;METADATA ;title{सिद्धशब्दार्णव} ;author{सहजकीर्ति} ;bookFullName{Siddhaśabdārṇava of Sahajakīrti} ;bookSeriesDetails{Building Centenary and Silver Jubilee Series: 54} ;editor{Murlidhar Gajanan Panse} ;editorQualifications{M. A., Ph. D., Reader in Indo-Aryan Linguistics, Deccan College Postgraduate and Research Institute, Poona} ;publisher{Dr. S. M. Katre for the Deccan College Postgraduate and Research Institute, Poona 6.} ;pressDetails{Shri D. V. Ambedkar at Aryabhushan Press, 915/1, Shviaji Nagar, Poona 4.} ;publicationYear{1965 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SSSK} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{none} ;version0.0.1{08 March 2020} ;version0.0.2{28 March 2020} ;version0.0.3{13 June 2020} ;version0.0.4{13 June 2020} ;version0.1.0{13 June 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;k{प्रथमः काण्डः} स्मृत्वा सर्वज्ञमात्मार्थी सिद्धशब्दार्णवो जिनात् । सलिङ्गनिर्णयं नामकोशं सिद्धं स्मृतिं नये ॥ १ ॥ अस्ति सप्तविधं नाम पुमान् स्त्री स्यान्नपुंसकम् । अक्लीबकोऽपुमानस्त्री त्रिलिङ्गं, त्रिविधं पुनः ॥ २ ॥ रूढयौगिकमिश्रस्त्वाद्यौगिकं त्रिविधं मतम् । क्रियागुणप्रभेदेन तथा सम्बन्धभेदतः ॥ ३ ॥ करोत्याद्या क्रिया नीलपीतादिश्च गुणस्तथा । स्वस्वामित्वादिकोऽनेकविधस्सम्बन्ध ईक्षितः ॥ ४ ॥ रूढादीनां त्रयाणां च लक्षणं शास्त्रतोऽन्यतः । ज्ञेयं तथा पूर्वशब्दं त्वन्ताथादी न गच्छतः ॥ ५ ॥ ;v{जैनाधिकारः} परमेष्ठी जगन्नाथो जिनः शम्भुर्जितस्मरः । अर्हन्पारगतः श्रीमान्भगवान्पुरुषोत्तमः ॥ ६ ॥ अष्टकर्मापहः स्वामी त्रिकालज्ञो जिनेश्वरः । तीर्थंकरस्तीर्थकरो वीतरागो निरञ्जनः ॥ ७ ॥ सर्वज्ञः केवली देवाधिदेवो बोधदायकः । आप्तः सार्वः सर्वदर्शी स्याद्वादी भयनाशकः ॥ ८ ॥ स्वयम्भूर्जितमोहोऽस्याग्रणीः शिष्यो गणाधिपः । गणी लब्धनिधिः शिष्टो विनयी श्रुतपारगः ॥ ९ ॥ तपस्वी गुणवांस्तस्य शिष्यः सामान्यतो मुनिः । अक्लीबो निर्ममो वाचंयमः साधुर्यतिर्यती ॥ १० ॥ मुमुक्षुः श्रमणो भिक्षुर्निर्ग्रन्थो निष्परिग्रहः । अनगार ऋषिर्मौनी दयाधीरस्तपोधनः ॥ ११ ॥ ;p{0002} तस्यायतौ स्थितिर्मोक्षः सर्वदुःखक्षयोऽभ्रमः । अपवर्गो महानन्दोऽपुनर्भवमहोदयौ ॥ १२ ॥ शीतीभावोऽन्तिकः श्रेयोऽमृतं कैवल्यमक्षरम् । निर्वाणमचलं निश्रेयसं निर्याणशाश्वते ॥ १३ ॥ नैश्चित्यं क्लीबकेऽमूनि ब्रह्माऽस्त्री शान्तिनिर्वृती । सिद्धिस्त्रीणि स्त्रियां प्रोक्तं शिवमत्र नपुंसके ॥ १४ ॥ अस्योपायो भवेद्योगो ज्ञानश्रद्धाचरित्रयुक् । अहिंसा सत्यमस्तेयं ब्रह्म निर्लोभता यमाः ॥ १५ ॥ पञ्चैते, तस्य तद्वाक्यमागमः समयः श्रुतम् । समाः सिद्धान्तराद्धान्तकृतान्ता आप्तवाक् स्त्रियाम् ॥ १६ ॥ तपः शौचं च संतोषः प्रणिधानं च दैवतम् । स्वाध्याय एत एव स्युर्नियमा योगसिद्धये ॥ १७ ॥ आसनं करणं चापि विषयेभ्यो निवर्तनम् । इन्द्रियाणां स योगाङ्गः प्रत्याहारो निगद्यते ॥ १८ ॥ प्राणायामः स नु श्वासोच्छ्वासोर्यन्निरोधनम् । प्राणयमोऽप्यथ ध्येये मनसः स्थिरता धृतिः ॥ १९ ॥ ;p{0003} एकाग्रचित्त[ता] ध्येये, ध्यानं ध्येयावलम्बनम् । ध्यानेनैव समाधिः स्याद्यमेन सहिता अमी ॥ २० ॥ नियमः करणं प्रत्याहारः प्राणयमो धृतिः । ध्यानं समाधिरित्यष्टावेभिर्योगो विमुक्तये ॥ २१ ॥ तदुक्तोऽयमथो मौनमस्त्री पुनरभाषणम् । क्लीबे, धर्मोपदेष्टा स्याद्गुरुर्व्याख्याविधायकः ॥ २२ ॥ आचार्यः पाठको भूय उपाध्यायो गणिः, श्रुते । साङ्गेऽधीती त्वनूचानो, विवेकः स्याद्विवेचनम् ॥ २३ ॥ गुरुशिष्यप्रशिष्यादि कुलमाम्नाय आदृतः । गुरुक्रमः सम्प्रदायः पारम्पर्यं नपुंसके ॥ २४ ॥ तुल्यागमव्रताचारा मिथः सब्रह्मचारिणः । सतीर्थ्या एकगुरवो भूयोऽथ नियमस्थितिः ॥ २५ ॥ परिव्रज्या त[प]स्या स्युः स्त्रियां भूयो व्रतग्रहः । छात्रः शिष्यो विनेयोऽन्तेवासी प्राथमकल्पिकः ॥ २६ ॥ शैक्षस्तस्माद्भद्रमद्रे शिवं मङ्गलमस्त्रियाम् । शुभं श्वःश्रेयसं क्षेममस्त्री भविकभावुके ॥ २७ ॥ ;p{0004} सु(?)कृतं सूकृतं श्वोवसीयसं कुशलं तथा । भव्यं काम्यं च कल्याणं शस्तं श्रेयो नपुंसके ॥ २८ ॥ ;c{इति जैनाधिकारः ।} ;v{जैनेतराधिकारः} धर्मधातुर्जिनो बोधिसत्त्वः शास्ता त्रिकालवित् । आर्यस्तथागतो बुद्धः सुगतो दशभूमिगः ॥ २९ ॥ मुनीन्द्रः श्रीघनो द्वादशाक्षो दशबलो मुनिः । महामैत्रो दशार्हस्त्रिकायो विज्ञानमातृकः ॥ ३० ॥ दयाकूर्चश्चतुस्त्रिंशज्जातकज्ञो विनायकः । संगुप्तश्चाद्वयो धर्मराजो मार-ख-लोकजित् ॥ ३१ ॥ षडभिज्ञो महासत्त्वः पञ्चज्ञानः सुनिश्चितः । गुणाब्धिर्भगवानर्हन् बोधिर्विज्ञानदेशनः ॥ ३२ ॥ समन्तभद्रः स्याल्लोकनाथो योगी समे च ते । सप्तबुद्धा विपश्याद्याः शाक्यसिंहोऽस्ति तेषु यः ॥ ३३ ॥ शौद्धोदनिर्गौतमः स मायादेवीसुतोऽपि च । देवदत्ताप्रजो राहुलसूः स्यादर्कबान्धवः ॥ ३४ ॥ सर्वार्थसिद्धोऽथ विधिर्विरिञ्चि- र्धाता स्वयम्भूः स्थविरो विरञ्चः । स्रष्टा विधाता कविवेदगर्भौ ब्रह्माऽऽत्मभूर्नाभिभुवो ध्रुवोऽजः ॥ ३५ ॥ वेधाः प्रजापतिचतुर्मुखहंसगाः को लोकेशसात्त्विकभवान्तकृतोऽब्जयोनिः । पद्मासनः शतधृतिः कमनो हिरण्य- गर्भः पुराणगपितामहसम्भवाश्च ॥ ३६ ॥ ;p{0005} विश्वरेता जगत्कर्ता शतानन्दो विरञ्चनः । परमेष्ठी सुरज्येष्ठः क्षेत्रज्ञो द्रुघणः पुनः ॥ ३७ ॥ स्यादष्टश्रवणो भूयो द्रुहिणो,ऽथ जनार्दनः । विष्णुर्जिष्णुर्हृषीकेशो हरिनारायणाच्युताः ॥ ३८ ॥ नरायणो जगन्नाथो दाशार्हः पुरुषोत्तमः । श्रीपतिः श्रीधरो विश्वरूपो दामोदरो जिनः ॥ ३९ ॥ विधुः पीताम्बरो मार्जः शौरिस्तार्क्ष्यध्वजः स्वभूः । सनातनः पद्मनाभो वासुदेवो वृषाकपिः ॥ ४० ॥ केशवोऽधोक्षजो विष्वक्सेनोऽब्धिशयनः पुनः । पुनर्वसुरजः कृष्णः पद्मेशयकुमोदकौ ॥ ४१ ॥ वनमाली मुञ्जकेशी शतावर्त्तो गदाग्रजः । इन्द्रानुज उपेन्द्रश्च सोमसिन्धुश्चतुर्भुजः ॥ ४२ ॥ गोपेन्द्रो देवकीसूनुर्मुकुन्दो धरणीधरः । षड्बिन्दुः पुण्डरीकाक्षः शार्ङ्गी विश्वम्भरः पुनः ॥ ४३ ॥ पृश्निशृङ्गो यदुनाथ आत्मभूः पाण्डवायनः । गोविन्दः शशिबिन्दुश्च वैकुण्ठो बभ्रुवेधसौ ॥ ४४ ॥ सुवर्णबिन्दुर्दैत्यारिः पुराणपुरुषोऽपि च । जह्नुस्त्रिविक्रमो यज्ञपुरुषो माधवः पुनः ॥ ४५ ॥ श्रीवत्सभृच्च श्रीवत्सश्चक्रभृत् शङ्खभृत्तथा । गोवर्धनधरश्चापि गदाभृद्विष्टरश्रवाः ॥ ४६ ॥ हिरण्यकेशः श्रवणस्तमघ्नो वायुवाहनः । चतुर्व्यूह ऊर्ध्वकर्मा पराविद्धोऽपराजितः ॥ ४७ ॥ पुण्यश्लोक उरुगात्रस्तीर्थपाद उरुक्रमः । दशावतारः श्रीगर्भो लतापर्णः सहस्रजित् ॥ ४८ ॥ वृषोत्साहो वर्धमानः सुषेणश्च षडङ्गजित् । क्रतुधामा बहुरूपो विधाता समितिंजयः ॥ ४९ ॥ ;p{0006} हिरण्यनाभः कपिलो वासुभद्रो महातपाः । श्रीकरो भद्रकपिलः कालकुण्ठः सरीसृपः ॥ ५० ॥ एकदृक् धर्मनाभोऽपि सूक्ष्मनाभः सुरोत्तमः । लोकनाभः पद्महासो महाहंस उदारधीः ॥ ५१ ॥ वृन्दारकः स्थिरः सोमैकपाद्द्विपदस्त्रिपात् । त्रिधामा त्रिककुल्लोहिताक्षो धन्वा च विश्वभुक् ॥ ५२ ॥ वृक्षनेमिर्यवनारिः सुधन्वाऽधोमुखः कपिः । शतवीरो ब्रह्मनाभः पद्मगर्भो वृषोदरः ॥ ५३ ॥ एकशृङ्गो बहुशृङ्गः पुष्पहासो बलिंदमः । नवशक्तिरहिः पांशुजालिकः स्यान्महाक्रमः ॥ ५४ ॥ रत्नबाहुर्महामाय एकाङ्गश्च प्रमर्दनः । यमकालः शतानन्दः सुवृषः शरुरित्यपि ॥ ५५ ॥ सुयामुनः श्रीवराहः सदायोगी सुभद्रकः । नृसिंहवपुरासन्दोऽव्ययः स्याच्छिवकीर्तनः ॥ ५६ ॥ कंसप्रभृतयो दैत्या वध्या, अस्य तथा पिता । आनकदुन्दुभिर्भूकश्यपो दिन्दुस्तथा पुनः ॥ ५७ ॥ वसुदेवो भुजमध्ये कौस्तुभो,ऽस्य स्यमन्तकः । मणिः, करे गदा कौमोदकी, शार्ङ्गं धनुस्तथा ॥ ५८ ॥ चक्रं सुदर्शनो [नाम], नन्दकोऽसिश्च, वाहनम् । गरुडः,श्चिह्नं श्रीवत्सः, पाञ्चजन्याभिधो महान् ॥ ५९ ॥ ;p{0007} शङ्खोऽथ मुशली रामो हली कृष्णाग्रजो बलः । संकर्षणो रौहिणेयः कामपालः सितासितः ॥ ६० ॥ ताललक्ष्मा बलभद्रो बलदेवः प्रलम्बभित् । यमुनारुक्मिभिद् रेवतीशोऽनन्तो मधुप्रियः ॥ ६१ ॥ नीलवस्त्रो बली फालः एककुण्डलसात्त्वतौ । शेषाहिनामभृद् गुप्तवरो भद्राङ्ग इत्यपि ॥ ६२ ॥ प्रलापी पौरः स्याद्भद्राचलनो,ऽस्य नपुंसके । हलं संवर्त्तकं सौनन्दं क्लीबे मुशलं त्वथो ॥ ६३ ॥ क्षीरोदतनया ता सा मा श्रीः पद्मा हरिप्रिया । रमा लक्ष्मीः पद्मवासा या विष्णुशक्तिर्भर्भरी ॥ ६४ ॥ इन्दिरा कमला लोकमाता क्षीराब्धिमानुषी । अथ कामः कलाकेलिः कन्दर्पः कमनः स्मरः ॥ ६५ ॥ मदनो दर्पकोऽनङ्गोऽनन्यजो मन्मथोऽङ्गजः । जराभीरुर्मधुदीपो हृच्छयो मधुसारथिः ॥ ६६ ॥ श्रीनन्दनो मनोयोनिः प्रमत्तः पुष्पकेतनः । आत्मभूर्यौवनोद्भेदः सर्वधन्वी प्रकर्षकः ॥ ६७ ॥ रागरज्जुः शिखिमृत्युर्मनोदाही महोत्सवः । संकल्पयोनिर्विषमायुधो,ऽस्य रमणी रतिः ॥ ६८ ॥ बाणाः पञ्च, ध्वजौ मीनकरौ, कुसुमानि च । बाणधनुरायुधानि, शत्रू शम्बरशूर्पकौ ॥ ६९ ॥ ;p{0008} मधुमित्रं, तथा पुत्रः उषेशो ब्रह्मसूः पुनः । अनिरुद्धः स्यादृष्याङ्कः, सौपर्णेयो विषापहः ॥ ७० ॥ सर्पारातिर्वैनतेयस्तार्क्ष्यो विष्णुरथोऽपि च । पक्षिस्वामी वज्रतुण्डः सुधाहृद्वज्रजित्तथा ॥ ७१ ॥ महावेगः स्वर्णकायः पक्षिसिंहो विशालकः । गरुत्मान् गरुडः शाल्मली कामायुस्तु काश्यपिः ॥ ७२ ॥ नागान्तकः सुपर्णो,ऽथ नीलकण्ठो महाव्रती । ईशान ईश उड्डीशो भीमो धूर्जटिशंकरौ ॥ ७३ ॥ गिरीशो गिरिशः षण्ढः ऊर्ध्वलिङ्गो महेश्वरः । अस्थिधन्वा महादेवो महानटो विषान्तकः ॥ ७४ ॥ श्मशानवेश्मा पुरुषो अस्थिमाली घनवाहनः । अट्टहासी मृडो भर्गः एकपादैकदृक् त्रिदृक् ॥ ७५ ॥ वृषाङ्को भालदृक् वामदेवो मृत्युंजयः शिवः । अहिर्बुध्न्यो विरूपा[क्षो] वह्निरेता उमापतिः ॥ ७६ ॥ हिरण्यरेताः श्रीकण्ठः कण्ठेकालः कपालभृत् । व्योमकेशः पशुपतिर्भैरवश्च पिनाकभृत् ॥ ७७ ॥ पिङ्गेक्षणः पिङ्गजटो गङ्गाखट्वाङ्गभृत् हरः । शिपिविष्टः शम्भुशर्वौ दिग्वासा अहिशूलभृत् ॥ ७८ ॥ प्रमथपतिः सर्वज्ञः खण्डपर्शुरपीश्वरः । अष्टमूर्तिः सुप्रसादः कपर्दी नन्दिवर्धनः ॥ ७९ ॥ स्थाणुः पञ्चमुखो रुद्रो नीललोहित इत्यपि । कृत्तिवासा भवो नाट्यप्रिय उग्रोऽपराजितः ॥ ८० ॥ इन्दुभृच्छङ्कुगोपालौ शैलधन्वाऽक्षतस्वनः । उन्मत्तवेषः शबरः सिताङ्गः कपिलाञ्जनः ॥ ८१ ॥ ;p{0009} कोणवादी विशालाक्षः सुभगो धर्मवाहनः । नवशक्तिर्महानादो दशबाहुर्जटाधरः ॥ ८२ ॥ कटंकटो जटाजूटाङ्गः कालश्च महाम्बुकः । जगत्स्रष्टा भूतपतिर्दिशां प्रियतमः खरुः ॥ ८३ ॥ वह्निनेत्रो महाकान्तो नराधारो नृवेष्टनः । अतलो धूम्रयोगी च स्त्रीदेहार्द्धो,ऽस्य शत्रवः ॥ ८४ ॥ अनङ्गाद्याः, जटाजूटः कपर्दो,ऽथ सुखंगुणः । खट्वाङ्गोऽस्त्री, तथा चापमजगावं पिनाकिनः ॥ ८५ ॥ अजगवं पिनाकोऽस्त्री, ब्राह्मी प्रभृतयः पुनः । मातरः सप्त, प्रमथाः पार्षदाश्च गणास्तथा ॥ ८६ ॥ ऐश्वर्यं वशिता प्रप्तिः प्राकाम्यमणिमेशिता । यत्र कामावसायित्वं लघिमा महिमाऽष्टधा ॥ ८७ ॥ भवानी त्र्यम्बका दुर्गा रुद्राणी पार्वतीश्वरा । दक्षजाऽऽर्या सिंहयाना चण्डी कात्यायनी शिवा ॥ ८८ ॥ शर्वाणी स्यान्महादेवी कुमारी सर्वमङ्गला । मृडानी मातृमाताऽम्बिकाऽपर्णोमाऽद्रिजा सती ॥ ८९ ॥ मेनाजा कृष्णमैनाकस्वसा गौरी महाजया । निशुम्भमथनी शुम्भमथनी गणनायिका ॥ ९० ॥ ;p{0010} कान्तारवासिनी भूतनायिका ब्रह्मचारिणी । काली बर्हिध्वजाऽमोघा गौतमी तामसी जया ॥ ९१ ॥ नन्दपुत्री महाकाली भद्रकाली च योगिनी । एकपर्णी बहुभुजा महामाया च बाभ्रवी ॥ ९२ ॥ दृषदन्ती कालरात्रिः कृष्णा स्यात्कृष्णपिङ्गला । भ्रामरी जाङ्गुली षष्ठी प्रगल्भा यादवी वरा ॥ ९३ ॥ मघेन्द्रभगिनी हासा कौशिकी रेवती हिमा । स्कन्दमाता प्रकूष्माण्डी गण्डिनी चोग्रचारिणी ॥ ९४ ॥ महारौद्री मलयिनी विजया कुलदेवता । कालञ्जरी कालङ्गमा नन्दयन्ती निरञ्जना ॥ ९५ ॥ कोटिश्रीर्मन्दरावासा दर्दुरी च महानिशा । किराती कालदमनी शिवदूती करालिका ॥ ९६ ॥ नीलवस्त्रा विकराला विरजा शृङ्गवासिनी । कुलेश्वरी हैमवती विलङ्का नन्दिनीत्यपि ॥ ९७ ॥ प्रकीर्णकेशी स्यात्क्षेमंकरी नरायणी तथा । शैला शाकम्भरी क्षण्डा(?) क्षेमा शतमुखी प्रभा ॥ ९८ ॥ विशालाक्षी बहुपुत्रा सावित्री गोकुलोद्भवा । अष्टादशभुजा कुन्द्रा रौद्रा स्यान्नकुला कुला ॥ ९९ ॥ अनन्ता, तस्या विजया जया सख्यौ, [तु] केसरी । मनस्तालो,ऽथ चामुण्डा महागन्धा कपालिनी ॥ १०० ॥ चर्ममुण्डा मार्जारकर्णिका भैरवीऽत्यपि चर्चिका । कर्णमोटी, स्याद्गणेश आखुगः [तनयः] पुनः ॥ १०१ ॥ ;p{0011} विघ्नेशः पर्शुपाणिश्च द्वैमातुरो विनायकः । लम्बोदर एकदन्तो हेरम्बश्च गजाननः ॥ १०२ ॥ हस्तिमल्लः पृश्निशृङ्गः पृश्निगर्भस्त्रिधातुकः । विषाणान्तो द्विशरीरो,ऽथ सेनानीर्दिगम्बरः ॥ १०३ ॥ विशाखः सिद्धसेनोऽपि कुमारः षण्मुखो गुहः । ब्रह्मचारी महासेनः कार्तिकेयोऽग्निभूरपि ॥ १०४ ॥ जाह्नवीनन्दनो द्वादशाक्षः स्कन्द उमासुतः । वैजयन्तस्तारकारिः शरभूः शक्तिभृत्तथा ॥ १०५ ॥ बालाचार्यो महातेजाः स्वामी च शिखिवाहनः । करवारकक्रौञ्चारी, आश्रमोऽस्त्री चतुर्विधः ॥ १०६ ॥ ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् । वर्णी, तस्मिन्नथ ज्येष्ठाश्रमी स्यात्स्नातको गृही ॥ १०७ ॥ गृहमेधी गृहस्थो,ऽथ वैखानसस्तृतीयके । भिक्षौ सांन्यासिकः पाराशरी च यतितापसौ ॥ १०८ ॥ मस्करी रक्तवसनः कर्मन्दी पारिरक्षकः । पारिकाङ्क्षी परिव्राजकस्तपस्वी मुनिस्तथा ॥ १०९ ॥ स स्थाण्डिलो व्रतवशात् शेते यः स्थण्डिले पुनः । स्थण्डिलशाय्य,ऽथो दान्तस्तपःक्लेशसहोऽदरः ॥ ११० ॥ ;p{0012} अथ बटूकरणोपनायोपनया आनयः पुनः । आग्नीध्राग्नीन्धने चाग्निकार्यं स्यादग्निकारिका ॥ १११ ॥ स्यादाषाढो व्रते दण्डः पालाशो, राम्भवैणवौ । सारस्वतो बैल्वरौच्या वौपरोधिकपैलवौ ॥ ११२ ॥ आश्वत्थो जितनेमिश्श्चोदुम्बरोलूखलौ समौ । अस्त्री कमण्डलुः कण्डिका, भूयः आसनं वृषी ॥ ११३ ॥ स्त्रियां जटा सटा, कल्पो विधिः क्रमः, पुनर्जपः । स्वाध्यायः, औपवस्त्रं चोपवासोऽस्त्री तथा पुनः ॥ ११४ ॥ श्रान्तो जितेन्द्रियः शान्तो,ऽवदानं कर्मनिर्मलम् । षट्कर्मा ब्राह्मणो विप्रो द्विजातिर्द्विज इत्यपि ॥ ११५ ॥ द्विजन्मा सूत्रकण्ठोऽग्रजन्मा च मुखसंभवः । अग्निजातिः शमीगर्भः सावित्रो वाडवोऽग्रजः ॥ ११६ ॥ ;p{0013} एतसो वेदगर्भोऽपि वर्णज्येष्ठस्त्रयीमुखः । समानौ मैत्रभूदेवौ, बटुमाणवकौ तथा ॥ ११७ ॥ अध्वरः संस्तरः सप्ततन्तुः स्तोमः क्रतुर्मखः । सत्रं यागः सवो यज्ञोऽस्त्रियौ वितानबर्हिषौ ॥ ११८ ॥ मन्युश्चाथो ब्रह्मयज्ञोऽध्ययनं, होम आहुतिः । देवयज्ञो वषट्करो होत्रं चाप्य,थ तर्पणम् ॥ ११९ ॥ पितृयज्ञः पिण्डदानं श्राद्धमस्त्री, बलिः पुनः । भूतयज्ञो, नृयज्ञश्चातिथिपूजनमप्यथ ॥ १२० ॥ महायज्ञा अमी पञ्च, यज्ञौ पक्षान्तयोर्भवौ । पौर्णमासस्तथा दर्शो, दीक्षार्हस्येष्टिः सौमिकी ॥ १२१ ॥ व्रतसंग्रहस्तु दीक्षा, भिक्षा कवलमात्रकम् । आदेष्टा याजको यष्टा यजमानो मखे व्रती ॥ १२२ ॥ दीक्षितः स्यात्सोमयाजी, यायजूकः पुनर्भवेत् । इज्याशीलो,ऽथ यज्वा स्यादासुतीवल इत्यपि ॥ १२३ ॥ ;p{0014} सोमपीथी सोमपो,ऽथ गुरोरिष्टिविधायकः । स्थपतिः, सर्ववेदा यो यज्ञं सर्वस्वदक्षिणम् ॥ १२४ ॥ इयाजा,ध्वर्युर्यजुर्वि,द्धोता ऋग्विच्च, सामवित् । उद्गाता, छान्दसः श्रोत्रियश्च स्याद्वेदपाठकः ॥ १२५ ॥ यज्ञार्थं संस्कृता भूमिर्वेदी, स्थण्डिलचत्वरे । अपरा, यूपोऽस्त्री, यज्ञकीलको यूपमस्तके ॥ १२६ ॥ कटके चषालोऽस्त्री स्यात्, यूपकर्णो घृतक्षितौ । तर्म्मा यूपाग्रभागेऽस्त्री, कुम्बा यज्ञे वृतिर्घना ॥ १२७ ॥ अक्लीबोऽरणिर्निर्मन्थकाष्ठेग्नेर्वह्नयस्त्रयः । दक्षिणाहवनीयाग्नी गार्हपत्याग्निरित्यपि ॥ १२८ ॥ ;p{0015} एते त्रेता त्रयोप्यत्र, वह्निर्मन्त्रादिना तु यः । संस्कृतः स प्रणीतः स्यादिन्धनं क्षिप्यतेऽनले ॥ १२९ ॥ यया सा ऋक् सामिधेनी धाय्या, भूयोऽथ तर्पणम् । एध्ममस्त्री समिदेधः पुंस्येधः स्यान्नपुंसके ॥ १३० ॥ इन्धनं च, क्षारो रक्षा भस्मभसितभूतयः । यज्ञे स्रुवादिकं पात्रं स्रुक् स्रुवस्तु कनीयसी ॥ १३१ ॥ उपभृत् सा जुहूर्वृद्धा स्त्रियां, यत्र निधीयते । घृतं च सर्वयज्ञार्थं सा ध्रुवा तैर्निगद्यते ॥ १३२ ॥ यागेऽभिमन्त्र्य यं हिंस्यात्स पशुः स्यादुपाकृतः । परम्पराकं यागे स्यात्प्रोक्षणं शसनं वधः ॥ १३३ ॥ अभिचारः स विज्ञेयो हिंसार्थं कर्म यद्भुवि । यज्ञियं यज्ञयोग्यं च, सान्नाय्यं हविरित्यपि ॥ १३४ ॥ ;p{0016} तप्तक्वपयोगं स्याद्दधि क्षीरशरः पुनः । पयस्यामिक्षे, तन्मस्तुनि वाजिनं हव्यमुच्यते ॥ १३५ ॥ तद्यत्सुरेभ्यो दातव्यं, कव्यं पितृजनोचितम् । ओदनं दधिसंपृक्ते हविषि स्यात्पृषातकम् ॥ १३६ ॥ पृषदाज्यं दधिषाज्यं, दधिसम्पृक्तं च यन्मधु । महोदयो मधुपर्कं, हव्यपाके पुमांश्चरुः ॥ १३७ ॥ होमकुण्डं हवित्री स्यात्, यज्ञशेषेऽमृतं तथा । भुक्तशेषे च विघसो यज्ञान्तावभृथौ समौ ॥ १३८ ॥ खातादिकर्म तत्पूर्त्तमस्त्री, [इ]ष्टं यज्ञजा क्रिया । तत् द्वयमिष्टापूर्त्तं च, विष्टरोऽस्त्री च बर्हिषाम् ॥ १३९ ॥ विमुष्टि रथाऽहिताग्निः स्यादग्निहोत्र्यग्निचित् पुनः । अग्निहोत्रमग्न्याधानमग्निरक्षणमप्यथ ॥ १४० ॥ ;p{0017} होमे धूमस्तथा भस्म निगणो, वैष्टुतं क्रमात् । आचमनमुपस्पर्शः सेको घारश्च सेचनम् ॥ १४१ ॥ प्रवर्ग्यः स्यान्महाज्वालमहावीरावुभौ समौ । होमाग्निर,थ दर्वी तु कथिता घृतलेखिनी ॥ १४२ ॥ ब्रह्मासनं भवेत्तत्तु ध्यानयोगासनं हि यत् । वृत्ताध्ययनर्द्धिः पुनः कथ्यते ब्रह्मवर्चसम् ॥ १४३ ॥ वेदपाठेऽञ्जलिर्ब्रह्माञ्जलि,स्ते ब्रह्मबिन्दवः । विप्रुषो ये मुखात्पाठे निष्क्रान्ताऽथ कार्त्स्न्यतः ॥ १४४ ॥ वचनं पारायणं च, तीर्थं स्यादङ्गुलीमुखे । दैवतं, ब्राह्मं मूले स्यादङ्गुष्ठस्य, कनिष्ठयोः ॥ १४५ ॥ कायं, पित्र्यं तर्जन्यङ्गुष्ठान्तः, सौम्यं करे पुनः । ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं तथैव च ॥ १४६ ॥ ;p{0018} देवत्वादिकमप्येवं, ग्रहः संस्कारपूर्वकः । वेदस्योपाकरणं स्यात्, कृच्छ्रं सांतपनादिकम् ॥ १४७ ॥ अस्त्री प्रायः पुमान् संन्यास्यनशने समादृतः । व्रतमस्त्री नियमोऽपि तपः पुण्यकमित्यपि ॥ १४८ ॥ शीलमस्त्री चरित्रं च आचारश्चारित्रमेव च । वृत्तं चरितं चरणं, सर्वपापप्रणाशिनि ॥ १४९ ॥ जप्येऽघमर्षणं, वाच्यावभिवादनोपसंग्रहौ । पादग्रहणं भूयो,ऽथोपवीतमस्त्रियां तथा ॥ १५० ॥ यज्ञसूत्रं प्रोद्धृते दक्षिणे हस्ते, तथाऽपरे । प्राचीनावीतं, निवीतं कण्ठलम्बितमस्ति यत् ॥ १५१ ॥ मैत्रावरुणवल्मीकौ कविप्राचेतसावपि । तथैव कुसिवाल्मीकौ वाल्मीकिरथ माठरः ॥ १५२ ॥ व्यासो द्वैपायनः पाराशर्यः स्याद्बादरायणः । वेदव्यासश्च कानीनोऽस्य प्रसूर्गन्धकालिका ॥ १५३ ॥ वासवी योजनगन्धा दाशेयी सत्यवत्यपि । मत्स्योदरी सालङ्कायनजा गन्धवती पुनः ॥ १५४ ॥ ;p{0019} रेणुकेयो जामदग्न्यः समानौ रामभार्गवौ । नारदः पिशुनो देवब्रह्मा च कलिकारकः ॥ १५५ ॥ योगेशो याज्ञवल्क्यः स्याद्योगीशो ब्रह्मरात्रिकः । अरुन्धतीजानिर्भूयो वसिष्ठोऽरुन्धती पुनः ॥ १५६ ॥ अक्षमाला, विश्वामित्रो गाधेयः कौशिकोऽपि च । त्रिशङ्कुयाजी, दुर्वासाः कुशारणिश्च, गौतमः ॥ १५७ ॥ शतानन्दो,ऽथ स्यात्सालातुरीयः पाणिनिः पुनः । दाक्षीयो,ऽथ गोनर्दीयः पतञ्जलिः, पुनर्वसुः ॥ १५८ ॥ मेधाजित् स्याद्वररुचिस्तथा कात्यायनोप्यथ । नन्दिनीतनयो व्याडिर्विन्ध्यावासी, करेणुभूः ॥ १५९ ॥ पालकाप्योऽथ, कक्षीवान् स्फोटायनोऽ,थ द्रामिलः । विष्णुगुप्तो मल्लनागोऽङ्गुलश्चणकात्मजः ॥ १६० ॥ कौटिल्यः पक्षिलस्वामी वात्स्यायनोऽमी तापसाः । ज्ञानध्यानधनाः सर्वे विश्रुताः सकलावनौ ॥ १६१ ॥ ;p{0020} संस्काररहितो व्रात्य, अवकीर्णी खण्डितव्रतः । कृष्णकर्मा शिश्विदानो, ब्राह्मणो योऽधमः पुनः ॥ १६२ ॥ ब्रह्मबन्धु,र्जातिमात्रजीवी विप्रो द्विजब्रुवः । वीरहा योऽत्र नष्टाग्निः, भोजनार्थं प्रजल्पति ॥ १६३ ॥ स्वकं गोत्रादि वार्त्ताशी, वेदहीनो निराकृतिः । धर्मध्वजो लिङ्गजीवी, मत उच्छिष्टभोजनः ॥ १६४ ॥ सदैव नैवेद्यबलिभोजनो यो भवेद्द्विजः । नाधीते योऽसध्येता सोऽजपोऽप्य,न्यशाखकः ॥ १६५ ॥ शाखारण्डः, काण्डस्पृष्टः शस्त्राजीवो, मलः पुनः । अश्राद्धो देवाद्यर्च्चायां, गुरुहा नरकीलकः ॥ १६६ ॥ मलिम्लुचः पञ्चयज्ञपरिक्षीणः, खरुः पुनः । निरस्तैकरुचि,र्वीरोज्झो योऽत्र न जुहोति सः ॥ १६७ ॥ ;p{0021} उदेति तपनो यस्मिन् शयितेऽस्तं प्रयाति वा । क्रमेण तावभ्युदिता,भिनिम्रुक्तौ स्मृतावुभौ ॥ १६८ ॥ शूद्रानीतैर्धनैर्जुह्वत् वीरविप्लावको मतः । वीरोपजीव्यग्निहोत्रमिषाद् याच्ञापरोऽत्र यः ॥ १६९ ॥ आर्हतः स्याद्वादवादी, बौद्धः स्याच्छून्यवादकः । योगस्त्वाक्षपादो नैय्यायिकः, सांख्यश्च कापिलः ॥ १७० ॥ औलूक्यो वैशेषिको,ऽथ चार्वाको नास्तिकः पुनः । बार्हस्पत्यो लोकायतिकः एते तार्किकाश्च षट् ॥ १७१ ॥ वेदः स्वाध्यायः आम्नायः छन्दः श्रुतिरथ त्रयी । स्युरृग्वेदयजुर्वेदसामवेदा,स्तदुद्धतिः ॥ १७२ ॥ अथर्वा पुंसि, प्रणवः ओंकारो,ऽथ निरुक्तयः । व्याकरणं छन्दः शिक्षा कल्पो ज्योतिरमूनि षट् ॥ १७३ ॥ ;p{0022} उच्यन्तेऽङ्गान्यथो, धर्मशास्रं स्याद्धर्मसंहिता । स्मृति,श्चान्वीक्षिकी तर्कविद्या चा,थ विचारणा ॥ १७४ ॥ मीमांसो,पनिषद्वेदान्ता, अथो पञ्चलक्षणम् । पुराण,ममी पञ्चसर्गो मन्वन्तराणि च ॥ १७५ ॥ वंशानुवंशचरितं प्रतिसर्गश्च वंशकः । चतस्रः श्रुतयो धर्मशास्त्रमङ्गानि षट् पुनः ॥ १७६ ॥ पुराणं मीमांसा तर्कविद्या विद्याश्चतुर्दश । सूचनकृत्सूत्रमस्त्री, भाष्यं विस्तारकं मतम् ॥ १७७ ॥ सूत्रार्थानां, प्रकरणं प्रस्तावः, पदभञ्जनम् । निरुक्त,मथ शास्त्राणां विश्राम आह्निकं मतम् ॥ १७८ ॥ एकाधिकारकथितोऽधिकरणं प्रशस्यते । उदितोऽयमनुक्तोऽयं दुरुक्तो योऽर्थसंचयः ॥ १७९ ॥ तस्य ज्ञानं करोत्येतद्वार्त्तिकं विविदुर्बुधाः । अन्तराभावतो व्याख्याऽर्थानां टीका,[ऽथ पञ्जिका] ॥ १८० ॥ ;p{००२३} विषमार्थभञ्जिका स्या,द्ग्रन्थभेदाविमौ पृथक् । वृत्तिनिबन्धावन्वर्थौ, तथान्वर्थपथाः समाः ॥ १८१ ॥ अनेन सर्गपद्धतिपरिशिष्टमुखा अपि । ग्रन्थावयवविशेषा ज्ञातव्या बुद्धिवैभवात् ॥ १८२ ॥ लघुवृत्तौ कारिका सा प्रभूतार्थप्रकाशिनी । समाहृतिः संग्रहश्च, सर्वविद्या कलन्दिका ॥ १८३ ॥ निघण्टुः स्यात्पुमानस्त्री कैश्चित्तु नामसङ्ग्रहः । इतिहासः प्राक्चरितं, वार्त्ता प्रवृत्तिरित्यपि ॥ १८४ ॥ तुल्यावुदन्तवृत्तान्ता,वैतिह्यं सा पुरातनी । जनश्रुतिः किंवदन्ती, प्रहेलिका [स्यात्] प्रवह्लिका ॥ १८५ ॥ संज्ञाऽभिख्याऽभिधा आख्या आह्वा नामास्त्री गोत्रमाह्वयः । नामधेय,मथो संबोधनमामन्त्रणं तथा ॥ १८६ ॥ अथ आकारणमाह्वानं स्यादभिमन्त्रणं हवः । हूतिर्हक्कारकाऽऽकारौ, संहूतिर्बहुभिः कृताः ॥ १८७ ॥ ;p{0024} उपोद्घात उपन्यासोदाहारौ वाङ्मुखं तथा । विवादो व्यवहारो,ऽथ शपनं शपथः पुमान् ॥ १८८ ॥ शपो,ऽथ प्रतिवचः स्यादुत्तरं चानुयोजनम् । कथंकथिकता प्रश्नः पृच्छा, पुनरुपश्रुतिः ॥ १८९ ॥ देवप्रश्नः, प्रियप्रायं चटुचाटू कलाऽस्त्रियौ । सूनृतं वचनं तद्धि यत्प्रियं सत्यमप्यथ ॥ १९० ॥ सत्यं तथ्यमृतं सम्यक् समीचीनं यथायथम् । यथास्थितं स्यात्सद्भूतमेतानि स्युर्नपुंसके ॥ १९१ ॥ अनृतेऽलीकं वितथं, यद्विरुद्धं परस्परम् । तत्क्लिष्टं संकुलं, सान्त्वमत्यर्थमधुरं वचः ॥ १९२ ॥ अश्लीलं ग्राम्यं, म्लिष्टं यदप्रकटमनक्षरम् । अवाच्यं, ग्रस्तं संपूर्णोच्चारितं यद्वचो न तु ॥ १९३ ॥ निरस्तं शीघ्रता उक्तं, थूत्कारसहितं पुनः । अम्बूकृत,मसंबद्धवचनं स्यान्निरर्थकम् ॥ १९४ ॥ ;p{0025} द्विस्त्रिरुक्तं भवेदाम्रेडितं, यद्दोषभाषणम् । परोक्षे परकीयं तत्पृष्ठमांसादनं भवेत् ॥ १९५ ॥ अभ्याख्यानमसद्दोषारोपणं, हृदयंगमम् । संगतं, निष्ठुरं रूक्षं विक्रुष्टं परुषं पुनः ॥ १९६ ॥ उच्चैर्घुष्टं घोषणा च, प्रशंसा वर्णना स्तवः । ईडा स्तोत्रमर्थवादः स्तुतिः श्लाघा पुनर्नुतिः ॥ १९७ ॥ विकत्थनमसत्या सा, विगानं वचनीयता । कौलीनं जनप्रवादो, निन्दा कुत्सा जुगुप्सनम् ॥ १९८ ॥ अपवाद उपक्रोशः परिवादश्च गर्हणा । अवर्णो धिक्क्रिया क्षेपो निर्वादो, गालि[श्च] सोदिता ॥ १९९ ॥ विरुद्धभाषणं यत्स्या,च्छापाक्षेपौ समौ पुनः । आक्रोशः स्यादभीषङ्ग, आशीर्मङ्गलभाषणम् ॥ २०० ॥ श्लोकः समाज्ञाऽभिख्या च यशः कीर्तिः, शुभा च वाक् । कल्या,ऽशुभा रुशती च, चर्चटी चर्चरी उभे ॥ २०१ ॥ ;p{0026} हर्षक्रीडावाचके स्तः, परिभाषणमुच्यते । य उपालम्भो निन्दायुक्, संभाषः स्यात्सकृद्वचः ॥ २०२ ॥ आपृच्छाऽऽलापाव,सकृदनुलापः प्रकीर्तितः । विलापः शोकवचनं, प्रलापोऽनर्थकं मतम् ॥ २०३ ॥ परस्परोक्तिः संलापः संकथा, या च काकुवाक् । उल्लापो, विप्रलापस्तु विरुद्धवचनं हि यत् ॥ २०४ ॥ सुवचनं सुप्रलापो,ऽपलापो निह्नवः पुनः । वाचिकं सन्देशवचः, स्यादाज्ञाशिष्टे [च] शासने ॥ २०५ ॥ अववादश्च निर्देशो नियोगो देश आनितः । प्रतिशासनमाहूय प्रेषणं, चाथ संगरः ॥ २०६ ॥ आगूः स्त्रियां प्रतिज्ञाऽभ्युपगमः संवित् संश्रवः । अभ्युपायश्च सन्धाऽस्थे अङ्गीकार अतिश्रवः ॥ २०७ ॥ आश्रवो,ऽथ श्रुतदेवी गीर्गौर्वाणी सरस्वती । ब्राह्मी वाग्भारती भाषाः, वचनं भाषितं वचः ॥ २०८ ॥ ;p{0027} व्याहारो भणितं जल्पितं लपितं तथोदितम् । गदिताभिधाने, साव्ययकारकविशेषणम् ॥ २०९ ॥ क्रिया वाक्यं, स्वाद्यन्तं स्यात्पदं, विष्टपमस्त्रियाम् । जगती विश्वं भुवनमस्त्री लोको जगत्तथा ॥ २१० ॥ जीवाजीवयोः स्थानं स्याल्लोकः, ततोऽपरः । पुरुषश्चेतन आत्मा क्षेत्रज्ञः, स भवी पुनः ॥ २११ ॥ सत्त्वमस्त्री देहभृत् स्यादसुमान् जन्तुरस्त्रियाम् । जन्युर्जीवो,ऽथ जननं जनिरुत्पत्तिरुद्भवः ॥ २१२ ॥ जन्मजनुषी, जीवस्त्रिलिङ्गो जीवितमित्यपि । प्राणासू पुंसि बहूक्ता,वस्त्री जीवातुरादृतः ॥ २१३ ॥ जीवनौषधं, श्वसितं श्वासः, समुखमध्यगः । आहर आन उच्छासो, निश्वासः स्याद्बहिर्मुखः ॥ २१४ ॥ एतनः पान, आयुस्तु क्लीबे पुंसि च संमतः । जीवितकालो,ऽथ मनो मानसं स्वान्तमुच्चलम् ॥ २१५ ॥ ;p{0028} अन्तःकरणं हृदयं चित्तं हृच्चेतसी अपि । गूढपथं, मनसो हि कर्म संकल्प उच्यते ॥ २१६ ॥ शर्म्म सातं सुखं सौख्यं निर्वृति,र्वेदना व्यथा । अर्तिः पीडा बाधा कृच्छ्रमाभीलमसुखं पुनः ॥ २१७ ॥ प्रगाढमामनस्यं च दुःखं कष्टं प्रसूतिजम् । पुंस्याधिर्मानसं दुःखं, क्षुत् दुःखमुदराग्निजम् ॥ २१८ ॥ सपत्राकृतिरत्यर्थवेदनावाचकः पुनः । निष्पत्राकृतिरप्येवं, व्यापादो द्रोहचिन्तनम् ॥ २१९ ॥ प्रथमज्ञानमुपज्ञा, चर्चा पुंसि स्त्रियामपि । स्यात्सङ्ख्या विचारणा,ऽथ संस्कारो भावनाऽपि च ॥ २२० ॥ वासनाऽनुभूताद्यर्थसंहतीनामविस्मृतिः । अन्तोऽदन्तो निर्णयश्च निश्चयः, संप्रधारणा ॥ २२१ ॥ समर्थन,मथाज्ञानमविद्याऽहंमतिः पुनः । मिथ्यामतिर्भ्रमो भ्रान्तिः, संदेहो द्वापरोस्त्रियाम् ॥ २२२ ॥ ;p{0029} आरेकः संशयो विचिकित्सा, अथादीनवाश्रवौ । दोषो,ऽथात्मा रूपतत्वं स्वभावप्रकृती पुनः ॥ २२३ ॥ धर्मोऽस्त्री सहजः सर्गः स्वरूपं च स्वलक्षणम् । रीतिः सतत्त्वं संसिद्धिः निसर्गः शीलमस्त्रियाम् ॥ २२४ ॥ गुणोत्कर्षः परभागो, दशाऽवस्था स्थितिस्तथा । अस्त्रियौ स्नेहप्रेमाणौ हार्दं प्रिति,रथो पुमान् ॥ २२५ ॥ समाधिः प्रणिधानं चावधानं धानमित्यपि । समार्था,वथानुपश्चाद्भ्यां तापश्चाऽनुशयस्तथा ॥ २२६ ॥ विप्रतीसारो, दाक्षिण्यं द्वितीयमनुकूलता । पुण्यं श्रेयो वृषो धर्मः सुकृतं, नियतिर्विधिः ॥ २२७ ॥ दिष्टं भाग्यं तथा भागधेयं दैवं त्वदोऽस्तियाम् । शुभं दैव,मयोऽदन्तो, निरृतिः कालकर्णिका ॥ २२८ ॥ अलक्ष्मी,रथांहः पापं दुष्कृतं कल्मषं तमः । दुरितं किल्बिषं कल्कमस्त्रियां वृजिनं पुनः ॥ २२९ ॥ ;p{0030} अघं पङ्कोऽस्त्रियां किण्वमेनः कलुषमित्यपि । पातकोऽस्त्री पुमान् पाप्मा स्यादशुभं नपुंसके ॥ २३० ॥ धर्मार्थकामास्त्रिवर्गः, चतुर्भद्रं बलान्विताः । मोक्षयुक्ताश्चतुर्वर्गः, उपाधिर्धर्मचिन्तनम् ॥ २३१ ॥ छन्दोऽदन्तो मतं भावोऽस्त्रियामाकूतमाशयः । अभिप्रायो,ऽथ प्रमादस्तथैवानवधानता ॥ २३२ ॥ स्रोतः क्लीबेऽक्षकरणे खं हृषीकं तथेन्द्रियम् । विषयी नन्तः, स्पर्शनादिकं बुद्धीन्द्रियं स्मृतम् ॥ २३३ ॥ क्रियेन्द्रियं स्यात्पाण्यादिकं, पञ्च स्पर्शादयोऽप्यथ । गोचरा विषया इन्द्रियार्थाः, शिशिरशीतलौ ॥ २३४ ॥ शीतस्तुषारः सुशीमो हिमो जड इमे समे । गुणे पुंसि वाच्यलिङ्गास्तद्वति स्युस्तथाऽपरे ॥ २३५ ॥ तीव्रस्तीक्षणः उष्णतिग्मौ चण्डः पटुखरावपि । ईषदुष्णः कदुष्णश्च मन्दोष्णः कोष्णः पञ्चमः ॥ २३६ ॥ कवोष्णो,ऽथ दृढः क्रूरः कर्कषः कठिनः खरः । कठोरो जरठो निष्ठुरः परुषश्च कक्खटः ॥ २३७ ॥ ;p{0031} अकर्कशः सुकुमारो मृदुलः कोमलः मृदुः । सुमालो, मधुरो गुल्यो रसज्येष्ठो मधूलकः ॥ २३८ ॥ स्वादुः, पाचनोऽम्लो दन्तशठः, सर्वरसः सरः । लवणो,ऽथ कटुर्भूय उषणो मुखशोधनः ॥ २३९ ॥ तिक्तो वक्त्रभेदी नन्तः, कषायस्तुवरो रसाः । गन्धो, जनमनोह्लादी भवेत्स घ्राणतर्पणः ॥ २४० ॥ निर्हारी च समाकर्षी सुरभिः, स विदूरगः । आमोदो, यो विमर्दोत्थः स परिमल आदृतः ॥ २४१ ॥ अथेष्टगन्ध आमोदी सुगन्धिर्मुखवासनः । दुर्गन्धः पूतिगन्धश्च, विस्रं स्यादामगन्धि यत् ॥ २४२ ॥ वर्णाः श्वेतमुखाः सर्वे,ऽथ शुक्लो धवलोऽर्जुनः । अवदातः शुचिर्गौरी वलक्षो हरिणः सितः ॥ २४३ ॥ पाण्डुरो विशदः पाण्डुः श्वेतः शुभ्रश्च पाण्डरः । श्येतः, स धूसरो ज्ञेय ईषत्पाण्डुर्भवेद्यकः ॥ २४४ ॥ ;p{0032} कपोताभः कपोतश्च, गौरः स्यात्पीतरञ्जनः । हारिद्रः पीतलः पीतः, पालाशो हरितो हरित् ॥ २४५ ॥ पीतनीलस्तालकाभो माञ्जिष्ठो रक्तरोहितौ । लोहितः शोणो, यः श्वेतरक्तः स्यात्स तु पाटलः ॥ २४६ ॥ बालसन्ध्यारुचिर्यः स्यादरुणः स निगद्यते । पीतरक्तो हरिः श्यावः पिशङ्गः पिङ्गपिञ्जरौ ॥ २४७ ॥ पिङ्गलः कपिलो बभ्रुः कडारकपिशौ तथा । कद्रुः, नीलोऽसितः श्यामः श्यामलो मेचकः शितिः ॥ २४८ ॥ कृष्णः कालः पुना रामो, रक्तश्यामस्तु धूमलः । धूम्रो,ऽथ कर्बुरश्चित्र एतोऽदन्तश्च चित्रलः ॥ २४९ ॥ समौ किर्मीरकल्माषौ शबलो,ऽथ स्वरो ध्वनिः । ध्वानः स्वानो रवो नादो निनदो निस्वनः स्वनः ॥ २५० ॥ रणः क्वणः स्वनिर्घोषः क्वाणो निक्वाणनिक्वणौ । निनादशब्दनिर्घोषा ह्रादो निह्राद आरवः ॥ २५१ ॥ संरावश्च विरावश्च निःस्वानः क्वणनं पुनः । आरावो,ऽथ सप्ततन्त्रीकण्ठजाताः स्वरा अमी ॥ २५२ ॥ ;p{0033} धैवतो निषधः षड्जो गान्धार ऋषभः पुनः । मध्यमः पञ्चमस्ते स्युरुरःकण्ठशिरोभवाः ॥ २५३ ॥ मन्द्रा मध्यास्तथा ताराः, सप्रणादस्तु सीत्कृतम् । जातो गुणानुरागाभ्यां शब्दो नॄणां स एव च ॥ २५४ ॥ क्रन्दितं रुदितं क्रुष्टं, गह्वरः स उदीरितः । तदेवजातपूत्कारं, पर्दनं गुदजो रवः ॥ २५५ ॥ कर्दनं कुक्षिसंभूतः, सिंहनादस्तथा भवेत् । क्ष्वेडा,ऽथ क्रन्दनं योधाह्वानं, कोलाहलोऽस्त्रियाम् ॥ २५६ ॥ कलकलो,ऽथ तुमलः शब्दो यो व्याकुलो भवेत् । हस्तिनां बृंहितं गर्जो, हेषा ह्रेषा तु वाजिनाम् ॥ २५७ ॥ मृगादीनां तिरश्चां च रुतं वासितम,प्यथ । पक्षिणां कूजितं, रेषा रेषणं स्याद् वृषस्य तु ॥ २५८ ॥ ;p{0034} बुक्कणं भषणं सारमेयस्य, जलदस्य तु । रसितं स्वनितं गर्जिः पुमान् ध्वनितगर्जिते ॥ २५९ ॥ स्तनितं चाथ विस्फारो धनुषां, गोरुभे मते । हम्भारम्भे, भाजनं स्यात् कीचकानां च, टट्टुरम् ॥ २६० ॥ भेरीनादो, मुरजस्य गुन्दलः, प्रक्वणः पुनः । प्रक्वाणस्त्रन्त्रीक्वणने, मणितं रतकूजितम् ॥ २६१ ॥ व्याध्यादिभिः पीडितानां कणितं, मधुरः कलः । गम्भीरो मन्द्रः; उच्चैरत्यर्थं तारो निगद्यते ॥ २६२ ॥ कलः सूक्ष्मः काकली स्त्री, त्वेकतालो लयानुगः । काकुरक्लीबो विकारो ध्वनेः शोकभयादिभिः ॥ २६३ ॥ प्रतिश्रुत् स्त्री प्रतिशब्दे .................. । स्वास्थ्यं धृतिश्च संतोषः, पूर्वानुभवचिन्तनम् ॥ २६४ ॥ ;p{0035} स्मरणं स्मृतिराध्यानं स्याद्बुद्धिर्धिषणा मतिः । प्रज्ञाप्रतिभाप्रतिपत्प्रेक्षासंवित्तिचेतनाः ॥ २६५ ॥ उपलब्धिः शेमुषी चिन्मनीषाज्ञप्तिदृष्टयः । धीर्या तु धारणशक्ता मेधा सा प्रोच्यते बुधैः ॥ २६६ ॥ तत्त्वदृष्टिर्भवेत्पण्डा, ज्ञानं मोक्षफला मतिः । विज्ञानमन्यशास्त्रादा,वथाष्टौ धीगुणा यथा ॥ २६७ ॥ शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहोऽपाहोऽर्थविज्ञानं तत्त्वज्ञानं, त्रपा पुनः ॥ २६८ ॥ ह्रीर्लज्जा व्रीडा मन्दाक्षं परतः सात्वऽपत्रपा । जाड्यं मौर्ख्यं, पुनः सादोऽवसादस्तु विषण्णता ॥ २६९ ॥ विषादो, मद आनन्दमोहयोः संगमो भवेत् । आधारो गह्वरो व्याधिः, निद्रा शयनसंलयौ ॥ २७० ॥ प्रमीला स्वापः संवेशो नन्दीमुखी च तापसी । श्वासहेतिः पुनस्तन्द्रा, साऽधिका सुखसुप्तिका ॥ २७१ ॥ सुप्तं सुष्वापः, औत्सुक्यं हृल्लेखोत्कलिके पुनः । रणरणक उत्कण्ठा रतिरायल्लकस्तथा ॥ २७२ ॥ ;p{0036} अक्लीबोऽवहित्थाकारगूहने गृहजालिका । अवकटिकाऽवकुटारिका, शङ्का तु सा मता ॥ २७३ ॥ संभावनमनिष्टस्य, चापलं चानवस्थितिः । कौसीद्यं नन्द्रा आलस्यं चा,नन्दो हर्षमुदौ तथा ॥ २७४ ॥ चित्तप्रसन्नता प्रीतिः प्रमोदामोदसंमदाः । आनन्दथुः पुमान् ह्लादः प्रमोदोऽथावलिप्तता ॥ २७५ ॥ स्युरभिमानाहंकारगर्वाः पुंसि परेऽस्त्रियाम् । मानोऽस्त्री ममता दर्पः स्मयश्चित्तोन्नतिस्तथा ॥ २७६ ॥ साऽहमहमिका या तु स्पर्धनं क्रियते मिथः । अहोपुरुषिका गर्वात् या स्वात्मनि विचारणा ॥ २७७ ॥ अहंपूर्वमहंपूर्वमित्यहंपूर्विका तथा । उग्रत्वं चण्डता, ग्लानिः स्त्रियां च बलहीनता ॥ २७८ ॥ प्रबोधः स्याद्विनिद्रत्वं, दैन्यं कार्पण्यमप्यथ । व्यायामः प्रयासः क्लेशः श्रमः क्लमः परिश्रमः ॥ २७९ ॥ आयासो, वातभूतादि दोषाच्चित्तानवस्थितिः । चित्तविप्लव उन्माद,स्त्रास आकस्मिकं भयम् ॥ २८० ॥ ;p{0037} गुणो यः क्रोधसंभूतो जिगीषोत्साहवांश्च यः । अमर्षः स विजानीया,न्मौढ्यमोहौ समौ तथा ॥ २८१ ॥ धातुवैषम्येऽपस्मारः, चिन्ताध्यानमथाऽत्मनः । अवगणनं निर्वेद,स्तर्क ऊहो विमर्शनम् ॥ २८२ ॥ उन्नयनं वितर्कोऽस्त्री परामर्शोऽध्याहारकः । संवेगः संभ्रमावेगौ त्वरित्तूर्णिः स्त्रियौ त्वरा ॥ २८३ ॥ गुणेषु दोषाविष्कारोऽसूया,ऽथास्तं निमीलनम् । परलोकगमो नाशो दीर्घनिद्राऽत्ययौ समौ ॥ २८४ ॥ अवसानं कालधर्मः कालः संस्था तथा मृतिः । अक्लीबो मृत्युर्दिष्टान्तः पञ्चत्वं निधनं पुनः ॥ २८५ ॥ अस्त्री तत्सर्वगं मारिर्मरकोऽस्त्री, समे त्वमी । संचारिणस्त्रयस्त्रिंशद,थ रागो रतिः पुनः ॥ २८६ ॥ अनुरागोऽनुरतिः स्यात्, हासिका घर्घरो हसः । हास्यं हासो हसनं, चादृष्टदन्ते स्मितं तथा ॥ २८७ ॥ ;p{0038} वक्रोष्ठिकाऽपुमां,स्तमिन् किञ्चित्प्रेक्षितदन्तके । हसितं, किञ्चिच्छ्रुते विहसितं च स्फुरदोष्ठके ॥ २८८ ॥ हसनमाच्छुरितकं हासे सोत्प्रास उच्यते । शुक् स्त्रियां शोचनं स्वेदः शोको,ऽथ क्रुत् स्त्रियां रुषा ॥ २८९ ॥ क्रुधा मन्युः पुमान् कोपो रुट् स्त्रियां प्रतिघः समौ । रोषक्रोधा,वथ प्रौढिरुद्यमः कियदेतिका ॥ २९० ॥ अभियोगोऽध्यवसाय ऊर्ज्जोत्साहौ प्रगल्भता । उद्योगः, सात्वतिशययुक्ता वीर्यमथो भयम् ॥ २९१ ॥ दरोऽस्त्री भीः स्त्रियां भीतिराशंका साध्वसं भिया । आतङ्को, यद्भूधवानां राजपुत्रादितो भयम् ॥ २९२ ॥ अहिभय,मथो दृष्टं स्वकीयपरचक्रजम् । जलानलादितोऽदृष्ट,मथ भीमं भयानकम् ॥ २९३ ॥ भैरवं दारुणं भीष्मं प्रतिभयं भयावहम् । घोरं भयङ्करं भीषणमाभीलं च भासुरम् ॥ २९४ ॥ डमर(?), घृणा जुगुप्सा,ऽथ चित्रं मोहविस्मयौ । आश्चर्यं कुल्लकं विक्षं चोद्यमद्भुतमप्यथ ॥ २९५ ॥ ;p{0039} तृष्णाक्षयः शमः शान्तिरुपशमश्च पञ्चमम् । शमथः, कारणं स्थायिनो रसानां क्रमादमी ॥ २९६ ॥ जाड्यं स्तम्भो,ऽथ निदाघो घर्मः स्वेदो,ऽथ कण्टकः । पुलको द्वावस्त्रियौ स्तो रोमाञ्चो रोमहर्षणम् ॥ २९७ ॥ रोमोद्गमो रोमविकार उल्लूकसनं पुनः । उद्घुषणं, कल्लत्वं चेत् स्वरे स्वरभेदो हि यः ॥ २९८ ॥ वैवर्ण्यं कालिका वर्णविपर्यासो,ऽथ वेपथुः । कम्पनं, प्रलयोऽचेष्टा, बाष्पोऽस्रमस्रु रोदनम् ॥ २९९ ॥ अश्रुनेत्राम्बु, भावाः स्युः संचारिस्थायिसात्त्विकाः । स्युस्त्रयः संचारीस्थायिभावा, अथ रसाः पुनः ॥ ३०० ॥ अस्त्री शृङ्गारः करुणो हस्यो वीरो भयानकः । रौद्रः शान्तोऽद्भुतो भूयो बीभत्सोऽथाधिकरणः ॥ ३०१ ॥ पात्राणि नाटके, रामादीनां रूपपरिग्रहः । भूमिका,ऽथ नटोऽस्त्री स्यात् भरतो भरतपुत्रकः ॥ ३०२ ॥ ;p{0040} धर्मीपुत्रः सर्वकेशी कृशाश्वी नन्त इष्यते । शैलूषः शैलाली जायाऽऽजीवो रङ्गावतरकः ॥ ३०३ ॥ रङ्गाजीवः, चारणस्तु कुशीलवो द्वितीयकम् । स्त्रीवेषभृन्नटः कुंसो भ्रू-भ्रु-भ्र-भृ-परो यदा ॥ ३०४ ॥ नाट्यविधेः सूत्रधारः सूचकोऽप्यत्र दर्शकः । वेश्याचार्यः पीठमर्दः, नन्दी स नान्द्याः पाठकः ॥ ३०५ ॥ पारिपार्श्विकः पार्श्वस्थो, वैहासिको विदूषकः । प्रहासी स्यात्केलिकिलो भूयो वासन्तिकस्तथा ॥ ३०६ ॥ प्रीतिदोऽथ पल्लवको विट् षिङ्गः, पिता आबुकः । नाट्ये स्वसृपतौ च आवुत्तः स्याद्भावुक इत्यपि ॥ ३०७ ॥ सुधीर्भावो, युवराजो यः कुमारः स तूदितः । भर्तृदारकः, या बाला[वा]सूः स्त्री, मार्ष इत्यसौ ॥ ३०८ ॥ आर्यः, स्वामी भवेद्भट्टारको देवो,ऽपि राष्ट्रियः । भूपश्यालो, या च पुत्री भूपतेर्भर्तृदारिका ॥ ३०९ ॥ ;p{0041} कृतपट्टाभिषेका या देवी, अन्या तु भट्टिनी । वेश्याऽज्जुका, सखीहूतौ हला, दासीहवे पुनः ॥ ३१० ॥ हञ्जे हण्डे नीचहूतौ, यद्वा स्यादत्तिका स्वसा । आर्यपुत्रः पति रम्बा माता,ऽब्रह्मण्यमुच्यते ॥ ३११ ॥ वधानर्हस्य विप्रस्य थूत्करणे,ऽथ ये क्षितौ । निर्ग्रन्थाः सौगताद्यास्ते भदन्ताः कथिताः समे ॥ ३१२ ॥ गीतं नृत्तं तथा वाद्यमेतत्समुदितत्रयम् । तौर्यत्रिकं नाट्य,मस्मिन् संगीतमुच्यते ॥ ३१३ ॥ प्रेक्षणार्थं समारब्धे, नाट्यधर्मी स्त्रियां तथा । शास्त्रोदिते,ऽथ गन्धर्वगीतिर्गीतं च मुख्यतः ॥ ३१४ ॥ गानं गेय,मथो नृत्तं नृत्यं नटननर्तने । लास्यं नाट्यं ताण्डवोऽस्त्री, वशानां मण्डलेन यत् ॥ ३१५ ॥ ;p{0042} नृत्तं हल्लीसकं, तूच्चतालं वीरजयन्तिका । पानगोष्ठ्यां रणे चेदं क्रमान्नाट्यस्य यद्भवेत् ॥ ३१६ ॥ स्थानं रङ्गः, पूर्वरङ्गः प्रारम्भो,ऽभिनयः पुनः । व्यञ्जकः स तु हस्तादिभिः पदार्थस्य सूचकः ॥ ३१७ ॥ सोऽलंकारादिनाऽऽहार्यो, रचितो वचसा पुनः । वाचिक, आङ्गिकोऽङ्गेन, जातः सत्त्वेन सात्त्विकः ॥ ३१८ ॥ अङ्गहाराङ्गविक्षेपौ समौ, षट् संस्कृतादिमाः । भाषाः स्युर्भारतीमुख्याश्चतस्रः सन्ति वृत्तयः ॥ ३१९ ॥ ......... आतो[द्य] तूर्यमस्त्री स्मरध्वजः वाद्यम् । ततं वी[णा प्रभृतिकं] घनं तालादिकं तथा ॥ ३२० ॥ ;p{0043} शुषिरं वंशप्रमुख,मानद्धं मुरजादिकम् । विपञ्ची वल्लकी वीणा चतुर्थी कण्ठकूणिका ॥ ३२१ ॥ घोषवती, सप्तभिः सा तन्त्रीभिः परिवादिनी । तन्त्रीभेदादनेके स्युर्भेदा एवं यथाक्रमम् ॥ ३२२ ॥ भारत्याः कच्छपी वीणा, चानालम्बी हरस्य तु । महती नारदस्या[थ] बृहती विश्वावसोः पुनः ॥ ३२३ ॥ प्रभावती गणानां हि, तुम्बरोः स्यात्कलावती । चाण्डालिका तु कटोलवीणा चण्डालदेहिनाम् ॥ ३२४ ॥ कोलम्बकोऽङ्गं स्यादस्या, उपनाहस्तु बन्धनम् । प्रवालोऽस्त्री तथा दण्डः, कलिका कूणिका तु सा ॥ ३२५ ॥ वंशशलाकाया मूले, प्रसेवककुभौ समौ । कालमानं यत्क्रियायास्तालः चच्चपुटादिकः ॥ ३२६ ॥ ;p{0044} तयोः साम्यं लयः प्रोक्तः, ओघो द्रुतलयो मतः । सत्त्वं विलम्बितं, मध्यलयं नाम घनं स्मृतम् ॥ ३२७ ॥ मुरजो मृदङ्ग,स्त्रिधाऽऽलिङ्गी सोऽङ्की तथोर्ध्वकः । ढक्का यशः पटहोऽपि, भेरी पटह आनकः ॥ ३२८ ॥ पुल्लिङ्गो दुन्दुभिः, शारिः वीणादीनां प्रवादनम् । कोणो,ऽथ गर्द्धोऽभिलाषः स्यात्काङ्क्षा तृड् मनोरथः ॥ ३२९ ॥ तृष्णा लिप्सा लोभो वाञ्छा कामोऽस्त्री कामना रुचिः । आशंसा स्पृहाऽऽशेच्छेहा धनायेप्सा वशोपि च ॥ ३३० ॥ अभिध्या सा तु या द्रव्ये परकीये स्पृहा भवेत् । द्यूतक्रीडा मांसादनं मद्यपानं पणाङ्गना ॥ ३३१ ॥ पञ्चमं खेटकं कर्म चौरी परवशारुचिः । सप्तैतानि व्यसनानि, शौर्यशौण्डीर्यविक्रमाः ॥ ३३२ ॥ प्रराक्रमः पौरुषं च न्यायः कल्पः समञ्जसम् । देशरूपं नयोऽभ्रेषो,ऽथ युक्तं साम्प्रतं पुनः ॥ ३३३ ॥ ;p{0045} न्याय्यं लभ्यं भजमानं प्राप्तमौपायिकं तथा । उचितमभिनीतं च वाच्यलिङ्गा अमी समे ॥ ३३४ ॥ अधिकारः प्रक्रिया सा व्यवस्था स्थापनं हि यत् । मर्यादास्थितिसंस्थाश्च धारणा, आगो नपुंसके ॥ ३३५ ॥ मन्तुः पुमान् व्यलीकं स्यादस्त्रियां विप्रियं पुनः । अपराधो,ऽथ विजनं निःशलाकं च केवलम् ॥ ३३६ ॥ छन्नं विविक्तमेकान्तं रहः क्लीबेऽस्त्रियां पुनः । उपह्वरं [उपांशु च] तदव्ययं विबुधैर्मतम् ॥ ३३७ ॥ रहस्यं गुह्यं तज्ज्ञेयं गोपनीयं हि यद्भवेत् । तरोऽसन्तः क्लीबे स्थामा नन्तः क्लीबे पराक्रमः ॥ ३३८ ॥ प्राणः शक्तिः सहः सन्तस्तथौजोऽपि नपुंसके । बलमस्त्री शूष्म नान्त ऊर्जोऽक्लीबस्तथा त्रयः ॥ ३३९ ॥ शुष्मं शौर्यं द्युम्नमथ, बलात्कारो हठः पुनः । प्रसभोऽस्त्रियां, स्खलितं छलं, दानविसर्जने ॥ ३४० ॥ विश्राणनमुत्सर्जनं त्यागः स्यात्प्रतिपादनम् । अपवर्जनं स्पर्शनं प्रदेशनविहायिते ॥ ३४१ ॥ वितरणं निर्वपनं स्त्रियामंहातिरित्यपि । अर्थना प्रणयोऽध्येषणा सनिः स्त्रीपुमानपि ॥ ३४२ ॥ ;p{0046} अर्द्दना याचना याच्ञेषणाऽभिशस्तिमार्गणे । भिक्षणा,ऽथ क्षमा आवत(?)स्तितिक्षा, सहनं रुचिः ॥ ३४३ ॥ स्त्रियां जिघत्साऽशनाया बुभुक्षा रोचकोऽस्त्रियाम् । अपलसिका पिपासा तृष्णोदन्या तृषा च तृट् ॥ ३४४ ॥ तर्षः पानं धीति,रथो सौहित्यं स्यादाघ्राणकम् । तृप्ति,रथ परिभावो विप्रकारः पराभवः ॥ ३४५ ॥ अत्यकारः परिभवोऽभिभवश्च तिरस्क्रिया । न्यक्कारनिकारौ, कपटोऽस्त्री व्याजो मिषं छलम् ॥ ३४६ ॥ कूटमस्त्री व्यपदेशः छद्मोपधि स्यात्कैतवम् । लक्षमस्त्री निभं दम्भो,ऽथ कुहना च कुक्कुटिः ॥ ३४७ ॥ दम्भचर्या च, व्यलीकमतिसंधानवञ्चने । प्रतारण,मथो पूज्यनाम्नो भट्टारकादयः ॥ ३४८ ॥ त्रयः प्रयोज्यास्तेन स्यादर्हद्भट्टारकस्तथा । पूज्यपादो नरदेव एवमन्येप्यनेकशः ॥ ३४९ ॥ तत्रभवान् भगवानत्र भवान् पूज्य इत्य,थ । कुसृतिर्निकृतिर्माया शठता शाठ्यमप्य,थ ॥ ३५० ॥ अहिंसा निर्मला क्षान्तिरनुकम्पा घृणा दया । शूकोऽस्त्री स्यादनुक्रोशः कारुण्यं करुणा कृपा ॥ ३५१ ॥ सिद्धशब्दार्णवैः साङ्गः श्रीसहजादिकीर्तिभिः । पूज्यः प्रथमकाण्डोऽयं स्मृतिमार्गमनीयत ॥ ३५२ ॥ ;k{द्वितीयः काण्डः} ;p{0047} ;c{ऐ नमः ॥} ;v{सुराधिकारः} नाकोऽस्त्री त्रिदिवं तथैव तविषो द्यौः स्त्री दिवं ताविषः स्वर्गो गौरनपुंसको भुविरिति स्त्री चोर्ध्वलोकोऽवयम् । स्वर्देवालयसैरिकौ दिदिविकः स्याद्दीदिविर्वासवा- वासः क्लीब इति त्रिविष्टपमपि द्युर्मेरुपृष्ठं तथा ॥ १ ॥ फलोदयो,ऽथ निर्जरा सुपर्वदेवनाकिनः । अमर्त्यलेखतस्तदः सुधाभोजो निलिम्पकाः ॥ २ ॥ गीर्वाणा अमृतान्धसः सुमनसः स्वाहाभुजो देवता अस्वप्ना विबुधाः सुधाक्रतुभुजो बर्हिर्मुखाः पुजिलाः । आदित्या दनुजद्विषश्चानिमिषाः कामादिरूपाश्चिरा- युर्मत्र्यार्चिकसाध्यशोभमरुतो वृन्दारका दैवता ॥ ३ ॥ अस्त्र्येष(?) एवं त्रिदशा अमा ऋभवः सुराः । अथार्काः द्वादश, तुषिताः षट्त्रिंशत्, वसवः पुनः ॥ ४ ॥ अष्टौ, त्रयोदश विश्वे देवा, आभासुरास्तथा । षष्टिर्द्वादश साध्याश्च सुशर्म्माणो दश स्मृताः ॥ ५ ॥ रुद्रा एकादश प्रोक्ताः वौकुण्ठाः स्युश्चतुर्दश । एकोनपञ्चाशच्च स्युर्वायवो महाराजिकाः ॥ ६ ॥ षट्त्रिंशदेते सर्वेऽपि विज्ञेया गणदेवताः । विमानमस्त्री तेषां स्याद्वाहनं, भोजनं तथा ॥ ७ ॥ ;p{0048} सुधा पीयूषममृत,मसुराः दानवाः पुनः । इन्द्रारयः शुक्रशिष्याः पूर्वदेवाः सुरद्विषः ॥ ८ ॥ दनुजा दैत्यदैतेया दितिसुता, अमी दश । असुरप्रमुखाश्च दिक्कुमारान्ता जिनागमे ॥ ९ ॥ पातालवासिनः सर्वे अमरेन्द्राद्याः नामतः । व्यन्तराश्च पिशाचाद्याष्टौ पातालवासिनः ॥ १० ॥ चन्द्राद्याः पञ्चसंख्याका ज्योतिष्काश्च, खचारिणः । सौधर्माश्चाच्युतान्ता द्वादश स्युर्विमानगाः ॥ ११ ॥ कल्पातीता नव पञ्च भेदा एवं सुराः समे । निकायभेदतो जाताश्चत्वारो,ऽथ विशेषतः ॥ १२ ॥ पुरन्दरोऽच्युताग्रजः सहस्रनेत्रवासवौ । शचीपतिः शतक्रतुः सरर्षभश्च कौशिकः ॥ १३ ॥ ऋभुक्षिमेघवाहनौ हरिश्च पाकशासनः । वरक्रतुर्वृषा जयः सुरेशपूर्वदिक्पतिः ॥ १४ ॥ पर्जन्यो बाहुदन्तेयः पुरुहूतोऽप्सरःपतिः । तपस्तक्षः स्वर्गपतिर्हरिमान् वज्रदक्षिणः ॥ १५ ॥ ;p{0049} वास्तोष्पतिः सुनासीरः सुत्रामशक्रदल्मयः । विडौजा मघवा वज्री मघवान् देवदुन्दुभिः ॥ १६ ॥ वृत्रहा गोत्रभृत् प्रक्रन्दन आखण्डलः पुनः । हरिहयो जम्भभेदी जिष्णुर्नमुचिसूदनः ॥ १७ ॥ बलद्विट् प्राचीनबर्हिस्तुराषाट् वियुनोऽपि च । वृद्धश्रवाः पृतनाषाट् मरुत्वान्मिहिरः पुनः ॥ १८ ॥ उग्रधन्वा दुश्च्यवनः यामनेमिरमसहा । किणालातः, प्रिया चास्य शची चारुरवा तथा ॥ १९ ॥ शतावरी पौलोमी च शक्राणी जयवाहिनी । इन्द्राणी स्यात्परिपूर्णसहस्रचन्द्रवत्यपि ॥ २० ॥ पुत्रो जयो जयदत्तो जयन्तः पाकशासनिः । जयन्ती तनया ताविषी तविषी, हयः पुनः ॥ २१ ॥ उच्चैःश्रवा वृषणाश्वो, मातलिस्तु हयंकषः । सारथि,र्नन्दनं नाम वनं सर्वसुरप्रियम् ॥ २२ ॥ प्रासादो वैजयन्तोऽपि ध्वजो, दौवारिको महान् । देवनन्दी भवेन्नान्तः, सरो नन्दीसरो वरम् ॥ २३ ॥ हस्ती चैरावणो हस्तिमल्ल ऐरावतोऽस्त्रियाम् । अभ्रमातङ्गश्चाभ्रमुवल्लभश्च मदांवरः ॥ २४ ॥ ;p{0050} श्वेतगजो भद्रवेणुः सदादानोऽर्कसोदरः । चतुर्दन्तो, धनुर्देवायुधं तत्सरलं तथा ॥ २५ ॥ रोहितं, यदि दीर्घं तु सरलं तन्निगद्यते । ऐरावतमस्त्रियां च, वज्रमस्त्री पविः पुमान् ॥ २६ ॥ अशनिरक्लीबः शम्बः शतकोटिः पुमान् स्वरुः । तामेव(?) ह्रादिनी दम्भोलिः पुमान् भिदुरं पुनः ॥ २७ ॥ कुलिशोऽस्त्री व्याधामो,ऽस्य ज्वालाऽतिभी स्रियाम् । ध्वनिः स्फूर्जथुः पुमान्, अमरवती सुदर्शनं च पूः ॥ २८ ॥ सभा सुधर्मा स्त्री नंत,स्तरवो हरिचन्दनः । अस्त्री मन्दारसन्तानौ पारिजातश्च पञ्चमः ॥ २९ ॥ कल्पोऽश्विनौ यमौ दस्रौ नासिक्यौ वडवासुतौ । अब्धिजावश्विनीपुत्रौ स्वर्वैद्यावर्क्कजौ पुनः ॥ ३० ॥ नासत्यौ नासत्यदस्रौ तथाऽग्रवरवाहनौ । गदान्तकौ यज्ञवाहौ पुंसि द्विवचनौ सदा ॥ ३१ ॥ ;p{0051} विश्वकृद्विश्वकर्मा च त्वष्टा स्याद्देववर्द्धकिः । हाहाः पुंसि [च] तन्मुख्या हाहाहूहूः परे पुनः ॥ ३२ ॥ गान्धार्वास्तथा गन्धर्वाः तृतीयं देवगायनाः । स्वर्वध्वः स्वर्गवध्वश्चाप्सरस्त्री बहुष्वयम् ॥ ३३ ॥ स्वर्वेश्या ऊर्वशीमुख्या, अथ प्रेतपतिर्यमः । यमुनाभ्राता कीनाशो दक्षिणाशापतिर्हरिः ॥ ३४ ॥ कृतान्तः कालशीर्णाङ्घ्री धर्मराजोऽर्कनन्दनः । समवर्ती श्राद्धदेवो मृत्युः स्याच्छमनोऽन्तकः ॥ ३५ ॥ दण्डधरः पितृपतिर्यमराट् महिषध्वजः । महासत्यः कालकूटो यमुनाग्रज इत्यपि ॥ ३६ ॥ पुराणान्तोऽस्य धूमोर्णा प्रेयसी, [लेखस्तथा । चित्रगुप्तः] प्रतिहारो वैध्यतः सेवकावुभौ ॥ ३७ ॥ चण्डस्तथा महाचण्डः, पुरी संयमनी भया । रक्षोऽसंतश्च कीनाशः पलादो निकषात्मजः ॥ ३८ ॥ यात्वस्त्री कौणपः पुण्यजनोऽसृक्पश्च नैर्ऋतः । नृचक्षाः कर्बुरो रात्रिंचरो रात्रिचरः पुनः ॥ ३९ ॥ पलप्रियो यातुधान आशरो राक्षसः पुमान् । क्रव्याद् कर्वरौ विधुरः आशिरो जललोहितः ॥ ४० ॥ ;p{0052} सन्ध्याचलः कखापुत्रः उद्धरो नरविष्वणः । त्रिशरो हरशः शङ्कूरः रात्रिबलः प्रवाहिकः ॥ ४१ ॥ रक्तग्रीवस्तब्धसंभारः पुनः समितीपदः । प्रचेता वरुणो यादःपतिर्जलपतिस्तथा ॥ ४२ ॥ पाशपाणिर्मेघनादोऽर्णवमन्दिरसंवृतौ । परंजनो जलकान्तारः प्रतीचीशदुन्दुभी ॥ ४३ ॥ उद्दामो,ऽथ कैलासौका धनदो नरवाहनः । ऐलविलो वैश्रवणस्त्रिशराः किंनरेश्वरः ॥ ४४ ॥ धनेश्वरो निधीश्वरः पिशाचकी सितोदरः । नृधर्मगुह्यकेश्वरौ कुबेरसत्यसंगरौ ॥ ४५ ॥ एकपिङ्गो रत्नकरः श्रीदो यक्षेश्वरः एतः(?) । इच्छावसुरीशसखो निधनाक्षः पुनः कुहः ॥ ४६ ॥ पौलस्त्यश्च सुप्रसन्नः उत्तराशापतिस्तथा । रत्नगर्भो महासत्त्वो धनकेलिः प्रमोदितः ॥ ४७ ॥ अस्य चैत्ररथं नाम वनं, पूरलका प्रभा । वसुप्रभा वसुसारा स्याद्वस्वोकसारा, सुतः ॥ ४८ ॥ नलकूबरो विमानं पुष्पकं, राजगुह्यकौ । वटवासी पुण्यजनो यक्षः, किंपुरुषो मयुः ॥ ४९ ॥ किन्नरस्तुरङ्गमुखो, दिशामीशा अथ क्रमात् । इन्द्रो हुताशनो मृत्युर्नैरृतो वरुणो मरुत् ॥ ५० ॥ ;p{0053} धनद ईशानोऽ[थ], दिग्गजा अष्ट ते अमी । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ५१ ॥ पुष्पदन्तः सार्व्वभौमः सुप्रतीकः, करेणवः । अभ्रमुः कपिलाऽनुपमा क्रमादथ ॥ ५२ ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना अञ्जनावती । अथ चन्द्रो निशारत्नो निशाकरस्तिथिप्रणीः ॥ ५३ ॥ दशवाजी दशाश्वोऽपि सितवाजी सिताश्वकः । सोमोऽमृतद्युतिः श्वेतद्युतिर्ग्लौ रोहिणीपतिः ॥ ५४ ॥ जैवातृकोऽमृतसूश्चात्रिदृग्जो दक्षजापतिः । निशापतिर्द्विजपती राजा कुमुदबान्धवः ॥ ५५ ॥ कलाभृत् शशभृच्छायाभृदेणभृद्धिमद्युतिः । कौमुदीपतिर्माजर्णो विधुः कुमुदिनीपतिः ॥ ५६ ॥ चन्द्रमाः ओषधिपतिर्भपतिः कृत्तिकाभवः । राजराजस्तपाराजः शुभांशुशयतौ बुधः ॥ ५७ ॥ यज्ञराट् यजतः सृप्र खशिख श्वेतवाहनः । सिन्धूत्थ ओषधीगर्भः श्रविष्टारमणोऽपि च ॥ ५८ ॥ स्यन्द आकाशचमसः पीतुश्चन्दिर एकभूः । नेमिः स्याद्युवनः क्लेन्दुरिन्दुरस्य कला पुनः ॥ ५९ ॥ भागः स्यात्षोडशो, लक्ष्म लाञ्छनं चिह्नलक्षणे । अभिज्ञानं कलङ्कोऽङ्को,ऽथ ज्योत्स्ना चन्द्रगोलिका ॥ ६० ॥ ;p{0054} चन्द्रिका कौमुदी चन्द्रातपो,ऽथ बिम्बमस्त्रियाम् । मण्डलं त्रिष्व,थादित्यो यमुनाजनकः शुचिः ॥ ६१ ॥ विवस्वान् मिहिरो मित्रो द्युपतिर्गोपतिः पुनः । सूरो मार्तण्डमार्त्तण्डौ द्वादशात्मा विरोचनः ॥ ६२ ॥ दिवाकरः प्रभाकरो विभाकरश्च भास्करः । अहस्करो विकर्त्तनो अहाब्जिनीपतिः खगः ॥ ६३ ॥ विभावस्तुस्त्रयीतनुर्गभस्तिचक्रबान्धवौ । नभोमणिस्त्वहर्मणिर्हरिः पतङ्गतापनौ ॥ ६४ ॥ ध्वान्ताराती रविः सूर्यः कृतान्तजनको भगः । प्रद्योतनश्चित्रभानुस्तरणि[श्चा]नपुंसकम् ॥ ६५ ॥ इनो हेलिर्हरिदश्वः किरणोऽरुणसारथिः । कर्मसाक्षी जगत्साक्षी भास्वान् ग्रहपुषोऽर्यमा ॥ ६६ ॥ जगच्चक्षुरब्जहस्तोऽर्क्को दिवसकरस्तथा । दिनकरो अंशुहस्तश्च तपनो गगनाध्वगः ॥ ६७ ॥ सहस्रांशुः खरांशुश्च हंसस्त्वष्टाऽरुणः पपीः । ब्रध्नोऽहर्बान्धवस्सप्तसप्तिः स्यादब्जबान्धवः ॥ ६८ ॥ उष्णांशुस्सविता पूषा भानेमिर्गगनध्वजः । अंशुर्भानुदिवापुष्टौ लोकबन्धुः सदागतिः ॥ ६९ ॥ सहस्राङ्कः खतिलको दृशानः कर्णसूः कपिः । वेदोदयो बहुरूपः प्रत्यूषाण्डोऽम्बुतस्करः ॥ ७० ॥ गलो प्रकाशनः पातुर्जगद्दीपः सुरावृतः । सांवत्सररथः पाथः पुष्करो भानुकेशरः ॥ ७१ ॥ ब्रह्मा वाजी कालधरो रात्रिनाशन इत्यपि । भानुगभस्तिवसवस्त्रयः पुंसि प्रभा स्त्रियाम् ॥ ७२ ॥ रुचिद्युती स्त्रियामुभे विभाऽनपुंसका च भा । मरीचिवृश्नयस्त्रयः शुचिः पुमान् करस्तथा ॥ ७३ ॥ ;p{0055} रोचिः क्लीबेंऽशुरभीशुस्तथोपधृतिप्रग्रहौ । घृणिरश्मिकेतवोऽपि विरोककिरणौ त्विषि ॥ ७४ ॥ मयूख रुक्पादोस्रा एते पुंसि चतुर्दश । गौरक्लीबस्तथा क्लीबे शोचिः ज्योतिश्च दीधितिः ॥ ७५ ॥ स्त्रियामर्चिरपुमांश्च धाम क्लीबे तथा महः । भाश्छविस्त्विड्द्युतिर्द्युश्च स्त्रियां पञ्च स्मृता अमी ॥ ७६ ॥ आतपालोकौ तेजो वर्च उद्योतपञ्चमम् । प्रकाशः स्यान्मृगतृष्णा मरीचिका,ऽथ मण्डलम् ॥ ७७ ॥ त्रिलिङ्गोऽयमुपसूर्यकं क्लीबोऽ[थ] परिधिः पुनः । परिवेषः, सूर्यसूतः काश्यपिः गरुडाग्रजः ॥ ७८ ॥ अरुणो विनतासूनुरनूरुर्महासारथिः । विपुलस्कन्धो, रेवन्तो हयवाहन इत्यपि ॥ ७९ ॥ प्लवगोऽर्करेतोजश्च, माठराद्या अहर्पतेः । अष्टादश सदा परिपार्श्विका अथ मङ्गलः ॥ ८० ॥ लोहिताङ्गः कुजो वक्र आषाढाभूरङ्गारकः । नवार्च्चिरार एकाङ्गो व्योमोल्मुकस्त्व,थो बुधः ॥ ८१ ॥ श्रविष्ठाभूः श्यामाङ्गो ज्ञः पञ्चार्च्ची रोहिणीसुतः । सौम्यः प्रहर्षलो, जीवः सुराचार्यो बृहस्पतिः ॥ ८२ ॥ उतथ्यानुजो धिषणो गुरुश्चित्रशिखण्डिजः । वाचस्पतिः स्याद्बृहतीपतिवाग्मिनौ ॥ ८३ ॥ ;p{0056} आङ्गिरसो द्वादशार्च्चिर्दीदिविः फल्गुनीभवः । प्रख्यामहामतिर्गौरो वाक्प्रचक्षाश्च गीरथः ॥ ८४ ॥ शुक्रः काव्यः षोडशार्च्चिर्धिष्ण्यो दैत्यगुरुः कविः । भार्गवो भृगुरुशना मघाभवोऽप्य,थाऽसितः ॥ ८५ ॥ शनिः शनैश्चरः सौरिः कूरात्मा रेवतीभवः । महाग्रहः शतकर्मा मदः सप्तार्च्चिरित्यपि ॥ ८६ ॥ छायासुतो नीलवासाः क्रोडः पङ्गु,रथो तमः । स्वर्भानुस्तु भरणीभूः सैहिकेयो विधुंतुदः ॥ ८७ ॥ उपप्लव उपरागो राहुः, केतुः शिखी पुनः । अश्लेषाभूरूर्ध्वकचः आहिको,ऽथ ध्रुवः पुनः ॥ ८८ ॥ उत्तानपादजो ज्योतीरथो ग्रहाश्रयस्तथा । अगस्तिर्मैत्रावरुणिरग्नेय आग्निमारुतः ॥ ८९ ॥ वातापिद्विडौर्वशेयः पीताब्धिः कलशीसुतः । दक्षिणाशारतिः विन्ध्यकूटोऽगस्त्यो घटोद्भवः ॥ ९० ॥ वारुणिस्तपनः क्वाथिः सत्याग्निः मुनि,रस्य च । भार्या कौषीतकी लोपामुद्रा वरप्रदा तथा ॥ ९१ ॥ मरीचिरत्रिः पुलस्योऽङ्गिराः पुलहः क्रतुः । वसिष्ठश्च महातेजा सप्तमः परिकीर्तितः ॥ ९२ ॥ सप्तर्षयस्तथा चि[त्र]शिखण्डिनोऽभिधा द्वयम् । पुष्पदन्तौ पुष्पवन्तावभिन्नोक्त्येन्दुभास्करौ ॥ ९३ ॥ ;p{0057} य इन्दुसूर्ययो राहुग्रासः स ग्रह उच्यते । उपप्लव उपरागो,ऽथारिष्टं स्यादुपद्रवः ॥ ९४ ॥ अजन्यमस्त्रियामार्तिः उपलिङ्गं च पञ्चमम् । समावुत्पातोपसर्गौ वह्न्युत्पात उपाहितः ॥ ९५ ॥ त्रिलिङ्गास्तारकास्ताराऽक्लीबो भज्योतिषी ग्रहः । उडुरपुमान् नक्षत्रं धिष्ण्यमृक्ष,मथाश्विनी ॥ ९६ ॥ अश्वयुगश्वकिनी च बालिनी दस्रदेवता । यमदेवता द्वितीयं भरणी, कृत्तिका पुनः ॥ ९७ ॥ बहुलाः बहूक्तावग्निदेवास्तृतीयकम् । ब्राह्मी स्याद्रोहिणी, मार्गो मृगशीर्षं मृगस्तथा ॥ ९८ ॥ चान्द्रमसं मृगशिरोऽस्त्रियां, स्युः पञ्चतारकाः । इल्वलाः स्त्री मृगशीर्षमस्तकस्थाश्च कालिनी ॥ ९९ ॥ आर्द्रा रौद्री च, अथादित्यौ यामकौ तु पुनर्वसू । स्युः पुष्यतिष्यसिध्याश्च [च]स्तुर्थं गुरुदैवतम् ॥ १०० ॥ ;p{0058} अश्लेषा [अ]क्लीबः सार्प्पी च बहूक्तौ स्त्री मघाः पुनः । पित्र्याः स्युः, फाल्गुनी योनिदेवता,ऽर्यमदेवता ॥ १०१ ॥ उत्तराफाल्गुनी, हस्तः सोऽक्लीबः सूर्यदैवतः । चित्रा त्वाष्ट्री, तथा स्वातिरक्लीबोऽनिलदेवतः ॥ १०२ ॥ राधा विशाखा चैन्द्राग्निदेवा, मैत्री द्वितीयकम् । अनुराधा, ज्येष्ठा चैन्द्री, मूलोऽस्त्री राक्षसः पुमान् ॥ १०३ ॥ जलदेवः पूर्वाषाढो, उत्तराषाढाः तथा पुनः । वैश्वी स्यात्, श्रवणोऽक्लीबो हरिदेवो,ऽथ वासवी ॥ १०४ ॥ धनिष्ठाश्रविष्ठे छल्ये, शतभिषक् तु वारुणी । अजदेवी पूर्वभाद्रपदा उत्तरपूर्विका ॥ १०५ ॥ ;p{0059} भाद्रपदाऽहिर्बुध्नदेवा, प्रोष्ठपदा इति । द्वयोर्नक्षत्रयोरेकं नाम पौष्ण्यं नपुंसके ॥ १०६ ॥ रेवती, चन्द्रकामिन्यो दाक्षायण्यः पुनः समाः । मेषाद्या राशयस्तेषामुदयो लग्नमस्त्रियाम् ॥ १०७ ॥ ;c{इति सुराधिकारः ।} ;v{नारकाधिकारः} यात्याप्रेताः नारकाश्च परेता अतिवाहिकाः । विष्टिराजूः स्त्रियामेतौ, कारणा यातनापि च ॥ १०८ ॥ तीव्रवेदना,ऽथाक्लीबो दुर्गतिर्नरकः पुनः । नारको निरयो,ऽथ स्वाद्बलिवेश्म नपुंसकम् ॥ १०९ ॥ रसातलं नागलोकोऽधोलोकः वडवामुखम् । पाताल,मथो विवरं रोकं निम्नं बिलं वपा ॥ ११० ॥ अन्तरं शुषिरं रन्ध्रं छिद्रं निर्व्यथनं शुषिः । स्त्रीपुमानपरे रोपं कुहरं, कुहरे भुवः ॥ १११ ॥ गर्त्तोऽक्लीबोऽवटः श्वभ्रमगाधोश्च दरस्त्रिषु । रत्नप्रभादिमाः सन्ति भुवः सप्त जिनागमे ॥ ११२ ॥ ;c{इति नारकाधिकारः ।} ;v{शस्त्राधिकारः} पुरुषो मानवो भूस्पृक् मानुषो मनुजो नरः । मनुष्यः पुरुषो विट् ना मर्त्त्यः पञ्चजनः पुमान् ॥ ११३ ॥ ;p{0060} द्विजक्षत्रियवैश्यशूद्राश्चतस्रो नरजातयः । चातुर्वर्ण्यं, द्विजाः प्रोक्ताः पूज्यकाण्डे विशेषतः ॥ ११४ ॥ अथ द्वितीयको वर्णो वर्ण्यते शास्त्रदृष्टितः । राजन्यः क्षत्रियो बाहुसंभवः क्षत्रमस्त्रियाम् ॥ ११५ ॥ भूपालो लोकपालो राट् प्रजापालः क्षमापतिः । पार्थिवः पृथिवीशक्रो मूर्धाभिषिक्तभूभृतौ ॥ ११६ ॥ महीक्षिन्मध्यलोकेशो राजा,ऽथ मण्डलाधिपः । मध्यमः, स भवेत्सम्राट् यो भूपान् शास्ति सर्वतः ॥ ११७ ॥ योऽधिपः सर्वदेशस्य योऽयाक्षीद्राजसूयकम् । अधीश्वरश्चक्रवर्ती सार्वभौमो,ऽत्र भारते ॥ ११८ ॥ जिनागमेऽभवद्वादश ते भरतमुख्यकाः । मान्धाता धुन्धुमारश्च हरिश्चन्द्रः पुरूरवाः ॥ ११९ ॥ भरतः कार्तवीर्यश्च षडेते चक्रवर्तिनः । लोकप्रसिद्धनामानि तेषामेवं यथाक्रमम् ॥ १२० ॥ युवनाश्वजो मान्धाताम् धुन्धुमारो द्वितीयकम् । कुवलाश्वो,ऽथ त्रिशङ्कुजो हरिश्चन्द्र इत्यपि ॥ १२१ ॥ ;p{0061} उर्वशीरमणो बौधः ऐलो भूयः पुरूरवाः । सर्वदमो भरतश्च शकुन्तलात्मजस्तथा ॥ १२२ ॥ दौष्यन्ति,रर्जुनः कार्त्तवीर्यो भुजसहस्रभृत् । हैहेयो,ऽथ त्रिपृष्टाद्या अचलप्रमुखा नव ॥ १२३ ॥ वासुदेवबलदेवाश्वग्रीवादयः पुनः । प्रतिवासुदेवास्तेऽपि नव प्रोक्ता जिनागमे ॥ १२४ ॥ जिनानामृषभादीनां वीरान्तानां महात्मनाम् । चतुर्विंशत्या त्रिषष्टिः शलाकापुरुषाः समे ॥ १२५ ॥ रामो दशरथिः कौसल्यात्मज,स्तस्य कामिनी । जानकी मैथिली सीता धरणीतनया तथा ॥ १२६ ॥ वैदेही, रामतनयौ कुशलवौ कुशीलवौ । अभिन्नोक्त्या,ऽथ सौमित्रीलक्ष्मणौ, वालिवालिनौ ॥ १२७ ॥ इन्द्रसुतो,ऽथ सुग्रीव आदित्यनुसूप्यथ । मारुतिराञ्जनेयश्च हनुमानर्जुनध्वजः ॥ १२८ ॥ वज्रकङ्कटकेशरिसुतौ, स्याद्दशकन्धरः । राक्षसो लङ्केशश्च पौलस्त्यो रावणस्तथा ॥ १२९ ॥ ;p{0062} मन्दोदरीसुतो मेघनादो रावणिरिन्द्रजित् । युधिष्ठिरो धर्मपुत्रः कङ्कः शल्यारिरित्यपि ॥ १३० ॥ अजमीढोऽजातशत्रुः, भीमो बकनिसूदनः । वृकोदरो मरुत्पुत्रः स्याद्धिडिम्बनिसूदनः ॥ १३१ ॥ किर्मीरारिः कीचकारिः, सुभद्रेशो धनंजयः । राधावेधी सव्यसाची किरीटी नन्तिमास्त्रयः ॥ १३२ ॥ ऐन्द्रिर्बृहन्नटो जिष्णुः स्युः पार्थार्जुनफाल्गुनाः । कपिध्वजो गुडाकेशो योगी श्वेतहयो नरः ॥ १३३ ॥ कृष्णपक्षश्चित्रयोधी विजयः कर्णजित्पुनः । बीभत्सुर्धन्वी चित्राङ्गसूदनो,ऽस्य रथः स्मृतः ॥ १३४ ॥ नन्दिघोषो, धनुर्गाण्डीवं गाण्डीवोऽस्त्रियौ मतौ । सहदेवो ग्रन्थिकः स्यात्, नकुलस्तन्तिपालकः ॥ १३५ ॥ माद्रेयाविमा,वितरे भीमार्जुनयुधिष्ठिराः । कौन्तेयाश्च, द्वयेऽथैते पाण्डवाः पाण्डवायनाः ॥ १३६ ॥ पाण्डवेया, अथ कृष्णा द्रौपदी नित्ययौवना । याज्ञसेनी च सैरन्ध्री पाञ्चाली यज्ञवेदिजा ॥ १३७ ॥ ;p{0063} चम्पाधिपश्च राधेयः सूतार्कतनयोऽङ्गराट् । कर्ण,स्तस्य धनुः कालपृष्ठं भूपा इमे समे ॥ १३८ ॥ पृथुरादिराजो वैन्यः प्रसिद्धः शिवशासने । श्रेणिकाद्यास्तु कुमारपालान्ता जिनशासने ॥ १३९ ॥ राजवंश्यो राजबीजी, वंश्यो बीज्यश्च कथ्यते । वंशजाते,ऽथ सप्त स्युः प्रकृतयो यथाक्रमम् ॥ १४० ॥ राजा मन्त्री मित्रं कोशः देशः कोटो बलं तथा । कथ्यते, प्रकृतयोऽपि समेऽपि पुरवासिनः ॥ १४१ ॥ या स्वदेशस्य चिन्ता स्याद्रक्षणे तन्त्रमुच्यते । आवापः शत्रुदेशस्य संध्यादिगुणषट्कतः ॥ १४२ ॥ तन्त्रं तथोपकरणं परिबर्हः परिच्छदः । परिस्यन्दः परिकरः परिवारः परिग्रहः ॥ १४३ ॥ भूपासनं भवेद्भद्रासनं, स्वर्णमयं पुनः । सिंहासनं, राजशय्या महाशय्या उभे समे ॥ १४४ ॥ ;p{0064} आतपवारणं छत्रं, त्रिषु चमरचामरे । प्रकीर्णकं रोगगुच्छो वालव्यजनमप्य,थ ॥ १४५ ॥ स्थगीर्वतश्च(?) ताम्बूलकरकः, कनकालुका । भृङ्गारो,ऽथ पूर्णकुम्भो भद्रकुम्भं, पदासनम् ॥ १४६ ॥ पादपीठमथो मन्त्री सचिवः सामवायिकः । अमात्यो धीसखो,ऽथ स्यादायुक्तो व्यापृतः पुनः ॥ १४७ ॥ कर्मसचिवो नियोगी, प्राड्विवाकः स उच्यते । यो द्रष्टा व्यवहाराणामक्षदर्शक इत्यपि ॥ १४८ ॥ प्रधानानि महामात्राः, सौवस्तिकपुरोहितौ । पुरोधाः, दण्डी द्वारस्थः द्वास्थो वेत्रधरोऽपि च ॥ १४९ ॥ दौवारिकः प्रतीहारो क्षत्ताअ द्वाःस्थितिदर्शकः । द्वारपालक उत्सारकः, स्यादधिकृतः पुनः ॥ १५० ॥ अध्यक्षो,ऽथानीकस्थः स्यादङ्गरक्षकसंततौ । सूदा[ध्य]क्षः पौरोगवः सूपः सूदश्च बल्लवः ॥ १५१ ॥ ;p{0065} औदनिकः सूपकरो गुण आरालिकस्तथा । भक्तकारो,ऽथ भौरिकः यः कनकाध्यक्षो भवेत् ॥ १५२ ॥ नैष्किको रूप्याध्यश्च, स्थानाध्यक्षस्तु स्थनिकः । शौल्किकः शुल्काध्यक्षः स्यात्, देयं घट्टादि स्फुटम् ॥ १५३ ॥ स शुल्कोऽस्त्री, धर्माध्यक्षो धर्माधिकरणी पुनः । धार्मिको, हट्टाध्यक्षोऽधिकर्मिको, दण्डनायकः ॥ १५४ ॥ सेनानीश्चतुरङ्गबलाध्यक्षः, स्थागुरुः स च । ग्रामेऽधिकृतो, बहुषु ग्रामेषु गोप उच्यते ॥ १५५ ॥ योऽन्तःपुराधिकारी स्यादन्तर्वंशिक उच्यते । अवरोधिको.ऽथो कोट्टपतिः स्याद्दण्डपाशिकः ॥ १५६ ॥ पुराध्यक्षः पौरिकोऽपि, स भवेत्पारिकर्मिकः । क्षुद्रोपरकरणानां योऽधिकारी, चावरोधनम् ॥ १५७ ॥ ;p{0066} शुद्धान्तोऽस्त्रियामन्तःपुरमवरोध इत्यथ । सौविदाः सौविदल्लास्ते ये चान्तःपुररक्षकाः ॥ १५८ ॥ स्थापत्याः कञ्चुकिनोऽपि कुब्जवामनमुख्यकाः । षण्ढो वर्षवरश्चायमप्यन्तःपुरपालकः ॥ १५९ ॥ जिघांसुः शात्रवः प्रत्यवस्थाताऽसहनो रिपुः । अभियातिः प्रत्यनीको दस्युर्द्वेषी द्विषन्नरिः ॥ १६० ॥ आरातिरहितोऽमित्रः पुमान् प्रत्यर्थिवैरिणौ । अभिमातिर्विपक्षो द्विट् सपत्नः परिपन्थिकः ॥ १६१ ॥ परिपन्थकः दुर्हृच्छत्रुः प्रतिपक्षः परस्तथा । विद्वेषो विरोधो वैरं, मित्रं स्यात्सवयाः सखा ॥ १६२ ॥ सुहृत् सहचरः स्निग्धो वयस्यो,ऽजर्यसौहृदे । स्थान्मैत्री सौहार्द साप्तपदीनं संगतं पुनः ॥ १६३ ॥ सख्य,मानन्दनं चाऽपृच्छनं सभाजनं तथा । विषयादन्तरो राट् शत्रु,र्मित्रमतः परम् ॥ १६४ ॥ ;p{0067} उदासीनः परतरः, पार्ष्णिग्राहस्तु पृष्ठतः । अनुरोधोऽनुवृत्तिश्च, चरश्चारस्तु हेरिकः ॥ १६५ ॥ यथार्हवर्णः प्रणिधिर्मन्त्रविद् गूढपूरुषः । अवस्पर्शो स्पशो वार्तायनः, प्रत्ययितस्त्रिषु ॥ १६६ ॥ आप्तो, गृहपतिः सत्री, दूतः संदेशहारकः । गुणाः संध्यादयः षट् च तेषामर्थः क्रमादयम् ॥ १६७ ॥ संधिरेकत्वकरणं, स्वस्थानात्परमण्डले । करणं दाहलोपादेर्विग्रहः स निगद्यते ॥ १६८ ॥ स्याद्यानं प्रतियात्रा, तथाऽऽसनं विग्रहच्युतिः । एकत्र सन्धिरन्यत्र यानं द्वैधं निगद्यते ॥ १६९ ॥ बलिनः शक्त्याश्रयणमाश्रयः षड्गुणा अमी । राज्योपकारकास्त्रिस्रः प्रभुत्वोत्साहमन्त्रजाः ॥ १७० ॥ ;p{0068} शक्तयो,ऽथ सामदानभेददण्डा अमी खलु । उपायाः, सान्त्वनं सामोक्तिर्यत्प्रियभाषणम् ॥ १७१ ॥ भेदस्तथोपजापः स युतयोर्भेदनं हि यत् । दण्डोऽस्त्रिया[मथ] क्लीबे अपरं [तु साहसं] दमः ॥ १७२ ॥ स प्रतापः प्रभावोऽपि तेजो यत्कोशदण्डजम् । सोपधा या परीक्षा च धर्मार्थकामैः स्याद्भिया ॥ १७३ ॥ एकान्ते मन्त्रणं मन्त्रो,ऽषडक्षीणं तदुच्यते । मन्त्रक्रीडादि न ज्ञातं तृतीयप्रमुखेण यत् ॥ १७४ ॥ अथ स्यात्प्राभृतं कौशलिकं त्वामिषमस्त्रियाम् । लञ्चाक्लीब उपचार उत्कोचो ढौकनं तथा ॥ १७५ ॥ उपप्रदानमुपदोपह्वारोपायने समे । उपग्राह्योऽथेन्द्रजालं मायाऽपेक्षा अमी त्रयः ॥ १७६ ॥ उपाया अल्पा, अक्लीबे भागधेयः करो बलिः । द्विगुणो दण्डो द्विपाद्यो, बलं सेना [प]ताकिनी ॥ १७७ ॥ ;p{0069} कटकानीकचक्राणि सदण्डान्यस्त्रियां चमूः । अस्त्रियां स्कन्धावारो भूयः सैन्यं तन्त्रमनीकिनी ॥ १७८ ॥ वरूथिनी ध्वजिनी च वाहिनी पृतना,ऽस्याः स्थितिः । शिबिरं, रचना व्यूहो[स चा]नेकविधो युधि ॥ १७९ ॥ दण्डव्यूहचक्रव्यूहशकटव्यूहनामभिः । गरुडव्यूहनामाऽ,थ प्रत्यासारो द्वितीयकम् ॥ १८० ॥ व्यूहपार्ष्णिरपि, सैन्यपृष्ठे प्रोक्तः प्रतिग्रहः । एकद्विपा चैकरथा त्र्यश्वा पञ्च पदातयः ॥ १८१ ॥ पत्तिः, स्यात्त्रिगुणा चैवं क्रमेण विहिता सती । सेना सेनामुखं गुल्मोऽस्त्रियां स्याद्वाहिनी ततः ॥ १८२ ॥ पृतना चमूरनीकिनी चाक्षौहिणी दश गुणा । ततः अनीकिनी भवेदक्षौहिणी सेना यदाहवे ॥ १८३ ॥ स्यात्सेनाऽक्षौहिणी नाम खागाष्टैकद्विकैर्गजैः । रथैश्चैभ्यो हयैस्त्रिघ्नैः पञ्चघ्नैश्च पदातिभिः ॥ १८४ ॥ उपरक्षणं द्वितीयं सज्जनं स्यात्, ध्वजोऽस्त्रियाम् । केतुः [पुन]र्वैजयन्ती पताका केतनं तथा ॥ १८५ ॥ ;p{0070} अस्योर्ध्वं स्थित उच्चूलो,ऽवचूलोऽधोमुखः स्थितः । कूर्चः, स्यादथ सेनाङ्गं गजवाजिरथैस्तथा ॥ १८६ ॥ पत्तिभिश्च चतुर्भेदं, युद्धहेतौ च चक्रिणि । याने शताङ्गं स्यन्दनो रथोऽक्लीबो भवेदसौ ॥ १८७ ॥ पुष्परथो रमणार्थं नियुक्तो,ऽथ मरुद्रथः । देवार्थो,ऽथ शस्त्राभ्यासरथो वैनयिकः पुनः ॥ १८८ ॥ यः स्याद्रथो मार्गरथः कथ्यते पारियानिकः । कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥ १८९ ॥ शकटस्त्रिलिङ्गोऽस्त्री तु परेऽनः स्यान्नपुंसके । गन्त्री कम्बलि वाह्यं स्यादस्त्री, वास्त्रादयो रथाः ॥ १९० ॥ तैस्तैराच्छादिताः, पाण्डुकम्बली स निगद्यते । पाण्डुकम्बलैराच्छादितो, द्वैपस्तु यो वृतः ॥ १९१ ॥ द्वैपेन चर्मणा, वैयाघ्रश्च वैयाघ्रचर्मणा । चक्रमस्त्री रथाङ्गं रथपादोऽरिषण्डके ॥ १९२ ॥ ;p{0071} धारा प्रधिरस्य नेमिः स्त्रिया,माणिरणिः पुनः । अक्लीबावक्षाग्रकीलः, नाभिः स्त्री पिण्डिका तथा ॥ १९३ ॥ युगंधरकूबरौ द्वावस्त्रियौ, शम्याः युगकीलक एव यः । ............................................... ॥ १९४ ॥ युगान्तरं स्यात्प्रासङ्गो,ऽधस्थदारु च यद्रथे । अनुकर्षः स विज्ञेयो धूधूर्वी द्वौ स्त्रियौ पुनः ॥ १९५ ॥ यानमुखं, वरूथोऽस्त्री रथगुप्ति,रपस्कराः । रथाङ्गानि, याप्ययानं शिबिका, दोला [च] सा मता ॥ १९६ ॥ प्रेङ्खाप्रभृतिर्याऽस्त्यत्र, शिबिकाप्रमुखं हि यत् । परंपरावाहनं च तद्वैनीतकमस्त्रियाम् ॥ १९७ ॥ वह्यं वाह्यं यानं युग्यं वाहनं प्रत्रमस्त्रियाम् । धोरणं चा,थ नियन्ता प्राजिता सूतसारथी ॥ १९८ ॥ क्षत्ता प्रवेत्ता सव्येष्ठा यन्ता रथकुटुम्बिकः । दक्षिणस्थो, रथे योद्धा रथरोही रथी पुनः ॥ १९९ ॥ ;p{0072} रथी रथिकरथिरौ, सादी तुरगीनन्तकः । अश्वारोहोऽश्ववारश्च, यन्तृसादिनिषादिनः ॥ २०० ॥ हस्त्यारोहो महामात्रो, हस्तिपकेभपालकौ । गजाजीवाधोरणौ चत्वारोऽमी तु किङ्कराः ॥ २०१ ॥ मण्ठो देश्यां, भटा योधा योद्धारोप्यथ, सैनिकाः । सेनारक्षा, मिलिता ये सेनानां सैनिकाः पुनः ॥ २०२ ॥ सैन्याः, सहस्रिणः साहस्रास्ते योद्धार आदृताः । सहस्रेण समं ये तु, छत्रधारः स चादृतः ॥ २०३ ॥ छायाकरो,ऽथ पताकी द्वितीयं वैजयन्तिकः । परिधिस्थः परिचरः, प्रतिमुक्तस्तथा आङ्परः ॥ २०४ ॥ उक्तोऽपिनद्धः पिनद्धो,ऽथ सज्जो व्यूढकङ्कटः । सन्नद्धो दंशितो वर्मितो,ऽथ वर्म्म नपुंसके ॥ २०५ ॥ माठी वमश्च सन्नाहो दंशः कवचमस्त्रियाम् । उरश्छदस्तनुत्रं च जगरः कङ्कटस्तथा ॥ २०६ ॥ ;p{0073} अस्त्रियां कञ्चुको वारवाणश्चापि निचोलकः । कूर्पासो,ऽथ सारसनमधिका[ङ्गं] तथाऽस्त्रियाम् ॥ २०७ ॥ सकञ्चुका धरन्तीह हृदये यत्तदुच्यते । शिरस्कं शीर्षकं शीर्षण्यं शिरस्राणमित्यपि ॥ २०८ ॥ उदरत्राणनागोदौ, बाहुलं बाहुरक्षणम् । मत्कुणं जङ्घात्राणं स्या,दायसी त्वङ्गरक्षणी ॥ २०९ ॥ जालिका तु जालप्राया, आयुधीयः शस्त्रजीवोऽपि । आयुधिकः काण्डपृष्ठः, कौन्तिकः प्रासिकः पुनः ॥ २१० ॥ परश्वधायुधः पारश्वधिको द्वितीयं तथा । पारश्वधो,ऽथ शाक्तीको, याष्टीकः शक्तियष्टिभृत् ॥ २११ ॥ क्रमान्नैस्त्रिंशकोऽप्येवं, धानुष्को धनुभृत्तथा । तूणी नन्तश्च काण्डीरः काण्डवान्, यः शराणि हि ॥ २१२ ॥ ;p{0074} सुप्रयुङ्क्ते कृतहस्तः कृतपुङ्खः स उच्यते । लघुहस्तः शीघ्रवेधी, सोऽपराद्धेषुरुच्यते ॥ २१३ ॥ लक्षतो भ्रष्टबाणो यो, दूरवेधी च नन्तकौ । दूरापाती, प्रहरणं हेतिरायुधमस्त्रियाम् ॥ २१४ ॥ शस्त्रमपुमानस्त्रं, चतुर्भेदं हि तद्भवेत् । पाणियन्त्रप्रभेदेन द्विधा मुक्तं [नि]गद्यते ॥ २१५ ॥ शक्त्यादिकं पाणिमुक्तं यन्त्रमुक्तं शरादिकम् । अमुक्तं शस्त्रिप्रमुखं मुक्तामुक्तं भवेदिह ॥ २१६ ॥ यष्टिप्रभृतिकं सर्वं, धनुरस्त्री च कार्मुकम् । आसः कोदण्डमिष्वासश्चापस्तेऽप्यस्त्रियां मताः ॥ २१७ ॥ धनुः क्लीबे द्रुणमस्त्र,मस्य मध्यं च लस्तकः । कोटिरर्त्तिरटिनी च, जीवा ज्या सञ्जिनी द्रुणा ॥ २१८ ॥ गव्याऽपुमान् गुणो मौर्वी शिञ्जा बाणासनं, तलम् । अपुमान् गोधा ज्याघातवारणं, मण्डलं तथा ॥ २१९ ॥ आलीढं प्रत्यालीढं च वैशाखं समपादकम् । पञ्चस्थानानि बाणस्य मोचनावसरे तथा ॥ २२० ॥ ;p{0075} क्लीबे पञ्चापि केऽप्याहुरस्त्रियामिति तद्विदः । शरव्यकं लक्षं लक्ष्यं वेध्यं निमित्तमित्यपि ॥ २२१ ॥ शिलीमुखश्च मार्गणः शरोऽस्त्रियामजिह्मगः । कलम्बसायकौ समौ खगश्च काण्डमस्त्रियाम् ॥ २२२ ॥ बाणोऽस्त्रियां चित्रपुङ्खः पत्त्री रोप इषुस्त्रिषु । पृषत्कविशिखौ गार्ध्रपक्षः प्रदर आशुगः ॥ २२३ ॥ पत्त्रवाहः कङ्कपत्त्रो लक्षहा मर्मभेदनः । वारोऽस्त्रकण्टको वीरशङ्कुः कादम्ब इत्यपि ॥ २२४ ॥ नाराच एषणः सर्वलोहः प्रक्ष्वेडनः पुनः । स्यादस्त्रसायको लोहनालो, [मुक्तो निरस्तकः] ॥ २२५ ॥ [शरः स्याद्], विषसंयुक्तो दिग्धो लिप्तः पुनः स च । व्यवच्छेदो बाणमोक्षो, दीप्तिः शरजवस्य यत् ॥ २२६ ॥ तीव्रत्वं, क्षुरप्रतीरी तद्बलार्धेन्दुमुख्यकाः । तस्य भेदाः, वाजः पक्षः, शरस्योपरि पत्त्रणा ॥ २२७ ॥ पक्षरचना या, पुङ्खोऽस्त्रियां स्यात्कर्तरी पुनः । शरधिः पुमान् तूणीरः तूणस्त्रिषु शराश्रयः ॥ २२८ ॥ ;p{0076} कलापो निषङ्ग उपासङ्गो,ऽथासिः पुमांस्तथा । तरवारिरपि द्वौ च ऋष्टिरीष्टी अषण्डकौ ॥ २२९ ॥ कौक्षेयको मण्डलाग्रो व्यवहारः प्रजाकरः । चन्द्रहासः करवालस्तीक्ष्णकर्मा [दु]रासदः ॥ २३० ॥ कृपाणः खड्गनिस्त्रिंशौ मनुज्येष्ठः शिवंकरः । धर्मपालः करपालो धाराधरो विषाग्रजः ॥ २३१ ॥ शास्ता क्षरः स्याच्छ्रीगर्भो विजयश्च करालिकः । चन्द्रभासस्तीक्ष्णधारो देवः प्रसङ्गसायकौ ॥ २३२ ॥ धाराङ्गो रुद्रतनयो विशसनश्च धर्मतः । प्रचारो,ऽथ त्सरुः खड्गमुष्टौ स तु पुमान,थ ॥ २३३ ॥ कोशस्त्रिषु परीवारप्रत्याकारौ समौ पुनः । खड्गपिधानं, फलमस्त्री फरकमित्यपि ॥ २३४ ॥ खेटोऽस्त्री चर्मावरणं स्फुरः स्यादड्डनं तथा । संग्राहो मुष्टिरस्याति, क्षुरी शस्त्री कृपाणिका ॥ २३५ ॥ असिपुत्रीच्छुरी कोशशायिका पत्रधेनुका । असिधेनुः, सा तु दीर्घा पत्रपाली निगद्यते ॥ २३६ ॥ ;p{0077} हुलमातृका कुट्टन्ती स्यात् पत्रफलताप्य,थ । दण्डोऽस्त्री लगुडो यष्टिरक्लीबः, करवालिका ॥ २३७ ॥ ईली, सृगो भिन्दिपालः, कुन्तः प्रासो,ऽथ मुद्गरः । अक्लीबो घनो द्रुघणः, कुठारोऽक्लीबकः पुनः ॥ २३८ ॥ स्वधितिः पर्श्वधः पर्शुः परशुश्च परश्वधः । परिघातनः परिघः, तोमरोऽस्त्री च सर्वला ॥ २३९ ॥ अस्त्रियां शल्यं भूयोपि पुमान् शङ्कु,स्त्रिशीर्षकम् । शूलमस्त्री, तथा चक्रशक्तिदुस्फोटपट्टिशाः ॥ २४० ॥ शतघ्नी महाशिला च भुषुण्ढी चिरकादयः । शस्त्रजातयोऽनेकाः स्युर्ज्ञेयास्ता अन्यतः समाः ॥ २४१ ॥ ;c{इति शस्त्राधिकारः ।} ;v{क्षत्रियाधिकारः} योग्याऽभ्यासः श्रमो भूयः खुरली शराभ्यासकः । उपासनं, तधाभ्यासधरणी स्यात् खलूरिका ॥ २४२ ॥ सर्वौघः सर्वाभिसारः सर्वसन्नहनं तथा । पूर्वे नीराजनाद्राज्ञां शास्त्रोक्तो यो विधिर्भवेत् ॥ २४३ ॥ ;p{0078} लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनं विधिः । ..................................... ॥ २४४ ॥ प्रणायकं यात्रा व्रज्या प्रस्थानं गमनं पुनः । अभिनिर्याणं, स्याच्छत्रोः सेनयाऽभिगमश्च यः ॥ २४५ ॥ अभिषेणनमासारः सुहृत्सैन्यं तु पृष्ठतः । गच्छत्, प्रचक्रं चलितं सैन्यं, प्रसारस्तद्भवेत् ॥ २४६ ॥ तृणकाष्ठादिनिमित्तं गमनं सैन्यतो बहिः । निर्णीतस्य शत्रून् [प्रति] रणे गतिरभिक्रमः ॥ २४७ ॥ योऽलंगामी प्रतिशत्रूनभ्यमित्र्यः स उच्यते । अभ्यमित्रीयोऽभ्यमित्रीणो,ऽपुरस्वान् पुनः स च ॥ २४८ ॥ उरसिल, ऊर्जस्वलः ऊर्जस्वीयो, रणे भवेत् । साधुः सांयुगीनो, जेता जित्वरो जिष्णुरित्यपि ॥ २४९ ॥ यो जेतुं शक्यते जय्यो, अन्यो जेयः सौखसुप्तिकाः । वैतालिकाः बोधकरा अर्थिका अपरे पुनः ॥ २५० ॥ पण्डिता स्वकृता बाहुः(?) राज्ञोऽवसरपाठकाः । चाक्रिकाः घाण्टिकाः, बन्दी नन्तो मङ्गलपाठकः ॥ २५१ ॥ ;p{0079} सूतो,ऽथ मगधो मागधो, स्युर्युद्धानिवर्त्तिनः । संशप्तका, अथ नग्नो जरद्वस्त्रधरोऽत्र यः ॥ २५२ ॥ बन्दी स्तुतिव्रतस्तस्य, ग्रन्थो भोगावली तथा । संस्फोटः कलहो युद्धं सङ्ग्रामः साम्परायिकम् ॥ २५३ ॥ संयुगं त्वस्त्रियां संगरो विगहः सम्परायोऽस्त्रियामाहवायोधने । सम्प्रहारो रणोऽस्त्री समीकं कलिः स्यात्पुमान् सङ्ख्यमस्त्री मृधं युत्सितम् ॥ २५४ ॥ स्रग्विणीमस्त्रियां(?) राटिः स्त्री संयच्च नपुंसके । केचित्स्त्रियामिति द्वन्द्वं जन्यं समरस्त्रियाम् ॥ २५५ ॥ आजिः स्त्री समितिरभ्यामर्दः प्रहरणं पुनः । अभिसम्पातसंमर्दप्रघाताऽऽस्कन्दना[नि] च ॥ २५६ ॥ अभ्यागमः समुदयः समुदायः समाह्वयः । सघनं च समाघातः आक्रन्दः प्रविदारणम् ॥ २५७ ॥ नियुद्धं भुजसम्भूतं, पटहाडम्बरावुभौ । अस्त्रियां तुमुलं युद्धसंकुलं, त्वग्रयानकम् ॥ २५८ ॥ नासीरमपुमानस्त्री केचि,त्पीडनमस्य च । अवमर्दोऽपि, प्रपातो धाट्यभ्यासादने पुनः ॥ २५९ ॥ ;p{0080} अभ्यवस्कन्दो, यामिन्यां सौप्तिकं स निगद्यते । रणरुद्रभूमिर्वीराशंसनं च, नियुद्धभूः ॥ २६० ॥ आजवाटो, रणे मोहो मूर्च्छा स्यात्कश्मलं पुनः । रणे भाविन् जाते वा यत्पानं वीरपाणकम् ॥ २६१ ॥ संदावविद्रवौ प्रद्रावः संद्रावो द्रवः पुनः । उद्रावोऽपक्रमोऽपयानं पलायनमित्यपि ॥ २६२ ॥ जयश्च विजयो, युद्धे यो भङ्गः स पराजयः । डमरो डिम्बोऽस्त्रियां च शृगालिविप्लवौ समौ ॥ २६३ ॥ वैरशुद्धिर्वैरनिर्यातनं वैरप्रतिक्रिया । पराजितः पराभूतो परिभूतो जितः पुनः ॥ २६४ ॥ भग्नोऽभिभूतो,ऽथ नष्टो गृहीतदिक् पलायितः । तिरोहितो, जितकाशी जिताहवो रणे जितः ॥ २६५ ॥ ;p{0081} अथ स्यात्पतितो भूयः प्रस्कन्नी, गुप्तिचारकौ । काराऽथ ग्रहको बन्दी प्रग्रहोपग्रहौ समौ ॥ २६६ ॥ ;c{समाप्तः क्षत्रियाधिकारः ।} ;v{शूद्राधिकारः} ऊरव्या ऊरुजा वैश्या अर्या भूमिस्पृशो विशः । वाणिज्यं पाशुपाल्यं च कृषिस्तिस्रश्च वृत्तयः ॥ २६७ ॥ जीविका वेतनं वृत्तिर्वार्ता जीवनमित्यपि । आजीव, उञ्छोऽस्त्री धान्यकणादानं, शिलं पुनः ॥ २६८ ॥ कणिशादिग्रहः, कृषिर्मृतं प्रमृतमन्ये । याचितमृतमप्यथ .......................... ॥ २६९ ॥ अमृतं त्वयाचितं स्या,दुदिता सा श्वजीविका । सेवावृत्तिः, वाणिज्यं वाणिज्या त्वपुमान् पुनः ॥ २७० ॥ ;p{0082} सत्यानृत,मथो पण्याजीव आपणिको वणिक् । क्रयविक्रयिकस्सार्थवाहो वैदेहनैगमौ ॥ २७१ ॥ वाणिजो,ऽथ क्रयी क्रायिकः क्रयीको,ऽथ विक्रयी । विक्रायिको विक्रयिकः क्रेयदो,ऽवक्रयः पुनः ॥ २७२ ॥ वस्नोऽस्त्रियां मूल्यमर्घो भाटकं पञ्चमं [तथा] । नीवी परिपणो मूलद्रव्यं, लाभोऽधिकं फलम् ॥ २७३ ॥ परावर्तो व्यतिहारो वैमेयः परिवर्तनम् । परिदानं विनिमयो नैमेयो नियमो,प्यथ ॥ २७४ ॥ उपनिधिः स्यान्निक्षेपो न्यासो,ऽथास्यार्पणं पुनः । प्रतिदानं परिदान,मन्ये क्रेयं तदुच्यते ॥ २७५ ॥ क्रेतव्यमात्रकं, यच्च स्थापितं यत् क्रयाय तु । क्रय्य,मथो पणितव्यं पण्यं विक्रेयमप्य,थ ॥ २७६ ॥ सत्याकृतिः सत्यङ्कारः सत्यापनं च विक्रयः । विपणो, गण्यं संख्येयं गणेयं, संख्या सा भवेत् ॥ २७७ ॥ ;p{0083} एकादिर्या वाच्यलिङ्गा पञ्चाद्यष्टा[द]शान्तिमा । अलिङ्गा एकोनविंशत्याद्या पूर्वं शताच्च या ॥ २७८ ॥ स्त्रीलिङ्गाष्टदशम्यो या संख्या संख्येयगोचरा । एकाद्या परतः संख्या संख्यासंख्येयवाचिका ॥ २७९ ॥ जिनानां विंशतिः सार्वाः विंशतिश्च तथा हि सा । एकादशगुणो दशेत्यादिरीत्याऽयमोत्तरम् ॥ २८० ॥ शतं सहस्रमयुतमस्त्रियां स्युरमी त्रयः । लक्षमपुमान् प्रयुतमस्त्री कोटिः स्त्रियां पुनः ॥ २८१ ॥ अर्बुदमस्त्री चाब्जखर्वनिखर्वाणि षण्ढके त्रीणि । क्लीबे महाम्बुजं स्थाच्छङ्कुरषण्ढः पुमान् वार्धिः ॥ २८२ ॥ अन्त्यमध्यपरार्धानि भवन्त्येतानि नामतः । सांयात्रिको यानपात्रवाणिजो,ऽथ वहित्रकम् ॥ २८३ ॥ यानपात्रं [च] बोहित्थं पोतो वहनमप्य,थ । नियामकः पोतवाहो निर्यामो नाविकः पुनः ॥ २८४ ॥ कर्णधारो, मङ्गिनी नौ स्त्रियां बेडा तरीत्यपि । तरिणी, द्रोणी काष्ठाम्बुवाहिनी, क्षेपणी च सा ॥ २८५ ॥ नौकादण्डः, कूपकस्तु गुणवृक्षो,ऽथ नावि ये । मध्यदण्डाः स्युः पोलिन्दाः, मङ्गो नौमस्तकं पुमान् ॥ २८६ ॥ ;p{0084} अभ्रिः स्त्री काष्ठकुद्दालः, सेचनं सेकपात्रकम् । अरित्रं केनिपातश्च कोटिपात्र,मथोडुपः ॥ २८७ ॥ तरण्डो द्वावस्त्रियौ स्तः कोलाभेलप्लवाः समाः । तरमूल्यमातरः स्यात्, वृद्ध्याजीवः कुसीदकः ॥ २८८ ॥ वार्द्धुषिको द्वैगुणिको वार्द्धुषि,र्वृद्धजीवने । कुसीदोऽर्थप्रयोगश्च, वृद्धिः कलान्तरं पुनः ॥ २८९ ॥ पर्युदञ्चनमुद्धार ऋणं, याचितकं हि तत् । प्राप्तं याचनतो यच्च, तदाऽऽहुरापमित्यकम् ॥ २९० ॥ परिवृत्य गृहीतं यद्, ग्राहकः स्यादृणस्य यः । अधमर्णो, दायकश्चोत्तमर्णो,ऽथ निगद्यते ॥ २९१ ॥ लग्नकः प्रतिभूः स्थेयः समौ प्राश्निकसाक्षिणौ । मध्यस्थो,ऽथ मृषासाक्ष्ये कूटसाक्षी तथा पुनः ॥ २९२ ॥ ;p{0085} दुष्टसाक्षिणि सूची च, बन्धक आधिरप्य,थ । पौतवं, द्रुवयं, पाय्यं त्रिधा मानमुदाहृतम् ॥ २९३ ॥ तुलाप्रभृतिभिर्भूयः कूडवाद्यैः करादिभिः । क्रमाद्विज्ञेयं तत्रादौ माषकोस्त्री, स पञ्च च ॥ २९४ ॥ गुञ्जा, कर्षोऽस्त्रियामक्षः, माषा[णां] षोडश स्यात्, पलम् । अस्त्री, कर्षाश्चत्वारो,ऽथ विस्तः सुवर्ण इत्यपि ॥ २९५ ॥ कनकाक्षे, कुरुविस्तः पले कनकसम्भवे । पलशतं तुला, भारो विंशतिस्ताश्च शाकटः ॥ २९६ ॥ शाकटीनः शालाटश्च आचितो,ऽथ दशाचितः । भागः, प्रस्थोऽस्त्रियां चत्वारः कुडवास्त एव च ॥ २९७ ॥ आढकस्त्रिषु, ते चत्वारो द्रोणः कथितोऽस्त्रियाम् । द्रोणाः षोडश खारी, स्याच्चतुर्विंशतिरङ्गुलाः ॥ २९८ ॥ ;p{0086} हस्ताः, दण्डश्चतुर्हस्तो, गव्यूतं क्रोश एव सः । यद्दण्डसहस्रयुग्मं, क्रोशयुग्मं हि गोरुतम् ॥ २९९ ॥ गव्यूतिरक्लीबो गव्या गव्यूतं, योजनं पुनः । चतुष्क्रोशं, जीववृत्तिः पाशुपाल्यं गवीश्वरः ॥ ३०० ॥ गोमी गोमान,थो गोपो गोधुग्गोपालबल्लवाः । गोसंख्याऽऽभीरो, गोषु स्याद्गोविन्दोऽधिकृतो हि यः ॥ ३०१ ॥ अजजीवको जाबालो, हली क्षेत्री कृषीवलः । कुटुम्बी कृषिकः कार्षकः कर्षको, हलिः पुनः ॥ ३०२ ॥ जित्या, सीरो हलं द्वौ चास्त्रियां गोदारणं तथा । लाङ्गलमीषा तद्दण्डः, सीता स्यात्तस्य पद्धतिः ॥ ३०३ ॥ कुटकमनीषे, दात्रं लवित्रं, वण्ट उच्यते । तन्मुष्टिः, समीकरणे मत्यं, गोदारणं पुनः ॥ ३०४ ॥ ;p{0087} कुद्दालोऽथ खनित्रं स्यादवदारणमप्य,[थ] । फालः फलं कुशिकश्च कृषक,स्तोत्रतोदने ॥ ३०५ ॥ प्रवयणं स्यात्प्रतोदः प्राजनं, लोष्टभेदनः । कोटिशो, योत्रयोक्त्रे चाबन्धो गोबन्धदारु यत् ॥ ३०६ ॥ खलेऽक्लीबो मेधिमेथी खलेवाली, जघन्यजः । शूद्रः पज्जो वृषलश्चान्त्यवर्णः पद्य इत्यपि ॥ ३०७ ॥ द्वादशभेदाः एवं स्युरथैषां मिश्रजातयः । मूर्द्धावसिक्तो जातोऽसौ क्षत्रियायां तु वाडवात् ॥ ३०८ ॥ अम्बष्ठो वैश्यकामिन्यां, शूद्रयोषित्युभौ तथा । पारशवो निषादश्च, वैश्यस्त्रियां तु क्षत्रतः ॥ ३०९ ॥ माहिष्यः, शूद्रकामिन्यामुग्रः, करणो वैश्यतः । वैश्यनार्यामायोगवः शूद्रतः, क्षत्रियस्त्रियाम् ॥ ३१० ॥ ;p{0088} क्षत्ता, विप्रस्त्रियां चण्डालो, मागधश्च वैश्यतः । क्षत्रनार्यां विप्रनार्यां वैदेहिकः, स्यात् क्षत्रियात् ॥ ३११ ॥ सूतो ब्राह्मणकामिन्यां, करण्यां रथकारकः । माहिष्या[द],थ प्रकृतिः कारुश्च कारिशिल्पिनौ ॥ ३१२ ॥ श्रेणिरक्लीबः कारूणां गणः, शिल्पं कला पुनः । विज्ञानं, मालाकारश्च पुष्पाजीवस्तु मालिकः ॥ ३१३ ॥ पुष्पलावी नंतः स्यात् यः पुष्पाण्यवचिनोति [सः] । ध्वजो ध्वजी सुराजीवी मण्डहारकशौण्डिकौ ॥ ३१४ ॥ कल्यपालो वारिवासः आसुतीबल इत्यपि । पानवणिक्, कादम्बरी चापुमान् मधुरस्त्रियाम् ॥ ३१५ ॥ इरा मद्य स्वादुरसा परिस्रुत् स्त्री परिस्रुता । मदिष्ठा मदिरा कश्यं वारुणी कापिशायिनम् ॥ ३१६ ॥ ;p{0089} अपुमान् प्रसन्ना हारहूरं हलिप्रिया । शुण्डाऽक्लीबा देवसृष्टा सुरा हाला परिप्लुता ॥ ३१७ ॥ माध्वीकं कापिशं गन्धोत्तमा च मदनाऽब्धिजा । माधवको मध्वासवः, सीधुरस्त्री तथाऽऽसवः ॥ ३१८ ॥ मैरेयो,ऽथ मद्यपङ्को जगलोऽप्य,थ [मेदकः] । मद्यबीजं पुनः किण्वं नग्नहूर्नग्नहुः पुमान् ॥ ३१९ ॥ आसुतिर्मद्यसंधानमासवोऽभिषवस्तथा । कारोत्तमो मद्यमण्डः, सरकश्चषकोऽस्त्रियाम् ॥ ३२० ॥ अनुतर्षो गल्वर्कश्च, शुण्डापानं मदस्थितिः । मधुक्रमा मधुवारा, सहपानं सपीतिकः ॥ ३२१ ॥ आपानं पानगोष्ठी च, मध्यप्राशनचक्षणे । उपदंशोऽवदंशो,ऽथ कलादो मुष्टिकः पुनः ॥ ३२२ ॥ स्वर्णकारो नाडिंधम,स्तेजसावर्त्तिनी तथा । मूषा, भस्त्राऽक्लीबश्चर्मप्रसेविका,ऽथ वेधनी ॥ ३२३ ॥ ;p{0090} आस्फोटनी, शाणोऽक्लीबः पुमांश्च निकषः कषः । कङ्कमुखः संदंशो,ऽथ यन्त्रकं कुन्दमस्त्रियाम् ॥ ३२४ ॥ भ्रमो,ऽथ मणीकारस्तु वैकटिको,ऽथ शौल्बिकः । ताम्रकुट्टिको,ऽथ काम्बविकः शाङ्खिक एव सः ॥ ३२५ ॥ सौचिकः स्यात्तन्तुवायः, कल्पनी कर्त्तरी पुनः । कृपाणी, सेवनी सूची, सूचिसूत्रं तु पिप्पलम् ॥ ३२६ ॥ तर्कुः पुमान् कर्त्तनसाधनं, विहनं पुनः । पिञ्जनं तूलस्फोटनकार्मुकं, स्यूतिसेवने ॥ ३२७ ॥ सीवनं, स्यूतप्रसेवौ, तन्तुवायो द्वितीयकम् । कुविन्दो,ऽथ स्यात् त्रसरः सूत्रवेष्टनमप्य,थ ॥ ३२८ ॥ ;p{0091} व्यूतिर्वाणिः स्त्रियां, वानदण्डो वेमाऽस्त्रियावुभौ । सूत्रतन्तू तथा निर्णेजकः स्याद्ररजकोऽप्य,थ ॥ ३२९ ॥ चर्मकृत्पादुकाकृच्च, पादुका पादरक्षणम् । पादत्राणं पादहिता पादूरुपानत् द्वे स्त्रियाम् ॥ ३३० ॥ पादपीठी पादरथी पेशी स्यात्पदवीथ्यपि । पादगुञ्जा पादरत्ता पन्नद्धा [च] पदायता ॥ ३३१ ॥ पदायामेन बद्धा या नानाभेदा भवेद्धि सा । अनुपदीना, वरत्रा नद्ध्री वद्ध्र्यनपुंसकः ॥ ३३२ ॥ चर्मप्रभेदिका चाऽरा, कुलालो दण्डभृत् पुनः । कुम्भकारश्चक्रजीवी, तैली चाक्रिकधूसरौ ॥ ३३३ ॥ अस्रियौ खलपिण्याकौ, शाणजीवोऽसिधावकः । भ्रमासक्तशस्त्रमार्जा,वथ तक्षा च काष्ठतट् ॥ ३३४ ॥ वर्धकः स्थापतिस्त्वष्टा रथकृद्, यो ह्यधीनकः । ग्रामे स स्याद्ग्रामतक्षः, कौटतक्षः स्वतन्त्रकः ॥ ३३५ ॥ ;p{0092} तक्षणी वृक्षभिद्वासी, क्रकचं पुंनपुंसकम् । करपत्रकं च, काष्ठं काष्ठे संस्थाप्य तक्ष्यते ॥ ३३६ ॥ यत्रोद्घनः स विज्ञेयो लोहादिरपि तत्तथा । वृक्षभेदी वृक्षादन,ष्टङ्कोऽस्त्री स्याद्द्वितीयकम् ॥ ३३७ ॥ पाषाणदारको, लोहकारः कर्मार इत्यपि । व्योकारः, कूटमस्त्री स्यदयोघनो,ऽथ व्रश्चनः ॥ ३३८ ॥ पत्रपरशु,रीषिका तूलिका पुनरेषिका । कान्दविको भक्ष्यकारः, कन्दुरक्लीबकः पुनः ॥ ३३९ ॥ स्वेदनिका, तौलकिको रङ्गजीवश्च चित्रकृत् । कूचिका तूलिका,ऽऽलेख्यं चित्रं, स्यादथ लेप्यकृत् ॥ ३४० ॥ पलगण्डो,ऽथ लेप्यादिकर्म पुस्तं स चास्त्रियाम् । अन्तावसायी नंतः स्यान्मुण्डको नापितः क्षुरी ॥ ३४१ ॥ ;p{0093} चण्डिलश्च दिवाकीर्तिः क्षुरमर्दी च भण्डिकः । क्षौरिको ग्रामणीर्भण्डिवाहो,ऽथ परिवापणम् ॥ ३४२ ॥ भद्राकरणं वपनं क्षौरं स्यान्मुण्डनं, त्वथ । नाराची त्वेषणी, देवाजीवः स्याद्देवलः पुनः ॥ ३४३ ॥ मौरजिको मार्दङ्गिको, वीणावादस्तु वैणिकः । वैणविको वेणुध्मश्च, पाणिघः पाणिवादकः ॥ ३४४ ॥ प्रातिहारिको मायाकारो,ऽथ माया तु शाम्बरी । कुसृतिः कुहकं जालमिन्द्रजाल,मथो पुनः ॥ ३४५ ॥ कौतुकं कुतुकं कौतूहलं कुतूहलं तथा । मृगवधाजीवी व्याधो मृगयुर्लुब्धकः पुनः ॥ ३४६ ॥ पापर्द्ध्याखेटौ मृगयाऽपुमान् मृगव्याऽऽच्छोदने । वागुरिको जालिको,ऽथ वागुरा मृगजालिका ॥ ३४७ ॥ शुम्बमपुमान् तन्त्री च वटी त्रिषु गुणः पुनः । शुल्बं रज्जुः स्त्रियां वराटकः, कैवर्त्तधीवरौ ॥ ३४८ ॥ ;p{0094} दाशो, बडिशमपुमान् मत्स्यवेधनमप्य,थ । मत्स्यजालं स्यादानायः, कुवेणी मत्स्यबन्धनी ॥ ३४९ ॥ शाकुनिको जीवान्तकः, कोटिको मांसिकस्तथा । सौनिको वैतंसिकश्च, घातस्थानं पशोर्भवेत् ॥ ३५० ॥ सूना, मृगादिजीवानां बन्धोपकरणं हि यत् । वीतंसोऽस्त्रियां, पाशो बन्धनग्रन्थिरप्य,थ ॥ ३५१ ॥ अवटोऽवपातः, कूटयन्त्रमुन्माथ इत्यपि । पामरः प्राकृतो नीचो विवर्णश्च पृथग्जनः ॥ ३५२ ॥ इतरो बर्बरो,ऽथान्तेवासी श्वपचबुक्कसौ । दिवाकीर्तिरन्तावसायी निषादोऽजनंगमः ॥ ३५३ ॥ चण्डालः प्लवमातङ्गौ, पुलिन्दा वरटा भटाः । किराता नाहला निष्ट्याः शबरा भिल्ला भूरयः ॥ ३५४ ॥ मालाः सर्वेऽरण्यचरा उद्भिन्ना देशभेदतः । म्लेच्छजातयः शूद्राणां समुदाये पतन्त्यमी ॥ ३५५ ॥ ;c{समाप्तः शूद्राधिकारः ।} ;v{अवस्थाभेदाधिकारः} ;c{अथ चतुर्णां वर्णानां प्राग्भवाचीर्णसंस्कारा इत्यादिना अवस्थाभेदं सामान्यत आह ।} ;p{0095} कुमारकः क्षीरकण्ठो बालः पोतः स्तनंधयः । पृथुकोत्तानशयौ डिम्भशावौ तथा शिशुः ॥ ३५६ ॥ अर्भः पाको,ऽथ शिशुत्वं शैशवं बाल्यमप्यथ । तरुणो युवा वयस्थो,ऽथ तारुण्यं तथाऽस्त्रियाम् ॥ ३५७ ॥ यौवनं, चाथ स्थविरो यातयामो जरी जरन् । जीर्णो जीवः प्रवयाश्च वृद्धो,ऽथ विस्रसा जरा ॥ ३५८ ॥ स्थाविरं वार्द्धकं, [ज्यायान्] वर्षीयान् दशमी तथा । लब्धवर्णः प्राप्तरूपो विद्वान् व्यक्तविपश्चितौ ॥ ३५९ ॥ विचक्षणो विशारदो मनीषिधीरपण्डिताः । बुधप्रबुद्धकोविदाः कविः कृती सुधीस्तथा ॥ ३६० ॥ मेधावी सूरिदोषज्ञाभिरूपप्राज्ञकृष्टयः । स्यात्सङ्ख्यावान्सन् ज्ञो, दक्षः शिक्षितो निपुणः पटुः ॥ ३६१ ॥ अभिज्ञो विज्ञः स्याद्वैज्ञानिकः कृतमुखः पुनः । कृतकर्मा कृतहस्तः कुशलश्चतुरोऽपि च ॥ ३६२ ॥ समौ निष्णातप्रवीणौ, प्रस्तावज्ञे तु छेकिलः । छेको विदग्धः छेकालो देश्यां छइल्ल इत्यपि ॥ ३६३ ॥ प्रगल्भः प्रतिभायुक्तः प्रौढो,ऽथ दीर्घदर्श्ययम् । पश्येद्यो दूरतः, प्रत्युत्पन्नबुद्धिर्द्वितीयकम् ॥ ३६४ ॥ ;p{0096} तत्कालधीः, सूक्ष्मदर्शी कुशाग्रीयमतिः पुनः । चिद्रूपो हृदयालुश्च तत्त्वज्ञानयुतिः स्मृतः ॥ ३६५ ॥ सहृदयः, संस्कृतो यो व्युत्पन्नः प्रहतः स तु? । क्षुण्णोऽपि, सोऽन्तर्वाणिर्यः शास्त्रविद्वक्तुमक्षमः ॥ ३६६ ॥ प्रधानवक्ता योऽमुष्मिन् वागीशो वाक्पतिः स च । प्रतिभायुक्तजल्पाकौ वाचोयुक्तिपटुः स्मृतः ॥ ३६७ ॥ वावदूकः प्रवाग् वाग्मी समुखो,ऽथ वदावदः । वक्ता वदो,ऽथ जल्पाको यो भवेद्बहुगर्ह्यवाक् ॥ ३६८ ॥ वाचाटो वाचालः, प्रश्नेऽनुत्तरो यद्वदस्तथा । दुर्वाक् कद्वदो,ऽथ हीनवादी चाधर इत्यपि ॥ ३६९ ॥ एडमूकस्तथाऽनेडमूकोऽवाक्श्रुतिरप्य,थ । स तु कुवादः कुचरो यो भवेत्कुटिलाशयः ॥ ३७० ॥ रवणः शब्दनः सोऽत्र यः शब्दं कुरुतेऽधिकम् । काहलो लोहलः स स्यादस्फुटवाक् च यो भवेत् ॥ ३७१ ॥ ;p{0097} अवाक् मूको,ऽस्वरः स स्याद् घर्घवचनो हि यः । विदुरो वेदिता विन्दु, वन्दारुरभिवादकः ॥ ३७२ ॥ आशंसिका स्यादाशंसुः, कट्वरः कटुभाषिणि । क्षिप्नुर्निराकरिष्णुश्च, विकाशी स्याद्विकस्वरः ॥ ३७३ ॥ मुखरो दुर्मुखोऽबद्धमुखो,ऽथ स्यात्प्रियंवदः । शक्लः, प्रियंवदो दानशीलश्च यो भवेत्स हि ॥ ३७४ ॥ वदान्यश्च वदन्यो,ऽथ मूर्खोऽज्ञो मातृशासितः । मातृमुखो यथाजातो मन्दोऽमेधो जडः पुनः ॥ ३७५ ॥ मूढो वैधेयो विवर्णो देवानांप्रियबालिशौ । जाल्मो बालोऽनेडो नामवर्जितो,ऽथ चिरक्रियः ॥ ३७६ ॥ दीर्घसूत्रो,ऽथ क्रियासु मन्दः कुण्ठो,ऽथ कर्मसु । उद्यतो यः क्रियावान् सो,ऽलङ्कर्मीणः स उच्यते ॥ ३७७ ॥ ;p{0098} कर्मक्षमः, कर्मदक्षः कर्मठः, कार्म एव सः । कर्मशीलोऽपि, यस्तीक्ष्णकर्मकृदायःशूलिकः ॥ ३७८ ॥ सुरूपदेही य स्वङ्गः सिंहसंहननः पुनः । स्वैरी स्वतन्त्रः स्वरुचिः निरवग्रहोऽपावृतः ॥ ३७९ ॥ यथाकामी स्वच्छन्दो,ऽथ स्वेच्छा स्यात्स्वैरिता पुनः । यदृच्छा, गृह्यको निघ्नः पराधीनश्च नाशवान् ॥ ३८० ॥ परायत्तः परवशः परतन्त्रोऽवधानकः । परच्छन्दो वशायत्तः परवान्, अथ लक्ष्मणः ॥ ३८१ ॥ लक्ष्मीवान् श्लीलो,ऽथेभ्यः स्यादृद्धाऽढ्यौ धनीश्वरः । दरिद्रः कीटको निःस्वो दुःस्थोऽकिञ्चनदुर्गतौ ॥ ३८२ ॥ दुर्विधो दीनः क्षुद्रो,ऽथ किंपचानो मितंपचः । कीनाशः कृपणः क्षुद्रो दृढमुष्टिश्च तद्धनः ॥ ३८३ ॥ नेताऽधिपः परिवृढः प्रभुरिन्द्र ईशो भर्त्तेश्वरो विभुः पत्यधिभू स्वनाथः । स्वामी तथाऽऽर्य इन ईशितृनायकौ च भृत्य-पराचित-भुजिष्य-नियोज्य-दासाः ॥ ३८४ ॥ ;p{0099} परैधितः परजातः परान्नपरिकर्मिणौ । परिस्कन्दो गोप्यः प्रेष्यो परपिण्डादकिंकरौ ॥ ३८५ ॥ परिचारकः स्याच्चेटो डिङ्गरो,ऽथ विशेषतः । कर्मकरो भृतभुग् वैतनिको भृतकोऽपि च ॥ ३८६ ॥ कर्मकारः सनिभृतिः, भर्मण्या भर्मनिष्क्रयौ । भृत्या भृतिर्भरणं च निर्वेशो वेतनं पणः ॥ ३८७ ॥ मूल्यं विधा च कर्मण्या, वेश्यामूल्यं हि यद्भवेत् । भोगो भाटिः स उच्यते, खलपूर्द्वितीयं पुनः ॥ ३८८ ॥ बहुकरो, भारवाहो भारिको, भारवीवधौ । विवधो,ऽथ वार्तावहो वैवधिको, विहङ्गिका ॥ ३८९ ॥ भारयष्टि,र्भारलम्बः शिक्यं काचः सरज्जुयुक् । वीरश्चारभटः शूरो विक्रान्तो, भीरुभीरुकौ ॥ ३९० ॥ भीलुकः कातरो भीतो दरितश्चकितोऽप्य,थ । व्यग्रः स्याद्व्याकुलो भूयो विहस्तो,ऽत्यर्थमाकुलः ॥ ३९१ ॥ ;p{0100} पिञ्जलः स समुत्पिञ्ज उत्पिञ्जलः, भयद्रुते । कान्दिशीको,ऽथ महात्मा महामना महाशयः ॥ ३९२ ॥ उदार उद्भटोदात्तौ महेच्छोदीर्णौ, सूरतः । करुणापरः कृपालुः दयालुर,थ घातुकः ॥ ३९३ ॥ शरारुर्हिस्रो,ऽथ वधो घातो व्यापादनं पुनः । प्रोज्जासनं प्रमथनं प्रमथोऽस्त्री प्रमापणम् ॥ ३९४ ॥ अपासनं निसूदनं प्रवासनं च वर्जनम् । प्रशसनं समापनं विशरणं निबर्हणम् ॥ ३९५ ॥ निर्वापणालम्भहिंसोन्मन्थसंज्ञप्तयस्तथा । निष्कारणनिर्यातनक्राथनिर्वासनानि च ॥ ३९६ ॥ उद्वासनं मारपिञ्जौ प्रतिघातनमित्यपि । निस्तर्हणं प्रशमनं परासनं कदनं तथा ॥ ३९७ ॥ निर्ग्रन्थनं विशसनं निशुम्भोऽप्य,थ कर्तनम् । कल्पनं वर्धनं छेद, आततायी स उच्यते ॥ ३९८ ॥ अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः ॥ ३९९ ॥ शीर्षच्छेदिकः शीर्षच्छेदो योऽर्हो हन्तुमत्र सः । नामशेषो यशःशेषः परासुः प्रेतसंस्थितौ ॥ ४०० ॥ ;p{0101} आलेख्यशेषः परेतः मृतश्चोपगतः पुनः । उपसंपन्नो व्यापन्नः प्रमीतो,ऽथौर्ध्वदेहिकम् ॥ ४०१ ॥ मृतस्य दिवसे दानं तदर्थमिदमुच्यते । अपस्नानं मृतस्नानं, पितॄणां यत्तु तर्पणम् ॥ ४०२ ॥ निवापः सोऽप्य,थ चिता चित्या चिति,रथाञ्जसः । प्राञ्जल ऋजुरुदारः, सरलो दक्षिणोऽप्य,थ ॥ ४०३ ॥ अनृजुः शठनिकृतौ, निस्त्रिंशः क्रूर इत्यपि । नृशंसः पापो,ऽथ धूर्तो मायी व्यंसकजालिकौ ॥ ४०४ ॥ दाण्डाजिनिकः कुहकः वञ्चकः, सज्जनः पुनः । सभ्यार्यौ साधु,र्दोषैकदृक्पुरोभागिनाव,थ ॥ ४०५ ॥ द्विजिह्वो दुर्जनः कर्णेजपः पिशुनसूचकौ । नीचः खलोऽस्त्रियामन्यः क्षुद्रः प्रखलमत्सरी ॥ ४०६ ॥ उपरक्तो व्यसनार्तः, स्तेनोऽस्त्री पारिपन्थिकः । परास्कन्दी परिमोषी तस्करः प्रतिरोधकः ॥ ४०७ ॥ ;p{0102} पाटच्चर ऐकागारिको दस्युः स्यान्मलिम्लुचः । चोरश्चौरो रात्रिचरश्चौरडोप्य,थ तस्करः ॥ ४०८ ॥ यो हरेत्परकीयं स्वं पश्यतस्तत्कलावशात् । मनीषिभिः स पापिष्ठ उच्यते पश्यतोहरः ॥ ४०९ ॥ स्तेयं चौर्यं चौरिका चापुमान्, लोप्त्रं धनं हि तत् । स्तेनापहृतं यत्स्यात्, यद्भविष्योऽपरः पुनः ॥ ४१० ॥ दैवपरो,ऽथानुष्णः स्यादालस्योऽलसशीतकौ । तुन्दपरिमृजो मन्दः, सूत्थानश्चतुरः पटुः ॥ ४११ ॥ उष्णकः पेशलो दक्षः उष्णो,ऽथ प्रह्वतत्परौ । प्रसितः परायणश्च आसक्तः प्रवण इत्य,थ ॥ ४१२ ॥ उदारो दाता,ऽथ दानशौण्डो बहुप्रदः पुनः । स्थूललक्षो,ऽथ यो दाता भोक्ता च सुकलः स्मृतः ॥ ४१३ ॥ तर्कुको मार्गणश्चार्थी याचनको वनीपकः । याचको,ऽथोत्पतिष्णुः स्यादुत्पतिता,ऽथ मण्डनः ॥ ४१४ ॥ ;p{0103} अलंकरिष्णुः स्या,द्भूष्णुर्भविष्णुर्भविताऽप्य,थ । वर्तिष्णुर्वर्तनो भूयो, विसारिणि विसृत्वरः ॥ ४१५ ॥ प्रसारी विसृमरो,ऽथापत्रपिष्नुर्द्वितीयकम् । लज्जाशीलः, क्षमी क्षन्ता तितिक्षुः क्षमिता पुनः ॥ ४१६ ॥ सहिष्णुः सहन, ईर्ष्यालुः कुहनोऽथ मत्सरात् । परोत्कर्षासहने चाक्षान्तिरीर्ष्या द्वकौ मतौ ॥ ४१७ ॥ क्रोधनो रोषणोऽमर्षणः क्रोधी, भृशकोपने । चण्डो, बुभुक्षितो भूयो जिघत्सुः क्षुधितस्तथा ॥ ४१८ ॥ अशनायितः, पिपासुस्तृषिततृष्णजौ समौ । रसादानं शोषणं च, घस्मरो भक्षकोऽद्मरः ॥ ४१९ ॥ आशितो,ऽथाशितस्तृप्त आघ्रातः सुहितोऽप्य[थ] । भक्तोच्छिष्टं तथोच्छिष्टं फेलापिण्डोलिफेलयः ॥ ४२० ॥ स्वोदरपूरके पुंसि कुक्षिम्भरिर्निगद्यते । उदरम्भरिस्तथा आत्मम्भरि,रौदरिकः स तु ॥ ४२१ ॥ ;p{0104} आद्यूनोऽपि, विजिगीषा(?)ऽभिलाषावर्जितोऽपि यः । सर्वान्नभक्षकः सर्वान्नीनश्च तृतीयं पुनः ॥ ४२२ ॥ उदरपिशाचो, यस्य भक्षितस्यापि वस्तुनः । तृत्पिर्न जायते पुंसः सोऽसेचनक उच्यते ॥ ४२३ ॥ पिशिताशी शाष्कुलः स्या,दुन्मदिष्णुः स च स्मृतः । वातभूतादिदोषेण योऽनवस्थितमानसः ॥ ४२४ ॥ गर्धनो लोलुपो लिप्सुस्तृष्णक् लुब्धोऽभिलाषुकः । गृध्नुश्च लोलुभो लोलः समौ लालसलम्पटौ ॥ ४२५ ॥ उद्धतः स्यादविनीतः, प्रसृतो निभृतः पुनः । विनीतो,ऽथ विनयस्थो विधेयो, वचने स्थितः ॥ ४२६ ॥ यः स आश्रवो विज्ञेयः, प्रणेयो वश्य इत्यपि । धृष्णुक् वियातो धृष्णुश्च धृष्टो,ऽधृष्टस्तु शारदः ॥ ४२७ ॥ शुभसंयुक्तः शुभंयुः, स्यादहंकृत अहंयुः । कामुकः कामयिताऽभीकोऽनुकोऽभिकः ॥ ४२८ ॥ ;p{0105} कम्रः कमिता कमरः कामनो, व्यसनी पुनः । विप्लुतः पञ्चभद्रो,ऽथ प्रमना हृष्टमानसः ॥ ४२९ ॥ विकुर्वाणो हर्षमाणो, दुर्मना विमनास्तथा । अन्तर्मना विचेताश्च, क्षीबो मत्त उत्कटः पुनः ॥ ४३० ॥ शौण्डो,ऽथ वीक्षापन्नः स्याद्विलक्षोऽथोत्सुकस्तथा । उत्कण्ठितः पुनरुत्क उन्मना, वाच्यदूषितौ ॥ ४३१ ॥ अभिशस्तः क्षारितश्च, स भवेत्कृतलक्षणः । अहतलक्षणश्चापि यो गुणैर्विश्रुतो भुवि ॥ ४३२ ॥ पाण्डुरपृष्ठो निर्लक्षणः, सङ्कसुकोऽप्यस्थिरः । तूष्णीकस्तूष्णींशीलश्च, यः स्यादनिष्टदुष्टधीः ॥ ४३३ ॥ विवशः सो,ऽथ बद्धश्च नद्धः संदानितः सितः । निगडितः संयतश्च कीलितो यन्त्रितोऽप्य,थ ॥ ४३४ ॥ उद्दानं बन्धनं द्वौ स्तः, प्रतिबद्धो मनोहतः । हतप्रतिहतौ तुल्या,वधिक्षिप्तो द्वितीयकम् ॥ ४३५ ॥ ;p{0106} प्रतिक्षिप्तो,ऽथावकृष्टो निष्कासितो,ऽथ धिक्कृतः । अपध्वस्तो न्यक्कृतो,ऽथ विप्रकृतश्च निकृतः ॥ ४३६ ॥ आत्तगन्धोऽभिभूतो,ऽथ विप्रलब्धश्च वञ्चितः । निद्रालुः शयालुः स्वप्नक्, घूर्णितः प्रचलायितः ॥ ४३७ ॥ जागरी जागरूकः, स्याज्जागरो जागरा पुनः । जागरणं जागर्या,ऽथ निद्राणशयितौ समौ ॥ ४३८ ॥ सुप्तो,ऽथ देवद्र्यङ् नित्यं यः पुमान् देवमञ्चति । सध्र्यङ् सहाञ्चति, विष्वक् विष्वद्र्यङ् योऽञ्चति स्फुटम् ॥ ४३९ ॥ तिरोऽञ्चति स्यात् स तिर्यङ्, रोचिष्णुर्यस्तु रोचनः । संशयिता संशयालु,र्ग्रहिता गृहयालुकः ॥ ४४० ॥ पातुकः पतयालुः, स्याद्दक्षिण्यो दक्षिणार्हकः । दक्षिणीयः, साधितस्तु दापितो दण्डितोऽप्य,[थ] ॥ ४४१ ॥ ;p{0107} अर्हितः पूजितो नमस्यितो नमसितोऽर्चितः । अञ्चितोऽपचितो,ऽथार्च्यः प्रतीक्ष्यो, विक्लवः पुनः ॥ ४४२ ॥ विह्वलो,ऽथ पीवा पीनः समानौ स्थूलपीवरौ । द्वेष्योऽक्षिगतश्चक्षुष्यः सुभगो, मांसलो बली ॥ ४४३ ॥ उपचितः स्यान्निर्दिग्धांसलो, दुर्बलः कृशः । पेलवस्तलिनोऽमांसः छातः क्षीणतनुस्तथा ॥ ४४४ ॥ क्षामो,ऽथ तुन्दिलस्तुन्दिस्तुन्दिकश्च पिचण्डिलः । उदरिलो बृहत्कुक्षिरुदरी, स्यादनासिके ॥ ४४५ ॥ विग्रो विख्रो विख्रुश्चाथा,वनाटो नतनासिके । अवभ्रटोऽवटीटश्च चिपिटो, लघुनासिके ॥ ४४६ ॥ न क्षुद्रः ................ ॥ ४४७ ॥ ;c{इति सिद्धशब्दार्णवः समाप्तः ।}