;METADATA ;title{सुन्दरैकाक्षरकोष} ;author{राजसुन्दरविजयसूरि} ;bookFullName{एकाक्षरकोषसंग्रहः} ;bookSeriesDetails{} ;editor{Editor of 1 to 26 koshas - Pannyas Ramnikvijay, Reeditor - Muni Rajsundarvijay} ;editorQualifications{} ;publisher{श्रुतज्ञान संस्कारपीठ, वासणवाळा कम्पाउण्ड, विश्वनंदिकर जैन देरासर के सामने, भगवान नगर का टेकरा, अरुण सोसायटी के पास, पालडी, अहमदाबाद-७, चंपकभाई: मो. 9436010323, निरंजन शाह: मो.9825860488, Website - www.rajparivarindia.com, Email - shrutgnan@yahoo.com} ;pressDetails{जय जिनेन्द्र ग्राफिक्स (नितीन शाह - जय जिनेन्द्र), ३०, स्वाती सोसायटी, सेंट झेवियर्स स्कूल रोड, नवरंगपुरा, अहमदाबाद. जय जिनेन्द्र: मो. 9825024204, कुश: मो. 9925617992} ;publicationYear{2019 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SERS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Muni Rajsundarvijay ji for allowing us to digitize the texts. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{11 April 2020} ;version0.0.2{11 April 2020} ;version0.0.3{25 May 2020} ;version0.0.4{25 May 2020} ;version0.1.0{25 May 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0141} ;c{[५०] मुनिराजसुन्दरविजयविरचितः} ;c{सुन्दरैकाक्षरकोषः} ;c{॥ शार्दूलविक्रीडितम् ॥} देहेनाऽधवलं तथाऽऽत्मधवलं, साहिं तथा निर्विषं, संपूज्यं करिणा तथाऽमदगजं, पार्श्वं तथाऽपार्श्वगम् । कल्यद्र्यन्तिकगं तथाऽखिलकलिं दूरेकरं देहिनां, नौमि श्रीकलिकुण्डतीर्थसुपतिं पार्श्वप्रभुं भावतः ॥ १ ॥ ;c{॥ उपजातिः ॥} प्रणम्य नम्यं जगदेकरम्यं राजेन्द्रसूरिं सुगुरुं च भक्त्या । श्रीसुन्दरैकाक्षरनामकोषं पोषप्रदं तोषकरं करोति ॥ २ ॥ ;c{॥ वसन्ततिलका ॥} शब्दाम्बुधिः सुगहनो वररत्नपूर्णः पारं न तस्य प्रगताः सुधियोऽद्ययावत् । रत्नाल्यदीयत ततो विबुधैर्जगद्भ्यो रे! शक्तिमेव किल यच्छति लोलबालः ॥ ३ ॥ ;c{॥ इन्द्रवंशा ॥} श्रीहेमचन्द्रादिसदृग्विपश्चिता- मालोक्यते व्याकृति-काव्यकौशलम् । क्वास्मादृशां तादृशमेव कौशलम्? प्रीत्या तथाप्यस्य सुखं प्रवृत्यते ॥ ४ ॥ ;c{॥ अनुष्टुप् ॥} पूर्वैकाक्षरकोषेभ्यो-ऽ न्यकोषेभ्यश्च सुश्रमात् । करोत्येकाक्षरं कोषं बालेभ्यो बालसुन्दरः ॥ ५ ॥ अक्षरवाचकः शब्दः प्रथमालङ्कृतः कृतः । अर्थवाचकशब्दश्च सप्तम्यलङ्कृतस्तथा ॥ ६ ॥ लिङ्गादिवाचकश्चापि प्रथमया ह्यलङ्कृतः । लिङ्गस्य प्रतिषेधोऽत्रा-ऽ परलिङ्गविधायकः ॥ ७ ॥ क्रियावाचकशब्दश्च पुंलिङ्ग एव दर्शितः । अकारादिक्रमेणात्र शब्दानां समुपस्थितिः ॥ ८ ॥ ;k{अकारादिः} ;c{॥ अथ अकारादिः ॥} अकारोऽथेश्वरे प्रोक्तो ब्रह्मणि केशवे शिवे । अग्नौ वायावकारः स्याद् भानौ बुधे च गौरवे ॥ १ ॥ अः स्यादुमा-ऽम्बिके-ज्यासु कारणे चरणे रणे । ब्राह्मणे प्रेरणे प्राणे ह्यकारो भूषणेऽङ्गणे ॥ २ ॥ अश्चन्द्रे नूपुरे मान्य इन्द्रेऽप्यन्तःपुरेऽजिरे । अः काले कमठे तार्क्ष्ये कमठ-शकलो-डुषु ॥ ३ ॥ अकारोऽवयवे शब्दे ह्यजिन-सुखिनोस्तथा । अश्चादने वसन्तेऽन्ने ह्यर्दने पूजने जने ॥ ४ ॥ ;p{0142} अः प्रणते निवृत्त्य-म्बु- गोरथेऽद्रावजे भवेत् । अं नपुंसकलिङ्गस्तु परब्रह्मणि शब्दितः ॥ ५ ॥ अकारोऽथाव्ययोऽभावे सम्बोधना-ऽनुकम्पयोः । अ निषेधे ह्यधिक्षेपे सज्जात्येऽनादरे तथा ॥ ६ ॥ निराकारेऽव्ययोऽकारः स्वल्पे तुल्ये समीरितः । अव्ययोऽट् स्यात् तथाऽऽश्चर्ये चाऽत् तथाऽऽश्चर्यकेऽव्ययम् ॥ ७ ॥ आपः स्त्री सलिले भूम्नि पण्डितैः परिक्कीर्तितः । अं मान्तो ह्यव्ययोऽल्पे च स्वीकार-शीघ्रतार्थयोः ॥ ८ ॥ ;k{आकारादिः} ;c{॥ अथ आकारादिः ॥} आ चाथ ब्रह्मणि प्रोक्तो मातामहे च मन्मथे । आ भावे परितापे च बन्धुवर्गे घटे पटे ॥ १ ॥ आ स्मृतः सागरे सूर्ये चापे लक्ष्म्यां तथोदितः । आकारः प्रलये वात- मण्डल्यां च समीरितः ॥ २ ॥ नारायणे तथाऽऽकारो गुरावनन्त-शेषयोः । आकारो विष्णुशय्यायां चारे च लघुवस्तुनि ॥ ३ ॥ आकारः सुखतत्यां स्यात् सलिल-सीम-सर्वगे । आकारश्च विधावुक्त आक्षेपेऽपि समाहृतः ॥ ४ ॥ आः स्वयम्भुवि चेभे स्यात् खेद-शङ्करयोः सुते । वाजिनि वासवे प्राज्ञे निवासे सम आस्तथा ॥ ५ ॥ चणके पारिजाते ह्याः कामदेवे समाहृतः । आ भवेदव्ययः कोपे दुःखा-ऽनुकम्पयोः स्मृतौ ॥ ६ ॥ तिरस्कारे क्रियायोग आ दूराह्वान-खेदयोः । आ अभिव्यक्त्य-भिव्याप्त्योः सन्ताप-वाक्य-सीमसु ॥ ७ ॥ आ स्याद् भावे तथाऽत्यर्थ ईषदर्थे समुच्चये । आ चित्रे निर्णये चोक्तो मण्डन्यामा वृथास्मृतौ ॥ ८ ॥ विस्मृते विस्मये चाथ संतोष आ निगद्यते । माङ्गल्ये चाथ पूजाया- मव्यय आ समाहृतः ॥ ९ ॥ अव्यय आङ् भवेच्चाथ सीमे-षदर्थयोस्तथा । अभिव्याप्तौ क्रियायोगे-ऽ ङ्गीकार आङ् समर्थितः ॥ १० ॥ आङ् समन्ताद्वृत्तौ प्रत्या- वृत्तौ च ग्रहणे मतः । आत् स्यात्तान्तोऽपिचेत्यर्थे-ऽ नन्तरार्थे तथाऽव्ययः ॥ ११ ॥ मान्त आमव्ययः प्रोक्तो ह्यवधृतौ स्मृतौ तथा । ;p{0143} आं ज्ञान एवमर्थेऽथा-ऽ ङ्गीकार-प्रतिवाचयोः ॥ १२ ॥ आस्तथाऽव्यय आक्षेपे पीडायां च स्मृतावपि । सन्तापेऽपाकृतौ स्यादाः क्रोधे साटोपतर्जने ॥ १३ ॥ ;k{इकारादिः} ;c{॥ अथ इकारादिः ॥} इरथ माधवे कामे सायके कामसायके । इरजे पादपे पापे द्विपे गन्धर्व-मान्ययोः ॥ १ ॥ गुहायामिः शुचि-स्थाणु- हारेषु चेन्द्र-बालयोः । अर्क इः पाञ्चजन्येऽग्रे वरुणे शशितेजसि ॥ २ ॥ इर्ब्रह्मणि वितर्के श्री- मति दक्षिणलोचने । इर्भवेत् कृत्तिकाबाल इः सूक्ष्मसंज्ञ-विद्ययोः ॥ ३ ॥ करेणुदन्त इस्तृप्तौ सूर्यांशावब्जसम्भवे । इः स्यात् करेणकुक्ष्यन्ते फणरत्नद्युतावपि ॥ ४ ॥ अथाव्यय इ कुत्सार्थे निषेधे पाप-खेदयोः । सम्बोधनेऽनुकम्पाया- मि ह्यपाकरणे श्रुतः ॥ ५ ॥ कोपोक्तौ परुषोक्तावि ह्याश्चर्य्ये नयनभ्रमे । अव्यय इ गदे भेदे प्रबुद्धैः परिकथ्यते ॥ ६ ॥ इड् भवेद्धविषि स्त्री, त्रि- लिङ्ग इत् त्वथ गत्वरे । इत् तथैवेत्थमित्यर्थे चानन्तरेऽवधारणे ॥ ७ ॥ इट् स्यात् सेच्छै-षणीये-ष्य- माणे त्रिः, स्त्री मनोरथे । इस्सान्तो ह्यव्ययः कोपे सन्तापे दुःखभावने ॥ ८ ॥ ;k{ईकारादिः} ;c{॥ अथ ईकारादिः ॥} ईकारश्चाथ गोविन्दे कन्दरे फणि-बाणयोः । ईकारः स्यान्नृसिंहास्त्रे गिरिशिखर-माययोः ॥ १ ॥ ईकारः शक्रचापे स्याद् रचनायां सुरेश्वरे । बलिनि कज्जले शान्ता- वीकारः कन्धरे भवेत् ॥ २ ॥ समख्यातस्त्रिमूर्तीश ईकारो वामलोचने । ईकारः कमले चाथ क्षोणीभृत्कुहरे तथा ॥ ३ ॥ ज्ञानिगुरौ प्रविख्यात ईकारश्च दले स्मृतः । ईरीश्वरे महानन्दे लक्ष्म्यामथारि-मोहयोः ॥ ४ ॥ ईर्वारिजदले वाण्यां मदिरायां शिरोभ्रमे । अरुणे करुणे स्यादीः पृथ्व्यां कमलकेसरे ॥ ५ ॥ ;p{0144} ईः शङ्कु-जिह्वयोर्मौलौ मुकुरे नकुलेऽकुले । अप्रजा-सुप्रजासु स्यात् पुरुष ईः स्मरे पुमान् ॥ ६ ॥ स्यादथाव्यय ई द्रव्य- पर्याये दुःखभावने । ई प्रकोपेऽनुकम्पायां प्रत्यक्षे सन्निधौ तथा ॥ ७ ॥ ई विषादे नवोढायां चौरे स्वरे समुच्यते । ई पृथिव्यां च सम्बुद्धौ समुत्त्रासे समीरितः ॥ ८ ॥ ईमथार्थे-दमर्थे स्या- दीट् स्यात् त्रिः स्वामिनीश्वरे । ईस्सान्तश्चाऽव्ययः कोपे ख्यातश्च दुःखभावने ॥ ९ ॥ ;k{उकारादिः} ;c{॥ अथ उकारादिः ॥} उः स्यादथेश्वरे सूर्ये हरमौलौ हरौ हरे । उः काले क्षत्रिये नेत्रे जलधावनिले जले ॥ १ ॥ तपः-क्षेत्रप-चन्द्राभ उः स्याद नारद-भावयोः । लक्षणे भूषणे मोक्षे रावण उः परायणे ॥ २ ॥ अप्रकाशे गिरेर्मौला- वुः स्याद् गौर्यां तथा गिरौ । उर्गौरीहृदयेऽपि स्या- दुग्र उश्च गजाङ्कुशे ॥ ३ ॥ उर्ब्रह्मणि शुचौ ख्यातः शुक्ल उः शशिरोचिषि । उः शाखिशिखरे प्रोक्तः शोके शक्तौ शतक्रतौ ॥ ४ ॥ उः स्यात् पक्षेऽत्रपे ह्यूर्ध्व उर्मार्कण्डेय-पाशिनोः । उः सेतौ दक्षकर्णे स्याद् नाथे विजयिनि स्मृतः ॥ ५ ॥ उ स्यादथाव्ययं लोभे सम्बोधना-ऽवसानयोः । नियोग उ वितर्के च शेषफूत्कार-बन्धने ॥ ६ ॥ उ विस्मये तथा पाद- पूरणे रोषभाषणे । वचनावसरे प्रश्न उ विभागा-ऽनुकम्पयोः ॥ ७ ॥ उ मात्रा-मन्त्रणे षण्ढे ह्यङ्गीकार-विषादयोः । उञव्ययं सतर्के स्यात् सम्बोधने च पूरणे ॥ ८ ॥ उत् तथाऽव्ययमत्यर्थ ऊर्ध्वे प्रश्न-वितर्कयोः । भृशार्थे संशयेऽप्यर्थे-ऽ व्ययमुत् त्रिरथोदिते ॥ ९ ॥ उद् भवेदव्ययः शक्तौ क्रोध-भावो-र्ध्वकर्मसु । उद् विभागे प्रकाशे च प्राबल्ये लाभ-लोभयोः ॥ १० ॥ उदाश्चर्ये तथोर्ध्वे स्यात् प्राकट्यो-त्कर्षयोरपि । नैकट्ये प्रोच्यते विद्भि- रुद् मोक्षे बन्धने तथा ॥ ११ ॥ ;p{0145} प्राधान्या-ऽस्वास्थ्ययोः स्यादु- दभावे परिकीर्तितः । उमङ्गीकृति-रोषोक्ति- प्रश्नेषु रक्षणेऽव्ययम् ॥ १२ ॥ ;k{ऊकारादिः} ;c{॥ अथ ऊकारादिः ॥} ऊरथ शङ्करे सूर्ये सुरेऽसुरे गुरौ गले । श्रवणे रक्षणे स्यादू- रिच्छा-तक्षक-रक्षके ॥ १ ॥ ऊर्विभागे वणिग्-वह्नि- वनेषु सरमाधिपे । कुम्भे मङ्गलकुम्भे स्या- दूः पूर्णकुम्भ-लोभयोः ॥ २ ॥ ऊः क्रिया-भाव-हिंसासु राजपुत्रे निशाकरे । ऊरग्निसारथौ तृप्तौ सुधा-ऽवनिजरत्नके ॥ ३ ॥ ऊः प्राप्तौ प्राङ्गणे पूर्ण ऊः प्रीतौ पुरुषे तथा । ऊर्हूतावनुकम्पायां दीप्तौ च बन्धने जडे ॥ ४ ॥ हराववगतावूश्चो- पमायां जलदे गतौ । आलिङ्गने तथोन्मादे परेत ऊर्दरिद्रिणि ॥ ५ ॥ ऊर्वृद्धाविन्द्रचापे स्याद् दीपिकायां च राजनि । ब्रह्मण्यङ्गीकृतेऽनन्त ऊः क्वचिदर्थके तथा ॥ ६ ॥ ऊः स्यात् स्वामिनि सामर्थ्ये याच्ञा-प्रवेश-सूत्रिषु । ऊ प्रोक्तोऽथाव्ययो वाक्या- रम्भे प्रश्न-निषेधयोः ॥ ७ ॥ ऊ रक्षणेऽनुकम्पायां सम्बोधने समीरितः । ऊमव्ययं रुषोक्तौ स्यात् पृच्छायां दम्भभाषिते ॥ ८ ॥ ऊं रक्षार्थे भवेत् क्लीबे स्पर्धायां स्वार्था-निन्दयोः । ऊर्क् क्लीबोऽन्ने बलेऽथ, स्त्री ह्युत्साहेऽन्नरसे जले ॥ ९ ॥ ;k{ऋकारादिः} ;c{॥ अथ ऋकारादिः ॥} ऋकारोऽथ गुरौ दान ऋर्विनय-विभेदयोः । ऋशब्दो विभवे भावे महिते विवरे रवे ॥ १ ॥ सुरलोक ऋकारः स्या- दसुरे च सुरा-सुरे । सुरयोनावृशब्दः स्यात् सुरसरित्-सुराम्बयोः ॥ २ ॥ ऋशब्दः सरिता-सूर्य- सर्प-स्वभाव-शत्रुषु । शाले शैल ऋकारश्च पावके पालने नले ॥ ३ ॥ ऋकारः कुञ्जरे धर्मे धीभेदे गरुडे दितौ । यमे महत्यृशब्दोऽपि रमो-मा-देविका-ऽध्वसु ॥ ४ ॥ ;p{0146} ऋकारो रक्षणे पृथ्व्यां रिपुघ्ने च त्रिविक्रमे । पितृष्वसृशिशौ शत्रु- घ्नायामृकार ईरितः ॥ ५ ॥ ऋ भवेदव्ययश्चाथ कुत्सायां वचने तथा । परिहासेऽथ सम्बुद्धा ऋ च वाक्यविकारके ॥ ६ ॥ ऋक् स्त्रीलिङ्गो भवेत् पद्य- मात्र-मन्त्रविशेषयोः । ऋग्वेद ऋक् सरस्वत्या- मर्चनायां स्तुतावपि ॥ ७ ॥ ;k{ॠकारादिः} ;c{॥ अथ ऋकारादिः ॥} ॠरथ वासवे वह्नौ वरुणे वरुणालये । ॠर्विद्वद्-वक्षसोर्वृक्षे वामन-विकलाङ्गयोः ॥ १ ॥ ॠर्वारिणि तथा विष्णौ मणौ विगतसम्पदि । अदितौ दनुजे दैव- -ज्ञ ॠर्दनुजमातरि ॥ २ ॥ ॠर्दाने दानवाञ्छायां गाने गतौ च पाप्मनि । तरले भूषणे स्यादॄः करुणा-करिणोरजे ॥ ३ ॥ ॠर्भूषायां भुजायाञ्च भग-भुजङ्गयोर्नरे । ब्रह्मणि कुत्सिते स्यादॄ- र्भैरवे वैभवे भवे ॥ ४ ॥ ॠर्दृष्टौ सर्पदृष्टौ च स्वर्गे स्मृति-निषेधयोः । ॠः सूर्य-सुरयोः पद्मे-ऽ हिकोपे चिकुरे हिमे ॥ ५ ॥ ॠ भवेदव्ययश्चाथ वाक्यारम्भो-र्द्ध्वदर्शने । ॠ निन्दायां भये दम्भे वाक्ये कृत्स्ने च रक्षणे ॥ ६ ॥ ;k{लृकारादिः} ;c{॥ अथ लृकारादिः ॥} लृरथ वीतरागे स्याच्- शङ्करे शक्ति-सर्पयोः । श्लेष-सौदामिनी-स्वर्ग लृश्च सर्वर्षिमातरि ॥ १ ॥ लृर्देवेन्द्रे तथा देव- मातरि दैत्यमातरि । लृर्दर्प-द्रव्ययोर्देव्याम् लृर्नपुंसक-योषितोः ॥ २ ॥ कपिदन्ते रुरोर्दन्त लृर्दन्ति-दन्तिदन्तयोः । लृर्नप्तृ-पापि-पृथ्वीषु पाषण्डिनि पराजिते ॥ ३ ॥ रक्षसि वक्षसि म्लेच्छ लृस्तते मन्त्र-तन्त्रयोः । लृर्गिरौ लघुसंवादे रजसि गतनप्तरि ॥ ४ ॥ कुलीरदन्त-लिप्ताङ्ग लृः कृष्णा-ऽरुणवर्णयोः । क्लीब लृ पद्म-देव्योः स्याल्- लध्वक्षर-र्जु-मृत्युषु ॥ ५ ॥ ;p{0147} ;k{लॄकारादिः} ;c{॥ अथ लॄकारादिः ॥} लॄरथ शङ्करे देवे मातरि दैत्यमातरि । सौदामिन्यां हि लॄर्देव- मातरि नागमातरि ॥ १ ॥ लॄः शशि-सर्पयोः सूक्ष्मे स्तोमे स्वरे सुरस्त्रियाम् । लॄः स्यान्नार्यां गतौ दैत्ये ब्रह्मणि बाण-बालयोः ॥ २ ॥ लॄः केशे कृकलासे स्यात् कक्षायाञ्च कथानके । लॄस्तन्त्र-मन्त्रयोर्मूर्खे मकर-हारयोस्तथा ॥ ३ ॥ गिरावङ्गे गुदे वाया लॄरात्मनि महात्मनि । लॄर्वराह्यां ततेऽङ्के च नृपतौ नयने नरे ॥ ४ ॥ नवोढाकञ्चुके स्याद् लॄः पापरत-प्लवङ्गयोः । लॄः शिश्न-केशवा-ऽर्द्धर्च- कुबेरदृष्टिषु स्मृतः ॥ ५ ॥ लॄरालिङ्गनि जानीया- दिन्द्रबाणे च भैरवे । लॄस्तथा दैत्यभार्यायाम् लॄः कामधेनुमातरि ॥ ६ ॥ लॄरन्तर्लोचने लीला- गमने कलहे तथा । लताभेदे रजन्याम् लॄ- र्हास्याक्ष्यां च त्रिकूटके ॥ ७ ॥ ;k{एकारादिः} ;c{॥ अथ एकारादिः ॥} एरथात्मनि विष्णौ स्याद् रजन्यां व्योम्नि राजनि । एरसुरे शरे सूर्ये स्यान्नीर-नीरधारयोः ॥ १ ॥ एर्धातरि कुमारे स्यात् पर्वते गोचरे हरे । वासरस्य मुखे ज्ञेय एरहिते च मारुते ॥ २ ॥ एश्चण्ड्यामुद्धते शक्तौ वाराह्यां मणिकुट्टिमे । एरेकादशसङ्ख्यायां कृतार्थ-कामरूपयोः ॥ ३ ॥ एस्तेजसि भगे ख्यातः शेषे पशौ तथोच्यते । एश्च हर्म्योदरेऽरातौ ज्ञातीये समुदाहृतः ॥ ४ ॥ त्रिकोणके च झण्टीश एर्विद्भिः परिकीर्त्यते । अव्ययमे स्मृतौ काम- सम्बोधना-ऽनुकम्पयोः ॥ ५ ॥ ए स्यात् सम्बोधने हूता- वसूयायां तथाऽव्ययम् । एड् भवेत् स्त्री षकारान्तो गताविच्छावपि स्मृतः ॥ ६ ॥ ;k{ऐकारादिः} ;c{॥ अथ ऐकारादिः ॥} ऐरथ स्यात् सरस्वत्यां धातरि केशवे शिवे । ऐरसुरे सुरे मारे क्रूरे पूरे धरे स्वरे ॥ १ ॥ ;p{0148} ऐरद्रिशिखरे प्रोक्तः शिखरे वानरे नरे । ऐः स्याद् गजे गिरौ चारौ वायौ वागीश-वर्मणोः ॥ २ ॥ ऐः स्वर्ण-मन्द-मूर्च्छासु कुलाले प्राज्ञ-पुत्रयोः । भौतिके भास्करे स्यादै- र्भयद-भूमिपालयोः ॥ ३ ॥ ऐर्दिङ्मुखे त्वचायाञ्च शतक्रतोश्च दन्तिनि । ऐर्हस्ते त्रिपुरे दंशे दिग्दन्तिनि च वर्त्मनि ॥ ४ ॥ ऐस्तथा सितपिच्छे तु संप्रोक्तः शब्दशासने । ऐ स्मृतौ शोचने हूता- वामन्त्रणेऽव्ययो मतः ॥ ५ ॥ ;k{ओकारादिः} ;c{॥ अथ ओकारादिः ॥} ओकारोऽथ विरञ्चौ स्या- ज्जलदे जलजे जले । इन्द्राविन्द्रे च योनावो- कारः कुबेर-कुड्ययोः ॥ १ ॥ ओकारः स्यात् सुधा-साधु- सूत्र-सुज्ञा-ऽसुरा-ऽसिषु । सद्योजे सङ्ग ओशब्दः शङ्करे शक्ति-शेषयोः ॥ २ ॥ ओशब्दो वासुदेवे स्याद् रक्षण-काणयोः शरे । ओकारो जन-जम्बाले जवे जीवे परासरे ॥ ३ ॥ ओशब्दो ब्राह्मणे ख्यातः प्रणवे श्रवणे ध्रुवे । ओकारः स्यादगे केत्व- गस्त्य-कुट्य-क्षया-ऽऽखुषु ॥ ४ ॥ आप्यायन्यां च खत्वायां गरुडे समुदीरितः । स्वसदने च मार्जार ओकारो नागसंज्ञके ॥ ५ ॥ ओ स्यादथाव्ययोऽनन्ते सम्बोधनेऽनुकम्पने । ओ स्मरणे तथाऽऽह्वने विद्वद्भिः समुदाहृतः ॥ ६ ॥ ओमथ ब्रह्मणो नाम- विशेषे स्यान्नपुंसकः । ओमथाऽव्यय आरम्भे मङ्गले प्रणवे शुभे ॥ ७ ॥ ओमपाकृति-स्वीकारा-ऽ स्वीकारा-ऽनुमतिष्वपि । ओमाह्वाने तथा दीप्तौ याचने परमेश्वरे ॥ ८ ॥ ;k{औकारादिः} ;c{॥ अथ औकारादिः ॥} औरथ ब्रह्मणि व्योम्नि जलधौ जलदे जले । और्नरे निःस्वने नारी- जार-विश्वम्भरास्वपि ॥ १ ॥ औः स्याच्चन्द्रकला-चन्द्रे चानन्ते सिद्धपुष्पके । औः स्यात् सुखिनि सूक्ष्मे च स्कन्द-स्थूल-सुधासु च ॥ २ ॥ ;p{0149} औः सिद्धे पीडने प्रश्ने परमार्थे जनार्दने । और्विमाने विशुद्धाङ्गे दुर्गायां मान-मायिनोः ॥ ३ ॥ औः स्याद् विशुद्धकार्ये च कुलीने कुक्कुरे कवौ । औः शुद्धपुष्पके रत्या- मौषध्यौ-षधपानयोः ॥ ४ ॥ और्भवेद् भाषणे भावे भूपशूरे समीरितः । औश्च भूपजये यज्ञ- पात्रेशे समुदाहृतः ॥ ५ ॥ औस्तरुणे तथा सिद्ध- विमाने प्रोच्यते बुधैः । और्गणनायके सूक्तो व्यापिन्यामपि कीर्तितः ॥ ६ ॥ अव्ययमौ तथाऽऽह्वान- संबुद्धि-निर्णयेष्वपि । औ विरोधेऽव्ययः प्रोक्त औँ शूद्रप्रणवेऽव्ययम् ॥ ७ ॥ ;k{अंकारादिः} ;c{॥ अथ अंकारादिः ॥} अं त्वथ स्यादनुस्वारः परब्रह्मणि वन्दने । व्योम-व्यसन-वेगेष्वं विज्ञान-वक्रवाक्ययोः ॥ १ ॥ अं वज्रसदने व्याधौ व्याधिते वर-वेधसोः । अं स्यान्मन्त्रे मुनौ माने मारुते पूर्ण-तेजसोः ॥ २ ॥ अं बिन्दौ ब्रह्मसंवादे-ऽ तिदीर्घ-बकवाक्ययोः । अं भवेदञ्जनेऽक्रूरे-ऽ नुमतावञ्जलौ तथा ॥ ३ ॥ स्यात् प्रद्युम्ने परज्योति- ष्यं चन्द्र-चक्रवाकयोः । अं कम्पे कश्मले योग- नियोग-ज्ञान-नामसु ॥ ४ ॥ अं सुखवपने सौख्ये सुनिष्कम्प-सुगानयोः । अं द्राघीयसि जानीया- दात्मनि परमात्मनि ॥ ५ ॥ अं स्याच्शवे गते चाथ दूरे दुःखे भवेत्तथा । अं भेदे विबुधैरुक्तो-ऽ नुस्वारः शब्दशासने ॥ ६ ॥ ;k{अःकारादिः} ;c{॥ अथ अःकारादिः ॥} अः स्यादथ विसर्गस्तु जिनाद्ये-श्वर-विष्णुषु । अः स्यात् सर्गे स्तुते सूर्ये महासेने च मस्तके ॥ १ ॥ अश्चक्रे चन्द्रबिम्बे स्याच्- छङ्कर-विष्णुभृत्ययोः । अश्चित्रे चरणे चूडा-ऽ नन्त-ब्रह्म-नया-ऽऽयुधे ॥ २ ॥ दाना-ऽऽदाना-ऽनिरुद्धे स्या- दः कन्यास्तनसंनिभे । अः प्रभाते प्रदीप्तौ स्यात् सिद्धमन्त्रे रथार्वणि ॥ ३ ॥ ;p{0150} अः षडास्ये तथेन्द्रे स्यात् कुक्कुटमूर्घ्नि संस्मृतः । अः क्षेप-खेद-सत्तासु निन्दका-ऽऽश्चर्ययोरपि ॥ ४ ॥ ;k{ककारादिः} ;c{॥ अथ ककारादिः ॥} अथ को वासुदेवे स्याद् वसुनि वह्नि-वक्त्रयोः । वारिदे वारिधौ वारि- वसु-वायुषु को बले ॥ १ ॥ बुद्धौ ब्रह्मणि कः स्वर्णे सूर्ये स्मरे सुरालये । शमन-शत्रु-शुद्धेषु कः शिरः-श्वेतवर्णयोः ॥ २ ॥ को मयूरे कठोरे स्याद् मित्रे यमे सुखे दिने । को दक्ष-कोपयोश्चित्र- चित्तयोश्चक्र-चक्रिणोः ॥ ३ ॥ आत्मनि कः समाख्यातः प्रकाशे पार्थिवेऽप्यथ । पतत्त्रिणि च क्रोधीशे कलह-कालयोश्च कः ॥ ४ ॥ सृष्ट्यां यज्ञविधौ देहे शब्द-पर्वतयोश्च कः । कामग्रन्थौ तथा ग्रन्थौ केशे को गरुडध्वनौ ॥ ५ ॥ कश्चाऽनाहतशब्दे स्या- दुदात्त-पक्षिभेदयोः । कं जले कन्दुके मौलौ फले दुःखे सुखे मुखे ॥ ६ ॥ भय-ब्रह्म-पयः-प्रश्ने कं विषे केश-रोगयोः । कं मांसे रुधिरे शुक्रे जन्तुविपत्ति-जीवयोः ॥ ७ ॥ मान्तः कं स्यात् सुखे शीर्षे जले कान्तौ मुखेऽव्ययः । निन्दायामथ कं मान्तो वागलङ्कृति-मेघयोः ॥ ८ ॥ सुखकृन्-मङ्गले प्रोक्तः कं पादपूरणेऽव्ययः । सुष्ठ्वर्थे चाथ कुत्सायां भोज्ये कामे च कं मतः ॥ ९ ॥ काऽऽमिष-रजकी-दुर्गा- पृथ्वी-शोभासु कीर्त्यते । का शकलेऽथ कात् प्रोक्तस्- तिरस्कारेऽव्ययो बुधैः ॥ १० ॥ कां युगपदि योगे-ऽश्व- गमने वारणेऽव्ययम् । किः सूर्ये-न्द्रा-ऽग्नि-सुग्रीव- रमेश-व्याध-कर्षुके ॥ ११ ॥ किराकाशे तथा कीटे समर्थितो बुधैरिह । कि शब्द-ब्रह्मणी-प्रश्ने कुचाग्रे केकिनर्तने ॥ १२ ॥ विधवाभगनिर्देशे क्यसिमुष्टी-भरेषणे । किं क्रोधे तुच्छप्रश्ने स्यात् प्रश्ने विकल्प-कुत्सयोः ॥ १३ ॥ निन्दा-ऽभ्युपगमा-ऽऽश्चर्य- पुनरर्थ-रजस्सु किम् । किमाक्षेपे वितर्के प्र- स्तावेऽत्यन्ते-षदर्थयोः ॥ १४ ॥ ;p{0151} किं प्रकारे कियच्-छब्द- किलार्थ-करणेष्वपि । कार्त्स्न्य-कुत्सित-सादृश्य- निषेध-निश्चयेषु किम् ॥ १५ ॥ जिज्ञासितेऽथ सन्देहे किं विरामेऽव्ययो भवेत् । कीः स्यात् पिपीलिका-पृथ्वी- -भ-शत्रु-पाटले हये ॥ १६ ॥ कीः स्यात् सर्पे तथा जारे जीवे लक्ष्म्यां च कीस्तथा । कीर्धेनौ पुरुषे रोषे की कुत्सायां तथाऽव्ययम् ॥ १७ ॥ कुः पृथ्व्यामुपसर्गे वि- गर्हित-शब्दयोस्तथा । कुः कुचे कुङ्कुमे काके पापीयसि निवारणे ॥ १८ ॥ कुः कूले कुत्सिते कुत्से- षदर्थ-हीनजातिषु । कुः कलत्रे कु कुत्सायां पापे-षदर्थ-वारणे ॥ १९ ॥ कु निन्दायां तथा कूर्मे पीडायामव्ययो भवेत् । कुं रोषे कुङ्कुमे पाके प्रश्ने सम्बोधने घटे ॥ २० ॥ कूः कृत्यायां तथा पृथ्व्यां पिशाच्यां स्त्री भवेच्च कूः । कृत् स्यात् प्रत्ययभेदे ना कर्तरि स्यात् त्रिलिङ्गकः ॥ २१ ॥ के स्यात् प्राणे मदे सारे सूर्ये तथा नपुंसके । कैः शुचौ प्रणते चोक्तः कोकारः श्यान-शोकयोः ॥ २२ ॥ कोशब्दः कुक्कुरे श्यावे जनेऽथ, कौर्वृषे मतः । क्णः कणे क्णं तु साधूक्ते वृक्णे स्यात्, क्णाऽवनौ भवेत् ॥ २३ ॥ क्णिर्बुद्धौ क्णुः सुते, क्णूस्त्व- ग्नौ, क्णौः कलापिनि स्मृतौ । क्तः सिक्ते वरुणे ख्यातः क्तं वरे ज्योतिषि स्मृतः ॥ २४ ॥ क्ता मातृका-सरस्वत्योः पार्वत्यां, क्तिश्च भास्करे । क्ती वह्नौ क्तुस्तु पुत्रे-न्द्वोः क्तौर्लक्ष्म्यां विबुधैर्मतः ॥ २५ ॥ क्थो गजे हरिणे सङ्घे क्थं दुःखे क्वथने धने । क्थं दैन्ये क्था पृथिव्यां स्यात् सरमा-दुर्गयोरपि ॥ २६ ॥ क्थिर्वरे वरुणे विष्णौ क्थी शिवे परिभाषितः । क्थुः स्यात् सुते तथा ताते क्थूः शङ्खे गरुडे नरे ॥ २७ ॥ क्थेर्मारे वरुणे सूते ध्वनौ, क्थौः सरमासुते । क्नः कर्ण उत्सवे, क्नं तु श्रोत्रे करण-भीमयोः ॥ २८ ॥ क्ना लक्ष्मी-पार्वती-पृथ्वी- भित्तिषु, क्निश्च सूकरे । क्निः कृष्णे क्नुः शिवे सूर्ये शूद्र-समुद्रयोः सुरे ॥ २९ ॥ क्नूः पत्यावात्मजायां स्यात् क्मः कामे कमलाहिते । क्मं कर्मणि भवेत्, क्मा तु कामपत्न्यां रतौ तथा ॥ ३० ॥ ;p{0152} क्मिः कामिनि समाख्यातः क्मी रतीशवति श्रुतः । क्मुर्बभ्रौ क्मूः स्वभू-शङ्ख- शूकरेषु समीरितः ॥ ३१ ॥ क्मौर्मक्ष्म्यां क्यः पलाशेऽग्नौ सूर्ये, क्यं कार्य उच्यते । क्या रेणौ क्रः करे व्याघ्रे क्रो नाथे शरभे तथा ॥ ३२ ॥ क्रमिन्द्रिये क्रमाकाशे क्रा पृथ्व्यां सुरभावपि । क्रा क्रान्तरि त्रिलिङ्गः स्यात् क्रीः क्रेतरि तथा वधे ॥ ३३ ॥ क्रीरग्नावपि संप्रोक्त आख्यातो रोदने क्रये । क्रुङ् हंसे बकभेदेऽथ क्रौञ्चपक्षिणि कीर्त्यते ॥ ३४ ॥ कुत् स्त्री क्रोधे भवेत्, क्रूश्च व्याधे क्रूरे तथाऽण्डजे । क्लः कले क्लं कलेऽवर्ये क्ला कलायां समुच्यते ॥ ३५ ॥ क्वो जनके कवौ काव्ये क्वं स्यात् कमल-काव्ययोः । क्व कुत्रार्थेऽव्ययः, क्वाऽथ पृथिव्यां स्त्री समीरितः ॥ ३६ ॥ क्षः परमात्मनि क्षान्ते क्षय-क्षेपविशेषयोः । क्षः क्षमा-क्षमयोः क्षेमे क्षः क्षेत्र-क्षेत्रपालयोः ॥ ३७ ॥ रक्षसि वक्षसि क्षः स्याद् गृहे दण्डधरे तटे । भक्ष्य-भार्गव-भद्रासु क्षः संरोध-विरोधयोः ॥ ३८ ॥ वपुषि वज्रकाये क्षो विशेषे विग्रहेऽनिले । विद्युद्-दुर्विषये क्षः स्या- दनन्त-कालकूटयोः ॥ ३९ ॥ क्षः स्यात् तापस-संवर्त- स्थलेषु मसृणे धने । क्षो नरे नरसिंहे च नैरृत्ये निर्भये नृपे ॥ ४० ॥ क्षो दुःस्वप्ने बुधैरुक्तो दुःखप्रिय-परोक्षयोः । अथ स्यात् क्षं क्षये क्षेत्रे क्षिप्रे दक्षे च रक्षसि ॥ ४१ ॥ गृहे पयसि वृक्षे क्षं मधु-निर्भर्त्सने तथा । क्षत् स्त्रीलिङ्गो भवेत् तान्तो हनने च विदारणे ॥ ४२ ॥ क्षत् पीडायां, तथा क्षप् स्त्री पान्तो रात्रौ समीरितः । क्षा क्षमायाञ्च निद्रायां पृथिवी-सीतयोरथ ॥ ४३ ॥ क्षिः स्यात् क्षये क्षणे क्षेत्रे क्षिः क्षिप्र-क्षत्ररक्षयोः । नरसिंहे निवासे क्षि- र्ज्योतिषि च गतौ तथा ॥ ४४ ॥ क्षिप् स्त्री पान्तोऽङ्गुलौ, क्षीः स्या- दग्नौ, क्षुः क्षुद्र-वासवे । क्षुः स्यात् सूर्ये च सिंहे स्या- दन्न-स्तवादिशब्दयोः ॥ ४५ ॥ क्षुत् स्त्री तान्तः क्षुते ख्यातो धिक्कायां क्षुत् क्षबेऽपि च । ;p{0153} क्षुद् धकारान्तकः प्रोक्तः स्त्री बुभुक्षा-ऽन्नयोरिति ॥ ४६ ॥ क्षूः स्यात् प्रणाशने चाथ पापिष्ठे, क्षेश्च कर्षुके । क्षैर्मूर्ख-जारयोरुक्तः क्षोशब्दः क्षुरके व्रणे ॥ ४७ ॥ क्षौर्धर्तृ-खञ्जयोः पृथ्व्यां क्ष्मा पृथिव्ये-कसङ्ख्ययोः । क्ष्मा पुस्तके च शूचौ स्या- दनिन्दा-प्रत्यवाययोः ॥ ४८ ॥ नवोढाया भगे क्ष्मा च सरितायां समीरितः । नपुंसकः क्ष्यमुत्क्षारे क्षेत्रे क्षीरे क्ष्यमीरितः ॥ ४९ ॥ क्ष्या पृथ्व्यां जगदीश्वर्यां क्षः क्षारे क्षरणे क्षरे । स्यात् क्षोऽक्षराक्षरेऽक्षोडे क्ष्रं क्षारे क्षोदने खरे ॥ ५० ॥ क्षरणे क्षयिनि क्ष्रं स्यात् क्ष्रा लक्ष्म्यां कीर्त्यते बुधैः । क्ष्लः क्षुद्रवदने श्लोके क्ष्लं क्लीबः क्षुद्र-वस्तुनोः ॥ ५१ ॥ शरणे मरणे क्ष्लं स्यात् क्ष्लं वने भवने तथा । स्त्रीलिङ्गः क्ष्ला भवेत् क्षोण्या- मक्षौहिण्यां तथा भवेत् ॥ ५२ ॥ क्ष्वः क्षोदे स्यात् पुमान्, क्ष्वं तु पालने पितृतारणे । क्ष्वं क्षीवे क्षरणे क्षीरे क्ष्वा गङ्गायामुदाहृतः ॥ ५३ ॥ ;k{खकारादिः} ;c{॥ अथ खकारादिः ॥} खोऽथ मोक्षे सुखे स्वर्गे सामान्य-सूर्यायोरपि । खः स्याच्शान्तरसे शून्ये क्षेप-संहारयोश्च खः ॥ १ ॥ खः कृशे कुञ्जरे कामे कुणौ दीने नभोगतौ । खः खग-खेट-खड्गेषु स्यान्निन्दा-खगराजयोः ॥ २ ॥ खः परब्रह्मणि प्रश्ने स्यादाकाशा-ऽवसानयोः । वितर्के वेदने वारि- जठराग्नी-न्द्रियेषु खः ॥ ३ ॥ निश्चये नृपतौ खोऽथ शिवे कृष्णे निगद्यते । खं स्वर्ग-सुख-संवेदे संवेश-सूर्ययोस्तथा ॥ ४ ॥ खं सैन्य-सत्य-शून्येषु खं क्षेत्रे क्षेत्रपालने । इन्दिया-ऽऽकाशयोर्बिन्दौ कर्म-कुशा-कृपासु खम् ॥ ५ ॥ खं सर्प-नृत्य-गुह्येषु पृथिव्यां रङ्क-रन्ध्रयोः । खं राजनि पुरे खड्ग- खण्डयोरग्नि-सम्पदोः ॥ ६ ॥ खं चन्द्रमण्डले बाला- स्तने च दन्तधावने । खं श्रोता-वर्ण-नक्षत्र- -फलक-ब्रह्म-बुद्धिषु ॥ ७ ॥ खं भवेदभ्रके गेहे दीप्तौ हलफले तथा । ;p{0154} गरुडे कुणिसंभेदे तन्द्र्यां शान्तरसे च खम् ॥ ८ ॥ खा पृथ्व्यां नखरे तीक्ष्णे ब्राह्मी-लक्ष्मी-नदीषु खा । खिः स्यात् कामेऽथ खीर्ब्रह्म- गदयोः खुस्तथानले ॥ ९ ॥ खूः स्याद् बृहस्पतौ चाथ खेः प्राणे परिकथ्यते । खैर्भ्रातरि भवे पुत्रे खोकारः खञ्ज उच्यते ॥ १० ॥ खौरीशे-न्द्रा-ऽग्नि-सूर्येषु ख्योऽग्नौ खरे ख्यमम्बरे । ख्यं सख्ये ख्या भवेत् ख्यातौ खर्यां प्रकथने तथा ॥ ११ ॥ ख्रः खले रासभे सूर्ये ख्रं मरणे च मैथुने । ख्रं दुष्टहृदये खड्गे ख्रा कैकय्यां क्षितावपि ॥ १२ ॥ ताडका-पूतना-सूर्प- णखासु ख्रा समुच्यते । ख्लः खले ख्ला सुरा-क्षुद्रा-ऽ ब्जलोचनाबलासु च ॥ १३ ॥ ;k{गकारादिः} ;c{॥ अथ गकारादिः ॥ } गोऽथ मातरि सूर्ये स्यात् सङ्गीत-सिंहयोः स्मृतौ । गः प्रीते परमार्थेऽपि शब्द-कृष्ण-भवा-ऽग्निषु ॥ १ ॥ गश्च गातरि गन्धर्वे गीते गति-गणेशयोः । गो गोमुखे च गाथायां गान्धार-गजकुम्भयोः ॥ २ ॥ ग आक्षेपे महीपुत्रे वाचा-गजमुखो-त्तमे । वस्तुनि यातरि स्याद् गो गरुड-गुरुवर्णयोः ॥ ३ ॥ सुरसिद्धौ च गः स्याद्, गं वादित्रे शरणे तथा । वर-संगीत-गात्रेषु गं गिरा-गाथयोर्गतौ ॥ ४ ॥ शास्त्रगातरि भार्यायां गीते गं गाऽवनौ गतौ । गा गाथायामुमायां स्याद् गा लक्ष्मी-सुरशय्ययोः ॥ ५ ॥ गाः प्रोच्यते ह्यनाबन्तो गाथक-गति-धेनुषु । गिर्बुद्धावथ संप्रोक्तो रकारान्तश्च गीः स्तुतौ ॥ ६ ॥ स्त्री भाषायां सरस्वत्यां वाक्ये योषिति गीर्मतः । गीर्गिरौ बुद्धिमच्-श्रीमत्- पत्नी-सुरा-सुधास्वपि ॥ ७ ॥ दिशा-वाण्योः सरस्वत्यां गीर्दुर्गायां निगद्यते । गुः काम आसवे कान्तौ प्राणे भीरौ समाहृतः ॥ ८ ॥ गूः स्यान्मले गुदे सूर्ये गुरौ श्वाद-पुरीषयोः । गूश्च मित्रे तथा सेतौ प्रयत्ने विद्भिरीरितः ॥ ९ ॥ गेर्जनवञ्चके पाप- युक्ते गैरग्नि-सूर्ययोः । गैः पलाशे च शब्दे स्या- दशोक-गीतयोरपि ॥ १० ॥ ;p{0155} गोशब्दोऽथ गणेशेऽस्त्रे स्वर्गे सुरभि-सत्ययोः । सैन्ये सौख्ये च गोकारो नार्यां श्रवण-बाणयोः ॥ ११ ॥ गोकारो मुनिभेदे स्यात् किरणे करणेऽर्जुने । गोशब्दः पर्वते भूम्नि द्विपदे सूर्य-चन्द्रयोः ॥ १२ ॥ गोकारो वह्नि-वस्त्रे स्याद् वज्र-वरा-वृषेष्वपि । गोशब्दो मूषके मातृ- मृगे मदे मुखे जले ॥ १३ ॥ गोकारः क्रतुभेदे स्यान्- नाग-नयन-धेनुषु । गोशब्दः स्यात् पशौ पृथ्व्यां खण्ड-चारि-दिशास्वथ ॥ १४ ॥ गोकारश्च सरस्वत्या- माकाशे लोमनि स्मृतः । गौः प्रभायां गुरौ वज्र- वाचा-वृषभ-वारिषु ॥ १५ ॥ गौर्लज्जायामुमायां स्यात् स्वर्गे पृथ्व्यामथेन्द्रिये । गौर्दिशायां तथा लक्ष्म्यां नयन-च्छाग-धेनुषु ॥ १६ ॥ ग्धिः स्त्री स्याद् भक्षणे, ग्ना स्त्री स्त्रीमात्रे, ग्माऽवनौ स्मृतः । ग्यो गर्गे ब्रह्मणि प्रोक्तो ग्यं स्मृतो गगने गते ॥ १७ ॥ ग्या स्त्रीलिङ्गस्तु योनौ स्याद् ग्र आसारे गदे गुदे । क्लीबो ग्रं स्याद् गृहे शुक्र आकाश-ग्रहचक्रयोः ॥ १८ ॥ ग्रा राज्ञ्यां सूर्यपत्न्यां, ग्लो गुडे, ग्लं गलने गले । ग्लं नद्यां, ग्ला जनन्यां स्त्री ग्लौर्ग्लानि-देहयोस्तथा ॥ १९ ॥ ग्लौः पृथ्वी-चन्द्र-कर्पूर- कृष्णपक्ष-शनिष्वपि । ग्वो धेनौ गरुडे, ग्वं तु गुह्ये, ग्वा सुरभौ स्मृतः ॥ २० ॥ ;k{घकारादिः} ;c{॥ अथ घकारादिः ॥} अथ घो देव-सूर्ये स्याद् मेघे मेघा-ऽश्वमेधयोः । मारणे मरणे मन्त्रे भोगे घो राज-रुद्रयोः ॥ १ ॥ घो धर्म-घोष-घण्टासु घटने घट्टने घटे । घो घर्घरे तथा घोरे घो घण्टीशे घनस्वरे ॥ २ ॥ घो गज-वाद्य-वैशाख- किङ्किणी-किङ्किणीरवे । घश्च समुद्र-संवेगा-ऽ ग्नि-शिवोत्तम-शक्तिषु ॥ ३ ॥ घः पृथ्वी-पुत्र-वार्ता-ऽन्त- र्भाव-दुस्तर-खड्गिषु । निश्चये परमार्थे घो विशेषे सुरभौ श्रवे ॥ ४ ॥ घः संवेशेऽमृते चाथ घं नटांह्रौ मृगे तथा । घं पुण्ये नूपुरे पापे घं पाषण्ड-प्रवाहयोः ॥ ५ ॥ ;p{0156} घं ध्वनि-वाद्ययोरुक्तो घं स्यादमृत-घोरयोः । घ सत्ये तावदर्थे स्याद् विशेषे निश्चयेऽव्ययः ॥ ६ ॥ घा घोर-घात-घण्टासु क्षुद्रे घनध्वनौ ध्वनौ । घा वार्तायां च किङ्किण्यां पृथिवी-दुर्गयोश्च घा ॥ ७ ॥ लक्ष्म्यां शच्यां तथा काञ्च्यां ताडने घा प्रकीर्तितः । घिरुच्यते बुधैर्दीप्तौ घृते च घृतकर्मके ॥ ८ ॥ घीः कुमारेऽमराचार्ये घुरथ कलि-मूढयोः । घुर्दानवे च घोणायां सर्पेऽकरुण-घोषयोः ॥ ९ ॥ अथ घुमव्ययः प्रोक्तो विद्भिरव्यक्तनिःस्वने । घूर्घोणायां घने पृथ्व्यां सङ्कर्षणे तथा ध्वनौ ॥ १० ॥ घूरमले गुदे प्रोक्तः सुराधीशे समीरितः । घेः कीले कुर्कुरे शङ्खे घैः सूर्ये सरमासुते ॥ ११ ॥ घोकारोऽथ ध्वनौ ख्यातौ घौः स्वर्ग-पापयोस्तथा । घ्नो घने नाशके, घ्नं तु पतति निबिडे जले ॥ १२ ॥ घ्नन् नुदति त्रिलिङ्गः स्याद् घ्ना दिवि पण्डितैर्मतः । घ्यः स्याद् घूके ध्वनौ, घ्यं स्यात् तोये, घ्योर्वी-कलत्रयोः ॥ १३ ॥ घ्रो घोष-चन्द्र-चूतेषु घ्रः कामाऽ-ज्ञ-भगेषु च । घ्रं निजे वदनेऽगारे घ्रा घ्रातृ-घ्राणयोर्भवेत् ॥ १४ ॥ घ्रा घृणा-सरमापुत्र्यो- र्घ्लोऽश्वे घ्लं सूतपातने । घ्लं वृक्णे कथितो, घ्ला तु जघनायां समर्थितः ॥ १५ ॥ घ्वः पुमांस्तु ध्वनावुक्तो घ्वं क्लीबश्चाथ घर्षणे । घुष्टे घासे तथा घ्वं स्यात् स्त्रीलिङ्गो ध्वाऽरणौ भवेत् ॥ १६ ॥ ;k{ङकारादिः} ;c{॥ अथ ङकारादिः ॥} ङोऽथ सिद्धौ जने प्राणे सौदामिन्यां भयङ्करे । ङः सर्पे पूजके शून्य- शब्दज्ञ-परिपन्थिषु ॥ १ ॥ अश्वे ङो दानवाञ्छाया- माधौ काक्षा-ऽनुबन्धयोः । ङो द्विजे भैरवे चौरे निन्दायां निनदे नदे ॥ २ ॥ ङो विषयस्पृहायां स्याद् विषये व्यसने तथा । अवसायिनि ङः प्रोक्तो-ऽ थ ङं ब्रह्म-वितानयोः ॥ ३ ॥ सुख-विष-पयस्सु स्याद् घृते जलेऽञ्जने च ङम् । ङा पृथिव्यां च लक्ष्म्यां स्याद् ङिर्बीभत्सौ नृगे तथा ॥ ४ ॥ ;p{0157} ङिः सूक्ष्मे ङीर्भवेद् राज्ञि ङीः कृकलासपे भवेद् । ङुः सूकरे समाख्यातो ङूर्व्याघ्रे संप्रकीर्तितः ॥ ५ ॥ ङेर्बुधैरुच्यते सूते तथा ङैश्च परासरे । ङोकारश्चाथ सिंहे, ङौः सूर्य-चन्द्रा-ऽरुणा-ऽग्निषु ॥ ६ ॥ ङ्रोऽशरणे नरेऽशूरे ङ्रं हानौ रोदने गृहे । ङ्रं नाशायां प्रभायां च ङ्रा मारिणौ समाहृतः ॥ ७ ॥ ;k{चकारादिः} ;c{॥ अथ चकारादिः ॥} अथ च ईश्वरे चन्द्रे चौरे चकोर-चापयोः । चश्चुह्ल्यां चञ्चले चञ्चौ चारणे चारुदर्शने ॥ १ ॥ चश्चित्रधारि-चण्डेश- चतुष्पथेषु चेतने । चः सूरि-सूर्य-सर्पेषु समुद्रे समरे स्वरे ॥ २ ॥ चः कोपे कच्छपे कूर्मे- श्वरे किरण-सेवके । निर्बीजे विरसे वृक्षे लक्ष्मी-शोभा-मुखेषु चः ॥ ३ ॥ हलिनि चो भवेद् दिव्ये वै तारका-तुरुष्कयोः । चो जीवे विमले चाथ दुर्जने विद्भिरीरितः ॥ ४ ॥ चं पयसि चरित्रे स्याद् रुधिरे सुख-दुःखयोः । भ्रमणे चं तथा पापे पण्डितैः परिकीर्तितः ॥ ५ ॥ अव्ययं च समाहारे-ऽ न्वाचये पादपूरणे । च कारणे समूहार्थ- विनियोग-बलेषु च ॥ ६ ॥ च विकल्पे समासार्थे समस्तार्थे समुच्चये । प्रसङ्ग-वाक्यविस्तार- पक्षान्तरा-ऽन्तरेषु च ॥ ७ ॥ अन्योन्यार्थे समाने च शेषे कोपेऽवधारणे । च तुल्ययोगिता-ऽथार्थे वृतौ विद्भिरुदाहृतः ॥ ८ ॥ चा कन्यायां च शोभाया- मदितौ स्वर्ग-वृक्षयोः । चिर्माष-ज्ञान-चारेषु चिः स्यात् सूर्या-ऽग्नि-बुद्धिषु ॥ ९ ॥ त्रिलिङ्गश्चित् स्मृतो ज्ञातृ- वह्नि-चयनकर्तृषु । चित् स्यात् स्त्री चेतने बुद्धौ ज्ञा-चेतनयोश्च चित् ॥ १० ॥ अव्ययं चित् त्वसाकल्ये-ऽ व्यक्तानुकरणे तथा । अव्ययं चिद् दकारान्तः स्यादसाकल्य-निन्दयोः ॥ ११ ॥ चिद् भवेदुपमायां तु शब्दानुशासनेऽव्ययः । चीर्हस्तिन्यां मषौ ख्यातश्- चुः संस्थाने चतुष्पथे ॥ १२ ॥ ;p{0158} चकोर-कोक-कालेषु चुर्वज्रे भीरु-बाणयोः । चूर्भवेद् मार्गणे सूर्ये भूमिजराजि पक्षिणि ॥ १३ ॥ चेः स्यादिन्द्रे तथा सूर्ये कृष्णेऽपि विद्भिरुच्यते । अव्ययं चेत् प्रशंसायां पक्षान्तरे च कुत्सिते ॥ १४ ॥ चेत् साकल्ये समाख्यातो यद्यर्थेऽप्यव्ययः स्मृतः । असन्देहेऽपि संदिग्ध- वचने चेत् तथाऽव्ययम् ॥ १५ ॥ चैश्चन्द्रे गरुडे स्याच्चो- कारः पाषण्डिनि स्मृतः । चौरग्नौ वृषभे धेना- वुद्धते संप्रकीर्तितः ॥ १६ ॥ च्यश्चये च्यं च पैशाच्ये याच्ये शोच्ये निगद्यते । च्या चातुर्यां च च्रश्चूते चारणे चरमे चरे ॥ १७ ॥ च्रः श्लोके तु पुमान्, क्लीबश्- च्रं स्यान्मैथुनकेऽप्रजे । च्रा स्त्रीलिङ्गो बुधैश्चञ्चू- चमू-चाटुषु संमतः ॥ १८ ॥ ;k{छकारादिः} ;c{॥ अथ छकारादिः ॥} छः स्यादथ शिवे दाने भेदके छेदके तथा । छेदना-ऽऽच्छादन-च्छागे छश्छन्दसि च पारदे ॥ १ ॥ छः सोमे सोमनैर्मल्ये स्यात् सूते सूक्ष्म-सूर्ययोः । संवृतौ सरणिस्थे छः सर्प-मलिनयोस्तथा ॥ २ ॥ छो मान-मेघयोर्ज्ञातृ- चारिणोश्चार-चौरयोः । छो नित्ये निर्मले चाथ तरले शक्तिधारके ॥ ३ ॥ श्लेष्म-मन्त्रप्रलापे छः शिरो-मुशलि-विद्युति । छं स्वर्गे किरणे कूटे मुख-च्छेदनयोरपि ॥ ४ ॥ छं कमले कुले कूले भूतले लाञ्छने गृहे । छं तडित्-तरण-च्छन्दो- लिप्सास्वाच्छादने मतः ॥ ५ ॥ छा नदी-रोष-शैलेषु- च्छादने छेदने तथा । छेदके पारदे छाऽना- बन्तश्छाः स्याच्च बालके ॥ ६ ॥ छिर्गर्हायां कुलाले स्याच्- छले, छिच्छेदके तथा । छेदने, छीश्छवौ, छुश्च शुके, छु तरले भवेत् ॥ ७ ॥ छूः पृथिव्यां, भवेच्छेश्च पाशिनिच्छैः सुरालये । छोकारोऽलङ्कृते पूर्णे वायौ, छौश्च परश्वधे ॥ ८ ॥ पर्वते पवने छागे छौः स्याद्धरिण-वृक्षयोः । ;p{0159} वानरे छौः पुमांल्लोह- धारायां स्त्री समीरितः ॥ ९ ॥ छ्यश्छागे विद्भिराख्यातश्- छ्या भारत्यामुदाहृतः । छ्रो द्वेषिणि तथा खड्गे छ्रश्छुरके प्रकथ्यते ॥ १० ॥ छ्रं छले गमनेऽगारे छ्रा शुनी-विष्टयोस्तथा । छ्रा वेश्यायामथच्छ्लस्तुच्- छले छलकृति स्मृतः ॥ ११ ॥ छ्लं स्याच्छिवालये, छ्ला स्या- दूर्ध्वायां नगरेऽपि च । छ्वोऽजे छ्वं स्वच्छ-गोमूत्रो- च्छ्रेषुच्छ्वा स्याच्छवावपि ॥ १२ ॥ ;k{जकारादिः} ;c{॥ अथ जकारादिः ॥} जोऽथ जनार्दने जन्म- जनक-जन-जेतृषु । जो जारे जातमात्रे स्या- ज्जवि-जीव-जवे जये ॥ १ ॥ जः स्यान्मेघे महादेवे जो भुक्तौ मत्सरे तथा । महोत्सवे च मेरौ जः पुत्र-च्छेदक-गायने ॥ २ ॥ जो विषे विषमे वामे विस्तारे विगते च जः । स्वर्गे सूर्ये तथा चारे जः कार्य-शब्द-योनिषु ॥ ३ ॥ तेजसि पातरि स्याज्जः पिशाचे पद्मजे तथा । जं जीव-जन्मनोर्जाते जले निर्मल-तेजसोः ॥ ४ ॥ जं रजते स्तने वृत्ते पत्न्यां कटीविभूषणे । जं द्वीपे योषिति प्रोक्तस्- तूर्यविवर-शब्दयोः ॥ ५ ॥ जा नरे जारजे जारे जीविते जनवल्लभे । जा स्याद् योनौ च शय्यायां जा स्याद् योग-नियोगयोः ॥ ६ ॥ उद्भूति-खलयोर्देव- वाहिन्यां जा समुच्यते । जा भर्तृभ्रातृभार्यायां यातरि मातरि स्मृतः ॥ ७ ॥ जा स्यात् समुद्रवेलायां जास्त्रिर्जननकर्तरि । जाः पुमान् स्याज्जले चाथ पिशाचे गणके तथा ॥ ८ ॥ आकाशे च जने जास्तु कथितः शब्दकोविदैः । जिर्जय-जन्मनोर्जेतृ- जापे शापे सदाशिवे ॥ ९ ॥ पिशाचे जिः समुद्दिष्टो जित् तथा जेतरि स्मृतः । जीः कीर्तौ करुणे जेतृ- यूकयोर्जल-तूर्णयोः ॥ १० ॥ सबले संवरे जीः स्याद् यवे विद्भिः प्रकीर्तितः । जुर्जनन्यां जवे जाया- पैशाच-कीर्ति-विष्णुषु ॥ ११ ॥ जुराकाशे स्वके प्रोक्तः सङ्गरे संप्रकीर्तितः । ;p{0160} जुस्त्वरागमने चाथ सामान्यगमने तथा ॥ १२ ॥ जूर्मातरि सरस्वत्या- माकाशे कीटके भगे । जयने जवयुक्ते जू- र्जीवने जवने नवे ॥ १३ ॥ जूस्त्वरागमने ख्यातः सामान्यगमनेऽपि च । जूः पिशाचे पिशाच्याञ्च विगते विगतद्युतौ ॥ १४ ॥ कुलालजे बृहद्ध्वाने प्रादुर्भावे च जूस्तथा । जृ-जॄकारौ जरायां च दुर्गतौ, जेः शुनीशिशौ ॥ १५ ॥ जैरादित्ये तथाऽग्नौ स्याज्- जोकारः कमलासने । जौरज-जारयोरुक्तो यूनि च समुदाहृतः ॥ १६ ॥ ज्ञो मुनौ मूर्धनि व्यूहे विषये ब्रह्म-गर्वयोः । ज्ञो लेपे पण्डिते पद्मा- सन-शशाङ्कपुत्रयोः ॥ १७ ॥ खरध्वाना-ऽऽत्म-सौम्ये ज्ञ उत्तान-मूढयोः कुजे । ज्ञं संभवेद् भये पद्मे तथा स्याज्ज्ञाऽवबोधने ॥ १८ ॥ ज्यो जये यजमाने स्याज्- ज्यं भवेज्जात-याज्ययोः । ज्या मातृ-वाहिनीपृष्ठ- मौर्वी-पृथ्वीषु चोच्यते ॥ १९ ॥ जयायां विजयायां ज्या शम्या-लक्ष्म्योरुदाहृतः । ज्योक् प्रश्न-शीघ्रयोः शुक्ल- त्वे सम्प्रत्यर्थकेऽव्ययः ॥ २० ॥ ज्योक् तथा कालभूयस्त्वे युगपदर्थकेऽव्ययः । ज्रोऽटेऽग्नौ गगने वृद्धे ब्रह्म-विष्णु-महेश्वरे ॥ २१ ॥ ज्रो जटायौ जरायौ स्याज्- जमदग्नौ जनीपतौ । ज्रं रजसि समाख्यातो रजस्वलामुखे श्रुतः ॥ २२ ॥ ज्रा जरा-जरठा-जार- वत्सला-षट्पदीषु च । ज्रा घृणौ ज्वो जवे, ज्वं तु जुष्टे, ज्वा विद्युति स्मृतः ॥ २३ ॥ ;k{झकारादिः} ;c{॥ अथ झकारादिः ॥} अथ झः शङ्कर-ब्रह्म- बृहस्पतिषु बन्धने । विनष्टे विवरे वाञ्छा- व्यूहिने विषये च झः ॥ १ ॥ अङ्गे सङ्गे च झः सूर्ये स्वपने हंस-हस्तयोः । भ्रमणे भ्रमरे भद्र- भैरव-गायनेषु झः ॥ २ ॥ झः प्रतापे ध्वनौ वायौ नेपथ्ये पद्मभू-मदे । झः स्यात् पद्मासने भीम- घर्घरध्वनि-दातृषु ॥ ३ ॥ खरध्वनौ च झो लेप उपाये पाशिनि श्रुतः । झश्चार-चोरयोः शून्ये झञ्झानिलो-र्ध्वक्षेपणे ॥ ४ ॥ ;p{0161} रुचौ मञ्जुलवायौ झ- श्चारुवाग्-दैत्यराजयोः । झः शीर्ष-मत्स्ययोर्नक्तं झः प्रचण्डानिले-न्द्रयोः ॥ ५ ॥ झः स्वस्तिके स्थितौ स्थाणौ झण्टीशे जलवर्षणे । झो गूढरूपके चारु- वाद्य-रुचिरचारयोः ॥ ६ ॥ झं वने भुवनै-कान्त- सङ्गते मैथुने तथा । झं भय-पद्मयोर्भद्रे झा विद्युति मरुन्-मदे ॥ ७ ॥ झा योनौ झिः कपौ चाथ कलायां, झीर्गजे तथा । झुर्भृगु-शोकयोः, स्याज्झूः सङ्घे सुरे ध्रुवेऽरुणे ॥ ८ ॥ झेः सोम-रोम-रामेषु चर्मकारे भवे च झेः । झैर्गुरावथ, झोकारः कर्णे, झौश्च सुरालये ॥ ९ ॥ झ्यो नदे स्यात् पुमान्, क्लीबो-ऽ थ झ्यं स्याज्झषनाशने । झ्या स्त्रीलिङ्गस्तु नद्यां स्याज्- झ्रो दार-जरठे नदे ॥ १० ॥ झ्रं जुष्ट-घुष्ट-पुष्टेषु सृष्टे भृङ्गे गृहे कजे । झ्रा हानौ च जरायां स्या- दीश्वर्यां झ्रा प्रकथ्यते ॥ ११ ॥ झ्वः समुद्रे पुमानुक्तो झ्वं क्लीबो दधि-दुग्धयोः । झ्वा तु वशिष्ठवध्वां स्त्री- लिङ्गः शब्दानुशासने ॥ १२ ॥ ;k{ञकारादिः} ;c{॥ अथ ञकारादिः ॥} ञोऽथ ज्ञान-शिरो-दाना-ऽ वलोक-ब्रह्म-सीमसु । ञो गायने मुनावग्नौ दावाग्नौ घर्घरध्वनौ ॥ १ ॥ ञः स्यात् खरध्वनौ मान आत्मनि झर्झरध्वनौ । ञो व्यूहे विषये वाम- गतौ विपदि कुक्कुरे ॥ २ ॥ ञो निश्चये बलीवर्दे चतुर-चन्द्रपुत्रयोः । शुक्र-लेप-कलापेषु गत-नष्ट-पटेषु ञः ॥ ३ ॥ मन्त्र-रूपक-गूढे ञः सूरौ निर्लोप-लोपयोः । ञो बुधैर्व्यूहितेऽभावे संप्रोक्तो गर्दभध्वनौ ॥ ४ ॥ सिद्धौ कृष्णे, त्रिलिङ्गो ञ उत्ताने मूढरूपके । ञं घुर्घुरध्वनावुक्तः पद्मे सर्पि-रपत्ययोः ॥ ५ ॥ परंब्रह्मणि भीतौ ञं ञा नास्तिक्ये च सीमनि । ञा जरा-राशि-वापीषु ञिः पर्वते समाहृतः ॥ ६ ॥ ज्ञानवृद्धे निषेधे ञिः स्यात् सम्राट्-चञ्चला-ऽग्निषु । ;p{0162} ञीः सुराप्रिय-पाषण्डि- ध्वनिषु, ञुश्च निर्मितौ ॥ ७ ॥ ञुर्मृग्यां ञूः सुवस्त्रेऽथ ञेः कार्तस्वरसन्निभे । ञैर्द्रोपद्यां च, ञोकारः पल्लाशे, ञौर्भवेद् गजे ॥ ८ ॥ ञौः पूर्वा-ध्रुवयोर्धेनौ पाषण्डवाचि संस्मृतः । ञ्रश्चौरे ञ्रं प्रभोर्वक्त्रे ञ्रा स्त्री नीतौ गतौ तथा ॥ ९ ॥ ;k{टकारादिः} ;c{॥ अथ टकारादिः ॥} अथ टः शङ्करे पृथ्व्या- मर्धचन्द्रे ध्वनौ जले । शून्य-टङ्कार-तापेषु टो धनुस्-त्रास-ताडने ॥ १ ॥ टः पाद-पुत्रयोः प्लीह- पिप्पल-धूम-राजसु । वायु-वामन-विश्वास- विषयेषु स्थरेऽपि टः ॥ २ ॥ ट आवर्ते करङ्के स्यात् करटे करके कटे । कटके टः कवाटेऽश्वे सूर्यांशु-मूत्रकृच्छ्रयोः ॥ ३ ॥ टं करङ्के कुलालास्त्रे करटे कायकीकसे । प्रहारे पटहे पात्रे पृथ्व्यां टं धेनु-मेघयोः ॥ ४ ॥ टं श्रुति-मृति-नेत्रेषु चकोरे भ्रमणे भवेत् । टा सूपायां च मृज्यायां पृथ्वी-फटा-जटासु टा ॥ ५ ॥ व्यावृत्तौ घटिकायां टा कथ्यते पण्डितैरिह । टिः स्याद् देवशुनी-पृथ्वी- पारस्त्रैण-करेणुषु ॥ ६ ॥ टि पक्षिण्यथ टी नारी- मुद्रो-र्मिष्वथ टीर्गिरौ । टुर्भूषा-मणि-मेण्ढ्रेषु कवाट-चूड-कङ्कणे ॥ ७ ॥ टुर्भ्रष्टे चाथ टूर्भीतौ टूः स्वसरि ननान्दरि । टेः स्यात् काणेऽथ टैरन्धे प्रोते रिपौ हये तथा ॥ ८ ॥ टोकारः पण्डितैः प्रोक्तः परेते गुरु-शिष्ययोः । टौर्विनीते समाख्यातो दवे वृषेऽपि कीर्तितः ॥ ९ ॥ ट्यः कुटे ट्यं भवेत् स्फेट्ये ट्या सुरायां क्षितौ तथा । ट्रः पीठे ट्रं च कासारे ट्रं घोटकमुखे भवेत् ॥ १० ॥ ट्रा पूपायां विजानीयाट्- ट्वो मनु-रामतातयोः । ट्वस्त्वत्रौ ट्वं भवेत् पुष्टे ट्वा खट्वायामुदीरितः ॥ ११ ॥ ;k{ठकारादिः} ;c{॥ अथ ठकारादिः ॥ } अथ ठः शङ्करे शङ्ख- ध्वनौ शयन-शून्ययोः । शठे दृढे महामन्त्रे ठो मुद्रा-मेघ-मन्त्रिषु ॥ १ ॥ ;p{0163} कृष्ण-कुण्डल-केशेषु ठः कामे कठिने क्षये । जनता-ऽऽकाश-पुत्रेषु ठश्चक्रे चन्द्रमण्डले ॥ २ ॥ ताण्डव-त्रास-हासे ठो वर्ण-वाचालयोर्वृषे । ठो वृषभध्वनौ वृत्ते बस्तौ बृहद्ध्वनौ ध्वनौ ॥ ३ ॥ ठ आधि-ज्ञानि-चित्रेषु राज-रौद्ररसा-ऽऽसने । ठः स्याज्जटा-घटा-ऽऽसारे भवन-परितापयोः ॥ ४ ॥ ठो जलाशय-सूर्यांशु- साहस-स्तम्भनेषु च । सुस्वने मण्डले ख्यातष्- ठः करेणूच्चशब्दिते ॥ ५ ॥ ठो लोकगोचरे चाथ स्थायिनि स्थविरे तथा । कमण्डलौ च पालिन्यां लाङ्गलीशे ठ इश्वरे ॥ ६ ॥ अथ नपुंसकष्ठं तु प्रोक्तः शारद-शून्ययोः । ठं चन्द्रमण्डले ज्ञाने साहसे स्तम्भने जले ॥ ७ ॥ ठं सुधायां समाख्यातो विवरे जलबुद्बुदे । अनुकरणशब्दे ठं विद्वद्भिः परिकीर्तितः ॥ ८ ॥ ठा कर्णकोटरे शून्या- नासिका-विधवास्वपि । ठा व्रीडावाचि संप्रोक्तो डाकिन्यामपि ठा भवेत् ॥ ९ ॥ ठिः कुमारेऽमरारातौ ठी मत्स्यप्रकारे तथा । ठीः कुटुम्बि-सपुत्रेऽथ ठुर्देवसेवने यमे ॥ १० ॥ विलये वञ्चके ठुः स्याद् विजय-वेषकारयोः । ठुस्त्वष्टरि समाख्यातः कदम्बे ठुस्तथा भवेत् ॥ ११ ॥ काञ्च्यां प्रियार्जिते ठुः स्याद् नखोच्छूनकुचे च ठुः । कुत्रिमरोदने ठुः स्याट्- ठूः प्रज्ञायां धृतौ तथा ॥ १२ ॥ ठेः समासे वृथाहास्ये सूर्ये, ठैर्व्यासके मतः । ठोकारस्तु समे, ठौः स्यात् तारायां गौतमे तथा ॥ १३ ॥ ठ्योऽनले नाददेऽथ, ठ्यं शाठ्ये, ठ्या दिवि संस्मृतः । ठ्रं मिष्टान्ने फलस्रावे ठ्रा टिट्टा-मद्ययोरथ ॥ १४ ॥ ठ्रा भ्रमर्यां प्रविख्यातष्- ठ्वस्तु पीठ-वशिष्ठयोः । ठ्वमक्षे पुष्करे, ठ्वा तु मधुरायां समुच्यते ॥ १५ ॥ ;k{डकारादिः} ;c{॥ अथ डकारादिः ॥ } अथ डः शङ्करे शून्ये शङ्खध्वनौ ध्वनौ शठे । भयङ्करे भये चासे डश्चन्द्रे चन्द्रमण्डले ॥ १ ॥ ;p{0164} डश्चञ्चलस्त्रियां हास्ये नार्यामिक्षुरसे क्षये । डस्त्राण-त्रासयोर्वामे विषये च जये जडे ॥ २ ॥ पक्ष-पान्थ-पिशाचेषु जाप-काल-दृढेषु डः । रागे भगन्दरे डः स्याच्- शिश्ने भयङ्करध्वनौ ॥ ३ ॥ गिरीशे गायने रौद्र- रसे डोऽतिशयेऽधरे । आक्षेपे दक्षिणे केलौ गायके सङ्गरे च डः ॥ ४ ॥ डः सार्थ-सारव-ज्ञाप्य- वेगित-वाडवाग्निषु । डः स्याद् दुर्गपथे बन्दि- वृन्द आन्दोलने तथा ॥ ५ ॥ डो ध्याने चामरे वृक्षे तोमरे दारके भवेत् । डः स्यान्नन्द्यां क्षमायां च डं पन्थे स्यान्नपुंसकः ॥ ६ ॥ डं स्याड्डमरुके नेत्रे वृथोदिते च डामरे । पयसि क्षुद्रजन्तौ डं दुर्गे दुर्गपथे वधे ॥ ७ ॥ डा जिह्वा-पृथिवी-लक्ष्मी- भारती-चण्डिकास्वपि । डाकिन्यां कुण्डलिन्यां डा सरमा-भूतभाषयोः ॥ ८ ॥ डा वृथावाचि शिक्षायां डा व्रीडा-ढक्कयोस्तथा । डिर्गौर्यां डी करे मुस्ता- पत्रे डीर्व्योमगामिनि ॥ ९ ॥ कालक्षेपे च दण्डे डी- र्डीर्धात्री-शिवयोरपि । डुरुत्पाते जरत्काये दाने भ्रान्ते वृथाकुले ॥ १० ॥ व्रणे चन्द्रे समाख्यातो डुर्बाल-बलहीनयोः । डुः फेने विद्भिराख्यातो-ऽ -ल्परोदने समीरितः ॥ ११ ॥ डूर्हिंसा-व्यर्थवाचाले सर्पे शाप-मयूरयोः । डेर्धर्मे डैर्बलीवर्दे डैरकर्णे समाहृतः ॥ १२ ॥ डोकारोऽथान्त्यजे पापि- पुरुषे पुरुषाधमे । डौरथ स्याद् वधे चापि निन्दायां परिकीर्तितः ॥ १३ ॥ डौः संप्रोक्तः करे जारे धेनौ शब्दानुशासने । ड्यो दाडिमतरावुक्तः करे, ड्यं जाड्य उच्यते ॥ १४ ॥ ड्या लक्ष्मी-नर्मदा-गङ्गा- सूक्तो ड्रो दक्ष-दण्डयोः । दूरगे डमरौ ड्रश्च ड्रं पुष्पे नर्मदाजले ॥ १५ ॥ ड्रं मद्ये मधुरे ख्यातो ड्रं कमले सुरोदके । ड्रा टिट्ट्यां मत्स्यगन्धायां महोदर्यामुदीरितः ॥ १६ ॥ ;p{0165} ड्रा भवेज्झषपत्न्यां, ड्वो भरद्वाजसुते तथा । ड्वं स्यान्महोदरे, ड्वा तु दाढायां विद्भिरीरितः ॥ १७ ॥ ;k{ढकारादिः} ;c{॥ अथ ढकारादिः ॥} ढोऽथ विश्वेश्वरे सौम्ये ढक्कायामायुधे भये । ढो रूढ-गूढ-मूढेषु मार्जारे मूक-मुग्धयोः ॥ १ ॥ श्वादे लास्ये पिशाचे ढः प्रहारे पात-पान्थयोः । निर्गुणे निर्णये ढः स्याद् निर्धन-वाद्यभेदयोः ॥ २ ॥ ढो ढक्के दुर्जने काले कुक्कुरे राग-रोगयोः । ढो गायके गतौ सर्पे स्वभावे सुभगे भगे ॥ ३ ॥ सव्या-ऽपसव्ययोः स्याड्ढः खरेऽधिके विमत्सरे । ध्वनौ गुणेऽलसे मार्गे ढः श्वापदे श्वलाङ्गुले ॥ ४ ॥ ढो नरे शङ्करे ख्यातो वर्तने विषमध्वनौ । ढं क्लीबः पयसि श्रेष्ठे ढं तूर्यमुख-तूर्ययोः ॥ ५ ॥ मूर्खे ज्ञाने तथा ढं स्याद् गोमुखेऽपि नपुंसकः । ढा नाभौ निर्गुणे ढक्का- प्राभृते वन्दने ध्वनौ ॥ ६ ॥ ढिर्गुदे चाथ शिश्नेऽपि पक्षिभेदे तथोच्यते । ढीरुत्कटा-ग्नि-धूमेषु शून्यां, ढुः स्याद् गुदानिले ॥ ७ ॥ ढुर्ध्वनौ शूकरे व्याले-ऽ तिस्थूल-कर्णरोगयोः । ढुः कूर्मे ढूः स्तने, ढेः स्यात् कुरङ्गजेऽथ ढैः स्मरे ॥ ८ ॥ ढोकारः सुखिनि श्रेष्ठे ढौः पृथिव्यां समुच्यते । ढ्य उत्करे शिशावाढ्ये ढ्यं क्लीबस्तु धने वने ॥ ९ ॥ ढ्या पृथ्व्यां ढ्रः पुमान् धृष्टे पितरि नर्मदाझषे । ढ्रस्तथा विदुरे द्युम्ने ढ्रं क्लीबः स्पन्दनाक्षमे ॥ १० ॥ ढ्रं फल्गु-मरण-भ्रष्ट- सुभ्रूमुखेषु संमतः । ढ्रा गान्धारी-स्वधा-स्वाहा-ऽऽ ज्ञा-सती-सरयूष्वपि ॥ ११ ॥ ढ्लः पुमान् गरुडे विष्णौ ढ्लः कल्पे हंससारथौ । ढ्लं माल्ये मधुरे प्रोक्तो ढ्ला पृथिव्यां समीरितः ॥ १२ ॥ ढ्लिर्भवेदमरावत्यां देवेशेऽपि बुधैर्मतः । ढ्वो ढेढे ढ्वं दधि-क्षीर- चोदने, ढ्वाऽशने स्मृतः ॥ १३ ॥ ;k{णकारादिः} ;c{॥ अथ णकारादिः ॥} णोऽथ मोक्षे मुखे मारे मोचने दुष्ट-यज्ञयोः । ;p{0166} शङ्करे सूकरे चौर- जारयोर्णो जपे रतौ ॥ १ ॥ णो भूषणे कणे कोणे क्रोड-कण्टक-कङ्कटे । निर्गुणे निर्णये नक्रे णो निष्फले ध्वनौ तथा ॥ २ ॥ णो ज्ञान-योग्ययोर्बन्धे गन्धगजे जलस्थितौ । प्रस्तुते प्रकटे हर्षे णो भैरवे जनार्दने ॥ ३ ॥ णः परिवर्तने शङ्खे णः स्यान्निस्तुषवस्तुनि । णं व्योम्न्यब्जदले ज्ञाने दर्शने चरणे रणे ॥ ४ ॥ णा धेनु-नाभि-नासासु शय्या-कथा-कृपास्वपि । णा ध्वजिन्यां रजन्यां स्यात् पशुपुच्छेऽपि णा तथा ॥ ५ ॥ णिश्चये चरणे चारे समे स्वरेऽजरे वृके । णीः क्षीरे स्यात्तथा स्वर्गे रणे च धन-धान्ययोः ॥ ६ ॥ णुः करेणौ स्तुतौ स्वार्थे पृथ्व्यां संप्रत्ययेऽपि च । बृहन्माने च णुः प्रोक्तो णूः कालिन्द्यां च वार्धके ॥ ७ ॥ णेर्विडङ्गे च मार्जारे णैः शृगाल्यां समुच्यते । हरीतक्यां च, णोकारः सर्षपे, णौश्च शाठ्यके ॥ ८ ॥ ण्यस्त्वग्रण्ये शरण्येऽथ ण्यं च न्याय्ये नपुंसकः । ण्या स्त्री नद्यां गिरायां च ण्रो बीभत्सौ पुमान् मतः ॥ ९ ॥ ण्रो नष्ट-भीरु-कर्णेषु ण्रोऽम्बरगे तथोद्धवे । ण्रं वाक्य-पात्रयोः क्लीबस्- तथा नारदभाषिते ॥ १० ॥ ण्रा गङ्गायां च गोदायां नर्मदायां बुधैर्मतः । द्रौपद्यामम्बुजायां ण्रा धेनावपि समुच्यते ॥ ११ ॥ ण्वो नाथे जमदग्नौ च ण्वमणु-रूपयोस्तथा । ण्वा भवेदुज्जयिन्यां स्त्री ण्वा वाणी-प्रभयोरपि ॥ १२ ॥ ;k{तकारादिः} ;c{॥ अथ तकारादिः ॥} अथ तः सुगते साते हरौ गर्भ-सुवेषयोः । तः संभोगे च संयोगे निश्चये निष्फलेऽमृते ॥ १ ॥ पालने पालके प्रेते तस्तापे तीव्र-तत्त्वयोः । तो नीले तरले ख्यातः शठे च चौर-चारयोः ॥ २ ॥ युद्ध-बद्ध-महाबुद्ध- म्लेच्छेषु तः परिश्रमे । तो रत्न-पुच्छयोः क्रोडे करुणा-क्रोडपुच्छयोः ॥ ३ ॥ तः क्रोधे वितरे वाद्ये वियोगा-ऽमर्षयोर्मतः । ;p{0167} तः स्याद् योधे तथाऽऽषाढ्यां धातुवादविधावपि ॥ ४ ॥ क्लीबस्तमविलम्बे स्यात् तं तृण-तूणयोर्जले । अपुमांस्तरणे पुण्ये तत् स्याद्विस्तारके तथा ॥ ५ ॥ तत् तु स्यात् प्रकृतार्थोक्तौ त्रिलिङ्गक उदाहृतः । अव्ययस्तद् भवेद्धेतौ पश्चादर्थ-विपक्षयोः ॥ ६ ॥ ता स्त्रीलिङ्गः पृथिव्यां स्यात् सटायां पूजने तथा । ता राग-रङ्ग-नार्य-र्क- लक्ष्मी-वाराङ्गनासु च ॥ ७ ॥ सत्सङ्ग्रामे तुलादण्डे ता कृपा-तूर्यनादयोः । तिः शम्भु-तोक-पूजासु मनोमाने महाघने ॥ ८ ॥ तिराखौ तीतिशब्दार्थे तीश्च नदी-समुद्रयोः । तीस्तीव्रे विषमे शोके तीः प्राणिगमने श्रुतः ॥ ९ ॥ तुः कृष्णे हरिणे प्रोक्तः क्रीडके क्रीडने स्मृतौ । अव्ययं तु समाहारे साकल्ये च समुच्चये ॥ १० ॥ स्मृतौ ध्याने नियोगे तु कारणे पादपूरणे । तु स्यात् पक्षान्तरे प्रश्ने पौनःपुन्य-प्रशंसयोः ॥ ११ ॥ विलक्षणे विकल्पे तु करणे च विनिग्रहे । तु स्याद् विलेखने भेदे तु विशेषेऽवधारणे ॥ १२ ॥ तु कुत्सने तथा पूर्व- निवृत्तावपि गद्यते । तुगपत्ये पुमान्, मान्तो-ऽ व्ययस्तुं प्रश्न-रोषयोः ॥ १३ ॥ अङ्गीकृतौ समाख्यातः ख्यातोऽवधारणे च तुम् । तूर्म्लेच्छेऽथाऽव्ययं तू स्यात् पृच्छायां ध्यान-भेदयोः ॥ १४ ॥ त्रिस्तूर्वेगिनि वेगे, तृट् षान्तो लोभे तृषे-च्छयोः । कान्तायां कामकन्यायां तृट् कान्तौ लाङ्गलीतरौ ॥ १५ ॥ तेर्नक्रे चाभिधेये स्यात् क्रीडने क्रीडके गजे । तैरसुरे मयूरे च वसाने स्याद् वयत्यपि ॥ १६ ॥ तोकारः स्वामिनि प्रोक्तः सूर्ये च विघ्नकर्तरि । तौः स्वर्ग-गरयोः पृथ्व्या- माचार्य-यजमानयोः ॥ १७ ॥ त्माऽऽत्मनि त्यो गुरौ कृष्णे-ऽ न्त्यजे, क्लीबस्त्यमन्तिमे । क्लीबस्त्यत् पवने व्योम्नि त्या नद्यामवनावपि ॥ १८ ॥ त्रो गरुडेऽब्जजे चेन्द्रे शङ्करे पातरि स्मृतः । ;p{0168} त्रं घृष्ट-जुष्ट-पुष्टेषु त्रं त्रुटिते पदे परे ॥ १९ ॥ द्रौपद्यां वचने कर्णे त्रं गन्धारीमुखे तथा । त्रा देवकुक्कुरी-पात्री- पार्वती-गरदास्वपि ॥ २० ॥ त्रा तारण्यां च नौकायां रक्षणे त्रा समीरितः । त्वः पुमान् शङ्करेऽश्वेऽर्थे त्वो भिन्ने स्यात्त्रिलिङ्गकः ॥ २१ ॥ त्वं तुल्ये तरणे, त्वक् स्त्री गुडत्वक्-वल्क-चर्मसु । लवङ्गवल्कले त्वक्, स्त्री त्वा गौर्य-श्वकलत्रयोः ॥ २२ ॥ अव्ययस्त्वा विशेषे स्याद् वितर्केऽप्यव्ययो मतः । त्विट् स्त्री कान्तौ च कुत्सायां जिगीषा-ज्वालयोर्गिरौ ॥ २३ ॥ रुचौ महे गिरायां त्विड् व्यवसाये च धन्वनि । त्वे-त्वै प्रोक्तौ वितर्के च विशेषे ह्यव्ययावथ ॥ २४ ॥ ;k{थकारादिः} ;c{॥ अथ थकारादिः ॥} अथ थः केशवे कल्पे कल्लोले काल-कामयोः । थः शुक्ल-श्याम-शोकेषु शब्दे शैल-विरामयोः ॥ १ ॥ थः क्षुद्र-श्रान्त-सूर्येषु ज्यायां चन्द्रे भरे पृथौ । थो मिथ्यावाचके केशे गणेशे गरुडे गजे ॥ २ ॥ दण्डीशा-ऽऽकाश-भारेषु थो भङ्गे भयरक्षणे । सत्वरार्थे गृहे थः स्याद् वरदे परिमार्जने ॥ ३ ॥ भयाङ्क-भक्षण-व्याधि- भेदेष्वास्फालनेऽपि थः । थं कर्म-रक्षयोः स्तोके बहुल-सूक्ष्म-मङ्गले ॥ ४ ॥ मरुदेशप्रदेशे थं भये च भयवारणे । थं विषे थ प्रभा-गङ्गा-ऽ वन्यु-पचारणीषु च ॥ ५ ॥ था निमग्नेऽतिगम्भीरे कषाया-ऽऽरब्धवस्तुनोः । स्थूलस्त्री-देवकूटे था सरिता--स्वामिनोर्दृढे ॥ ६ ॥ थिर्गोदायां च कालिन्द्यां थी भूमौ भाजने तथा । थीः सिन्धु-व्रण-रेवासु थीस्ताडवविकारके ॥ ७ ॥ थुः पर्वते व्रणे द्रोणे बले निष्ठीवने पुमान् । निन्दित-भूतयोः ख्यातः साक्षिणि थुरिति श्रुतिः ॥ ८ ॥ थूः स्यात् परासरे, थेश्च व्यासेऽथ, थैः शुके मतः । थोकारो गाधिपुत्रे स्याद् धर्मे, थौर्वारिजे स्मृतः ॥ ९ ॥ थ्यो नाथे थ्यं भवेत् पथ्ये थ्या कथायां समुच्यते । ;p{0169} थ्रस्तीर्थवासकारे स्यात् थ्रोऽम्बिकापुत्र-जारयोः ॥ १० ॥ थ्रः स्यात् पूते तथा पुष्टे क्लीबस्थ्रं मरणे सुखे । थ्रं मध्वरिमुखे तीर्थ आयुक्तेऽपाठि पण्डितैः ॥ ११ ॥ थ्रा रजकात्मजा-रात्री- राज्ञी-रमा-स्थितास्वपि । थ्वोऽरुणेऽर्थेऽक्षरे, थ्वं तु मैथुने, थ्वाऽथ योषिति ॥ १२ ॥ ;k{दकारादिः} ;c{॥ अथ दकारादिः ॥ } दोऽथ दातरि दाने स्याद् देवे दोहन-दीनयोः । दयायां दन्दशूके दो दीप्ति-दमनयोरपि ॥ १ ॥ पालके दानशौण्डे दः पूजने बोध-बन्धने । दो बीज-बाल-वालेषु दो विदोषे वधे भये ॥ २ ॥ चालने चीवरे दोऽभ्रे वैराग्ये च त्रिलोचने । दः क्षीण-सत्य-सिंहेषु शुद्धौ प्राणे ह्यसौ वरे ॥ ३ ॥ छेदे सम्बोधने शैले भावे भवे तु दो भवेत् । दः कुबेरे कलत्रे स्यान्- निर्भत्सने बलोदिते ॥ ४ ॥ दः स्यात् प्रथमसंयोगे दस्त्रिलिङ्गः शुचौ चले । दो मूढ-मूल-मूकेषु गृहीते द्रावकेऽपि च ॥ ५ ॥ दं दाने छेदने प्रोक्तः पाने स्यादवलोकने । शरण-कर्म-पुत्रेषु दं वैराग्य-कलत्रयोः ॥ ६ ॥ दं भव्येऽकिल्बिषे न्यूने दातरि समुदाहृतः । दत् पुंलिङ्गो भवेद् दन्ते दं कलत्रेऽव्ययो मतः ॥ ७ ॥ दा दान-दातृ-दात्रीषु दम्पती-दिवि दन्तिनि । गङ्गायामुपदायां दा नार्यां कालकृते कुले ॥ ८ ॥ पृथ्वी-क्षान्ति-शुभासु स्याच्- छेदे बन्धे च दा स्मृतः । नैवेद्ये शोधने दा स्या- दुपतापे च रक्षणे ॥ ९ ॥ दा तु सम्बोधने प्रोक्तस्- तथा दीनेऽवबोधने । वैराग्ये दा विजानीयाद् दिर्दातरि क्षये तथा ॥ १० ॥ द्यौः स्वर्गा-ऽऽकाशयोरुक्तो दिने दिनकरेऽपि च । दिक् स्त्रीलिङ्गो दिशायां हि शान्तोऽपाठि विपश्चिता ॥ ११ ॥ दी देवतर्पणे चाथ दीः सुधास्वामिनि स्मृतः । दुः स्याद्विखण्डने चाथ दुस्तरे दुः करेऽवरे ॥ १२ ॥ दुर्दरिद्रिण्यरण्ये स्याद् रान्तो दूर्द्वार उच्यते । ;p{0170} दुरव्ययो रकारान्तः कृशे कृच्छ्रार्थ-दुःखयोः ॥ १३ ॥ निषेध-कष्ट-निन्दासु दुष्टे-षदर्थयोश्च दुः । दुस्सान्तो ह्यव्ययो दोषे दुःखभावन-कोपयोः ॥ १४ ॥ दूर्दुःखिनि तथा दुष्टे दूः शुद्धि-परितापयोः । अव्ययं दृन् हि हिंसायां दृढे, दृक् स्त्री तथा दिने ॥ १५ ॥ नयन-ज्ञानयोर्बुद्धौ शान्तः स्याद् दर्शने च दृक् । ज्ञातरि दृक् त्रिलिङ्गः स्याद् वीक्षका-ऽध्यक्षयोस्तथा ॥ १६ ॥ देः क्रीडायां तथा पत्न्यां क्रीडके देरपि श्रुतः । दैर्मत्स्ये संभवेद् देव- कन्यायां वामनर्षभे ॥ १७ ॥ दोकारश्चरणे हस्ते शिश्ने विद्भिः समुच्यते । दोस्सकारान्तको बाहौ तथा च दीर्घदेशके ॥ १८ ॥ दौर्भवेदात्मजे प्राणे देवलोके समर्थितः । द्यः समुद्रे, तथा द्यं तु क्लीबो निन्द्ये सुखे चिरे ॥ १९ ॥ द्यं त्यागे खण्डने शत्रौ द्य पादपूरणेऽव्ययः । हिंसायां प्रातिलोम्ये द्य द्या दयायां निगद्यते ॥ २० ॥ द्युर्वह्नावह्नि च व्योम्नि द्युश्च देवालये मतः । अव्ययो द्युः च दुर्देशे तथैव प्रश्नवाचके ॥ २१ ॥ द्युत् किरणे पुमान् प्रोक्तो द्योतमाने त्रिलिङ्गकः । द्योकारः स्त्री बुधैरुक्तः स्वर्गे नभसि बन्धने ॥ २२ ॥ द्योकारः पूरणे प्रोक्तो द्यौः स्वर्गे समुदाहृतः । द्रोऽथ रमापतावुक्तो भयकृद्-रतिदेवयोः ॥ २३ ॥ द्रोणे द्रोणसुते राज्ञि द्रः काक-काकतुल्ययोः । द्रो नरे भरते प्रोक्तो द्रं गुरौ गमने भये ॥ २४ ॥ श्रयणे क्षोदने क्षुद्रे द्रं देवकुक्कुरीमुखे । सुखदे सुतटे द्रं स्याद् द्रं सामस्मरणे तथा ॥ २५ ॥ स्त्रीलिङ्गो द्रा भवेत् क्षुद्रा- द्रोणमूर्ति-दरीष्वथ । द्रा तु दुरात्मजायां स्याद् देवशुन्यां तथा भवेत् ॥ २६ ॥ द्रागव्ययं झटित्यर्थे द्रुर्गतौ स्त्री तरौ पुमान् । द्रुः कामरूपिणि स्वर्णे द्रूः स्वर्ण-कामरूपिणोः ॥ २७ ॥ द्वः पुंलिङ्गो भवेद् दावे द्वं क्लीबो दूर-युद्धयोः । ;p{0171} द्वं वरदे तथा द्वा स्त्री गङ्गायां नगरे मतः ॥ २८ ॥ रान्तो द्वार्देवपूजाया- मुपाये द्वार-शोभयोः । रमायां द्वार्भवेच्छक्तौ सुख-वरेण्ययोरपि ॥ २९ ॥ द्विड्‌ द्वेष्टरि रिपौ षान्तो द्विर्द्विवारेऽव्ययस्तथा । द्वेट् षान्तो द्वेष्टरि क्लीबो द्वै वितर्केऽव्ययो भवेत्‌ ॥ ३० ॥ ;k{धकारादिः} ;c{॥ अथ धकारादिः ॥} अथ धो धर्म-धात्रोः स्याद्‌ धार्मिके धनदे धने । ध्वनौ धन्वन्तरे धीरे धो धातौ ध्यान-धान्ययोः ॥ १ ॥ धावति धैवते यक्षे ध इन्द्रे चन्द्र-चित्रयोः । धो विष्णु-वध-वादेषु मान-मीनेशयोर्मनौ ॥ २ ॥ शिलीन्ध्रेऽग्नो भृते भीते धः प्रीतौ पितृ-पावने । धो राज्ञि बन्धने बाले घटे गुह्य-कलत्रयोः ॥ ३ ॥ सामर्थ्य-दातृ-दानेषु ध आश्लेषा-ऽऽश्ववारयोः । धो ह्यवधायके प्रोक्‍तो धन्वन्तरि-विशेषयोः ॥ ४ ॥ इभकुम्भे तथा देश- भेदे धो गिरिजात्मजे । धं धने धनदे धान्ये ध्यान-धूनन-धारणे ॥ ५ ॥ धं धीरे सधने दाने बन्धने बुध-बोधयोः । पारुष्य-खड्गयोर्धं स्यात्‌ सामर्थ्ये करणे गृहे ॥ ६ ॥ धं समुद्रे सुखे षण्ढे वञ्चन-वृक्णयोः श्रुतः । धा धनदे धने धान्ये धारके धातरि ध्वनौ ॥ ७ ॥ ध्याने धन्वन्तरौ धर्म- रति-बुद्धि-घटेषु धा । गोर्यां लक्ष्म्यां पृथिव्यां धा मर्कटा-ऽघिकयोरपि ॥ ८ ॥ धाः स्याद्‌ बृहस्पतौ चाथ धिः स्याद्‌ बुद्धौ सुधाम्बुधौ । धिः समग्रे बुधैः ख्यातो धर्मे लोहे मणो च धिः ॥ ९ ॥ अव्ययो धिक्‌ च निन्‍दायां निर्भर्त्सने समीरितः । धीषुधावौषधौ बुद्धौ पुत्र्यां युद्धे बुधे गतौ ॥ १० ॥ धीर्बुद्धाविषुधौ ज्ञाने मनसि कर्मणि स्मृतः । धीश्च वृकेऽसुरे ख्यातो ज्ञानभेदेऽपि गद्यते ॥ ११ ॥ धुरतिधृष्टके धूते चिन्तायां तनु-भावयोः । धुर्धूर्ते कम्पने चाथ रान्तो धूर्भय-भारयोः ॥ १२ ॥ धूर्धूम-धूप-धूतेषु धूर्धन-धौत-धूलिषु । धूर्धराकम्पने कम्पे यानमुखे युगा-ऽग्रयोः ॥ १३ ॥ ;p{0172} धूः शङ्करजटायां च हेरम्बे हिंसके तथा । धूश्चिन्तायां च पीडायां वेतने ह्यङ्ग-विश्वयोः ॥ १४ ॥ धूः स्याद्‌ विकृतगीतौ चा-ऽ ङ्गुलौ सुज्ञैः समीरितः । ऊदन्तो धूः करे भारे धूनने धुरि वै मतौ ॥ १५ ॥ धूरतिधृष्टके धूपे धृकारः स्वामिनि स्मृतः । धेर्वृषभेऽथ धैः पृथ्व्यां ध्याने धेनौ च रावणे ॥ १६ ॥ धोकारो वृषणे प्रोक्तस्‌- तथोक्तः सूर्य-पापिनोः । धौश्च धर्मे पृथिव्यां स्याद्‌ गिरायां लोह-भारयोः ॥ १७ ॥ ध्नो धनि-बुध्न-सर्पेषु ध्नं वने साधने धने । ध्ना धन्यायां च सालायां मातुल्यां ध्यो गताक्षिके ॥ १८ ॥ क्लीबो ध्यं तु भवेदान्ध्ये ध्या शुद्धा-ऽन्धा-क्षुधास्वपि । ध्रो भ्रातृवल्लभे भूध्रे धृष्टद्युम्ने वृकोदरे ॥ १९ ॥ ध्रो गरुत्मद्-गदापाणि- साक्षि-मड्गल-धारके । ध्रं धारायां धरस्थाने धरण-ध्रुव-कूबरे ॥ २० ॥ ध्रा खगायां पृथिव्यां स्या- दम्भोगा-सरितोरपि । पथिगायां तथा ध्रा स्यात्‌ कुलगायामपि स्मृतः ॥ २१ ॥ ध्वो धवेऽग्नौ वधे मार्गे क्लीबो ध्वं ध्वस्त-धूनने । ध्वं धन्‍ये ध्वा धरा-धारा- वधूत्तमासु गद्यते ॥ २२ ॥ ;k{नकारादिः} ;c{॥ अथ नकारादिः ॥} अथ नः स्याज्जिने सूर्ये स्वागते सुगते स्तुतौ । नः स्थान-स्थिरयोर्ज्ञाने नो बन्ध-बन्धु-बुद्धिषु ॥ १ ॥ नो निषेधे नरे नाभौ निबन्ध-नेतृ-निश्चये । अनुगतावनर्थे नः सनाथे सागरे तथा ॥ २ ॥ नो मेघे तरणौ रत्ने रक्षायां वृक्ष-वृन्दयोः । नः पूज्ये प्रस्तुते छिन्ने नो हेरम्ब-द्विरण्डयोः ॥ ३ ॥ नः कवौ शुष्कवादे स्या- दभावे चर्विते तथा । नोऽतिभिन्ने सुवर्णे, नो-ऽ परिक्लिष्टे त्रिलिड्गकः ॥ ४ ॥ नस्त्रिलिड्गो भवेद्‌ वाद्ये सूक्ष्मे शरीर-शून्ययोः । अभिन्ने चैव भिन्‍ने स्यान्‌- नोऽभीष्टे वध्य-पद्ययोः ॥ ५ ॥ नं नेत्रे नन्दनेऽनन्ते नं सानन्दे सुखेऽपि च । नं वाद्ये ब्रह्मणि श्रोत्रे ज्ञाने करण-कारणे ॥ ६ ॥ ;p{0173} नं बन्धावञ्जने प्राज्ञैः कथितः शब्दवेदिभिः । अव्ययं स्यान्न चाभावे तथोपमा-निषेधयोः ॥ ७ ॥ नञ् निषेधे स्वरूपार्थे तदन्य-तद्विरुद्धयोः । ईषदर्थे तथाऽभावे नञ् सादृश्येऽप्यतिक्रमे ॥ ८ ॥ नग्‌ रात्रावव्ययं, शान्तो नट्‌ स्त्री नाशे प्रकीर्त्यते । शान्तस्त्रिलिड्गकः प्रोक्तो नड्‌ नाशप्रतियोगिनि ॥ ९ ॥ नास्सान्तो नासिकायां स्त्री ह्याबन्तो ना च नेतरि । ना नरे निःश्रुते नाभौ गरिमा-ऽज्ञानयोस्तथा ॥ १० ॥ ज्ञान-बन्धनयोर्ना स्याद्‌ ना स्यात्‌ कल्याण-भूषयोः । ना निषेधेऽव्ययः ख्यातो निः श्रुते श्वसने चये ॥ ११ ॥ निर्नरे निर्णये नेतृ- व्यये राजनि दुर्गतौ । अव्ययं नि निवेशे चा-ऽऽ देश-निषेध-निश्चये ॥ १२ ॥ नित्यार्थे कौशले क्षेपे नि बन्धन-भृशार्थयोः । नि स्यात्‌ संशय-सामीप्य- विन्यास-दान-राशिषु ॥ १३ ॥ उपरमा-ऽऽश्रये मोक्षे दर्शने संयमे च नि । अन्तर्भावे ह्यधोभावे संधाने नि समीरितः ॥ १४ ॥ रान्तोऽव्ययो निरादेशे निषेधे निर्णयेऽत्यये । निः क्रान्तादि-बहिर्भावा-ऽ भावे भोग-वियोगयोः ॥ १५ ॥ निरथातिक्रमे, शान्तो निट्‌ स्त्री निशा-हरिद्रयोः । निस्सान्तो निश्चयेऽतीते-ऽ व्ययः सार्व्य-निषेधयोः ॥ १६ ॥ ङ्यन्तो नी नीर-नद्योः स्याल्- लक्ष्म्यां नी नीड-रागयोः । अङ्यन्तो नीश्व नद्यां स्यान्‌- नेतरि विद्भिरुच्यते ॥ १७ ॥ नुः स्तोतरि स्तुतौ ख्यातो नुर्देहे वृद्धि-वृक्षयोः । नुः स्याज्ज्ञाने नृपे चैव क्लीबो नु स्तोत्र-वारिणोः ॥ १८ ॥ अव्ययो नु वितर्के स्यात्‌ प्रतिषेधे‍ऽवधारणे । विकल्प-निर्भर-प्रश्ना-ऽ नुनया-ऽनुशयेषु नु ॥ १९ ॥ हेत्व-तीता-ऽपमानेषु ह्यपदेशेऽपि नु स्मृतः । नूः स्तुतौ स्त्री, पुमान्नूः स्यात्‌ पत्यौ पवन-पापयोः ॥ २० ॥ नृकारः स्यान्नरे नाथे शङ्कर-हय-शङ्कुषु । नृकारो नेतरि प्रोक्तस्‌- त्रिलिङ्गश्चाथ नेः समे ॥ २१ ॥ नेच्शङ्कायां विचारे स्यात्‌ प्रतिषेधे समुच्चये । नैवेत्यर्थे विकल्‍पे नेद्‌ नैस्तरणि-मृगा-ऽग्निषु ॥ २२ ॥ ;p{0174} अव्ययं नो निषेधे स्यान्‌- निःश्रुता-ऽभावयोस्तथा । नोद्‌ नैवेत्यर्थके प्रोक्‍तो-ऽ व्ययो, नौः पुरुषेऽप्यथ ॥ २३ ॥ नौः स्यान्नेतरि वाण्यां च देवे नौ; काल-शालयोः । तरणो नौः प्रविख्यातो नौ निषेधेऽव्ययो मतः ॥ २४ ॥ न्‍यो नय उज्ज्वले सिन्धौ न्‍यं न्‍याय्ये नयने वरे । त्रिलिङ्गो न्‍यङ् भवेन्नीचे निम्ने कार्त्स्न्ये निगद्यते ॥ २५ ॥ न्या स्त्रीलिङ्गो नतौ नीता- वुग्राण्यां विद्भिरीरितः । न्रो नरके नरेऽङ्गारे नार्मदे नामदे ह्रदे ॥ २६ ॥ न्रं नरके गृहे क्लीबो गरुडाङ्गे गरोद्भवे । न्रा नार्यां नर्मदायां स्यात्‌ परेशान्यां समीरितः ॥ २७ ॥ परमानन्ददायिन्यां न्रा पृथा-पुष्टयोरपि । न्रा नरकोद्भवा-दुष्ट- नरवाचासु कीर्तितः ॥ २८ ॥ न्‍वः पुंलिङ्गो नवे प्रोक्तः क्लीबो न्वं नव-वस्तुनोः । न्‍वा नवायां च तन्‍व्यां स्त्री न्वै वितर्केऽव्ययं भवेत्‌ ॥ २९ ॥ ;k{पकारादिः} ;c{॥ अथ पकारादिः ॥} अथ पः पावने पाने पवने पपि-पापिनोः । पः पद्मेशे प्रसन्‍ने स्यात्‌ प्राप्ये च पथि-पत्रयोः ॥ १ ॥ पूरणे पः परित्राणे पयःपान-प्रकाशयोः । पः पातृ-पर्वते प्रौढे पाताले पङ्कसङ्कुले ॥ २ ॥ पुत्र-पश्चिम-पीयूष- पाथिव-प्रकटेषु पः । लोहिते कलभोर्वां स्यात्‌ पस्तीक्ष्णेऽग्नौ चये वने ॥ ३ ॥ वृषणे वरुणे प्रोक्तः पः कोस्तुभ-कुबेरयोः । पो वासे वारिधारायां वर्णक-क्षणयोः क्षमे ॥ ४ ॥ क्षेत्रे पः शुभलग्नेऽपि शूरे शोषण-शास्त्रयोः । पं स्यादृणे सुवर्णे च जलो-च्चदेशयोस्तथा ॥ ५ ॥ पं प्रीणने स्थले प्रोक्‍तः पत् पादे किरणे श्रुतः । पा स्याल्लक्ष्म्यामपर्णायां यातरि पातरि स्तुतौ ॥ ६ ॥ रक्षणे सङ्गतौ पात्रे पाने पूते श्रुते च पा । पूरिते पाऽथ पाः प्रोक्तः सुधा-सुनृपयोः श्रुते ॥ ७ ॥ पालक-पातृ-पापे पाः पाने पार्थ-प्रयत्नयोः । सम्मतो वारिधारायां वस्त्रे लक्ष्म्यां च पास्तथा ॥ ८ ॥ अव्ययं पाट्‌ च संबुद्धौ पात् पुमांश्वरणे भवेत्‌ । ;p{0175} पिः पीडितध्वनौ सिन्धौ पिर्दर-सादरा-ऽग्निषु ॥ ९ ॥ पिः पवित्रेऽथ पी लक्ष्म्यां पीर्हीनाङ्ग्यामपि स्मृतः । पुः पुरुषोत्तमे पुत्रे पटहे पण्डिते पुमान्‌ ॥ १० ॥ पुस्त्रिरार्ते प्रपन्ने स्यात्‌ पुं नरे परमात्मनि । पुमान्नरा-ऽऽत्म-भद्रेषु पूः पुर-देह-पूर्तिषु ॥ ११ ॥ बुद्धौ पूः, पूश्च पृथ्व्यां स्त्री पूः पवित्रे च धातुवत्‌ । पृत्‌ सेनायां च पेः पेश्यां पैर्भवेद्‌ गालवे तथा ॥ १२ ॥ पोकारः प्रोच्यते पोत्रे त्रिः शुद्धे शोधके भवेत्‌ । पौः पृथ्व्यां पुरुषे, प्योऽथ क्षीरे, प्यं कुप्य-पात्रयोः ॥ १३ ॥ प्या स्याद्‌ रुचौ कृपायां स्त्री प्याट्‌ सम्बुद्धौ तथाऽव्ययम्‌ । प्रस्त्वराति-मुरारात्य- न्धकाराति-ध्रुवेऽमरे ॥ १४ ॥ अरुणेऽरुणताते प्रः प्रकृष्टे पङ्कजोद्भवे । अगस्त्य-कामयोः प्रः, प्रं पयसि पाथसि श्रुतः ॥ १५ ॥ पेये पारपरे प्रं स्याद्‌ गङ्गातीरे धरान्तरे । प्रं सरे ब्रह्मणि व्योम्नि प्रं भूरि-भ्रमराङ्गयोः ॥ १६ ॥ अव्ययं प्र गतौ ख्यातौ प्राथम्य-व्यवहारयोः । प्रोत्पत्ति-सर्वतोभावा-ऽऽ रम्भ-शुद्धिषु सम्भवे ॥ १७ ॥ प्र प्रकर्षा-ऽग्रयोर्दीर्घे भृशे-श-शान्ति-शक्तिषु । प्र वियोगे-च्छयोस्तृप्तौ पूजा-दर्शनयोरपि ॥ १८ ॥ प्रा प्रकृष्ट-महालक्ष्मी- जननी-मथुरास्वथ । प्रा क्षामनासिका-पृथ्वी- महादेवी-क्षमास्वपि ॥ १९ ॥ प्रा स्याद्‌ रजोद्भवा-मर्म- मारयोः शब्दशासने । अव्ययं प्राक्‌ क्रमप्राप्ता- वतीतेऽनन्तरा-ऽग्रयोः ॥ २० ॥ प्राग्‌ दिशा-देश-कालेषु तथा पूर्व-प्रभातयोः । प्राङ् त्रिः पूर्वदिशा-देश- कालसम्बन्धिषु स्मृतः ॥ २१ ॥ प्राण्‌ प्राणे च पुमान्‌ शान्तः प्राट्‌ प्रश्ने प्रश्नकर्तरि । प्रीः स्त्री प्रीतौ भवेत्‌, प्लस्तु शूरे प्लव-प्लवङ्गयोः ॥ २२ ॥ प्लं पूर्तौ प्लवने मांसे प्लं मद्ये धरणीतले । प्ला परमेश्वरी-पाट्योः प्वः पवने पुमान्‌ भवेत्‌ ॥ २३ ॥ प्वं गिरिपतने पुण्ये प्वा धूलौ परिकथ्यते । प्सा भक्षणे भवेत्‌ स्त्री च प्सुः स्याद्‌ रूपे तथा पुमान्‌ ॥ २४ ॥ ;p{0176} ;k{फकारादिः} ;c{॥ अथ फकारादिः ॥} फोऽथ ज्ञाने तथाऽपार- दर्शने यज्ञसाधने । स्थास्नौ चन्द्रकलायां फः प्रकट-प्रतिकारयोः ॥ १ ॥ प्रभवे पवने फः स्यात्‌ फूत्कारे फल-फेनयोः । कलेवरे कलायां फः केकायां कफ-कोपयोः ॥ २ ॥ फः स्यात्‌ स्थूले समुद्रे च शस्त्राग्रे शिखि-शाखिनोः । कृष्णे कुट्यां रणे न्याये फः पलितेऽध्व-देवयोः ॥ ३ ॥ फो झज्झावात आस्वाद आह्वाने भयरक्षणे । जल्प-निष्फलयोः फः स्याद्‌ वारणे वासनेऽक्षरे ॥ ४ ॥ फो लोहे पुष्करेऽपाच्या- मविहतगतावपि । फो वर्द्धके फलप्राप्तो तथा निष्फलभाषणे ॥ ५ ॥ फो यक्षसाधने स्फान- जृम्भाविष्कारयोर्भवेत्‌ । फस्त्रिलिङ्गो भवेत्‌ स्फारे परोक्षेऽपि प्रकीर्त्यते ॥ ६ ॥ फं फले निष्फले फेने फण-फूत्कार-फल्गुषु । फं सूर्य मूर्ति-माहेन्द्रे जालके लाभ-लोभयोः ॥ ७ ॥ फं वाते सुन्दरे बीज आयतने विपर्यये । निष्फलभाषणे फं स्याद्‌ रूक्षोक्तौ डयने ध्वनौ ॥ ८ ॥ फा फणायां फले फेने मृगे पवन-पिण्डयोः । फा केकायां कुटी-केशे फा केली-कलयोरपि ॥ ९ ॥ मारीचे निष्ठुरोक्तौ फा धनुषि विबुधैर्मतः । फा स्यात्‌ फूत्कारवत्यां च चक्रवर्तिनि फा भवेत्‌ ॥ १० ॥ फा विषायां समाख्यातः सूरिभिः शब्दशासने । फाः पुं वर्धक-सन्तापे वृद्धौ निष्फलभाषणे ॥ ११ ॥ फिः पुंलिड्गो भवेत्‌ कोपे पाप-निष्फलवाक्ययोः । फी सगर्भस्त्रियामुक्तः फुश्च कार्तिक-मन्त्रयोः ॥ १२ ॥ फुः फूत्कारे फणायां च तुच्छवाक्येऽपि फुर्मतः । अव्ययं फुत्‌ तथैवानु- करणनिःस्वने भवेत्‌ ॥ १३ ॥ फूः स्याद्‌ रुषाकुले सर्प इन्द्रे निष्फलभाषणे । फूः फूत्कारे तथा शोके वातूले शरणागते ॥ १४ ॥ फूः कर्पूरे तथा फूक्के फूत्त्वनुकरणध्वनौ । फेः प्राज्ञैरुच्यते सङ्ख्ये फाल्गुने च पशुध्वनौ ॥ १५ ॥ फैः सद्भिर्गदितः शङ्खे फोकारः काल ईरितः । ;p{0177} फौः स्यात्‌ फणीश्वरे गर्गे स्याद्रणे द्रोण-बाणयोः ॥ १६ ॥ फ्यः फेने फ्यं तु मृत्यौ स्यात्‌ पयसि रजसि श्रुतः । फ्या फणायां तथा, फ्रः स्यात्‌ फूत्कारे स्वन-फेनयोः ॥ १७ ॥ फ्रो भवेदम्बरे स्पष्टे फ्रः स्फुरति चरे तथा । क्लीबः फ्रमुद्धृते यन्त्रे स्फुरति स्फेटितेऽपि च ॥ १८ ॥ फ्रं धरण-धृत-ध्वस्त- गगन-प्राकृतेषु च । फ्रं जुष्टे वसने क्लीबः फ्रा लक्ष्मी-सुरयोरथ ॥ १९ ॥ खर्य-लीरकलत्रे फ्रा क्षारनद्यां तथा भवेत्‌ । फ्लं फले सकले देहे बाणपूरे मुखे मतः ॥ २० ॥ ;k{बकारादिः} ;c{॥ अथ बकारादिः ॥} अथ बः स्याद्‌ गुरौ बिन्दौ तथा बिम्ब-विकल्पयोः । विमले विकले वायौ बो वृन्दे वरुणे वरे ॥ १ ॥ वासे विभूतिकारे बो वक्षःस्थल-विसर्गयोः । वपने विगतौ व्योम्नि बो गर्भे शोषणे तथा ॥ २ ॥ बः कचे कलहे कुम्भ आकर्षणे फले जले । पुरुषे पर्वते बः स्यात्‌ पद्म-प्रवेश-पर्वसु ॥ ३ ॥ पक्षिगर्भो-डु-बाल्येषु भगे बाले-न्द्रयोश्च बः । सूचने सुरसे सिन्धौ बो मदे मेघ-मूर्खयोः ॥ ४ ॥ बन्धने तन्‍तुसन्ताने गत-गन्ध-गदासु बः । बलाकृष्टविसृष्टौ बः स्यात्‌ खगभेद-पक्षयोः ॥ ५ ॥ बं बले बहुले शम्भौ जगज्-जल-सुवायुषु । रक्षके बं प्रविख्यातो बा झज्झावात-मन्त्रयोः ॥ ६ ॥ वन्दने वेदनायां बा वदन-वाद-वल्लिषु । काहल्यां शृङ्खलायां बा नर्मदा-गति-वासने ॥ ७ ॥ बिर्गमने तथाऽऽकाशे बिम्बत्व-पूर्ण-पक्षिषु । पक्षिचञ्चौ बुधैः ख्यातो बिः प्रोक्तो मण्डलेऽपि बि ॥ ८ ॥ फणभेदे तथा पुष्प- दन्तेऽपि बि निरीक्ष्यते । ङ्यन्तो बी स्यात्‌ समुद्रेऽथा- -ऽङ्यन्तो बीर्बटु-पादयोः ॥ ९ ॥ प्रजने जनने कान्तौ गतौ स्याद्‌ बीर्बियौ बियः । बेः साक्षिणि समुद्दिष्टो बैः शब्दितः कणे रणे ॥ १० ॥ बोकारः प्राण आख्यातो बौर्गङ्गायां समाहृतः । ब्यः पुमान्‌ भास्करे, ब्यं स्यात्‌ सुखे, ब्या स्त्री तु मातरि ॥ ११ ॥ ;p{0178} ब्रो बाल-बुद्ध-बद्धेषु बहुव्रीहौ बृहस्पतौ । ब्रोऽबले बाष्कले बाणे बहुदे बुद्‍बुदे बटौ ॥ १२ ॥ ब्रो मेघ-बधिरा-ऽम्बष्ठा-ऽऽ चार्या-ऽम्बाजा-ऽम्बरावृते । ब्रं बल-बहुलो-च्छ्रेष्ठे बट्वास्य-बाहुसारयोः ॥ १३ ॥ ब्रं ब्रह्म-बधिराङ्गे स्याद्‌ बधिरास्येऽम्बरेऽपि च । ब्रा बद्धा-बधिरा-ऽम्बष्ठी- बाला-ऽम्बरेश्वरीषु च ॥ १४ ॥ ब्रा बट्व्यां ब्लः शिशौ कंसे-ऽ ध्वा-ऽग्न्य-ज्ञेऽघासुरे यमे । ब्लो मारे ब्लं बले, स्याद्‌ ब्ला वरट्यां क्वङ्गु-रक्तयोः ॥ १५ ॥ ब्वो ब्रह्मणि पुमानुक्तो गीष्पतावपि कीर्तितः । ब्वं क्लीबो विद्विषे वाक्ये मधुनि, ब्वाऽथ मातरि ॥ १६ ॥ ;k{भकारादिः} ;c{॥ अथ भकारादिः ॥} अथ भः शङ्करे शुक्रे शुक्ले च शब्द-सिद्धयोः । सूर्ये स्वीकृतभावे भः समुद्र-सिद्धमन्त्रयोः ॥ १ ॥ भ्रमरे भवने भावे भो भौमे भूपतौ भये । भो भ्रकुट्यां भरद्वाजे-ऽ तिभीते चार चन्द्रयोः ॥ २ ॥ दैवज्ञ-रश्म्य-लङ्कार आकाश आकुले च भः । जयावहे प्रभावे भः शोभायां पर्वते वने ॥ ३ ॥ मेघ-मयूरयोः काव्ये निद्रा-नक्षत्रयोश्च भः । भो भ्रान्तौ सूरिभिश्चोक्तस्‌- त्रिलिङ्गकोऽमले च भः ॥ ४ ॥ भं स्याद्‌ भये भगे भोगे भरणे धरणे पुरे । ब्रह्म- सुदर्शना-ऽऽकाश- तारा-पुण्ड्र-पयःसु भम्‌ ॥ ५ ॥ भं मन्त्र-चन्द्र-वक्त्रेषु नक्षत्र-क्षेत्र-रात्रिषु । राशौ ग्रहे गृहे नाम्नि पण्डितैर्भं समुच्यते ॥ ६ ॥ भा भव-भ्रातृ-भोगस्त्री- भास्कर-भास्वरेषु च । भूमि-पितृ-पितृव्येषु भा स्थान-कान्ति-दीप्तिषु ॥ ७ ॥ इन्दिरा-मदिरा-ऽऽशासु किरणेऽलङ्कृतौ च भा । भास्सान्तो भास्करे रश्मौ दीप्ताविच्छ- प्रभावयोः ॥ ८ ॥ भिः पत्न्यां भिस्सटायां स्याद्‌ भिद्‌ भेदकृत्‌-प्रभेदयोः । भीः स्त्रीलिङ्गो भये प्रोक्तः पुंलिङ्गो विहगे तथा ॥ ९ ॥ भुः सर्पे विद्भिराख्यातो भुश्च रतौ भवेदसौ । भूः सत्ता-स्थानयोः पृथ्व्या- मुत्पत्तौ जात-जातयोः ॥ १० ॥ भूर्धने वेदनायुक्ते यज्ञाग्नौ परमेश्वरे । ;p{0179} देह उत्पद्यमाने च भूराकाशै-कसङ्ख्ययोः ॥ ११ ॥ भूर्व्यहृत्यन्तरेऽपि स्या- दव्ययं भू रसातले । भेश्च कानतौ समाख्यातो भैर्भीरौ वरुणे यमे ॥ १२ ॥ भैर्ब्रह्मणि प्रहारे, भो- कारः कंसे निगद्यते । ओकारान्तोऽव्ययो भो च सम्बोधने समीरितः ॥ १३ ॥ भोस्सान्तश्चाव्ययः प्रश्ने सम्बोधन-विषादयोः । भौस्तु रमापतावुक्तो भ्यो भवेत्‌ पुरुषेऽभये ॥ १४ ॥ भ्यं स्यात्‌ क्लीबो भये रौद्रे भ्याऽभये पुरुषे तथा । भ्रोऽभये भ्रमरे भारे भ्रष्ट-भ्रामक-भासुरे ॥ १५ ॥ ब्रह्मणि भीमसेने भ्रः प्रकरे धूसरेऽधरे । भ्रं क्लीबो भ्रमणे भीतौ भ्रामके भासुरा-ऽ भ्रयोः ॥ १६ ॥ भ्रा स्रीलिङ्गो हिडम्बायां ब्राह्मण्यां च द्युतावपि । भ्रा पृथ्वी-भ्रष्टयोर्भ्रूर्ने- त्रोर्ध्वस्थरोमधोरणौ ॥ १७ ॥ भ्वः पुंलिङ्गो भवे ख्यातो ब्रह्मणि भरते स्मृतः । भ्वं स्यान्निवेशने क्लीबो भ्वा पार्वत्यामुदीरितः ॥ १८ ॥ ;k{मकारादिः} ;c{॥ अथ मकारादिः ॥} अथ मो मन्त्र-मन्त्रेश- मासेषु मधुसूदने । मेधा-मारण-मायावि- मन्दिर-मण्डलेषु मः ॥ १ ॥ मले मूले तथा मौलौ मो माने मानि-रोगयोः । मस्तन्द्री-यम-रामेषु सूर्या-चन्द्रमसोर्जले ॥ २ ॥ प्रकोष्ठे प्रतिदाने मो वह्नौ रणे निवारणे । मो बन्धने तथेन्द्रे स्यात्‌ काले विधौ विषे शिवे ॥ ३ ॥ मङ्गले पिङ्गले सत्य- वादे मः साक्षि-हस्तिनोः । मं मौलौ मूलके मोघ- वृत्तौ जने शुभे भवेत्‌ ॥ ४ ॥ जले पले गले मं स्यान्‌- मलिने मं धने तथा । मा मान-मेघ-मारेषु मालायां मातृ-मार्गयोः ॥ ५ ॥ मदिरायां च मेधायां लक्ष्मी-पृथ्वी-व्यथासु मा । मा वेला-बन्धना-ऽऽक्षेप- जालन्ध्री-पूजनेषु च ॥ ६ ॥ योषित्कट्यां प्रभायां च मा विद्या-ज्ञानयोः स्मृतः । मा सेनायां जने प्रोक्तः सूर्य जीवे हरौ कृतौ ॥ ७ ॥ मा स्याद् वस्तुनि पार्वत्यां व्यये जभन-योषितोः । ;p{0180} मा मेढ्राग्रमणावुक्तो देशभेदे समीरितः ॥ ८ ॥ त्रिलिङ्गो मास्तथा माने धने विद्भिः समुच्यते । मा भवेद्‌ वारणे चाथ विकल्पेऽप्यव्ययं तथा ॥ ९ ॥ माश्चन्द्र-मासयोः सान्‍तः पुमान्‌, मांसे नपुंसकः । मिर्भवेत्‌ प्रेरणे कर्णे मीर्महाबाहु-हिंसयोः ॥ १० ॥ मुर्मातरि महेशे स्याद्‌ बन्ध-पिङ्गलवर्णयोः । बिम्बके कपिले मुश्च कथ्यते शब्दकोविदैः ॥ ११ ॥ स्त्रीलिङ्गो मुद्‌ भवेद्‌ वृद्धि- नामभेषज-हर्षयोः । रान्तो मूः स्त्री च मूर्च्छायां मूर्बन्धने ग्रहे गृहे ॥ १२ ॥ मूर्मोलि-मौन-मोक्षेषु मूर्मुकुन्दे महाबले । स्त्री स्याद्‌ मृद्‌ मृत्तिकायां च जले तुवरिकाह्वये ॥ १३ ॥ मेरथ प्रतिदाने स्यान्‌- मृगे धेनौ च संभवेद्‌ । मैः श्रेष्ठे सारथौ सूर्ये प्रणते च रणे मतः ॥ १४ ॥ मोकारो बन्धने पत्न्यां मौः स्वर्गे परिकीर्त्यते । म्नो माने म्नं मृतौ क्लीबो मनसि मधुनि श्रुतः ॥ १५ ॥ म्ना स्त्री स्यादलकापुर्यां म्य ईशाने मये यमे । म्यमुत्करे तथाऽमाये निगदितो नपुंसकः ॥ १६ ॥ म्या रमायां क्षमायां स्त्री सरमायामपीरितः । म्रः पुमानमरे मृत्यौ मैथुनी-बल-माधवे ॥ १७ ॥ म्रं क्‍लीबो मैथुने मृत्यौ मृताङ्ग-मधु-मस्तके । म्ना शुन्यां मारमानिन्यां मानव्यां स्त्री समीरितः ॥ १८ ॥ म्रा यामिन्याममर्यां, म्वो वक्षे, म्वं पुस्तको-त्तमे । नभसि ब्रह्मणि म्वं स्यात्‌ म्वा स्त्री पृथ्व्यां प्रचक्षते ॥ १९ ॥ ;k{यकारादिः} ;c{॥ अथ यकारादिः ॥} अथ य ईश्वरे त्यागे याचके यमने यमे । यमुने यामुनेये यो यशसि चन्द्र-सूर्ययोः ॥ १ ॥ यः स्याद्‌ याना-ऽङ्ग-शिष्येषु पाके पवन-पुञ्जयोः । यः पुरुषोत्तमे पातृ- दातृ-धातृषु यातरि ॥ २ ॥ शयने वाहने लग्ने योऽञ्जने चाऽतिकुत्सने । विनये निलये छागे-ऽ वयवेऽसु-वटेषु यः ॥ ३ ॥ ;p{0181} कुले कल्पद्रुमञ्जर्यां यः कल्पद्रौ च कुक्कुरे । यस्त्वचा-तारक-श्रेष्ठे देव्यां पुत्रे पशौ तथा ॥ ४ ॥ यो ग्रामे रूपबीभत्से क्षुधायां मातृ-योगयोः । यं यशो-योग-यन्त्रेषु करणे रूपके पशौ ॥ ५ ॥ यं मधुनि समुद्रे स्यात्‌ संसार-वारिणोस्तथा । वायुवेगे च यं प्रोक्तो योगाढ्येऽपि समीरितः ॥ ६ ॥ यत् त्रिलिङ्गः समाख्यातः सर्वनाम्नि सुपण्डितैः । अव्ययं यत्‌ तथा हेता- ववधारण-गर्हयोः ॥ ७ ॥ या युक्‍तौ याज्ञिके योगे यात्रायां योनि-यानयोः । यातरि मातरि त्यागे या लक्ष्म्यामशने रथे ॥ ८ ॥ शोभायां निर्मितौ हेतौ निर्धने या नियन्तरि । या धूमिते समज्ञायां प्रापणे वारणे व्यये ॥ ९ ॥ या मज्जर्यां च खट्वाङ्गे यिर्युद्धे यीर्गजे द्रुमे । यीः सारथौ च युः सर्पे युक्‌ त्रिः समाधिसंयुते ॥ १० ॥ युग्मे, युङ् स्यात्‌ ससंयोगे युग्‌ निन्दायामथाव्ययम्‌ । युत्‌ क्‍लीबश्चाथ कुत्सायां धान्तो युद्‌ युद्ध-योधयोः ॥ ११ ॥ यूः स्याद्‌ यूषेऽथ यूकायां येः सार्थे यैश्च वासवे । योकारश्च भवेत्‌ पादे यौः कण-स्वर्गयोरपि ॥ १२ ॥ य्यो जय्ये विबुधाधीशे-ऽ थ य्यं कृत्ये नपुंसकः । य्यमाधारे तथा न्याय्ये य्या शय्यायां समुच्यते ॥ १३ ॥ य्रोऽर्जुने यादवे जारे य्रं क्लीबः स्याज्जरोद्भवे । भ्राजति भोजने क्लीबो य्रं जुष्ट-जायमानयोः ॥ १४ ॥ य्राऽजरायां जरायां स्याज्- जरठायामपि श्रुतः । य्रिः कामिनी-प्रिया-पुष्टा- समुद्रपारगास्वथ ॥ १५ ॥ परमायामपि य्रिः स्यात्‌ पुंलिङ्गो य्वो यवे तथा । य्वो भवेज्जवने यक्षे य्वं क्लीबो रोदनेऽपि च ॥ १६ ॥ मर्दने जगति य्वं स्याद्‌ य्वाऽथ स्‍त्री यभने मतः । य्वा नार्यां जघनायां चो- त्तमायां यतने भवेत्‌ ॥ १७ ॥ ;k{रकारादिः} ;c{॥ अथ रकारादिः ॥} अथ र ईश्वरे रामे रजसि रय-रूपयोः । रुधिरे रुचिरे रङ्के रो रोचिष्मति रक्षणे ॥ १ ॥ रः शरे शङ्करे शब्दे शबे सूर्य-समुद्रयोः । ;p{0182} शये स्मये क्षये रः स्याद्‌ व्यये भये नये-न्द्रिये ॥ २ ॥ रश्छेदे वेदने वज्रे वीरे तीव्रे ह्यरौ गुरौ । कामा-ऽऽराधन-मेघे रो युद्धे चरे नरे धने ॥ ३ ॥ रः पिण्डे पवने पृथ्व्यां प्रेम-पाका-ऽग्नि-दातृषु । र इच्छायामृतौ तीक्ष्णे धनरोधे च धातरि ॥ ४ ॥ रस्त्यागे विरसे स्त्याने कामानले विधौ श्रवे । रं रङ्गे रोदने रत्ने राध्ये रुधिर-रन्ध्रयोः ॥ ५ ॥ रं भय-चक्र-वेगेषु रं स्याद्‌ ध्याने धने मुखे । आकाशे कर्कटे कुक्षौ रं स्यादण्डे दृढे द्युतौ ॥ ६ ॥ जले च मूर्धनि स्याद्‌ रं शब्दे सुज्ञैः समीरितः । रा समृद्धौ सुवर्णे स्याद्‌ बाला-शाला-सुखे मुखे ॥ ७ ॥ रा राज्ये रुधिरे रामे रमणी-रमणे तथा । रा राढायां रमायां च रागे राज्ञि धने गतौ ॥ ८ ॥ क्रोधे क्रूरे तथाऽऽकाश- शीर्षा-ऽऽशंसासु रा बले । रा पूर्णे विक्रमे दाने रभसे साध्वसे तथा ॥ ९ ॥ घान्तो राक्‌ त्रिः समर्थे स्याज्- जान्तो राट्‌ च पुमान्‌ नृपे । रिः स्वसृ-स्रव-कर्पूर- गति-गिरि-शिव-क्षये ॥ १० ॥ री गतौ श्रवणे नार्यां मेरुपरिभ्रमे भ्रमे । रीरग्नि-कामि-पृथ्वीषु हरिण्यां श्रोतरि भ्रमे ॥ ११ ॥ रुः शम्भु-शब्दयोर्युद्धे कान्तौ जाले मृगे-च्छयोः । रसने रक्षणे प्रोक्तो रुर्भाग-भय-भानुषु ॥ १२ ॥ विच्छेदे वम्रिके रुः स्यात्‌ कामिन्यां रुश्च रु क्षितौ । रुक्‌ स्यात्‌ स्त्री चान्त इच्छायां तेजः-किरण-कान्तिषु ॥ १३ ॥ शारिकाखगवाण्यां रुक्‌ स्याज्ज्वाला-प्रभयोस्तथा । रुग् जान्तः स्त्री व्यथा-कुष्ठ- -मेषीषु भङ्ग-रोगयोः ॥ १४ ॥ जान्तस्त्री रुग् व्यथादे, रुद्‌ दान्तः स्त्री व्याधि-रोदने । रुट्‌ षान्तः स्त्री भवेत्‌ क्रोधे रूः स्वर्ण-कामरूपिणोः ॥ १५ ॥ प्रजापतौ च रूः प्रोक्तो रेश्च खेदे तथोदितः । रे स्यादनादरे हूतौ नीचसम्बोधनेऽव्ययम्‌ ॥ १६ ॥ रैकार आश्रये प्रोक्तः सुवर्णे वर्ण-कृष्णयोः । मेघे जले ध्वनौ लक्ष्म्यां रैकारः श्रवणे धने ॥ १७ ॥ अव्ययो रै च संबुद्धौ दाने ह्यनादरे मतः । ;p{0183} रोकारः प्रोच्यते रोषे रौर्भव-स्वर्गयोरपि ॥ १८ ॥ ;k{लकारादिः} ;c{॥ अथ लकारादिः ॥} अथ लो लक्ष्मणे लूने लवणे लवने तथा । लो लम्पटा-ऽऽलया-ऽऽश्लेष- प्रलये चलनेऽनिले ॥ १ ॥ ल इन्द्र-चन्द्रयोः पृथ्व्या- माह्लादनेऽमृते मृते । लः स्यान्मन्दगतौ मांसे मधुमत्ते च साधने ॥ २ ॥ लो दीप्ति-दान-दीनेषु दिशायां व्याज-वाद्ययोः । लो भय आशये चौरे क्रिया-नास्तिक-शङ्करे ॥ ३ ॥ पक्षिणि वृक्षशाखायां खण्डने केशवे च लः । लमाकाशे सुखे रक्षो- वचन-विष-नामसु ॥ ४ ॥ आश्लेषे लोपना-ऽपूर्ण- लवण-लक्षणेषु लम्‌ । लं दाना-ऽऽदानयोः श्रोत्रे मन्त्रभेदेऽपि संस्मृतः ॥ ५ ॥ ला लक्ष्मी-लाभ-लोभेषु लीला-ललनयोर्लये । ला लूनि-दीप्त्यु-पालम्भ आश्लेषा-ऽऽदानयोस्तृणे ॥ ६ ॥ विलासे-न्द्रा-ऽदने स्याल्ला दाने लाश्च दशा-ऽमृते । लिर्लाव-सर्प-शब्देषु क्षये साम्ये च कङ्कणे ॥ ७ ॥ लिरन्‍त-क्लमयोः ख्यातो ली चपले च साधने । ली श्लेषे वलये, लीः स्याच्‌- श्लेष-विश्लेषयोर्द्रवे ॥ ८ ॥ लीर्भये वलये पृथ्व्यां लवने दृढबन्धने । लुः पृथ्व्यां लूः पृथिव्यां स्याल्- लवने लवणेऽरुणे ॥ ९ ॥ लूरिन्द्रे छेदके रुद्रे गरुडे लूश्च लेर्लवे । लेः श्लेषणेऽथ लै रामे दयायामादरे कुशे ॥ १० ॥ लोकारः श्लेषणे मत्स्ये लौः सुख-दृश्ययोरपि । लौः स्यात्‌ प्रजापताविन्द्रे छेदन-वादयोश्र लौः ॥ ११ ॥ ल्‍यः पुमानुद्धते चैवा-ऽ यसि, ल्‍यं निलये तथा । ल्‍या नलिन्यामहिल्यायां ल्रः स्याल्लालित-लण्डयोः ॥ १२ ॥ ल्रः स्यादङ्के तथैवाल्के ल्रं क्‍लीबो नभसि स्मृतः । ललनावदने ल्रं स्याल्- लालितेऽपि नपुंसकः ॥ १३ ॥ ल्रा प्लाविता-ऽम्बुला-लाजा- ललिता-लालितास्वथ । ल्‍लो लोक-तर्कयोश्च, ल्‍लं क्लीबो लक्ष्म-सनातने ॥ १४ ॥ ल्लं परंब्रह्मणि प्रोक्तो ल्‍ला पार्वत्यामपीरितः । ल्‍ल्या स्त्री सुरेश्वरी-सर्व- जगन्मात्रोः समुच्यते ॥ १५ ॥ ;p{0184} सर्वेशान्यां तथा ल्ल्या स्याल्‌- ल्वो लवस्तु पुमान्‌ मतः । ल्वं क्लीबः सूदनेऽथ, ल्वा लव्यायां स्त्री समाहृतः ॥ १६ ॥ ;k{वकारादिः} ;c{॥ अथ वकारादिः ॥} अथ वः संयमे वायौ विकल्पे वाल-वृन्दयोः । वरुणे वारुणे वः स्याद्‌ वारि-वारिधि-वारिदे ॥ १ ॥ वो वट-वास-वस्त्रेषु वधे वज्र-विकारयोः । वह्नौ विनिर्गमे मेद- मन्त्रण-मानसेषु वः ॥ २ ॥ वो नयने गतौ गन्धे गत्वरे सत्वरे स्मरे । सुखिनि सान्त्वने श्रेष्ठे श्रेयसि शोषणे च वः ॥ ३ ॥ ब्रह्म-पङ्गु-प्रबोधे वः पाशि-कान्तारयोर्बुधे । अधरे शङ्करे बाहा- वश्व-बलवतोश्च वः ॥ ४ ॥ वो व्याघ्रे वन्दने प्रोक्तो वसतौ वरुणालये । वो घटे स्यात्तथा राहौ शालूके चोच्यते बुधैः ॥ ५ ॥ वं क्लीबो गन्धने रक्ते सन्ताने गिरिभेदके । वचने वसने वंशे वं वपु-र्वरुणे सुखे ॥ ६ ॥ वं स्याद्‌ वरुणबीजेऽथ शोणितेऽरिवधे तथा । अव्ययं व विकल्पे स्या- दुपमाने समुच्चये ॥ ७ ॥ व सान्त्वने पदार्थे स्याद्‌ वत्‌ सादृश्येऽव्ययं भवेत्‌ । वा देवमातरि प्रोक्तो गतौ ग्रन्थौ समुच्यते ॥ ८ ॥ वा स्त्री वाते तथा ताते शिक्षायां च मृगा-ऽण्डयोः । वाऽव्ययमुपमो-त्प्रेक्षा- नानार्थ-पादपूरणे ॥ ९ ॥ वा विकल्पे वितर्के स्यात्‌ समुच्चये प्रकीर्त्यते । स्यादवधारणेऽतीते विस्रम्भे वाऽव्ययो मतः ॥ १० ॥ वाक्‌ स्त्री चान्तः सरस्वत्यां वचन-जिह्वयोः श्रुतः । वाः स्याद्‌ रान्तो जले प्रोक्तो विश्चक्षुः-पक्षि-वायुषु ॥ ११ ॥ विश्चन्द्र-सिन्धु-सूर्येषु व्योमनि परमात्मनि । विर्गरुडे तथा वारे गन्तरि विद्भिरीरितः ॥ १२ ॥ अव्ययं वि विशेषे स्याद्‌ विनियोग-व्यवाययोः । विलये वैपरीत्ये वि विकल्पे विहृतौ गतौ ॥ १३ ॥ वि तु निग्रह-नानार्थ- नियोग-निश्चयेष्वपि । शुद्धौ समुच्चये श्रेष्ठा-ऽ सहना-ऽऽलम्बनेषु वि ॥ १४ ॥ उपमाने पदार्थे वि पृथग्भावे-षदर्थयोः । ;p{0185} हेतौ परिभवेऽतीते वि ज्ञाना-ऽऽलस्य-पालने ॥ १५ ॥ विश्राणने विरुद्धे वि ह्यव्याप्तौ पादपूरणे । वित्‌ स्याद्‌ बुधग्रहे चाथ पण्डित-ज्ञानयोस्तथा ॥ १६ ॥ शान्तो विट्‌ स्यान्नरे वैश्ये परदाररते कटौ । विट्‌ प्रवेशे प्रदेशे स्यात्‌ कुण्डल-काक- वर्चसि ॥ १७ ॥ विट्‌ कन्या-विष्ठयोः षान्तः स्त्री, विड्‌ व्याप्ते त्रिलिङ्गकः । वी विज्ञाने विवादे स्याद्‌ वीर्विष्णौ गमने भवेत्‌ ॥ १८ ॥ वुः पद्गे वूर्गजे सङ्घे वृत्‌ त्रिरतीत-वृत्तयोः । वेर्भवेत्‌ पारिजातेऽथ वैः सारे सूरिभिः स्मृतः ॥ १९ ॥ अव्ययं वै प्रसिद्धौ स्यात्‌ तथा च पादपूरणे । वै स्यात्‌ सम्बोधने हेतौ स्मरणार्थ-विशेषयोः ॥ २० ॥ निश्चयेऽनुनये सत्ये- वाक्यारम्भेऽव्ययं च वै । वोकारः काल उद्दिष्टो वौश्च सुखावहे स्मृतः ॥ २१ ॥ व्यः पुमान्‌ वयसि व्याले वायौ पक्षि-समुद्रयोः । ईशाने कूबरे व्यो, व्यं वियति मुख-वस्त्रयोः ॥ २२ ॥ व्या सुधा-वडवा-भव्या- स्वोन्तो व्यो लोह-बीजयोः । व्रोऽवरे वासरे वार्धौ वाडव-वास्त्रयोरथ ॥ २३ ॥ व्रं क्लीबो भासुरे श्रेष्ठे लुलायमुख- भीमयोः । व्रा श्रेष्ठायां तथा लक्ष्म्यां सरितायामपि स्मृतः ॥ २४ ॥ ;k{शकारादिः} ;c{॥ अथ शकारादिः ॥} अथ श ईश्वरे शिष्ये शङ्करे शस्त्र-शास्त्रयोः । शोभा-शूद्र-शशाङ्केषु शः शान्तौ शीत-शस्तयोः ॥ १ ॥ शतायुः-शयन-स्वच्छ- सूर्ये शः स्वामि-सीमनि । शो राज-रश्मि-हिंसासु जले मृत्यौ महार्णवे ॥ २ ॥ गिरीशे कच्छपे लक्ष्मी- वल्मीका-ऽश्वेषु शो बके । शः स्याद्‌ दग्धा-ऽऽशिषोरस्थ्नि शः शोभन-परोक्षयोः ॥ ३ ॥ स्वच्छवारिणि शः ख्यातो भूते वज्रे भवेदसौ । श उदात्ते विपक्षे च शङ्कुकर्णे निगद्यते ॥ ४ ॥ शं शस्त्रे शरणे शक्तौ शोभायां शेष-शङ्करे । श्रेयसि प्रेयसि स्वर्गे सुखे सत्ये शमायुधे ॥ ५ ॥ शं शरीरे धने धर्मे पत्नीवदनदर्शने । कीर्तौ तूष्णींगते शं स्याच्‌- शयने च शरासने ॥ ६ ॥ ;p{0186} शान्ते नीतौ शमिन्द्रेऽज्ञे संप्रोक्तः शब्दकोविदैः । शमव्ययो मकारान्तः शास्त्र-कल्याणयोः सुखे ॥ ७ ॥ शा शोभायां च शाखायां शास्त्रेऽपि शात-शान्तयोः । अम्बायां मरणे लक्ष्यां शा श्रेष्ठ-शक्ति-भक्तिषु ॥ ८ ॥ शा गौर्यां देवपूजायां सास्नायां शान्ति-शाप्तयोः । सकारान्तश्च शाः प्रोक्तः शास्तरि विबुधैर्वरैः ॥ ९ ॥ शिः शोभायां शिवे शक्तौ श्रेष्ठेऽन्ते मोक्ष-पक्षिणोः । हिंसायां देवपूजायां शिर्गौयां जीव-बाणयोः ॥ १० ॥ शिः शान्ति-भाग्ययोः स्वापे विवशे च तनौ कृतौ । शिर्बाणौघे समाख्यातश्‌- चान्तस्तु शिक्‌ च शिक्यके ॥ ११ ॥ शी शिशौ शयने शोके शान्तौ लक्ष्म्यां बुधे क्षये । आशीर्वादे च सौभाग्ये शी स्वस्त्री-परयोषितोः ॥ १२ ॥ शीर्हिंसा-बाण-निन्दासु शयाने शयने गृहे । शुः शूद्रे शार्करे शोके स्तब्धे चन्द्रे स्वनेऽचले ॥ १३ ॥ शुर्वसुधारके ख्यातो हिंसायामपि सज्जने । अव्ययः शु तथाऽऽश्चर्ये पूजनेऽपि भवेदसौ ॥ १४ ॥ चकारान्तश्च शुक्‌ शोके स्रीलिङ्गः परिकीर्तितः । शूः शूद्रे विततौ प्रोक्तो हिंसायामपि गद्यते ॥ १५ ॥ शेः स्यादगे शिरीषे च शैस्तथा धन्धुहा-नृपे । शोकारश्च भवेद्‌ दोषे शौः शङ्खे च शिशौ तथा ॥ १६ ॥ नान्तः श्म क्लीबलिङ्गश्च शव-शरीरयोर्मुखे । श्य आश आशये नार्यां श्यं शाप-वश्ययोरपि ॥ १७ ॥ श्या वेश्यायां कृषौ स्यात्‌ स्त्री श्रः पुमान्‌ सारथौ शरे । श्रः स्यादसारदेऽसारे श्रः शरण्ये शिवे तथा ॥ १८ ॥ श्रं तारुण्ये शरण्ये स्यात्‌ सुनॄणे तादृशे शिवे । अव्ययं श्रत्‌ तु सत्ये स्याच्‌- श्रद्धायामपि कथ्यते ॥ १९ ॥ श्रा रमायां च रामायां पार्वत्यामपि कीर्त्यते । श्रीर्वेषरचना- वृक्ष- वाणी-व्योम-विभूतिषु ॥ २० ॥ श्रीः सरलद्रु-संपत्ति- सरले सरलद्रवे । श्रीः स्याल्लक्ष्म्यां लवङ्गे च प्रभा-प्रकारयोर्मतः ॥ २१ ॥ शोभायां च सरस्वत्यां श्रीः सिद्धि-बुद्धि-वृद्धिषु । कमल-कीर्ति-कन्यासु श्रीर्जटा-बिल्ववृक्षयोः ॥ २२ ॥ ;p{0187} श्रीः स्यात्‌ त्रिवर्गसम्पत्तौ मन्दगत्य-धिकारयोः । श्रीरुपकरणे वेषो- पकरण- प्रशंसयोः ॥ २३ ॥ श्रीः पूर्तौ चारुकामिन्यां श्रीर्विषो-पाधिभेदयोः । श्रीः क्षुद्रायां, पुमान्‌ रागे श्लः शुक्ले शलभे शिले ॥ २४ ॥ श्लं क्लीबः शङ्करे शीर्षे शुक्ल आधार इत्यपि । श्लं व्योम-चूर्णयोरुक्तः श्ला स्री शिला-शलाकयोः ॥ २५ ॥ श्वः प्रातरशनेऽश्वेऽथ श्वं क्लीबः शयने गते । शल्य-शरण-याने श्वं गगन-यन्त्र-मैथुने ॥ २६ ॥ नान्तः श्वा कुक्कुरे, सान्तः श्वस्त्वागामिदिनेऽव्ययः । आकारान्तस्तथा स्त्री श्वा त्वश्वा-चन्द्रकलत्रयोः ॥ २७ ॥ ;k{षकारादिः} ;c{॥ अथ षकारादिः ॥} अथ ष ईश्वरे मोक्षे सदार-सूर्य-सारसे । षः सानु-स्वर्गयोः स्तम्भे श्लेष्मणि विषये वृषे ॥ १ ॥ षः खर्जूरे खरे खञ्जे खड्ग इष्टा-ऽतिरोषयोः । उपसर्गाऽ-ग्नि-कीनाश- कच-कण-रणेषु षः ॥ २ ॥ षः स्याद्‌ ब्रह्मणि गम्भीर- लोचने प्रक्षरे जने । हृदये परिखायां षो विभव-शून्ययोः शुभे ॥ ३ ॥ गर्भविमोचने कीर्तौ मज्जायां कार्तिके च षः । षस्त्रिलिङ्गः परोक्षेऽथ विज्ञे च श्रेष्ठ-सर्वयोः ॥ ४ ॥ षं स्यात्‌ सूर्ये सुखे सस्ये नार्याश्लेषा-ऽवसानयोः । भेषजे मर्षणे षं स्याद्‌ धारणे पण्डिते तथा ॥ ५ ॥ मधुनि जालके प्रोक्तः षं तथा गर्भमोचने । नित्राणने विवाहे षं षडूर्मिशून्य-पुष्पके ॥ ६ ॥ षा पार्वत्यां तथा लक्ष्म्यां षा सत्यामुडु-शावयोः । आकाशे षा तथा खर्यां वृषस्यन्त्यां समीरितः ॥ ७ ॥ षा भवेन्मदिरायां चो- पसर्गेऽपि भवेदसौ । षाट्‌ स्यादव्ययमाह्वाने षिः शङ्खे वर्तुले तथा ॥ ८ ॥ षीः पुत्रे षुरनित्ये स्यात्‌ खुरे पुरे नृपोत्तमे । गर्भविमोचने षुः, षू- र्म्लेच्छ-चन्द्र-प्रसूतिषु ॥ ९ ॥ षेः सार्थे षैः खरे पारे षोकारो मलिने जने । देहेऽथ, षौर्मतौ खट्वा- पृथ्वी-दुःखे सुखे समे ॥ १० ॥ ष्टः पुमानमरेऽगारे-ऽ नुस्वरेऽघासुरेऽगरे । ;p{0188} गोविन्दे गरुडे गण्डे ष्टोऽङ्गारे घास-षष्ठयोः ॥ ११ ॥ ष्टोऽसुरसत्तमे, क्लीबः ष्टं श्रेष्ठे शरणे तथा । ष्टं साधु-मधुनोश्चाथ गदने वदनेऽपि च ॥ १२ ॥ ष्टा गाल्यां सूर्यपत्न्यां स्याद्‌ गृहिणी-घुष्टयोस्तथा । ष्टा तु जलालयायां च ष्टिर्वरुणस्त्रियां भवेद्‌ ॥ १३ ॥ ष्टिरावृत्तौ समाख्यात आवृष्टि-विष्टि-यष्टिषु । ष्टी भ्रमिरासुरी-भ्रष्टा- भ्रामका-सरमास्वथ ॥ १४ ॥ ष्टी यष्ट्यां ष्ट्रः पुमान्‌ भ्रष्टे व्रात्ये वरुण-विप्रयोः । शकट आसवे ष्ट्रोऽथ ष्ट्रुः सुष्ठु-भ्रष्ट-भासुरे ॥ १५ ॥ ष्ट्रुर्भक्ते शरणे प्रोक्तः ष्योऽथ प्रेष्ये पुमान्‌ मतः । ष्या भवेन्मदिरायां स्त्री शुद्धायामपि गद्यते ॥ १६ ॥ ष्रः पुमानदितीशे-न्द्र- विष्णुष्वर्केऽरुणेऽर्णवे । ष्रं क्लीबः करुणे कष्टे ष्रं काष्टे कोमलेतरे ॥ १७ ॥ ष्रमुज्ज्वले भवेत्‌ क्लीबः ष्रा स्री गौर्यां समुच्यते । ष्राऽमरी-सारवत्पत्नी- परमा-पारणासु च ॥ १८ ॥ ;k{सकारादिः} ;c{॥ अथ सकारादिः ॥} अथ स ईश्वरे सूर्ये सदानन्दे सनातने । समये सफले सिंहे सः सोम-सोमपानयोः ॥ १ ॥ सर्प-साकार-सत्कारे सः सत्यवति सङ्गतौ । सः शकटपथे श्रेष्ठ- सद्धर्मशून्य-शूलिषु ॥ २ ॥ सः श्वेत-श्रुत-शुक्रेषु शङ्कायां काम-कोपयोः । सो धर्मे धनुषि ध्याने जले भृगौ च दुर्जने ॥ ३ ॥ वरणे वारणे सः स्याद्‌ वारुणे वायु-वाजिनोः । वृषे वृक्षे परोक्षे सः पक्षिणि तापसे हिते ॥ ४ ॥ सो विष्णौ पार्वतीपुत्रे लक्ष्म्यां हंस-निवासयोः । सो भ्रमरसमूहे स्या- दविचले स ईरितः ॥ ५ ॥ अन्धौ देहकलायां सो देहभासि प्रकीर्तितः । सं सुखे स्यन्दने श्रेष्ठे सरणे शरणे वने ॥ ६ ॥ सद्धर्मे च धने सं स्याज्‌- ज्ञाने ध्याने च यौवने । समुपसर्जने कार्ये वस्तुवृन्द-विकल्पयोः ॥ ७ ॥ नक्षत्र- मार्गयोः शङ्कौ सं प्रधाने निवारणे । ;p{0189} तकारान्तस्त्रिलिङ्गः सन्‌ सत्ये साधु-प्रशस्तयोः ॥ ८ ॥ सन्‌ धीरे पूजिते मान्ये विद्यमाने च धार्मिके । नक्षत्रे शोभने शान्ता-ऽऽ काश-नित्य-बुधेषु सन्‌ ॥ ९ ॥ अथ सत्‌ क्लीबलिङ्गश्च नक्षत्रे ब्रह्म-सत्ययोः । सदास्थायिनि नीरे सत्‌ सत्‌ तान्त आदरेऽव्ययः ॥ १० ॥ अव्ययः सं मकारान्तः प्रकृष्टार्थ-समार्थयोः । शोभने सम्यगर्थे सं सङ्गत्यर्थे समुच्चये ॥ ११ ॥ सं भवेत्‌ सर्वतोभावे स्यादभेदे तथा सुखे । सा सीतायां सरस्वत्यां पार्वती-स्मृति-शक्तिषु ॥ १२ ॥ सा लक्ष्मी-शुक्र-चन्द्रेषु देहकान्तौ च शङ्करे । सा रामायां प्रभायां स्याद्‌ देव्यां, साद्‌ ब्रह्मणि स्मृतः ॥ १३ ॥ सिर्भवेदमरे मित्रे परोक्षेऽपि प्रकीर्त्यते । चकारान्तश्च सिग्‌ वस्त्रे जाले सेचनकारके ॥ १४ ॥ सीः सुखिन्यथ सुः सूर्ये कुठारे गर्भमोचने । सुर्भवेत्‌ सेवने भृत्ये पूजने पण्डितैः स्मृतः ॥ १५ ॥ अव्ययं सु समृद्धौ स्यात्‌ कृच्छ्रेऽनायास-पूजयोः । निर्भरिऽतिशये स्यात्‌ सु ह्यनुमतौ च शोभने ॥ १६ ॥ सूर्मातृ-सोमसू-नारी- प्रेरण-गर्भमोचने । सूः पृथ्व्यां प्रसवार्तायां गर्भिणी-क्षेपयोस्तथा ॥ १७ ॥ सूः स्याद्‌ रथपथे ज्ञाने सन्धाने विनिवारणे । सृक्‌ सृष्टिकृति सेः सारे सेवने सेवके रतौ ॥ १८ ॥ सैः श्वादे च शुके प्रोक्तः सोकारोऽच्युत-दुर्गयोः । सोकारश्च तथा चन्द्रे सौराख्यातः सहोदरे ॥ १९ ॥ स्कः पुंलिङ्गः स्मृतः शुष्के स्कन्धशूरे स्क उच्यते । स्कं क्लीबः शरणे शुक्रे वृत्त-वादित्रयोर्मतः ॥ २० ॥ स्कं स्यात्‌ सुखे मुखे, स्का स्त्री सुरायां स्कन्दमातरि । स्तः पुंलिङ्गः सुतेऽथ, स्तं क्लीबः शस्ते तथोद्धते ॥ २१ ॥ शरणे गगने ख्यातो राजगृहे स्तमीरितः । स्ता शदा-पक्षिपत्न्योः स्त्री पाटलगो- प्रशस्तयोः ॥ २२ ॥ स्तिः सुतायां सुरे शङ्खे सारसयोषिति स्मृतः । स्तुः सारस्त्रूण आचार्ये स्तुर्लक्षे स्तूश्च तोरणे ॥ २३ ॥ स्त्री नार्यां वम्रिके ख्यातः स्थः स्थल-स्थितिशीलयोः । ;p{0190} स्नस्तु सारे पुमान्‌, क्लीबः स्नं स्नाने मधुवारणे ॥ २४ ॥ स्नुर्गिरिसमभूभागे तथा स्नायौ समाहृतः । हान्तः स्नुक्‌ स्त्री स्नुहीवृक्षे स्फो झञ्झानिल-वारणे ॥ २५ ॥ स्फः फूत्कारे तथाऽऽस्फोटे स्फा वृद्धौ फेरवे पुमान्‌ । स्फिक्‌ चान्तः स्त्री कटिप्रोथे रोगभेदे समुच्यते ॥ २६ ॥ स्फुट्‌ पादस्फोटके स्यात्‌, स्फू- र्भाषायां स्फुट-फूल्लयोः । स्फ्यं खड्गाकारयज्ञार्थ- काष्ठभेदे प्रकीर्तितः ॥ २७ ॥ अव्ययं स्म प्रसिद्धे स्या- दतीते पादपूरणे । स्यः स्पर्शे च प्रहारे स्यात्‌ स्यः स्यात्‌ कालेऽवखण्डने ॥ २८ ॥ स्यः स्यादिन्द्रे प्रशस्येऽथ स्यं क्लीबः सस्य-कांस्ययोः । स्या स्त्रीलिङ्गः कृषावुक्तः कृषिदैवे तथेरितः ॥ २९ ॥ स्रः पुंलिङ्गः शरे भक्ते भासुरेऽभासुरे भवेत्‌ । स्रो देवकुक्कुरीनाथे स्रं क्लीबो वरुणासने ॥ ३० ॥ वदने वस्तुनि श्रेष्ठे सारदे स्रं नपुंसकः । जान्तः स्रक्‌ स्त्री भवेन्माल्ये स्रा शिवा-भक्तयोरथ ॥ ३१ ॥ ब्रह्मजा-ऽभयपत्र्योः स्रा स्राक्‌ तथा त्वरितेऽव्ययम्‌ । स्रुः स्रवे निर्झरेऽथ, स्रुग्‌ जटायां पूरणे गतौ ॥ ३२ ॥ यज्ञपात्रविशेषे च खादिरे स्रुक्‌ च शोषणे । स्रूर्यज्ञपात्रभेदे स्याद्‌ निर्झरे च स्रवे तथा ॥ ३३ ॥ स्लः पुमान्‌ गरुडे बाणे स्लो भ्रमरे नरेऽमरे । अरुणे राक्षसे स्लः स्याद्‌ दैत्येऽपि स्लो बुधैर्मतः ॥ ३४ ॥ स्लं तु शूलेऽसुखे, स्ला स्री सरमायां समीरितः । स्वो धन आत्मनि ज्ञाता- वात्मीय-भक्त-भासुरे ॥ ३५ ॥ स्वो भगवति विष्णौ स्यात्‌ स्वर्गे सुहृदि गद्यते । स्वं क्लीबो गृह आयुष्ये पुण्ये पापे गतौ सुखे ॥ ३६ ॥ रान्तः स्वरव्ययः स्वर्गे भद्र-दुःखादिभिन्नयोः । शोभने सुखसन्ताने स्वर्व्योम-परलोकयोः ॥ ३७ ॥ स्वा स्वीया-पार्वती-योषिच्‌- छक्ति-परेश्चरीषु च । अव्ययं स्वित्‌ तथा प्रश्ने वितर्के पादपूरणे ॥ ३८ ॥ ;k{हकारादिः} ;c{॥ अथ हकारादिः ॥} अथ ह ईश्वरे हंसे हीरे हारे हरौ हरे । हरिण्यां हरणे हर्षे हस्तथा हास्य-हस्तिनोः ॥ १ ॥ ;p{0191} हो रोमाञ्चे रणे शस्त्रे क्वणिते रक्त-रक्षयोः । वायुपुत्रे वराहे हो वीर-वारण-वाजिषु ॥ २ ॥ गगने गमने गर्भे हो गर्वे मङ्गले भटे । वरुणे दारुणि क्रोधे कामे हः सिंह-शून्ययोः ॥ ३ ॥ हः स्यान्नीरे नदीतीरे नकुल-नकुलीशयोः । नाक-निवासयोः शुष्क- शूलयोर्हो भयङ्करे ॥ ४ ॥ हः पापहरणे बोधे चौरे चन्द्रे चतुर्मुखे । सरोषवारणे हः स्याद्‌ धारणे गर्भभाषणे ॥ ५ ॥ हस्ते हयानने चाथ जन्मनि हः क्षतौ तथा । हः स्याद्‌ वीणाध्वनौ कष्ट उन्मत्ते विद्भिरीरितः ॥ ६ ॥ हश्च प्रोक्तो हिरण्याक्षे मणिरोचिषि चोच्यते । त्रिलिङ्गो हः सुखे चैव विशेषणे निगद्यते ॥ ७ ॥ हं हर्ष-सुख-हिंसा-ऽस्त्र- क्वणित-मणिभानुषु । हरणे भरणे पूर्णे हं चौर्य-भर-भासुरे ॥ ८ ॥ हं शूलि- ब्रह्मणोः ख्यातो वीणाध्वनौ तथा मुखे । अव्ययं ह नियोगे स्यान्‌- निन्दायां पादपूरणे ॥ ९ ॥ क्षेपणे च प्रसिद्धौ ह सम्बोधने विनिग्रहे । हं मान्तश्चाव्ययः प्रश्ने ह्यसूयायामपाकृतौ ॥ १० ॥ सम्बोधने रुषोक्तौ ह- मनुनये च वारणे । विनये संस्मृतावुक्तो हेतौ खेदे रुचो च हम्‌ ॥ ११ ॥ परब्रह्मणि सत्कारे हमङ्गीकृति-भाषणे । हा वीणायां गतौ त्यागे गन्धर्वे शोक-गर्तयोः ॥ १२ ॥ अव्ययं हा विषादे स्यात्‌ कुत्सा-विस्मय-पीडने । उन्मत्त-शोकयोर्हास्ये गर्जन-दुःखयोश्च हा ॥ १३ ॥ हिरीश्वरे तथा सर्पे हिश्छेद आत्मजे मतः । अव्ययं हि विशेषे च सम्भ्रमे पादपूरणे ॥ १४ ॥ हेतौ हेतूपदेशे हि शोके प्रश्नेऽवधारणे । हि दानार्थे स्फुटेऽप्यर्थे चासूयायां समीरितः ॥ १५ ॥ हि रोषोक्तौ प्रसिद्धौ च विपश्चिद्भिः समुच्यते । हीः स्यान्नरे मृगे चाथ हीर्हर्षसहिते तथा ॥ १६ ॥ अव्ययं ही विषादे स्याद्‌ दुःखे शोक-वितर्कयोः । ही हेतौ विस्मये पूर्तौ ही विचित्रे समीक्ष्यते ॥ १७ ॥ ;p{0192} ही स्यात्‌ स्वल्पे परप्रश्न- प्रमोद-दुःखहेतुषु । हुर्नघुषनृपे, मान्तो-ऽ व्ययो हुं स्मरणे भये ॥ १८ ॥ कोप-होम-वितर्केषु हुं प्रश्ने स्वप्न-दानयोः । भर्त्सने हुमसूयाया- मनुज्ञायामपाकृतौ ॥ १९ ॥ हुं स्यादामन्त्रणे स्वापे हुं न्यासेऽनुनयेऽव्ययः । हूर्ब्राह्मणे, तथा हू चा-ऽ व्ययं सम्बुद्धि-शोकयोः ॥ २० ॥ अवज्ञा-मानयोर्हू स्यान्‌- मान्तोऽव्ययश्च हूं स्मृतौ । सम्भाव्ये सम्मतौ हूं स्यान्‌- निन्दा-वितर्कयोस्तथा ॥ २१ ॥ हूमभ्युपगमे प्रश्ने प्राकाश्येऽनुनये भये । हूं रुषोक्ताववज्ञायां हृत्‌ त्रिलिङ्गश्च सुन्दरे ॥ २२ ॥ हत्‌ क्लीबो हृदये चित्ते हेः प्रसादकृति स्मृतः । हेऽव्ययं स्यादसूयादौ सम्बुद्धौ पादपूरणे ॥ २३ ॥ हे कुत्सा-ऽऽह्वानयोर्हेतौ हैर्हास्ये संप्रकीर्तितः । अव्ययं है तथाऽऽह्वाने स्यात्‌ सम्बोधन-कष्टयोः ॥ २४ ॥ होकारः श्रेष्ठबुद्धौ तु दर्शितः शब्दकोविदैः । होऽव्ययं विस्मये चाथा-ऽऽ ह्वाने सम्बोधने तथा ॥ २५ ॥ हौः स्यात्‌ षडानने व्याधौ ब्रह्मणि त्याग-पादयोः । हौ भवेद्‌ वचना-ऽऽह्वान- सम्बोधनेषु चाऽव्ययम्‌ ॥ २६ ॥ ह्यः पुमांस्तु हये, क्लीबोऽ थ ह्यं हस्तिमुखे गृहे । ह्यो गताह्न्यव्ययः सान्तो ह्या हयायामुदीरितः ॥ २७ ॥ ह्रः पुमान्‌ हरिणे हारे हरि-हर-हयेष्वथ । ह्रो हाहा-हुहु-हर्षेषु ह्रो हंस-हास-हस्तिषु ॥ २८ ॥ ह्रो नाहुष-दिनो-द्धर्षे हं गरे चर-चौर्ययोः । ह्रा हंसी-हस्तिनी-गौरी- शर्मिष्ठा-हरिणीष्वथ ॥ २९ ॥ सहर्षा-देवयान्योर्ह्रा त्रिलिङ्गो ह्रीश्च लज्जिते । ह्रीः स्त्रीलिङ्गश्च पार्वत्यां लज्जायां कथ्यते बुधैः ॥ ३० ॥ ह्वः प्रह्वे शतजिह्वे, ह्वं क्ष्वेडायां मरुतो गतौ । ह्वा स्त्रीलिङ्गश्च जिह्वायां तरुणी- सरितोस्तथा ॥ ३१ ॥ ;k{प्रशस्तिः} ;c{॥ अथ प्रशस्तिः ॥} ;c{॥ शार्दूलविक्रीडितम्‌ ॥} गर्भेऽम्बोपरि, वासवोपरि जनौ, बाल्ये पिशाचोपरि, भ्रातुश्चोपरि यौवने, सुविरतौ गोशालकस्योपरि । ;p{0193} कैवल्ये बुधगौतमोपरि, तथा सिद्धौ निगोदोपरि, पूर्णं यच्चरितं महोपकृतिभिस्तं वीरनाथं स्तुमः ॥ १ ॥ ;c{॥ उपेन्द्रवज्रा ॥} अनन्तलब्धे ! गुरुगौतमैकां नम्रत्वलब्धिं प्रददातु मह्यम्‌ । सुधर्म-जम्बू-प्रभवादिमेशाः सदैव कुर्वन्तु कृपां गणीशाः ॥ २ ॥ ;c{॥ इन्द्रवज्रा ॥} एतन्महर्षीशपरम्परायां रात्रीश-गोदुग्ध-हिमोज्ज्वलायाम्‌ । सूरेर्जगच्चन्द्रगुरोस्तपाऽऽख्यो-ऽ भूत्‌ स्वच्छगच्छोऽथ तथैव तत्र ॥ ३ ॥ ;c{॥ स्रगधरा ॥} कच्छाद्युद्धारकर्ता जितविजयमुनि- र्वर्यसारल्यमूतिस्‌- तत्पट्टेऽभूच्च हीरादिविजयमुनिपो ध्यानमग्नो गणीशः । तत्पट्टाकाशसूर्यो मुनिपदसहितो बुद्धिनामा सुबुद्धिः पन्न्यासस्तस्य पित्र्यस्तिलिकगणिवरो शास्त्रबोधे बुधोऽभूत्‌ ॥ ४ ॥ ;c{॥ मन्दाक्रान्ता ॥} श्रीमद्बुद्ध्यादिविजयशिशुः शान्तिचन्द्राख्यसूरि- र्गच्छाधीशः प्रशमजलघिः कर्मजालच्छिदेऽस्तु । तच्छिष्योऽभूदनिशकरकृत्‌ सर्वथा निष्कलङ्को ज्योतिर्ग्रन्थेऽतिनिपुणमतिः सोमचन्द्रश्च सूरिः ॥ ५ ॥ ;c{॥ शिखरिणी ॥} तदीये पट्टेऽभूत्‌ प्रवचन-सुलेखातिकुशलो नतेन्द्रो राजेन्द्रो गुरुरगुरुगन्धो विरतिदः । डुवा-ढीमा-ऽणस्तु- प्रवरकलिकुण्ड-त्रिभुवना- ऽऽदितीर्थोद्धारेऽति- श्रममकुरुताऽहो ! मम गुरुः ॥ ६ ॥ ;c{॥ शालिनी ॥} शिष्यस्तस्य श्रेष्ठपुण्यप्रभावी पत्नी-पुत्रैर्दीक्षितः शिक्षितश्च । जेताऽत्र स्ताद्‌ मे गुरुश्चापि तातः पूज्यो रम्यो राजपुण्यो मुनीन्द्रः ॥ ७ ॥ ;c{॥ शार्दूलविक्रीडितम्‌ ॥} नैकैकाक्षरकोषशीतलवरा- म्भोनिर्झराणां तथा-ऽ नेकप्राज्ञसुशब्दकोषवरवा- र्नद्यूर्मिकानां चयात्‌ । निस्सीमः सुखवीचिपङ्क्तिपवनो-ऽ गाधः स्वयंपावनो रत्नानां निकरो मधूदकवरो रत्नाकरो निर्मितः ॥ ८ ॥ ;c{॥ दृतविलम्बितम्‌ ॥} अमर-हेम-मनोहर-श्रीसुधा- क्षपण-राघव-माधव-सौभरीन्‌ । परम-विश्च-महेश्वर-मेदिनी- मथुर-यादव-केशव-भास्करान्‌ ॥ ९ ॥ ;p{0194} पुरुष-श्रीधर- कालि-सुशाहरा- डमर-मङ्ख-महीप-हलायुधान्‌ । वर-धने-रुगपान्‌ प्रमुखान्‌ बुधान्‌ समवलोक्य कृताऽक्षरमालिका ॥ १० ॥ ;c{॥ युग्मम्‌ ॥} ;c{॥ उपजातिः ॥} अनेकविद्वत्कृतकोषतोऽय- मेकाक्षराद्यो विहितः सुकोषः । किमु प्रदीपान्तरतः प्रभूतो दीपोऽत्र लोके न भवेत्‌ तमोघ्नः ? ॥ ११ ॥ ;c{॥ शार्दूलविक्रीडितम्‌ ॥} श्रीराजेन्द्रगुरोः करे सुमनसा पुष्पाञ्जलावर्पितः कोषोऽसौ बुधषट्पदालिरसना- ऽऽनन्दप्रदोऽस्तु द्रुतम्‌ । माता मे श्रमणी तु सौम्यवदना श्रीराजपुण्यः पिता काङ्क्षैकैव तयोर्मनो जननदोर्मे-ऽ स्माच्श्रमात्‌ प्रीयताम्‌ ॥ १२ ॥ ;c{॥ वसन्ततिलका ॥} एषा कृतिः सुकृतिभिः कृतिभिः प्रकृत्या संशोधिता मयि हृदः करुणां च कृत्वा । मात्सर्यशून्यहृदयैः सदयैः क्षतिश्चेत्‌ संप्रेक्ष्यते क्षतिखनेः स ममैव दोषः ॥ १३ ॥ ;c{॥ इन्द्रवज्रा ॥} दोषान्‌ परित्यज्य विशुद्धबुद्ध्या गृह्णन्तु सुज्ञाः ! सुगुणं सदाऽस्य । पुष्पस्य पांसून्‌ परिहृत्य भृङ्गा गृह्णन्ति पुष्पस्य रसं यथैव ॥ १४ ॥ ;c{॥ अनुष्टुप्‌ ॥} दीक्षाया नवमे वर्षे प्रारब्धे कैमुरे गिरौ । माघश्यामलपञ्चम्या- मारब्धवान्‌, समाप्तवान्‌ ॥ १५ ॥ चतुर्विंशस्य वर्षस्य समाप्तौ जन्मनस्तथा । श्रेष्ठे केसरियातीर्थे चैत्रीयपूर्णिमातिथौ ॥ १६ ॥ ;c{॥ युग्मम्‌ ॥} राग-रस-नभो-नेत्र- मिते विक्रमवत्सरे । सुन्दरैकाक्षरं कोषं कृतवान्‌ राजसुन्दरः ॥ १७ ॥ ;c{॥ स्रगधरा ॥} यावन्मेघः पृथिव्यै सुमधुरसलिलं रात्यसावन्तरीक्षाद्‌ यावच्चन्द्रः पृथिव्या उपरि सुवहति व्योममार्गे ग्रहौघम्‌ । यावत्‌ सूर्यः पृथिव्यामपहरति तमस्‌- त्वम्बरे संस्थितोऽपि तावत्‌ कोषोऽतितोषोऽखिलभुवि जयतात्‌ सुन्दरैकाक्षराऽऽख्यः ॥ १८ ॥ ;c{॥ इति मुनिराजसुन्दरविजयविरचितः सुन्दरैकाक्षरकोषः समाप्तः [५०] ॥}