;METADATA ;title{सुशीलनाममाला} ;author{विजयसुशीलसूरि} ;bookFullName{सुशीलनाममाला [संस्कृतशब्दकोशः]} ;bookSeriesDetails{श्रीनेमि लावण्य-दक्ष-सुशील ग्रन्थमाला रत्न ४७वां} ;editor{} ;editorQualifications{} ;publisher{आचार्य श्री सुशीलसूरि जैन ज्ञान मन्दिरम्, शान्तिनगर, सिरोही (राजस्थान)} ;pressDetails{श्री जगदीशचन्द्र स्वर्णकार, अजन्ता प्रिण्टर्स, त्रिपोलिया बाजार, जोधपुर (राजस्थान)} ;publicationYear{2034 V.S.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{SNVS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. Sudharmasvami Gyan Bhandar, Umara, Surat for providing the book to digitize. 4. Dr. Dhaval Patel for spending time to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{mixed} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{never} ;newLineNumbersAtChangeOf{never} ;version0.0.1{07 August 2020} ;version0.0.2{14 January 2021} ;version0.0.3{14 March 2021} ;version0.0.4{14 March 2021} ;version0.1.0{17 March 2021} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{अर्हम्} ;c{॥ श्री गढसिवानानगरमण्डनश्रीपार्श्वनाथजिनेश्वरेभ्यो नमः ।} ;c{॥ शासनसम्राट्-श्रीमद्विजयनेमिसूरीश्वरपरमगुरुभ्यो नमः ।} ;c{॥ साहित्यसम्राट्-श्रीमद्विजयलावण्यसूरीश्वरप्रगुरुभ्यो नमः ।} ;c{साहित्यरत्न-शास्त्रविशारद-कविभूषण इति पदालङ्कृतेन } ;c{श्रीविजयसुशीलसूरिणा विरचिता-} ;c{सुशीलनाममाला} ;k{मङ्गलाचरणम्} ;c{मङ्गलाचरणम् ।} ;c{[अनुष्टुब्वृत्तम् ]} प्रणम्य श्रीमहावीरं महाधीरं महागिरम् । वीतरागं च सर्वज्ञं सार्वं विश्वार्चितं विभुम् ॥ १ ॥ अनन्तलब्धिसत्सौधं श्रीगौतमेन्द्रभूतिकम् । गणधरं सुधर्माणं गुणमणिमघौघहम् ॥ २ ॥ ;p{0002} युगप्रधानकल्पं चाऽऽबाल्यतो ब्रह्मचारिणम् । श्रीतीर्थोद्धारकं सूरिसम्राजं नेमिसूरिपम् ॥ ३ ॥ शब्दानुशासने वाचस्पतिं शास्त्रविशारदम् । प्रगुरुं कविरत्नं स्वं नत्वा लावण्यसूरिपम् ॥ ४ ॥ कविदिवाकरं शास्त्रविशारदं सहोदरम् । शब्दानुशासने रत्नं सद्गुरुं दक्षसूरिपम् ॥ ५ ॥ आर्हतीं भारतीं भव्यां स्मृत्वा श्रीश्रुतदेवताम् । विज्ञप्त्या स्वविनेयस्य देवभद्राभिधस्य वै ॥ ६ ॥ सुशीलनाममालेयं सुशीलसूरिणा मुदा । बालबोधाय दृब्धाऽभिधानचिन्तामणिश्रिता ॥ ७ ॥ ;p{0003} ;k{देवाधिदेवविभागः} ;c{अथ प्रथमो देवाधिदेवविभागः ।} ;c{* अर्हन्नामानि *} अर्हन् जिनस्त्रिकालज्ञः परमेष्ठी जगत्प्रभुः । स्वयम्भूर्भगवान् शम्भुस्तीर्थङ्करो जिनेश्वरः ॥ ८ ॥ सर्वज्ञः सर्वदर्शी च स्याद्वादी केवलीश्वरः । आप्तो देवाधिदेवो वै वीतरागोऽप्यधीश्वरः ॥ ९ ॥ बोधिदोऽभयदो पारगतश्च पुरुषोत्तमः । सार्वस्तीर्थाधिपश्चेमाः संज्ञाः सन्तु शिवप्रदाः ॥ १० ॥ ;c{* वर्तमानचतुर्विंशतितीर्थङ्कराणां नामानि *} श्रीऋषभोऽजितो देवः सम्भवश्चाभिनन्दनः । पञ्चमः सुमतिस्वामी षष्ठः पद्मप्रभः प्रभुः ॥ ११ ॥ सुपार्श्वः सप्तमः स्वामी चन्द्रप्रभजिनोऽष्टमः । सुविधिः शीतलस्वामी श्रेयांसो वासुपूज्यकः ॥ १२ ॥ विमलोऽनन्तधर्मौ च शान्तिः कुन्थुः त्वरो जिनः । मल्लिनाथो जिनेन्द्रश्च श्रीमुनिसुव्रतो नमिः ॥ १३ ॥ नेमिः पार्श्वो महावीरो भवादवतु वः सदा । एतस्यामवसर्पिण्यां चतुर्विशतिरर्हताम् ॥ १४ ॥ ;c{* गणधरनामानि *} श्रीवीरस्येन्द्रभूतिः श्री अग्निभूतिर्द्वितीयकः । वायुभूतिरिति भ्रातृत्रिकं गौतमगोत्रपम् ॥ १५ ॥ ;p{0004} व्यक्तः सुधर्म मण्डितमौर्यपुत्रा अकम्पितः । अचलभ्रातृमेतार्यप्रभासा गणधारिणः ॥ १६ ॥ ;c{[युग्मम्]} ;c{* श्रुतकेवलिनामानि *} अन्तिमः केवली जम्बूस्वामी श्रीवीरशासने । जातोऽथ प्रभवस्वामी शय्यम्भवाभिधस्तथा ॥ १७ ॥ यशोभद्रश्च सम्भूतिविजयो भद्रबाहुकः । स्थूलभद्रोऽन्तिमश्चैते श्रुतकेवलिनो हि षट् ॥ १८ ॥ ;c{* दशपूर्वधरनामानि *} महागिरिः सुहस्ती च सूरिः श्रीगुणसुन्दरः । श्यामार्यः स्कन्दिलार्यश्चरेवतीमित्रसूरिपः ॥ १९ ॥ श्रीधर्मा भद्रगुप्तश्च श्रीगुप्तो वज्रसंज्ञकः । आर्याः सूरीश्वरा जाता दशैते दशपूर्विणः ॥ २० ॥ ;c{* तीर्थङ्कराणां पितृनामानि *} नाभिराड् जितशत्रुश्च जितारिः संवरो नृपः । मेघो धरो धराधीशः प्रतिष्ठोऽप्रतिमो नृपः ॥ २१ ॥ महासेनो महाराजा सुग्रीवो वसुधाधिपः । दृढरथो नृपो विष्णुर्वसुपूज्यः प्रजापतिः ॥ २२ ॥ कृतवर्मा नृपो सिंहसेनो भानुर्नरेश्वरः । विश्वसेनस्तथा सूरः सुदर्शनश्च कुम्भराट् ॥ २३ ॥ ;p{0005} सुमित्रो विजयो राजा समुद्रविजयः क्रमात् । अश्वसेनश्च सिद्धार्थः सन्त्येते पितरोऽर्हताम् ॥ २४ ॥ ;c{* तीर्थङ्कराणां मातृनामानि *} प्रथमा मरुदेवाऽम्बा द्वितीया विजयाह्वया । ततः सेना च सिद्धार्था सुमाता मङ्गला तथा ॥ २५ ॥ सुसीमा जननी पृथ्वी माता च लक्ष्मणाऽमला । रामा नन्दा प्रसूर्विष्णुर्जया श्यामाभिधा ततः ॥ २६ ॥ सुयशाः सुव्रता माता तथाऽचिराभिधा ततः । जनित्री श्रीश्च देवी च माता प्रभावती तथा ॥ २७ ॥ पद्मा वप्रा शिवा वामा सुमाता त्रिशलाऽन्तिमा । श्रीतीर्थङ्करमातॄणां नामान्युक्तानि प्रक्रमात् ॥ २८ ॥ ;c{* तीर्थङ्कराणां यक्ष [शासनदेव] नामानि *} गोमुखश्च महायक्षस्रिमुखो यक्षराट् ततः । तुम्बुरुः कुसुमो यक्षो मातङ्गोऽविजयो जितः ॥ २९ ॥ ब्रह्मा यक्षेट् कुमारः षण्मुखः पातालकिन्नरौ । यक्षौ गरुडगन्धर्वौ यक्षेन्द्रश्च कुबेरकः ॥ ३० ॥ वरुणो भृकुटिर्यक्षो गोमेधः पार्श्वयक्षपः । मातङ्गश्चार्हतां भक्ताः क्रमात् शासनरक्षकाः ॥ ३१ ॥ ;p{0006} ;c{* तीर्थङ्कराणां यक्षिणी [शासनदेवी] नामानि *} आद्या चक्रेश्वरी देवी तथाऽजितबला ततः । दुरितारिश्च काली वै महाकाली च यक्षिणी ॥ ३२ ॥ श्यामा देवी तथा शान्ता भृकुटिश्च सुतारका । अशोका मानवी देवी चण्डा च विदिताऽङ्कुशा ॥ ३३ ॥ कन्दर्पा चैव निर्वाणी बला देवी च धारिणी । वैरोट्या नरदत्ता वै गान्धारी चाम्बिका सुरी ॥ ३४ ॥ देवी पद्मावती चैव सुरी सिद्धायिकाऽन्तिमा । क्रमेणैता बुधैर्बोध्या जैनशासनरक्षिकाः ॥ ३५ ॥ ;c{* तीर्थङ्कराणां लाञ्छनानि *} वृषभो वारणो वाजी कपिः क्रौञ्चाऽब्जस्वस्तिकाः । चन्द्रमाः मकराङ्कः श्रीवत्सः खड्गी च सैरिभः ॥ ३६ ॥ शूकरो श्येनको वज्रं मृगः छागः सुलाञ्छनम् । नन्द्यावर्तश्च कुम्भश्च कूर्मो नीलोत्पलं ततः ॥ ३७ ॥ शङ्खः सर्पश्च सिंहश्च क्रमतो लाञ्छनानि च । तत् तत् तीर्थकृतां चैतच्चिह्नानि ज्ञापकान्यपि ॥ ३८ ॥ ;c{* गतचतुर्विंशतितीर्थङ्कराणां नामानि *} जिनेन्द्रः केवलज्ञानी निर्वाणी सागरस्ततः । महायशाश्चतुर्थश्च पञ्चमो विमलाभिधः ॥ ३९ ॥ ;p{0007} ततः सर्वानुभूति च श्रीधरो दत्ततीर्थपः । दामोदरः सुतेजाश्च स्वामी च मुनिसुव्रतः ॥ ४० ॥ तीर्थकृत् सुमतिस्वामी विभुः शिवगतिस्तथा । अस्तागस्तीर्थकृद् देवो निमीश्वरस्ततोऽनिलः ॥ ४१ ॥ यशोधरः कृतार्थश्च तीर्थङ्करो जिनेश्वरः । ततः शुद्धमतिर्देवः शिवकरस्ततः परम् ॥ ४२ ॥ स्यन्दनः सम्प्रतिश्चेति चतुर्विंशतिरर्हताम् । उत्सर्पिण्यामतीतायां बुधैर्बोध्या स्तुताः सुरैः ॥ ४३ ॥ ;c{* अनागतचतुर्विंशतितीर्थङ्कराणां नामानि *} तीर्थकृत् पद्मनाभश्च शूरदेवः सुपार्श्वकः । स्वयंप्रभस्ततः सर्वानुभूतिः परमेश्वरः ॥ ४४ ॥ देवश्रुतोदयौ देवौ पेढालः पोट्टिलस्तथा । जिनेशः शतकीर्तिश्च श्रीसुव्रतो जिनोऽममः ॥ ४५ ॥ निष्कषायश्च निर्मायो निष्पुलाकश्च निर्ममः । चित्रगुप्तः समाधिश्च संवरो वै यशोधरः ॥ ४६ ॥ विजयो मल्लदेवौ चाऽनन्तवीर्यश्च भद्रकृत् । उत्सर्पिण्यान्तु भाविन्यां चतुर्विंशतिरर्हताम् ॥ ४७ ॥ ;c{* मोक्षस्य नामानि *} महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः । श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥ ;p{0008} निर्वाणं निर्वृतिः शान्तिः सर्वदुःखक्षयः शिवः । निर्याणमपवर्गश्चाऽक्षरं चेति शिवाभिधाः ॥ ४९ ॥ ;c{* मोक्षसाधनम् *} ज्ञानश्रद्धानचारित्रयोगो मोक्षस्य साधनम् । मौनं चाऽभाषणं प्रोक्तं धर्मोपदेशको गुरुः ॥ ५० ॥ ;c{* मुनिनामानि *} वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः । ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥ त्यागी योगी वियोगी च क्षमी शमी दमी यमी । संयमी माहनो मौनी चारित्री च महाव्रती ॥ ५२ ॥ ;c{* आचार्यादिपदस्थगुरुनामानि *} अनुयोगकृदाऽऽचार्य उपाध्यायश्च पाठकः । अनूचानः प्रवचने साङ्गेऽधीती गणिः स च ॥ ५३ ॥ ;c{* शिष्यनामानि *} अन्तेवासी विनेयश्च शैक्षः प्राथमकल्पिकः । छात्रोऽन्तेषच्च विद्यार्थी शिष्यश्च शिष्यवाचकाः ॥ ५४ ॥ ;c{* गुरुबन्धुनामानि *} सतीर्थ्याश्चैकगुरवो गुरुभ्रातृप्रवाचकाः । एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ५५ ॥ ;p{0009} ;c{* गुरुपरम्परारूपसम्प्रदायाभिधा विवेकश्च *} सम्प्रदायस्तथाऽऽम्नायः पारम्पर्यं गुरुक्रमः । गुरुपरम्परा चाथ विवेकः पृथगात्मता ॥ ५६ ॥ ;c{* दीक्षावाचकाः शब्दाः *} प्रव्रज्या च परिव्रज्या दीक्षाचारित्रसंयमाः । तपस्या च व्रतादानं संन्यासो निगमस्थितिः ॥ ५७ ॥ ;c{* योगस्याष्टाङ्गनामानि *} ;c{[ योगस्य प्रथमाङ्गरूपं यमपञ्चकम् ]} अहिंसा सत्यमस्तेयं ब्रह्मचर्यं चतुर्थकम् । स्यादकिञ्चनता चैते पञ्चधाः कीर्त्तिता यमाः ॥ ५८ ॥ ;c{[ योगस्य द्वितीयाङ्गमयं नियमपञ्चकम् ]} शौचं तथैव संतोषः स्वाध्यायोऽपि तपस्तथा । देवताप्रणिधानं च पञ्चापि नियमाः मताः ॥ ५९ ॥ ;c{[ योगस्य तृतीयाङ्गमासनं, चतुर्थाङ्गं प्राणायामः, पञ्चमाङ्गं प्रत्याहारश्च ]} करणमासनं प्राणायामः प्राणयमस्तथा । श्वासप्रश्वाससंरोधः प्रत्याहारोऽक्षरोधनम् ॥ ६० ॥ ;p{0010} ;c{[योगस्य षष्ठाङ्गं धारणा, सप्तमाङ्गं च ध्यानम् ]} क्वचिद् ध्येये तु चित्तस्य स्थिरबन्धो हि धारणा । ध्यानं तद्विषये चैकप्रत्ययसन्ततिर्मतम् ॥ ६१ ॥ ;c{[ योगस्याष्टमाङ्गं समाधिः ]} समाधिश्च तदेवार्थमात्राभासनरूपकम् । एवं योगोऽष्टधा प्रोक्तः यमाद्यङ्गाष्टकेन च ॥ ६२ ॥ ;c{* कल्याणमङ्गलादिशुभनामानि *} श्रेयः श्वःश्रेयसं क्षेमं कुशलं श्वोवसीयसम् । भावुकं भविकं भव्यं भद्रं मद्रं तथा शुभम् ॥ ६३ ॥ प्रशस्तं सुकृतं शस्तं सूनृतं च ततः परम् । कल्याणं मङ्गलं चैव भद्रं काम्यं तथा शिवम् ॥ ६४ ॥ ;c{इति श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति -भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरिप्रमुखानेकप्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनसम्राट्-जगद्गुरु- भट्टारकाचार्यमहाराजाधिराज-श्रीमद्विजयनेभिसूरीश्वर-सुप्रसिद्धपट्टालङ्कार-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्यदेवेशश्रीमद्विजयलावण्यसूरीश्वरपट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां प्रथमो देवाधिदेवविभागः समाप्तः ॥ १ ॥} ;p{0011} ;k{देवविभागः} ;c{द्वितीयो देवविभागः ।} ;c{* स्वर्गनामानि *} स्वर्गस्त्रिविष्टपं नाको देवलोकः सुरालयः । त्रिदिवमूर्ध्वलोको गौर्द्योदिवौ द्युश्व दीदिविः ॥ ६५ ॥ सैरिकस्त्रिदशावासो भुविस्तविषताविषौ । दिदिविर्वासवावासो मेरुपृष्ठं फलोदयः ॥ ६६ ॥ ;c{* देवनामानि *} अमरा निर्जरा देवाः देवता दानवारयः । गीर्वाणा नाकिनोऽस्वप्नाः मरुतो विबुधाभिधाः ॥ ६७ ॥ अमर्त्यास्त्रिदशाः लेखा बर्हिर्मुखाः स्वधाभुजः । अनिमिषाः सुपर्वाणः स्वाहाभुजः सुधाभुजः ॥ ६८ ॥ स्वर्गिणस्त्रिदिवाधीशाः क्रतुभुजो हविर्भुजः । आदितेयास्तथा वृन्दारकाः सुमनसः सुराः ॥ ६९ ॥ ;c{* अमृतनामानि *} पीयूषं चापि पेयूषं देवभोज्यं सुधाऽमृतम् । देवाहारश्च देवान्नं समुद्रनवनीतकम् ॥ ७० ॥ ;c{* भवनपतिदेवाः *} असुराश्चैव नागाश्च विद्युतोऽनु सुपर्णकाः । अग्नयो वायवश्चैव स्तनिता श्वोदधीश्वराः ॥ ७१ ॥ ;p{0012} द्वीपा दिशो दशाश्चैते भवनपतयो मताः । श्री असुरकुमाराख्यजातिका निखिला अपि ॥ ७२ ॥ ;c{* व्यन्तरदेवाः *} स्युः पिशाचाश्च भूताश्च यक्षाश्च राक्षसास्तथा । ततश्च किन्नरा देवाः किंपुरुषा महोरगाः ॥ ७३ ॥ गन्धर्वजातिका देवा व्यन्तरा चाष्टधा मतः । व्यन्तरान्तर्गता देवा अष्टापि वाणव्यन्तराः ॥ ७४ ॥ ;c{* ज्योतिष्कदेवाः *} चन्द्रा अर्का ग्रहाश्चैवं नक्षत्राणि च तारकाः । ज्योतिष्का देवताः पञ्च विश्वे विश्वप्रकाशकाः ॥ ७५ ॥ ;c{* वैमानिकदेवाः *} देवाः वैमानिकाः कल्पभवा द्वादश ते त्वमी । सौधर्मजास्तथैशानजाता सनत्कुमारजाः ॥ ७६ ॥ माहेन्द्रकल्पजा ब्रह्मजाश्च लान्तककल्पजाः । शुक्रजाश्च सहस्रारजास्तथाऽऽनतकल्पजाः ॥ ७७ ॥ प्राणतकल्पजा देवा आरणकल्पजास्तथा । अच्युतकल्पजाश्चैते कथिता ज्ञानिभिः खलु ॥ ७८ ॥ ;p{0013} कल्पातीताश्च विज्ञेयाः नवगैवेयकाः सुराः । पञ्चानुत्तरगा एवं चतुर्निकायदेवताः ॥ ७९ ॥ ;c{* सूर्यनामानि *} आदित्यः सविता सूर्यः सहस्रांशुः रविस्तथा । मार्तण्डस्तरणिर्भानुर्गभस्तिः किरणो भगः ॥ ८० ॥ अर्कः पूषा पतङ्गश्च खगः प्रद्योतनस्तथा । तपनस्तापनस्सूरः विवस्वान् मिहिरोऽरुणः ॥ ८१ ॥ सप्तसप्तिर्हरिर्हेलिः तिमिरारिर्विकर्त्तनः । भास्करश्चित्रभानुश्च भास्वान् मित्रः विभावसुः ॥ ८२ ॥ नभोमणिर्जगच्चक्षुः विभाकरः प्रभाकरः । अहर्मणिर्दिवापुष्टः दिनेशश्च दिवाकरः ॥ ८३ ॥ ;c{* अर्ककिरणनामानि *} रोचिः शोचिश्च रश्मिश्च ज्योतिश्च किरणो शुचिः । घृणिः पृश्निः मयूखश्च मरीचिर्दीधितिर्द्युतिः ॥ ८४ ॥ ;c{[१] सुदर्शनः [२] सुप्रतिबद्धः [३] मनोरमः [४] सर्वतोभद्र [५] सुविशालः [६] सुमनसः [७] सौमनसः [८] प्रियङ्करः [९] नन्दीकरश्चेति नवग्रैवेयकाः ।} ;c{(१) विजयः (२) वैजयन्तः (३) जयन्तः (४) अपराजितः (५) सर्वार्थसिद्धश्चेत्यनुत्तरा विमानदेवाः ।} ;p{0014} प्रकाशश्तेज उद्योतः आलोकः छविरातपः । अर्चिरंशुश्च भाः भानुः गभस्तिश्च विभा प्रभा ॥ ८५ ॥ प्रग्रहस्तथा पादः मृगतृष्णा मरीचिका । मण्डलं परिवेषश्च परिधिस्तूपसूर्यकम् ॥ ८६ ॥ सूरसूतोऽरुणश्चैव काश्यपिर्गरुडाग्रजः । तथापि विनतासूनुः अनूरुश्चादयो मताः ॥ ८७ ॥ ;c{* चन्द्रनामानि *} चन्द्रः शशी सुधांशुश्च विधुरिन्दुश्च चन्द्रमाः । नक्षत्रेशः निशेशश्च निशारत्नं निशाकरः ॥ ८८ ॥ निशौषधी-कौमुदी-भ[-दक्षजा-रोहिणी-पतिः । श्वेतवाजी तथा सोमः श्वेताऽमृत-हिम-द्युतिः ॥ ८९ ॥ षोडशोंऽशः कला ज्ञेया लाञ्छनं लक्ष्म लक्षणम् । चिह्नमङ्कः कलङ्कश्चाऽभिज्ञानं तदनन्तरम् ॥ ९० ॥ चन्द्रिका कौमुदी ज्योत्स्ना चन्द्रिमा चन्द्रगोलिका । चन्द्रातपश्च बिम्बं तु मण्डलं तदनन्तरम् ॥ ९१ ॥ नक्षत्रं तारका तारा ज्योतिषी भमुडुर्ग्रहः । धिष्ण्यमृक्षं नवैव स्युरन्तर्भेदोऽपि ज्ञायताम् ॥ ९२ ॥ ;p{0015} ;c{* नक्षत्रनामानि *} आश्विन्यश्वकिनी दस्रदेवता चाश्वयुक् तथा । बालिनी चाथ नक्षत्रे भरणी यमदेवता ॥ ९३ ॥ कृत्तिकाश्चाग्निदेवाश्च बहुलाश्चाथ रोहिणी । ब्राह्मी तु मृगशीर्षं च मृगशिरस्ततः परम् ॥ ९४ ॥ चान्द्रमसं तथा मार्गः मृगश्च तदनन्तरम् । इल्वलास्तु मृगशिरः शिरःस्थाः पञ्चतारकाः ॥ ९५ ॥ ज्ञेया आर्द्रा तु रौद्री च कालिनी तु पुनर्वसू । आदित्यौ यामकौ चाथ पुष्यश्च गुरुदैवतः ॥ ९६ ॥ तिष्यः साध्यस्ततः सार्प्यश्लेषा पित्र्यास्तथा मघाः । विज्ञेया पूर्वफल्गुनी नक्षत्रयोनिदेवता ॥ ९७ ॥ उत्तरफल्गुनी चार्यमदेवा हस्त नामकः । सवितृदैवतस्त्वाष्ट्री चित्रा स्वातिस्तथाऽऽनिली ॥ ९८ ॥ इन्द्राग्निदेवता राधा विशाखा तदनन्तरम् । अनुराधा च मैत्री स्थात् ज्येष्ठन्द्री मूल आश्रपः ॥ ९९ ॥ पूर्वाषाढा तथाऽऽपी तूत्तराषाढा तदनन्तरम् । वैश्वी तु श्रवणश्चैव हरिदेवस्ततः परम् ॥ १०० ॥ धनिष्ठा तु श्रविष्ठा च नक्षत्रवसुदेवता । शतभिषक् तु नक्षत्रवारुणी त्वजदेवता ॥ १०१ ॥ ;p{0016} पूर्वभद्रपदाश्चैव प्रोष्ठपदास्ततःपरम् । नक्षत्रश्चाप्यहिर्बुध्नदेवतास्तदनन्तरम् ॥ १०२ ॥ प्रोष्ठपदाश्च नक्षत्रोत्तरभद्रपदास्तथा । रेवती पौष्णमाख्यातं दाक्षायण्यः शशिप्रियाः ॥ १०३ ॥ ;c{* राशिनामानि *} राशीनामुदयो लग्नं स च मेषो वृषस्तथा । मिथुनः कर्कटः सिंहः कन्या तुला च वृश्चिकः ॥ १०४ ॥ धनुश्च मकरश्चैव कुम्भो मीनश्च राशयः । ;c{* ग्रहनामानि *} अथ ग्रहाणां नामानि ज्ञेयानि क्रमतो यथा ॥ १०५ ॥ आरो वक्रो नवार्चिश्च माहेयोऽङ्गारकस्तथा । आषाढाभूः कुजो भौमः लोहिताङ्गश्च मङ्गलः ॥ १०६ ॥ बुधः सौम्यः श्रविष्ठाभूः श्यामाङ्गश्च प्रहर्षुलः । चन्द्रात्मजस्तथा ज्ञश्च पञ्चार्चिः रोहिणीसुतः ॥ १०७ ॥ आङ्गिरसो गुरुर्वाग्मी गीःपतिर्बृहतीपतिः । द्वादशार्चिः सुराचार्यो वाचस्पतिर्बृहस्पतिः ॥ १०८ ॥ चित्रशिखण्डिजो जीवो धीषणो फल्गुनीभवः । शुक्रः काव्यः कविर्धिष्ण्यः षोडशार्चिश्च भार्गवः ॥ १०९ ॥ ;p{0017} उशनाश्च भृगुश्चैव दैत्यगुरुर्मघाभवः । शनैश्चरः शनिः सौरिः सप्तार्चिःरेवतीभवः ॥ ११० ॥ छायासुतोऽसितो मन्दः क्रूरात्मा च यम स्थिरः । पङ्गुः क्रोडस्तथा कालः नीलवासा महाग्रहः ॥ १११ ॥ उपरागस्तु स्वर्भाणुः सैहिकेयो विधुन्तुदः । उपप्लवस्तमो राहुर्भरणीभूरथाऽहिकः ॥ ११२ ॥ अश्लेषाभूश्च केतुश्च शिखी चेति ग्रहा मताः । उत्तानपादजश्चैव ध्रुवाख्यः कथितो बुधैः ॥ ११३ ॥ ;c{* अगस्त्यनामानि *} अगस्त्योऽगस्तिराग्नेयः सत्याग्निरग्निमारुतः । वातापिद्विड् तथा क्वाथिः और्वशेयो घटोद्भवः ॥ ११४ ॥ पीताब्धिः वारुणिः मैत्रावरुणिः कलशीसुतः । कौषीतकी तु तद्भार्या लोपामुद्रा वरप्रदा ॥ ११५ ॥ ;c{* सप्तर्षि नामानि *} सप्तर्षीणां तु नामानि मरीचिरत्रिरङ्गिराः । पुलस्त्यश्च महातेजाः ऋतुः वशिष्ठ नामवान् ॥ ११६ ॥ पुलहः सप्तमो ज्ञेयः एते चित्रशिखण्डिनः । ;c{* चन्द्रसूर्यसंमिलितनामानि *} पुष्पवन्तौ पुष्पदन्तावेकोक्त्या चन्द्रभास्करौ ॥ ११७ ॥ ;p{0018} ;c{* चन्द्रसूर्यग्रहणनामानि *} सूर्येन्दोः राहुग्रासे स्यादुपराग उपप्लवः । ;c{* उपद्रवनामानि *} उपसर्गस्त्वरिष्टं स्यादुपलिङ्गमुपद्रवः ॥ ११८ ॥ उत्पातश्च तथाऽजन्यमीतिश्च तदनन्तरम् । एते चोपद्रवाः ज्ञेयाः वह्न्युत्पात उपाहितः ॥ ११९ ॥ ;c{* कालनामानि *} कालो दिष्टोऽप्यनेहाः स्यात् समयः सर्वमूषकः । कालो द्विधाऽवसर्पिण्युत्सर्पिणीकालभेदतः ॥ १२० ॥ षडरा अवsaर्पिण्यामुत्सर्पिण्यां त एव वै । एवं द्वादशभिश्चारैः वर्तते कालचक्रकम् ॥ १२१ ॥ अष्टादश निमेषाः स्युः काष्ठा काष्ठाद्वयं भवेत् । लवस्तु तैः कला पञ्चदशभिरपि ज्ञायताम् ॥ १२२ ॥ लेशस्तु तद्द्वयेनैव तैः पञ्चदशभिः क्षणः । नाडिका तु क्षणैः षड्भिः धारिका घटिका च सा ॥ १२३ ॥ तद्द्वयेन मुहूर्तस्तु तथा तैरपि त्रिंशता । अहोरात्रस्तु सम्पूर्ण दिवसः कथितो बुधैः ॥ १२४ ॥ ;c{* दिवसनामानि *} अहर्दिनञ्च घस्रं द्युर्दिवसो वासरो दिवम् । ;c{* प्रभातनामानि *} प्रभातं तु विभातं च प्रत्यूषं स्यादहर्मुखम् ॥ १२५ ॥ ;p{0019} उषो व्यृष्टं प्रगे प्राह्णे पूर्वेद्युश्च निशात्ययः । गोसः प्रातश्च गोसर्गः काल्यं कल्यं च प्रत्युषः ॥ १२६ ॥ ;c{* मध्याह्ननामानि *} दिवामध्यं तु मध्याह्नं मध्यन्दिनं तथैव च । ;c{* सायं-सन्ध्याकालनामानि *} दिनावसानमुत्सूरो विकालः सबलिस्तथा ॥ १२७ ॥ सायं तु पितृसूः सन्ध्या त्रिसन्ध्यं तूपवैणवम् । कुतपो श्राद्धकालस्तु भागोऽष्टमो दिनस्य यः ॥ १२८ ॥ ;c{* रात्रिनामानि *} रात्रिः रात्री तमी भौती तमा तमिस्तमस्विनी । त्रियामा यामिनी तुङ्गी वासतेयी विभावरी ॥ १२९ ॥ शर्वरी शार्वरी श्यामा वसतिर्वासुरा तथा । निशीथिनी निशा नक्ता शताक्षी क्षणदा क्षपा ॥ १३० ॥ वासरकन्यका याम्या निशीथ्या च निषद्वरी । रजनी रजनिः घोरा पूतार्चिश्चक्रभेदिनी ॥ १३१ ॥ क्षणिनी राक्षसी चैव यामवती च तामसी । उशाः उषा तथा दोषा इन्दुकान्ता तथैवच ॥ १३२ ॥ ;p{0020} ज्यौस्त्नी तु पूर्णिमारात्रिस्तमिस्रा दर्शयामिनी । निशासमूहबोधार्थे गणरात्रो निशागणः ॥ १३३ ॥ पक्षिणी पक्षतुल्याभ्यामहोभ्यां वेष्टिता क्षपा । ज्ञातव्या रजनीद्वन्द्वं गर्भकं तु निशामुखम् ॥ १३४ ॥ दिनात्ययः प्रदोषश्च यामस्तु प्रहरस्तथा । निशीथस्त्वर्धरात्रश्च निःसंपातो महानिशा ॥ १३५ ॥ उच्चन्द्रस्त्वपररात्रस्त्वन्धकारं रजोबलम् । तमिस्त्रं तिमिरं ध्वान्तं तथाऽन्धतमसं तमः ॥ १३६ ॥ नीलपङ्को निशावर्म दिनाण्डं दिनकेसरः । सन्तमसं तथा वृत्रोऽवतमसं दिगम्बरः ॥ १३७ ॥ वियद्भूतिश्च भूच्छाया रात्रिरागः स्मृतो बुधैः । तुल्यनक्तं दिवंकाले विषुवद् विषुवं च यत् ॥ १३८ ॥ पञ्चदशदिनानाञ्च पक्षः स बहुलोऽसितः । कृष्णो निशाह्वयः ख्यातः शुक्लो दिशाह्वयस्तथा ॥ १३९ ॥ तिथिस्तु कर्मवाटी स्यात् पक्षतिः प्रतिपत् तथा । पञ्चदश्यौ यज्ञकालौ पक्षान्तौ चापि पर्वणी ॥ १४० ॥ भूतेष्टापञ्चदश्योर्यद् पर्वमूलं तदन्तरम् । प्रतिपत् पर्वसन्धिः स पञ्चदश्योर्यदन्तरम् ॥ १४१ ॥ पूर्णिमा पौर्णमासी स्यात् राका पूर्णे क्षपाकरे । कलाहीने त्वनुमतिर्मार्गशीर्ष्याऽऽग्रहायणी ॥ १४२ ॥ ;p{0021} अमावास्या त्वमावासी सूर्येन्दुसङ्गमस्तथा । अमावस्या च दर्शोऽमाऽमावासी कथिता बुधैः ॥ १४३ ॥ सा नष्टेन्दुः कुहुः प्रोक्ता कुहूश्चापि निगद्यते । सचन्द्रिका सिनीवाली भूतेष्टा तु चतुर्दशी ॥ १४४ ॥ ;c{* मासनामानि *} द्विपक्षौ मास आख्यातः वर्षकोशोऽपि कथ्यते । वर्षांशकोऽपि मासार्थे दिनमलश्च प्रयुज्यते ॥ १४५ ॥ ;c{* मासभेदः *} मार्गशीर्षस्सहाः मार्गो वत्सरादिस्तथा सहः । आग्रहायणिकश्चैव सहस्यस्तु सहस्यवत् ॥ १४६ ॥ पौषस्तैषस्तु माघश्च तपास्तु फाल्गुनस्तथा । फल्गुनिकस्तपस्यश्च फल्गुनालस्तपस्यवत् ॥ १४७ ॥ चैत्रस्तु चैत्रिकश्चैव मधुश्च फाल्गुनानुजः । कामसखस्तथा मोहनिकराधस्तु माधवः ॥ १४८ ॥ उच्छरश्चैव वैशाखे ज्येष्ठस्तु खरकोमलः । मलः शुक्रस्तथा ज्येष्ठामूलीयः खरकस्तथा ॥ १४९ ॥ अथाऽऽषाढः शुचिश्चापि श्रावणस्तु नभास्तथा । श्रावणिकोऽथ भाद्रश्च भाद्र-प्रौष्ठपरः पदः ॥ १५० ॥ ;p{0022} नभस्यः स्यादिषश्चाश्वियुज आश्विन उच्यते । अथ कार्त्तिकिकः सैरी कार्त्तिकः कौमुदस्तथा ॥ १५१ ॥ बहुलोर्जौ च नामानि प्रोक्तानि कोविदैः समैः । द्वौ द्वौ मासौ च एकर्तुर्मार्गादितः क्रमाद् भवेत् ॥ १५२ ॥ हिमागमस्तु हेमन्तो रौद्रश्च प्रसलस्तथा । शैषस्तु शिशिरश्चैव वसन्तस्तु बलाङ्गकः ॥ १५३ ॥ इष्यश्च पुष्पकालस्तु सुरभिः पिकबान्धवः । पुष्पसाधारणश्चाथ निदाग ऊष्म ऊष्मकः ॥ १५४ ॥ उष्ण ऊष्मायणो ग्रीष्मः पद्म उष्णागमस्तपः । आखोरचैव वर्षा तु मेघागमस्तपात्ययः ॥ १५५ ॥ मेघकालः क्षरी प्रावृट् वरिषास्तु घनात्ययः । शरद् चैवाऽयनं ज्ञेयं शिशिराद्यैस्त्रिभिस्त्रिभिः ॥ १५६ ॥ उत्तरायणकालेन संयुक्तं दक्षिणायनम् । स्यादेको वत्सरो नाम्ना वर्षं संवत्सरं शरत् ॥ १५७ ॥ तथाऽनुवत्सरोऽब्दं च हायनः परिवत्सरः । उद्वत्सरः समाः वत्सः संवत् च कथ्यते बुधैः ॥ १५८ ॥ भवेत् पैत्रं त्वहर्नक्तं मासेनाब्देन दैवतम् । सहस्रयुगलैर्दिव्यैः युगैः स्याद् ब्राह्ममेककम् ॥ १५९ ॥ स्थितिप्रलयकालात्मकल्पौ नॄणां तु तत्तथा । एकसप्ततिभिर्दिव्यैर्युगै मन्वन्तरं मतम् ॥ १६० ॥ ;p{0023} कल्पान्तः प्रलयः कल्पः परिवर्तस्तथा क्षयः । समगुप्तिश्च संवर्तो युगान्तश्च जिहानकः ॥ १६१ ॥ संहार स्यादथत्काले तदात्वं प्रतिपाद्यते । तज्जं सांदृष्टिकं चैव सांसृष्टिकं फलं तथा ॥ १६२ ॥ आयतिस्तूत्तरः काल उदर्कः स्याद् भविष्यदः । ;c{* आकाशस्य नामानि *} आकाशमम्बरं चाऽभ्रमन्तरिक्षं घनाश्रयः ॥ १६३ ॥ वियद् विष्णुपदं खञ्च द्यौदिवौ च मरुत्पथः । व्योमाऽनन्तं विहायश्च पुष्करं गगनं नभः ॥ १६४ ॥ सुराभ्रोडुपथश्चेति नभोनामानि विंशतिः । ;c{* मेघनामानि *} [मेघो] घनाघनो नभ्राट् तडित्वान् मुदिरो घनः ॥ १६५ ॥ जीमूतो जलदश्चाऽभ्रं जलमुक् जलदस्तथा । वारिमुक् वारिवाहश्च वारिधरश्च वारिदः ॥ १६६ ॥ स्तनयित्नुश्च पर्जन्यो धाराधरो बलाहकः । नभोध्वजो जलधरो जलवाहश्च वार्मसिः ॥ १६७ ॥ व्योमधूमस्तथा धूमयोनिश्च वारिवाहनः । कादम्बिनी कालिका वै मेघमाला निगद्यते ॥ १६८ ॥ ;p{0024} दुर्दिनं वार्दलं चैव ज्ञायतां मेघजं तमः । धारासम्पात आसारः महावृष्टिस्तथैव च ॥ १६९ ॥ ज्ञायतां वेगवान् वर्षो वातास्तं वारिशीकरः । वृष्टिश्च वर्षणं वर्षं तदभावस्त्ववग्रहः ॥ १७० ॥ अवग्राहश्च वग्राहो वग्रहः कथ्यते बुधैः । मेघास्थिमिञ्जका चैव वर्षाबीजं घनोपलः ॥ १७१ ॥ करकस्तोयडीम्भो वै बीजोदकमिरावरम् । मेघास्थिपुञ्जिका चैव मेघकफ इराम्बरम् ॥ १७२ ॥ अम्बुघनश्च नामानि कथ्यन्ते किल पण्डितैः । ;c{* दिङ्नामानि *} आशा चैव हरित् काष्ठा स्याद् दिक् तथा ककुप् किल ॥ १७३ ॥ दिक पूर्वा तु तथा प्राची स्यादऽपरेतरा तथा । दक्षिणा तु अवाची स्यादपाची चोत्तरेतरा ॥ १७४ ॥ प्रतीची पश्चिमा तु स्याद् पूर्वेतरा तथैव च । उदीची तूत्तरा दिग् च स्यादऽपाचीतरा तथा ॥ १७५ ॥ विदिक् त्वपदिशं चैव प्रदिक् च कथ्यते बुधैः । दिश्यं दिग्भववस्तुन्यपागपाचीनमेवस्यात् ॥ १७६ ॥ उदीचीनमुदग्जातं प्राक् प्राचीनं तथा भवेत् । स्यात् प्रत्यक् तु प्रतीचीनं तिर्यग्दिशां तु नाथकाः ॥ १७७ ॥ ;p{0025} इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा । वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥ अथैन्द्री तत्समाऽग्नेयी याम्या च नैऋती तथा । वारुणी चापि वायव्या कौबेरी तदनन्तरम् ॥ १७९ ॥ ऐशानी चेति नामानि कथ्यन्ते पण्डितैरिह । ;c{* दिग्गजाः *} ऐरावतो दिग्गजोऽस्ति पुण्डरीकश्च वामनः ॥ १८० ॥ कुमुदश्वाऽञ्जनश्चैव पुष्पदन्तस्तदन्तरम् । सप्तमः सार्वभौमोऽस्ति सुप्रतीकोऽष्टमस्तथा ॥ १८१ ॥ इत्यष्टौ दिग्गजाः श्रेष्ठाः कथ्यन्ते ज्ञानिभिः किल । ;c{* इन्द्रनामानि *} इन्द्रो हरिरुपेन्द्रश्च वज्री दुश्च्यवनो वृषाः ॥ १८२ ॥ बिडौजा मधवान् शक्रः पुरन्दरश्च वासवः । आखण्डलः सहस्राक्षः सुत्रामा च सुरर्षभः ॥ १८३ ॥ शुनासीरः सुनासीरः शतक्रतुर्वरक्रतुः । वास्तोष्पतिस्तथा दल्मिः कौशिको मेघवाहनः ॥ १८४ ॥ तुराषाट् यामनेमिश्च तपस्तक्षोऽच्युताग्रजः । पृतनाषाट् मरुत्वान् पर्जन्यः पूर्वदिक्पतिः ॥ १८५ ॥ ;p{0026} पौलोमीशः सुखाकाङ्क्षी सचीपतिः स्वर्गपतिः । सुरेशश्च सुरस्त्रीशः नाकेशोऽसन्महा तथा ॥ १८६ ॥ शचीशश्च शपीविश्च वराणो वज्रदक्षिणः । नेरी सहसनेत्रश्च वन्दीकः देवदुन्दुभिः ॥ १८७ ॥ उग्रधन्वा जयो जिष्णुः पुरुहूतोऽप्परःपति । खदिरोऽपि किणालातः खिदिरो मिहिरस्तथा ॥ १८८ ॥ ऋभुक्षाः बाहुदन्तेयः त्रायस्त्रिंशपतिस्तथा । वयुनो गौरवास्कन्दी हर्यश्वो हरिमान् तथा ॥ १८९ ॥ नरी प्राचीनबर्हिश्च वृद्धश्रवास्तथैव च । प्राचीशः पूर्वदिक्स्वामी संक्रन्दनस्तथैव च ॥ १९० ॥ इन्द्रवाचकनामानि ज्ञातव्यानि बुधैर्जनैः । इन्द्रस्य तु द्विषः पाकः पुलोमा नमुचिस्तथा ॥ १९१ ॥ वृत्रो बलोऽद्रयो जम्भो विख्याता इन्द्र शत्रवः । इन्द्रस्य तु प्रियेन्द्राणी पौलोमी जयवाहिनी ॥ १९२ ॥ शतावरी महेन्द्राणी चारुधारा शची तथा । शक्राणी चापि ज्ञातव्या तनयस्तु जयस्तथा ॥ १९३ ॥ जयन्तो जयदत्तश्च सुता तु तविषी पुनः । जयन्ती तविषी तिस्रो हय उच्चैःश्रवा महान् ॥ १९४ ॥ ;p{0027} मातलिः सारथिस्तस्य द्वितीयोऽस्ति हयंकषः । द्वाःस्थस्तु देवनन्दी वै ऐरावणो गजः पुनः ॥ १९५ ॥ ऐरावतोऽभ्रमातङ्गो हस्तिमल्लोऽभ्रमुप्रियः । श्वेतगजश्चतुर्दन्तः तथाऽर्कसोदरो गजः ॥ १९६ ॥ वैजयन्तस्तु प्रासादः वैजयन्तो ध्वजस्तथा । पुर्यमरावती ज्ञेया नामापरं सुदर्शनम् ॥ १९७ ॥ सरो नन्दीसरस्तस्य सुधर्मा तु सभा भवेत् । वनं तु नन्दनं ज्ञेयं वृक्षाश्च हरिचन्दनः ॥ १९८ ॥ मन्दारः पारिजातश्च सन्तानश्चापि कल्पकः । धनुर्देवायुधं ज्ञेयं तदृजु रोहितं तथा ॥ १९९ ॥ दीर्घर्ज्वैरावतं चैव स्याद् वज्रं त्वशनिः स्वरुः । दम्भोलिर्ह्रादिनी शंविः शतकोटिस्तथा पविः ॥ २०० ॥ शतारः शतधारश्च व्याधामः कुलिशस्तथा । भिदुश्च भिदुरं वज्रज्वाला तु अतिभीर्भवेत् ॥ २०१ ॥ स्फुर्जथुर्वज्रनिर्घोषः पण्डितेन निगद्यते । स्वर्वैद्यावश्विनौ दस्रौ नासिक्यौ वडवासुतौ ॥ २०२ ॥ नासत्यावाश्विनीपुत्रौ तथा प्रवरवाहनौ । यमौ नासत्यदस्त्रौ वै गदान्तकौ तथाऽर्कजो ॥ २०३ ॥ अब्धिजौ आश्विनेयौ च ज्ञेयौ यज्ञवहौ तथा । त्वष्टा तु विश्वकर्मा च विश्वकृद् देववर्द्धकिः ॥ २०४ ॥ ;p{0028} स्वर्गिवध्वस्तु स्वर्वध्वः स्वर्गस्त्रियः सुरस्त्रियः । अप्सरसोऽप्सराश्चापि स्वर्वेश्या उर्वशीमुखाः ॥ २०५ ॥ हाहादयस्तु गान्धर्वा गन्धर्वा देवगायनाः । ;c{* यमराजनामानि *} यमराजो यमः कालो यमराट् यमुनाग्रजः ॥ २०६ ॥ दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः । श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥ धर्मराजो महासत्यः शमनो महिषध्वजः । कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥ शीर्णांहिश्चापि शीर्णाङ्घ्रिः पुराणान्तस्तथैव च । समवर्ती यमश्चापि धूमोर्णा तु यमप्रिया ॥ २०९ ॥ पुरी संयमिनी तस्य प्रतीहारस्तु वैध्यतः । दासस्तस्य महाचण्डः चण्डस्तथा यमस्य वै ॥ २१० ॥ लेखकस्तु पुनर्ज्ञेयः चित्रगुप्ताभिधः किल । ;c{* राक्षसनामानि *} राक्षस आक्षरो रक्षः कीनाशः कौणपस्तथा ॥ २११ ॥ क्रव्यादः कर्बरः क्रव्यात् रक्तग्रीवश्च नैऋतः । पुण्यजनः पलादश्च हनुषो निकसात्मजः ॥ २१२ ॥ ;p{0029} नैकसेयः खसापुत्रः यातुधानः पलप्रियः । त्रिशिराः स्तब्धसंभारः रात्रिबलः प्रवाहिकः ॥ २१३ ॥ यातुः संध्याबलः शङ्कुः उद्धरो जललोहितः । रात्रिञ्चरो नृचक्षाश्च विथुरः समितीपदः ॥ २१४ ॥ रात्रिचरस्तथाऽसृक्पः स्यादिति नरविष्वणः । ;c{* वरुणदेवनामानि *} वरुणो जलकान्तारः प्रचेताश्च परञ्जनः ॥ २१५ ॥ अर्णवमन्दिरः पाशी प्रतीचीशश्च संवृतः । उद्दामो जलकान्तारः मेघनादश्च दुन्दुभिः ॥ २१६ ॥ यादःपतिरपांनाथः ज्ञेयाः जलपतिस्तथा । ;c{* कुबेरनामानि *} कुबेरो धनदः श्रीदः नृधर्मा नरवाहनः ॥ २१७ ॥ कैलासौका निधानेशः किंनरेशो निधीश्वरः । राजराजो महासत्त्वः धनकेलिः धनेश्वरः ॥ २१८ ॥ वैश्रवणश्च वित्तेशः हर्यक्षः सत्यसङ्गरः । पौलस्त्यः परिविद्धश्च कुहः किंपुरुषेश्वरः ॥ २१९ ॥ तथा मनुष्यधर्मा वै रत्नगर्भः सितोदरः । त्रिशिराः सुप्रसन्नश्च यक्षो यक्षेश्वरस्तथा ॥ २२० ॥ ;p{0030} गुह्यकेशश्च गुह्येशः प्रमोदितस्सितोदरः । ऐलविलैकपिङ्गौ वै रत्नकरः पिशाचकी ॥ २२१ ॥ इच्छावसुरीशसखः सन्ति नामानि शास्त्रके । विमानं पुष्पकं तस्य वनं चैत्ररथं तथा ॥ २२२ ॥ पुरी वस्वौकसारा च वसुप्रभाऽलका तथा । वसुसारा प्रभा चोक्ता पुत्रोऽस्ति नलकूबरः ॥ २२३ ॥ ज्ञेयः कुबेरदेवस्य इत्येवं कथितं बुधैः । ;c{* धननामानि *} धनं वित्तं तथा द्रव्यं द्रविणं विभवो वसु ॥ २२४ ॥ पृक्थमृक्थं च रिक्थं स्वं स्वापतेयं च रास्तथा । ऋक्णमर्थो हिरण्यं स्याद् सारं द्युम्नं तथोच्यते ॥ २२५ ॥ ;c{* निधाननामानि *} निधानं तु कुनाभिश्च शेवधिर्निधिरित्यपि । ;c{* निधिभेदाः *} महापद्मस्तथा पद्मः शङ्खमकरकच्छपाः ॥ २२६ ॥ मुकुन्दः कुन्दनीलौ च चर्चाश्च निधयो नव । ;c{* जैनमतानुसारं निधिनाम *} नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः ॥ २२७ ॥ ;p{0031} महापद्मस्तथा कालो महाकालश्च माणवः । शङ्खकश्चेति नामानि निधयो नव संख्यया ॥ २२८ ॥ जैनमतानुसारेण कथ्यते ज्ञानिभिः किल । ;c{* यक्षनामानि *} राजा पुण्यजनो यक्षः वटवासी च गुह्यकः ॥ २२९ ॥ ;c{* किन्नरनामानि *} किन्नरस्तु किम्पुरुषः तुरङ्गवदनो मयुः । ;c{* शिवनामानि *} शिवः शम्भुः वृषाङ्कश्च रुद्रः शर्वश्च शङ्करः ॥ २३० ॥ श्रीकण्ठो नीलकण्ठश्च गिरीशो गिरिशो हरः । ईश ईश्वर ईशानः भीमो भर्गश्च धूर्जटिः ॥ २३१ ॥ अस्थिधन्वा जगत्स्रष्टा वह्निरेताः महाव्रती । दिग्वासाः कृत्तिवासाश्च कपर्दो पांशुचन्दनः ॥ २३२ ॥ उड्डीशः ऊर्ध्वलिङ्गश्च विरूपाक्षो विषान्तकः । महाकान्तो महानादः सिताङ्गस्त्रिपुरान्तकः ॥ २३३ ॥ शैलधन्वा विशालाक्षो महादेवो महेश्वरः । शूल खट्वाङ्गगङ्गाऽहीन्दुकपालपिनाकभृत् ॥ २३४ ॥ ;p{0032} गजाऽनङ्गापुरापूषाकालाऽन्धकामखासुहत् । अर्धकालो जगद्रोणिः कोणवादी नृवेष्टनः ॥ २३५ ॥ अन्धकारिः अहिर्बुध्नः समिरो धर्मवाहनः । षण्ढः श्मशानवेश्मा वै सर्वज्ञो वृषलाञ्छनः ॥ २३६ ॥ क्षिपिविष्टोऽष्टमूर्तिश्च घनाऽब्दवाहनौ मृडः । भालदृगेकपात् त्रिदृक् महानादो दशाव्ययः ॥ २३७ ॥ अनेकलोचनो ध्रूमः नाट्यप्रियो महानटः । खण्डपर्शुः नराधारः दिशांप्रियतमस्तथा ॥ २३८ ॥ कटाटङ्कः कटप्रूश्च कूटकृद् कपिलाञ्जनः । कण्ठेकालोऽहिपर्यङ्कः मिहिराणो महाम्बकः ॥ २३९ ॥ योगी जोटी च जोटीङ्गः भवो भूरिश्च भैरवः । उग्रः कालः उलन्दश्च रेरिहाणो जटाधरः ॥ २४० ॥ प्रमथपशुभूतोमापतिः पिङ्गेक्षणस्तथा । पशुगणभूतनाथः गोरीनाथस्तथाऽतलः ॥ २४१ ॥ शैलधन्वाऽट्टहासी च कामध्वंसी च ह्रत्करः । शङ्कुः पञ्चमुखः स्थाणुः यमजित् च मृत्युञ्जयः ॥ २४२ ॥ हीरो हिरण्यरेताः वै तथा स्यादक्षतस्वनः । कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः ॥ २४३ ॥ ;p{0033} तद्धनुः स्याद् पिनाकं चाऽजकावाऽऽजगवौ तथा । अजगावमपि प्रोक्तं ब्राह्म्याद्याः सप्त मातरः ॥ २४४ ॥ ब्राह्मी माहेश्वरी सिद्धी कौमारी वैष्णवी तथा । वाराही चापि चामुण्डा ज्ञेयाः सदैव मातरः ॥ २४५ ॥ प्रमथाः पार्षदास्तस्य पारिषदाः गणाः स्मृताः । ;c{* अष्टसिद्धिनामानि *} प्राकाम्यं वशितेशित्वं लधिमा महिमाऽणिमा ॥ २४६ ॥ यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा । ;c{* पार्वतीनामानि *} पार्वती तामसी चण्डी कुमारीरेवती जया ॥ २४७ ॥ मृडानी बाभ्रवी क्षेमा जाङ्गुली यादवी वरा । नकुला नन्दिनी नन्दा नन्दपुत्री निरञ्जना ॥ २४८ ॥ सुनन्दा नन्दयन्ती वै नीलवस्त्रा घनाञ्जनी । आर्या कात्यायनी दुर्गा प्रगल्भा कृष्णपिङ्गला ॥ २४९ ॥ प्रकूष्माण्डी च रुद्राणी भवानी सर्वमङ्गला । अर्पणा त्र्यम्बका कृष्णा कौशिकी गौतमी शिवा ॥ २५० ॥ ;p{0034} सती शिवी च शर्वाणी सावित्री सिंहवाहनी । निशुम्भमथनी शुम्भमथनी भूतनायिका ॥ २५१ ॥ महिषमथनी भीमा गार्गी च गोकुलोद्भवा । बर्हिध्वजा जयन्ती वै पुत्री क्षेमङ्करी प्रभा ॥ २५२ ॥ हीरी हैमवती हासा विकराला यमस्वसा । महानिशा महारौद्री कालङ्गमा करालिका ॥ २५३ ॥ कालरात्रिः कुला लम्बा विलंका कुलदेवता । भद्रकाली महाकाली परमब्रह्मचारिणी ॥ २५४ ॥ वरदा बदरीवासा दर्दुरा दक्षजा जया । अनन्ता स्कन्दमाता च पितृगणाऽद्रिजा हिमा ॥ २५५ ॥ अमोघा च महाविद्या महामाया महाजया । एकानसी विशालाक्षी उमा मलयवासिनी ॥ २५६ ॥ अष्टादशभुजा कुन्द्रा सिंहयाना कुहावती । ईश्वरा चेश्वरी मारी गोला शिखरवासिनी ॥ २५७ ॥ मातृमाता च मैनाकस्वसा कृष्णस्वसा स्मृता । वाहनं तु मनस्तालः पार्वत्या कथ्यते बुधैः ॥ २५८ ॥ जया च विजया तस्याः सख्या नाम द्वयं स्मृतम् । ;c{* चामुण्डानामानि *} चामुण्डा चर्ममुण्डा च चण्डमुण्डा च चर्चिका ॥ २५९ ॥ ;p{0035} महाचण्डी महागन्धा तथा मार्जारकणिका । भैरवी कर्णकोटी च प्रोक्ता बुधैः कपालिनी ॥ २६० ॥ ;c{* गणेशनामानि *} गणेशश्च गजास्यश्च विषाणान्तो विनायकः । विघ्नेशो विघ्नराजश्च हेरम्बः प्रमथाधिपः ॥ २६१ ॥ एकदन्तो द्विशरीरो द्वैमातुरस्त्रिधातुकः । पृश्निगर्भस्तथा पृश्निशृङ्गो लम्बोदराऽऽखुगौ ॥ २६२ ॥ पर्शुपाणिस्तथा हस्तिमल्लश्चेति स्मृतं किल । ;c{* स्कन्दनामानि *} स्कन्दः स्वामी च सेनानी पार्वतीनन्दनस्तथा ॥ २६३ ॥ सिद्धसेनो महासेनः षण्मुखस्तारकान्तकः । शक्तिभृत् शक्तिपाणिश्च क्रौञ्चारिः क्रौञ्चदारणः ॥ २६४ ॥ अग्निभूः अग्निजन्मा वै गङ्गोमाकृत्तिकासुतः । शरभूः शरजन्मा च ब्रह्मचारी दिगम्बरः ॥ २६५ ॥ तारकारिः महातेजाः कुमारः करवीरकः । गाङ्गेयो बालचर्यश्च वैजयन्तो दिवाकरः ॥ २६६ ॥ ;p{0036} द्वादशाक्षस्तथा बाहुलेयश्च शिखिवाहनः । षाण्मातुरो विशाखश्च स्याद् मयूररथो गुहः ॥ २६७ ॥ ;c{* शिवभृङ्गीगणादिनामानि *} भृङ्गिरिटी च भृङ्गी वै चर्मी भृङ्गीरिटिस्तथा । नाड्यस्थिविग्रहौ चोक्तः पुनः कूष्माण्डकाभिधः ॥ २६८ ॥ केलिकिलस्तथा प्रोक्तो नन्दिशस्तण्डुनन्दिनौ । शङ्करस्य गणाश्चैते कथिताः पण्डितैः किल ॥ २६९ ॥ ;c{* ब्रह्मणो नामानि *} ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः । विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥ विधिर्वेधा विधाता वै वेदगर्भः पुराणगः । भवान्तकृत् स्वयम्भूश्च सनत् सरोरुहासनः ॥ २७१ ॥ स्थविरश्च शतानन्दः सात्त्विकः कमनः कविः । द्रुहिणो द्रुधणो धाता नाभिजन्मा विरिञ्चनः ॥ २७२ ॥ कश्च कमलजन्मा च नाभिभूः पद्मभूस्तथा । आत्मभूः आत्मयोनिश्च पुरुषः पुरुषासनः ॥ २७३ ॥ ;p{0037} श्वेतपत्ररथश्चापि हिरण्यगर्भहंसगौ । विरिञ्चश्च विरिञ्चिर्वै विरञ्चिश्चापि विश्वसृट् ॥ २७४ ॥ क्षेत्रज्ञश्चापि लोकेशः सुरज्येष्ठस्तथैव च । अजोऽष्टश्रवणश्चेति सन्ति नामानि ब्रह्मणः ॥ २७५ ॥ ;c{* विष्णुनामानि *} विष्णुर्जिष्णुर्जगन्नाथो जह्नुर्बभ्रुश्चतुर्भुजः । अक्षजोऽधोक्षजो मार्जो विधुर्जिनो जनार्दनः ॥ २७६ ॥ तार्क्ष्यध्वजः शतावर्तो जलशयो जलेशयः । धीरोऽब्धिशयनो धन्वी सुधन्वा विष्टरश्रवाः ॥ २७७ ॥ उपेन्द्रः पुण्डरीकाक्षः पुरुषः पुरुषोत्तमः । पीताम्बरः पराविद्धः पुराणपुरुषस्तथा ॥ २७८ ॥ श्रीपतिः पद्मनाभश्च पुण्यश्लोकोऽपराजितः । एकपाद् द्विपदस्त्रिपाद् तीर्थपादः पराक्रमः ॥ २७९ ॥ श्रीगर्भः श्रीधरः सोमः श्रीवत्सः श्रीकरस्तथा । श्रीवराहो वृषोत्साहः श्रीवत्साङ्कः सरीसृपः ॥ २८० ॥ नवशक्तिर्नवव्यूहः चतुर्व्यूहः सुयामुनः । आसन्दश्च शतानन्दः नारायणो नरायणः ॥ २८१ ॥ ;p{0038} अजितो देवकीसूनुः सुषेणः पांशुजालिकः । खण्डास्यो जितमन्युश्च सुवृषः समितिञ्जयः ॥ २८२ ॥ षड्बिन्दुर्योगनिद्रालुः वृषाक्षो वायुवाहनः । वर्द्धमानो वरारोहो रन्तिदेवो वृकोदरः ॥ २८३ ॥ यदुनाथो गदाचक्रशार्ङ्गश्रीवत्सशङ्खभृत् । दशार्हः केशवः कृष्णः विश्वभुग् शिवकीर्तनः ॥ २८४ ॥ हृषीकेशो महाहंसः बहुरूपो महाक्रमः । बहुशृङ्गो वरारोहो महामायो महातपाः ॥ २८५ ॥ हरिः सौरिः हृषीकेशः शौरिः सोमः स्वभूः स्थिरः । पुनर्वसुः शतावर्तः शद्रुर्वंशः सुयामुनः ॥ २८६ ॥ अहिरिन्द्रानुजोऽजश्च पद्मेशयो वृषाकपिः । ऊर्ध्वकर्मा महामायः उरुगाय उरुक्रम ॥ २८७ ॥ वैकुण्ठः कालकुण्ठश्च विष्वक्सेनो महीधरः । धर्मलोकब्रह्मनाभाः सूक्ष्मनाभः सुरोत्तमः ॥ २८८ ॥ माधवो वासुदेवश्च मुञ्जकेशी कुमोदकः । तमोघ्नश्च चतुर्दष्ट्रः त्रिधामाऽपि त्रिविक्रमः ॥ २८९ ॥ ;p{0039} अच्युत आत्मभूश्चैव यज्ञनेमिर्बलिन्दमः । शशसुवर्णबिन्दू वै वासवावरजस्तथा ॥ २९० ॥ लोहिताक्षो लतापर्णः गोपेन्द्रोऽसंयुत्तोऽव्ययः । गोवर्धनधरो वेधाः धारश्च धरणीधरः ॥ २९१ ॥ लतापर्णो लतावर्णः कपिलः पाण्डवायनः । पृश्निशृङ्गः शरुः शार्ङ्गी गरुडाङ्को गदाधरः ॥ २९२ ॥ दामोदरो मुकुन्दश्च क्रतुधामाऽप्यधोमुखः । प्रासादः सोमसिन्धुश्च शलिकः शिलिकाजितः ॥ २९३ ॥ तीर्थपादस्तथा लक्ष्मीनाथश्चक्रपाणिः कपिः । पद्मगर्भस्तथा भद्रकपिलश्च प्रमर्दनः ॥ २९४ ॥ पृश्निगर्भश्च हिरण्यकेशो यज्ञधरस्तथा । एकाङ्गी एकशृङ्गश्च विश्वम्भरो जलेशयः ॥ २९५ ॥ सुभद्रो वासुभद्रश्च विश्वरूपस्तथैव च । वनमाली सदायोगी यवनारिरुदाहृतः ॥ २९६ ॥ पुनर्हिरण्यनाभश्च रुद्रकपिलनामकः । लक्ष्मीनाथः स एवास्ति विष्णुनामानि चिन्तयेत् ॥ २९७ ॥ ;p{0040} मधुर्मन्दो मुरः केशी हिरण्यकशिपुः बलिः । अरिष्टः शिशुपालश्च द्विविदो यमलार्जुनौ ॥ २९८ ॥ कैटभः कालियः कंसः नरकः शकटस्तथा । पूतना कालनेमिश्च हयग्रीवश्च धेनुकः ॥ २९९ ॥ राहुः साल्बश्च चाणूरो बाणो वध्योऽस्य मन्यते । वाहनं वैनतेयस्तु शङ्खोऽस्य पाञ्चजन्यकः ॥ ३०० ॥ श्रीवत्सनामकोऽङ्कस्तु कृपाणोऽस्यास्ति नन्दकः । कौमोदकी गदा विष्णोः ज्ञेया कौपोदकी तथा ॥ ३०१ ॥ चापं शार्ङ्गं तु विष्णोः स्यात् तथा चक्रं सुदर्शनः । स्यमन्तको मणिर्हस्ते भुजमध्ये च कौस्तुभः ॥ ३०२ ॥ पिता तु वसुदेवोऽस्य स एवानकदुन्दुभिः । दिन्दुः भूकश्यपश्चेति कथ्यते कोविदैः सदा ॥ ३०३ ॥ ;c{* बलदेवनामानि *} बलदेवो बलो रामः बलभद्रो बली हली । प्रलापी कामपालश्च सात्वतोऽपि सितासितः ॥ ३०४ ॥ मुसली ताललक्ष्मा च कालिन्दीकर्षणस्तथा । भद्रचलनभद्राङ्गौ प्रलम्बघ्नः प्रलम्बभिद् ॥ ३०५ ॥ अनन्तो नीलवस्त्रश्च सङ्कर्षणैककुण्डलौ । यमुनाभित् तथा फालः रुक्मिभिद् रुक्मिदारणः ॥ ३०६ ॥ ;p{0041} पौरः प्रियमधुर्गुप्तचरोऽच्युताग्रजस्तथा । रेवतीशस्तथा रौहिणेयः शेषाहिनामभृत् ॥ ३०७ ॥ इत्येवं बलदेवस्य नामानि कथितानि वै । सौनन्दं मुसलं त्वस्य ज्ञेयं संवर्तकं हलम् ॥ ३०८ ॥ ;c{* लक्ष्मीनामानि *} लक्ष्मीर्मा सा रमा पद्मा पद्मवासा हरिप्रिया । इन्दिरा कमला ता श्री ई आ क्षीराब्धिमानुषी ॥ ३०९ ॥ भर्मरी विष्णुशक्तिः स्यात् क्षीरोदतनया तथा । ;c{* कामदेवनामानि *} अथ कामः कलाकेलिः कमनश्च शमान्तकः ॥ ३१० ॥ शिखिमृत्युर्मनोदाही मथनो मन्मथः स्मरः । मदनो यौवनोद्भेदः प्रद्युम्नः पुष्पकेतनः ॥ ३११ ॥ अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः । रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥ श्रीनन्दनश्च कन्दर्पः मधुदीपो महोत्सवः । कन्तुः पुष्पध्वजो नाम मारश्च मधुसारथिः ॥ ३१३ ॥ स्यान् मनसिशयश्चेति नामानि हृच्छयोऽपि च । इषुश्चापं तथाऽस्त्रं च कामपुष्पादि कथ्यते ॥ ३१४ ॥ ;p{0042} पुष्पास्त्रः पुष्पचापश्च पुष्पेषुः कुसुमायुधः । तथा कुसुमधन्वा वै कुसुमबाणसंज्ञकः ॥ ३१५ ॥ अथ कामरिपुर्ज्ञेयः शंवरः शम्बरस्तथा । शूर्पकश्चापि प्रख्यातः शंवरारिस्ततोऽपि सः ॥ ३१६ ॥ शम्बरारिः शूर्पकारिः कामचिह्नं तु केतनम् । मीनश्च मकरश्चापि तस्मात् स मीनकेतनः ॥ ३१७ ॥ मकरकेतनश्चापि स्याद् झषमकरध्वजौ । बाणाः पञ्च तु कामस्य चूतं नीलोत्पलं तथा ॥ ३१८ ॥ अरविन्दमशोकं च स्यात् तथा नवमल्लिका । तस्मात् स पञ्चबाणोऽपि विषमेषुश्च कथ्यते ॥ ३१९ ॥ कामस्य स्त्री रतिर्नाम्नी तस्मात् रतिपतिर्भवेत् । ज्ञेयो रतिवरश्चापि योनिस्त्वस्य मनस्तथा ॥ ३२० ॥ आत्मा शृङ्गारसंकल्पौ तस्मात् चेतोभवस्तथा । आत्मभूरात्मयोनिश्च शृङ्गारयोनिरुच्यते ॥ ३२१ ॥ तथा शृङ्गारजन्मा च संकल्पयोनिसंज्ञकः । स्मृतिभूश्च मनोयोनिः कामसंज्ञाश्च यौगिकाः ॥ ३२२ ॥ काममित्रं मधु चैत्रः तस्मात् चैत्रसखस्तथा । मधुसुहृत् च नामानि कामस्य यौगिकानि च ॥ ३२३ ॥ स्यात् सुतोऽस्याऽनिरुद्धो हि उषारमणसंज्ञकः । ऋष्याङ्कः ऋष्यकेतुश्च उषेशो ब्रह्मसूरपि ॥ ३२४ ॥ ;p{0043} ;c{* गरुडनामानि *} गरुडश्च गरुत्मान् वै कामायुः काश्यपिस्तथा । सौपर्णेयः सुपर्णश्च वज्रिजिद् विष्णुवाहनम् ॥ ३२५ ॥ अरुणावरजस्तार्क्ष्यो महापक्षो विषापहः । उन्नीतशः शिलाऽनीहः स्वर्णकायो विशालकः ॥ ३२६ ॥ पक्षिसिंहः सुधाहृत् च पक्षिस्वामी तथाऽहिभुक् । स्वमुखभूर्महावेगः शाल्मली गरलस्तथा ॥ ३२७ ॥ वज्रतुण्डाह्वयश्चैव वैनतेयस्तथैव च । सर्पारातिश्च नामानि ज्ञेयानि गरुडस्य वै ॥ ३२८ ॥ ;c{* बुद्धनामानि *} बुद्धो बौद्धो बुधो बोधिर्महाबोधिस्त्रिकालवित् । बोधिसत्त्वो महासत्त्वो दशपारमिताधरः ॥ ३२९ ॥ संगुप्तः सुगतो योगी खजिद् विज्ञानमातृकः । आर्यश्चाऽर्हन् दशाहश्च शास्ता विज्ञानदेशनः ॥ ३३० ॥ षडभिज्ञश्चतुस्त्रिंशज्जातकज्ञस्तथागतः । जिनः समन्तभद्रश्च दशार्हः श्रीघनाऽद्वयौ ॥ ३३१ ॥ सिद्धार्थो विगतद्वन्द्वः लोकनाथः सुनिश्चितः । लोकजित् मारजित् चैव त्रिकायश्च तथागतः ॥ ३३२ ॥ ;p{0044} पञ्चज्ञानो महामैत्रो मुनीन्द्रश्च विनायकः । धर्मधातुर्दयाकूर्चो भगवान् दशभूमिगः ॥ ३३३ ॥ धर्मराजश्च नामानि बुद्धस्य कथितानि वै । तथैवेमानि नामानि विपश्यी च शिखी तथा । विश्वभूश्च क्रकुच्छन्दः काञ्चनः काश्यपस्तथा ॥ ३३४ ॥ नामावल्यां शाक्यसिंहः मायासुतोऽर्कबान्धवः । शुद्धोदनसुतः शाक्यो देवदत्ताप्रजस्तथा ॥ ३३५ ॥ राहुलसूश्च सर्वार्थसिद्धश्च गोतमान्वयः । शौद्धोदनिश्च शाक्यस्य नामानि दश सन्ति च ॥ ३३६ ॥ ;c{* असुरनामानि *} असुरा दानवाश्चैव दैतेया दितिजास्तथा । दनुजाः पूर्वदेवाश्च पातालौकःसुरारयः ॥ ३३७ ॥ शुक्रशिष्याश्च नामानि ज्ञातव्यानि सदा बुधैः । ;c{* षोडश विद्यादेवीनामानि *} विद्यादेव्यास्तु नामानि षोडश क्रमशस्त्वधः ॥ ३३८ ॥ रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा । देवी चक्रेश्वरी चैव नरदत्ताभिधा पुनः ॥ ३३९ ॥ काली देवी महाकाली गौरीदेवी तथैव च । गान्धारी चापि सर्वास्त्रमहाज्वाला च मानवी ॥ ३४० ॥ ;p{0045} वैरोट्या संज्ञका देवी अच्छुप्ता मानसी तथा । महामानसिका चेति कथ्यन्ते ज्ञानिभिः किल ॥ ३४१ ॥ ;c{* सरस्वतीदेवीनामानि *} देवी सरस्वती ब्राह्मी श्रुतदेवी च भारती । वाग् गीर्वाणी तथा गौश्च भाषा च वचनं तु वै ॥ ३४२ ॥ भाषितं भणितं चैव जल्पितं लपितं वचः । व्याहारश्चाभिधानं स्यादुदितं गदितं तथा ॥ ३४३ ॥ ;c{* वाक्यपदयोर्लक्षणम् *} सविशेषणमाख्यातं वाक्यं स्त्याद्यन्तकं पदम् । ;c{* आगमनामानि *} आगमश्चापि सिद्धान्तः राद्धान्तः समयस्तथा ॥ ३४४ ॥ आप्तोक्तिश्च कृतान्तो वै नामानि तु विशेषतः । आचाराङ्गाह्वयं सूत्रकृतं थानाङ्गसंज्ञकम् ॥ ३४५ ॥ चतुर्थं समवायाङ्गं भगवत्यङ्गसंज्ञकम् । ज्ञाताधर्मकथाङ्गं वै उपाशक्राऽन्तकृद्दशाः ॥ ३४६ ॥ अनुत्तरोपपातिकदशाङ्गं नवमं तथा । प्रश्नव्याकरणाङ्गं वै विपाकाङ्गं श्रुतं तथा ॥ ३४७ ॥ ;p{0046} इति चैकादशाङ्गानि उपाङ्गसहितानि हि । उपाङ्गानां तु नामानि प्रथममौपपातिकम् ॥ ३४८ ॥ द्वितीयं राजप्रश्नीयं जीवाभिगममित्यपि । प्रज्ञापनाह्वयं जम्बूद्वीपप्रज्ञप्तिरित्यपि ॥ ३४९ ॥ चन्द्रप्रज्ञप्त्युपाङ्गं वै सूर्यप्रज्ञप्तिरित्यपि । निरयावलिकोपाङ्गं तथा कल्पावतंसिका ॥ ३५० ॥ पुष्पिकासंज्ञकं पुष्पचूलिका नाम विद्यते । वृष्णिदशाभिधं चेति स्यादुपाङ्गानि चागमे ॥ ३५१ ॥ पुनर्द्वादशमङ्गं वै दृष्टिवादाह्वयं किल । द्वादशाङ्गी च प्रख्याता गणिपिटकमित्यपि ॥ ३५२ ॥ भेदास्तु दृष्टिवादस्य क्रमशः पञ्चसंख्यकाः । परिकर्म तथा सूत्रम् पूर्वानुयोगसंज्ञकम् ॥ ३५३ ॥ पूर्वगतं चतुर्थं स्यात् पञ्चमः चूलिकाऽभिधम् । पूर्वगते तु पूर्वाणि चतुर्दश यथाक्रमम् ॥ ३५४ ॥ आद्यमुत्पादपूर्वं चाऽग्रायणीयाह्वयं तथा । वीर्यप्रवादपूर्वं वै अस्तिनास्तिप्रवादकम् ॥ ३५५ ॥ ज्ञानप्रवादपूर्वं वै सत्यप्रवादसंज्ञकम् । आत्मप्रवादपूर्वं च कर्मप्रवादपूर्वकम् ॥ ३५६ ॥ प्रत्याख्यानप्रवादं वै विद्याप्रवादपूर्वकम् । तथा कल्याणप्रवादं प्राणावायप्रवादकम् ॥ ३५७ ॥ ;p{0047} क्रियाविशालपूर्वं च हि लोकबिन्दुसारकम् । इत्येवं कथितं शास्त्रे ज्ञानिभिश्च महर्षिभिः ॥ ३५८ ॥ ;c{* वेदनामानि *} वेदानां पञ्चनामानि स्वाध्यायश्च श्रुतिस्तथा । आम्नायो नाम विख्यातं छन्दो वेदस्त्रयी पुनः ॥ ३५९ ॥ ऋग्वेदश्च यजुर्वेदः सामवेदस्तृतीयकः । चतुर्थोऽथर्ववेदस्तु तस्मात् चत्वार एव ते ॥ ३६० ॥ उपनिषच्च वेदान्तो वेदसारस्य नामनी । मन्त्रबीजञ्च प्रख्यातमोङ्कारप्रणवाविमौ ॥ ३६१ ॥ षडङ्गानि तु वेदस्य शिक्षा च कल्पसंज्ञकः । व्याकरणं तथा छन्दो ज्योतिर्निरुक्तिरेव च ॥ ३६२ ॥ स्मृतिः स्याद् धर्मशास्त्रञ्च तथा च धर्मसंहिता । ज्ञातव्या तर्कविद्या वै आन्वीक्षिकी च या स्मृता ॥ ३६३ ॥ विचारणा तु मीमांसा सर्गस्तु प्रतिसर्गकः । तथा वंशश्च वंशानुवंशचरितसंज्ञकम् ॥ ३६४ ॥ मन्वन्तराणि यत्र स्युः पुराणं पञ्चलक्षणम् । षडङ्गसहिता वेदाः मीमांसाऽऽन्विक्षिकी तथा ॥ ३६५ ॥ त्रयोदशं धर्मशास्त्रं पुराणं च चतुर्दशम् । चतुर्दशैताः विधाः स्युः लोकशास्त्रे हि उत्तमाः ॥ ३६६ ॥ ;p{0048} अथ सूचनकृत् सूत्रं सूत्रोक्तार्थप्रपञ्चकम् । भाष्यं ज्ञेयं च प्रस्तावः प्रकरणं ज्ञायतां तथा ॥ ३६७ ॥ पदभञ्जनमेवं हि निरुक्तं शीघ्रपाठतः । अवान्तरप्रकरणविश्रामे ह्याह्निकं तु वै ॥ ३६८ ॥ अधिकारोऽधिकरणमेकन्यायोपपादनम् । उक्तानुक्तदुरुक्तार्थचिन्ताकारि च वार्त्तिकम् ॥ ३६९ ॥ तथा निरन्तरव्याख्या सा टीका कथ्यते बुधैः । पुनर्न्यासः पञ्जिकापि तथा स्यात् पदभञ्जिका ॥ ३७० ॥ अथाऽन्वर्थे निबन्धश्च वृत्तिः स्याद् संग्रहस्तु वै । समाहृतिः तथा ज्ञेया परिशिष्टं तु पद्धतिः ॥ ३७१ ॥ अध्यायोऽङ्कस्तथोच्छवासः सर्गः प्रमुखमत्र स्यात् । ग्रन्थस्यावयवाः प्रोक्ताः काव्यादौ यत्र कुत्रचित् ॥ ३७२ ॥ कारिका स्वल्पवृत्तौ स्याद् बहोरर्थस्य सूचिका । ज्ञातव्या सर्वविद्या च कलिन्दिका कडिन्दिका ॥ ३७३ ॥ निघण्टुः शब्दकोषः स्याद् नामसंग्रह इत्यपि । इतिहासः पुरावृत्तं द्वयं पूर्वचरित्रके ॥ ३७४ ॥ सूचकः गुप्तभावस्य प्रवह्लिका प्रहेलिका । जनश्रुतिः किंवदन्तीर्वार्तैतिह्यं पुरातनी ॥ ३७५ ॥ उदन्तस्तु प्रवृत्तिः स्याद् वार्ता वृत्तान्तकस्तथा । अथाऽऽख्याऽऽह्वाऽभिधाऽभिख्या संज्ञा गोत्रं तथाऽऽह्वयः ॥ ३७६ ॥ ;p{0049} नामधेयं च नाम स्यादथ सम्बोधनं पदम् । आन्त्रणमपि ज्ञेयमाह्वानं त्वभिमन्त्रणम् ॥ ३७७ ॥ आकारणं तथाऽऽकारो हूतिराकारणं हवः । हक्कारकश्च हक्कारः संहूतिर्बहुभिः कृता ॥ ३७८ ॥ ;c{* प्रस्तावनामानि *} उपोद्घात उपन्यास उदाहारश्च वाङ्मुखम् । विवादो व्यवहारः स्यात् शपनं शपथः शपः ॥ ३७९ ॥ अथ प्रतिवचस्तु स्यादुत्तरञ्चापि कथ्यते । पृच्छाऽनुयोजनं प्रश्नः कथंकथिकता किल ॥ ३८० ॥ तथा पर्यनुयोगो वै अनुयोगश्च कथ्यते । देवप्रश्नस्तथैव स्यादुपश्रुतिश्च चाटु च ॥ ३८१ ॥ प्रियप्रायं चटु तु स्यात् प्रियसत्यं तु सूनृतम् । अथ सत्यं तथा सम्यक् समीचीनं यथास्थितम् ॥ ३८२ ॥ यथातथमृतं तथ्यं सद्भूतं स्यान् मृषाऽनृतम् । अलीकं वितथं मिथ्याऽसत्यं सत्येतरत् तथा ॥ ३८३ ॥ स्यात् क्लिष्टं सङ्कुलं चैव परस्परपराहतम् । सान्त्वं सुमधुरं ख्यातमश्लीलं ग्राम्यमस्फुटम् ॥ ३८४ ॥ अस्पष्टं स्यात् तथा म्लिष्टं लुप्तवर्णपदं पुनः । ग्रस्तं ध्वस्तमवाच्यं तु प्रोक्तमनक्षरं बुधैः ॥ ३८५ ॥ ;p{0050} अम्बूकृतं सनिष्ठेव सथूत्कारे च कथ्यते । तथा निरस्तं सर्वत्र जानातु त्वरयोदितम् ॥ ३८६ ॥ भवेदाम्रेडितं द्विस्त्रिरुक्तं निरर्थकं तु वै । असम्बद्धं तथाऽबद्धं कथितं पण्डितैर्जनैः ॥ ३८७ ॥ पृष्ठमांसादनं तद् यद् परोक्षे दोषदर्शनम् । अथ मिथ्याभियोगः स्यादभ्याख्यानं तथा किल ॥ ३८८ ॥ स्याद् हृदयंगमं चैव सङ्गतं परुषं वचः । विक्रुष्टं निष्ठुरं रुक्षमुच्चैर्घुंष्टं तु घोषणा ॥ ३८९ ॥ अथेडा वर्णना श्लाघा स्तवः स्तुतिर्नुतिस्तथा । स्तोत्रं तथा प्रशंसा स्यादर्थवादश्च मन्यते ॥ ३९० ॥ विकत्थनं च मिथ्या स्यात् कौलिनं वचनीयता । तथा जनप्रवादो वै विगानं च निगद्यते ॥ ३९१ ॥ उपक्रोशोऽपवादश्च गर्हा गर्हश्च गर्हणा । जुगुप्सनं जुगुप्सा च निन्दा कुत्सा च धिक्क्रिया ॥ ३९२ ॥ निर्वादः परिवादश्चाऽवर्णः क्षेपश्च कथ्यते । स्यादाऽक्रोशस्तथाऽऽक्षेपः शापस्तथाभिषङ्गकः ॥ ३९३ ॥ क्षारणाऽऽक्षारणा स्याद् वै स रते दूषणं तथा । विरुद्धशंसनं गालिराशीर्मङ्गलशंसनम् ॥ ३९४ ॥ अथ कीर्तिः समाख्या स्याद् श्लोकोऽभिख्या यशस्तथा । समाज्ञा रुशती वाणी सर्वथा याऽशुभा भवेत् ॥ ३९५ ॥ ;p{0051} तथा कल्या शुभा वाणी चर्भटी चर्चरी समे । यः सनिन्द उपालम्भः स्यात् तत्र परिभाषणम् ॥ ३९६ ॥ अथाऽऽपृच्छा च सोम्भाष आलापश्चापि कथ्यते । मुहुर्वचोऽनुलापः स्यात् प्रलापश्चाप्यनर्थकम् ॥ ३९७ ॥ अथोयशोचनं स्याच् च विलापः परिदेवनम् । उल्लापः काकुवाहः स्याद् अन्योन्यक्तिस्तु संकथा ॥ ३९८ ॥ संलापो विप्रलापस्तु विरुद्धोक्तिश्च कथ्यते । निह्नवश्वाऽपलापः स्यात् सुप्रलापस्तथा पुनः ॥ ३९९ ॥ ज्ञेयं सुवचनं चापि सन्देशवाक् तु वाचिकम् । अथाऽऽज्ञा शासनं शिष्टिः निर्देशश्च नियोगकः ॥ ४०० ॥ आदेशश्च निदेशो वै अववादश्च कथ्यते । सेवकादिकमाहूय प्रेषणं प्रतिशासनम् ॥ ४०१ ॥ अथाऽऽस्था संश्रवः सन्धा संवित् प्रतिश्रवाऽऽश्रवौ । आगूश्चापि प्रतिज्ञा वै समाधिः सङ्गरस्तथा ॥ ४०२ ॥ अङ्गीकारोऽभ्युपायश्च स्यादभ्युपगमस्तथा । गीतनृत्यवाद्ययुक्तं नाट्यं तौर्यत्रिकं भवेत् ॥ ४०३ ॥ सङ्गीतमीक्षणार्थेऽस्मिन् शास्त्रोक्ते नाट्यधर्मिका । गीतं गानञ्च गान्धर्वं गेयं गीतिश्च कथ्यते ॥ ४०४ ॥ ;p{0052} नर्तनं नटनं नृत्यं नृत्तं नाट्यं च ताण्डवम् । लास्यञ्चेति हि वामानि कथ्यन्ते कोविदैः किल ॥ ४०५ ॥ स्त्रीमण्डलेन यन्नृत्यं ज्ञेयं हल्लीसकं हि तत् । मद्यपानेन यन्नृत्यमुच्चतालं तु कथ्यते ॥ ४०६ ॥ समराङ्गणे च य नृत्यं ज्ञेयं वीरजयन्तिका । नाट्यस्थानं तु रङ्गः स्यात् पूर्वरङ्गोऽप्युपक्रमः ॥ ४०७ ॥ अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयो भवेत् । चतुर्विधानि नामानि प्रथितानि च यथाक्रमाम् ॥ ४०८ ॥ प्राहार्योऽभिनयो ज्ञेयो रचितो भूषणादिना । वाचिको वचसा चैव तथाऽङ्गेनाऽऽङ्गिकः किल ॥ ४०९ ॥ सत्त्वेन सात्त्विकश्चैव कथ्यते कोविदैः खलु । अथ स्यान्नाटकं भाणः तथा प्रहसनं डिमः ॥ ४१० ॥ अङ्कः प्रकुरणं चैव व्यायोगेहामृगौ तथा । वीथ्यसमवकारश्च नाटकादौ प्रयुज्यते ॥ ४११ ॥ षट् संस्कृतादिकाः भाषाः कथ्यन्ते क्रमशो यथा । संस्कृतं प्राकृतं शौरसेनी पैशाचमागधी ॥ ४१२ ॥ अपभ्रंशोऽपि विज्ञेयो नृत्यगीताऽभिनेयके । भारती सात्वती चापि कौशिक्यारभटी तथा ॥ ४१३ ॥ ;p{0053} चतुर्विद्यावृत्तिरेषा काव्यनाटकयोः स्थिता । तूर्यं वादित्रमातोद्यं तूरं वाद्यं स्मरध्वजः ॥ ४१४ ॥ ततं वीणादिवाजिन्त्रं घनं तालादिकं तथा । शुषिरं चादि वंशादिमानद्धं दर्दरं तथा ॥ ४१५ ॥ करटमवनद्धं च कथ्यते मुरजादिकम् । वीणा घोषवती चैव विपञ्ची कण्ठकूणिका ॥ ४१६ ॥ वल्लकी चाथ तन्त्रीभिः सप्तभिः परिवादिनी । अनालम्बी शिवस्य स्यात् सरस्वत्याश्च कच्छपी ॥ ४१७ ॥ महती नारदस्य स्याद् गणानां च प्रभावती । बृहतीसंज्ञका वीणा विश्वावसोस्तु कथ्यते ॥ ४१८ ॥ अथ कलावती वीणा तुम्बुरस्य हि कथ्यते । चण्डालानां तु डक्कारी किंनरी बल्लकी तथा ॥ ४१९ ॥ काण्डवीणा कुवीणा वै चाण्डालिकाः च खुङ्गाणी । तथा कटोलवीणा वै सारिका चेति कथ्यते ॥ ४२० ॥ तस्याः कोलम्बकः काय उपनाहो निबन्धनम् । प्रवालः स्यात् पुनर्दण्डः ककुभस्तु प्रसेवकः ॥ ४२१ ॥ स्यान्मूले कलिका वंशशलाका कूणिका तथा । कालस्य क्रियया मानं तालः साम्यं लयः पुनः ॥ ४२२ ॥ स्याद् शीघ्रगतिमन् नृत्यादिकमघो द्रुतं किल । स्यान् मन्दगतिमन् नृत्यं तत्त्वं विलम्बितं खलु ॥ ४२३ ॥ ;p{0054} मध्यमगतिमन् नृत्यादिकं मध्यं घनं तु वै । पुनरनुगतं चेति कोविदैः कथ्यते किल ॥ ४२४ ॥ मृदङ्गो मुरजश्चेति सोऽङ्क्यालिङ्ग्यूर्ध्वकस्त्रिधा । स्याद् यशःपटहश्चैव ढक्का भेरी तु दुन्दुभिः ॥ ४२५ ॥ आनकः पटहश्चाथ दर्दरः कलशीमुखः । ज्ञेयं वै सूत्रकोणश्च डमरुकं पुनस्ततः ॥ ४२६ ॥ पणवः किंकण स्याद् वै हुडक्कः तालमर्दकः । वाजिन्त्रं शृङ्गवाद्यं तु शृङ्गमुखं तथैव च ॥ ४२७ ॥ कुहाला काहला स्याद् वै चण्डकोलाहला तथा । द्रकटः द्रगडश्चापि स्याद् धूमलस्तथा बलिः ॥ ४२८ ॥ क्षुण्णकं क्षणकं चाथ स्यात् प्रियवादिका किल । वाजिन्त्रमर्धतूरं स्याद् डिण्डिमस्टट्टरी तथा ॥ ४२९ ॥ झर्झरश्च कलापूरः तिमिला लम्बिका तथा । वेध्या तथापि मड्डुश्च ज्ञातव्या किरिकिच्चिका ॥ ४३० ॥ अथ स्यात् शारिका कोणो वीणादिवादनं किल । ;c{* रसनामानि *} अथ शृङ्गारहास्यौ च करुणः रौद्र वीरकौ ॥ ४३१ ॥ भयानकश्च बीभत्सोऽद्भुतशान्तौ रसाः नव । ज्ञेयाः पुन स्त्रिधा भावा स्थायिनः सात्त्विकास्तथा ॥ ४३२ ॥ ;p{0055} सञ्चारिणः प्रभेदाश्च रसानां तु रतिः पुनः । रागश्चाप्यनुरागश्चाऽनुरतिर्हसनं तु वै ॥ ४३३ ॥ हसो हासश्च हास्यञ्च हासिका घर्घरस्तथा । तत्रादृष्टरदे वक्रोष्ठिका स्मितं च कथ्यते ॥ ४३४ ॥ हसितं कथ्यते प्रायः किञ्चिद्दृष्टरदाङ्कुरे । तथा विहसितं किञ्चिच्छ्रुते वै कथ्यते बुधैः ॥ ४३५ ॥ अनुस्यूतेऽतिहासः स्यादट्टहासो महीयसि । अकारणात् कृते हासे ह्यपहासः स कथ्यते ॥ ४३६ ॥ अथाऽऽच्छुरितकं हास्यं सोत्प्रासे मन्यते खलु । कथ्यते हसनं चापि कोविदैः स्फुरदोष्ठके ॥ ४३७ ॥ अथ स्याद् शोचनं शोकः शुक् खेदश्च रुषा तथा । रुट् रोषो प्रतिघः कोपः क्रुत् क्रोधश्च तथा क्रुधा ॥ ४३८ ॥ मन्युश्चाथाऽभियोगश्चोत्साहः प्रौढिः प्रगल्भता । उद्योग उद्यमश्चोर्जः तथापि कियदेतिका ॥ ४३९ ॥ पुनश्चाऽध्यवसायोऽथ वीर्यं सोऽतिशयान्वितः । आतङ्कस्तु भयं भीतिः भिया भीः साध्वसं दरः ॥ ४४० ॥ प्राशङ्का चापि तच्चाऽहिभयं ज्ञेयं स्वपक्षजम् । भूपतीनामथाऽदृष्टं जलाग्निप्रमुखात् तथा ॥ ४४१ ॥ ;p{0056} स्वपरचक्रजं दृष्टं ज्ञेयं भीमं च भैरवम् । दारुणं भीषणं घोरं भयानकं भयावहम् ॥ ४४२ ॥ भयङ्करं तथा भीष्मं प्रतिभयं च भासुरम् । आभीलं डमरं चैव जुगुप्सा तु घृणा खलु ॥ ४४३ ॥ अथ स्याद् विस्मयो मोहः चित्रं चोद्यं तथाऽद्भुतम् । आश्चर्यं फुल्लकं वीक्ष्यं शान्तिस्तु शमथस्तथा ॥ ४४४ ॥ उपशमः शमश्चैव तृष्णाक्षयस्तथैव च । अमी तु स्थायिनो भावाः रसानां कारणं क्रमात् ॥ ४४५ ॥ शृङ्गारे च रतिः स्थायी हास्ये तु हसनं तथा । शोकः स्थायी च करुणे क्रोधो रौद्ररसे तथा ॥ ४४६ ॥ वीरे स्थायी समुत्साहो भयानके भयं भवेत् । स्थायीभावश्च बीभत्से जुगुप्सा च घृणाथवा ॥ ४४७ ॥ आश्चर्यं विस्मयश्चित्रं स्थायी भावोऽद्भुते रसे । शान्तरसे च तृष्णान्तः स्थायिभावश्च जायते ॥ ४४८ ॥ अथ स्तम्भो भवेज् जाड्यं धर्मः स्वेदस्तथैव च । निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥ रोमोद्गमस्तथा रोमविकारो रोमहर्षणम् । पुनरुद्घुषणं ज्ञेयमुल्लकसनमित्यपि ॥ ४५० ॥ कल्लत्वं स्वरभेदः स्याद् स्वरे कम्पस्तु वेपथुः । वैवर्ण्यं कालिका स्याद् वै दृग्जलं रोदनं भवेत् ॥ ४५१ ॥ ;p{0057} अस्रमस्रु च नेत्राम्बु बाष्पो लोतस्तथाऽश्रु वै । मूर्च्छा तु प्रलयश्चैवासात्विकाऽचेष्टिताऽखित्वा ॥ ४५२ ॥ अथ स्वास्थ्यं च सन्तोषो धृतिः स्यात् स्मरणं स्मृतिः । अध्यानं धीर्मतिर्बुद्धिर्मनीषा धिषणा पुनः ॥ ४५३ ॥ ज्ञप्तिश्चित् चेतना प्रज्ञा प्रेक्षा च प्रतिभा तथा । उपलब्धिश्च संवित्तिः दृष्टिश्च शेमुषी तथा ॥ ४५४ ॥ प्रतिपद् षोडशं नाम सा मेधा धारणक्षमा । तत्त्वानुसारिणी पण्डा ज्ञानं च मोक्षदायकम् ॥ ४५५ ॥ विज्ञानमन्यतो ज्ञेयं धीगुणा अष्टधा पुनः । शुश्रूषा श्रवणं चापि ग्रहणं धारणं तथा ॥ ४५६ ॥ ऊहोऽपोहोऽथ विज्ञानं तत्वज्ञानं च मन्यते । अथ ब्रीडश्च मन्दाक्षं शूका सूका तथा त्रपा ॥ ४५७ ॥ व्रीडा लज्जा तथा ह्रीश्च ज्ञेया साऽपत्रपाऽन्यतः । अथ जाड्यं तथा मौर्ख्यं विषादस्तु विषण्णता ॥ ४५८ ॥ अवसादश्च सादोऽपि विबुधैः कथ्यते किल । मदो मुन्मोहसम्भेदः स्याद् व्याधिस्तु रुजाकरः ॥ ४५९ ॥ आधिश्चाथ प्रमीला स्यात् तन्द्रा तन्द्रिश्च तामसी । तन्द्री नन्दीमुखी निद्रा श्वासहेतिश्च संलयः ॥ ४६० ॥ संवेशः शयनं स्वापः सुप्तं तु सुखसुप्तिका । सुष्वापश्चेति निद्रायास्त्रयं नामाधिकं खलु ॥ ४६१ ॥ ;p{0058} अथौत्सुक्यं तथोत्कण्ठ आयल्लकं तथाऽरतिः । उत्कलिका तथोत्कण्ठा रणरणक इत्यपि ॥ ४६२ ॥ हृल्लेखश्चापि प्रोक्तार्थैऽऽवहित्याऽऽकारगोपनम् । आकारगूहनं गृहजालिकाऽवकुटारिका ॥ ४६३ ॥ अवकुठारिका चैव स्यादऽवकटिका तथा । अनिष्टोत्प्रेक्षणं शङ्का कथ्यते पण्डितैः सदा ॥ ४६४ ॥ अथाऽनवस्थितिर्नाम चापलं च तदेव स्यात् । तन्द्राऽऽलस्यञ्च कौसीद्यं स्याद् वै चित्तप्रसन्नता ॥ ४६५ ॥ ह्लादो हर्षः प्रमोदश्च प्रमदो मुच् च सम्मदः । आनन्दाऽऽनन्दथूः प्रीतिः आमोदश्चापि कथ्यते ॥ ४६६ ॥ अथ गर्वश्च दर्पश्च मानश्चित्तोन्नतिः स्मयः । ममता चाऽभिमानः स्यादहङ्कारोऽवलिप्तता ॥ ४६७ ॥ अहमहमिका ज्ञानं युद्धादौ दृश्यते सदा । आहोयुकाषिका दर्पात् या सा सम्भावनाऽऽत्मनि ॥ ४६८ ॥ अहं पूर्वमहं पूर्वमिति स्यादहम्पूर्विका । अहंप्रथमिका चैव तथाऽहमग्रिका किल ॥ ४६९ ॥ उग्रत्वं चण्डता स्याद् वै ग्लानिस्तु बलहीनता । प्रबोधः स्याद् विनिद्रत्वं दैन्यं कार्पण्यमुच्यते ॥ ४७० ॥ अथाऽऽयासः प्रयासश्च व्यायामश्च परिश्रमः । क्लमः क्लेशः श्रमोऽपिस्यादुन्मादश्चित्तविप्लवः ॥ ४७१ ॥ ;p{0059} मोहो मौढ्यं समानार्थः चिन्ता ध्यानं तथैव च । अमर्षः क्रोधसञ्जातो जिगोषोत्साहवान् गुणः ॥ ४७२ ॥ आकस्मिकं भयं त्रासः स्यादाऽऽवेशस्तथा किल । अपस्मारोऽथ निर्वेदः कथ्यते स्वावमाननम् ॥ ४७३ ॥ आवेगः स्यात् त्वरा तूर्णिः संवेगः सम्भ्रमस्त्वरिः । अथ तर्कः परामर्शो वितर्कश्च विमर्शनम् । ऊह उन्नयनं चोहाऽध्याहारश्चापि उच्यते ॥ ४७४ ॥ अन्येषाञ्च गुणे दोषाऽऽरोपणं क्रियते च यत् । कथ्यते खल्वऽसूया सा लोकमध्ये तु पण्डितैः ॥ ४७५ ॥ ;c{* मृत्युनामानि *} मृत्युः कालो मृतिः संस्था कालधर्मो निमीलनम् । पञ्चत्वमवसानं च तथा निधनमत्ययः ॥ ४७६ ॥ दीर्घनिद्रा च दिष्टान्तः परलोकगमस्तथा । नाशोऽस्तं चेति मृत्योर्नामानि कथितानि वै ॥ ४७७ ॥ पुनः स्यात् सर्वगा मृत्युर्मोरिश्च मरकस्तथा । त्रयस्त्रिंशदमी भावाः भवेयुर्व्यमिचारिणः ॥ ४७८ ॥ कारणानि च कार्याणि सहचारीरिणि यानि वै । रत्यादेः स्थायिनो लोके तानि चेन् नाटयकाव्ययोः ॥ ४७९ ॥ विभावाश्चाऽनुभावाश्च व्यभिचारिणः एव वै । व्यक्तः स तैर्विभावाद्यैः स्थायिभावो भवेद् रसः ॥ ४८० ॥ ;p{0060} ये नाट्येऽधिकृताः सन्ति लोके पात्रञ्च तान् विदुः । तत्तद्वेषोऽपि नाट्ये वै मन्यते भूमिका किल ॥ ४८१ ॥ ;c{* नटनामानि *} अथ नटः कृशाश्वी च शैलूषो भरतस्तथा । धर्मी पुत्रश्च शैलाली तथा भरत पुत्कः ॥ ४८२ ॥ जायाजीवश्च रङ्गाजीवो रङ्गावतारकः । कथ्यते सर्वकेशी च चारणीस्तु कुशीलवः ॥ ४८३ ॥ भ्रकुंसः स्याद् भ्रकुंसश्च भ्रकुंशो भृकुंसस्तथा । स्त्रीवेषधारकः सोऽपि नाटके कथ्यते नटः ॥ ४८४ ॥ पुनः स्यात् पीठमर्श्च वेश्याचार्यस्तथैव च । सूचकः सूत्रधारः स्यात् स्थापको बीजदर्शकः ॥ ४८५ ॥ नन्दी स्यात् पाठको नान्द्याः पार्श्वस्थः पारिपार्श्विकः । विदूषकः प्रहासी स्याद् वासन्तिकश्च प्रीतिदः ॥ ४८६ ॥ वैहासिकस्तथा केलिकिलः केलीकिलश्च वै । अथ पल्लवकः षिङ्गस्तथा विटोऽपि कथ्यते । आवुकश्च पिता प्रोक्त आवुत्तभावुकौ पुनः ॥ ४८७ ॥ ;p{0061} भगिनी स्वामिनी प्रौक्ता भावो विद्वान् हि कथ्यते । युवराजः कुमारश्च स्याद् भर्तृदारकस्तथा ॥ ४८८ ॥ बाला वासूः कुमारी स्याद् मार्ष आर्यश्च मारिषः । देवो भट्टारको भूपः श्यालो नृपस्य राष्ट्रियः ॥ ४८९ ॥ स्याद् भर्तृदारिका सा तु कथ्यते दुहिता बुधैः । देवी कृताभिषेकाऽन्या कथ्यते भट्टिनी तथा ॥ ४९० ॥ अज्जुका चाऽर्जुका चैव कथिताः गणिकाः किल । नीचा चेटी सखी हूतौ हण्डेहञ्जेहलाः क्रमात् ॥ ४९१ ॥ अब्रह्मण्यमवध्योक्तौ स्याद् ज्यायसी स्वसाऽत्तिका । तथा भर्ताऽऽर्यपुत्रो वै माताऽम्बा कथ्यते बुधैः ॥ ४९२ ॥ भदन्ताश्चापि वै ज्ञेयाः सौगतप्रमुखाश्च ये । पूज्यस्तत्रभवानत्रभवांश्च भगवानपि ॥ ४९३ ॥ इत्येवं कथ्यते पूज्ये प्रयोज्यः पूज्यनामतः । भट्टो भट्टारको देवः पादाः भरटकस्तथा ॥ ४९४ ॥ गुरुपादाः यथा ज्ञेयाः अर्हद्भट्टारकस्तथा । कुमारपालदेवश्चेत्यादयोऽनेकशब्दकाः ॥ ४९५ ॥ ;p{0062} ;c{इति श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरिप्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन सम्राट्-जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजयनेमिसूरीश्वर-सुप्रसिद्धपट्टालङ्कार-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्यदेवेश-श्रीमद्विजयलावण्यसुरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां द्वितीयो देवविमागः समाप्तः ॥ २ ॥} ;p{0063} ;k{मर्त्यविभागः} ;c{॥ तृतीयो मर्त्यविभागः ॥} ;c{* मनुष्यनामानि *} मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः । भूस्पृक् पञ्चजनो ना विट् पूरुषः पुरुषः पुमान् ॥ ४९६ ॥ ;c{* बालनामानि *} बालो डिम्भः शिशुः शावः पोतः पाकः स्तनन्धयः । अर्भोत्तानशयौ चैव क्षीरकण्ठः कुमारकः ॥ ४९७ ॥ कुमारः क्षीरपश्चैव पृथुकः स्तनपस्तथा । स्यात् शिशुत्वं तथा बाल्यं शैशवं चापि मन्यते ॥ ४९८ ॥ ;c{* युवनामानि *} वयस्थस्तरुणश्चैव युवाऽपि कथ्यते बुधैः । तारुण्यं यौवनं चैव यौवनिकाऽपि मन्यते ॥ ४९९ ॥ ;c{* वृद्धनामानि *} वृद्धश्च स्थबिरो जीर्णो जीनो जरी जरन् तथा । प्रवयाः यातयामश्च कथ्यते विबुधैरिति ॥ ५०० ॥ विस्त्रसा च जरा स्याद् वै वार्द्धकं स्थाविरं पुनः । ज्यायान् जरत्तरश्चैव वर्षीयान् दशमी तथा ॥ ५०१ ॥ ;p{0064} दशमीस्थश्च विद्वद्भिरित्येवं कथ्यते किल । ;c{* पण्डितनामानि *} पण्डितः प्राप्तरूपश्च विद्वान् सुधीः कविः कृती ॥ ५०२ ॥ लब्धवर्णोऽभिरूपश्च धीमान् धीरः सुधीर्बुधः । ज्ञः प्राज्ञश्च प्रबुद्धश्च व्यक्तो विचक्षणस्तथा ॥ ५०३ ॥ मतिमान् चाऽभिरूपः सन् विपश्चित् कविता तथा । दोषज्ञः कोविदः सूरिः संख्यावान् च विशारदः ॥ ५०४ ॥ मनीषी चापि मेधावी कृष्टिश्चेत्यपि मन्यते । ;c{* प्रवीणनामानि *} प्रवीणः शिक्षितो दक्षो निष्णातो निपुणः पटुः ॥ ५०५ ॥ विज्ञो वैज्ञानिकोऽभिज्ञः चतुरः कृशलस्तथा । क्षेत्रज्ञः कृतकृत्यश्च कृतहक्तः कृती तथा ॥ ५०६ ॥ कृतकर्मा कृतार्थश्च निष्णः कृतमुखस्तथा । नदीष्णश्च विदग्धस्तु छइल्लः छेकिलस्तथा ॥ ५०७ ॥ छेकालश्चापि छेको वै प्रौढस्तु प्रतिभान्वितः । प्रगल्भः सूक्ष्मदर्शी तु कुशाग्रीयमतिस्तथा ॥ ५०८ ॥ ;p{0065} प्रत्युत्पन्नमतिर्नाम तथा तत्कालधीरपि । कथ्यते दीर्घदर्शी च दूरदर्शी बुधैः किल ॥ ५०९ ॥ चिद्रूपो हृदयालुश्च सहृदयोऽथ संस्कृतः । व्युत्पन्नः प्रहतः क्षुण्णः अन्तर्वाणिस्तु शास्त्रवित् ॥ ५१० ॥ स्याद् वाक्पतिश्च वागीशः प्रवाक् वावदूकस्तथा । वाचोयुक्तिपटुर्वाग्ग्मी समुखः कथ्यते बुधैः ॥ ५११ ॥ अथ वदावदो वक्ता वदः स्याद् बहुगर्ह्यवाक् । वाचाटश्चापि वाचालः जल्पाकः कथ्यते बुधैः ॥ ५१२ ॥ यद्वदोऽनुत्तरः स्याद् वै दुर्वाक् तु कद्वदस्तथा । अधरो हीनवादी स्यादिडमूकस्त्ववाक्श्रुतः ॥ ५१३ ॥ कलामूकस्तथाऽनेडमूकोऽपि कथ्यते बुधैः । रवणः शब्दनः स्याद् वै कुवादः कुटिलाशयः ॥ ५१४ ॥ कुचरोऽपि भवेन्नाम लोहजोऽस्फुटवाक् तथा । काहलश्चाधमूकोऽवाक् जडो गडो जडस्तथा ॥ ५१५ ॥ अथाऽसौम्यस्वरो लोके कथ्यतेऽस्वर एव हि । त्रिदुरो वेदिता चैवं कथ्यते विन्दुरित्यपि ॥ ५१६ ॥ अथाऽभिवादकश्चैव वन्दारुः कथ्यते बुधैः । आशंसिता तथाऽऽशंसुः कद्वरस्त्वतिकुत्सितः ॥ ५१७ ॥ कट्वरः स्यादथ क्षिप्नुः निराकरिष्णुरप्यथ । विकस्वरो विकासी स्यान् मुखरश्चापि दुर्मुखः ॥ ५१८ ॥ ;p{0066} तथाऽबद्धमुखो दुष्टवचनः कथ्यते बुधैः । शुक्लः प्रियंवदः स्याद् वै प्रियवाक् सैव कथ्यते ॥ ५१९ ॥ वदान्यस्तु वदन्यश्च दानशीलः स कथ्यते । अथ मूर्खो यथाजातो बालिशो मातृशासितः ॥ ५२० ॥ मातृमुखश्च मूढोऽज्ञो मन्दश्च नामवर्जितः । बालोऽमेधाः विवर्णश्च वैधेयश्च यथोद्गतः ॥ ५२१ ॥ देवानांप्रियजाल्मौ वै जडोऽनेडश्च कथ्यते । मन्दः क्रियासु कुष्ठः स्याद् दीर्घसूत्री चिरक्रियः ॥ ५२२ ॥ कर्मोद्यतः क्रियावान् वै कर्मक्षमोऽपि कथ्यते । तथाऽलङ्कर्मीणः किल कर्मशूरस्तु कर्मठः ॥ ५२३ ॥ स्यात् कार्मः कर्मशीलश्च पुनस्तु तीक्ष्णकर्मकृत् । किलाऽऽयःशूलिकश्चैव ज्ञेयो राभसिकस्तथा ॥ ५२४ ॥ अथ स्वङ्गस्तथा सिंहसंहननोऽपि मन्यते । स्यात् स्वतन्त्रः स्वछन्दश्च स्वैरी वै स्वरुचिस्तथा ॥ ५२५ ॥ अपावृतौ यथाकामी तथापि निरवग्रहः । स्वेच्छा च स्वैरिता चैव यदृच्छा मन्यते किल ॥ ५२६ ॥ ;p{0067} ;c{* पराधीननामानि *} परवशः पराधीनः परायत्तश्च गृह्यकः । परतन्त्रः पुरच्छद आयत्तः परवान् वशः ॥ ५२७ ॥ अधीनश्चापि निघ्नो वै आधीनः कथ्यते बुधैः । ;c{* श्रीमतां नामानि *} अथ श्रीमान् च लक्ष्मीवान् श्लीलः श्रीलश्च लक्ष्मणः ॥ ५२८ ॥ स्यादिभ्यस्तु समृद्धो वै ऋद्ध आढ्यो धनीश्वरः । ;c{* लक्ष्मी नामानि *} श्रीस्तु लक्ष्मीर्विभूतिर्वै ऋद्धिसम्पत्तिसम्पदः ॥ ५२९ ॥ स्याद् दरिद्रस्तथा दुःस्थः क्षुद्रो दुर्विधदुर्गतौ । कीकटोऽकिञ्चनो निःस्वो दीनो नीचोऽपि कथ्यते ॥ ५३० ॥ ;c{* स्वामिनामानि *} अथ स्वामी विभुः भर्ताः परिवृढः प्रभुः पतिः । अधिपश्चाऽधिभूरर्यो नेता नाथश्च नायकः ॥ ५३१ ॥ ;p{0068} ईशितेशेश्वरेन्द्रे ना कथ्यते कोविदैः किल । ;c{* दासनामानि *} अथ दासश्च भृत्यश्च किङ्करो डिङ्गरस्तथा ॥ ५३२ ॥ गोप्यः प्रेष्यो भुजिष्यश्च परान्नः परिचारकः । परिकर्मी परिस्कन्दः पराचितः परैधितः ॥ ५३३ ॥ नियोज्यः परपिण्डादः चेटः प्रतिचरस्तथा । मन्यते परजातोऽपि विबुधैर्दासवाचके ॥ ५३४ ॥ ;c{* कर्मकरनामानि *} भृतिभुग् भृतको वैतनिकः कर्मकरी अपि । निर्भृतिः कर्मकारोऽयं कथ्यते साक्षरैरिह ॥ ५३५ ॥ ;c{* वेतननामानि *} भृतिः स्याद् वेतनं मूल्यं कर्मणां निष्क्रयः पणः । भर्मण्या भर्म निर्वेशो भृत्या च भरणं विधा ॥ ५३६ ॥ गणिकाभृतिस्तु भोगो भाटिरित्यपि कथ्यते । ;c{* खलपूनामानि *} बहुधान्यार्जकः स्याद् वै संमार्जको बहुकरः ॥ ५३७ ॥ ;p{0069} खलपू नाम निर्देशः भारवाहस्तु भारिकः । पुनर्वार्त्तावहे वैवधिको विवधिकस्तथा ॥ ५३८ ॥ किल वीवधिकश्चेति भारे विवधवीवधौ । शिक्यं काचस्तदालम्बो भारयष्टिर्विहङ्गिका ॥ ५३९ ॥ तथा विहङ्गमा चेति विबुधैर्कथ्यते खलु । ;c{* वीरनामानि *} स्याद् वै वीरश्च विक्रान्तः शूरश्चारभटस्तथा ॥ ५४० ॥ ;c{* भीरुनामानि *} अथ स्याद् भीरुको भीरुः भीतश्च भीलुकस्तथा । कातरश्चकितस्त्रस्तः त्रस्नुश्च दरितस्तथा ॥ ५४१ ॥ व्यग्रः स्याद् व्याकुलश्चैव विहस्तोऽपि तथैव च । कान्दीशिकोः भयद्रुते समुत्पिञ्जस्तु पिञ्जलः ॥ ५४२ ॥ उत्पिञ्जलस्त्रयश्चैते मन्तव्या भृशमाकुले । ;c{* उदारनामानि *} अथोद्भटो महेच्छः स्यान् महात्मा च महाशयः ॥ ५४३ ॥ तथोदारोऽप्युदीर्णो वै उदात्तश्च महामनाः । ;p{0070} ;c{* कृपणनामानि *} कृपणस्तु कदर्यश्च किम्पचानो मितम्पचः ॥ ५४४ ॥ कीनाशो दृढमुष्टिश्च क्षुद्रस्तथैव तद्धनः । ;c{* कृपालुनामानि *} कृपालुस्तु दयालुश्च सूरतः करुणापरः ॥ ५४५ ॥ ;c{* दयानामानि *} अथ दया घृणा शूकः कारुण्यं करुणा कृपा । अनुक्रोशोऽनुकम्पा स्याद् ;c{* हिंसकनामानि *} हिंस्रे शरारुघातुकौ ॥ ५४६ ॥ ;c{* हिंसानामानि *} अथ हिंसा वधो घातो व्यापादनं प्रमापणम् । विबर्हणं निस्तर्हरणं निर्ग्रन्थनं निषूदनम् ॥ ५४७ ॥ प्रोज्जासनं प्रवासनं समापनमपासनम् । विशरणं विशारणं विशसनं च वर्जनम् ॥ ५४८ ॥ प्रतिघातनमुन्मथो क्राथो निष्कारणं पुनः । आलम्भश्च निशुम्भश्च प्रशमनं परासनम् ॥ ५४९ ॥ ;p{0071} उद्वासनस्तथा पिञ्जः निर्वापणं निर्यातनम् । प्रमयश्चापि संक्षप्तिः मारः प्रमथनं तथा ॥ ५५० ॥ कदनं क्षणनं चैव ज्ञेयं निर्वासनं तथा । स्यात् कर्त्तनं तथा छेदः ;c{* आततायिनामानि *} कल्पनं वर्धनं पुनः ॥ ५५१ ॥ अथ घातोद्यतः स्याद् वै आततायी च षड्विधः । अग्निदो गरदश्चैव शस्त्रपाणिर्धनावहः ॥ ५५२ ॥ क्षेत्रहरस्तथा दारहरो वै आततायिनः । स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ॥ ५५३ ॥ ;c{* मृतनामानि *} अथो मृतः प्रभीतश्च परेताऽपगतौ तथा । प्रेतश्चाऽऽलेख्यशेषश्च नामशेषस्तथैव च ॥ ५५४ ॥ यशःशेषोपसम्पन्नौ व्यापन्नश्चापि संस्थितः । परासुश्चेति शब्दाः वै प्रख्याता मृतवाचकाः ॥ ५५५ ॥ मृताहे दीयते दानमौर्ध्वदेहिकनामकम् । अपस्नानं मृतस्नानं तिलापः पितृतपर्णम् ॥ ५५६ ॥ चितिश्चित्या चिता ज्ञेया ऋजुः स्यात् प्राञ्जलोऽञ्जसः । यक्षिणसरलो दाराः निवृतस्तु शठस्तथा ॥ ५५७ ॥ ;p{0072} अनृजुश्चापि शण्ठः स्यात् क्रूरे पापः नृशंसकः । निस्त्रिंशश्चापि धूर्तस्तु वञ्चको व्यंसकस्तथा ॥ ५५८ ॥ कुहको जालिको मायी दाण्डाजिनिक उच्यते । मायावी मायिकश्चेति ज्ञातव्या धूर्तवाचकाः ॥ ५५९ ॥ शाठ्यं स्यात् शठता माया कुसृतिर्निकृतिः पुनः । कपटं कैतवं कूटं मिषं लक्षं तथा छलम् ॥ ५६० ॥ उपाधिरुपधिश्छद्म व्याजो व्यपदेशो निभम् । उपधा चेति मन्तव्याः कपटस्यैव वाचकाः ॥ ५६१ ॥ अथ स्याद् दम्भचर्या च कुक्कुटिः कुहना तथा । वञ्चनं च व्यलीकं चाऽतिसन्धानं प्रतारणम् ॥ ५६२ ॥ अथाऽऽर्यश्चापि साधुः स्यात् सभ्यश्च सज्जनस्तथा । दोषैकदृक् पुरोभागी विद्वद्भिः कथ्यते किल ॥ ५६३ ॥ अथ कर्णेजपः क्षुद्रो द्विजिह्वो दुर्जनः खलः । प्रखलः पिशुनो नीचः स्यान् मत्सरी च सूचकः ॥ ५६४ ॥ व्यसनार्तोपरक्तौ वै ;c{* चोरनामानि *} भवेच्चोरश्च चोरडः । परिमोषी परास्कन्दी दस्युश्च प्रतिरोधकः ॥ ५६५ ॥ ;p{0073} तथैकागारिकः स्तेनो मलिम्लुचश्च तस्करः । पाटच्चरोऽपि चौरश्च पाट-रात्रि-चरस्तथा ॥ ५६६ ॥ पटचोरोऽपि नामास्ति तथैव पारिपन्थिकः । पश्यतो यो हरेदर्थं चोरः स पश्यतोहरः ॥ ५६७ ॥ ;c{* चौर्यनामानि *} स्याच् चौर्यं चौरिका चैव स्तेयं स्तैन्यं तथैव च । धनमपहृतं लोप्त्रं विबुधैः कथ्यते खलु ॥ ५६८ ॥ अथ दैवपरो दैववादी देवप्रमाणकः । यद्भविष्योऽपि नामास्य विद्वद्भिर्मन्यते किल ॥ ५६९ ॥ ;c{* आलस्यनामानि *} अथाऽऽलस्योऽलसोऽनुष्णः तुन्दपरिमृजस्तथा । शीतकश्चापि मन्दः स्याद् ;c{* दक्षनामानि *} दक्षस्तु पेशलः पटुः ॥ ५७० ॥ उष्णोष्णकौ च सूत्थानः चतुरश्चाथ तत्परः । आसक्तः प्रसितः प्रह्वः प्रवणश्च परायणः ॥ ५७१ ॥ ;c{* उदारनामानि *} अथोदारश्च दाता वै दानशौण्डो बहुप्रदः । तथैव स्थूललक्षोऽपि कथ्यते कोविदैः किल ॥ ५७२ ॥ ;p{0074} ;c{* दाननामानि *} अथ दानं तथा त्यागः प्रतिदानं प्रदेशनम् । उत्सर्जनं विसर्जनं वितरणं विहायितम् ॥ ५७३ ॥ तथा निर्वापरणं निर्वपणं प्रादेशनं पुनः । अंहतिः स्पर्शनं विश्राणनं स्याच्च वापवजनन् ॥ ५७४ ॥ ;c{* याचकनामानि *} सुकलोऽर्थव्ययज्ञः स्याद् वनीपकस्तु मार्गणः । तर्कुको याचकश्वाऽर्थी याचनकस्तथैव च ॥ ५७५ ॥ अथाऽर्थना याचना याञ्चा भिक्षणाऽध्येषणाऽर्दना । एषणा प्रणयश्चापि मार्गणा च सनिस्तथा ॥ ५७६ ॥ अभिलाषोऽभिषस्तिश्च नामानि याचकस्य वै । अथ स्यादुत्पतिष्णुर्वै तथाप्युत्पतिता खलु ॥ ५७७ ॥ मण्डनोऽलङ्कारिष्णुः स्याद् भूष्णुस्तु भाविता तथा । भविष्णुर्वर्त्तनस्तु वै वर्तिष्णुः कथ्यते बुधैः ॥ ५७८ ॥ विसृमरो प्रसारी स्याद् विसारो च विसृत्वरः । जज्जाशीलोऽपत्रपिष्णुः लज्जालुश्च निगद्यते ॥ ५७९ ॥ क्षमी स्यात् क्षमिता क्षन्ता सहिष्णुः सहनस्तथा । तितिक्षुश्च तितिक्षा तु क्षान्तिश्च सहनं क्षमा ॥ ५८० ॥ ;p{0075} ईष्यालुः कुहनो ज्ञेय ईर्ष्याऽक्षान्तिस्तथा स्मृतः । क्रोधनः कोपनः क्रोधी रोषणश्चाप्यमर्षणः ॥ ५८१ ॥ अत्यन्तकोपनो लोकः चण्डश्चेति निगद्यते । क्षुधितो जिघत्सुराख्यातो बुभुक्षितोऽशनायितः ॥ ५८२ ॥ ;c{* क्षुधानामानि *} बुभुक्षा तु क्षुधा क्षुत् च रोचकश्च रुचिस्तथा । अशनाया जिघत्सा च बुभुक्षावाचका अमी ॥ ५८३ ॥ ;c{* पिपासुनामानि *} तर्षितस्तृषितस्तृष्णक् पिपासुः स्यात् पिपासितः । तृष्णा तु तृट् तृषा तर्षः पानं तथाऽपलासिका ॥ ५८४ ॥ उदन्या च पिपासा च धीतिश्चेति तृषाः स्मृताः । शोषणं स्याद् रसादानं भक्षकः स्यात् तु घस्मरः ॥ ५८५ ॥ आशित आशिरश्चापि अद्मरश्चेति भक्षकाः । ;c{* अन्ननामानि *} अथान्नमोदनोऽन्धश्च दीदिविश्च प्रसादनम् ॥ ५८६ ॥ याजो नाजोऽशनं भिस्सा भक्तं जीवनकं तथा । कूरं च दग्धिका चैवं भिस्सटा मन्यते बुधैः ॥ ५८७ ॥ माण्डं सर्वरसाग्रं स्यात् मस्तु च दधिजं भवेत् । भक्तोत्थास्त्रय आख्याता निःस्रावाऽऽचामभासराः ॥ ५८८ ॥ ;p{0076} भक्तमण्डं प्रसावश्च प्रस्त्रवाऽऽच्छोदनाऽऽस्त्रवाः । ;c{* श्राणानामानि *} श्राणा सैव विलेपी स्यात् तरला तरलं तथा ॥ ५८९ ॥ यवागूरुष्णिका लोके यवानां पाकतो भवेत् । ;c{* सूपस्य नामानि *} सूपश्च प्रहितश्चापि सूदोऽपि द्विदलान्नकम् ॥ ५९० ॥ व्यजनं घृतशाकादि तिलान्ने कृसरो भवेत् । त्रिसरोऽपि तिलान्नस्य नामास्ति व्यवहारतः ॥ ५९१ ॥ ;c{* पूपस्य नामानि *} पिष्टकः पारिशोलश्च पूपोऽपूप इति स्मृतः । ;c{* पूलिका(पूरी)नामानि *} पूलिका पोलिका पोली पूपिका पूपली तथा ॥ ५९२ ॥ घृतपक्वो भवेत् पौलिरभ्यूषोऽभ्योष एव च । ;c{* तेमननामानि *} तेमनं क्नोपनं तद्वन् निष्ठानमुपसेचनम् ॥ ५९३ ॥ ;p{0077} ;c{* करम्बनामानि *} करम्बश्च करम्भश्चः दधिसक्तुरपीष्यते । ;c{* घार्त्तिकनामानि *} घार्त्तिको घृतपूरश्च पिष्टपूरो घृतवरः ॥ ५९४ ॥ चमसी चमसश्चापि पिष्टवर्त्तिरपीष्यते । वटको वटकञ्चावसेकिमश्च निगद्यते ॥ ५९५ ॥ ईण्डेरिका च वटिका लघ्वी सा यदि क्रियते । ;c{* रोटिकानाम *} शष्कुली भोजने सौम्या तथा स्यादर्धलोटिका ॥ ५९६ ॥ ;c{* पर्पटानाम *} पर्पटाः मर्मरालाश्च घृताण्डी तु घृतौषणी । ;c{* मोदकनामानि *} मोदको लड्डुकश्चातिस्वादवान् सिंहकेसरः ॥ ५९७ ॥ भृष्टा यवास्तु धानाः स्युः धानाचूर्णानि सक्तवः । ;c{* चिपिटनाम *} चिपिटः पृथुकश्चैव चिपिटकोऽपि कथ्यते ॥ ५९८ ॥ भृष्टधान्यानि लाजाः स्युरक्षताः शालिसारभाक् । उद्धूषो भरुजो ज्ञेयः खटिका परिवारकः ॥ ५९९ ॥ ;p{0078} गोधूमचूर्णः समिता यवक्षोदस्तु चिक्कसः । गुड इक्षुरसक्वाथः सितोपला तु शर्करा ॥ ६०० ॥ सिता च मधुधूलिस्तु खण्डं खण्डोऽपि कथ्यते । मत्स्यण्डिका तु मत्स्यण्डी मत्स्याण्डिका च फाणितम् ॥ ६०१ ॥ मत्स्याण्डी चेक्षुरसतः सामान्यं शर्कराभिदा । ;c{* शीखण्डनामानि *} शिखरिणी रसाला च मर्जिता मार्जिता तथा ॥ ६०२ ॥ शीखण्डं कथ्यते लोके यूर्यूषश्च रसोऽन्यथा । ;c{* दुग्धनामानि *} दुग्धं च गोरसः क्षीरं पुसवनं च सोमजम् ॥ ६०३ ॥ ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् । बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥ पयश्चेत्यादि नामानि दुग्धस्य कथ्यते बुधैः । पयस्यं दधि दुग्धोत्थं वस्तुजातं निगद्यते ॥ ६०५ ॥ पीयूषं नव दुग्धं स्यात् पेयूषश्चापि कथ्यते । किलाटी कूर्चिका चाथ कूचिका दुग्धजा स्मृता ॥ ६०६ ॥ ;p{0079} ;c{* पायसनामानि *} परमान्नञ्च क्षैरेयी पयः पक्वं हि पायसम् । ;c{* दधिनामानि *} क्षीरजं गोरसश्चैव मङ्गल्यं श्रीघनं दधि ॥ ६०७ ॥ अघनं दधि द्रप्सं स्यात् द्रप्स्यं पत्रलमित्यपि । ;c{* घृतनामानि *} घृतमाज्यं हविः सर्पिः तथाऽऽधारो हविष्यकम् ॥ ६०८ ॥ ह्यो गोदोहस्य विकारे तु हैयङ्गवीनमुच्यते । ;c{* नवनीतनामानि *} शरजं दधिसारञ्च तक्रसारं नवोद्धृतम् ॥ ६०९ ॥ नवनीतञ्च पञ्चैव घृतोत्पत्तिकराणि वै । ;c{* तक्रनामानि *} अरिष्टं गोरसो घोलं कालशेयं रसायनम् ॥ ६१० ॥ दण्डाहतं षडेतानि पठ्यन्ते तक्रनामनि । उदश्वित् त्वर्धपानीयं तक्रं भोजनपाचनम् ॥ ६११ ॥ ;p{0080} श्वेतं श्वेतरसञ्चैव समभागजलं दधि । कटवरं सारणं तक्रमर्शोघ्नं परमरसः ॥ ६१२ ॥ जलं विनैव मथितं मथितं कथ्यते दधि । सर्पिषा संस्कृतं द्रव्यं सार्पिष्कं कथ्यते जनैः ॥ ६१३ ॥ दध्नि यत् संस्कृतं द्रव्यं तद् दाधिकमुदाहृतम् । दकलावणिकं द्रव्यं लवणोदकसंस्कृतम् ॥ ६१४ ॥ अर्द्धपानीयवद् दध्ना संस्कृतं वस्तु कथ्यते । औदश्वितमौदश्वित्कं लोके सर्वत्र भोजनम् ॥ ६१५ ॥ लवणेन संस्कृतं द्रव्यं लावणं कथ्यते बुधैः । उखायां जातमुख्यं स्यात् पैठरं पिठरे कृतम् ॥ ६१६ ॥ सुसंस्कृतं प्रयस्तञ्च पक्वान्नं चारु कथ्यते । सिद्धं राद्धञ्च पक्वञ्च नाम पक्वस्य वस्तुनः ॥ ६१७ ॥ भृष्टं भवति तद् वस्तु यत् पक्वं जलमन्तरा । अग्नौ पक्वञ्च भूतिः स्यात् भटित्रञ्च भरूटकम् ॥ ६१८ ॥ शूल्यं शूलाकृतं मांस जानीयात् मांसभक्षकः । मांसानाञ्च रसः प्रोक्तो निष्क्वाथो रसकस्तथा ॥ ६१९ ॥ प्रणीतमुपसम्पन्नं सिद्धमन्नं रसादिवत् । मसृणं चिक्कणं स्निग्धः सामान्यस्निग्धवस्तुनि ॥ ६२० ॥ पिञ्छिलं विजिलं चापि विजिविलञ्च विज्जलम् । विजिपिलं सारयुक्तदधिजं भोजनं भवेत् ॥ ६२१ ॥ ;p{0081} वासितं भावितं धूपैः पुष्पाद्यैश्च सुगन्धिते । स्वच्छं कृतं भवेद् वस्तु संमृष्टं शोधितं तथा ॥ ६२२ ॥ ;c{* काञ्चिकनामानि *} काञ्चिकं काञ्जिकं चुक्रं कुञ्जलं कुण्डगोलकम् । कुल्माषाभिषुतः शुक्तं कुल्माषं तुषोदकम् ॥ ६२३ ॥ आरनालं सुवीराम्लं धान्याम्लं च महारसम् । अवन्तिसोमं सौवीरं रक्षोघ्नं मधुरा तथा ॥ ६२४ ॥ उन्नाहं चापि धातुघ्नं शुक्लं चाऽभिषुतं पुनः । गृहाम्बु चेति नामानि कथ्यन्ते पण्डितैः जनैः ॥ ६२५ ॥ ;c{* तैलस्य नामानि *} तैलं स्नेहो म्रक्षणञ्च कथ्यतेऽभ्यञ्जनं तथा । ;c{* उपस्करस्य नामानि *} वेषवारो वेसवारो वेशवार उपस्करः ॥ ६२६ ॥ ;c{* तिन्तिडीकस्यनामानि *} तिन्तिडीकं तथा चुक्रं वृक्षाम्लमम्लवेतसः । ;c{* हरिद्रानामानि *} हरिद्रा वरवर्णिनी निशा पीता च काञ्चनी ॥ ६२७ ॥ ;p{0082} रात्रिवाचकशब्दा ये हरिद्रा नामतः स्मृताः । ;c{* राजिकानामानि *} क्षुताभिजननः क्षवः राजिका राजसर्षपः ॥ ६२८ ॥ असुरी कृष्णिका चापि व्यञ्जने स्वादकारिणी । ;c{* धान्याकस्य नामानि *} कुस्तम्बरु च धन्याकं धान्याकं धान्यकं तथा ॥ ६२९ ॥ धन्या नामापि तस्यास्ति ज्ञायता मल्लुका पुनः । ;c{* मरीचनामानि *} मरीचं मरिचं कृष्णं धार्मपत्तनमूषणम् ॥ ६३० ॥ कोलकं बलितं चापि वेल्लजं यवनप्रियम् । द्वारवृत्तं दशैतानि कृष्णनामानि कथ्यते ॥ ६३१ ॥ ;c{* शुण्ठीनामानि *} शुण्ठी शुण्ठिस्तथा विश्वा नागरं विश्वभेषजम् । तथा महौषधं विश्वे कथ्यते कोविदैः किल ॥ ६३२ ॥ ;c{* पिप्पलीनामानि *} पिप्पली पिप्पलिः कृष्णा कोला च कृष्णतण्डुला । उपकुल्या कणा शौण्डी वैदेही तीक्ष्णतण्डुला ॥ ६३३ ॥ ;p{0083} ऊषणा चोषणा चापि चपला मागधी तथा । हि तण्डुलफला चेति कृष्णानामानि कथ्यते ॥ ६३४ ॥ ;c{* पिप्पलीमूलनामानि *} पिप्पलीमूलमित्येकं ग्रन्थिकं चटकाशिरः । सर्वग्रन्थिकमित्येवं नाम ज्ञेयं चतुष्टयम् ॥ ६३५ ॥ ;c{* त्रिकटुनामानि *} त्र्यूषणं त्रिकटु व्योषं त्रिकटुकञ्च कथ्यते । ;c{* जीरकनामानि *} जीरश्च जोरकोऽजाजी जरणो जीरणः कणा ॥ ६३६ ॥ ;c{* हिङ्गुनामानि *} वाह्लीकं जतुकं हिङ्गुः सहस्रवेधि रामठन् । अत्युग्राऽगूढगन्धे च कथ्यते भूतनाशनम् ॥ ६३७ ॥ ;c{* भक्षणनामानि *} भक्षणं जक्षणं जग्धिर्जेमनं जमनं घसिः । आहारोऽभ्यवहारश्च भोजनं जवनं तथा ॥ ६३८ ॥ अवष्वाणश्च विष्वाणो लेहो न्यादश्च खादनम् । ;p{0084} अदनं स्वदनं प्सानं निघसश्चापि वल्भनम् ॥ ६३९ ॥ अशनं प्रत्यवसानं चेति नामानि वै घसेः । ;c{* चर्वणनाम *} कथ्यते चूर्णनं दन्तैश्चर्वणं पण्डितैर्जनैः । ;c{* लेहननाम *} जिह्वास्वादो हि शब्दोऽपि कथितं लेहनं पुनः ॥ ६४० ॥ ;c{* प्रातःकालिक भोजननाम *} प्रातःकालघसेर्नाम प्रातराशो हि कथ्यते । पुनरपि कल्यवर्त्तः सग्धिस्तु सहभोजनम् ॥ ६४१ ॥ ;c{* ग्रासनामानि *} ग्रासो गुडश्च गण्डोलो गडोलश्च गुडेरकः । कवकः कवलः पिण्डश्चेत्यादि ग्रासनामकाः ॥ ६४२ ॥ ;c{* तृप्तनामानि *} आघ्रातः सुहितस्तृप्तः आघ्राणश्चाशितः पुनः । ;c{* तृप्तिनामानि *} सौहित्यतृप्तिराघ्राणं भोजनैरिह जायते ॥ ६४३ ॥ ;p{0085} ;c{* उच्छिष्टनामानि *} भुक्तोच्छिष्टञ्च पिण्डोलिः फेला भुक्तसमुज्झितम् । फेलिरित्यपि नामास्ति भुक्त्वा व्यक्तस्य वस्तुनः ॥ ६४४ ॥ ;c{* उदरम्भरिनामानि *} स्वोदरपूरकश्चापि कुक्षिम्भरिः स एव च । उदरम्भरिराख्यात आत्मम्भरिर्निकृष्टकः ॥ ६४५ ॥ आद्यून औदरिकरश्च बुभुक्षापीडितो जनः । सर्वान्नभक्षकश्चैवं सर्वान्नीनश्च कथ्यते ॥ ६४६ ॥ उदरपिशाचो नाम सर्वं भुङक्ते हि सर्वभुक् । ;c{* मांसभक्षकनामानि *} पिशिताशी च शाष्कुलः शौष्कलो मांसभक्षकः ॥ ६४७ ॥ ;c{* उन्मत्तनाम *} उन्मादसंयुतः प्रोक्त उन्मदिष्णुस्तथापि वै । ;c{* लुब्धनामानि *} लुब्धश्च लोलुपो लोलो लोलुभश्चाभिलाषुकः ॥ ६४८ ॥ लम्पटो लालसो लिप्सुः गृघ्नुश्च गर्धनस्तथा । तृष्णक् चेत्यादि नामानि लुब्धस्य कथ्यते बुधैः ॥ ६४९ ॥ ;p{0086} ;c{* लोभनामानि *} लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा । आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥ आशंसा चाऽभिलाषस्तृट् चेच्छा चेहा मनोगवी । ईप्सा चेहो मनोराज्यं प्रोक्तं मनोरथस्तथा ॥ ६५१ ॥ ;c{* अभिध्यानामानि *} अभिध्या च परस्वेहा तथैव विषमस्पृहा । प्रोक्तं परधनेच्छायां विषमप्रार्थना पुनः ॥ ६५२ ॥ ;c{* उद्धतस्य नाम *} उद्धतश्चाऽविनीतश्च द्वयं सदा प्रयुज्यते । ;c{* विनीतनामानि *} विनीतो निभृतश्चैवं प्रश्रितो विनयी जनः ॥ ६५३ ॥ ;c{* विधेयनाम *} विनयस्थो विधेयश्च शास्त्रसंस्कारवान् जनः । वश्यः प्रणेय आख्यात आश्रवो वचने स्थितः ॥ ६५४ ॥ ;p{0087} ;c{* धृष्टनामानि *} धृष्टो घृष्णुर्वियातश्च घृष्णक् निर्लज्ज उच्यते । ;c{* विलक्षनाम *} विक्षापन्नो विलक्षश्च विस्मयेन समन्वितः ॥ ६५५ ॥ ;c{* अधृष्टनामानि *} शालीनः शारदश्चाथ कथ्यतेऽधृष्ट एव हि । ;c{* शुभसंयुक्तनाम *} शुभंयुः शुभसंयुक्तश्चेति माङ्गलिकं किल ॥ ६५६ ॥ ;c{* अहंकृतनामानि *} अथाऽहंयुरहंकारी कथ्यतेऽहंकृतः पुनः । ;c{* कामुकनामानि *} कमिता कामुकः कम्रः कामनः कमनोऽनुकः ॥ ६५७ ॥ कामयिताऽभिकोऽभीकः कमरश्चापि कथ्यते । ;c{* विप्लुतनामानि *} विप्लुतः पञ्चभद्रश्च व्यसनी कथितं पुनः ॥ ६५८ ॥ ;c{* हर्षमाणनामानि *} हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः । ;p{0088} ;c{* विचेतानामानि *} अन्तर्मनाः विचेताश्च विमनाः दुर्मना अपि ॥ ६५९ ॥ ;c{* मत्तनामानि *} मत्तः शौण्डस्तथा क्षीबः उत्कटश्चापि कथ्यते । ;c{* उत्सुकनामानि *} उन्मना उत्सुक उत्क उत्कण्ठितस्तथोच्यते ॥ ६६० ॥ ;c{* निन्दितनामानि *} अभिशस्तस्तथा वाच्यः क्षारितश्चापि दूषितः । आक्षारितः प्रयुक्तोऽस्ति सर्वत्र निन्दिते जने ॥ ६६१ ॥ ;c{* कृतलक्षणनाम *} आहतलक्षणः ख्यातो गुणवान् कृतलक्षणः । ;c{* निर्लक्षणनामा *} निर्गुणः पाण्डुरपृष्ठो निर्लक्षणश्च कथ्यते ॥ ६६२ ॥ ;c{* अस्थिरनाम *} संङ्कसुकोऽस्थिरः शब्दश्चपले च भवेद् द्वयम् । ;c{* मूकनाम *} तूष्णींशीलश्च तूष्णीकः मूकार्थे कथ्यते बुधैः ॥ ६६३ ॥ ;p{0089} ;c{* दुष्टबुद्धेः नाम *} अनिष्टदुष्टधीश्चापि विवशो दुष्टबुद्धिमान् । ;c{* बद्धनामानि *} बद्धो नद्धश्च यन्त्रितः कोलितः संयतः सितः ॥ ६६४ ॥ तथा सन्दानितश्चापि प्रोक्तं निगडितः किल । ;c{* बन्धननाम *} उद्वानं बन्धनं चेति बन्धनस्य हि नाम वै ॥ ६६५ ॥ ;c{* हतनामानि *} हतः स्याद् प्रतिबद्धश्च प्रतिहतो मनोहतः । ;c{* तिरस्कृतनाम *} अधिक्षिप्तः प्रतिक्षिप्तः तिरस्कृतजनो भवेत् ॥ ६६६ ॥ निष्कासितोऽवकृष्टश्च निस्सारितोऽपि कथ्यते । आत्तगन्धोऽभिभूतश्च पराभूतजनो भवेत् ॥ ६६७ ॥ न्यक्कृतो धिक्कृतश्चापि स्यादपध्वस्त एव सः । आत्तगन्धोऽपि तस्यैव नामास्ति व्यवहारतः ॥ ६६८ ॥ विप्रकृतो निकृतोऽपि निस्तेजो हि जनो भवेत् । ;c{* तिरस्कारनामानि *} न्यक्कारः परिभावश्च परिभवः पराभवः ॥ ६६९ ॥ ;p{0090} निकारो विप्रकारश्चाऽत्याकाश्च तिरस्क्रिया । कथितोऽभिभवश्चेति तिरस्कारार्थवाचकः ॥ ६७० ॥ ;c{* वञ्चितनाम *} वञ्चितो विप्रलब्धस्तु द्वयं स्याद् वञ्चिते जने । ;c{* निद्रालुनामानि *} शयालुश्चापि निद्रालुः स्वप्नक् च शयनोत्सुके ॥ ६७१ ॥ आसनिः शयमानस्तु घूर्णितः प्रचलायितः । ;c{* निद्रानामानि *} निद्राणः शायितः सुप्तः निद्रां प्राप्तो जनो भवेत् ॥ ६७२ ॥ ;c{* जागरूकनामानि *} जागरूको विना निद्रां जागरिता च जागरी । ;c{* जागरणनामानि *} जागर्या जागरा चापि जागरणञ्च जागरः ॥ ६७३ ॥ विश्वद्र्यङ् चापि विष्वद्र्यङ् सर्वत्र गन्तुको जनः । सध्र्यङ् तु सह गन्ता स्यात् देवद्र्यङ् देवपूजकः ॥ ६७४ ॥ ;c{* तिर्यग्गमननाम *} तिर्यङ् भवेद् वक्रगामी खगादौ च प्रयुज्यते । ;p{0091} ;c{* संशयालुनामानि *} संशयालुः सांसयिकः संशायिता जनो भवेत् ॥ ६७५ ॥ ;c{* गृहयालुनाम * पतयालुनाम *} गृहीता गृहयालुः स्यात् पतयालुस्तु पातकः । ;c{* रोचिष्णुनाम *} रोचिष्णुः कान्तिमान् लोको रोचनः पुनरुच्यते ॥ ६७६ ॥ ;c{* दक्षिणार्हनामानि *} दक्षिण्यो दक्षिणार्हश्च दक्षिणीयोऽपि कथ्यते । ;c{* दण्डितनामानि *} दण्डं प्राप्तो दण्डितः स्याद् दापितः साधितस्तथा ॥ ६७७ ॥ ;c{* पूज्यनाम *} अर्च्यस्तथा प्रतीक्ष्योऽपि द्वयं स्याद् पूज्यवाचकः । ;c{* पूजितनामानि *} अञ्चितोऽपचितोऽर्चितस्तथाऽपचायितोऽर्हितः ॥ ६७८ ॥ नमसितो नमस्यितः पूजितश्चेति पूजितः । ;c{* पूजानामानि *} अर्चाऽर्हणा सपर्या स्यात् पूजा चाऽपचितिस्तथा ॥ ६७९ ॥ ;p{0092} ;c{* उपहारनाम*} उपहारो बलिश्चाथ बलिदाने भवेद् द्वयम् । ;c{* विह्वलनाम *} भयभीतो जनः ख्यातो विक्लवो विह्वलस्तथा ॥ ६८० ॥ ;c{* स्थूलनामानि *} स्थूलः पीवा च पीनश्च पीवरः स्यात् तथैव च । ;c{* चक्षुष्यनाम *} चक्षुष्यः सुभगो नाम सुन्दरस्य च वस्तुनः ॥ ६८१ ॥ ;c{* द्वेष्यनाम *} अक्षिगतस्तथा द्वेष्यो द्वेष्ये वस्तुनि कथ्यते । ;c{* पुष्टनामानि *} अंसलश्चापि निर्दिग्धो मांसलो बलवान् बली ॥ ६८२ ॥ उपचितोऽपि सर्वत्र कथ्यते पुष्टवाचकः । ;c{* दुर्बलनामानि *} अमांसो दुर्बलः क्षामः कृशः क्षोणस्तनुस्तथा ॥ ६८३ ॥ तलिनः पेलवश्छातश्चेति दुर्बलवाचकाः । ;c{* तुन्दिलनामानि *} पिचिण्डिलो बृहत्कुक्षिस्तुन्दी तुन्दिकतुन्दिलौ ॥ ६८४ ॥ ;p{0093} उदरी तुन्दिभश्चोदरिकः उदरिलस्तथा । ;c{* अनासिकनामानि *} अनासिकश्च विग्रश्च विख्रश्च विखुरित्यपि ॥ ६८५ ॥ ;c{* चिपिटनासिकस्य नामानि *} अवनाटोऽवटीटश्चाऽवभ्रटो नतनासिके । चिपिटो नम्रनासिकश्चेति चिपिटनासिके ॥ ६८६ ॥ ;c{* तीक्ष्णनासिकस्य नाम *} स्यात् तीक्ष्णनासिकावान् वै खरणाश्च खरणसः । ;c{* लघुनासिकस्य नाम *} तथा लघुनासिकावान् नःक्षुद्रः क्षुद्रनासिकः ॥ ६८७ ॥ कथ्यते विकटघोरणः खुरणाश्च खुरणसः । उन्नस उन्नासिकोऽपि कथ्यते उच्चनासिके ॥ ६८८ ॥ ;c{* पङ्गुनामानि *} पङ्गुः श्रोणः पंगुलश्च पीठसर्पी तथैव च । ;c{* खल्वाटनामानि *} खलतिश्चापि खल्वाटः खलत ऐन्द्रलुप्तिकः ॥ ६८९ ॥ वभ्रुश्च शिपिविष्टश्च कथ्यते पण्डितैरिह । ;c{* काणस्य नामानि *} एकाक्षः कननः काण एकदृक् चापि कथ्यते ॥ ६९० ॥ ;p{0094} ;c{* किरातनामानि *} अल्पतनुश्च पृश्निः स्यात् किरातो लधुदेहवान् । ;c{* कुब्जनामानि *} कुब्जश्च गडुलो न्युजस्त्रीणि नामानि सन्ति वै ॥ ६९१ ॥ ;c{* कुणिनाम *} कुणिस्तु कुकरश्चापि कथ्यते कुणिनामनि । ;c{* वामननामानि *} खर्वश्च खर्वशाखश्च निखर्वः खट्टनस्तथा ॥ ६९२ ॥ ह्रस्वश्च वामनश्चेति कथ्यते ह्रस्वबोधने । ;c{* बधिरनामानि *} एडोऽकर्णश्च बधिरः श्रुतिविकल इत्यपि ॥ ६९३ ॥ ;c{* दुश्चर्मनामानि *} वण्डश्च शिपिविष्टः स्याद् दुश्चर्मा च द्विनग्नकः । ;c{* खञ्जनामानि *} खञ्जश्च खञ्जकः खोरः खोडश्चेत्यपि कथ्यते ॥ ६९४ ॥ ;c{* विकलाङ्गनाम *} पोगण्डो हीनदेहोऽस्ति विकलाङ्गोऽपि स भवेत् । ;p{0095} ;c{* ऊर्ध्वजानुकनामानि *} ऊर्ध्वज्ञः पुरुषो ज्ञेय उर्ध्वज्ञुरूर्ध्वजानुकः ॥ ६९५ ॥ ;c{* विरलजानुकनामानि *} विरलजानुकः प्रज्ञः प्रज्ञुश्चेत्यपि मन्यताम् । ;c{* युतजानुनामानि *} संज्ञुः संज्ञः श्लिष्टजानुर्युतजानुश्च कथ्यते ॥ ६९६ ॥ ;c{* वलिननाम *} वलिनो वलिभः कोऽपि दग्धचर्मा जनो भवेत् । ;c{* दन्तुरनाम *} उदग्रदन् दन्तुरः स्याद् यस्य दन्ताः बहिः स्थिताः ॥ ६९७ ॥ ;c{* मुष्करनाम *} मुष्करश्च प्रलम्बाण्डो जनो लम्बाण्ड उच्यते । ;c{* अन्धनामानि *} गताक्षोऽनेडमूकोऽन्धश्चक्षुर्विकल उच्यते ॥ ६९८ ॥ ;c{* उन्मुखनाम *} उत्पश्यः कथ्यते सोऽत्र यस्तिष्ठेदुन्मुखः सदा । ;c{* अधोमुखनामानि *} अवाङ् न्युब्जश्च विज्ञेयः सर्वत्राऽधोमुखो जनः ॥ ६९९ ॥ ;p{0096} ;c{* मुण्डनाम *} मुण्डश्च मुण्डितो नाम केशरहित उच्यते । ;c{* केशिकनामानि *} केशवः केशिकः केशी केशवान् कथ्यते जनः ॥ ७०० ॥ ;c{* केकरनाम *} केकरो वलिरश्चेति प्रोक्तो वक्राक्षिवान् जनः । ;c{* तुण्डिभनामानि *} तुण्डिलो वृद्धनाभिश्च तुण्डिभः स्यात् पृथूदरः ॥ ७०१ ॥ ;c{* रोगिणो नामानि *} आतुरो रोगितो ग्लानो व्याधितोऽभ्यमितोऽपटुः । विकृत आमयावी स्यादभ्यान्तो ग्लास्नुरेव च ॥ ७०२ ॥ दर्द्रुरोगी तु दर्द्रुणो दद्रुरोगी च दद्रुणः । पामनः पामरश्चापि कच्छुरश्चर्मरोगवान् ॥ ७०३ ॥ सातिसारस्तथैवाऽतीसारकी चातिसारकी । वातकी वातरोगी स्यात् श्लेष्मणः श्लेष्मलः कफी ॥ ७०४ ॥ चिल्लश्च चुल्लश्च पिल्लश्च क्लिन्ननेत्रोऽक्षिरोगवान् । अर्शसो गुदरोगी स्यादर्शोयुक् चापि कथ्यते ॥ ७०५ ॥ मूर्च्छालो मूर्च्छितो मूर्त्तः विसंज्ञः कथ्यते जनः । किलासी सिध्मलश्चापि जनः स्याच्छ्वेतकुष्ठवान् ॥ ७०६ ॥ ;p{0097} ;c{* पित्तनामानि *} पित्तं तथा पलाग्निश्च मायुश्च पललज्वरः । तथाऽग्निरेचकश्चेति पित्तनामानि कथ्यते ॥ ७०७ ॥ ;c{* कफनामानि *} कफस्तथा बलाशश्च श्लेष्मा खेटस्तथा खटः । शिङ्घानकस्तथा स्नेहभूश्चेति कफनामकाः ॥ ७०८ ॥ ;c{* रोगनामानि *} रुगाऽऽतङ्को रुजा रोगो व्याधिरपाटवं तथा । आम आमय आकल्यं मान्द्यं तथाऽऽमनं गदः ॥ ७०९ ॥ उपतापस्तथैवास्ति रोगनामनिरूपणे । ;c{* क्षयरोगनामानि *} राजयक्ष्मा क्षयः शोषो यक्ष्मा चापि निगद्यते ॥ ७१० ॥ ;c{* क्षुतस्य नामानि *} क्षुत् क्षुतञ्च क्षवश्चापि छिक्का देश्या च मन्यताम् । ;c{* कासनाम *} कासो विशेषः प्रख्यातः स एव क्षवथुर्भवेत् ॥ ७११ ॥ ;p{0098} ;c{* खसनामानि *} पामा पामा खसः कच्छूर्विचार्चिकाऽपि कथ्यते । ;c{* कण्डूनामानि *} कण्डूः खर्जूश्च खर्जूतिः कण्डूतिश्च पुनर्भवेत् ॥ ७१२ ॥ कण्डूयनं च कण्डूया गात्रकण्डूयने स्मृताः । ;c{* व्रणनामानि *} ईर्मं क्षतं व्रणश्चारुः क्षणनुश्चापि कथ्यते ॥ ७१३ ॥ व्रणचिह्नं किणः प्रोक्तमस्त्रशस्त्रादिकस्य च । ;c{* श्लीपदरोगनाम *} श्लीपदं पादवल्मीकं पादरोगस्य नाम वै ॥ ७१४ ॥ ;c{* पादस्फोटनाम *} शीतादिना समुत्पन्नः पादस्फोटो विपादिका । ;c{* स्फोटकनाम *} विस्फोटः स्फोटको गण्डः पिटकश्चापि कथ्यते ॥ ७१५ ॥ ;c{* पृष्ठग्रन्थिनाम *} पृष्ठग्रन्थिर्गडुः प्रोक्तः पृष्ठग्रन्थिकमित्यपि । ;p{0099} ;c{* कुष्ठनामानि *} श्वेतं श्वित्रं तथा कुष्ठं पाण्डुरं चेति कुष्ठकम् ॥ ७१६ ॥ ;c{* केशघ्ननाम *} वातरोगविशेषः स्यात् केशघ्नं चेन्द्रलुप्तकम् । ;c{* किलासनामानि *} किलासं सिध्म त्वक्पुष्पं सिध्मं रोगस्तु चर्मणः ॥ ७१७ ॥ ;c{* कोठनामानि *} मण्डलं रोगभेदः स्यात् कोठो मण्डलकं तथा । ;c{* गण्डमालनाम *} गलगण्डो गण्डमालः कण्ठरोगः सदोच्यते ॥ ७१८ ॥ ;c{* गलाङ्कुरनाम *} गलरोगो रोहिणी स्याद् गलाङ्कुरश्च कथ्यते । ;c{* हिक्कानामानि *} हेक्का हिक्का च हृल्लासो रोगभेद उदाहृतः ॥ ७१९ ॥ ;c{* पीनसनाम *} नासिकारोगभेदस्तु प्रतिश्यायश्च पीनसः । ;p{0100} ;c{* शोफनामानि*} शोफश्च श्वयथुः शोथः शरीरं यत्र फुल्लति ॥ ७२० ॥ ;c{* अर्शनामानि *} अर्शः स्याच्च दुर्नामा गुदकोलो गुदाङ्कुरः । ;c{* वमननामानि *} नाम प्रच्छर्दिका छर्दिर्वमनं वमथुर्वमिः ॥ ७२१ ॥ ;c{* उदररोगनाम *} गुल्मः स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः । नाडीव्रणो गतिर्वृद्धिः कुरण्डश्चाण्डवर्धनम् ॥ ७२२ ॥ ;c{* अश्मरीनाम *} अश्मरी मूत्रकृच्छञ्च मूत्राशये च जायते । ;c{* प्रमेहनामानि *} मेहस्तथा प्रमेहश्च कथ्यते बहुमूत्रता ॥ ७२३ ॥ ;c{* विबन्धनाम *} आनाहश्च विबन्धः स्यात् पुरीषमूत्ररोधने । ;p{0101} ;c{* ग्रहणीरुक् नाम *} अतिपुरीषकारी च ग्रहणीरुक् प्रवाहिका ॥ ७२४ ॥ विद्रधिस्तु भगन्दरोऽर्बुदश्चापि ज्वरादयः । अनेकव्याधयो लोके वर्तन्ते दुःखदायकाः ॥ ७२५ ॥ ;c{* वैद्यस्य नामानि *} भिषग् वैद्यस्तु दोषज्ञः आयुर्वेदी चिकित्सकः । आयुर्वेदिको नामैव रोगहारी भवेज्जनः ॥ ७२६ ॥ अगदङ्कारनामाऽपि लोकेषु कथ्यते जनैः । ;c{* औषधनामानि *} औषधमगदस्तन्त्रं भैषज्यं चापि भेषजम् ॥ ७२७ ॥ तथा जायुश्च नामेदं भेषजस्यैव मन्यते । ;c{* चिकित्सानामानि *} उपचारश्चिकित्सा स्यादुपचर्या रुक्प्रतिक्रिया ॥ ७२८ ॥ ;c{* लङ्घननाम *} भोजनादिपरित्यागो लङ्घनमपतर्पणम् । ;c{* विषवैद्यनामानि *} जाङ्गुलिको विषवैद्यो विषभिषक् च कथ्यते ॥ ७२९ ॥ ;p{0102} ;c{* स्वास्थ्यनामानि *} स्वास्थ्यं सह्यं तथाऽऽरोग्यं वार्तं स्याच्चाप्यनामयम् । ;c{* नीरुक् नामानि *} पटुर्वार्त स्तथोल्लाघः कल्यो नीरुक् निगद्यते ॥ ७३० ॥ ;c{* पार्श्वकनाम *} उत्कोचे विभवाऽन्वेषी पार्श्वकः सन्धिजीवकः । ;c{* कूकुदनामानि *} सत्कृत्याऽलङ्कृतां कन्यां यो ददाति स कूकुदः ॥ ७३१ ॥ स एव कूपदः प्रोक्तः पारिमितश्च प्रायशः । ;c{* चपलनाम *} चपलश्चिकुरश्चेति नामाऽपि कथ्यते जनैः ॥ ७३२ ॥ ;c{* नीलीरागनामानि *} नीलीरागः स्थिरप्रेमा तथा स्यात् स्थिरसौहृदः । ;c{* हरिद्रारागनाम *} हरिद्राराग इत्युक्तः क्षणिकरागवान् किल ॥ ७३३ ॥ ;c{* मेदुरनाम *} अतिस्नेहेन संयुक्तः सान्द्रस्निग्धश्च मेदुरः । ;p{0103} ;c{* गेहेशूरनामानि *} गेहेनर्दी तथा गेहे-पिण्डीशूरौ च कथ्यते ॥ ७३४ ॥ ;c{* धनिनाम *} अस्तिमान् च धनी नाम कथ्यते धनवानपि । ;c{* गोष्ठश्वनाम *} स्वस्थानस्थः परद्वेषी गोष्ठश्वः कथ्यते बुधैः ॥ ७३५ ॥ ;c{* आपन्ननाम *} आपन्न आपदि स्थितः संपन्नो धनवान् जनः । ;c{* आपत्तिनामानि *} आपत्तिः स्याद् विपत्तिश्च विपदाऽऽपत् तथैव च ॥ ७३६ ॥ ;c{* स्निग्धनाम *} स्नेहवान् स्निग्ध आख्यातो बत्सलश्चापि कथ्यते । ;c{* उपाधिनामानि * } कुरुम्बपालको लोकः कुटुम्बव्यापृतो भवेत् ॥ ७३७ ॥ अभ्यागारिकनामापि स उपाधिश्च कथ्यते । ;c{* दीर्घायुनामानि *} आयुष्मान् चापि दीर्घायुः जैवातृकश्च मन्यते ॥ ७३८ ॥ ;p{0104} ;c{* त्रासदायीनाम *} त्रासदायी शङ्करश्च कथ्यते त्रासदायकः । ;c{* शरणार्थिनाम *} शरणार्थो चाभिपन्नः उच्यते शरणागतः ॥ ७३९ ॥ ;c{* परीक्षकनामानि *} आक्षपटलिकश्चापि कारणिकः परीक्षकः । परीक्षाकारको लोके कथ्यते कोविदैः किल ॥ ७४० ॥ ;c{* वरदनाम *} वरदश्च समर्धुकः वाञ्छितस्य प्रदायकः । ;c{* सङ्घजीविनाम *} सङ्घे स्थिता जीविताश्च व्रातीनाः सङ्घजीविनः ॥ ७४१ ॥ ;c{* सदस्यनामानि *} पार्षदाः पारिषद्याश्च सभ्याश्चापि सभासदः । सभास्ताराः सदस्याश्च सामाजिकाः स्मृताः समे ॥ ७४२ ॥ ;c{* सभानामानि *} सभा संसत् समाजश्च समज्या समितिः सदः । ;p{0105} आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद् घटा ॥ ७४३ ॥ गोष्ठी त्रयोदशं नाम समितेर्नामसंग्रहे । ;c{* ज्यौतिषिकनामानि *} सांवत्सरश्च दैवज्ञो ज्यौतिषिको निमित्तवित् ॥ ७४४ ॥ नैमित्तिकश्च नैमित्तो ज्ञानी कार्तान्तिकस्तथा । मौहूर्तिकश्च मौहूर्तः ईक्षणिको विप्रश्निकः ॥ ७४५ ॥ आदेशी गणकश्चेति नामानि दर्शितानि वै । ;c{* तान्त्रिकनाम *} सैद्धान्तिको हि शास्त्रज्ञः तान्त्रिकोऽपि च कथ्यते ॥ ७४६ ॥ ;c{* लेखकनामानि *} लेखकोऽक्षरचञ्चुश्च करणोऽक्षरजीवकः । तथाऽक्षरचणश्चापि लिपिकरश्च वर्णिकः ॥ ७४७ ॥ लिविकरश्च कायस्थोऽक्षरचुञ्चुश्च कथ्यते । ;c{* लिपिनामानि *} लेखः स्यादक्षरन्यासो लिखिता च लिपिर्लिविः ॥ ७४८ ॥ ;p{0106} ;c{* मषीभाजननामानि *} मषिधानं मषीधानं मषीभाजनमित्यपि । मषिकूपी मषीकूपी पात्रमस्याः निगद्यते ॥ ७४९ ॥ ;c{* मसीनामानि *} मसी मसिश्च मेला च मलिनाम्बु मषी मषिः । ;c{* कुलश्रेष्ठिनामानि *} कुलकश्च कुलश्रेष्ठी कुलिकोऽपि निगद्यते ॥ ७५० ॥ ;c{* द्यूतकारकनाम *} द्यूतकर्ता भवेल्लोके सभिको द्यूतकारकः । ;c{* द्यूतकृत् नामानि *} द्यूतकृत् कितवः प्रोक्तो धूर्तोऽक्षधूर्त्त एव च ॥ ७५१ ॥ अक्षदेवी स एव स्यादक्षैर्दीव्यति यो जनः । ;c{* द्यूतनामानि *} अक्षवती पणः द्यूतं कैतवं स्याद् दुरोदरम् ॥ ७५२ ॥ ;c{* अक्षनामानि *} पाशकः प्रासकोऽक्षः स्याद् द्यूतस्थानं हि देवनः । ;p{0107} ;c{* अक्षपणनामानि *} अक्षपणो ग्लहो ग्लहिः द्यूताय कल्पितं धनम् ॥ ७५३ ॥ ;c{* शारिफलनामानि *} स्यात् शालिफलकं शालिफलमष्टापदस्तथा । ;c{* शारनामानि *} शारिश्च खेलनी शारः कथ्यन्ते शारसंज्ञकाः ॥ ७५४ ॥ परिणायोऽपि शारीणां नयनं स्यात् समन्ततः । ;c{* प्राणिद्यूतनाम *} प्राणियुद्धक्रिया क्रीडा प्राणिद्यूतं समाह्वयः ॥ ७५५ ॥ ;c{* व्यालग्राहिनामानि *} अहितुण्डिकनामास्ति व्यालग्राही तथैव च । आहितुण्डिकनामापि स एव कथ्यते किल ॥ ७५६ ॥ ;c{* मनोजवनामानि *} मनोजवस आख्यातः ताततुल्यो मनोजवः । ;c{* देशकनाम *} शासनं कुरुते यो हि स शास्ता देशकस्तथा ॥ ७५७ ॥ ;p{0108} ;c{* धन्यनामानि *} पुण्यवान् सुकृती धन्यः पुण्यात्मा जन उच्यते । ;c{* मित्रवत्सलनामानि *} मित्रे स्नेहस्य कर्ता स्यात् मित्रयुर्मित्रवत्सलः ॥ ७५८ ॥ ;c{* क्षेमङ्करनामानि *} शिवतातिस्तथारिष्टतातिश्चापि शिवङ्करः । क्षेमङ्करस्तथैवास्ति कल्याणकारकः स च ॥ ७५९ ॥ ;c{* आस्तिकनामानि *} आस्तिकः श्राद्धश्रद्धालू श्रद्धावानाऽऽगमे सदा । ;c{* नास्तिकनाम *} शास्त्रे श्रद्धा न यस्यास्ति स भवेत् नास्तिको जनः ॥ ७६० ॥ ;c{* वैरङ्गिकनाम *} वैरङ्गिको विरागार्हो वैराग्यलायकं स च । ;c{* वीतदम्भनाम *} अमायावी जनः प्रोक्तो वीतदम्भोऽप्यकल्कनः ॥ ७६१ ॥ ;c{* असम्मतनाम *} प्रणाय्योऽसम्मतो लोके विरुद्धपथगन्तुकः । ;p{0109} ;c{* अनुपदिनाम *} अनुपदी तथाऽन्वेष्टा पश्चाद् गन्तरि मानवे ॥ ७६२ ॥ ;c{* समर्थनामानि *} सहः क्षमः समर्थश्च प्रभविष्णुस्तथैव च । अलम्भूष्णुः प्रभूष्णुश्च शक्तश्चेति समर्थकाः ॥ ७६३ ॥ ;c{* भूतात्तनाम *} आविष्टश्चापि भूतात्तो भूतग्रस्तो हि कथ्यते । ;c{* शिथिलनाम *} शिथिलश्च श्लथो नाम बन्धभेदो निगद्यते ॥ ७६४ ॥ ;c{* अङ्गमर्दनाम *} संवाहकोऽङ्गमर्दः स्यात् शरीरमर्दको जनः । ;c{* नष्टबीजनाम *} निष्कलो नष्टबीजः स्यात् सत्त्वेन रहितो जनः ॥ ७६५ ॥ ;c{* उपविष्टनाम *} उपविष्टस्तथाऽऽसीनः कथ्यते उपविष्टकः । ऊर्ध्व ऊर्ध्वन्दमश्चैव स्थितश्चेत्यपि मन्यते ॥ ७६६ ॥ ;p{0110} ;c{* पथिकनामानि *} प्रवासी पथिकः पान्थोऽध्वनीनश्चाऽध्वगस्तथा । अध्वन्यो देशिकश्चैव कथितो मार्गगन्तरि ॥ ७६७ ॥ ;c{* पथिकसार्थनाम *} हारिः पथिकसार्थः स्यात् पथिकानां समूहके । ;c{* पाथेयनाम *} पाथेयं शम्बलञ्चापि पथि खाद्ये निगद्यते ॥ ७६८ ॥ ;c{* जङ्घालनाम *} अतिजवश्च जङ्घालो वेगवानुच्यते जनः । ;c{* जङ्घाकरनामानि *} जङ्घाकरिकजाङ्घिकौ जङ्घाकरश्च कथ्यते ॥ ७६९ ॥ ;c{* त्वरितनामानि *} जवी च जवनश्चापि त्वरितो बहुवेगवान् । ;c{* वेगनामानि *} जवो वाजस्तथा वेगो रयो रंहस्तथा तरः ॥ ७७० ॥ प्रसरश्च स्यदश्चैव वेगनामानि सन्ति वै । ;p{0111} ;c{* मन्थरनाम *} मन्थरो मन्दगामी च यः शनैश्चलतीह सः ॥ ७७१ ॥ ;c{* अनुकामीननाम *} कामंगाम्यनुकामीनः स्वेच्छाचारी जनो भवेत् । ;c{* अत्यन्तीननाम *} अत्यन्तीनोऽत्यन्तगामी बहुगन्ता जनः स्मृतः ॥ ७७२ ॥ ;c{* सेवकनामानि *} अनुगोऽनुचरश्चैवाऽनुप्लवोऽभिचरस्तथा । सहायश्चानुगामी चाऽऽनुजीवी स्याद् च सेवकः ॥ ७७३ ॥ ;c{* सेवानामानि *} सेवा भक्तिश्च शुश्रूषा परिचर्या प्रसादना । उपास्तिरुपचारश्च परीष्टिः स्यादुपासना ॥ ७७४ ॥ पर्यैषणा वरिवस्या भवेदाराधना च सा । ;c{* पदातिकनामानि *} पादचारी पदातिश्च पादातिका पदातिकः ॥ ७७५ ॥ पदाजिश्चापि पादाजिः पदिकः पदगस्तथा । पत्तिः पद्गश्च पादातः पद्भ्यां चलति स भवेत् ॥ ७७६ ॥ ;p{0112} ;c{* अग्रेसरनामानि *} पुरोगमः पुरोगामी प्रष्ठोऽग्रतःसरस्तथा । अग्रसरः पुरोगश्च ह्यग्रेगूश्च पुरःसरः ॥ ७७७ ॥ ;c{* अतिथिनामानि *} प्राघूर्णकश्च प्राघूणः स्यादाऽऽतिथ्योऽतिथिस्तथा । आवेशिकस्तथाऽऽगन्तुः अभ्यागतोऽपि कथ्यते ॥ ७७८ ॥ ;c{* आतिथ्यनामानि *} आतिथ्यमातिथेयी च स्यादाऽऽवेशिकमित्यपि । सूर्यास्तात् परमायातः सूर्योढः कथ्यते हि सः ॥ ७७९ ॥ ;c{* पाद्यनाम *} पाद्यं भवति तल्लोके पादप्रक्षालनाय यत् । ;c{* अर्ध्यनाम *} अर्घ्यं पूजाकृते तोयं दीयते तत्र कथ्यते ॥ ७८० ॥ ;c{* अभ्युत्थाननाम *} सत्कारस्य क्रियोत्थाय अभ्युत्थानञ्च गौरवम् । ;c{* व्यथकनामानि *} अरुन्तुदश्च मर्मस्पृक् व्यथकश्चापि कथ्यते ॥ ७८१ ॥ ;p{0113} ;c{* ग्रामेयकनामानि *} ग्रामीणो ग्रामवासी स्यात् ग्राम्यो ग्रामेयकस्तथा । ;c{* जननामानि *} जनः प्रजा च लोकश्च सर्वसाधारणो जनः ॥ ७८२ ॥ ;c{* अमुष्यपुत्रनामानि *} प्रख्यातस्य पितुः पुत्रः स्यादाऽऽमुष्यायणस्तथा । अमुष्यपुत्रः प्रख्यातवप्तृकश्चापि कथ्यते ॥ ७८३ ॥ ;c{* कुलीननामानि *} महाकुलः कुलीनश्च कुल्यः कौलेयकस्तथा । अभिजातश्च जात्यश्च स्यादेवमभिजः पुनः ॥ ७८४ ॥ ;c{* कुलनामानि *} गोत्रं वंशोऽन्ववायश्च सन्तानोऽभिजनः कुलम् । जननमन्वयश्चापि सन्ततिश्चापि कथ्यते ॥ ७८५ ॥ ;c{* स्त्रीनामानि *} स्त्री नारी वनिता वामा योषा योषित् च योषिता । वधूर्वशा वर्णिनी च महेला महिलाऽबला ॥ ७८६ ॥ सीमन्तिनी च सामान्यस्त्रीवाचकाः प्रदर्शिताः । अङ्गना ललना कान्ता रामा भीरुः नितम्बिनी ॥ ७८७ ॥ ;p{0114} रमणी सुन्दरी चैव प्रमदा स्त्रीविशेषकाः । अङ्गानि सुन्दराण्यस्याः सा भवेत् सुन्दरी सदा ॥ ७८८ ॥ क्रीडावती च रामा स्यात् रमणी चापि कथ्यते । क्रीडन्ती ललना प्रोक्ता सुन्दराऽवयवाऽङ्गना ॥ ७८९ ॥ मनोज्ञा सर्वलोकानां चित्ताकर्षणाकारिका । वामाक्षी च मृगाक्षी च मत्तेभगमना पुनः ॥ ७९० ॥ तरललोचना ख्याता सुस्मिता चाऽलसेक्षणा । वरारोहाऽपि प्रख्याता तथैव वरवर्णिनी ॥ ७९१ ॥ प्रतीपदर्शिनी क्वापि काव्ये शास्त्रे निरूपिता । लीला शृङ्गारचेष्टा स्यात् मानः वीणां धनं स्मृतम् ॥ ७९२ ॥ स्मरः कामार्थकश्चापि मनोविलास इत्यपि । एतस्मादन्यनामानि स्त्रीणां भवन्ति कानिचित् ॥ ७९३ ॥ लीलावती स्मरवती मानिनी नाम जायते । मनोविलासवत्यादि नाम काव्ये समीरितम् ॥ ७९४ ॥ ;c{* स्त्रीणां स्वाभाविकोऽलङ्कारः *} विलासो ललितो लोला विभ्रमो विहृतं तथा । विव्वोकश्चापि विब्बोको विच्छित्तिः किलिकिञ्चितम् ॥ ७९५ ॥ कुट्टुमितं तथा मोट्टायितं मोटायितं च हि । एताः सर्वाऽपि त्रीणां स्वाभाविकालङ्कृतिर्भुवि ॥ ७९६ ॥ ;p{0115} ;c{* स्त्रीणां सात्त्विकोऽलङ्कारः *} शोभ माधुर्यमौदार्यं प्रागल्भ्यं दीप्तिरेव च । धीरत्वं कान्तिरप्यास्ति स्त्रीणां सात्त्विकालङ्कृतिः ॥ ७९७ ॥ हेला हावश्च भावोऽपि स्त्रीणामङ्गजाऽलङ्कृतिः । ;c{* भामिनीनाम *} कोपना भामिनी नारी कोपवती हि कथ्यते ॥ ७९८ ॥ ;c{* वाणिनीनाम *} वाणिनी वनिता प्रायः छेका मत्ता च मन्यते । ;c{* कन्यानामानि *} कनी कन्या कुमारी स्यात् गौरी तु नग्निकाऽरजा ॥ ७९९ ॥ ;c{* तरुणीनामानि *} तरुणी तलुनी स्याद्वै युवतिः युवती चरी । मध्यमा दिक्करी चैव दृष्टरजाः पुनः किल ॥ ८०० ॥ ;c{* स्वयंवरानामानि *} स्वयंवरा तथा वर्या पतिंवराऽपि कथ्यते । ;p{0116} ;c{* वधूटीनामानि *} वधूटी वध्वटी चैव चिरण्टी च सुवासिनी ॥ ८०१ ॥ चरण्टी स्याच्चरिण्टी च चिरिण्टी स्ववासिनी । ;c{* पत्नीनामानि *} पत्नी पाणिगृहीती च परिग्रहः सधर्मिरणी ॥ ८०२ ॥ सधर्मचारिणी भार्या द्वितीया सहधर्मिणी । ऊढा क्षेत्रं कलत्रं च करात्ती गृहिणी जनी ॥ ८०३ ॥ वधूः जाया तथा दाराः दारा दारश्च गेहिनी । पुनः सहचरी चेति कथ्यते सहचारिणी ॥ ८०४ ॥ ;c{* पुरन्ध्रीनाम *} पुरन्ध्री स्यात् कुटुम्बिनी सा कुटुम्बवती जनी । ;c{* प्रजावतीनामानि *} भ्रातुर्जाया तथा भ्रातृजाया स्याच्च प्रजावती ॥ ८०५ ॥ ;c{* पुत्रवधूनामानि *} सूनोः स्नुषा वधूटी च जनी वधूश्च मन्यते । ;p{0117} ;c{* यातृनाम *} बन्धुवर्गस्य या जाया यातरस्ताः परस्परम् ॥ ८०६ ॥ ;c{* वीरपत्नीनाम *} वीरपत्नी वीरभार्या सा स्त्री वीरजनस्य वै । ;c{* कुलस्त्रीनामानि *} स्यात् कुलबालिका चैव कुलस्त्री कुलपालिका ॥ ८०७ ॥ ;c{* प्रेयसीनामानि *} प्रिया प्राणसमा प्रेष्ठा प्राणेशा प्रेयसी तथा । दयिता हृदयेशा च प्रणयिनी च वल्लभा ॥ ८०८ ॥ कान्ता प्रेमवती चेति प्रोक्ता लोके प्रियप्रिया । ;c{* पतिनामानि *} पतिः प्राणसमः प्रेयान् प्राणेशः प्रणयी प्रियः ॥ ८०९ ॥ प्रेष्ठः पाणिग्रही कान्तः पाणिग्राहश्च वल्लभः । उपयान्ता परिणेता भर्ता भोक्ता तथा धवः ॥ ८१० ॥ वरयिता विवोढा च रुच्यश्च रमणो वरः । दयितो हृदयेशश्च सेक्ता चेति प्रियः पतिः ॥ ८११ ॥ ;p{0118} ;c{* जन्यानाम *} जन्याः वरस्य मित्राणि व्यवहारे सदा स्मृताः । ;c{* विवाहनामानि *} उद्वाह उपयामश्च विवाहः पाणिपीडनम् ॥ ८१२ ॥ स्यात् पाणिग्रहणं दाराकर्म परिणयस्तथा । उपयमोऽपि नामास्ति जाम्बूलमालिका पुनः ॥ ८१३ ॥ ;c{* वरयात्रानाम *} दौन्दुभी वरयात्रा स्यात् सा प्रसिद्धा महीतले । ;c{* वर्णकनाम *} गोपाली वर्णकं चेति देहे विलेपने कृते ॥ ८१४ ॥ ;c{* वरनिमन्त्रणनाम *} वरनिमन्त्रणं शान्तियात्रा चेत्यपि मन्यते । ;c{* वरमहोत्सवनाम *} स्यादिन्द्राणीमहो हेलिः ख्यातं वरमहोत्सवम् ॥ ८१५ ॥ ;c{* मङ्गलध्वनिनाम } उलूलुः मङ्गलध्वनिः चेति मङ्गलशब्दकः । ;p{0119} ;c{* पूर्णकलशनामानि *} स्याद् वै स्वस्त्ययनं पूर्णकलशं मङ्गलाह्निकम् ॥ ८१६ ॥ ;c{* मङ्गलस्नाननाम *} शान्तिकं मङ्गलस्नानं यत् सुजलेन क्रियते । ;c{* हस्तलेपनाम *} करणं हस्तलेपश्च विवाहसमये विधौ ॥ ८१७ ॥ ;c{* हस्तबन्धनाम *} पीडनं हस्तबन्धश्च पाणिग्रहणनामनी । ;c{* करमोचननाम *} तथापि समवभ्रंशः कथ्यते करमोचनम् ॥ ८१८ ॥ वार्त्तिकं धूलिभक्तं स्याद् विवाहसमये क्रिया । ;c{* जामातृनाम *} जामाता जगति ख्यातः पुत्रीपतिः स मन्यते ॥ ८१९ ॥ ;c{* जारनाम *} उपपतिश्च जारोऽपि कथ्यते जारपूरुषः । ;c{* गणिकापतिनाम *} स्याद् गणिकापतिर्नाम भुजङ्गोऽपि तथैव च ॥ ८२० ॥ ;p{0120} ;c{* दम्पतीनामानि *} दम्पती जम्पती जायापती भार्यापती तथा । वरवध्वोस्तु नामानि पतिपत्न्योः तथैव च ॥ ८२१ ॥ ;c{* दायनामानि *} सुदायो युतयोर्देयं यौतकं हरणं तथा । दायश्चेत्यपि नामापि कथ्यते स्त्रीहिते धने ॥ ८२२ ॥ ;c{* महिषीनाम *} अभिषेकवती राज्ञी महिषी कथ्यते बुधैः । अन्या नृपस्त्रियः प्रायो भोगिन्यो विदिताः किल ॥ ८२३ ॥ ;c{* सैरन्ध्रीनाम *} स्वतन्त्रा चाऽन्यवेश्मस्था पुनश्च शिल्पजीविनी । सैरन्ध्री या प्रसिद्धा सा कथ्यते कोविदैः किल ॥ ८२४ ॥ ;c{* असिक्नीनाम *} नृपस्याऽन्तःपुरप्रेष्या साऽसिक्नी कथ्यते जनैः । ;c{* दूतीनाम *} दूती सञ्चारिका चेति दूत्यर्थे वर्त्ततऽत्र हि ॥ ८२५ ॥ ;p{0121} ;c{* प्राज्ञीनामानि *} तीक्ष्णबुद्धिमती नारी प्रज्ञा प्राज्ञी प्रजानती । ;c{* प्राज्ञानामानि *} प्रोक्ता प्राज्ञा पुनश्चापि सा स्त्री प्रज्ञयाऽन्विता ॥ ८२६ ॥ ;c{* आभीरीनाम *} आभीरी स्यान् महाशूद्री महिलाऽऽभीरजातिका । ;c{* आचार्यस्य स्त्रीनाम *} आचार्यानी तथाऽऽचार्यी आचार्यस्य सधर्मिणी ॥ ८२७ ॥ ;c{* मातुलीनाम *} मातुली मातुलानी च मातुलस्त्री निगद्यते । ;c{* उपाध्यायस्य स्त्रीनाम *} उपाध्यायान्युपाध्यायी उपाध्यायस्य हि जनी ॥ ८२८ ॥ ;c{* क्षत्रियस्य स्त्रीनाम *} क्षत्रियस्य च पत्नी वै क्षत्रियी कथ्यते बुधैः । ;c{* अर्यी शूद्रीनाम *} अर्यी वैश्यस्य भार्याऽऽर्यी शूद्री शूद्रस्य गेहिनी ॥ ८२९ ॥ ;p{0122} ;c{* आचार्यानाम *} आचार्या स्त्री प्रसिद्धास्ति व्याख्यात्री यत्र कुत्र वै । ;c{* शूद्रानाम *} शूद्रजात्युद्भवा नारी सा शूद्रा कथ्यते जनैः ॥ ८३० ॥ ;c{* क्षत्रियाणीनाम *} क्षत्रिया क्षत्रियाणी च क्षत्रियजातिजा स्मृता । ;c{* उपाध्यायीनाम *} उपाध्यायी उपाध्याया शिक्षिका स्त्री निगद्यते ॥ ८३१ ॥ ;c{* अर्याणीनामानि *} अर्याऽर्याणी च सा नारी मन्यते वैश्यजातिजा । आर्याऽऽर्याणी तथैवास्ति साऽपि वैश्योद्भवा किल ॥ ८३२ ॥ ;c{* द्विरूढानामानि *} पुनर्भूश्च द्विरूढा स्याद् दिधीषूर्दिधिषूस्तथा । ;c{* दिधिषूनाम *} पुनर्लग्नकरिण्याऽस्तु पतिर्वै दिधिषूर्भवेत् ॥ ८३३ ॥ स्यादग्रेदिधिषूर्विप्रः पुनर्लग्नविधायकः । ;p{0123} ;c{* परिवेत्तृनाम *} परिवेत्ता च स ख्यातः ज्येष्ठं त्यक्त्वा विवाहितः ॥ ८३४ ॥ स्वयं न परिणीतो यः कनिष्ठश्च विवाहितः । ;c{* परिवित्तिनाम *} स एव परिवित्तिस्तु कथ्यते व्यवहारतः ॥ ८३५ ॥ ;c{* परिवेदिनीनाम *} परिवेत्तुस्तु पत्नी वै मन्यते परिवेदिनी । ;c{* कामुकीनाम *} कामुकी च वृषस्यन्ती मैथुनेच्छावती भवेत् ॥ ८३६ ॥ ;c{* कामुकीनाम *} धनादीच्छावती नारी कथ्यते कामुका हि सा । ;c{* अध्यूढानाम *} कृतसापत्निकाऽध्यूढा मन्यते प्रथमाऽङ्गना ॥ ८३७ ॥ अधिवित्ताऽधिविन्ना च सापि पत्नी तथैव हि । ;c{* सतीनामानि *} एकपत्नी सती साध्वी सुचरित्रा पतिव्रता ॥ ८३८ ॥ ;p{0124} ;c{* असतीनामानि *} अथाऽसती चर्षणी च धर्षणी स्वैरिणी तथा । इत्वरी पुंश्चली चापि त्रिलोचना विलोचना ॥ ८३९ ॥ अविनीता पांसुला खण्डशीला मदननालिका । बन्धुदा बन्धकी चैवं कुलटा कलकूणिका ॥ ८४० ॥ दुःशृङ्गी च मनोहारी लाञ्छनी चेति यथ्यते । ;c{* अभिसारिकानाम *} या याति पतिपार्श्वे सा कामेच्छ्याऽभिसारिका ॥ ८४१ ॥ ;c{* सखीनामानि *} आलिः सखी वयस्या च सध्रीची चेति मन्यते । ;c{* अशिश्वीनाम *} अशिश्वी वनिता या सा पुत्रशून्या हि कथ्यते ॥ ८४२ ॥ ;c{* सधवानामानि *} जीवत्पतिस्तथा जीवत्पत्नी पतिवत्नी तथा । ;c{* विधवानाम *} विधवा स्यादविश्वस्ता लोके तु मृतस्वामिनी ॥ ८४३ ॥ ;p{0125} निर्वीराऽपि वनिता वै सा निष्पतिसुता मता । ;c{* जीवत्तोकानाम *} जीवत्सन्ताननारी स्यात् जीवत्तोका च जीवसूः ॥ ८४४ ॥ ;c{* निन्दुनाम *} नश्यत्प्रसूतिका नारी निन्दुः सा किल कथ्यते । ;c{* नरमालिनीनामानि *} सश्मश्रुश्चापि पालिश्च तथैव नरमालिनी ॥ ८४५ ॥ खलुर्भवति सा नारी यस्याः श्मश्रुश्च विद्यते । ;c{* कात्यायनीनाम *} कात्यायनी साऽर्द्धवृद्धा कषायवस्त्रधारिणी ॥ ८४६ ॥ ;c{* विधवानामानि *} अधवा विधवा रण्डा कथ्यते मृतस्वामिनी । ;c{* भिक्षुणीनामानि *} श्रवणा श्रमणा मुण्डा भिक्षुकी भिक्षुणी स्मृता ॥ ८४७ ॥ ;c{* पोटानाम *} पुंलक्षणवती नारी पोटा भवति नामतः । ;p{0126} ;c{* वेश्यानामानि *} वेश्या क्षुद्रा रूपाजीवा कामलेखा खगालिका ॥ ८४८ ॥ गणिका लज्जिका चापि पण्याङ्गता पणाङ्गना । भुजिष्या साधारणस्त्री वारवाणिश्च ज्ञायताम् ॥ ८४९ ॥ वारवधूः वारमुख्या सेवाकार्ये स्थिता हि या । ;c{* कुट्टनीनामानि *} शम्भली कुट्टनी चुन्दी परस्त्रीपुंनियोजिका ॥ ८५० ॥ ;c{* दासीनामानि *} चेटी दासी कुम्भदासी पोटा वोटा गणेरुका । वडवा पिचनामास्ति कुटहारिकापि कथ्यते ॥ ८५१ ॥ ;c{* नग्नानामानि *} कोटवी नग्निका नग्ना या वस्त्ररहिता भवेत् । ;c{* पलिक्नीनाम *} वृद्धा नारी पलिक्नी स्याद् यस्याः केशाः सिता इह ॥ ८५२ ॥ ;c{* रजस्वलानामानि *} रजस्वला ऋतुमती पुष्पवती च पुष्पिता । अधिः स्त्रीधर्मिणी चाऽवीः उदक्या मलिनी तथा ॥ ८५३ ॥ ;p{0127} आत्रेयी चेति नामानि रजस्वलाया भवन्ति वै । ;c{* निष्कलानाम *} निष्कला पुष्पहीना च यस्या रजोऽभवन् नहि ॥ ८५४ ॥ ;c{* राकानाम *} राका रजस्वला कन्या कथ्यते विबुधैरिह । ;c{* स्त्रीरजोनामानि *} आर्त्तवं कुसुमं पुष्पं स्त्रीधर्मश्च रजस्तथा ॥ ८५५ ॥ रजः प्रवृत्तिकालास्तु ऋतुः शास्त्रे निगद्यते । ;c{* मैथुननामानि *} मैथुनं मोहनं चापि सम्भोगः सुरत रतम् ॥ ८५६ ॥ सम्प्रयोगः रहो ग्राम्यधर्मः संवेशनं तथा । पशुधर्मः पशुक्रिया कामकेलिस्तथा रतिः ॥ ८५७ ॥ निधुवनं व्यवायश्च कथ्यते कोविदैः किल । ;c{* मिथुननामानि *} स्त्रीपुंसौ मिथुनं प्रोक्तं द्वन्द्वं तदेव कथ्यते ॥ ८५८ ॥ ;c{* गर्भवतीनामानि *} अन्तर्वत्नी गुर्विणी च गुर्वी गर्भवती तथा । आपन्नसत्वोदरिणी गुर्विण्या नाम ज्ञायताम् ॥ ८५९ ॥ ;p{0128} ;c{* दोहदान्वितानाम *} गर्भकाले विभिन्नेच्छा श्रद्धालुर्दोहदान्विता । ;c{* प्रसूतिकानामानि *} जातापत्या विजाता स्यात् प्राजाता च प्रसूतिका ॥ ८६० ॥ ;c{* गर्भनामानि *} गर्भश्च गरभो भ्रूणो भवेद् दोहदलक्षणम् । ;c{* गर्भाशयनामानि *} उलबं च जरायुश्च गर्भाशयोऽपि कथ्यते ॥ ८६१ ॥ ;c{* कललनाम *} उल्बं कलल मित्याहुः शुक्रशोणितमिश्रणम् । ;c{* दोहदनामानि *} दोहदं दौर्हृदं प्रोक्तं श्रद्धा च लालसा पुनः ॥ ८६२ ॥ ;c{* सूतिमासनामानि *} सूतिमाः सूतिमासश्च वैजननश्च बुध्यताम् । ;c{* प्रसवनाम *} प्रसवश्च विजननं जन्म नाम द्वयं भवेत् ॥ ८६३ ॥ ;p{0129} ;c{* पुत्रनामानि *} अङ्गजः आत्मजः सूनुः नन्दनः कुलधारकः । उद्वहो दारकः पुत्रो द्वितीयस्तनयः सुतः ॥ ८६४ ॥ दायादश्चेति नामापि कथ्यते सूनुनामनि । ;c{* पुत्रीनामानि *} उद्वहा नन्दना सूनुरङ्गजा चात्मजा सुता ॥ ८६५ ॥ धीदा समर्धुका चापि दारिका दुहिता तथा । देहसञ्चारिणी पुत्री तनया चेति कथ्यते ॥ ८६६ ॥ ;c{* सन्ताननामानि *} सन्तानः सन्ततिस्तोकं प्रसूतिस्तुक् पञ्चमम् । अपत्यं च प्रजा चापि सप्त नामानि सन्ति वै ॥ ८६७ ॥ ;c{* भ्रातृव्यनाम *} भ्रातृव्यो भ्रातृपुत्रस्तु भ्रात्रीयश्चापि मन्यते । ;c{* भागिनेयनामानि *} स्वस्रीयो भागिनेयः स्याज् जामेयः कुतपस्तथा ॥ ८६८ ॥ ;c{* पौत्रनामानि *} कथ्यते पुत्रपुत्रश्च नप्ता पौत्रस्तथा पुनः । ;p{0130} ;c{* दौहित्रनाम *} दौहित्रश्चापि नप्ता हि मन्यते दुहितुः सुतः ॥ ८६९ ॥ ;c{* प्रपौत्रनाम *} प्रतिनप्ता प्रपौत्रोऽपि पौत्रपुत्र उदाहृतः । ;c{* परम्परनाम *} प्रपौत्रस्यात्मजो लोके परम्परश्च कथ्यते ॥ ८७० ॥ ;c{* पैतृष्वसेयनाम *} पितृष्वसुः सुतो लोके पैतृष्वसेय उच्यते । पैतृष्वस्रीय इत्यस्ति द्वितीयं नाम तस्य वै ॥ ८७१ ॥ ;c{* मातृष्वसेयनाम *} मातृष्वसुः सुतो लोके मातृष्वसेयः कथ्यते । मातृष्वसीय इत्यस्ति द्वितीयं नाम तस्य हि ॥ ८७२ ॥ ;c{* विमातृजनाम *} विमातुरात्मजो लोके वैमात्रेयो विमातृजः । ;c{* द्विमातृजनाम *} द्वयोर्मात्रोः सुतस्तावद् द्वैमातुरो द्विमातृजः ॥ ८७३ ॥ ;p{0131} ;c{* सांमातुरनाम *} सांमातुरः सतीपुत्रः भ्राद्रमातुर उच्यते । ;c{* सौभागिनेयनाम *} सौभाग्यवत्याः पुत्रस्तु सौभागिनेयः उच्यते ॥ ८७४ ॥ ;c{* कानीननाम *} कन्यासुतस्तु कानीनो व्यासः कर्ण उदाहृतः । ;c{* पौनर्भवनाम *} पुनर्लग्नवतीपुत्रः पौनर्भवश्च कथ्यते ॥ ८७५ ॥ ;c{* पारस्त्रैणेयनाम *} परस्त्रीषु समुत्पन्नः पारस्त्रैणेय उच्यते । ;c{* दासेयनाम *} दासीपुत्रस्तु दासेयो दासेरश्च निगद्यते ॥ ८७६ ॥ ;c{* नटीसुतनामानि *} नटीसुतस्तु नाटेयो नाटेर उच्यते पुनः । ;c{* असतीसुतनामानि *} कौलटेरो बान्धकिनेयः कोलटेयोऽसतीसुतः ॥ ८७७ ॥ ;p{0132} बन्धुलश्चेति नामानि कथ्यते कुलटासुतः । ;c{* कौलटिनेयनाम*} सतीस्त्रीभिक्षुकीपुत्रः कौलटिनेय उच्यते ॥ ८७८ ॥ ;c{* कौलटेयनाम *} असतीभिक्षुकीसूनुः कौलटेय उदाहृतः । ;c{* क्षेत्रजनाम *} क्षेत्रजो देवरादिजः लोके निन्दित उच्यते ॥ ८७९ ॥ ;c{* औरसनाम *} औरसश्चाप्युरस्यो वै स्वस्त्रीजातः सुतो भवेत् । ;c{* गोलकनाम *} मृते भर्तरि यो जातः स गोलक उदाहृतः ॥ ८८० ॥ ;c{* कुण्डनाम *} पत्यौ जीवति अन्यस्माज्जातः कुण्डः सुतो भवेत् । ;c{* भ्रातृनामानि *} सहोदरः सगर्भश्च सोदर्यः सोदरस्तथा ॥ ८८१ ॥ ;p{0133} भ्राता च सहजश्चापि समानोदर्य इत्यपि । ;c{* ज्येष्ठनामानि *} अग्रजश्चाऽऽग्रिमः पित्र्यः स्याज्ज्येष्ठः पूर्वजस्तथा ॥ ८८२ ॥ ;c{* कनिष्ठनामानि *} अवरजोऽनुजः स्याद् वै कनीयान् कन्यसस्तथा । कनिष्ठश्च यविष्ठश्च स्याद् यवीयान् जघन्यजः ॥ ८८३ ॥ पितुः पत्न्याश्च मातुश्च भ्राता लोके निगद्यते । पितृव्यश्च तथा श्यालः मातुलः क्रमशोऽत्र वै ॥ ८८४ ॥ ;c{* देवरनामानि *} पत्युः कनीयान् भ्राता स्याद् देवा च देवृदेवरौ । ;c{* भगिनीनामानि *} स्वसा च भगिनी जामिः सहोदरा नाम जायते ॥ ८८५ ॥ ज्येष्ठाऽत्र वीरभवन्ती प्रायः कुत्रापि कथ्यते । ;c{* नन्दिनीनामानि *} ननन्दा च ननान्दा च नन्दिनी पतिसोदरा ॥ ८८६ ॥ ;p{0134} ;c{* कुलीनाम *} पत्न्याः ज्येष्ठा स्वसा लोके ज्येष्ठश्वश्रूः कुली भवेत् । ;c{* श्यालिकानामानि *} पत्न्याः लघ्वी स्वसा लोके श्यालिका केलिकुञ्चिका ॥ ८८७ ॥ यन्त्रणी चापि हाली वै कथ्यते पण्डितैः किल । ;c{* क्रीडानामानि *} क्रीडा केलिः किलः खेला लीला तथा सुखोत्सवः ॥ ८८८ ॥ कूर्दनं वर्करो नर्म विनोदो देवनं तथा । परिहासः परीहासस्तथा रागरसो द्रवः ॥ ८८९ ॥ ललनं चेति नामापि मन्यते नर्मवाचके । ;c{* पितृनामानि *} वप्यो वप्ता तथा तातो बीजी बप्यः पिता पुनः ॥ ८९० ॥ जनयिता जनित्रश्च रेतोधाः जनको भवेत् । पितुः पिता पितामहः तत् पिता प्रपितामहः ॥ ८९१ ॥ मातामहो मातृवप्ता तद्वप्ता प्रमातामहः । ;p{0135} ;c{* मातृनामानि *} माताऽम्बा जननी जानी जनयित्री प्रसूस्तथा ॥ ८९२ ॥ सवित्री च जनित्री च मातृनामनि कथ्यते । ;c{* कृमिलानाम *} कृमिला च बहुप्रसूः या सूते बहुसन्ततिम् ॥ ८९३ ॥ ;c{* धातृनाम *} उपमाता च धात्री सा याऽन्यान् प्रापयति पयः । ;c{* वीरमातृनाम *} वीरसूः वीरमाता सा या सूते वीरमात्मजम् ॥ ८९४ ॥ ;c{* श्वश्रूनाम श्वसुरनाम *} श्वश्रूर्माता पतिपत्न्योः श्वसुरस्तु पिता तयोः । पितरः स्यात् पितुर्वंश्या मातुर्मातामहाः कुले ॥ ८९५ ॥ ;c{* मातुःपितुश्च नामानि *} मातरपितरौ मातापितरौ पितरौ तथा । ;c{* श्वश्व्राः श्वसुरस्य च नाम *} प्रोक्तं माता पिता चापि श्वश्रूश्वशुरौ श्वसुरौ ॥ ८९६ ॥ ;p{0136} ;c{* पुत्रपुत्रीनाम *} तथा पुत्रश्च पुत्री च पुत्रौ प्रोक्तं महीतले । ;c{* भ्रातुः भगिन्याश्च नाम *} भ्राता च भगिनी चापि भ्रातरौ कथ्येते खलु ॥ ८९७ ॥ ;c{* स्वजननामानि *} स्वः स्वजनः सगोत्रश्च ज्ञातिर्बन्धुश्च बान्धवः । ;c{* स्वकीयनामानि *} प्रोक्तः पुनः स्वकीयश्च स्व आत्मीयस्तथा निजः ॥ ८९८ ॥ ;c{* सपिण्डनाम *} सनाभयः सपिण्डाः स्युः पितुः सप्तान्तर्गता जनाः । ;c{* नपुंसकनामानि *} क्लीबः षण्ढस्तथा पण्डस्तृतीयाप्रकृतिः किल ॥ ८९९ ॥ शण्ठः शण्ढस्तथा पण्डुः प्रोक्तं नपुंसकं पुनः । ;c{* गात्रनामानि *} इन्द्रियायतनं मूर्त्तिः मूर्तिमत् च कलेवरम् ॥ ९०० ॥ अङ्गं गात्रं तनुः क्षेत्रं तनूः संहननं सिनम् । ;p{0137} वपुश्च पुद्गलः पिण्डः कायः प्रजनुकः पुरम् ॥ ९०१ ॥ व्याधिस्थानं तथा वेरं चतुःशाखः षडङ्गकम् । भूधनो विग्रहो वर्ष्म घनो बन्धश्च सञ्चरः ॥ ९०२ ॥ शरीरः करणं देहश्चेति नामप्रयोगतः कथ्यते । ;c{* मृतकनाम *} मृतशरीरनामानि मृतकं कुणपं शवः ॥ ९०३ ॥ ;c{* कबन्धनाम *} शिरो विना च मृतकं कबन्धो रुण्ड उच्यते । ;c{* वयोनामानि *} दशाः प्रायाः वयांसीह कथ्यन्ते काव्यशास्त्रयोः ॥ ९०४ ॥ ;c{* देहलक्षणनाम *} देहस्य लक्षणं प्रोक्तं सामुद्रं देहलक्षणम् । ;c{* देहावयवनामानि *} एकदेशे प्रतीकोऽङ्गाऽवयवाऽपघना अपि ॥ ९०५ ॥ गात्रञ्चापि विजानीयात् शरीरावयवं पुनः । ;p{0138} ;c{* मस्तकनामानि *} मस्तकं मस्तिकं मुण्डं मूर्धा मौलिस्तथा शिरः ॥ ९०६ ॥ उत्तमाङ्गं तथा शीर्षं वराङ्गं चापिकं पुनः । कथ्यते करणत्राणं देशनामानि सन्ति वै ॥ ९०७ ॥ ;c{* केशनामानि *} शिरसिजाः कचाः केशाः तीर्थवाकाश्च कुन्तलाः । वालाश्च वेल्लिताग्रोऽस्रः चिकुराश्चिहुरास्तथा ॥ ९०८ ॥ वृजिनश्चेति नामापि कथ्यते केशवाचके । ;c{* केशपाशनामानि *} सकेशः पाश-रचना-भार-उच्चय उच्यताम् ॥ ९०९ ॥ हस्तः पक्षः कलापश्च केशपाशादिकं भवेत् । ;c{* कुटिलकेशनामानि *} अलकः कर्करालश्च खङ्खरश्चूर्णकुन्तलः ॥ ९१० ॥ कुटिलकेश इत्यस्ति केशशोभा करक्रिया । ;c{* भ्रमरकनामानि *} भ्रमरकः कुरलश्च ललाटे भ्रमरालकः ॥ ९११ ॥ ;p{0139} ;c{* जूटकनामानि *} धर्मिल्लोऽपि केशवेशो मौलिः जूटक इत्यपि । ;c{* केशवेषनामानि *} कबरी बर्बरी नाम केशवेषश्च पर्परी ॥ ९१२ ॥ ;c{* वेणीनामानि *} वेणी वेणिः प्रवेणिश्च प्रवेणी ग्रन्थितालकः । ;c{* शिरस्यनामानि *} शीर्षण्यश्च शिरस्यश्च प्रलोभ्यो निर्मलोऽलकः ॥ ९१३ ॥ ;c{* सीमन्तनाम *} केशेषु वर्त्म सीमन्तः कथ्यते शिरसि स्थितः । ;c{* पलितनाम *} पलितं पाण्डुरः केशः वृद्धवयसि दृश्यते ॥ ९१४ ॥ ;c{* शिखानामानि *} चूडा शिखण्डिका केशी केशपाशी तथा शिखा । ;c{* काकपक्षनामानि *} सा बालानां शिखाण्डकः काकपक्षः शिखण्डकः ॥ ९१५ ॥ ;p{0140} ;c{* मुखनामानि *} आस्यं मुखं वरं वक्त्रं घनं घनोत्तमं चरम् । आननं वदनं तुण्डं तेरं दन्तालयस्तथा ॥ ९१६ ॥ लपनं चेति नामानि मुखस्य सुधयो विदुः । ;c{* ललाटनामानि *} भालं गोधिरलीकञ्च ललाटमलिकं भवेत् ॥ ९१७ ॥ ;c{* कर्णनामानि *} कर्णः श्रोत्रं महानादः श्रवणं च श्रुतिः श्रवः । शब्दध्वनिग्रहौ चैव शब्दाधिष्ठानमित्यपि ॥ ९१८ ॥ पैञ्जूषश्चेति नामानि कर्णस्य प्रतिभान्ति हि । वेष्टनं कर्णशष्कुली कथ्यते कर्णपर्पटी ॥ ९१९ ॥ पालिश्च कर्णलतिका कर्णाग्रभाग उच्यते । धारा च कर्णप्रान्तो हि कर्णान्तभाग उच्यते ॥ ९२० ॥ कर्णमूलस्य भागस्तु कर्णमूलं च शीलकम् । कपालकर्णयोर्मध्यभागः शङ्खः स्मृतो बुधैः ॥ ९२१ ॥ ;c{* नेत्रनामानि *} नेत्रं च नयनं चक्षुर्लोचनं च विलोचनम् । ईक्षणं दर्शनं दृष्टिर्देवदीपोऽक्षि वै पुनः ॥ ९२२ ॥ ;p{0141} रूपग्रहोऽम्वकं चैव दृक् चेति कथ्यते बुधैः । तारा कनीनिका भूयस्तारका रूपग्राहिणी ॥ ९२३ ॥ सौम्यं वामाक्षि नामास्ति भानवीयञ्च दक्षिणम् । अनक्षि दोषवन् नेत्रं ख्यातं लोके सदा बुधैः ॥ ९२४ ॥ ;c{* दर्शननामानि *} निभालनं च निध्यानं दर्शनमवलोकनम् । ईक्षणं द्योतनं चापि निशमनं निशामनम् ॥ ९२५ ॥ तथा निर्वर्णनं चेति नामानि दर्शनस्य हि । ;c{* कटाक्षनामानि *} अक्षिविकूणितं काक्षः कटाक्षश्चार्धवीक्षणम् ॥ ९२६ ॥ अपाङ्गदर्शनं चेति वक्रदृष्ट्या निदर्शनम् । स्यादुन्मीलनमुन्मेषो नयनोद्घाटनं स हि ॥ ९२७ ॥ नयनमीलनं प्रोक्तं निमेषश्च निमीलनम् । अक्ष्णोर्बाह्यान्तावपाङ्गौ भ्रूरूर्द्धे रोमपद्धतिः ॥ ९२८ ॥ भ्रकुटिः भ्रुकुटिश्चैवं भ्रूकुटिः भृकुटिस्तथा । सकोपभ्रूविकारे हि कथ्यते कोविदैः किल ॥ ९२९ ॥ भ्रूवोर्मध्ये हि विज्ञेयं कूर्चं कूर्पं च नामनि । नेत्ररोमणि वै पक्ष्म मन्यते पण्डितैः पुनः ॥ ९३० ॥ ;p{0142} ;c{* नासिकानामानि *} नासिका च नसा नासा नस्या च गन्धनालिका । नक्रं नर्कुटकं घ्राणं घोणा गन्धवहा तथा ॥ ९३१ ॥ गन्धज्ञा गन्धह्रत् चैव शिङ्घिनी च विकूणिका । नासिक्यं चेति नामानि नासिकायाः भवन्ति वै ॥ ९३२ ॥ ;c{* ओष्ठनामानि *} ओष्ठोऽधरो रसालेपी रदच्छदश्च वाग्दलम् । दन्तवस्त्रं च नामाऽपि दशनोच्छिष्ट उच्यते ॥ ९३३ ॥ ओष्ठप्रान्तौ सृक्कणी स्यात् सृक्कि च सृक्किणी तथा । चिवुक मसिकास्तु चिक्कश्चिक्कमधोऽसिकम् ॥ ९३४ ॥ ;c{* गल्लनाम *} सृक्वणः परभागस्तु गल्लः स्यात् सर्वदैव हि । ;c{* कपोलनाम *} गल्लात् परः कपोलोऽस्ति गण्डः परः कपोलतः ॥ ९३५ ॥ गल्लो गण्डो कपोलश्च समानार्थक एव च । ;c{* हनुनाम *} कपोलाधो हनुर्वाच्यो मुखाधोऽपि हनुर्भवेत् ॥ ९३६ ॥ ;p{0143} ;c{* श्मश्रुनामानि *} आसुरी चास्यलोमं च श्मश्रु कूर्चञ्च व्यञ्जनम् । कोटं स्याद् दंष्ट्रिका नाम द्राढिका दाढिका तथा ॥ ९३७ ॥ ;c{* दाढानामानि *} दाढा दंष्ट्रा च जम्भश्च दन्तभेदे त्रयं भवेत् । ;c{* दन्तनामानि *} दन्ताः दंशा द्विजाः दालुः दशना रदना रदाः ॥ ९३८ ॥ मल्लकाः खादना भूयः खरुर्मुखखुरस्तथा । राजदन्तौ तु मध्यस्थावुपरि श्रेणिकौ क्वचित् ॥ ९३९ ॥ ;c{* जिह्वानामानि *} जिह्वा लोला रसज्ञा च रशना रसना रसा । काकुश्च ललना रस्ना रसिका रसमातृका ॥ ९४० ॥ ;c{* तालुनामानि *} काकुदं तालु प्रख्यातं क्वचिद् वक्रदलं तथा । ;c{* लम्बिकानामानि *} सुधास्त्रवा घण्टिका च लम्बिका गलशुण्डिका ॥ ९४१ ॥ ;p{0144} ;c{* ग्रीवानामानि *} धमनिः कन्धरा ग्रीवा शिरोधिश्च शिरोधरा । रेखा त्रयवती सैव कम्बुग्रीवा निगद्यते ॥ ९४२ ॥ ;c{* शिरःपीठनामानि *} पुंस्त्रियोश्च खटुः ख्यातः घाटाश्चैव कृकाटिका । तदर्थे च शिरःपीठं पण्डितैः समुदाहृतम् ॥ ९४३ ॥ कृकः स्यात् कन्धरामध्यं कृकपार्श्वौ तु वीतनौ । ग्रीवाधमन्यौ प्राग् नीले पश्चान् मन्ये कलम्बिके ॥ ९४४ ॥ ;c{* कण्ठनामानि *} गलो निगरणश्चैव कण्ठः कण्ठस्य कथ्यते । ;c{* कण्ठमणिनाम *} मन्ये कण्ठमणिर्नाम काकलकश्च काकलः ॥ ९४५ ॥ ;c{* स्कन्धनामानि *} स्कन्धो भुजशिरश्चांसो भुजशिखरमुच्यते । ;c{* जत्रुनाम *} सन्धिकरोंऽसगः जत्रु उच्यते जगती जनैः ॥ ९४६ ॥ ;c{* बाहुनामानि *} बाहुर्बाहा भुजो दोश्च प्रवेष्टः कथ्यते पुनः । ;p{0145} ;c{* कक्षनामानि *} दोर्मूलं खण्डिकश्चैव कक्षा च भुजकोटरः ॥ ९४७ ॥ स्यादेतयोरधः पार्श्वं कथ्यते पण्डितैः जनः । ;c{* कुर्परनामानि *} कफोणिः कुपरश्चैव कफाणिः कफणिस्तथा ॥ ९४८ ॥ भुजामध्यं च बाहूयबाहुसन्धिश्च कूर्परः । कपोणिः रत्निपृष्ठकं चेति नामानि मन्यते ॥ ९४९ ॥ अधस्तस्याऽऽमणिबन्धादुपबाहु कलाचिका । प्रकोष्ठः स्यात् प्रगण्डस्तु कूर्परांसान्त उच्यते ॥ ९५० ॥ ;c{* हस्तनामानि *} करो हस्तः शमः पाणिः पञ्चशाखः शयः सलः । भुजदलश्च नामानि करस्य मन्यते बुधैः ॥ ९५१ ॥ करस्यादौ मणिबन्धो मणिश्च कथ्यते पुनः । हस्तस्य मणिबन्धादाकनिष्ठं करभो भवेत् ॥ ९५२ ॥ ;c{* अङगुलिनामानि *} अङ्गुली स्यादङ्गुलिश्च करशाखाऽपि कथ्यते । अङगुरिरङ्गुरी शास्त्रे ह्रस्वान्तोऽपि निगद्यते ॥ ९५३ ॥ अङ्गुष्ठोऽङ्गगुल इत्यस्ति तर्जनी च प्रदेशिनी । ;p{0146} मध्या च मध्यमा ज्येष्ठा सावित्री स्यादनामिका ॥ ९५४ ॥ कनीनिका कनिष्ठा च व्यवहारे प्रयुज्यते । अवहस्तः प्रसिद्धोऽपि कथ्यते हस्तपृष्ठतः ॥ ९५५ ॥ ;c{* नखनामानि *} कामाङ्कुशो भुजाकण्टः करजः पाणिजस्तथा । कररुहः करशूकः पुनर्भवः पुनर्नवः ॥ ९५६ ॥ महाराजो नखश्चैव नखरश्चापि कथ्यते । प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति ॥ ९५७ ॥ प्रादेशश्चापि तालश्च गोकर्णस्तदनन्तरम् । वितस्तिः कथ्यते भूयो जगति पण्डितैः जनः ॥ ९५८ ॥ प्रसारिताङ्गुलौ पाणौ प्रहस्तः प्रतलस्तलः । चपेटस्तालिका तालश्चेति हस्तस्य पञ्जकः ॥ ९५९ ॥ कथ्यते तौ युतौ सिंहतलः संहतलस्तथा । ;c{* मुष्टिनामानि *} संपिण्डिताङ्गुलिः पाणिर्मुचुटो मुचुटिः पुनः ॥ ९६० ॥ मुष्टिर्मुस्तुश्च सङ्ग्राहोऽर्द्धमुष्टिः खटकस्तु वै । प्रसृतः प्रसृतिः पाणिः कुब्जितः कथ्यते किल ॥ ९६१ ॥ ;p{0147} पुनश्च प्रसृतौ हस्तौ साप्यञ्जलिर्हि मन्यते । प्रसृते च द्रवाधारे गण्डूषश्चुलुकस्तथा ॥ ९६२ ॥ चलुश्च चलुकश्चेति कथ्यते कोविदैः सदा । हस्तः प्रामाणिको मध्ये मध्यमाङ्गुलिकूर्परम् ॥ ९६३ ॥ बद्धमूले भवेद् रत्निररत्नर्निष्कनिष्ठिकः । तिर्यग्बाहू प्रसारितौ न्यग्रोधश्च तनूतलः ॥ ९६४ ॥ बाहुचापो वियामश्च व्यायामो व्यामकः पुनः । ऊर्ध्वीकृतभुजाहस्त-नरमानं तु पौरुषम् ॥ ९६५ ॥ ;c{* जानुमात्रनामानि *} जानुमात्रं जानुदध्नं जानुद्वयसमित्यपि । पुरुषमात्रं नृदध्नं पुरुषद्वयसं पुनः ॥ ९६६ ॥ प्रमाणार्थे खलु मात्रं द्वयसं दध्न ऊह्यताम् । ;c{* पृष्ठवंशनाम *} रीढकः पृष्ठवंशश्च स्यात् पृष्ठचरमस्तनोः ॥ ९६७ ॥ ;c{* उत्सङ्गनामानि *} अङ्कः क्रोड उपस्थश्च पुनरुत्सङ्ग इत्यपि । देहस्य पूर्वभागो हि कथ्यते पण्डितैः किल ॥ ९६८ ॥ ;p{0148} ;c{* वक्षनामानि *} उरश्च हृदयस्थानं क्रोडा क्रोडं भुजान्तरे । वत्सो वत्सं तथा वक्षश्चेति जगति मन्यते ॥ ९६९ ॥ ;c{* हृदयनामानि *} गुणाधिष्ठानकं हृद् च हृदयं च स्तनान्तरम् । असहं च त्रसं मर्मचरं मर्मवरं तथा ॥ ९७० ॥ ;c{* कुचनामानि *} स्तनौ कुचौ च वक्षोजौ धरणौ च पयोधरौ । उरसिजौ तथोरोजौ जानीयान्नाम सप्तकम् ॥ ९७१ ॥ ;c{* स्तनमुखनामानि *} स्तनाग्रं स्तनवृन्तञ्च स्तनमुखञ्च मेचकः । स्तनशिखा च पिप्पलः चूचुकं चेति मन्यते ॥ ९७२ ॥ ;c{* उदरनामानि *} पिचण्डो मलुकः कुक्षिः गर्भश्च जठरोदरे । तुन्दं रोमलताधारः तुन्दिश्च कथ्यते बुधैः ॥ ९७३ ॥ ;c{* यकृन्नामानि *} कालखण्डं च कालेयं कालखञ्जं कालकम् । ;p{0149} यकृत् चेत्यादि नामानि मन्यते यकृतो बुधः ॥ ९७४ ॥ ;c{* क्लोमनामानि *} दक्षिणे क्लपुषं क्लोमं ताड्यं च तिलकं तथा । कथ्यते क्लोम वामे तु पुष्पसो रक्तफेनजः ॥ ९७५ ॥ ;c{* प्लीहानाम *} प्लीहा गुल्मोऽपि वामे हि मांसपिण्डो निगद्यते । ;c{* अन्त्रनाम *} कुक्षावन्त्रं पुरीतच्च कथ्यतेऽपि पुरीतति ॥ ९७६ ॥ ;c{* रोमलतानाम *} रोमावली रोमलता नाभौ रोमोद्गमः स्मृतः । ;c{* नाभिनामानि *} नाभिश्च तुन्दकूपिका सिरामूलं पुतारिका ॥ ९७७ ॥ ;c{* मूत्राशयनामानि *} नाभेरधो मूत्राशयः बस्तिर्मूत्रपुटं भवेत् । ;c{* अवलग्ननामानि *} अवलग्नं विलग्नं च मध्यश्च मध्यमः स्मृतः ॥ ९७८ ॥ ;p{0150} ;c{* कटिनामानि *} कटिः कटः कटीरञ्च कलत्रञ्च ककुद्मती । श्रोणिः काञ्चीपदं चेति नामानि प्रथितानि वै ॥ ९७९ ॥ ;c{* नितम्बनाम *} आरोहश्च नितम्बोऽपि स्त्रीकट्याः पश्चभाग् भवेत् । ;c{* जघननाम *} जघनं मन्यते विश्वे स्त्रीकट्या अग्रतः पुनः ॥ ९८० ॥ त्रिकं वंशाधस्तत् पार्श्वकूपकौ तु कुकुन्दरे । कुकुन्दुरः कटीकूपौ उच्चिलिङ्गौ रतावुके ॥ ९८१ ॥ ;c{* पुतनामानि *} स्फिजौ स्फिचौ कटिप्रोथौ पुतौ चेति हि कथ्यते । ;c{* योनिनामानि *} भगोऽपत्यपथो योनिः वराङ्गं स्मरमन्दिरम् ॥ ९८२ ॥ स्त्रीचिह्नं च च्युतिश्चापि बुलिश्च स्मरकूपिका । एतानि मन्यते योनेर्नामानि पण्डितो जनः ॥ ९८३ ॥ ;c{* लिङ्गनामानि *} पुंश्चिह्नं मेहनं मेढ्रः शिश्नं च शेपशेपसी । ;p{0151} लाङ्गूलं लङ्गुलं लिङ्गं नाङ्गूलं च शेफशेफसी ॥ ९८४ ॥ कामलता च लिङ्गस्य नामानि कथितानि वैः । ;c{* योनिलिङ्गनामानि *} गुह्यं प्रजननोपस्थां कथ्यते द्वयमप्यदः ॥ ९८५ ॥ ;c{* गुह्यमध्यनामानि *} गुह्यस्य मध्यभागोऽपि गुह्यमध्यं गुलो मणिः । ;c{* सीवनीनाम *} कथ्यते तदर्धः सूत्रं सीवनी साक्षरैः सदा ॥ ९८६ ॥ ;c{* अण्डनामानि *} अण्डमाण्डोऽण्डकोशश्च मुष्कश्च वृषणोऽण्डकः । पेलश्च पेलकश्चेति अण्डनाम निगद्यते ॥ ९८७ ॥ ;c{* गुदनामानि *} गुदं पायुरपानञ्च त्रिवलीकं च्युतिर्बुलिः । शकृद्वारमधो मर्म गुदनामानि मन्यते ॥ ९८८ ॥ ;p{0152} ;c{* विटपनाम *} अण्डमूलं महावीज्यं विटपञ्चापि कथ्यते । ;c{* वङ्क्षणसक्थिनामानि *} उरुसन्धिर्वङ्क्षणः स्यादुररुः सक्थिस्तत् पर्व्व तु ॥ ९८९ ॥ ;c{* जानुनामानि *} अष्ठीवान् नलकीलश्च जानुर्नाम त्रयं भवेत् । पश्चाद्भागोऽस्य मन्दिरः कपोली त्वग्रिमः पुनः ॥ ९९० ॥ ;c{* जङ्घानामानि *} जङ्घा च प्रसृता नाम नलकिनी निगद्यते । अग्रजङ्घा प्रतिजङ्घा जङ्घाग्रभाग उच्यते ॥ ९९१ ॥ ;c{* पिण्डिकानाम *} पिचण्डिका पिण्डिका च कथ्यते कोविदैः किल । ;c{* घुण्टकनामानि *} स्याद् गुल्फश्चरणग्रन्थिर्घुण्टको घुटिको घुटः ॥ ९९२ ॥ ;c{* चरणनामानि *} चरणश्चलनः पादः क्रमश्च क्रमणः पदः । ;p{0153} अंह्रिरङ्घ्रिस्तथा पत् पाद् चेति नामानि मन्यते ॥ ९९३ ॥ गोहरं पादमूलं स्यात् पार्ष्णिस्तु घुटयोरधः । पादस्याग्रविभागो हि पादाग्रं प्रपदं तथा ॥ ९९४ ॥ कथ्यतेऽपि पुनः क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः । कूर्चं क्षिप्रस्योपर्यंहिस्कन्धः कूर्चशिरः समे ॥ ९९५ ॥ पादतलस्य मध्ये तत् स्यात् तलहृदयं तलम् । ;c{* तिलकनामानि *} शरीरे कृष्णचिह्नं हि कथ्यते तिलकारकः ॥ ९९६ ॥ तिलकश्चापि पिप्लुश्च जडुलोऽपि तथैव हि । कालकश्चेति नामानि भवन्ति तिलकस्य वै ॥ ९९७ ॥ रसाऽसृग्मांसमेदोऽस्थिमज्जशुक्राणि धातवः । सप्तैव दश वैकेषां रोमत्वक्स्नायुभिः सह ॥ ९९८ ॥ ;c{* रसनामानि *} अग्निसम्भव आत्रेयोऽसृक्करः षड्रसासवः । मूलधातुर्महाधातुर्घनधातुस्तथा रसः ॥ ९९९ ॥ पुनश्चाऽऽहारतेलोऽपि रसनाम निगद्यते । ;p{0154} ;c{* रक्तनामानि *} आग्नेयं रुधिरं रक्तं रसतेजश्च लोहितम् ॥ १००० ॥ अस्रमसृक् च वाशिष्ठं प्राणदं क्षतजं तथा । विस्त्रं रसभवं शोध्यं मांसकारि च शोणितम् ॥ १००१ ॥ कीलालमाऽऽसुरं चेति रक्तनामानि सन्ति वै । ;c{* मांसनामानि *} आमिषं पिशितं मांसं काश्यपं पललं पलम् ॥ १००२ ॥ जङ्गलं लेपनं कीनमुद्धसं तरसं तथा । उद्धः रक्तभवं क्रव्यमाऽऽरटं च समारटम् ॥ १००३ ॥ रक्ततेजश्च मेदस्कृत् मांसनामानि मन्यते । पुनर्मांसलता नाम पेश्यः पेशी च कथ्यते ॥ १००४ ॥ बुक्को बुक्का च वृक्का हृद् हृदयं सुरसं तथा । अग्रमांसं हि नामानि मन्यते पण्डितो जनः ॥ १००५ ॥ शुष्कमांसमुतप्तं च वल्लूरं वल्लुरं पुनः । पूयं दुष्यं पण्डितेन र्दुर्गन्धमांसमुच्यते ॥ १००६ ॥ ;c{* मेदनामानि *} अस्थिकृद् मांसजं मेदो मांसतेजश्च गौतमम् । ;p{0155} तथा वपा वसा चेति मेदनामानि मन्यते ॥ १००७ ॥ ;c{* मस्तिष्कनामानि *} मस्तिष्को मस्तकस्नेहो गोदं स्यान् मस्तुलुङ्गकः । ;c{* अस्थिनामानि *} अस्थि सारस्तथा कुल्यं कीकसं देहधारकम् ॥ १००८ ॥ मेदस्तेजश्च मेदोजं मांसपित्तं च मज्जकृत् । भारद्वाजं तथा हड्डं श्वदयितं च कर्करः ॥ १००९ ॥ अस्थि नामानि सर्वाणि जानीयुः पण्डिताः सदा । करोटिश्च करोटी च शिरसोऽस्थनि कथ्यते ॥ १०१० ॥ कपालकर्परौ तुल्यौ शकलञ्चापि मन्यते । कशारुका कशेरुका पृष्ठस्यास्थ्नि निगद्यते ॥ १०११ ॥ नलकं कथ्यते शाखास्थनि वै वङ्क्रिपर्शुके । पार्श्वास्थ्नि मन्यते देहाऽऽस्थि त्वस्थिपञ्जरः पुनः ॥ १०१२ ॥ करङ्कश्चापि कङ्कालं कोविदैः कथ्यते किल । ;c{* मज्जानामानि *} अस्थिस्नेहोऽस्थितेजोऽस्थिसम्भवः कौशिकः पुनः ॥ १०१३ ॥ मज्जा शुक्रकरश्चेति मज्जानामानि मन्यते । ;p{0156} ;c{* शुक्रनामानि *} शुक्रं वीर्यं बलं बीजं पुंस्त्वं मज्जसमुद्भवम् ॥ १०१४ ॥ आनन्दप्रभवं किट्टवर्जितं रेत इन्द्रियं । प्रधानधातुः पौरुषं चेति शुक्रस्य कथ्यते ॥ १०१५ ॥ ;c{* रोमनामानि *} रोम लोम परित्राणं तनुरुहं तनूरुहम् । कूपजो मांसनिर्यासः त्वग्मलं बालपुत्रकः ॥ १०१६ ॥ ;c{* त्वङ्नामानि *} असृग्धराऽजिनं चर्म त्वक् कृत्तिः छादनी छविः । अजिनं चर्म कृत्तिस्तु नामानि मृगचर्मणः ॥ १०१७ ॥ ;c{* स्नायुनामानि *} स्नायुः स्नसा नसा स्नावा वस्नसा सन्धिबन्धनम् । तन्त्री तथा नखारुश्च स्नायुनामानि मन्यते ॥ १०१८ ॥ ;c{* नाडीनामानि *} सिराः शिराश्च नाड्यश्च धमनयो भवन्ति वै । नाटिका च नडिर्नाडिरित्यपि मन्यते बुधैः ॥ १०१९ ॥ ;c{* महास्नायुनाम *} कण्डरा च महास्नायुर्महानसा निगद्यते । ;p{0157} ;c{* मलनाम *} कथ्यते तन्मलं किट्टं दूषीका दूषिकाऽक्षिजम् ॥ १०२० ॥ जीह्वामलं कुलुकं स्याद् दन्त्यमलं तु पिप्पिका । कर्णमलं हि पिञ्जूषः शिङ्घाणो नासिकामलम् ॥ १०२१ ॥ शिङ्घाणकश्च सिङ्घाणं सिंहाणं सिंहानं तथा । सर्वाण्येतानि नामानि गीतानि पण्डितैः जनैः ॥ १०२२ ॥ ;c{* स्यन्दिनीनामानि *} सृणीका सृणिका लालाऽस्यास्रवः स्यन्दिनी तथा । वै कफकूचिका चेति नामानि प्रथितानि हि ॥ १०२३ ॥ ;c{* मूत्रनामानि *} प्रस्रावो नृजलं मूत्रं मेहो बस्तिमलं स्त्रवः । कथ्यन्ते मूत्रनामानि लिङ्गमलं तु पुष्पिका ॥ १०२४ ॥ ;c{* विष्ठानामानि *} उच्चारोऽवस्करो वर्चो वर्चस्कं शमलं शकृत् । विट् विष्ठाऽशुचि गूथं वै पुरीषं चेति मन्यते ॥ १०२५ ॥ ;c{* वेषनामानि *} वेषो नेपथ्यमाऽऽकल्पः वेशोऽपि च प्रयुज्यते । ;p{0158} परिकर्माऽङ्गसंस्कारः उद्वर्तनमुत्सादनम् ॥ १०२६ ॥ उच्छादनमपि ज्ञेयमङ्गरागो विलेपनम् । स्यात् समालभनं चर्चा चर्चिक्यं चन्दनादितः ॥ १०२७ ॥ ;c{* मण्डननामानि *} प्रसादनं मण्डनञ्च प्रतिकर्माऽपि ज्ञायताम् । ;c{* मार्जनानामानि *} मृजा च मार्जना मार्ष्टिः देहस्वच्छक्रिया भवेत् ॥ १०२८ ॥ ;c{* चूर्णनामानि *} वासयोगश्च चूर्णं स्यात् पिष्टातपटवासकौ । गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥ १०२९ ॥ निर्वेश उपभोगश्च स्त्र्याद्युपभोग उच्यते । ;c{* स्नाननामानि *} आप्लाव आप्लवः स्नानं सवनं चापि मन्यते ॥ १०३० ॥ ;c{* यक्षकर्दमनाम *} कर्पूराऽगुरुकक्कोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकर्दमो मिश्रैर्वर्त्तिर्गात्रानुलेपनी ॥ १०३१ ॥ ;p{0159} चन्दनाऽगरुकस्तूरीकुङ्कुमैस्तु चतुःसमम् । स लेपः कथितः शास्त्रे प्रसिद्धोऽपि महीतले ॥ १०३२ ॥ ;c{* अगरुनामानि *} अगुर्वगरु लोहं च कृमिजग्धं च जोङ्गकम् । वंशकं वंशिका शृङ्गं वंशाभं शीर्षकं तथा ॥ १०३३ ॥ अनार्यजं च राजार्हं कृमिजं च वरद्रुमः । प्रकरं प्रवरं गन्धदारु च मृदुलं लघु ॥ १०३४ ॥ तथा परमदश्चेति नामान्यपि भवन्ति हि । मल्लिगन्धि च मङ्गल्या विशिष्टमगुरुः पुनः ॥ १०३५ ॥ कालागरुः काकतुण्डः कथ्यतेऽप्यगुरुर्बुधैः । ;c{* चन्दननामानि *} एकाङ्गं गन्धसारश्च भद्रश्रीः फलकी तथा । मलयजश्च श्रीखण्डं चन्दने रोहणद्रुमः ॥ १०३६ ॥ गोशीर्षस्तैलर्णिकः प्रख्यातं हरिचन्दनम् । कुचन्दनं तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥ १०३७ ॥ तिलपर्णी ताम्रसारं पतङ्गं तिलपर्णिका । सर्वाण्येतानि नामानि जानीयाच्चन्दनस्य हि ॥ १०३८ ॥ ;p{0160} ;c{* जातिफलनामानि *} जातिफलं जातीफलं पुटकं मदशौण्डकम् । कोशफलं तथा जातिकोशं सौमनसं पुनः ॥ १०३९ ॥ ;c{* कर्पूरनामानि *} कर्पूरो घनसारश्च सिताभ्रो हिमवालुका । चन्द्रः कर्पूरवाची वै प्रयोगे दृश्यते सदा ॥ १०४० ॥ ;c{* कस्तूनामानि *} कस्तूरी गन्धधूली च कथ्यते मृगनाभिजा । मृगनाभिर्पुनश्चैव मृगमदोऽपि मन्यते ॥ १०४१ ॥ ;c{* केशरनामानि *} केशरं कुङ्कुमं रक्तं कालेयं करटं वरम् । कुसुमान्तं कुसुम्भं च सङ्कोचपिशुनं तथा ॥ १०४२ ॥ जपापुष्पं जवापुष्पं पिशुनं वासनीयकम् । कुसुमान्तं च संकोचं काश्मीरजन्म जागुडम् ॥ १०४३ ॥ प्रियङ्गु पीतकाबेरं पीतनं चापि दीपनम् । वाह्लीकं वाह्निकं वर्ण्यं वर्णं लोहितचन्दनन् ॥ १०४४ ॥ ;p{0161} घोरं च धुसृणं धीरं पुष्परजश्च गौरवम् । असृक्संज्ञपकर्याये वह्निशिखं च कथ्यते ॥ १०४५ ॥ ;c{* लवङ्गनामानि *} श्रीसंज्ञं स्यात् लवङ्गं श्रीपर्यायं देवकुसुमम् । ;c{* कोलकनामानि *} कक्कोलकं च कोलकं कोशफलं च कथ्यते ॥ १०४६ ॥ ;c{* कालीयकनामानि *} कालयकं तु कालानुसार्यं जायकजायके । ;c{* विशिष्टधूपनामानि *} रालः स्यात् सालवेष्टश्च यक्षधूपोऽग्निवल्लभः ॥ १०४७ ॥ सर्जमणिर्बहुरूपः सर्जरसः सर्वरसः । सिल्हस्तु सिल्हकश्चापि तुकष्को यावनस्तथा ॥ १०४८ ॥ वृकधूपश्च कृत्रिमधूपश्च पिण्डकः पुनः । विशिष्टं गन्धवस्तुकं प्रसिद्धं कथ्यते बुधैः ॥ १०४९ ॥ ;p{0162} ;c{* विविधधूपनामानि *} पायसो क्षीरधूपश्च दध्याह्वयो घृताह्वयः । क्षीराह्वयश्च श्रीवासः श्रीवेष्टः सरलद्रवः ॥ १०५० ॥ स्थानात् स्थानान्तरं गच्छन् धूपो गन्धपिशाचिका । ;c{* हस्तबिम्बनाम *} स्थासको हस्तबिम्बं च कथ्यते हस्तथापकः ॥ १०५१ ॥ ;c{* अलङ्कारनामानि *} आभरणमलङ्कारः परिष्कारश्च भूषणम् । ज्ञायतां भूषणं विश्वे विभिन्नभूषणं पुनः ॥ १०५२ ॥ ;c{* विभिन्नभूषणनामानि *} चूडारत्नं चूडामणिः शिरोरत्नं शिरोमणिः । तरलो नायकश्चापि हारान्तर्मणि उच्यते ॥ १०५३ ॥ ;c{* मुकुटनामानि *} उष्णीषं मुकुटं मौलिः किरीटं मकुटस्तथा । कोटीरं चेति नामानि मन्यते मुकुटस्य हि ॥ १०५४ ॥ ;c{* मालानामानि *} मूर्ध्नि माल्यञ्च माला च स्रक् तथा पुष्पदाम च । ;p{0163} तृतीयो मर्त्य विभागः केशमध्यगतं माल्यं गर्भकं कथ्यते किल ॥ १०५५ ॥ प्रभ्रष्टकं शिखालम्बि पुष्पमाला निगद्यते । ललामकं पुरोन्यस्तं पुष्पमाला हि मन्यते ॥ १०५६ ॥ वैकक्षं वक्षसि तिर्यक् सापि माला हि कथ्यते । प्रालम्बमृजुलम्बि च माला हि मन्यते बुधैः ॥ १०५७ ॥ सन्दर्भो श्रन्थनं गुम्फो ग्रन्थनं रचना पुनः । प्रतियत्नः परिस्यन्दः पुष्पमालाविशेषकः ॥ १०५८ ॥ ;c{* तिलकनामानि *} चित्रं च चित्रकं पुण्ड्रः तिलकं च विशेषकः । पुनस्तमालपत्रं स्यात् केशरादिसमाञ्चितम् ॥ १०५९ ॥ ;c{* अवतंसनामानि *} अवतंसो वतंसश्चाऽऽपीडश्च शेखरस्तथा । उत्तंसोऽपि च नामास्ति शिरसः स्रजि कुत्रचित् ॥ १०६० ॥ ;c{* कर्णपूरनामानि *} उत्तंसश्चाऽवतंसश्च कर्णपूरः श्रुतेः सजि । ;c{* पत्रलेखानामानि *} पत्रभङ्गिः पत्रभङ्गी पत्रलेखा पत्रलता ॥ १०६१ ॥ ;p{0164} पत्रवल्लि पत्रवल्ली पत्राङ्गुली पत्राङ्गुलिः । स्तनादिभूषणे पत्रवल्लरी पत्रमञ्जरी ॥ १०६२ ॥ ;c{* पत्रपाश्यानाम *} प्रोक्ता ललाटिका पत्रपाश्या च भालभूषणे । ;c{* वालपाश्यानामानि *} पार्यातथ्या पारतथ्या वालपाश्याच कथ्यते ॥ १०६३ ॥ पुनः पर्यवतथ्या हि केशबन्धनभूषणम् । ;c{* कर्णिकानाम *} कथ्यते कर्णिका किल कोविदैः कर्णभूषणम् ॥ १०६४ ॥ ;c{* कुण्डलनामानि *} कुण्डलं ताडपत्रं च ताडङ्कः कर्णवेष्टकः । कर्णादर्शश्च सौवर्णः कर्णयोः स्वर्णभूषणे ॥ १०६५ ॥ उत्क्षिप्तिका च कर्णान्दुः कर्णान्दूः कर्णभूषणे । बालिका वालिका चाऽस्ति भूषणं कर्णपृष्ठगा ॥ १०६६ ॥ ;c{* कण्ठभूषानाम *} ग्रैवेयकं कण्ठभूषा ग्रीवायाः भूषणं भवेत् । ललन्तिका लम्बमाना हेम्ना प्रालम्बिका कृता ॥ १०६७ ॥ ;p{0165} मौक्तिकैश्च कृता माला स्यादुरःसूत्रिका किल । ;c{* हारनामानि *} हारो मुक्ताप्रालम्बश्च मुक्तालता तथैव च । मुक्तावली च मुक्तास्त्रक् मुक्ताकलाप उच्यते ॥ १०६८ ॥ देवच्छन्दः शतमिन्द्रच्छन्दः साष्टसहस्रकम् । तस्यार्धं विजयछन्दो हारश्चाष्टोत्तरं शतम् ॥ १०६९ ॥ रश्मिकलापस्तस्यार्धं द्वादशस्त्वर्धमाणवः । चतुर्विंशत्यर्धगुच्छः पञ्च हारफलं लताः ॥ १०७० ॥ चतुःषष्टिरर्धहारः गुच्छः स्यात् षोडशद्वयम् । माणवः षोडशश्चैव मन्दरोऽष्टयुतस्तथा ॥ १०७१ ॥ चत्वारो गोस्तनश्चैव गोपुच्छोऽपि द्विकः किल । यष्टिभेदादिमे हाराः चतुर्युक्ता दशस्मृताः ॥ १०७२ ॥ एकावली कण्ठिका च लतैका त्वेकयष्टिका । कथ्यतेऽप्यत्र नक्षत्रमाला तत्सङ्ख्यमौक्तिकैः ॥ १०७३ ॥ ;c{* केयूरनामानि *} अङ्गदं केयूरं चैव बाहुभूषा च मन्यते । ;c{* वलयनामानि *} अवापः पारिहार्यश्च परिहार्यः प्रतिसरः ॥ १०७४ ॥ ;p{0166} कङ्कणं हस्तसूत्रं च कटकः करभूषणम् । वलयं चेति नामानि वदन्ति विबुधाः सदा ॥ १०७५ ॥ ;c{* ऊर्मिकानाम *} भवेदङ्गुलिभूषायामङ्गुलीयकमूर्मिका । पुनश्च साक्षरा सापि भवत्यङ्गुलिमुद्रिका ॥ १०७६ ॥ ;c{* कटिसूत्रनामानि *} कटीसूत्रं कलापश्च काञ्ची च कटमालिका । रशना रसना चैव सारसनं च सप्तकी ॥ १०७७ ॥ मेखला लालिनी चेति स्त्रीकटिस्था हि कथ्यते । पुनः सा पुंस्कटिस्था वै शृङ्खलं मन्यते बुधैः ॥ १०७८ ॥ ;c{* घर्घरीनामानि *} किङ्कणी किङ्कणिर्विद्या किङ्किणी किङ्किणिस्तथा । विद्यामणिर्घर्घरी स्यात् कङ्कणी क्षुद्रघण्टिका ॥ १०७९ ॥ ;c{* नूपुरनामानि *} पादाङ्गदं तुलाकोटिः नूपुरं पादनालिका । शिञ्जिनी पादशीली च पादशाली च हंसकम् ॥ १०८० ॥ मन्दीरं चापि मञ्जीरं वै पादकटकं पुनः । नूपुरस्येति नामानि विज्ञायन्ते सदा बुधैः ॥ १०८१ ॥ ;p{0167} ;c{* पादपालिकानामानि *} पादाङ्गुलीयकं पादपालिका पादकीलिका । चरणाङ्गुलिभूषायां नामत्रयं च ज्ञायताम् ॥ १०८२ ॥ ;c{* वस्त्रनामानि *} अम्बरमंशुकं वस्त्रं वासश्च वसनं पटः । आच्छादनं च सिक् सत्रं चीरं चेलं च कर्पटम् ॥ १०८३ ॥ आच्छादः सिचयश्चापि वस्नं निवसनं पुनः । प्रोतश्चैतानि नामानि वस्त्रस्य कथ्यते बुधैः ॥ १०८४ ॥ अञ्चलं वस्त्रप्रान्तं स्याद् वर्तिर्वस्ति दशाः पुनः । वस्त्रपेशी च प्रख्याता शोभायाः वर्द्धनी शुभा ॥ १०८५ ॥ पत्रोणं धौतकौशेयं क्षोमवस्त्रं हि कथ्यते । मूर्धवेष्टनमुष्णीषः ख्यातं शिरसि वेष्टनम् ॥ १०८६ ॥ धौतयोर्वस्त्रयोर्युग्ममुद्गमनीयमुच्यते । त्वक्फलकृमिरोमेभ्यः सम्भवात् तच्चतुर्विधम् ॥ १०८७ ॥ क्षौमकार्पासकौशेयराङ्कवादिविभेदतः । ;p{0168} ;c{* शणादिवस्त्रनामानि *} दुकूलं स्याद् दुगूलं च क्षौमं शणादिजं पटम् । कार्पासं बादरं फालं कार्पासोत्थं हि कर्पटम् ॥ १०८८ ॥ कौशेयं कृमिकोशोत्थं कथ्यते क्षोमवस्त्रकम् । मृगस्य रोमजं वस्त्रं राङ्कवं मृगरोमजम् ॥ १०८९ ॥ ;c{* कम्बलनामानि *} ऊर्णायुराविकश्चैव रल्लकः कम्बलस्तथा । औरभ्रश्चैति नामानि मन्यन्ते कम्बलस्य हि ॥ १०९० ॥ ;c{* अनाहतनामानि *} तन्त्रकं निष्प्रवाणि स्यान्नवं वस्त्रं त्वनाहतम् । ;c{* प्रावरणनामानि *} प्रच्छादनं च संव्यानं प्रावरणोत्तरीयके ॥ १०९१ ॥ ;c{* उत्तरासङ्गनामानि *} वैकक्षमुत्तरासङ्गः स्यात् प्रावारो बृहतिका । ;c{* स्थूलशाटनाम *} वराशिः स्थूलशाटश्च कथ्यते स्थूलवस्त्रकम् ॥ १०९२ ॥ ;p{0169} ;c{* परिधाननामानि *} अधांशुकपरिधाने उपसंव्यानमित्यपि । निवसनं चान्तरीयमधोवस्त्रं निगद्यते ॥ १०९३ ॥ ;c{* नीवीनाम *} उच्चयश्चापि नीवी वै तद्ग्रन्थिः कथ्यते बुधैः । ;c{* चण्डातकनाम *} वरस्त्र्यर्धोरुकांशुकं चलनकश्चण्डातकम् ॥ १०९४ ॥ चलनी त्वितरस्त्रियाः कथ्यतेऽर्धोरुकांशुकम् । ;c{* कञ्चुकनामानि *} कञ्चुलिका च कूर्पासश्चाङ्किका खलु कञ्चुके ॥ १०९५ ॥ चोलः कूर्पासिकश्चेति नामानि कञ्चुकस्य हि । ;c{* शाटीनामानि *} शाटी च शाटकश्चोटी कथ्यते शाटकस्य वै ॥ १०९६ ॥ ;c{* नीशारनामानि *} द्विखण्डकश्च नीशारं हिमवातापहांशुकम् । वरकश्चेति नामानि मन्यते वरकस्य वै ॥ १०९७ ॥ ;p{0170} ;c{* कच्छानामानि *} कच्छाटिका च कच्छाटी कच्छा कक्षा च कथ्यते । ;c{* कौपीननामानि *} कक्षापटश्च कौपीनं कक्षापुटोऽपि मन्यते ॥ १०९८ ॥ ;c{* नक्तकनाम *} नक्तकः कर्पटश्चैव प्रोक्तं वस्त्रस्य खण्डकम् । ;c{* उत्तरच्छदनामानि *} निचुलकं च प्रच्छदपटस्तथोत्तरच्छदः ॥ १०९९ ॥ निचोलो निचुलश्चोक्तं शय्याङ्गस्य वस्त्रकम् । ;c{* पूर्णपात्रनाम *} बलदाकृष्य सुहृद्भिर्यदुत्सवेषु गृह्यते ॥ ११०० ॥ वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं पुनः । ;c{* आप्रपदीननामा *} तत् स्यादाप्रपदीनञ्च व्याप्नोत्याप्रपदं हि यत् ॥ ११०१ ॥ ;c{* भिक्षुसङ्घाटीनाम *} चीवरं भिक्षुसङ्घाटी भिक्षोर्वस्त्रं हि मन्यते । ;p{0171} ;c{* जीर्णवस्त्रनाम *} पटच्चरं तथा जीर्णवस्त्रं वदन्ति पण्डिताः ॥ ११०२ ॥ ;c{* छिद्रवस्त्रनामानि *} छिद्रवस्त्रं तथा शाणी गोणी चेति निगद्यते । ;c{* क्लिन्नवासनाम *} जलार्द्रा क्लिन्नवासोऽपि आर्द्रवस्त्रं निगद्यते ॥ ११०३ ॥ ;c{* पर्यङ्कनामानि *} पर्यस्तिका च पर्यङ्कः पल्यङ्कश्चावसक्थिका । परिकरश्च नामानि पर्यङ्कस्य हि मन्यते ॥ ११०४ ॥ ;c{* परिस्तोमनामानि *} वर्णो वणपरिस्तोमः परिस्तोमः कुथस्तथा । आस्तर आस्तरञ्च प्रवेणी नवतं पुनः ॥ ११०५ ॥ ;c{* जवनीनामानि *} अपटी प्रतिसीरा च जवनी काण्डपटस्तथा । स्यात्तिरस्करिणी नाम ज्ञायतां यमनी पुनः ॥ ११०६ ॥ ;c{* विताननामानि *} चन्द्रोदयो वितानं स्यादुल्लोचः कदकस्तथा । ;p{0172} ;c{* दुष्यनाम *} दूष्यं स्थूलं च वस्त्रस्य गृहं प्रोत्तं विशालकम् ॥ ११०७ ॥ लघुगृहं तु वस्त्रस्य केडिका पटकुटी पुनः । गुणलयनिका नाम बुधैर्विज्ञायते तथा ॥ ११०८ ॥ ;c{* संस्तरनामानि *} स्त्रस्तरः संस्तरश्चैव प्रस्तरः शयितुं भवेत् । ;c{* शय्यानामानि *} शयनं शयनीयं च तल्पं च तलिमं तथा ॥ ११०९ ॥ शय्या चैतानि नामानि मन्यते हि महीतले । ;c{* खट्वानामानि *} खट्वा पर्यङ्कपल्यङ्कौ मञ्चः स्यान् मञ्चकः पुनः ॥ १११० ॥ ;c{* उच्छोर्षकनामानि *} उपधानमुपबर्हश्चोक्तमुच्छीर्षकं तथा । ;c{* पतद्ग्रहनामानि *} पालः पतद्ग्रहश्चापि पतद्ग्राहः प्रतिग्रहः ॥ ११११ ॥ ;p{173} प्रतिग्राहश्च नामास्ति थूत्पात्रं पञ्चनामकम् । ;c{* दर्पणनामानि *} आदर्शश्चात्मदर्शश्च दर्पणोऽपि प्रयुज्यते ॥ १११२ ॥ मकुरो मुकुरश्चेति नामानि दर्पणस्य हि । ;c{* वेत्रासननाम *} वेत्रासनमाऽऽसन्दी च वेत्रेण निर्मितं भवेत् ॥ १११३ ॥ ;c{* आसननामानि *} आसनं विष्टरः पीठं चेति नामानि मन्यते । ;c{* कसिपुनाम *} कसिपुः कशिपुश्चापि वस्त्रभोजनयोः स्मृतः ॥ १११४ ॥ ;c{* औशीरनाम *} औशीरं शयने प्रोक्तमासने चापि कथ्यते । ;c{* लाक्षानामानि *} लाक्षा राक्षा क्षतघ्ना च रङ्गमाता द्रुमालयः ॥ १११५ ॥ प्रोक्तं पलङ्कमा नाम जतु वै कृमिजा तथा । ;c{* अलक्तनामानि *} अलक्तोऽलक्तको यावो यावकश्चापि तद्रसः ॥ १११६ ॥ ;p{0174} ;c{* अञ्जननाम *} अञ्जनं कज्जलं चेति ख्यातं सर्वत्र दृश्यते । ;c{* दीपनामानि *} प्रदीपो दीपको दीपो दशाकर्षो दशेन्धनः ॥ १११७ ॥ स्नेहप्रियश्च कज्जलध्वजो गृहमणिस्तथा । ;c{* व्यजननामानि *} कथ्यते तालवृन्तं तु व्यजनं वीजनं पुनः ॥ १११८ ॥ मृगस्य चर्मणो नाम धवित्रं मन्यते खलु । आलावर्त्तं तु वस्त्रेण निर्मिते व्यजने भवेत् ॥ १११९ ॥ ;c{* केशमार्जननामानि *} प्रसाधनः कङ्कतश्च केशमार्जनमुच्यते । ;c{* गुडनामानि *} गिरिगुडो गुडो गिरिः गिरिकश्च गिरीयकः ॥ ११२० ॥ गिरियकस्तथा बालक्रीडनकं च कथ्यते । ;c{* कन्दुकनामानि *} कन्दुको गेन्दुकश्चैव गन्दुकोऽपि प्रयुज्यते ॥ ११२१ ॥ ;p{0175} ;c{* नृपनामानि *} भूभृत् भूपश्च भूपालो लोकपालश्च पार्थिवः । मूर्धाभिषिक्तमूर्धावसिक्तौ राजा च राट् तथा ॥ ११२२ ॥ महीक्षित् मध्यलोकेशो नरपालो नृपः पुनः । प्रजापः पृथिवीशक्रो मण्डलाधीशमध्यमौ ॥ ११२३ ॥ सम्राट् तु शास्ति यो भूपान् यः सर्वमण्डलाधिपः । योऽयजत् राजसूयं च स सम्राट् मन्यते जनैः ॥ ११२४ ॥ ;c{* चक्रवर्त्तिनामानि *} चक्रवर्ती सार्वभौमः सैवाधीश्वर उच्यते । अस्यामवसर्पिण्यां ते द्वादश भारतेऽजनि ॥ ११२५ ॥ ;c{* द्वादशचक्रवर्त्तिनामानि *} भरत आर्षभिस्तत्र सगरश्च सुमित्रभूः । वैजयिर्मघवा चाथाश्वसेननृपनन्दनः ॥ ११२६ ॥ तथा सनत्कुमारोऽथ शान्तिः कुन्थुररो जिनाः । कार्त्तवीर्य सुभूमोऽथ पद्मः पद्मोत्तरात्मजः ॥ ११२७ ॥ हरिसुतो हरिषेणो विजयनन्दनो जयः । ब्रह्मदत्तो ब्रह्मसूनुः सर्वेऽपीक्ष्वाकुवंशजाः ॥ ११२८ ॥ जैनागमेषु प्रोक्तानि नामानि चक्रवर्तिनाम् । ;p{0176} ;c{* नवार्द्धचक्रवर्त्तिवासुदेवनामानि *} प्राजापत्यस्त्रिपृष्ठोऽथ द्विपृष्ठब्रह्मसम्भवौ ॥ ११२९ ॥ स्वयम्भू रुद्रतनयः सोमभूः पुरुषोत्तमः । शैवः पुरुषसिंहोपि महाशिरस्समुद्भवः ॥ ११३० ॥ पुकषपुण्डरीकस्तु दत्तोऽग्निसिंहनन्दनः । दाशरथिर्नारायणः कृष्णस्तु वसुदेवभूः ॥ ११३१ ॥ वासुदेवा नवैतानि कृष्णवर्णार्जितानि वै । ;c{* नवबलदेवनामानि *} बलदेवाः नव शुक्लाः कथ्यन्ते पुनरत्र हि ॥ ११३२ ॥ अचलो विजयो भद्रः सुप्रभोऽपि सुदर्शनः । आनन्दो नन्दनश्चैव पद्मो रामस्तथा किल ॥ ११३३ ॥ ;c{* नवप्रतिवासुदेवनामानि *} अथ विष्णुद्विषः प्रोक्ताः तन्नामानि नवाऽत्र हि । अश्वग्रीवश्च तारकस्तथा वै मेरको मधुः ॥ ११३४ ॥ निशम्भो बलिप्रह्लादौ लङ्केशः रावणोऽष्टमः । नवमस्तु जरासन्धः कथ्यते मगधेश्वरः ॥ ११३५ ॥ शलाकापुरुषो शास्त्रे सजिनेन्द्रास्त्रिषष्टिकाः । तथैवमुत्सर्पिण्यां हि नाम भिन्नैस्तु जानताम् ॥ ११३६ ॥ ;p{0177} शास्त्रे हि भाषिताः सर्वे ख्याताः लोकेऽपि सर्वदा । ;c{* आदिराजनामानि *} आदिराजः पृथुर्वैन्यो मान्धाता युवनाश्वजः ॥ ११३७ ॥ कुवलाश्वो धुन्धुमारो हरिश्चन्द्रस्त्रिशङ्कुजः । उर्वशीरमणश्चैलो बोधः पुरूरवास्तथा ॥ ११३८ ॥ सर्वंदमश्च सर्वदमनः शकुन्तलात्मजः । दौष्यन्तिर्भरतः ख्यातः कार्त्तवीर्यस्तु हैहयः ॥ ११३९ ॥ अर्जुनो दोः सहस्रभृद् कौशल्यानन्दनस्तु वै । रामश्च रामचन्द्रश्च रामभद्रोऽपि मन्यते ॥ ११४० ॥ पुनर्दासरथिः प्रोक्तः ख्यातो जगति सर्वदा । ;c{* सीतानामानि *} रामप्रिया हि नामास्ति वैदेही धरणीसुता ॥ ११४१ ॥ मैथिली जानकी सीता प्रख्याता पृथिवीतले । ;c{* कुशीलवनाम्नी *} रामसुतौ कुशलवावेकयोक्त्या कुशीलवौ ॥ ११४२ ॥ ;c{* लक्ष्मणनाम्नी *} सौमित्रिर्लक्ष्मणो नाम कथ्यते र्लक्ष्मणस्य हि । ;p{0178} ;c{* वालीनामानि *} वाली वालिश्च सुग्रीवाग्रजश्चेन्द्रसुतो भवेत् ॥ ११४३ ॥ ;c{* सुग्रीवनाम्नी *} सुग्रीवस्तथाऽऽदित्यसूनुर्नाम निगद्यते । ;c{* हनुमाननामानि *} हनूमान् हनुमान् चैव मारुतिर्वज्रकङ्कटः ॥ ११४४ ॥ पुनः स्यात् केशरीसुत आञ्जनेयोऽर्जुनध्वजः । ;c{* रावणनामानि *} लङ्कापतिस्तु लङ्केशः पौलस्त्यो दशकन्धरः ॥ ११४५ ॥ दशशिराः दशास्यश्च दशकण्ठश्च रावणः । राक्षसेशो रक्षईशश्चेति नामानि मन्यते ॥ ११४६ ॥ ;c{* इन्द्रजित्-नामानि *} इन्द्रजित् शक्रजिच्चैव मेघनादश्च रावणिः । मन्दोदरीसुतः प्रोक्तं नाम रावणनन्दनः ॥ ११४७ ॥ ;c{* युधिष्ठिरनामानि *} अजमीढस्तथाऽजातशत्रुर्युधिष्ठिरः पुनः । धर्मपुत्रश्च शल्यारिः कङ्कश्च कथ्यते किल ॥ ११४८ ॥ ;p{0179} ;c{* भीमसेननामानि *} भीमश्च भीमसेनश्च बकनिषूदनस्तथा । किर्मीरारिश्च किर्मीरनिषूदनो वृकोदरः ॥ ११४९ ॥ स्थाद् हिडिम्बनिषूदनः वै कीचकनिषूदनः । मरुत्पुत्रश्च नामानि भीमस्य कथितानि वै ॥ ११५० ॥ ;c{* अर्जुननामानि *} अर्जुनः कर्णजित् पार्थः राधावेधी धनञ्जयः । सव्यसाची सुभद्रेशः किरीटी च कपिध्वजः ॥ ११५१ ॥ ऐन्दिर्धन्वी नरो योगी जिष्णुः चित्राङ्गसूदनः । बीभत्सश्च बीभत्सुर्वै गुडाकेशो बृहन्नटः ॥ ११५२ ॥ विजयश्चित्रयोधी च कृष्णपक्षश्च फाल्गुनः । श्वेतहयश्च कर्णारिश्चेति नामानि मन्यते ॥ ११५३ ॥ पुनस्तस्य रथो नन्दिघोषनाम निगद्यते । धनुस्तु गाण्डिवं चैव गाण्डीवमर्जुनस्य हि ॥ ११५४ ॥ ग्रथिकः सहदेवश्च नकुलः तन्तिपालकः । माद्रीपुत्रौ च माद्रेयौ कौन्तेयाः कुन्तिपुत्रकाः ॥ ११५५ ॥ ;c{* पाण्डवनामानि *} पाण्डवाः पाण्डवेयाश्च तथैव पाण्डवायनाः । ;p{0180} ;c{* द्रौपदीनामानि *} सैरन्ध्री द्रौपदी कृष्णा वेदिजा नित्ययौवना ॥ ११५६ ॥ याज्ञसेनी च पाञ्चाली नामानि सप्त सन्ति वै । ;c{* कार्णनामानि *} राधेयश्चाङ्गराट् चैव कर्णश्चम्पाधिपस्तथा ॥ ११५७ ॥ राधासुताऽर्कतनयः कर्णनामानि सन्ति वै । पुनस्तस्य धनुर्नाम कालपृष्ठं हि मन्यते ॥ ११५८ ॥ ;c{* श्रेणिकनाम *} प्रख्यातः श्रेणिको भूपो भम्भासारोऽपि कथ्यते । ;c{* सालवाहननामानि *} स्यात् सालवाहनो राजा हालश्च सातवाहनः ॥ ११५९ ॥ ;c{* कुमारपालनामानि *} कुमारपालभूपालश्चौलुक्यः परमार्हतः । राजर्षिश्चापि धर्मात्मा मारिव्यसनवारकौ ॥ ११६० ॥ तथा मृतस्वमोक्ता वै कथ्यते पण्डितैरिह । ;c{* राजवंश्यनाम *} राजबीजी राजवंशी राजवंश्योऽपि कथ्यते ॥ ११६१ ॥ ;p{0181} ;c{* वंशजनामानि *} वंश्यश्च वंशजो बीज्यश्चेति नामानि मन्यते । ;c{* राज्यस्य सप्ताङ्गनामानि *} स्वाम्यऽमात्यस्तथा सुहृत् कोशो राष्ट्रं दुर्गो बलम् ॥ ११६२ ॥ एतानि सप्त नामानि राज्याङ्गविनिरूपणे । प्रकृतयस्तु प्रख्याताः पौराणां श्रेणयश्च ताः ॥ ११६३ ॥ तन्त्रं वै निजराष्ट्रस्य चिन्ता प्रोक्तं महीतले । आवापः परराष्ट्रस्य चिन्ता लोके हि कथ्यते ॥ ११६४ ॥ ;c{* परिवारनामानि *} परिवारः परिस्यन्दः परिकरः परिच्छदः । तन्त्रं च परिबर्हश्च परिजनः परिग्रहः ॥ ११६५ ॥ तथोपकरणं परिबर्हणं परिवर्हणम् । नामान्येतानि जानीयाद् राजभृत्यस्य सर्वदा ॥ ११६६ ॥ ;c{* राजशय्यानामानि *} राजशय्या महाशय्या नृपशय्याऽपि मन्यते । ;p{0182} ;c{* राजसिंहासननामानि *} सिंहासनं सुवर्णस्य रूपादेस्तु नृपासनम् ॥ ११६७ ॥ भद्रासनं पुनः प्रोक्तं नृपयोग्यं हि भूतले । ;c{* राजछत्रनामानि *} अथोष्णवारणं नृपलक्ष्म चाऽऽतपत्रं पुनः ॥ ११६८ ॥ आतपवारणं छत्रं राजछत्रं हि कथ्यते । ;c{* चामरनामानि *} चमरश्चामरं रोमगुच्छश्च वालव्यञ्जनम् ॥ ११६९ ॥ प्रकीर्णकश्च नामानि मन्यते चामरस्य वै । ;c{* स्थगीनाम *} स्थगी ताम्बूलकरङ्कस्ताम्बूलपात्रमुच्यते ॥ ११७० ॥ ;c{* भृङ्गारनाम *} भृङ्गारः कनकालुका हेमकुम्भो हि कथ्यते । ;c{* पूर्णकुम्भनाम *} पूर्णकुम्भो भद्रकुम्भो जलयुक्तो निगद्यते ॥ ११७१ ॥ ;c{* पादपीठनाम *} पदासनं तथा पादपीठं प्रोक्तं महीतले । ;p{0183} ;c{* मन्त्रिनामानि *} अमात्यः सचिवो बुद्धिसहायः सामवायिकः ॥ ११७२ ॥ प्रधानो धीसखो मन्त्री नियोगी व्यापृतश्च सः । कर्मसहाय आयुक्तः कर्मसचिव उच्यते ॥ ११७३ ॥ ;c{* न्यायाधीशनामानि *} न्यायद्रष्टा तथा प्राड्विवाकोऽक्षदर्शकः पुनः । स्थेयश्चैतानि नामानि न्यायाधीशस्य सन्ति वै ॥ ११७४ ॥ ;c{* मुख्यप्रधाननामानि *} महामात्रः प्रधानश्च मुख्यमन्त्री हि मन्यते । ;c{* पुरोहितनामानि *} पुरोहितः पुरोधाश्च सौवस्तिकोऽपि कथ्यते ॥ ११७५ ॥ ;c{* द्वारपालकनामानि *} उत्सारकः प्रतीहारो द्वारस्थो द्वारपालकः । द्वाःस्थितिदर्शको दण्डी द्वास्थश्च द्वाःस्थितस्तथा ॥ ११७६ ॥ क्षत्ता वेत्रधरो वेत्री प्रोक्तो दौवारिकः पुनः । ;p{0184} ;c{* रक्षिवर्गनाम *} रक्षिवर्गेऽनिकस्थश्च कथ्यते ह्यङ्गरक्षकः ॥ ११७७ ॥ ;c{* अधिकृतनामानि *} अधिकृतस्तथाऽध्यक्षश्चाधिकारी हि कथ्यते । ;c{* पाचकनामानि *} पौरोगवः सूदाध्यक्षो वरिष्ठः पाचको जनः ॥ ११७८ ॥ औदनिको गुणः सूपः सूपकारश्च वल्लवः । सूद आरालिकश्चैव भक्तकारश्च कथ्यते ॥ ११७९ ॥ ;c{* कनकाध्यक्षनामानि *} भैरकः कनकाध्यक्षो हेमाध्यक्षश्च हैरिकः । ;c{* रूपाध्यक्षनामानि *} रूप्याध्यक्षस्तु स एव टङ्कपतिर्हि नैष्किकः ॥ ११८० ॥ ;c{* स्थानाध्यक्षनाम *} कथ्यते स्थानिकः स्थानाध्यक्षश्च साक्षरैः किल । ;c{* शुल्काध्यक्षनाम *} शुल्काध्यक्षश्च शौल्किकः कथ्यते विबुधैरिह ॥ ११८१ ॥ ;p{0185} ;c{* शुल्कनाम *} शुल्कं घट्टादिदेयं स्वं ख्यातं विश्वे हि सर्वदा । ;c{* धर्माध्यक्षनामानि *} धर्माधिकरणी स्याद् वै धर्माध्यक्षश्च धार्मिकः ॥ ११८२ ॥ ;c{* हट्टाध्यक्षनाम *} अथाऽधिकर्मिको हट्टाध्यक्षश्च कथ्यते पुनः । ;c{* दण्डनायकनामानि *} चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥ ११८३ ॥ ग्रामेषु भूरिषु गोपौ कथ्यते जगती जनैः । स्थायुकोऽधिकृतो ग्रामे मन्यतेऽपि महीतले ॥ ११८४ ॥ ;c{* अन्तःपुराध्यक्षनामानि *} अथ चाऽन्तःपुराध्यक्षोऽन्तर्वंशिकाऽऽन्तर्वंशिकौ । तथाऽन्तर्वेश्मिकः आन्तर्वेश्मिकः आवरोधिकः ॥ ११८५ ॥ आन्तःपुरिक-शुद्धान्ताध्यक्षस्तथाऽवरोधिकः । अन्तःपुराध्यक्षस्यात्र नामानि नव मन्यते ॥ ११८६ ॥ ;c{* पारिकर्मिकनाम *} पतिस्तूपकरणानां कथ्यते पारिकर्मिकः । ;p{0186} ;c{* पुराध्यक्षनामानि *} कोट्टपतिः पुराध्यक्षः पौरिको दाण्डपाशिकः ॥ ११८७ ॥ ;c{* अन्तःपुरनामानि *} शुद्धान्तोऽन्तःपुरं प्रोक्तमवरोधोऽवरोधनम् । ;c{* अन्तःपुररक्षकनामानि *} सौविदाः सौविदल्लाः स्यात् स्थापत्याश्च कञ्चुकिनः ॥ ११८८ ॥ षण्ढो वर्षवरः प्रोक्तः क्लीबेऽन्तःपुररक्षकः । ;c{* शत्रुनामानि *} शत्रश्च शात्रवोऽमित्रः प्रत्यनीकः परस्तथा ॥ ११८९ ॥ विपक्षः प्रत्यवस्थाता सपन्थः परिपन्थकः । प्रत्यर्थी परिपन्थी च प्रतिपक्षः रिपुः पुनः ॥ ११९० ॥ असहनोऽसुहृद् दुर्हृद् द्वेषी दस्युस्तथा द्विषन् । अरातिः अभिमातिश्चाऽभियाति द्विट् तथाऽहितः ॥ ११९१ ॥ अरिर्वैरी जिघांसुश्च रिपोर्नामानि मन्यते । ;p{0187} ;c{* वैरनामानि *} विरोधश्चापि विद्वेषो वैरं चेति निगद्यते ॥ ११९२ ॥ ;c{* मित्रनामानि *} मित्रं सखा सहायश्च वयस्यः सवयास्तथा । सुहृत् साप्तपदीनश्च स्निग्धः सहचरो भवेत् ॥ ११९३ ॥ ;c{* मैत्रीनामानि *} सौहार्दं सौहृदं सख्यमजर्यं सङ्गतं तथा । मैत्री साप्तपदीनं च मित्रता नाम कथ्यते ॥ ११९४ ॥ ;c{* सभाजननामानि *} आनन्दनं सभाजनमाप्रच्छनं स्वभाजनम् । विषयानन्तरो भूपः शत्रुरित्युच्यते सदा ॥ ११९५ ॥ अतः परं मित्रमूदासीनः परतरः पुनः । पृष्ठतः प्रार्ष्णिग्राहोऽस्ति भिन्नभिन्नार्थवाचकः ॥ ११९६ ॥ अनुरोधोऽनुवृत्तिश्च यथेच्छावर्तनं भवेत् । ;c{* चरनामानि *} चरश्चारोऽवसर्पश्च मन्त्रविद् गूढपूरुषः ॥ ११९७ ॥ स्पशो यथार्हवर्णश्च वार्त्तायनश्च हेरिकः । प्रणिधिश्चेति नामानि कथयन्ति चरस्य वै ॥ ११९८ ॥ ;p{0188} आप्तप्रत्ययितौ तुल्यावविसंवादिवाक् तथा । गृहपतिस्तु सत्रिणी नाम वै कथ्यते बुधैः ॥ ११९९ ॥ सन्देशहारको दूतः ख्यातः सन्धिस्तु विग्रहः । यानं तथाऽऽसनं द्वैधमाऽऽश्रयश्चेति षड्गुणाः ॥ १२०० ॥ उक्ता हि शक्तयस्तिस्रः प्रभुत्वोत्साहमन्त्रजाः । सामदामभेददण्डा उपायाः शासने स्थिताः ॥ १२०१ ॥ प्रियभाषादयो यत्र प्रोक्तं तत् साम सान्त्वनम् । उपजापस्तु भेदः स्याद् दण्डस्तु साहसं दमः ॥ १२०२ ॥ ;c{* दाननामानि *} उपहार उपग्राह्य उपचार उपायनम् । उत्कोच उपदा लञ्चा प्राभृतं ढौकनं पुनः ॥ १२०३ ॥ उपप्रदानमाऽऽमिषं कौशलिकं तथैव च । एतानि दाननामानि वदन्ति विबुधाः जनाः ॥ १२०४ ॥ ;c{* मायानामानि *} इन्द्रजालमुपेक्षा च मायाऽपि कथ्यते पुनः । क्षुद्रोपाया त्रयश्चैते प्रख्याताः पृथिवीतले ॥ १२०५ ॥ ;c{* मृगयानामानि *} मृगयाऽक्षाः स्त्रियः पानं वाक्पारुष्याऽर्थदूषणे । दण्डपारुस्यं चेत्येतद् धेयं व्यसनसप्तकम् ॥ १२०६ ॥ ;p{0189} आदानं सर्वतो लोकाद् अदानं च निषेधकम् । परित्यागो विनाशश्च चतुर्विधार्थदूषणम् ॥ १२०७ ॥ ;c{* पराक्रमनामानि *} शौण्डीर्यं पौरुषं शौर्यं विक्रमश्च पराक्रमः । ;c{* प्रतापनाम *} यत् कोशदण्डजं तेजः स प्रभावः प्रतापवान् ॥ १२०८ ॥ धर्मादर्थाच्च कामाच्च भित्यादेश्च पुनः खलु । अमात्यादेः परीक्षा या सोपधा कथ्यते बुधैः ॥ १२०९ ॥ मन्यतेऽषडक्षीणं वै मन्त्रणं रहसि द्वयोः । ;c{* मन्त्रनाम *} लोके हि कथ्यते मन्त्रो रहस्यालोचनं किल ॥ १२१० ॥ ;c{* एकान्तनामानि *} एकान्तं केवलं छन्नं विविक्तं विजनं तथा । उपह्वरं रहश्चैव निशलाकं निगद्यते ॥ १२११ ॥ ;c{* गुह्यनाम *} रहस्यं चापि गुह्यं वै गुप्तयोग्यं हि मन्यते । ;p{0190} ;c{* न्यायनामानि *} नीतिर्न्यायो नयः कल्पो देशरूपं समञ्जसम् ॥ १२१२ ॥ अभ्रेषश्चेति नामानि प्रथितानि महीतले । ;c{* न्याय्यनामानि *} उचितं चाभिनीतं च युक्तं प्राप्तं च साम्प्रतम् ॥ १२१३ ॥ न्याय्यमौपयिकं लभ्यं भजमानमपि मन्यते । ;c{* अधिकारनाम *} अधिकारः प्रक्रिया च व्यवस्था कार्यमुच्यते ॥ १२१४ ॥ ;c{* मर्यादानामानि *} मर्यादा धारणा संस्था स्थितिः स्यान्न्यायसंस्थितिः । ;c{* अपराधनामानि *} व्यलीकं विप्रियं मन्तुः आगाऽपराध उच्यते ॥ १२१५ ॥ ;c{* करनामानि *} करो बलिर्भागधेयो द्विपाद्यो द्विगुणो दमः । ;c{* सेनानामानि *} अनीकं कटकं तन्त्रं सेना सैन्यमनीकिनी ॥ १२१६ ॥ ;p{0191} वरूथिनी चमूश्चक्रं पृतना च पताकिनी । शिबिरो ध्वजिनी दण्डः स्कन्धावारश्च वाहिनी ॥ १२१७ ॥ बलश्चैतानि नामानि विजानन्ति मनीषिणः । ;c{* शिबिरनाम *} विश्वे सैन्यस्थितिः प्रोक्ता प्रख्यातं शिबिरं च तत् ॥ १२१८ ॥ ;c{* व्यूहनाम *} दण्डादिको युधि व्यूहः सेनाया रचनासु वै । प्रत्यासारो व्यूहपार्ष्णिर्व्यूहपश्चात्स्थलं भवेत् ॥ १२१९ ॥ सैन्यस्य पृष्ठभागः स्याद् सैन्यपृष्ठः प्रतिग्रहः । एकेभैकरथास्त्र्यश्वाः पत्तिः पञ्चपदातिका ॥ १२२० ॥ सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः । अनीकिनी च पत्तेः स्याद् कराद्यैस्त्रिगुणैः क्रमात् ॥ १२२१ ॥ तास्तु दशानीकिन्यो वै कथ्यतेऽक्षौहिणी किल । सैन्यस्य रक्षणं प्रोक्तं सज्जनं चोपरक्षणम् ॥ १२२२ ॥ ;c{* पत्त्यादिकसैन्यसंख्यायाः कोष्ठकम् *} ;c{नाम हस्तिसंख्या रथसंख्या अश्वसंख्या पदातिसंख्या} ;c{पत्तिः १ १ ३ ५} ;c{सेना ३ ३ ९ १५} ;p{0192} ;c{नाम हस्तिसंख्या रथसंख्या अश्वसंख्या पदातिसंख्या} ;c{सेनामुखम् ९ ९ २७ ४५} ;c{गुल्मः २७ २७ ८१ १३५} ;c{वाहिनी ८१ ८१ २४३ ४०५} ;c{पृतना २४३ २४३ ७२९ १२१५} ;c{चमू ७२९ ७२९ २१८७ ३६४५} ;c{अनीकिनी २१८७ २१८७ ६५६१ १०९३५} ;c{अक्षौहिणी २१८७० २१८७० ६५६१० १०९३५०} ;c{* पताकानामानि *} पताका केतनं केतुः पटाका च ध्वजः पुनः । वैजयन्ती जयन्ती च ध्वजनामानि सन्ति वै ॥ १२२३ ॥ क्वचित् पताकादण्डोऽपि पताका कथ्यते पुनः । ध्वजोर्ध्वभाग उच्चूलोऽवचूलोऽस्याध उच्यते ॥ १२२४ ॥ पत्ती रथो गजो वाजी स्यात् सेनाङ्गं चतुर्विधम् । ;c{* रथनामानि *} युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनस्तथा । रथश्चाथ पुष्परथः क्रीडार्थो यश्च क्रियते ॥ १२२५ ॥ मरुद्रथोऽपि देवार्थः प्रोक्तो योग्यारथः पुनः । स च शास्त्राध्ययनार्थो वैनयिकोऽपि कथ्यते ॥ १२२६ ॥ अध्वरथश्च पारियानिकः पान्थार्थ उच्यते । पुनः प्रवहणं कर्णीरथश्च रथगर्भकः ॥ १२२७ ॥ ;p{0193} डयनञ्चेति नामास्ति स्कन्धे यत् धार्यते नरैः । अथानः शकटो नाम शकटं चापि कथ्यते ॥ १२२८ ॥ यानं वृषभसंयुक्तं गन्त्री कम्बलिवाह्यकम् । काम्बलाच्छादितो रथः काम्बलः कथ्यते पुनः ॥ १२२९ ॥ वस्त्रादाच्छादितो वास्त्रो दौगूलोऽपि निगद्यते । यः पाण्डुकम्बली स स्यात् संवीतः पाण्डुकम्बलैः ॥ १२३० ॥ द्वैपो रथस्तु वैयाघ्रो यो वृतो द्वीपिचर्मणा । ;c{* चक्रनामानि *} अरि चक्रं रथाङ्गं च रथपादोऽपि कथ्यते ॥ १२३१ ॥ भ्रमद् भागस्तु चक्रस्य नेमिर्धारा तथा प्रधिः । अक्षाग्रकीले त्वण्याऽऽणी प्रोक्तौ नाभिस्तु पिण्डिका ॥ १२३२ ॥ स चक्रमध्यभागोऽस्ति कूबरं वै युगन्धरम् । उक्तं युगस्य काष्ठं तद् युगमीशान्तबन्धनम् ॥ १२३३ ॥ युगकीलकशम्येऽथ भवेद्युगस्य कीलकः । युगान्तरं तु प्रासङ्गो धुरो भागो निगद्यते ॥ १२३४ ॥ अधःस्थितं तु यद् काष्ठमनुकर्षो निगद्यते । यानमुखं च धूर्वी धूः रथाग्रभाग उच्यते ॥ १२३५ ॥ ;p{0194} वरूथो रथगुप्तिः स्याद् लोहावृत्तं रथोपरि । अपस्करा रथाङ्गानि नामानि विदितानि वै ॥ १२३६ ॥ ;c{* शिबिकानामानि *} झम्पानं याप्ययानं स्याद् झम्फानं शिबिका पुनः । ;c{* दोलानामानि *} दोला हिण्डोलकः प्रेङ्खा कथ्यते च शयानकः ॥ १२३७ ॥ वैनीतिकं परम्परावाहनं शिबिकादिकम् । ;c{* वाहननामानि *} यानं युग्यं तथा पत्रं वाह्यं वह्यं च वाहनम् ॥ १२३८ ॥ धोरणं चेति नामानि यानस्य विदितानि वै । ;c{* सारथिनामानि *} सव्येष्ठा सारथिः सादी क्षत्ता रथकुटुम्बिकः ॥ १२३९ ॥ सव्येष्ठो दक्षिणस्थश्च प्रवेता प्राजिता तथा । यन्ता सूतो नियन्ता च नामानि प्रथितानि वै ॥ १२४० ॥ ;c{* रथरोहिनामानि *} रथरोही रथारोही रथी योद्धा रथस्थितः । ;p{0195} ;c{* रथिकनामानि *} पुनश्च रथवान् प्रोक्तो रथिको रथिरो रथी ॥ १२४१ ॥ ;c{* अश्वारोहनामानि *} अश्वारोहोऽश्ववारः स्यात् सादी च तुरगी पुनः । ;c{* हस्त्यारोहनामानि *} हस्त्यारोहो महामात्रः सादी यन्ता तथैव च ॥ १२४२ ॥ निषादी चेति नामानि कथ्यन्ते च निषादिनः । ;c{* हस्तिपकनामानि *} आघोरणा गजाजीवा हस्तिपकेभपालकाः ॥ १२४३ ॥ मण्ठो मण्ठश्च नामानि कथयन्ति मनीषिणः । ;c{* भटनामानि *} भटा योधा च योद्धारः सेनारक्षा तु सैनिकाः ॥ १२४४ ॥ प्राहरिकाश्च नामानि प्रहरिणां भवन्ति च । सेनासु नियुक्तजनाः सैन्याः स्युः सैनिकास्तथा ॥ १२४५ ॥ ;c{* सेनाभेदाः *} सहस्त्रिणश्च साहस्राः सहस्रस्य निरीक्षकाः । ;p{0196} छायाकरश्छत्रधारः छत्रधारी पुमान् भवेत् ॥ १२४६ ॥ पताकी वैजयन्तिकः सचिह्नछत्रधारकः । परिचरः परिधिस्थः सेनासंरक्षको भवेत् ॥ १२४७ ॥ आमुक्तः परिमुक्तश्च पिनद्धोऽपिनद्ध इति । भवेत् कञ्चुकधारी यः संभवेत् सैनिको जनः ॥ १२४८ ॥ सन्नद्धो वर्म्मितः सज्जः दंशितो व्यूढकङ्कटः । पुनः कवचितो भेदो युद्धाय गन्तुमुत्सुके ॥ १२४९ ॥ ;c{* कवचनामानि *} सन्नाहः कङ्कटो वर्म तनुत्रं कवचं तथा । दंशश्च दंशनं त्वक्रं तनुत्राणमुरश्छदः ॥ १२५० ॥ माठिश्च जगरो माठो नामानि कवचस्य वै । कूर्पासः कञ्चुकश्चापि वारबाणो निचोलकः ॥ १२५१ ॥ भवेदाघातसन्त्राणे लौहनिर्मितवस्तुनि । सारसनमधिकाङ्गेऽधियाङ्गं धियाङ्गमिति ॥ १२५२ ॥ कञ्चुकोपरि येनाऽसौ बध्नाति तत्र कथ्यते । शिरस्त्राणं शिरस्कञ्च शीर्षकं खोलमित्यपि ॥ १२५३ ॥ शीर्षण्यं चेति वै प्रोक्तं शिरस्त्रे लौहनिर्मिते । नागोदमुदरत्राणं येनोदरस्य रक्षणम् ॥ १२५४ ॥ ;p{0197} जङ्घात्राणं च मत्कुणं जङ्घयो रक्षणं स्मृतम् । हस्तत्राणं करे ख्यातं बाहुत्राणं च बाहुलम् ॥ १२५५ ॥ आयसी जालप्राया स्याद् जालिका चाऽङ्गरक्षणी । आख्यातं विविधं नाम विभिन्नाङ्गस्य रक्षणे ॥ १२५६ ॥ ;c{* शस्त्रजीविनामानि *} आयुधिकाऽऽयुधीयौ च काण्डपृष्ठस्तथैव च । शस्त्रजीवी च नामास्ति शस्त्रद्वारा यो जीवति ॥ १२५७ ॥ ;c{* कौन्तिकनाम *} कौन्तिकः प्रासिकश्चैव कुन्तावान् कथ्यते भुवि । ;c{* पारश्वधनामानि *} परश्वधायुधश्चैव पारश्वधस्तथा किल ॥ १२५८ ॥ पारश्वधिक आख्यातः परशुमान् निगद्यते । ;c{* नैस्त्रिंशिकनाम *} नैस्त्रिंशिकोऽपि खड्गवान् शाक्तिकः शक्तिशस्त्रवान् ॥ १२५९ ॥ ;c{* याष्टीकनाम *} याष्टीको यष्टिमान् लोके कथ्यते हि मनीषिणा । ;c{* धनुर्धरनामानि *} धनुर्धरश्च धानुष्को धनुष्मान् पुनरुच्यते ॥ १२६० ॥ ;p{0198} तूणी धन्वी धनुर्भृच्च निषङ्गी मन्यते पुनः । ;c{* काण्डीरनाम *} काण्डीरः काण्डवान् चापि काण्डधारी हि कथ्यते ॥ १२६१ ॥ ;c{* कृतहस्तनामानि *} कृतपुङ्खः कृतहस्तः सुप्रयुक्तशरो जनः । समवेद्यश्च जानाति सम्यग्बाणप्रक्षेपणम् ॥ १२६२ ॥ ;c{* लघुहस्तनाम *} लघुहस्तः शीघ्रवेधी लक्ष्यं विध्यति शीघ्रतः । ;c{* भ्रष्टबाणनाम *} भ्रष्टबाणोऽपराद्धेषुर्यो लक्ष्यं नैव साधयेत् ॥ १२६३ ॥ ;c{* दूरवेधीनाम *} दूरवेधी दूरापाती दूराल्लक्ष्यं यो विध्यति । ;c{* शस्त्रनामानि *} आयुधं हेतिरस्त्रञ्च शस्त्रं प्रहरणं पुनः ॥ १२६४ ॥ पाणिमुक्ते च शक्तिः स्यात् यन्त्रमुक्ते शरादिकम् । अमुक्ते शस्त्रिका प्रोक्ता मुक्तामुक्ते यष्टिरिति ॥ १२६५ ॥ ;p{0199} ;c{* धनुर्नामानि *} धनु धनुर्धनूर्धन्व कोदण्डं कार्मुकं द्रुणम् । इष्वासोऽस्त्रं तथाऽऽसश्च चापः स्याच्च शरासनम् ॥ १२६६ ॥ लस्तकस्तु धनुर्मध्यभागो हस्तेन गृह्यते । अटनिरटनी चैवमर्त्तिः स्याद् धनुरग्रभाक् ॥ १२६७ ॥ ;c{* द्रुणानामानि *} गुणो गव्या द्रुणा मौर्वी जीवा शिञ्जा च शिञ्जिनी । ज्या च बाणासनं चेति जीवारज्जुर्निगद्यते ॥ १२६८ ॥ ;c{* गोधानामानि *} ज्याघातवारणं चैव गोधा तलं तथा तला । एतस्य कथ्यते लोके चर्मणो बाहुबन्धनं ॥ १२६९ ॥ स्थानान्यालीढवैशाखे प्रत्यालीढं च मण्डलम् । समपादञ्च विज्ञेया धनुःक्षेपणसंस्थितिः ॥ १२७० ॥ ;c{* लक्ष्यनाम *} लक्षं लक्ष्यं निमित्तञ्च वेध्यं स्याच्च शरव्यकम् । ;p{0200} ;c{* बाणनामानि *} बाणः काण्डः कलम्बश्च कादम्बश्चोऽस्त्रकण्टकः ॥ १२७१ ॥ कङ्कपत्रः पृषत्कश्च वीरशङ्कुश्च सायकः । आशुगोऽजिह्मगो रोपो गार्ध्रपक्षः शरः खगः ॥ १२७२ ॥ लक्षहा मार्गणो वारो विशिखश्च शिलीमुखः । चित्रपुङ्खश्च पत्रीषुः प्रदरो मर्मभेदनः ॥ १२७३ ॥ पत्रवाहश्च नामानि कथ्यन्ते विबुधैरिषोः । ;c{* बाणविशेषनामानि *} एषणः सर्वलौहश्च लोहनालोऽवसायकः ॥ १२७४ ॥ प्रक्ष्वेडनश्च नाराचो लोहबाणाभिधानि च । निरस्तः प्रहितः क्षिप्त क्षिप्तबाणो हि कथ्यते ॥ १२७५ ॥ विषाक्तो लिप्तको दिग्ध श्चोक्तं वै विषवान् शरः । बाणमुक्तिर्व्यवच्छेदः धनुसङ्गात् प्रयाति यत् ॥ १२७६ ॥ तीव्रता बाणवेगस्य कथ्यते दीप्तिनामतः । धारवान् लोहबाणस्तु क्षुरप्रो विनिगद्यते ॥ १२७७ ॥ ;p{0201} तद्बलो मूषकपुच्छसमानो बाण उच्यते । अर्द्धेन्दु वै स लोहेषुरर्धचन्द्रेण यः समः ॥ १२७८ ॥ त्रिशरश्चैकलोहश्च तीरीबाणो निगद्यते । दण्डासनो उर्द्धनाराचो तोमरो गरुडस्तथा ॥ १२७९ ॥ वावल्लश्चापि भल्लश्च भेदाः ज्ञेयाः शरस्य वै । पक्षश्च पत्रपाली स्याद् वाजश्छदावलिस्तथा ॥ १२८० ॥ बाणस्कन्धे पक्षन्यासः पत्रणा कथ्यतेऽत्र वै । कर्त्तरी कर्त्तरिः पुङ्खः बाणमूले प्रयुज्यते ॥ १२८१ ॥ ;c{* तूणनामानि *} तूणीरो बाणधिस्तूणः शरधिश्च शराश्रयः । उपासङ्गो निषङ्गश्च कलापश्चेषुधिरपि ॥ १२८२ ॥ ;c{* कृपाणनामानि *} करपालः कृपाणश्च करवालः करालिकः । तीक्ष्णधारश्च धाराङ्गो धाराधरो दुरासदः ॥ १२८३ ॥ श्रीगर्भस्तीक्ष्णकर्मा च शस्त्रः कौक्षेयकोऽक्षरः । व्यवहारश्च देवोऽसिः विजयश्च विषाग्रजः ॥ १२८४ ॥ मण्डलाग्रो मनुज्येष्ठो धर्मपालः प्रजाकरः । ;p{0202} निस्त्रिंशश्चन्द्रहासोऽपि चन्द्रभासश्च सायकः ॥ १२८५ ॥ ऋष्टिरिष्टिस्तथा रुद्रतनयस्तरवारि हि । खड्गो धर्मप्रचारश्च प्रसङ्गोऽपि शिवङ्करः ॥ १२८६ ॥ शाता विशसनश्चेति नामानि विलसन्त्यसेः । खड्गमुष्टिस्त्सरुः ख्यातः कोशस्तु खण्डधारकः ॥ १२८७ ॥ परिवारः परीवारः प्रत्याकारस्तथैव च । खड्गपिधानकं खड्गपिधानमपि मन्यते ॥ १२८८ ॥ ;c{* फलकनामानि *} आवरणं खेटकं खेटः फलकं मड्डनं स्फुरः । स्फुरकः फरकं चर्म नामानि फलकस्य वै ॥ १२८९ ॥ ;c{* सङ्ग्राहनाम *} चर्ममुष्टौ हि सङ्ग्राहः व्यवहारे तु कथ्यते । ;c{* छुरीनामानि *} अस्त्री शस्त्री क्षुरी पत्रं क्षुरिका छुरिका छुरी ॥ १२९० ॥ धेनुका चाऽसिधेनुश्चाऽसिपुत्री कोशशायिका । कृपाणिका कृपाणी च कथ्यन्ते नाम संग्रहे ॥ १२९१ ॥ ;p{0203} पत्रफला पत्रपालः कुट्टन्ती हुलमातृका । लम्बायाश्छुरिकाया हि विजानन्ति मनीषिणः ॥ १२९२ ॥ ;c{* यष्टिनामानि *} दण्डस्तथैव यष्टिश्च लगुडः कथ्यते पुनः । ;c{* ईलीनामानि *} ईलिरीली तथा तरवालिका करवालिका ॥ १२९३ ॥ ;c{* सृगनाम *} सृगश्च भिन्दिपालोऽपि करक्षेप्यमथोच्यते । ;c{* कुन्तनाम *} कुन्तः प्रासश्च नामास्ति प्रख्यातं शस्त्रमत्र वै ॥ १२९४ ॥ ;c{* घननामानि *} द्रुघणो मुद्गरश्चैव घनोऽपि मन्यते पुनः । ;c{* पर्शुनामानि *} पर्श्वधः परशुः पर्शुः स्वधितिश्च परश्वधः ॥ १२९५ ॥ कुठारश्च कुठारस्य नामानि सन्ति षट् पुनः । ;c{* परिघनामानि *} परिघः पलिघश्चैवं परिघातन उच्यते ॥ १२९६ ॥ ;p{0204} लौहबद्धकाष्ठदण्डे नामत्रयं प्रकीर्तितम् । ;c{* सर्वलानाम *} दधिमन्थकवद् बाणः स तोमरश्च सर्वला ॥ १२९७ ॥ ;c{* शल्यनाम *} किल बाणाग्रभागो वै शङ्कुः शल्यं च कथ्यते । ;c{* शूलनाम *} त्रिशीर्षकं तथा शूलं त्रिशूलं मन्यते जनैः ॥ १२९८ ॥ ;c{* चक्रनामानि *} शक्तिश्चक्रं च दुःस्फोटः पट्टिशः पट्टिसः पुनः । दुस्फोटश्चेति नामास्ति शतघ्नी तु महाशिला ॥ १२९९ ॥ मुषुण्ढी चिरिका चैव वराहकर्णकः पुनः । विभिन्नास्त्रस्य नामेदं विभिन्नं ज्ञायतामिह ॥ १३०० ॥ कासूः महाफला चैवमष्टतालाऽऽयता पुनः । शक्तिशस्त्रस्य नामानि मन्यन्ते सुधिया सदा ॥ १३०१ ॥ पट्टिसो लोहदण्डश्च तीक्ष्णधारः खुरोपमः । स्याच्छस्त्रं ह्यस्त्रवल्लोकेऽऽराफलो राफलस्तथा ॥ १३०२ ॥ दुःस्फोटश्चेति दुःस्फोटनाम शस्त्रं हि कथ्यते । चक्रं वलयप्रायं चाऽरसञ्चितमिह पुनः ॥ १३०३ ॥ ;p{0205} शतघ्नी च चतुस्ताला लोहकण्टकसञ्चिता । अयःकण्टकसंछन्ना महाशिला च कथ्यते ॥ १३०४ ॥ कणयो लोहमात्रश्च कथ्यते लोहशस्त्रकम् । हुलाग्रका नाम शस्त्रं चिरिका नामवद् भवेत् ॥ १३०५ ॥ वराहकर्णको नाम शस्त्रसंज्ञा विशेषतः । प्रोक्तं वै मुनिना चैतद् हुलं तथाऽस्त्रशेखरम् ॥ १३०६ ॥ ;c{* शस्त्रकलाभ्यासनामानि *} उपासनं शराभ्यासो योग्या च खुरली श्रमः । प्रोक्तः शस्त्रकलाभ्यासोऽभ्यासोऽपि पुनरुच्यते ॥ १३०७ ॥ ;c{* शस्त्राभ्यासस्थलनामानि *} शस्त्राभ्यासस्थलं तद्भूः स्यात् खलूरः खलूरिका । ;c{* सर्वौघनामानि *} सर्वाभिसारः सर्वौघः सर्वसंनहनं पुनः ॥ १३०८ ॥ युद्धार्थं किल सेनायाः प्रयाणे कथ्यते भुवि । ;c{* लोहाभिसारनामानि *} लोहाभिसारश्च नीराजनं निराजनाविधिः ॥ १३०९ ॥ एतत् कथ्यते दशम्यां विधिर्नीराजनात् परः । ;p{0206} युद्धयात्रापूर्वकाले शस्त्रपूजाविधौ किल ॥ १३१० ॥ ;c{* प्रस्थाननामानि *} प्रस्थानमभिनिर्याणं यात्रा व्रज्या प्रयाणकम् । गमनं चेति नामानि कथ्यन्ते गमनस्य वै ॥ १३११ ॥ ;c{* अभिषेणननाम *} स्यादऽभिषेणनं शत्रौ सेनयाऽभिगमः खलु । ;c{* सुहृद्बलनाम *} सुहृद्बलं तथाऽऽसारः मित्रबलं हि कथ्यते ॥ १३१२ ॥ ;c{* प्रचक्रनाम *} पुनः प्रोक्तं हि लोकेऽपि प्रचक्रं चलितं बलम् । ;c{* प्रसारनाम *} प्रसरणं प्रसारः स्यात् तृणकाष्ठादिहेतवे ॥ १३१३ ॥ ;c{* अभिक्रमनाम *} रणे यानमभीतस्य रिपून् प्रति ह्यभिक्रमः । ;c{* अभ्यमित्र्यनामानि *} अभ्यमित्रोऽभ्यमित्रीणोऽभ्यमित्रीयोऽभ्यरि व्रजन् ॥ १३१४ ॥ ;p{0207} ;c{* उरसिलनाम *} उरसिल उरस्वान् स्याद् विशाल उरवान् स हि । ;c{* ऊर्जस्वलनामानि *} ऊर्जस्व्यूर्जस्वलौ प्रोक्तमूर्जस्वान् पुनरुच्यते ॥ १३१५ ॥ ;c{* सांयुगीननाम *} सांयुगीनो हि संग्रामे कुशलः कथ्यते बुधैः । ;c{* जेतृनामानि *} जेता च जित्वरो जिष्णुः जैत्रश्च विजयी पुनः ॥ १३१६ ॥ जेतृनामानि प्रोक्तानि विजयिनो जनस्य हि । ;c{* जय्यनाम *} लोके यः शक्यते जेतुं स जय्यः कथ्यते जनैः ॥ १३१७ ॥ ;c{* जेयनाम *} पुनश्च मन्यते लोकैः जेयो जेतव्यमात्रके । ;c{* वैतालिकनामानि *} सौखशायनिकः सौखशाय्यकः सौखसुप्तिकः ॥ १३१८ ॥ अर्थिकश्चापि वैतालिकश्च बोधकरः पुनः । ;p{0208} बन्दीजनोऽपि नामानि षट्सन्ति व्यवहारतः ॥ १३१९ ॥ घाण्टिकाश्चाक्रिकाः बन्दी सूतो मङ्गलपाठकः । मगधो मागधो मङ्खः इति नामानि स्युः पुनः ॥ १३२० ॥ ;c{* स्तुतिव्रतनाम *} स्तुतिव्रतस्तथा नग्नः स्तुतिपाठक उच्यते । ;c{* भोगावलीनाम *} स्तुतिपाठकग्रन्थस्तु भोगावली निगद्यते ॥ १३२१ ॥ ;c{* पराक्रमनामानि *} शुष्म शुष्मं सहः शौर्यं बलं प्राणः पराक्रमः । ऊर्ज्जा ऊग् द्रविणं द्युम्नं स्थाम शक्तिस्तथा तरः ॥ १३२२ ॥ ओजः पराक्रमस्येति नामानि संभवन्ति वै । ;c{* युद्धनामानि *} युद्धं सङ्ख्यं च सङ्ग्रामः संमर्दश्च समाह्वयः ॥ १३२३ ॥ संङ्गरः संयुगं संयत् समितिः साम्परायिकम् । समुदायः समाघातः समुदयः समित् मृधम् ॥ १३२४ ॥ ;p{0209} समीकमऽभिसम्पातः प्रघातः प्रविदारणम् । संस्फेटश्चापि संफेटः संस्फोटः समरो रणः ॥ १३२५ ॥ आजिरास्कन्दनं द्वन्द्वं प्रधनं प्रविदारणम् । आहवः सम्प्रहारो युत् प्रहरणं कलहः कलिः ॥ १३२६ ॥ आयोधनं तथा राटिः समितिश्चापि विग्रहः । तथाऽऽक्रन्दोऽप्यनीकश्चाऽभ्यामर्दोऽभ्यागमः पुनः ॥ १३२७ ॥ एतन्नामानि कथ्यन्ते युद्धस्य विबुधैः किल । ;c{* नियुद्धनाम *} नियुद्धं बाहुयुद्धं च कथ्यते तद् भुजोद्भवम् ॥ १३२८ ॥ ;c{* युद्धपटहनाम *} पटहाऽऽडम्बरौः प्रोक्तौ युद्धस्य पटहे सदा । ;c{* तुमुलनाम *} युद्धं कोलाहलैर्युक्तं तुमुलं रणसङ्कुलम् ॥ १३२९ ॥ ;p{0210} ;c{* नासीरनाम *} अग्रयानं च नासीरं युद्धाग्रे गमनं भवेत् । ;c{* पीडननाम *} पीडनमवमर्दः स्याद् शत्रुतो देशपीडने ॥ १३३० ॥ ;c{* प्रपातनामानि *} अवस्कन्दोऽभ्यवस्कन्दोऽभ्यासादनं तथैव च । घाटिर्घाटी प्रपातश्चाऽऽक्रमणं छलतो भवेत् ॥ १३३१ ॥ ;c{* सौप्तिकनाम *} सौप्तिकं छलतो रात्रावाक्रमणं हि कथ्यते । ;c{* वीराशंसननामानि *} आजिभीष्मभूश्च वीराशंसनं वीराशंसनी ॥ १३३२ ॥ संहारकारिणी युद्धभूम्यां तोमे त्रयं सदा । ;c{* नियुद्धभूनाम *} नियुद्धभूरक्षवाहा मल्लयुद्धस्थलं भवेत् ॥ १३३३ ॥ ;c{* मूर्छानामानि *} मूर्च्छा मोहः कश्मलञ्च नाम मूर्च्छितजन्तुनः । ;p{0211} ;c{* वीरपारणकनाम *} वीरपाणं तथा वीरपाणकञ्च निगद्यते ॥ १३३४ ॥ वृत्तभाविनि वा युद्धे मद्यपानं निगद्यते । ;c{* पलायननामानि *} अपयानञ्च संदावः संद्रावो विद्रवो द्रवः ॥ १३३५ ॥ उद्द्रावश्चापि प्रद्रावः पलायनमपक्रमः । नशनं चेति नामानि युद्धात् पलायनस्य वै ॥ १३३६ ॥ ;c{* जयनाम *} जयश्च विजयो नाम जयार्थे वर्तते युधि । ;c{* पराजयनाम *} पराजयो रणे भङ्गो विज्ञायते मनीषिणः ॥ १३३७ ॥ ;c{* विप्लवनामानि *} विप्लवो डमरो डिम्बः शृगाली लुण्टने भवेत् । ;c{* वैरशुद्धिनामानि *} वैरनिर्यातनं वैरशुद्धिर्वैरप्रतिक्रिया ॥ १३३८ ॥ ;c{* बलात्कारनामानि *} बलात्कारो हठश्चापि प्रसभं पुनरुच्यते । ;p{0212} ;c{* स्खलितनाम *} छलं च स्खलितं नाम मार्गच्युतः स कथ्यते ॥ १३३९ ॥ ;c{* परिभूतनामानि *} अभिभूतः पराभूतः परिभूतः पराजितः । जितो भग्नश्च नामानि पराभवस्य मन्यताम् ॥ १३४० ॥ ;c{* पलायितनामानि *} पलायितो गृहीतदिक् नष्टस्तथा तिरोहितः । पलायितस्य नामानि विजानन्ति मनोषिणः ॥ १३४१ ॥ ;c{* जिताहवनाम *} जितकाशी जिताहवो जयवान् कथ्यते युधि । ;c{* पतितनाम *} प्रस्कन्नः पतितश्चैव पतितार्थे स मन्यते ॥ १३४२ ॥ ;c{* चारकनामानि *} चारश्च चारको गुप्तिः कारा कारागृहे भवेत् । ;c{* बन्दिनामानि *} प्रग्रहो ग्रहको बन्दी चोपग्रहोऽपि कथ्यते ॥ १३४३ ॥ ;p{0213} ;c{* चातुर्वर्ण्यनाम *} चातुर्वर्ण्यं विप्रक्षत्रवैश्यशूद्रा नृणां भिदः । ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिति क्रमात् ॥ १३४४ ॥ चत्वार आश्रमाः सन्ति तत्राद्यो ब्रह्मचारिणः । वर्णी स्याद् गृहमेधी तु गृहस्थः स्नातको गृही ॥ १३४५ ॥ जेष्ठाश्रमी द्वितीयो वै प्रोक्त आश्रम ऊह्यताम् । वैखानसो वानप्रस्थस्तृतीयाश्रमवर्तिनि ॥ १३४६ ॥ यतिः सांन्यासिको भिक्षुः तपस्वी पारिरक्षकः । पारिकांक्षी च कर्मन्दी पाराशरी च मस्करी ॥ १३४७ ॥ स्याद् रक्तवसनश्चेति चतुर्थाश्रमवर्तिनः । ;c{* स्थाण्डिलनाम *} स्थाण्डिलः स्थण्डिलशायी भूमिसुप्तो व्रती भवेत् ॥ १३४८ ॥ ;c{* दान्तनाम *} तपः क्लेशसहश्चैव दान्तोऽपि कथ्यते किल । ;c{* शान्तनामानि *} शान्तो जितेन्द्रियः श्रान्तः नामानि संभवन्ति वै ॥ १३४९ ॥ ;p{0214} ;c{* शुद्धकर्मनाम *} अवदानं कर्मशुद्धं शुद्धाचरणमुच्यते । ;c{* ब्राह्मणनामानि *} भूदेवो ब्राह्मणो ब्रह्मा षट्कर्मा मुखसम्भवः ॥ १३५० ॥ अग्रजन्मा द्विजन्मा च द्विजातिर्वडिवा द्विजः । वर्णज्येष्ठः शमीगर्भो वेदगर्भो विप्रः पुनः ॥ १३५१ ॥ एतसश्चाग्रजो मैत्रश्चाग्रजातिस्त्रयीमुखः । सवित्रः सूत्रकण्ठश्च नामानि ब्राह्मणस्य वै ॥ १३५२ ॥ ;c{* बटुनामानि *} माणवको वटुश्चैव बटुर्बटुक उच्यते । ;c{* भिक्षानाम *} अन्नादियाचनं भिक्षा ग्रासमात्रकमुच्यते ॥ १३५३ ॥ ;c{* उपनयनामानि *} उपनयश्चोपनायो वटूकरणमानयः । यज्ञोपवीतसंस्कारः कथयन्ति मनीषिणः ॥ १३५४ ॥ ;p{0215} ;c{* अग्नीन्धननामानि *} अग्नीधनं तथाऽग्निध्रा चाऽऽग्नीध्री चाऽग्निकारिका । अग्निकार्यं च नामादि होमाग्निज्वलने भवेत् ॥ १३५५ ॥ ;c{* दण्डभेदाः *} प्रोक्तावाषाढपालाशौ व्रतपालाशदण्डके । राम्भस्तु वैणवोऽपि स्याद् दण्डो वंशस्य वै व्रतेः ॥ १३५६ ॥ रौच्यः सारस्वतो बैल्वः बील्वदण्डो हि कथ्यते । पैलवश्चौपरोधिकः पीलुदण्डो हि मन्यते ॥ १३५७ ॥ आश्वत्थो जितनेमिश्च व्रते पीप्पलदण्डकः । औदुम्बर उलूखलो दण्ड उदुम्बरस्य च ॥ १३५८ ॥ ;c{* जटानाम *} तापसादेः शिरःकेशे जटा सटा च कथ्यते । ;c{* वृषीनामानि *} वृषी वृसी तथा पीठं तस्य दर्भासनं पुनः ॥ १३५९ ॥ ;c{* कमण्डलुनाम *} कमण्डलुश्च कुण्डिका तस्य पानीयपात्रकम् । ;c{* श्रोत्रियनाम *} श्रोत्रियश्छान्दसो विश्वे वेदज्ञातरि मन्यते ॥ १३६० ॥ ;p{0216} ;c{* यजमाननामानि *} आदेष्टा च व्रती यष्टा यजमानश्च याजकः । एतन्नामानि कथ्यन्ते यज्ञकर्तरि पुंसि वै ॥ १३६१ ॥ ;c{* दीक्षितनाम *} दीक्षितः सोमयाजी च स्यात् सोमयाज्ञकारकः । ;c{* इज्याशीलनाम *} इज्याशीलो यायजूको यज्ञकर्मस्वभाववान् ॥ १३६२ ॥ ;c{* यज्वनो नामानि *} सोमरसाकृष्य यज्ञकर्त्ता यज्वाऽऽसुतीबलः । ;c{* सोमपनामानि *} सोमपस्तु सोमपीती सोमपीथी तथैव च ॥ १३६३ ॥ सोमपीवी च यज्ञे स्यात् स सोमरसपीबकः । ;c{* स्थपतिनाम *} बृहस्पतिर्यज्ञकर्त्ता स्थपतिर्गीःपतीष्टिकृत् ॥ १३६४ ॥ ;c{* सर्ववेदानाम *} सर्ववेदाः स एवास्ति यज्ञे सर्वस्वमर्पति । ;p{0217} ;c{* यजुर्विदो नाम *} यजुर्वेदस्य च ज्ञाता यजुर्विदध्वर्युरुच्यते ॥ १३६५ ॥ ;c{* ऋग्विन्नाम *} ऋग्वेदस्य पुनर्ज्ञाता ऋग्विद् होता सदोच्यते । ;c{* सामविदोनाम *} उद्गाता च सामविद् वै सामवेदस्य ज्ञानवान् ॥ १३६६ ॥ ;c{* यज्ञनामानि *} यज्ञो यागो मखो मन्युः स्तोमश्च संस्तरः सवः । सप्ततन्तुः क्रतुः सत्रं वितानं बर्हिरध्वरः ॥ १३६७ ॥ अध्ययनं ब्रह्मयज्ञो ब्रह्मज्ञानं स कथ्यते । देवयज्ञो वषट्कारो होमो होत्रं तथाऽऽहुतिः ॥ १३६८ ॥ एतन्नामानि कथ्यन्ते देवयज्ञस्य पण्डितैः । ;c{* श्राद्धनामानि *} श्राद्धं तथा पिण्डदानं पितृयज्ञश्च तर्पणम् ॥ १३६९ ॥ एतन्नामानि मन्यन्ते पितृयज्ञस्य कोविदैः । नरयज्ञस्य नामास्ति नृयज्ञोऽतिथिपूजनम् ॥ १३७० ॥ ;p{0218} भूतयज्ञस्य नामाऽस्ति भूतयज्ञस्तथा बलिः । प्रोक्ता एते महायज्ञाः पञ्चापि वै महीतले ॥ १३७१ ॥ यज्ञो यः शुक्लपक्षान्ते स पौर्णमास उच्यते । दर्शोऽपि कृष्णपक्षान्ते आमावास्यश्च मन्यते ॥ १३७२ ॥ सौमिकी दीक्षणीयेष्टिः स्याद् दीक्षा व्रतसङ्ग्रहः । सुगहना वृतिः कुम्बा वेदी भूमिः परिष्कृता ॥ १३७३ ॥ चत्वरं स्थण्डिलं यज्ञाऽसंस्कृतभूमिरुच्यते । पशुहिंसायज्ञस्तम्भः स्याद् यूपो यज्ञकीलकः ॥ १३७४ ॥ चषालश्चापि वै यूपकटकः कथ्यते किल । यज्ञयूपाग्रभागे यद् वलयाकारवस्तु तद् ॥ १३७५ ॥ घृतावनिस्तथा यूपकर्णो वै कथ्यते सदा । घृतस्पर्शयज्ञस्तम्भस्यैकभागः स मन्यते ॥ १३७६ ॥ यूपस्याग्रविभागो वै यूपाग्रभाग उच्यते । तर्म वै कथ्यते नाम निर्मन्थदारु चाऽरणिः ॥ १३७७ ॥ ;c{* अग्निभेदाः *} दक्षिणो गार्हपत्यश्चाऽऽहवनीयस्त्रयोऽग्नयः । इदमग्नित्रयं विश्वे त्रेता हि कथ्यते बुधैः ॥ १३७८ ॥ मन्त्रादिसंस्कृतोऽग्निर्वै प्रणीतो मन्यते पुनः । ऋग् धाय्या सामीधेनी च समिदाधीयते यया ॥ १३७९ ॥ ;p{0219} ;c{* समिन्नामानि *} समिदिन्धनमेधेध्मतर्पणैधांसि सन्ति षट् । ;c{* भस्मनामानि *} भसितं भस्म भूतिश्च रक्षा क्षारश्च कथ्यते ॥ १३८० ॥ पात्रं स्त्रुवादिकं प्रोक्तं स्त्रुक् स्त्रुवश्चापि मन्यते । अधरा सोपभृत् स्याद् वै जुहूर्हि पुनरुत्तरा ॥ १३८१ ॥ ध्रुवा स्यात् सर्वसंज्ञार्थं यस्यां घृतं निधीयते । हन्येत योऽभिमन्त्र्यात्र स स्यात् पशुरुपाकृतः ॥ १३८२ ॥ शमनं शसनं चैव मखे वधो हि प्रोक्षणम् । पुनः परम्पराकं वै विजानन्ति मनीषिणः ॥ १३८३ ॥ अभिचारो हि हिंसार्थं कर्म यत् क्रियते च तत् । स्याद् यज्ञयोग्यकार्यं वै यज्ञार्हं चापि यज्ञियम् ॥ १३८४ ॥ हविस्तथैव सान्नाय्यं बलिदानं हि कथ्यते । क्षीरशरः पयस्या च शृतोष्णक्षीरमं दधि ॥ १३८५ ॥ आमिक्षाऽपि पुनः प्रोक्तं तन्मस्तुनि तु वाजिनम् । हव्यं सुरेभ्यो दातव्यमग्निद्वारा हि कथ्यते ॥ १३८६ ॥ विप्रद्वारा प्रदत्तं च पितृभ्यः कव्यमोदनम् । घृते हि दधिसंयुक्ते पृषदाज्यं पृषातकः ॥ १३८७ ॥ ;p{0220} दध्याजं च दधिप्राज्यं कथ्यते पण्डितै जनैः । दध्ना स्यान् मधुसंपृक्तं मधुपर्कं महोदयः ॥ १३८८ ॥ हवित्री होमकुण्डञ्च होमाधारस्थले द्वयम् । हव्यपाकश्चरुश्चैव हव्यान्नेन विरच्यते ॥ १३८९ ॥ अमृतं यज्ञशेषश्च यज्ञशिष्टे हि वस्तुनि । विघसो भृक्तशेषको यज्ञे भुङ्क्ते हि योऽधिकम् ॥ १३९० ॥ यज्ञान्ते क्रियते स्नानं यज्ञान्तोऽवभृथो हि सः । प्रोक्तं पूर्तं पुनर्वाप्यादीष्टं तथा मखक्रिया ॥ १३९१ ॥ इष्टापूर्त्तं तु पूर्वोक्तमुभयं कथ्यते पुनः । विष्टरो बर्हिर्मुष्टिश्च दर्भासने प्रयुज्यते ॥ १३९२ ॥ आहिताग्निरग्निहोत्री चाऽऽग्न्याहितोऽग्निचित् तथा । अग्न्याधानमग्निहोत्रमाऽग्निरक्षणमित्यपि ॥ १३९३ ॥ दर्वी दर्विस्तथैवाऽस्ति नामेह घृतलेखनी । महाज्वालो महावीरो होमाग्निश्च प्रवर्गवत् ॥ १३९४ ॥ निगणो होमभस्मश्च होमधूमे प्रयुज्यते । वैष्टुतं वै होमभस्म ख्यातं होमजभस्मनि ॥ १३९५ ॥ आचमनमुपस्पर्शो जलेन मुखस्पर्शने । सेकश्च सेचनं धारो घृतादेरग्निसिंचने ॥ १३९६ ॥ ;p{0221} ध्यानयोगासनं ब्रह्मासनं ख्यातं महीतले । स्वाध्यायादिक्रियाजातं ब्रह्मवर्चसमुच्यते ॥ १३९७ ॥ वृत्ताध्ययनर्द्धिश्चापि तदेव कथ्यते बुधैः । ब्रह्माञ्जलिस्तु वेदस्य पाठकाले कृताञ्जलिः ॥ १३९८ ॥ पाठे स्यान् मुखनिष्क्रान्ता विप्रुषो ब्रह्मबिन्दवः । ;c{* पारायणनाम *} साकल्यवचनं पारायणं सम्पूर्णवाचने ॥ १३९९ ॥ ;c{* कल्पनामानि *} क्रमः कल्पो विधिश्चापि कल्पसंज्ञा त्रयं भवेत् । अङ्गुष्ठमूलं ब्राह्मं स्यात् तीर्थं कायकनिष्ठयोः ॥ १४०० ॥ तर्जन्यङ्गुष्ठान्तः पित्र्यं दैवतं त्वङ्गुलीमुखे । हस्तस्य च मध्यमात्रे सौम्यं तीर्थं निगद्यते ॥ १४०१ ॥ ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं च मन्यते । देवत्वं देवसायुज्यं देवभूयं च कथ्यते ॥ १४०२ ॥ मूर्खत्वं मूर्खसायुज्यं मूर्खभूयं च मन्यते । ग्रहणं वेदपाठस्य उपाकरणमुच्यते ॥ १४०३ ॥ स्वाध्यायश्च जपः प्रोक्तो वेदस्याऽध्ययने किल । औपवस्तं चौपवस्त्रमुपवस्त्रं तथैव च ॥ १४०४ ॥ ;p{0222} उपवासो निगद्येत व्रते भोजनरोधके । कृच्छ्रं चान्द्रायणं सान्तपनं पापविनाशके ॥ १४०५ ॥ अशनत्यागतात्पर्ये ख्यातः प्रायः शब्दः प्रयुज्यते । नियमः पुण्यकं चैव व्रतं तपोऽपि कथ्यते ॥ १४०६ ॥ ;c{* चरित्रनामानि *} चरित्रं चरितं वृत्तं चारित्रं चरणं तथा । आचारश्चापि शीलं च मन्यते पण्डितैः जनैः ॥ १४०७ ॥ जप्येऽघमर्षणं सर्वैर्नोध्वंसि च प्रयुज्यते । ;c{* पादग्रहणनामानि *} पादयोः स्पर्शने पादग्रहणमभिवादनम् ॥ १४०८ ॥ तथोपसंग्रहश्चेति कथ्यते कोविदैः किल । ;c{* यज्ञसूत्रनामानि *} प्रोद्धृते दक्षिणे स्कन्धे यज्ञोपवीतमुच्यते ॥ १४०९ ॥ उपवीतं पवित्रं च यज्ञसूत्रं तथैव च । ब्रह्मसूत्रं पुनश्चैव प्रख्यातं व्यवहारतः ॥ १४१० ॥ प्राचीनावीतमाऽऽवीतं वामे स्कन्धे हि प्रोद्धृते । कथ्यते कण्ठमालेव निवीतं कण्ठलम्बितम् ॥ १४११ ॥ ;p{0223} ;c{* वाल्मीकिनामानि *} आदिकविश्च वाल्मीकिः वाल्मीकश्च कविः कुशी । मैत्रावरुणिर्वल्मीकः मैत्रावरुण उच्यते ॥ १४१२ ॥ ;c{* व्यासनामानि *} वेदव्यासस्तथा व्यासो माठरो बादरायणः । द्वैपायनश्च कानीनः पाराशर्योऽपि कथ्यते ॥ १४१३ ॥ ;c{* व्यासमातृनामानि *} सत्यवती च शालङ्कायनजा गन्धकालिका । तथा योजनगन्धा वै गन्धवती च वासवी ॥ १४१४ ॥ मत्स्योदरी च दाशेयी नामान्यष्टौ भवन्ति वै ॥ १४१५ ॥ ;c{* परशुरामनामानि *} रामः परशुरामश्च पर्शुरामश्च भार्गवः । जामदग्न्यस्तथा रैणुकेयश्च रेणुकासुतः ॥ १४१६ ॥ ;c{* नारदनामानि *} नारदो देवब्रह्मा च पिशुनः कलिकारकः । ;p{0224} ;c{* वशिष्ठऋषिनामानि *} ख्यातस्त्वरुन्धतीजानिर्वशिष्ठः कथ्यते पुनः ॥ १४१७ ॥ अस्य भार्याऽक्षमाला च मन्यतेऽरुन्धती पुनः । ;c{* विश्वामित्रऋषिनामानि *} प्रोक्तः त्रिशङ्कुयाजी सः गाधेयो गाधिनन्दनः ॥ १४१८ ॥ विश्वामित्रश्च प्रख्यातः कौशिकोऽपि हि कथ्यते । ;c{* दुर्वासाऋषिनाम *} ऋषिः कुशारणिश्चैव दुर्वासा अपि मन्यते ॥ १४१९ ॥ ;c{* गौतमऋषिनाम *} गौतमश्च शतानन्दो नामाऽस्ति गौतमस्य वै । ;c{* याज्ञवल्क्यनामानि *} योगीशश्चापि योगेशो ब्रह्मरात्रिस्तथैव च ॥ १४२० ॥ याज्ञवल्क्यश्च नामास्ति यज्ञवल्कसुतस्य हि । ;c{* पाणिनिनामानि *} दाक्षीपुत्रस्तु दाक्षेयः सालातुरीय इत्यपि ॥ १४२१ ॥ पाणिनिश्चेति नामापि पाणिनीयस्य कथ्यते । ;p{0225} ;c{* पतञ्जलिऋषिनाम *} गोनर्दीयः पतञ्जलिः प्रोक्तं नाम पतञ्जलेः ॥ १४२२ ॥ ;c{* कात्यायननामानि *} कात्यः कात्यायनश्चैव मेघाजिच्च पुनर्वसुः । वररुचिश्च नामानि कात्यायनस्य सन्ति वै ॥ १४२३ ॥ ;c{* व्याडिमुनिनामानि *} विन्ध्यवासी तथा व्याडिः नन्दिनीतनयः पुनः । व्याडिमुनेश्च नामानि कथयन्ति हि कोविदाः ॥ १४२४ ॥ ;c{* स्फोटायनऋषिनामानि *} कक्षिवान् स्फोटनः स्फोटायनः स्फौटायनश्च वै । स्फोटायनस्य नामानि कथयन्ति हि पण्डिताः ॥ १४२५ ॥ ;c{* पालकाप्यऋषिनामानि *} प्रोक्तं नाम पालकाप्यः कारेणवः करेणुभूः । ;c{* वात्स्यायनऋषिनामानि *} वात्स्यायनो द्रामिलश्च चाणक्यः चणकात्मजः ॥ १४२६ ॥ कौटल्यश्चापि कौटिल्यो मल्लनागस्तथाऽङ्गुलः । पुनश्च पक्षिलस्वामी विष्णुगुप्तोऽपि कथ्यते ॥ १४२७ ॥ ;p{0226} ;c{* क्षतव्रतनाम *} क्षतव्रतोऽवकीर्णी च क्षतव्रतस्य नाम । स व्रतभङ्गकारकब्रह्मचारी निगद्यते ॥ १४२८ ॥ संस्कारवर्जितो व्रत्यः संस्काररहितो द्विजः । शिश्विदानो दुराचारः कृष्णकर्माऽपि कथ्यते ॥ १४२९ ॥ ब्रह्मबन्धुश्च नामाऽस्ति द्विजोऽधमोऽपि मन्यते । नष्टाग्निर्विरहा विप्रो विनष्टाग्निहोत्राग्निवत् ॥ १४३० ॥ विप्रो द्विजब्रुवो जातिमात्रजीवी च मन्यते । धर्मध्वजी लिङ्गवृत्तिः पाखण्डी वेषवान् स वै ॥ १४३१ ॥ वेदहीनो निराकृतिः स्वाध्यायरहितो द्विजः । वार्त्ताशी भोजनार्थं यो ब्रूते गोत्रादिकं निजम् ॥ १४३२ ॥ उच्छिष्टभोजनो देवनैवेद्यबलिभक्षकः । पुनश्च कथ्यते देवनैवेद्यबलिभोजनः ॥ १४३३ ॥ ;c{* अजपनाम *} अजपस्त्वसदध्येता कुपाठकजनः स्मृतः । ;c{* शाखारण्डनाम *} अन्यशाखाकर्मकर्ता शाखारण्डोऽन्यशाखकः ॥ १४३४ ॥ ;p{0227} ;c{* शस्त्रजीविनाम *} शस्त्राजीवस्तथा काण्डस्पृष्टः शस्त्रेण जीविते । ;c{* गुरुघ्ननाम *} गुरुहत्याकर्तृनाम गुरुहा नरकीलकः ॥ १४३५ ॥ ;c{* मलनाम *} देवपूजां विना यः स्यात् स मलः कथ्यते बुधैः । ;c{* मलिम्लुचनाम *} मलिम्लुचः पञ्चयज्ञः परिभ्रष्टस्तथा हि सः ॥ १४३६ ॥ ;c{* खरुनाम *} निषिद्धैकरुचिर्लोके खरुरित्यभिधीयते । ;c{* अभ्युदितनाम *} अभ्युदितस्तु यः शेते सूर्योदये च सत्यपि ॥ १४३७ ॥ ;c{* अभिनिर्मुक्तनाम *} सूर्यास्तसमये शेते सोऽभिनिर्मुक्तनामवान् । ;c{* वीरोज्झनाम *} वीरोज्झस्तु स ख्यातो न जुहोति कदापि यः ॥ १४३८ ॥ ;p{0228} ;c{* वीरोपजीवनाम *} वीरोपजीवकः ख्यातो यो होमनामयाचकः । ;c{* वीरविप्लावकः *} शूद्रवित्तधनैर्होता वीरविप्लावको भवेत् ॥ १४३९ ॥ ;c{* आर्हतनाम *} आर्हतः स्याद्वादवादी जैनोऽनेकान्तवादिनि । ;c{* सौगतनाम *} शून्यवादी सौगतस्तु बौद्ध एव निगद्यते ॥ १४४० ॥ ;c{* नैयायिकनाम *} आक्षपादस्तथा नाम यौगो नैयायिकोऽपि च । ;c{* सांख्यनाम *} सांख्यस्तु कापिलः प्रोक्तः सांख्यशास्त्रस्य ज्ञातरि ॥ १४४१ ॥ ;c{* वैशेषिकनाम *} वैशेषिकः काणादः स्यादौलुक्यो न्यायज्ञातरि । ;c{* चार्वाकनाम *} बार्हस्पत्यो नास्तिकः स्यात् लोकायतिक इत्यपि ॥ १४४२ ॥ ;p{0229} लोकायितिक नामापि चार्वाकाश्चारुभाषणात् । ;c{* क्षत्रियनाम *} क्षत्रस्तु क्षत्रियो राजा राजन्यो बाहुसंभवः ॥ १४४३ ॥ ;c{* वैश्यनाम *} अर्यो भूमिस्पृशो वैश्या उरव्या उरुजा विशः । ;c{* वृत्तिनाम *} वाणिज्यं पशुपाल्यञ्च कर्षणं नाम च स्मृतम् ॥ १४४४ ॥ ;c{* आजीविकानाम *} आजीवो जीवनं वार्ता जीविका वृत्तिवेतने । ;c{* उञ्छनाम *} उञ्छो धान्यकणादानं कणिशाघर्जनं शिलम् ॥ १४४५ ॥ ;c{* ऋतनाम *} ऋतमुञ्छशिलं प्रोक्तमुभयोर्ग्रहणे सदा । ;c{* कृषिनाम *} अनृतं प्रमृतं लोके कृषिरेव निगद्यते ॥ १४४६ ॥ ;c{* याचितनाम *} याचितञ्च मृतं प्रोक्तं भिक्षया लब्धवस्तुनि । ;p{0230} ;c{* अयाचितनाम *} अविनश्वरममृतं स्यादयाचितमिति त्रयम् ॥ १४४७ ॥ ;c{* सेवानाम *} श्वजीविका च सेवा च सेवावृत्तिरिहोच्यते । ;c{* वाणिज्यनाम *} सत्यानृतं वणिज्या च वाणिज्यमिति ज्ञायताम् ॥ १४४८ ॥ ;c{* वणिङ्नाम *} वाणिजः सार्थवाहश्च वणिक् क्रयविक्रयिकः । पण्याजीव आपणिको वैदेहश्च प्रापणिकः ॥ १४४९ ॥ ;c{* क्रयिनाम *} क्रयिकः क्रायको लोके क्रयी च कथ्यते पुनः । ;c{* विक्रयिनाम *} विक्रयिको विक्रयी च विक्रायः कोऽपि ज्ञायताम् ॥ १४५० ॥ ;c{* मूल्यनाम *} मूल्यमर्घोऽवक्रयश्च भाटको वस्नमित्यपि । ;c{* नीविनाम *} मूलद्रव्यं परिपणो नीवी नीविश्च ज्ञायताम् ॥ १४५१ ॥ ;p{0231} ;c{* लाभनाम *} लाभः फलश्च व्यापारे मूलादधिकप्रापणे । ;c{* विनिमयनाम *} व्यतिहारो विनिमयो नैमेयो नियमस्तथा ॥ १४५२ ॥ परिदानं परावर्त्तो वैमेयः परिवर्तनम् । ;c{* निक्षेपनाम *} उपानिधिश्च प्रख्यातो निक्षेपो न्यास इत्यपि ॥ १४५३ ॥ ;c{* प्रतिदाननाम *} परिदानं प्रतिदानं न्यासार्पणमपि स्मृतम् । ;c{* क्रेयनाम *} क्रेतव्ये कथ्यते क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ १४५४ ॥ ;c{* पण्यनाम *} विक्रेयं परितव्यं च पण्यमित्येव कथ्यते । ;c{* सत्यापननाम *} सत्यापनं सत्यकारः सत्याकृतिरिति पुनः ॥ १४५५ ॥ ;c{* विक्रयनाम *} विपणो विक्रयः शब्दः प्रख्यातो वस्तुविक्रये । ;p{0232} ;c{* गण्यनाम *} गणनीयं गणेयञ्च गण्यं संख्येयमित्यपि ॥ १४५६ ॥ ;c{* संख्यानाम *} संख्या नाम्ना प्रसिद्धोऽस्तिएकद्वित्रिक्रमाद्दश । एकं दश शतञ्चैव सहस्रमयुतं पुनः ॥ १४५७ ॥ लक्षश्च नियुतञ्च प्रयुतं कोटिरित्यपि । सर्वं दशगुणं पूर्वात् ज्ञायते गण्यते जनैः ॥ १४५८ ॥ अर्बुदं दशकोटिश्चाऽब्जं खर्वं दशाब्जकम् । निखर्वं दशखर्वं वै पुनः सङ्ख्यं महाम्बुजम् ॥ १४५९ ॥ अग्रेऽपि दशनिखर्वं शङ्कुर्दशमहाम्बुजम् । तथा वार्द्धिः समुद्रोऽपि दशशङ्कुर्निगद्यते ॥ १४६० ॥ अन्त्यं दशवार्द्धिमानं मध्यं दशान्त्यमानकम् । दशमध्यप्रमाणं च परार्द्धं सङ्ख्यकं किल ॥ १४६१ ॥ कथ्यते पण्डितैर्लोकर्लोकेऽस्मिन् गणनाक्रिया । असङ्ख्यं द्वीपवार्द्धीन्दुसूर्यादिकं प्रवर्तते ॥ १४६२ ॥ पुनश्च वर्त्तते विश्वे पुद्गलाऽऽत्माद्यनन्तकम् । ;c{* नाविकभेदाः *} सांयात्रिकस्तथा पोतवणिक् च कथ्यते बुधैः ॥ १४६३ ॥ ;p{0233} बोहित्थं चापि वोहित्थं वहनं च वहित्रकम् । यानपात्रं तथा पोतः प्रोक्तं प्रवहणं पुनः ॥ १४६४ ॥ पोतवाहो नियामको निर्यामो मार्गदर्शकः । ;c{* नाविकनाम *} नाविकः कर्णधारश्च नौसञ्चालक उच्यते ॥ १४६५ ॥ ;c{* नौकानामानि *} नौका नौश्च तरी बेडा तरणी तरणिस्तरिः । मङ्गिनी चेति नामानि नौकायाः मन्यतां जनः ॥ १४६६ ॥ ;c{* द्रोणीनाम *} काष्ठाम्बुवाहिनी द्रोणी जलीयदारुपात्रकम् । ;c{* नौकादण्डनामानि *} क्षेपणिः क्षेपणी नौकादण्डश्च क्षिपणी पुनः ॥ १४६७ ॥ नौसञ्चालकदण्डस्यैतन्नामानि संभवन्ति वै । कूपको गुणवृक्षश्च प्रोक्तो नौकूपस्तम्भकः ॥ १४६८ ॥ पोलिन्दाश्चान्तरादण्डाः नौकायाः मध्यदण्डकाः । प्रोक्तो नौकाग्रभागस्तु मङ्गश्च मङ्गिनीशिरः ॥ १४६९ ॥ अभ्रिश्च काष्ठकुद्दालः नावोऽवकारक्षेपके । सेचनं सेकपात्रं नौजलक्षेपणमात्रके ॥ १४७० ॥ ;p{0234} कर्णश्च केनिपातश्च कोटिपात्रस्तथैव च । अरित्रं चेति नौकायाः सुकानः कथ्यते बुधैः ॥ १४७१ ॥ ;c{* लघुनौनामानि *} उडुपश्च तरण्डश्च कोलो भेलस्तथा प्लवः । एतन्नामानि कथ्यन्ते लघुनौ वस्तुनो बुधैः ॥ १४७२ ॥ आतरस्तरपण्यं च नौशुल्कमुच्यते जनैः । ;c{* कुसीदकनामानि *} वृद्ध्याजीवो वार्धुषिः वार्धुषिकः कुसीदकः ॥ १४७३ ॥ द्वैगुणिकश्च नामाऽपि प्रोक्तं कुशीदग्राहिणः । ;c{* कुशीदनामानि *} कुशीदं कुषीदं चाऽर्थप्रयोगः वृद्धिजीवनम् ॥ १४७४ ॥ कुसीदं चेति नामानि कुसीदस्य भवन्ति वै । ;c{* वृद्धिनाम *} वृद्धिः कलान्तरं नाम मूलधनस्य वर्द्धने ॥ १४७५ ॥ ;c{* ऋणनामानि *} पर्युदञ्चनमुद्धार ऋणं नाम त्रयं भवेत् । ;p{0235} ;c{* याचितकनाम *} याचितकं तु नामेदं याच्ञयाप्ते प्रकथ्यते ॥ १४७६ ॥ ;c{* आपमित्यकनाम *} यद् वस्तु परिवृत्या वै नीयते चाऽऽपमित्यकम् । ;c{* अधमर्णनाम *} ग्राहकश्चाऽधमर्णो वै ऋणनेतरि कथ्यते ॥ १४७७ ॥ ;c{* उत्तमर्णनाम *} दायकश्चोत्तमर्णो वै ऋणदातरि मन्यते । ;c{* प्रतिभूनाम *} प्रतिभूर्लग्नकः प्रोक्तः प्रतिनिधिर्जनस्य वै ॥ १४७८ ॥ ;c{* साक्षिनामानि *} मध्यस्थः प्राश्निकः साक्षी स्थेयः सत्यं वदेत् सदा । कथ्यते कूटसाक्षी च मिथ्याभाषी निगद्यते ॥ १४७९ ॥ दुष्टसाक्षी तथा सूची दुष्टतयाऽन्यथा वदेत् । ;c{* बन्धकनाम *} आधिस्तु बन्धको लोके तत्र स्याद्यत्र रक्ष्यते ॥ १४८० ॥ ;p{0236} ;c{* पौतवनाम *} पौतवं यौतवं नाम तुलादौ मापने स्मृतम् । ;c{* मापननाम *} द्रुवयं पाय्यमित्यादि मापनं स्याद् विभिन्नकान् ॥ १४८१ ॥ तुलादौ पौतवं मानं द्रुवयं कुडवादिभिः । पाय्यं हस्तादिभिर्मानमिति भेदोऽत्र ज्ञायताम् ॥ १४८२ ॥ ;c{* सुवर्णमापननाम *} गुञ्जा लताफलं किञ्चिद् रक्तिका सैव कथ्यते । पञ्च गुञ्जाः माषकः स्यात् स्वर्णकारस्य तोलने ॥ १४८३ ॥ षोडशः माषकाणां तु कर्षः स्यादऽक्ष एव वा । चतुःकर्षाः पलं ज्ञेयं पुनः कर्षचतुष्टयम् ॥ १४८४ ॥ प्रोक्तः सुवर्णो हेम्नोऽक्षे विस्तोऽप्यशितिरक्तिकाः । कथ्यते कुरुविस्तस्तु पलमेकं सुवर्णकम् ॥ १४८५ ॥ तुला पलशतं ज्ञेयं सुवर्णादिकमापने । शलाट आचितो भारः शाकटीनश्च शाकटः ॥ १४८६ ॥ विंशतितुलामानं तद्द्विसहस्रपलानि च । दशभारप्रमाणन्तु ज्ञातव्यः आचितः खलु ॥ १४८७ ॥ ;p{0237} ;c{* धान्यादिमापननाम *} उभयाञ्जलिमानं वै प्रसृतं कुडवोऽथवा । चतुर्भिः कुडवैः प्रस्थः प्रोच्यते हि महीतले ॥ १४८८ ॥ आढकश्चतुर्भिः प्रस्थः द्रोणश्चतुर्भिराढकैः । खारी षोडशभिर्द्रोणैर्मन्यते व महीतले ॥ १४८९ ॥ चतुर्विशत्यङ्गुलानां हस्तो भवति मापने । चतुर्हस्तस्तु विज्ञेयो दण्डो मापनकर्म्मणि ॥ १४९० ॥ दण्डानान्तु द्विसहस्रं क्रोशो गव्यूतमुच्यताम् । गव्यूतं गोरुतं गव्या गव्यूतिश्च द्विक्रोशकः ॥ १४९१ ॥ योजनं तु चतुष्क्रोशं मार्गमापनकर्म्मणि ॥ १४९२ ॥ ;c{* पाशुपाल्यनाम *} पाशुपाल्यं जीववृत्तिः पशुपालनकर्मणि । ;c{* गोपालकनामानि *} गोपालनकार्य्यरतो गवीश्वरो गवेश्वरः ॥ १४९३ ॥ गोमान् गोमी च गोधुक् तु गोसङ्ख्यश्च वल्लवः । आभीरश्चापि गोपालो गोपश्चेति हि मन्यते ॥ १४९४ ॥ प्रसिद्धोऽधिकृतो गोषु गोविन्दः कथ्यते बुधैः । जाबालस्त्वजजीविको बर्करस्य च पालकः ॥ १४९५ ॥ ;p{0238} ;c{* कृषिकनामानि *} कर्षकः कार्षकः क्षेत्री कृषिकः कृषको हली । कृषीबलः कुटुम्बी च क्षेत्राजीवोऽपि कथ्यते ॥ १४९६ ॥ ;c{* हलिनामानि *} जित्या हलिश्च नामाऽस्ति महाहलं हि मन्यते । गोदारणं हलं सीरस्तथा लघुश्च लाङ्गलम् ॥ १४९७ ॥ ईषा नाम तथेषाऽपि हलदण्डो हि कथ्यते । सीता शीता च क्षेत्रे हि हलरेखा निगद्यते ॥ १४९८ ॥ निरीशं च निरीषं वै कुटकं कूटकं पुनः । हलदण्डं विना मात्रः फालो यत्र च ध्रियते ॥ १४९९ ॥ ;c{* फालनामानि *} कुशिकः कृषकः फालः फलं क्षेत्रविदारकम् । दात्रं तथा लवित्रं तन्मुष्टौ वण्टश्च मन्यते ॥ १५०० ॥ मत्यं ख्यातं कृषेः कर्म्महलकृष्टसमीकृतौ । गोदारणञ्च कुद्दालः खनित्रं त्ववदारणम् ॥ १५०१ ॥ ;c{* प्रतोदनामानि *} प्रतोदस्तोदनं तोत्रं प्रवयणं च प्राजनम् । पञ्चनामानि दण्डस्य येन सञ्चाल्यते वृषः ॥ १५०२ ॥ ;p{0239} ;c{* योत्रनामानि *} योत्रञ्च योक्त्रमाऽऽबन्धः रज्जुचर्मकृते भवेत् । ;c{* लोष्ठभेदननामानि *} कोटीशः कोटिशश्चैव लोष्ठभेदनमत्र तु ॥ १५०३ ॥ काष्ठस्य मुद्गरो नाम कथ्यते लोष्ठभेदके । मेथिर्मेधिः खलेवाली खलशङ्कुर्निगद्यते ॥ १५०४ ॥ ;c{* शूद्रनामानि *} अन्त्यवर्णस्तथा शूद्रः पद्यः पञ्जो जघन्यजः । वृषलश्चेति नामानि शूद्रस्य संभवन्ति वै ॥ १५०५ ॥ ;c{* विभिन्नशूद्रजातिनामानि *} तेऽपि मूर्द्धावसिक्तादौ रथकृन् मिश्रजातयः । क्षत्रियायां द्विजाज्जातो मूर्धावसिक्त उच्यते ॥ १५०६ ॥ द्विजाद् वैश्यस्त्रियां जातोऽम्बष्ठो हि कथ्यते पुनः । पारशवो निषादश्च जातः शूद्रस्त्रियां द्विजात् ॥ १५०७ ॥ क्षत्राद् वैश्यस्त्रियां जातो माहिष्यो मन्यते स वै । उग्रश्च कथ्यते क्षत्रादुत्पन्नो विट्स्त्रियां भुवि ॥ १५०८ ॥ वैश्यात् शूद्रस्त्रियां जातो करणः कथ्यते किल । आयोगवोऽपि जातो वै शूद्राद् वैश्यस्त्रियां पुनः ॥ १५०९ ॥ ;p{0240} क्षत्ता शूद्रात् प्रविज्ञेयो जातो वै क्षत्रियस्त्रियाम् । चण्डालः कथ्यते शूद्राद् जातो वै ब्राह्मणस्त्रियाम् ॥ १५१० ॥ मागधः क्षत्रियायां वै वैश्याद् जातो हि मन्यते । पुनः वैदेहको वैश्याद् द्विजस्त्रियां हि कथ्यते ॥ १५११ ॥ सूतस्तु क्षत्रियाज्जातः द्विजस्त्रियां हि मन्यते । इति च द्वादश भेदाः कथ्यन्ते शूद्रकस्य वै ॥ १५१२ ॥ माहिष्येण हि जातः स्यात् करण्यां रथकारकः । ;c{* शिल्पिनामानि *} शिल्पी च प्रकृतिः कारी कारुश्चेत्यपि कथ्यते ॥ १५१३ ॥ शिल्पिनां समुदायोऽपि श्रेणिश्च मन्यते बुधैः । ;c{* शिल्पनामानि *} शिल्पं कला व विज्ञानं नाम शिल्पस्य कथ्यते ॥ १५१४ ॥ ;c{* मालाकारनामानि *} मालाकारो मालिकश्च पुष्पाजीवोऽपि मन्यते । ;c{* पुष्पलावीनाम *} प्रोक्तं नाम पुष्पलावी पुष्पाणामवचायिनि ॥ १५१५ ॥ ;p{0241} ;c{* कल्यपालनामानि *} वारिवासः सुराजीवी कल्यपालश्च शौण्डिकः । तथा पानवणिक् मण्ढहारकश्चाऽऽसुतीबलः ॥ १५१६ ॥ कलालस्येति नामानि प्रोक्तान्यथ ध्वजो ध्वजी । ;c{* मदिरानामानि *} सुरा स्वादुरसा शुण्डा परिस्त्रुत् च परिस्रुता ॥ १५१७ ॥ देवसृष्टा प्रसन्ना च गन्धोत्तमा परिप्लुता । मार्द्वीकं मदिरा मद्यं मदिष्ठा मदनाऽब्धिजा ॥ १५१८ ॥ कल्यं कश्यं च माध्वीकं कापिशं कापिशायनम् । कादम्बरी वारुणी हाला हारहूरं हलिप्रिया ॥ १५१९ ॥ इरा मधु च मन्यन्ते मद्यनामानि वै पुनः । मध्वासवो माधवको मधुमिश्रसुरा भवेत् ॥ १५२० ॥ मीरादेशसमुत्पन्ना मैरेयः शीधुरासवः । जगलो मेदकश्चैव मद्यपङ्कः सुराभिदः ॥ १५२१ ॥ किण्वं कण्वं मद्यबीजं नग्नहुश्चापि नग्नहूः । मद्यनिर्माणहेतूनां बीजानां कथने भवेत् ॥ १५२२ ॥ ;p{0242} आसवोऽभिषवो मद्यसन्धानमाऽऽसुतिश्च वै । अर्कसम्पादनैः कार्यैः मद्यनिर्माणिका क्रिया ॥ १५२३ ॥ मन्यते मद्यमण्डश्च कारोत्तमस्तथैव च । मद्यस्य स्वच्छभागो वै पुनः मद्यतरी भवेत् ॥ १५२४ ॥ ;c{* मद्यपात्रनामानि *} अनुतर्षश्च गल्वर्कः चषकश्चानुतर्षणम् । कथ्यते सरकश्चेति मद्यपानस्य पात्रकम् ॥ १५२५ ॥ मद्यपानमपि प्रोक्तं सरकश्चानुतर्षणम् । शूण्डा पानमदस्थानं मद्यपानस्थलं भवेत् ॥ १५२६ ॥ मधुक्रमाः मधुवराः मद्यपानस्य पद्धतिः । सहपानं सपीतिश्च सहपानक्रियाविधौ ॥ १५२७ ॥ आपानं पानगोष्ठिका समूहमद्यपस्थलम् । उपदंशोऽवदंशश्च चक्षणं मद्यपाशनम् ॥ १५२८ ॥ भुङ्क्ते मदिरया सार्द्धं तस्मिन् खाद्ये च मन्यते । ;c{* स्वर्णकारनामानि *} स्वर्णकारः कलादश्च नाडिंधमश्च मुष्टिकः ॥ १५२९ ॥ एतन्नामानि मन्यन्ते स्वर्णकारस्य साक्षरैः । तैजसावर्त्तनी मूषा मूषायाः नाम वर्तते ॥ १५३० ॥ ;p{0243} चर्मप्रसेविका भस्त्रा प्रोक्तश्चर्मप्रसेवकः । आस्फोटनी वेधनिका मौक्तिकछेदशस्त्रकम् ॥ १५३१ ॥ निकषस्तु कषः शाणः कषपाषाण उच्यते । कङ्कमुखश्च संदंशः संदंशस्य हि कथ्यते ॥ १५३२ ॥ यन्त्रकं च भ्रमः कुन्दं मद्यभ्रामकयन्त्रकम् । ;c{* मणिकारनाम *} प्रोक्तं नाम मणिकारो वैकटिकोऽपि कथ्यते ॥ १५३३ ॥ ;c{* शौल्विकनाम *} शौल्विकस्ताम्रकुट्टको मन्यते शौल्विकस्य हि । ;c{* शाङ्खिकनाम *} काम्बविकश्च शाङ्खिकः कथ्यते शाङ्खिकस्य वै ॥ १५३४ ॥ ;c{* सौचिकनाम *} सौचिकस्तुन्नवायश्च नामोक्तं सौचिकस्य हि । ;c{* कर्त्तरीनामानि *} कर्त्तरी कर्त्तरिश्चैवं कृपाणी कल्पनी पुनः ॥ १५३५ ॥ वस्त्रादिकर्त्तनं कर्तुं शक्तं लौहकृतं भवेत् । ;p{0244} ;c{* सूचीनामानि *} सूची सूचिश्च सेवनी वस्त्रं येन च सीव्यति ॥ १५३६ ॥ ;c{* सूचिसूत्रनाम *} पिप्पलकं सूचिसूत्रं सूचिसूत्रस्य नाम वै । ;c{* कर्त्तनसाधननाम *} कर्त्तनसाधनं तर्कुः स च त्रागो हि कथ्यते ॥ १५३७ ॥ ;c{* पिञ्जननामानि *} तुलस्फोटनकार्मुकं विहननं च पिञ्जनम् । एतन्नामानि कथ्यन्ते यन्त्रके पिञ्जनस्य वै ॥ १५३८ ॥ ;c{* सीवननामानि *} सीवनं सेवनं स्यूतिः सूचीकारस्य कर्मणि । ;c{* स्यूतनाम *} स्यूतः प्रसेवकश्चैव स्यूतं वस्त्रादि कथ्यते ॥ १५३९ ॥ ;c{* तन्तुवायनामानि *} तन्तुवायः कुविन्दश्च तन्त्रवायोऽपि मन्यते । त्रसरः सूत्रवेष्टनं वानस्य साधनं भवेत् ॥ १५४० ॥ ;p{0245} व्यूतिर्वाणिस्तथा वानं चेति वानस्य कथ्यते । वानदण्डो वापदण्डो वेमो वेमा च मन्यते ॥ १५४१ ॥ सूत्राणि तन्तवश्चैव सूत्रसंज्ञाद्वयं भवेत् । ;c{* रजकनामानि *} निर्णेजकश्च धावको रजको वस्त्रशुद्धिकृत् ॥ १५४२ ॥ ;c{* चर्मकारनामानि *} चर्मकृत् पादुकाकृत् च कथ्यते चर्मकारकः । ;c{* पादुकानामानि *} उपानत् पादपीठी च पादवीथी पदत्वरा ॥ १५४३ ॥ पादरथी च पन्नद्धा पादुका पादरक्षणम् । पेशी प्राणहिता पादूः पदायता पदायिका ॥ १५४४ ॥ पादत्राणं च कथ्यन्ते नामानि पादजङ्घु च । ;c{* पादुकाविशेषनाम *} पुनश्चाऽनुपदीनाऽबद्धाऽनुपदं मन्यते बुधैः ॥ १५४५ ॥ ;c{* वरत्रानामानि *} नद्ध्री वद्ध्री वरत्रा च चर्मकृत्पादुसूत्रकम् । ;p{0246} ;c{* आरानामानि *} चर्मछिच्छत्रमाऽऽरा स्यात् तथा चर्मप्रभेदिका ॥ १५४६ ॥ चर्मसीवनी सैवास्ति येन चर्मादि छिद्यते । ;c{* कुम्भकारनामानि *} दण्डभृत् कुम्भकारश्च कुलालश्चक्रजीवकः ॥ १५४७ ॥ ;c{* शस्त्रघर्षकनामानि *} शस्त्रमार्जो भ्रमासक्तः शाणाजीवोऽसिधावकः । ;c{* तैलिकनामानि *} चाक्रिकस्तैलिकस्तैली तिलंतुदश्च धूसरः ॥ १५४८ ॥ ;c{* खलनाम *} पिण्याकश्च खलो नाम तिलादिनामसारभाक् । ;c{* रथकारनामानि *} रथकृत् रथकारश्च तक्षा त्वष्टा च वर्द्धकिः ॥ १५४९ ॥ काष्ठतट् रथपतिश्चेति सर्वनामानि वर्द्धकेः । ग्रामतक्षः पुनर्नाम ग्रामायत्तो हि मन्यते ॥ १५५० ॥ ;p{0247} कथ्यते कौटतक्षोऽपि स्वतन्त्रो वर्द्धकिः पुनः । ;c{* वासीनामानि *} तक्षणी वृक्षभिद् वासी तस्यास्त्रं येन छिद्यते ॥ १५५१ ॥ ;c{* क्रकचनाम *} क्रकचं करपत्रकं काष्ठादेस्तु विदारके । ;c{* उद्घननाम *} निक्षिप्य तक्ष्यते काष्ठं यत्र काष्ठे स उद्घनः ॥ १५५२ ॥ ;c{* वृक्षादननाम *} वृक्षभेदी वृक्षादनः स्यात् कुठारस्य नाम वै । ;c{* टङ्कनाम *} पाषाणत्रोटकं वस्तु टङ्कः पाषाणदारकः ॥ १५५३ ॥ ;c{* लोहकारनामानि *} कर्मारो लोहकारश्च व्योकारो लोहकर्मकृत् । ;c{* अयोधननाम *} कूटमऽयोधनो नाम लोहमुद्गरकस्य वै ॥ १५५४ ॥ ;p{0248} ;c{* व्रश्चननाम *} व्रश्चनः पत्रपरशुर्नामोक्तं वश्चनस्य वै । ;c{* तूलिकानामानि *} काष्ठलौहशलाका स्यादोषीका तूलिकेषिका ॥ १५५५ ॥ ;c{* कान्दविकनाम *} कथ्यते भक्ष्यकारो हि कान्दविको बुधैर्जनैः । ;c{* कन्दुनाम *} कन्दुः स्वेदनिका चैव लौहभाजनमुच्यते ॥ १५५६ ॥ ;c{* चित्रकारनामानि *} तौलिकिको रङ्गाजीवश्चित्रकारः चित्रकृत् । नामान्येतानि कथ्यन्ते चित्रकारस्य कोविदैः ॥ १५५७ ॥ ;c{* कूचिकानाम *} कूचिका तूलिका चैवं चित्रकारस्य साधनम् । ;c{* चित्रनाम *} आलेख्यं चापि चित्रं वै चित्रस्य नाम मन्यते ॥ १५५८ ॥ ;p{0249} ;c{* लेपकनामानि *} लेप्यकृत् लेपको नाम पलगण्डोऽपि कथ्यते । ;c{* पुस्तनाम *} लेप्यादि कर्म पुस्तं स्यात् खेलनार्थं मुदां कृतम् ॥ १५५९ ॥ ;c{* नापितनामानि *} नापितोऽन्तावसायी च भण्डिवाहश्च भाण्डिकः । भण्डिवाही दिवाकीर्तिः ग्रामणीश्चण्डिलः पुनः ॥ १५६० ॥ क्षुरी च क्षुरमर्दी च क्षौरिको मुण्डकस्तथा । नामान्येतानि कथ्यन्ते नापितस्य हि पण्डितैः ॥ १५६१ ॥ ;c{* मुण्डननामानि *} मुण्डनं वपनं क्षौरं भद्राकरणमित्यपि । परिवापणं संप्रोक्तं केशच्छेदनकर्म्मणि ॥ १५६२ ॥ ;c{* नाराचीनाम *} नाराची चैषणी नाम व्रणशोधकशस्त्रके । ;c{* देवलनाम *} देवाजीवो देवलश्च कथ्यते देवपूजकः ॥ १५६३ ॥ ;p{0250} ;c{* मार्दङ्गिकनाम *} मौरजिको मार्दङ्गिकश्चोक्तो मृदङ्गवादकः । ;c{* वैणिकनाम *} वीणायाः वादकः प्रोक्तो वीणावादश्च वैणिकः ॥ १५६४ ॥ ;c{* वांशिकनामानि *} वैणविकश्च वेणुध्मो वांशिको वेणुवादकः । ;c{* पाणिवादकनाम *} तालं ददाति हस्ताभ्यां पाणिघः पाणिवादकः ॥ १५६५ ॥ ;c{* इन्द्रजालिकनाम *} स्यात् प्रातिहारिको मायाकारश्चैवेन्द्रजालिकः । ;c{* मायानाम *} इन्द्रजालादि विद्याया नाम माया च शाम्बरी ॥ १५६६ ॥ ;c{* इन्द्रजालनामानि *} इन्द्रजालं तथा जालं कुहकं कुहुकं पुनः । कुसृतिश्चेति नामानि कथ्यन्ते कुहुकस्य वै ॥ १५६७ ॥ ;p{0251} ;c{* कौतुकनामानि *} कौतूहलं च कौतुकं कुतुकञ्च कुतूहलम् । विनोदश्चेति नामानि कथ्यन्ते कौतुकस्य वै ॥ १५६८ ॥ ;c{* व्याधनामानि *} व्याधो मृगवधाजीवी मृगयुर्लुब्धकः पुनः । नामान्येतानि चत्वारि मन्यन्ते लुब्धकस्य वै ॥ १५६९ ॥ ;c{* पापर्द्धिनामानि *} आच्छोदनं तथाऽऽखेटो मृगव्यं मृगया पुनः । पापर्द्धिश्चेति नामानि कथ्यन्ते पण्डितैर्जनैः ॥ १५७० ॥ ;c{* जालिकनाम *} वागुरिकश्च जालिको जालेन मृगहन्तरि । ;c{* मृगजालिकानाम *} वागुरा मृगजालिका मृगजालस्य नाम स्यात् ॥ १५७१ ॥ ;c{* रज्जुनामानि *} गुणो रज्जुस्तथा शुम्बं शुल्वं वटारको वटी । तन्त्री तन्त्रिश्च नामानि मन्यन्ते रज्जुवस्तुनः ॥ १५७२ ॥ ;p{0252} ;c{* कैवर्त्तनामानि *} कैवर्तो धीवरो दाशो मत्स्यग्राही भवेत् पुनः । ;c{* मत्स्यवेधननामानि *} वडिशं बडिशं चैव मत्स्यवेधनमित्यपि ॥ १५७३ ॥ मत्स्यवेधकलौहास्त्रं कथ्यतेऽत्र सदा जनैः । ;c{* मत्स्यजालनाम *} आनायो मत्स्यजालञ्च मत्स्यानां ग्राहको भवेत् ॥ १५७४ ॥ ;c{* मत्स्यबन्धनीनाम *} गृहीतमत्स्यपात्रन्तु कुवेणी मत्स्यबन्धनी । ;c{* शाकुनिकनाम *} पक्षिणां घातकः प्रोक्तः शाकुनिको जीवान्तकः ॥ १५७५ ॥ ;c{* मांसिकनामानि *} कौटिकः खट्टिकश्चैव वैतंसिकश्च मांसिकः । सौनिकश्चेति नामानि मन्यन्ते मांसिकस्य वै ॥ १५७६ ॥ सूना पशुवधस्थानं पशुबन्धनसाधनम् । वीतंसश्च वितंसो वै कथ्यते विबुधैरिह ॥ १५७७ ॥ ;p{0253} ;c{* पाशनाम *} पाशो बन्धनग्रन्थिश्च मृगादिबन्धसाधनम् । ;c{* अवटनाम*} अवटो ह्यवपातश्च मृगादिपातखातकम् ॥ १५७८ ॥ ;c{* कूटयन्त्रनाम *} उन्माथः कूटयन्त्रं च पाशयन्त्रं पुनः खलु । नामान्येतानि कथ्यन्ते पश्वादेर्ग्रहणे सदा ॥ १५७९ ॥ ;c{* नीचनामानि *} इतरः पामरो नीचः प्राकृतश्च पृथग्जनः । विवर्णो बर्बरश्चेति नामानि विलसन्ति वै ॥ १५८० ॥ ;c{* चण्डालनामानि *} चण्डालश्चैव चाण्डालः श्वपचः पुक्कसः प्लवः । पुष्कसो बुक्कसश्चापि निषादश्च जनङ्गमः ॥ १५८१ ॥ मातङ्गोऽन्तावसायी वै दिवाकीर्तिः पुनः किल । अन्तेवासीति नामानि मन्यन्ते पण्डितैर्जनैः ॥ १५८२ ॥ डोम्बश्च श्वपचो नाम डोम्बजाते हि कथ्यते । बुक्कसो मृतपः प्रोक्तः श्मशानकार्यकारकः ॥ १५८३ ॥ ;p{0254} ;c{* म्लेच्छजातिनामानि *} मालाः भिल्लाः पुलिन्दाश्च किराताः वकटाः भटाः । शबराः नाहलाः निष्ट्याश्चेत्युक्ता म्लेच्छजातयः ॥ १५८४ ॥ ;c{इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन-सम्राट-जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोक-प्रमाण-नूतन-संस्कृत-साहित्यसर्जक-परमशासन-प्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्च-प्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां तृतीयो मर्त्यविभागः समाप्त ॥ ३ ॥} ;p{0255} ;k{तिर्यग्विभागः} ;c{॥ चतुर्थस्तिर्यग्विभागः ॥} ;c{तत्र} ;v{पृथ्वीकायनामानि} ;c{* पृथ्वीकायनामानि *} विश्वा विश्वम्भरा भूमिर्वसुमती वसुन्धरा । उर्वी धात्री धरित्री च धरणी धरणिर्धरा ॥ १५८५ ॥ स्थिरा क्ष्मा च क्षमा क्षान्ता क्षोणी क्षोणिः क्षितिर्मही । मेदिनी पृथिवी पृथ्वी काश्यपी कुश्च केलिनी ॥ १५८६ ॥ भूतधात्री घनश्रेणी मौलिर्मेर्वर्द्रिकर्णिका । मध्यलोका महाकान्ता रत्नगर्भाऽचला रसा ॥ १५८७ ॥ सागरमेखला ज्या वै वसुधा सागराम्बरा । समुद्रवसना भूश्च समुद्ररशना तथा ॥ १५८८ ॥ गोत्रा सागरनेमी च गोत्रकीला जगद्वहा । अवनिश्चावनी गोर्गौः बीजसूः रत्नसूस्तथा ॥ १५८९ ॥ रत्नवती महास्थाली जगती चाम्बरस्थली । विपुला पर्वताधारा गन्धमाता च देहिनी ॥ १५९० ॥ ;p{0256} इला समुद्रकाञ्चिश्चाऽनन्ता सर्वंसहा तथा । नामान्येतानि सर्वाणि कथ्यन्ते विबुधैः क्षितेः ॥ १५९१ ॥ ;c{* स्वर्गभूम्योर्नामानि *} द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी । तथा दिवस्पृथिव्यौ वै द्यावाक्षमे च रोदसी ॥ १५९२ ॥ दिवःपृथिव्यौ नामापि स्वर्गभूम्योर्हि कथ्यते । ;c{* भूविशेषनामानि *} उर्वरा सर्वसस्या क्ष्मा विश्वे हि मन्यते जनैः ॥ १५९३ ॥ इरिणं चोषरं नाम प्रोक्तमूषरभूषु वै । स्थलं स्थली च सा भूमिर्जलं यत्र न तिष्ठति ॥ १५९४ ॥ स्थला कृत्रिमभूमिः स्यात् मरुर्धन्वा जलं विना । अप्रहतं खिलं क्षेत्रं कृतं यत्र न कर्षणम् ॥ १५९५ ॥ ;c{* मृत्तिकानामानि *} मृद् मृत्तिका च सामान्या क्षारा भूमिरुषः स्मृतः । मृत्सा मृत्स्ना च सा ख्याता यत्र मृच्छोभना भवेत् ॥ १५९६ ॥ ;c{* लवणनामानि *} रुमा लवणखानिः स्यात् सामुद्रं लवणं पुनः । वशिरोऽक्षीवमाख्यातं सामुद्रे लवणे सदा ॥ १५९७ ॥ ;p{0257} ;c{* सैन्धवनामानि *} सैन्धवं माणिबन्धं च माणिमन्थं च सिन्धुजम् । माणिमन्तं तथा शीतशिवं चोक्तं नदीभवम् ॥ १५९८ ॥ ;c{* वसुकलवणनामानि *} रोमकञ्च रुमाभवं वसूकं वसुकं वसु । ;c{* विडलवणनामानि *} पाक्यं विडं बिडं पक्वलवणं कृत्रिमं भवेत् ॥ १५९९ ॥ ;c{* सौवर्चलनामानि *} सौवर्चलेऽक्षं दुर्गन्धं रुचकञ्च शूलनाशनम् । प्रोक्तं तु तिलकं नाम निर्गन्धं कृष्णवर्णकम् ॥ १६०० ॥ ;c{* यवक्षारनामानि *} यवाग्रजो यवक्षारः पाक्यश्च यवनालजः । नामान्येतानि मन्यन्ते यवक्षारस्य साक्षरैः ॥ १६०१ ॥ ;c{* टङ्कणनामानि *} टङ्कणष्टङ्कनो लोहश्लेषणो रसशोधनः । मालतीतीरजश्चैव प्रोक्तः पाचनकः पुनः ॥ १६०२ ॥ ;p{0258} ;c{* स्वर्जिकाक्षारनामानि *} कापोतः स्वर्जिकाक्षारः सृजिकाक्षार इत्यपि । सुखवर्चकश्च लोके साजी सज्जीति वा भवेत् ॥ १६०३ ॥ ;c{* स्वर्जिकानामानि *} स्वर्जिका स्वर्जिश्च स्रुग्घ्नी योगवाही सुवर्चिका । लवणस्यैव भेदाः स्युर्गुणरूपविभागतः ॥ १६०४ ॥ ;c{* भरतादिक्षेत्रनामानि *} भरतान्यैरावतानि विदेहाश्च विना कुरून् । क्षेत्राणि कर्मभूम्यः स्युः पञ्चदशैव नामतः ॥ १६०५ ॥ शेषाणि सर्ववर्षाणि मन्यन्ते फलभूमयः । तन्नामानि कथ्यन्ते त्रिंशत्संख्यानि चात्र हि ॥ १६०६ ॥ हैमवतानि पञ्च स्युः हरिवर्षाणि पञ्च च । रम्यकाण्यपि पञ्चैव हैरण्यवतान्येव हि ॥ १६०७ ॥ देवकुरववर्षाणि पञ्च संख्यानि तानि वै । उत्तरकुरवश्चापि पञ्चसंख्यकाः सन्ति नामतः ॥ १६०८ ॥ ;c{* पञ्च भरतक्षेत्राणि यथा } ;c{जम्बूद्वीपे भरतक्षेत्रमेकमेव धातकीखण्डे भरतक्षेत्रं द्वयमेव पुष्करवरद्वीपार्धेऽपिच भरतक्षेत्रं द्वयमेव वर्तते ।} ;p{0259} ;c{* देशनामानि *} वर्षं वर्षधराद्यङ्कं क्षेत्रसंज्ञा निगद्यते । देशो जनपदो राष्ट्रं नीवृत् निर्गश्च मण्डलम् ॥ १६०९ ॥ ;c{पञ्चैरावतक्षेत्राणि यथा-} ;c{जम्बूद्वीपे ऐरावतक्षेत्रमेकमेव धातकीखण्डे ऐरावतक्षेत्रं द्वयमेव पुष्करवरद्वीपार्धेऽपि चैरावतक्षेत्रं द्वयमेव वर्तते ।} ;c{पञ्महाविदेहक्षेत्राणि यथा-} ;c{जम्बूद्वीपे महाविदेहक्षेत्रमेकमेव धातकीखण्डे महाविदेहक्षेत्रं द्वयमेव, पुष्करवरद्वीपार्धेऽपि च महाविदेहक्षेत्रं द्वयमेव वर्तते । तानि सर्वाणि मिलित्वा पञ्चदश क्षेत्राणि कर्मभूम्यां वर्तन्ते ।} ;c{पञ्च हैमवतक्षेत्राणि यथा-} ;c{जम्बूद्वीपे हैमवतक्षेत्रमेकमेव धातकीखण्डे हैमवतक्षेत्रं द्वयमेव पुष्करवरद्वीपार्द्धेऽपि च हैमवतक्षेत्रं द्वयमेव वर्तते ।} ;c{पञ्च हरिवर्षक्षेत्राणि यथा-} ;c{जम्बूद्वीपे हरिवर्षक्षेत्रमेकमेव धातकीखण्डे हरिवर्षक्षेत्रं द्वयमेव पुष्करवरद्वीपार्द्धेऽपि च हरिवर्षक्षेत्रं द्वयमेव वर्तते ।} ;c{पञ्च रम्यकक्षेत्राणि तद्यथा-} ;c{जम्बूद्वीपे रम्यकक्षेत्रमेकमेव धातकीखण्डे रम्यकक्षेत्रं द्वयमेव पुष्करवरद्वीपार्द्धेऽपि च रम्यकक्षेत्रं द्वयमेव वर्तते ।} ;p{0260} तथोपावर्त्तनं चापि विषयश्चोपवर्त्तनम् । नामान्येतानि मन्यन्ते देशस्य विबुधैर्भुवि ॥ १६१० ॥ आर्यावर्त्तस्तथाऽऽचारवेदी च पुण्यभूः पुनः । जिनचक्र्यर्द्धचक्रियां जन्मभूमिर्हि मन्यते ॥ १६११ ॥ विन्ध्यहिमागयोर्मध्यप्रदेशो कथ्यते स च । पूर्वपिश्चमयोः सिन्धोर्मध्यभागोऽपि मन्यते ॥ १६१२ ॥ ;c{पञ्च हैरण्यवतक्षैत्राणि यथा-} ;c{जम्बूद्वीपे हैरण्यवतक्षेत्रमेकमेव धातकीखण्डे हैरण्यवतक्षेत्रं द्वयमेव पुष्करवरद्वीपार्द्धेऽपि च हैरण्यवतक्षेत्रं द्वयमेव वर्तते ।} ;c{पञ्च देवकुरुक्षेत्राणि यथा-} ;c{जम्बूद्वीपे देवकुरुक्षेत्रमेकमेव धातकीखण्डे देवकुरुक्षेत्रं द्वयमेव पुष्करवरद्वीपार्द्धेऽपि च देवकुरुक्षत्रं द्वयमेव वर्तते ।} ;c{पञ्चोत्तरकुरुक्षेत्राणि यथा-} ;c{जम्बूद्वीपे उत्तरकुरुक्षेत्र मेकमेव धातकीखण्डे उत्तरकुरुक्षेत्रं द्वयमेव पुष्करवद्वीपार्द्धेऽपि च उत्तरकुरुक्षेत्रं द्वयमेव वर्तते । तानि मिलित्वा त्रिंशत्क्षेत्राणि वर्त्तन्तेऽकर्मकभूम्याम् । तत्र युगलिकमनुष्याः निवसन्ति ।} ;c{[इति जिनागमेऽपिकथितम्]} ;p{0261} प्रयागाद् हरद्वारान्तगङ्गायमुनयोः खलु । प्रोक्तं मध्यप्रदेशं तद् चाऽन्तर्वेदिः समस्थली ॥ १६१३ ॥ ब्रह्मावर्त्त इदं नाम प्रख्यातं सर्वदा किल । सरस्वत्या दृषद्वत्या मध्यभागे बुधैरिह ॥ १६१४ ॥ विख्यातो ब्रह्मवेदिस्तु पञ्चरामह्रदस्य वै । मध्यभागो कुरुक्षेत्रे भूगोलस्य कोविदैः ॥ १६१५ ॥ धर्मक्षेत्रं प्रसिद्धं यत् कुरुक्षेत्रं तदेव हि । निश्चितं कुरुक्षेत्रस्य द्वादशयोजनावधि ॥ १६१६ ॥ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः स मध्यमः ॥ १६१७ ॥ प्राच्यः प्राग्दक्षिणो देशो नदी यावच्छरावतीम् । उदीच्यः कथ्यते विज्ञै देशो हि पश्चिमोत्तरः ॥ १६१८ ॥ प्रोक्तो म्लेच्छस्य देशो हि प्रत्यन्तो म्लेच्छमण्डलः । श्वेतमृत्तिकवान् देशः पाण्डुमृत्तिक उच्यते ॥ १६१९ ॥ पाण्डुभूमः स एवास्ति देशोऽयं शुभदः सदा । उदग्भूमश्च प्रख्यात उदङ्मृत्तिक उच्यते ॥ १६२० ॥ कृष्णभूमिवान् देशः कृष्णमृत्तिक उच्यते । कृष्णभूमः स एवात्र कथ्यते कोविदैः किल ॥ १६२१ ॥ ;p{0262} जङ्गलो जाङ्गलो देशो जलं विना च निर्जलः । अनूपश्चाऽम्बुमान् देशः स स्याद् यत्र जलं बहु ॥ १६२२ ॥ प्रोक्तः पुनः जलप्रायदेशः कच्छोऽपि तद्विधः । कुमुद्वान् कुमुदावासः कुमुद्वान् देश उच्यते ॥ १६२३ ॥ प्रदेशो बहु वेतस्वान् वेतस्वान् भूरिवेतसः । नड्वान् तु नडकीयश्च नडप्रायश्च नड्वलः ॥ १६२४ ॥ नलर्तृणाधिके देशे सर्वमेतत्प्रयुज्यते । शाड्वलः शाद्वलश्चैव शादहरित इत्यपि ॥ १६२५ ॥ हरिततृणवान् देशः प्रोक्तः प्रायेण पण्डितैः । नद्यम्बुजीवनो देशो नदीमातृक इत्यपि ॥ १६२६ ॥ वर्षाभिर्जीवनं यत्र स देशो देवमातृकः । तत्रैवार्थे बुधैरत्र वृष्टिजीवन उच्यते ॥ १६२७ ॥ प्रदेशः कामरूपाः वै तथा प्राग्ज्योतिषाः पुनः । अवन्तयश्च विख्याताः मालवाः अपि सर्वतः ॥ १६२८ ॥ त्रैपुराः डाहलाश्चैद्याः चेदयः पूर्वभारते । वङ्गाश्च हरिकेलियाः प्रोक्ता बङ्गालनामनि ॥ १६२९ ॥ चम्पोपलक्षिता अङ्गाः ऊक्ता बिहारदेशके । साल्वाश्च कारकुक्षीयाः साल्वदेशे हि कथ्यते ॥ १६३० ॥ ;p{0263} मरुदेशाः हि विज्ञेयाः मरवश्च दशेरकः । जालन्धरास्त्रिगर्त्ताः स्युःर्लाहोरस्यैकदेशकाः ॥ १६३१ ॥ तायिकास्तर्जिकाः देशास्तर्जिकस्य समीपतः । सारस्वता च कश्मीराः विकर्णिकाश्च नाम वै ॥ १६३२ ॥ माधुमताः पुनर्नाम काश्मीरस्य चतुष्टयम् । टक्कास्तथैव वाहीकाः प्रोक्ता वाहीकदेशकाः ॥ १६३३ ॥ वाह्लीका वाह्लिका ख्याता अरबस्तानदेशकाः । तुरुष्काः साखयश्चोक्ता तुर्कस्तानप्रदेशकाः ॥ १६३४ ॥ वृहद्गृहाश्च कारूषा उक्ता कारूषदेशकाः । लम्पाकाश्च मुरुण्डाः हि लम्पाकदेशकाः सदा ॥ १६३५ ॥ कुमालकाश्च सौवीराः प्रोक्ता सौवीरदेशकाः । प्रत्यग्रथा अहिच्छत्राश्चाऽहिच्छत्रप्रदेशकाः ॥ १६३६ ॥ कीकटाः मगधाः प्रोक्ता ख्याता मगधदेशकाः । ओण्ड्राश्च केरला उक्ता देशकेरलनामनि ॥ १६३७ ॥ नाम स्यात् कुन्तले देशे कुन्तला उपहालकाः । एतानि देशनामानि बहुवचने प्रयुञ्जते ॥ १६३८ ॥ ;c{* ग्रामनामानि *} ग्रामः संवसथश्चापि स्यात् प्रतिवसथस्तथा । पर्युपवसथौ प्रोक्तौ निवसथश्च निगद्यते ॥ १६३९ ॥ ;p{0264} ;c{* पाटकनाम *} ग्रामस्यार्द्वविभागो वै पाटकः कथ्यते जनैः । ;c{* सीमानामानि *} आघाटोऽन्तोऽवसानं च मर्यादा चाऽवधिर्घटः ॥ १६४० ॥ सीमा शीमा च नामानि मन्यते पण्डितो जनः । ख्याता ग्रामस्य मर्यादा ग्रामसीमा जनैः सदा ॥ १६४१ ॥ उपशल्यं पदं चापि तस्यैवार्थस्य वाचकम् । मालञ्च मालकं प्रोक्तं ग्राममध्यस्थितं वनम् ॥ १६४२ ॥ परिसरः पर्यन्तभूः ग्रामान्तस्थलमुच्यते । कर्मान्तः कर्मभूः शब्दऽकृष्टक्षेत्रस्य नाम वै ॥ १६४३ ॥ ;c{* गोष्ठनाम *} गोस्थानं स्यात् तथा गोष्ठं गौष्ठीनं भूतपूर्वकम् । आशितंगवीनं प्रोक्तं गावो यत्राशिताः पुरा ॥ १६४४ ॥ ;c{* क्षेत्रनामानि *} क्षेत्रं वप्रश्च केदारश्चोक्तं क्षेत्रस्य नाम वै । ;c{* सेतुनामानि *} आलिश्चाली तथा पालिः पाली सेतुश्च संवरः ॥ १६४५ ॥ ;p{0265} ;c{* विशेषक्षेत्रनामानि *} विज्ञेयं शाकशाकिनं शाकशाकटमित्यपि । उत्पाद्यन्ते यत्र शाकास्तस्य नामद्वयमिदम् ॥ १६४६ ॥ व्रैहेयं चापि शालेयं कथ्यते व्रीहिक्षेत्रकम् । षष्टिक्यं षष्टिकस्यं क्षेत्रमेव हि मन्यते ॥ १६४७ ॥ प्रख्यातं कौद्रवीणं तद् कोद्रवक्षेत्रमेव तु । मौद्गीनं चापि क्षेत्रं मुद्गस्य मन्यते खलु ॥ १६४८ ॥ अणव्यं चाऽऽणवीनं च चीनकस्य हि क्षेत्रकम् । पुनः भङ्ग्यं च भाङ्गीनं क्षेत्रं शणस्य कथ्यते ॥ १६४९ ॥ औमीनं चोक्तमुम्यं वै क्षुमायाः क्षेत्रकं भुवि । यवक्यं चैव यव्यं तत् क्षेत्रं यवस्य मन्यते ॥ १६५० ॥ तैलीनं चापि तिल्यं तत् क्षेत्रं तिलस्य कथ्यते । माषीणं चैव माष्यं तत् क्षेत्रं माषस्य मन्यते ॥ १६५१ ॥ कर्ष्टुं योग्यं क्षेत्रमस्ति सीत्यं हलञ्च नामतः । त्रिहल्यं चापि त्रिसीत्यं तदेव त्रिगुणाकृतम् ॥ १६५२ ॥ तृतीयाकृतं तत्क्षेत्रे त्रिःकृते हलकर्षणे । द्विगुणाकृतं द्विहल्यं शम्बाकृतं सम्बाकृतम् ॥ १६५३ ॥ द्वितीयाकृतं द्विसीत्यं द्विवारं यत्र कर्षणम् । उप्तकृष्टं बीजाकृतं यत्राद्य वप्य कर्षणम् ॥ १६५४ ॥ ;p{0266} द्रौणिको द्रोणवापश्च यत्र द्रोणमितं वपेत् । द्रौणिकाऽऽढकिका नाम पात्रस्यापि भवेत् पुनः ॥ १६५५ ॥ द्वितीयं नाम विद्वद्भिराढकवाप उच्यते । खारीकस्तस्य नामास्ति यत्र खारीमितं वपेत् ॥ १६५६ ॥ खलधानं खलं नाम यत्र धान्यादि चूर्ण्यते । ;c{* धूलीनामानि *} चूर्णं क्षोदश्च नामापि चूर्णे रजसि कथ्यते ॥ १६५७ ॥ धूलिर्धूली रजो रेणु पांशुः पांशुश्च मन्यते । ;c{* लेष्टुनामानि *} लोष्टो लोष्टुश्च लेष्टुश्च दली दलिश्च मृद्घनः ॥ १६५८ ॥ ;c{* वल्मीकनामानि *} वल्मीको वामलूरश्च नाकुश्च कृमिपर्वतः । शक्रशीरो वम्रीकूटः षड् नामानि भवन्ति वै ॥ १६५९ ॥ ;c{* नगरनामानि *} पुरी पुरिश्च पूश्चैवं पट्टनं पुटभेदनम् । अधिष्ठानं पत्तनञ्च निवेशश्च निवेशनम् ॥ १६६० ॥ ;p{0267} उद्रङ्गो निगमोद्रङ्गः स्थानीयं नगरी पुनः । नामान्येतानि मन्यन्ते पण्डितैर्नगरस्य वै ॥ १६६१ ॥ ;c{* नगरभेदः *} स्थानीयं नाम तस्यास्ति बह्वायतञ्च यत् पुरम् । द्रोणमुखं कर्वटञ्च स्थानीयात् लघु यत् पुरम् ॥ १६६२ ॥ कर्वुटिकं नाम तस्यास्ति कर्वटार्द्धं यदायतम् । विज्ञेयं कार्वटं यच्च कर्वुटिकार्द्धकं पुनः ॥ १६६३ ॥ कार्वटस्यार्द्ध तुल्यं पत्तनं पुटभेदनम् । निगमः पत्तनार्द्धं स्यात् निगमार्द्धं निवेशनम् ॥ १६६४ ॥ द्रङ्गो निवेश उद्रङ्गः पत्तनाच्छेष्ठमुच्यते । शाखापुरं चोपपुरं राजधानी पृथक् पुरम् ॥ १६६५ ॥ पुरार्द्धभागतुल्यं वै खेटनाम्ना प्रसिद्ध्यति । ;c{* राजधानीनाम *} अथ वै राजधानी च स्कन्धावारोऽपि कथ्यते ॥ १६६६ ॥ ;c{* कोट्टनाम *} दुर्गं कोट्टश्च नामापि दुर्गस्य मन्यते बुधैः । ;c{* गयानाम *} गयनामक राजर्षेः पुरं गया प्रसिद्ध्यति ॥ १६६७ ॥ ;p{0268} सुशालनाममालायां ;c{* कन्नोजनामानि *} कन्याकुब्जं तथा कौशं कन्यकुब्जं कुशस्थलम् । गाधिपुरं महोदयं चेति कन्नोज उच्यते ॥ १६६८ ॥ ;c{* काशीनामानि *} काशी काशिश्च प्रख्याता वाराणसी वराणसी । शिवपुरी च नामानि मन्यन्ते पण्डितै जनैः ॥ १६६९ ॥ ;c{* अयोध्यानामानि *} अयोध्या कोशला ख्याता साकेतं कोसला च सा । ;c{* मिथिलानाम *} प्रसिद्धा मिथिला प्रोक्ता विदेहाऽपि पुनश्च सा ॥ १६७० ॥ ;c{* त्रिपुरीनाम *} चेदीदेशस्य त्रिपुरी स्याच् चेदिनगरी पुनः । ;c{* कौशाम्बीनाम *} वत्सदेशस्य कौशाम्बी पुरी च वत्सपत्तनम् ॥ १६७१ ॥ ;c{* उज्जयनीनामानि *} उज्जयनी तथाऽवन्ती पुनः पुष्पकरण्डिनी । विशाला चेति नामानि प्रसिद्धानि भुवस्तले ॥ १६७२ ॥ ;p{0269} ;c{* पाटलीपुत्रनाम *} ख्यातं पाटलिपुत्रं च कुसुमपुरमुच्यते । ;c{* चम्पापुरीनामानि *} कर्णपूः मालिनी चम्पा लोमपादपुरी च सा ॥ १६७३ ॥ लोमपादपूः सैवास्ति कर्णपुरीति नामिका । ;c{* बाणपुरनामानि *} देवीकोटः कोटिवर्षं शोणितपुरमित्यपि ॥ १६७४ ॥ बाणासुरस्य पूः स्याच्च बाणपुरमुमावनम् । ;c{* मथुरानामानि *} मथुरा मधुरा ख्याता मधूपघ्नं च मन्यते ॥ १६७५ ॥ ;c{* हस्तिनापुरनामानि *} प्रख्यातं हस्तिनापुरं हस्तिनीपुरमित्यपि । हास्तिनपुरं प्रोक्तं च गजपुरं गजाह्वयम् ॥ १६७६ ॥ ;c{* १. अधुना पटना कथ्यते लोकैः ।} ;c{*२. अधुना भागलपुरं कथ्यते जनैः ।} ;p{0270} ;c{* तामलिप्तनामानि *} दामलिप्तं तामलिप्तं तामलिप्ती तमालिनी । स्तम्बपूस्तम्बपूरी च भवेद् विष्णुगृहं पुनः ॥ १६७७ ॥ ;c{* कुण्डिनपुरनामानि *} विदर्भा कुण्डिनापुरं कुण्डिनं कुण्डिनपुरम् । ;c{* द्वारकानामानि *} प्रोक्ता तु द्वारका द्वारावती द्वारवती पुरी ॥ १६७८ ॥ नगरी निषधा ख्याता ज्ञायते नलभूपतेः । ;c{* प्राकारनामानि *} प्राकारो वरणः सालः स्याद् दुर्गं परितः खलु ॥ १६७९ ॥ वप्रश्चयोऽपि कोट्टस्य मूलभूमौ निगद्यते । प्राकाराग्रं कपिशीर्षं प्राकारोपरि क्रियते ॥ १६८० ॥ अट्टश्चट्टालकः क्षौमं सालोपरि समस्थलम् । सैन्यगृहं कोट्टोपरि प्रोक्तं तूपरिमालके ॥ १६८१ ॥ ;c{* नगरद्वारनाम *} पूर्द्वारं गोपुरं चेति नगरद्वारमुच्यते । ;c{* रथ्यानामानि *} प्रतोली विशिखा रथ्या रथ्यानाम त्रयमिदम् ॥ १६८२ ॥ ;p{0271} ;c{* परिकूटनामानि *} नगरद्वारकूटश्च नगरद्वारकूटकः । परिकूटं हस्तिनखः पूर्द्वाराऽरोहणस्थलम् ॥ १६८३ ॥ ;c{* मुखनाम *} मुखं निःसरणं प्रोक्तं गृहप्रवेशद्वारकम् । ;c{* वाटनामानि *} वाटो वृत्तिश्च प्राचीनमाऽऽवेष्टकश्च नाम वै ॥ १६८४ ॥ गृहस्य नगरस्यापि क्रियते रक्षणाय यत् । ;c{* मार्गनामानि *} पदविः पदवी पद्या पथः पन्थाश्च पद्धतिः ॥ १६८५ ॥ एकपदी च मार्गोऽध्वा वर्त्तनी वर्त्तनिः सृतिः । सरणिः सरणी वर्त्म शरणी निगमस्तथा ॥ १६८६ ॥ अयनं चेति नामानि मार्गस्य संभवन्ति वै । ;c{* सत्पथनामानि *} अतिपन्थाः सुपन्थाश्च सत्पथः सुन्दरो भवेत् ॥ १६८७ ॥ ;c{* उन्मार्गनाम *} अपन्थाश्चाऽपथं नाम भवेदुन्मार्ग एव हि । ;p{0272} ;c{* कुमार्गनामानि *} कदध्वा कापथं व्यध्वो दुरध्वो विपथं पुनः ॥ १६८८ ॥ प्रान्तरं दूरशून्योऽध्वा कान्तारो दुर्गमः पथः । सुरङ्गा च सुरुङ्गा च सन्धिला सन्धिरेव सः ॥ १६८९ ॥ ;c{* चतुष्पथनामानि *} चतुष्पथञ्च संस्थानं चतुष्कञ्च भवेत् पुनः । ;c{* त्रिपथनाम *} त्रिदिक्षु लग्नो मार्गस्तु कथ्यते त्रिपथं त्रिकम् ॥ १६९० ॥ ;c{* द्विपथनाम *} द्विपथं चारपथश्च द्विदिशोः प्रायकं पथम् । ;c{* राजमार्गनामानि *} घण्टापथो महापयः श्रीपथो राजवर्त्म च ॥ १६९१ ॥ संसरणं चाऽसंकुल उपनिष्क्रमणमित्यपि । उपनिष्करमाख्यातं देशे राजविनिर्मितम् ॥ १६९२ ॥ ;c{* विपणिनामानि *} विपणी विपणिः पण्यवीथी च पण्यवीथिका । वणिग्मार्गश्च नामानि कथ्यन्ते विपणेः किल ॥ १६९३ ॥ ;p{0273} ;c{* स्थाननामानि *} आस्पदं स्यात् पदं स्थानं सर्वसाधारणं स्थलम । श्लेषस्त्रिमार्ग्याः शृङ्गाटं बहुमार्गी च चत्वरम् ॥ १६९४ ॥ ;c{* श्मशाननामानि *} श्मशानं करवीरं च प्रेतवनं पितृवनम् । पितृगृहं तथा प्रेतगृहं चेति प्रसिद्धकम् ॥ १६९५ ॥ ;c{* गेहभूनाम *} गृहनिर्माणयोग्या भूः गेहभूर्वास्तु कथ्यते । ;c{* गृहनामानि *} अगारञ्च गृहं गेहं सदनं सद्म मन्दिरम् ॥ १६९६ ॥ आवसथस्तथाऽऽवास आलय आश्रयः क्षयः । निवासो वेश्म निशान्तं निकाय्यश्च निकेतनम् ॥ १६९७ ॥ स्थानञ्च निलयो पस्त्यं संस्त्यायः शरणं सभा । उदवसितमाऽऽवासो भवनं वसतिस्तथा ॥ १६९८ ॥ ओकश्च धाम धामञ्च शाला कुलं तथा कुटः । नामान्येतानि कथ्यन्ते गृहस्य साक्षरैः किल ॥ १६९९ ॥ इष्टिका प्रस्तरैर्बद्धं कुट्टिमं स्थलमुच्यते । सञ्जवनं चतुःशालं चतुर्दिक्षु कृतं गृहम् ॥ १७०० ॥ ;p{0274} राज्ञां गृहन्तु प्रख्यातं सौधं वै नृपमन्दिरम् । उपकारिकोपकार्या चोपकर्याऽपि कथ्यते ॥ १७०१ ॥ ;c{* विभिन्नगृहाणां नामानि *} सौधान्तःप्रवेशाय सिंहद्वारं प्रवेशनम् । प्रसादनञ्च प्रासादं धामोक्तं देवभूपयोः ॥ १७०२ ॥ हर्म्यं स्याद् धनिनां गेहं मठ आवसथस्तथा । आवसथ्यं भवेन्नाम छात्राणां व्रतिनाञ्च वा ॥ १७०३ ॥ पर्णशाला पर्णशालमुटजो घासनिर्मितः । लोकेऽपि पर्णकुटीरनामापि मन्यते पुनः ॥ १७०४ ॥ ;c{* जिनमन्दिरनामानि *} जिनसद्म विहारश्च चैत्यमायतनं पुनः । जिनालयं च प्रख्यातं जिनमन्दिरमुच्यते ॥ १७०५ ॥ ;c{* गर्भागारनामानि *} अपवरकश्च वासौकः पुनश्च शयनास्पदम् । गर्भागारं च नामानि मन्यन्ते पण्डितैरिह ॥ १७०६ ॥ ;c{* भाण्डागारनाम *} भाण्डागारञ्च कोशोऽपि द्रव्यं रक्षति तद् भवेत् । ;p{0275} ;c{* शिरोगृहनाम *} सौधादेरुर्ध्वभागः स्याद् चन्द्रशाला शिरोगृहम् ॥ १७०७ ॥ ;c{* कुप्यशालानाम *} सन्धानी कुप्यशाला च भाण्डपात्रादिकार्यभूः । ;c{* तृणौकनाम *} तृणौकः कायमानञ्च काष्ठवंशादिनिर्मितः ॥ १७०८ ॥ ;c{* होत्रीयनाम *} होमादिकार्य्यहेत्वर्थं होत्रीयञ्च हविर्गृहम् । होत्रीयस्याग्रभागे तु प्राग्वंशः क्रियते गृहम् ॥ १७०९ ॥ ;c{* शान्तिगृहनामानि *} आथर्वणं तथा शान्तीगृहं शान्तिगृहं पनः । यज्ञस्थलसमीपस्य शान्तिगेहं हि नाम स्यात् ॥ १७१० ॥ ;c{* आस्थानगृहनाम *} आस्थानगृहमिन्द्रकं सभागृहस्य नाम स्यात् । ;c{* तैलिशालानामानि *} तैलिशाला तैलिशालं यन्त्रगृहं निगद्यताम् ॥ १७११ ॥ ;p{0276} ;c{* सूतिकागृहनाम *} पुत्रादिप्रसवस्थानमऽरिष्टं सूतिकागृहम् । ;c{* महानसनामानि *} रसवती पाकस्थानं सूदशाला महानसम् ॥ १७१२ ॥ ;c{* हस्तिशालानामानि *} चतुरं हस्तिशालं च हस्तिशालाऽपि कथ्यते । ;c{* अश्वशालानामानि *} वाजीशालाऽश्वशाला स्याद् वाजीशालं च मन्दुरा ॥ १७१३ ॥ ;c{* गोशालानाम *} सन्दानिनी च गोशाला यत्र गावो वसन्ति सा । ;c{* चित्रशालानामानि *} जालिनी चित्रशालं च चित्रशालाऽपि कथ्यते ॥ १७१४ ॥ ;c{* कुम्भशालानामानि *} कुम्भशाला कुम्भशालं प्रोक्तं पाकपुटी पुनः । ;c{* तन्तुशालानामानि *} तन्तुशाला तन्तुशालं गर्त्तिका वस्त्रकार्य्यभूः ॥ १७१५ ॥ ;p{0277} ;c{* नापितशाला *} शिल्पा नापितशाला च नापितशालमुच्यताम् । वपनी खरकुटी च केशानां वपनस्थले ॥ १७१६ ॥ ;c{* शिल्पशाला *} आवेशनं शिल्पशाला शिल्पिशालाऽपि कथ्यते । ;c{* सत्रशाला *} सत्रशाला सत्रशालं प्रतिश्रयश्च मन्यते ॥ १७१७ ॥ ;c{* आश्रमनाम *} आश्रमश्च मुनिस्थानमाश्रमस्य हि नाम वै । ;c{* अन्तिकाश्रयनाम *} उपघ्नश्चाऽन्तिकाश्रयः समीपाश्रयवान् भवेत् ॥ १७१८ ॥ ;c{* पानीयशालानामानि *} प्रपा पानीयशाला च पानीयशालमुच्यते । ;c{* मदिरागृहनाम *} मद्यपानगृहं प्रोक्तं गञ्जा च मदिरागृहम् ॥ १७१९ ॥ ;p{0278} ;c{* शबरावासनाम *} पक्वणः शबरावासो भिल्लानां स्थलमुच्यते । ;c{* आभीरपल्लिकानाम *} आभीराणां स्थलं प्रोक्तं घोषश्चाऽऽभीरपल्लिका ॥ १७२० ॥ ;c{* पण्यशालानामानि *} निषद्या पण्यशाला च विपणी विपणिस्तथा । आपणः पण्यशालं च हट्टोऽट्टः कथ्यते पुनः ॥ १७२१ ॥ ;c{* वेश्याश्रयनामानि *} पुरं वेश्याश्रयो वेश्यो वेश्यानां स्थलमुच्यते । ;c{* मण्डपनाम *} मण्डपश्च जनाश्रयः सन्मङ्गलगृहं भवेत् ॥ १७२२ ॥ ;c{* भित्तिनाम *} भित्तिः कुड्यं गृहाधारे चैडूकं तत्र कीकसम् । ;c{* वेदिकानामानि *} वितर्दी वितर्दिश्चैव वेदी वेदिश्च वेदिका ॥ १७२३ ॥ चतुष्कोणवती भूमिः काष्ठसंस्कारिता हि सा । ;p{0279} ;c{* अङ्गणनामानि *} चत्वरं प्राङ्गणं प्रोक्तं चाऽङ्गणं पुनरङ्गनम् ॥ १७२४ ॥ अजिरं चापि प्रख्यातं गृहाग्रे शोभितं स्थलम् । ;c{* द्वारनामानि *} द्वार्द्वारं प्रतीहारश्च वलजं चापि कथ्यते ॥ १७२५ ॥ ;c{* अर्गलानाम *} परिघश्चाऽर्गला नाम महार्गलायाः हि मन्यते । ;c{* अर्गलिकानामानि *} अर्गलिका सूचिः सूची लध्वर्गला सु कथ्यते ॥ १७२६ ॥ ;c{* कुञ्चिकानामानि *} कुञ्चिका कूचिका चोक्ता साधारणी तथाऽङ्कुटः । ;c{* तालकनाम *} तालकं द्वारयन्त्रञ्च नामोक्तं तालकस्य वै ॥ १७२७ ॥ ;c{* तालीनाम *} तदुद्घाटनयन्त्रं स्यात् ताली च प्रतिताल्यपि । ;p{0280} ;c{* उत्तरङ्गनाम *} उत्तरङ्गं तिर्यग्द्वारोर्ध्वदारुः कथ्यते किल ॥ १७२८ ॥ ;c{* कपाटनामानि *} कपाटश्च कवाटश्च कुवाटोऽररं पुनः । अररिश्चेति नामानि कथयन्ति हि कोविदाः ॥ १७२९ ॥ ;c{* पक्षद्वारनामानि *} पक्षकः पक्षद्वारं च खटक्किकाऽपि कथ्यते । ;c{* अन्तर्द्वारनाम *} अन्तर्द्वारं च प्रच्छन्नं गुप्तद्वारं हि मन्यते ॥ १७३० ॥ ;c{* बहिर्द्वारनाम *} प्रोक्तं पुनर्बहिर्द्वारं प्रसिद्धं तोरणं तथा । ;c{* वन्दनमालिकानाम *} मङ्गल्यं तोरणोर्ध्वे च दाम वन्दनमालिका ॥ १७३१ ॥ ;c{* शिलानाम *} स्तम्भादीनामधोदारौ शिला संज्ञा प्रसिद्ध्यति । ;p{0281} ;c{* नासानाम *} स्तम्भादेरुपरि स्थापयितुं नासा च दारुणि ॥ १७३२ ॥ ;c{* गोपानसीनाम *} पुनर्गोपानसिः शब्दो गोपानसी तथैव च । वलभीच्छादने वक्रदारुणि कथ्यते किल ॥ १७३३ ॥ ;c{* उम्बरनामानि *} उदुम्बर उम्बुरश्च भवेदुम्बर इत्यपि । गृहावग्रहणी चापि देहली विदिता खलु ॥ १७३४ ॥ ;c{* अलिन्दनामानि *} प्रघाणोऽलिन्द आलिन्द उपालिन्दक उच्यते । प्राघाणः प्रघणश्चेति बहिर्द्वारप्रकोष्ठके ॥ १७३५ ॥ ;c{* कपोतपालीनाम *} प्रोक्तं कपोतपाली च विटङ्कः पक्षिणां गृहम् । ;c{* पटलनाम *} छदिश्च पटलश्चैव तद् गृहच्छदने भवेत् ॥ १७३६ ॥ ;c{* वलीकनाम *} वलीकं चापि नीव्रं स्यात् पटलस्याग्रभागकः । ;p{0282} ;c{* तमङ्गनामानि *} इन्द्रकोशस्तमङ्गश्च प्रोक्तस्तमङ्गकः पुनः ॥ १७३७ ॥ ;c{* वलभीनाम *} वलभी वलभिश्चापि छदिराधार उच्यते । ;c{* दन्तकानाम *} दन्तकाः नागदन्ताः स्याद् भित्तिस्थे काष्ठनिर्मिते ॥ १७३८ ॥ ;c{* प्रग्रीवनामानि *} प्रगीवोऽपाश्रयो मत्ता लम्बः स्यात् मत्तवारणः । ;c{* गवाक्षनामानि *} गवाक्षो जालकं चैव ख्यातो वातायनः पुनः ॥ १७३९ ॥ ;c{* अन्नकोष्टकनामानि *} कुशूलश्चाऽन्नकोष्टकः कुसूलोऽपि निगद्यते । ;c{* कोणनामानि *} कोणोऽश्री कोटि रश्रिश्च पाली पालिरणी पुनः ॥ १७४० ॥ अणिः कोटी तथाऽस्रश्च नामानि कथितानि हि । ;p{0283} ;c{* सोपाननाम *} आरोहरणं च सोपानं स्यात् सोपानस्य नाम वै ॥ १७४१ ॥ ;c{* निःश्रेणीनामानि *} अधिरोहणी निःश्रेणीः निःश्रेणिश्चाऽधिरोहिणी । ;c{* स्तम्भनाम *} स्थूणा स्तम्भश्च प्रख्यालो गृहाधारे हि मन्यते ॥ १७४२ ॥ ;c{* पुत्रिकानामानि *} पुत्रिका सालभञ्जी च प्रोक्ता पञ्चालिका च सा । काष्ठादिनिर्मिता लेप्यमयी त्वञ्जलिकारिका ॥ १७४३ ॥ ;c{* स्वस्तिकनामानि *} नन्द्यावर्त्तः स्वस्तिकश्च सर्वतोभद्र इत्यपि । विच्छन्दा नाम रचना भवेद् धनाढ्यवेश्मनि ॥ १७४४ ॥ ;c{* सम्पुटनामानि *} समुद्गः सम्पुटः पुटी वस्तु किञ्चिद् गृहे भवेत् । ;c{* मञ्जूषानामानि *} मञ्जूषा पेटकः पेटा तथा पेडाऽपि नाम स्यात् । ;p{0284} ;c{* सम्मार्जनीनामानि *} सम्मार्जनी च वर्धनी शोधनी पवनी पुनः ॥ १७४५ ॥ बहुकरी तथा ख्याता गृहशोधकवस्तुनि । ;c{* सङ्करनाम *} गृहप्रकीर्णधूल्यादि सङ्करोऽवकरो भवेत् ॥ १७४६ ॥ ;c{* उदूखलनाम *} धान्यादि कुट्टकं प्रोक्तमुदूखलमुलूखलम् । ;c{* प्रस्फोटननाम *} पुनः प्रस्फोटनं चैव पवनं मन्यते किल ॥ १७४७ ॥ ;c{* कण्डननाम *} धान्यादिकुट्टनं कार्य्यमऽवघातश्च कण्डनम् । ;c{* कटनाम *} उपवेशनकार्य्याय किलिञ्जः कथितः कटः ॥ १७४८ ॥ ;c{* मुसलनामानि *} मुशलो मुषलश्चैव प्रसिद्धो मुसलोऽपि वै । आयोग्रं चाप्ययोनिः स्तुः नामापि मुसलस्य च ॥ १७४९ ॥ ;p{0285} ;c{* कण्डोलकनामानि *} वंशादिपात्रके पिटं कण्डोलकश्च पिटकः । ;c{* चालनीनाम *} प्रख्यातं चालनी नाम तितउरपि मन्यते ॥ १७५० ॥ ;c{* शूर्पनाम *} शूर्पं सूर्पञ्च प्रख्यातं प्रोक्तं प्रस्फोटनं पुनः । ;c{* चुल्लीनामानि *} अन्तिकाऽश्मन्तकं चाऽन्ती तथाऽधिश्रयणी किल ॥ १७५१ ॥ चूल्ली चूल्लिस्तथोध्मानमुद्धानं नाम संग्रहे । ;c{* स्थालीनामानि *} उखा चरुरुषा स्थाली कुम्भी कुण्डं च पिठरम् ॥ १७५२ ॥ ;c{* घटनामानि *} घटः कुम्भः करीरश्च कलशः कलसः कुटः । निपश्चेत्यादिनामानि मन्यन्ते पण्डितै जनैः ॥ १७५३ ॥ ;c{* अङ्गारशकटीनामानि *} अङ्गारशकटी चाऽङ्गारधानी हसनी पुनः । हसन्तिका तथाऽङ्गारपात्री नाम सुसंग्रहे ॥ १७५४ ॥ ;p{0286} ;c{* अम्बरीषनाम *} अम्बरीषस्तथा भ्राष्ट्रः कटाहस्याभिधा भवेत् । ;c{* ऋचीषनाम *} ऋचीषमृजीषं चैव मन्यते पिष्टपाकभृत् ॥ १७५५ ॥ ;c{* दर्वीनामानि *} कम्बिः कम्बी खजाका च दर्वी दर्विश्च कथ्यते । ;c{* तर्दूनाम *} तर्दूश्च दारुहस्तकः काष्ठदर्व्यां निगद्यते ॥ १७५६ ॥ ;c{* वार्धानीनामानि *} पालुरालूर्गलन्ती च कर्करी करकः पुनः । वार्धानी चेति प्रोक्तं वै जलस्य लघुपात्रकम् ॥ १७५७ ॥ ;c{* नालिकेरजनाम *} करङ्को नालिकेरजः कथ्यते कोविदैः पुनः । ;c{* कटाहनाम *} कटाहः कर्परो लौहकटाहस्य च नाम वै ॥ १७५८ ॥ ;p{0287} ;c{* मणिकनाम *} महत्पात्रं जलस्योक्तं मणिकोऽलिञ्जरो द्वयम् । ;c{* गर्गरीनामानि *} कलशी गर्गरी दध्नी मन्थनी प्रथिता सदा ॥ १७५९ ॥ ;c{* मन्थदण्डकनामानि *} मन्थो मन्थाश्च मन्थानस्तथा च मन्थदण्डकः । खजश्च खजकः क्षुब्धो वैशाखश्च प्रसिद्ध्यति ॥ १७६० ॥ एतन्नामानि मन्यन्ते दधिमन्थनसाधने । ;c{* दण्डकटकनामानि *} अस्य च दण्डकटकस्तथा दण्डकरोटकम् ॥ १७६१ ॥ विष्कम्भः कुटकश्चैव कुटरः कुठरस्तथा । मञ्जीरश्चापि मन्दीरं नामान्यष्टौ भवन्ति वै ॥ १७६२ ॥ ;c{* शरावनामानि *} वर्धमानः शरावश्च शालाजीरोऽपि कथ्यते । ;c{* पानभाजननामानि *} कोशिका मल्लिका कंसः पारी च पानभाजनम् ॥ १७६३ ॥ चषकश्चापि कथितो लघौ जलादिपात्रके । ;p{0288} ;c{* कुतूनाम *} घृततैलादिपात्रस्य ख्यातं नाम कुतूरिह ॥ १७६४ ॥ कुतुपो लघुपात्रं स्याद् घृताद्यानयनाय यत् । ;c{* खल्लनाम *} दृतिः खल्लश्च पानीयभरणाय च चर्म्मणः ॥ १७६५ ॥ ;c{* करकपात्रिकानाम *} आलूः करकपात्रिका चर्ममयी हि मन्यते । ;c{* भाण्डनाम *} भाण्डमाऽऽवपनं प्रोक्तं सर्वप्रकारभाजनम् ॥ १७६६ ॥ पात्राऽमत्रे च भाजनं त्रिण्यपि भाण्डनामनि । स्थालं विशालभाण्डं स्थात् तत् पिधानमुदञ्चनम् ॥ १७६७ ॥ ;c{* पर्वतनामानि *} शैलोऽद्रिः शिखरी शिलोच्चयोऽचलश्च सानुमान् । अगो नगो गिरिर्ग्रावा गोत्रश्च कन्दराकरः ॥ १७६८ ॥ कुध्रो भूध्रो महीध्रश्च धरो भूभृद् महीधरः । प्रपाती पर्वतोऽहार्य उर्वङ्गो भूधरः पुनः ॥ १७६९ ॥ ;p{0289} कुट्टारश्चेति नामानि मन्यन्ते पर्वतस्य हि । ;c{* उदयाचलनाम *} अथोदयश्च पूर्वाद्रिश्चोदयाचल उच्यते ॥ १७७० ॥ ;c{* अस्ताचलनाम *} अस्तोऽपि चरमाद्रिश्च मन्यतेऽस्ताचलः किल । ;c{* हिमालयपर्वतनामानि *} उदगद्रिस्तथाऽद्रिराट् हिमप्रस्थो हिमालयः ॥ १७७१ ॥ हिमवान् मेनकाप्राणेशो भवानीगुरुः पुनः । नामान्येतानि मन्यन्ते हिमालयस्य पण्डितैः ॥ १७७२ ॥ ;c{* हिमालयपुत्रनामानि *} मैनाकश्च सुनाभश्च हिरण्यनाभ इत्यपि । हिमालयसुतस्येति नामानि प्रथयन्ति वै ॥ १७७३ ॥ ;c{* अष्टापदपर्वतनामानि *} कैलासो धनदावासोऽष्टापदः स्फटिकाचलः । रजताद्रिर्हराद्रिश्च हिमवद्घस उच्यते ॥ १७७४ ॥ ;c{* क्रौञ्चपर्वतनामानि *} क्रुञ्चः क्रौञ्चस्तथा कौञ्जस्त्रयोऽपि क्रौञ्चवाचकाः । ;p{0290} ;c{* मलयाचलपर्वतनामानि *} चन्दनगिरिराषाढो मलयो दक्षिणाचलः ॥ १७७५ ॥ ;c{* माल्यवत्पर्वतनामानि *} प्रश्रवणस्तु माल्यवान् प्रोक्तः प्रस्रवणो नगः । ;c{* विन्ध्याचलपर्वतनाम *} विन्ध्याचलगिरेर्नाम विन्ध्यः स्याद् जलवाहकः ॥ १७७६ ॥ ;c{* शत्रुज्जयपर्वतनाम *} शत्रुञ्जयगिरेर्नाम विमलाद्रिः शत्रुञ्जयः । ;c{* मन्दराचलपर्वतनाम *} नामोक्तं मन्दराचलस्य त्विन्द्रकीलमन्दरौ ॥ १७७७ ॥ ;c{* त्रिकुटाचलनामानि *} त्रिमुकुटस्सुवेलश्च त्रिकूटस्त्रिककृद् पुनः । त्रिकुटाचलशैलस्य नामानि प्रथितानि वै ॥ १७७८ ॥ ;c{* गिरनारपर्वतनाम *} गिरनारगिरेर्नाम उज्जयन्तः प्रसिद्धयति । लोके रैवतकः प्रोक्तो गिरनारगिरिर्पुनः ॥ १७७९ ॥ ;p{0291} ;c{* कुलाचलपर्वतनाम *} कुलाचलगिरेर्नाम सुदारुः पारियात्रिकः । ;c{* लोकालोकपर्वतनाम *} चक्रवालो गिरेर्नाम लोकालोकश्च कल्पितः ॥ १७८० ॥ ;c{* मेरुपर्वतनामानि *} रत्नसानुः सुमेरुश्च मेरुश्च कर्णिकाचलः । स्वर्णगिरिश्च स्वर्गिरिः काञ्चनगिरिरुच्यते ॥ १७८१ ॥ ;c{* शिखरनामानि *} शृङ्गं च शिखरं कूटं त्रीणि नामानि सन्ति वै । ;c{* भृगुनामानि *} भृगोर्नामानि प्रोक्तानि प्रपातश्चाऽतटो भृगुः ॥ १७८२ ॥ ;c{* मेखलानामानि *} नितम्बो मेखला नाम कटको गिरिमध्यभाक् । ;c{* कन्दरनामानि *} प्रोक्तं कृत्रिमो गृहा दरी च कन्दरोऽपि वै ॥ १७८३ ॥ ;c{* गह्वरनाम *} गुहा च गह्वरं नामाऽखातबिले हि कथ्यते । ;p{0292} ;c{* द्रोणीनाम *} द्रोणी च शैलयोः सन्धिः साक्षरः मन्यते सदा ॥ १७८४ ॥ ;c{* पर्यन्तपर्वताः नाम *} पर्यन्तपर्वताः पादाः मुख्याद्रेर्लघुपर्वताः । ;c{* दन्तकाःनाम *} स्याद् दन्तकाः बहिस्तिर्यक् प्रदेशा निर्गता गिरेः ॥ १७८५ ॥ ;c{* अध्यतिकानाम *} पर्वतस्योर्ध्वभूमिर्वै मन्यतेऽध्यतिका बुधैः । ;c{* उपत्यकानाम *} अधोभूमिर्नगस्यात्र उपत्यका हि कथ्यते ॥ १७८६ ॥ ;c{* प्रस्थनामानि *} सानुः प्रस्थं तथा स्नुः स्याद् शैलशृङ्गे च तुल्यभूः । ;c{* पाषाणनामानि *} पाषाणः प्रस्तरः ग्रावा चाऽश्मा दृषद् तथा शिला ॥ १७८७ ॥ उपलश्चेति नामानि मन्यन्ते प्रस्तरस्य वै । कथिता गण्डशैलाश्च स्थूलोपलाश्च्युताः खलु ॥ १७८८ ॥ ;p{0293} ;c{* आकरनामानि *} आकरश्च खनिः खानिः गञ्जाश्चेत्यपि कथ्यते । ;c{* पर्वतोत्पन्नधातुनामानि *} स्वर्णरौप्यादयो लोके धातुर्वा गैरिकं भवेत् ॥ १७८९ ॥ ;c{* खटीनामानि *} पाकशुक्ला तथा शुक्लधातुश्च खटिनी खटी । कठिनी चेति नामानि खटिन्याः कथयन्ति वै ॥ १७९० ॥ ;c{* लोहनामानि *} लोहं शस्त्रं तथा तीक्ष्णं धीनं च धीवरं घनम् । गिरिसारं शिलासारं पिण्डं पारशवं पुनः ॥ १७९१ ॥ कालायसं तथाऽयश्च कृष्णामिषं च भूतले । नामान्येतानि लोहस्य कथयन्ति हि कोविदाः ॥ १७९२ ॥ ;c{* लोहकिट्टकनामानि *} मण्डूरं सरणं धूर्त्तं सिहानं लोहकिट्टके । सर्वं च तैजसं लोहं सर्वलोकैः हि कथ्यते ॥ १७९३ ॥ ;c{* कुशीनाम *} विकारस्त्वयसः फालः कुशी चेत्यपि मन्यते । ;c{* ताम्रनामानि *} ताम्रं रक्तं पवित्रञ्च द्व्यष्टं द्विष्टमुदुम्बरम् ॥ १७९४ ॥ ;p{0294} कांस्यं कनीयसं शुल्वं वरिष्ठं ब्रह्मवर्धनम् । म्लेच्छमुखं तथा म्लेच्छमौदुम्बरं च शावरम् ॥ १७९५ ॥ मर्कटास्यं च नामानि ताम्रस्य कथयन्ति वै । ;c{* सीसकनामानि *} सीसं च सीसकं नागं स्वर्णारिः सीसपत्रकम् ॥ १७९६ ॥ सिन्दूरकारणं कृष्णं समोलूकं सुवर्णकम् । योगेष्टं यवनेष्टं च वर्ध्रं च त्रपुबन्धकम् ॥ १७९७ ॥ वप्रं पट्टं तथा चीनं चीनपट्टं महाबलम् । गण्डूपदभवं चेति नामानि कथन्ति वै ॥ १७९८ ॥ ;c{* त्रपुनामानि *} वङ्गं रङ्गं च मृद्वङ्गं नागजं नागजीवनम् । स्वर्णजं श्वेतरूप्यं च मधुकं मुखभूषणम् ॥ १७९९ ॥ आलीनकं तथाऽऽलीनं सलवणं च सिंहलम् । परासं गुरुपत्रं च तमरं त्रपु पिच्चटम् ॥ १८०० ॥ कस्तीरं चक्रसंज्ञं च घनं ज्येष्ठं शठं रजः । एतन्नामानि सर्वाणि मन्यन्ते पण्डितास्त्रपोः ॥ १८०१ ॥ ;c{* रूप्यनामानि *} रूप्यं रूपं तथा श्वेतं त्रापुषं रजतं सितम् । दुर्वर्णकञ्च दुर्वर्णं जीवनं बङ्गजीवनम् ॥ १८०२ ॥ ;p{0295} हंसाह्वयं हिमांशुश्च वङ्गं चन्द्राह्वयं वसु । कलधौतं तथा तारं भीरुकं कुमुदाह्वयम् ॥ १८०३ ॥ खर्जूरं भीरु शुभ्रञ्च शोध्यं सोध्यं जवीयसम् । सौम्यं सर्वाणि नामानि रूपस्य कथयन्ति च ॥ १८०४ ॥ ;c{* सुवर्णनामानि *} स्वर्णं शुक्रं सुवर्णञ्च वसु वेणुतटोभवम् । कर्बूरं कर्बुरं रुक्मं कर्चूरं कर्वुरं पुनः ॥ १८०५ ॥ कनकं काञ्चनं कार्त्तस्वरं चामीकरं तथा । कल्याणं कर्णिकारच्छायं गाङ्गेयञ्च गैरिकम् ॥ १८०६ ॥ शातकुम्भं श्रीमत्कुम्भं शातकौम्भं शिलोद्भवम् । गारुडं भूत्तमं भर्म लोहोत्तमञ्च लोभनम् ॥ १८०७ ॥ औजसमर्जुनं चन्द्रो दाक्षायणञ्च वैणवम् । रक्तवर्णं हिरण्यं च हेम हेमञ्च हाटकम् ॥ १८०८ ॥ राः महारजतं भूरि रजतं तारजीवनम् । निष्कश्चाऽष्टापदं जाम्बूनदं जातरूपं पुनः ॥ १८०९ ॥ कलधौतं तथा वह्निबीजं तापनीयं च वै । नामान्येतानि मन्यन्ते स्वर्णस्य पण्डितैः सदा ॥ १८१० ॥ कुप्यं कोशो हिरण्यञ्च स्वर्णे रूप्ये कृताकृते । कुप्यं स्यात् तद्द्वयादन्यद् रूप्यं तु द्वयमाहतम् ॥ १८११ ॥ ;p{0296} अलङ्कारसुवर्णं स्यात् शृङ्गीकनकमाऽऽयुधम् । रजतञ्च सुवर्णञ्च मिलितं धनगोलकम् ॥ १८१२ ॥ ;c{* पित्तलनामानि *} आरश्च पित्तलाशब्दो विशेषपित्तले भवेत् । पुनः पित्तलनामानि कथ्यन्ते पण्डितैरिह ॥ १८१३ ॥ कपिलोहं सुलोहं च पीतलोहं सुलोहकम् । आरकूटो रितिः रीती रिरी रीरी सुवर्णकम् ॥ १८१४ ॥ ब्राह्मी तु ब्रह्मरीतिश्च कपिला महेश्वरी तथा । राज्ञी नाम्ना भवेदेकप्रकारस्य हि पित्तलम् ॥ १८१५ ॥ ;c{* कांस्यनामानि *} कंसं कांस्यं प्रकाशञ्च घोषो विद्युत्प्रियं मलम् । रवणमसुराह्वं लोहजं वङ्गशुल्वजम् ॥ १८१६ ॥ घण्टाशब्दं च नामानि कांस्यस्य संभवन्ति वै । ;c{* पञ्चलोहनाम *} सौराष्ट्रकं पञ्चलोह पञ्चधातुमयं च तद् ॥ १८१७ ॥ ;c{* वर्त्तलोहनाम *} वर्त्तकं वर्त्तलोहं च लोहधातुभिदा भवेत् । ;p{0297} ;c{* पारदनामानि *} पारतः पारदः सूतश्चलश्च चपलो रसः ॥ १८१८ ॥ हरबीजं च नामानि मन्यन्ते पारदस्य वै । ;c{* अभ्रकनामानि *} अभ्रकं स्वच्छपत्रं च गमनाऽम्बुदवाचकम् ॥ १८१९ ॥ अमलं गिरिजं चैव गिरिजामलमुच्यते । ;c{* सौवीरनामानि *} स्रोतोञ्जनं तु सौवीरं कापोतं कृष्णयामुने ॥ १८२० ॥ ;c{* तुत्थनामानि *} तुत्थाञ्जनं तथा तुत्थं शिखिग्रीवं मयूरकम् । पुनस्तुत्थविशेषो वै मूषातुत्थं वितुन्नकम् ॥ १८२१ ॥ कांस्यनीलं हेमतारं तन्नीलाञ्जनमुच्यते । पुनः कर्परिकातुत्थं चाऽमृतासङ्गमऽञ्जनम् ॥ १८२२ ॥ ;c{* रसाञ्जननामानि *} रसगर्भं रसाग्रञ्च रसजातं रसाञ्जनम् । कथ्यते तार्क्ष्यशैलं च तूत्थे दार्वीरसोद्भवे ॥ १८२३ ॥ ;p{0298} ;c{* पुष्पाञ्जननामानि *} पुष्पकेतु च प्रख्यातं पुष्पाञ्जनञ्च पौष्पकम् । रीतिपुष्पं च नामापि कुसुमाञ्जनमुच्यये ॥ १८२४ ॥ ;c{* माक्षिक(धातु)नामानि *} कदम्बश्चक्रनामा च माक्षिकं चाऽजनामकः । वैष्णवश्चेति नामानि कथ्यन्ते माक्षिकस्य वै ॥ १८२५ ॥ ;c{* विटमाक्षिक(हीराकसी)नामानि *} कामारिर्विटमाक्षिकस्ताप्यस्तारारिरेव च । नदीजश्चेति नामानि ताप्यस्य सम्भवन्ति वै ॥ १८२६ ॥ ;c{* सौराष्ट्रदेशमृत्तिकानामानि *} काक्षी काच्छी च सौराष्ट्री पार्वती पर्पटी सती । आढकी तुवरी मृत्स्ना मृत्सा मृद् च मृदाह्वया ॥ १८२७ ॥ मृत्तिका कालिका चैव कंसोद्भवा पुनः किल । सौराष्ट्रमृत्तिकायाश्च नामानि कथितानि वै ॥ १८२८ ॥ ;c{* रक्तमाक्षिकनामानि *} कासीसं खेचरं धातुकासीसं धातुशेखरम् । कंसकं पुष्पकासीसं नयनौषधमित्यपि ॥ १८२९ ॥ माक्षिकस्यैव भेदः स्यात् ख्यातो गुणादिभेदतः । ;p{0299} ;c{* गन्धकनामानि *} गन्धाश्मा गन्धकश्चैव सौगन्धिकश्च गन्धिकः ॥ १८३० ॥ शुल्वारिः शुकपुच्छश्च पामारिः पुनरित्यपि । कुष्ठारिश्चेति नामानि मन्यन्ते गन्धकस्य वै ॥ १८३१ ॥ ;c{* हरितालनामानि *} आलं तालं च वङ्गारिः हरितालः बिडालकम् । विस्त्रगन्धि च गोदन्तं गोपित्तं वंशपत्रकम् ॥ १८३२ ॥ खर्जूरं पिञ्जरं चापि लोमहृद् नटमण्डनम् । पीतनं चेति नामानि तालस्य सम्भवन्ति वै ॥ १८३३ ॥ ;c{* मनःशिलानामानि *} मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका । नागमाता तथा गोला शिला च रसनेत्रिका ॥ १८३४ ॥ करवीरा च नेपाली नैपाली कुनटी तथा । रोचनी चेति नामानि शिलायाः सम्भवन्ति वै ॥ १८३५ ॥ ;c{* सिन्दूरनामानि *} सिन्दूरं चीनपिष्टं च नागरक्तं च नागजम् । शृङ्गारभूषणं चैव शृङ्गारमपि मन्यते ॥ १८३६ ॥ ;p{0300} ;c{* हिङ्गुलनामानि *} हङ्गुलो हिङ्गुलुश्चैव हंसपादः प्रसिद्धकः । कुरुविन्दं च नामानि कथ्यन्ते हिङ्गुलस्य वै ॥ १८३७ ॥ ;c{* शिलाजतुनामानि *} गैरेयं गिरिजं चाऽर्थ्यं शिलाजतु तथाऽश्मजम् । ;c{* काचलवणनाम *} काचः क्षारो द्वयं नाम काचलवण उच्यते ॥ १८३८ ॥ ;c{* चक्षुष्यानामानि *} चक्षुष्या दृक्प्रसादा स्यात् कुलाली च कुलत्थिका । ;c{* गोपरसनामानि *} बोलो गोपरसो गोपो गन्धरसो रसः शसः ॥ १८३९ ॥ पिण्डः प्राणश्च नामाऽपि बोलस्य कथ्यते बुधै । ;c{* रत्ननामानि *} वसु रत्नं मणिश्चैव माणिक्यमपि मन्यते ॥ १८४० ॥ ;c{* रत्नविशेषनामानि *} हीरकं मौक्तिकं स्वर्णं रजतं चर्म चन्दनम् । शङ्खो वस्त्रं च नामानि विशेषरत्नकानि वै ॥ १८४१ ॥ ;p{0301} ;c{* वैडूर्यरत्ननाम *} प्रसिद्धरत्नभेदेषु वैडूर्यं वालवायजम् । ;c{* मरकतनामानि *} अश्मगर्भं त्वश्मयोनिर्मरकतं हरिन्मणिः ॥ १८४२ ॥ गारुत्मतं च नामानि मन्यन्ते हि हरिन्मणेः । ;c{* पद्मरागमणि(माणेक)नामानि *} लक्ष्मीपुष्पं तथा पद्मरागो लोहितकः पुनः ॥ १८४३ ॥ ख्यातोऽरुणोपलश्चैव शोणरत्नं तथैव च । एतन्नामानि मन्यन्ते पद्मरागस्य पण्डितैः ॥ १८४४ ॥ ;c{* नीलमणिनामानि *} इन्द्रनीलो महानीलं नीलमणिश्च कथ्यते । ;c{* हीरकनामानि *} हीरको रत्नमुख्यं च सूचीमुखं वरारकम् ॥ १८४५ ॥ वज्रं तदर्थशब्दश्च नामाऽस्ति हीरकस्य वै । वैराटो राजावर्त्तश्च राजपट्टो विराटजः ॥ १८४६ ॥ विराटदेशसम्भूतं नाम स्याद् हीरकस्य च । ;p{0302} ;c{* प्रवालनामानि *} प्रवालो रक्तकन्दश्च रक्ताङ्को हेमकन्दलः ॥ १८४७ ॥ विख्यातो विद्रुमश्चापि कथ्यते विबुधैः खलु । ;c{* सूर्यकान्तमणिनामानि *} सूर्याश्मा सूर्यकान्तश्च सूर्यमणिस्तथैव च ॥ १८४८ ॥ दहनोपलश्च नामाऽपि सूर्यकान्तस्य कथ्यते । ;c{* चन्द्रकान्तमणिनामानि *} चन्द्रकान्तस्तथा चान्द्रश्चन्द्रमणिस्तथैव च ॥ १८४९ ॥ चन्द्रोपलश्च नामाऽपि चन्द्रकान्तस्य मन्यते । क्षीरवत् श्वेतवर्णो वै क्षीरस्फटिक उच्यते ॥ १८५० ॥ पुनश्च तैलवर्णवान् तैलस्फटिकनाम वै । आकाशरवस्फटिकौ च सूर्यचन्द्रमणी इह ॥ १८५१ ॥ अन्योऽस्ति क्षीरस्फटिकस्तैलस्फटिक इत्यपि । ;c{* मौक्तिकनामानि *} मुक्ता मुक्ताफलं मौक्तिकं शुक्तिजं रसोद्भवम् ॥ १८५२ ॥ हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः । मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥ ;c{इति पृथ्वीकायः समाप्तः ।} ;p{0303} ;v{अप्कायनामानि} ;c{* अथाऽपकायनामानि *} ;c{* जलनामानि *} वारि वारं जलं क्षीरं नीरं नारं कुलीनसम् । जीवनं जीवनीयं च भुवनं भवनं वनम् ॥ १८५४ ॥ पानीयं प्राणदं पाथो मेघपुष्पं च पुष्करम् । शंवरं संवरं तोयं कीलालं सलिलं कुशम् ॥ १८५५ ॥ कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् । अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥ पयो यादोनिवासश्च घनरसस्तथोदकम् । इरा दिव्यं विषं सेव्यं षड्रसं घृतमऽरङ्कुरम् ॥ १८५७ ॥ पिप्पलं पिष्पलं चैव नलिनं मलिनं तथा । पातालं पावनं चापि कृपीटं कम्बलं पुनः ॥ १८५८ ॥ एतन्नामानि नीरस्य मन्यन्ते पण्डितै जनैः । विशेषनाम पल्लूरं श्वेतजलस्य कथ्यते ॥ १८५९ ॥ क्षारं जलं किट्टिमं स्यात् शालूकं गन्धयुग् जलम् । समलन्तु भवेदन्धमतिस्वच्छन्तु काचिमम् ॥ १८६० ॥ ;p{0304} अस्ताघमतलस्पृक् चाऽस्थाघमऽस्थागमित्यपि । अगाधमपि तन्नाम यत् तलं न जनः स्पृशेत् ॥ १८६१ ॥ गभीरं गम्भीरं निम्नमस्ताधार्थस्य वाचकम् । उत्तानमुच्यते तत्र यत्र किञ्चिद् जलं भवेत् ॥ १८६२ ॥ अच्छं जलं प्रसन्नं स्यादनच्छं कलुषाऽविले । ;c{* हिमनामानि *} अवश्यायस्तु प्रालेयं तुषारस्तुहिनं हिमम् ॥ १८६३ ॥ धूमिका धूमरी धूममहिषी महिका तथा । नीहारो मिहिका चेति नामानि तुहिनस्य वै ॥ १८६४ ॥ ;c{* हिमानीनामानि *} हिमसन्ततिर्हिमानी हिमराशी प्रयुज्यते । ;c{* समुद्रनामानि *} समुद्रः सागरः सिन्धुस्तिमिकोशो महाशयः ॥ १८६५ ॥ जलधिर्जलराशिश्च जलनिधिस्तथोदधिः । महीप्रावार उर्वङ्गो वारिनिधिश्च वारिधिः ॥ १८६६ ॥ वारीशो वारिराशिश्च सरस्वान् धरणीप्लवः । अकूवारो महाकच्छोऽकूपारो मकरालयः ॥ १८६७ ॥ ;p{0305} नदीशो यादईशश्च स्रोतईशश्च दारदः । यादःपति उदन्वान् वै मितद्रुर्मकराकरः ॥ १८६८ ॥ पारावारस्तथाऽवारपारो रत्नाकरोऽर्णवः । प्रसिद्धो रत्नराशिश्च वीचिमाली किल पुनः ॥ १८६९ ॥ एतन्नामानि मन्यन्ते समुद्रस्य च साक्षरैः । द्वीपान्तरा असङ्ख्यास्ते सप्तैवेति तु लौकिकाः ॥ १८७० ॥ ;c{* विभिन्नसमुद्रनामानि *} लवणवारि नामैव लवणोदो निगद्यते । क्षीरवारिश्च क्षीरोदे दधिवारिश्च दध्युदः ॥ १८७१ ॥ आज्योद आज्यवारिश्च सुरावारिः सुरोदकः । इक्षूदश्चेक्षुवारिः स्याद् स्वादूदः स्वादुबारिकः ॥ १८७२ ॥ नामान्येतानि मन्यन्ते समुद्रस्य विशेषतः । अन्यत्र लावणादयो नामान्यपि प्रसिद्धकाः ॥ १८७३ ॥ ;c{* तरङ्गनामानि *} ऊर्मि उत्कलिका भङ्गो वीचिश्च तरङ्गः पुनः । उल्लोलो लहरी चैव कल्लोलो महति त्विह ॥ १८७४ ॥ ;c{*सप्तसमुद्रनामानि-} ;c{[१] लावणः [२] रसमयः [३] सुरोदकः [४] सार्पिषः [५] दधिजलः [६] पयःपयाः [७] स्वादुवारिश्चेति सप्तसमुद्रनामानि सन्ति ॥} ;p{0306} ;c{* आवर्तनामानि *} आवर्त्तो वोलकश्चासौ तालूरः पयसां भ्रमः । ;c{* वेलानाम *} वेला नामाऽपि विख्यातः कथ्यते वृद्धिरम्भसः ॥ १८७५ ॥ ;c{* अब्धिकफनामानि *} अब्धिकफस्तथा फेनो हिण्डीरो हिण्डिरः पुनः । डिण्डीरश्चापि प्रख्यातः सागरमल उच्यते ॥ १८७६ ॥ ;c{* जलस्फोटनामानि *} बुद्बुदः स्थासकश्चैव जलस्फोटोऽपि कथ्यते । ;c{* मर्यादानाम *} मर्यादा कुलभूर्नाम समुद्रपार्श्वभूमयः ॥ १८७७ ॥ ;c{* समुद्रतटनामानि *} कुलं कच्छः प्रपातश्च रोधः प्रतीरमित्यपि । तटं तीरं च विज्ञेयं नद्युदध्योस्तटं सदा ॥ १८७८ ॥ ;c{* पुलिननाम *} पुलिनं सैकतं नाम जलहीनं तटस्थलम् । ;p{0307} ;c{* द्वीपनाम *} अन्तरीपं तथा द्वीपं ब्रूयादन्तर्जले तटम् ॥ १८७९ ॥ यत्र स्थितस्तत् परं च पारं भवति ज्ञायते । यत्र स्थितस्तदऽवारं उभान्तः स्यात् पात्रमिति ॥ १८८० ॥ ;c{* नदीनामानि *} नदी धुनी धुनिः सिन्धुः ह्रदिनी ह्रादिनी वहा । स्रोतः स्रोतस्विनी कर्षूः स्रोतस्वती सरस्वती ॥ १८८१ ॥ शैवलिनी स्रवन्ती च समुद्रदयिता सरित् । जलधिगाऽऽपगा कुल्या कूलङ्कषा च निम्नगा ॥ १८८२ ॥ निर्झरिणी च वाहिनी जम्बालिनी तरङ्गिणी । रोधोवक्रा तथा द्वीपवती पर्वतजा पुनः ॥ १८८३ ॥ ख्याता हिरण्यवर्णा वै तटिनी च तथैव हि । एतन्नामानि मन्यन्ते नद्याश्च पण्डितैर्जनैः ॥ १८८४ ॥ ;c{* गङ्गानदीनामानि *} गङ्गा भागीरथी ख्याता त्रिपथगा त्रिमार्गगा । त्रिस्रोताः खापगा स्वर्ग्यापगा स्वरापगा तथा ॥ १८८५ ॥ त्रिदशदीर्घिका सिद्धापगा सरिद्वरा पुनः । ;p{0308} विष्णुपदी च स्वर्वापी मन्दाकिनी कुमारसूः ॥ १८८६ ॥ भीष्मसूः ऋषिकुल्या च जह्नुकन्या च जाह्नवी । हैमवती तथा हरशेखरा चेति नामानि ज्ञायताम् ॥ १८८७ ॥ ;c{* यमुनानदीनामानि *} यमुना सूर्यजा चैव कलिन्दतनया यमी । कलिन्दपुत्री कालिन्दी स्युर्यमभगिनी पुनः ॥ १८८८ ॥ ;c{* नर्मदानदीनामानि *} नर्मदा मेकलाद्रिजा तथा मेकलकन्यका । इन्दुजा पूर्वगङ्गा च रेवा च मेखलाद्रिजा ॥ १८८९ ॥ पुनर्मेकलकन्याऽपि नर्मदायाश्च नाम वै । ;c{* गोदावरीनदीनाम *} गोदा गोदावरी नाम्नी नदी ख्यातैव वर्तते ॥ १८९० ॥ ;c{* तापीनदीनामानि *} तापी च तपनी नाम्नी प्रख्याता तपनात्मजा । ;c{* शतद्रुनदीनाम *} शतद्रुश्च शुतुद्रिः स्यात् लोके सतलजो नदी ॥ १८९१ ॥ ;p{0309} ;c{* कावेरीनदीनाम *} तथा ख्याता हि कावेरी स्यादऽर्धजाह्नवी पुनः । ;c{* करतोयानदीनाम *} करतोया नदी ख्याता सदानीराऽपि कथ्यते ॥ १८९२ ॥ ;c{* चन्द्रभागानदीनामानि *} चन्द्रका चन्द्रभागा च चान्द्रभागाऽपि मन्यते । ;c{* गोमतीनदीनामानि *} गोमती गौतमी चैव वासिष्ठी कथ्यतेऽपि वै ॥ १८९३ ॥ ;c{* सरस्वतीनदीनाम *} ब्रह्मपुत्री नदी स्याद् वै प्रसिद्धाऽपि सरस्वती । ;c{* विपाशानदीनाम *} पुनर्नदी विपाशा च विपाड् नामाऽपि मन्यते ॥ १८९४ ॥ ;c{* बाहुदानदीनामानि *} आर्जुनी तटिनी स्याच्च बाहुदा सैतवाहिनी । ;c{* वैतरणीनदीनाम *} वैतरणी नदी नाम नरकस्थाऽपि कथ्यते ॥ १८९५ ॥ ;p{0310} ;c{* मुरलानदीनाम *} मुरला निम्नगा नाम मुरन्दलाऽपि मन्यते । ;c{* सुरवेलानदीनाम *} सुनन्दिनी नदी नाम सुरवेलाऽपि कथ्यते ॥ १८९६ ॥ ;c{* चर्मण्वतीनदीनाम *} रन्तिनदी नदी नाम चर्मण्वती च मन्यते । ;c{* सिन्धुसङ्गमनाम *} सिन्धुसङ्गमः सम्भेदः नद्याः सङ्गम उच्यते ॥ १८९७ ॥ ;c{* स्रोतनाम *} स्रोतो भवति तल्लोके यत्राऽम्भःसरणं स्वतः । ;c{* प्रवाहनामानि *} ओघो धारा रयो वेणी पुनः प्रवाह उच्यते ॥ १८९८ ॥ ;c{* घट्टनामानि *} अवतारस्तथा तीर्थो घट्टोऽपि कथ्यते पुनः । ;c{* पूरनामानि *} अम्बुवृद्धिः प्लवः पूरश्चेति नामानि मन्यते ॥ १८९९ ॥ ;p{0311} ;c{* वक्राणिनामानि *} वक्राणि पुटभेदाश्च चक्राणि कथ्यतेऽपि वै । ;c{* भ्रमानाम *} जलनिर्गमनस्ताभ्यः भ्रमाश्च जलनिर्गमाः ॥ १९०० ॥ ;c{* जलोच्छ्वासानामानि *} परिवाहाः परीवाहाः जलोच्छ्वासाः पयोगमाः । ;c{* कूपकानाम *} जलार्थमिह खन्यन्ते कूपकाश्च विदारकाः ॥ १९०१ ॥ ;c{* प्रणालीनाम *} प्रणाली जलमार्गस्तु मकरास्यनिभो भवेत् । ;c{* नीकानामानि *} नीका कुल्या तथा पानं सारणी सारणिः पुनः ॥ १९०२ ॥ जलस्य खातकायाश्च तन्नामानि सम्भवन्ति हि । ;c{* वालुकानाम *} वालुका सिकता नाम वालुकायाश्च कथ्यते ॥ १९०३ ॥ ;p{0312} ;c{* बिन्दुनामानि *} पृषत् च पृषतो विप्रुट् बिन्दुश्च मन्यतेऽपि वै । ;c{* कर्दमनामानि *} कर्दमश्चिकिलः पङ्कश्चिक्खल्लश्च निषद्वरः ॥ १९०४ ॥ विस्कल्लश्चापि जम्बालः ख्यातः शादस्तथा किल । कर्दमस्येति नामानि कथ्यन्ते पण्डितै जनैः ॥ १९०५ ॥ ;c{* शोणनामानि *} शोणो हिरण्यबाहुश्च हिरण्यवाहोऽपि मन्यते । ;c{* नदनामानि *} उद्ध्यो नदो वहो भिद्यः सरस्वान् बृहती नदी ॥ १९०६ ॥ ;c{* ह्रदनामानि *} ह्रदोऽगाधजलो द्रहो नद्यगाधा च कथ्यते । ;c{* कूपनामानि *} कूपोऽन्धुरुदपानश्च प्रहिनामाऽपि मन्यते ॥ १९०७ ॥ ;c{* त्रिकानामानि *} नेमी नेमिस्त्रिका कूपे जलं भर्तुं च क्रियते । ;p{0313} ;c{* नान्दीमुखनामानि *} नान्दीमुखो विनाहश्च वीनाहो मुखबन्धने ॥ १९०८ ॥ पुनर्नान्दिपटो नाम तस्यैवार्थेऽपि कथ्यते । ;c{* आहावनामानि *} आहावश्च निपानं स्यादुपकूपजलाशये ॥ १९०९ ॥ ;c{* वापीनामानि *} वापिर्वापी दीर्घिका च महाकूपो हि कथ्यते । ;c{* लघुकूपनामानि *} क्षुद्रकूपश्चुरी चुण्ढी व्रतको लघुकूपकः ॥ १९१० ॥ ;c{* घटीयन्त्रनामानि *} उद्घाटकं घटीयन्त्रमुद्घाटनमुद्घातनम् । ;c{* अरघट्टकनाम *} पादावर्तोऽरघट्टकः घटीयन्त्रविशेषकम् ॥ १९११ ॥ ;c{* अखातनाम *} अखातं देवखातं चेत्यकृत्रिमसरः किल । ;p{0314} ;c{* खातकनामानि *} कथ्यते खातकं चैव पुष्करिणी तडागिका ॥ १९१२ ॥ ;c{* तडागनामानि *} पद्माकरस्तडागश्च कासारः सरसी महान् । सरः ख्यातस्तटाकश्च तडाकोऽपि हि कथ्यते ॥ १९१३ ॥ ;c{* लघुतडागनामानि *} वेशन्तः पल्वलस्तल्लस्तडागो लघुरेव सः । ;c{* खातिकानामानि *} खातिका परिखा खेयं प्रसिद्धमतिवर्तते ॥ १९१४ ॥ ;c{* आवालनामानि *} आवालं चाऽऽलवालं चाऽऽवापः स्थानकमुच्यते । ;c{* आधारनाम *} आधार रम्भसां बन्धो मन्यते पण्डितैर्जनैः ॥ १९१५ ॥ ;c{* निर्झरनामानि *} उत्सः प्रस्रवणं स्रवः स्याद् निर्झरो झरो सरिः । ;p{0315} ;c{* जलाशयनाम *} प्रोक्ता जलाशयाः ख्याताः जलाधारास्तथा सदा ॥ १९१६ ॥ ;c{॥ इत्यप्कायः समाप्तः ॥} ;v{तेजस्कायनामानि} ;c{* अथ तेजस्कायनामानि *} ;c{* अग्निनामानि *} अग्निर्वह्निः स्वनिः शिखी शुक्रः शुष्मा शुचिर्वसुः । आशयाशः शमीगर्भः शोचिष्केशस्तथाऽऽशिरः ॥ १९१७ ॥ आश्रयाशः कृशानुश्च वैश्वानरो वृषाकपिः । कृष्णवर्त्मा तथाऽर्चिष्मान् कुषाकुः आशुशुक्षणिः ॥ १९१८ ॥ सप्तार्चिः सप्तजिह्वश्च ज्वालाजिह्वश्च जागृविः । ज्वलनो जातवेदाश्च जुहुराणो भुजिर्वमिः ॥ १९१९ ॥ उदर्चिश्चित्रभानुश्च बृहद्भानुः समन्तभुक् । घृतार्चिर्घसुरिर्घासिर्धूमध्वजो धनञ्जयः ॥ १९२० ॥ तनूनपात् तमोघ्नश्च कृपीटयोनिरञ्चतिः । उषर्बुधः पृथुः पुष्टः वीतिहोत्रश्च वञ्चतिः ॥ १९२१ ॥ बर्हिकत्को बर्हिर्ज्योतिः बर्हिरुत्थस्तथाऽनलः । ;p{0316} बर्हिःशुष्मा च हिरण्यरेताः पवनवाहनः ॥ १९२२ ॥ पीथोऽनिलसखो हव्यभुग् हविरशनो हविः । हवनो हव्यवाहश्च हव्याशनो हुताशनः ॥ १९२३ ॥ बहुलो मन्त्रजिह्वश्च रोहिताश्वो विभावसुः । दमूनाः दमुनाः दीप्रः पृदाकुर्दहनः पविः ॥ १९२४ ॥ भरथो नाचिकेतश्च पर्परीकश्च पावकः । पृष्ठः छागरथोऽप्पित्तं हुतवहो विरोचनः ॥ १९२५ ॥ अपित्तं चापि बर्हिश्चेत्यग्नेर्नामानि सन्ति वै । ;c{* स्वाहानाम *} पुनरग्नेः प्रिया भवेत् स्वाहाऽग्नायी च नामतः ॥ १९२६ ॥ ;c{* वडवानलनामानि *} ऊर्वश्चौर्वस्तथाऽब्ध्यग्निर्वाडवो वडवानलः । वडवामुखः पुनर्नाम भवेत् संवर्त्तकस्तथा ॥ १९२७ ॥ ;c{* दावानलनामानि *} दावानलो दवो दावो वनवह्निरपि स्मृतः । ;c{* मेघवह्निनामानि *} मेघवह्निः मेघज्योतिर्विद्युताग्निरिरम्मदः ॥ १९२८ ॥ ;p{0317} ;c{* करीषाग्निनाम *} छागणश्च करीषाग्निः नाम स्याद् छागणस्य हि । ;c{* तुषानलनाम *} तुषानलः कुकूलश्च तुषाग्नेर्नाम हि द्वयम् ॥ १९२९ ॥ ;c{* संज्वरनाम *} सन्तापः संज्वरो नाम वह्निजो दाह उच्यते । ;c{* बाष्पनाम *} ऊष्मा बाष्पश्च नाम वै बाष्पस्य कथ्यते बुधैः ॥ १९३० ॥ ;c{* जिह्वानाम *} विश्वे स्युरर्चिषो जिह्वाः तन्नामतः प्रसिद्धकाः । ;c{* ज्वालानामानि *} अर्चिर्ज्वाला शिखा कोला हेतिः स्याच्चेति वह्निजः ॥ १९३१ ॥ झलक्का झिल्लक्कोलक्का महाज्वालार्थके च वै । ;c{* अग्निकणनाम *} स्फुलिङ्गोऽग्निकणो वह्नेर्निःसरन् लघुभागकः ॥ १९३२ ॥ ;p{0318} ;c{* अलातज्वालानाम *} उल्काऽलातज्वाला द्वापि निर्ज्वालोऽग्निः हि मन्यते । ;c{* अलातनाम *} अलातमुल्मुकं नाम प्रसिद्धं बहु वर्तते ॥ १९३३ ॥ ;c{* धूमनामानि *} धूमो जीमूतवाही च दहनकेतनं स्तरीः । अम्भस्सूरग्निवाहश्च वायुवाहः प्रसिद्धकः ॥ १९३४ ॥ करमालश्च नामापि धूमस्य मन्यते खलु । ;c{* विद्युत्-नामानि *} विद्युत् तडित् तथा शम्पा सम्पा चलाऽचिरप्रभा ॥ १९३५ ॥ चञ्चला चपला चैरावती च जलवालिका । शतह्रदाऽशनिः सौदामनी सौदामिनी तथा ॥ १९३६ ॥ आकालिकी च ह्रादिनी क्षणिका च क्षणप्रभा । एतन्नामानि मन्यन्ते विबुधैर्विद्युतः सदा ॥ १९३७ ॥ ;c{॥ इति तेजस्कायः समाप्तः ॥} ;p{0319} ;v{वायुकायनामानि} ;c{* अथ वायुकायनामानि *} ;c{* वायुनामानि *} वायुर्वाहो वहो वातः प्रकम्पनः प्रभञ्जनः । पवनः पवमानश्च दैत्यदेवः सुरालयः ॥ १९३८ ॥ जगत्प्राणश्चलः प्राणः पृषदश्वः समीरणः । समीरः समिरश्चैव मातरिश्वा महाबलः ॥ १९३९ ॥ संभृतः सृमरो मर्को मेघारिः मारुतो मरुत् । उत्तरदिक्पतिः शुचिः पश्चिमदिक्पतिः पुनः ॥ १९४० ॥ अङ्कतिः क्षिपतिश्चापि नित्यगतिः सदागतिः । शीतलो जलकान्तारः स्पर्शनो जलभूषणः ॥ १९४१ ॥ आशुगः क्षिपणश्चाऽहिकान्तो गन्धवहस्तथा । गन्धवाहो नभःश्वासो नभस्वान् श्वसनोऽनिलः ॥ १९४२ ॥ ध्वजप्रहरणो लोलघण्टो लोलपटः पुनः । कम्पाकश्चेति नामानि मन्यन्ते पवनस्य वै ॥ १९४३ ॥ ;c{* झञ्झावातनाम *} झञ्झावातश्च झञ्झाऽपि सवृष्टिवायुरुच्यते । ;p{0320} ;c{* प्राणवायुनाम *} प्राणो नासाग्रहृन्नाभिपादाङ्गुष्ठान्तगोचरः ॥ १९४४ ॥ ;c{* अपानवायुनाम *} वातोऽपानः पुनर्मन्थापृष्ठपृष्ठान्तपार्ष्णिगः । ;c{* समानवायुनाम *} समानः पवनः सन्धिह्रन्नाभिषु च वर्तते ॥ १९४५ ॥ ;c{* उदानवायुनाम *} उदानः पवमानश्च वर्तते हृच्छिरोन्तरे । ;c{* व्यानवायूनाम *} सर्वत्वक्षु स्थितो व्यान इत्यङ्गे पञ्च वायवः ॥ १९४६ ॥ ;c{॥ इति वायुकायः समाप्तः ॥} ;v{वनस्पतिकायनामानि} ;c{* अथ वनस्पतिकायनामानि *} ;c{* वननामानि *} वनं वार्क्षं दवो दावो विपिनं गहनं झषः । अरण्यमटवी सत्रं कान्तारं काननं पुनः ॥ १९४७ ॥ कक्षः षण्डं च नामानि मन्यन्ते विपिनस्य वै । ;p{0321} ;c{* महारण्यनाम *} महारण्यमरण्यानी विशालं वनमुच्यते ॥ १९४८ ॥ ;c{* तृणाटवीनाम *} तृणाटवी च प्रस्तारो झषस्तु बहुघासवत् । ;c{* आरामनामानि *} आरामोऽपवनं स्याच्च वेलमुपवनं पुनः ॥ १९४९ ॥ निष्कुटः स्याद् गृहारामो बाह्यारामस्तु पौरकः । आक्रीडः स्याद् तथोद्यानं राज्ञां त्वन्तःपुरोचितम् ॥ १९५० ॥ प्रमदवनं राज्ञीनां प्रमोदाय कृतं भवेत् । पुष्पवाटी वृक्षवाटी मन्त्रिवेश्यागृहस्थिता ॥ १९५१ ॥ राज्ञ्याः क्रीडाकृते सैव क्षुद्रारामः प्रसीदिका । ;c{* वृक्षनामानि *} वृक्षो रूक्षो द्रुमोऽद्रिश्च हरिद्रुर्द्रुर्महीरहः ॥ १९५२ ॥ आरोहकः कुटः कुठः कारस्करः करालिकः । अगोऽगमो नगो गच्छः सीमिको हरितच्छदः ॥ १९५३ ॥ पादपः पुष्पदः पर्णी विटपी विष्टरस्तरुः । ;p{0322} शालः सालः पलाशी च पुलाकी फलदो वसु ॥ १९५४ ॥ शाखी च शिखरी स्कन्धी क्षितिरुहश्च वह्निभूः । अंह्रिपश्चाङ्घ्रिपो जन्तुर्जीर्णश्चरणपः कुजः ॥ १९५५ ॥ अनोकह उरुश्चैव नन्द्यावर्त्तस्तथैव च । एतन्नामानि मन्यन्ते वृक्षस्य विबुधैर्जनैः ॥ १९५६ ॥ ;c{* कुञ्जनामानि *} ख्यातः कुञ्जो निकुञ्जश्च कुडङ्गोऽपि हि कथ्यते । त्रीणि नामानि मन्यन्ते वृक्षैर्वृतान्तरे स्थले ॥ १९५७ ॥ पुष्पं फलं क्रमात् पत्रं वानस्पत्यस्तु स द्रुः । वनस्पतिस्तु स द्रुमः फलमेव च पत्रकम् ॥ १९५८ ॥ ;c{* फलेग्रहिनाम *} फलेग्रहिः फलावन्ध्यो यः फलत्येव स द्रुमः । ;c{* फलवन्ध्यनामानि *} फलवन्ध्योऽबकेशी चाऽवकेशी कथ्यतेऽपि वै ॥ १९५९ ॥ त्रीणि नामानि वृक्षाणि नार्पयन्ति फलं कदा । ;p{0323} ;c{* फलवत्-नामानि *} फलयुक्ततरोर्नाम फलवान् फलिनः फली ॥ १९६० ॥ ;c{* ओषधीनामानि *} फलपक्वानन्तरञ्च यस्य नाशः स औषधीः । औषधिरोषधी चापि नामत्रयं जवादिके ॥ १९६१ ॥ ;c{* क्षुपनाम *} क्षुपो लघुशिफा शाखो व्यवहारे निगद्यते । ;c{* लतानामानि *} प्रततिर्व्रततिर्वल्ली वल्लिर्लताऽपि कथ्यते ॥ १९६२ ॥ ख्यातः प्रतानिनी वीरुत् उलपो गुल्मिनी पुनः । एतन्नामानि मन्यन्ते गुच्छवत्यां लतार्थके ॥ १९६३ ॥ ;c{* अङ्कुरनामानि *} अङ्कूरश्चाऽङ्कुरो रोहः प्ररोहश्चाऽपि कथ्यते । ;c{* बलिशनाम *} बलिशं नाम तस्याऽस्ति पर्वणो यः समुत्थितः ॥ १९६४ ॥ ;p{0324} ;c{* शाखानामानि *} शाखा शिखा लता नाम वृक्षाङ्गे च लघौ स्मृतम् । शाला साला स्कन्धशाखा बृहद्भागस्तरोर्भवेत् ॥ १९६५ ॥ ;c{* स्कन्धनाम *} प्रकाण्डमस्तकं स्कन्धो वृक्षस्य कथ्यते बुधैः । प्रकाण्डो गण्डिका गण्डिर्मूलात् शाखावधिर्द्रुमः ॥ १९६६ ॥ ;c{* शिफानाम *} जटा शिफा द्वयं नाम वृक्षमूले हि मन्यते । ;c{* स्तम्बनामानि *} प्रकाण्डरहिते गुल्मो विटपः स्तम्ब उच्यते ॥ १९६७ ॥ ;c{* शिरोनामनामानि *} शिरोऽग्रं शिखरं शिरोनाम वृक्षोर्ध्वभागके । ;c{* वृक्षमूलनामानि *} वृक्षाधोभागके मूलश्चांह्रिस्तथांह्रिनाम वै ॥ १९६८ ॥ ब्रध्नो बुध्नश्च नामापि मन्यते पण्डितै जनैः । ;c{* वृक्षमज्जानाम *} सारो मज्जा द्वयं नाम वृक्षसत्त्वे निगद्यते ॥ १९६९ ॥ ;p{0325} ;c{* वृक्षत्वग्नामानि *} त्वचा त्वक् वल्कलं वल्कं छल्ली चोचं च कथ्यते । ;c{* वृक्षस्थाणुनामानि *} शुष्के वृक्षे स्थाणुः शङ्कुर्ध्रुवश्च ध्रवको भवेत् ॥ १९७० ॥ ;c{* काष्ठनामानि *} दारु दलिकमित्येवं काष्ठनामापि कथ्यते । ;c{* कोटरनाम *} निष्कुहः कोटरश्च वृक्षान्तर्जायते स्थलम् ॥ १९७१ ॥ ;c{* मञ्जरिनामानि *} मञ्जा च मञ्जरिः स्युर्वै वल्लरिश्चापि वल्लरी । ;c{* पत्रनामानि *} पत्रं पर्णं पलाशं च छदनं चापि छदं दलम् ॥ १९७२ ॥ बर्हं चेति हि मन्यन्ते पत्रनामानि पण्डितैः । ;c{* किसलयनामानि *} किशलयं नवे पत्रे किसलयं च पल्लवम् ॥ १९७३ ॥ किसलं चेति नामानि कथ्यन्ते किसलस्य वै । ;p{0326} अत्यन्तनूतने पत्रे प्रवालश्च कथ्यते बुधैः ॥ १९७४ ॥ कोशी शुङ्गा प्रवालाग्रभागो भवति निश्चयात् । ;c{* दलस्नसानाम *} माढिर्दलस्नसा पत्रनाडी बोधाय युज्यते ॥ १९७५ ॥ ;c{* विटपनाम *} विस्तारो विटपश्चापि वृक्षप्रसारबोधवान् । ;c{* पुष्पनामानि *} कुसुमं प्रसवः पुष्पं सूनं सुमनसः सुमम् ॥ १९७६ ॥ मणीवकं प्रसूनं चेति नामानि सुमस्य वै । जालकः क्षारका नाम नूतनकलिकार्थकः ॥ १९७७ ॥ कलिका कोरकं स्याच्च कुसुमकलिकार्थकः । कुड्मलं मुकुलञ्चैतदऽर्धस्फुटितकोरके ॥ १९७८ ॥ ;c{* गुच्छनामानि *} गुच्छो गुञ्छो गुलुञ्छश्च गुलुञ्छुर्गुत्सकः पुनः । गुत्सश्च स्तबको लुम्बी नामान्यष्टौ च सन्ति वै ॥ १९७९ ॥ ;c{* परागनाम *} परागो नाम प्रख्यातः पुष्परजो हि कथ्यते । ;p{0327} ;c{* मकरन्दनामानि *} मकरन्दो मरन्दश्च मधु पुष्परसः पुनः ॥ १९८० ॥ पुष्परसार्थकः काव्ये कथ्यते कोविदैः किल । ;c{* वृन्तनाम *} प्रसवबन्धनं वृन्तं फलपुष्पावलम्बने ॥ १९८१ ॥ ;c{* विकसितपुष्पनामानि *} विकसितं विनिद्रञ्च विमुद्रं विकचं स्मितम् । उन्निद्रं हसितं स्मेरं व्याकोशं स्फुटितं स्फुटम् ॥ १९८२ ॥ उन्मिषतं तथोज्जृम्भं प्रबुद्धञ्च विजृम्भितम् । संफुल्लं फुल्लमुत्फुल्लं प्रफुल्लं दलितं पुनः ॥ १९८३ ॥ उच्छ्वसितं च नामानि स्फुटपुष्पस्य सन्ति वै । ;c{* सङ्कुचितपुष्पनामानि *} सङ्कुचितं च निद्राणं मुद्रितं मिलितं भवेत् ॥ १९८४ ॥ ;c{* फलनामानि *} फलं सस्यं तथा शस्यं वानं शुष्कं फलं भवेत् । शलाटु कथ्यतेऽपक्वं फलं तद् ग्रन्थिरुच्यते ॥ १९८५ ॥ ;p{0328} ;c{* ग्रन्थिनामानि *} परुः पर्व तथा ग्रन्थिः त्रीणि नामानि सन्ति वै । ;c{* बीजकोशीनामानि *} शिम्बा शिम्बी शमी शिम्बिः बीजकोशी तथा शिमिः ॥ १९८६ ॥ एतन्नामानि मन्यन्ते बीजकोशस्य साक्षरैः । ;c{* पिप्पलवृक्षनामानि *} अश्वत्थः पिप्पलः ख्यातः श्रीवृक्षः कुञ्जराशनः ॥ १९८७ ॥ कृष्णावासो बोधिसत्त्वो बोधितरुस्तथैव च । चलदलश्च नामानि मन्यन्ते पिप्पलस्य वै ॥ १९८८ ॥ पुनर्नामाऽपि तद्भेदः प्लक्षश्च पर्कटी जटी । ;c{* वटवृक्षनामानि *} न्यग्रोधस्तु बहुपाद् स्याद् वटो वैश्रवणालयः ॥ १९८९ ॥ ;c{* उदुम्बरनामानि *} जन्तुफलश्च यज्ञाङ्गः उडुम्बरः उदुम्बरः । मशकी हेमदुग्धकस्तद्भेदो जघनेफला ॥ १९९० ॥ काकोदुम्बरिका फल्गु मलयुरपि मन्यते । ;p{0329} ;c{* आम्रवृक्षनामानि *} आम्रश्चूतश्च माकन्दः सहकारोऽपि कथ्यते ॥ १९९१ ॥ पुनः आम्रतरोर्नाम रसालोऽपि प्रसिद्धकः । ;c{* सप्तपर्णनामानि *} शारदः शारदी सप्तवर्णश्च विषमच्छदः ॥ १९९२ ॥ अयुक्छदो विशालत्वक् षड् नामानि सन्ति च । ;c{* शोभाञ्जननामानि *} शोभाञ्जनस्तथाऽक्षीवो मोचकस्तीक्ष्णगन्धकः ॥ १९९३ ॥ शिग्रुः सोभाञ्जनो नाम सौभाञ्जनः शौभाञ्जनः । पुनर्नाम्नोऽत्र भेदे श्वेतमरिचः उच्यते ॥ १९९४ ॥ ;c{* पन्नागनाम *} पुन्नागनामप्रख्यातः कथ्यते सुरपर्णिका । ;c{* बकुलनामानि *} बकुलः केसरः ख्यातः केशरोऽपि प्रयुज्यते ॥ १९९५ ॥ ;c{* अशोकवृक्षनामानि *} कङ्केल्लिर्वञ्जुलोऽशोकोऽअशोकवृक्षस्य नाम वै । ;p{0330} ;c{* अर्जुनवृक्षनामानि *} अर्जुनश्च नदीसर्जः इन्द्रद्रुः ककुभः पुनः ॥ १९९६ ॥ वीरतकश्चेति नामानि कथ्यन्ते ककुभस्य वै । ;c{* बिल्वनामानि *} शाण्डिल्यः श्रीफलो विल्वः शैलूषश्च प्रसिद्धकः ॥ १९९७ ॥ मालूरश्चेति नामानि मन्यन्ते श्रीफलस्य वै । ;c{* कुरण्टकनामानि *} किङ्किरातः कुरुण्टकः कुरण्टकः कुरण्डकः ॥ १९९८ ॥ ;c{* पलाशनामानि *} पलाशः किंशुकः पर्णः वातपीथस्त्रिपत्रकः । ब्रह्मपादपनाम्नाऽत्र पलाशः प्रथितो बुधैः ॥ १९९९ ॥ ;c{* तालवृक्षनामानि *} तृणराजस्तलस्तालः सर्वत्र ख्यात एव च । ;c{* कदलीनामानि *} कदलः कदली रम्भा काष्ठीला चांशुमत्फला ॥ २००० ॥ मोचा वै वारणबुसा वारणबुषाऽपि ज्ञायताम् । ;p{0331} ;c{* करवीरनामानि *} चण्डातो हयमारश्च करवीरः प्रसिद्धकः ॥ २००१ ॥ प्रतिहासः प्रतीहासः शतप्रासोऽपि कथ्यते । ;c{* कुटजनामानि *} कुटजो वत्सकः शक्रः स्यात् तथा गिरिमल्लिका ॥ २००२ ॥ ;c{* वेतसनामानि *} वेतसो वञ्जुलः शीतो विदुरो विदुलो रथः । अभ्रपुष्पश्च वानीरश्चेति नामानि सन्ति वै ॥ २००३ ॥ ;c{* बदरीफलनामानि *} कोला कोली तथा कोलिः कुवली बदरी किल । कर्कन्धुश्चापि कर्कन्धूश्चेति नामानि सन्ति वै ॥ २००४ ॥ ;c{* कदम्बनामानि *} कदम्बः प्रियको नीपो हरिप्रियो हलिप्रियः । धाराकदम्बनामाऽपि राजकदम्ब उच्यते ॥ २००५ ॥ ;c{* सालवृक्षनामानि *} सालः श्यालस्तथा सर्जः कार्यः कार्ष्योऽश्वकर्णकः । सस्यसंवरनामा सः शस्यसंवर इत्यपि ॥ २००६ ॥ ;p{0332} ;c{* अरिष्टवृक्षनाम *} अरिष्टः फेनिलो नामाऽरिष्टवृक्षस्य कथ्यते । ;c{* निम्बवृक्षनामानि *} ख्यातो निम्बस्तथाऽरिष्टः पिचुमर्दश्च मालकः ॥ २००७ ॥ पिचुमन्दः पुनर्हिङ्गुनिर्यासनाम वैद्रुमः । सर्वतोभद्रनामापि निम्बवृक्षस्य मन्यते ॥ २००८ ॥ ;c{* पिचुलवृक्षनामानि *} पिचुलो झाबुकश्चैव भावुकः कथ्यते पुनः । ;c{* कर्पासनामानि *} कर्पासश्चैव कर्पासी कार्पासी चापि बादरः ॥ २००९ ॥ पिचव्यो बदरा चेति नामानि बादरस्य वै । पिचुश्च तूलकं नाम पिचोर्वै कथ्यते बुधैः ॥ २०१० ॥ ;c{* कतमालनामानि *} शम्याकः कृतमालश्चाऽऽरग्वधोऽरग्वधोऽर्ग्वधः । राजवृक्षश्च शम्पाकः सम्पाकश्चतुरङ्गुलः ॥ २०११ ॥ अरेवतः सुपर्णको व्याधिधातः सुवर्णकः । एतन्नामानि कथ्यन्ते कृतमालस्य कोविदैः ॥ २०१२ ॥ ;p{0333} ;c{* वाशिकानामानि *} वासको वाशिका वाशा वासा च वाजिदन्तकः । वैद्यमाता वृषः सिंही सिहास्यः प्रसिद्धकः ॥ २०१३ ॥ आटरूषोऽटरूषश्चाऽटरूषकोऽटरूषकः । एतन्नामानि मन्यन्ते वृषस्य विबुधैर्भुवि ॥ २०१४ ॥ ;c{* करञ्जवृक्षनामनि *} करञ्जो नक्तपालश्च रक्तमालस्तथैव च । करजश्चिरबिल्वश्च चिरिबिल्वोऽपि कथ्यते ॥ २०१५ ॥ ;c{* स्नुहिनामानि *} स्नुहा स्नुहिर्व्रजश्चैवः महातरुस्तथैव च । पुनः सिहुण्डसीहुण्ढौ स्नुक् तु स्नुही गुडा तथा ॥ २०१६ ॥ समन्तदुग्धाऽपि भेदः स्नुहीवृक्षस्य मन्यते । ;c{* किम्पाकवृक्षनाम *} महाकालश्च किम्पाकः किम्पाकस्याऽस्ति नाम वै ॥ २०१७ ॥ ;c{* मन्दारनामानि *} मन्दारः पारिभद्रकः प्रख्यातः पारिजातकः । चेति नामानि कल्पस्य मिष्टनिम्बस्य वै पुनः ॥ २०१८ ॥ ;p{0334} ;c{* मधूकनामानि *} गुडपुष्पो मधुष्ठीलो वानप्रस्थो मधुद्रुमः । मधूको मधुकश्चेति नामानि मधुकस्य वै ॥ २०१९ ॥ ;c{* पीलुवृक्षनामानि *} पीलुः स्रंसी सिनश्चैव गुडफलोऽपि कथ्यते । ;c{* गुग्गुलवृक्षनामानि *} गुग्गुलो गुग्गुलुः कुम्भः कौशिकश्च पलङ्कषः ॥ २०२० ॥ पुरश्चोलूखलकञ्च नामानि गुग्गुलस्य वै । ;c{* राजादननामानि *} राजादनः पियालश्च प्रियालश्च धनुः पटः ॥ २०२१ ॥ राजातनो धनुश्चैव सन्नकद्रुः पटः पुनः । एतन्नामानि मन्यन्ते राजादनद्रुमस्य वै ॥ २०२२ ॥ ;c{* तिनिशवृक्षनामानि *} तिनिशः स्यन्दनो नेमी नेमिस्तथाऽतिमुक्तकः । रथद्रुमो रथद्रुश्च वञ्जुलश्चापि चित्रकृत् ॥ २०२३ ॥ एतन्नामानि कथ्यन्ते रथद्रुमद्रुमस्य वै । ;p{0335} ;c{* नारङ्गवृक्षनामानि *} ऐरावतश्च नारङ्गो नागरङ्गः प्रसिद्धकः ॥ २०२४ ॥ नार्यङ्गश्चेति नामानि नागरङ्गनगस्य वै । ;c{* इङ्गुदीनाम *} इङ्गुदी तापसद्रुमः ख्यातश्च कथ्यते बुधैः ॥ २०२५ ॥ ;c{* काश्मरीवृक्षनामानि *} काश्मर्यः काश्मरी चैव कभ्भारी मधुपर्णिका । श्रीपर्णी सर्वतोभद्रा भद्रपर्णी तथैव च ॥ २०२६ ॥ गम्भारी चेति नामानि काश्मरीविष्टरस्य वै । ;c{* आम्लीकावृक्षनामानि *} आम्लीका चाऽम्लिका चिञ्चा चाऽम्ब्लिका तिन्तिली तथा ॥ २०२७ ॥ तिन्तिडी चेति नामानि मन्यन्ते तिन्तिडीतरोः । ;c{* शेलुनामानि *} शेलुः श्लेष्मातकः सेलुस्तरुभेद उदाहृतः ॥ २०२८ ॥ ;c{* अशनवृक्षनामानि *} असनश्चाऽऽसनश्चैव बन्धूकपुष्पजीवकौ । ;p{0336} प्रियकः पीतसालश्च सर्जकः पीतसारकः ॥ २०२९ ॥ एतन्नामानि मन्यन्ते प्रियकपादपस्य वै । ;c{* पाटलिनामानि *} पाटला पाटलिश्चैव मोघाऽमोघा फलेरुहा ॥ २०३० ॥ कृष्णवन्ता कुबेराक्षी कालास्थाली तथैव च । काचस्थाली च नामानि पाटलेः सम्भवन्ति वै ॥ २०३१ ॥ ;c{* भोजपत्रवृक्षनामानि *} भूर्जश्चर्मी बहुत्वक्को मृदुत्वक् च मृदुच्छदः । भोजपत्रवृक्षस्य च नामान्येतानि सन्ति वै ॥ २०३२ ॥ ;c{* कर्णिकारनामानि *} कर्णिकारः परिव्याधो द्रुमोत्पलोऽपि मन्यते । ;c{* निचुलनामानि *} इज्जलोऽम्बुजो हिज्जलो निचुलोऽपि हि कथ्यते ॥ २०३३ ॥ ;c{* आमलकीनामानि *} आमलकी शिवा धात्री तिष्यफला तथाऽमृता । वयस्था चेति नामानि शिवायाः सम्भवन्ति वै ॥ २०३४ ॥ ;p{0337} ;c{* बिभीतकनामानि *} कर्षफलो कलिद्रुमो बिभीतको बिभेदकः । भूतावासस्तुषोऽक्षश्चेति नामानि तुषस्य वै ॥ २०३५ ॥ ;c{* हरीतकीनामानि *} हरीतकी च कायस्थाऽव्यथा शिवाऽभयाऽमृता । वयस्था पूतना पथ्या चेतकी श्रेयसी तथा ॥ २०३६ ॥ हैमवती च नामानि हरितक्याश्च सन्ति वै । ;c{* त्रिफलानाम *} प्रसिद्धा त्रिफला नाम फलत्रयस्य योगतः ॥ २०३७ ॥ ;c{* तमालवृक्षनामानि *} कालस्कन्धस्तमालश्च तापिञ्जश्च प्रसिद्धकः । तापिच्छश्चापि तापिञ्छश्चेति नामानि सन्ति वै ॥ २०३८ ॥ ;c{* चम्पकनामानि *} हेमपुष्पकनामायं चम्पाचाम्पेयचम्पकाः । ;c{* सिन्दुकनामानि *} निर्गुण्डी सिन्दुवारश्च सिन्दुकः सिन्धुकः पुनः ॥ २०३९ ॥ इन्द्रसुरसरिन्द्रसुरिसरिन्द्राणिका तथा । ;p{0338} निर्गुण्टी चापि निर्गण्ठी चेति नामानि सन्ति वै ॥ २०४० ॥ ;c{* वासन्तीनामानि *} वासन्ती माधवी चापि पुण्ड्रकस्तथाऽतिमुक्तकः । लता चेति हि नामानि वासन्त्याः सम्भवन्ति वै ॥ २०४१ ॥ ;c{* जपापुष्पनामानि *} औड्रपुष्पं जपापुष्पमोड्रपुष्पं जपा जवा । ;c{* मालतीपुष्पनामानि *} जातिस्तु मालती जाती सुमनाः सुमना तथा ॥ २०४२ ॥ ;c{* मल्लिकापुष्पनामानि *} मल्लिका तृणशून्यं च विचकिलश्च भूपदी । शतभीरुस्तथा शीतभीरुर्नामानि सन्ति वै ॥ २०४३ ॥ ;c{* सप्तलानामानि *} सप्तला नवमाल्लिका तथैव नवमालिकाः । ;c{* मागधीपुष्पनामानि *} मागधी यूथिकाऽम्बष्ठा गणिकापि च तद्भिदा ॥ २०४४ ॥ हेमपुष्पिका च पितायाः यूथिकाया भिदा स्मृता । ;p{0339} ;c{* पियङ्गुनामानि *} पिथङ्गुः प्रियकः श्यामा गुन्द्रा गोवन्दनी तया ॥ २०४५ ॥ विश्वक्सेना च कारम्भा लता च महिलाह्वया । गन्धफली फली नाम गणनायां फलिनी पुनः ॥ २०४६ ॥ ;c{* बन्धूकनामानि *} रक्तको बन्धूकश्चैव बन्धुको बन्धुजीवकः । ;c{* करुणनाम *} करुणो मल्लिकापुष्पः पुष्पस्यैव भिदा स्मृता ॥ २०४७ ॥ ;c{* जम्बीरनामानि *} जम्बीरो जम्बिरो जम्भो जम्भीरो जम्भरस्तथा । दन्तशठोऽपि जम्बलश्चेति नामानि सन्ति वै ॥ २०४८ ॥ ;c{* मातुलुङ्गनामानि *} रुचको मातुलिङ्गश्च मातुलुङ्गस्तथैव च । बीजपूरश्च नामास्ति फलपूरोऽपि मन्यते ॥ २०४९ ॥ ;c{* करीरनामानि *} करीरः क्रकरश्चैव ग्रन्थिलोऽपि हि कथ्यते । ;p{0340} ;c{* एरण्डनामानि *} एरण्डो व्याघ्रपुच्छश्च चञ्चुः पञ्चाङ्गुलः पुनः ॥ २०५० ॥ गन्धर्वहस्तको मुण्डो व्यडम्बको व्यडम्बनः । रुवूको रूवुकश्चैव वर्द्धमानश्च चित्रकः ॥ २०५१ ॥ रुचक उरुवूकश्च ख्यात उरुवुकः पुनः । एतन्नामानि मन्यन्ते पञ्चाङ्गुलस्य पण्डितैः ॥ २०५२ ॥ ;c{* धातकीनामानि *} अग्निज्वाला सुभिक्षा च धातकी धातुपुष्पिका । नामान्येतानि कथ्यन्ते पुनश्च धातृपुष्पिका ॥ २०५३ ॥ ;c{* कपिकच्छूनामानि *} कण्डूरा कण्डुराऽव्यण्डा कपिकच्छूर्जहाऽजहा । ऋष्यप्रोक्ताऽऽत्मगुप्ता च मर्कटी प्रावृषायणी ॥ २०५४ ॥ शूकशिम्बा तथा शूकशिम्बिश्च कपिकच्छुकः । नामान्येतानि मन्यन्ते कण्डुरायाश्च कोविदैः ॥ २०५५ ॥ ;c{* धत्तूरनामानि *} धत्तूरो धुतुरो धूर्तो धुस्तूरो धुस्तुरस्तथा । धूस्तूरो मातुलश्चैव धुत्तूरः कनकाह्वयः ॥ २०५६ ॥ ;p{0341} उन्मत्तः कितवश्चापि प्रख्यातो मदनः पुनः । नामान्येतानि कथ्यन्ते धत्तूरस्य हि पण्डितैः ॥ २०५७ ॥ ;c{* कपित्थनामानि *} कपित्थो मन्मथो ग्राही कबित्थोऽपि तथैव च । दधिफलो दधिस्थश्च पुष्पफलः प्रसिद्धकः ॥ २०५८ ॥ दन्तशठश्च नामानि मन्यन्ते मन्मथस्य वै । ;c{* नालिकेरनामानि *} नालिकेरो नारीकेलो नारिकेलश्च लाङ्गली ॥ २०५९ ॥ नारिकेरो नारीकेली नारिकेलिस्तथैव च । एतन्नामानि कथ्यन्ते नालिकेरस्य कोविदैः ॥ २०६० ॥ ;c{* आम्रातकनामानि *} पीतनोऽम्रातकश्चैव वर्षपाको कपीतनः । आम्रातकश्च नामानि मन्यन्तेऽम्रातकस्य वै ॥ २०६१ ॥ ;c{* केतकनाम *} केतकः केतकी नाम कथ्यते क्रकचच्छदः । ;c{* कोविदारनामानि *} कुद्दालः कोविदारः स्याद् युगपत्रश्चमरिकः ॥ २०६२ ॥ ;p{0342} ;c{* सल्लकीनामानि *} शल्लकी सल्लकी चापि सिल्लकी सुवहा रसा । सुरभी सुरभिश्चापि ह्लादिनो ह्रादिनी तथा ॥ २०६३ ॥ कुन्दुरुकी गजप्रिया महेरुणा महेरणा । गजभक्ष्या गजभक्षाश्चेति नामानि सन्ति वै ॥ २०६४ ॥ ;c{* वंशनामानि *} वंशो वेणुश्च कर्मारः शतपर्वा च मश्करः । तृणध्वजोऽपि त्वक्सारस्त्वचिसारश्च तेजनः ॥ २०६५ ॥ यवफलश्च नामानि वंशस्य कथयन्ति वै । ;c{* कीचकनाम *} प्रसिद्धः कीचको नाम स्वनन् वातात् स कथ्यते ॥ २०६६ ॥ ;c{* वंशक्षीरीनामानि *} वंशक्षीरी तुकाक्षीरी त्वक्क्षीरी वंशरोचना । एतन्नामानि मन्यन्ते बुधैश्च वंशलोचना ॥ २०६७ ॥ ;c{* पूगनामानि *} पूगो घोण्टा गुवाकश्च गूवाकः खपुरः पुनः । क्रमुकश्चेति नामानि पूगद्रुमस्य सन्ति वै ॥ २०६८ ॥ ;p{0343} ;c{* उद्वेगनाम *} उद्वेगं नाम प्रख्यातं पूगफलस्य मन्यते ॥ २०६९ ॥ ;c{* नागवल्लीनामानि *} ताम्बूली ताम्बूलवल्ली नागपर्यायवल्ल्यपि । नागवल्ली सर्पवल्ली फणिलताऽपि कथ्यते ॥ २०७० ॥ ;c{* तुम्बीनामानि *} तुम्बी तुम्बिरलाम्बूश्च तुम्बाऽऽलाबुस्तथैव च । लाबुर्लाबूस्तथाऽलाबूश्चाऽऽलाबुः सन्ति वै पुनः ॥ २०७१ ॥ ;c{* गुञ्जानामानि *} गुञ्जा च कृष्णला काकचिञ्ची काकाचिञ्चिस्तथा । काकचिञ्चा च नामानि गुञ्जायाः कथयन्ति वै ॥ २०७२ ॥ ;c{* द्राक्षानामानि *} द्राक्षा मधुरसा स्वाद्वी गोस्तना गोस्तनी तथा । मृद्वीका हारहूरा च द्राक्षानामानि सन्ति वै ॥ २०७३ ॥ ;c{* गोक्षुरनामानि *} गोक्षुर इक्षुगन्धा च श्वदंष्ट्रा स्वादुकण्टकः । तथा स्थलशृङ्गाटश्च गोकण्टकस्त्रिकण्टकः ॥ २०७४ ॥ ;p{0344} प्रसिद्धो वनशृङ्गाटः पलङ्कषा पुनः खलु । एतन्नामानि मन्यन्ते गोक्षुरस्य महीतले ॥ २०७५ ॥ ;c{* गिरिकर्णीनामानि *} विष्णुक्रान्ता तथाऽऽस्फोटाऽऽस्फोता चाप्यपराजिता । प्रसिद्धा गिरिकर्णी चाऽप्रतिहता पुनर्भवेत् ॥ २०७६ ॥ ;c{* व्याघ्रीनामानि *} कुली व्याघ्री स्पृशी क्षुद्रा निर्दिग्धिका निदिग्धिका । प्रचोदनी च दुःस्पर्शा राष्ट्रिका कण्टकारिका ॥ २०७७ ॥ बृहती चेति नामानि कोविदाः कथयन्ति वै । ;c{* गडूचीनामानि *} गडूची गडुची छिन्नरुहा जीवन्तिका पुनः ॥ २०७८ ॥ अमृता सोमवल्ली च वत्सादनी च तन्त्रिका । विशल्या मधुपर्णी च नामानि दश सन्ति वै ॥ २०७९ ॥ ;c{* इन्द्रवारुणीनामानि *} चित्रा गवाक्षी गोडुम्बा विशाला चेन्द्रवारुणी । एतन्नामानि मन्यन्ते विशालायाश्च साक्षरैः ॥ २०८० ॥ ;c{* उशीरनामानि *} उशीरं वीरणीमूलं लामज्जकं जलाशयम् । ;p{0345} अभयऽममृणालञ्च नलदमिष्टकापथम् ॥ २०८१ ॥ सेव्यं तथाऽवदाहं च ख्यातं लघुलयं पुनः । नामान्येतानि मन्यन्ते सेव्यस्य विबुधैः खलु ॥ २०८२ ॥ वीरतरं च वीरणं नामापि कथ्यते पुनः । ;c{* ह्रीबेरनामानि *} केशाम्बुनाम चोदीच्यं ह्रीबेरं वालकं जलम् ॥ २०८३ ॥ बर्हिष्ठं चापि प्रसिद्धं केशजलं क्वचिद् भवेत् । ;c{* प्रपुन्नाटनामानि *} प्रपुन्नाटः प्रपुन्नाडः प्रपुन्नालस्तथैव च ॥ २०८४ ॥ पद्माटः प्रपुनाडश्च प्रपुनालः प्रपुनडः । उरणाख्यश्च दद्रुघ्नो दद्रुघ्नश्चक्रमर्दकः ॥ २०८५ ॥ एडगजस्तथैव स्यादेलगजश्च व्याहृतौ । नामान्येतानि कथ्यन्ते प्रपुन्नाटस्य पण्डितै ॥ २०८६ ॥ ;c{* कुसुम्भनामानि *} लट्वा वह्निशिखं चैव कुसुम्भं कमलोत्तरम् । महारजनं नामाऽपि कथ्यते कुसुम्भस्य वै ॥ २०८७ ॥ ;c{* लोध्रनामानि *} लोध्रो रोध्रस्तिरीटश्च शावरः साबरस्तथा । ;p{0346} मार्जनो गालवस्तिल्वश्चेति नामानि सन्ति वै ॥ २०८८ ॥ ;c{* कमलिनीनामानि *} कमलिनी मृणालिनी नलिनी नडिनी तथा । पुटकिनी च पद्मिनी पङ्कजिनी सरोजिनी ॥ २०८९ ॥ बिसिनी चेति नामानि मन्यन्ते पण्डितैर्जनैः । ;c{* कमलनामानि *} कमलमऽरविन्दं च नालीकं नलिनं पुनः ॥ २०९० ॥ पद्मं बिसप्रसूतं च सरोजन्म सरोरुहम् । कुशेशयं सरोरुट् च सरोजं सरसीरुहम् ॥ २०९१ ॥ पुष्करं शतपत्रं च पङ्कजं पङ्कजन्म च । पङ्करुट् पङ्करुहं च तामरसं महोत्पलम् ॥ २०९२ ॥ ख्यातं विसप्रसूतं च विसप्रसूनमित्यपि । जलजं जलरुट् चैव जलरुहं च वारिजम् ॥ २०९३ ॥ जलजन्म च राजीवं सहस्रपत्रमित्यपि । एतन्नामानि मन्यन्ते सामान्यकमलस्य वै ॥ २०९४ ॥ ;c{* विशेषकमलनामानि *} पुण्डरीकं सिताम्भोजं श्वेतं कमलमुच्यते । कोकनदं रक्तोत्पलं भवेद् रक्तसरोरुहम् ॥ २०९५ ॥ ;p{0347} कुमुदिनी कुमुद्वती कैरविणी च तल्लता । कुवलयं कुवेलं च कुवं च कुवलं पुनः ॥ २०९६ ॥ उत्पलं चेति नामानि कुवलस्य हि सन्ति वै । श्वेते तु तत्र कैरवं कुमुदं गर्दभाह्वयम् ॥ २०९७ ॥ कुमुद् चेति नामाऽपि चन्द्रोदयेन फुल्लति । नीले त्विन्दिवरं चेन्दीवारं चेन्दीवरं तथा ॥ २०९८ ॥ नीलाम्बूजन्म नामापि नीलकमलमुच्यते । रक्तोत्पलं च हल्लकं तदेव रक्तसन्ध्यकम् ॥ २०९९ ॥ एतत् पद्मं रक्तवर्णं सायङ्काले प्रफुल्लति । सौगन्धिकञ्च कल्हारं शुक्लं सायं विकाशि तत् ॥ २१०० ॥ ;c{* कर्णिकानामानि *} कर्णिका बीजकोशश्च वराटकोऽपि कथ्यते । ;c{* पद्मनालनामानि *} पद्मनालं मृणालञ्च प्रख्यातं तन्तुलं तथा ॥ २१०१ ॥ विशं बिसं विसं चेति नामानि तन्तुलस्य वै । ;c{* केसरनामानि *} किञ्जल्कं केसरं नाम केशरः कर्णिकान्तिके ॥ २१०२ ॥ ;p{0348} ;c{* संवर्तिकानामानि *} संवर्तिका नवं पत्रं कथ्यते पण्डितैर्जनैः । पुनर्नवदलं नाम शरयन्त्रिकमित्यपि ॥ २१०३ ॥ ;c{* कन्दनामानि *} करहाटः शिफा कन्दः शिफाकन्दश्च मूलभाक् । ;c{* शालूकनाम *} शालूकमपि भेदोऽस्ति पद्ममूलस्य नामनि ॥ २१०४ ॥ ;c{* शेवालनामानि *} शेवालं जलशूकञ्च शेषालं जलनीलिका । शेफालं जलनीली च शेवलं शैवलं तथा ॥ २१०५ ॥ शैवालं चापि नीली स्युर्नामानि शैवलस्य वै । ;c{* धान्यनामानि *} धान्यं सस्यं तथा सीत्यं व्रीहिः स्तम्बकरिः पुनः ॥ २१०६ ॥ पाटलो व्रीहिराशुः स्याद् गर्भपाकी च षष्टिकः । शालयः कलमाद्याः स्युः कलमश्च कलामकः ॥ २१०७ ॥ पुनः ख्यातो महाशालिः सुगन्धिकोऽपि कथ्यते । लोहितो रक्तशालिश्च नामतः प्रथितं भुवि ॥ २१०८ ॥ ;p{0349} ;c{* विभिन्नधान्यनामानि *} यवो हयप्रियो लोके तीक्ष्णशूकश्च स स्मृतः । स एव हरितस्तोक्मः कथ्यते कोविदैः किल ॥ २१०९ ॥ मङ्गल्यको मसूरः स्यात् सातीनस्तु सतीनकः । कलायः खण्डिकश्चैव हरेणुस्त्रिपुटः पुनः ॥ २११० ॥ प्रसिद्धश्चणकश्चैव हरिमन्थक उच्यते । माषश्च मदनो वृष्यो नन्दी बीजवरो बली ॥ २१११ ॥ एतन्नामानि मन्यन्ते माषस्य हि महीतले । पुनर्मुद्गो बलाटश्च प्रथनो हरितो हरिः ॥ २११२ ॥ लोभ्यश्चेति हि नामानि पुनरत्र विशेषतः । पोतेऽस्मिन् शारदश्चैव खण्डीरश्च जयो वसुः ॥ २११३ ॥ प्रवेलश्च पुनः कृष्णे प्रवरो हरिमन्थजः । वासन्तः शिम्बिकश्चैव वनमुद्गे निगूढकः ॥ २११४ ॥ कुलीनकस्तथा खण्डी तुवरकः प्रसिद्धकः । एतन्नामानि सर्वाणि मुद्गस्य प्रथयन्ति वै ॥ २११५ ॥ अथ वै राजमुद्गश्च मकुष्ठको मयुष्ठकः । मकुष्टको मकूष्टको मुकुष्टको मयुष्ठकः ॥ २११६ ॥ मयष्टको मपष्ठश्च मपष्टको मपुष्ठकः । मपुष्ठश्चेति नामानि मपुष्ठस्य भवन्ति वै ॥ २११७ ॥ ;p{0350} गोधूमनाम प्रख्यातः सुमनोऽपि कथ्यते । वल्लस्तु शितशिम्बिकः सितशिम्बिक उच्यते ॥ २११८ ॥ निष्पाव इति नामापि वल्लस्य मन्यते बुधैः । कुलत्थः कालवृन्तश्च ताम्रवृन्ता कुलत्थिका ॥ २११९ ॥ आढको तुवरी ख्याता वर्णा चेत्यपि मन्यते । कुल्मासो यावकश्चैव कुल्माषोऽपि कथ्यते ॥ २१२० ॥ नीवारश्च वनव्रीहिः स्यातां श्यामाकश्यामकौ । कङ्गुश्च कङ्गुनी क्वङ्गुः कङ्गूश्च पीततण्डुला ॥ २१२१ ॥ प्रियङ्गुश्चेति नामानि कथ्यन्ते पण्डितैः पुनः । मधुका कृष्णकङ्गुः स्यात् शोधिका रक्तकङ्गुनी ॥ २१२२ ॥ मुसटी श्वेतकङ्गुः स्याद् माधवी पीतकङ्गुनी । उद्दालः काद्रवः स्याच्च कोद्रवः कोरदूषकः ॥ २१२३ ॥ चीनकः काकङ्गुश्च भेदः कङ्गोरिह स्मृतः । ;c{* यवनालनामानि *} विख्यातो यवनालश्च योनलो बीजपुष्पिका ॥ २१२४ ॥ जूर्णाह्वयश्च जोन्नाला देवधान्यं तथैव च । मातुलानी शरणं भङ्गा भवेदुमा क्षुमाऽतसी ॥ २१२५ ॥ गवेडुः स्याद् गवेधुश्च गवीधूका गवेधुका । ;p{0351} अरण्यजस्तिलः ख्यातो जर्त्तिलः कथ्यते बुधैः ॥ २१२६ ॥ वन्ध्यं षष्ढतिलः स्याच्च तिलादी पिञ्जपेजकौ । तन्तुभस्तुन्तुभो लोके सर्षपः स्यात् कदम्बकः ॥ २१२७ ॥ श्वेतवर्णः सर्षपस्तु सिद्धार्थः श्वेतसर्षपः । शमीधान्यमनेकस्य मुद्गादेर्नाम मन्यते ॥ २१२८ ॥ शूकधान्यं यवादीनां नाम प्रख्यापितं किल । सस्यशूकञ्च किंशारुः धान्याग्रो भाग उच्यते ॥ २१२९ ॥ कणिशं कनिशञ्चैव कणिषः सस्यशीर्षकम् । सस्यमञ्जरी नामापि कथ्यते कनिशस्य वै ॥ २१३० ॥ स्तम्बो गुच्छो धान्यमूले नालं काण्डो भवेत् पुनः । पलालश्च पलोऽफलः स्यात् तु वै धान्यत्वक् तुषः ॥ २१३१ ॥ बुसे कडङ्गरो बुषं चेति नामानि सन्ति वै । आवसितं तथा धान्यं रिद्धमाऽऽवासितं पुनः ॥ २१३२ ॥ ऋद्धं सिद्धं सुसम्पन्नं चेति नामानि सन्ति हि । शूर्पादिना स्वच्छभूतं पूतं स्यान्निर्बुसीकृतम् ॥ २१३३ ॥ धान्ये परिष्कृते लोकैः कथ्यते बहुलीकृतम् । ;c{* मूलादिनामानि *} मूलं पत्रं हि वृक्षादेः प्रसिद्धं फलमित्यपि ॥ २१३४ ॥ करीरमस्ति वंशस्याङ्कुरेऽग्रं पूर्वभागतः । ;p{0352} काण्डमेरण्डवंशादौ विरूढः स्यात् फलाङ्कुरे ॥ २१३५ ॥ विरुढकाऽपि प्रख्यातं तदर्थे कथ्यते बुधैः । तालबीजेऽविरूढकं त्वक् कदल्यां निरीक्ष्यताम् ॥ २१३६ ॥ करीरादिद्रुमपुष्पं पुष्पं हि कथ्यते पुनः । भूच्छत्राकस्य कन्दं वै कवकं मन्यते बुधैः ॥ २१३७ ॥ शाकं च शिग्रुकं चेति दशधा खाद्यवस्तुनि । ;c{* शाकविशेषनामानि *} मेघनादस्तण्डुलीयस्तण्डुलेरोऽल्पमारिषः ॥ २१३८ ॥ रक्तफला तथा तुण्डिकेरी च तुण्डिकेरिका । तुण्डिकेशी तथा बिम्बी पीलुपर्णी च सन्ति वै ॥ २१३९ ॥ जीवन्ती जीवनीया च जीवा च जीवनी पुनः । मधुर्मधुस्रवा श्रवा चेति नामानि सन्ति वै ॥ २१४० ॥ वास्तूकं वास्तुकं चैव क्षारपत्रं प्रसिद्धकम् । क्षीरपत्रं पुनश्चेति नामानि कथयन्ति वै ॥ २१४१ ॥ पालक्या नाम प्रख्यातं तथैव मधुसूदनी । ;c{* लशुननामानि *} लशूनं लशुनोऽरिष्टो महाक्रन्दो महौषधम् ॥ २१४२ ॥ रसोनो म्लेच्छकन्दश्च सप्त नामानि सन्ति वै । ;p{0353} दीर्घपत्रकनामापि रसोनो गृञ्जनो भवेत् ॥ २१४३ ॥ ;c{* भृङ्गराजनामानि *} भृङ्गरजो भृङ्गराजो मार्कवः केशरञ्जनः । ;c{* विभिन्नशाकनामानि *} वायसी काकमाची च शाकार्थेषु विशेषतः ॥ २१४४ ॥ प्रसिद्धः कारवेलश्च कटल्लकस्तथैव च । कटिल्लकः कठिल्लकः सुषवी सुसवी पुनः ॥ २१४५ ॥ कूष्माण्डकश्च कर्कारुः कोशातकी पटोलिका । चिर्भटी चिर्भिटी चैव वालुङ्की कर्कटी तथा ॥ २१४६ ॥ एर्वारुस्त्रपुसी चोर्वारुश्चोर्वालुः पुनः खलु । एर्वालुश्चेति नामानि कर्कट्याः कथयन्ति वै ॥ २१४७ ॥ सूरणः सुरणः कन्दो भवेदर्शोघ्न इत्यपि । प्रसिद्धमाऽऽर्द्रकं चैव शृङ्गबेरकमुच्यते ॥ २१४८ ॥ तिक्तपत्रः किलासघ्नः कर्कोटकः सुगन्धकः । सेकिमं हरिपणं च मूलकं हस्तिदन्तकम् ॥ २१४९ ॥ ;c{* तृणादिनामानि *} तृणं नडादि नीवारादिकं शष्पं तु तन्नवम् । कत्तृणं रौहिषं पौरं देवजग्धं सौगन्धिकम् ॥ २१५० ॥ ;p{0354} दर्भः कुथः कुशो बर्हिः पवित्रं नाम पञ्चमम् । तेजनस्तु शरो गुन्द्रो मुञ्जो नाम चतुर्थकम् ॥ २१५१ ॥ हरिताली रुहाऽनन्ता दूर्वा च शतपर्णिका । तथा सहस्रवीर्या च भार्गवी शतपर्विका ॥ २१५२ ॥ पोटगलस्तु प्रख्यातो धमनश्च नडो नलः । मेघनामास्तु वै मुस्ता कुरुविन्दश्च मुस्तकः ॥ २१५३ ॥ गुन्द्रा तु सोत्तमा ख्याता स्यादपि भद्रमुस्तकः । उलपो वल्वजा चैवं भवेत् कोमलघासकम् ॥ २१५४ ॥ ;c{* इक्षुनामानि *} अथेक्षुः स्याद् रसालश्च प्रख्यातोऽप्यसिपत्रकः । ;c{* इक्षुभेदनामानि *} कान्तारः कोषकारश्च पुण्ड्रपुण्ड्रकपौण्ड्रकाः ॥ २१५५ ॥ ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः । काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥ यवसं चापि घासः स्यात् तृणमऽर्जूनमेव च । ;c{* विषनामानि *} विषस्तीक्ष्णं रसः क्ष्वेडो गरलोऽपि च नाम वै ॥ २१५७ ॥ ;p{0355} ;c{* स्थावरविषविशेषनामानि *} कालकूटश्च काकोलः कर्दमः करवीरकः । शृङ्गिकः शौल्किकेयश्च सक्तुको मधुसिक्थकः ॥ २१५८ ॥ मकटो मुस्तकः कुष्ठो मेषशृङ्गश्च मूलकः । गौरार्द्रकश्च कालिङ्गो कैराटकश्च गौतमः ॥ २१५९ ॥ इन्द्रश्चाङ्कोल्लसारश्च लाङ्गुलिकश्च पिङ्गलः । वालूको वत्सनाभश्च विस्फुलिङ्गश्च दालवः ॥ २१६० ॥ हालहलं चाऽहिछत्रो हालाहलं हलाहलः । सर्षपो ब्रह्मपुत्रश्च प्रदीपनश्च नन्दनः ॥ २१६१ ॥ सोराष्ट्रिकः सौराष्ट्रिकः हैमवतस्तथैव च । एता सर्वा हि मन्यन्ते स्थावरा विषजातयः ॥ २१६२ ॥ कुरण्टः परिभद्रादिरग्रबीजेषु गण्यते । उत्पलः सुरणादिश्च मूलजेषु च मन्यते ॥ २१६३ ॥ इक्षुवंशतृणेत्यादिः पर्वयोनिज उच्यते । सल्लकी वटवृक्षादिः स्कन्धजेषु विभाज्यताम् ॥ २१६४ ॥ शालिषष्टिकमुद्गादिबीजैरुत्पद्यते सदा । तृणभूच्छत्रनामादिः सम्मूर्छज उच्यताम् ॥ २१६५ ॥ षडेताश्च वनस्पतिकायस्य मूलजातयः । ;p{0356} प्रसिद्धाः सर्वदा लोके कोविदाः कथयन्ति वै ॥ २१६६ ॥ ;c{॥ इति वनस्पतिकायः समाप्तः ॥} ;c{॥ इति एकेन्द्रियजीवाः समाप्ताः ॥} ;v{द्वीन्द्रियजीवनामानि} ;c{* अथ द्वीन्द्रियजीवनामानि *} ;c{* कायभवकीटनामानि *} कृमिर्नीलाङ्गुनीलङ्गू शरीरान्तरवर्तिनः । क्षुद्रकीटो बहिश्चारी पुलका उदरे बहिः ॥ २१६७ ॥ कीकसाः लघुकायास्ते काष्ठकीटो घुणः स्मृतः । ;c{* पृथ्वीभवकीटनामानि *} कुसूः किञ्चिलकः किञ्चुलकः किञ्चुलुकः पुनः ॥ २१६८ ॥ ख्यातो गण्डूपदः स्युर्वै भूलताऽपि महीलता । शिली गण्डूपदी नाम गण्डुलः कथ्यते बुधैः ॥ २१६९ ॥ ;c{* जलौकानामानि *} जलौका च जलालोका जलूका जलसर्पिणी । जलौकसोऽस्त्रपाः सन्ति रक्तपाः विचकाः पुनः ॥ २१७० ॥ ;c{* शुक्तिनामानि *} शुक्तिः स्यादब्धिमण्डूकी मुक्तस्फोटोऽपि मन्यते । ;p{0357} ;c{* शङ्खनामानि *} त्रिरेखः षोडशावर्त्तः शङ्खो भवति वारिजः ॥ २१७१ ॥ क्षुल्लकाः क्षुद्रशङ्खाश्च शङ्खनखास्तथैव च । शङ्खनकास्तथा क्षुद्रकम्बवः संभवन्ति वै ॥ २१७२ ॥ शम्बवः शम्बुकाश्चैव शम्बूकाः शाम्बुकाः पुनः । नामान्येतानि मन्यन्ते जलमात्रभवानि वै ॥ २१७३ ॥ ;c{* कपर्दनामानि *} वराटको हिरण्यश्च कपर्दश्च कपर्दकः । श्वेतः पणास्थिकश्चेति नामानि कथयन्ति वै ॥ २१७४ ॥ ;c{* जलूकासदृशजलचरजन्तुनामानि *} दीर्घकोशा च दुःसंज्ञा दुर्नामाऽपि कथ्यते । दुर्नाम्नी चेति नामापि पण्डितैरिह मन्यते ॥ २१७५ ॥ ;c{॥ इति द्वीन्द्रियजीवाः समाप्ताः ॥} ;v{त्रीन्द्रियजीवनामानि} ;c{* अथ त्रीन्द्रियजीवनामानि *} अथ वै त्रीन्द्रियानाह पीलकः स्यात् पिपीलकः । हीनाङ्गी पीपिलीका स्यात् ब्राह्मणी स्थूलशीर्षिका ॥ २१७६ ॥ घृतेली नाम प्रख्यातं पिङ्गकपिशा तथैव च । ;p{0358} उपजिह्वोपदीका स्यात् वम्री तथोपदेहिका ॥ २१७७ ॥ रिक्षा लिक्षा प्रसिद्धाऽस्ति यूका तु षट्पदी पुनः । ख्यातं नाम महाभीरुः गोपालिकाऽपि नाम वै ॥ २१७८ ॥ गर्दभी गोमयोत्था स्यात् मत्कुणस्तु प्रसिद्धकः । उद्दंशः किटिभश्चापि वै कोलकुणस्तथोत्कुणः ॥ २१७९ ॥ अग्निकोऽग्निरजश्चैव वैराटस्तित्तिभः पुनः । इन्द्रगोपश्च नामानि मन्यन्ते तित्तिभस्य वै ॥ २१८० ॥ ख्याता कर्णजलूका च कर्णकीटाऽपि कथ्यते । तथा कर्णजलौकाः स्यात् शतपदी च मन्यते ॥ २१८१ ॥ पुनः कर्णजलौकाऽपि कथ्यते कौविदैः किल । एते त्रीन्द्रियजीवास्तु वर्तन्ते हि महीतले ॥ २१८२ ॥ ;c{॥ इति त्रीन्द्रियजीवाः समाप्ताः ॥} ;v{चतुरिन्द्रियजीवनामानि} ;c{* अथ चतुरिन्द्रियजीवनामानि *} ;c{* लूतानामानि *} ऊर्णनाभः क्रिमिः कृमिः मर्कटकस्तथाऽष्टपाद् । लालास्त्रावश्च लूताच जालिको जालकारकः ॥ २१८३ ॥ प्रख्यातस्तन्त्रवायश्च तन्तुवायस्तथैव च । सर्वनामानि लूतायाः मन्यन्ते पण्डितै जनैः ॥ २१८४ ॥ ;p{0359} ;c{* वृश्चिकनामानि *} वृश्चिकश्च द्रुणो द्रोणश्चाऽऽलि राली ह्यलिर्द्रुतः । अलं वृश्चिकपुच्छाग्रं कण्टकं विषवाहकम् ॥ २१८५ ॥ ;c{* भ्रमरनामानि *} भ्रमरो भसलो भृङ्गो द्विरेफो मधुकृत् पुनः । मधुकरश्च रोलम्बश्चञ्चरीकः शिलीमुखः ॥ २१८६ ॥ अलिरिन्दिन्दिरश्चाऽली षट्चरणश्च षट्पदः । षडंह्रिश्चेति नामानि मन्यन्ते भ्रमरस्य वै ॥ २१८७ ॥ तद्भोज्यं पुष्पमधुनी तस्मान् मधुव्रतश्च सः । पुष्पन्धयश्च पुष्पलिट् मधुपो मधुलिट् तथा ॥ २१८८ ॥ ;c{* खद्योतनामानि *} खद्योतो ध्वान्तचित्रश्च ज्योतिर्माली तमोमणिः । कीटमणिस्तथा ज्योतिरिङ्गणश्च परार्बुदः ॥ २१८९ ॥ पुनर्निमेषद्युत् चेति नामानि कथयन्ति वै । ;c{* पतङ्गनाम *} पतङ्गः शलभः ख्यातो दीपज्योतिषि भ्राम्यति ॥ २१९० ॥ ;c{* मधुमक्षिकानामानि *} मधुच्छत्रे वसेत् क्षुद्रा सरघा मधुमक्षिका । ;p{0360} ;c{* मधुनामानि *} माक्षिकं भ्रामरं दालं क्षौद्रमौद्दालकं मधु ॥ २१९१ ॥ छात्रकं पौत्तिकं चाऽर्घ्यं चेति नामानि सन्ति वै । ;c{* मधूच्छिष्टनामानि *} सिक्थकञ्च मधूच्छिष्टं मदनं नाम बुध्यताम् ॥ २१९२ ॥ वर्वणा मक्षिका नीला कृष्णाऽपि कथ्यते पुनः । पतङ्गिका च पुत्तिका मन्यते लघुमक्षिका ॥ २१९३ ॥ वनमध्येऽधिका जाता दंशस्तु वनमक्षिका । तज्जातिरल्पिका दंशी कथ्यते कोविदैः सदा ॥ २१९४ ॥ तैलाटी वरटा सैव गन्धोली वरटी भवेत् । ;c{* झिल्लीकानामानि *} चीरी च चीरुका चैव झीरिका झिरिका तथा ॥ २१९५ ॥ झिरीका झिरुका चैव झिरूका झिल्लका पुनः । झिल्लीका झिल्लिका भृङ्गारिका वर्षकरी तथा ॥ २१९६ ॥ भृङ्गारी चेति नामानि मन्यन्ते पण्डितैर्जनैः । इत्युक्ताश्चतुरिन्द्रियाः जीवाः येऽत्र महीतले ॥ २१९७ ॥ ;c{॥ इति चतुरिन्द्रियजीवाः समाप्ताः ॥} ;p{0361} ;v{पञ्चेन्द्रियजीवनामानि} ;c{* अथ पञ्चेन्द्रियजीवनामानि *} ;c{तत्र} ;vv{स्थलचरपञ्चेन्द्रियजीवनामानि} ;c{* स्थलचरपञ्चेन्द्रियजीवनामानि *} पशुस्तिर्यङ्चरि हिंस्रेऽस्मिन् व्यालः श्वापदश्च वै । ;c{* गजनामानि *} गजो मतङ्गजो गर्जो मातङ्गश्च महामृगः ॥ २१९८ ॥ हस्ती दन्ती जटी नागो महाकायो महामदः । इभः कुम्भी जलाकाङ्क्षः सिन्धुरः षष्टिहायनः ॥ २१९९ ॥ द्विपश्चाऽनेकपः पद्मी पुष्करी पेचकी कपिः । पेचिलः सूर्पकर्णश्च करेणुः सूचिकाधरः ॥ २२०० ॥ अन्तः स्वेदस्तथा दीर्घपवनो वारणोऽसुरः । स्तम्बेरमश्च शुण्डालो दन्तावलश्च कुञ्जरः ॥ २२०१ ॥ पीलुर्विलोमजिह्वश्च करिश्च करटी करी । द्विरदः सामयोनिश्च नामानीति गजस्य वै ॥ २२०२ ॥ करिणी हस्तिनी कर्णधारिणी धेनुका वशा । गणिका वासिता चेति नामानि हि गजस्त्रियाः ॥ २२०३ ॥ भद्रो मन्दो मृगो मिश्रश्चेति चतस्रो जातयः । ;p{0362} महाकायस्य मन्यन्ते विश्वे च वर्त्तयन्ति ताः ॥ २२०४ ॥ कालेऽप्यजातदन्तश्च स्वल्पाङ्गः स्यात् च मत्कुणौ । पञ्चवर्षो द्विपो बालः पोतः स्याद् दशवर्षकः ॥ २२०५ ॥ पिक्को विक्कश्च मातङ्गो विंशतिवर्ष उच्यते । कलभोऽपि त्रिंशद्वर्षः कथ्यते कोविदैः किल ॥ २२०६ ॥ यूथनाथस्तथा यूथपतिः स्याद् यूथनायकः । प्रभिन्नो गर्जितो मत्तो मदोन्मत्तोऽपि मन्यते ॥ २२०७ ॥ ख्यातो मदोत्कटः स्याच्च मदकलोऽपि वै पुनः । उद्वान्तो निर्मदश्चोक्तो मदशून्यगजो हि तद् ॥ २२०८ ॥ कल्पितः सज्जितश्चैव युद्धाय चलिते गजे । परिणतस्तिर्यग्घाती तिर्यक्प्रहारकर्त्तरि ॥ २२०९ ॥ व्याडो दुष्टगजो व्यालः उपद्रवकरे गजे । तथा गम्भीरवेदी स्याद् चाऽवमताङ्कुशः किल ॥ २२१० ॥ प्रख्यात उपवाह्यश्च राजवाह्यस्तथैव च । औपवाह्योऽपि कथ्यते नृपस्यारोहणाय वै ॥ २२११ ॥ सन्नह्य समरोचितः सङ्ग्रामयोग्यकुञ्जरे । ईषादन्त उदग्रदन् लम्बदन्तो गजो भवेत् ॥ २२१२ ॥ गजानां समुदाये तु हास्तिकं गजता घटा । मदो दानं प्रवृत्तिस्तु उन्मत्तगजगण्डनम् ॥ २२१३ ॥ ;p{0363} गजशूण्डजलबिन्दौ वमथुः करशीकरः । हस्तिनासा करो हस्तः शुण्डा च गजनासिका ॥ २२१४ ॥ शुण्डाग्रं पुष्करं ज्ञेयं कर्णिका तु गजाङ्गुलिः । विषाणौ गजदन्तौ स्तां स्कन्ध आसनमुच्यते ॥ २२१५ ॥ चूलिका कर्णमूलं स्याद् गजकर्णस्य मूलके । इषाका चेषिका चाऽक्षिकूटकं नेत्रगोलके ॥ २२१६ ॥ ईषिका पुनरीषीका चेति नामानि सन्ति वै । अपाङ्गदेशो निर्याणं स्यात् गण्डस्तु कटस्तथा ॥ २२१७ ॥ करटश्चेति नामापि गण्डस्थलस्य वर्तते । अवग्रहोऽवग्राहश्च द्वयमिदं हि भालके ॥ २२१८ ॥ कुम्भयोरध आरक्षो नाम वै कथ्यते किल । कुम्भौ तु शिरसःपिण्डौ विदुः कुम्भयोर्मध्यकम् ॥ २२१९ ॥ तस्याधो वातकुम्भः स्यात् वाहित्थं च ततोऽप्यधः । प्रतिमानं वाहित्थाधः पेचकः पुच्छमूलकम् ॥ २२२० ॥ गजस्य तु पुरोभागो दन्तभागो हि कथ्यते । पार्श्वकः पक्षभागश्च मन्यते पण्डितैः पुनः ॥ २२२१ ॥ पूर्वो जङ्घादिदेशो हि गात्रं गजस्य कथ्यते । तस्य स्यात् पश्चिमे भागे ह्यपरा चाऽवराऽवरम् ॥ २२२२ ॥ गजचर्म्मणि रक्तबिन्दुः पद्मं पद्मकमुच्यते । ;p{0364} मातङ्गस्य पुनः प्रोक्तं चरणबन्धनमत्र ॥ २२२३ ॥ अन्दुकोऽन्दूश्च हिञ्जीरो निगडो निगलः पुनः । प्रसिद्धः शृङ्खलश्चैव पादपाशोऽपि मन्यते ॥ २२२४ ॥ गजस्य बन्धनस्थानं वारिर्वारी निगद्यते । त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥ २२२५ ॥ वेणुकं वैणुकं तोत्रं वेणुकस्येति नाम वै । आलानं नाम मातङ्गबन्धस्तम्भश्च मन्यते ॥ २२२६ ॥ सृणिः शृणिरङ्कुशश्च स्यादऽपष्ठं तदग्रभाक् । अङ्कुशवारणं यातं कथ्यते पण्डितैः र्पुनः ॥ २२२७ ॥ यतं नाम प्रसिद्धं स्यात् पादकर्म निषादिनाम् । वीतं पुनस्तदेवास्ति निषादिपादचालनम् ॥ २२२८ ॥ कक्ष्या दूया वरत्रा च चूष्याः स्याच्चर्मरज्जुका । गजगले बन्धनं स्यात् कण्ठबन्धः कलापकः ॥ २२२९ ॥ ;c{* अश्वनामानि *} अश्वः सप्तिर्हयो ह्रेषी हरिर्वहिश्च हंस इति । अर्वा वाजी तथा किण्वी क्रमणः सिंहविक्रमः ॥ २२३० ॥ केशरी केसरी कुण्डी कुटरः पालकः पुनः । घोटकस्तुरगस्तार्क्ष्यस्तुरङ्गश्च तुरङ्गमः ॥ २२३१ ॥ गन्धर्वश्चामरी प्रोथी माषाशी च मरुद्रथः । ;p{0365} मुद्गभुग् मुद्गभुज् चैव मुहुर्भुग् गूढभोजनः ॥ २२३२ ॥ परुलः शालिहोत्रश्च लक्ष्मीपुत्रः प्रकीर्णकः । एकशफस्तथा वासुदेवश्च ग्रहभोजनः ॥ २२३३ ॥ अश्वस्य सर्वनामानि कथितानि मयोपरि । ;c{* अश्वानामानि *} अश्वाऽर्वती प्रसूर्वामी वडवा संभवन्ति वै ॥ २२३४ ॥ ;c{* अश्वभेदानां नामानि *} अल्पावस्थः किशोरः स्याज्जवनः स जवाधिकः । रथवोढा स रथ्यः स्यादाऽऽजानेयः कुलीन इति ॥ २२३५ ॥ सैन्धवाः सिन्धुदेशीयास्तथान्ये देशदेशजाः । वानायुजाः पारसीकाः काम्बोजाश्च वाह्लिकाः ॥ २२३६ ॥ बाह्नीका अपि तद्भेदाः तुषाराः सन्ति तद्भिदाः । साधुवाही विनीतः स्याद् दुर्विनीतस्तु शूकलः ॥ २२३७ ॥ कश्यो नामा कशार्हः स्यात् पुनः श्रीवृक्षकी हयः । हृद्वक्त्रावर्त्ती चापि कथ्यते कोविदैः किल ॥ २२३८ ॥ पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः । पुच्छोरःखुरकेशास्यैः सितैः ख्यातोऽष्टमङ्गलः ॥ २२३९ ॥ श्वेताश्वे कर्ककोकाहौ खोङ्गाहः श्वेतपिङ्गले । ;p{0366} सुधावर्णे च सेराहः स्यात् पीते हरियो हये ॥ २२४० ॥ खुङ्गाहः कृष्णवर्णे स्यात् क्रियाहो लोहिताश्वके । पुनश्च नीलको नामाऽऽनीलाश्वे मन्यते बुधैः ॥ २२४१ ॥ कपिलवर्णे त्रियूहोऽश्वः कथ्यते कोवदैः खलु । वोल्लाहस्त्वयमेवास्ति पाण्डुकेशरवालधिः ॥ २२४२ ॥ उराहोऽश्वो मनाक्पाण्डुः कृष्णजङ्घो भवेद् यदि । पुनः सुरूहकः कोऽपि गर्दभाभो हि मन्यते ॥ २२४३ ॥ पाटलो वोरुखानः स्यात् कृष्णस्तु यदि जानुनि । मनाक्पीतः कुलाहाख्यः कथ्यते पण्डितैः किल ॥ २२४४ ॥ उकनाहाभिधः पीतरक्तच्छायः स एव हि । कृष्णरक्तच्छविः प्रोक्तः क्वचिदिति बुधैरिह ॥ २२४५ ॥ कोकनदच्छविः शोणः स्याद् हरिकश्च हालकः । पीतहरितच्छायो वै कथ्यते पण्डितैरिह ॥ २२४६ ॥ पङ्गुलः श्वेतकाचाभो हलाहश्चित्रितो हरिः । श्वेतनयनवानश्वो मल्लिकाक्षः प्रकथ्यते ॥ २२४७ ॥ इन्द्रायुधो भवेन्नाम श्यामनेत्रवतः किल । ककुदी ककुदावर्तो विशिष्टावर्त्तवान् हयः ॥ २२४८ ॥ इन्द्रवृद्धिके नामास्ति निर्मुष्को घोटकः पुनः । अश्वमेधयज्ञस्याश्वोऽश्वमेधीयस्तथा ययुः ॥ २२४९ ॥ ;p{0367} अश्वस्य नासिका प्रोथं कश्यं तु मध्यभागकम् । गलोद्देशो निगालः स्यात् खुराः शफाः भवन्ति वै ॥ २२५० ॥ अथ पुच्छं च लाङ्गूलं लाङ्गुलं लूम वालधिः । वालहस्तश्चेति नामानि पुच्छस्य संभवन्ति वै ॥ २२५१ ॥ अपावृत्तं परावृत्तं लुठितं वेल्लितं पुनः । भूमावलोटनं तस्य श्रमो येन विनश्यति ॥ २२५२ ॥ धोरितं वल्गितं प्लुतोत्तेजितोत्तेरितानि च । गतयः पञ्च धाराख्याः घोटकानां क्रमादिमाः ॥ २२५३ ॥ गमनं नकुलस्येव धौरितकं निगद्यते । कङ्कस्येव गमनं धौर्यं भवति ज्ञायताम् ॥ २२५४ ॥ गमनं मयूरस्येव धोरणं नाम जायते । गमनं डुक्करस्येव धोरितं च निगद्यते ॥ २२५५ ॥ पुनश्च वल्गितं नाम कथ्यते ह्यत्र कोविदैः । अग्रकायसमुल्लासात् कुञ्चितास्यं नतत्रिकम् ॥ २२५६ ॥ पक्षिमृगसमं यानं प्लुतं भवति लङ्घनम् । उत्तेजितं रेचितं च मध्यवेगेन या गतिः ॥ २२५७ ॥ उत्तेरितमुपकण्ठं तथाऽऽस्कन्दितकं खलु । उत्प्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥ २२५८ ॥ आश्वीनोऽध्वा स योऽश्वेन दिनेनैकेन गम्यते । ;p{0368} ;c{* खलिननामानि *} खलीनं खलिनं चैव कवियं कविका कवी ॥ २२५९ ॥ मुखयन्त्रणं पञ्चाङ्गी नामानि सप्त सन्ति वै । मुखबन्धाश्रितं चर्म तलिका तलसारकम् ॥ २२६० ॥ दामाञ्चनं पादपाशः पदबन्धनरज्जुषु । प्रक्षरं प्रखरः स्याच्च कवचं घोटकस्य वै ॥ २२६१ ॥ चर्मदण्डः कशा चैव ताडनायास्य जायते । वल्गो वल्गा कुशा वागा रश्मिस्तथाऽवक्षेपणी ॥ २२६२ ॥ पल्ययनं च पर्याणं पर्याणस्याऽस्ति नाम वै । वीतं नाम पुनः प्रोक्तं तच्च फल्गु हयद्विपम् ॥ २२६३ ॥ ;c{* अश्वभेद[खच्चर]नामानि *} वेसरोऽश्वतरो वेगसरोऽश्वस्य भिदा भवेत् । ;c{* उष्ट्रनामानि *} उष्ट्रो मयो महाङ्गश्व खप्पः कण्टकाशनः ॥ २२६४ ॥ कुलनाशः शलः भोलिः कुलनाशः क्रमेलकः । द्विककुद् दीर्घग्रीवश्व दाशेरो दुर्गलङ्घनः ॥ २२६५ ॥ वासन्तः शिशुनामा च मर्यो मरुप्रियः पुनः । भूतघ्नश्चेति नामानि मन्यन्ते रवणस्य वै ॥ २२६६ ॥ ;p{0369} करभाख्यस्त्रिहायणो बाल उस्ट्र इहोच्यते । स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥ २२६७ ॥ ;c{* गर्दभनामानि *} गर्दभो रासभश्चैव वालेयश्च खरः पुनः । चक्रीवान् चिरमेही च शङ्कुकर्णोऽपि कथ्यते ॥ २२६८ ॥ ;c{* वृषभनामानि *} ऋषभो वृषभोऽनड्वान् भद्रो बलीवर्दो वृषः । शक्करः शाक्वर उक्षा सौरभेयश्च शाङ्करः ॥ २२६९ ॥ ककुद्मान् वाडवेयो गौश्चेति नामानि सन्ति वै । उक्षा यस्य समुत्पन्नः स जातोक्षो युवा वृषः ॥ २२७० ॥ शकटौ वाहने योग्यः स्कन्धिकः स्कन्धवाहकः । उक्षतरो महोक्षः स्याद् वृद्धोक्षस्तु जरद्गवः ॥ २२७१ ॥ आर्षभ्यः षण्ढतोचितः कूटो भग्नविषाणकः । ;c{* षण्डनामानि *} शण्डः षण्डस्तथा सण्डो गोवृषो गोपतिः पुनः ॥ २२७२ ॥ इट्चर इत्वरश्चैव प्रसिद्धो मदकोहलः । एतन्नामानि मन्यन्ते षण्डस्य पण्डितैः किल ॥ २२७३ ॥ ;p{0370} ;c{* वत्सनामानि *} तर्णः शकृत्करिश्चैव ख्यातो वत्सः पुनर्भुवि । वत्सतरस्तु दम्यो वै महावत्सो निगद्यते ॥ २२७४ ॥ ;c{* वृषभभेदनामानि *} नस्योतो नस्तितश्चैव नस्तोतः कथ्यते पुन । प्रष्ठवाट् हलवोढा स्यात् षष्ठवाट् युगपार्श्वगः ॥ २२७५ ॥ वोढारः स्युर्युगादीनां प्रासङ्ग्ययुग्यशाकटाः । स च सर्वधुरीणो वै सर्वां वहति यो धुरम् ॥ २२७६ ॥ एकधुरीणैकधुरावुभावेकधुरावहे । धुरन्धरो धुरीणः स्याद् धुर्यो धौरेयकः पुनः ॥ २२७७ ॥ धौरेयो धूर्वहश्चेति नामानि कथयन्ति वै । गलिर्दुष्टवृषश्चैव प्रोक्तः शक्तोऽप्यधूर्वहः ॥ २२७८ ॥ पृष्ठवाह्यस्तथा पृष्ठ्यः स्थौरी नामापि मन्यते । द्विदन् षोडन् द्विषड्दन्तौ वहः स्कन्धोऽस्य बन्धनम् ॥ २२७९ ॥ ककुद् चांऽशकूटं स्यात् ककुदं कुकुदं पुनः । नैचिकं नैचिकी तस्य शिरो लोकेषु कथ्यते ॥ २२८० ॥ विषाणं कूणिका शृङ्गं प्रोक्तं वृषस्य शृङ्गकम् । गलभागोऽस्य सास्ना कथ्यते गलकम्बलः ॥ २२८१ ॥ ;p{0371} ;c{* गोनामानि *} अर्जुनी रोहिणी गौश्च शृङ्गिणी सुरभिस्तथा । उस्राऽघ्न्या सौरभेया च तम्बा तम्पा निलिम्पिका ॥ २२८२ ॥ अनड्वाही च माहेयी माहा चाऽनडुही पुनः । उषा माता सप्तदशनामानि प्रथितानि वै ॥ २२८३ ॥ ;c{* गोभेदनामानि *} कृष्णा च धवला चैव शबला शबली तथा । प्रष्ठौही स्याच्च पष्ठौही गर्भिणी बालगर्भिणी ॥ २२८४ ॥ वन्ध्या वशा च सा गौः स्यात् या न गर्भं दधाति वै । वेहद् वृषोपगा याति गर्भं धारयितुं वृषम् ॥ २२८५ ॥ अवतोका स्रवद्गर्भा वतोका गर्भनाशिनी । सन्धिनी च वृषाक्रान्ता शण्डसंयोगकारिणी ॥ २२८६ ॥ प्रौढवत्सा तथा बष्कयिणी बष्कयणी पुनः । ख्याता चिरप्रसूता सा धेनुभेदा स्मृता भुवि ॥ २२८७ ॥ नवसूतिका तथा धेनुर्दुग्धं यच्छति या बहु । बहुसूतिः परेष्टुः स्याद् गृष्टिः सकृत् प्रसूतिका ॥ २२८८ ॥ उपसर्या च काल्यापि प्रजने कथ्यते बुधैः । सुव्रता सुखदोह्या च या दुह्यते सुखेन सा ॥ २२८९ ॥ ;p{0372} करटा दुःखदोह्या सा दुःखेन दुह्यते सदा । वञ्जुला बहुदुग्धा सा या बहुदुग्धप्रदा भवेत् ॥ २२९० ॥ द्रोणक्षीरा तथा द्रोणदुग्धा द्रोणदुघा भवेत् । पीवरस्तनी पीनोध्नी कथ्यते पण्डितैः पुनः ॥ २२९१ ॥ धेनुष्या पीतदुग्धा च संस्थिता दुग्धबन्धके । नैचिकी स्यादुत्तमा गौः मलिनी बालगर्भिणी ॥ २२९२ ॥ पलिक्नी मन्यते सैव बालगर्भवती च या । समांसमीना गौः स्याद्या प्रतिवर्षं प्रसूयते ॥ २२९३ ॥ सुकराऽकोपनाऽचण्डी गौः स्याच्छान्तस्वभाविका । वत्सला वत्सकामा स्याद् या वत्सं बहु सेवते ॥ २२९४ ॥ चतुर्वर्षा तथा चतुर्हायणी कथ्यते पुनः । त्रिहायणी त्रिवर्षा च स्याद् द्विवर्षा द्विहायनी ॥ २२९५ ॥ एकवर्षाभिधा एकहायनी कापि गौर्भवेत् । आपीनमूधो दुग्धधारकमङ्गमुच्यते ॥ २२९६ ॥ ;c{* गोमयनाम *} गोविट् गोमयमाख्यातं पवित्रं भूमिलेपनम् । गोग्रन्थिः छगणं चैव करीषं शुष्कगोमयम् ॥ २२९७ ॥ गव्यं स्याद् वै गवां सर्वं दुग्धं दधि घृतादिकम् । व्रजो भवति गोस्थानं गोकुलं गोधनं धनम् ॥ २२९८ ॥ ;p{0373} प्रजनः स्यादुपसरो गर्भं गृह्ह्लाति सा यदा । शिवः पुष्पलकः कीलः शङ्कुर्गोबन्धनाय यः ॥ २२९९ ॥ गोबन्धनाय रज्जुः स्यात् संदानं दान बन्धनम् । दामनी पशुरज्जुश्च यत्राऽनेकस्य बन्धनम् ॥ २३०० ॥ ;c{* अजनामानि *} अजो बस्तः छगः छागः छगलश्च स्तभः स्तुभः । तुभः शुभः पशुर्वस्तश्चेति नामानि सन्ति वै ॥ २३०१ ॥ ;c{* अजानामानि *} अजा मञ्जा तथा छागी छागिका च गलस्तनी । सर्वभक्षा च नामानि मञ्जायाः कथयन्ति वै ॥ २३०२ ॥ बर्करो वर्करो यूनो मञ्जस्य नाम कथ्यते । ;c{* मेषनामानि *} मेण्ढश्च मेण्ढको मेषः संफालः शृङ्गिलः पुनः ॥ २३०३ ॥ उरभ्र उरणो वृष्णिः ऊर्णायुश्च हुडो हुडुः । एडको रोमशो भेडोऽविश्च नामानि सन्ति वै ॥ २३०४ ॥ ;c{* मेषीनामानि *} मेषी स्यात् कुररी वेणी जालकिनी रुजाऽविला । ;p{0374} ;c{* वनबर्करनामानि *} पृष्ठशृङ्गस्त्विडिक्कश्च वनाजः शिशुवाहकः ॥ २३०५ ॥ अविदुग्धमविसोढमविदूसं तथैव हि । पुनश्चाविमरीसं स्यान् मेषीदुग्धस्य नाम वै ॥ २३०६ ॥ ;c{* श्वाननामानि *} श्वा श्वानः सारमेयश्च स्वजातिद्विट् शुनः शुनिः । रतशायी रसापायी रसनालिट् रतान्दुकः ॥ २३०७ ॥ कुकुरः कुर्करः क्रोधी कौलेयकश्च कुक्कुरः । शालावृकः कृतज्ञश्च कपिलो वक्रवालधिः ॥ २३०८ ॥ इन्द्रमहश्चन्द्रमहस्तथेन्द्रमहकामुकः । वनंतपः पुरोगामी मृगदंशश्च मण्डलः ॥ २३०९ ॥ अस्थिभुक् भल्लहश्चैव भषको भषणो रुरुः । शिवारिः सूचकः रात्रिजागरश्च रतव्रणः ॥ २३१० ॥ रतकीलस्तथा ग्राममृगो गृहमृगः पुनः । दीर्घनादश्च नामानि श्वानस्य प्रथयन्ति वै ॥ २३११ ॥ अलर्कोः रोगितः श्वानः कथ्यते कोविदैः किल । मृगव्ये कुशलः श्वानो विश्वकद्रुश्च मन्यते ॥ २३१२ ॥ ;c{* शुनीनामानि *} देवशुनी शुनी चैव सरमा कथ्यते पुनः । ;p{0375} ;c{* शूकरनाम *} विट्चरः शूकरे ग्राम्ये वन्योऽपि शूकरो भवेत् ॥ २३१३ ॥ ;c{* महिषनामानि *} महिषः स्कन्धशृङ्गश्च धीरस्कन्धश्च सैरिभः । रक्ताक्षः कृष्णशृङ्गश्च कलुषः कासरः पुनः ॥ २३१४ ॥ कटाहो हंसकालीतनयश्च यमवाहनः । हेरम्बो दंशभीरुकः जरातो गद्गदस्वरः ॥ २३१५ ॥ लुलापो लालिकश्चैव लुलायश्च रजस्वलः । वाहरिपुस्तथा पिङ्गुः पिङ्गश्च यमरथस्तथा ॥ २३१६ ॥ त्रयोविंशतिनामानि मन्यन्ते महिषस्य वै । गवलो जङ्गले जातो महिषः कथ्यते बुधैः ॥ २३१७ ॥ ;c{* सिंहनामानि *} सिंहो हरिश्च हर्यक्षः शृङ्गोष्णीषः सुगन्धिकः । पञ्चशिखश्च पञ्चास्यः पञ्चनखः पलङ्कषः ॥ २३१८ ॥ पारिन्द्रः पुण्डरीकश्च मृगपतिर्मृगाशनः । मृगदृष्टिर्मुगारिश्च मृगद्विट् नखरायुधः ॥ २३१९ ॥ महानादो नभःक्रान्तः कण्ठीरवश्च केसरी । इभारिः रक्तजिह्वश्च वनराजो गणेश्वरः ॥ २३२० ॥ ;p{0376} शैलाटः श्वेतपिङ्गश्च व्यादीर्णास्यस्तथैव च । पारीन्द्रश्चित्रकायश्च सिंहनामानि सन्ति वै ॥ २३२१ ॥ ;c{* व्याघ्रनामानि *} व्याघ्रो द्वीपी च शार्दूलश्चित्रकायश्च चित्रकः । पुण्डरीकश्च नामानि व्याघ्रस्य प्रथयन्ति वै ॥ २३२२ ॥ लघुव्याघ्रस्तरक्षुः स्यात् तरक्षश्च मृगादनः । ;c{* अष्टापदनामानि *} शरभः कुञ्जरारातिश्चाष्टापदस्तथाऽष्टपाद् ॥ २३२३ ॥ उत्पादकश्च नामानि मन्यन्ते शरभस्य वै । ;c{* गवयनामानि *} गवयो गोसदृक्षः स्याद् वनगवोऽश्ववारणः ॥ २३२४ ॥ ;c{* खड्गिनामानि *} खड्गो वाध्रीणसः खड्गी कथ्यते गण्डकोऽपि वै । ;c{* सूकरनामानि *} सूकरः सुकरः क्रोडः पङ्कक्रीडनकः पुनः ॥ २३२५ ॥ किरः किटिः किरिः कोलः कुमुखश्च तलेक्षणः । कामरूपी शिरोमर्मा स्तब्धरोमा बहुप्रजः ॥ २३२६ ॥ ;p{0377} वराहो वक्रदंष्ट्रश्च भूदारः सलिलप्रियः । गृष्टिर्घृष्टिस्तथा घोणी दंष्ट्रीस्तथाऽऽस्यलाङ्गलः ॥ २३२७ ॥ आखनिकस्तथा पोत्री स्थूलनाशस्तथैव च । इति सूकरनामानि मन्यन्ते पण्डितैः किल ॥ २३२८ ॥ ;c{* भल्लूकनामानि *} ऋक्षस्तथाऽच्छभल्लश्च भल्लूको भल्लुकः पुनः । भालूकश्चापि भाल्लूकश्चेति नामानि सन्ति वै ॥ २३२९ ॥ ;c{* शृगालनामानि *} शृगालश्च सृगालो वै शकुनावेदनी शिवः । फेरण्डः फेरवः फेरुः जम्बूकः जम्बुकः पुनः ॥ २३३० ॥ गोमायुर्घोरवासी च क्रोष्टा च मृगधूर्त्तकः । भरुजो भूरिमायश्च वञ्चुको वञ्चकः पुनः ॥ २३३१ ॥ हूखोऽष्टादश नामानि मन्यन्ते जम्बुकस्य वै । किखिः कोऽपि भवेत् प्राणी शृगालसदृशो वने ॥ २३३२ ॥ लोपाको गुण्डिवः कोऽपि शृगालाकृतिसदृशः । ;c{* वृकनामानि *} अरण्यश्वा वृकः कोकः ईहामृगोऽपि कथ्यते ॥ २३३३ ॥ ;p{0378} ;c{* मर्कटनामानि *} शाखामृगः कपिः कीशः प्लवङ्गः प्लवगः पुनः । प्लवङ्गमः प्रवङ्गश्च बलिमुखो बलीमुखः ॥ २३३४ ॥ मर्कटो वानरश्चैव वनौकाश्च तथा हरिः । एतन्नामानि मन्यन्ते मर्कटस्य महीतले ॥ २३३५ ॥ श्याममुखो गोलाङ्गूलो लोके लङ्गूर उच्यते । ;c{* मृगनामानि *} ख्यातो मृगः कुरङ्गश्च सारङ्गो हरिणः पुनः ॥ २३३६ ॥ वनायुश्चैव वानायुर्वातायुश्चापि कथ्यते । पुनश्चाऽजिनयोनिर्वै मृगनाम हि मन्यते ॥ २३३७ ॥ ;c{* मृगभेदनामानि *} मृगभेदा न्यङ्कुरङ्कुरुरुरोहिषरौहिषाः । चमूरुचमरचीनाः समूरैणर्श्यरोहिताः ॥ २३३८ ॥ ऋष्यसमूरुगोकर्णाः प्रियकः पृषतस्तथा । शम्बरः शंवरश्चैव संवरः कदली पुनः ॥ २३३९ ॥ कन्दली कृष्णशारश्च कृष्णसारोऽपि कथ्यते । दक्षिणेर्मा मृगः सोऽस्ति यो व्याधैर्दक्षिणे क्षतः ॥ २३४० ॥ वातमृगो वातप्रमी वायुवेगसमो मृगः । ;p{0379} ;c{* शशनामानि *} लोमकर्णः शशः स्याद्वै शूलिकः मृदुलोमकः ॥ २३४१ ॥ ;c{* शल्यकनामानि *} शल्यकः शललः शल्यः श्वाविच्चेत्यपि कथ्यते । मन्यते तच्छलाकायां शललं शलली शलम् ॥ २३४२ ॥ ;c{* गोधानामानि *} गोधा नाम निहाकाऽपि कथ्यते कोविदैः किल । गौधारो नाम गौधेरो दुष्टे तन्नन्दने खलु ॥ २३४३ ॥ गौधेयोऽन्यत्र च प्रोक्तो गोधायाः शुभनन्दने । ;c{* पल्लीनामानि *} मुसली मुशली पल्ली माणिक्या गृहगोलिका ॥ २३४४ ॥ गृहोलिका तथा कुड्यमत्स्यश्च गृहगोधिका । भित्तिका चेति नामानि माणिक्यानां भवन्ति वै ॥ २३४५ ॥ तथाऽञ्जनाधिका हालिन्यञ्जनिका हलाहलः । स्थूलाऽञ्जनाधिकायां स्याद् ब्राह्मणी रक्तपुच्छिका ॥ २३४६ ॥ ;c{* सरटनामानि *} सरटः प्रतिसूर्यः स्यात् प्रतिसूर्यशयानकः । ;p{0380} कृकलासः कृकुलासः कृकलाशः शयानकः ॥ २३४७ ॥ ;c{* मूषकनामानि *} मुषको मूषकश्चैव मूषिको वृषलोचनः । सूच्यास्यः खनको वज्रदशन उन्दरो वृषः ॥ २३४८ ॥ उन्दुर उन्दुरुराखुरिति नामानि सन्ति वै । छुछुन्दरी गन्धमूषी सैवास्ति गन्धमूषिका ॥ २३४९ ॥ गिरिका वै खटाखुश्च कथ्यते बालमूषिका । ;c{* मार्जारनामानि *} मार्जारश्च बिडालः स्याद् विडालो वृषदंशकः ॥ २३५० ॥ आखुभुक् चाऽऽखुभुग् ह्रीकुरोतुरित्यपि कथ्यते । वनबिलाडो नामापि मन्यते पण्डितैः पुनः ॥ २३५१ ॥ मण्डली गात्रसङ्कोची जाहकश्चापि ज्ञायताम् । ;c{* नकुलनामानि *} नकुलः पिङ्गलो बभ्रुः सर्पहा प्रथितः सदा ॥ २३५२ ॥ ;c{* सर्पनामानि *} अहिः सर्पः पृदाकुश्च पन्नगः पवनाशनः । उरगो भुजगो भोगी भुजङ्गश्च भुजङ्गमः ॥ २३५३ ॥ ;p{0381} द्विजिह्वो दीर्घजिह्नश्च दीर्घपृष्ठः सरीसृपः । दृक्कर्णो दन्दशूकश्च दर्वीकरो बिलेशयः ॥ २३५४ ॥ हरिश्चक्षुःश्रवाश्चक्री कुम्भीनसश्च कञ्चुकी । जिह्मगो लेलिहानश्च व्याडो व्यालश्च कुण्डली ॥ २३५५ ॥ आशीविषश्च गोकर्णः आशीर्विषश्च गूढपात् । विषधरस्तथा भोगधरः फणधरः पुनः ॥ २३५६ ॥ द्विरसनस्तथा काकोदरश्च फणभृत् किल । अष्टात्रिंशद्धि नामानि सर्पस्य सम्भवन्ति वै ॥ २३५७ ॥ ;c{* सर्पभेदाः *} द्विमुखोऽहीरणी राजसर्पश्चाहीरणस्तथा । भुजङ्गभोजीति पञ्च सर्पभेदाः स्मृताः पुनः ॥ २३५८ ॥ ;c{* अजगरनामानि *} अजगरः शयुश्चैव पारीन्द्रश्चक्रमण्डली । वाहसश्चेति नामानि मन्यन्तेऽजगरस्य वै ॥ २३५९ ॥ ;c{* जलसर्पनामानि *} अलगर्दऽलगर्द्धश्च जलव्यालस्तथैव च । अलीगर्दश्च नामानि जलसर्पस्य सन्ति वै ॥ २३६० ॥ ;p{0382} दुण्डुभो दुन्दुभश्चैव राजीलो राजिलः पुनः । डुण्डभश्चेति नामानि निर्विषस्यैव तस्य वै ॥ २३६१ ॥ तिलित्सो गोनसो नाम गोनासो नाम घोणसः । कुक्कुटाहिः कुक्कुटाभो वर्णेन रूपेण च ॥ २३६२ ॥ काद्रवेयास्तथा नागास्तेषां भोगावती पुरी । ;c{* शेषनागनामानि *} पुनर्नागाधिपः शेष एककुण्डल आलुकः ॥ २३६३ ॥ अनन्तो द्विसहस्राक्षः षण्णामानि सन्ति वै । स च कृष्णोऽथवा शुक्लः सितपङ्कजलाञ्छनः ॥ २३६४ ॥ ;c{* वासुकिसर्पनामानि *} वासुकिः सर्पराजश्च नीलोत्पललाञ्छनः स च । त्रीण्येतानि नामानि श्वेते नीलसरोजवति ॥ २३६५ ॥ तक्षकः स्याललोहिताङ्गः स्वस्तिकाङ्कितमस्तकः । महापद्मो ह्यतिश्वेतो दशाबिन्दुकमस्तकः ॥ २३६६ ॥ शङ्खः स्यात् पीतो बिभ्राणो रेखां चन्द्रसितां गले । कुलिकोऽर्द्धेन्दुमस्तकः ज्वालाधूमसमप्रभः ॥ २३६७ ॥ अथ कम्बलाऽश्वतरधृतराष्ट्रबलाहकाः । महानीलोऽपि नागोऽस्ति विशिष्टकुलसम्भवः ॥ २३६८ ॥ ;p{0383} अत्रोक्ता विविधाः सर्पास्तत्तत्कुलसमुद्भवाः । निर्मुक्तो मुक्तनिर्मोको मुक्तकञ्चुक इत्यपि ॥ २३६९ ॥ सविषाः भुजगास्ते स्युर्निर्विषाः वाहसादयः । सर्पाः स्युर्दृग्विषा लूमविषास्तु वृश्चिकादयः ॥ २३७० ॥ पुनर्लोमविषाः केचिद् व्याघ्रप्रमुखजन्तवः । तथा नखविषाः ख्याताः नरप्रमुखप्राणिनः ॥ २३७१ ॥ पुनर्लालाविषाः लोके लूताद्याः प्रथयन्ति वै । कालान्तरविषाः स्युर्वै मूषिकाद्याश्च जन्तवः ॥ २३७२ ॥ दूषीविषं तु तज्ज्ञेयमवीर्यमौषधादिभिः । कृत्रिमं च विषं चारं गरश्चोपविषं भवेत् ॥ २३७३ ॥ अहिकायस्तथा भोगः सर्पकायश्च कथ्यते । आशीस्तथाऽहिदंष्ट्रा स्यात् सर्पदंष्ट्रा तथैव च ॥ २३७४ ॥ ;c{* सर्पफणनामानि *} फणः फटः स्फटो भोगो दर्वी दर्विस्तथैव च । इति नामानि मन्यन्ते सर्पफणस्य साक्षरैः ॥ २३७५ ॥ ;c{* सर्पकञ्चुकनामानि *} अहिकोशश्च निर्मोको निर्ल्वयनीश्च कञ्चुकः । अहित्वक् चेति नामानि सर्वस्य कञ्चुकस्य वै ॥ २३७६ ॥ ;c{॥ इति स्थलचरपञ्चेन्द्रियजीवाः समाप्ताः ॥} ;p{0384} ;vv{खेचरपञ्चेन्द्रियनामानि} ;c{अथ खेचरपञ्चेन्द्रियनामानि} ;c{* विहगनामानि *} विहगो विकिरो वाजी विहङ्गश्च विहङ्गमः । वारङ्गश्चैव वारङ्गिः विष्किरश्च विविष्किरः ॥ २३७७ ॥ पक्षी पत्री पतत्रिश्च पतत्री पतगः पतन् । पत्ररथः पतङ्गश्च पित्रान् वयो द्विजः पुनः ॥ २३७८ ॥ शकुनः शकुनिश्चैव गरुत्मान् चञ्चुमान् खगः । शकुन्तश्च शकुन्तिश्च नगौकाः नभसङ्गमः ॥ २३७९ ॥ अगौकाश्चाऽण्डजो नाडीचरणो रसनारदः । नीडोद्भवश्च कण्ठाग्निः नीडजो लोमकी पुनः ॥ २३८० ॥ ख्यातं नाम विहायाश्च कीकसमुख इत्यपि । सर्वाण्येतानि नामानि मन्यन्ते पक्षिणां बुधैः ॥ २३८१ ॥ चञ्चुश्चञ्चूस्तथा त्रोटिः सृपाटी च सृपाटिका । पत्रं पिच्छं पतत्रञ्च वाजः तथा तनूरुहम् ॥ २३८२ ॥ पक्षो गरुच्छदः पिञ्छमिति नामान्यपि क्वचित् । पक्षिचञ्चोर्हि मन्यन्ते पक्षमूलं तु पक्षतिः ॥ २३८३ ॥ प्रडीनोड्डीनसण्डीन डयनानि नभोगतौ । ;p{0385} ;c{* अण्डनामानि *} अण्डं पेशिस्तथा पेशी पेशीकोशः पुनः खलु ॥ २३८४ ॥ कोशः कोषश्च विज्ञेयं नामषट्कं सुकोविदैः । ;c{* पक्षिगृहनामानि *} नीडस्तथा कुलायश्च पक्षिणो गृहमुच्यते ॥ २३८५ ॥ ;c{* मयूरनामानि *} मयूरो मयुकश्चैव मयूको मरुकः पुनः । बर्ही मार्जारकण्ठश्च मेघनादानुलासकः ॥ २३८६ ॥ नीलकण्ठो नगावासो नृत्यप्रियश्च चन्द्रकी । बर्हिणो बहुलग्रीवः खिलखिल्लो गरव्रतः ॥ २३८७ ॥ शुक्लापाङ्गः शिखी चापि स्थिरमदः शिखाबलः । केकी मेघसुहृद् नाम सर्पभुक् चित्रपिङ्गलः ॥ २३८८ ॥ एतन्नामानि मन्यन्ते मयूरस्य बुधैरिह । केकाऽस्य वाक् तथा पिच्छं शिखण्डश्च शिखण्डकः ॥ २३८९ ॥ कलापः प्रचलाकश्च केकिपिच्छस्य नाम वै । मयूरपिच्छचन्द्रस्य नाम्नी चन्द्रकमेचकौ ॥ २३९० ॥ ;c{* कोकिलनामानि *} कोकिलः कोकिला चैव कलकण्ठः कुनालिकः । ;p{0386} मधुकण्ठः सुधाकण्ठः काकपुष्टः कुहूमुखः ॥ २३९१ ॥ ताम्राक्षः कामतालो वै काकजातस्तथैव च । मदोल्लापी पिकश्चापि परपुष्टो वनप्रियः ॥ २३९२ ॥ परभृतोऽन्यभृतश्च मधुघोषो रतोद्वहः । घोषयित्नुः पोषयत्नुश्चेति नामानि सन्ति वै ॥ २३९३ ॥ ;c{* काकनामानि *} काकोऽरिष्टो द्विको ध्वाङ्क्षो घूकारिः करटोऽन्यभृत् । एकदृक् चिरजीवी च वायसः परभृत् पुनः ॥ २३९४ ॥ बलिभुक् बलिपुष्टश्च मौकुलिश्च सकृत्प्रजः । आत्मघोषश्च नामानि कथ्यन्ते काकपक्षिणः ॥ २३९५ ॥ अथ ज्ञेयो वृद्धकको द्रोणकाकोऽतिहिंसकः । दग्धकाकः कृष्णकाकः पर्वतकाक इत्यपि ॥ २३९६ ॥ वनाश्रयश्च काकोलः सप्त भेदाः प्रकीर्त्तिताः । काकभेदे पुनर्ज्ञेयो मद्गुश्च जलवायसः ॥ २३९७ ॥ ;c{* उलूकनामानि *} उलूकः कौशिको धूकः काकारिः पेचकः पुनः । दिवान्धश्च दिवाभीतो निशाटः कथ्यते तथा ॥ २३९८ ॥ ;p{0387} ;c{* कुक्कुटनामानि *} कुक्कुटः कृकवाकुश्च नन्दीको मणिकण्ठकः । उषाकीलो महायोगी कलाधिकः शिखण्डिकः ॥ २३९९ ॥ रणेच्छुरारणी बोधिश्चित्रवाजश्च स्वस्तिकः । विवृताक्षो निशावेदी विशोक पुष्टिवर्धनः ॥ २४०० ॥ मयूरचटकश्चर्मचूडश्च चरणायुधः । शौण्डश्च दीर्घनादो वै ताम्रचूडो नखायुधः ॥ २४०१ ॥ विष्किरश्चेति नामानि कथ्यन्ते कुक्कुटस्य वै । व्राजः स्याद् ग्रामकुक्कुटो यो ग्रामे दृश्यते जनैः ॥ २४०२ ॥ ;c{* हंसनामानि *} हंसाः सितच्छदाः श्वेतगरुतो मानसौकसः । चक्राङ्गाश्चाथ वक्राङ्गाः मरालाः पुनरत्र वै ॥ २४०३ ॥ राजहंसास्त्वमी चञ्चुपादाभ्यां ये च लोहिताः । मलिना मल्लिकाक्षाः स्युर्धार्त्तराष्ट्राः सितेतराः ॥ २४०४ ॥ कलहंसाश्च कादम्बाः अतिधूसरपक्षकाः । ;c{* हंसपत्नीनामानि *} वरटा वारटा हंसी वरला वारला च सा ॥ २४०५ ॥ दार्वाघाटः शतपत्रः काष्ठकुट्टनकारकः । ;p{0388} खञ्जनः खञ्जरीटश्च लघुपक्षी कवेः प्रियः ॥ २४०६ ॥ ;c{* सारसनामानि *} सारसो लक्ष्मणः कामी मैथुनी रक्तमस्तकः । श्येनाक्षश्चापि श्येनास्यो गोनर्दो दीर्घजानुकः ॥ २४०७ ॥ कुरङ्करः पुष्कराख्यो नामानि सारसस्य वै । ;c{* सारसीनामानि *} सारसी लक्ष्मणा प्रोक्ता लक्षणा लक्ष्मणी च सा ॥ २४०८ ॥ ;c{* क्रौञ्चनामानि *} क्रुञ्चः क्रौञ्चश्च क्रुङ् पुंसि क्रुञ्चा क्रौञ्ची स्त्रियां भवेत् । ;c{* चाषनामानि *} चाषः किकीदिविश्चैव किकिः किकी दिवो दिविः ॥ २४०९ ॥ किकिदिविः किकीदीविः किकीदिवी किकीदिवः । किकिदिवश्च नामानि चाषस्य संभवन्ति वै ॥ २४१० ॥ ;c{* चातकनामानि *} चातकः स्तोककः ख्यातः पप्पीहश्च नभोऽम्बुपः । तोककश्चैव सारङ्गः शारङ्गोऽपि च कथ्यते ॥ २४११ ॥ ;p{0389} ;c{* चक्रवाकनामानि *} चक्रवाको रथाङ्गाह्वः कोको द्वन्द्वचरोऽपि सः । ;c{* टिट्टिभनामानि *} उत्पादशयनः संज्ञा कटुक्वाणश्च टिट्टिभः ॥ २४१२ ॥ टिटिभकस्तथा टिट्टिभकश्च टीटिभोऽपि च । ;c{* चटकनामानि *} चटकस्तु कुलिङ्गश्च कलविङ्कः कुलिङ्ककः ॥ २४१३ ॥ स्याद् गृहबलिभुक् चेति नामानि चटकस्य वै । चटका तस्य योषिद् वै स्त्र्यपत्ये चटका तयोः ॥ २४१४ ॥ चाटकैरस्तु विज्ञेयः पुमपत्ये बुधैर्जनैः । ;c{* दात्यूहनामानि *} दात्यूहश्चैव दात्योहो दात्यौहः कालकण्टकः ॥ २४१५ ॥ जलरङ्कुर्जलरञ्जस्तथा वै कालकण्ठकः । नामान्येतानि सप्तैव मन्यन्ते पण्डितै जनैः ॥ २४१६ ॥ ;c{* बकनामानि *} बकः कह्वो बकोटश्च स्याद् बलाको बलाहकः । बकेरुका बकेरुस्तु बलाका बिसकण्ठिका ॥ २४१७ ॥ ;p{0390} विसकण्टिकाऽपि नाम तथैव विसकण्ठिका । बकपत्न्याश्च नामानि षडेव पठितानि वै ॥ २४१८ ॥ ;c{* भृङ्गनामानि *} कलिङ्गश्चाथ धूम्याटः भृङ्गो नामानि त्रीणि वै । ;c{* कङ्कपक्षिनामानि *} कङ्कः स्याल्लोहपृष्ठश्च कर्कटः कमनच्छदः ॥ २४१९ ॥ दीर्घपादस्तथा स्कन्धमल्लकः कथ्यते पुनः । ;c{* चिल्लनामानि *} आतापी शकुनिश्चिल्लस्तथाऽऽतायी च मन्यते ॥ २४२० ॥ ;c{* श्येनपक्षिनामानि *} श्येनः शशादनः पत्री नामानि श्येनपक्षिणः । ;c{* गृध्रस्य नामानि *} गृध्रश्च पुरुषव्याघ्रः शकुनिः कूणितेक्षणः ॥ २४२१ ॥ आजः सुदर्शनश्चैव दांक्षाय्यो दूरदृक् पुनः । कामायुश्चेति नामानि गृध्रस्य संभवन्ति वै ॥ २४२२ ॥ ;c{* कुररस्य नामानि *} उत्क्रोशः कुररो नाम तथा च मत्स्यनाशनः । ;p{0391} ;c{* शुकस्य नामानि *} रक्ततुण्डः शुकः कीरः श्रीमान् वै प्रियदर्शनः ॥ २४२३ ॥ मेधातिथिश्च मेधावी वाग्मी फलादनः पुनः । शुकस्य नवनामानि कथ्यन्ते कोविदैः किल ॥ २४२४ ॥ ;c{* सारिकानामानि *} शारिका सारिका चैव गोराटी गोकिराटिका । पीतपादा च नामानि सारिकायाः भवन्ति वै ॥ २४२५ ॥ ;c{* चर्मचटकानामानि *} जतूका जतुका चर्मचटकाऽजिनपत्रिका । अजिनपत्रा नामाऽपि जतुकायाश्च कथ्यते ॥ २४२६ ॥ ;c{* वल्गुलिकानामानि *} वल्गुलिका परोष्णी च मुखविष्टा निशाटनी । तैलपायिका नामाऽपि जतुकाभेद उच्यते ॥ २४२७ ॥ ;c{* करेटुनामानि *} करेटुः कर्करेटुश्च करटुः कर्कराटुकः । कर्कराटुश्च नामानि करटोः संभवन्ति वै ॥ २४२८ ॥ ;c{* शरारिनामानि *} आटिराटी शराटिश्च शराडिः शरारिस्तथा । ;p{0392} आतिराडी शरातिश्च शरालिः शराली पुनः ॥ २४२९ ॥ ;c{* क्रकरनाम *} क्रकरः कृकणो नामद्वयं क्रकरपक्षिणः । ;c{* शकुन्तनाम *} भासस्तथा शकुन्तश्च भासनामद्वयं स्मृतम् ॥ २४३० ॥ ;c{* जलकुक्कुभ नामानि *} कोयष्टिः शिखरी चैव जलकुक्कुभ उच्यते । ;c{* कपोतनामानि *} पारापतः कपोतश्च ख्यातः पारावतः पुनः ॥ २४३१ ॥ कलरवस्तथा रक्तलोचनोऽपि च कथ्यते । ;c{* चकोरनामानि *} चकोरश्चलचञ्चुश्च तथैव विषसूचकः ॥ २४३२ ॥ नाम ज्योत्स्नाप्रियो लोके चकोरस्य चतुर्थकम् । ;c{* गुन्द्रालनामानि *} जीवंजीवश्च गुन्द्रालो विषदर्शनमृत्युकः ॥ २४३३ ॥ ;c{* व्याघ्राटनामानि *} व्याघ्राटश्च भरद्वाजो भारद्वाजोऽपि ज्ञायताम् । ;p{0393} ;c{* प्लवनाम *} प्लवश्च गात्रसंप्लवो नाम द्वयं निगद्यते ॥ २४३४ ॥ ;c{* तित्तिरिनाम *} तित्तिरिः खरकोणश्च नाम तित्तिरिपक्षिणः । ;c{* हारीतनाम *} हारीतस्य द्वयं नाम हारितश्च मृदङ्कुरः ॥ २४३५ ॥ ;c{* मरुलनाम *} मरुलो मरुलस्य स्याद् नाम कारण्डवः पुनः । ;c{* सुगृहनाम *} सुगृहः प्रथमं नाम द्वितीयञ्चञ्चुसूचिकः ॥ २४३६ ॥ ;c{* कुक्कुभनामानि *} कुक्कुभः कुहकस्वनः स्यात् कुम्भकारकुक्कुटः । ;c{* दीपकपक्षिनाम *} गृह्यन्ते पक्षिणा येन पक्षिणोऽन्ये स दीपकः ॥ २४३७ ॥ ;c{* छेकनाम *} छेका गृह्याश्च ते प्रोक्ताः ये भवन्ति गृहस्थिताः । पञ्चेन्द्रियाः पक्षिभेदाः सर्वे इमे तु खेचराः ॥ २४३८ ॥ ;c{॥ इति खेचरपञ्चेन्द्रियजीवनामानि ॥} ;p{0394} ;vv{जलचरपञ्चेन्द्रियनामानि} ;c{अथ जलचरपञ्चेन्द्रियनामानि} ;c{* मत्स्यनामानि *} मत्स्यो मीनो मूको मत्सः शम्बरः शंवरस्तिमिः । आत्माशी शकली शल्की विसारः स्वकुलक्षयः ॥ २४३९ ॥ अण्डजः स्थिरजिह्वश्च पृथुरोमा जलाशयः । झषः वैसारिणः शेवः आत्माशी जलपिप्पकः ॥ २४४० ॥ सङ्घचारी च नामानि सामान्यानि भवन्ति वै । ;c{* मत्स्यविशेषनामानि *} वदालः सहस्रदंष्ट्रो वादाल एतनः पुनः ॥ २४४१ ॥ जलवालश्च नामानि वादालस्य हि सन्ति वैः । पाठीनश्चित्रवल्लिको मृदुपाठक इत्यपि ॥ २४४२ ॥ शकुले कलकः स्याच्च गडके शकुलार्भकः । उलूपी शिशुके स्याच्च शफरे श्वेतकोलकः ॥ २४४३ ॥ प्रोष्ठी नामाति विख्यातं वर्त्तते शफरस्य वै । नडमीनो नलमीनश्चिलिचिमश्चिलिचिमिः ॥ २४४४ ॥ रोहितो मत्स्यराजः स्याद् राजशृङ्गस्तु मद्गुरः । ;p{0395} शृङ्गी तु मद्गुरप्रिया व्यवहारे प्रसिद्ध्यति ॥ २४४५ ॥ क्षुद्राण्डमत्स्यजातः स्यात् पोताधानं जलाणुकम् । नन्द्यावर्तो महामत्स्याश्चीरिल्लिश्च तिमिङ्गलः ॥ २४४६ ॥ तिमिङ्गिलगिलश्चेति मत्स्यभेद उदाहृतः । महामत्स्यस्य नामानि पञ्चैव प्रथितानि वै ॥ २४४७ ॥ स्युर्यादांसि नक्राद्या हिंसका जलजन्तवः । ;c{* महामुखनामानि *} आलास्यो गोमुखो नक्रो कुम्भी च जलसूकरः ॥ २४४८ ॥ कुम्भीरस्तालुजिह्वश्च शङ्खमुखो महामुखः । शङ्कुमुखश्च नामानि मन्यन्ते गोमुखस्य वै ॥ २४४९ ॥ ;c{* शिशुमारनामानि *} अम्बुकर्म उष्णवीर्यः शिशुमारो महाबलः । जलकपिश्च नामानि शिशुमारस्य सन्ति वै ॥ २४५० ॥ ;c{* जलमार्जारनामानि *} उद्रश्च जलमार्जारः पानीयनकुलो वसी । एतन्नामानि कथ्यन्ते पानीयनकुलस्य वै ॥ २४५१ ॥ ;c{* ग्राहनामानि *} ग्राहस्तन्तुस्तथा नागस्तन्तुनागश्च तन्तुणः । ;p{0396} जलसर्पोऽवहारश्च वरुणपाश उच्यते ॥ २४५२ ॥ मकरश्च फणी शङ्कुर्मकरस्येति नाम वै । अन्येऽपि यादोभेदाः स्युर्बहवो मकरादयः ॥ २४५३ ॥ ;c{* कुलीरनामानि *} कुलीरः कुलिरश्चैवं कर्कटः कर्कडः पुनः । करकटस्तथा पिङ्गचक्षुः पार्श्वोदरप्रियः ॥ २४५४ ॥ कुरचिल्लो बहिश्चरः षोडशांह्रिर्द्विधागतिः । एतन्नामानि मन्यन्ते कुलीरस्य हि पण्डितैः ॥ २४५५ ॥ ;c{* कच्छपनामानि *} उहारः कच्छपः कूर्मः कमठो जीवथस्तथा । क्रोडपादश्च दौलेयश्चतुर्गतिस्तथैव च ॥ २४५६ ॥ पुनः पञ्चाङ्गगुप्तोऽपि कच्छपस्याभिधा स्मृता । ;c{* कच्छपीनामानि *} स्त्रियां तु कच्छपी ज्ञेया कमठी च डुली दुली ॥ २४५७ ॥ ;c{* मण्डूकनामानि *} मण्डूको दर्दुरो भेकः प्लवगश्च प्लवङ्गमः । प्लवो व्यङ्गस्तथाऽजिह्वो वर्षाभूश्च हरिः पुनः ॥ २४५८ ॥ ;p{0397} शालूरश्चाथ सालूरो द्वादशैतानि संख्यया । मण्डूकस्य हि मन्यन्ते सर्वदा साक्षरैर्जनैः ॥ २४५९ ॥ स्थले नरादयो ये वै ते जले जलपूर्वकाः । जलनरो जलहस्ती जलतुरङ्ग उह्यताम् ॥ २४६० ॥ ;c{॥ इति जलचरपञ्चेन्द्रियजीवनामानि समाप्तानि ॥} ;vv{अण्डजादयः} ;c{* अण्डजादयोऽष्टनामानि *} अण्डजाः पक्षिसार्पाद्याः मन्यन्ते पण्डितैरिह । पोतजाः कुञ्जराद्याश्च कथ्यन्ते कोविदैः खलु ॥ २४६१ ॥ रसजा मद्यकीटाद्यास्तथा जरायुजा अपि । नरगवादयः प्रोक्ताः यूकाद्याः स्वेदजाः पुनः ॥ २४६२ ॥ संमूर्च्छनोद्भवाः प्रोक्ता मत्स्यादयो बुधैर्जनैः । उद्भिदः खञ्जनाद्याश्च जन्तवो बहवो भुवि ॥ २४६३ ॥ तथोपपादुकाः प्रोक्ताः देवाश्च नारका अपि । त्रसयोनय इत्यष्टावुद्भिदुद्भिज्जमुद्भिदम् ॥ २४६४ ॥ ;p{0398} ;c{इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीन-तीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन-सम्राट- जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोक-प्रमाण-नूतन-संस्कृत-साहित्यसर्जक-परमशासन-प्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्यदेव-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषणपञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्-विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां चतुर्थस्तिर्यग्विभागः समाप्तः ॥ ४ ॥} ;p{0399} ;k{नारकविभागः} ;c{अथ पञ्चमो नारकविभागः } ;c{* नैरयिकनामानि *} नैरयिकास्तथा यात्याः नारका अतिवाहिकाः । परेताः नाकीयाः स्युः प्रेताः नारकिकाः पुनः ॥ २४६५ ॥ ;c{* विष्टिनाम *} आजूर्विष्टिर्नाम द्वयं कथ्यते कोविदैः किल । ;c{* यातनानामानि *} कारणा यातना तीव्रवेदना सदृशार्थिका ॥ २४६६ ॥ ;c{* नरकनामानि *} नरको नारकश्चैव निरयो दुर्गतिस्तथा । नरकस्येति नामानि कथ्यन्ते पण्डितैः किल ॥ २४६७ ॥ घनोदधिघनवाततनुवातनभःस्थिताः । तदाधारे तु नरकावासाः सन्ति महीतले ॥ २४६८ ॥ ;c{* नरकभूमिनामानि *} घर्मा रत्नप्रभा स्याद् वै वंशा च शर्कराप्रभा । स्याद् वालुकाप्रभा शैला पङ्कप्रभाऽञ्जना भवेत् ॥ २४६९ ॥ रिष्टा धूमप्रभा स्याद् वै माधव्या च तमःप्रभा । महातमःप्रभा नाम चरमं माधवी भवेत् ॥ २४७० ॥ ;p{0400} इत्यधोऽधो क्रमाज्ज्ञेयाः सप्तनरकभूमयः । विख्याता सर्वदाः सर्वाः नरकभूमयो भुवि ॥ २४७१ ॥ सन्ति रत्नप्रभायां वै त्रिंशल्लक्षाणि संख्यया । द्वितीयायां शर्करायां लक्षाणां पञ्चविंशतिः ॥ २४७२ ॥ बालुकायां तृतीयायां पञ्चदशलक्षाणि वै । सन्ति पङ्कप्रभायां तु दशलक्षाणि संख्यया ॥ २४७३ ॥ पञ्चम्यां धूमप्रभायां त्रीणि लक्षाणि संख्यया । षष्ठ्यां तमःप्रभायां तु पञ्चन्यूनमेकं लक्षम् ॥ २४७४ ॥ महातमःप्रभानाम्न्यां भूमौ पञ्चैव निश्चिताः । सन्ति वै नरकावासाः सीमन्तकादयः किल ॥ २४७५ ॥ एतासु स्युः क्रमेणैव तत्तन्नरकवासिनः । शास्त्रेषु कथिताः प्राज्ञैः लोकेऽपि सन्ति सर्वदा ॥ २४७६ ॥ ;c{* पातालनामानि *} पातालं नागलोकश्च बलिवेश्म रसातलम् । वडवामुखमाख्यातमधोभुवनमित्यपि ॥ २४७७ ॥ ;c{* बिलनामानि *} निम्नं निर्व्यथनं रन्ध्रं विवरं च वपाऽन्तरम् । रोकं रोपं बिलं छिद्रं सुषिरं शुषिरं शुषिः ॥ २४७८ ॥ ;p{0401} कुहरं च सुषिरश्चेति नामानि विवरस्थ वै । कथ्यन्ते कौविदैरत्र पुनर्वै खातमुच्यते ॥ २४७९ ॥ गर्तो वटोऽवटिः श्वभ्रं दरोऽगाधश्च खातकम् । एतन्नामानि गर्तस्य मन्यन्ते हि महीतले ॥ २४८० ॥ ;c{इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमागधक-शासन-सम्राट्-जगद्गुरु-भट्टारकाचार्य-महाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधितसप्तलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक-परमशासनप्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्य-श्रीमद्विजयदक्षसूरीश्वर-पट्टधर-साहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशील-सूरिणा विरचितायां सुशीलनाममालायां नारकः पञ्चमो विभागः समाप्तः ॥ ५ ॥} ;p{0402} ;k{सामान्यविभागः} ;c{अथ सामान्यविभागः षष्ठः ।} ;c{* लोकनामानि *} लोकः स्याद् भुवनं विश्वं विष्टपं पिष्टपं जगत् । जगती चेति नामानि लोकानां सप्त सन्ति वै ॥ २४८१ ॥ जीवाजीवाधारक्षेत्रं स लोकः कथ्यते खलु । अलोकोऽपि जिनेन्द्रेण कथ्यते हि ततोऽन्यथा ॥ २४८२ ॥ ;c{* आत्मनामानि *} क्षेत्रज्ञः पुरुष आत्मा चेतनः कथ्यते तथा । ;c{* जीवनामानि *} जीवो जन्तुस्तथा जन्युः देहभाक् देहभाग् भवी ॥ २४८३ ॥ असुमान् चापि संसारी शरीरी देहभृत् तथा । प्राणी सत्त्वं च नामानि द्वादशैव भवन्ति वै ॥ २४८४ ॥ ;c{* जन्मनामानि *} जन्म जन्मो जनिश्चैव जननं जनुरुद्भवः । उत्पत्तिश्चेति नामानि प्रयोगे प्रचलन्ति वै ॥ २४८५ ॥ ;p{0403} ;c{* प्राणनामानि *} जीवातुर्जीवितं प्राणाः जीवोऽसवोऽपि पञ्चमम् । जीवनरक्षणोपायो जीवातुर्जीवनौषधम् ॥ २४८६ ॥ ;c{* श्वासनामानि *} सामान्यं श्वसितं श्वासः सोऽन्तर्मुखो हि आहरः । उच्छ्वासश्चापि भेद आनोऽपि मन्यते बुधैः ॥ २४८७ ॥ ;c{* निःश्वासनामानि *} बाह्यश्वासस्य नामास्ति पानो निःश्वास एतनः । ;c{* आयुर्नामानि *} आयुर्जीवितकालस्तु पुंल्लिङ्ग आयुरिष्यते ॥ २४८८ ॥ ;c{* मनोनामानि *} मनोऽन्तःकरणं स्वान्तं हृच्चेतो हृदयं तथा । उच्चलं मानसं चित्तं गूढपथमतिन्द्रियम् ॥ २४८९ ॥ एतन्नामानि चित्तस्य मन्यन्ते च मनीषिभिः । मानसं कर्म सङ्कल्पो विकल्पोऽपि भिदा भवेत् ॥ २४९० ॥ ;c{* सुखनामानि *} सुखं सातं तथा शातं शर्म शर्मं च निर्वृतिः । ;p{0404} सौख्यं चेति प्रसिद्धानि सप्त नामानि सन्ति वै ॥ २४९१ ॥ ;c{* दुःखनामानि *} दुःख व्यथाऽसुखं पीडा बाधा बाघश्च वेदना । आमनस्यममानस्यं प्रगाढञ्च प्रसूतिजम् ॥ २४९२ ॥ अर्त्तिः कृच्छ्रं तथा कष्टं वैमनस्यं प्रयुज्यते । आभीलं चापि नामास्ति स्थादाऽऽधिर्मानसी व्यथा ॥ २४९३ ॥ सपत्राकृतिनिष्पत्राकृती स्यातां प्रपीडने । क्षुज्जाठराग्निजा बाधा व्यापादो द्रोहचिन्तनम् ॥ २४९४ ॥ आद्यं ज्ञानमुपज्ञा स्यात् सङ्ख्या चर्चा विचारणा । चर्चोऽपि च विचारार्थे वाक्ये विज्ञैः प्रयुज्यते ॥ २४९५ ॥ पूर्वाऽनुभूतस्मरणे वासना भावना भवेत् । संस्कारोऽप्यनुभूतार्थस्मरणेऽत्र प्रयुज्यते ॥ २४९६ ॥ ;c{* निर्णयनामानि *} अन्तश्च निर्णयश्चैव निश्चयः कथ्यतेऽपि वै । ;c{* समर्थननामानि *} प्रोक्तं समर्थनं नाम तत्रार्थे सम्प्रधारणा ॥ २४९७ ॥ ;c{* अज्ञाननामानि *} अर्हंमतिरविद्या च कथ्यतेऽज्ञानमित्यपि । ;p{0405} ;c{* भ्रमनामानि *} भ्रमो भ्रान्तिस्तथा मिथ्यामतिर्ज्ञानं भ्रमात्मकम् ॥ २४९८ ॥ ;c{* सन्देहनामानि *} सन्देहः संशयश्चैत्र विचिकित्सा च द्वापरम् । आरेकश्चेति नामानि मन्यन्ते संशयस्य वै ॥ २४९९ ॥ ;c{* गुणोत्कर्षनाम *} कथ्यते हि गुणोत्कर्षः परभागोऽपि पण्डितैः । ;c{* दोषनामानि *} आस्रव आश्रवो दोषस्तथाऽऽदीनव उच्यते ॥ २५०० ॥ ;c{* स्वरूपनामानि *} स्वरूपं रूपतत्त्वञ्च सतत्त्वं च स्वलक्षणम् । आत्मारातिश्च संसिद्धिः प्रकृतिः सहजास्तथा ॥ २५०१ ॥ धर्मः शीलं स्वभावश्च सर्गश्चापि निसर्गवत् । एतन्नामानि मन्यन्ते स्वरूपस्य बुधैर्भुवि ॥ २५०२ ॥ ;c{* अवस्थानामानि *} दशा स्थितिस्तथाऽवस्था त्रीणि नामानि सन्ति वै । ;p{0406} ;c{* स्नेहनामानि *} प्रीतिः प्रेम तथा स्नेहो हार्दं नामापि मन्यते ॥ २५०३ ॥ ;c{* दाक्षिण्यनाम *} सरलता हि दाक्षिण्यं कथ्यते चाऽनुकूलता । ;c{* पश्चात्तापनामानि *} पश्चात्तापोऽनुतापश्च प्रसिद्धोऽनुशयः पुनः ॥ २५०४ ॥ बुधैश्च विप्रतीसारो विप्रतिसार उच्यते । ;c{* समाधाननामानि *} समाधानं समाधिश्च प्राणिधानं तथैव च ॥ २५०५ ॥ अवधानं पुनर्नाम समाधेर्मन्यते बुधैः । ;c{* धर्मनामानि *} धर्मः श्रेयो वृषः पुण्यं सुकृतं नाम पञ्चमम् ॥ २५०६ ॥ ;c{* भाग्यनामानि *} भागधेयं तथा भाग्यं दिष्टं दैवं पुनर्विधिः । नियतिश्चेति नामानि मन्यन्ते नियतेर्बुधैः ॥ २५०७ ॥ अतिशुभमयः प्रोक्तं निर्ऋतिः कालकर्णिका । ;p{0407} अलक्ष्मीश्चाथ दारिद्र्यं कथ्यते कोविदैरिह ॥ २५०८ ॥ ;c{* पापनामानि *} पापं च पातकं पाप्मा पङ्कः किण्वं च किल्विषम् । कल्मषं कलुषं कल्कं दुष्कृतं दुरितं तमः ॥ २५०९ ॥ अंहश्चाऽङ्घस्तथाऽघं वै वृजिनमशुभं पुनः । एनोऽष्टादशं नाम मन्यतेऽघस्य साक्षरैः ॥ २५१० ॥ ;c{* धर्मचिन्तननाम *} त्रिचतुर्वर्गनाम्ना स्यादुपाधिर्धर्मचिन्तनम् । त्रिवर्गो धर्मकामार्थाश्चतुर्वर्गाः समीक्षकाः ॥ २५११ ॥ बलतुर्याश्चतुर्भद्रं कथ्यते कोविदैः किल । प्रमादोऽनवधानत्वमविकार्यकृतं भवेत् ॥ २५१२ ॥ ;c{* अभिप्रायनामानि *} अभिप्रायस्तथा भाव आकूतमाऽऽशये मतम् । छन्दश्चेति हि नामानि मन्यन्ते विदुषां गणे ॥ २५१३ ॥ ;c{* इन्द्रियनामानि *} हृषीकं करणं स्रोतोऽक्षं खं विषयीन्द्रियम् । बुद्धीन्द्रियं स्पर्शनादि धीन्द्रियमपि कथ्यते ॥ २५१४ ॥ कर्मेन्द्रियं क्रियेन्द्रियं पाण्यादेर्नाम कथ्यते । ;p{0408} ;c{* विषयनामानि *} इन्द्रियार्थास्तथाऽर्थाश्च गोचरा विषया अपि ॥ २५१५ ॥ स्पर्शो रसश्च गन्धश्च रूपं शब्दश्च पञ्चमः । ;c{* शीतनामानि *} तुषारः शीतलः शीतः सुषीमः सुषिमो हिमः ॥ २५१६ ॥ सूशीमः शिशिरश्चैव जडोऽपि कथ्यते पुनः । ;c{* उष्णनामानि *} अथोष्णाश्च कटुस्तीक्ष्णस्तिग्मस्तीव्रत्रस्तथा खरः ॥ २५१७ ॥ चण्डश्चेति हि नामानि मन्यन्ते पण्डितैः पुनः । ईषदुष्णः कदुष्णश्च कोष्णः कवोष्ण इत्यपि ॥ २५१८ ॥ तथा मन्दोष्णनामापीषदुष्णस्य हि कथ्यते । ;c{* कर्कशनामानि *} कक्खटः खक्खटः क्रूरः कर्कशो निष्ठुरो दृढः ॥ २५१९ ॥ कठोरः कठिनो मूर्तं मूर्तिमत् परुषस्तथा । जठरो जरठश्चैव जरढश्च खरः पुनः ॥ २५२० ॥ एतन्नामानि कथ्यन्ते कर्कशस्य हि कोविदैः । ;p{0409} ;c{* कोमलनामानि *} कोमलः सुकुमारश्च सोमालोऽकर्कशो मृदुः ॥ २५२१ ॥ मृदुलश्चेति नामानि कथ्यन्ते कोमलस्य वै । ;c{* मधुरनामानि *} मधुरो मधुलः स्वादुः गुलयो मधूलकस्तथा ॥ २५२२ ॥ रसज्येष्ठश्च नामानि मन्यन्ते मधुरस्य वै । ;c{* अम्लनामानि *} अम्लो दन्तशठः प्रोक्तः पाचनोऽम्ब्लस्तथा स्मृतः ॥ २५२३ ॥ ;c{* लवणनामानि *} प्रसिद्धो लवणश्चैव रसः सर्वरसस्तथा । ;c{* कटुनामानि *} कटुः स्यादोषणो लोके स एव मुखशोधनः ॥ २५२४ ॥ ;c{* तिक्तनाम *} वक्त्रभेदी तथा तिक्तो नाम तिक्तरसस्य वै । ;c{* कषायनामानि *} कषायस्तुवरश्चैव तूवरोऽपि निगद्यते ॥ २५२५ ॥ ;p{0410} ;c{* सुगन्धनामानि *} सुरभिश्च समाकर्षी गन्धश्च घ्राणतर्पणः । तथा जनमनोहारी निर्हारी नाम विद्यते ॥ २५२६ ॥ विदूरगस्तथाऽऽमोदः स्याद्दूरगतगन्धवान् । परिमलो विमर्दोत्थः कथ्यतेऽत्र सुगन्धवान् ॥ २५२७ ॥ सुगन्धिरिष्टगन्धश्चैवाऽऽमोदी मुखवासनः । ;c{* दुर्गन्धनामानि *} दुर्गन्धः पूतिगन्धिश्च पूतिगन्धिकमुच्यते ॥ २५२८ ॥ आमगन्धिस्तथा विस्रं कथ्यते कोविदैः पुनः । ;c{* श्वेतवर्णनामानि *} ख्याताः श्वेतादिकाः वर्णास्तेषां वर्णनमस्त्यधः ॥ २५२९ ॥ शुक्लः श्वेतः सितः स्येतः शुभ्रश्च विशदः शुचिः । अवलक्षो वलक्षश्चाऽवदातो धवलस्तथा ॥ २५३० ॥ पाण्डरः पाण्डुरः पाण्डुर्गौरश्च हरिणोऽर्जुनः । सप्तदशैव नामानि ईषत्पाण्डुस्तु धूसरः ॥ २५३१ ॥ ;c{* विभिन्नवर्णनामानि *} कापोतश्च कपोताभः कपोतवर्णवान् भवेत् । ;p{0411} पोतश्च पीतलो गौरो हारिद्रः सितरञ्जनः ॥ २५३२ ॥ पलाशः पीतनीलश्च पालाशो हरितो हरित् । तालकाभः पुनर्नाम मन्यते हरितस्य वै ॥ २५३३ ॥ रोहितो लोहितो रक्तो माञ्जिष्ठः शोण इत्यपि । पाटलः श्वेतरक्तश्च श्वेतरक्तस्य नाम वै ॥ २५३४ ॥ अरुणो बालसन्ध्याभः नामाऽरुणस्य वै खलु । कपिलः कपिशः कद्रुः पीतरक्तश्च पिञ्जरः ॥ २५३५ ॥ पिशङ्गः पिङ्गलः पिङ्गः श्यावो बभ्रुस्तथा हरिः । कडारश्चेति नामानि कथ्यन्ते कपिलस्य वै ॥ २५३६ ॥ कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः । शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥ रक्तश्यामस्तथा धूम्रो धूमलश्चापि मन्यते । कल्माषः कर्बुरश्चैव चित्रश्च चित्रलः पुनः ॥ २५३८ ॥ एतः कर्मीरकिर्मीरौ पनश्च शबलो भवेत् । श्वेताच्छबलपर्यन्तं सर्वे शब्दाश्च पुंसि स्युः ॥ २५३९ ॥ ;c{* शब्दनामानि *} शब्दः स्वरो ध्वनिर्नादो निनादो निनदो रणः । निःस्वानो निःस्वनः स्वानः निस्वानो निस्वनो स्वनः ॥ २५४० ॥ ;p{0412} निक्वाणो निक्वणः क्वणः क्वणश्च क्वणनं पुनः । ध्वानो घोषश्च निर्घोष आराव आरवो रवः ॥ २५४१ ॥ विरावश्चापि संरावो ह्रादो रावस्तथा स्वनिः । निर्ह्रादश्चेति त्रिंशन् नामानि शब्दबोधने ॥ २५४२ ॥ ;c{* सप्तस्वरनामानि *} षड्ज-ऋषभ-गान्धारा मध्यमः पञ्चमस्तथा । धैवतो निषधः सप्त तन्त्रीकण्ठोद्भवाः स्वराः ॥ २५४३ ॥ ;c{* स्पष्टीकरणम् *} षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् । अजाविकौ तु गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ २५४४ ॥ पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरम् ॥ २५४५ ॥ उरोजातः स्वरो मन्द्रो मध्यः कण्ठज उच्यते । तारो मस्तकजः प्रोक्तः स्वरज्ञैः पण्डितर्जनैः ॥ २५४६ ॥ ;c{* शब्दभेदाः *} क्रन्दितं रुदितं चैव क्रुष्टं त्रिविधमुच्यते । तदपुष्टन्तु विद्वद्भिर्गह्वरं मन्यते सदा ॥ २५४७ ॥ ;p{0413} शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् । जयजयकारशब्दोऽयं क्रियते जगज्जनैः ॥ २५४८ ॥ पर्दनं गुदजः शब्दः कर्दनं कुक्षिजः पुनः । क्ष्वेडा तु सिंहनादोऽस्ति भटानां गर्जना युधि ॥ २५४९ ॥ युद्धाह्वाने निगद्येत क्रन्दनं सुभटध्वनिः । कलकलः कोलाहलो युगपद् बहुभाषणम् ॥ २५५० ॥ व्याकुलो येन लोकः स्यात् तुमुलः स च उच्यते । मर्मरो वस्त्रपर्णादेर्भूषणानां तु शिञ्जितम् ॥ २५५१ ॥ हेषा ह्रेषा हि वाजीनां गजानां गर्जबृंहिते । गर्जाऽपि गजशब्दोऽस्ति विस्फारो धनुषो रवः ॥ २५५२ ॥ रम्भा हम्भा च गोशब्दे स्तनितं स्वनितं द्वयम् । ध्वनितं गर्जितं गर्जिः रसितं मेघगर्जने ॥ २५५३ ॥ पुनः प्रोक्तं विहङ्गानां कूजनं कूजितं द्वयम् । तिरश्चां वाशितं चैव प्रसिद्धं वासितं रुतम् ॥ २५५४ ॥ वृकशब्दो रेषणं स्याद् रेषा च पुनरुच्यते । बुक्कनं स्याच्छुनः शब्दे भषणं च प्रयुज्यते ॥ २५५५ ॥ पीडितानां रवो लोके कणितं कणितिस्तथा । दम्पत्यो रतिकाले तु शब्दस्तु मणितं भवेत् ॥ २५५६ ॥ वीणशब्दस्तु प्रक्वाणः प्रक्वणः कथ्यते बुधैः । ;p{0414} मृदंगजो हि गुन्दलो गुन्दुलोऽपि हि मन्यते ॥ २५५७ ॥ क्षीजनं कीचकानां स्याद् भेर्या नादस्तु दद्रुरः । तथाऽत्युच्चैर्ध्वनिस्तारः कथ्यते पण्डितैः किल ॥ २५५८ ॥ मन्द्रो गम्भीरशब्दः स्यान् मद्रोऽपि मन्यते बुधैः । कलः स्यान् मधुरशब्दः मन्दे मिष्टे च काकली ॥ २५५९ ॥ काकलिश्चेति नामापि कथ्यते कोविदैः पुनः । लयानुग एकतालो गीतवादित्रसंयुते ॥ २५६० ॥ काकुर्ध्वनिविकारश्च स्वरस्य विकृतौ भयात् । प्रतिध्वनिः प्रतिश्रुच्च शब्दभेदो निगद्यते ॥ २५६१ ॥ ;c{* समहनामानि *} समूहः समुदायश्च समुदयोऽपि सञ्चयः । समवायश्च सङ्घातः सन्दोहः संहतिस्तथा ॥ २५६२ ॥ आकर उत्करः कूटं कलापश्च कदम्बकम् । निकरो निकुरम्बञ्च प्रकरः पेटकं गणः ॥ २५६३ ॥ चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् । निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥ व्यूहो राशिस्तथा स्तोमः पुञ्जश्च पटलं पुनः । ओघश्चेति हि नामानि समुदायस्य सन्ति वै ॥ २५६५ ॥ ;p{0415} खगव्राते तु यूथं स्यात् सङ्घः सार्थश्च देहिनाम् । सजातीनां कुलं तेषां निकायस्तु सधर्मिणाम् ॥ २५६६ ॥ वर्गस्तु सदृशां ज्ञेयो जडचेतनयोर्द्वयोः । स्कन्धस्तु समुदायो वै नरकुञ्जरवाजिनाम् ॥ २५६७ ॥ ग्रामो विषयशब्दोक्तभूतेन्द्रियगुणाद्गणे । समजः स्यात् पशूनां वै समाजश्चान्यदेहिनाम् ॥ २५६८ ॥ शौकं शुकसमूहे स्यात् मायूरं तु शिखिव्रजे । तैत्तिरं तेत्तिरव्राते कथ्यते पुनरत्र वै ॥ २५६९ ॥ कपोतसञ्चये प्रोक्तं कापोतं पण्डितैरिह । भैक्षं भिक्षासमूहे स्यात् साहस्त्रं दशशतव्रजे ॥ २५७० ॥ गार्भिणं गर्भिणसमूहे यौवतं युवतिव्रजे । गोत्रार्थप्रत्ययान्तानां स्युरौपगवकादयः ॥ २५७१ ॥ उक्षादेरौक्षकं मानुष्यकं तु मनुष्यव्रजे । वार्द्धकं वृद्धवृन्दे स्यादौष्ट्रकमुष्ट्रकव्रजे ॥ २५७२ ॥ राजपुत्रसमूहे वै राजपुत्रकमुच्यते । नृपाणां समुदाये स्याद् राजन्यकं च राजकम् ॥ २५७३ ॥ आजकं कथ्यते लोकेऽजकानां प्रकरे बुधैः । वात्सकं वत्सकव्यूहे मन्यते साक्षरैः पुनः ॥ २५७४ ॥ उरभ्रकस्य सङ्घाते प्रोक्तमौरभ्रकं किल । ;p{0416} कवचिकचये चैव कावचिकं हि नाम वै ॥ २५७५ ॥ हास्तिकं हस्तिवृन्दे स्यादापूपिकाद्यचेतसाम् । धेनूनां धेनुकं नाम मन्यते पण्डितैः पुनः ॥ २५७६ ॥ धेन्वन्तानां हि शब्दानां कथ्यन्ते गोधेनुकादयः । तेषां गोधेनुकानां वै प्रोक्ता गौधेनुकादयः ॥ २५७७ ॥ कैदारकं च कैदार्यं कैदारिकं हि तद्गणे । ब्राह्मण्यं ब्राह्मणादेश्च माणव्यं माणवव्रजे ॥ २५७८ ॥ वाडव्यं वाडवव्यूहे कथ्यते कोविदैः पुनः । गाणिक्यं गणिकानां तु केशानां कैश्यकैशिके ॥ २५७९ ॥ अश्वमश्वीयमश्वानां पर्शूनां पार्श्वमुच्यते । वातूलो वायुसंघातो वात्याऽपि कथ्यते पुनः ॥ २५८० ॥ गवां तु समवाये स्याद् गव्या गोत्रा द्वयं पुनः । पाश्या च पाशसङ्घाते खल्या खलनरव्रजे ॥ २५८१ ॥ तृण्या तृणसमूहे स्याद् धूम्या तु धूमवृन्दके । खलादेः खलिनी तुल्या कुटुम्बिनी तु तद्गणे ॥ २५८२ ॥ जनता जनवृन्दे स्याद् बन्धुवृन्दे तु बन्धुता । ग्रामता ग्रामवृन्दे वै गजौघे गजता तथा ॥ २५८३ ॥ सहायमित्रवृन्दे हि सहायता च कथ्यते । रथानां च समूहः स्यात् रथ्या च रथकट्यया ॥ २५८४ ॥ ;p{0417} ;c{* श्रेणीनामानि *} आलिश्चाऽऽली ततिः पङ्क्तिः श्रेणी श्रेणिश्च धोरणी । वीथी वीथिस्तथा राजिरावलिरावली पुनः ॥ २५८५ ॥ माला लेखेति सर्वाणि श्रेणिनामानि सन्ति वै । ;c{* युगलनामानि *} उभावुभे च द्वौ द्वे च द्वैतं द्वन्द्वं द्वयं तथा ॥ २५८६ ॥ यमलं यामलं युग्मं युगलं जकुटं युगम् । यमं च द्वितयं चेति नामानि युगलस्य वै ॥ २५८७ ॥ पशु युग्मे गोयुगं स्यात् गोयुग्मेऽपि च गोयुगम् । अश्वगोयुगमुच्येत अश्वद्वयं तथैव च ॥ २५८८ ॥ षड्गवं स्यात्तु षट्त्वेऽर्थे गोषड्गवमित्यपि । हस्तिषड्गवमश्वषड्गवं चेति विधीयताम् ॥ २५८९ ॥ शतादिभ्यः परा सङ्ख्या परःपूर्वा प्रयुज्यते । परःशताः कुञ्जरास्ते परःसहस्राः हस्तिनः ॥ २५९० ॥ परोलक्षाः सभालोकाः परःकोट्यश्च सन्ति वै । पुनः परोऽर्बुदा ज्ञेया परःखर्वादयोऽपि वै ॥ २५९१ ॥ ;c{* प्रचुरनामानि *} प्रभूतं प्रचुरं प्राज्यं पुष्कलं पुरहं पुरु । ;p{0418} पुरुहं पुरुहूश्चैव भूयिष्ठं बहुलं बहु ॥ २५९२ ॥ अदभ्रं भूरि भूयश्च स्फिरं स्फारं तथैव च । एतन्नामानि मन्यन्ते प्रचुरस्य हि पण्डितैः ॥ २५९३ ॥ ;c{* अल्पनामानि *} अल्पं तुच्छं तनु स्तोकं क्षुद्रं क्षुल्लं तथा कृशम् । अणु च तलिनं दभ्रं दश नामानि सन्ति वै ॥ २५९४ ॥ ;c{* सूक्ष्मनामानि *} श्लक्ष्णं च पेलवं सूक्ष्मं सूक्ष्मनामानि त्रीणि वै । ;c{* लेशनामानि *} कणो मात्रा लवो लेशस्त्रुटी त्रुटिर्निगद्यते ॥ २५९५ ॥ ;c{* लघुनामानि *} ह्रस्वं लघु च प्रख्यातं लघुकार्ये प्रयुज्यते । ;c{* अत्यल्पनामानि *} अत्यल्पमल्पिष्ठं च स्यादल्पीयोऽणीयस्तथा ॥ २५९६ ॥ कनिष्ठञ्च कनीयश्च लिङ्गभेदो विशेष्यवत् । ;c{* दीर्घनाम *} दोर्घमाऽऽयतमाख्यातं लम्बार्थस्य हि वाचकम् ॥ २५९७ ॥ ;p{0419} ;c{* उच्चनामानि *} उद्धरमुन्नतं तुङ्गं स्यादुदग्रमुच्छ्रितं तथा । उच्चं प्रांशु च नामानि तुङ्गार्थे संभवन्ति वै ॥ २५९८ ॥ ;c{* नीचनामानि *} न्यग् नीचं मन्थनं कुब्जं खर्वं च वामनं पुनः । ह्रस्वं च सप्त नामानि नीचार्थे प्रथयन्ति वै ॥ २५९९ ॥ ;c{* विशालनामानि *} विशङ्कटं विशालं च विस्तीर्णं विकटं महत् । वरिष्ठं विपुलं व्यूढं वड्रं ततं तथा बृहत् ॥ २६०० ॥ उरु गुरु बहु स्फारं पृथु च पृथुलं पुनः । एतन्नामानि मन्यन्ते विशालस्य बुधैः सदा ॥ २६०१ ॥ ;c{* दैर्ध्यनामानि *} दैर्ध्यं प्रसिद्धमाऽऽयाम आनाहश्चापि मन्यते । ;c{* आरोहनामानि *} आरोहश्च तथोत्सेधः उच्छ्रयश्च समुच्छ्रयः ॥ २६०२ ॥ उच्छ्राय उदयो नाम उच्चतायां प्रयुज्यते । ;c{* विशालतानाम *} परिणाहो विशालता महदर्थे प्रयुज्यते ॥ २६०३ ॥ ;p{0420} ;c{* विस्तारनामानि *} प्रपञ्चाऽऽभोगविस्तारव्यासाः विस्तारवाचकाः । विस्तरो विग्रहः शब्दे समस्तपदस्फोटने ॥ २६०४ ॥ ;c{* समासनामानि *} समासश्च समाहारः संक्षेपश्च संग्रहः । ;c{* समस्तनामानि *} विश्वं सर्वं समस्तञ्च समग्रं सकलं समम् ॥ २६०५ ॥ अशेषमथ निःशेषं निखिलमखिलं तथा । अनूनं न्यक्षमऽन्यूनं कृत्स्नं पूर्णं निगद्यताम् ॥ २६०६ ॥ अखण्डं चेति नामानि मन्यन्ते निखिलस्य वै । ;c{* शकलनामानि *} अधश्च शकलं शल्कं खण्डश्च खण्डलं दलम् ॥ २६०७ ॥ भित्तं नेमश्च नामानि कथ्यन्ते शकलस्य वै । ;c{* अंशनामानि *} अंशो भागश्च वण्टो वण्टकश्चापि मन्यते ॥ २६०८ ॥ ;c{* मलिननामानि *} मलीमसं तथा म्लानं मलिनं मलदूषितम् । ;p{0421} कच्चरं कल्मषं चैव कश्मलं कथ्यते तथा ॥ २६०९ ॥ ;c{* पवित्रनामानि *} पवित्रं पावनं पुण्यं पूतं मेध्यं तथैव च । ;c{* उज्ज्वलनामानि *} उज्ज्वलं विमलं वीध्रं विशुद्धं विशदं शुचि ॥ २६१० ॥ अवदातमनाविलं नामान्यष्टोज्ज्वलस्य वै । निःशोध्यं त्वनवस्करं चोक्षं शोधितवस्तु च ॥ २६११ ॥ ;c{* शोधितनामानि *} निर्णिक्तं शोधितं धौतं मृष्टं क्षालितमित्यपि । ;c{* अभिमुखनाम *} अभिमुखं प्रसिद्धं वै सम्मुखीनं निगद्यते ॥ २६१२ ॥ ;c{* पराङ्मुखनाम *} पराचीनं च प्रख्यातं प्रोक्तं पुनः पराङ्मुखम् । ;c{* मुख्यनामानि *} मुख्यमऽग्रेसरं चाऽग्रं प्राग्र्योऽग्रणीस्तथाऽग्रिमम् ॥ २६१३ ॥ ;p{0422} अग्रीयश्चाग्रियोऽग्र्यं वै प्रष्ठं प्राग्रहरं परम् । प्रकृष्टं प्रमुखं चैव पुरोगं प्रवरं वरम् ॥ २६१४ ॥ प्रधानं चोत्तमं जात्यमनुत्तममनुत्तरम् । बर्य्यं चाऽनवरार्ध्यं वै परार्ध्थं ग्रामणीः पुनः ॥ २६१५ ॥ प्रवर्हं च प्रवेकं वै वरेण्यं च प्रसिद्धकम् । एतन्नामानि मुख्यस्य सर्वं विशेषणार्थकम् ॥ २६१६ ॥ ;c{* श्रेष्ठनामानि *} श्रेयः श्रेष्ठं पुष्कलञ्च सत्तममऽतिशोभनम् । तथोत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ २६१७ ॥ सिंहशार्दूलनागाद्या उत्तमार्थे भवन्ति वै । वृन्दारकस्तल्लजश्च मतल्लिका मचर्चिका ॥ २६१८ ॥ उद्घः प्रकाण्डशब्दश्च प्रशस्यार्थे प्रयुज्यते । ;c{* गौणार्थकाः शब्दाः *} गुणोपसर्जनोपाग्रमप्रधाने प्रयुज्यते ॥ २६१९ ॥ ;c{* अधमनामानि *} अधममणकं गर्ह्यं निकृष्टं काण्डकुत्सिते । अवद्यमपकृष्टञ्च प्रतिकृष्टं ब्रुवं पुनः ॥ २६२० ॥ रेफो रेपोऽवमं पापं याप्यं याव्यं तथाऽर्व वै । ;p{0423} कपूयश्च कुपूयं च खेटं चेलं निगद्यते ॥ २६२१ ॥ अपशब्दञ्च द्वाविंशाः शब्दाः सन्त्यधमार्थकाः । विशेषणार्थकाः सर्वे रेफं विना भवन्ति ते ॥ २६२२ ॥ तदाऽऽसेचनकं यस्य दर्शनाद् दृग् न तृप्यति । ;c{* सुन्दरनामानि *} सुन्दरं शोभनं कान्तं मञ्जुलञ्च मनोहरम् ॥ २६२३ ॥ मनोज्ञं मधुरं रम्यमऽभिरामं मनोरमम् । कमनीयं प्रियं काम्यं कम्रञ्च सुषमं पुनः ॥ २६२४ ॥ रुचिरं चारु रुच्यं च लडहं हारि वल्गु च । रमणीयं तथा सौम्यं पेशलं साधु बन्धुरम् ॥ २६२५ ॥ मञ्जु वामं तथा हृद्यं नामानि सुन्दरस्य वै । विशेषणार्थका एते शब्दा आयान्ति प्रायशः ॥ २६२६ ॥ ;c{* फलनाम *} फलं व्युष्टिर्द्वयञ्चैतत् कथ्यते फलनामनि । ;c{* असारनाम *} असारं फल्गु निस्तत्त्वे वस्तुनि प्रतिपाद्यते ॥ २६२७ ॥ ;c{* शून्यनामानि *} शून्यं तुच्छं रिक्तकं च रिक्तं वशिकमित्यपि । ;p{0424} पञ्च नामानि शून्यस्य व्यवहरन्ति कोविदाः ॥ २६२८ ॥ ;c{* निबिडनामानि *} निबिडं निबिरीसं च नीरन्ध्रं च निरन्तरम् । घनं सान्द्रं दृढं गाढं वहलं बहलं तथा ॥ २६२९ ॥ अविरलं पुनर्नामैकादशं प्रयुज्यते । ;c{* विरलनामानि *} विरलस्य तु नामानि पेलवं विरलं तनु ॥ २६३० ॥ ;c{* नूतननामानि *} अभिनवं नवं नव्यं नवीनं नूत्ननूतने । प्रत्यग्रं चैव सद्यस्कं नामान्यष्टौ भवन्ति वै ॥ २६३१ ॥ ;c{* पुराणनामानि *} जरत् जीर्णं पुराणञ्च पुरातनं चिरन्तनम् । प्रत्नञ्च प्रतनमिति नामात्र संप्रयुज्यते ॥ २६३२ ॥ ;c{* मूर्त्तनाम *} साकारवस्तु मूर्त्तं स्यान्मूर्त्तिमच्च प्रयुज्यते । ;c{* नैकभेदनामानि *} उच्चावचं नैकभेदं नानाप्रकारमित्यपि ॥ २६३३ ॥ ;p{0425} ;c{* अधिकनामानि *} अधिकमऽतिरिक्तं च ख्यातं समधिकं पुनः । त्रीणि नामानि मन्यन्ते समधिकस्य पण्डितैः ॥ २६३४ ॥ ;c{* समीपनामानि *} समीपं सविधं पार्श्वं ससीममऽन्तिकं पुनः । सनीडं सन्निकर्षश्च सन्निकृष्टं च सन्निधिः ॥ २६३५ ॥ आसन्नं सन्निधानञ्च सदेशोऽभ्याशमित्यपि । अभ्यग्रमऽभितोऽभ्यर्णमभ्यासो निकटं पुनः ॥ २६३६ ॥ उपकण्ठं तथोपान्तं समर्यादं पुनस्तथा । सवेश इति नामानि मन्यन्ते शब्दशास्त्रिणः ॥ २६३७ ॥ ;c{* संसक्तनामानि *} अनन्तरमव्यवहितं तथैवापदान्तरम् । संसक्तः चैव संलग्नं संभवत्यपटान्तरम् ॥ २६३८ ॥ ;c{* नेदिष्ठनामानि *} नेदीयो नाम नेदिष्ठं भवेदन्तिकतमं पुनः । अतिसमीपतार्थानि त्रीणि नामानि सन्ति वै ॥ २६३९ ॥ ;p{426} ;c{* दूरनामानि *} विप्रकृष्टं परं दूरं दूरार्थे संप्रयुज्यते । ;c{* अतिदूरनामानि *} अतिदूरे दविष्ठं स्याद् दवीयोऽपि प्रयुज्यते ॥ २६४० ॥ ;c{* शाश्वतनामानि *} सनातनं ध्रुवं नित्यं शाश्वतिकञ्च शाश्वतम् । अनश्वरं प्रसिद्धं वै सप्तमन्तु सदातनम् ॥ २६४१ ॥ ;c{* स्थेयनामानि *} अतिस्थिरं भवेत् स्थेयः स्थेष्ठं स्थास्नु तथाऽचलम् । एतन्नामानि मन्यन्ते बहुस्थिरत्वबोधने ॥ २६४२ ॥ ;c{* कूटस्थनाम *} नभ इत्यादि कूटस्थं कालव्याप्येकरूपतः । ;c{* स्थावरनाम *} स्थावरं जङ्गमान्यञ्च भूम्यादिकं निगद्यते ॥ २६४३ ॥ ;c{* जङ्गमनामानि *} इङ्गं चराचरं ज्ञेयं चरं चरिष्णु इत्यपि । ;p{0427} त्रसं जगत् जङ्गमञ्च सप्तनामानि सन्ति वै ॥ २६४४ ॥ ;c{* चञ्चलनामानि *} चञ्चलं चपलं ज्ञेयं चलनं चटुलं चलम् । लोलं चलाचलं कम्प्रं कम्पनं तरलं तथा ॥ २६४५ ॥ ज्ञेयं परिप्लवं पारिप्लवमऽस्थिरमेव च । त्रयोदशैव नामानि चपलस्य भवन्ति वै ॥ २६४६ ॥ ;c{* सरलनामानि *} ऋजुः स्यात् सरलोऽजिह्मः प्रगुणोऽपि निगद्यते । ;c{* अधोमुखनामानि *} अवाग्रमाऽऽनतञ्चैवमऽवगतमऽधोमुखम् ॥ २६४७ ॥ ;c{* वक्रनामानि *} आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् । अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥ द्वादशैतानि नामानि वक्रस्य संभवन्ति वै । ;c{* अनुगनामानि *} अन्वक्षमनुगमन्वक् ज्ञेयमनुपदं पुनः ॥ २६४९ ॥ ;p{0428} ;c{* एकाकिनामानि *} एकाकी चैककश्चैकः कथ्यतेऽवगणोऽपि च । ;c{* एकाग्रनामानि *} एकतानमेकायनमेकसर्गञ्च तद्गतम् ॥ २६५० ॥ एकायनगतं चैकाग्रमैकाग्रञ्च वै पुनः । एकाग्र्योऽनन्यवृत्तिश्च स्थिरचित्तस्य बोधने ॥ २६५१ ॥ ;c{* आदिनामानि *} आद्यमादिममादिश्च पौरस्त्यं प्रथमं पुनः । पूर्वमग्रं तथा प्राक् च वाक्ये प्रथमवाचकः ॥ २६५२ ॥ ;c{* अन्तिमनामानि *} अन्त्यमन्तिममन्तश्च पाश्चात्यं पश्चिमं पुनः । जघन्यं चरमं चेति नामानि चरमस्य वै ॥ २६५३ ॥ ;c{* मध्यमनामानि *} मध्यमं मध्यमीयं च मध्यन्दिनं च माध्यमम् । माध्यन्दिनं च नामानि मन्यन्ते मध्यमस्य वै ॥ २६५४ ॥ ;c{* अभ्यन्तरनामानि *} अन्तरालं विचालञ्च ज्ञेयमभ्यन्तरं पुनः । ;p{0429} ;c{* अन्तरनाम *} अन्तरं चैव मध्यं चाऽवकाशार्थे हि कथ्यते ॥ २६५५ ॥ ;c{* समाननामानि *} समानः सन्निभस्तुल्यं सदृक्षः सदृशः सहक् । साधारणः सधर्मा च सवर्णः सरूपः समः ॥ २६५६ ॥ स्यादुत्तरपदे भूतः प्रख्यश्च प्रतिमो निभः । प्रकाशः प्रतिकाशश्च प्रतीकाशस्तथोपमा ॥ २६५७ ॥ प्रकारश्चाथ नीकाशः सङ्काशो रूपमेव च । तदापि सदृशार्थकत्वमायात्येव न संशयः ॥ २६५८ ॥ ;c{* उपमावाचकाः *} औपम्यमुपमानमुपमितिस्तथोपमा । अनुकारोऽनुहारश्च साम्यं कक्षा तथा तुला ॥ २६५९ ॥ उपमावाचका एते सर्वे शब्दा भवन्ति वै । ;c{* प्रतिमानामानि *} प्रतिमा प्रतिमानञ्च प्रतिकायः प्रतिकृतिः ॥ २६६० ॥ प्रतिच्छाया प्रतिच्छन्दः प्रतिरूपं प्रतिनिधिः । प्रतिबिम्बं प्रसिद्धं वै तथाऽर्वा प्रतियातना ॥ २६६१ ॥ ;p{0430} एतन्नामानि मन्यन्ते प्रतिमायाश्च पण्डितैः । सूर्मी सूर्मिस्तथा स्थूणा स्यादऽयःप्रतिमा पुनः ॥ २६६२ ॥ सुवर्णप्रतिमा नाम हरिणी स्याद्धिरण्मयी । ;c{* प्रतिकूलनामानि *} प्रतिकूलं प्रतिलोममपसव्यमपष्ठुरम् ॥ २६६३ ॥ विलोमञ्च प्रसव्यञ्च प्रतीपं चाप्यपष्ठु वै । वामं च नव नामानि प्रतिकूलस्य सन्ति वै ॥ २६६४ ॥ ;c{* सव्यापसव्यनाम *} वामं सव्यं शरीरेऽङ्गमपसव्यं तु दक्षिणम् । ;c{* अबाधनामानि *} उच्छृङ्खलमबाधं स्यादनर्गलमयन्त्रितम् ॥ २६६५ ॥ निरङ्कुशस्तथोद्दामं निरर्गलञ्च ज्ञायताम् । ;c{* स्पष्टनामानि *} स्फुटं स्पष्टं प्रकाशञ्च प्रव्यक्तं प्रकटं पुनः ॥ २६६६ ॥ व्यक्तं तथोल्बणं सप्त नामानि संभवन्ति वै । ;c{* वर्तुलनामानि *} वर्तुलं निस्तलं वृत्तं परिमण्डलमुच्यते ॥ २६६७ ॥ ;p{0431} ;c{* बन्धुरनामानि *} बन्धूरं बन्धुरं नाम प्रोक्तं तथोन्नतानतम् । ;c{* विषमोन्नतनाम *} विषमोन्नतं भवेन्नाम स्थपुटं कथ्यते पुनः ॥ २६६८ ॥ ;c{* भिन्ननामानि *} अन्यदन्यतरत्वं च भिन्नमन्यतरस्तथा । एकमेकतरश्चैवमितरत् कथ्यते पुनः ॥ २६६९ ॥ ;c{* मिश्रनामानि *} करम्बः कबरो मिश्रः सम्पृक्तः खचितः पुनः । पञ्चैतान्येव नामानि मिश्रितार्थे भवन्ति वै ॥ २६७० ॥ ;c{* विविधनामानि *} बहुविधो बहुरूपः पृथग्रूपः पृथग्विधः । नानारूपो नानाविधो विविधश्चापि मन्यते ॥ २६७१ ॥ ;c{* शीघ्रनामानि *} शीघ्रं क्षिप्रं द्रुतं तूर्णं त्वरितं सत्वरं लघु । आशुमङ्क्षु तथाऽह्नायश्चपलमविलम्बितम् ॥ २६७२ ॥ ;p{0432} अञ्जसा झटिति स्राक् च सपदि द्रागरं पुनः । अष्टादशैव नामानि शीघ्रार्थे सभवन्ति वै ॥ २६७३ ॥ ;c{* झम्पानामानि *} झम्पा झम्पश्च सम्पातपाटवं कूर्दने भवेत् । ;c{* नित्यनामानि *} असक्तमनिशं नित्यं संसक्तं सततं पुनः ॥ २६७४ ॥ अनवरतमाश्रान्तमऽविरतमऽनारतम् । अजस्रं सन्ततं चेति नित्यनामानि सन्ति वै ॥ २६७५ ॥ ;c{* सामान्यनाम *} साधारणं प्रसिद्धं वै सामान्यमपि मन्यते । ;c{* संहतनाम *} नामद्वयं बुधैर्ज्ञेयं संहतं दृढसन्धि च ॥ २६७६ ॥ ;c{* गहननाम *} कलिलं गहनं नाम दुःखैः प्रवेष्टुमर्हति । ;c{* सङ्कीर्णनामानि *} सङ्कीर्णं सङ्कुलं कीर्णमाकीर्णमाकुलं पुनः ॥ २६७७ ॥ ;p{0433} ;c{* पूर्णनामानि *} पूर्णञ्च पूरितं व्याप्तं छन्नञ्च छादितं तथा । आचितं निचितं चैव भरितं चापि कथ्यते ॥ २६७८ ॥ ;c{* निरस्तनामानि *} अपविद्धं प्रतिक्षिप्तं प्रत्यादिष्टं निराकृतम् । प्रत्याख्यातं निरस्तञ्च षड् नामानि हि सन्ति वै ॥ २६७९ ॥ ;c{* परिवेष्टितनामानि *} परिष्कृतं परिक्षिप्तं परीतं परिवेष्टितम् । निवृतं वलयितञ्च सर्वत आवृते भवेत् ॥ २६८० ॥ ;c{* व्यक्तनामानि *} त्यक्तमुज्झितमुत्सृष्टं धूतं विधूतमित्यपि । हीनं चेत्यभिधेयानि त्यक्तस्य संभवन्ति वै ॥ २६८१ ॥ ;c{* विचारितनामानि *} वित्तं विचारितं विन्नं नामत्रयं निगद्यते । ;c{* अवध्वस्तनामानि *} अवकीर्णमवध्वस्तं पतिते यत्र तत्र हि ॥ २६८२ ॥ ;p{0434} ;c{* संवृतनामानि *} संवीतं संवृतं रुद्धं स्थगितमपवारितम् । आवृतं पिहितं छन्नमपिहितञ्च छादितम् ॥ २६८३ ॥ अन्तर्हितं तिरोहितं द्वादशैतानि सन्ति वै । ;c{* अन्तर्धाननामानि *} अन्तर्द्धा च तिरोधानमन्तर्द्धिश्च पिधानमिति ॥ २६८४ ॥ व्यवधा व्यवधानञ्च छदनमपवारणम् । स्थगनं चेति नामानि ह्यन्तर्धानस्य सन्ति वै ॥ २६८५ ॥ ;c{* प्रकाशितनामानि *} आविष्कृतं दर्शितञ्च प्रादुष्कृतं प्रकाशितम् । प्रकटितं भवेन्नाम प्रकाशितस्य वस्तुनः ॥ २६८६ ॥ ;c{* अवलम्बितनामानि *} अवलम्बितमुच्चण्डमविलम्बितमित्यपि । एतन्नामानि मन्यन्ते सालम्बनवस्तुनि ॥ २६८७ ॥ ;c{* अनादृतनामानि *} अवमतमवज्ञातं परिभूतमनादृतम् । अवगणितं भवेन्नामावमानितमित्यपि ॥ २६८८ ॥ ;p{0435} ;c{* अनादरनामानि *} अवज्ञाऽनादरो रीढा ह्यसूक्षणमसूर्क्षणम् । अवगणनाऽवमाननं तिरस्क्रिया च नाम स्यात् ॥ २६८९ ॥ परिभवः परीभावो दश नामानि सन्ति वै । ;c{* उन्मूलितनामानि *} उन्मूलितमुद्धृतञ्च भवेदुत्पाटितं खलु ॥ २६९० ॥ आवर्हितं तुर्य्यनाम समूलोत्पाटने स्मृतम् । ;c{* कम्पितनामानि *} कम्पितं चलितं धूतमान्दोलनञ्च वेल्लितम् ॥ २६९१ ॥ लुलितं प्रेङ्खितं प्रेङ्खोलितं तरलितं धुतम् । नव नामानि मन्यन्ते कम्पितस्य हि कोविदैः ॥ २६९२ ॥ ;c{* दोलानामानि *} प्रेङ्खा प्रेङ्खोलनं दोला दोली चाऽऽन्दोलनं पुनः । प्रयत्नेन कृतं फाण्टे अधःक्षिप्तन्तु न्यञ्चितम् ॥ २६९३ ॥ उर्ध्वक्षिप्तमुदस्तं स्यादुदञ्चितं तदेव हि । ;c{* क्षिप्तनामानि *} आविद्धं चोदितं ह्यस्तं निष्ठूतः क्षिप्तमीरितम् ॥ २६९४ ॥ ;p{436} नुन्नं नुत्तञ्च निष्ठ्यूतं नव नामानि सन्ति वै । ;c{* लिप्तनाम *} दिग्धं लिप्तं द्वयं नाम लेपनस्य प्रयुज्यते ॥ २६९५ ॥ ;c{* रुग्णनाम *} रुग्णं भुग्नं द्वयं नाम वक्रे भग्ने च पीडिते । ;c{* रूषितनाम *} रजोलिप्ते विजानीयाद् रूषितं गण्डितं द्वयम् ॥ २६९६ ॥ ;c{* गुप्तनाम *} गूढं गुप्तं द्वयं नाम गुप्तार्थे कथ्यते बुधैः । ;c{* मुषितनाम *} मुषितं मूषितं नाम चोरितार्थे प्रयुज्यते ॥ २६९७ ॥ ;c{* गुणितनाम *} आहतं गुणितं नाम गुणितार्थे निगद्यताम् । ;c{* निशातनामानि *} निशातं निशितं शातं शीतं क्ष्णुतञ्च तेजितम् ॥ २६९८ ॥ ;p{0437} ;c{* व्यावृत्तनामानि *} वृतो वृत्तश्च वावृत्तो व्यावृत्तोऽपि प्रयुज्यते । ;c{* लज्जितनामानि *} ह्रीणो ह्रीतो लज्जितश्च नाम त्रयं निगद्यते ॥ २६९९ ॥ ;c{* संकलितनाम *} सङ्कलितश्च संगूढो द्वयं नाम प्रसिद्ध्यति । ;c{* संयोजितनामानि *} संयोजित उपाहितः संयोगितश्च ज्ञायताम् ॥ २७०० ॥ ;c{* परिणतनाम *} पक्वं परिणतं नाम परिणतस्य मन्यते । क्षीराज्यहविषां पाके शृतमित्यभिधीयते ॥ २७०१ ॥ ;c{* क्वथितनाम *} निष्पक्वं क्वथितं ख्यातं बहुकालसुपाचिते । ;c{* दग्धनामानि *} दग्धः स्यादुषितः प्लुष्टः प्रुष्ट इत्यपि मन्यते ॥ २७०२ ॥ ;p{0438} ;c{* त्वष्टनामानि *} तनूकृतस्तथा तष्टः त्वाष्टोऽपि कथ्यते पुनः । ;c{* छिद्रितनामानि *} छिद्रितो वेधितश्चैव विद्धोऽपि मन्यते बुधैः ॥ २७०३ ॥ ;c{* निष्पन्ननामानि *} निष्पन्नमथ निर्वृत्तं सिद्धं नामापि कथ्यते । ;c{* विलीननामानि *} विलीनो विद्रुतश्चैव द्रुतो नामापि मन्यते ॥ २७०४ ॥ ;c{* प्रोतनाम *} उतं प्रोतं द्वयं नाम कथ्यते कोविदैः सदा । ;c{* स्यूतनामानि *} स्यूतमूतमुतं चैव प्रख्यातं तन्तुसन्ततम् ॥ २७०५ ॥ ;c{* दारितनामानि *} दारितं पाटितं भिन्नमिति नामत्रयं भवेत् । ;c{* विदरनामानि *} विदरः स्फुटनं भिद् वै भिदा नाम चतुर्थकम् ॥ २७०६ ॥ ;p{0439} ;c{* स्वीकृतनामानि *} अङ्गीकृतं प्रतिज्ञातं स्वीकृतंमुररीकृतम् । ऊरीकृतमुरीकृतं कक्षीकृतं तथाऽऽश्रुतम् ॥ २७०७ ॥ उपगतमुपश्रुतं प्रतिश्रुतञ्च संश्रुतम् । विदितं चैव सङ्कीर्णं तथाऽभ्युपगतं खलु ॥ २७०८ ॥ पञ्चदशेति नामानि मन्यन्ते पण्डितैर्जनैः । ;c{* छिन्ननामानि *} छितं छातं तथा छिन्नं छेदितं खण्डितं पुनः ॥ २७०९ ॥ कृत्तं वृक्ण दितं दातं लूनमित्यपि मन्यते । ;c{* प्राप्तनामानि *} प्राप्तं लब्धं भूतविन्ने आसादितञ्च भावितम् । प्राप्तार्थकानि नामानि कथ्यन्ते विबुधैरिह ॥ २७१० ॥ ;c{* पतितनामानि *} पतितं गलितं ध्वस्तं स्कन्नस्रस्ततथा च्युतम् । पन्नं भ्रष्टं च नामानि कथयन्ति हि पण्डिताः ॥ २७११ ॥ ;c{* सुनिश्चितनाम *} सुनिश्चितं संशितञ्च कृतोऽस्ति यत्र निश्चयः । ;p{0440} ;c{* गवेषितनामानि *} अन्वेषितं तथाऽन्विष्टं मार्गितं मृगितं पुनः ॥ २७१२ ॥ गवेषितञ्च नामानि पञ्चैव प्रथयन्ति वै । ;c{* आर्द्रनामानि *} आर्द्रः सार्द्रः समुत्तश्च तिमितः स्तिमितस्तथा ॥ २७१३ ॥ उन्नः क्लिन्नः समुन्नश्च नामान्यष्टौ भवन्ति । ;c{* प्रेषितनामानि *} प्रहितं प्रेषितं चैव ख्यातं प्रस्थापितं तथा ॥ २७१४ ॥ प्रतिशिष्टं भवेन्नाम चतुर्थं प्रेषितार्थके । ;c{* प्रसिद्धनामानि *} प्रतीतः प्रथितः ख्यातः वित्तश्च विश्रुतः पुनः ॥ २७१५ ॥ विज्ञातश्चैव प्रज्ञातः प्रसिद्धोऽपि प्रसिद्धकः । एतन्नामानि मन्यन्ते प्रथितस्य बुधैरिह ॥ २७१६ ॥ ;c{* सन्तापितनामानि *} सन्तापितश्च सन्तप्तं धूपायितश्च धूपितः । दूनस्तप्तश्च नामानि सन्तप्तस्य भवन्ति वै ॥ २७१७ ॥ ;p{0441} ;c{* स्त्याननाम *} शीनं स्त्यानं घृतादीनां स्थिरत्वे कथ्यते बुधैः । ;c{* उपस्थितनामानि *} भवेदुपनत उपसन्न उपस्थितस्तथा ॥ २७१८ ॥ ;c{* निर्वातनाम *} गते वाते च निर्वातो वायुर्वहति नो यदा । ;c{* निर्वाणनाम *} पावकादिषु निर्वाणः प्रयोगः क्रियते बुधैः ॥ २७१९ ॥ ;c{* प्रवृद्धनामानि *} प्रवृद्धमेधितं चैव प्रौढं नामापि कथ्यते । ;c{* विस्मृतनामानि *} विस्मृतं प्रस्मृतं चैव प्रोक्तमन्तर्गतं पुनः ॥ २७२० ॥ ;c{* उद्वान्तनामानि *} उद्वातं स्यात् तथोद्वान्तमुद्गतं वमने सदा । ;c{* गूननाम *} गूनं हन्नं मलत्यागे कथ्यते पण्डितैर्द्वयम् ॥ २७२१ ॥ ;p{0442} ;c{* मूत्रितनाम *} मीढञ्च मूत्रितं नाम मूत्रितस्य हि मन्यते । ;c{* विदितनामानि *} बुद्धञ्च बुधितं ज्ञातं मनितं विदितं पुनः ॥ २७२२ ॥ अवसितं प्रतिपन्नं तथाऽवगतमित्यपि । नामान्येतानि सर्वाणि मन्यन्ते विदितस्य वै ॥ २७२३ ॥ ;c{* स्यन्ननाम *} स्यन्नं स्नुतं स्रुतं रीणं पतिते निर्झरे स्मृतम् । ;c{* गुप्तनामानि *} गुप्तं गोपायितं त्रातं त्राणं तथाऽवितं खलु ॥ २७२४ ॥ रक्षितं चेति नामानि गुप्तस्य प्रथयन्ति वै । ;c{* कर्मनाम *} कर्म क्रिया विधा नाम त्रयमत्र निगद्यते ॥ २७२५ ॥ ;c{* विलक्षणानाम *} हेतुशून्यं वस्तुजातमप्रतिपत्तिर्विलक्षणम् । ;c{* कार्मणनाम *} स्यान्मूलकर्म कार्मणं द्वयं कार्मणबोधकम् ॥ २७२६ ॥ ;p{0443} ;c{* वशीकरणनाम *} स्याद् वशीकरणं नाम संवननं वशक्रिया । ;c{* प्रतिबन्धनाम *} प्रख्यातः प्रतिबन्धश्च प्रतिष्टम्भोऽपि कथ्यते ॥ २७२७ ॥ ;c{* स्थितिनाम *} स्थितिरास्था भवेदास्या तथैवाऽसना किल । ;c{* परस्परनाम *} परस्परं मिथोऽन्योन्यमितरेतरमित्यपि ॥ २७२८ ॥ ;c{* आवेशनाम *} आवेशस्तथाऽऽटोपः सारम्भः कथ्यते च सः । ;c{* रचनानाम *} निवेशो रचना चैव स्थितिर्नामापि मन्यते ॥ २७२९ ॥ ;c{* निर्बन्धनाम *} निर्बन्धोऽभिनिवेशश्च स्यादाग्रहक्रियाविधौ । ;c{* प्रवेशनाम *} अन्तर्विगाहनं विज्ञैः प्रवेशः कथ्यते पुनः ॥ २७३० ॥ ;p{0444} ;c{* विहारनाम *} इर्या वीङ्खा विहारश्च परिसर्पः परिक्रमः । गतिश्चेति विहारस्य नामानि प्रथन्ति वै ॥ २७३१ ॥ ;c{* पर्यटननाम *} पर्यटनमटाट्या च व्रज्याऽटाटा भवेदटा । अट्या नामास्ति षष्ठं तु पर्यटनस्य बोधकम् ॥ २७३२ ॥ ;c{* चर्यानाम *} ईर्या पथस्थितिश्चर्या स्यादीर्या साधुसङ्गतौ । ;c{* विपरीतनाम *} व्यत्यासो व्यत्ययश्चैव विपर्यायो विपर्ययः ॥ २७३३ ॥ विपरीतं विपर्यासो वैपरीत्यं प्रसिद्ध्यति । सप्त नामानि मन्यन्ते विपरीतार्थबोधने ॥ २७३४ ॥ ;c{* वृद्धिनाम *} स्फातिर्भवति वृद्धिश्च यत्र कुत्रापि वर्द्धने । ;c{* तर्पणनाम *} अवनं तर्पणं चैव प्रीणनञ्च निगद्यते ॥ २७३५ ॥ ;p{0445} ;c{* परित्राणनाम *} पर्याप्तिश्च परित्राणं तृतीयं हस्तधारणम् । चतुर्थं नाम विज्ञेयं हस्तस्थापनमित्यपि ॥ २७३६ ॥ ;c{* प्रणिपातनाम *} प्रणतिः प्रणिपातश्च कथ्यतेऽनुनयः पुनः । ;c{* उपशायनाम *} उपशायो विशायश्च क्रमशयनमुच्यताम् ॥ २७३७ ॥ ;c{* अनुक्रमनाम *} अनुपूर्वी च पर्यायश्चाऽनुपूर्व्यमनुक्रमः । परिपाटिस्तथाऽऽवृत्तिः परिपाटी पुनः क्रमः ॥ २७३८ ॥ आवृत् च नवमं नाम मन्यतेऽनुक्रमस्य वै । ;c{* अतिक्रमनाम *} उपात्ययोऽतिपातः स्यादऽतिक्रमश्च पर्ययः ॥ २७३९ ॥ ;c{* संबाधनाम *} संबाधः सङ्कटश्चैव यत्र स्थानं न लभ्यते । ;c{* निकामनाम *} कामं तथा निकामञ्च प्रकामञ्च यथेप्सितम् ॥ २७४० ॥ ;p{0446} पर्याप्तमिष्ट मप्येवं कामनाम निगद्यते । ;c{* अत्यर्थनाम *} अत्यर्थमऽतिमर्यादरमतिमात्रं दृढं तथा ॥ २७४१ ॥ उत्कर्षोऽतिशयस्तीव्रं नितान्तं निर्भरो भरः । एकान्तमतिवेलञ्च गाढं बाढं भृशं पुनः ॥ २७४२ ॥ उद्गाढं षोडशं नाम नितान्तस्यात्र मन्यन्ते । ;c{* जृम्भणनाम *} जृम्भणं स्यात्तथा जृम्भा मुखं व्यादाय वर्त्तने ॥ २७४३ ॥ ;c{* आलिङ्गननाम *} आलिङ्गनं परिष्वङ्गः संश्लेष उपगूहनम् । परिरम्भः परीरम्भः ख्यातः क्रोडीकृतिस्तथा ॥ २७४४ ॥ अङ्कपालिश्चाङ्कपाली नव नामानि सन्ति वै । ;c{* उत्सवनाम *} मह उद्धव उद्धर्षः क्षणः स्यादुत्सवे सदा ॥ २७४५ ॥ ;c{* सङ्गमनाम *} मेलकः सङ्गमः सङ्गस्त्रयं नामात्र वर्त्तते । ;p{0447} ;c{* अनुग्रहनाम *} स्वीकारेऽनुग्रहश्चैवाऽभ्युपपत्तिस्तथोच्यते ॥ २७४६ ॥ ;c{* निग्रहनाम *} अस्वीकारे निरोधश्च निग्रहोऽपि निगद्यते । ;c{* अन्तरायनाम *} अन्तरायश्च प्रत्यूहो व्यवायो विघ्न इत्यपि ॥ २७४७ ॥ ;c{* समयनामानि *} समयोऽवसरो वारो वेला च प्रक्रमः क्षणः । प्रस्तावोऽन्तरमित्यष्टौ क्षणनामानि सन्ति वै ॥ २७४८ ॥ ;c{* आरम्भनामानि *} अभ्यादानं तथाऽऽरम्भः उपक्रमश्च प्रक्रमः । उपोद्घातस्तथोद्घातो नामधेयानि सन्ति वै ॥ २७४९ ॥ ;c{* प्रत्युत्क्रमनामानि *} प्रत्युत्क्रान्तिः प्रयोगश्च प्रत्युत्क्रमो युधे गमः । ;c{* आरोहणनामानि *} आरोहणमभिक्रमः पर्वतादौ पदस्थितिः ॥ २७५० ॥ ;p{0448} ;c{* आक्रमणनामानि *} आक्रमोऽधिक्रमः कान्तिराऽऽक्रमणे प्रयुज्यते । ;c{* उत्क्रमनामानि *} क्रमं विना कृते कार्ये व्युत्क्रम उत्क्रमोऽक्रमः ॥ २७५१ ॥ ;c{* विरहनामानि *} वियोगो विप्रयोगश्च विप्रलम्भस्तथैव च । विरहश्चेति चत्वारि नामान्यत्र भवन्ति वै ॥ २७५२ ॥ ;c{* शोभानामानि *} आभाऽभिख्या विभूषा च शोभा कान्तिश्च विभ्रमः । राढा छाया छविर्लक्ष्मीर्द्युतिः श्रीरपि कथ्यते ॥ २७५३ ॥ एवं नामानि मन्यन्ते शोभायाः साक्षरैः सदा । सुषमा परमा शोभा नाम विज्ञायतां पुनः ॥ २७५४ ॥ ;c{* परिचयनाम *} परिचयः संस्तवश्च नामद्वयं निगद्यते । ;c{* आकारनामानि *} इङ्ग इङ्गितमाऽऽकारो मनोभावप्रकाशने ॥ २७५५ ॥ ;p{0449} ;c{* निमित्तनामानि *} निमित्तं कारणं योनिर्निदानञ्च निबन्धनम् । बीजं हेतुश्च नामानि सप्तैव प्रथयन्ति वै ॥ २७५६ ॥ ;c{* कार्यनामानि *} कार्यमर्थस्तथा कृत्यं प्रोक्तं प्रयोजनं पुनः । ;c{* निष्ठानाम *} निष्ठा निर्वहणं नाम समाप्त्यर्थे हि मन्यते ॥ २७५७ ॥ ;c{* प्रवहनाम *} प्रवहो नाम विज्ञेयं जलादेर्गमने बहिः । ;c{* सामान्यनामानि *} जातिर्जातञ्च सामान्यं त्रीणि नामानि सन्ति वै ॥ २७५८ ॥ ;c{* विशेषनामानि *} विशेषो नाम व्यक्तिश्च तथा स्यात् पृथगात्मिका । ;c{* तिर्यक् नाम *} तिर्यक्साचिस्तथा साचि नामत्रयं निगद्यते ॥ २७५९ ॥ ;p{0450} ;c{* स्पर्द्धानाम *} सङ्घर्षश्चैव संहर्षः स्पर्धा नामाऽपि कथ्यते । ;c{* अपक्रियानाम *} द्रोहोऽपकारनाम स्यादपक्रियाऽपि मन्यते ॥ २७६० ॥ ;c{* व्यर्थनामानि *} बन्ध्यं वन्ध्यं मुधा मोघं व्यर्थे स्यादऽफलं पुनः । ;c{* निरर्थकनामानि *} ख्यातं निरर्थकं नाम तदेवान्तर्गडु इति ॥ २७६१ ॥ ;c{* संस्थाननाम *} प्रसिद्धं नाम संस्थानं सन्निवेशोऽपि मन्यते । ;c{* व्ययनाम *} अर्थस्यापगमो लोके व्ययः प्राज्ञेन कथ्यते ॥ २७६२ ॥ ;c{* अभिव्याप्तिनाम *} संमूर्च्छनमभिव्याप्तिः सर्वथा व्यापने भवेत् । ;c{* भ्रंशनाम *} भ्रेषो भ्रंशो द्वयं नाम निपतने हि मन्यते ॥ २७६३ ॥ ;p{0451} ;c{* नाशनाम *} नाशोऽभावो द्वयं नाम नाशस्य कथ्यते बुधैः । ;c{* संक्रमनाम *} संक्रामः संक्रमश्चैव दुर्गसञ्चर उच्यते ॥ २७६४ ॥ ;c{* नीवाकनाम *} प्रयामश्च निवाकोऽपि नाम द्वयं प्रकीर्तितम् । ;c{* अवधाननाम *} अवधानेऽवधानं स्यादवेक्षा प्रतिजागरः ॥ २७६५ ॥ ;c{* विश्वासनामानि *} विश्रम्भश्च विश्वासो विस्त्रम्भोऽपि कथ्यते । ;c{* विकारनामानि *} परिणामो विकारश्च विकृतिर्विक्रिया पुनः ॥ २७६६ ॥ ;c{* चक्रावर्तनामानि *} चक्रावर्तो भ्रमो भ्रान्तिर्भ्रमिर्घृणिश्च घूर्णनम् । एतन्नामानि मन्यन्ते शब्दप्रयोगकारिणः ॥ २७६७ ॥ ;p{0452} ;c{* विप्रलम्भनाम *} विप्रलम्भो विसंवादो मिथ्यावाक्कृतवस्तुनि । ;c{* समर्पणनाम *} समर्पणं विलम्बः स्यादतिदानेऽतिसर्जनम् ॥ २७६८ ॥ ;c{* अनुभवनाम *} अनुभवोपलम्भौ च साक्षात्कारार्थदायिनौ । ;c{* प्रतिलम्भनाम *} लम्भनं प्रतिलम्भश्च प्राप्त्यर्थे मन्यते द्वयम् ॥ २७६९ ॥ ;c{* नियोगनामानि *} विधिर्नियोगसम्प्रैषौ त्रीणि नामानि सन्ति वै । ;c{* विनियोगनाम *} विनियोगश्च नामेदं प्रोक्तं तत्फलदायिनि ॥ २७७० ॥ ;c{* लवननामानि *} लवनमऽभिलावश्च लवोऽपि लवनार्थके । ;c{* निष्पावनामानि *} निष्पावः पवनं चैव पवो नाम तृतीयकम् ॥ २७७१ ॥ ;p{0453} ;c{* थूत्कृतनामानि *} थूत्कृतं ष्ठेवनं ष्ठ्यूतं निष्ठेवः ष्ठीवनं पुनः । निष्ठेवनञ्च निष्ठ्यूतिर्निष्ठीवनं प्रयुज्यते ॥ २७७२ ॥ ;c{* निवृत्तिनामानि *} निवृत्तिराऽऽरतिश्चैवाऽवरतिर्विरतिस्तथा । उपरम उपरतिः षष्ठं नाम प्रयुज्यते ॥ २७७३ ॥ ;c{* विधूनननामानि *} विधुननं विधूननं स्याद् विधुवनमित्यपि । ;c{* स्खलननाम *} रिङ्खणं स्खलनं चैव स्खलनार्थे भवेद् द्वयम् ॥ २७७४ ॥ ;c{* रक्षानामानि *} त्राणं रक्षा च रक्षणश्च त्रीणि नामानि सन्ति वै । ग्रहणार्थे ग्रहो ग्राहः स्याद् वेधस्तु व्यधोऽपि च ॥ २७७५ ॥ क्षयः क्षिया क्षयार्थे हि कथ्यते कोविदैः किल । ;c{* स्फुरणनामानि *} स्फरणं स्फारणं चैव स्फुरणं स्फुलनं पुनः ॥ २७७६ ॥ स्फुरणा स्फोरणं नाम षष्ठं विज्ञैः प्रयुज्यते । ;p{0454} ;c{* जीर्णिनाम *} ज्यानिर्जीर्णिर्द्वयं नाम जीर्णतार्थे प्रयुज्यते ॥ २७७७ ॥ ;c{* वरनाम *} वरो वृतिश्चतुर्दिग्भ्यो रोधने वरदानके । ;c{* समुच्चयनामानि *} समुच्चयः समाहारः समूहार्थे प्रयुज्यते ॥ २७७८ ॥ ;c{* अपहारनामानि *} अपचयोऽपहारश्च हानिर्ह्रासे प्रयुज्यते । ;c{* प्रत्याहारनाम *} प्रत्याहार उपादानं द्वयं नामास्य बुध्यताम् ॥ २७७९ ॥ ;c{* बुद्धिशक्तिनाम *} निष्क्रमो बुद्धिशक्तिश्च द्वयं नामास्य मन्यते । उपर्युक्ताः क्रियाशब्दा लक्ष्या धात्वर्थसंबलात् ॥ २७८० ॥ ;k{अव्ययप्रकरणम्} ;c{- अव्ययप्रकरणे -} अथाऽव्ययानि वक्ष्यन्ते तत्रादौ तस्य लक्षणम् । श्रीसिद्धहेमचन्द्रादिव्याकृतौ प्रतिपादितम् ॥ २७८१ ॥ ;p{0455} सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ २७८२ ॥ ;c{* अव्ययसंग्रहनामानि *} स्वः स्वर्गे भूस्तु भूलोके भुवो व्योम्नि विहायसा । द्यावाभूम्योस्तु द्यावाभूमी स्याद् रोदसी तथा ॥ २७८३ ॥ उपरि तथोपदिष्टाद् द्वयमूर्ध्वे प्रयुज्यते । अधोऽधस्तात् तथाऽवाक् च सन्ति त्रयोऽप्यधःस्थले ॥ २७८४ ॥ वर्जने त्वन्तरेणर्ते नाना विना हिरुक् पृथक् । सहार्थे स्यात् सह सत्रा साकं सार्द्धमऽमां समम् ॥ २७८५ ॥ अलमऽस्तु कृतं किञ्च भवतु कथ्यते पुनः । भवान्तरे ह्यमुत्र स्यात् प्रेत्याऽपि मन्यते किल ॥ २७८६ ॥ तूष्णीं तथैव तूष्णीकां जोषं मौने हि मन्यते । दिष्ट्या समुपजोषं वै सम्मदे कथ्यते द्वयम् ॥ २७८७ ॥ समन्तात् सर्वतो विष्वक् परितश्च समन्ततः । स्यादऽग्रतः पुरस्तात् च पुरश्च पुरतः पुनः ॥ २७८८ ॥ प्रायो भूमनि भूमन् स्यात् सम्प्रति साम्प्रतं तथा । एतर्हि च तथेदानीं तत्काले कथ्यतेऽधुना ॥ २७८९ ॥ ;p{0456} अञ्जसा झटिति द्राक् स्राक् सपदि सत्वरं पुनः । आशु मङ्क्षु तथाऽह्नाय नामाऽरं दशमं भवेत् ॥ २७९० ॥ अनिशं सर्वदा शश्वत् सदा सना सनत् सनात् । भूयोऽभीक्ष्णं मुहुश्चैव स्यादऽसकृत् पुनःपुनः ॥ २७९१ ॥ सायंशब्दो दिनान्ते स्याद् दिवा तु दिवसे भवेत् । सहसैकपदेऽकस्मात् सद्य सपदि तत्क्षणे ॥ २७९२ ॥ चिरस्य चिररात्राय चिराय च चिराच्चिरम् । चिरेण दीर्घकालार्थे कोविदैः संप्रयुज्यते ॥ २७९३ ॥ कदाचित् जातु कर्हिचित् समयस्यानिश्चये । रात्रौ नक्तमुषा दोषा प्रगे प्रातरहर्मुखे ॥ २७९४ ॥ तिर्यगर्थे तिरः साचि निष्फले च मुधा वृथा । मिथ्या स्याच्च मृषाऽसत्येऽभ्यर्णे तु निकषा हिरुक् ॥ २७९५ ॥ समयापि समीपार्थे शं सुखार्थे हि मन्यते । सु अति किमुताऽतीव बलवत् सुष्ठु निर्भरे ॥ २७९६ ॥ प्राक् पुरा प्रथमे स्याद् वै संवत् संवत्सरे तथा । मिथः परस्परं प्रोक्तं निशान्ते ज्ञायतामुषा ॥ २७९७ ॥ ईषत् किञ्चिन् मनागऽल्पे किञ्चन कथ्यते पुनः । ;p{0457} उताहो किमुताऽऽहो च किमुत किं वितर्कके ॥ २७९८ ॥ इतिह संप्रदाये स्यात् हेतौ यत् तद् यतस्ततः । येन तेनाऽपि हेत्वर्थें कथ्यते पण्डितैरिह ॥ २७९९ ॥ सम्बोधनेऽङ्ग रे रेरेऽररेऽरे भोस्तथाऽयि च । हे है हंहो तथाऽहो च पाट् प्याट् पुन र्निगद्यते ॥ २८०० ॥ श्रौषट् वौषट् वषट् स्वाहा स्वधा देवहविर्हुतौ । देवतार्थे तु स्वाहा स्यात् स्वधा स्यात् पितृकर्मणि ॥ २८०१ ॥ भवेदुपांशु गुप्तार्थे शब्दोऽयमिति ज्ञायताम् । मध्येऽन्तरन्तरेण स्यादऽन्तरा च तथाऽन्तरे ॥ २८०२ ॥ प्रकाशे प्रादुराविः स्यादऽभावे त्व न नो नहि । बलात्कारे प्रसह्य स्याद् मा तु मास्म हि वारणे ॥ २८०३ ॥ अस्तमऽदर्शने कामं त्वकामानुमतौ भवेत् । ओं आं तथा च परमं संमते संप्रयुज्यते ॥ २८०४ ॥ कच्चिदिष्टपरिप्रश्ने कथ्यते कोविदैः किल । अवश्यमथ नूनं च निश्चये हि निगद्यते ॥ २८०५ ॥ बहिर्भवे बहिः स्याद् ह्यस्त्वतीतेऽह्नि श्व एष्यति । नीचैरऽल्पे पुनः प्रोक्तं महत्युच्चैस्तु मन्यते ॥ २८०६ ॥ ;p{0458} अस्ति सत्त्वे तथा दुष्ठु निन्दने हि निगद्यते । स्यान्ननुच विरोधोक्तौ पक्षान्तरे तु चेद् यदि ॥ २८०७ ॥ शनैर्मन्देऽवरे त्वर्वाक् कथ्यते कोविदैस्तथा । रोषोक्तावुं पुनः प्रोक्तं नतौ नमश्च मन्यते ॥ २८०८ ॥ प्राध्वं स्यादनुकूलेऽर्थे चित् चन किञ्चिदर्थकम् । पद्यानां पूरणार्थे स्यात् तु हि च स्म ह वै सदा ॥ २८०९ ॥ अति सु शोभने वाच्यं तुल्यार्थे च यथा तथा । वद् वा एव एवं चापि सदृशार्थस्य ज्ञापने ॥ २८१० ॥ निश्चयार्थे पुनरिति एव एवं तु वा च वै । अहो ही विस्मयार्थे स्यादूम् च प्रश्नार्थवाचकः ॥ २८११ ॥ प्राक् शब्दो पूर्वकाले स्यान् निश्चयेऽद्धाऽसञ्जा पुनः । अतोऽस्मात् स्यात् तत स्तस्माद् महः आरम्भवाचकः ॥ २८१२ ॥ स्वयमात्मनि जानीयात् प्रशंसार्थे हि सुष्ठु इति । श्वः कल्ये कथ्यते लोके परश्वः तत्परेऽहनि ॥ २८१३ ॥ अस्मिन् दिनेऽद्य शब्दः स्यात् पूर्वेद्युः पूर्ववासरे । आगामिनि दिने शब्द उत्तरेद्युश्च कथ्यते ॥ २८१४ ॥ द्वितीयदिवसे श्वः परेद्युर्मन्यते बुधैः । गते दिनेऽपरेद्युः स्यादऽन्येद्युस्त्वन्यवासरे ॥ २८१५ ॥ ;p{0459} अन्यतरेद्युशब्दः स्यादुभयोरेकवासरे । इतरेद्युश्च शब्दोऽयं द्वितीयदिवसे भवेत् ॥ २८१६ ॥ समानदिवसे सद्यः परेद्यवि दिनान्तरे । उभयद्युरुभयेद्यु द्वयोस्तु दिनयोर्भवेत् ॥ २८१७ ॥ एकस्मिन् समये युगपद् चैकदा पि प्रयुज्यते । तर्हि तदा तदानीञ्च तत्काले कथयन्ति वै ॥ २८१८ ॥ यदा यर्हि च यत्काले गतवर्षे परुत् भवेत् । परुत् पूर्वे परारिः स्यादऽस्मिन् वर्षे तथैषमः ॥ २८१९ ॥ अन्यरीत्याऽन्यथा स्यादितरथाऽपि कथ्यते । कथं केन प्रकारेण कथ्यते कोविदैः पुनः ॥ २८२० ॥ इत्थमऽनेन रीत्या स्यात् यथा तथा प्रकारके । द्विधा द्वेधा द्विप्रकारैः कथ्यते पण्डितैरिह ॥ २८२१ ॥ त्रिप्रकारैस्त्रिधा त्रेधा मन्यते विबुधैः पुनः । चतुर्द्धा पञ्चधा द्वैधं त्रैधं चापि च ज्ञायताम् ॥ २८२२ ॥ द्विस्त्रिश्चतुस्तु वारार्थे पञ्चकृत्वः प्रयुज्यते । षोढेत्यादयः शब्दाः ज्ञेयाः शब्दानुशासनात् ॥ २८२३ ॥ उदक् प्रत्यक् तथा प्राक् च सर्वे दिग्वाचकाः स्मृताः । विभिन्नप्रत्ययैरेते शब्दाः सिद्ध्यन्ति ह्यव्ययाः ॥ २८२४ ॥ ;p{0460} c{इति-श्रीतपोगच्छाधिपति-सूरिचक्रचक्रवर्त्ति-भारतीयभव्यविभूति-चिरंतनयुगप्रधानकल्प-सर्वतन्त्रस्वतन्त्र-श्रीकदम्बगिरि-प्रमुखानेक-प्राचीनतीर्थोद्धारक-पञ्चप्रस्थानमयसूरिमन्त्रसमाराधक-शासन-सम्राट्-जगद्गुरु-भट्टारकाचार्यमहाराजाधिराज-श्रीमद्विजय-नेमिसूरीश्वर-सुप्रसिद्ध-पट्टालङ्कार-व्याकरणवाचस्पति-शास्त्र-विशारद-कविरत्न-साहित्यसम्राट्-साधिकसप्तलक्षश्लोक-प्रमाण-नूतन-संस्कृत-साहित्यसर्जक-परमशासन-प्रभावकाचार्य-देवेश-श्रीमद्विजयलावण्यसूरीश्वर-पट्टधर-व्याकरणरत्न-शास्त्रविशारद-कविदिवाकर-देशनादक्ष-शासनप्रभावकाचार्य-श्रीमद्विजयदक्षसूरीश्वर-पट्टधरसाहित्यरत्न-शास्त्रविशारद-कविभूषण-पञ्च-प्रस्थानमयसूरिमन्त्रसमाराधक-शासनप्रभावकाचार्य-श्रीमद्विजयसुशीलसूरिणा विरचितायां सुशीलनाममालायां षष्ठः सामान्यविभागः समाप्तः ॥ ६ ॥} ;p{0461} ;k{प्रशस्तिः} ;c{[ उपजातिवृत्तम् ]} श्री आदिनाथं जिनशान्तिनाथं श्रीनेमिनाथं प्रभुपार्श्वनाथम् । देवाधिदेवं विभुवर्द्धमानं स्तुवे सदाऽहं जिनपञ्चकं वै ॥ १ ॥ ;c{[ अनुष्टुब्वृत्तम् ]} श्रीवीरस्य जिनेन्द्रस्य शासनाधिपतेः प्रभोः । विजयते सदा विश्वे पट्टं धर्मधुरन्धरम् ॥ २ ॥ तत्र स्वामी सुधर्माख्यो गणीन्द्रः श्रुतकेवली । निर्ग्रन्थनामकं गच्छमतनोद् भुवि निर्मलम् ॥ ३ ॥ कोटिशः सूरिमन्त्रस्य जपात् सुस्थितसूरिभिH । कोटिगच्छमतिस्वच्छं स्थापितं तन्महीतले ॥ ४ ॥ चन्द्रं चन्द्रोज्ज्वलं भूयः सद्यशोरश्मिशोभितः । अनुचकार गच्छश्रीचन्द्रसूरीश्वरो महान् ॥ ५ ॥ ;p{0462} समन्ताद् वनवासीति सामन्तभद्रसूरिपः । स्वच्छं गच्छं वितेने सः तदनु भद्रकृद् भुवि ॥ ६ ॥ सर्वदेवाख्यसूरीशः सर्वश्रेयस्करं कलम् । वटगच्छं पवित्रं च विशालं तदनु व्यधात् ॥ ७ ॥ श्रीमेदपाटभूपालमहातपापदैर्भुवि । श्रीजगच्चन्द्रसूरीशैस्तपागच्छः प्रवर्त्तितः ॥ ८ ॥ परम्परागते स्वच्छे तपागच्छेऽत्र भूतले । यवनाकबरे लेशप्रतिबोधकराः वराः ॥ ९ ॥ धीरवीरत्वहीरत्वगभीरत्वादिभूषिताः । जगद्गुरुवराः विज्ञाः सञ्जाता हीरसूरयः ॥ १० ॥ प्रतापि सेनसूरीशैर्दक्षैः श्रीदेवसूरिभिः । वादीभैः सिंहकल्पैः श्रीसिंहसूरीश्वरैः क्रमात् ॥ ११ ॥ उल्लासिते तपोगच्छे वृद्धिविजयकारकाः । श्रीवृद्धिविजया जाता वृद्धिचन्द्रादयः परे ॥ १२ ॥ तेषाञ्च शान्तमूर्तीनां पादाब्जमधुपोपमाः । सर्वशासनसम्राजो विभ्राजो ज्ञानरश्मिभिः ॥ १३ ॥ सत्तीर्थोद्धारकाः प्रौढा सर्वतन्त्रस्वतन्त्रकाः । सूरिमन्त्रैकप्रस्थानपञ्चकाराधकाः किल ॥ १४ ॥ सद्ब्रह्मचारिणः श्रीमन्नेमिसूरीश्वरा वराः । क्षमाधरार्चिता जातास्तत्पट्टाम्बरभास्कराः ॥ १५ ॥ ;p{0463} सप्तलक्षाधिकश्लोकमितस्य संस्कृतस्य च । साहित्यस्य सुकर्त्तारः कृतीशा ब्रह्मचारिणः ॥ १६ ॥ शान्ताः साहित्यसम्राजो विभ्राजो ज्ञानज्योतिषा । ख्याता व्याकरणे वाचस्पतयः कविरत्नकाः ॥ १७ ॥ शास्त्रविशारदा जाता लावण्यसूरिशेखराः । तेषां पट्टधरा मुख्याः ख्याताः शास्त्रविशारदाः ॥ १८ ॥ कविदिवाकरा दक्षाः सद्व्याकरणरत्नकाः । दक्षसूरीश्वरा जाताः सरला ब्रह्मचारिणः ॥ १९ ॥ तेषां पट्टधरेणाथ सहोदरेण साधुना । देवगुरुप्रसादात् श्रीसुशीलसूरिणा मया ॥ २० ॥ जम्बूद्वीपे प्रसिद्धेऽस्मिन् रम्ये भरतक्षेत्रके । भरते दक्षिणार्द्धे श्रीमध्यखण्डे विराजिते ॥ २१ ॥ राजस्थाने हि विख्याते मरुधरप्रदेशके । पालीपुरे हि प्रख्याते वर्षास्थितिं प्रकुर्वता ॥ २२ ॥ अश्वनेत्रनभोबाहु [२०२७] मिते वैक्रमवत्सरे । सुशीलनाममालेयं विज्ञबोधाय संस्कृता ॥ २३ ॥ यावन्मेरुस्वयम्भूश्रीसूर्यचन्द्रग्रहाः स्थिताः । भूयात् तावदियं विश्वे सर्वजनोपकारिका ॥ २४ ॥ ;c{शुभं भूयात् ।} ;c{॥ इति सुशीलनाममाला समाप्ता ॥}