;METADATA ;title{त्रिशषसकारभेद} ;author{अज्ञात} ;bookFullName{त्रिशषसकारभेदः} ;bookSeriesDetails{Unknown. Taken from https://archive.org/details/trishasasakaarabheda/mode/2up} ;editor{} ;editorQualifications{} ;publisher{} ;pressDetails{} ;publicationYear{} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{TSSU} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. www.archive.org for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{special} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{31 March 2021} ;version0.0.2{31 March 2021} ;version0.0.3{31 March 2021} ;version0.0.4{31 March 2021} ;version0.1.0{31 March 2021} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0023} ;c{ॐ सरस्वत्यै नमः ।} ;c{ग्रन्थारम्भः ॥} ;k{तालव्यशकारादिसङ्ग्रहः} तालव्यादि मयोच्यते कियदतस्तालव्यमध्यन्तत- स्तालव्यान्तमिह प्रकाशितपदं यत् सूरिभिर्भूरि तत् । मूर्द्धन्यस्य पदस्य चेदृशमतं दन्त्यस्य तादृङ्मतं ज्ञातव्यं त्रिशकारभेदकथने प्रागादिमध्यान्ततः ॥ १ ॥ तालव्यमूर्द्धन्यदन्त्याश्चुटुतूनां क्रमादिमाः संयोगाः शषसा ज्ञेयाः प्रोच्यन्ते तत् कतीतरे । श्रीशर्वश्रमशर्मशेखरशिखाशैवालशङ्खश्रुताः शङ्काशीकरशङ्करश्रुतिशचीशुल्ठीशठीशायकाः ॥ १ ॥ शीधुश्लीपदशुद्धशोभनशरश्रद्धाशनैःशम्बराः ;p{0024} शब्दश्रेणिशिलाशलाटुशिखर--शर--- श्मश्रुश्रेष्ठशठश्मशानशिबिकाशालूकशोभाञ्जनाः । शालाशल्यशकृच्छिरीषशलुफाश्वेतश्वशेफालिकाः शेफश्रोत्रशरावशोथशिथिलश्लाघाश्लथश्यामलाः ॥ २ ॥ शिक्षाशेवशरारिशैलशफरीशश्वच्छृगालश्रिताः शुक्रश्वभ्रशनैश्चरश्वसनशंशौटीर्य्यशुश्रूषकाः । शोभाशून्यशरण्यशृङ्गशशकश्लक्ष्ण--शुक्शिंशपाः ----- शरीरशरभश्येनाख्यशीणाशकाः ॥ ३ ॥ शम्पाशाण्डिल्यशण्डाः शृमरशमलशालूरशूचीशिखण्डाः शोचिः श्वः शास्त्रशस्त्रं शम---शमाः शुक्तिकाशापशिष्याः । श्रौषट् शास्ता शरारुः शरवशिखरिणी शारिकाश्यालशोषाः शल्यश्रुक्शुल्कशाल्वशृणिशयनशिताः शस्तशाटी शकोटाः ॥ ४ ॥ शमनशकटशी-शीलशम्बूकशूकाः शरलशयनशुक्लाः श्लेष्मशार्दूलशानाः । शलभशवरशिञ्जाः शल्लकी शालिशण्डाः शिशुशशिशशशक्राः शिश्नशिम्बीशशाङ्काः ॥ ५ ॥ शिवशवशुभशूर्पाः शृङ्खलश्वासशल्याः शुकशफशितिशिष्टाः शर्व्वरी शूरशुष्काः । शबलशुनकशुण्डाः शातनश्वित्रशक्याः शकुनिशरणशावाः शाल्मलिश्लोकशोकाः ॥ ६ ॥ श्वशुरशुषिरशाकाः शान्तशैलूषशाखाः शरणिशपथशिल्पाः शर्कराशालशिक्याः । शिखिशतशुचिशूद्राः शङ्करश्यावशीताः श्रवणशनिशिरालाः शोधनीशातकुम्भौ ॥ ७ ॥ शान्तिशीरशिरःश्वश्रूशाश्वच्छूकरशम्बराः । शीघ्रशीर्षेशाकाशि- शोफशोणित----- ॥ ८ ॥ -------- ;p{0025} शुकशिम्बी शादशार्ङ्गशकुन्तिशत्रुशाद्वलाः एते कियन्तः कथितास्तालव्यादिशसूचकाः ॥ ९ ॥ ;c{इति तालव्यशकारादिसङ्ग्रहः ॥} ;k{मध्यतालव्यशकारसङ्ग्रहः} वेश्मोशीरपिशङ्गकश्यपकशेरुप्रश्नकिंशारुकाः रश्म्यश्वत्थनिशीथशैशिरयशःकाश्मीरवेश्यांशुकाः । त्रिंशद्वश्यविशाखविश्वमशकावश्यं शशाङ्काश्रमा वेशन्ताश्यकौशिकाशनिपिशाचाश्राश्रुशिश्नश्रमाः ॥ १ ॥ ऐश्वर्य्येश्वरशिंशपाश्वयुगवश्यायाश्विनीकेशवाः विंशाश्माशनदन्दशूकनिशिताः श्वोच्चैःश्रवःकिंशुकाः । स्पृश्यार्शःशशकोशनः पिशुनशश्वन्मिश्रसन्दंशनाः कैशोरातिशयातिकश्मलविनिश्वासप्रशंसादयः ॥ २ ॥ श्मशानलशुनौ कृशानुपिशितौ विशालकुशलौ जलाशयदश । निशातदशमी कुशेशदशनौ सादृश्यवशिनौ पराशरमुनिः ॥ ३ ॥ पत्रपाश्यावारिवश्याश्मरीनीशारशाश्वताः । केशराशीतिपञ्चाशच्चत्वारिंशत्सुपांशुकाः ॥ ४ ॥ एते कियन्तस्तालव्यशमध्यमाः संप्रकीर्तिताः । ;c{इति मध्यतालव्यशकारसङ्ग्रहः ॥} ;k{तालव्यशान्तसङ्ग्रहः} राशिर्वश्यवराशिदिग्वशदृशः कीशेशनाशस्पृशः काशाकाशकुशाङ्कुशाशनिनिशाः केशोर्व्वशी तादृशाः । क्रोशक्लेशपलाशपांशुपशवः पाशांशवंशाशवः स्पर्शावेशनिवेशवेशवडिशादेशप्रवेशेदृशाः ॥ १ ॥ दाशप्रकाशकुलिशाः शिशुलेशदंशाः पार्श्वाशुसादृशभृशाः शशभृङ्गिरीशाः । आदर्शदर्शपरशुप्रतिदिग्दशाः स्युः ----------- ॥ २ ॥ ;p{0026} कलशभ्रंशावकाशाः -शानिस्त्रिंशविड्विशाः । कियत्तालव्यशान्तानां कीर्तनं समुदाहृतम् ॥ ३ ॥ ;c{इति तालव्यशान्तसङ्ग्रहः ॥} ;k{मूर्द्धन्यषादिसङ्ग्रहः} षष्ठिषोडशषट्षोढाषण्ढा मूर्द्धन्यषादिमाः । कियन्तः कथिताः स्पष्टाः षडेतेष्वक्क्यसङ्गताः ॥ १ ॥ ;c{इति मूर्द्धन्यषादिसङ्ग्रहः ॥} ;k{मध्यमूर्धन्यषकारसङ्ग्रहः} पाषाणपुष्करविशेषणशष्पनिष्का- धूष्पाशभेषजभिषग्विषयातिदुष्खाः । कुष्माण्डदुष्करगवेषितभूषितेषत् पाषण्डपोषणपरिष्कृतकिष्कुशुष्काः ॥ १ ॥ योषिद्विशिष्य दृषदंशकगोष्पदोष्मा- भिष्वङ्गभीष्ममुषलर्षभभष्मभूष्याः । निष्पेषसर्षपबहिष्कृतवर्ष्मभाष्याः पुष्पौषधोषरहृषीकविषादकृष्याः ॥ २ ॥ वास्तोष्पतित्र्युषणदेषणिकापृषत्का मस्तिष्कमूषिकविविष्किरदुःसुषेणाः । विष्कम्भभाषणमनीषिनिषेकदूष्याः प्रेष्येषिकासुषिरवार्द्धुषिकाभिषेकाः ॥ ३ ॥ श्लेष्मानुषङ्गिककषायनिषण्णशिष्या ग्रीष्मोषतीचषकपूषतुरुष्कतिष्याः । पूष्याविषाणधिषणासुषमासुषीमाः कौषेयसुष्खपरिषद्दिविषत्तुषाराः ॥ ४ ॥ अरुष्कराषाढनिषेधदूषिका गवेषणान्वेषणनिश्चतुष्काः । चषालचुष्योष्यणसत्पृषत्का निषद्वरद्वेष्यतुरादिषाढः ॥ ५ ॥ ;p{0027} पृषदश्वो वृषलकः मुषवी विषुवावुभौ । शिषुको वृषदश्चैते मध्यमृर्द्धन्यषाः कति ॥ ६ ॥ ;c{इति मध्यमूर्धन्यषकारसङ्ग्रहः ॥} ;k{मूर्द्धन्यषान्तसङ्ग्रहः} वृषमहिषपुरीषामर्षपीयूषपेषाः कलुषरुषविशेषाकर्षगण्डूषकोषाः । कषपुरुषकरीषव्योषदोषप्रदोषाः विषतुषकृषिशेषाभ्यूषतोषाम्बरिषाः ॥ १ ॥ प्रुषनिकषशिरीषश्लेषशीर्षर्षिवर्षा परुषशुषिजिगीषाशेमुषीषानिमेषाः । ईषुकृषदिधिषूषाकिल्बिषाभ्रेषह्रेषाः प्लुषवुषवरिषेर्ष्यालम्बुषोन्मेषघोषाः ॥ २ ॥ हर्षस्नुषारौहिषचाषशोषाः शैलूषतृट्कल्मषमाषमूषाः । ह्रेषाटरुषामिषयूषशीषाः प्रत्यूषभाषात्रिपुषीनिरीषाः ॥ ३ ॥ शुश्रूषमेषक्रुषयोषतर्षा वेषावरोषद्विडुषाप्रमोषाः । भूषामृषामारिषमञ्जूषेषा त्विड्मानुषर्जीषभषाः कियन्तः ॥ ४ ॥ एते मूर्द्धन्यषान्ताश्च कथिताः शब्दसङ्कराः । ;c{इति मूर्द्धन्यषान्तसङ्ग्रहः ॥} ;k{दन्त्यसकारादिसङ्ग्रहः} स्वस्तिस्वरस्मरसरित्सितसारमेयाः स्वाहास्वधासमसहस्रसरःसमूहाः । सङ्ख्यासमुद्रसहसासहसक्तुसिक्ताः --------- ॥ १ ॥ ;p{0028} स्रोतःसमस्तसलिलस्मितसक्थिसोमाः संयामसुन्दरसखीस्रवसंसमन्तात् । सेवासखिस्मरणसाक्षिसमीपसन्तः श्रीमन्तसन्ततसभास्मृतिसिन्धुवाराः ॥ २ ॥ स्वामिस्पृहासुखसमीरसदासहायाः स्रक्स्नेहसङ्गमसुधासमिसाधुसौधाः । सिन्दूरसाधनस्नात---सिद्धाः स्मेरस्व--------------स्वसारः ॥ ३ ॥ संसर्गसान्तसकलस्रुघसिद्धिसाध्याः स्वःस्वर्ग---सुरसाः सुरसन्धिसन्ध्याः । --समञ्जससकृत्सरसीकसूपाः सृक्सीतसाध्वससमित्सृणिसूनुसस्याः ॥ ४ ॥ सूची ------- सायं --------------- । सद्यः समानसरसीसवसर्वसेटाः स्मित्कारसर्षपसुरासतिसर्व्वसङ्घाः ॥ ५ ॥ स्यन्दस्वेदसालकाः सूदसम्बरसङ्कराः । सारङ्गसप्तसपदिसमितिस्पर्शसारसाः ॥ ६ ॥ सत्यसत्त्वस्वनस्वैरस्वान्तस्वप्नस्वयम्वराः । संसत्स्वीकारसत्ताः स्युः सूरसोपिससृष्टयः ॥ ७ ॥ कियद्दन्त्यमकारादिशब्दाः संकलिता अमी । ;c{इति दन्त्यसकारादिसङ्ग्रहः ॥} ;k{मध्यदन्त्यसकारसङ्ग्रहः} विकसितवासरवत्सरवास्याः किसलयवासरहास्यवसन्ताः । अवसरघस्मरलास्यसहस्रं ------------- ॥ १ ॥ व्यवसितशासनदस्युतमिस्रं कुसुमविषित्सितमात्सर्य्यास्यम् । असकृदसाररसालप्रसूनं वसतिविसारणकृत्स्नवसानम् ॥ २ ॥ वेसवारोत्सवोत्साहोत्सर्गोत्सारणवत्सकम् । आसक्त्युस्रासनाजस्रासुरसास्नासवासकृत् ॥ ३ ॥ कासारवसुधासंसद्भस्मप्रासादनासिकाः । प्रसवस्रंसनामावास्यावसायप्रसादजाः ॥ ४ ॥ मध्यदन्त्यससंसृष्टाः कियन्तः परिभाषिताः । ;c{इति मध्यदन्त्यसकारसङ्ग्रहः ॥} ;k{दन्त्यसकारान्तसङ्ग्रहः} रासोल्लासविलासवासनभसःकैलासतेजोऽरुषो हिंसाहंसधनुर्वहिर्दिवसनःसामावुभुत्सोषसः । कंसध्वंसपुरःसरोहरिरसुस्रोतश्चिकित्सौकसः कुत्साभाःसुवसाशिरोऽंसकृकलासोरस्तिरःसारसाः ॥ १ ॥ वीप्सामांससुवःसमाससहसासायोयजुःसाहसाः हासश्वःस्वरसाभिलाषसरसीवीभत्सदासौजसः । व्यासग्रासतरःपयोरसरसा पाथोयशःकीकसा- श्चक्षुर्घासतपःसमञ्जसवसुश्वासस्वसारः कति ॥ २ ॥ बर्हिःपिपासासर्पींषि जनुःसाध्वसलिप्सवः । विहायसोऽपि साम्भोऽर्ण्णस्तमःशेफोऽङ्घसोऽन्त्यसाः ॥ ३ ॥ ;c{इति दन्त्यसकारान्तसङ्ग्रहः ॥} ;k{शद्वयसङ्ग्रहः} श्मश्रुश्मशानशिशुशिश्नकुशेशयानि श्वश्रूशशिश्वशुरशाश्वतशिंशपाश्च । शश्वच्छशाङ्कशिशिराण्यपि शूकशिम्बी तालव्यशद्वययुताः कथिताः ॥ १ ॥ इति भेदः शकाराणां त्रयाणां भाषितः कियान् । ----------------- ।