;p{0141} ;c{[५०] मुनिराजसुन्दरविजयविरचितः} ;c{सुन्दरैकाक्षरकोषः} ;c{॥ शार्दूलविक्रीडितम् ॥} देहेनाऽधवलं तथाऽऽत्मधवलं, साहिं तथा निर्विषं, संपूज्यं करिणा तथाऽमदगजं, पार्श्वं तथाऽपार्श्वगम् । कल्यद्र्यन्तिकगं तथाऽखिलकलिं दूरेकरं देहिनां, नौमि श्रीकलिकुण्डतीर्थसुपतिं पार्श्वप्रभुं भावतः ॥ १ ॥ ;c{॥ उपजातिः ॥} प्रणम्य नम्यं जगदेकरम्यं राजेन्द्रसूरिं सुगुरुं च भक्त्या । श्रीसुन्दरैकाक्षरनामकोषं पोषप्रदं तोषकरं करोति ॥ २ ॥