताः} निर्यूहो द्वार आपीडे निर्यासे नागदन्तके ॥ २५३ ॥ दारा गृहा गृहं वृत्रेऽप्यहिर्बर्हदले ग्रहाः । ;p{0345} निर्बन्धाऽर्कोपरागाद्या नृपार्हेऽर्थे परिग्रहे ॥ २५४ ॥ परिबर्हस्तुलासूत्रसप्तिरश्म्योश्च प्रग्रहः । तमोपहोऽर्कश्चन्द्राऽग्नी व्यूहो वृन्दे परिग्रहः ॥ २५५ ॥ शापमूलपरीवारराहुवक्त्रस्थभास्कराः । आरोहस्त्ववरोहेऽपि नानार्था अव्यया इतः ॥ २५६ ॥ ;c{इति हान्ताः ।} ;v{नानार्थाव्ययवर्गः} धातुयोगजसीमाऽभिव्याप्तीषत्स्वाङ् सकृत्सहे । एकवारेऽप्यङिद् वाक्यस्मृत्योरालङ्घनेऽप्यति ॥ २५७ ॥ हन्त हर्षे विशादे च वागारम्भाऽनुकम्पयोः । ;p{0346} इति प्रकरणे हेतु प्रकाशादिसमाप्तिषु ॥ २५८ ॥ तिर्यगर्थे तिरोऽन्तर्धौ प्रादुर्नामप्रकाशयोः । अलं वारणपर्याप्तिशक्तिभूषणवाचकम् ॥ २५९ ॥ रहस्यापि मिथोऽन्योन्यमर्धे सामि जुगुप्सिते । वाक्यालङ्कारजिज्ञासानिषेधाऽनुनयाः खलु ॥ २६० ॥ तर्केऽर्थनिश्चये नूनं किं पृच्छा वा जुगुप्सनम् । विस्तारेऽङ्कृतौ चोरी चोररी चोररी किल ॥ २६१ ॥ संभाव्यवार्तयोः कं स्यात्सुखे मूर्धनि वारिणि । नामसंभाव्यक्रोधोपगमप्राकाश्यकुत्सने ॥ २६२ ॥ परे च लोके स्वर्गे स्वरभेदाऽप्रमथयोः पुनर् । भेदेऽवधारणे तु स्यात् पापेषत्कुत्सनासु कु ॥ २६३ ॥ ;p{0347} वितर्कप्रश्नयोः स्वित् धिक् निन्दाभर्त्सनयोः उत । विकल्पाऽप्यर्थयोः पश्चात् प्रतीच्यां चरमे वृथा ॥ २६४ ॥ निरर्थकेऽविधौ पश्चात् सादृश्येऽप्यनु निश्चये । निःशेषे निर् विषादाऽर्तिशुक्षु हा वोपमादिषु ॥ २६५ ॥ शङ्कासमुच्चयप्रश्नगर्हासंभावनाः अपि । अवधारणहेत्वोर्हि परिप्रश्नवितर्कयोः ॥ २६६ ॥ हुं प्रबन्धे च निकटेऽतीते वाऽऽगामिके पुरा । पुरार्थे प्रथमे प्राच्यां पुरस्तादग्रतो बत ॥ २६७ ॥ ;p{0348} खेदाऽनुग्रहसंतोषाऽनुकम्पाऽऽमन्त्रणे ननु । प्रश्नेऽवधारणेऽनुज्ञाऽऽमन्त्रणाऽनुनयादिषु ॥ २६८ ॥ मङ्गलाऽनन्तरप्रश्नाऽऽरम्भकृत्स्नेष्वथो अथ । यावत्तावच्च साकल्याऽवधिमानाऽवधारणम् ॥ २६९ ॥ नु पृच्छायां विकल्पे च नानाऽनेकोभयार्थयोः । पुनः सहार्थता शश्वत् आराद् दूरसमीपयोः ॥ २७० ॥ आः कोपेऽपि च पीडायां साक्षात् तुल्यसमक्षयोः । चाऽन्वाचयसमाहारेतरेतरसमुच्चये ॥ २७१ ॥ ;p{0349} स्वस्त्याशीःक्षेमपुण्येषु जोषं तूष्णीं सुखार्थयोः । लक्षणादौ च वीप्सायां तथा प्रतिविधौ प्रति ॥ २७२ ॥ अमा सह समीपेऽपि अहहाऽद्भुतखेदयोः । शीघ्राऽभिमुखसाकल्यसमीपोभयतोऽभितः ॥ २७३ ॥ मध्येऽन्तिकेऽपि समया एवम् इत्थमिवार्थयोः । ;c{॥ इति नानार्थवर्गः समाप्तः ॥} ;p{0350} ;v{अव्ययवर्गः} ;c{॥ अथ अव्ययवर्गः प्रारभ्यते ॥} अतीते ह्योऽह्नि विज्ञेयं भाविनि श्वस्तु कीर्तितम् । परेद्यवि परेऽह्नि स्यात् परश्वस्तु परेऽहनि ॥ १ ॥ तदा तदानीं वै तस्मिन् कालद्वयमुदीरितम् । युगपदेकदैकस्मिन् सर्वस्मिन् सर्वदा सदा ॥ २ ॥ अस्मिन् साम्प्रतमेतर्हि सम्प्रति चाधुना तथा । इदानीं चेति विज्ञेयमद्यात्राह्नि प्रकीर्तितम् ॥ ३ ॥ पूर्वेऽहनि च पूर्वेद्युत्तरेद्युरादयः क्रमात् । उत्तरान्यतरान्यस्मादितराधरपरादहः ॥ ४ ॥ ;p{0351} पूर्वे पूर्वतरेऽब्देऽस्मिन् परुत्परार्यैषमः पुनः । अतीते स्म बहिर्बाह्ये प्रश्ने ऊं चानुनये त्वयि ॥ ५ ॥ उषा रात्र्यवसाने स्याद् हुं तर्के च नतौ नमः । निन्दायां दुष्ठु वै सुष्ठु प्रशंसायामुदीरितम् ॥ ६ ॥ प्रातः प्रगे प्रभाते स्यात् साये सायं प्रकीर्तितम् । प्रागतीते सना नित्ये कच्चित् कामप्रवेदने ॥ ७ ॥ युक्तार्थे साम्प्रतं स्थानेऽभीक्ष्णं शश्वन्निरन्तरे । अभावे नहि नो न स्यात् प्रसह्येति हठार्थकम् ॥ ८ ॥ ;p{0352} तत्त्वार्थेऽद्धाऽञ्जसा प्रोक्तं प्रादुराविः प्रकाशने । असत्ये च मृषा मिथ्याऽवश्यं नूनश्च निश्चिते ॥ ९ ॥ निःषमं दुःषमं निन्द्ये एव इत्यवधारणे । आमेवं तु पुनर्वैवा निश्चयार्थे प्रकीर्तिताः ॥ १० ॥ निकामानुमतौ कामम् ओमेवं परमं तथा । कदाचिज्जातु कस्मिंश्चित्काले द्वयमुदाहृतम् ॥ ११ ॥ सहार्थे तु समं साकं सार्धं सत्रा सहेति च । भोः प्याट् पाट् अङ्ग है हे स्युः सम्बोधनस्य द्योतकाः ॥ १२ ॥ हिरुग् वर्जनं सामीप्ये सहसा स्यादतर्किते । ;p{0353} स्वाहा स्यात्तु हविर्दाने वौषट्श्चौषट्वषट्स्वधा ॥ १३ ॥ तूष्णीं मौने मनागल्पे किञ्चिदीषत्तथैव च । तु हि चह तथा वै स्यात् किलापि पादपूरणे ॥ १४ ॥ प्राध्वं स्यादानुकूल्यार्थे व्यर्थके तु मुधा वृथा । दोषा नक्तं रजन्यां स्यात् दिवसे तु दिवा स्मृतम् ॥ १५ ॥ विकल्पार्थे तु आहो स्याद् उताहो किमुतापि वा । वक्रे साचि तिरः प्रोक्तं प्रेत्यामुत्र भवान्तरे ॥ १६ ॥ पौनःपुन्ये मुहुः शश्वद् अभीक्ष्णमसकृत् पुनः । द्राग् झटित्यञ्जसा मंक्षु सद्यः सपदि तत्क्षणे ॥ १७ ॥ चिरार्थे चिररात्राय चिरायादि प्रकीर्तितम् । ;p{0354} सादृश्यार्थे यथेवैवं तथा वा व प्रकीर्तितम् ॥ १८ ॥ विस्मयार्थे अहो हीचा नन्दे दिष्ट्या शमीरितम् । पुनश्चाप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ १९ ॥ अन्तरे चान्तरा मध्ये चान्तरेण तथैव च । परितः सर्वतो विष्वक् समन्तात्तु समन्ततः ॥ २० ॥ अभितो विश्वतोऽर्थे स्यात् मास्म मालं च वारणे । ;c{॥ इति अव्ययवर्गः समाप्तः ॥} ;p{0355} ;v{लिङ्गादिनिर्णयवर्गः} ;c{॥ अथ लिङ्गादिनिर्णयवर्गः प्रारभ्यते ॥} लिङ्गनिर्देशकैः शास्त्रैः नानासूत्रसमन्वितैः । सन्नादिनिर्मितैः शब्दैः कृत्तद्धितसमासजैः ॥ १ ॥ लिङ्गादिसंग्रहत्वेन संक्षेपवर्गनामके । पूर्वानुक्तैर्लिङ्गादीन् प्रकीर्णवदिहोन्नयेत् ॥ २ ॥ लिङ्गोत्सर्गविधिर्ज्ञेयः काण्डत्रय उदाहृतः । विशेषविधिना नो चेत् कदाचित् बाधितो भवेत् ॥ ३ ॥ ईदूदन्तः स्त्रियामेकाच् सयोनिप्राणिनामनि । ;p{0356} वाणी वल्ली निशा विद्युन्नदी दिग्भूधियां तथा ॥ ४ ॥ अदन्तोत्तरशब्दश्चेद् द्विगुरेकार्थबोधकः । नो चेद् भुवनपात्राद्यैरदन्तैर्जातु संयुतः ॥ ५ ॥ समूहे येनिकट्यत्रास्तल्वैरमिथुनादिवुः । स्त्रियां क्तिन्ननिण्वुल्ण्वुज् णज् युच् क्यवङिञ् निशाः स्मृताः ॥ ६ ॥ ;p{0357} उणादावीर्निरुश्चोक्त ऊङ् ङ्याबन्तं स्थिरं चलम् । प्रहरणं तत्क्रीडायां दाण्डा मौष्टा णदिक् स्मृता ॥ ७ ॥ सा क्रियाऽस्यां घञो ञः स्याद् दाण्डापातातिथिः स्मृता । मृगया स्यैनंपाता स्यात् तैलपाता स्वधा स्मृता ॥ ८ ॥ विवक्षाऽपचये चेत् स्त्री मृणाल्यादिरुदाहृता । ;p{0358} टीका शेफालिका लङ्का घातकी पञ्जिकाढकी ॥ ९ ॥ सारिका सिघ्रका हिक्का प्राचिकोल्का पिपीलिका । कणिका तिन्दुकी भङ्गिः सुरङ्गामाढिसूचयः ॥ १० ॥ कन्था साति रथा सन्दी नाभिराज सभा तथा । वितण्डा काकिणी पिच्छा शाणी चूर्णिर्द्रुणी दरत् ॥ ११ ॥ चर्चरी झल्लरी होरा पारी लट्वा च सिद्मला । लिक्षा लाक्षाऽथ गण्डूषा चमसी गृध्रसी मसी ॥ १२ ॥ इत्येवं स्त्रीत्वसंयुक्ताः शब्दाः स्त्रीत्वे प्रकीर्तिताः । ;p{0359} पुंस्त्वं इत्यधिकारेऽस्मिन् सभेदानुचरास्तथा ॥ १३ ॥ पर्यायसहिताः सर्वे देवा दैत्या उदाहृताः । स्वर्गाद्रिमेघयागाब्धिवृक्षकालारिशरासयः ॥ १४ ॥ एते हि नित्यपुंल्लिङ्गा यथाशास्त्रं प्रकीर्तिताः । ;p{0360} कपोलाधरदोर्दन्तकोशकण्ठकरस्तनाः ॥ १५ ॥ अह्नाहान्ताः नखक्ष्वेडाः रात्रान्ताः प्रागसंख्यकाः । सरलाद्याश्च निर्यासा अन्नसन्ता अबाधिताः ॥ १६ ॥ ;p{0361} जतु कशेरु वस्तूनि त्यक्त्वा तुर्ववसानकाः । कणभमरषोपान्त्या अदन्ताश्चेदमी तथा ॥ १७ ॥ टथन पय सोपान्त्या गोत्राश्च चरणाह्वयाः । ;p{0362} संज्ञायां कारके कर्तृभिन्ने भावे च प्रत्ययाः ॥ १८ ॥ तदन्ताः पुंसि विज्ञेया घञ् जब् नङथुज् णघाः । कर्तरिल्युस्तथा भावे केमनिज् घोकिरुदाहृतः ॥ १९ ॥ ;p{0363} इतरेतरयोगे तु द्वन्द्वेऽश्ववडवौ स्मृतौ । तथाऽश्ववडवा वाप्यश्ववडवं समाहते ॥ २० ॥ सूर्यचन्द्रसमायुक्तः कान्तोऽयःपूर्व एव च । रल्लकश्चानुवाकश्च वटकश्च कुडङ्गकः ॥ २१ ॥ न्युङ्खः पुंखः समुद्गश्च खटपट्टविटाः घटः । घट्टकोट्टारहट्टाश्च पिचण्डगोण्डपिण्डवत् ॥ २२ ॥ किणो घुणो वरण्डश्च करण्डो लगुडो गडुः । ;p{0364} रोमन्थो दृतिसीमन्तौ हरिदुद्गीथबुद्बुदाः ॥ २३ ॥ स्तूपः फेनोऽर्बुदः कुन्दः कासमर्दश्च पूपकः । कणपक्षुरचुक्राश्च क्षत्रिये नाभिरातपः ॥ २४ ॥ क्षुरप्रः केदरः पूरो गोलपुद्गलहिंगुलाः । मल्लो भल्लश्च वेतालः पुरोडाशस्तु पट्टिशः ॥ २५ ॥ रभसश्चैव कुल्माषः कटाहश्च पतद्ग्रहः । क्लीब इत्यधिकारेऽस्मिन् उक्तान्यत् समुदाहृतम् ॥ २६ ॥ ;p{0365} अरण्यं खं तथा पर्णं हिमं श्वभ्रं तथोदकम् । उष्णं शीतं बलं मांसं रुधिराक्षि द्रविणं मुखम् ॥ २७ ॥ हेम शुल्वं फलं लोहं सुखं दुःखं शुभाशुभम् । जलजानि च पुष्पाणि व्यञ्जनं लवणं तथा ॥ २८ ॥ अनुलेपनं तथा पुण्यं पापश्च समुदाहृतम् । कोटिं विहाय संख्याऽन्या शतादि परमावधिः ॥ २९ ॥ लक्षं लक्षेति विज्ञेयमसिसुन्तं स्वरद्वयम् । अन् अन शब्दान्तमाख्यातं कर्तृभिन्नार्थवाचकम् ॥ ३० ॥ ;p{0366} सलोपान्त्यं त्रशब्दान्तं नो चेद् पूर्वेण बाधितम् । संख्या पूर्वपदं रात्रशब्दान्तं समुदाहृतम् ॥ ३१ ॥ पात्राद्यन्तो यथा लक्ष्यं द्विगुरेकार्थवाचकः । द्वन्द्वैकार्थसमाहारोऽव्ययीभावस्तथैव च ॥ ३२ ॥ संख्याऽव्ययात्परः पन्थाः समासान्तान्वितो भवेत् । ;p{0367} षष्ठ्यन्ताच्चेत्परा छाया बहुत्वे संगता यदि ॥ ३३ ॥ तत्पुरुषे समूहार्थे सभाशब्दान्त एव च । शालार्थाऽपि सभाराजाऽमनुष्यार्थादराजकात् ॥ ३४ ॥ षष्ठ्यन्ताच्चेत्परा सा स्यात् दासी सममुदाहृतम् । उपज्ञोपक्रमान्तश्च प्राथम्यस्य प्रकाशने ॥ ३५ ॥ कन्थोशीनरदेशस्य संज्ञायां समुदाहृता । ;p{0368} भावे कणनचिद् भिन्नाः समूहे भावकर्मणोः ॥ ३६ ॥ अदन्तप्रत्ययान्ताश्च शब्दाः क्लीबे प्रकीर्तिता । पुण्याहं सुदिनाहञ्च द्वयमेतत्तथैव च ॥ ३७ ॥ क्रियाणामव्ययानाञ्चैकत्वं भेदके स्मृतम् । उक्थं च तोडकं चोचं तिरीटं मर्म योजनम् ॥ ३८ ॥ गृहस्थूणं तथा पिच्छं गद्यं पद्यं कवेः कृतौ । ;p{0369} राजसूयं तथा यज्ञे वाजपेयञ्च संस्मृतम् ॥ ३९ ॥ भाष्यसिन्दूरमाणिक्यचीरचीवरपञ्जरम् । विदलं हरितालञ्च लोकायतमुदाहृतम् ॥ ४० ॥ स्थालं बाहलवमित्येते क्लीबे शब्दाः प्रकीर्तिताः । पुंनपुंसक इत्यस्मिन् अधिकारे प्रदर्शिताः ॥ ४१ ॥ शब्दा अधस्ताद् विख्याताः पिण्याकार्धर्चकण्टकाः । तण्डको मोदकष्टङ्कः खर्वटः शाटकोऽर्बुदः ॥ ४२ ॥ पातकश्चरकोद्योगौ तमालामलकौ नडः । ;p{0370} बुस्तं मुण्डं शीधु कुष्ठं क्षेमं क्ष्वेडितसंगमम् ॥ ४३ ॥ कुट्टिमं शतमानार्मताण्डवाव्ययशम्बलम् । कर्पासं कवियं कन्दं यूषं यूपं युगन्धरम् ॥ ४४ ॥ प्रग्रीवं चमसं पारावारं पात्रीव चिक्कसौ । अर्घर्चादिगणेऽन्येषां घृतादीनां च संग्रहः ॥ ४५ ॥ तस्याकृतिगणत्वाद्धि बोद्धव्यो विबुधैः सदा ॥ स्त्रीपुंसयोस्तु विज्ञेया अपत्यत्यप्रयान्तकाः ॥ ४६ ॥ ;p{0371} द्विचतुष्षट्पदव्याला जातिभेदाः प्रकीर्तिताः । स्त्रिया योगे पुमाख्यास्तेऽपवादैश्चेन्न बाधिताः ॥ ४७ ॥ मल्लकश्चापि विज्ञेयः स्त्रीपुंसोभयलिङ्गकः । झाटलिर्वर्णकः स्वातिर्मुनिर्मनुर्वराटकः ॥ ४८ ॥ यष्टिः सृपाटी कर्कन्धूः शाटिर्मूषा कुटीकटी । स्त्रीनपुंसकयोश्चाथाधिकारेऽत्रोचितादयः ॥ ४९ ॥ ष्यञ् वुञ् प्रत्ययरूपान्ताः भावे कर्मणि च क्वचित् । ;p{0372} षष्ठ्यन्तेभ्य परे चेत्स्युः शालाच्छायानिशासुराः ॥ ५० ॥ सेनाशब्दाश्च विज्ञेयाः गोशालमित्युदाहृतम् । आबन्तोत्तरशब्दश्चान्नन्तोत्तरपदो द्विगुः ॥ ५१ ॥ अनो नस्य च लोपोऽन्ते पञ्चखट्वमुदाहृतम् । त्रिलिङ्गेषु पुटी वाटी पेटी पात्री च दाडिमी ॥ ५२ ॥ कुवलीत्यादिशब्दा वै विद्वद्भिः समुदाहृताः । इतरेतरयोगे च द्वन्द्वे तत्पुरुषे तथा ॥ ५३ ॥ लिङ्गं परपदस्यैव प्रायशः समुदाहृतम् । ;p{0373} प्राद्यपत्याद्यवादिभ्यः पर्यादिभ्यस्तथैव च ॥ ५४ ॥ निरादिभ्यश्च पूर्वेभ्यः पूर्वलिङ्गता । आपन्नप्राप्तपूर्वाश्चालमाद्यास्तथैव च ॥ ५५ ॥ अर्थान्तास्तद्धितार्थे च द्विगुः संख्यास्तदन्तकाः । सर्वादयस्तदन्ताश्च शब्दा मुख्यानुसारिणः ॥ ५६ ॥ ;p{0374} आदिङ्नाम्नां बहुव्रीहिरन्यलिङ्गः प्रकीर्तितः । गुणिद्रव्यक्रियाशब्दा विशेष्यस्यानुगामिनः ॥ ५७ ॥ कर्तृकर्मणि कृत्याश्च कृतः कर्तर्यनामनि । अर्णादिप्रत्ययान्ताश्च रक्ताद्यर्थे समागताः ॥ ५८ ॥ शब्दा नानार्थसम्पन्ना वाच्यलिङ्गा उदाहृताः । शब्दाः षट् संज्ञका युष्मदस्मदी च तिङव्ययम् । त्रिलिङ्गेषु समानास्ते विरोधे परमेव तत् ॥ ५९ ॥ ;p{0375} शिष्टानां चैव शब्दानां लिङ्गस्य च विनिर्णयः ॥ ६० ॥ शिष्टप्रयोगतो नूनं कर्तव्यः पण्डितैरिति । ;c{॥ इति लिङ्गादिनिर्णयवर्गः समाप्तः ॥} ;c{॥ तृतीयः काण्डः समाप्तः ॥}