;METADATA ;title{विश्वलोचनकोश} ;author{श्रीधरसेनाचार्य} ;bookFullName{श्रीश्रीधरसेनाचार्यविरचित विश्वलोचनकोश । अपरनाम मुक्तावलीकोश । भाषाटीकासमेत ।} ;bookSeriesDetails{} ;editor{Pandit Nandalal Sharma} ;editorQualifications{} ;publisher{Published by Gandhi Natha Rangaji, Dabaragalli, Bombay} ;pressDetails{Printed by B. R. Ghanekar at the "Nirnaya-Sagar" Press, 23, Kolbat lane, Bombay} ;publicationYear{1912 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{VLSS} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to type and proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga.} ;newVerseNumbersAtChangeOf{kanda} ;newLineNumbersAtChangeOf{never} ;version0.0.1{09 March 2019} ;version0.0.2{12 October 2019} ;version0.0.3{02 January 2020} ;version0.0.4{02 January 2020} ;version0.1.0{02 January 2020} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{श्रीपरमात्मने नमः ।} ;c{कविपण्डित-श्रीश्रीधरसेन-विरचितः} ;c{विश्वलोचनकोशः ।} ;c{(मुक्तावली )} ;c{मंगलाचरणम् ।} जयति भगवानास्तां धर्मः प्रसीदतु भारती वहतु जगती प्रेमोद्गारं तरन्त्वशुभं जनाः । अयमपि मम श्रेयान्गुम्फस्तनोतु मनोमुदं किमधिकमितस्त्यक्तावेगा भवन्तु विपश्चितः ॥ १ ॥ ;c{परिभाषा ।} स्वरकादिक्रमादादिर्निर्णीतोऽन्तश्च कादिभिः । द्वितीयेऽप्यत्र वर्णेऽपि नियमः काद्यनुक्रमात् ॥ २ ॥ ;p{0002} ;k{कान्तवर्गः} ;c{अथ कान्तवर्गः} ;v{कैकम्} को ब्रह्मानिलसूर्याग्नियमात्मद्योतबर्हिषु । कं सुखे वारि शीर्षे च कुः शब्दे ना भुवि स्त्रियाम् ॥ ३ ॥ ;v{कद्वितीयम्} अकं दुःखाघयोरङ्को रेखायां चिह्नलक्ष्मणोः । नाटकादिपरिच्छेदोत्सङ्गयोरपि रूपके ॥ ४ ॥ चित्रयुद्धेऽन्तिके मन्तौ स्थानभूषणयोरपि । अर्कः सूर्येऽर्कपर्णेऽपि शक्रे स्फटिकताम्रयोः ॥ ५ ॥ एकस्तु स्यात्त्रिषु श्रेष्ठे केवलेतरयोरपि । कंकः खगे लोहपृष्ठे कृतान्ते कपटद्विजे ॥ ६ ॥ ;p{0003} कर्कः कर्केतने वह्नौ श्वेताश्वे मुकुरे घटे । कल्कोऽस्त्री पापविट्किट्टदोषदम्भबिभीतके ॥ ७ ॥ पापाश्रयेऽपि काकस्तु वायसे पीठसर्पिणि । शिरोवक्षालने धृष्टे मानद्वीपद्रुमान्तरे ॥ ८ ॥ काका स्यात्काकजंघायां काकोलीकाकनासयोः । काकमाचीकाकतुण्डीमलपूरक्तिकासु च ॥ ९ ॥ काकं काकसमूहे स्यात्स्त्रीणां च रतबन्धने । किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सिते पुमान् ॥ १० ॥ कोकश्चक्रे वृके ज्यैष्ठ्यां खर्जूरीभेकविष्णुषु । छेकस्तु गृहसंसक्तविश्वस्तमृगपक्षिणोः ॥ ११ ॥ नागरे त्रिषु वक्रे च टङ्कोऽस्त्री ग्रावदारणे । टङ्कर्णे ग्रावभित्तौ च मानभेदाऽभिधानयोः ॥ १२ ॥ ;p{0004} कपित्थान्तरजङ्घाऽसिकोषकोषखनित्रके । तर्कः काङ्क्षावितर्कोहे कर्मशास्त्रप्रभेदयोः ॥ १३ ॥ तोकं त्वपत्ये पुत्रे च तोका दुहितरि स्त्रियाम् । त्रिका कूपस्य नेमौ स्यात्त्रिकं पृष्ठधरे त्रये ॥ १४ ॥ द्विकः स्याच्चक्रवाकेऽपि नाङ्के काकेऽपि संमतः । नाकुः पुंसि मुनेर्भेदे नाकुर्वल्मीकशैलयोः ॥ १५ ॥ नाकः स्वर्गेऽन्तरिक्षे च निष्कोऽस्त्री हेमकर्षयोः । अष्टाधिकस्वर्णशते वक्षोऽलङ्करणे पले ॥ १६ ॥ हेम्नः पलेऽपि दीनारे न्यङ्कुर्झषे मुनौ मृगे । पङ्कोऽस्त्री कर्दमे पापे पाकस्तु पवने शिशौ ॥ १७ ॥ पाको जरापरीपाके स्थाल्यादौ क्लेदनिष्ठयोः । बकः कङ्के शिवमल्ल्यां रक्षोभेदकुबेरयोः ॥ १८ ॥ ;p{0005} वङ्कस्तु पुंसि नद्यादिभङ्गपर्याणभागयोः । भङ्गुरे वाच्यवद्वङ्को वल्कं वल्कलखण्डयोः ॥ १९ ॥ भूकश्छिद्रेऽवकाशे च भेको मण्डूकमेघयोः । मुष्कोऽण्डकोशे वृन्दे च मुष्को मोक्षकशाखिनि ॥ २० ॥ मूकस्त्ववाङ्मतो दीने रङ्कः कृपणमन्दयोः । अथ राका दृष्टरजःकन्यायां सरिदन्तरे ॥ २१ ॥ पूर्णेन्दुपूर्णिमायां च कच्छूरोगेऽपि दृश्यते । रेको विरेके शङ्कायामधमे त्वभिधेयवत् ॥ २२ ॥ रोकं दत्त्वा क्रये रन्ध्रे नावि रोकस्तु रोचिषि । लङ्का रक्षःपुरे शाखाकुलटाशाकिनीष्वपि ॥ २३ ॥ लोको जनेऽपि भुवने स्यादवात्तु विलोकने । शङ्कुः कीले शिवे सङ्ख्यायादोऽस्त्रभिदि किल्विषे ॥ २४ ॥ ;p{0006} शङ्का त्रासे वितर्के च शल्कं शकलवल्कयोः । चूर्णे शाकस्तु शक्तौ स्याद्वृक्षद्वीपनृपान्तरे ॥ २५ ॥ शाकं हरितके क्लीबे पत्रपुष्पफलादिके । शुकः कीरे व्यासपुत्रे रावणस्य च मन्त्रिणि ॥ २६ ॥ शुकं तु ग्रन्थिपर्णे स्याच्छिरीषे शोणकेऽपि च । शुल्कं घट्टादिदेयेऽस्त्री जामातुरपि बन्धके ॥ २७ ॥ शूकः स्यादनुकम्पायां शूकः शुङ्गेऽपि पुंस्ययम् । शोकः स्याच्छुमसङ्घाते स्त्रीणां च करणान्तरे ॥ २८ ॥ श्लोको यशसि पद्ये स्यादुपहास्य उपात्परः । सृको वातोत्पलशरे स्तोकः स्याच्चातकाल्पयो. ॥ २९ ॥ ;v{कतृतीयम्} ;c{कतृतीयम् ।} अणुको निपुणेऽल्पेऽस्त्री त्वनीकं रणसैन्ययोः । अनूकं शीलकुलयोरनूकं गतजन्मनि ॥ ३० ॥ ;p{0007} अन्तिकं निकटे चुल्ल्यामन्तिका शातलौषधौ । नाट्योक्तौ चांतिका ज्येष्ठभगिन्यां परिकीर्तिता ॥ ३१ ॥ अन्धिका कैतवे सिद्धे शर्वर्यामन्धयोषिति । अभीको निर्भयक्रूरकविकामिषु वाच्यवत् ॥ ३२ ॥ अम्बिका पार्वती पाण्डुजननीजननीष्वपि । तिन्तिडीकाचुक्रिकयोरम्लोद्गारेपि चाऽम्लिका ॥ ३३ ॥ अर्भकस्तु मतो डिम्भे मूर्खे भ्रूणे कृशेपि च । कुबेरस्यालका पुर्यामलकश्चूर्णकुन्तले ॥ ३४ ॥ अलर्को धवलार्के स्याद्योगोन्मत्तककुक्कुरे । अलीकं त्रिदिवे क्लीबं मिथ्यायामाप्रिये त्रिषु ॥ ३५ ॥ अशोको वञ्जुले माने द्रुमेऽशोकं तु पारदे । अशोका कटुरोहिण्यां शोकशून्ये तु वाच्यवत् ॥ ३६ ॥ ;p{0008} आढको मानभेदेऽस्त्री तुवर्यामाढकी स्मृता । आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ॥ ३७ ॥ आनकः पटहे भेर्यां मृदङ्गे ध्वनदम्बुदे । आलोको दर्शनेऽपि स्यादुद्योते बंदिभाषणे ॥ ३८ ॥ आह्निकं दिननिर्वर्त्ये भोजने नित्यकर्मणि । इक्ष्वाकुः कटुतुंब्यां स्त्री सूर्यान्वयनृपे पुमान् ॥ ३९ ॥ उदर्क एष्यत्कालीयफले मदनकण्टके । उलूकः पेचके शक्रे कुरुयोधेऽपि सम्मतः ॥ ४० ॥ उष्णकस्त्वातुरे तप्ते क्षिप्रकारिनिदाघयोः । उष्टिका मृत्तिकाभाण्डभेदे करभयोषिति ॥ ४१ ॥ ऊर्मिका त्वङ्गुलीये स्यात्तरङ्गे मधुपध्वनौ । ऊर्मिका वस्त्रभङ्गेऽपि तथोद्बाहुलकेऽपि च ॥ ४२ ॥ ;p{0009} अंशुकं सूक्ष्मवसने वस्त्रमात्रोत्तरीययोः । कञ्चुकः कवचे वाणवारे निर्मोकचोलके ॥ ४३ ॥ हर्षादात्ताङ्गवस्त्रे च कञ्चुकी त्वौषधान्तरे । कटकोस्त्री राजधान्यां सानौ सेनानितम्बयोः ॥ ४४ ॥ वलये सिन्धुलवणे दन्तिदन्तविभूषणे । कटुकं कुटुरोहिण्यां व्योषेऽपि कटुमात्रके ॥ ४५ ॥ कटाकुस्तु दुराधर्षे दुःशीले ना विलेशये । गोधूमचूर्णे कणिकः स्त्रियां सूक्ष्माऽग्निमन्थयोः ॥ ४६ ॥ कण्टकोऽस्त्री द्रुमाङ्गेऽथ दूषके कर्णिदूषके । रोमाञ्चे क्षुद्रशत्रौ च मारौ मीनादिकीकसे ॥ ४७ ॥ कनकं हेम्नि धत्तूरे चम्पके नागकेसरे । किंशुके काञ्चनारे च कालीयेऽपि क्वचिन्मतम् ॥ ४८ ॥ ;p{0010} करकोऽस्त्री करङ्के स्यात्कुण्ड्या चाथ पुमान्खगे । कुसुम्भे दाडिमे हस्ते करका तु घनोपले ॥ ४९ ॥ करङ्कः सस्यसन्त्यक्तनालिकेराऽस्थिमस्तके । कर्णिका कर्णभूषायां गुवाकादिच्छटांशके ॥ ५० ॥ करिहस्ताग्रभागे च करमध्याङ्गुलावपि । नलिनीबीजकोशे च कुट्टिन्यामपि कुत्रचित् ॥ ५१ ॥ कलङ्कोऽङ्के कालायसमले दोषाऽपवादयोः । कावृकः कृकवाकौ स्यात्पीतमस्तककोकयोः ॥ ५२ ॥ कामुकः कामिनि ख्यातोऽशोकवृक्षाऽतिमुक्तयोः । कारकः कर्तरि ज्ञेयः कर्मादौ कारकं मतम् ॥ ५३ ॥ कारिका विवृतिश्लोके यातनायां कृतावपि । नटस्त्रियां नापितादिशिल्पे कर्त्र्यां च कारिका ॥ ५४ ॥ ;p{0011} वंशे ना कार्मुकं चापे कर्मशक्ते तु वाच्यवत् । कालिका चण्डिकायां स्याद्योगिनीभेदकार्ष्ण्ययोः ॥ ५५ ॥ पश्चाद्दातव्यमूल्ये च पटोलकलतान्तरे । रोमालीधूमरीमांसीकाकीवृश्चिकपत्रके ॥ ५६ ॥ घनावलावलं धूमप्रभेदे नवनीरदे । किम्पाकस्तु महाकालफले मूर्खे च कीचकः ॥ ५७ ॥ दैत्येवातध्वनिध्वंसे शुष्कवंशे द्रुमान्तरे । कीटकः कृमिजातौ स्यान्निष्ठुरेऽपि च कीटकः ॥ ५८ ॥ कुलकस्तु कुलश्रेष्ठे वल्मीके काकतिन्दुके । कुलकं श्लोकसम्बद्धगुच्छकेऽपि पटोलके ॥ ५९ ॥ कुलिको नागभेदे स्यात्कुलश्रेष्ठे द्रुमान्तरे । कुशिकस्तु मुनौ तैलशेषे सर्जे कलिद्रुमे ॥ ६० ॥ ;p{0012} कुषाकु मर्कटे भानौ बृहद्भानौ पुमांस्त्रिषु । परोत्तापिन्यपि मतं कूर्चिका सूचिकान्तरे ॥ ६१ ॥ तूलिका क्षीरविकृतिकुञ्चिकाकुड्मलेषु च । कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे ॥ ६२ ॥ कूपे जलस्थग्रावादौ स्याच्च तुर्या तु कूपिका । कूलकः पुंसि वल्मीके स्तूपेऽस्त्री कूलकं तटे ॥ ६३ ॥ कृषकः कर्षके पुंसि फालेऽपि कृषके पुमान् । पारदारकरक्तेऽपि निःस्वेऽपि त्रिषु कञ्चुकः ॥ ६४ ॥ कोरकः कुड्मले न स्त्री कक्कोलकमृणालयोः । कोशाङ्कस्तु करीरे स्यादिक्षौ कीटान्तरेऽपि च ॥ ६५ ॥ कौतुकं त्वभिलाषेऽपि कुसुमे नर्महर्षयोः । परम्परासमायाते मङ्गले चातिशायिनि ॥ ६६ ॥ ;p{0013} विवाहसूत्रे विषयाभोगकाले समुत्सवे । कौशिको गुग्गुलूलूकनकुलेष्वहितुण्डिके ॥ ६७ ॥ इन्द्रे च विश्वामित्रे च कोशज्ञे चाथ कौशिकी । चण्डिकायां नदीभेदे क्रमुको भद्रमुस्तके ॥ ६८ ॥ गुवाकपट्टिकालो्ध्रकूर्पासब्रह्मदारुषु । खट्टिकः सौनिकेऽपि स्यान्माहिषक्षीरफेनके ॥ ६९ ॥ खनकश्चित्ततत्त्वज्ञे सन्धिचौरेऽवदारके । मूषके खुल्लकस्तु स्यात्स्वल्पे नीचे कनीयसि ॥ ७० ॥ खोलकः पाकवल्मीकपूगकोशे शिरस्त्रके । गणिका यूथिकावेश्यातर्कारीकरिणीष्वपि ॥ ७१ ॥ अग्निमन्थेऽपि गणिका दैवज्ञे गणकः पुमान् । गण्डकः खड्गिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ॥ ७२ ॥ ;p{0014} गुह्यको गोपिते यक्षे गृह्यकश्छेकनिघ्नयोः । गैरिकं धातुभेदे स्याद्धातुमात्रे च काञ्चने ॥ ७३ ॥ गोरङ्कुः पक्षिजातौ च नग्नके श्रुतिपाठके । गोलको मणिके जाराद्विधवातनये गुडे ॥ ७४ ॥ ग्रन्थिकस्तु करीरे स्याद्दैवज्ञे गुग्गुलद्रुमे । माद्रेयेप्यद्वयोर्ग्रन्थिपर्णीपिप्पलिमूलयोः ॥ ७५ ॥ ग्राहको घातिविहगे ग्रहीतरि तु वाच्यवत् । चटकः कलविंकः स्यात्तत्पुत्रीयोषितोः स्त्रियाम् ॥ ७६ ॥ चतुष्की मशकहर्यां यष्टिकावेश्मभेदयोः । चुलुकः प्रसृतौ च स्याच्चुलुका भाजनान्तरे ॥ ७७ ॥ चषकोऽस्त्री पानपात्रे मधुमद्यप्रभेदयोः । चारकः पालकेऽश्वादेः स्यात्सञ्चारकबन्धयोः ॥ ७८ ॥ ;p{0015} चित्रकं तिलके क्लीबं वह्निसंज्ञे तु चित्रकः । एरण्डे चालवाले च चित्रकः श्वापदान्तरे ॥ ७९ ॥ चीरको विक्रियालेखे झिल्लिकायां तु चीरिका । चुम्बकः कामुके धूर्ते बहुविद्योपजीवने ॥ ८० ॥ मतः पुंस्येव चुलुकः प्रसृते भाजनान्तरे । चुल्लकी शिशुमारे स्यात्कुण्डीभेदे कुलान्तरे ॥ ८१ ॥ चूतकोऽन्धौ रसाले च कपिपूर्वः कपीतने । चूलिका नाटकाङ्गे स्यात्कर्णमूले च हस्तिनाम् ॥ ८२ ॥ जतुकाऽजिनपत्रायां जतुकं हिङ्गुलाक्षयोः । जनकः स्नातराजर्षौ जनकः करणान्तरे ॥ ८३ ॥ जम्बुकः फेरवेऽपि स्यान्नीचे पश्चिमदिक्पतौ । जालकः कोरके दम्भप्रभेदे जालिनीफले ॥ ८४ ॥ गिरिसारे जलौकायां जालिका विधिवत्स्त्रियाम् । भटानामश्मरचिताङ्गरक्षिण्यां च जालिका ॥ ८५ ॥ ;p{0016} जाहको घोङ्खमार्जारखजाकातुण्डिकासु च । जीवको वृक्षभेदे स्यात्प्राणकेऽप्यहितुण्डिके ॥ ८६ ॥ पीतशाले क्षपणके वृद्धिजीविनि सेवके । जीविकामाहुराजीवे जीवन्त्यामपि जीविका ॥ ८७ ॥ झिल्लीका झिल्लिकाऽप्येव विलेपनमले स्मृतः । चीरिकायामपि भवेदातपस्य च रोचिषि ॥ ८८ ॥ टुच्छको गन्धकुट्यां स्याद्व्यवहाराऽभ्यवकाशके । टुण्टुकः शोणकेऽल्पे च क्रूरके त्वभिधेयवत् ॥ ८९ ॥ डिण्डिको नग्नके दार्ये स्त्रीचोरे तु रतात्परः । डिम्बिका जलबिम्बे स्यात्कोणके कामुकस्त्रियाम् ॥ ९० ॥ तण्डकोऽस्त्री तरुस्कन्धे समासप्रायवाचिके । गृहदारौ पुमांस्तु स्यात्फेनखंजनमायिषु ॥ ९१ ॥ ;p{0017} तर्ककः काङ्क्षिणि ख्यातस्तर्केऽर्के गृध्रपक्षिणि । तक्षको नागभेदे स्याद्वर्द्धकिद्रुमभेदयोः ॥ ९२ ॥ तारको दैत्यभित्कर्णधारयोर्दशि तारकम् । ऋक्षे कनीनिकायां च तारकं तारिकाऽपि च ॥ ९३ ॥ तिलकं द्रुमभेदे च रोगे च तिलकालके । क्लीबं सौवर्चले क्लोम्नि ललामेऽस्त्री तु चित्रके ॥ ९४ ॥ तुलकः तुलकायां स्यात्तथा दधिकपक्षिणि । तुरुष्कः सिह्लके म्लेच्छभेदस्त्रीवासयोरपि ॥ ९५ ॥ तूलिका चित्रविन्यासलेखन्यां तूलतल्पयोः । त्रिशंकुर्नुपभेदेऽपि शलभे वृषदंशके ॥ ९६ ॥ दर्शकस्तु प्रतीहारे दर्शयितृप्रवीणयोः । दारको भेदकेऽपत्ये कूपके तु विपूर्वकः ॥ ९७ ॥ ;p{0018} दीपको वागलङ्कारे प्रदीपे दीप्तिकारके । दीप्यकं त्वजमोदे याद्यवानीवर्हिचूडयोः ॥ ९८ ॥ दूषिका लोचनमले तूलिका च दूषिका । द्रावकस्तु शिलाभेदे विदग्धे घोषकेऽपि च ॥ ९९ ॥ धनिकः साधुधान्याकधवेषु धनिका स्त्रियाम् । धावको जवके राजगतिकर्मणि योगिनि ॥ १०० ॥ धेनुका तु भवेद्धेनौ करिपत्नीप्रसूतयोः । धेनुकं करणे स्त्रीणां धेनुवृन्देऽपि धेनुकम् ॥ १०१ ॥ नग्नको वन्दिनि ग्रन्थे नग्ने गौर्यां तु नग्निका । नन्दको हरिखड्गेऽपि हर्षके कुलपालके ॥ १०२ ॥ नरको निरयेऽपि स्यान्नरको दानवान्तरे । नर्तकः पोटगलके चारणे केलके नटे ॥ १०३ ॥ ;p{0019} नर्तकी लासिकायां स्यात्करिण्यामपि नर्तकी । नायको नेतरि श्रेष्ठे हारमध्यमणावपि ॥ १०४ ॥ नालीकः पिण्डजेऽप्यज्ञे नालीकः शरशल्ययोः । नालीकं पद्मखण्डेऽपि नाडीकं सरसीरुहे ॥ १०५ ॥ निपाकः पवने खेदेऽप्यसत्कर्मफलेऽपि च । निर्मोको व्योम्नि सन्नाहे मोचने सर्पकञ्चुके ॥ १०६ ॥ वारकोऽश्वे महामात्ये हस्तिसङ्ख्येऽपि नीटकः । नीलिका नीलिकीक्षुद्ररोगसेफालिकासु च ॥ १०७ ॥ पताका स्याद्वैजयन्त्यां सौभाग्येङ्गध्वजेऽपि च । पद्मकं पद्मकोशेऽपि करिबिन्दुषु पङ्कजे ॥ १०८ ॥ पराको व्रतमात्रेऽपि पराकः शयकेऽपि च । उभौ पर्यङ्कपल्यङ्कौ वृप्यां पर्यस्तिखण्डयोः ॥ १०९ ॥ ;p{0020} पार्श्वद्वारि सपक्षे च पक्षे पार्श्वे च पक्षकः । पाटकस्तु महाकिष्कौ वाद्येऽपि कटकान्तरे ॥ ११० ॥ अक्षादिचालने मूलद्रव्यापचयकूलयोः । पातुकः पतयालौ स्यात्प्रपाते जलहस्तिनि ॥ १११ ॥ पालंकः शाकभेदेऽपि शल्लकीवाजिपक्षिणि । पावकोऽग्नौ सदाचारे भल्लातकवितङ्कयोः ॥ ११२ ॥ चित्रकेऽप्यग्निमन्थेऽपि त्रिषु पाचनकारिणि । पिण्याकः शिह्लके हिङ्गौ तिलकल्केऽपि कुङ्कुमे ॥ ११३ ॥ पिनाको हरकोदण्डे शूलेऽस्त्री पांसुवर्षणे । पिष्टको यवधान्यादिचमसे चक्षुषो रुजि ॥ ११४ ॥ पुत्रकः शरभे पुत्रे धूर्ते वृक्षनगान्तरे । पुत्रिका पुत्तलीपुत्र्योस्तथा यावकतूलिके ॥ ११५ ॥ ;p{0021} पुलकः कृमिभेदे स्यान्मणिदोषे शिलान्तरे । गजान्नपिण्डे रोमाञ्चे गल्वर्कहरितालयोः ॥ ११६ ॥ पुलाकस्तुच्छधान्ये स्यात्संक्षेपे भक्तशिक्थके । पुष्पकं तु कुबेरस्य विमाने रत्नकङ्कणे ॥ ११७ ॥ नेत्ररोगे च कासीसे चीरिकायां रसाञ्जने । मृदङ्गारशकट्या च लोहकास्ये च पुष्पकम् ॥ ११८ ॥ पूर्णकः स्वर्णचूडे स्यान्नासच्छित्त्या च पूर्णिका । पृथुकश्चिपिटे बाले पृदाकुस्तु सरीसृपे ॥ ११९ ॥ पृदाकुर्वृश्चिकेऽपि स्याद्व्याघ्रचित्रकयोरपि । उलूके गजलाङ्गूलमूलप्रान्तेऽपि पेचकः ॥ १२० ॥ पेटकोऽस्त्री पुस्तकादेर्मञ्जूषायां कदम्बके । प्रतीकः प्रतिकूले त्रिष्वेकदेशविलोमयोः ॥ १२१ ॥ प्रमादेऽवयवे चाथ प्रसेकः सेचने च्युतौ । प्राणकः सत्त्वजातीये बोलके जीवकद्रुमे ॥ १२२ ॥ ;p{0022} प्रियकस्तु कदम्बे स्यादलिचित्रकुरङ्गयोः । प्रियङ्गौ पीतशाले च कुङ्कुमप्रिययोरपि ॥ १२३ ॥ फलकं चित्रविन्यासे पट्टिकाव्रणभेदयोः । वराको वाच्यवच्छोच्येऽनुकम्प्ये सङ्गरे पुमान् ॥ १२४ ॥ वसुकः शिवमल्ल्यां स्यादर्कपर्णेऽपि रौमके । बहुकोऽर्के कर्कटके दात्यूहे जलखादके ॥ १२५ ॥ वारकोऽश्वविशेषे च गतावपि निषेधके । वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ॥ १२६ ॥ वालकोग्नौ शिशौ केशे वाजिवारणवालधौ । स्याद्बालकं तु ह्रीवेरे पारिहार्यांगुलीयके ॥ १२७ ॥ वालिका वालुका वाला पिंछोलाकर्णभूषणे । वालुका सिकताऽपि स्याद्वालुकं त्वेलवालुके ॥ १२८ ॥ ;p{0023} वृश्चिकः शूककीटेऽपि द्रुणे राश्योषधीभिदोः । भस्मकं भस्मरोगे स्याद्विडङ्गकलधौतयोः ॥ १२९ ॥ भालाङ्को रोहिते शाकप्रभेदे कच्छपे हरे । महालक्षणसम्पूर्णपुरुषे करपत्रके ॥ १३० ॥ स्याद्भूतीकं तु भूनिम्बमालातृणककत्तृणे । यवान्यामपि कर्पूरे भूतीकं कट्फलेऽद्वयोः ॥ १३१ ॥ भूमिका रचनायां स्यान्मूर्त्त्यन्तरपरिग्रहे । भ्रामकः फेरवे धूर्ते सूर्यावर्तशिलान्तरे ॥ १३२ ॥ मण्डूको दर्दुरे बन्धप्रभेदे शोणकेऽप्यथ । मण्डूकपर्ण्यां मण्डूकी मधुको यष्टिकाह्वये ॥ १३३ ॥ बन्दिपक्षिप्रभेदे च मधुपर्ण्यां स्त्रियामपि । मल्लिको मल्लिका चैव राजहंसान्तरे द्वयम् ॥ १३४ ॥ ;p{0024} मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः । मशकः क्षुद्रजन्तूनां प्रभेदेऽपि गदान्तरे ॥ १३५ ॥ मातृका धात्रिकायां स्यात्करणे मातरि स्वरे । मामकं ममतायुक्तं मातृभ्रातरि मामकः ॥ १३६ ॥ मालिका पुष्पमालायां मालिका सरिदन्तरे । मालिको गरुडेऽपि स्यान्मालिका कण्ठभूषणे ॥ १३७ ॥ मेचकः श्यामले बर्हिचन्द्रे ध्वान्तेऽथ मेचकम् । वाच्यवत्कृष्णवर्णे स्यान्मोचकः कदलीतरौ ॥ १३८ ॥ तत्प्रसूनेऽपि शिग्रौ च निर्मोचकविरागिणोः । मोदको न स्त्रियां खाद्यप्रभेदे हर्षकेऽन्यवत् ॥ १३९ ॥ यमकं संयमे शब्दाऽलङ्कारे यमजे त्रिषु । याजको यागशीले स्यात्पूजके राजकुञ्जरे ॥ १४० ॥ ;p{0025} याज्ञिको याजके दर्भे यज्ञकार्योपजीविनि । युतकं यौतके युग्मे चलनाग्रेऽपि संशये ॥ १४१ ॥ वस्त्रान्तरे वधूवस्त्राञ्चले युक्ते तु वाच्यवत् । यूथिका तु मता यूथ्यामम्लानकुसुमे क्वचित् ॥ १४२ ॥ रक्तकोऽम्लानबन्धूकरक्तवस्त्रे तु रागिणि । रजको धावके पुंसि कीरेऽपि रजकः पुमान् ॥ १४३ ॥ रसिका तु रसालायां काञ्चीरसनयोरपि । लेखाकेदारयो राजसर्षपेऽपि च राजिका ॥ १४४ ॥ रात्रकस्तत्र यो वेश्यागृहे गमितवत्सरः । रात्रकं पञ्चरात्रेऽथ रुचको मातुलुङ्गके ॥ १४५ ॥ रुचकं मातुलद्रव्ये दन्ते सौवर्चलस्रजि । उत्कटे चाश्वभूषायां विडङ्गे कण्ठभूषणे ॥ १४६ ॥ ;p{0026} बीजपूरेऽपि दीनारे रोचनादेववृक्षयोः । रुण्डिका रणभूर्द्वारपिण्डिकादूतिकार्थिका ॥ १४७ ॥ जमदग्निप्रियायां च हरेण्वामपि रेणुका । लम्पाकः पुंसि देशे स्याल्लम्पको लम्पटे त्रिषु ॥ १४८ ॥ लासको लसके लास्यकारकेऽपि मयूरके । लूनकः स्यात्पशौ भिन्ने लोचको नेत्रतारके ॥ १४९ ॥ मांसपिण्डे च पिण्डे च योषिद्भालविभूषणे । कज्जले नीलचोले च मौर्व्यां भ्रूश्लथचर्मणि ॥ १५० ॥ कदल्यां कर्णपूरे च निर्बुद्धिनृषु लोचकः । वञ्चकस्तु खले धूर्ते गृहबभ्रौ च फेरवे ॥ १५१ ॥ बन्धकः स्याद्विनिमये वसासत्योस्तु बन्धकी । बधूकं बन्धुजीवे स्याद्बन्धूकः पीतशालके ॥ १५२ ॥ ;p{0027} वर्तको वर्तिका पक्षिप्रभेदेऽश्वखुरे पुमान् । वर्णको बन्दिनि कवौ चारणेऽस्त्री तु वर्णके ॥ १५३ ॥ विलेपनादौ चित्रादौ लिपिमस्यां च चन्दने । वर्णिका कठिनीमस्योर्लेखन्यामपि वर्णिका ॥ १५४ ॥ वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः । वार्षिकं त्रायमाणायां वर्षाकालभवेन्यवत् ॥ १५५ ॥ गोवाहके तु वाहीको वाहीको पृक्कदेशजे । वाह्लीको वाह्लिकोऽश्वे च देशभेदे हये पुमान् ॥ १५६ ॥ वाह्लीकं वाह्लिकं द्वे च न द्वयोर्हिङ्गुवीरयोः । वितर्कः संशयेऽप्यूहे विचारे च क्वचिन्मतः ॥ १५७ ॥ विपाकः परिणामेऽपि खेदे स्वादुनि दुर्गतौ । विवेकस्तु विचारे स्याज्जलद्रोण्यां रहस्यपि ॥ १५८ ॥ ;p{0028} वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः । वैजिकं शिगुतैलेऽपि हेतौ सद्योऽङ्कुरेऽपि च ॥ १५९ ॥ व्यलीकं विप्रियाकार्यवैलक्ष्येष्वपि पीडने । क्लीबमेव व्यलीकस्तु नागरे वाच्यलिङ्गकः ॥ १६० ॥ शंखकं वलये कंबौ शिरोरोगे च शङ्खकः । शम्बुको गजकुम्भान्ते शम्बूकः शुक्तिकान्तरे ॥ १६१ ॥ दैत्यभेदेऽपि शम्बूकः शम्बूका जलशुक्तिषु । शलाका तु शरे शल्ये चातपत्राणपञ्जरे ॥ १६२ ॥ तर्कुकाष्ट्यां च मदने शारिकाश्वाविदोरपि । शल्लकी श्वाविद्द्रुमयोः शायकः शरखङ्गयोः ॥ १६३ ॥ शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः । शिशुकः शिशुमारे च शिशौ पश्चादुलूपिनि ॥ १६४ ॥ ;p{0029} शीतकः सुस्थिते शीतकालेऽनागतदर्शिनि । शूककः प्रावटप्रहौ शूककः पारदेऽपि च ॥ १६५ ॥ कृतमालस्तु शम्याकः शम्याकस्तर्कुधृष्टयोः । सम्पर्कः स्यान्निधुवने संसर्गे स्पर्शनेऽपि च ॥ १६६ ॥ सरकः स्यादविच्छिन्नपान्थपङ्क्तौ शरे पुमान् । अस्त्रियां सीधुपाने च सीधुपात्रे च सीधुनि ॥ १६७ ॥ सस्यको नालिकेरादिसारे खङ्गे मणावपि । सूचकः खलकाकौतुसूचीषु शुनि बोधके ॥ १६८ ॥ सूतकं जन्मनि क्लीबं सूतकः पारदेऽस्त्रियाम् । सृदाकुर्दावकुलिशाऽनिलेषु प्रतिसूर्यके ॥ १६९ ॥ सेचकः सेक्तरि भवे त्रिषु पुंसि तु वारि । सेवको वल्लकीमान्तवक्रकाष्ठेऽनुजीविनि ॥ १७० ॥ ;p{0030} स्यमीका नीलिकायां स्यात्स्यमीको नाकुवृक्षयोः । स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ॥ १७१ ॥ स्वस्तिकः पिष्ठकस्याऽपि प्रभेदे रततालिके । स्थासको गन्धवज्रायां जलादेरपि बुद्बुदे ॥ १७२ ॥ सेनायां समवेतेऽपि सेनारक्षेऽपि सैनिकः । हारकस्तु शठे चौरे गद्यविज्ञानभेदयोः ॥ १७३ ॥ हुडुको वाद्यभेदे स्याद्दात्यूहे च मदोत्कटे । हेरुको बुद्धभेदेऽपि महाकालगणे तथा ॥ १७४ ॥ क्षारको जालके पक्षिमत्स्यादिपिटकेऽपि च । क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ १७५ ॥ ;v{कचतुर्थम्} ;c{कचतुर्थम् ।} अस्त्री त्वङ्गारकोद्गारे पुंसि भौमे कुरण्टके । अङ्गारिका त्विक्षुकाण्डे तथा किंशुककोरके ॥ १७६ ॥ ;p{0031} पुमान(लि)लमको भेके मधुकेऽम्बुजके खरे । पिकेऽप्यलिपकस्तु स्यात्पिकालिरतहिण्डके ॥ १७७ ॥ अथाऽश्मन्तकमुद्धाने मल्लिकाच्छदनेऽपि च । आकालिकं क्षणध्वंस्यन्यकालकृतसम्भवे ॥ १७८ ॥ आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः । विशेष्याखनिकस्तु स्याच्चोरमूषकदंष्ट्रिषु ॥ १७९ ॥ आक्षेपकस्तु पवनव्याधौ व्याधे च निन्दके । भवेदुत्कलिका हेलोत्कण्ठासलिलबीचिषु ॥ १८० ॥ एडमूकस्त्रिषु ख्यातः शठे वाक्श्रुतिवर्जिते । पुनर्नवाकारवेल्लपर्णासेषु कठिल्लकः ॥ १८१ ॥ कनिष्ठाऽङ्गुलिकानेत्रतारयोस्तु कनीनिका । कपर्दकस्तु भूतेशे जटाजूटे वराटके ॥ १८२ ॥ ;p{0032} कर्कोटकः काद्रवेयप्रभेदे श्रीफलेऽपि च । कलबिङ्को भवेद्ग्रामचटकेऽपि कलिङ्गके ॥ १८३ ॥ काकरूक उलूकेऽश्वे स्त्रीजितेऽपि दिगम्बरे । दम्भेऽपि काकरूकस्तु त्रिषु भीरुदरिद्रयोः ॥ १८४ ॥ कार्पटिकोऽन्यमर्मज्ञे छात्रे स्यात्कालदेशिनि । कुरवकः पुंसि शोणझिण्टिकाऽम्लानभेदयोः ॥ १८५ ॥ कृकवाकुस्ताम्रचूडे कृकलासे च केकिनि । कोशातकः कचे ज्योत्स्नीपटोल्यां घोषकेऽस्त्रियाम् ॥ १८६ ॥ कौकुट्टिको दाम्भिके स्याददूरप्रेरितेक्षणे । कौलेयको भवेदिन्द्रे महाकामिकुलीनयोः ॥ १८७ ॥ ग्रामणीभण्डिनाराचोपधाने तु खरालिकः । भवेद्गुणनिकाऽभ्यासे शून्याङ्के पाठनिश्चये ॥ १८८ ॥ ;p{0033} नृत्यान्तरे त्वप्यथो गोकण्टको गोक्षुरे पुमान् । गवां गमनसम्भूतशुष्कस्थपुटकेऽपि च ॥ १८९ ॥ गोकुणिकः केकरे स्यात्पङ्कस्थगव्युपक्षके । गोमेदकः पीतमणौ काकोले पत्रकेऽपि च ॥ १९० ॥ स्मृता घर्घरिका क्षुद्रघण्टिकावाद्यभेदयोः । मृष्टधान्ये सरिद्भेदे तथा वादित्रदण्डके ॥ १९१ ॥ चांडालिकौषधीभेदे गौरीकिंदिरयोरपि । जटारुको जलानूके नागयष्टिपटीरयोः ॥ १९२ ॥ जटारुकस्तथा शाखाहरिणेऽपि तुलाधरे । जर्जरीकस्त्रिषु भवेद्बहुच्छिद्रे जरातुरे ॥ १९३ ॥ जीवन्तिका तु जीवाख्यशाकबन्दागुडूचिषु । जैवातृकः शशिन्यायुष्मति दिव्यौषधे कृशे ॥ १९४ ॥ ;p{0034} तर्तरीकः पारगे स्यात्तर्तरीकं बहित्रके । तिक्तशाकस्तु वरुणे खदिरे पत्रसुंदरे ॥ १९५ ॥ त्रिवर्णकं त्रिकटुके त्रिफलायां च गोक्षुरे । दन्दशूकस्तु यक्षे स्याद्दन्दशूको भुजङ्गमे ॥ १९६ ॥ दलाढकः स्वयंजाततिले चाम्पेयकुन्दयोः । शिरीषपृश्निकावात्याखातकेषु महत्तरे ॥ १९७ ॥ गैरिके करिकर्णे च फेनेऽग्निकणसंहतौ । द्रोणे च कार्यकूटे च क्वचिद्दृष्टो दलाढकः ॥ १९८ ॥ दासेरकस्तु करभे दासीपुत्रेऽपि धीवरे । नियामकः पोतवाहे कर्णधारे नियन्तरि ॥ १९९ ॥ निर्ग्रन्थिकस्तु क्षपणे निष्फलेऽप्यपरिच्छदे । निश्चारकोऽनिले स्वैरे पुरीषस्य क्षयेऽपि च ॥ २०० ॥ ;p{0035} पञ्चालिका भवेद्वम्बपुत्रिकागीतभेदयोः । पिण्डीतकस्तु तगरे मदनाद्रौ फणिज्जके ॥ २०१ ॥ स्तनवृन्ते पिप्पलकः क्लीबं सीवनसूत्रके । पुण्डरीकोऽग्निदीप्ताङ्गे व्याघ्रभेदेक्षुभेदयोः ॥ २०२ ॥ पुण्डरीकं सितच्छत्रे सिताम्भोजेऽपि भेषजे । पुष्कलको गन्धमृगे कीलके क्षपणेऽपि च ॥ २०३ ॥ क्लीबं पूर्णानकं पूर्णपात्रे पटहपात्रयोः । पोतक्यां विचलत्पोताधाने पोतीनकं मतन् ॥ २०४ ॥ प्रकीर्णकं ग्रन्थभेदे प्रशस्ते चामरे हये । प्रवर्तकः शराघाते बर्हे पुष्पभुजङ्गयोः ॥ २०५ ॥ फर्फरीकश्चपेटे स्यात्फर्फरीकं तु मार्दवे । बकेरुका बकीभेदे वातावर्जितपल्लवे ॥ २०६ ॥ ;p{0036} कपर्दरज्जुराजीवबीजकोशे वराटकः । वरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ॥ २०७ ॥ तथा संवर्त्तुले बर्त्तरूकस्तु सरिदन्तरे । जलावटे काकनीडे दण्डवासिन्यपीष्यते ॥ २०८ ॥ बर्बरीको महाकाले केशविन्यासशाकयोः । बलाहको वारिवाहे नागदैत्यान्तरे गिरौ ॥ २०९ ॥ वाणिजिको वणिज्यंके मृगाङ्के कामिनीरते । और्वेऽनुरागबाह्ये च मतो वाणिज्यकः पुमान् ॥ २१० ॥ वृन्दारकः सुरे श्रेष्ठे मनोज्ञे यूथघातिनि । अथो बृहतिका कण्टकारीवस्त्रान्तरोरुषु ॥ २११ ॥ भट्टारकः सुरे पुंसि क्ष्मापाले च तपोधने । भयानकस्तु शार्दूले सैंहिकेये विभीषणे ॥ २१२ ॥ ;p{0037} भार्याटिको भवेद्भार्यानिर्जिते हरिणान्तरे । भ्रमरकोऽभ्रे मधुपे च जाले चूर्णकुन्तले ॥ २१३ ॥ मण्डोदकं चित्ररागे भवेदालिम्पनेऽपि च । मतं मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ २१४ ॥ मयूरकोऽप्यपामार्गे तुत्थके तु मयूरकम् । मदनद्रौ मरुबकः पुष्पभेदे फणिज्जके ॥ २१५ ॥ माणवको हारभेदे बाले कुपुरुषे वटौ । मृष्टेरुको वदान्ये स्वान्गृष्टाशिन्यतिथिद्विषि ॥ २१६ ॥ रतर्द्धिकं सुखस्नानेऽप्यष्टमङ्गलके दिने । राधरङ्कुन्तु ना सीरे श्रीकरे जलदोपले ॥ २१७ ॥ लतालिकस्तु लाटाम्रे वज्रमुस्तौ च पुंस्ययम् । लालाटिकः स्यात्करणान्तरेऽप्यालिङ्गनान्तरे ॥ २१८ ॥ ;p{0038} कार्याक्षमे प्रभोर्भावदर्शिन्यपि तु वाच्यवत् । त्रिषु लेखीलको लेखहारे यश्च विलेखयेत् ॥ २१९ ॥ स्वहस्तपरहस्तेन लेखे लेखीलकः स च । वितुन्नकं तु धान्याके मतं झाटामलेऽपि च ॥ २२० ॥ विदूषकश्चाटुवटौ परनिन्दाविधायिनि । विनायको जिने बुद्धे तार्क्ष्ये हेरम्बविघ्नयोः ॥ २२१ ॥ गुरौ विमानकं तु स्यान्माने शून्येऽभिधेयवत् । विमानकं देवयाने सप्तभूमगृहे स्त्रियाम् ॥ २२२ ॥ विशेषकोऽस्त्री तिलके विशेषावाहके द्रुमे । वैतालिको बोधकरे खेट्टताले च कीर्तितः ॥ २२३ ॥ वैदेहको वाणिजके शूद्राद्वेश्यासुतेऽपि च । वैनाशिकस्तु क्षणिके परतन्त्रोर्णनाभयोः ॥ २२४ ॥ ;p{0039} शतानीको मुनेर्भेदे वृद्धे शालावृकः शुनि । शृगाले वानरे वाऽथ बिले चान्द्रे शिलाटकः ॥ २२५ ॥ शृङ्गाटको भवेद्वारिकण्टके च चतुष्पथे । सङ्घाटिका युगे नासाट्कुट्टिनीलजकण्टके ॥ २२६ ॥ सन्तानिका दधिक्षीरसारे मर्कटजालके । संदंशिका तु मुकुटीलोहयन्त्रभेद्रयोः ॥ २२७ ॥ स्यात्सुप्रतीक ईशानदिग्गजे दिव्यविग्रहे । शृगालिका शिवायां स्यात्त्रासादपि पलायने ॥ २२८ ॥ क्लीबे सैकतिकं मातृयात्रामङ्गलसूत्रयोः । त्रिषु संन्यस्तसंदेहजीविक्षपणिकेष्विदम् ॥ २२९ ॥ पुमान् सैकतिको गन्धकुट्यां सिन्धोश्च सैकते । स्वभार्यां परहस्तस्थां यो न साधयितुं क्षमः ॥ २३० ॥ ;p{0040} तत्र संन्यासमात्रेण क्षुधा च कृतभोजने । सोमवल्कः पुमान् श्वेतखदिरे कट्फलेऽपि च ॥ २३१ ॥ सौगन्धिकं तु कह्लारे पद्मरागे च कत्तृणे । गन्धके गान्धिके पुंसि त्रिषु सौगन्धिकं क्रमात् ॥ २३२ ॥ ;v{कपञ्चमम्} ;c{कपञ्चमम् ।} अनेडमूकः कितवे त्रिषु वाक्श्रुतिवर्जिते । स्यादाच्छुरितकं हासनखाघातविशेषयोः ॥ २३३ ॥ मातोपकारिका राजमन्दिरे पिष्टकान्तरे । उपकर्त्र्यामपीयं स्यादथ स्यात्कटखादकः ॥ २३४ ॥ खादके काचकलशे वलिपुष्टशृगालयोः । स्यात्कक्षावेक्षको धीरे शुद्धान्तोद्यानपालयोः ॥ २३५ ॥ अपि षिड्गे कवौ रङ्गाजीविनि द्वारपालके । स्यात्कृमीकण्टकं चित्राविडङ्गोदुम्बरेष्वपि ॥ २३६ ॥ ;p{0041} गोजागरिकमित्याहुर्मङ्गले कन्दुकारके । कण्ठीविशेषखद्योतविद्युत्सु चिलिमीलिका ॥ २३७ ॥ शृङ्गाटके जलगृहे पृश्न्यां च जलकण्टकः । जनतापिक हल्लीशकाकोलीमत्स्ययोर्मतः ॥ २३८ ॥ भवेज्जलकरङ्कस्तु नालिकेरफलेऽम्बुदे । कंजे जललतायां च भवेन्नवफलिका पुनः ॥ २३९ ॥ नव्ये भव्ये प्रसूनादौ नवजातरजःस्त्रियाम् । नागवारिकमिच्छन्ति हस्तिपे राजहस्तिनि ॥ २४० ॥ तार्क्ष्ये गणन्वराजेऽपि चित्रमेखलके क्वचित् । शोधन्यामिंगुदे लोकयात्रायां व्यवहारिका ॥ २४१ ॥ स्याद्व्रीहिराजिकः पुंसि कामिनीचीनधान्ययोः । शतपर्विका च दूर्वायां वचायां शतपर्विका ॥ २४२ ॥ ;p{0042} शीतचम्पकशब्दोऽयमातर्पणकदीपयोः । सुवसन्तकमिच्छन्ति वासन्त्यां मदनोत्सवे ॥ २४३ ॥ स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः । ;v{कषष्ठम्} ;c{कषष्ठम् ।} ग्राममद्गुरिका शृङ्ग्यां ग्रामयुद्धे च दृश्यते ॥ २४४ ॥ भवेन्मदनशलाका तु सार्यां कामोदयौषधौ । भवेन्मातुलजे धूर्तफले मातुलपुत्रकः ॥ २४५ ॥ लूतामर्कटिका पुत्र्यां नवमालप्लवङ्गयोः । श्लोकच्छायाहरे चौरे भवेद्वर्णविलोडकः ॥ २४६ ॥ सिन्दूरतिलको नागे सिन्दूरतिलकस्त्रियाम् । चतुर्मासोपवासी यः स स्यात्स्नानचिकित्सकः ॥ २४७ ॥ ;p{0043} तपस्विपुष्पयोश्चैव मतं स्नानचिकित्सकम् ॥ २४८ ॥ ;c{इति कविपण्डितश्रीश्रीधरसेनविरचिते मुक्तावलीत्यपराभिधाने विश्वलोचने स्वरकाद्यादिकान्तवर्गः ।} ;k{खान्तवर्गः} ;c{अथ खान्तवर्गः ।} ;v{खैकम्} ;c{खैकम् ।} खमाकाशे दिवि सुखे बुद्धौ संवेदने पुरे । शून्यवदिन्द्रियक्षेत्रे कुशाहलफले क्वचित् ॥ १ ॥ ;v{खद्वितीयम्} ;c{खद्वितीयम् ।} उखाऽनिरुद्धभार्यायामुखा स्थाल्यामपि स्मृता । नखस्तु करजे शुक्तौ गन्धद्रव्ये नखी नखम् ॥ २ ॥ न्युङ्खः सम्यग्मनोज्ञे च साम्नः षट्प्रणवेष्वपि । प्रेङ्खाः पर्यटने नृत्ये दोलायां वाजिनां गतौ ॥ ३ ॥ ;p{0044} चिङ्खा गत्यन्तरे नृत्ये शूकशिम्ब्यां च दृश्यते । मुखं वक्रे निःसरणेऽप्युपायाऽऽरम्भयोरपि ॥ ४ ॥ लेखो लेख्ये सुरे लेखा रेखाराजीलिपिष्वपि । शङ्खः कम्बुललाटास्थिनखीनिधिषु न स्त्रियाम् ॥ ५ ॥ शाखा स्यात्पल्लवे वेदविभागेऽप्यन्तिके भुजे । शाखा पक्षान्तरे चाथ शिखा शाखाग्ररश्मिषु ॥ ६ ॥ शिखा शिखायां चूडायां चूडायां च शिखण्डिनः । ज्वालायां लाङ्गलिक्यां च सखा मित्रसहाययोः ॥ ७ ॥ सुखं शर्मण्यपि स्वर्गे सुखा पुर्यां प्रचेतसः । ;v{खतृतीयम्} ;c{खतृतीयम् ।} गोमुखं कुटिलागारे वाद्यभाण्डोपलेपयोः ॥ ८ ॥ ;p{0045} त्रिशिखो रक्षसो भेदे क्लीबं भूषात्रिशूलयोः । दुर्मुखो मुखरे नागराजे शाखामृगाश्वयोः ॥ ९ ॥ प्रमुखः प्रथमे श्रेष्ठे मयूखो ज्वालरुक्करे । स्कन्दे तर्के विशाखः स्याद्विशाखा भे कठिल्लके ॥ १० ॥ विशिखस्तोमरे बाणे विशिखा खनिरथ्ययोः । नलिकायां च विशिखा वैशाखो राघमन्ययोः ॥ ११ ॥ सुमुखस्तार्क्ष्यतनये पण्डिते भुजगान्तरे ॥ १२ ॥ ;v{खचतुर्थम्} ;c{खचतुर्थम् ।} भवेदग्निमुखो देवे द्विजे पावकसम्भवे । भल्लातके त्वग्निमुखी क्वचिदग्निमुखोऽपि च ॥ १३ ॥ लाङ्गलिक्यां त्वग्निशिखा कुङ्कुमेऽग्निशिखं स्मृतम् । इन्दुलेखा शशिकलाऽमृतासोमलतास्वपि ॥ १४ ॥ ;p{0046} पुंसि पञ्चनखः कूर्मे गजे गौधादिषु क्वचित् । बद्धशिखोच्चटायां स्याद्बाले बद्धशिखस्त्रिषु ॥ १५ ॥ महाशङ्खो नरास्थि स्यान्निधिसङ्ख्याप्रभेदयोः । शिलीमुखो भवेद्भृङ्गे मार्गणे च शिलीमुखः ॥ १६ ॥ ;v{खपञ्चमम्} ;c{खपञ्चमम् ।} स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले । मतः शीतमयूखोऽपि शशिकर्पूरयोरयम् ॥ १७ ॥ सर्वतोमुखमाख्यातं क्लीबमाकाशपाथसोः । क्षेत्रज्ञविधिरुद्रेषु स पुमान् सर्वतोमुखः ॥ १८ ॥ ;c{इति विश्वलोचने खान्तवर्गः ।} ;k{गान्तवर्गः} ;c{अथ गान्तवर्गः ।} ;v{गैकम्} ;c{गैकम् ।} गो गन्धर्वे गणेशेऽर्के गं गीते शास्त्रगातरि । गौः पुमान् वृषभे खर्गे खण्डवज्रहिमांशुषु ॥ १ ॥ ;p{0047} स्त्री गवि भूमिदिग्नेत्रवाग्बाणसलिले स्त्रियः ॥ २ ॥ ;v{गद्वितीयम्} ;c{गद्वितीयम् ।} अगः स्यान्नगवद्वृक्षे शैलै भानुभुजङ्गयोः । अङ्गा नीवृत्प्रभेदे स्युरङ्गो देशेङ्गमन्तिके ॥ ३ ॥ गात्रोपायाप्रधानेषु प्रतीकेप्यङ्गवत्यपि । अङ्ग संबोधनेऽसङ्ख्यं पुनरर्थप्रमोदयोः ॥ ४ ॥ इङ्गः स्यादिङ्गिते ज्ञाने जङ्गमाद्भुतयोरपि । खगो विहङ्गे विशिखे खगः सूर्ये सुरे ग्रहे ॥ ५ ॥ खड्गः खड्गिनि निस्त्रिंशे खड्गिशृङ्गे जिनान्तरे । गाङ्गः षडानने भीष्मे गङ्गाभूते तु वाच्यवत् ॥ ६ ॥ चङ्गस्तु शोभने दक्षे टङ्गोऽस्त्री स्यात्खनित्रके । तथैवास्त्रान्तरेऽप्यस्त्री जङ्घायां खड्गभेदके ॥ ७ ॥ ;p{0048} उन्नते वाच्यवत्तुङ्गस्तुङ्गः पुन्नागशैलयोः । बर्वरानिशयोस्तुङ्गी त्यागो दाने च वर्जने ॥ ८ ॥ दुर्गः स्याद्दुर्गमे दुर्गा चण्डीनीलिकयोर्मता । नगस्तु पर्वते वृक्षे नगो भानुभुजङ्गयोः ॥ ९ ॥ नागः पन्नगपुन्नागनागकेसरदन्तिषु । नागदन्तकजीमूतमुस्तके क्रूरकर्मणि ॥ १० ॥ देहाऽनिलान्तरे श्रेष्ठे श्रेष्ठ एवोत्तरस्थितः । नागं तु सीसके रङ्गे स्त्रीबन्धकरणान्तरे ॥ ११ ॥ पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गं तु बालके । पिङ्गा रामठनील्यां स्यादुमारोचनयोरपि ॥ १२ ॥ पूगस्तु निकुरम्बे स्यात्पूगः क्रमुकपादपे । फल्गुर्मलप्वामाख्याता निष्फले फल्गु वाच्यवत् ॥ १३ ॥ ;p{0049} भगं तु ज्ञानयोनीच्छायशोमाहात्म्यमुक्तिषु । ऐश्वर्यवीर्यवैराग्यधर्मश्रीरत्नभानुषु ॥ १४ ॥ भङ्गस्तरङ्गरुग्भेदे दम्भे जयविपर्यये । भङ्गा शणाख्यसस्ये स्याद्भागो रूपार्धकांशयोः ॥ १५ ॥ एकदेशे च भाग्ये च विपूर्वस्तु विभञ्जने । भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ॥ १६ ॥ भृङ्गः पुष्पत्वपे खिड्गे तथा धूम्याटपक्षिणि । नपुंसकं तु भृङ्गं स्यात्केशराजभृगूटयोः ॥ १७ ॥ पुंसि भोगः सुखेऽपि स्यादहेश्च फणकाययोः । निर्वेशे गणिकादीनां भोजने पालने धने ॥ १८ ॥ मार्गोऽग्रहायणे वाटे कस्तूरीविषयोरपि । मृगः कुरङ्गेऽपि पशौ मृगयामृगशीर्षयोः ॥ १९ ॥ ;p{0050} हस्तिभेदेऽपि याञ्चायां मृगी स्यान्नायिकान्तरे । प्रशस्तरथसाराङ्गं युग्मेऽपि स्यात्कृतादिषु ॥ २० ॥ युगं हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च । योगः संनाहसंधानसङ्गतिध्यानकर्मणि ॥ २१ ॥ विष्कम्भादिषु सूत्रे च द्रव्ये विश्वस्तघातिनि । चरे चापूर्वलाभेऽपि भेषजोपाययुक्तिषु ॥ २२ ॥ रागोऽनुरागमात्सर्ये क्लेशादौ लोहितादिषु । गान्धारादौ नृपे नागे रोगः कुष्ठौषधे गदे ॥ २३ ॥ लङ्गः खिड्गेऽपि सङ्गेऽपि लिङ्गं चिह्नाऽनुमानयोः । मेहने शिवभेदे च साङ्ख्योक्तप्रकृतावपि ॥ २४ ॥ वङ्गो देशान्तरे भण्टातकीकार्पासयोः पुमान् । वङ्गं रङ्गे च नागे च वङ्गा पुंभू्म्नि नीवृति ॥ २५ ॥ ;p{0051} वर्गोऽध्याये च वृन्दे च वर्गः पञ्चाक्षरीभिदि । वल्गुर्ना नकुले छागे मनोज्ञे वल्गु वाच्यवत् ॥ २६ ॥ वेगो जवे प्रवाहे च महाकालफलेऽपि च । व्यङ्गस्तु पुंसि मण्डूके हीनाङ्गे व्यङ्गमन्यवत् ॥ २७ ॥ क्लीबं शरासने शार्ङ्गं शार्ङ्गं विष्णुशरासने । शृङ्गं विषाणे शिखरे प्रभुत्वोत्कर्षसानुषु ॥ २८ ॥ चिह्नं क्रीडाम्बुयन्त्रे च शृङ्गः स्याकूर्चशीर्षके । शृङ्गी विषायामृषभे मीनस्वर्गविशेषयोः ॥ २९ ॥ सर्गः स्वभावनिर्मोक्षनिश्चयोत्साहसृष्टिषु । मोहेऽध्याये च शुङ्गी तु न्यग्रोधप्लक्षपीतने ॥ ३० ॥ ;v{गतृतीयम्} ;c{गतृतीयम् ।} अनङ्गो मन्मथेऽनङ्गमाकाशमनसोर्मतम् । अङ्गहीनेऽप्यनङ्गः स्यादङ्गभूतविपर्यये ॥ ३१ ॥ ;p{0052} अपाङ्गस्त्वङ्गविकले नेत्रान्ते तिलके पुमान् । अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ॥ ३२ ॥ आभोगो वारुणच्छत्रे यत्नपूर्णत्वयोरपि । आयोगो गन्धमाल्यादिव्यसनेऽपि च ढौकने ॥ ३३ ॥ व्यापाररोधयोश्चाऽऽथ आशुगो बाणवातयोः । उत्सर्गो वर्जने त्यागे सामान्ये न्यायदानयोः ॥ ३४ ॥ उद्वेग उद्बाहुलके पुमानुद्वेजनेऽपि च । भवेदुद्गमने चायमुद्वेगं क्रमुकीफले ॥ ३५ ॥ कलिङ्गः पूतिकरजे धूम्याटे विषयान्तरे । नीवृद्भेदे कलिङ्गस्तु त्रिषु दग्धविदग्धयोः ॥ ३६ ॥ कलिङ्गं कौटजफले कलिङ्गा योषिति स्त्रियाम् । कलिङ्गो भूमिकूष्माण्डे मतङ्गजभुजङ्गयोः ॥ ३७ ॥ ;p{0053} कालिङ्गी राजकर्कट्यां कालिङ्गस्त्रिषु तद्भवे । चक्राङ्गी कटुरोहिण्यां चक्राङ्गश्चक्रपक्षिणि ॥ ३८ ॥ जिह्मगो भुजगे पुंसि मन्दगे त्रिषु जिह्मगः । तडागः सरसि ख्यातस्तडागो यन्त्रकूटके ॥ ३९ ॥ तातगुः क्षुद्रताते स्याज्जने पितृहितेऽपि च । तुरगी त्वश्वगन्धायां तुरगो हयचित्तयोः ॥ ४० ॥ त्रिवर्गो धर्मकामार्थसंहतौ च कटुत्रिके । त्रिफलायां सत्त्वरजस्तमसामपि संहतौ ॥ ४१ ॥ वृद्धिस्थानक्षयैकोक्तौ धाराङ्गस्त्वसितीर्थयोः । नरङ्गं तु वरण्डे च वृत्तिकीलकशेफसोः ॥ ४२ ॥ नागरङ्गेऽपि नारङ्गो नारङ्गो यमजेऽपि च । विटे जन्तौ च नारङ्गो नारङ्गं पिप्पलीरसे ॥ ४३ ॥ ;p{0054} निषङ्गो बाणधौ सङ्गे निसर्गः शीलसर्गयोः । नीलङ्गुः कृमिकीटे स्याद् भंभराल्यामुशीरके ॥ ४४ ॥ पतङ्गः शलभे सूर्ये खगे शाल्यन्तरेऽपि च । रसे पतङ्गे पत्राङ्गं रक्तचन्दनभूर्जयोः ॥ ४५ ॥ पद्मके चाथ सर्पेऽपि पद्मकाष्ठेऽपि पन्नगः । परागः पुष्परजसि स्नानीयादौ रजस्यपि ॥ ४६ ॥ विख्यातावुपरागेऽपि चन्दने पर्वतान्तरे । पुन्नागः पुरुषश्रेष्ठे वृक्षभेदे सितोत्पले ॥ ४७ ॥ जातीफलेऽपि पुन्नागः पाण्डुनागे च दृश्यते । प्रयागस्तीर्थभेदे स्याद्यज्ञे वाहे विडौजसि ॥ ४८ ॥ प्रयोगः कार्मणे पुंसि प्रयुक्तौ च निदर्शने । प्रियङ्गुः फलिनीकङ्गूराजिकापिप्पलीष्वियम् ॥ ४९ ॥ ;p{0055} प्लवगो वानरे भेके तीक्ष्णदीधितिसारथौ । भुजङ्गो भुजगे षिड्गे मातङ्गः श्वपचे गजे ॥ ५० ॥ मृदङ्गः पटहे घोषे रक्ताङ्गा जीविकौषधौ । रक्ताङ्गो मङ्गले क्लीबं धीरकाम्पिल्यविद्रुमे ॥ ५१ ॥ रथाङ्गमद्वयोश्चक्रे रथाङ्गश्चक्रपक्षिणि । वराङ्गं मस्तके योनौ गुडत्वचि गजे स्त्रियाम् ॥ ५२ ॥ वातिगस्तु दशापाके वार्ताकीधातुवादिनोः । विडङ्गोऽस्त्री कृमिघ्ने स्याद् विडङ्गो नागरेऽन्यवत् ॥ ५३ ॥ विहगस्तु विहङ्गे स्यादग्रगे विहगस्त्रिषु । विसर्गस्तु भवे दाने त्यागे च मलनिर्गमे ॥ ५४ ॥ विसर्जनीये मुक्तौ च भास्वतश्चायनान्तरे । रते भोगे च सम्भोगः सम्भोगो जिनशासने ॥ ५५ ॥ ;p{0056} सर्वगं सलिले क्लीबं सर्वगः शङ्करे विभौ । सारङ्गो मृगमातङ्गचातकेषु खगान्तरे ॥ ५६ ॥ भृङ्गे त्रिषु तु किर्मीरे हेमाङ्गस्तार्क्ष्यवेधसोः । ;v{गचतुर्थम्} ;c{गचतुर्थम् ।} अनुषङ्गस्तु नाऽऽरब्धे कारुण्येऽपि क्वचिन्मतः ॥ ५७ ॥ त्यागे मोक्षेऽपवर्गः स्यात्साफल्ये कृतकृत्यतः । अभिषङ्गस्तु संसर्गशपथाक्रोशगञ्जने ॥ ५८ ॥ ईहामृगो वृके जन्तौ प्रभेदे चंपकस्य च । अथोपरागः स्वर्भानुग्रस्तयोः पुष्पवन्तयोः ॥ ५९ ॥ दुर्नयग्रहकल्लोले परीवापे तु पुंस्ययम् । उपसर्गः स्मृतो रोगभेदे चोपप्लवेपि च ॥ ६० ॥ कटभङ्गस्तु शस्यानां नखच्छेदे नृपात्यये । छत्रभङ्गस्तु वैधव्येऽस्वातन्त्र्यनृपनाशयोः ॥ ६१ ॥ ;p{0057} दीर्घाध्वगस्तु करभे लेखहारे तु वाच्यवत् । मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ६२ ॥ राजशृङ्गस्तु कनकदण्डमुद्गरयोः पुमान् । समायोगस्तु संयोगे समवाये प्रयोजने ॥ ६३ ॥ सम्प्रयोगस्तु सुरते कार्मणेप्यन्वयेऽपि च ॥ ६४ ॥ ;v{गपञ्चमम्} ;c{गपञ्चमम् ।} कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् । नाडीतरङ्गः काकोले हिंडके रतहिण्डके ॥ ६५ ॥ ;c{इति विश्वलोचने गान्तवर्गः ।} ;k{घान्तवर्गः} ;c{अथ घान्तवर्गः ।} ;v{घैकम्} ;c{घैकम् ।} घो घण्टायां च घा घाते किङ्किण्यां स्त्री ध्वनौ तु घः । ;p{0058} ;v{घद्वितीयम्} ;c{घद्वितीयम् ।} पापेऽर्त्तौ व्यसने चाऽघं स्यादर्घोऽर्चनमूल्ययोः ॥ १ ॥ अङ्घ्रिः स्याज्जानुचरणे मूले चापि महीरुहाम् । उद्घो हस्तपुटे देहपवने पावके पुमान् ॥ २ ॥ ओघः परम्परायां स्याद्द्रुतनृत्योपदेशयोः । ओघः पाथःप्रवाहे च समूहे च पुमानयम् ॥ ३ ॥ मघा दशमनक्षत्रे मघा स्याद्रुतजान्तरे । वारिवाहेऽपि मेघः स्यान्मेघः स्यान्मुस्तकेऽपि च ॥ ४ ॥ मोघस्तु निष्फले दीने मोघा पाटलिपादपे । लघुर्मनोज्ञनिस्सारागुरुलघुषु वाच्यवत् ॥ ५ ॥ पृक्कायां स्त्री लघु क्लीबं कृष्णागुरुणि सत्वरे । श्लाघा तु स्यात्प्रशंसायां परिचर्याऽभिलाषयोः ॥ ६ ॥ ;p{0059} ;v{घतृतीयम्} ;c{घतृतीयम् ।} अमोघः सफलेऽमोघा ख्याता पथ्याविडङ्गयोः । उल्लाघो नीरुजे दक्षे शुचौ हर्षयुते त्रिषु ॥ ७ ॥ काचिघः काञ्चने पुंसि मूषके स्वच्छमण्डपे । निदाघ उष्णकाले स्यात्तापेऽपि खेदवारिणि ॥ ८ ॥ परिघो मुद्गरे योगभेदे स्वकुलघातयोः । पलिघः काचकलशे घटप्राकारगोपुरे ॥ ९ ॥ प्रतिघस्तु भवेत्क्रोधे प्रतिघातेऽप्यथ त्रिषु । महार्घः स्यान्महामूल्याऽनर्घयोर्लावके पुमान् । सर्वौघो गुरुवेगार्थसर्वसन्नहनार्थयोः ॥ १० ॥ ;c{इति विश्वलोचने घान्तवर्गः ।} ;p{0060} ;k{ङान्तवर्गः} ;c{अथ ङान्तवर्गः ।} ;v{ङैकम्} ;c{ङैकम् ।} भैरवे विषये ङः स्यात् ॥ ;c{इति विश्वलोचने ङान्तवर्गः ॥} ;k{चान्तवर्गः} ;c{अथ चान्तवर्गः ।} ;v{चैकम्} ;c{चैकम् ।} चस्तु तस्करचन्द्रयोः ॥ ;v{चद्वितीयम्} ;c{चद्वितीयम् ।} अर्च्चा पूजाप्रतिमयोरुच्चो महति चोन्नते । कचः केशेऽपि ह्रीबेरे कचो गीष्पतिनन्दने ॥ १ ॥ कचः शुष्कव्रणे बन्धे करिण्यां तु कचा स्त्रियाम् । काचस्तु स्यान्मणौ शिक्ये नेत्ररोगे मृदन्तरे ॥ २ ॥ काञ्ची तु मेखलादाम्नि नीवृदन्तरगुञ्जयोः । कूर्चमस्त्री भ्रुवोर्मध्ये शोथश्मश्रुविकत्थने ॥ ३ ॥ ;p{0061} क्रौञ्चस्तु पक्षिभेदे स्यान्नगद्वीपप्रभेदयोः । चञ्चो नालादिनिर्माणे चञ्चा तु तृण पूरुषे ॥ ४ ॥ चञ्चुः पञ्चाङ्गुले त्रोट्यां गोनाडीचकलिञ्चयोः । चर्चा तु स्थासके तर्के चर्चिकाचिन्तयोस्तले ॥ ५ ॥ त्वक् स्त्रियां वल्कलेऽपि स्याच्चर्ममात्रे गुडत्वचि । नीचस्तु पामरे निम्ने वामनेऽप्यभिधेयवत् ॥ ६ ॥ न्यग् निम्ने पामरे कार्त्स्न्ये पिचुः स्यात्पुंसि तूलके । कृष्णे दैत्यान्तरे कर्षे भैरवस्याननान्तरे ॥ ७ ॥ प्राक् प्राच्ये वाच्यवत् काले दिग्देशे त्वव्ययं मतम् । मोचः सौभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ॥ ८ ॥ रुचिरिच्छा रुचा रुक्ता शोभाभिष्वङ्गयोरपि । रुक् शोभायां च किरणे स्त्रियामपि मनोरथे ॥ ९ ॥ ;p{0062} वचः शुके वचा तू्ग्रगन्धासारिकयोः स्त्रियाम् । वाग्भारतीगिरोर्वीचिर्द्वयोः स्वल्पतरङ्गयोः ॥ १० ॥ अवकाशे सुखे चाथ शचीन्द्राणी शतावरी । शुचिः पुंस्युपधाशुद्धमन्त्रिण्याषाढवर्हिषोः ॥ ११ ॥ शृङ्गारग्रीष्मयोः श्वेतमध्यानुपहते त्रिषु । सूची कराद्यभिनये वेधनीशिखयोरपि ॥ १२ ॥ सूची सीमन्तिनीनां च कथिता करणान्तरे ॥ १३ ॥ ;v{चतृतीयम्} ;c{चतृतीयम् ।} अवीचिर्नरके घूर्मिविरहे घूर्मिवर्जिते । भवेदुदक् त्रिषूदीच्ये दिग्देशकालतोऽव्ययम् ॥ १४ ॥ कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च । कवचो वारवाणे स्यात्पटहे गर्दभाण्डके ॥ १५ ॥ ;p{0063} क्रकचः करपत्रेऽपि ग्रन्थिलाख्यमहीरुहे । नमुचिर्मदने दैत्ये नाराचो जलहस्तिनि ॥ १६ ॥ लोहबाणेऽपि नाराचो नाराची स्यात्तुलान्तरे । प्रत्यक् प्रतीच्ये दिग्देशकाले तु मतमव्ययम् ॥ १७ ॥ स्यात्प्रपञ्चस्तु विस्तारे सञ्चये च प्रतारणे । मरीचिर्नाद्ययोर्दीप्तौ मुनौ ना कृपणेऽपि च ॥ १८ ॥ मारीचो याजकद्विजे कक्कोले राक्षसान्तरे । मरीचो देवताभेदे प्रफुल्ले विकचस्त्रिषु ॥ १९ ॥ केशशून्ये च ह्रीके तु पुंसि केतुग्रहेऽपि च । विपञ्ची वल्लकीकेल्योः सङ्कोचं कुङ्कमे मतम् ॥ २० ॥ सङ्कोचो मत्स्यभेदेऽपि सङ्कोचो बन्धनेऽपि च । सत्यवत्सत्ययोः सम्यक् सम्यक् सङ्गतहृद्ययोः ॥ २१ ॥ ;p{0064} ;v{चचतुर्थम्} ;c{चचतुर्थम् ।} काकचिञ्ची तुलावीजे वारिक्रिमिदिलीरयोः । जलसूचिर्जलौकायां शृङ्गाटे शिशुमारके ॥ २२ ॥ कङ्कत्रोटौ झषे चाथ चोरे वह्नौ मलिम्लुचः । अमावास्याद्वयं यत्र सोऽपि मासो मलिम्लुचः ॥ २३ ॥ ;c{चपंचमम्} ;c{चपंचमम् ।} रतनारीच-शब्दोऽयं कुक्कुरे रतिवल्लमे । परीरम्भे समुद्भूतशीत्कारे च वरस्त्रियाः ॥ २४ ॥ ;c{इति विश्वलोचने चान्तवर्ग ।} ;k{छान्तवर्गः} ;c{अथ छान्तवर्गः ।} ;v{छैकम्} ;c{छैकम् ।} छश्छेदकार्कयोश्छा च च्छिदि छं लाच्छनाऽच्छयोः । ;p{0065} ;v{छद्वितीयम्} ;c{छद्वितीयम् ।} अच्छाव्ययमाभिमुख्ये अच्छस्फटिकयोः पुमान् । अच्छः स्वच्छेऽन्यलिङ्गः स्यात्कच्छः शैलादिसीमनि ॥ १ ॥ नौकाङ्गे तुन्नकेऽनूपे परिधानाञ्चलान्तरे । कच्छा तु चीरिकायां स्याद् वाराह्यामपि दृश्यते ॥ २ ॥ गुच्छः स्तबके हारभेदे गुच्छः स्तम्बकलापयोः । स्यात्पिच्छमस्त्रियां पुच्छे पिच्छा शाल्मलिवेष्टके ॥ ३ ॥ पङ्क्तौ पूगच्छटाकोशेमण्डेष्वश्वपदामये । विज्जुलेऽप्यथ पुच्छः स्यात्पिच्छपश्चात्प्रदेशयोः ॥ ४ ॥ म्लेच्छोऽपभाषणे जातिभेदे पापरतेऽपि च । ;v{छचतुर्थम्} ;c{छचतुर्थम् ।} अथ पुंसि महाकच्छः सरिन्नाथप्रचेतसि ॥ ५ ॥ ;c{इति विश्वलोचने छान्तवर्गः ।} ;p{0066} ;k{जान्तवर्गः} ;c{अथ जान्तवर्गः ।} ;v{जैकम्} ;c{जैकम् ।} जः स्याज्जविनि जोद्भूतौ जयने जिः प्रकीर्तितः । जूराकाशे सरस्वत्यां पिशाच्यां जविने त्रिषु ॥ १ ॥ ;v{जद्वितीयम्} ;c{जद्वितीयम् ।} अजः कृष्णे स्मरहरे विधौ छागे रघोः सुते । अब्जो धन्वन्तरौ चन्द्रे निचुले क्लीबमम्बुजे ॥ २ ॥ अस्त्री कम्बुन्यथाऽऽजिः स्यात्सङ्ग्रामेऽपि समक्षितौ । उत्साहे कार्त्तिकेप्यूर्जस्तूर्जा वीर्ये बले द्वयोः ॥ ३ ॥ कञ्जः केशे विरिञ्चेऽपि कुञ्जं पीयूषपद्मयोः । कुजस्तु नरकेऽङ्गारे द्रुमे कु्ञ्जं तु न स्त्रियाम् ॥ ४ ॥ ;p{0067} हनौ वत्से निकुञ्जेऽपि कुब्जो न्युब्जे द्रुमान्तरे । स्त्रियां तु खर्जूः खर्जूरवृक्षे कण्डूतिकीटयोः ॥ ५ ॥ खनौ सुरागृहे गञ्जा भाण्डागारे तु न स्त्रियाम् । गञ्जने पुंसि खजा तु मन्थे दर्वीप्रहस्तयोः ॥ ६ ॥ गुञ्जा तु काकचिञ्च्यां स्यात्पटहे च कलध्वनौ । द्विजो विप्रेऽण्डजे दन्ते भार्ङ्गीरेणुकयोर्द्विजा ॥ ७ ॥ ध्वजोऽस्त्री लिङ्गखट्वाङ्गपताकाचिह्नशौण्डिके । निजस्त्रिषु स्वके नित्ये न्युब्जो दर्भस्रुचि स्मृतः ॥ ८ ॥ न्युब्जं तु कर्मरङ्गे स्यात् कुब्जाधोमुखयोस्रिषु । पिञ्जो वधे बले पिञ्जं पिञ्जा तूलहरिद्रयोः ॥ ९ ॥ व्याकुले वाच्यवत्पिञ्जः प्रजा सन्तानलोकयोः । भुजो भुजा च बाहौ स्यात् पाणिमात्रेऽपि तावुभौ ॥ १० ॥ ;p{0068} मर्जुस्तु रजके पुंसि मर्जूः शुद्धावपि स्त्रियाम् । रज्जुर्वेण्यां गुणेऽपि स्याद् राजिः स्त्री पङ्क्तिरेखयोः ॥ ११ ॥ रुजा रोगेऽपि भङ्गेऽपि लञ्जः स्यात्पट्टकच्छयोः । लाजाः स्युर्भृष्टधान्येषु लाजः स्यादार्द्रतण्डुले ॥ १२ ॥ उशीरे लाजमुद्दिष्टं वाजः पक्षे स्यदेऽपि च । मुनिभेदे खने वाजं त्वाज्ये यज्ञान्नपाथसोः ॥ १३ ॥ वीजं हेतावुपादानेप्यङ्कुरेऽपि च रेतसि । वीजमल्पेऽपि तत्त्वेऽपि व्याजः साध्याऽपदेशयोः ॥ १४ ॥ सर्जूर्वणिजि पुंसि स्यात्सर्जूः स्याद्विद्युति स्त्रियाम् । सन्नद्धे संभृते सज्जः सञ्जः शम्भुविरिञ्चयोः ॥ १५ ॥ स्वजः स्वेदे स्वजं रक्तेऽपत्ये च स्वजमन्यवत् । ;v{जतृतीयम्} ;c{जतृतीयम् ।} अङ्गजः केशकन्दर्पे पदे पुत्रे गदे स्वजे ॥ १६ ॥ ;p{0069} अङ्गजं रुधिरेऽथ स्यादण्डजः पक्षिमीनयोः । कृकलासे भुजङ्गे च कस्तू्र्यामण्डजाऽपि च ॥ १७ ॥ अम्बुजो निचुले पुंसि क्लीबं तु सरसीरुहे । कम्बोजो देशमातङ्गशंखभेदेषु देशितः ॥ १८ ॥ करजस्तु करञ्जे स्यादपि व्याघ्रनखे नखे । काम्बोजः सोमवल्के स्याच्छङ्खपुन्नागवाजिषु ॥ १९ ॥ माषपर्णीहिङ्गुपर्ण्योः काम्बोजी तद्भवे त्रिषु । कारुजः शिल्पिनां चित्रे स्वयञ्जाततिलेऽपि च ॥ २० ॥ वल्मीके गैरिके फैने कलभे नागकेशरे । कुटजः शाखिनाम्भेदे स्याद्द्रोणे कुम्भसम्भवे ॥ २१ ॥ गिरिजा शैलतनयामातुलिङ्ग्योरुदाहृता । गिरिजं त्वभ्रके लौहे शिलाजतुसुगन्धयोः ॥ २२ ॥ ;p{0070} जलजं पङ्कजे शङ्खे नीरजं पद्मकुष्ठयोः । परञ्जस्तैलयन्त्रासिफेनेषु छुरिकाफले ॥ २३ ॥ वणिक् पुंस्येव वाणिज्यजीवके करणान्तरे । वाणिज्ये तु वणिक् स्त्रीत्वे वलजा वल्गयोषिति ॥ २४ ॥ क्षितौ तु वलजं तु स्यात्क्षेत्रसस्यादिगोपुरे । स्याद्भूमिजा तु जानक्यां भूमिजो नरके कुजे ॥ २५ ॥ वनजा मुद्गपर्ण्यां स्याद् वनजो गजमुस्तयोः । वनजं पङ्कजे क्लीबं वाच्यवद्वनसम्भवे ॥ २६ ॥ बाहुजः क्षत्रिये ख्यातः स्वयञ्जाततिले शुके । सहजस्तु निसर्गे स्यात्सहजातेऽन्यलिङ्गकः ॥ २७ ॥ सामजः सामसम्भूते वाच्यलिङ्गः पुमान् गजे । हिमजा पार्वतीशच्योर्मैनाके हिमजः पुमान् ॥ २८ ॥ ;p{0071} ;v{जचतुर्थम्} ;c{जचतुर्थम् ।} अहिभुग् विनतापुत्रे मेघनादानुलासिनि । काश्मीरजा चाऽतिविषाकुष्ठकुङ्कुमपुष्करे ॥ २९ ॥ ग्रहराजः शशिन्यर्केऽनुजे शूद्रे जघन्यजः । द्विजराजो निशानाथे विनतात्मजशेषयोः ॥ ३० ॥ धर्म्मराड्यमराजौ द्वौ यमे बुद्धे युधिष्ठिरे । भरद्वाजो गुरुसुते व्याघ्राटाभिख्यपक्षिणि ॥ ३१ ॥ भारद्वाजो मुनौ चोग्रे स्त्रिया कार्प्पासिकान्तरे । भृङ्गराजस्तु मधुपे मार्क्कवे विहगान्तरे ॥ ३२ ॥ यक्षराट् त्र्यंबकसखे मल्लानां रङ्गचत्वरे । राजराजस्तु धनदे सार्वभममृगाङ्कयोः ॥ ३३ ॥ क्षीराब्धिजः शशधरे श्रिया क्षीराब्धिजा स्त्रियाम् । क्षीराब्धिजं तु सामुद्रलवणे मौक्तिकेऽपि च ॥ ३४ ॥ ;p{0072} ;v{जपञ्चमम्} ;c{जपञ्चमम् ।} ऋषभध्वजशब्दोऽसौ शङ्करेप्यर्हदन्तरे । अगस्तौ च हरीतक्यां लङ्घने मुनिभेषजम् ॥ ३५ ॥ ;c{इति विश्वलोचने जान्तवर्ग ।} ;k{झान्तवर्गः} ;k{अथ झान्तवर्गः ।} ;વ્{झैकम्} ;c{झैकम् ।} झकारस्त्वारवायौ स्यान्नष्टेऽपि क्वचिदिष्यते । ;v{झद्वितीयम्} ;c{झद्वितीयम् ।} झञ्झा ध्वनिविशेषे स्याज्झञ्झाणुजलर्षणे ॥ १ ॥ ;c{इति विश्वलोचने झान्तवर्गः ।} ;k{ञान्तवर्गः} ;c{अथ ञान्तवर्गः ।} ;v{ञैकम्} ;c{ञैकम् ।} ञकारस्तु क्वचित्ख्यातो गायने घर्घरध्वनौ । ज्ञः पण्डिते बुधे वेधस्यज्ञो मूढे जडे त्रिषु ॥ १ ॥ ;p{0073} ;v{ञद्वितीयम्} ;c{ञद्वितीयम् ।} प्रज्ञा तु बुद्धौ प्राज्ञस्तु पण्डिते वाच्यलिङ्गकः । प्रज्ञुश्च प्रज्ञश्च तथा ख्यातः प्रगतजानुके ॥ २ ॥ सञ्ज्ञा नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च हस्तमस्तकलोचनैः ॥ ३ ॥ ;v{ञतृतीयम्} ;c{ञतृतीयम् ।} कृतज्ञः सारमेयेपि वाच्यवत्कृतवेदिनि । स्त्रियामीक्षणिकायां स्याद्दैवज्ञो गणके पुमान् ॥ ४ ॥ सर्वज्ञः सुगते शम्भौ क्षेत्रज्ञो नागरात्मनोः । ;c{इति विश्वलोचने ञान्तवर्गः ।} ;k{टान्तवर्गः} ;c{अथ टान्तवर्गः ।} ;v{टैकम्} ;c{टैकम् ।} टा पृथिव्यां ध्वनौ टः स्यात्करङ्के टं नपुंसकम् ॥ १ ॥ ;p{0074} अट्टं गुहान्तरे क्षौमे शुष्के चात्यल्पभक्तयोः । इष्टो ना यागसंस्कारयोगयोः क्रतुकर्म्मणि ॥ २ ॥ क्लीबं त्रिषु प्रियतमे पूज्येप्याशंसितेपि च । इष्टिर्यागार्च्चनेच्छासु संग्रहश्लोकसूर्ययोः ॥ ३ ॥ कटुः पुंसि रसे क्लीबं कटु कार्येपि दूषणे । प्रियङ्गुराजिकाऽशोकरोहिणीकटुकासु च ॥ ४ ॥ स्त्रियां कटु त्रिष्वप्रिये ना सुगन्धौ मत्सरेऽपि च । कटः श्रोणौ शवेत्यल्पे किलिञ्जगजगण्डयोः ॥ ५ ॥ श्मशानेऽपि क्रियाकारेऽप्यद्भुतेपि कटाऽव्ययम् । कटी स्यात्कटिमागध्योः कष्टं गहनकृच्छ्रयोः ॥ ६ ॥ कुटो घटे शिलाकुट्टे कुटी वेश्मनि तु द्वयोः । कुटी तु स्यात्पयोदास्यां सुरायां चित्रगुच्छके ॥ ७ ॥ ;p{0075} कूटोऽस्त्री राशिपूर्द्वारदम्भमायाऽनृतेष्वपि । तुच्छेऽद्रिशृङ्गे सीराङ्गे यन्त्रायोघननिश्चले ॥ ८ ॥ कृष्टिर्वृधे ना कर्षेऽस्त्री कोटिः संङ्ख्यान्तराग्रयोः । अत्युत्कर्षप्रकर्षाश्रिकार्मुकाग्रेषु च स्त्रियाम् ॥ ९ ॥ ष्टं तु रोदने रावे कृष्टिः स्यात्कृशसेवयोः । खटोऽन्धकूपे टङ्के च खटः श्लेष्मचपेटयोः ॥ १० ॥ खाटिः स्त्रियां शवरथे खाटिरेकग्रहे किणे । खेटस्तु निन्दिते ग्रामभेदेऽपि वसुनन्दके ॥ ११ ॥ गृष्टिरेकप्रसवगोवराहक्रान्तयोः स्त्रियाम् । विष्णुक्रान्तौषधौ घृष्टिर्घोण्टा वदरपूगयोः ॥ १२ ॥ चटुश्चाटौ पिचिण्डे च व्रतिनामासने चटुः । चाटश्चाटे च धूर्ते च मूलमांसिकयोर्जटा ॥ १३ ॥ ;p{0076} झाटो निकुञ्जे कान्तारे व्रणसंमार्जने वने । त्रुटिस्त्वपचये लेशे सूक्ष्मैलायां च संशये ॥ १४ ॥ कालमानेऽप्यथ त्रोटिः स्त्री चञ्चुमीनकट्फले । त्वष्टा वर्द्धकिगीर्वाणशिल्पिनोस्तिग्मधामनि ॥ १५ ॥ दिष्टिर्मुदि परीमाणे दिष्टः कालोपदिष्टयोः । दिष्टं भाग्येथ दृष्टिः स्यान्नेत्रदर्शनबुद्धिषु ॥ १६ ॥ धटः शुद्धितुलायां स्याद् धटी खण्डे च वाससः । नटी हट्टविलासिन्यां नटः शैलूषशोणयोः ॥ १७ ॥ पटः शोभनचेले स्यात्पुरस्कारपियालयोः । पटुर्वाग्मिनि नीरोगे तीक्ष्णे दक्षे स्फुटे त्रिषु ॥ १८ ॥ पटुः पुंसि पटोले स्त्री छत्रायां लवणे पटु । पट्टः पेषणपाषाणे फलकेऽपि चतुष्पथे ॥ १९ ॥ ;p{0077} व्रणादिबन्धराजादिशासनासनभेदयोः । पट्टी भालविभूषायां पट्टी लाक्षाप्रसादने ॥ २० ॥ पट्टिः पटविभेदे स्याद् वल्गुलौ कुम्भिकाद्रुमे । पुष्टिः स्यात्पोषणे वृद्धौ फटा तु फणदम्भयोः ॥ २१ ॥ तटेऽश्रमकृते फाण्टं वटस्तु स्याद्गुणे त्रिषु । वटो वराटन्यग्रोधे वर्त्तिकायां वटी मता ॥ २२ ॥ वीरे पामरभेदे ना भटः स्त्री प्रगमे भटिः । भृष्टिस्तु भर्जने शून्यवाटिकायामपि स्त्रियाम् ॥ २३ ॥ मुष्टिर्बद्धकरे पुंसि स्त्रियामपि तथा पले । म्लिष्टं स्याद्वाच्यवन्म्लाने म्लिष्टमव्यक्तभाषणे ॥ २४ ॥ यष्टिः शस्त्रान्तरे हारे हारे हारात्परेऽपि च । भार्ङ्ग्या च मधुपर्ण्यां च ध्वजदण्डे तु पुंस्ययम् ॥ २५ ॥ ;p{0078} रिष्टं क्षेमे मृत्युचिह्ने विनाशे ना तु सायके । रिष्टस्तु रिष्टिवत्खड्गे समृद्धौ पुंस्त्रियोः क्रमात् ॥ २६ ॥ लटो दोषेपि वाग्दोषे लाटस्त्वंशुकदेशयोः । वाटस्तु वर्त्मनि वृतौ वाटी स्याद्गृहनिष्कुटे ॥ २७ ॥ विटस्तु खिड्गलवणशङ्खाखुखदिराद्रिषु । विष्टिः कर्म्मकरे भद्रे वेतने प्रेषणे स्त्रियाम् ॥ २८ ॥ व्युष्टं दिने प्रभाते च फले पर्युषिते त्रिषु । व्युष्टिः समृद्धौ विहिता नियमादिफलेऽपि च ॥ २९ ॥ सटा जटाकेसरयोः सृष्टिर्निर्म्माणसर्ग्गयोः । सृष्टं तु निर्मिते त्यक्ते त्रिषु प्राज्येऽपि निश्चिते ॥ ३० ॥ स्फुटो व्यक्ते प्रफुल्ले च व्याप्तवत्त्रिष्वपि त्रिषु । स्फुटिः स्फुटिककर्कट्यां पादस्फोटेऽपि च स्फुटिः ॥ ३१ ॥ ;p{0079} हृष्टो रोमाञ्चिते जातहर्षे प्रहसिते स्मृते । ;v{टतृतीयम्} ;c{टतृतीयम् ।} अवटः कुहके कूपे खिले गर्त्तेऽप्यथाऽवटुः ॥ ३२ ॥ गर्त्ते कूपे च घाटायामर्गटोंतर्गले गले । अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः ॥ ३३ ॥ अरिष्टं सूतिकागारे तक्रे चिह्ने शुभेऽशुभे । उत्कटस्तीव्रे मत्ते च करटो निन्द्यजीविते ॥ ३४ ॥ एकादशाहश्राद्धे च काकवाद्यान्तरेऽपि च । कुब्राह्मणे कुसुम्भेऽपि दुर्द्दान्तगजगण्डयोः ॥ ३५ ॥ कर्कटः करणे स्त्रीणां राशिभेदकुलीरयोः । खगे तु कर्कटी तु स्याद्बालुङ्क्यां शाल्मलीफले ॥ ३६ ॥ ;p{0080} कर्द्दटः पङ्कपङ्कारकरहाटेषु कीर्तितः । कर्यटस्त्रिषु कार्यज्ञे पुमाञ्जतुनि कर्यटः ॥ ३७ ॥ कीकटो मगधेऽपि स्यान्निःस्वे चाश्वे मितंपचे । कुक्कुटस्ताम्रचूडे स्यात्कुक्कुमे वाग्निकुक्कुटे ॥ ३८ ॥ निषादशूद्रयोश्चैव तनये त्रिषु कुक्कुटः । रसोनभेदोच्चटयोस्तालमध्येपि कुक्कुटी ॥ ३९ ॥ कुक्कुटी ताम्रचूडाख्ययोषिन्मिथ्योपचर्ययोः । कुरुण्टी शालभंज्यां स्यात्कुरुण्टो झिण्टिकान्तरे ॥ ४० ॥ कृपीटमुदरे नीरे केशटस्तु कणे हरौ । चक्राटः पुंसि दीनारे धूर्त्ते जाङ्गुलिके त्रिषु ॥ ४१ ॥ चर्प्पटः स्फारविपुले चपेटे चैव चर्प्पटः । चर्पटः पर्पटेऽपि स्यात्पिष्टभेदे तु चर्प्पटी ॥ ४२ ॥ ;p{0081} चिपिटश्चिपिटे पुंसि पिच्चिते विस्तृतेऽन्यवत् । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् ॥ ४३ ॥ वार्त्ताकुपुष्पे जकुटं जकुटो मलये शुनि । त्रिकूटं सिन्धुलवणे त्रिकूटः स्यात्सुवेलके ॥ ४४ ॥ त्रिपुटस्तु भवेत्तीरे पुमानपि सतीनके । त्रिपुटा मल्लिकाभेदे सूक्ष्मैलात्रिवृतोरपि ॥ ४५ ॥ त्र्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामपीष्यते । द्रोहाटस्तु मतो गाथाप्रभेदे मृगलुब्धके ॥ ४६ ॥ बैडालव्रतिकेऽपि स्याद्धाराटश्चातकाश्वयोः । निर्दटो निर्दये न्यायवादरक्ते च निष्फले ॥ ४७ ॥ निष्कुटस्तु गृहोद्याने स्वात्केदारकपाटयोः । पर्पटस्तु द्वयोः पिष्टविकृतौ भेषजान्तरे ॥ ४८ ॥ ;p{0082} परीष्टिः परिचर्यायां प्राकाश्येऽपि गवेषणे । पर्कटी प्लक्षणकल्योः पात्रटः कर्परे कृशे ॥ ४९ ॥ पिच्चटो नेत्ररोगेपि पिच्चटं सीसके त्रपौ । वरटायां सयोधन्यां गन्धोल्यां वरटो द्वयोः ॥ ५० ॥ बर्बटी गणिकायां स्याद् व्रीहिभेदेऽपि बर्बटी । बर्बटो मकरे पोते बालकेऽपि च बर्बटः ॥ ५१ ॥ स्त्रियां पुञ्जेपि भाकूटा भाकूटो मीनशैलयोः । भार्याटः पटहाजीवे लोभाल्वकीसमर्पके(?) ॥ ५२ ॥ भावाटः कामुके साधुनिवेशे भावके नटे । मर्कटः कपिलूताकीकरणेष्वथ मर्कटी ॥ ५३ ॥ वानरीशूकशिम्ब्यां स्याद् चक्राङ्ग्यां करजान्तरे । बीजे तु राजकर्कट्यां प्राचीनामलकस्य च ॥ ५४ ॥ ;p{0083} गवेधुकाफले चैव मर्कटः पुंसि दृश्यते । मोचाटश्चन्दने कृष्णजीररम्भास्थ्न्युपस्करे ॥ ५५ ॥ मोरटं त्विक्षुमूले स्यादङ्कोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मूर्तिकायां तु मोरटा ॥ ५६ ॥ रवटो दक्षिणावर्तशङ्खे जाङ्गुलिकेऽपि च । वराहे मोरटे रेणौ वातूलेऽपि च रेवटः ॥ ५७ ॥ वर्ण्णाटो गायने कामिचित्रकृद्वारजीविनि । विकटो विकराले स्याद्विशाले सुंदरे वरे ॥ ५८ ॥ वेकटः स्याद्वैकटिके मीने च नवयौवने । वरटो मिश्रिते नीचे वेरटं बदरीफले ॥ ५९ ॥ शैलाटो देवले सिंहे सितकाचकिरातयोः । संसृष्टं त्रिषु वान्त्यादिसंशुद्धे सङ्गतेऽपि च ॥ ६० ॥ हर्म्मटस्तु पुमान्सूर्ये कच्छपेऽपि च हर्म्मटः । ;p{0084} ;v{टचतुर्थम्} ;c{टचतुर्थम् ।} पुमानुच्चिङ्गटे मीनभेदे कोपनपूरुषे ॥ ६१ ॥ करहाटोऽब्जकन्देऽपि शल्यद्रौ कुसुमान्तरे । कामकूटस्तु गणिकाविभ्रमे गणिकाप्रिये ॥ ६२ ॥ त्रिषु कार्यपुटो ह्रीके प्रमत्ताऽनर्थकारिणोः । कुटन्नटस्तु कैवर्त्तिमुस्तके शोणके पुमान् ॥ ६३ ॥ कुण्डकीटस्तु चार्वाकवाण्यभिज्ञेपि पुंश्चले । जारजे ब्राह्मणीपुत्रदासीकामुकयोरपि ॥ ६४ ॥ खङ्गरीटस्तु फलकासिधाराव्रतचारिणोः । गाढमुष्टिस्तु कृपणे कृपाणछुरिकादिषु ॥ ६५ ॥ चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ । चतुःषष्टिस्तु संख्यायां बह्वृचेऽपि कलास्वपि ॥ ६६ ॥ नारकीटोऽश्मकीटे स्यात्स्वदन्ताशाविहन्तरि । परपुष्टः परभृते परपुष्टाऽपणस्त्रियाम् ॥ ६७ ॥ ;p{0085} प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्यवकर्षिते । प्रतिशिष्टः प्रतिहते दन्ते ख्याते च वाच्यवत् ॥ ६८ ॥ प्रतिसृष्टं भवेत्प्रत्याख्यातप्रोषितयोस्त्रिषु । बर्कराटः कटाक्षेऽपि तरुणादित्यदीधितौ ॥ ६९ ॥ नारीपयोधरोत्सङ्गकान्तदन्तनखक्षते । शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ७० ॥ प्राञ्चलोहे श्रुतिकटः प्रायश्चित्ते भुजङ्गमे । सिंहच्छटा तु पुन्नागकेसरे नागकेसरे ॥ ७१ ॥ ;v{टपञ्चमम्} ;c{टपञ्चमम् ।} अथ स्याद्दशनोच्छिष्टश्चुंबे निःश्वासितेऽधरे । लोहे कांस्ये मृदङ्गारशकट्यां रत्नकङ्कणे ॥ ७२ ॥ पावके पटहस्यापि बदरे पात्रचर्घटः ॥ ७३ ॥ ;c{इति विश्वलोचने टान्तवर्गः ।} ;p{0086} ;k{ठान्तवर्गः} ;c{अथ ठान्तवर्गः ।} ;v{ठैकम्} ;c{ठैकम् ।} ठश्चन्द्रे मण्डले शून्ये स्यात् करेणूच्चशब्दिते । ;v{ठद्वितीयम्} ;c{ठद्वितीयम् ।} कठो मुनावृचां भेदे तदध्येतरि तद्विदि ॥ १ ॥ स्वरेऽपि कण्ठस्तु गले पार्श्वे शल्यद्रुशब्दयोः । काष्ठोत्कर्षे दिशि स्थाने कालमाने च सीमनि ॥ २ ॥ काष्ठा दारुहरिद्रायां काष्ठं तु क्लीबमिन्धने । कुण्ठो मूर्खेप्यकर्मण्ये कुष्ठं भेषजरोगयोः ॥ ३ ॥ कोष्ठोऽन्तःकुक्षिगृहयोः कुसूलात्मीययोरपि । गोष्ठी सभायां संलापे गोष्ठं गोस्थानके मतम् ॥ ४ ॥ ज्येष्ठो मासेऽग्रजे श्रेष्ठे वृद्धे ज्येष्ठा तु तारके । मुसल्यामङ्गुलीभेदे दुष्ठः स्याद् दुर्बलेऽधमे ॥ ५ ॥ ;p{0087} निष्ठा निर्वहनिष्पत्तिनाशान्तोत्कर्षयाचने । क्लेशेऽथ पाठाम्बष्ठायां पाठस्तु पठने पुमान् ॥ ६ ॥ पृष्ठं शरीरावयवान्तरेऽपि चरमेऽपि च । प्रष्ठोऽग्रगामिनि श्रेष्ठे प्रष्ठा चाण्डालिकौषधौ ॥ ७ ॥ वण्ठः स्यादकृतोद्वाहे कुन्तधारकखर्वयोः । शठस्तु पुंसि धत्तूरे धूर्त्तमध्यस्थयोस्त्रिषु ॥ ८ ॥ शोठोऽलसे च मूर्खे च श्रेष्ठो वरकुबेरयोः । षष्ठी तु षण्णां पूरण्यां त्रिषु स्त्री हरयोषिति ॥ ९ ॥ हठस्तु स्याद्बलात्कारे वारिपर्ण्यां तु पुंस्ययम् । ;v{ठतृतीयम्} ;c{ठतृतीयम् ।} अपष्टुः समये वामेऽम्बष्ठो वैश्यासुते द्विजात् ॥ १० ॥ ;p{0088} देशेंऽबष्ठा तु चाङ्गेर्यां पाठयूथिकयोरपि । कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा त्वन्तिमाङ्गुलौ ॥ ११ ॥ कमठः कच्छपे पुंसि कमठं भाजनान्तरे । जरठः कठिने पाण्डौ कर्कशेप्यभिधेयवत् ॥ १२ ॥ नर्मठश्चुबुके पुंसि नर्मठो नागरेऽन्यवत् । प्रकोष्ठो विस्तृतकरे कूर्परादधरेऽपि च ॥ १३ ॥ नृपकक्षान्तरे चाथ प्रतिष्ठा गौरवे मता । या(यो)गनिष्पादने स्थानचतुरक्षरपद्ययोः ॥ १४ ॥ वरिष्ठः प्रवरे चोरुतरे स्यादभिधेयवत् । वरिष्ठं मरिचे ताम्रे वरिष्ठः पुंसि तित्तिरौ ॥ १५ ॥ मकुष्ठो मन्थरेऽपि स्याद् व्रीहिभित्सवयोरपि । लघिष्ठो भेलकेऽत्यल्पे वैकुण्ठौ विष्णुशक्रयोः ॥ १६ ॥ ;p{0089} श्रीकण्ठः पार्वतीनाथे कुरुजाङ्गलकेऽपि च । भवेदार्थेऽपि साधिष्ठः साधिष्ठोऽपि दृढेऽपि च ॥ १७ ॥ ;v{ठचतुर्थम्} ;c{ठचतुर्थम् ।} कलकण्ठः पिके पारावते हंसे कलध्वनौ । कण्ठे मृगान्तरे कालपृष्ठः क्लीवं तु कार्मुके ॥ १८ ॥ कर्णबाणेऽप्यथो दन्तशठो जम्भकपित्थयोः । कर्मरङ्गेऽपि नारङ्गे रुक्क्रियायां स्त्रियामियम् ॥ १९ ॥ नीलकण्ठस्तु दात्यूहे खञ्जने प्रबलाकिनि । कलविंके हरे पीतसारके कालकण्ठवत् ॥ २० ॥ पूतिकाष्ठं तु सरले देवदारुमहीरुहे । सूत्रकण्ठः कपोते स्यात्खञ्जरीटे द्विजन्मनि ॥ २१ ॥ हारिकण्ठः परभृते हारान्वितगले त्रिषु ॥ २२ ॥ ;c{इति विश्वलोचने ठान्तवर्गः ।} ;p{0090} ;k{डान्तवर्गः} ;c{अथ डान्तवर्गः ।} ;v{डैकम्} ;c{डैकम् ।} डकारः पार्वतीनाथे चासे शब्देऽपि दृश्यते । ;v{डद्वितीयम्} ;c{डद्वितीयम् ।} अण्डं तु खगमीनादिकोशे स्यान्मुष्कवीर्ययोः ॥ १ ॥ इडा बुधवधूवाचोरिलावद्भूगवोरपि । काण्डोऽस्त्री वर्गबाणार्थनालावसरवारिषु ॥ २ ॥ दण्डे प्रकाण्डे रहसि स्तंबे कुत्सितकुत्सयोः । पतिवत्नीसुते जारात्कुण्डः कुण्डी कमण्डलौ ॥ ३ ॥ कुण्डं देवजलाधारे पिठरे तु मतं न ना । क्रीडा केलाववज्ञायां खेलायामपि सम्मता ॥ ४ ॥ क्रोडः शनौ वराहे च क्रोडं क्रोडा च वक्षसि । खण्डोर्द्धेऽस्त्री पुमानिक्षुविकारे मणिदूषणे ॥ ५ ॥ ;p{0091} गडो मीनेऽन्तराये च कुब्जे पृष्ठगुडे गडुः । गण्डस्तु पिटके योगभेदे खड्गिकपोलयोः ॥ ६ ॥ वरे प्रवीरे चिह्ने च वाजिभूषणबुद्बुदे । गुडः स्याद्गजसन्नाहे गोलकेक्षुविकारयोः ॥ ७ ॥ गुडा स्नुहीगुडिकयोः कंदुके चोडनात्परः । गोण्डः पामरभेदे स्याद् वृद्धनाभौ तु वाच्यवत् ॥ ८ ॥ चण्डस्तीव्रे दैत्यभेदे यमदासेऽतिकोपने । स्त्रियां चण्डा धनहरीशङ्खपुष्पिकयोर्म्मता ॥ ९ ॥ भवेच्चण्डी तु पार्वत्यां हिंस्रकोपनयोषितोः । चूडा वलयभेदे स्याच्छिखायां वड(ल)भावपि ॥ १० ॥ चोडो(लो) देशविशेषे स्याच्चोडः प्रावरणान्तरे । मूर्खे मूके हिमग्रस्ते जडा स्त्री कन्दरौषधौ ॥ ११ ॥ ;p{0092} ताडो मुष्ट्यादिसंमेयतृणादौ ताडने रवे । ताडी ताडीतरौ दण्डश्चण्डांशोः पारिपार्श्विके ॥ १२ ॥ दण्डः सैन्यव्यूहभेदे मानभेदे दमे यमे । मंथानेऽश्वेऽभिमाने च कोणदण्डप्रकाण्डयोः ॥ १३ ॥ विग्रहे च ग्रहे यज्ञे लगुडेऽपि मतोऽस्त्रियाम् । नाडी नाड्यां शिरायां स्याद्वार्त्तायां कुहनस्य च ॥ १४ ॥ नीडं स्थाने कुलायेऽस्त्री समीपे तु सपूर्वकः । पण्डः षण्ढे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥ पिण्डो देहांसयोरस्त्री निवापे सिह्लके पुमान् । पिण्डो जपाप्रसूनेऽपि पिण्डः स्याद्भोजने त्रिषु ॥ १६ ॥ पिण्डं सांद्रे बले बोले गृहाङ्गे जीविकायसोः । पिण्डी तु पिण्डिकाऽलावूखर्जूरीतगरान्तरे ॥ १७ ॥ ;p{0093} पिण्डी स्याज्ज्ञानजिज्ञासे जिज्ञासेऽपि सतां मता । पीडाऽपमर्द्दकृपयोः सरलद्रुशिरोध्वजे ॥ १८ ॥ बण्डा तु कुलटायां स्याद् बण्डो हस्तादिवर्ज्जिते । भाण्डं तु भाजने वणिग्मूलवित्ते विभूषणे ॥ १९ ॥ भूषणे च तुरङ्गाणां नदीपात्रे च कुत्रचित् । भवेन्मण्डस्तु कूष्माण्डे कर्कट्यामपि पुंस्ययम् ॥ २० ॥ सारे पिच्छेऽपि मण्डेऽस्त्री पुमानेरण्डभूषयोः । मण्डा धात्र्यामथो मण्डं शाकभेदे च मस्तुनि ॥ २१ ॥ मुण्डो राहुशिरोदैत्यभेदेषु त्रिषु मुण्डिनि । रण्डा मूषिकपणर्ण्याख्यभेषजे विधवास्त्रियाम् ॥ २२ ॥ व्याडस्तु हिंस्रपश्वाद्ये श्वापदेऽपि सरीसृपे । शुण्डा सुरायां वेश्यायां नलिनीहस्तिहस्तयोः ॥ २३ ॥ ;p{0094} शुण्डा जलकरिण्यां च शुण्डस्तु मदनिर्भरे । शौण्डी कुशायां चविके शौण्डो मत्तेऽभिधेयवत् ॥ २४ ॥ षडः पेयान्तरे पुंसि षडो भिद्यपि विद्यते । पद्मादिवृन्दे षण्डोऽस्त्री षण्डः स्याद्गोपतौ चये ॥ २५ ॥ क्ष्वेडस्तु पुंसि गरले ध्वाने कर्णे महेश्वरे । क्ष्वेडस्त्रिषु स्यात्कुटिले क्ष्वेडा तु गजयोषिति ॥ २६ ॥ वीराणां सिंहनादेऽपि वंशशल्येऽपि च स्त्रियाम् । क्ष्वेडस्तु रक्तार्क्कफले घोषपुष्पे दुरासदे ॥ २७ ॥ ;v{डतृतीयम्} ;c{डतृतीयम् ।} कारण्डो मधुकोषाऽसिकारण्डवदलाढके । कूष्माण्डो गणभेदे स्यात्कर्कारुभ्रूणयोरपि ॥ २८ ॥ कूष्माण्डी चण्डिकायां स्यादपि स्यादौषधीभिदि । कोदण्डो देशदेऽपि कोदण्डः कार्मुके भ्रुवि ॥ २९ ॥ ;p{0095} गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् । गारुडं गारुडभवे तरण्डो भेलके पुमान् ॥ ३० ॥ वडिशीसूत्रसंबद्धतरद्वस्तुनि नावि च । तित्तिडो दैत्यभेदे स्यात् तित्तिडो यमचेटके ॥ ३१ ॥ वृक्षभेदेऽपि वृक्षाम्लबिंबयोरपि तिन्तिडी । द्राविडो वेधमुख्ये स्यान्नीवृदन्तरसङ्ख्ययोः ॥ ३२ ॥ निर्गुण्डीन्द्राणिकानीलशेफाल्योः करहाटके । पिचण्डः पुंसि जठरे पशोरवयवेपि च ॥ ३३ ॥ पूत्यण्डः श्वाविद्गन्धमृगयोर्गन्धकीटके । प्रकाण्डोस्त्री तरुस्कन्धे प्रशस्ते विटपेऽपि च ॥ ३४ ॥ प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि । वरण्डो मुखरोगे स्यादंतरावेदिवृन्दयोः ॥ ३५ ॥ ;p{0096} मतो दुष्ठिणि वार्तण्डो वार्तण्डः स्याद्विहङ्गमे । वारुण्डी द्वारपिण्ड्यां स्याद् वारुण्डः कर्णदृङ्मले ॥ ३६ ॥ फणिराजेऽथ वारुण्डः सेकपात्रेऽपि मुद्गरे । भेरुण्डा यक्षिणीदेवीभेदयोस्त्रिषु भीषणे ॥ ३७ ॥ मार्त्तण्डस्तु मतश्चण्डकिरणक्रोडयोरयम् । मारण्डस्तु भुजङ्गाण्डे पथि गोमयमण्डले ॥ ३८ ॥ वरण्डा सारिकाखड्गधेनुवर्त्तिषु वर्तते । वितण्डा वादभेदे स्यात् करवीर्यां शिलाह्वये ॥ ३९ ॥ कच्छीशाके च सा ज्ञेया शिखण्डो बर्हिचूडयोः । सपिण्डः पुंसि दायादे सपिण्डस्तनयेऽपि च । सरण्डः सरटे धूर्त्ते सरण्डो भूषणान्तरे ॥ ४० ॥ ;v{डचतुर्थम्} ;c{डचतुर्थम् ।} आपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ४१ ॥ ;p{0097} चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडं तु मण्डले । जलरुण्डो जलावर्त्ते जलरेणुभुजङ्गयोः ॥ ४२ ॥ देवताडो बृहद्भानौ स्वर्भानौ घोषकेऽपि च । द्वयोर्वातगुडः ख्यातो वात्यायां वातशोणिते ॥ ४३ ॥ पिच्छिलास्फोटिकायां च धाममात्रेऽपि दृश्यते । ;c{इति विश्वलोचने डान्तवर्गः ।} ;k{ढान्तवर्गः} ;c{अथ ढान्तवर्गः ।} ;v{ढैकम्} ;c{ढैकम् ।} स्याड् ढकारस्तु ढक्कायां निर्ग्गुणे विषमध्वनौ ॥ १ ॥ ;v{ढद्वितीयम्} ;c{ढद्वितीयम् ।} गूढं रहसि गुह्ये च सवृते त्वभिधेयवत् । भवेद्दाढा तु दंष्ट्रायामिच्छायामप्यथ त्रिषु ॥ २ ॥ स्थाद्दृढः स्थूलवलिनोर्दृढं वाढप्रगाढयोः । माढिः पत्रादिभङ्गौ स्याद् बलिनां दैन्यदीपने ॥ ३ ॥ ;p{0098} मूढस्तु तन्द्रिते मूर्खे राढा स्याद्गुह्यशोभयोः । बाढं भृशे प्रतिज्ञायां वोढा भारिकसूतयोः ॥ ४ ॥ व्यूढः पृथुलविन्यस्तसंहतेषु हते त्रिषु । षण्डो वृषे वर्षवरे क्लीबे स्याद्वन्ध्यपूरुषे ॥ ५ ॥ वाच्यवन्मर्षणे सोढा सोढा शक्तेऽपि वाच्यवत् । ;v{ढतृतीयम्} ;c{ढतृतीयम् ।} अध्यूढ ईश्वरेऽध्यूढा कृतसापत्न्ययोषिति ॥ ६ ॥ आषाढो व्रतिनां दण्डे मासेऽपि मलयाचले । उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥ प्रगाढस्तु दृढे कृच्छ्रे प्रमीढो मूत्रिते घने । प्ररूढो जाठरे बद्धमूले स्यादभिधेययोः ॥ ८ ॥ ;p{0099} प्रारूढः सम्बले वह्नौ वस्त्राञ्चलकपाटयोः । पञ्जरेऽपि विगूढस्तु गुप्तगर्हितयोस्त्रिषु ॥ ९ ॥ विगूढस्त्रिषु सञ्जाते वर्द्धिते छुरिते मतः । संमूढस्तु नवे भुग्ने पुंजितेऽप्यनुपप्लुते ॥ १० ॥ संरूढो वाच्यवत्प्रौढे तथैवाङ्कुरितेऽपि च । ;v{ढचतुर्थम्} ;c{ढचतुर्थम् ।} अध्यारूढं समारूढोऽत्यधिकेऽपि त्रिलिङ्गकः ॥ ११ ॥ ;c{इति विश्वलोचने ढान्तवर्गः ।} ;k{णान्तवर्गः} ;c{अथ णान्तवर्गः ।} णकारो निर्णये ज्ञाने । ;v{णद्वितीयम्} ;c{णद्वितीयम् ।} सूक्ष्मे व्रीह्यन्तरेऽप्यणुः । अणिराणिवदक्षाग्रकीलसीमाश्रिषु द्वयोः ॥ १ ॥ ;p{0100} उष्णः स्यादातपे ग्रीष्मे वाच्यवत्तप्तदक्षयोः । ऊर्णा भ्रूमध्यजावर्त्ते भवेन्मेष्यादिलोम्नि च ॥ २ ॥ पिप्पलीजीरकुम्भीरमक्षिकासु कणा स्मृता । कणोऽतिसूक्ष्मे धान्यांशे कर्णः श्रोत्रे पृथासुते ॥ ३ ॥ सुवर्णालौ च काणस्तु मौद्गल्याधिकलोचने । किणस्तु व्रणे चिह्ने स्यादथ सूक्ष्मव्रणे गुणे ॥ ४ ॥ कीर्णं छन्ने परिक्षिप्ते हिंसितेऽप्यभिधेयवत् । कुणिस्तु कुकरे तुन्ने कृष्णे विष्णौ पिकेऽर्जुने ॥ ५ ॥ व्यासे कृष्णं तु मरिचे लोहे च त्रिषु तद्वति । कृष्णा तु द्रौपदीनीलीहाराहूरासु पिप्पलौ ॥ ६ ॥ कोणोऽस्रौ लगुडे वाद्यप्रभेदे चार्क्कसम्भवे । वीणादिवादनोपायेऽप्येकदेशेऽपि वाच्यवत् ॥ ७ ॥ ;p{0101} गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः । गुणो रूपादिसत्त्वादिबिंबादिहरितादिषु ॥ ८ ॥ सूदेऽप्रधाने सन्ध्यादौ रज्जौ मौर्व्यां वृकोदरे । गेष्णुर्नटे गायने स्याद् घृणा कारुण्यनिन्दयोः ॥ ९ ॥ घ्राणं घ्राणेऽपि नासायां चूर्णी तु स्यात्कपर्दके । चूर्णः क्षोदे क्षारभेदे चूर्णानि गन्धशुक्तिषु ॥ १० ॥ जर्णः कलानिधौ वृक्षे जिष्णुः पार्थेन्द्रवह्निषु । जित्वरे त्रिषु जीर्णं तु पक्वे वृद्धे जरान्तरे ॥ ११ ॥ झणिः पूगे दुष्टदैवश्रुतौ स्त्री कठिनेऽन्यवत् । तीक्ष्णं क्षारेऽथ निशिततिग्मात्मत्यागिषु त्रिषु ॥ १२ ॥ निरालस्ये सुबुद्धौ च त्रिषु तीक्ष्णं च मुष्कके । तीक्ष्णं लोहे विषे तिग्मे यवाग्रे लवणे रणे ॥ १३ ॥ ;p{0102} तूणी नील्यां निषङ्गे ना तृष्णा लिप्सापिपासयोः । द्रोणं तु रक्षिते रक्ष्ये रक्षणत्रायमाणयोः ॥ १४ ॥ दीर्णं विदारिते भीते स्फुटितेऽप्यभिधेयवत् । देष्णुर्द्दातरि दुर्द्दान्ते द्रुणो वृश्चिकमृगयोः ॥ १५ ॥ द्रुणी तु कच्छपीद्रोण्योर्द्रुणं चापकृपाणयोः । द्रोणस्तु द्रोणकाके स्यादपि द्रोणः कृपीपतौ ॥ १६ ॥ आढकानां चतुष्केपि द्रोणं स्यादाढकेऽस्त्रियाम् । द्रोणी काष्ठाम्बुवाहिन्यां गवां घासभुजिस्थितौ ॥ १७ ॥ काष्ठागारे गिरेः सन्धौ नीवृद्भेदेऽपि दृश्यते । वर्णः स्वर्णेऽपि रूपेऽपि पणो मूल्ये भृतौ ग्लहे ॥ १८ ॥ पणोऽशीतिवराटेऽपि पणः कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टावपि स्मृतः ॥ १९ ॥ ;p{0103} पणो द्यूतादिषूत्सृष्टे व्यवहारेऽप्ययं पणः । पर्णं पत्रे पतत्रे च पर्णः स्यात्पुंसि किंशुके ॥ २० ॥ पार्ष्णिश्चरणमूले ना कुम्भीपाश्चात्त्यभागयोः । सेनापृष्ठेऽपि पार्ष्णिः स्यात्पार्ष्णिः स्यादुन्मदस्त्रियाम् ॥ २१ ॥ समग्रे पूरिते पूर्णस्त्रिषु शक्ते तु पुंस्ययम् । प्राणा असुष्वथ प्राणे विड्वातेऽप्यनिले बले ॥ २२ ॥ काव्यजीवे च बोले च प्राणं तु त्रिषु पूरिते । फाणिर्गुडे करण्डे च वाणी द्यूतौ च वाचि च ॥ २३ ॥ वाणिस्तु हारके मूल्ये भ्रूणः स्त्रीगर्भडिम्भयोः । मणिर्द्वयोर्मेहनाग्रे रत्ने छागीगलस्तने ॥ २४ ॥ अलिञ्जरेऽपि मुक्तादौ मोणस्तु पटमुत्सके । मोणो बाणेपि कुम्भीरे मक्षिकाहिकरण्डयोः ॥ २५ ॥ ;p{0104} रणः कोणे क्वणे युद्धे रेणुर्धूल्यणुपर्प्पटे । अथ पुंस्येव वर्णः स्यात्स्तुतौ रूपयशोगुणे ॥ २६ ॥ रागे द्विजादौ मुक्तादौ शोभायां चित्रकम्बले । व्रते गीतक्रमे देशेऽप्यस्त्री स्याद्वर्णकेऽक्षरे ॥ २७ ॥ वाणो वलिसुते काण्डे काण्डाशे केवले पुमान् । बाणो वाणा च झिंट्यां स्याद् वाणको व्यन्तरे क्वचित् ॥ २८ ॥ विष्णुः कृष्णे वसौ सूर्ये विष्णुर्न्नारायणार्कयोः । वसुर्दैवतभेदेऽपि वीणा वल्लकिविद्युतोः ॥ २९ ॥ वृष्णिः स्याद्यादवे मेषे वृष्णिः पाषण्डिचण्डयोः । वेणी नदीनां सङ्गे स्यात् केशबन्धान्तरेऽपि च ॥ ३० ॥ देवताडेऽपि वेणी स्त्री वेणुर्वंशे नृपान्तरे । शाणोर्द्धमाषके कर्षे कषणे करपत्रके ॥ ३१ ॥ ;p{0105} शीतत्राणान्तरे शाणी शीर्णमल्पविशीर्णयोः । शोणो नदे कोकनदच्छवौ श्योनाकबर्हिषोः ॥ ३२ ॥ लोहिताश्वेऽप्यथ श्रोणिर्द्वयोः स्यात्कारुसंहतौ । केशपात्रान्तरे श्रोणिः श्रेणिः पङ्क्तावनिः स्त्रियाम् ॥ ३३ ॥ श्राणा यवाग्वां श्राणं तु पक्वे स्यादभिधेयवत् । स्थाणुः कीले हरे पुंसि स्थाणुस्त्वस्त्री ध्रुवेपि च ॥ ३४ ॥ स्थूणा तु स्याद् गृहस्तम्भे लोहप्रतिकृतावपि । क्षणः स्यादुत्सवे कालभेदावसरपर्वसु ॥ ३५ ॥ ;v{णतृतीयम्} ;c{णतृतीयम् ।} अभीक्ष्णं तु भृशे नित्येऽप्यरुणोऽनूरुसूर्ययोः । कुष्ठे चाव्यक्तरागे च सन्ध्यारागे च पुंस्ययम् ॥ ३६ ॥ नीरवाऽऽरक्तकपिलव्याकुलेषु च वाच्यवत् । अरुणा तिवृताश्यामामञ्जिष्ठाऽतिविषासु च ॥ ३७ ॥ ;p{0106} अरणिस्तु भवेदग्निग्रन्थे मन्थानदण्डके । इन्द्राणी तु शचीसिन्दुवारयोः करणे स्त्रियाम् ॥ ३८ ॥ ईरिणं तूषरे शून्येऽपीक्षणं दर्शने दृशि । ऊषणा तु कणायां स्यादूषणं मरिचे मतम् ॥ ३९ ॥ एषणी व्रणमार्गाऽनुसारिण्यां तु तुलाभिदि । एषणो लोहबाणे स्यादन्वेषे त्वनुपूर्वकम् ॥ ४० ॥ कङ्कणं करभूषायां हस्तसूत्रेऽपि शेखरे । कत्तृणं तृणभेदेऽपि वारिपर्ण्यां च कत्तृणम् ॥ ४१ ॥ करणस्तु भवेद्वैश्याच्छुद्रायास्तनुजे पुमान् । करणं साधकतमे कार्यकायस्थकर्मसु ॥ ४२ ॥ क्रियायामिन्द्रिये क्षेत्रे करणं बालवादिषु । गीताङ्गहारसंवेशक्रियाभेदेऽपि चेष्यते ॥ ४३ ॥ ;p{0107} करुणस्तु रसे वृक्षे कृपायां करुणा स्त्रियाम् । करेणुस्तु वसायां स्त्री कर्णिकारेभयोः पुमान् ॥ ४४ ॥ कल्याणमक्षयस्वर्गे मङ्गले तद्वति त्रिषु । स्यान्मानदण्डपणयोश्चतुर्थांशे हि काकिणी ॥ ४५ ॥ गुञ्जायां वाटमानेऽपि कुष्ठभेदेऽपि काकणे । कारणं हेतुवधयोः पीडायां करणेऽपि च ॥ ४६ ॥ कारणा यातनायां स्यात्कार्मणं स्यात्तु कर्मठे । परदेहप्रवेशे च योजने मंत्रतन्त्रयोः ॥ ४७ ॥ भृत्ये कर्तरि कुर्वाणः कृपणः कुत्सिते कृमौ । खड्गे कृपाणः शस्त्री तु कृपाणी कर्त्तरावपि ॥ ४८ ॥ कोङ्कणो देशभेदे स्यादस्त्रभेदे तु कोङ्कणम् । गोकर्णोऽश्वतरे सर्पमृगभेदे गणान्तरे ॥ ४९ ॥ ;p{0108} अङ्गुष्टाऽनामिकोन्माने गोकर्णी मूर्विकौषधी । ग्रहणं तूपलव्धौ स्यात्स्वीकारादरयोः करे ॥ ५० ॥ ग्रहोपरागे वन्द्यां च प्रत्याये ग्रहणीरुजि । ग्रामणीर्नापिते पुंसि श्रेष्ठाऽधिपे च भौगिके ॥ ५१ ॥ त्रिषु स्त्रियां तु गणिका ग्रामिणी नीलिका स्त्रियाम् । चरणोऽस्त्री बह्वृचादौ मूलेऽपि पदगोत्रयोः ॥ ५२ ॥ चरणं भ्रमणेङ्घ्रौ स्याच्चरणं भक्षणेऽपि च । जरणं जीरणोऽजाजीहिङ्गुसौवर्चले मतम् ॥ ५३ ॥ तरणिः सूर्येऽपि तरणे कुमारीनौकयोः स्त्रियाम् । तरुणो यूनि नवके कुब्जपुष्पोरुवूकयोः ॥ ५४ ॥ दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु । त्रिषु स्याद्वाच्यलिङ्गोऽयमवाची संभवे मतः ॥ ५५ ॥ ;p{0109} यज्ञदानप्रतिष्ठायामवाच्यामपि दक्षिणा । दुर्वर्णं वालुके रूप्ये द्रविणं स्यात्पराक्रमे ॥ ५६ ॥ धरणं धारणे मानभेदेऽपि धरणी क्षितौ । धरुणः सलिले स्वर्गे धरुणः परमेष्ठिनि ॥ ५७ ॥ धर्म्मणः सर्पभेदेपि धर्म्मणः पादपान्तरे । धर्षणी कुलटायां स्याद् धर्षणं गञ्जिते रते ॥ ५८ ॥ बुद्धोक्तमन्त्रभेदे च नाटिकायां च धारणी । धिषणस्तु सुराचार्ये धिषणा बुद्धिनिद्रयोः ॥ ५९ ॥ निर्माणो निर्मितौ सारे रचनायां समञ्जसे । निर्याणं निर्गमे मोक्षे गजापाङ्गे च तद्द्वयोः ॥ ६० ॥ निर्वाणं निर्वृतौ मोक्षे स्तम्भने गजमज्जने । निश्रेणिरधिरोहिण्यां खर्जूरीपादपे स्त्रियाम् ॥ ६१ ॥ ;p{0110} पत्रोर्णं धौतकौशेये पत्रोर्णः शोणकद्रुमे । पुराणं चिरकालीयद्रव्ये स्यादभिधेयवत् ॥ ६२ ॥ पूरणः पूरके पुंसि पूरणे पिष्टकान्तरे । पूरणी शाल्मलीवस्त्रारम्भसूत्रान्तरेऽपि च ॥ ६३ ॥ प्रघणस्ताम्रकुण्डे स्यादलिन्दे लोहमुद्गरे । प्रमाणमेकतेयत्ताहेतियन्तृप्रमातृषु ॥ ६४ ॥ सत्यवादिनि नित्ये च मर्यादाहन्तृशास्त्रयोः । प्रवणः प्रगुणे प्रह्वे क्रमनिम्नःक्षितौ कृशे ॥ ६५ ॥ एतेषु त्रिषु पुंस्येव प्रवणः स्याच्चतुष्पथे । प्रवेणिः स्त्री कुथे वेण्यां प्रोक्षणं वधसेकयोः ॥ ६६ ॥ वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृतौ । वरुणस्तरुभेदे स्यात् प्रचेतःसूर्यवारिषु ॥ ६७ ॥ ;p{0111} वारणो दन्तिनि ख्यातः प्रतिषेधे तु वारणम् । अथ प्रतीचीमदिरागण्डदूर्वासु वारुणी ॥ ६८ ॥ ब्राह्मणी फञ्जिकासृक्काद्विजपत्नीष्वथ द्विजे । ब्राह्मणो ब्राह्मणं मन्त्रभेदेऽपि द्विजसंहतौ ॥ ६९ ॥ भरणी शोणके ऋक्षे भरणं वेतने भृतौ । भीषणे दारुणे गाढे भीषणं सल्लकीरसे ॥ ७० ॥ कारुण्ड्यामीश्वरक्रीडाभ्रमणे भ्रमणी स्त्रीयाम् । मार्गणो याचके बाणे क्लीबमन्वेषयाच्ञयोः ॥ ७१ ॥ यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च । पटोलमूले रमणं रमणस्तु प्रिये स्मरे ॥ ७२ ॥ रवणो रासभे शब्दो रोषाणो रोषणे त्रिषु । पारदोषरयोः स्वर्णघर्षणेऽपि पुमानयम् ॥ ७३ ॥ ;p{0112} रोहिणी कुटुरोहिण्यां लोहितासोमवल्कयोः । गोनागकर्णरुग्भेदे लवणं तु द्विजान्तरे ॥ ७४ ॥ लवणो रसरक्षोब्धिभेदेषु लवणा द्युतौ । लक्षणं नाम्नि चिह्ने च रामभ्रातरि लक्षणः ॥ ७५ ॥ लक्ष्मणः पुंसि सौमित्रौ लक्ष्मणं नामलक्ष्मणोः । लक्ष्मणा सारसीज्योतिष्मत्योः श्रीमति वाच्यवत् ॥ ७६ ॥ विपणिस्तु स्त्रियां पण्यवीथ्यामापणपण्ययोः । विषाणं तु पशोः शृङ्गौ विषाणं द्विरददन्तयोः ॥ ७७ ॥ त्रिषु त्रिषु विषाणी तु मेषशृङ्गाख्यभेषजे । शरणं गृहरक्षित्रोः शरणं रक्षणे वघे ॥ ७८ ॥ सिङ्घाणं काचपात्रेऽपि नासिकालोहकिट्टयोः । श्रावणो मासि पाषण्डे दघ्यान्या श्रावणी स्त्रियाम् ॥ ७९ ॥ ;p{0113} श्रीपर्णी कुम्भिगम्भार्यां क्लीबं पद्माग्निमन्थयोः । सङ्कीर्णं सङ्कटेऽशुद्धे सरणिः श्रेणिवर्त्मनोः ॥ ८० ॥ सारणो रावणाऽमात्येऽप्यतीसारेऽपि सारणः । सारणी स्वल्पसरिति प्रसारण्यां च सारणी ॥ ८१ ॥ सुपर्णः स्वर्णचूडेऽपि गरुडे कृतमालके । सुपर्णा कमलिन्यां च सुपर्णा तार्क्ष्यमातरि ॥ ८२ ॥ सुवर्णस्तु सुवर्णालौ कृष्णाऽगुरुमखान्तरे । सुवर्णं वर्णितं स्वर्णे सुवर्णं कर्षवित्तयोः ॥ ८३ ॥ सुषेणो हरिसुग्रीववैद्ययोः करमर्दके । हरणं यौतकद्रव्येऽप्यङ्गरागे भुजे हृतौ ॥ ८४ ॥ हरिणस्तु मृगे पुंसि हरिणः पाण्डुरेऽन्यवत् । हरिणी हरितामृग्योर्वृत्तस्त्रीभेदयोरपि ॥ ८५ ॥ ;p{0114} सुवर्णप्रतिमायां च हर्षणस्तु प्रमोदके । अक्षिरोगान्तरे योगान्तरेऽपि श्राद्धदैवते ॥ ८६ ॥ स्त्री कुलस्त्रीरेणुकयोः हरेणुर्ना सतीनके । हिरणं च हरिण्यं च वराटे स्वर्णरेतसोः ॥ ८७ ॥ क्षेपणी च भवेन्नौकादण्डे जालान्तरेऽपि च । ;v{णचतुर्थम्} ;c{णचतुर्थम् ।} अङ्गारिणी हसन्त्यां स्याद् भास्करत्यक्तदिश्यपि ॥ ८८ ॥ आतर्पणं तु सौहित्ये मङ्गलालेपनेऽपि च । आथर्वणस्त्वथर्वज्ञद्विजन्मनि पुरोहिते ॥ ८९ ॥ आरोहणं तु सोपाने समारोहप्ररोहयोः । उत्क्षेपणं तु व्यजने धान्यमर्दनवस्तुनि ॥ ९० ॥ वान्तोन्मूलननिस्तारोन्नयेषूद्धरणं मतम् । अथ कामगुणो रागेऽप्याभोगे विषयेऽपि च ॥ ९१ ॥ ;p{0115} कार्षापणः पुराणे स्यादस्त्रियामपि कार्षिके । चीर्णपर्णस्तु खर्जूरीपादपे पिचुमर्दके ॥ ९२ ॥ चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च । जुहुराणोऽनलेऽध्वर्यौ तण्डुरीणस्तु कीटके ॥ ९३ ॥ स्यात्तन्दुलोदके चैव याम्यदेशीयबर्बरे । तैलपर्णी मलयजे सिह्लश्रीवासयोरपि ॥ ९४ ॥ दाक्षायणी च दुर्गायां रोहिण्यां तारकासु च । देवमणिः शिवे वाजिकण्ठावर्त्ते च कौस्तुभे ॥ ९५ ॥ नारायणोऽच्युतेऽभीरुगौर्योर्नारायणी स्त्रियाम् । गले निगरणः पुंसि भोजने तु नपुंसकम् ॥ ९६ ॥ निरूपणं विचारे स्यादालोकननिदर्शने । निस्तरणं स्यान्निस्तारेऽप्युपाये निर्गमेऽपि च ॥ ९७ ॥ ;p{0116} निस्सरणं द्वारमुक्तिनिर्याणोपायमृत्युषु । परीरणः स्यात्कमठे दण्डे च पट्टशाटके ॥ ९८ ॥ पर्वरीणस्तु पर्णस्य शिरायां घूतकम्बले । पर्णवृन्तरसेऽपि स्यात् सितसौरभपर्वणोः ॥ ९९ ॥ परवाणिस्तु कथितो धर्माऽध्यक्षेऽपि वत्सरे । त्रिषु स्यात्तत्परेऽभीष्टेऽप्याश्रये तु परायणम् ॥ १०० ॥ पारायणं पारगतौ सम्यगासङ्गकार्त्स्न्ययोः । पीलुपर्णी तु मूर्वायां बिम्बायामोषधीभिदि ॥ १०१ ॥ पुष्करिणी सरोजिन्यां हस्तिन्यां च जलाशये । स्यात्प्रतिपणः संस्कारेऽप्युपग्रहनिषङ्गयोः ॥ १०२ ॥ प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् । वारवाणस्तु कवचे सर्वसन्नहनेऽपि च ॥ १०३ ॥ ;p{0117} मीनास्त्रीणो मतः पुंसि दर्दराम्रेऽपि खञ्जने । रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्भवे ॥ १०४ ॥ रागचूर्णः स्मरे रक्तवालुके दन्तधावने । रेरिहाणः पशुपतौ रेरिहाणो विहायसि ॥ १०५ ॥ लम्बकर्णो मतश्छागे स्यादङ्कोरमहीरुहे । अस्त्री विदारणं युद्धे भेदने च विडम्बने ॥ १०६ ॥ भवेद्वैतरणी प्रेतनद्यां राक्षसमातरि । शरवाणिः शरमुखे पापिष्ठे शरजीविनि ॥ १०७ ॥ स्त्रियां शिखरिणी वृत्तभेदे तक्रप्रभेदयोः । स्त्रीरत्ने मल्लिकायां च रोमावल्यामपि स्मृता ॥ १०८ ॥ समीरणः स्यात्पवने प्रस्थपुष्पकपान्थयोः । संसरणं स्यात्संसारे पुरनिर्गमगोपुरे ॥ १०९ ॥ ;p{0118} घण्टापथे रणारम्भेऽप्यसंबाधचमूगतौ । हस्तिकर्णोऽयमेरण्डे पलाशगणभेदयोः ॥ ११० ॥ ;v{णपञ्चमम्} ;c{णपञ्चमम् ।} अवग्रहणमाख्यातं प्रतिरोधेऽप्यनादरे । अथाऽवतारणं भूताद्यावेशेप्यम्बरेऽर्चने ॥ १११ ॥ आख्येयभागेऽध्याहारग्रन्थे स्यादवतारणा । निन्दोपालम्भनियमालापेषु परिभाषणम् ॥ ११२ ॥ प्रविदारणमित्येतत्सम्मतं दारणे रणे । मण्डूकपर्णः स्योनाकेऽप्यलके च कपीतने ॥ ११३ ॥ मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्विकास्वपि । स्यान्मत्तवारणः पुंसि मददुर्दान्तवारणे ॥ ११४ ॥ क्लीबं प्रासादवीथीनां वरण्डे चाप्यपाश्रये । विभीतकतरौ पुंसि रोमाञ्चे रोमहर्षणम् ॥ ११५ ॥ ;p{0119} वातरायण उन्मत्ते मतः कूटे च मार्गणे । शरसंक्रमणे किञ्चित्करेपि करपत्रके ॥ ११६ ॥ ;v{णषष्ठम्} ;c{णषष्ठम् ।} वयःसंधौ च गर्भे च भवेद्दोहदलक्षणम् । पयोधरे च लावण्ये मतं यौवनलक्षणम् ॥ ११७ ॥ ;c{इति विश्वलोचने णान्तवर्गः ।} ;k{तान्तवर्गः} ;c{अथ तान्तवर्गः ।} ;v{तैकम्} ;c{तैकम् ।} पालने पालके तः स्यात्तुश्चौरक्रोडपुच्छयोः । ;v{तद्वितीयम्} ;c{तद्वितीयम् ।} अन्तं विशुद्धे व्याप्ते स्यादन्तो नाशे मनोहरे ॥ १ ॥ स्वरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु । अर्त्तिः पीडाघनुष्कोट्योरस्तः प्रत्यङ्महीधरे ॥ २ ॥ ;p{0120} त्रिषु क्षिप्ते गतेऽप्यस्तमाप्तः सत्यगृहीतयोः । आप्तिः संवरणे प्राप्तौ विज्ञातगतयोर्गतम् ॥ ३ ॥ ईतिः स्यादतिवृष्ट्यादिपट्टे डिम्बप्रवासयोः । उक्तमेकाक्षरच्छन्दस्युक्तस्तु त्रिषु भाषिते ॥ ४ ॥ स्फूर्तिरक्षणयोरूतिर्ऋतमुञ्छशिले जले । मतं त्रिलिङ्गकं सत्ये गतौ दीप्तेऽभिपूजिते ॥ ५ ॥ ऋतिर्गतौ जुगुप्सायां स्पर्द्धायामप्यमङ्गले । ऋतुः स्वादार्त्तवे वीरे वसन्तादिषु मासि च ॥ ६ ॥ एतस्तु कर्बुरे वाच्यलिङ्गः स्यादागतेऽपि च । शोभाऽभिलाषयोः कान्तिः कान्तो रम्ये प्रिये त्रिषु ॥ ७ ॥ कान्तोऽश्मनि पुमान्कान्ता प्रियङ्गौ नायिकान्तरे । कीर्त्तिर्यशसि विस्तारे प्रसादेऽपि च कर्दमे ॥ ८ ॥ ;p{0121} कुन्तो गवेधुके प्रासे दण्डभावेऽल्पजन्तुषु । कुन्ती स्यात्पाण्डुकान्तायां शल्लक्यां गुग्गुलुद्रुमे ॥ ९ ॥ कृतिर्वधेऽपि करणे क्लीबं सत्ययुगे कृतम् । त्रिषु हिंसितपर्याप्तविहिते निष्फलेऽव्ययम् ॥ १० ॥ कृत्तं तु कथितं छिन्ने वेष्ठितेऽप्यभिधेयवत् । कृत्तिस्त्वक्चर्मभूर्जेषु कृत्तिकायां च कीर्तिता ॥ ११ ॥ केतुर्ग्रहान्तरोत्पातद्युतिलक्ष्मध्वजादिषु । क्रतुर्यज्ञे मुनेर्भेदे गतं स्याज्जातयादसोः ॥ १२ ॥ गतिर्दशायां गमने ज्ञाने मर्म्माऽभ्युपाययोः । नाडीव्रणे सरण्यां च गतिर्जन्मान्तरेऽपि च ॥ १३ ॥ गर्तस्त्रिगर्त्तदेशे स्याद् भूश्वभ्रेऽपि कुकुन्दरे । गातुर्गन्धर्वरोलम्बरोषणे कोकिलापतौ ॥ १४ ॥ ;p{0122} गीतिश्छन्दोन्तरे ज्ञाने गीतं गाने च शब्दिते । गुप्तस्तु रक्षिते गूढे वृषले चन्द्रपूर्वकः ॥ १५ ॥ गुप्तिः कारागृहे गर्त्ते गोपाये रक्षणे युगे । ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ १६ ॥ घातः प्रहारे काण्डे च घृतं दीप्ताज्यवारिषु । चितिः समूहे चित्यायामुपादुपचये चितिः ॥ १७ ॥ चितः कूटीकृतेऽपि स्याच्चिता सहतिचित्ययोः । चिता छन्ने चुल्लिकायां जातं जन्मौघजन्तुषु ॥ १८ ॥ जातिः सामान्यमालत्योश्छन्दोभिद्गोत्रजन्मसु । तातोऽनुकम्प्ये जनके तिक्तो रससुगन्धयोः ॥ १९ ॥ तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटके मतम् । त्रेता युगेऽग्नित्रितये दत्तं विश्राणितेऽविते ॥ २० ॥ ;p{0123} दन्तः कुञ्जे रदे सानौ दन्ती स्यादौषधीमिदि । दान्तस्त्रिषु तपःक्लेशसहेऽपि दमितेऽपि च ॥ २१ ॥ दितिर्दनौ खण्डने च दीप्तं ज्वलितदग्धयोः । त्रिषु निर्वासितेऽपि स्याद्दृतिश्चर्मपुटे कषे ॥ २२ ॥ दृप्तो निवारिते शक्ते द्युतिर्दीधितिशोभयोः । द्रुतं शीघ्रे च विद्राणे विलीने शीघ्रगे त्रिषु ॥ २३ ॥ धाता तु ब्रह्मणि रवौ त्रिषु स्यात्परिपालके । धातुः क्रियार्थे शुक्रेपि विषयेष्विन्द्रियेषु च ॥ २४ ॥ श्लेष्मादिरसरक्तादिभूतादिवसुधादिषु । मनःशिलादिके लोहे विशेषाद्गैरिकेस्थिनि ॥ २५ ॥ धुतं विधूते त्यक्ते च धूतः कम्पितभर्त्सिते । धूर्त्तं तु खण्डलवणे धत्तूरे नाविटे त्रिषु ॥ २६ ॥ ;p{0124} धृतिर्धारणसंतुष्टिधैर्ये योगान्तरेऽध्वरे । नतस्तगरवृक्षे स्यात् कुटिलानतयोस्त्रिषु ॥ २७ ॥ नीतिर्न्नये प्रापणे च नृत्तः स्यान्नर्तने क्रिमौ । पक्तिः स्त्री गौरवे पाके पङ्क्तिः श्रेणौ दशस्वपि ॥ २८ ॥ स्याद्दशाक्षरवृत्तेपि स्त्रियां मूल्ये गतौ पतिः । पत्तिः पदातौ वीरे ना गतौ सेनान्तरे स्त्रियाम् ॥ २९ ॥ पातस्तु पतने त्राते पीतमाचान्तगौरयोः । त्रिषु पीता तु पर्णिन्यां पीतं पाने नपुंसकम् ॥ ३० ॥ पीतिः पाने सपूर्वा तु सहपाने हये पुमान् । पुस्तं तु पुस्तके क्लीबं विज्ञाने लेप्यकर्म्मणि ॥ ३१ ॥ पूतं पवित्रे शब्दे च त्रिषु स्याद्बहुलीकृते । पूरितच्छन्नयोः पूर्त्तं पूर्त्तं खातादिकर्म्मणि ॥ ३२ ॥ ;p{0125} पोतो बाले बहित्रे च प्रातिः पूर्त्तिप्रदेशयोः । प्राप्तिर्महोदये लाभे प्राप्तं लब्धसमञ्जसे ॥ ३३ ॥ प्रीतिः स्मरसुतायोगभेदयोः प्रेममोदयोः । हर्षिते नर्म्मणि प्रीतं प्रेतो भूतान्तरे मृते ॥ ३४ ॥ प्रोतं तु ग्रथिते वस्त्रे प्लुतस्तु स्यात्त्रिमातृके । प्लुतमश्वस्य गमने प्लुतं सप्तवने त्रिषु ॥ ३५ ॥ भक्तिर्विभागे सेवायां भर्ता स्वामिनि धारके । भित्तिः कुड्ये च काशे च प्रदेशे भेदभागयोः ॥ ३६ ॥ भीतं भयेऽपि समये भीतिः साध्वसकंपयोः । अथ भृतः पुमान्देवयोनिभेदेऽपि देवले ॥ ३७ ॥ त्रिषु प्राप्ते विवृत्ते च भूतं स्यान्न्याय्यसत्ययोः । उपमाने पृथिव्यादौ पिशाचादौ समे त्रिषु ॥ ३८ ॥ ;p{0126} भूतिर्म्मातङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु । भृतिस्तु भरणे ख्याता तथा वेतनमूल्ययोः ॥ ३९ ॥ भ्रान्तिः स्याद्भ्रमणेऽपि स्यान्मतौ वाऽप्यनवस्थितौ । मतोऽर्चितेऽप्यनुमते मतिर्बुद्धौ स्मृतीच्छयोः ॥ ४० ॥ मन्तुः स्यादपराधेऽपि मानवे परमेष्ठिनि । माता ब्राह्म्यादिगोकादिप्रसूगौरीष्वपि क्षितौ ॥ ४१ ॥ त्रिषु स्यान्मापके माता गीताध्यक्षे प्रपूर्वकः । मितिर्मानेऽप्यवच्छेदे मुक्तिर्मोक्षेऽपि मोचने ॥ ४२ ॥ मुक्तो मोक्षगतेऽप्युक्तस्त्रिषु मुक्ता तु मौक्तिके । मूर्त्तं मूर्त्त्यन्विते मूर्च्छाऽन्विते काठिन्यवत्यपि ॥ ४३ ॥ मूर्त्तिः कायेऽपि काठिन्ये मृत्युयाचितयोर्म्मतम् । मृतं मृत्युपरिप्राप्ते विज्ञेयमभिधेयवत् ॥ ४४ ॥ ;p{0127} यतिर्यतिनि पुंसि स्त्री पाठभेदनिकारयोः । यन्ता सादिनि सूते च निपूर्वोऽसौ नियामके ॥ ४५ ॥ युक्तं स्यादुचिते युक्तं संयुतेऽप्यभिधेयवत् । युक्तिर्न्नियोजने न्याये पृथक्संयुक्तयोर्मतम् ॥ ४६ ॥ युतं हस्तचतुष्केऽपि संख्याभेदे नपूर्वकम् । रक्तोनुरक्ते नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ४७ ॥ रिक्तं शून्ये वनेऽपि स्यादशरीतिर्गिरां पथि । रीतिः स्यन्दे प्रचारे च लोहकिट्टारकूटयोः ॥ ४८ ॥ लता तु माधवीवल्लीशाखास्पृक्काप्रियङ्गुषु । लता कस्तूरिकाज्योतिष्मतीदूर्वासु च स्मृता ॥ ४९ ॥ लिप्तं विलेपिते भुक्ते विषाक्तविशिषादिषु । लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ॥ ५० ॥ ;p{0128} लोप्तं तु चोरिते बाष्पे वक्ता वाग्ग्मिनि पण्डिते । वप्ता पितरि तन्तूनां वापके बीजवापके ॥ ५१ ॥ वर्त्तिर्गात्रानुलेपन्यां वर्त्तिर्दीपदशासु च । दीपे भेषजनिर्म्माणे लोचनाञ्जनलेखयोः ॥ ५२ ॥ नीरुग्वृत्तिमतोर्वार्तो वार्त्तमारोग्यफल्गुनोः । वार्त्ता कृष्यादिवृत्तान्तवार्त्ताकीवृत्तिषु स्थिता ॥ ५३ ॥ वित्तं तु विभवे ज्ञातख्यातलव्धविचारिते । वित्तिर्ज्ञानेपि लाभेऽपि विचारे सम्भवेऽपि च ॥ ५४ ॥ वीतं त्वसारहस्त्यश्वे त्यक्तेप्यङ्कुशकर्म्मणि । वीतिस्त्यागे गतौ दीप्तौ प्रजने धावनेऽशने ॥ ५५ ॥ वृत्तिः प्रवृत्तौ वृत्तौ च कौशिक्यादिप्रवर्त्तने । वृत्तस्तु वर्तुलेऽतीते मृते ख्याते दृढे वृते ॥ ५६ ॥ ;p{0129} त्रिषु वृत्तं तु चरिते वृत्तं छन्दसि वर्त्तते । वृतिर्विवरणे वाटे वेष्टिते वरणे वृतम् ॥ ५७ ॥ वृन्तं प्रसवबन्धेऽपि कुचाग्रे घटधारयोः । शस्तं क्षेमे प्रशस्ते च शातः शकुनिशातयोः ॥ ५८ ॥ शातं शर्म्मणि शान्तस्तु रसे दान्तेऽपि मुक्तके । शान्तिः शमेऽपि कल्याणे शास्ता शासकबुद्धयोः ॥ ५९ ॥ शितः कृष्णे सिते भूर्जे शितं शकुनिशान्तयोः । वानीरबहुवारे च शीतः शीतं तु चन्दने ॥ ६० ॥ हिमसम्भूतजाड्येऽपि शीतलालसयोस्त्रिषु । शुक्तिः शङ्खनखे शङ्खे मुक्तास्फोटेऽपि कम्बुनि ॥ ६१ ॥ ;p{0130} दीर्घकोशीयावर्त्ते कपालशकले स्त्रियाम् । शुक्तोऽम्ले कर्कशे पूते शास्त्रावघृतयोः श्रुतम् ॥ ६२ ॥ श्रुतिः श्रोत्रे च वेदे च वार्तायां श्रौतकर्म्मणि । श्वेतं रूप्यं त्रिषु सिते श्वेतो द्वीपाद्रिभेदयोः ॥ ६३ ॥ श्वेता वराटिकायां स्याच्छङ्खिन्यां काष्ठपाटलौ । सत्साधौ विद्यमानेऽपि प्रशस्ते पूजिते त्रिषु ॥ ६४ ॥ सती साध्वीचण्डिकयोः सत्तु सत्येऽभिधेयवत् । सातिर्दानेवसानेऽपि सितं श्वेतसमाप्तयोः ॥ ६५ ॥ त्रिषु ज्ञातेऽपि बद्धेऽपि शर्करायां सिता मता । सीता तु जानकीव्योमगङ्गालाङ्गलवर्त्त्मसु ॥ ६६ ॥ सुतस्तु पार्थिवे पुत्रे सुप्तिर्विश्वासघातिनि । स्वापे स्पर्शाज्ञतायां च सुखस्वापे सुपूर्विका ॥ ६७ ॥ ;p{0131} सूतस्तु पारदे तक्ष्णि सूतः सारथिबन्दिनोः । प्रसूते प्रेरिते सूतः क्षत्रियाद् ब्राह्मणीसुते ॥ ६८ ॥ सृतिः स्त्री गमने मार्गे कुपू्र्वा निकृतौ सृतिः । सेतुर्न्नालौ च वरुणे स्थितमूर्द्ध्वेऽपि संस्थिते ॥ ६९ ॥ निश्चिते सप्रतिज्ञेऽपि गत्यभावे तु न द्वयोः । मर्यादायामवस्थाने स्थाने सीमनि च स्थितिः ॥ ७० ॥ स्मृतिस्तु धर्मशास्त्रे स्यात् स्मरणे धीच्छयोरपि । संततौ सीवने स्यूतिः स्यूतः क्षतप्रसेवयोः ॥ ७१ ॥ स्वान्तं नपुंसकं वित्ते स्वान्तं स्यादपि गह्वरे । द्वयोस्तु हस्तो नक्षत्रे हस्तः करिकरे करे ॥ ७२ ॥ सप्रकोष्ठाततकरे हस्तः केशात्परश्चये । हितं गते धृते पथ्ये हेतिर्ज्वालार्कतेजसोः ॥ ७३ ॥ ;p{0132} स्त्रियां शस्त्रेप्यथ क्षत्ता सारथिद्वाःस्थधातृषु । भुजिष्यजे नियुक्ते च शूद्राच्च क्षत्रियासुते ॥ ७४ ॥ क्षमायां तु मता क्षान्तिः क्षान्तिः स्यान्नियमेऽपि च । क्षितिः पृथिव्यां वासे च स्थानमात्रे क्षये क्षितिः ॥ ७५ ॥ ;v{ततृतीयम्} ;c{ततृतीयम् ।} अगस्तिर्वङ्गसेनद्रौ स्यादगस्त्येऽप्यथाङ्कतिः । अग्निब्रह्माऽग्निहोत्रेषु स्थिरे दामोदरेऽच्युतः ॥ ७६ ॥ अजितोऽनिर्जिते विष्णावदितिर्देवसूभुवोः । अनृतं स्याद् मृषाकृप्योरनन्तो विष्णुशेषयोः ॥ ७७ ॥ अनन्तं गगनेऽनन्तं भवेदनवधौ त्रिषु । अनन्ता पृथिवीदूर्वापार्वतीलाङ्गलीष्वपि ॥ ७८ ॥ सारिवायां गुडूच्यां च समुद्रान्ताविशल्ययोः । अमृतं मोक्षपीयूषसलिले हृद्यवस्तुनि ॥ ७९ ॥ ;p{0133} अयाचिते यज्ञशेषे घृते दुग्धेऽतिसुन्दरे । अमृतस्तु मतः पुंसि धन्वंतरिसुपर्वणोः ॥ ८० ॥ गुडूच्यामलकीपथ्यामागधीष्वमृता मता । अमतिर्भाविकाले स्यादर्हंस्तु जिनपूज्ययोः ॥ ८१ ॥ अर्दितः पवनव्याधौ याचिताऽहतयोस्त्रिषु । अर्वती चेटिकावाम्योरश्वेऽर्वन् कुत्सितेऽन्यवत् ॥ ८२ ॥ अव्यक्तस्तु हरौ हीरे मूर्खे वाच्यवदस्फुटे । वाच्यवत्क्षतहीने स्यादाकृतिः कायरूपयोः ॥ ८३ ॥ सामान्येऽपि तथाख्यातमाख्यातं कथिते तिङि । अथ वाच्यवदाख्यातं घ्राणिते हिंसितेऽपि च ॥ ८४ ॥ आचितस्तु चिते छन्ने संगृहीते त्रिलिङ्गकः । आचितः शकटोन्मेये पलानामयुतद्वये ॥ ८५ ॥ ;p{0134} आदृतः सादरेऽपि स्यात् पूजितेऽप्यभिधेयवत् । आध्मातः पवनव्याधौ दग्धशब्दितयोस्रिषु ॥ ८६ ॥ आनर्त्तो नर्तनस्थाने देशभेदे रणे जले । पाते तदात्वेऽप्यापात आपतिः प्राप्तिदोषयोः ॥ ८७ ॥ आप्लुतः स्नातके पुंसि स्नाते स्यादभिधेयवत् । आयत्तिः स्नेहमयोदावशितावलवासरे ॥ ८८ ॥ आयतिस्तु यमे दैर्घ्ये प्रभावोत्तरकालयोः । आयस्तस्तेजिते क्षिप्ते कुपिते क्लेशिते हते ॥ ८९ ॥ आवर्त्तश्चिन्तने चाऽऽवर्तने वाप्यम्भसां श्रमे । आस्फोतस्त्वर्कपर्णे स्यादास्फोतः कोविदारके ॥ ९० ॥ आस्फोता गिरिकर्ण्यां च वनमल्यामपि स्त्रियाम् । आसत्तिः सङ्गमे लाभे आहतं तु मृषार्थके ॥ ९१ ॥ ;p{0135} स्यात्पुरातनवस्त्रेऽपि नववस्त्रेऽपि वाहतम् । आहतं चानकेऽपि स्यात्ताडिते ग्रसिते त्रिषु ॥ ९२ ॥ इङ्गितं चेष्टिते गत्यामुचितं तु समञ्जसे । अनुमत्यां मिताऽभ्यस्तज्ञातेषु त्रिषु च त्रिषु ॥ ९३ ॥ उच्छ्रितं तु प्रवृद्धे स्यात् सञ्जातेऽप्युन्नतेऽन्यवत् । उत्तप्तं शुष्केऽपिशिते संतप्ते च परिप्लुते ॥ ९४ ॥ वृद्धिमत्युन्मनस्केऽपि प्रोद्यते मतमुत्थितम् । उच्छ्रितं तु त्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि ॥ ९५ ॥ उदितं सूदिते प्राप्तेऽप्युद्गतप्रोक्तयोस्त्रिषु । उद्धातो मुद्गरे वायुयोगार्थं कुम्भकादिषु ॥ ९६ ॥ उद्रङ्गे स्खलनेऽप्यर्थाऽऽधानेऽपि समुपक्रमे । स्यादुदन्तस्तु वार्तायामुदन्तः सज्जनेऽपि च ॥ ९७ ॥ ;p{0136} त्रिषूद्वान्तः समुद्गीर्णे पुमान्निर्मददन्तिषु । उदात्तः स्वरभेदे स्यात् काव्यालङ्करणेऽपि च ॥ ९८ ॥ उदात्तो दातृमहतोर्मता हृद्येऽपि वाच्यवत् । उद्धृतं तु सिते भुक्तोज्झितेऽप्यातोलिते मृते ॥ ९९ ॥ उन्नतिस्तूदये वृद्धावुद्गतौ तार्क्ष्ययोषिति । उन्मत्त उन्मादवति धत्तूरमुचकुन्दयोः ॥ १०० ॥ उषितं व्युषिते दग्धेऽप्यूर्म्मितं क्षिप्तदग्धयोः । एधतुः पुरुषे वह्नावंहतिस्त्यागरोगयोः ॥ १०१ ॥ कपोतः स्यात्कलरवे कवकाख्ये विहङ्गमे । कलितं विदितेप्याप्ते स्वीकृतेऽप्यभिधेयवत् ॥ १०२ ॥ कापोतं तद्गुणे स्रोतोऽञ्जनखञ्जिकयोरपि । किरातः पुंसि भूनिम्बे म्लेच्छस्वल्पशरीरयोः ॥ १०३ ॥ ;p{0137} वालव्यजनधारिण्यां कुट्टिनीसुरगङ्गयोः । स्यात्किरातीति कुर्वंस्तु भृत्ये कर्म्मकरे त्रिषु ॥ १०४ ॥ कृतान्तो यमसिद्धान्तदैवेऽप्यशुभकर्म्मणि । क्रन्दितं रोदितेऽपि स्यादाह्वाने कृतरोदने ॥ १०५ ॥ गभस्तिः किरणे सूर्ये पुंसि स्त्री वह्नियोषिति । गर्मुत् कार्त्तस्वरे क्लीबं गर्मुच्छाखाभिधायिनि ॥ १०६ ॥ गर्जितो मत्तमातङ्गे गर्जितं जलदध्वनौ । गोदन्तो हरिताले स्याद्दंशिते वर्म्मिते त्रिषु ॥ १०७ ॥ गोपतिः पार्थिवे षण्डे रविपण्डितशूलिषु । ग्रंथितं गुम्फिताक्रान्तहिंसितेषु त्रिषु स्मृतम् ॥ १०८ ॥ चिन्तातो मोचने गाङ्गचित्ते च चिरजीविनि । जगन्वाते पुमान्क्लीबं भुवने जङ्गमे त्रिषु ॥ १०९ ॥ ;p{0138} जगती जगति क्ष्मायां छन्दोभदे जनेऽपि च । जयन्ती त्वथ गौरीन्द्रपुत्री जरा द्रुमान्तरे ॥ ११० ॥ वैजयन्त्यां जयन्तस्तु पाकशासनिहीरयोः । जामाता दयिते सूर्यावर्त्ते तु दुहितुः पतौ ॥ १११ ॥ जीमूतो जलदे शक्रे घोषेपि वृद्धिजीविनि । देवताडेऽपि जीमूतो जीमूतः पर्वतेऽपि च ॥ ११२ ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधौ । जीवन्ती जीवनीवृक्षे शमीवन्दाऽमृतासु च ॥ ११३ ॥ जृम्भितं करणे स्त्रीणां वेष्टिते स्फुटिते त्रिषु । ज्वलितो भास्करे दग्धे वानितं तनितांशुके ॥ ११४ ॥ वाद्यभाण्डे गुणे विस्तारे तेषु त्रिषु तानितम् । तृणता तु तृणत्वे स्यात् तृणता कार्मुकेऽपि च ॥ ११५ ॥ ;p{0139} त्रिगर्त्तः स्याज्जनपदे त्रिगर्त्तो गणितान्तरे । विषयेऽपि त्रिगर्त्ता तु घुर्घुरीकामुकस्त्रियोः ॥ ११६ ॥ त्वरितं प्रजवे शीघ्रे दुर्गतिर्निरये स्त्रियाम् । दारिद्र्येऽप्यथ दुर्ज्जातं कुजाते व्यसने तथा ॥ ११७ ॥ दृष्टान्तस्तु पुमाञ्शास्त्रे स्यादुदाहरणेपि च । दंशितं वर्म्मिते दष्टे द्रवन्ती सरिदन्तरे ॥ ११८ ॥ मघौ चैव द्विजातिस्तु द्विजन्मनि विहङ्गमे । धीमान्वाचस्पतौ पुंसि धीरे बुद्धिमति त्रिषु ॥ ११९ ॥ निकृतं विप्रलम्भेऽपि नीचे विप्रकृतेऽपि च । निकृतिर्भर्त्सने क्षेपे निकृतिः शठशाठ्ययोः ॥ १२० ॥ निमित्तं लक्षणे हेतौ निमित्तं पर्वणि स्मृतम् । आगन्तुर्देवादेशे च नियतिर्नियमे विधौ ॥ १२१ ॥ ;p{0140} निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यूतेऽपि प्रतिहते निर्म्मितस्त्वनुपद्रुते ॥ १२२ ॥ दिक्पालकालपर्णौ तु पुंस्त्रियोः स्यादनुक्रमात् । निर्वृत्तिः सुस्थितासौख्यनिर्वाणाऽस्तङ्गमाध्वसु ॥ १२३ ॥ निर्मुक्तस्त्यक्तसङ्गे स्यात् त्यक्तकञ्चुकपन्नगे । निर्वातो वातविगते व्याश्रये दृढवर्म्मणि ॥ १२४ ॥ निशान्तस्त्रिषु शान्ते स्यान्निशान्तो भवनोषसोः । पञ्चता मृत्युमात्रेऽपि पञ्चभावेऽपि पञ्चता ॥ १२५ ॥ पण्डितः सिह्लके धीरे पतत्पातुकपक्षिणोः । पद्धतिः पथि पङ्क्तौ च परेतो वाच्यवन्मृते ॥ १२६ ॥ भूतभेदेऽप्यथ गिरौ सुरर्षावपि पर्वतः । पर्याप्तं वारणतुष्टियथेष्टेष्वाप्तशक्तयोः ॥ १२७ ॥ ;p{0141} विनाशदोषकृच्छ्रेषु दण्डे तु मतमव्ययम् । पर्याप्तिस्तु प्रकामे स्यात्प्राप्तौ च परिरक्षणे ॥ १२८ ॥ पर्यस्तः पतितक्षिप्तनिहतेषु त्रिषु त्रिषु । पलितं केशपांडुत्वे पङ्के तापेऽपि शैलजे ॥ १२९ ॥ पक्षतिः पक्षमूले स्यात्प्रतिपद्यपि पक्षतिः । पार्वती द्रौपदी दुर्गा जीवन्ती शल्लकीद्रुमे ॥ १३० ॥ पिण्डितो गणिते सान्द्रे पित्सन् पातेऽपि पक्षिणि । पिशिता मासिकायां स्यात्पिशितं पलले मतम् ॥ १३१ ॥ पीडितं करणे स्त्रीणां यन्त्रिते बाधितेऽपि च । पुटितं स्यात्करपुटे प्रसूतिस्स्यूतपोटिते ॥ १३२ ॥ पृषतोऽपि पृषद्बिन्दौ मृगे तु पृषतः पृषन् । स्याद्दुःस्वरेऽहितेऽप्येवं श्वेतबिन्दुयुतेऽन्यवत् ॥ १३३ ॥ ;p{0142} प्रकृतिस्तु सत्त्वरजस्तमसां साम्यमात्रके । स्वभावाऽमात्यपौरेषु लिङ्गे योनौ तथाऽऽत्मनि ॥ १३४ ॥ प्रकृतं प्रस्तुतेऽपि स्यात्प्रकृतः प्रकृतिस्थिते । प्रवितः शकटोन्मेये पलानामयुतद्वये ॥ १३५ ॥ प्रणीतः संस्कृताग्नौ स्याद्वाच्यलिङ्गः प्रवेशिते । संस्कृते चोपपन्ने निक्षिप्ते विहितेऽपि च ॥ १३६ ॥ प्रतीतः सादरे ख्याते हृष्टे दृष्टे विरक्षणे । प्रतीत एते ज्ञाते च प्रततिर्व्रततौ ततौ ॥ १३७ ॥ प्रपातो निर्झरे कृच्छ्रे पतनावटयोरपि । प्रभूतमुद्गते प्राज्ये प्रमीतः प्रोक्षिते मृते ॥ १३८ ॥ प्रवृत्तिर्वृत्तिवार्त्तान्तप्रवाहेषु प्रवर्त्तने । प्रसूतिः प्रसवोत्पत्तिपुत्रेषु दुहितर्यपि ॥ १३९ ॥ ;p{0143} प्रसूतं कुसुमे क्लीबं वाच्यवल्लब्धजन्मनि । प्रसृता तु प्रजातायां जंघायां प्रसृता मता ॥ १४० ॥ प्रसृतोऽर्धाञ्जलौ सम्प्रसारे वेगिविनीतयोः । प्रवृतं वितते क्षुण्णे प्रोक्षितं सिक्त आहते ॥ १४१ ॥ प्रार्थितं याचिते शत्रुरुद्धेऽप्यभिहते त्रिषु । वार्द्धितं पूरिते छिन्ने वार्द्धितं वृद्धिशालिनि ॥ १४२ ॥ बृहती महतीकण्टकारिकाकलशीषु च । वाचि च क्षुद्रवार्ताक्यां छन्दोभेदोत्तरीययोः ॥ १४३ ॥ भरतस्तु नटे नाट्यशास्त्रे रामाऽनुजे पुमान् । दौष्यन्तौ शबरे तन्तुवायेऽपि भरतः स्मृतः ॥ १४४ ॥ भवती बाणभेदे स्यात्त्रिषु युष्मत्सदर्थयोः । व्यासर्षिभाषिते ग्रन्थे जम्बूद्वीपेऽपि भारतः ॥ १४५ ॥ ;p{0144} वाग्वाणीपक्षिणीभेदवृत्तिभेदेषु भारती । भावितं वासिते लव्धे ध्यातेऽप्युत्पादिते त्रिषु ॥ १४६ ॥ भासन्तो भासविहगे सुन्दरेऽप्यभिधेयवत् । भास्वानाभास्वरे सूर्ये भूभृद्भूपालशैलयोः ॥ १४७ ॥ मथितं निर्जलोदश्वित्यनवघृष्टलोडिते । मरुत्पुंसि सुरे वाते महद्राज्ये नपुंसकम् ॥ १४८ ॥ नारदस्य तु वीणायां महती स्यात्पृथौ त्रिषु । मालती जातियुवतिज्योत्स्नानिक्षु सरिद्भिदि ॥ १४९ ॥ काकमाच्यग्निशिखयोर्मुषितं खण्डिते हृते । मूर्च्छितं मोहसंप्राप्ते सोच्छ्रयेऽपि दृढेऽपि च ॥ १५० ॥ रजतं रूप्यहारेभदन्तेषु विशदे त्रिषु । रमतिर्नायके स्वर्गे रसितं खनिते रुते ॥ १५१ ॥ ;p{0145} स्वर्णादिखचिते तु स्यात्त्रिष्वेव रसितं मतम् । रेवती हलिकान्तायां ताराभेदेऽपि मातृषु ॥ १५२ ॥ रैवतः शैलभेदे स्यात्सुवर्णालौ हरेश्वरे । सरलेऽन्द्रायुधे वीरे रुधिरेऽपि च रोहितम् ॥ १५३ ॥ रोहितो लोहिते मीने मृगभेदेऽपि रोहिणि । रोहिदर्के पुमानेव मता रोहिल्लतान्तरे ॥ १५४ ॥ ललितं हारभेदे स्यात्त्रिष्वेव ललितेष्टयोः । लोहितं कुङ्कुमे रक्ते गोशीर्षे रक्तचन्दने ॥ १५५ ॥ पुंस्येव मङ्गले रक्ते नदे नागे च लोहितः । वनिता जनिताऽत्यर्थरागयोषिति योषिति ॥ १५६ ॥ वनितं याचिते क्लीबं शोधिते वनितं त्रिषु । वसतिः स्यान्निशावेश्मावस्थानेष्वर्हदाश्रमे ॥ १५७ ॥ ;p{0146} वहतुर्वृषभे पान्थे वहतिः सचिवे गवि । वापितं वाच्यवद्वीजाकृतमुण्डितयोर्म्मतम् ॥ १५८ ॥ वासन्तः कोकिले मुद्गे करभेऽवहिते विटे । वासन्ती माधवीयूथ्योर्वासन्ती पाटलावपि ॥ १५९ ॥ वासिता करिणीनार्योर्वासितं विहगारवे । ज्ञाने त्रिष्वेव वसनवेष्टिते सुरभीकृते ॥ १६० ॥ विकृतस्त्रिषु बीभत्से रोगिते स्यादसंस्कृते । डिम्बे रोगे च विकृतिर्विगतो निष्प्रभे गते ॥ १६१ ॥ विच्छित्तिरङ्गरागे स्यादपि विच्छेदहावयोः । विजाता तु प्रसूतायां विकृते जनिते त्रिषु ॥ १६२ ॥ विततं तु मतं व्याप्ते विस्तृतेऽप्यभिधेयवत् । विद्युत्तडिति सन्ध्यायां स्त्रियां त्रिष्वेव निष्प्रभे ॥ १६३ ॥ ;p{0147} विदितं स्वीकृते ज्ञाते विधाता वेधसि स्मरे । विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ॥ १६४ ॥ विनता वैनतेयस्य जनन्यां पिडिकान्तरे । विनीतः सुवहाश्वे स्याद्विनयाढ्ये जितेन्द्रिये ॥ १६५ ॥ उपनीतेऽपनीतेऽपि निभृते वणिजि त्रिषु । विनेताऽऽदेशके राज्ञि विपत्तिर्याचनापदोः ॥ १६६ ॥ विवृता क्षुद्ररोगे स्याद्विवृतं तु त्रिषु त्रिषु । विवर्त्तं समुदाये स्यादप्रवर्त्तननृत्ययोः ॥ १६७ ॥ विविक्तं विजने पूतेऽप्यसंपृक्तविवेकिनि । विश्रुतं ज्ञातसंहृष्टप्रतीतेषु त्रिषु त्रिषु ॥ १६८ ॥ विश्वस्तस्त्रिषु विश्रब्धे विश्वस्ता विधवा स्त्रियाम् । विहस्तो हस्तरहिते विह्वले षण्ढकेऽपि च ॥ १६९ ॥ ;p{0148} वृत्तान्तो भावकार्त्स्न्ये स्यादपि वार्ताप्रकारयोः । प्रक्रियायां प्रकरणेऽप्येकान्तेऽपि क्वचिन्मतः ॥ १७० ॥ वेल्लितं कम्पिते वक्रे प्लुते स्याद्वेल्लितं गतौ । वेष्टितं करणे स्त्रीणां लसके चावृते त्रिषु ॥ १७१ ॥ व्याघातस्त्वन्तराये स्याद्योगभेदप्रहारयोः । व्यायतं तु दृढे दीर्घे व्यापृतेऽतिशयेऽन्यवत् ॥ १७२ ॥ शकुन्तो विहगे पक्षिभेदे भासाख्यपक्षिणि । शुद्धान्तोन्तःपुरे कक्षान्तरे रहसि च स्मृतः ॥ १७३ ॥ राजयोषिति शुद्धान्ता श्रीपतिः नृपकृष्णयोः । श्रीमांस्तिलकवृक्षे स्यादीश्वरेऽपि मनोहरे ॥ १७४ ॥ सङ्घातः संहते पुंसि प्रहारे नरकान्तरे । सङ्गतिः सङ्गते ज्ञाने सन्नतिर्नुतिशब्दयोः ॥ १७५ ॥ ;p{0149} सन्ततिस्तनयापुत्रगोत्रविस्तारपङ्क्तिषु । परम्पराभावेऽपि स्यात्समाप्तिस्तु समर्थने ॥ १७६ ॥ विनाशे संमतिस्तु स्यादनुमत्यभिलाषयोः । समितिः सङ्गरे साम्ये सभायां सङ्गमेऽपि च ॥ १७७ ॥ संविदाजौ प्रतिज्ञायामाचारज्ञानयोः स्त्रियाम् । संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ॥ १७८ ॥ संवर्त्तः पुंसि कल्पान्ते हायने च कलिद्रुमे । सिकता सिकतायुक्तदेशे स्यादामयान्तरे ॥ १७९ ॥ सिकता वालुकायां स्युः शर्करायामपीष्यते । सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु ॥ १८० ॥ सुनीतिः शोभननये सुनीतिर्ध्रुवमातरि । सुव्रता सुखसन्दोह्यगवर्हत्सद्व्रतेषु च ॥ १८१ ॥ ;p{0150} सुरतं स्यान्निधुवने सुरत्वे सुरता मता । सुहितस्त्रिषु तृप्ते स्यादुक्ते सुष्ठुहितेऽपि च ॥ १८२ ॥ सूनृतं मङ्गले सत्यप्रियवाचि न वाच्यवत् । संस्कृतं लक्षणोपेते कृत्रिमे त्रिषु संस्कृतः ॥ १८३ ॥ भूषितेऽपि प्रशस्तेऽपि संहतं सङ्गते दृढे । स्खलितं तूचिताद्भ्रंशे स्खलितं चलिते त्रिषु ॥ १८४ ॥ स्तमितं वीतचाञ्चल्येप्यार्द्रीभूतेऽपि वाच्यवत् । स्थपतिः शल्यभेदे स्यादपि कञ्चुकिसूतयोः ॥ १८५ ॥ जीवेष्टियाजके चाऽथ स्थापितं न्यस्तनिश्चिते । सुवर्णा तु मता नद्या सरिदौषधिभेदयोः ॥ १८६ ॥ हरिता मण्डलायां स्याद् हरिद्वर्णयुते त्रिषु । हरिद्वाहे च पुंस्येव हरितः ककुभि स्त्रियाम् ॥ १८७ ॥ ;p{0151} क्लीबं तृणप्रभेदेऽथ हर्म्मितं क्षिप्तदग्धयोः । हसन्त्याङ्गारधान्यां स्यान्मल्लिकाशाकिनीभिदोः ॥ १८८ ॥ हारीतः कैतवेऽपि स्यान्मुनिपक्षिप्रभेदयोः । हृषितं विस्मृते प्रीते नते रोमाञ्चिते हृते ॥ १८९ ॥ क्षारितं स्राविते क्षारेऽभिशस्तेऽपि च वाच्यवत् । ;v{तचतुर्थम्} ;c{तचतुर्थम् ।} अङ्गारितं तु दग्धे स्यात्पलाशकलिकोद्गमे ॥ १९० ॥ अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कले त्रिषु । अत्याहितं तु जीवनापेक्षकृत्ये महाभये ॥ १९१ ॥ अधिक्षिप्तः पराभूते त्रिषु प्रणिहितेऽपि च । स्यात्पुरातनवस्त्रेऽपि नववस्त्रेप्यनाहतम् ॥ १९२ ॥ अनुमतिस्त्वपूर्णे तु पूर्णिमानुज्ञयोः स्त्रियाम् । मतमन्तर्गतं मध्ये त्रिषु प्राप्ते च विस्मृते ॥ १९३ ॥ ;p{0152} भवेदपचितो न्यूने पूजितेप्यभिधेयवत् । स्त्रियामपचितिः पूजानिष्कृतिक्षयहानिषु ॥ १९४ ॥ अपावृतस्तु पिहिते स्वतन्त्रे स्यादपावृतः । अभिजातस्त्रिषु न्याय्ये कुलीनप्राप्तरूपयोः ॥ १९५ ॥ अभियुक्तस्त्रिषु द्वेषिसंरुद्धेऽप्यतितत्परे । अभिनीतो भवेन्न्याय्यसंस्कृतामर्षिषु त्रिषु ॥ १९६ ॥ अभिशस्तिस्तु लोकापवादे याच्ञाभिशापयोः । उदितेऽभ्युदितो यस्मिन्सुप्तेऽर्कः समुदेति च ॥ १९७ ॥ पुमानर्थपतिर्भूपे ईश्वरे किन्नरे त्रिषु । ज्ञाते मूढोऽप्यवसितं क्लीबं गत्यवसानयोः ॥ १९८ ॥ क्लीबमाच्छुरितं हास्ये शब्दान्वितनखार्पणे । आयुष्मान् योगभेदे ना चिरजीविनि वाच्यवत् ॥ १९९ ॥ ;p{0153} उज्जृम्भितं तु चेष्टायामुत्फुल्ले त्वभिधेयवत् । उदास्थितश्चरेध्यक्षे प्रणिधौ द्वारपालके ॥ २०० ॥ उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । उपाकृतो यज्ञहते पशावुपहते त्रिषु ॥ २०१ ॥ भवेदुपचितं दिग्धे समृद्धे च समाहिते । उपाहितोऽनलोत्पाते पुमानारोपिते त्रिषु ॥ २०२ ॥ राहौ सोपप्लवे चोपरक्तः स्याद्व्यसनान्तरे । उपसत्तिस्तु सेवायां सङ्गेऽपि प्रतिपादने ॥ २०३ ॥ मतमुल्लिखितं तु स्यात्त्रिषूत्कीर्णं तनूकृते । ऋष्यप्रोक्ता शतावर्यां शूकशिंब्यां बलाभिदि ॥ २०४ ॥ ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे । ऐरावतं मतं दीर्घसरलेन्द्रशरासने ॥ २०५ ॥ ;p{0154} स्त्रियामैरावती सौदामनीसौदामनीभिदोः । अंशुमान्भास्करे शालपर्ण्यामंशुमती स्त्रियाम् ॥ २०६ ॥ कलधौतं कलारावे क्लीबं कनकरूप्ययोः । कुमुद्वती कुमुदिन्यां कुशपत्न्यां कुमुद्वती ॥ २०७ ॥ कुमुद्वान्कुमुदप्रायदेशे स्यादभिधेयवत् । क्लीबं कुहरितं ध्वाने पिकालापे रतस्वने ॥ २०८ ॥ कृष्णवृन्ता पाटलायां माषपर्ण्यामपि स्मृता ॥ २०९ ॥ मता गन्धवती मद्ये मेदिन्यां च पुरीभिदि । अपि योजनगन्धायां गरुत्मांस्तार्क्ष्यपक्षिणोः ॥ २१० ॥ गृहस्थसत्रिणोरर्थाऽऽधाने गृहपतिः पुमान् । चक्राहुतिर्द्दीर्घबाहुभ्रमे पूर्णाहुतावपि ॥ २११ ॥ चन्द्रकान्तो मणेर्भेदे चन्द्रकान्तं तु कैरवे । चर्म्मण्वती नदीभेदे कदलीचारवृक्षयोः ॥ २१२ ॥ ;p{0155} आषाढपर्वतस्यान्तः कारुती नाम निम्नगा । तस्यां मासोपवासिन्यामपि चारुव्रता स्मृता ॥ २१३ ॥ चित्रगुप्तो मतो दण्डधारे तस्य च लेखके । दिवाकीर्तिस्तु चाण्डाले नापिते काकवैरिणि ॥ २१४ ॥ दिवाभीत उलूके स्यात्कुत्सिते कुमुदाकरे । द्वीपवानब्धिनदयोर्द्पीपवत्यापगाभुवोः ॥ २१५ ॥ धूमकेतुर्बृहद्भानावुत्पातग्रहभेदयोः । नदीकान्तो जलनिधौ सिन्धुवारेऽपि हिज्जले ॥ २१६ ॥ नदीकान्ता लताजम्बूकाकजङ्घासु विश्रुता । नन्द्यावर्त्तः पुमान्वेश्मप्रभेदे तगरद्रुमे ॥ २१७ ॥ नागदन्तो गजरदे गृहान्निर्गतदारुणि । नागदन्ती तु कुम्भायां श्रीहस्तिन्यां च दृश्यते ॥ २१८ ॥ ;p{0156} अस्वाध्याये प्रतिक्षेपे निराकारे निराकृतिः । त्रिषु निस्तुषितं त्यक्ते त्वचाशून्ये लघूकृते ॥ २१९ ॥ निष्काशितो निर्गमिते धिक्कृतेप्युज्झिते त्रिषु । पञ्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च ॥ २२० ॥ गताप्तचेष्टिते ज्ञाते लाभे परिगतं मतम् । परिघातः समाघाताऽऽयुधयोरथ हायने ॥ २२१ ॥ परिवर्त्तो विनिमये कूर्म्मराजे पलायने । दन्ते सप्रसवे लाक्षारक्ते पल्लवितं त्रिषु ॥ २२२ ॥ पारावतः कलरवे शैले मर्कटतिन्दुके । पारावती तु गोपालगीतेऽपि लवलीफले ॥ २२३ ॥ पारिजातः पारिभद्रे मन्दारेऽपि च पादपे । पाशुपतः पशुपतिदैवते बकपुष्पके ॥ २२४ ॥ ;p{0157} पुरस्कृतं भवेदग्नकृताभ्यर्चितयोस्त्रिषु । शस्ते शिक्ते रिपुग्रस्ते स्वीकृतेऽपि त्रिषु स्मृतम् ॥ २२५ ॥ पुष्पदन्तस्तु दिग्नागनागविद्याधरान्तरे । प्रजापतिः क्षितिपतौ विरिंच्ये च प्रजापतिः ॥ २२६ ॥ त्रिषु प्रणिहितं ख्यातं न्यस्ते लव्धे समाहिते । भवेत्प्रतिहतो द्विष्टे प्रतिस्खलितरुद्धयोः ॥ २२७ ॥ प्रतिपच्चेतनायां स्यात्प्रतिपत्तावपि स्मृता । प्रतिपत्तिः पदप्राप्तिः प्रतिप्राप्तिश्च गौरवे ॥ २२८ ॥ प्रतिपत्तिः प्रबोधेऽपि संवित्प्रागल्भयोरपि । प्रतिकृतिः प्रतीकारे प्रतिबिम्बे च पूजने ॥ २२९ ॥ प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते । प्रधूपितस्त्रिषु क्लिष्टे सूर्यगम्यदिशि स्त्रियाम् ॥ २३० ॥ ;p{0158} प्रव्रजिता तु मुण्डीरीमांस्योस्त्रिषु तपस्विनि । भगवान्सुगते पूज्ये त्रिषु गौर्यां तु योषिति ॥ २३१ ॥ भोगवान्नाट्यगानयोर्भोगवानहिभोगिनोः । मता भोगवती नागपुरि नागसरित्यपि ॥ २३२ ॥ रङ्गमाता तु लाक्षायां कुट्टिन्यामपि दृश्यते । लक्ष्मीपतिर्नृपे विष्णौ पूगीफललवङ्गयोः ॥ २३३ ॥ वनस्पतिर्विना पुष्पं फलिवृक्षेऽपि पादपे । विजृम्भितं विकसितेऽप्युद्गते वेष्टिते त्रिषु ॥ २३४ ॥ विनिपातस्तु दैवादिव्यसने पतनेऽपि च । विवस्वांस्तु पुमान्वासरेश्वरे त्रिदिवेश्वरे ॥ २३५ ॥ विवक्षितं वक्तुमिष्टे शोभनेऽपि विवक्षितम् । वैजयन्तो ध्वजे शक्रप्रासादे शरजन्मनि ॥ २३६ ॥ ;p{0159} वैजयन्ती पताकायां जयन्ती वह्निमन्थयोः । व्यतीपातो योगभेदे महोत्पातेऽपमानने ॥ २३७ ॥ मतः शतधृतिः पाकशासने कमलासने । शुभ्रदन्ती मरुद्दन्ती दन्तिनीसुंदरस्त्रियोः ॥ २३८ ॥ संख्यावान्पण्डिते पुंसि त्रिषु सङ्ख्यायुते मृते । सदागतिर्गन्धवाहे निर्वाणेऽपि सदीश्वरे ॥ २३९ ॥ समुद्रान्ता त्वनन्तायां कार्पासीपृक्कयोरपि । समुद्धतः समुत्कीर्णेऽप्यविनीते समुद्धतः ॥ २४० ॥ समाघातो वधे युद्धे समाधिस्थे समाहितः । त्रिषु न्यस्तप्रतिज्ञातसंसिद्धे यम आत्मनि ॥ २४१ ॥ समाहितं समाधाने व्यसनेऽपि समाहितम् । सरस्वान्रसिके सिन्धौ नदेऽप्यथ सरस्वती ॥ २४२ ॥ ;p{0160} नदीभेदे नदीदिव्यस्त्रीगोवाग्देवतागिरि । सुधासूतिः पुमान्यज्ञे कुरङ्गतिलकेऽपि च ॥ २४३ ॥ सूर्यभक्तो मतो बन्धुजीवे भास्करदैवते । सेनापतिरनीकाधिकृते हैमवतीसुते ॥ २४४ ॥ हिमारातिः खले सूर्येऽनले हैमवती तु या । गौर्या हरीतकीस्वर्णक्षीरीश्वेतवचासु सा ॥ २४५ ॥ ;v{तपञ्चमम्} ;c{तपंचमम् ।} स्यादध्यवसिंत ज्ञाते गते क्रुद्धेऽपि वेष्टिते । पुंसि श्रीकण्ठवैकुण्ठयज्ञभेदेऽपराजितः ॥ २४६ ॥ जयन्तीपार्वतीविष्णुकान्तासु त्वपराजिता । वाच्यलिङ्गः पिपतिषन्पतनेच्छौ खगे पुमान् ॥ २४७ ॥ दृष्टेऽवलोकितं ख्यातं लोकनाथेऽवलोकितः । उपधूपित आसन्नमरणे परिधूपिते ॥ २४८ ॥ ;p{0161} गणाधिपतिरित्येष पिनाकिनि विनायके । श्वेतायामप्यसौ वाच्यलिङ्गस्तु स्यादनिर्जिते ॥ २४९ ॥ सर्वमुक्तेऽभिनिर्मुक्तः सुप्ते यत्रास्तगो रविः । पृथिवीपतिरित्युक्तो भूपाले ऋषभौषधे ॥ २५० ॥ मूर्धाभिषिक्तः क्ष्मापाले मन्त्रिणि क्षत्रियेऽपि च । यादसांपतिरम्भोधौ वरुणे यादसांपतिः ॥ २५१ ॥ वसन्तदूतश्चूतेऽसौ पिकपञ्चमरागयोः । वसन्तदूतीशव्दस्तु पाटलावतिमुक्तके ॥ २५२ ॥ ;v{तषष्ठम्} ;c{तषष्ठम् ।} अर्द्धपारावतश्चित्रकण्ठे च तित्तिरावपि । समुद्रनवनीतं स्यादमृते च सुधानिधौ ॥ २५३ ॥ ;c{इति विश्वलोचने तान्तवर्गः ।} ;p{0162} ;k{थान्तवर्गः} ;c{अथ थान्तवर्गः ।} ;v{थैकम्} ;c{थैकम् ।} थः स्याच्छिलोच्चये भीतत्राणे थं मङ्गलेऽपि थम् । ;v{थद्वितीयम्} ;c{थद्वितीयम् ।} अर्थः प्रयोजने चित्ते हेत्वभिप्रायवस्तुषु ॥ १ ॥ शब्दाभिधेये विषये स्यान्निवृत्तिप्रकारयोः ॥ २ ॥ आस्था त्वालम्बनापेक्षायत्नास्थानेषु दृश्यते । कन्था तु मृत्तिकाभित्तौ कन्था प्रावरणान्तरे ॥ ३ ॥ कुथः स्त्रीपुंसयोर्वर्णकम्बले पुंसि बर्हिषु । कोथस्तु नेत्ररुग्भेदे मथने शटितेऽपि च ॥ ४ ॥ क्वाथः स्याद्व्यसने पुंसि द्रवनिष्पाकदुःखयोः । गाथा वृत्तेऽपि वाग्भेदे ग्रन्थस्तु धनशास्त्रयोः ॥ ५ ॥ ग्रन्थः स्याद्ग्रन्थनायां च द्वात्रिंशद्वर्णनिर्म्मितौ । ग्रन्थिर्ना पर्वणि ग्रन्थिपर्णे रुग्भिदि च स्त्रियाम् ॥ ६ ॥ ;p{0163} कौटिल्ये बन्धभेदे च तीर्थं शास्त्रावतारयोः । पुण्यक्षेत्रमहापात्रोपायोपाध्यायदर्शने ॥ ७ ॥ ऋषिजुष्टे जले यज्ञे जातौ च वनितार्त्तवे । नीलीसूक्ष्मैलयोस्तुत्था तुत्थोग्नौ तुत्थमञ्जने ॥ ८ ॥ दुःस्थस्तु दुर्गते मूर्खे पार्थः स्यात्ककुभेऽर्जुने । पाथो दिवाकरे पुंसि पाथः पयसि न द्वयोः ॥ ९ ॥ पृथुर्नृपे कृष्णजीरे वाप्यां स्त्री महति त्रिषु । सानौ मानेऽस्त्रियां प्रस्थः स्यादप्युन्मितवस्तुनि ॥ १० ॥ प्रोथः पान्थेऽश्वघोणायामस्त्री ना कटिगर्भयोः । वीथी गृहतटीपङ्क्तौ नाट्यरूपकवर्त्मनोः ॥ ११ ॥ मन्थो मन्थानदण्डे स्याद्द्वादशात्मनि साक्तवे । मन्थो नयनरोगेऽपि यूथं तिर्यक्चये चये ॥ १२ ॥ ;p{0164} अस्त्री यूथी तु मागध्यां पुष्पभेदे कुरण्टके । रथस्तु स्यन्दने काये वेतसे चरणेऽपि च ॥ १३ ॥ सार्थः स्याद्वणिजां वृन्दे वृन्दमात्रेऽपि दृश्यते । सिक्थं नील्यां मधूच्छिष्टे सिक्थो नौदनसम्भवे ॥ १४ ॥ संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ । संस्था क्रतौ समाप्तौ च चरे च निजराष्ट्रगे ॥ १५ ॥ ;v{थतृतीयम्} ;c{थतृतीयम् ।} अतिथिः स्यात्प्राघुणके कोपेपि कुशपुत्रके । त्रिष्वव्यथो व्यथाहीने पथ्यायां पन्नगेऽव्यथः ॥ १६ ॥ अश्वत्थः पूर्णिमायां च गर्दभाण्डे च पिप्पले । उद्रथस्तम्रचूडेऽपि महेन्द्रे महकामुके ॥ १७ ॥ उन्माथः कूटयन्त्रे स्यादपि मारणघातयोः । उपस्थस्तु भगे लिङ्गेऽप्युत्सङ्गेऽपि गुदे पुमान् ॥ १८ ॥ ;p{0165} कायस्थस्तु नृणां जातिप्रभेदे परमात्मनि । कायस्था स्याद्वयस्थायां पथ्यायां कायगे त्रिषु ॥ १९ ॥ गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौषधौ । दमथस्तु दमे दण्डे निर्ग्रन्थः क्षपणेऽधने ॥ २० ॥ वालिशेऽपि निशीथस्तु निशामात्रार्द्धरात्रयोः । प्रमथः शङ्करगणे पथ्यायां प्रमथा तथा ॥ २१ ॥ वयःस्था शाल्मलीपथ्याकाकोल्यामलकीषु च । ब्राह्मीत्रुटिगुडूचीषु वयस्थतरुणे त्रिषु ॥ २२ ॥ मन्मथः कामचिन्तायां कामदेवकपित्थयोः । वमथुः पुंसि वमने मातङ्गकरशीकरे ॥ २३ ॥ वरूथो रथगुप्तौ ना वरूथं चर्मवेश्मनि । विदथो योगिकृतिनोः शमथः शान्त्यमात्ययोः ॥ २४ ॥ ;p{0166} षड्ग्रन्था तु वचाशट्योः षङ्ग्रन्थः करञ्जान्तरे । समर्थस्तूद्भटे शक्ते सम्बद्धार्थे हिते त्रिषु ॥ २५ ॥ सर्वार्थसिद्धे सिद्धार्थः सिद्धार्था सितसर्षपे । क्षवथुः पुंसि कासे स्याच्छिक्कायामपि सम्मतः ॥ २६ ॥ ;v{थचतुर्थम्} ;c{थचतुर्थम् ।} अनीकस्थो रणस्थले चिह्नेषु भटमर्दने । राजरक्षिषु मातङ्गशिक्षणातिविचक्षणे ॥ २७ ॥ भवेदितिकथा ग्राम्यकथाप्रनष्टधर्मयोः । बाच्यवद्दशमीस्थः स्यात्स्थविरक्षीणरागयोः ॥ २८ ॥ वानप्रस्थो मधुष्ठीले तृतीयाश्रमिकिंशुके । ;v{थपञ्चमम्} ;c{थपंचमम् ।} भटे पुंस्यप्रतिरथं यात्रायां साम्नि मङ्गले ॥ २९ ॥ ;c{इति विश्वलोचने थान्तवर्गः ।} ;p{0167} ;k{दान्तवर्गः} ;c{अथ दान्तवर्गः ।} ;v{दैकम्} ;c{दैकम् ।} दः शुद्धौ देवने दास्तु दातरि च्छेददानयोः ॥ १ ॥ ;v{दद्वितीयम्} ;c{दद्वितीयम् ।} अन्दुः स्त्रियामलङ्कारे वेदबंधनवस्तुनोः । अब्दः संवत्सरे मेघे मुस्तके पर्वतान्तरे ॥ २ ॥ कन्दोऽस्त्री शूरणे वृक्षमूले पुंसि पयोधरे । कुन्दो माघ्ये पुमांश्चक्रे भ्रमौ निधिसुरद्विषोः ॥ ३ ॥ विष्णुभ्रातरि रोगे च मतः शस्त्रान्तरे गदा । छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः ॥ ४ ॥ छन्दोऽभिप्रायवशयोर्धीदा कन्यामनीषयोः । नदी सरित्यपि नदः सिन्धौ शोणाविनादयोः ॥ ५ ॥ ;p{0168} नन्दिः शिवप्रतीहारे द्यूतभाण्डभिदोर्मुदि । नन्दा मणिकसम्पत्त्योर्निन्दा कुत्साऽपवादयोः ॥ ६ ॥ पदं वाक्ये प्रतिष्ठायां व्यवसायाऽपदेशयोः । पादातच्चिह्नयोः शब्दे स्थानत्राणाङ्घ्रिवस्तुषु ॥ ७ ॥ पादोऽस्त्री चरणे मूले तुरीयांशेऽपि दीधितौ । शैलप्रत्यन्तशैले ना विदा ज्ञाने मतावपि ॥ ८ ॥ बिन्दुः स्याद्दन्तदशने शुक्रे वेदितृविप्रुषोः । वेदिरङ्गुलिमुद्रायां बुधे संस्कृतभूतले ॥ ९ ॥ भन्दं(द्रं) शर्म्मणि कल्याणे भेदो द्वैधविशेषयोः । विदारणे चोपजापे संपूर्वः सिन्धुसङ्गमे ॥ १० ॥ मदो मृगमदे मद्ये दानमुद्गर्वरेतसि । महापूर्वो मतङ्गे स्यान्मदी कृषकवस्तुनि ॥ ११ ॥ ;p{0169} मन्दः स्वैरे खले मन्दरते मूर्खाल्परोगिषु । अभाग्येऽपि त्रिषु पुमान् गजजात्यन्तरे शनौ ॥ १२ ॥ मृद्वतीक्ष्णे त्रिषु श्लक्ष्णे रदो दन्ते विलेखने । शादस्तु कर्दमे शष्पे सूदः स्याद्व्यञ्जने गुणे ॥ १३ ॥ स्वादुर्मिष्ठे मनोज्ञे च स्वेदः स्वेदनघर्म्मयोः । हृच्चित्तबुक्कयोः क्लीबं क्षोदश्चूर्णेऽपि पेषणे ॥ १४ ॥ ;v{दतृतीयम्} ;c{दतृतीयम् ।} अङ्गदो वालिपुत्रे स्यात्केयूरे त्वङ्गदं मतम् । भवेद्दक्षिणदिग्दन्तीदन्तिन्यां तु मताऽङ्गदा ॥ १५ ॥ अस्त्री सङ्ख्यान्तरे मांसकीले शैलेऽपि नाऽर्बुदः । अर्द्धेन्दुरर्द्धचन्द्रे स्याद्गलहस्तनखाङ्कयोः ॥ १६ ॥ ;p{0170} अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने । आक्रन्दो दारुणरणे मित्रे तातारिरोदने ॥ १७ ॥ पार्ष्णिग्राहात्परो राजा यस्तस्मिन्नारदेऽपि च । सुगन्धिमुदि वामोद आस्पदं पदकृत्ययोः ॥ १८ ॥ स्त्री ककुत् ककुदोऽप्यस्त्री वृषाङ्गे राजलक्ष्मणि । शृङ्गे श्रेष्ठे कपर्दस्तु वटे शम्भुजटाटयोः ॥ १९ ॥ कर्कन्दुः साक्षरे शाके वारिजाले गुदामये । उत्क्षिप्तिकायां कर्णान्दुः कर्णपाल्यामपि स्त्रियाम् ॥ २० ॥ कामदा धेनुकायां स्याद्वाच्यवत्कामदोग्धरि । कुमुदो नागदिग्नागदैत्यान्तरवनौकसि ॥ २१ ॥ कुमुदं कैरवे क्लीबं कृपणे कुमुदन्यवत् । कुसीदिके कुसीदः स्यात्कुसीदं वृद्धिजीवने ॥ २२ ॥ ;p{0171} कौमुदः कार्त्तिके ज्योत्स्नापर्वणोरपि कौमुदी । क्रव्यात्क्रव्यादवत्पुंसि मांसभक्षकरक्षसोः ॥ २३ ॥ गोविन्द इन्द्रावरजे गवाध्यक्षे च गीष्पतौ । गोष्पदं गोपदश्वभ्रे गवां च गतिगोचरे ॥ २४ ॥ बलाहकोऽपि जलदो जलदो मुस्तकेऽपि च । जीवदो द्विषि वैद्ये च तरत्कारण्डवे प्लवे ॥ २५ ॥ तोयदो मुस्तके मेघे तोयदं तु घृतं मतम् । दरद्भये प्रपातेऽद्रौ दायादो ज्ञातिपुत्रयोः ॥ २६ ॥ दारदः पारदे सिन्धौ हिङ्गुले गरलान्तरे । दृषत्पेषणपाषाणपट्टपाषाणयोः स्त्रियाम् ॥ २७ ॥ धनदो दातरि श्रीदे क्रीडामात्ये तु नर्म्मदः । नर्मदा नर्मदायिन्यां रेवायामपि नर्मदा ॥ २८ ॥ ;p{0172} नलदं मकरन्दे स्यान्मासिकोशीरयोरपि । निर्वादस्तु परीवादपरनिन्दितवादयोः ॥ २९ ॥ निषादः स्वरभेदेऽपि निषादः पचपचेऽपि च । प्रणादोऽत्युच्चशब्दे स्यात्प्रणादः कर्णरुग्भिदि ॥ ३० ॥ प्रमदा मत्तकाशिन्यां प्रमदो गर्वितामुदि । प्रसादस्तु प्रसन्नत्वे काव्यालङ्करणान्तरे ॥ ३१ ॥ स्वास्थ्ये चानुग्रहे चाथ प्रह्लादः प्रणदेऽसुरे । प्रासादः पुंसि देवस्य नरदेवस्य वाऽऽलये ॥ ३२ ॥ कन्यायां वरदा शान्ते प्रसन्ने वरदस्त्रिषु । भसत्पुंस्येव काले स्याद्भसन्मांसे प्रभासुरे ॥ ३३ ॥ मर्यादा तु स्थितौ सीम्नि कूले कूले च वारिधेः । माकन्दतु रसाले स्यान्माकन्द्यामलकीफले ॥ ३४ ॥ ;p{0173} मैनादश्छागमार्जारमेघनादानुलासिषु । वातर्दिर्वल्कले काष्ठलोहीवेदेकयोः स्त्रियाम् ॥ ३५ ॥ विशदः पाण्डरे व्यक्ते शरत्स्त्री शरदब्दयोः । शारदा जलपिप्पल्यां सप्तपर्णेऽथ शारदः ॥ ३६ ॥ नवाऽप्रतिमशालीनपीतमुद्गेन्दुवर्षयोः । स्त्रियां सम्पद्गुणोत्कर्षे भूतिहारप्रभेदयोः ॥ ३७ ॥ संवित्प्रतिज्ञासङ्केतज्ञानाचारेषु नामनि । स्त्रियां तोषे क्रियाकारे रणे सम्भाषणेऽपि च ॥ ३८ ॥ सम्भेदस्तु विकाशे स्यात्सम्भेदः सिन्धुसङ्गमे । सुनन्दा रोचनानार्योः क्षणदो गणके पुमान् ॥ ३९ ॥ त्रिषूत्सवप्रदे वारि क्षणदं क्षणदा निशि । ;v{दचतुर्थम्} ;c{दचतुर्थम् ।} अपवादस्तु निद्रायामाज्ञाविश्वासयोरपि ॥ ४० ॥ ;p{0174} अभिष्यन्दो विवृद्धौ स्यादास्तावे लोचनामये । अभिमर्द्दस्तु पुंस्येव रणमन्थानदण्डयोः ॥ ४१ ॥ अष्टापदं शारिफले क्लीबमस्त्री तु काञ्चने । शरभे मर्कटे पुंसि चन्द्रमल्ल्यां स्त्रियामपि ॥ ४२ ॥ एकपदं स्यात्तत्काले क्लीबमेकपदी पथि । कटुकन्दः पुमान् शृङ्गवेरे शिग्रुरसोनयोः ॥ ४३ ॥ कुरुविन्दस्तु मुस्तायां कुल्माषव्रीहिभेदयोः । कुरुविन्दं तु मुकुरे पद्मरागे च हिङ्गुले ॥ ४४ ॥ क्लीबं कोकनदं रक्तकैरवे रक्तपङ्कजे । चक्रबुन्दस्तु भाकूटे पृष्ठशृङ्गे मृषान्तरे ॥ ४५ ॥ चतुष्पदो गवाश्वादिपशौ स्त्रीकरणान्तरे । पुमाञ्जनपदो देशे तथा जनपदो जने ॥ ४६ ॥ ;p{0175} तमोनुदस्तमोनुच्च चन्द्रसूर्यकृशानुषु । परीवादोऽपवादे स्याद्वीणावादनवस्तुनि ॥ ४७ ॥ पृष्ठमर्द्दोऽतिधृष्टे स्यान्नाट्योक्त्यां नायकप्रिये । पुटभेदो नदीवक्रे नगरातोद्ययोरपि ॥ ४८ ॥ प्रतिपत्तु स्त्रियामाद्यतिथौ संविदि सा स्मृता । प्रियंवदः खेचरे स्यात्प्रियवाचि तु वाच्यवत् ॥ ४९ ॥ महानादो महाशब्दे वर्षुकाब्दे शयानके । गजे च मुचुकुन्दस्तु मुनिदैत्यद्रुमान्तरे ॥ ५० ॥ मेघनादो दशग्रीवसुते पश्चिमदिक्पतौ । विशारदः पण्डिते स्यात्त्रिषु धृष्टे विशारदः ॥ ५१ ॥ पृत्वाकूटे प्रपञ्चे च मृगे शूके पदे मतम् । समर्यादं समीपे स्यान्मर्यादिन्यपि वाच्यत् ॥ ५२ ॥ ;p{0176} ;v{दपञ्चमम्} ;c{दपञ्चमम् ।} धर्मे रहस्युपनिषद्वेदान्ते पार्श्ववेश्मनि । सहस्रपादो मार्त्तण्डे कारण्डेपि च यज्वनि ॥ ५३ ॥ ;c{इति विश्वलोचने दान्तवर्गः ।} ;k{धान्तवर्गः} ;c{अथ धान्तवर्गः ।} ;v{धैकम्} ;c{धैकम् ।} धो धने च धनेशे च धास्तु धातरि धी मतौ । ;v{धद्वितीयम्} ;c{धद्वितीयम् ।} अन्धं स्यात्तिमिरे दृष्टिहीने त्वन्धोऽभिधेयवत् ॥ १ ॥ अब्धिर्वारांनिधौ पुंसि पुंस्येवाऽब्धिः सरोवरे । अर्द्धं समांशके क्लीबमर्द्धः खण्डे पुमानपि ॥ २ ॥ पुंस्याधिश्चित्तपीडायां प्रत्याशायां च बन्धके । व्यसने चाप्यधिष्ठाने स्यादिद्धस्त्वातपे पुमान् ॥ ३ ॥ ;p{0177} प्रदीप्ते त्रिषु ऋद्धं तु सम्पन्नान्नसमृद्धयोः । ऋद्धिः स्यादौषधीभेदे योगशक्तौ च बन्धने ॥ ४ ॥ गन्धो गन्धकसम्बन्धलेशेष्वामोदगर्वयोः । गाधः स्थानेऽपि लिप्सायां गोधा तलनिहाकयोः ॥ ५ ॥ दग्धा स्थितार्ककाष्ठायां दग्धं प्लुष्टेऽन्यलिङ्गकः । दधि स्याच्छ्रीघने क्लीबं दधि श्रीवासवासयोः ॥ ६ ॥ विषाक्तविशिखे दिग्धो दिग्धं लिप्तार्थकेऽन्यवत् । त्रिषु प्रपूरिते दुग्धं दुग्धं क्षीरेऽपि न द्वयोः ॥ ७ ॥ वत्से गोपे कवौ दोग्धा दोग्धाऽप्यर्थोपजीविनि । सज्जे संपूर्वकं नद्धं नद्धं तद्वृतबद्धयोः ॥ ८ ॥ आधिबन्धनयोर्वेधो बन्धः संपू्र्वकोऽन्वये । बन्धूकपादपे बन्धुर्वधूभ्रातरि बान्धवे ॥ ९ ॥ ;p{0178} बाधा दुःखे निषेधे च विपूर्वा तु विहेठने । बुधस्तु सुगते धीरे सौम्ये च बुघिते त्रिषु ॥ १० ॥ बुधः स्यात्पण्डिते सौम्ये बुधः क्वापि तथागते । ऋद्धिस्तु वर्द्धने ऋद्ध्यौषधे मुदि कलान्तरे ॥ ११ ॥ वृद्धिः कुरुण्डरोगे च वृद्धिर्योगेऽपि दृश्यते । वृद्धो रूढे कवौ जीर्णे त्रिषु वृद्धं तु शैलजे ॥ १२ ॥ बोधिः समाधिभेदे स्याद्बोधिर्बोधिमहीरुहे । मधु पुष्परसे क्षौद्रे मद्यक्षीराऽसु न द्वयोः ॥ १३ ॥ मधुर्म्मधूके सुरभौ चैत्रे दैत्यान्तरे पुमान् । जीवाशाके स्त्रियामेवं मधु-शब्दः प्रयुज्यते ॥ १४ ॥ सिद्धं चित्ताभिसंक्षेपे सिद्धमालस्यनिद्रयोः । सुन्दरे वाच्यवन्मुग्धो मुग्धो मूढेऽपि वाच्यवत् ॥ १५ ॥ मेघः क्रतौ मतौ मेधा मेधिस्तु खलदारुणि । राधा तु वल्लवीभेदे चित्रभेदे च धन्विनाम् ॥ १६ ॥ ;p{0179} स्याद्विशाखातडिद्विष्णुक्रान्तातिष्यफलासु च । राधस्तु पुंसि वैशाखे लुब्धो मृगयुकांक्षिणोः ॥ १७ ॥ वधूः स्नुषायां भार्यायां वधूर्योषिन्नवोढयोः । शट्यां च सारिवायां च स्पृक्कायां च मता वधूः ॥ १८ ॥ भवेद्विधं तु सादृश्ये वेधितक्षिप्तयोस्त्रिषु । विधिर्वेधसि काले ना विधाने नियतौ स्त्रियाम् ॥ १९ ॥ विधा प्रकारे ऋद्धौ च गजान्ने वेतने विधौ । विधुः शशाङ्के विष्णौ च कपूरे राक्षसान्तरे ॥ २० ॥ व्याधिः स्यादामये व्याप्ये व्याधो मृगयुदुष्ठयोः । शुद्धं तु केवले पूते श्रद्धा श्राद्धोर्ध्वकाङ्क्षयोः ॥ २१ ॥ श्राद्धं निवापे श्राद्धस्तु त्रिषु श्रद्धासमन्विते । सन्धा स्थितौ प्रतिज्ञायामवधानेऽपि सा स्मृता ॥ २२ ॥ ;p{0180} सन्धिः पुंसि सुरङ्गायां रन्ध्रसंघट्टने भगे । सन्धिर्भागेऽवकाशेऽपि वाटसंज्ञेऽपि पुंस्ययम् ॥ २३ ॥ साधुर्वार्द्धुषिके पुंसि चारुसज्जनयोस्त्रिषु । सिद्धस्तु नित्ये निष्पन्ने प्रसिद्धे देवयोनिषु ॥ २४ ॥ योगेऽप्याडिप्रभेदे च सिद्धिर्न्निष्पत्तियोगयोः । सद्व्याख्याभेषजे सिद्धिः सिद्धिवृद्ध्याख्यभेषजे ॥ २५ ॥ सिन्धुरब्धौ नदे देशीभेदे ना सरिति स्त्रियाम् । सुधाऽमृते सुधा मूर्वास्नुहीगाङ्गेष्टिकासु च ॥ २६ ॥ सृधूर्वृद्धौ गुदेऽपि स्यात्स्कन्धः कायप्रकाण्डयोः । बाहूमूले समूहे च समीहायां समीहतौ ॥ २७ ॥ स्कन्धो नराश्वमातङ्गवृन्दे भद्रादिकृत्यके । स्निग्धो वात्सल्यसंपन्ने चिक्कणेऽप्यभिधेयवत् ॥ २८ ॥ ;p{0181} स्पर्द्धा संहर्षणे साम्ये स्पर्द्धा क्रमसमुन्नतौ । ;v{धतृतीयम्} ;c{धतृतीयम् ।} अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् ॥ २९ ॥ अवधिर्नाऽवधौ न स्यात्सीम्नि काले विलेऽवटे । आनद्धं त्रिषु बद्धे स्यादानद्धं मुरजादिके ॥ ३० ॥ आवन्धः प्रेम्ण्यलङ्कारे दृढबन्धेऽपि कीर्त्तितः । आविद्धः प्रहते वक्रेऽप्युत्सेधः काय उच्छ्रये ॥ ३१ ॥ व्याजेऽपि चक्रेऽप्युपधिरुपाधिर्ना विशेषणे । कैतवे धर्म्मचिन्तायां कुटुम्बव्यापृतेऽपि च ॥ ३२ ॥ कवन्धस्तु हरे राहौ रक्षोभेदे मतः पुमान् । कबन्धं वारि न स्त्री तु गतमूर्द्धकलेवरे ॥ ३३ ॥ दु्र्विधौ दुःखिखलयोर्निरोधो रोधनाशयोः । निषधः पर्वते देशे तद्राजे कठिनेपि च ॥ ३४ ॥ ;p{0182} न्यग्रोधस्तु वटे शम्यां न्यग्रोधो व्याममात्रके । न्यग्रोधी विषपय च मोहनाख्यौषधावपि ॥ ३५ ॥ परिधिर्यज्ञियतरोः शाखायामुपसूर्यके । प्रणिधिर्याच्याचरयोः प्रसिद्धः ख्यातभूषिते ॥ ३६ ॥ मागधो मगधोद्गते क्षत्रियावैश्यजे त्रिषु । बन्दिजीरकयोः पुंसि कणायूथ्योस्तु मागधी ॥ ३७ ॥ पर्याहाराध्वभारेषु पण्ये विवधवीवधौ । विबुधः पण्डिते देवे विश्रब्धं तु भृशार्थकम् ॥ ३८ ॥ विश्रब्धः स्यात्तु विश्वस्ताऽनुद्भटेषु त्रिषु त्रिषु । लतायां विटपे वीरुत्सन्नद्धो व्यूढवर्म्मिते ॥ ३९ ॥ सन्निधिः सन्निधाने सी पुमानिन्द्रियगोचरे । समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ ४० ॥ ;p{0183} सम्बाधः सङ्कटे योनौ सङ्गरेपि सुगन्धि तु । शैलेयेऽभीष्टगन्धे च संरोधः क्षेपरोधयोः ॥ ४१ ॥ संसिद्धिस्तु मता श्रीमत्तिनीप्रकृतिसिद्धिषु । ;v{धचतुर्थम्} ;c{धचतुर्थम् ।} अनिरुद्धः स्मरसुते पुंसि चानर्गले त्रिषु ॥ ४२ ॥ अनुबन्धः प्रकृत्यादेर्नश्वरेऽप्यनुयायिनि । दोषोत्पादे शिशौ च स्यात्प्रवृत्तस्यानुवर्त्तने ॥ ४३ ॥ अनुबन्धी तु हिक्कायां तृष्णायामपि दृश्यते । अवरोधस्तु शुद्धान्तेऽप्यन्तर्द्धौ राजसद्मनि ॥ ४४ ॥ स्यादवष्टव्ध आक्रान्तेऽप्यदूरेऽप्यविलम्बिते । आशाबन्धः समाश्वासे मर्कटस्य च वासके ॥ ४५ ॥ इक्षुगन्धा कोकिलाक्षे काशे क्रोष्ट्यां च गोक्षुरे । उग्रगन्धा बचायां स्याद्यवान्यां छिक्किकौषधौ ॥ ४६ ॥ ;p{0184} उपलब्धिः स्त्रियां प्राप्तिमतिज्ञानेषु लक्षणे । कालस्कन्धस्तमालेऽपि तिन्दुके जीवकद्रुमे ॥ ४७ ॥ तीक्ष्णगन्धो मतः शिग्रौ वचाराजिकयोः स्त्रियाम् । तृणगोधा भवेच्चित्रकोलके कृकलासके ॥ ४८ ॥ परिव्याधः पुमान्नीरवानीरेऽपि द्रुमोत्पले । ब्रह्मबन्धुरधिक्षिप्ते निर्देशेऽब्राह्मणस्य च ॥ ४९ ॥ महौषधं विषाशुण्ठी शृङ्गवेरे रसोनके । समुन्नद्धः समुद्भूते पण्डितम्मन्यगर्विते ॥ ५० ॥ ;v{धपञ्चमम्} ;c{धपञ्चमम् ।} योजनगन्धा तु कस्तूर्यां व्याससूसीतयोरपि ॥ ५१ ॥ ;c{इति विश्वलोचने धान्तवर्गः ।} ;p{0185} ;k{नान्तवर्गः} ;c{अथ नान्तवर्गः ।} ;v{नैकम्} ;c{नैकम् ।} नास्तु नेतरि नावि स्त्री नकारो जिनपूज्ययोः । नुः स्तोतरि नुतौ स्त्री च स्यादन्नं भक्तमुक्तयोः ॥ १ ॥ ;v{नद्वितीयम्} ;c{नद्वितीयम् ।} इनः पत्यौ नृपे सूर्येऽप्युन्नं क्लिन्ने रतान्तरे । रणोद्योगे भवेदूनमूने न्यूनाऽभिधेयवत् ॥ २ ॥ निश्शेषे त्रिषु कृत्स्नं स्याकृत्स्नं स्यादुदरे जले । गानं गीतेऽपि शब्देऽपि गर्हणे तु विपूर्वकम् ॥ ३ ॥ घनं स्यात्कांस्यतालादिवाद्ये मध्यमताण्डवे । घनस्तु मेघे मुस्तायां विस्तारे लोहमुद्गरे ॥ ४ ॥ काठिन्ये चाथ कठिने सान्द्रेऽपि च घनस्त्रिषु । चिह्नमङ्के पताकायां ध्वजमात्रेऽपि न द्वयोः ॥ ५ ॥ ;p{0186} चीनो देशांशुकव्रीहितन्तुभेदे मृगान्तरे । रहसि च्छादिते छन्नमुत्पूर्वं छन्नमुज्ज्वले ॥ ६ ॥ छिन्नाऽमृतायां पुंश्चल्यां छिन्नं भिन्नेऽभिधेयवत् । जनो लोके महर्लोकात्परे लोके च पामरे ॥ ७ ॥ जनी सीमन्तिनीवध्वोः स्त्रियां तु जनिरुद्भवे । जिनस्त्वर्हति बुद्धेऽतिवृद्धजित्वरयोस्त्रिषु ॥ ८ ॥ ज्योत्स्ना तु चन्द्रिकायां स्यात्स्याल्लतायां विभावरौ । ज्योत्स्नी पटोलिकायां च चन्द्रकान्वितनिश्यपि ॥ ९ ॥ ज्यानिर्हानौ तटिन्यां च तनुर्देहत्वचोः स्त्रियाम् । तनुः केशेऽपि विरले स्वल्पमात्रेऽपि वाच्यवत् ॥ १० ॥ दानं त्यागे गजमदे छेदे शुद्धौ च रक्षपौ । विक्रान्ते वाच्यवद्दानुर्द्दानदातरि वाच्यवत् ॥ ११ ॥ ;p{0187} कातरे दुर्गते दीनो दीना मूषिकयोषिति । द्युम्नं पराक्रमे वित्ते प्रपूर्वं पुंसि मन्मथे ॥ १२ ॥ धनुः पुंसि प्रियालद्रौ राशिभेदेऽपि कामुके । धनं तु गोधने वित्ते धाना भृष्टयवे स्त्रियाम् ॥ १३ ॥ धान्याकेऽप्यङ्कुरेऽब्धौ तु धेनो धेनी सरित्यपि । नग्नस्त्रिषु विवस्त्रे स्यात्पुंसि क्षपणबन्दिनोः ॥ १४ ॥ न्यूनमूनेऽपि गर्ह्येऽपि पानं पीतौ च रक्षणे । वनं तु कानने नीरेऽप्युत्से वासप्रवासयोः ॥ १५ ॥ वस्त्रं तु वसने मूल्ये वेतनद्रव्ययोरपि । बुध्नः शिफायामीशाने भानुः सूर्येऽपि दीधितौ ॥ १६ ॥ भिन्नं वाच्यवदन्यार्थे दारिते सङ्गते स्फुटम् । मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ॥ १७ ॥ ;p{0188} मानः स्यादपि पूजायां मीनो राश्यन्तरे झषे । मुनिर्वाचंयमे बुद्धे प्रियालाऽगस्तिकिंशुके ॥ १८ ॥ इङ्गुद्यामपि मृत्स्ना तु तुवरीमृत्स्नयोर्मता । यानं बाह्यगतौ योनिर्द्वयोः स्यादाकरे भगे ॥ १९ ॥ रत्नं मणावपि श्रेष्ठे रत्नश्चक्षकचण्डयोः । रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापर्ण्यामपि स्मृता ॥ २० ॥ राशीनामुदये लग्नं लग्नं सक्तेऽपि लज्जिते । वानं शुष्कफले शुष्कस्यूतयोस्त्रिष्वथ द्वयोः ॥ २१ ॥ वन्यासुरङ्गावातोर्मिसौरभेषु कटे गतौ । विन्नं ज्ञाते स्थिते लब्धे शीनोऽजगरमूर्खयोः ॥ २२ ॥ पुंस्येव पत्रिणि श्येनः श्येनः श्वेतेऽभिधेयवत् । सानुः शृङ्गे बुधेऽरण्ये वात्यायां पल्लवे पथि ॥ २३ ॥ ;p{0189} सूनुः पुत्रेऽनुजे सूर्ये सूनुर्दुहितरि स्त्रियाम् । सूनं प्रसूने प्रसवे सूनमुच्छ्वसिते त्रिषु ॥ २४ ॥ सूना पुत्र्यां वधस्थाने गलशुण्ड्यामपीष्यते । स्त्यानं लोम्नि प्रतिश्रुत्यां मता स्निग्धे तु वाच्यवत् ॥ २५ ॥ स्थानं स्थितौ च सादृश्ये संनिवेशाऽवकाशयोः । स्थाने स्यादव्ययं ख्यातं युक्तार्थकरणार्थयोः ॥ २६ ॥ स्यूनोऽर्के किरणे स्वप्नः सुप्तधीस्वापदर्शने । हनुः कपोलावयवे मृत्यौ प्रहरणेऽस्त्रियाम् ॥ २७ ॥ गदे हट्टविलासिन्यां हीनं गर्ह्योनयोस्त्रिषु । ;v{नतृतीयम्} ;c{नतृतीयम् ।} अङ्गनं प्राङ्गणे यानेप्यङ्गना नायिकान्तरे ॥ २८ ॥ अङ्गना वामनेभस्य हस्तिन्यामपि दृश्यते । अञ्जनो दिक्करीन्द्रे स्यादञ्जनं तु रसाञ्जने ॥ २९ ॥ ;p{0190} अक्षिकज्जलसौवीरे गिरिभेदेऽन्यथाञ्जने । ज्येष्ठीभेदे मरुत्पत्न्यामञ्जनी लेप्ययोषिति ॥ ३० ॥ अध्वा वर्त्मनि संक्लेशे स्कन्दे संस्थानकालयोः । अपानो गुदवाते स्यादपानं तु गुदे मतम् ॥ ३१ ॥ आब्जिनी विसिनीत्यादिपदान्यब्जसरोवरे । महासहायामाम्लानः पुंस्येव त्रिषु निर्मले ॥ ३२ ॥ अयनं पथि भानोश्च दक्षिणोत्तरतोगतौ । नाऽरत्निः कफणौ हस्ते प्रकोष्ठवितताङ्गुलौ ॥ ३३ ॥ अर्जुनः पार्थककुभकार्त्तवीर्यशिखण्डिषु । मातुरेकसुतेऽपि स्यादर्जुनो धवलेऽन्यवत् ॥ ३४ ॥ अर्जुनी गव्युषायांच कुट्टिनीकरतोययोः । अर्जुनं तु तृणे नेत्ररोगेऽपि क्लीबमर्जुनम् ॥ ३५ ॥ ;p{0191} अर्थी स्याद्याचके यक्षे सेवके च विवादिनि । अर्वा हये पुमानर्वा कुत्सितेऽप्यभिधेयवत् ॥ ३६ ॥ अर्शोघ्नी तालपर्ण्यां स्यादर्शोघ्नः शूरणे पुमान् । अली तु वृश्चिके भृङ्गेऽप्यवनं रक्षणे मुदि ॥ ३७ ॥ अशनिस्तु द्वयोर्वज्रे तडित्यपि मताऽशनिः । असनं क्षेपणे क्लीवमसनः पीतसारके ॥ ३८ ॥ असिक्नी सरिति प्रेष्याशुद्धान्ताऽवृद्धयोषिति । आत्मा ब्रह्ममनोदेहस्वभावधृतिबुद्धिषु ॥ ३९ ॥ आत्मायत्तेऽप्यथाऽऽदानं ग्रहणे वाजिभूषणे । आपन्नस्तु विपत्प्राप्ते प्राप्ते चाप्यभिधेयवत् ॥ ४० ॥ आसनं द्विरदस्कन्धपीठे पीठस्थितावपि । आसनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥ ४१ ॥ ;p{0192} उत्तानमुन्मुखे सुप्तेऽप्यगम्भीरेऽपि वाच्यवत् । उत्थानमुद्गमे तन्त्रेऽप्युद्यमे हर्षणे रणे ॥ ४२ ॥ प्राङ्गणे पौरुषे चैव मलवेगे च पुस्तके । उदानस्तूदरावर्त्ते कण्ठवाताहिभेदयोः ॥ ४३ ॥ उद्धानं चुल्लिकायां स्यान्मतमुद्गमनेऽपि च । उद्यानं क्लीबमाक्रीडे निःसृतौ च प्रयोजने ॥ ४४ ॥ कठिना तु मता स्थाल्यां शर्करायां गुडस्य च । खटिकायां तु कठिनी कठिनं निष्ठुरे त्रिषु ॥ ४५ ॥ कदनं युधाद्ये कामे कम्पनं कम्प्रकम्पयोः । कमनः कामुके चाभिरूपे चाशोककामयोः ॥ ४६ ॥ कर्म्म व्याप्ये क्रियायां च परे स्यादङ्गसंस्कृतौ । कर्त्तनं छेदने तूलतन्तुकर्मणि योषिताम् ॥ ४७ ॥ ;p{0193} कलग्लायान्तु कलनं कलनं बन्धनेऽपि च । कल्पनं छेदने क्लृप्तौ कल्पना गजसज्जने ॥ ४८ ॥ पणस्य मानदण्डस्य चतुर्थांशेऽपि काकिनी । काञ्चनो धूर्त्तपुन्नागनागकेसरचम्पके ॥ ४९ ॥ उदुम्बरे काञ्चनारे हरिद्रायां च काञ्चनी । क्लीबं तु काञ्चने हेम्नि केशरेऽपि च काञ्चनम् ॥ ५० ॥ काननं विपिनेऽपि स्याच्चतुर्म्मुखमुखे गृहे । व्यासे कर्णेपि कानीनः कानीनः कन्यकासुते ॥ ५१ ॥ कामिनी नायिकाभेदे वन्दायामपि कामिनी । कामी तु कामुके कोके कामी पारावतेऽपि च ॥ ५२ ॥ कुन्नानं तु ह्यलङ्कारे भाजने गोलकान्तरे । कुहना दम्भचर्यायामीर्ष्यालौ दाम्भिके त्रिषु ॥ ५३ ॥ ;p{0194} कृती तु पण्डिते योग्ये केतनं लाञ्छने गृहे । केतनं स्यात्पताकायां कार्ये चोपनिमन्त्रणे ॥ ५४ ॥ चीनैकदेशे कौपीनं स्याद्गुह्याकार्ययोरपि । कौलीनं तु परीवादे कुलीनत्वे कुकर्म्मणि ॥ ५५ ॥ गुह्येऽपि सङ्गरेपि श्वभुजङ्गपशुपक्षिणाम् । भवेत्क्रन्दनमाह्वाने मतमश्रुविमोचने ॥ ५६ ॥ खड्गी तु गण्डके पुंसि खड्गी खड्गायुधेऽपि च । गन्धनं सूचने हिंसासमुत्साहप्रकाशने ॥ ५७ ॥ गर्जनं तु मतं कोपे निस्वने मेघनिस्वने । गहनं कानने दुःखे गह्वरे कलिलेऽपि च ॥ ५८ ॥ गायनं स्वप्ने क्लीबं च गीतजीविनि गायने । विषदिग्धपशोर्म्मांसे गृञ्जनं लशुने पुमान् ॥ ५९ ॥ ;p{0195} गोमी गवीश्वरे हरौ स्यान्महेष्वासकेऽपि च । गोस्तनी हारहूरायां हारभेदे तु गोस्तनः ॥ ६० ॥ ग्रावा तु पुंसि पाषाणे गिरिवारिदयोरपि । घट्टना चलनायां स्यादावृत्त्यामपि घट्टिनी ॥ ६१ ॥ चक्री हरिकुलालाऽहिकोकेषु ग्रामजालिने । चन्दना कालिभेदे स्याच्चन्दनं मलयोद्भवे ॥ ६२ ॥ चन्दनी तु नदीभेदे चर्म्म स्यात्फलकत्वयोः । चर्म्मी फलकपाणौ स्याद्भृङ्गरीटे मृदुत्वचि ॥ ६३ ॥ चलनं भ्रमणे कम्पे वाच्यवत्कम्पशालिनि । चलनी वस्त्रघर्घर्यां वारीभेदेऽपि दृश्यते ॥ ६४ ॥ चेतनश्चेतनायुक्ते त्रिषु संविदि चेतना । पत्रे पतत्रे छदनं छद्म शापकिलासयोः ॥ ६५ ॥ ;p{0196} लक्ष्येऽपि छर्दनस्तु स्यान्निम्बालम्बुषवान्तिषु । छेदनं भेदने छेदे जगंस्तु जन्तुशुष्मणोः ॥ ६६ ॥ जघनं वनिताश्रोणीपुरोभागे कटावपि । जयनं तु जये वाजिगजप्रभृतिकञ्चुके ॥ ६७ ॥ यवनो यवमात्रेऽपि यवाधिकतुरङ्गमे । देशभेदे तुरुष्केऽपि जवनः प्रजवे त्रिषु ॥ ६८ ॥ तपनो रविसन्तापे मल्लके नरकान्तरे । तमोघ्नश्चन्द्रसूर्याऽग्निबुद्धश्रीकण्ठविष्णुषु ॥ ६९ ॥ तलिनं विरले स्तोके स्वच्छगम्भीरयोरपि । तलुनः पवने यूनि वाच्यवत्तलुनी स्त्रियाम् ॥ ७० ॥ तेमनं व्यञ्जने क्लेदे चुल्लिकाभिदि तेमनी । तोदनं व्यथने तोत्रे त्यागी सूरेऽपि दातरि ॥ ७१ ॥ ;p{0197} पुष्पे वीरेऽपि दमनो दर्शनं दृशि दर्प्पणे । स्वप्ने वर्त्मनि बुद्धौ च शास्त्रधर्म्मोपलव्धिषु ॥ ७२ ॥ दंशनः शिशिरे पुंसि दंशनं कवचे रदे । दहने दुष्टचरिते भल्लाते चित्रकेऽनले ॥ ७३ ॥ दृशानस्तु गृहपतौ दृशानं ज्योतिषि स्मृतम् । देवनः पाशके पुंसि धन्व चापे स्थलेऽपि च ॥ ७४ ॥ धन्वी धनुर्द्धरे खिड्गेऽप्यर्जुने चार्जुनद्रुमे । धमनस्त्वनले भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ ७५ ॥ धमनी कंधरायां च हरिद्राशिरयोरपि । धाम रश्मौ गृहे देहे प्रभावस्थानजन्मसु ॥ ७६ ॥ धावनं धाविते शुद्धौ पृष्टिपर्ण्यां तु धावनी । स्याद्धावनी रजन्यां च धौताजन्यां च तर्त्तरे ॥ ७७ ॥ ;p{0198} ध्वजी द्विजे रथे शैले तुरङ्गे च भुजङ्गमे । नन्दनो हर्षके पुत्रे नन्दनं मिश्रकावने ॥ ७८ ॥ नन्दनी तु मता देवधुनीधेनुननान्दृषु । नन्दी नन्दीश्वरे गर्दभाण्डन्यग्रोधवृक्षयोः ॥ ७९ ॥ नलिनी तु सरोजिन्यां सरोजे च सरोवरे । व्योमगङ्गामलिकयोः नलिनं तु जलाब्जयोः ॥ ८० ॥ निदानं रोगनियमेऽप्यादिहेत्ववमानयोः । वत्सदाम्नि निदानं स्यान्निधनं कुलनाशयोः ॥ ८१ ॥ पत्री काण्डखगश्येननगद्रुरथिके रथे । पद्मिनी पद्मनलिनीसरस्सु वनितान्तरे ॥ ८२ ॥ पर्व स्यादुत्सवे ग्रन्थौ दर्शप्रतिपदोरपि । तत्सन्धौ विषुवादौ च प्रस्तावे लक्षणान्तरे ॥ ८३ ॥ ;p{0199} पवनोऽस्त्री कुलालस्य पाकस्थानेऽनिले पुमान् । निर्विकल्पेऽपि पवनः पक्ष्म लोचनलोमनि ॥ ८४ ॥ पक्ष्म सूत्रादिसूक्ष्मांशे पक्ष्म स्यात्केशरेऽपि च । पावनं तु जले कृच्छ्रे पावकाध्यासयोः पुमान् ॥ ८५ ॥ पाठीनस्तु वदाले स्यादपि चित्रवदालके । पाठके गुग्गुलुद्रौ च प्रायश्चित्ते तु पाचनम् ॥ ८६ ॥ पाचनी तु हरीतक्यां पाचनो वह्निसिह्लयोः । पावनं पावयितरि त्रिषु पूतेऽपि पावनम् ॥ ८७ ॥ वरुणे पुंसि स्यात्पाशी पाशी पाशधरेऽन्यवत् । पिशुनो नारदे पुंसि खलसूचकयोस्त्रिषु ॥ ८८ ॥ पिशुनं कुङ्कुमे क्लीबं पृक्कायां पिशुना मता । पीतनः कपिचूते स्यात्पीतनं पीतदारुणि ॥ ८९ ॥ ;p{0200} कुङ्कुमे हरिताले च पूतना राक्षसीभिदि । पथ्यायां चाथ पृतनाऽनीकिनीसैन्यभेदयोः ॥ ९० ॥ स्याच्चमूसेनयोश्चाथ प्रज्ञानं लाञ्छने धियि । प्रधनं दारुणे सङ्ख्ये प्रधानं परमात्मनि ॥ ९१ ॥ क्षेत्रज्ञधीमहामात्रेऽप्येकत्वे तूत्तमे सदा । प्रसूनो वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥ ९२ ॥ प्रसन्ना मदिरायां स्यात्प्रसादसहिते त्रिषु । प्रेत्वा तु सारसे वाते प्रेम तु स्नेहनर्म्मणोः ॥ ९३ ॥ फाल्गुनस्तु तपस्ये स्यादर्जुने चार्जुनद्रुमे । फाल्गुनः स्यान्नदीजेऽपि फाल्गुनी पूर्णिमान्तरे ॥ ९४ ॥ बन्धनं तु शतबन्धे बन्धमात्रेऽपि बन्धनम् । वर्द्धनं छेदने वृद्धौ वारिधान्यां तु वर्द्धिनी ॥ ९५ ॥ ;p{0201} संपूर्वाद्वर्द्धनं पोषे वसनं छादनांशुके । वाणिनी तु मत्तानर्त्तक्योर्विदग्धायां स्त्रियामथ ॥ ९६ ॥ वासना वसने वारासनज्ञाने च धूपने । वाहिनी स्यादनीकिन्यां सैन्यभेदे सरित्यपि ॥ ९७ ॥ गुरौ पुंसि बुधानः स्याद्बुधानः पण्डितेऽपि च । बोधनी बोधिपिप्पल्योर्बोधनं गन्धदीपने ॥ ९८ ॥ सुरवर्त्मनि च व्योम व्योमचारिणि च स्मृतम् । ब्रह्मा विरिञ्चे विप्रेऽपि ऋत्विक्चन्द्रार्कयोगयोः ॥ ९९ ॥ ब्रह्म क्लीबं श्रुतिज्ञानेऽप्यध्यात्मतपसोरपि । ब्रह्माण्यां भट्टिनी नाट्ये राजयोषिति भट्टिनी ॥ १०० ॥ भण्डनं तु खलीकारे युद्धसन्नाहयोरपि । भर्म्म स्वर्णे भृतौ सारे भवनं भावसद्मनोः ॥ १०१ ॥ ;p{0202} भाजनं पात्रे योग्येऽपि भावना ध्यानलेपयोः । भुवनं तु जगल्लोकसलिलेषु विहायसि ॥ १०२ ॥ भोगी भोगान्विते सर्पे ग्रामण्यां राज्ञि नापिते । संगृहीतस्त्रियां राजभार्याभेदेऽपि भोगिनी ॥ १०३ ॥ मंजनं भोजने क्लीबमलंकर्तरि वाच्यवत् । मदनः स्मरधत्तूरवसन्तद्रुमसिक्थके ॥ १०४ ॥ मलनः पठवासेऽपि स्यान्मलनं कर्द्दमे मतम् । पुष्पवत्यां तु मलिनी मलिनं दूषितेऽसिते ॥ १०५ ॥ मार्ज्जनं तु मतं मार्ष्टौ मार्जनो लोध्रपादपे । मालिनी वृत्तभेदे स्याद्गङ्गामालिकयोषितोः ॥ १०६ ॥ गौर्यां चम्पानगर्यां च राशौ तु मिथुनः पुमान् । मिथुनं दम्पतीयुग्मे सम्बन्धग्राम्यधर्म्मयोः ॥ १०७ ॥ ;p{0203} मुण्डनं वपने त्राणे मेहनं शिश्नमूत्रयोः । मैथुनं स्यान्निधुवने मैथुनं सङ्गतावपि ॥ १०८ ॥ यमनं स्यादुपरमे बन्धने च यमे तथा । यापनं वर्त्तने कालक्षेपे निरसनेऽपि च ॥ १०९ ॥ प्रजानो ब्राह्मणेऽपि स्यात्प्रजानः सारथावपि । युवा तु तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ ११० ॥ योजनं तु चतुःक्रोश्यां योगे च परमात्मनि । रजनी तु हरिद्रायां लाक्षायां नीलिकारसे ॥ १११ ॥ रञ्जनो रागजनके रञ्जनं रक्तचन्दने । रञ्जनी नीलिकाशुण्डामञ्जिष्ठारोचनीष्वपि ॥ ११२ ॥ जिह्वाकांचीरसज्ञेषु रसना रसने स्वने । स्वेदने मू्र्छने भस्त्रावाते नासामरुत्पथे ॥ ११३ ॥ ;p{0204} रागी तु कोपने रक्ते रागयुक्तेऽपि कामिनि । राजा चन्द्रे नृपे शक्रे क्षत्रिये प्रभुयक्षयोः ॥ ११४ ॥ राधनं साधने प्राप्तौ तोषणेऽपि च राधनम् । रेचनी त्रिवृता शुण्डा रोचनी दन्तिकार्थिका ॥ ११५ ॥ रोचनो रक्तकह्लारे कूटशाल्मलिशाखिनि । अपि गोपित्तमङ्गलरचितस्त्रीषु रोचना ॥ ११६ ॥ रोदनं क्रन्दनेऽपि स्यादश्रुमात्रेऽपि रोदनम् । रोही रोहितके बोधिद्रुमे न्यग्रोधपादपे ॥ ११७ ॥ लङ्घनं क्रमणे पीडाकृतोपवसने प्लुतौ । ललना तु नितम्बिन्यां जिह्वायां नाडिकान्तरे ॥ ११८ ॥ लक्ष्म चिह्ने प्रधानेऽपि लाञ्छनं नामलक्ष्मणोः । लेखनं तु लिपिन्यासे छर्दे भूर्जेऽपि लेखनम् ॥ ११९ ॥ ;p{0205} वचक्नुर्वाक्पटौ विप्रे वशी सुगतशक्रयो । वपनं मुण्डने वापे वमनं छर्द्दनेऽर्द्दने ॥ १२० ॥ आहतावप्यथ क्लीबं वर्जनं त्यागहिंसयोः । वर्त्तनं जीवने जीव्ये तूलनाले च वर्त्तनम् ॥ १२१ ॥ वर्त्तनी तर्क्कुपिण्डेऽपि मलिने पथि वर्त्तनी । वर्णी चित्रकरे ब्रह्मचारिलेखकयोरपि ॥ १२२ ॥ आकारे शोभने वर्ष्म वर्ष्म देहप्रमाणयोः । वर्त्म नेत्रच्छदे मार्गे वाग्मी वाचस्पतौ पटौ ॥ १२३ ॥ वाजी वाहे खगे बाणे खर्वेषु त्रिषु वामनः । वामनो विष्णुभेदे स्यादश्वे यान्यादिदिग्गजे ॥ १२४ ॥ विक्लिन्नस्तिमिते जीर्णे जराजीर्णेपि वाच्यवत् । विच्छिन्नस्तु समालब्धे विभक्ते कुटिलेऽन्यवत् ॥ १२५ ॥ ;p{0206} विज्ञानं कार्म्मणे ज्ञाने वितानं रिक्तमन्दयोः । त्रिषु न स्त्री वितानं स्याद्विस्तारोल्लोचयोर्मखे ॥ १२६ ॥ वस्त्रवेश्मन्यवसरे वृत्ते च क्रतुकर्म्मणि । विपन्नो भुजगे पुंसि त्रिषु नष्टे विपद्गते ॥ १२७ ॥ विमानो व्योमयानेऽस्त्री सप्तभूमौ गृहेऽपि च । विलग्नस्त्वंगमध्ये स्यात्त्रिष्वेव चाङ्गलग्नयोः ॥ १२८ ॥ विषघ्नस्तु शिरीषे स्याद्गुडूचीत्रिवृतोः स्त्रियाम् । वृजिनं कलुषे क्लीबं केशे ना कुटिले त्रिषु ॥ १२९ ॥ वृषा सुरेश्वरे कर्णे वेदना ज्ञानपीडयोः । वेष्टनं कर्णशष्कुल्यामुष्णीषे मुकुटे वृतौ ॥ १३० ॥ व्यञ्जनं तेमने श्मश्रुचिह्नावयवकादिषु । स्वातंत्र्यकृत्ये व्युत्थानं विरोधाचरणेऽपि वा ॥ १३१ ॥ ;p{0207} व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पाके विपत्तौ विफलोद्यमे ॥ १३२ ॥ सक्तिमात्रे सुचरिताद्भ्रंशे कोपजदूषणे । शकुनं मङ्गलाशंसिनिमित्ते शकुनः खगे ॥ १३३ ॥ शकुनिः पुंसि विहगे सौवश्वे करणान्तरे । शङ्खिनी शङ्खयूधे स्याद्भुजङ्गस्त्रीप्रभेदयोः ॥ १३४ ॥ शङ्खिनी वेतपुन्नागे चोरपुष्प्यां च शङ्खिनी । शतघ्नी शस्त्रभेदेऽपि वृश्चिकालीकरञ्जयोः ॥ १३५ ॥ शमनस्तु यमे शान्तिवधयोः शमनं मतम् । शयनं तल्पमात्रेऽपि निद्रासुरतयोरपि ॥ १३६ ॥ शाखी महीरुहे वेदे तुरुष्काख्यजनेऽपि च । शास्त्राज्ञाराजदत्तोर्वीराजलेखेषु शासनम् ॥ १३७ ॥ ;p{0208} शिखी केतुग्रहे वह्नौ मयूरे कुक्कुटे शरे । बलीवर्द्दे बके वृक्षे व्रतिभेदसचूडयोः ॥ १३८ ॥ शिल्पी तु वाच्यवत्कारौ नासिकायां तु शिल्पिनी । शृङ्गी नागेऽपि वृषभे पर्वतेऽपि महीरुहे ॥ १३९ ॥ शोभनो योगभेदे ना शोभनः सुन्दरे त्रिषु । श्रीघनः सुगते भिक्षौ श्रीघनं दधि न द्वयोः ॥ १४० ॥ श्लेष्मन्घी मल्लिकायां स्यात्कम्पिल्लकफणिज्जयोः । श्वसनः पवने श्वासे श्वसनो मदनद्रुमे ॥ १४१ ॥ सन्धानं स्यादभिषवे क्लीबं सङ्घट्टनेऽपि च । सन्धिनी तु वृषाक्रान्ताऽकालदुग्धगवोः स्मृता ॥ १४२ ॥ समानो नाभिपवने सदेकसदृशे त्रिषु । सम्पन्नं त्रिषु सम्पत्तिसहिते साधितेऽपि च ॥ १४३ ॥ ;p{0209} संव्यानमुत्तरासङ्गे संव्यानं छादने तथा । सवनं यजने स्नाने सोमनिर्द्दमने मतम् ॥ १४४ ॥ सादी तु सारथौ वाहवाहके हस्तिवाहके । साधनं मेहने सैन्ये निवृत्तिगतिसिद्धिषु ॥ १४५ ॥ करणे चोपकरणे मृतसंस्करणे वधे । द्रवणे चानुव्रज्यायामुपाये दापने धने ॥ १४६ ॥ साधनो यज्ञकर्म्मान्ते यजमानप्रचेतसोः । मर्यादायां स्त्रियां सीमा क्षेत्रे घाटे स्थितावपि ॥ १४७ ॥ सूचनाऽभिनये दृष्टौ गन्धने व्यधनेऽपि च । सेचनं सेकपात्रे स्यात्सेकरक्षणयोरपि ॥ १४८ ॥ सेनापतौ तु सेनानीः सैनानीः शरजन्मनि । सेवनं सीवने क्लीबं सेवायामपि सेवनम् ॥ १४९ ॥ ;p{0210} संस्थानमाकृतौ सन्निवेशे मृत्यौ चतुष्पथे । स्तननं जलदध्वाने ध्वनिमात्रेऽपि कुञ्चने ॥ १५० ॥ स्थापनं स्यात्पुंसवने समाधावर्पणेऽपि च । स्पर्शनः पवने पुंसि स्पर्शनं स्पर्शदानयोः ॥ १५१ ॥ स्यन्दनं प्रस्रवे नीरे स्यन्दनस्तिनिशे रथे । स्रंसनं रेचने पाते पृथग्भावातिसारयोः ॥ १५२ ॥ स्वामी प्रभौ विशाखे च हली स्यात्कर्षके बले । अङ्गारधान्यां हसनी हसनं हसिते मतम् ॥ १५३ ॥ हस्तिनी नायिकाभेदे हस्तिनी हस्तियोषिति । हायनो वत्सरे न स्त्री व्रीहिभेदार्च्चिषोः पुमान् ॥ १५४ ॥ हिण्डनं सुरते केलौ ह्रादिनी वज्रविद्युतोः । ;v{नचतुर्थम्} ;c{नचतुर्थम् ।} अथर्वा द्विजभेदे स्याद्वेदेऽथर्व नपुंसकम् ॥ १५५ ॥ ;p{0211} अधिष्ठानं प्रभावेऽपि पुरेऽन्यासनचक्रयोः । अनूचानो विनीतेऽपि साङ्गवेदविचक्षणे ॥ १५६ ॥ नयनाग्रेऽप्यनूचानः पुमानेव क्वचिन्मतः । अन्वासनं तु सेवायां स्नेहवस्तावुपासने ॥ १५७ ॥ अपाचीनं त्रिषु विपर्यस्ते दक्षिणसम्भवे । जन्मभूम्यामभिजनः कुले ख्यातौ कुलध्वजे ॥ १५८ ॥ अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते विपद्गते । दक्षिणे स्वीकृतेऽपि स्यादभिपन्नोऽभिधेयवत् ॥ १५९ ॥ अभिमानः पुमान्गर्वेऽज्ञानेऽप्रणयहिंसयोः । अर्यमा मिहिरे सूर्यमुक्तायां पितृदैवते ॥ १६० ॥ अवदानं मतमिति वृत्तकर्म्मणि खण्डने । तनुमध्येऽवलग्नः स्यात्संलग्ने त्वभिधेयवत् ॥ १६१ ॥ ;p{0212} स्यादाकलनमाकाङ्क्षापरिसङ्ख्याविबन्धने । आच्छादनं पिधाने स्याद्वसनेनापवारणे ॥ १६२ ॥ आतञ्चनं प्रतीवापजवनाप्यायने मतम् । आत्मयोनिर्विरिञ्चे स्यादात्मयोनिर्मनोभवे ॥ १६३ ॥ आवेशनं शिल्पिगृहे भूतावेशे प्रवेशने । आयोधनं भवेद्युद्धे वधेप्यायोधनं मतम् ॥ १६४ ॥ आराधनं तु पूजायां पाकप्रापणयोरपि । आस्कन्दनं तिरस्कारे तथा संशोषणे रणे ॥ १६५ ॥ उत्पतनं समुत्पत्तौ भवेदूर्द्ध्वगतावपि । उत्सादनं समुल्लेखोद्वर्त्तनोद्वासनार्थकम् ॥ १६६ ॥ भवेदुदयनो वत्सराजे कलशसम्भवे । उद्वर्त्तनमुत्पतनाऽपावर्त्तनविलेपने ॥ १६७ ॥ ;p{0213} उद्वाहनं द्विसीत्ये स्याद्रज्ज्वावुद्वाहिनी मता । अंशुके रूपधानं स्याद्विशेषप्रणयेपि च ॥ १६८ ॥ उपासनं शराभ्यासे शुश्रूषाहिंसयोरपि । कञ्चुकी सौविदल्लेपि सर्प्पे खिड्गेऽपि जोङ्गके ॥ १६९ ॥ शिरीषाभ्रातकाश्वत्थगर्दभाण्डे कपीतनः । कलध्वनिः कलरवे कपीतपिकबर्हिषु ॥ १७० ॥ कलापी प्लक्षवृक्षे स्यान्मेघनादानुलासिनि । कात्यायनो वररुचौ गौर्यां कात्यायनी स्त्रियाम् ॥ १७१ ॥ काषायवस्त्रार्द्धवृद्धविधवायामपि स्मृता । रक्तचन्दनपत्राङ्गद्रुमभेदे कुचन्दनम् ॥ १७२ ॥ कुण्डली वरुणे केकिमृगाहिषु सकुण्डले । कुम्भयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि ॥ १७३ ॥ ;p{0214} केशरी सिंहपुन्नागनागकेशरवाजिषु । क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः ॥ १७४ ॥ स्वकामिनी तु निर्दिष्टा चर्च्चिकाचिल्लयोषितोः । खड्गधेनुः स्त्रियां खड्गपुत्रिकागण्डकस्त्रियोः ॥ १७५ ॥ गदयित्नुस्तु जल्पाके कामकामुकयोरपि । गवादनीन्द्रवारुण्यां गवां घासादपाश्रये ॥ १७६ ॥ घनाघनौ वर्षुकाब्दे शक्रे मत्तद्विपे घने । अन्योन्याद् घट्टके चैव घातुके तु घनाघनः ॥ १७७ ॥ घोषयित्नुः पिके विप्रे चित्रभानुरिनेऽनले । चोलकी नागरङ्गे स्यात्करीरे किष्कुपर्वणि ॥ १७८ ॥ वर्त्तते कङ्कक...बुधाराटेषु जलाटनः । जलाटनं जलभ्रान्तौ जलौकायां जलाटनी ॥ १७९ ॥ ;p{0215} जलमीनश्चिलिचिमे इञ्चाकशिशुमारयोः । तपोधना तु मुण्डीर्यां तपस्विनि तपोधनः ॥ १८० ॥ तपस्वी तापसे चानुकम्प्ये चाथ तपस्विनी । मासिकाकटुरोहिण्योस्तरस्वी वेगिशूरयोः ॥ १८१ ॥ दुर्न्नामा पङ्कशुक्तौ दुर्न्नाम क्लीबमर्शसि । देवसेना तु गीर्वाणसेना देवेन्द्रकन्ययोः ॥ १८२ ॥ द्विजन्मा ब्राह्मणेऽपि स्याद् द्विजन्मा दशने खगे । करिमुद्गरिकानागयष्ट्योर्नागाञ्जना स्त्रियाम् ॥ १८३ ॥ मतं भवेन्निधुवनं सुरते कम्पनेऽपि च । स्यान्निरासे निरसनं वधे निष्ठीवने तथा ॥ १८४ ॥ निर्वासनं तु निर्वासहिंसयोर्गतवासरे । निर्भत्सनं तु निर्दिष्टं खलीकारेऽप्यलक्तके ॥ १८५ ॥ ;p{0216} दाने न्यासार्पणे वैरशुद्धौ निर्यातनं मतम् । श्रुतौ दृष्टौ निशमनं दृष्ट्यालोचे निशामनम् ॥ १८६ ॥ तपस्विनी पुनर्मांसी कटुरोहिणिकाऽपि च । परिज्वा तु पुमानिंदौ याज्ञिके परिचारके ॥ १८७ ॥ पलाशी राक्षसे वृक्षेऽप्यथ पुण्यजनः पुमान् । रक्षःसज्जनयज्ञेषु मूर्खे नीचे पृथग्जनः ॥ १८८ ॥ भवेत्प्रजननं योनौ जन्मप्रजनयोरपि । प्रणिधानं प्रयत्ने स्यात्समाधौ च प्रवेशने ॥ १८९ ॥ प्रतिमानं प्रतिकृतौ गजदन्तान्तरालके । प्रतिपन्नः प्रतिज्ञाते विज्ञातेऽप्यभिधेयवत् ॥ १९० ॥ प्रतिपन्नस्तु संस्कारे लिप्सायामप्युपग्रहे । प्रत्यर्थी वाच्यलिङ्गः स्याद्विद्वेषिप्रतिवादिनोः ॥ १९१ ॥ ;p{0217} प्रयोजनं मतं कार्ये हेतौ च स्यात्प्रयोजनम् । भवेत्प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥ १९२ ॥ प्रस्फोटनं तु सूर्पे स्यात्ताडनेऽपि प्रकाशने । प्रसाधनी कंकतिकासिध्द्योर्वेशे प्रसाधनम् ॥ १९३ ॥ क्लीबं प्रहसनं भङ्गे प्रहासाक्षेपयोरपि । फलकी राजसफरे तथा फलकपाणिके ॥ १९४ ॥ वर्द्धमानः शरावैरण्डयोः प्रश्नान्तरेऽच्युते । दृश्यते वर्द्धमानस्तु वृद्धिमत्यपि वाच्यवत् ॥ १९५ ॥ वारकी द्विषि पाथौघौ पर्णाजीवे हयान्तरे । वारासनं वाःसदने शूलापद्वारपालयोः ॥ १९६ ॥ परमेष्ठिनि भूतात्मा भूतात्मा पिङ्गलेऽपि च । मदयित्नुर्मतो मेघे मदयित्नुस्तु शीधुनि ॥ १९७ ॥ ;p{0218} महाधनं महामूल्ये चारुवस्त्रेऽपि सिह्लके । महामुनिरगस्त्ये स्याद्धान्याकागस्त्ययोरपि ॥ १९८ ॥ महासेनो विशाखेऽपि महासेनापतावपि । मातुलानी तु भङ्गायां कलाये मातुलस्त्रियाम् ॥ १९९ ॥ मालुधानश्चित्रसर्पे महापद्मे लतान्तरे । मालुधान्यथ मेधावी वाच्यवन्मेधयान्विते ॥ २०० ॥ ब्राह्म्यां मेधाविनी ख्याता गरुडेपि रसायनः । रसायनं जराव्याधिहरे विषविडङ्गयोः ॥ २०१ ॥ राजादनं प्रियालद्रौ क्षीरिकायां च किंशुके । ललामवल्ललामं च चिह्ने रम्ये विभूषणे ॥ २०२ ॥ शृङ्गे प्रधाने लाङ्गूले प्रभावध्वजवाजिषु । पुण्ड्रेऽपि लाङ्गली तु स्यान्नालिकेरे हलायुधे ॥ २०३ ॥ ;p{0219} वनश्वा जम्बुके व्याघ्रे गन्धमार्जारकेऽपि च । विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने ॥ २०४ ॥ तरलायां लसद्वेश्याङ्गनायां च विलेपनी । विलासी भोगिनि व्याले विश्वप्सा वह्निचन्द्रयोः ॥ २०५ ॥ विषयि त्विन्द्रिये क्लीबं वाच्यवद्विषयान्विते । विषयी स्यान्मनसिजे लव्धे वैषयिके नृपे ॥ २०६ ॥ अनधीते भुजिष्ये च विषाणी शृङ्गिनागयोः । विष्वक्सेनोऽच्युते विष्वक्सेना तु फलिनीद्रुमे ॥ २०७ ॥ विसर्जनं परित्यागे दाने सम्प्रेषणे वधे । विस्मापनो हरिश्चन्द्रपुरे ना कुहके स्मरे ॥ २०८ ॥ मतं विहननं घाते पिञ्जने तूलधूनने । नानाविडम्बे हिंसाया मर्दनेऽपि विहेठनम् ॥ २०९ ॥ ;p{0220} वृक्षादनी वृक्षरुहाविदारीकन्दयोर्मता । वृक्षादनं मधुच्छत्रे कुठाराश्वत्थयोः पुमान् ॥ २१० ॥ वैरोचनस्तु बल्यर्कपुत्रयोः सुगतान्तरे । व्यवायी द्रव्यभेदे स्यात्कामुकेऽप्यभिधेवत् ॥ २११ ॥ शिखरी स्यादपामार्गे गिरौ कोट्टेऽपि शाखिनि । शिखण्डी शरभिद्भीष्मद्विषोः केकिकलापयोः ॥ २१२ ॥ शिखण्डिनी तु गुञ्जायां यूथिकायां शिखण्डिनी । शृङ्गारी चारुवेशेऽपि कामुके क्रमुके गजे ॥ २१३ ॥ मता श्लेष्मघना मल्ल्यां केतकीभक्तसज्जयोः । सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ॥ २१४ ॥ सनातनो हरे विष्णौ पितॄणामतिथौ स्थिरे । नित्येऽप्यथ समापन्नं प्राप्ते क्लिष्टसमाप्तयोः ॥ २१५ ॥ ;p{0221} समापन्नं वधे क्लीबं समाप्तौ तु समापनम् । समापनं परिच्छेदे समाधाने च मारणे ॥ २१६ ॥ समादानं समीचीनग्रहणे नित्यकर्म्मणि । समुत्थानं मतं रोगनिर्णयेऽपि समुद्यमे ॥ २१७ ॥ संमूर्छनमभिव्याप्तौ संमूर्छायां च मोहने । संवाहनं तु भारादेर्वाहनेऽप्यङ्गमर्दने ॥ २१८ ॥ स्यात्संवदनमालोचे संवादे च वशीकृतौ । सरोजिनी तु पद्मिन्यां सरोजे च सरोवरे ॥ २१९ ॥ सामयोनिस्तु सामोत्थे मातङ्गे परमेष्ठिनि । सामिधेनी ऋचि प्रोक्ता सामिधेनी समिध्यपि ॥ २२० ॥ मतं सारसनं काञ्च्यामुरस्त्रे च तनुत्रिणाम् । सुकर्म्मा योगभेदेऽपि सुकर्मा देवशिल्पिनि ॥ २२१ ॥ ;p{0222} सुदर्शनं सुरपुरे हरेश्चक्रे सुदर्शनः । सुदर्शना मेरुजम्ब्वामाज्ञायामोषधीभिदि ॥ २२२ ॥ त्रिषु नेत्रानन्दकरे सुदामा त्वम्बुदे गिरौ । सुधन्वा धीरधानुष्के सुधन्वा विश्वकर्मणि ॥ २२३ ॥ सुपर्वा त्रिदशे वंशे शरे धूमे प्रपर्वणि । सुयामुनो वत्सराजे सौधेऽप्यभ्रान्तरे हरौ ॥ २२४ ॥ सौदामिनी तडिद्भेदविद्युतोरप्सरोन्तरे । यमपुर्यां संयमनी व्रते संयमनं मतम् ॥ २२५ ॥ स्तनयित्नुर्वने मेघस्तने मृत्यौ गदेऽपि च । हर्षयित्नुः सुते पुंसि कनके तु नपुंसकम् ॥ २२६ ॥ ;v{नपञ्चमम्} ;c{नपञ्चमम् ।} अग्रजन्मा विधौ विप्रे ज्येष्ठभ्रातरि च स्मृतः । अतिसर्जनमिच्छन्ति वधे दानेऽपि न द्वयोः ॥ २२७ ॥ ;p{0223} अनुवासनमाख्यातं स्नेहकर्मणि धूपने । अन्तेवासी तु चण्डाले शिष्यप्रान्तगयोरपि ॥ २२८ ॥ अपवर्जनमित्येतद् दानेऽपि परिवर्जनम् । अथ स्यादभिनिष्ठानः पुंसि चन्द्रविसर्गयोः ॥ २२९ ॥ स्यादुपस्पर्शनं स्पर्शे स्नाने चाचमनेऽपि च । त्रिलिंग्यामुपसंपन्नं निहितेऽपि सुसंस्कृते ॥ २३० ॥ कपिशायनमित्येतन्मद्ये देशान्तरे पुमान् । कामचारी तु चटके कामिस्वच्छन्दयोस्त्रिषु ॥ २३१ ॥ धातुवादरते कांस्यकारे कारन्धमी मतः । किष्कुपर्वा तु वंशे स्यात्कोषकारे नडे(ले)ऽपि च ॥ २३२ ॥ कृष्णवर्त्मा हुतवहे दुराचारे विधुन्तुदे । कोपने खरसोल्ले च वर्त्तते खरभाञ्जनम् ॥ २३३ ॥ ;p{0224} स्याद्गन्धमादनः शैलभेदे भृङ्गेऽपि गन्धके । लतामृगप्रभेदे च सुरायां गन्धमादनी ॥ २३४ ॥ चक्रचारी मतः पोताघानके ग्रामजालिनि । चिरजीवी चिरायुष्के स्यादजेऽपि सकृत्प्रजे ॥ २३५ ॥ तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु । धूमकेतनशब्दोयं ग्रहभेदे हुताशने ॥ २३६ ॥ लोकेश्वरे विधौ सूर्ये धनदे पद्मलाञ्छनः । तारायां च सरस्वत्यां पद्मायां पद्मलाञ्छना ॥ २३७ ॥ पीतचन्दनमित्येतत्कालीयकहरिद्रयोः । पृष्ठशृङ्गी तु षण्ढे स्याद्दंशभीरौ वृकोदरे ॥ २३८ ॥ प्रवलाकी भुजङ्गेऽपि मेघनादानुलासिनि । बोधने प्रतिपत्तौ च दानेऽपि प्रतिपादनम् ॥ २३९ ॥ ;p{0225} वनमाली हृषीकेशे वाराह्यां वनमालिनि । स्त्रीरत्ने च फलिन्यां च लाक्षायां वरवार्णिनी ॥ २४० ॥ रोचनायां हरिद्रायामपि स्याद्वरवर्णिनी । देवदारुणि कालीये दृश्यते वरचन्दनम् ॥ २४१ ॥ व्योमचारी विहङ्गेऽपि सुरे विद्याधरेऽपि च । वनमालिनि रोलम्बे विज्ञेयो मधुसूदनः ॥ २४२ ॥ शातकुम्भे कुसुम्भेऽपि महारजनमद्वयोः । कृत्तिवाससि काकोले श्रीफले मृत्युवञ्चनः ॥ २४३ ॥ विघ्नकारी मतो भीमदर्शनेऽपि विघातिनि । विश्वकर्मा तु मार्तण्डे मुनिभिद्देवशिल्पिनोः ॥ २४४ ॥ वृषपर्वा हरे दैत्ये शृङ्गारिणि कसेरुणि । मासिकाजलपिप्पल्योर्दृश्यते शकुलादनी ॥ २४५ ॥ ;p{0226} पिञ्जन्यां कटुकायां च सम्मता शकुलादनी । शालङ्कायनशब्दः स्यादृषिभेदेऽपि नन्दिनि ॥ २४६ ॥ शिवकीर्त्तनशब्दोऽयं भृङ्गरीटेऽपि माधवे । स्यादर्जुनेऽपि पीयूषधामनि श्वेतवाहनः ॥ २४७ ॥ श्वेतधामा सुधाधाम्नि घनसाराब्धिफेनयोः । सिन्धुरे धान्यभेदे च वर्त्तते षष्टिहायनः ॥ २४८ ॥ संप्रयोगी कलाकेलौ कामुके सुप्रयोगिनि । गोशीर्षे दैवततरौ हरिचन्दनमस्त्रियाम् ॥ २४९ ॥ ज्योत्स्नायां कुङ्कुमे पद्मपारगे हरिचन्दनम् । पुमानहस्करे मेघवाहने करिवाहनः ॥ २५० ॥ ;v{नषष्ठम्} ;c{नषष्ठम् ।} अन्तावसायी श्वपचे नापिते च मुनेर्भिदि । कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ २५१ ॥ ;p{0227} जायानुजीवी भरते दुर्गताखिलयोर्बके । मतः सहस्रवेधी तु रामठे चाम्लवेतसे ॥ २५२ ॥ ;c{इति विश्वलोचने नान्तवर्गः ।} ;k{पान्तवर्गः} ;c{अथ पान्तवर्गः ।} ;v{पैकम्} ;c{पैकम् ।} पो वाते पा तु पाने स्यात्पास्तु पातरि वाच्यवत् ॥ १ ॥ ;v{पद्वितीयम्} ;c{पद्वितीयम् ।} कल्पो ब्राह्मदिने न्याये प्रलये विधिशान्तयोः । कूपोऽन्धुगर्त्तमृन्मानकूपके गुणवृक्षके ॥ २ ॥ कृपा दयायां व्यासे तु कृपो भारतपूरुषे । खष्पः क्रोधे बलात्कारे गोपो गोपालभूपयोः ॥ ३ ॥ ;p{0228} गोपो ग्रामौघगोष्ठाधिकारिणोश्च क्वचित्करौ । छुपः क्षुपे स्पर्शनेपि सन्ताने मारुते जुपः ॥ ४ ॥ तप्लं कलत्रे शय्यायां तल्पमट्टेऽपि न द्वयोः । सन्तापे दवथौ तापस्तापी तु सरिदन्तरे ॥ ५ ॥ त्रपा लज्जाकुलटयोस्त्रपु सीसकरङ्गयोः । दर्प्पो भवेदहङ्कारे दर्प्पो मृगमदेऽपि च ॥ ६ ॥ निपो वलिकदंबे स्यान्नीलवञ्जुलबन्धने । पुष्पं रजसि नारीणां विकासे कुसुमेऽपि च ॥ ७ ॥ रूपमाकारसौन्दर्यस्वभावश्लोकनाणके । नाटकादौ मृगे ग्रन्थावृत्तौ च पशुशब्दयोः ॥ ८ ॥ रेपः स्यान्निन्दिते क्रूरे रोपो बाणेऽपि रोपणे । लेपस्तु लेपने ख्यातः सुधाजेमनयोरपि ॥ ९ ॥ ;p{0229} वपा तु विवरे भेदे वाष्पो नेत्रजलोष्मणोः । शष्पं बालतृणं क्लीबं शष्पस्तु प्रतिभाक्षये ॥ १० ॥ शपथाक्रोशयोः शापः शिष्पं कृत्योचित श्रुवे । सूपो व्यञ्जनभेदेऽपि सूपकारेऽपि च स्मृतः ॥ ११ ॥ स्वापस्तु शयनाऽज्ञाननिद्रास्पर्शज्ञतार्थकः । क्षेपो विलम्बे हेलायां गर्हाप्रेरणलेपने ॥ १२ ॥ ;v{पतृतीयम्} ;c{पतृतीयम् ।} पुंस्यनूपस्तु महिषे वाच्यवञ्जलसङ्कुले । आकल्पो वेशमात्रे स्यादाकल्पः कल्पनेऽपि च ॥ १३ ॥ आवापो भाण्डे वपने परिक्षेपालवालयोः । आक्षेपो भर्त्सनत्यागाकर्षणे काव्यभूषणे ॥ १४ ॥ उडुपः पुंसि चन्द्रे स्यादुडुपे भेलकेऽस्त्रियाम् । उलपस्तृणभेदे स्याद्गुल्मिन्यामुलपं मतम् ॥ १५ ॥ ;p{0230} कच्छपः कमठे काष्ठे मल्लभेदेऽपि कच्छपः । कच्छपी तु डुलौ क्षुद्ररुग्भेदे वल्लकीभिदि ॥ १६ ॥ कलापः संहते बर्हे काव्यादौ तूणवृन्दयोः । भक्ते वस्त्रे च कशिपुरेकोक्त्या तूभयोरपि ॥ १७ ॥ काश्यपी तु क्षितौ मीनमुनिभेदे तु कश्यपः । कुटपोऽस्त्री मानभेदे कुटपो निष्कुटे मुनौ ॥ १८ ॥ विदारिकायां कुणपी पूतिगन्धौ शवे पुमान् । कुतपो भागिनेये स्यादष्टमांशे दिनस्य च ॥ १९ ॥ कुतपस्तपने छागकम्बले कुशवाद्ययोः । जिह्वापः शुनि मार्जारे व्याघ्रपादपयोरपि ॥ २० ॥ पादपः पादपीठेऽद्रौ पादगण्डे च पादपः । पादपा पादुकायां स्यात्प्रतापः खेदतेजसोः ॥ २१ ॥ ;p{0231} रक्तपा स्याज्जलौकायां रक्तपस्तु क्षपाचरे । विकल्पो विचिकित्सायां विकल्पो भ्रान्तिपक्षयोः ॥ २२ ॥ विटपोस्त्री लतास्तम्बखिड्गविस्तारपल्लवे । ;v{पचतुर्थम्} ;c{पचतुर्थम् ।} अपलापोऽपलपने प्रेमापह्नवयोरपि ॥ २३ ॥ अभिरूपो बुधे रम्ये प्राप्तरूपसुरूपवत् । अवलेपस्तु दोषे स्याद्गर्वे लेपे च सङ्गमे ॥ २४ ॥ उपतापो मतः पुंसि गदोत्तापत्वरार्थकः । उपयापो विक्षेपे स्यात्तथा भेदेऽवदारणे ॥ २५ ॥ जलकूपी पुष्करिण्यां कूपगर्भेऽपि सा स्मृता । नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ॥ २६ ॥ परिकम्पे मतो भीतौ परिकम्पः प्रकम्पने । परीवापो जलस्थाने पर्युप्तौ च परिच्छदे ॥ २७ ॥ ;p{0232} पिण्डपुष्पमशोके स्याज्जपापुष्पेऽपि पंकजे । बहुरूपः स्मरहरे स्वभूसरटधूनके ॥ २८ ॥ मेघपुष्पं तु पिण्डाभे जलनादेययोरपि । विप्रलापो विरोधोक्तावपार्थवचनेऽपि च ॥ २९ ॥ वीजपुष्पं मरुबके मतं दमनकद्रुमे । वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः ॥ ३० ॥ वृषाकपिर्महादेवे कृष्णपावकयोरपि । हेमपुष्पमशोके स्याज्जवापुष्पेऽपि चम्पके ॥ ३१ ॥ ;v{पपञ्चमम्} ;c{पपञ्चमम् ।} भवेच्चामरपुष्पं तु काशे चूते च केतके ॥ ३२ ॥ ;c{इति विश्वलोचने पान्तवर्गः ।} ;p{0233} ;k{फान्तवर्गः} ;c{अथ फान्तवर्गः ।} ;v{फैकम्} ;c{फैकम् ।} फु मन्त्रे फे रुते सङ्ख्ये स्फा वृद्धौ फेरवे पुमान् । फः स्याज्झञ्झानिले पुंसि स्फूः स्फुटे फुल्लभाषयोः ॥ १ ॥ ;v{फद्वितीयम्} ;c{फद्वितीयम् ।} गुम्फो बाहोरलंकारे गिरातन्तोश्च गुम्फने । रेफो रवर्णे पुंस्येव कुत्सिते त्वभिधेयवत् ॥ २ ॥ शफं खुरे गवादीनां तरूणां चरणेऽपि च । शिफा जटायां नद्यां च मांसिकायां च मातरि ॥ ३ ॥ ;c{इति विश्वलोचने फान्तवर्गः ।} ;k{बान्तवर्गः} ;c{अथ बान्तवर्गः ।} ;v{बैकम्} ;c{बैकम् ।} बं प्रचेतसि पुंसि स्यादुपमाने तदव्ययम् ॥ १ ॥ ;p{0234} ;v{बद्वितीयम्} ;c{बद्वितीयम् ।} स्त्री वंशाशे खजाकायां कंबिः कंबुः पुमान् गजे । वलये शङ्खशम्बूके कन्धरामलके स्त्रियाम् ॥ २ ॥ ह्रस्वे सङ्ख्यान्तरे खर्वश्चार्वी स्याच्छोभनाधियोः । जम्बूः स्त्री मेरुसरिति द्वीपपादपभेदयोः ॥ ३ ॥ डिम्बस्तु विप्लवप्लीहफुप्फुसैरण्डभीतिषु । डिम्बः कलकलेऽपि स्याद्दर्वी फणखजाकयोः ॥ ४ ॥ दार्वी दारुहरिद्रायां हरिद्रादेवदारुणोः । पुंभूम्नि पूर्वजेषु स्यात्पूर्वः प्रागाद्ययोत्रिषु ॥ ५ ॥ तिक्ततुम्बीश्रियोर्लम्बा बिम्बं स्याद्बिम्बिकाफले । मण्डले प्रतिबिम्बे च बिम्बः पुंसि नपुंसकम् ॥ ६ ॥ शंबः शुभान्विते वज्रे मुसलाग्रस्थमण्डले । शुम्बो मतः पुमानेव भृशगुल्माप्रकाण्डयोः ॥ ७ ॥ ;p{0235} ;v{बतृतीयम्} ;c{बतृतीयम् ।} कदम्बं निकुरुम्बे स्यान्नीपसिद्धार्थयोः पुमान् । गजाह्वा गजपिप्पल्यां गजाह्वं हस्तिनापुरे ॥ ८ ॥ गन्धर्वो मृगभेदे स्याद्गायने खेचरे हये । अन्तराभवसिद्धे च रससिद्धे च कोकिले ॥ ९ ॥ गोडुम्बः शीर्णवृक्षेऽपि गवादिन्याः फलेपि च । द्विजिह्वः पन्नगे पुंसि द्विजिह्वः पिशुने त्रिषु ॥ १० ॥ कटीचक्रे नितम्बः स्याच्छिखरिस्कंघरोधसोः । प्रलम्बो लम्बने दैत्ये तालाङ्कुरकशाखयोः ॥ ११ ॥ प्रालम्बो हारभेदेऽपि त्रपुषेपि पयोधरे । भूजम्बूरपि गोडुम्बे विकङ्कतफले स्त्रियाम् ॥ १२ ॥ हेरम्बो महिषे लम्बोदरशूरत्वगर्विते । ;v{बचतुर्थम्} ;c{बचतुर्थम् ।} राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोर्मता ॥ १३ ॥ ;p{0236} ललज्जिह्वः प्रमानुष्ट्रे शुनि हिंस्रेऽभिधेयवत् । शतपर्वा तु दूर्वायां भार्गवस्य च योषिति ॥ १४ ॥ ;v{बपञ्चमम्} ;c{बपञ्चमम् ।} गोरक्षजम्बूर्गोधूमे तथा गोरक्षतंडुले । धूलीकदम्बस्तिनिशे कदम्बे वरुणद्रुमे ॥ १५ ॥ शृगालजम्बूर्गोडुम्बे क्वचित्तु बदरीकले ॥ १६ ॥ ;c{इति विश्वलोचने बान्तवर्गः ।} ;k{भान्तवर्गः} ;c{अथ भान्तवर्गः ।} ;v{भैकम्} ;c{भैकम् ।} भा स्यान्मयूषे शुक्रेऽपि पुंसि पुष्पंधये तु भः । दीप्तौ च स्थानमात्रे भा भं नक्षत्रे भये तु भी ॥ १ ॥ भूर्भुवि स्थानमात्रेऽपि स्त्रियां भवितरि त्रिषु । सम्बुद्धावव्ययं भो स्यात्- ;p{0237} ;v{भद्वितीयम्} ;c{भद्वितीयम् ।} -कुम्भो राश्यन्तरे घटे ॥ २ ॥ समाधौ गजमूर्द्ध्वांशे कुम्भकर्णसुते विटे । कुम्भी स्यात्पाटला वारिपर्णी पिठरकट्फले ॥ ३ ॥ कुम्भं गुग्गुलुवृक्षे स्यात्त्रिवृतायां च न द्वयोः । गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥ ४ ॥ जम्भो दन्तेऽपि जम्बीरे दैत्यभेदेऽपि भक्षणे । जृम्भो विकासे पुंस्येव जृम्भस्तु त्रिषु जृम्भणे ॥ ५ ॥ डिम्भस्तु बालिशे पोते दम्भः कैतवकल्कयोः । दृन्भूः सूर्ये पवौ नाभिर्ना क्षत्रे चक्रवर्त्तिनि ॥ ६ ॥ द्वयोः प्रधानचक्रान्तःप्राण्यङ्गेषु मदे स्त्रियाम् । निभस्तु सदृशे व्याजे संपूर्वः स्तुल्य एव सः ॥ ७ ॥ ;p{0238} रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके । परिपूर्वस्तु संश्लेषे विभुर्नित्ये शिवे प्रभौ ॥ ८ ॥ शुम्भः स्याद्ब्रह्मशिवयोरर्हत्यपि च केशवे । योगे शुभः शुभं क्षेमे शोभा कान्तीच्छयोर्मता ॥ ९ ॥ सभा सामाजिके गोष्ठ्यां धूनमन्दिरयोः सभा । स्तम्भो जडत्वे स्थूणायां स्वभूर्गोविन्दवेधसोः ॥ १० ॥ ;v{भतृतीयम्} ;c{भतृतीयम् ।} पापेऽप्यरिष्टेऽप्यशुभमात्मभूः स्मरवेधसोः । आरम्भ उद्यमे दर्प्पे त्वरायां च वधेऽपि च ॥ ११ ॥ ऋषभः श्रेष्ठवृषयोरष्टवर्गौषधान्तरे । स्वराद्रिभेदे वराहपुच्छे रन्ध्रे च कर्णयोः ॥ १२ ॥ ;p{0239} ऋषभी तु नराकारनारीविधवयोषितोः । शूकशिंब्यां शिरालायां श्रेष्ठे स्यादुत्तरस्थितः ॥ १३ ॥ ककुभोऽर्जुनवृक्षेऽपि रागभेदे प्रसेवके । ककुब् दिक्शोभयोः शास्त्रे कम्बले चम्पकस्रजि ॥ १४ ॥ करभो मणिबन्धादिकनिष्ठान्ते क्रमेलके । अष्टापदेऽपि करभः शरभे च मृगान्तरे ॥ १५ ॥ कुसुम्भं हेमनि महारजने ना कमण्डलौ । गर्द्दभी रासभे गन्धभेदे क्लीबं तु कैरवे ॥ १६ ॥ गर्द्दभी स्वल्परुग्जन्तुभेदयोरथ पुंस्ययम् । दुन्दुभिर्दैत्यभेर्योः स्त्री त्वक्षबिन्दुत्रिके द्वये ॥ १७ ॥ दुष्प्रापे वल्लभे कच्छरोगिणि त्रिषु वल्लभः । निकुम्भः कुम्भकर्णस्य पुत्रे दन्त्यामपि स्मृतः ॥ १८ ॥ ;p{0240} वल्लभो ना कुलीनाश्वे दयिताध्यक्षयोस्त्रिषु । पुनर्नवायां वर्षाभूः स्त्री ना किंचुलके प्लवे ॥ १९ ॥ विष्कम्भो योगभेदेऽपि बन्धभेदेऽपि योगिनाम् । रूपकाङ्गे परिष्टम्भे विस्तारप्रतियत्नयोः ॥ २० ॥ विष्कम्भः प्रतिबन्धेऽपि वैदर्भे विस्मृतावपि । विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ २१ ॥ वृषभस्तु वृषे शुक्रे वृषभः पुङ्गवेऽपि च । वैदर्भं वाक्यवक्रत्वे वैदर्भः स्यान्नृपान्तरे ॥ २२ ॥ सनाभिः पूजने पुंसि सनाभिः सदृशे त्रिषु । सुरभिश्चम्पके चैत्रे वसन्ते गन्धके कवौ ॥ २३ ॥ स्वर्णे जातीफले चाब्जे त्रिषु मद्यसुगन्धयोः । ख्याते च स्त्री तु शल्लक्यां सुरभी मातृभेदयोः ॥ २४ ॥ ;p{0241} ;v{भचतुर्थम्} ;c{भचतुर्थम् ।} वाण्यां छन्दःप्रभेदेऽपि स्यादनुष्टुबिति स्मृतः । अवष्टम्भः सुवर्णेऽपि प्रारम्भस्तम्भयोरपि ॥ २५ ॥ शातकुम्भं तु कनके शातकुम्भोऽश्वमारके ॥ २६ ॥ ;c{इति विश्वलोचने भान्तवर्गः ।} ;k{मान्तवर्गः} ;c{अथ मान्तवर्गः ।} ;v{मैकम्} ;c{मैकम् ।} मः शिवे पुंसि मश्चन्द्रे मो विधौ मां तु मातरि । स्त्रियां स्यान्मा रमायां च माक्षेपे मानबन्धयोः ॥ १ ॥ मा निषेधेऽव्ययं मे च ममेत्यर्थे ममाव्ययम् । ;v{मद्वितीयम्} ;c{मद्वितीयम् ।} अमो रोगेऽपि तद्भेदे स्यादपक्वे तु वाच्यवत् ॥ २ ॥ इध्मः पुंसि वसन्ते स्यादिध्मः स्यान्मीनकेतने । उमा गौर्यामतस्यां च हरिद्राकान्तिकीर्तिषु ॥ ३ ॥ ;p{0242} उमस्तु स्यात्पुमानेव मतो नगरघट्टयोः । ऊर्म्मिर्द्वयोस्तरङ्गे स्याद्भङ्गे वेगप्रकाशयोः ॥ ४ ॥ वस्त्रसंकोचरेखायामुत्कण्ठापीडयोरपि । कामः स्मरेच्छयोः काम्ये कामं रेतोनिकामयोः ॥ ५ ॥ सम्मते स्यादनुमतौ काममित्येतदव्ययम् । कामिः स्त्री कामकान्तायां कामिः स्यात्कामुके पुमान् ॥ ६ ॥ सर्वनाम्नि किमित्येतद्विज्ञेयमभिधेयवत् । किं वितर्केऽव्यये प्रश्ने क्षेपे निन्दाप्रकारयोः ॥ ७ ॥ किर्म्मिः स्त्री स्वर्णपुत्र्यां स्यादपि मालापलाशयोः । कृमिर्ना क्रिमिवत्कीटे लाक्षायां कृमिले खरे ॥ ८ ॥ क्रमः शक्तिपरीपाटीचलने कम्पनेऽपि च । खर्मः क्षौमप्रभेदेऽपि खर्मे स्यादपि पौरुषे ॥ ९ ॥ ;p{0243} गमो द्यूतान्तरे मार्गेऽप्यपर्यालोचितेऽपि च । गुल्मः स्तम्बे चमूरक्षासैन्ययोः प्लीहघट्टयोः ॥ १० ॥ गुल्मी स्यादामलक्येलावनिकावस्त्रवेश्मसु । ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ॥ ११ ॥ घर्म्मः स्यादातपे ग्रीष्मे ऊष्मस्वेदजलेऽपि च । जाल्मः स्यात्पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि ॥ १२ ॥ जिह्मं तु तगरे जिह्मस्त्रिषु स्यान्मन्दवक्रयोः । हरिद्यवेऽपि हरिते तोक्मस्तोक्मं श्रुतेर्म्मले ॥ १३ ॥ दमस्तु दमने दण्डे दमथे कर्द्दमेऽपि च । दस्मो वैश्वानरे चौरे यजमानेऽपि च स्मृतः ॥ १४ ॥ द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे । धर्म्मः स्यादस्त्रियां पुण्ये धर्म्मो न्यायस्वभावयोः ॥ १५ ॥ ;p{0244} उपमायां यमाचारवेदान्तेऽपि धनुष्यपि । यागे योगेऽप्यहिंसायां सोमपेऽपि क्वचिन्मतः ॥ १६ ॥ ध्यामो गन्धतृणे पुंसि ध्यामो दमनकेऽपि च । श्यामवर्णे त्रिषु ध्यामो नुमा नाम्नि परद्युतौ ॥ १७ ॥ नेमिः कूपत्रिकायां स्याच्चक्रान्ते तिनिशद्रुमे । नेमोऽर्द्धकीलसीमासु गर्त्तप्राकारकैतवे ॥ १८ ॥ पद्मोऽस्त्री पद्मनालेऽब्जे व्यूहसंख्यान्तरे निधौ । पद्मके नागभेदे ना पद्मा भार्ङ्गीश्रियोः स्त्रियाम् ॥ १९ ॥ ब्राह्मी तु भारतीपङ्कगतिकाब्रह्मशक्तिषु । फञ्जिकायां तथा सोमवल्लरीशाकयोरपि ॥ २० ॥ भामः क्रोधे रवौ भासि भीमः शम्भौ वृकोदरे । स्यादम्लवेतसे भीमस्त्रिषु घोरे भयानके ॥ २१ ॥ ;p{0245} भीष्मस्तु हरगाङ्गेयरक्षसि त्रिषु भीषणे । स्थानमात्रे क्षितौ भूमिर्भौमस्तु नरके कुजे ॥ २२ ॥ भ्रमो भ्रान्तौ च कुन्दाख्ययन्त्रे च जलनिर्गमे । संयमे यमजे धर्मराजे ध्वाङ्क्षे युगे यमः ॥ २३ ॥ नित्यकर्मप्रभेदे च यमुनायां यमी स्त्रियाम् । प्रहरे संयमे यामो यामिः स्वसृकुलस्त्रियोः ॥ २४ ॥ प्रध्मश्चापेपि संग्रामे राममाधवयोषिति । रमस्तु मन्मथे कान्ते रमोऽशोकमहीरुहे ॥ २५ ॥ रश्मिरंशुप्रग्रहयो रश्मिर्लोचनलोमनि । रामस्तु राघवे जामदग्न्ये हलधरेऽपि च ॥ २६ ॥ पशुभेदे सितश्याममनोज्ञेषु तु वाच्यवत् । रामाङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः ॥ २७ ॥ ;p{0246} मनोरमेऽभिपूर्वायां रुक्मं तु स्वर्णलोहयोः । रुमा सुग्रीवकान्तायां रुमा तु लवणाकरे ॥ २८ ॥ लक्ष्मीः श्रीरिव संपत्तौ पद्मशोभाप्रियङ्गषु । लक्ष्मीः स्यादौषधीभेदे नञः पूर्वा तु निर्ऋतौ ॥ २९ ॥ वमिः स्यात्पावके पुंसि वमिस्तु वमने स्त्रियाम् । वामः सव्ये हरे कामे धने वित्ते तु न द्वयोः ॥ ३० ॥ वल्गुप्रतीपयोर्वामस्त्रिषु वामा तु योषिति । वामी शृगाल्यां वडवारासभीकरभीष्वपि ॥ ३१ ॥ शमी शक्तुफलायां स्याच्छिवायां वल्गुलावपि । शुष्मः पुमान्दिनपतौ मतं शुष्मं तु तेजसि ॥ ३२ ॥ श्यामस्तु हरिते कृष्णे प्रयागस्य वटद्रुमे । पिके पयोधरे वृद्धदारकेऽपि पुमानयम् ॥ ३३ ॥ ;p{0247} श्यामवर्णे हरिद्वर्णे त्रिषु श्यामा तु वल्गुलौ । अप्रसूताङ्गनायां च श्यामा सोमलतोषधौ ॥ ३४ ॥ त्रिवृताशारिवागुन्द्रानिशानीलीप्रियङ्गुषु । श्यामं लवणभेदेऽपि श्यामं स्यान्मरिचेऽपि च ॥ ३५ ॥ श्रामस्तु मण्डपे काले विपूर्वः श्रमवञ्चने । समा वर्षे सदृक्सर्वमान्येषु च समं त्रिषु ॥ ३६ ॥ सीमाऽवधौ च वेलायां क्षेत्रे घाटे स्थितावपि । सूक्ष्मं तु नभसि क्षीरे सूक्ष्ममल्पेऽभिधेयवत् ॥ ३७ ॥ कतकाऽध्यात्मयोः सूक्ष्मं सूक्ष्मः पुंस्यणुमात्रके । सोमः सुधांशुकर्पूरकुबेरपितृदैवते ॥ ३८ ॥ दिव्यौषधीश्यामलतावसुभिद्वातवानरे । तुषारे चन्दने शीते हिमं त्रिषु तु शीतले ॥ ३९ ॥ ;p{0248} होमिरग्नौ घृते चाथ क्षितौ क्षान्तावपि क्षमा । क्षमं युक्ते क्षमः शक्ते हिते क्षान्त्यन्वितेऽन्यवत् ॥ ४० ॥ क्षुमाऽतसीनीलिकयोः क्षेमं स्याल्लब्धरक्षणे । मङ्गले चोरके वा स्त्री क्षेमा चण्डाहरस्त्रियोः ॥ ४१ ॥ क्षौमं स्यादतसीवस्त्रे क्षौममट्टदुकूलयोः । ;v{मतृतीयम्} ;c{मतृतीयम् ।} अधमः कुत्सिते न्यूनेऽप्यागमः शास्त्र आगतौ ॥ ४२ ॥ आश्रमो ब्रह्मचर्यादौ मुनिस्थाने मठे स्त्रियाम् । उत्तमा दुग्धिकायां स्यादुत्कृष्टे तु त्रिषूत्तमम् ॥ ४३ ॥ कलमः शालिलेखन्योश्चौरे लाक्षारसेऽपि च । कुसुमं पुष्पफलयोरार्त्तवे लोचनामये ॥ ४४ ॥ कृत्रिमं लवणे पुंसि सिह्लके कृतके त्रिषु । गुडार्मः स्याद्गुडक्षोदे क्षीरदारुणि च स्मृतः ॥ ४५ ॥ ;p{0249} गोधूमो व्रीहिभेदे स्यान्नारङ्गे भेषजान्तरे । गोलोमी श्वेतदूर्वायां वारस्त्रीवचयोरपि ॥ ४६ ॥ गौतमः शाक्यसिंहेऽपि मुनिभेदेऽपि गौतमः । गौतमी चण्डिकायां च रोचन्यामपि गौतमी ॥ ४७ ॥ तलिमं कुट्टिमे तल्पे विताने यावकेऽपि च । दाडिमः पुंसि दाडिम्ब एलायामपि दाडिमः ॥ ४८ ॥ निगमो हट्टपूर्वेदकटलुण्डीषु वाणिजे । नियमो निश्चये बन्धे यन्त्रणे संविदि व्रते ॥ ४९ ॥ निष्क्रमो निर्गमे बुद्धिसम्पत्तौ दुष्कुलेऽपि च । नैगमः क्षुरिवेदान्तवणिग्वाणिज्यनागरे ॥ ५० ॥ पञ्चमो रागभेदे स्यात्पञ्चानां पूरणे त्रिषु । त्रिषु दक्षिणमेघेऽपि पञ्चमी पाण्डवस्त्रियाम् ॥ ५१ ॥ ;p{0250} परमस्तु त्रिषूत्कृष्टे प्रधानाद्योश्च पुंसि तु । ओंकारे परमं तु स्यादनुज्ञायामसंज्ञकम् ॥ ५२ ॥ प्रक्रमोऽवसरे चानुक्रमे चापक्रमे क्रमे । प्रतिमाऽनुकृतौ दन्तबन्धनेऽपि च दन्तिनाम् ॥ ५३ ॥ आदावपि प्रधानेऽपि प्रथमं वाच्यलिङ्गकम् । प्रहर्म्मः सौधकूटस्थकलशाद्रिनितम्बयोः ॥ ५४ ॥ मध्यमो मध्यदेशे स्यात्स्वरे मध्येऽथ मध्यमा । त्रिषु दृष्टरजोनारीराकयोर्मध्यमा स्त्रियाम् ॥ ५५ ॥ कर्णिकात्र्यक्षरच्छन्दकरमध्याङ्गुलीषु च । विक्रमस्तूद्यमक्रान्तौ क्षमायां शक्तिसंपदि ॥ ५६ ॥ विद्रुमो रत्नवृक्षेऽपि प्रवाले नवपल्लवे । विभ्रमस्तु विलासे स्याद् विभ्रमो भ्रान्तिहावयोः ॥ ५७ ॥ ;p{0251} विलोमो विपरीतेऽपि भुजङ्गेङ्गुलिरोमनि । विलोमी तु व्यवस्थायां विलोममरघट्टके ॥ ५८ ॥ व्यायामो दुर्गसंचारे वियामे पौरुषे श्रमे । सङ्क्रमः सङ्कमणेऽस्त्री तु वारिसंचारयन्त्रके ॥ ५९ ॥ त्रिषूत्तमे पूज्यतमे साधीयसि च सत्तमः । सम्भ्रमस्त्वादरे पुंसि संवेगे साध्वसेऽपि च ॥ ६० ॥ सुषमं चारुसमयोस्त्रिषु स्यात्सुषमा द्युतौ । अतिद्युतौ च सुषमा सुषीमः पन्नगान्तरे ॥ ६१ ॥ सुषीमं शिशिरे क्लीबं चारुशीतलयोस्त्रिषु । ;v{मचतुर्थम्} ;c{मचतुर्थम् ।} सुन्दरेऽप्युपमाशून्ये भवेदनुपमोऽन्यवत् ॥ ६२ ॥ गौरीनायकदिङ्नागयोषित्यनुपमा मता । अभ्यागमोऽन्तिके घाते विरोधेऽप्युद्गमे युधि ॥ ६३ ॥ ;p{0252} उपक्रमश्चिकित्सायामुपधाने च विक्रमे । भवेदुपगमः पार्श्वगमनेऽङ्कीकृतावपि ॥ ६४ ॥ जलगुल्मो जलावर्त्तजलचत्वरकच्छपे । दण्डयामस्तु दिवसे कीनाशे कुम्भसम्भवे ॥ ६५ ॥ पराक्रमस्तु सामर्थ्ये विक्रमोद्योगयोरपि । प्लवङ्गमः कपौ भेके महापद्मं तु मानके ॥ ६६ ॥ महापद्मः पुमान्सङ्ख्यानिधिनागान्तरे मतः । यातयामो मतो जीर्णे परिभुक्तोज्झिते त्रिषु ॥ ६७ ॥ सार्वभौमस्तु दिग्नागभेदे सर्वमहीपतौ । अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥ ६८ ॥ ;c{इति विश्वचलोचने मान्तवर्गः ।} ;p{0253} ;k{यान्तवर्गः} ;c{अथ यान्तवर्गः ।} ;v{यैक} ;c{यैकम् ।} यो वातयशसोः पुंसि या यानत्यागयातृषु । ;v{यद्वितीयम्} ;c{यद्वितीयम् ।} अन्योऽसमाने भिन्ने च स्यादन्त्योऽन्तभवेऽधमे ॥ १ ॥ अर्थ्यो बुधे त्रिषु न्याय्ये शिलाजतुनि न द्वयोः । अर्घार्थं यत्तदर्घ्यं स्यात्त्रिषु यश्चार्घमर्हति ॥ २ ॥ अर्घ्यः स्याद्योग्यमात्रेऽपि स्यादर्यः स्वामिवैश्ययोः । पुंस्यार्यः सौविदल्ले स्यादार्यस्त्वभ्यर्हिते त्रिषु ॥ ३ ॥ आस्या स्थितौ मुखे चास्यं मुखमध्ये मुखोद्भवे । इज्यो गुरौ पुमानिज्या दानार्चासङ्गमेष्टिषु ॥ ४ ॥ ;p{0254} इभ्य आढ्यं भवेदिभ्या करेण्वामपि शल्लकौ । कन्या कुमारिकानार्यो राशिभेदौषधीभिदोः ॥ ५ ॥ प्रातर्ह्योदिनयोः कल्यं कल्यो नीरोगदक्षयोः । सज्जेऽपि त्रिषु कल्या तु मद्ये कल्या च वाचि च ॥ ६ ॥ कश्यं मद्ये कशार्हे च कश्यं मध्ये च वाजिनाम् । कक्ष्या बृहतिकाकाञ्चोर्मध्यबन्धे च दन्तिनाम् ॥ ७ ॥ हर्म्यादीनां प्रकोष्ठे तु कांस्यं स्यात्पानभाजने । तैजसद्रव्यभेदेपि वाद्यभेदेऽपि न द्वयोः ॥ ८ ॥ कायो वर्ष्म स्वभावे च सङ्घे लक्ष्ये कदैवते । कायं मनुष्यतीर्थे स्यात्कार्यं हेतौ प्रयोजने ॥ ९ ॥ काव्यः शुकग्रहे पुंसि काव्या स्यात्पूतनाधियोः । काव्यं ग्रन्थान्तरे क्लीबं कुड्यं भित्तौ विलेपने ॥ १० ॥ ;p{0255} कुल्यो मान्ये कुलोद्भूतकुलातिहितयोस्त्रिषु । कुल्यं स्यादामिषे शूर्पेप्यष्टद्रोण्यां च कीकसे ॥ ११ ॥ कुल्याऽल्पकृत्रिमनदीनदीजीवासु निर्झरे । कृत्या क्रियादेवतयोस्त्रिषु भेद्ये घनादिभिः ॥ १२ ॥ विद्विष्टकार्ययोश्चायं कृत्यास्तव्यादिषु स्मृताः । क्रिया कर्म्मणि चेष्टायां करणे संप्रधारणे ॥ १३ ॥ उपायारम्भशिक्षार्चाचिकित्सानिष्कृतिष्वपि । गव्यं नपुंसकं ज्यायां गवां क्षीरादिकेऽपि च ॥ १४ ॥ रागद्रव्येऽपि गव्या तु गोकुले गोहिते त्रिषु । गुह्यं रहस्युपस्थे च गुह्यो दम्भेपि कच्छपे ॥ १५ ॥ गृह्या शाखापुरे गृह्यस्त्वसक्तमृगपक्षिणोः । गुह्यं पुरीषमार्गेऽपि गृह्यमस्वैरिपक्षयोः ॥ १६ ॥ ;p{0256} गेयस्तु त्रिषु गातव्ये गेयः स्याद्गायने पुमान् । गोप्यो दास्या अपत्ये स्याद्रक्षणीयेऽपि वाच्यवत् ॥ १७ ॥ ग्राम्यो जने त्रिषु ग्राम्यं त्वश्लीलरतबन्धयोः । चयस्त्वाहरणे वृन्दे प्राकारे मूलबन्धने ॥ १८ ॥ चव्यं तु चविके यच्च चव्या दूर्वोग्रगन्धयोः । चित्या मृतचितायां स्याच्चित्यं मृतकचैत्यके ॥ १९ ॥ चैत्यमायतने क्लीबं स्याच्चिताचूडकेऽपि च । बुद्धबिम्बे पुमांश्चैत्यश्चैत्ये उद्देश्यपादपे ॥ २० ॥ चोद्यं प्रश्नेऽद्भुते चोद्यं वाच्यवच्चोदनोचिते । छाया स्यादातपाभावे सत्कान्त्युत्कोचकान्तिषु ॥ २१ ॥ प्रतिबिम्बेऽर्ककान्तायां तथा पङ्क्तौ च पालने । जन्यस्ताते वरवधूज्ञातिभृत्यप्रिये हिते ॥ २२ ॥ ;p{0257} जन्यस्तु जननीये स्यात्त्रिषु जन्यं तु संयुगे । परीवादेऽपि हट्टेऽपि जन्या मातृसखीमुदोः ॥ २३ ॥ जन्युः प्राणिनि वह्नौ च जन्युः स्यात्परमेष्ठिनि । जयो जयन्ते विजये जया तिथ्यन्तरोमयोः ॥ २४ ॥ उमासखीजयन्त्योश्च पथ्यायामग्निमन्थके । जात्यं कुलीने श्रेष्ठेऽपि तार्क्ष्योऽनूरुसुपर्णयोः ॥ २५ ॥ रथेऽश्वे चाश्वकर्णद्रौ मतं तार्क्ष्यं रसाञ्जने । तिष्यः पुष्ये कलौ तिष्या धात्र्यां तिष्यैव पुष्यवत् ॥ २६ ॥ त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि । दस्युर्विद्विषि चौरे च दायः सोल्लुण्ठभाषिते ॥ २७ ॥ यौतकादिधने दाने भागार्हपितृवस्तुनि । दिव्यं तु शपथे वाले लवङ्गकुसुमेऽपि च ॥ २८ ॥ ;p{0258} दिव्याऽऽमलक्यां दिव्यं तु वल्गौ दिविभवेऽन्यवत् । दूष्यं वस्त्रगृहे वस्त्रे दूषणीये तु वाच्यवत् ॥ २९ ॥ दैत्या सुरासुराचण्डौषधीषु दितिजे पुमान् । द्रव्यं तु पित्तले वित्ते द्रुविकारे जतुन्यपि ॥ ३० ॥ भेषजे च पृथिव्यादौ त्रिषु भव्यविलेपयोः । धन्या धात्र्यामलक्योः स्याद्धन्यः पुण्यवति त्रिषु ॥ ३१ ॥ धान्यं व्रीहिषु धान्याके धिष्ण्यः स्यादनले पुमान् । धिष्ण्यं सद्मनि नक्षत्रे स्थाने शक्तौ च न द्वयोः ॥ ३२ ॥ नयो द्युतान्तरे नीतौ व्यञ्जके त्वभिपूर्वकः । नाट्यं तौर्यत्रिके लास्ये नित्यं तु सतते ध्रुवे ॥ ३३ ॥ हरीतक्यां मता पथ्या मतं पथ्यं हिते त्रिषु । पद्यः शूद्रे पुमान्पद्यं श्लोके पद्या तु वर्त्मनि ॥ ३४ ॥ ;p{0259} नपुंसकं तु पाक्यं स्याद्यवक्षारे बिडाह्वये । पाद्यं पयसि निन्द्ये च पीयुः कालार्कपेचके ॥ ३५ ॥ पुण्यं तु सुकृते धर्मे त्रिषु मध्यमनोज्ञयोः । श्वशुरे पुंसि पूज्यः स्यात्पूज्यो वन्द्योऽभिधेयवत् ॥ ३६ ॥ पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः । प्रायः पुमाननशने मृत्युबाहुल्ययोस्तथा ॥ ३७ ॥ प्रियस्तु त्रिषु हृद्ये स्याद्धवे वृद्ध्यौषधे पुमान् । वन्यं त्रिषु वनोद्भूते वन्या वृन्दे वनाम्भसोः ॥ ३८ ॥ अप्रजातस्त्रियां वन्ध्या वन्ध्यस्त्रिषु हलिद्रुमे । वल्यं प्रधानधातौ स्याद्वल्यं बलकरे त्रिषु ॥ ३९ ॥ वरेण्ये वाच्यवद्वर्यो वर्यः पञ्चशरे पुमान् । विन्ध्या त्रुटौ लवल्यां च विन्ध्यो व्याधाद्रिभेदयोः ॥ ४० ॥ ;p{0260} वीर्यं प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि । वेश्या तु गणिकायां स्याद् वेश्यं वेश्यानिकेतने ॥ ४१ ॥ भयं घोरे प्रतिभये प्रसूने कुब्जवीरुधः । कर्म्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ॥ ४२ ॥ भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्म्मणि । भृत्यो दासे भृतौ भृत्या मत्स्यो मीने जनान्तरे ॥ ४३ ॥ विष्णोर्मूर्त्यन्तरे मत्स्यो विराटाख्ये च यादवे । मध्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु ॥ ४४ ॥ लग्नकेऽप्यधमे मध्यमस्त्रियामवलग्नके । मन्युर्दैन्ये क्रतौ क्रोधे वासवे तु शतात्परः ॥ ४५ ॥ मयः शिल्पिनि दैत्याना करभेऽश्वतरे मयः । मयुर्मृगे किंपुरुषे मायः पीताम्बरेऽसुरे ॥ ४६ ॥ ;p{0261} माया दम्भे कृपायां च स्यान्माया शाम्बरीधियोः । माल्यं पुष्पेऽपि मालायां मूल्यं वेतनवस्नयोः ॥ ४७ ॥ मृत्युः स्यान्मरणे दैवे मेध्यं पूतेऽपि मेदुरे । मेध्या रक्तवचायां च रोचनायामपि स्त्रियाम् ॥ ४८ ॥ क्लीबं स्यादाश्रमे मेध्यं ययुः क्रतुहये हये । याम्याऽपाच्यां भरण्यां च याम्योऽगस्त्येऽपि चन्दने ॥ ४९ ॥ योग्यः प्रवीणयोगार्हशक्तोपायिषु वाच्यवत् । योग्याऽभ्यासेऽर्क्ककान्तायां योग्यमृद्ध्याख्यभेषजे ॥ ५० ॥ रथ्या तु विशिखायां स्याद्रथौघे पथि चत्वरे । मतो रथोद्वहे रथ्यो रथ्यं त्रिषु मनोरमे ॥ ५१ ॥ रम्या विभावरी रम्यः पुंसि चम्पकपादपे । रूप्यं स्यादाहतस्वर्णरजते रजते तथा ॥ ५२ ॥ ;p{0262} त्रिषु प्रशस्तरूपेऽपि लभ्यं लव्धव्यमुक्तयोः । लयो नृत्यादिसाम्ये स्याद्विनाशाश्लेषयोर्लयः ॥ ५३ ॥ सङ्ख्याशरव्ययोर्लक्ष्यं लक्ष्यं स्याच्छद्मनि स्मृतः । अथ तौर्यत्रिके लास्यं लास्यं स्त्रीनृत्यनृत्ययोः ॥ ५४ ॥ वाच्यं दोषेऽपि वक्तव्ये वचोर्हे कुत्सितेऽन्यवत् । वीक्ष्योऽविलासके वीक्ष्यो द्रष्टव्याद्भुतयोस्त्रिषु ॥ ५५ ॥ वर्गप्रस्थानयोर्व्रज्या व्रज्या पर्यटनेऽपि च । शयः शय्याहिहस्तेषु शय्या तु शयनीयके ॥ ५६ ॥ शब्दगुम्फेऽपि शल्यस्तु श्वाविन्मदनवृक्षयोः । शल्यं शङ्कौ शरे वशकर्णिकायां च तोमरे ॥ ५७ ॥ शुन्या तु नलिकायां स्याच्छून्यं तु त्रिषु निर्जने । मतं शौर्यं तु शूरत्वे चारभट्यां च तन्मतम् ॥ ५८ ॥ ;p{0263} सङ्ख्यं तु सङ्गरे क्लीबं सङ्ख्यैकत्वादिचर्चयोः । तपोलोकात्परे सत्यं सत्यं सत्यप्रगर्त्तयोः ॥ ५९ ॥ दिव्येपि सत्या पामायां सत्यं तु त्रिषु तद्वति । सन्ध्या साये सरिद्भेदे सन्धाने कुसुमान्तरे ॥ ६० ॥ प्रतिज्ञायां च चिंतायां मर्यादायामपि स्त्रियाम् । वामदक्षिणयोः सव्यं सह्यं शस्त्रकले गुणे ॥ ६१ ॥ सह्यः शैलेऽपि सोढव्ये नैरुज्ये सह्यमद्वयोः । साध्यस्तु योगभेदे स्यात्साध्योऽपि गणदैवते ॥ ६२ ॥ वाच्यवत्साघनीयेऽपि सायः काण्डाऽपराह्णयोः । सूर्योऽर्के तत्प्रियायां तु सूर्या स्यादोषधीभिदि ॥ ६३ ॥ सेव्यं त्रिलिङ्गं सेवार्हे सेव्यं तु नलदे द्वयोः । सेनायां समवेते तु सैन्यः सैन्यं बले मतम् ॥ ६४ ॥ ;p{0264} इल्वलासु स्त्रियः सौम्या बुधे सौम्योऽथ वाच्यवत् । बौद्धे मनोरमेऽनुग्रे पामरे सोमदैवते ॥ ६५ ॥ विवादपक्षनिर्णेतर्यपि स्थेयः पुरोहिते । स्थेयं स्याद्द्रव्यमात्रेऽपि पुंसि गर्वेऽद्भुते स्मयः ॥ ६६ ॥ हार्यो बिभीतकीवृक्षे हर्त्तव्ये हार्यमन्यवत् । हृद्यस्तु वशकृद्वेदमन्त्रे वृद्ध्याख्यभेषजे ॥ ६७ ॥ स्याच्छ्वेतजीरके हृद्यं हृत्प्रिये हृद्गवे त्रिषु । क्षयोऽपचयकल्पान्तनिवासेषु रुगन्तरे ॥ ६८ ॥ ;v{यतृतीयम्} ;c{यतृतीयम् ।} अत्ययो दूषणे कृच्छ्रेऽतिक्रमे नाशदण्डयोः । अधृष्यस्तु प्रगल्भे स्यादधृष्या सरिदन्तरे ॥ ६९ ॥ अनयो व्यसनानीतिदैवाशुमविपत्तिषु । अपत्यं पुत्रयोः क्लीबमभयो निर्भये त्रिषु ॥ ७० ॥ ;p{0265} मताऽभया तु पथ्यायामभयं स्यादुशीरके । अभिख्या तु यशःकीर्त्तिशोभाविख्यातिनामसु ॥ ७१ ॥ त्रिष्ववध्यं वधानर्हे क्लीबेऽनर्थकभाषिते । स्यादवन्ध्यं तु सफले त्रिषु त्रिष्वफलेग्रहौ ॥ ७२ ॥ अश्वीयमश्वसङ्घातेऽश्वीयमश्वहिते त्रिषु । अहल्याप्सरसोभेदे तथा गौतमयोषिति ॥ ७३ ॥ अहार्यः पर्वते पुंसि स्यादहार्यः स्थिरे त्रिषु । आतिथ्यमातिथेये स्यादातिथ्यस्त्वतिथौ पुमान् ॥ ७४ ॥ आत्रेयी पुष्पवत्यां स्यादात्रेयी निम्नगान्तरे । आत्रेयस्तु मुनेर्भेदे स्यादादित्यः सुरे रवौ ॥ ७५ ॥ आम्नाय उपदेशेपि स्यादाम्नायः श्रुतावपि । आशयः स्यादभिप्रायेऽप्याधारे पनसे धने ॥ ७६ ॥ ;p{0266} कोष्ठागारेऽप्यजीर्णेऽपि किंपचानेऽपि चाशयः । इन्द्रियं रेतसि क्लीबमिन्द्रियं विषयीन्द्रिये ॥ ७७ ॥ पुंसि स्यादुदयः पूर्वपर्वतेऽपि समुन्नतौ । उपायः सामभेदादावुपायः स्यादुपागतौ ॥ ७८ ॥ ऊर्णायुरेडके मेषकम्बलक्षणभङ्गयोः । एणेयमेण्याश्चर्माद्ये रतबन्धान्तरे स्त्रियाः ॥ ७९ ॥ औचित्यमुचितत्वे स्यादौचित्यं सत्ययोग्ययोः । अस्त्री कषायो निर्यासे रसे रक्ते विलेपने ॥ ८० ॥ अङ्गरागे सुगन्धे तु त्रिषु स्याल्लोहितेऽपि च । कालेयो दैत्यभेदे स्यात्कालेयं कालखण्डकम् ॥ ८१ ॥ कुलायो नीडवत्पक्षिनिलयस्थानयोः पुमान् । कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८२ ॥ ;p{0267} गाङ्गेयस्तु महासेने भीष्मे गङ्गाभवे त्रिषु । चक्षुष्यः केतके पुण्डरीकवृक्षे रसाञ्जने ॥ ८३ ॥ अस्त्री स्त्री तु कुलथ्यां स्यादयुक्तकरणेऽपि च । गाङ्गेयं मुस्तकस्वर्णकसेरुषु नपुंसकम् ॥ ८४ ॥ गाङ्गेयस्तु महासेने भीष्मे गङ्गोद्भवे त्रिषु । चक्षुष्यः केतके पुसि शुभगेऽक्षिहिते त्रिषु ॥ ८५ ॥ चाम्पेयश्चम्पके नागकेसरे पुष्पकेसरे । स्वर्णे क्लीबं जघन्यं तु निन्द्ये चरमशिश्नयोः ॥ ८६ ॥ जटायुः पक्षिभेदे स्यात्पुंसि गुग्गुलपादपे । तपस्या व्रतचर्यायां तपस्यः फाल्गुने पुमान् ॥ ८७ ॥ देवयुर्द्धार्मिके देवयात्रिकेऽप्यभिधेयवत् । द्वितीया तिथिभित्पत्न्योः पूरणेऽपि द्वयोस्त्रिषु ॥ ८८ ॥ ;p{0268} नादेयी नीरवानीरे भूजम्बूनागरङ्गयोः । जपाजयन्त्योर्व्यङ्गुष्ठे निकायस्त्वात्मवेश्मनोः ॥ ८९ ॥ सधर्मिनिवहे लक्ष्ये संहतानां च मेलके । रङ्गभूमौ तु नेपथ्यं नेपथ्यं च प्रसाधने ॥ ९० ॥ पयस्या क्षीरकाकोल्यां स्वर्णक्षीर्यामपि स्मृता । पयस्या दुग्धिकायां च पयोहितभवेऽन्यवत् ॥ ९१ ॥ पर्जन्यो वासवे मेघध्वनौ च ध्वनदम्बुदे । पर्यायः क्रमनिर्वाणप्रकारावसरे पुमान् ॥ ९२ ॥ पेयवारिणि पानीयं पारुष्यस्तु बृहस्पतौ । पारुष्यं परुषत्वे स्यादपि शुक्रस्य कानने ॥ ९३ ॥ पौलस्त्यः किन्नराधीशे पौलस्त्यो दशकन्धरे । प्रकीर्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ॥ ९४ ॥ ;p{0269} प्रणयः प्रेमविश्रम्भप्रश्रयप्रसरेऽर्थने । प्रणाय्योऽसंमते तृष्णावर्जितेऽप्यभिधेयवत् ॥ ९५ ॥ प्रत्ययः शपथे हेतौ ज्ञानविश्वासनिश्चये । सन्नाद्यधीनरन्ध्रेषु ख्यातत्वाचारयोरपि ॥ ९६ ॥ प्रलयो मृत्युकल्पान्तमूर्च्छासु विदितः पुमान् । प्रसव्यमन्यलिङ्गं स्यात्प्रतिकूलानुकूलयोः ॥ ९७ ॥ वलयः कङ्कणे न स्त्री बलाकण्ठरुजोरपि । वालेयः फञ्जिकायां स्यात्खरे बालहिते मृदौ ॥ ९८ ॥ ब्रह्मण्यस्तु शनौ यूपे ब्रह्मसाधौ तु वाच्यवत् । ब्राह्मण्यं ब्राह्मणत्वे स्याद्ब्राह्मणानां च संहतौ ॥ ९९ ॥ भुजिष्यस्तु सहायेऽपि हस्तसूत्रेऽप्यथ त्रिषु । अनधीते भुजिष्या तु वेश्याचेटिकयोर्मता ॥ १०० ॥ ;p{0270} भुवयुः स्याद्बृहद्भानुभानुशीतलभानुषु । भ्रातृव्यो भ्रातृतनये त्रिषु पुंसि तु विद्विषि ॥ १०१ ॥ मङ्गल्यं दध्नि मङ्गल्यं तत्रसाधौ मनोहरे । मङ्गल्यः श्रीफले स्वच्छे मसूरत्रायमाणयोः ॥ १०२ ॥ मङ्गल्या रोचनायां स्यात्प्रियङ्गुशतपुष्पयोः । मल्लिगन्धि च यत्कृष्णागुरु तत्रापि सा स्मृता ॥ १०३ ॥ अधःपुष्पीशमीखण्डपुष्पीश्वेतवचासु च । मलयः पुंसि देशाद्रिभेदयोः पर्वतांशके ॥ १०४ ॥ आरामे चन्दने चाथ मलया तृवृतौषधौ । मृगयुर्ब्रह्मणि प्रोक्तो गोमायुव्याधयोरपि ॥ १०५ ॥ रहस्यं वाच्यवद्गोप्ये रहस्या तु नदीभिदि । लौहित्यं रक्ततायां स्यात्पुंसि ब्रीहौ नदान्तरे ॥ १०६ ॥ वक्तव्यः कुत्सिते हीनेऽप्यधीने वाच्यवत्त्रिषु । वदान्यस्तु सुवाग्दात्रोर्विजयो जयपार्थयोः ॥ १०७ ॥ ;p{0271} विजया तु मता गौर्यां तत्सखीतिथिभेदयोः । विनयस्तु नतौ नीतौ शिक्षायां विनयो द्वयोः ॥ १०८ ॥ विशल्याऽग्निशिखादन्तीगुडूचीतृवृति स्त्रियाम् । वाच्यवद्गतशल्ये स्याद्विस्मयोऽद्भुतगर्वयोः ॥ १०९ ॥ विषयो गोचरे देशे इन्द्रियार्थेऽपि नीवृति । प्रबन्धाद्यस्य यो ज्ञातः स तस्य विषयः स्मृतः ॥ ११० ॥ व्यवायः सुरतेन्तर्द्धौ व्यवायं तेजसि स्मृतम् । शाण्डिल्यो मुनिभेदेऽपि श्रीफले पावकान्तरे ॥ १११ ॥ शालेयः शतपुष्पायां त्रिषु शाल्युद्भवोचिते । शीर्षण्यः पुंसि विशदे कचे क्लीबं तु शीर्षके ॥ ११२ ॥ शैलेयं सिन्धुलवणे तालपर्ण्यां च शैलजे । भृङ्गे पुंसि श्वशुर्यस्तु देवरे श्यालकेऽपि च ॥ ११३ ॥ ;p{0272} पृष्ठस्थायिबले नीतौ समवायेऽप्रि सन्नयः । समयः पुंसि सिद्धान्तशपथाचारसंविदि ॥ ११४ ॥ कालसिद्धान्तनिर्देशक्रियाकारेषु सङ्गमे । मेलके योगियोगिन्योः समयः क्वापि दृश्यते ॥ ११५ ॥ सरण्युर्वारिदे वाते सामर्थ्यं योग्यताबले । सौकर्यं स्यादनायासे क्रियायां सूकरस्य च ॥ ११६ ॥ सौभाग्यं सुभगत्वे स्याद्योगभेदे पुमानयम् । सौरभ्यं तु सुगन्धत्वे गुरुत्वे गुणगौरवे ॥ ११७ ॥ संस्त्यायः सन्निवेशेऽपि संस्थाने विस्मृतौ गणे । हरिण्यमक्षये द्रव्ये वराटे स्वर्णरेतसि ॥ ११८ ॥ घटिताऽघटितस्वर्णरूप्ययोर्मानभिद्यपि । बुक्कायां हृदयं ज्ञेयं हृदयं हृदि वक्षसि ॥ ११९ ॥ ;p{0273} तनौ स्त्रियां क्षिपण्युः स्यात्क्षिपण्युः सुरभौ नरि । परदाररताऽसाध्यरोगयोः क्षेत्रियः पुमान् ॥ १२० ॥ अन्यदेहे चिकित्सार्हे क्लीबं क्षेत्रतृणेपि च । ;v{यचतुर्थम्} ;c{यचतुर्यम् ।} दीर्घद्वेषानुतापानुबन्धेष्वनुशयः पुमान् ॥ १२१ ॥ अन्तशय्या तु मरणे भूमिशय्याश्मशानयोः । अपसव्यमवामे स्यात्प्रतिकूले तु वाच्यवत् ॥ १२२ ॥ गर्वेऽपि तुहिनेपि स्यादवश्यायः पुमानयम् । उपकार्या नृपावासेऽप्युपकारोचितेऽन्यवत् ॥ १२३ ॥ उपक्रयश्चिकित्सायामारम्भवधयोरपि । काद्रवेयः पुमान्नागे तथा सीसकरङ्गयोः ॥ १२४ ॥ चन्द्रोदयो विताने स्यात्स्त्रियामेवोषधीभिदि । जलाशयो जलाधारे जलदे तु जलाशयम् ॥ १२५ ॥ ;p{0274} तण्डुलीयो विडङ्गद्रावल्पमारिषताप्ययोः । तृणशून्यं तु केतक्याः फले मल्ल्यां च निस्तृणे ॥ १२६ ॥ धनजंयोऽग्नौ ककुभे नागदेहानिलेऽर्जुने । निरामयं हुडुक्के स्यात्कल्पे त्रिषु निरामयः ॥ १२७ ॥ परिधायो जलस्थाने नितम्बे च परिच्छदे । पाञ्चजन्यो हरेः शङ्खे शङ्खपोटगलेऽनले ॥ १२८ ॥ पौरुषेयस्तु पुरुषविकारेऽपि पदान्तरे । पुंसः समूहवधयोः पुरुषेण कृते त्रिषु ॥ १२९ ॥ क्लीबं प्रतिभयं भीतौ वाच्यवत्तु भयानके । प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः ॥ १३० ॥ फलानामुदये लाभे त्रिदिवेऽपि फलोदयः । मतो विलेशयः पुंसि मूषिकेऽपि भुजङ्गमे ॥ १३१ ॥ ;p{0275} भागधेयं स्मृतं भाग्ये पुंसि स्यात्करभागयोः । भूतेन्द्रियं तु करणशब्दगोचरसंहतौ ॥ १३२ ॥ महोदयः समुदये कान्यकुब्जापवर्गयोः । महालयो विहारेऽपि तीर्थेऽपि परमात्मनि ॥ १३३ ॥ महामूल्यं पद्मरागे महार्घे त्वभिधेयवत् । मार्जारीयस्तु शूद्रे स्याद्बिडाले कायशोधने ॥ १३४ ॥ रौहिणेयः प्रलम्बघ्ने वुधे वत्से तु वाच्यवत् । वैनतेयस्तु कथितो गरुडे गरुडाग्रजे ॥ १३५ ॥ उत्सेधेऽपि विरोधेपि पुमानेव समुच्छ्रयः । मतः समुदयो वृन्दे संयुगे समुपक्रमे ॥ १३६ ॥ समुदायः समूहे स्यात्समुद्भूतौ रणेऽपि च । संपरायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ १३७ ॥ समाह्वयो रणे नाम्नि क्रीडायां पशुपक्षिभिः । स्थूलोच्चयस्त्वसाकल्ये गण्डोपलवरण्डयोः ॥ १३८ ॥ ;p{0276} स्थूलोच्चयो मतङ्गानां स्यान्मध्यमगतेऽपि च । हिरण्मयः स्वर्णमये लोकधात्रन्तरे पुमान् ॥ १३९ ॥ ;v{यपञ्चमम्} ;c{यपञ्चमम् ।} कालानुसार्यं कालेये शैलेये शिंशपाद्रुमे । मतं तु दुग्धतालीयं दुग्धाम्रे दुग्धफेनके ॥ १४० ॥ स्याद्दुग्धचमसेऽप्येतत्खण्डकीटे पुमानयम् । त्रिषु प्रवचनीयं स्यात्प्रवाच्येऽपि प्रवक्तरि ॥ १४१ ॥ वृषाकपायी श्रीगौरीजीवन्तीषु शतावरौ । ;v{यषष्ठम्} ;c{यषष्ठम् ।} प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया तु स्यात्कमलात्रायमाणयोः ॥ १४२ ॥ ;c{इति विश्वलोचने यान्तवर्गः ।} ;p{0277} ;k{रान्तवर्गः} ;c{अथ रान्तवर्गः ।} ;v{रैकम्} ;c{रैकम् ।} रस्तु कामाऽनले वह्नौ तीक्ष्णे रास्त्वर्थरुक्मयोः । रुर्ना शब्दे भये भागे रीः श्रोतरि भुवि स्त्रियाम् ॥ १ ॥ क्रेतरि क्रीः क्रये तु स्त्री घ्रा प्राणे घ्रातरि स्मृतः । द्रुर्वृक्षेऽपि द्रुमेऽपि स्याद्द्रुः स्वणें कामरूपिणि ॥ २ ॥ श्रीर्लक्ष्मीभारतीशोभाप्रभासु सरलद्रुमे । वेशत्रिवर्गसम्पत्तौ शेषापकरणे मतौ ॥ ३ ॥ स्रुः स्रवे निर्झरे चाथ ह्रीर्व्रीडे लज्जिते त्रिषु । ;v{रद्वितीयम्} ;c{रद्वितीयम् ।} अग्रं त्रिषु प्रधाने स्यादग्रं मूर्द्धाधिकादिषु ॥ ४ ॥ पुरस्तात्पलमाने च व्रातेप्यालम्बनान्तयोः । अङ्घ्रिः पुंस्येव चरणे मूलेऽपि च महीरुहे ॥ ५ ॥ ;p{0278} अद्रिः शैले द्रुमे सूर्येऽप्यभ्रं खे गिरिजेऽम्बुदे । स्वर्गेप्यथाऽरं शीघ्रे स्याच्चक्राङ्गे शीघ्रगे त्रिषु ॥ ६ ॥ अस्रं तु शोणिते लोभेऽप्यस्रः स्यात्कोणकेशयोः । अस्त्रं प्रहरने चापेऽप्यार्द्रा भे स्तिमिते त्रिषु ॥ ७ ॥ आरा तु चर्म्मवेधन्यामारो भौमे शनैश्चरे । आरुर्ना द्रुमभेदे स्यादपि कर्कटदंष्ट्रिणोः ॥ ८ ॥ इन्द्रः शक्रात्मसूर्येषु योगेऽपीन्द्रा फणिज्जके । इरा तु मदिरावारिभारव्यसनभूमिषु ॥ ९ ॥ उग्रस्तीव्रे त्रिषु क्षात्त्राच्छूद्रापुत्रे हरे पुमान् । उग्रा वचाछिक्किकयोरुष्ट्रस्तु स्यात्क्रमेलके ॥ १० ॥ उष्ट्री गोलकिकायां स्यादुष्ट्री करभयोषिति । उस्रा गव्युपचित्रायामुस्रस्तु किरणे पुमान् ॥ ११ ॥ ;p{0279} ऐन्द्रिः काके जयन्ते स्यादोड्रा जनपदान्तरे । ओड्रो जने जवावृक्षे देशे पुष्पे तु न द्वयोः ॥ १२ ॥ अङ्घ्रिः पादे च बुध्ने च कद्रुः कनकपिङ्गले । तद्वति त्रिषु कद्रुः स्यात्कद्रुः स्त्री नागमातरि ॥ १३ ॥ करस्तु पाणिप्रत्यायशुण्डारश्मिघनोपले । कारो वधे तुषाराद्रौ निश्चये यतियत्नयोः ॥ १४ ॥ बलावप्यथ कारा स्याद्बन्धनागारबन्धयोः । सुबन्ते कारिकापीडादूतिकासु प्रसेवके ॥ १५ ॥ कारुः शिल्पिनि शिल्पे च कारके विश्वकर्मणि । कारिः क्रियानापिताद्यो कीरो जनपदे शुके ॥ १६ ॥ कुरुर्नृपान्तरे भक्ते कुरुः श्रीकण्ठजाङ्गले । कृच्छ्रं तु कष्टे पापे च तथासान्तपनादिके ॥ १७ ॥ ;p{0280} क्रूरस्त्रिषु नृशंसे स्यादपि निर्दयघोरयोः । क्रोष्ट्री शृगालिकाक्षीरविदारीलाङ्गलीष्वथ ॥ १८ ॥ देवताडे द्वये तीक्ष्णे त्रिषु ना गर्द्दभे खरः । खरुर्दशन ईशेऽश्वे दर्पे पुंसि सिते त्रिषु ॥ १९ ॥ खुरः शफे कोलदले खड्गादेश्चरणेऽपि च । गरो विषे चोपविषे गरं करणरोगयोः ॥ २० ॥ गात्रं गजाग्रजङ्घादिविभागेऽप्यङ्गदेहयोः । गिरिर्गीर्णौ गिरियकग्रावनेत्रगदेषु ना ॥ २१ ॥ गिरिः पूज्येऽन्यलिङ्गः स्याद्भारत्यां भाषणे च गीः । गुरुर्निषेकादिकरे पित्रादिसुरमन्त्रिणोः ॥ २२ ॥ गुरुस्त्रिषु स्यान्महति दुर्जरे वाऽलघुन्यपि । गुन्द्रस्तेजनके गुन्द्रा मुस्तके भद्रमुस्तके ॥ २३ ॥ ;p{0281} कुटंनटे प्रियङ्गौ च गृध्रो लुब्धे खगान्तरे । गोत्रः क्षोणीधरे गोत्रं कुले क्षेत्रे च नाम्नि च ॥ २४ ॥ सम्भावनीयबोधेऽपि वित्ते वर्त्मनि कानने । गोत्रा भुवि गवां वृन्दे गौरः पुंसि निशाकरे ॥ २५ ॥ गौरः पीतारुणश्वेतविशुद्धेष्वभिधेयवत् । गौरी तु पार्वतीनग्नकन्ययोर्वरुणस्त्रियाम् ॥ २६ ॥ नदीभिद्यामिनीपिङ्गारोचनीक्ष्माप्रियङ्गुषु । गौरं तु विशदे श्वेतसर्षपे पद्मकेसरे ॥ २७ ॥ घस्रोऽह्नि हिंस्रे घोरस्तु हरे भीमेऽभिधेयवत् । अथ पुंस्येव चक्रः स्याच्चक्रवाकसमूहयोः ॥ २८ ॥ चक्रं सैन्ये रथाङ्गेऽपि आम्रजालेऽम्भसाम्भ्रमे । कुलालकृत्यनिष्पत्तिभाण्डे राष्ट्रास्त्रभेदयोः ॥ २९ ॥ ;p{0282} चन्द्रः सुधांशुकर्पूरस्वर्णकम्पिल्लवारिषु । चरश्चारे चले द्यूतप्रभेदे जङ्गमेऽपि च ॥ ३० ॥ चरुर्भाण्डेपि हव्यान्ने चारश्चरपियालयोः । गतौ बन्धेऽपि चित्रं तु कर्बुराद्भुतयोस्त्रिषु ॥ ३१ ॥ चित्रमालेख्यतिलकव्योमसु स्यान्नपुंसकम् । चित्राऽस्रवन्तीनक्षत्रभुजङ्गाऽप्सरसाम्भिदि ॥ ३२ ॥ चित्राऽखुपर्णीगोडुंबासुभद्रादन्तिकासु च । चीरं तु वस्त्रे चूडायां त्रपुण्यालेखरेखयोः ॥ ३३ ॥ चीरी कच्छाटिकाझिल्योश्चुक्रस्त्वम्लेऽम्लवेतसे । चुक्री चाङ्गेरिकायां स्याच्चुक्रं वृक्षाम्लके मतम् ॥ ३४ ॥ मासाद्रिभेदयोश्चैत्रश्चैत्रं मृतकचैत्यके । चौरश्चौरे सुगन्धे च छत्रमातपवारणे ॥ ३५ ॥ ;p{0283} छत्रा मधुरिकायां स्यात्कुस्तुम्बुरुशिलीन्ध्रयोः । जारस्तूपपतौ जारी मता वश्यौषधीभिदि ॥ ३६ ॥ जीरस्तु जीरे खड्गे च टारो लिङ्गतुरङ्गयोः । तन्त्रं प्रघाने सिद्धान्ते श्रुतिशास्त्रान्तरेऽपि च ॥ ३७ ॥ कुटुम्बधारणे शास्त्रे कारणे च परिच्छदे । इतिकर्तव्यतायां च सूत्रवायेऽगदोत्तमे ॥ ३८ ॥ तन्त्रं द्विसाधके पात्रे तत्री स्याद्वल्लकी गुणे । शिरायां च गुडूच्यां च तन्द्री निद्राप्रमीलयोः ॥ ३९ ॥ वस्त्रादिपेटके नावि दशायां च तरिः स्त्रियाम् । ताम्रं शुल्बे त्रिष्वरुणे तारोऽत्युच्चध्वनौ त्रिषु ॥ ४० ॥ तारो मुक्तादिसंशुद्धौ तरुणे शुद्धमौक्तिके । तारं तु रजते तारा सुग्रीवगुरुयोषितोः ॥ ४१ ॥ ;p{0284} बुद्धदर्शनदेव्यां च दृग्मध्यतारके न ना । तीरस्त्रपौ नटे तीरं तटे प्रादुत्तरं च तत् ॥ ४२ ॥ तीव्रमत्यन्तकटुके नितान्ते तद्वतोस्त्रिषु । तीव्रा तु कटुरोहिण्यामासुरीगण्डदूर्वयोः ॥ ४३ ॥ वेणुके प्राजने तोत्रं दरोऽस्त्री भीतिगर्त्तयोः । दरी स्यात्कन्दरे स्त्री तदीषदर्थे दराऽव्ययम् ॥ ४४ ॥ दस्रः खरेऽप्याश्विनेये दारु स्याद्देवदारुणि । अस्त्री त्वारेऽप्यथ क्लीबं द्वारं द्वाराऽभ्युपाययोः ॥ ४५ ॥ धरः कच्छपनाथे स्याद्गिरौ कर्प्पासतूलके । धरा धरण्यां स्त्रीणा च गर्भाधारेऽपि मेदसि ॥ ४६ ॥ धात्री त्वामलकीक्षित्योरुपमातरि मातरि । धारस्तु धारासम्पातवर्षणे स्यादृणेऽपि च ॥ ४७ ॥ ;p{0285} धारा पङ्क्तौ द्रवद्रव्यस्रवेऽश्वगतिपञ्चके । खड्गादीनां मुखे सेनाग्रिमस्कन्धपुरान्तरे ॥ ४८ ॥ भृङ्गारादेश्च नालायां धाराभ्यासे नुतावपि । हरिद्रानिशयोश्चाथ धीरः स्यात्पुंसि पण्डिते ॥ ४९ ॥ धैर्यशालिनि मन्दे च त्रिषु धीरं तु कुङ्कुमे । नक्रस्तु पुंसि कुम्भीरे नक्रं घ्राणेऽग्रदारुणि ॥ ५० ॥ नरः पार्थाजयोर्मर्त्ये रामकर्पूरके नरम् । नारस्तु तन्दुके नीरे नीध्रः पुंसि निशापतौ ॥ ५१ ॥ नीध्रं वलीके नेमौ च रेवतीतारके वने । नेत्रं विलोचने वृक्षमूले वस्त्रे गुणे मथि ॥ ५२ ॥ नेत्रं रथेऽपि नद्यां च नेत्रो नेतरि वाच्यवत् । पत्रं पर्णे च पक्ष्मे च नृत्योद्यतनटेपि च ॥ ५३ ॥ ;p{0286} ऋत्विगादौ पात्रं स्यात्पारः ? एरंजयन्तमाः । कर्करीपूरयोः पारी पारी पूरपरागयोः ॥ ५४ ॥ हस्तिनः पादरज्ज्वां च पुण्ड्राः स्युर्नीवृदन्तरे । पुण्ड्रो वासन्तिकायां च दिक्षु दैत्यप्रभेदयोः ॥ ५५ ॥ पुण्ड्रस्तिलकभेदेपि पुण्डरीके कृमावपि । पुरं पाटलिपुत्रे स्याद्गृहोपरिगृहे गृहे ॥ ५६ ॥ पुरं देहे गुग्गुलौ तु पुरः पुरि पुरं न ना । दशपूर्वस्तु वालेये पूर्वकाले पुराऽव्ययम् ॥ ५७ ॥ पुरुः स्वर्गे परागे च पुरुः प्राज्यनृपान्तरे । पूरो वारिप्रवाहे स्यात्पूरः स्यात्पिष्टकान्तरे ॥ ५८ ॥ पोत्रं वज्रे मुखाग्रे च सूकरस्य हलस्य च । पौरः पुरभवे वाच्यलिङ्गं पौरं तु कत्तृणे ॥ ५९ ॥ ;p{0287} वक्रः शनैश्चरे वक्रं पुटभेदेऽथ वाच्यवत् । वक्रः स्यात्कुटिले क्रूरे वध्रं त्रपुवरत्रयोः ॥ ६० ॥ बभ्रुर्मुनौ कृशानौ च नकुले च हरीशयोः । पिङ्गलेऽपि विशालेऽपि वभ्रुः स्यादभिधेयवत् ॥ ६१ ॥ त्रिफलायां वरा प्रोक्ता शतावर्यां मता वरी । वारः सूर्यादिदिवसे द्वारेऽप्यवसरे हरे ॥ ६२ ॥ कुब्जवृक्षे च गन्धे च वारं स्यान्मद्यभाजने । वारी तु गजबन्धन्यां घटिकायामपि स्मृता ॥ ६३ ॥ वारिः सरस्वतीदेव्यां वारि ह्रीवेरनीरयोः । वास्रः पुंसि दिने वास्रं मन्दिरेऽपि चतुष्यथे ॥ ६४ ॥ वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्ग्यां नते त्रिषु । वीरा तु रम्भागम्भारीतामलक्यैलवालुषु ॥ ६५ ॥ ;p{0288} स्त्री सुराक्षीरकाकोलीपतिपुत्रवतीष्वपि । गोष्ठोदुम्बरिकाक्षीरविदार्योरपि सा स्मृता ॥ ६६ ॥ वृत्रो दानवशक्रादिध्वान्तवारिदवैरिषु । भद्रो हरे रामबले वृषे मेरुकदम्बके ॥ ६७ ॥ लक्ष्मणाद्योऽवशः शीघ्रं यः प्रक्रुप्यति कोपितः । गजे तत्राऽपि भद्रः स्याद्वाच्यवच्छ्रेष्ठसाधुनोः ॥ ६८ ॥ भद्रं तु करणप्रीतिमुस्तकक्षेमहेमसु । भद्रा तु जाह्नवीरास्नाकृष्णानन्तासु कट्फले ॥ ६९ ॥ भद्रा भद्रालिकायां च गम्भार्यां हेमदुग्धके । भरस्त्वतिशये भारे भरुर्भर्तरि काञ्चने ॥ ७० ॥ भारस्तु वीवधे स्वर्णपलानामयुतद्वये । वाच्यवत्कातरे भीरु भीरुरिन्द्रीवरीस्त्रियोः ॥ ७१ ॥ ;p{0289} भूरि प्राज्ये सुवर्णे च भूरिर्ब्रह्मेशशौरिषु । मन्त्रो वेदान्तरे गुप्तवादे देवादिसाधने ॥ ७२ ॥ मरुर्धन्वनि शैले च मात्रं कार्त्स्न्येऽवधारणे । मात्रा परिच्छदे वित्ते मानेऽल्पे कर्णभूषणे ॥ ७३ ॥ अक्षिभागेऽप्यथो मारो विघ्ने मृत्यौ स्मरे वृषे । मारी जनक्षये चण्ड्यां मित्रं सख्यौ रवौ पुमान् ॥ ७४ ॥ मीरोब्धिशैलनीरेषु मुरो दैत्ये मुरौषधे । यात्राऽनुवृत्तौ गमने यापने देवतोत्सवे ॥ ७५ ॥ विषयोत्पातयो राष्ट्रमस्त्री दैत्ये मृगे रुरुः । रेत्रं रेतसि पीयूषे पारदे पटवासके ॥ ७६ ॥ रोध्रः सावरके लोध्रो रोध्रं पापापराधयोः । रौद्री तु चण्ड्यां रौद्रस्तु त्रिषु तीव्रे भयानके ॥ ७७ ॥ ;p{0290} रौद्रं स्यादातपे क्लीबं रौद्रो नाट्यरसान्तरे । छन्दोभेदे मुखे वक्त्रं स्याद्वज्रा तंत्रिकौषधौ ॥ ७८ ॥ वज्रोऽस्त्री हीरके शम्बे वज्रो योगान्तरे पुमान् । क्लीबं स्यादारनालेऽपि वक्रं वामेऽलकेपि च ॥ ७९ ॥ वप्रस्तातेऽस्त्रियां तीरे तु क्षेत्रचयरेणुषु । वेरं शरीरकाश्मीरवार्ताकीषु नपुंसकम् ॥ ८० ॥ व्याकुलाशक्तयोर्व्यग्रो व्याघ्रो द्वीपिकरञ्जयोः । शरस्तेजनके काण्डे शरं नीरे नपुंसकम् ॥ ८१ ॥ छुरिकायां मता शस्त्री शस्त्रमायुधलोहयोः । शारस्तु शबले वाते शारिः शाकुनिकान्तरे ॥ ८२ ॥ युद्धार्थगजपर्याणे नाऽक्षोपकरणे पणे । आज्ञायामागमे शास्त्रं शिग्रुः काक्षीवशाकयोः ॥ ८३ ॥ ;p{0291} चक्राङ्गोशीरयोः शीघ्रं तूर्णेपि त्रिषु तद्वति । शुक्रः काव्येऽनले ज्येष्ठे शुक्रं रेतोऽक्षिरोगयोः ॥ ८४ ॥ शुक्लेऽपि शुभ्रं त्वभ्रे स्यात्प्रदीप्तश्वेतयोस्त्रिषु । शूरः शूरे भटे ख्यातः शूरः सूर्येपि दृश्यते ॥ ८५ ॥ सत्रं यज्ञे सदादाने कैतवे वसने वने । शरो हारे शरे पुंसि दध्यग्रेऽपि शरः पुमान् ॥ ८६ ॥ क्लीबं तु कानने सान्द्रं सान्द्रं त्रिषु घने मृदौ । सारः स्यान्मज्जनि बले स्थिरांशेऽपि पुमानयम् ॥ ८७ ॥ सारे न्याय्ये जले वित्ते सारं स्याद्वाच्यवद्वरे । निदाघसलिले सिप्रः सिप्रा तु सरिदन्तरे ॥ ८८ ॥ सीरस्तु लाङ्गले पुंसि सीरो दिनपतावपि । सुरो देवे सुरा तु स्यान्मदिरापानपात्रयोः ॥ ८९ ॥ ;p{0292} सूत्रं तु सूचनाग्रन्थे सूत्रं तंतुव्यवस्थयोः । स्थिरन्तु निश्चले मोक्षे शालापर्णीभुवोः स्थिरा ॥ ९० ॥ स्फारः साद्विकटे स्फारः करटादेश्च बुद्बुदैः । स्वरोऽकाराद्युदात्तादिमध्यमादिषु निस्वने ॥ ९१ ॥ स्वरो नासासमीरेऽपि स्वैरं स्वच्छन्दमन्दयोः । स्वरुर्वज्रे शरे यज्ञे यूपखण्डेऽपि च स्वरुः ॥ ९२ ॥ हरिर्गोविन्दवारीन्द्रचन्द्रवातेन्द्रभानुषु । यमाऽहिकपिभेकाश्वशुके शोकान्तरे त्विषि ॥ ९३ ॥ त्रिषु पिङ्गेऽपि हरिते हारो मुक्तावलौ युधि । हिंस्रा काकादनीमांस्योर्हिंस्रः स्याद्घातकेऽन्यवत् ॥ ९४ ॥ रक्तैरण्डेऽप्यथ व्याघ्री स्पृश्या श्रेष्ठे परस्थितः । शक्रः पुलोमजाकान्ते कुटजेऽर्जुनपादपे ॥ ९५ ॥ ;p{0293} शद्रिः शचीपतौ मेघे स्वरुः कुलिशकोपयोः । हीरा पिपीलिकालक्ष्म्योर्हीरो वज्रेऽपि शङ्करे ॥ ९६ ॥ होरा रेखान्तरे शास्त्रभेदे राश्यर्द्धलग्नयोः । क्षरो मेघे क्षरं नीरे क्षारः स्याद्भस्मकाचयोः ॥ ९७ ॥ चूर्णादौ धूर्तलवणे रसभेदेऽपि दृश्यते । क्षीरं नीरेऽपि दुग्धेऽपि वटादीनां पयस्यपि ॥ ९८ ॥ क्षुद्रः स्वल्पाऽधमक्रूरकृपणेष्वभिधेयवत् । क्षुद्रा वेश्यानटीव्यङ्गासरघाबृहतीष्वपि ॥ ९९ ॥ चाङ्गेर्यां कण्टकार्यां च हिंस्रामक्षिकयोरपि । नापितस्योपकरणे गोक्षुरे च क्षुरे क्षुरः ॥ १०० ॥ क्षेत्रं शरीरे दारेषु केदारे सिद्धसंश्रये । क्षौद्रं तु माक्षिके क्लीबं मतं क्षौद्रं पयस्यपि ॥ १०१ ॥ ;p{0294} ;v{रतृतीयम्} ;c{रतृतीयम् ।} अगुरु स्याच्छिंशपायां जोङ्गके लघुनि त्रिषु । अङ्कुरः स्यादभिनवोद्भिदि रोम्ण्यप्सु शोणिते ॥ १०२ ॥ अङ्गारस्तूल्मुके न स्त्री पुस्यङ्गारो महीसुते । वातेऽजिरः प्राङ्गणाङ्गविषये दर्दुरेऽजिरः ॥ १०३ ॥ अन्तरं तु विशेषे स्यादुत्तरीयावकाशयोः । आत्मात्मीयविनांऽतर्द्धिबहिर्म्मध्यावधिष्वपि ॥ १०४ ॥ तादर्थ्येऽवसरे रन्ध्रेऽप्यन्यार्थेऽपि तथान्तरम् । अपरा तु जरायौ स्यादर्वाचीनेऽपरं त्रिषु ॥ १०५ ॥ अपरं त्वधुनार्थेऽपि पश्चाद्गात्रेऽपि दन्तिनाम् । अवरा हिमवत्पुत्र्यां चरमे त्ववरं त्रिषु ॥ १०६ ॥ अवीरा निष्पतिसुता स्त्रियां शौर्योज्झिते त्रिषु । अमरस्तु सुरेऽप्यस्थिसंहारे कुलिशद्रुमे ॥ १०७ ॥ ;p{0295} अमरा त्विन्द्रनगरीदूर्वास्थूणागुडूचिषु । अम्बरं रसकर्प्पासव्योमरागसुगन्धके ॥ १०८ ॥ गृहे कपाटेऽप्यररमशिरोऽर्क्काग्निराक्षसे । असुरो दानवे सूर्ये निशाराश्योर्म्मताऽसुरा ॥ १०९ ॥ अक्षरं न द्वयोर्मोक्षे ब्रह्मणि व्योमवर्णयोः । उत्पत्तिस्थाननिवहश्रेष्ठेषु ख्यात आकरः ॥ ११० ॥ आकार इङ्गितेऽपि स्यात्स्यात्स्थानाह्वानयोरपि । स्यादाधारोऽधिकरणेऽप्यालवालेऽम्बुधारणे ॥ १११ ॥ आसारस्तु प्रसरणे धारावृष्टौ सुहृद्बले । आह्वरं तिमिरे युद्धे स्वाबलायां स्वसाध्वसे ॥ ११२ ॥ आहारो भोजने पुंसि स्यादाहरणहारयोः । इतरः पामरेऽन्यस्मिन्नित्वरो गत्वरेऽन्यवत् ॥ ११३ ॥ ;p{0296} इत्वरो दुर्विधे नीचे पथिके क्रूरकर्म्मणि । ईश्वरो धनसम्पन्ने शिवे व्याधिनि मन्मथे ॥ ११४ ॥ ईश्वरी स्वामिनीगौर्योरीश्वरा स्कन्दमातरि । उत्तरं प्रतिवाक्ये स्याद्विराटतनये पुमान् ॥ ११५ ॥ उत्तरा तु मतोदीच्यामूर्द्ध्वोदीच्योत्तमे त्रिषु । उदरो जठरे युद्धेऽप्युद्धारस्तूद्धृतौ रणे ॥ ११६ ॥ उदारो दातृमहतोर्दक्षिणस्थूलयोस्त्रिषु । सर्वशस्याढ्यमेदिन्यां मेदिन्यामपि चोर्वरा ॥ ११७ ॥ ऋक्षरं वारिधारायां पुंसि ऋत्विजि ऋक्षरः । एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्यनाकुले ॥ ११८ ॥ औशीरं चामरे दण्डेऽप्येकोक्त्या शयनाशने । कर्बुरं पामरेऽपि स्यात्पुंश्चलेऽप्यथ कर्बुरा ॥ ११९ ॥ ;p{0297} दुरालभायां दुःस्पर्शाशूकशिंबीशटीषु च । कुञ्जरो वारणे सूर्ये विरञ्चिमुनिकुक्षिषु ॥ १२० ॥ कङ्करं तु मतं तक्रे कङ्करं कुत्सिते त्रिषु । कटप्रू रक्षसीशेऽक्षदेवने सत्ययौवने ॥ १२१ ॥ कटित्रं कटिवस्त्रे स्यात्काञ्चीचर्माङ्गयोरपि । कडारः पिङ्गले दासे पिङ्गवर्णे तु वाच्यवत् ॥ १२२ ॥ कणेरुः करिणीवेश्याकर्णिकारे गणेरुवत् । कदरः श्वेतखदिरे रुग्भेदे क्रकचे सृणौ ॥ १२३ ॥ वा स्त्री तु कन्दरो दर्यामङ्कुशे पुंसि कन्दरः । कन्धरः पुंसि जलदे ग्रीवायां कन्धरा स्त्रियाम् ॥ १२४ ॥ कबरं लवणेऽम्ले च शाककेशभिदोः स्त्रियाम् । नपुंसकं तु कर्बूरं शटीकाञ्चनयोर्मतम् ॥ १२५ ॥ ;p{0298} कर्परस्तु कपाले स्यादस्त्रभेदकटाहयोः । कररः खगभित्तिश्च करीरः क्रकचार्थकः ॥ १२६ ॥ वंशाङ्कुरे करीरोऽस्त्री पुंसि वृक्षान्तरे घटे । करीरी चीरिकायां च दन्तमूले च दन्तिनाम् ॥ १२७ ॥ कर्करी तु गलन्त्यां स्यात्कर्करो दर्पणे दृढे । कर्बुरो राक्षसे पापे जले हेम्नि च कर्बुरम् ॥ १२८ ॥ कर्बुरा कृष्णवृन्तायां कर्बुरं शबलेऽन्यवत् । कर्वरी तु शिवायां स्याद्व्याघ्रे पुंस्येव कर्बुरः ॥ १२९ ॥ कलत्रं भूभुजां दुर्गास्थानेऽपि श्रोणिभार्ययोः । कान्तार उपसर्गादौ कोशकारान्तरे पुमान् ॥ १३० ॥ कान्तारं दुर्गमार्गेऽपि महारण्येऽपि न स्त्रियाम् । कावेरी तु नदीभेदे हरिद्रापण्ययोषितोः ॥ १३१ ॥ ;p{0299} काश्मीरं कुङ्कुमेऽपि स्याट्टङ्कपुष्करमूलयोः । किंशारुर्विशिखे सस्यशूके कङ्काख्यपक्षिणि ॥ १३२ ॥ किर्म्मीरो दैत्यक्रव्यादभेदयोः कर्बुरे त्रिषु । वर्णमात्रेऽपि किर्म्मीरः किशोरो वाजिबालके ॥ १३३ ॥ सूर्येऽपि तरुणावस्थे तैलपर्ण्यामपि स्मृतः । कुक्कुरः सारमेये स्याद्ग्रन्थिपर्णे तु कुक्कुरम् ॥ १३४ ॥ कुञ्जरो हस्तिकरयोर्धातक्यां पाटलौ स्त्रियाम् । कुठरं मैथिले क्लीबं कुठरं कवलेऽपि च ॥ १३५ ॥ कुठारुः पादपेऽपि स्यात्कर्म्मठेऽपि पुमानयम् । कुमारो बालके स्कन्दे युवराजेऽश्ववारके ॥ १३६ ॥ कीरे च वरुणद्रौ च कुमारं जात्यकाञ्चने । कुमारी कन्यकागौर्योर्नवमल्ल्यां नदीभिदि ॥ १३७ ॥ ;p{0300} सहायराजिताजम्बूद्वीपेषु च मता स्त्रियाम् । कूर्परो जानुमात्रेऽपि कफोणावपि कूर्प्परः ॥ १३८ ॥ कुबेरस्त्र्यंबकसखे नदीवृक्षे कुविग्रहे ॥ १३९ ॥ कुहरः कोटरे छिद्रे नागराजविशेषयोः । कूबरः कुञ्जके चारौ त्रिषु पुंसि युगन्धरे ॥ १४० ॥ केदार आलवालेऽद्रौ क्षेत्रभूभेदशम्भुषु । केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥ १४१ ॥ केसरो बकुले सिंहच्छटायां नागकेसरे । पुन्नागेऽस्त्री तु किंजल्के स्यात्तु हिङ्गुनि केसरम् ॥ १४२ ॥ कौटिरुर्नकुले शक्रे शुक्रगोपेऽपि दृश्यते । कोटरो नागरे कूपे पुष्करिण्याश्च पाटके ॥ १४३ ॥ खण्डाभ्रं योषितां हस्तक्षतभेदेऽभ्रलेशके । खदिरी शाकभेदे स्यात्खदिरो बालपुत्रके ॥ १४४ ॥ ;p{0301} खपुरः क्रमुके भद्रमुस्तके लसके पुमान् । खपुरं तूद्वसपुरे खर्जूरस्तु द्वयोर्द्रुमे ॥ १४५ ॥ द्रुणे धूर्त्तेऽपि खर्जूरो खर्जूरं रजते मतम् । पिण्डपूर्वस्तु खर्जूरो मतः क्ष्मापालकाम्बके ॥ १४६ ॥ खर्परस्तस्करे भिक्षापात्रे धूर्त्तकपालयोः । खिङ्खिराश्च स्त्रियां भूम्नि खिङ्खिरा च शिवान्तरे ॥ १४७ ॥ भिक्षाभाण्डेऽपि भिक्षाणां खट्वाङ्गे वारिबालके । गर्गरो मीनभेदे स्यान्मन्थन्यां गर्गरी स्त्रियाम् ॥ १४८ ॥ गह्वरस्तु गुहायां स्याद्गहने कुञ्जदम्भयोः । गान्धारस्तु स्वरे देशे गान्धारं रक्तवालुके ॥ १४९ ॥ वनेऽपि स्यात्तु गान्धारी धृतराष्ट्रस्य योषिति । गायत्री खदिरे स्त्री स्याच्छन्दोवेदप्रभेदयोः ॥ १५० ॥ ;p{0302} कैवर्त्तीमुस्तके द्वारि पुरद्वारे तु गोपुरम् । घर्घरस्तु चलद्वारिशब्दे घूके नदान्तरे ॥ १५१ ॥ चमरं चामरे वल्ल्यां चमरी मञ्जरौ मृगे । चातुरश्चातुरकवच्चक्रगण्डौ नियन्तरि ॥ १५२ ॥ दृग्गोचरे चाटुकारे चिकुरश्चञ्चले कचे । गृहे बभ्रौ भुजङ्गे च शैले पक्षिद्रुमान्तरे ॥ १५३ ॥ छित्वरं छेदनद्रव्ये छित्वरो धूर्र्तविद्विषोः । छिदिरस्तु बृहद्भानुखड्गरज्जुपरश्वधे ॥ १५४ ॥ जठरं कठिने वृद्धे त्रिषु स्यादुदरेऽस्त्रियाम् । जम्बीरः पुंसि जम्बीरपादपप्रस्थपुष्पयोः ॥ १५५ ॥ जर्जरं वाच्यवज्जीर्णे जर्जरं वासवध्वजे । जलेन्द्रो वरुणे सिन्धौ जलेन्द्रो जम्भले मतः ॥ १५६ ॥ ;p{0303} जमुरिः पुंसि वज्रे स्याज्जमुरिः पावके पुमान् । झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे ॥ १५७ ॥ झल्लरी झलरी च द्वे हुडुक्के बालचक्रके । टगरष्टङ्कणे टैरे हेलाविभ्रमगोचरे ॥ १५८ ॥ टङ्कारः शिञ्जिनीध्वाने प्रसिद्धौ विस्मयेऽपि च । डिङ्गरो वाच्यवत्क्षेपे डिङ्गरो डङ्गरे पुमान् ॥ १५९ ॥ तिमिरं दृग्गदे ध्वान्ते तीवरो लुब्धकेम्बुधौ । तुम्बरी तु मता शुन्यामार्द्रधान्याकयोरपि ॥ १६० ॥ तुषारो हिमतद्भेदशीकरे तद्वति त्रिषु । कषायशृङ्गवृषयोः श्मश्रुपुंसि तु तूवरः ॥ १६१ ॥ स्यात्त्वक्पत्री तु कारव्यां त्वक्पत्रं तु वराङ्गके । दण्डारः कुम्भकृच्चक्रे वहने मत्तवारणे ॥ १६२ ॥ ;p{0304} शरयन्त्रे दन्तुरस्तु विषमोन्नतदन्तयोः । दहरो मूषिकायां स्यात्स्वल्पभ्रातरि बालके ॥ १६३ ॥ दर्द्दरः शैलभेदे स्यात्किञ्चिद्भग्ने तु वाच्यवत् । दर्दुरो भेकघनयोर्वाद्यभाण्डाद्रिभेदयोः ॥ १६४ ॥ दर्दुरा हरकान्तायां ग्रामजाले तु दर्दुरम् । दासेरो दासिकापत्ये त्रिषु पुंसि क्रमेलके ॥ १६५ ॥ दीनारो नाणके स्वर्णमानभेदेऽपि दृश्यते । दुर्द्धरं त्रिषु दुर्द्धर्ये पुमांस्तु ऋषभौषधौ ॥ १६६ ॥ दैत्यारिस्त्रिदिवे विष्णौ द्वापरः संशये युगे । धूसरस्तु खरे स्वल्पपाण्डुरे तद्वति त्रिषु ॥ १६७ ॥ नरेन्द्रः पृथिविनाथे विषवैद्येऽपि वार्त्तिके । गजादौ सरलादर्योर्निष्कलायां च नर्मरा ॥ १६८ ॥ ;p{0305} नागरो नगरोद्भूते विदग्धेऽप्यभिधेयवत् । नागरं मस्तके शुण्ठ्यां रतभेदेऽपि नागरम् ॥ १६९ ॥ निकरो निवहे सारे न्यायदेयघनान्तरे । निकारः स्यात्परिभवे धानस्योत्क्षेपणेऽपि च ॥ १७० ॥ सूर्याश्वे फेनकर्पासतुषवह्निषु निर्झरः । निर्जरस्त्रिदशे त्यक्तजराके त्वभिधेयवत् ॥ १७१ ॥ निर्जरा तु गुडूच्यां स्यात्तालपत्र्यां च दृश्यते । निर्वरं निस्त्रपे सारे निर्भये कठिनेऽपि च ॥ १७२ ॥ निष्ठुरः कठिनेऽपि स्यात्त्रपाशून्येऽपि निष्ठुरः । स्यान्नीवरो वाणिजके वास्तव्ये त्रिषु नीवरः ॥ १७३ ॥ पङ्कारः सेतुसोपानशैवले जलकुब्जके । पञ्जरस्तु शरीरे स्यात्पक्षिपाशे तु पञ्जरम् ॥ १७४ ॥ ;p{0306} पादालिन्दे पदारः स्यात्पदारः पादधूलिषु । पवित्रमुपवीतांबुताम्रे दर्भेऽपि धर्मणि ॥ १७५ ॥ मेध्ये त्रिष्वथ पाटीरः केदारे तितउन्यपि । मूलके वार्तिके वङ्गे वेणुसारेऽपि वारिदे ॥ १७६ ॥ पाण्डुरं स्यान्मरुबके वर्णे ना तद्वति त्रिषु । पामरो वाच्यवन्नीचे मूर्खे स्वस्थेऽपि पामरः ॥ १७७ ॥ राजयक्ष्मणि कीनाशे भक्तशिक्थेपि पार्परः । पार्प्परो भस्ममात्रेऽपि जठरे नीपकेसरे ॥ १७८ ॥ पिञ्जरं कनके पीते त्रिषु पुंसि हयान्तरे । पिठरस्तु मतः स्थाल्यां पिठरं मन्थमुस्तयोः ॥ १७९ ॥ पिण्डारो महिषीपाले क्षेपक्षपणशाखिषु । पीवरः कच्छपे पुंसि पीनेषु त्रिषु पीवरः ॥ १८० ॥ ;p{0307} पुष्करं व्योम्नि पानीये हस्तिहस्ताग्रपद्मयोः । रोगोरगौषधिद्वीपतीर्थभेदेऽपि सारसे ॥ १८१ ॥ काण्डे खड्गफले वाद्यभाण्डवक्त्रे च पुष्करम् । प्रकरो निकुरुम्बे स्यात्प्रकीर्णकुसुमादिषु ॥ १८२ ॥ प्रकरं जोड्गके ज्ञेयं प्रकरी चत्वरावनौ । प्रकारः सदृशे भेदे प्रखरोऽतिखरे त्रिषु ॥ १८३ ॥ प्रखरः स्यात्तुरङ्गादिसन्नाहेऽश्वतरे शुनि । प्रदरः स्त्रीरुजो भेदे प्रदरः शरभङ्गयोः ॥ १८४ ॥ प्रान्तरं दूरशून्याऽध्ववनयोरपि कोटरे । प्रवीरः सुभटेऽपि स्यात्प्रवीरः क्वचिदुत्तरे ॥ १८५ ॥ प्रवरं सन्ततौ गोत्रे प्रवरस्तु वनेऽन्यवत् । प्रकारः सङ्गरे वेशे प्रसरः प्रणयेऽपि च ॥ १८६ ॥ ;p{0308} प्रस्तरः पुंसि पाषाणे मणौ च प्रस्तरः पुमान् । वण्ठरस्तु करीरस्य कोषे स्यात्तालपल्लवे ॥ १८७ ॥ वकोटे स्थगिकारज्जौ लाङ्गूले कुक्कुरस्य च । बदरी कोलिकार्पास्योर्बदरं तु फले तयोः ॥ १८८ ॥ एलापर्ण्यां तु वदरा विष्णुक्रान्तौषधावपि । बन्धूरबन्धुरौ रम्ये नम्रे त्रिष्वथ बन्धुरः ॥ १८९ ॥ बन्धूके विहगे हंसे बन्धुरं तून्नतानते । बन्धुरा पण्ययोषायां वरत्रा वध्रिकान्ययोः ॥ १९० ॥ बर्बरः केशविन्यासे पारसीकेऽपि पामरे । बर्बरा फञ्जिकायां च बर्बरा शाकपुष्पयोः ॥ १९१ ॥ बागरो निर्नरे शाणे वारके वारवेष्टयोः । बागरो विगतातङ्के मुमुक्षौ च विशारदे ॥ १९२ ॥ ;p{0309} वासरो दिवसे पुंसि नागभेदेऽपि वासरः । वासुरा वासितायां स्यान्निशाभूम्योश्च वासुरा ॥ १९३ ॥ भार्यारुः क्रीडया यस्य पुत्रोऽभूत्परयोषिति । तस्मिन्मृगाद्रिभेदे च भास्करो वह्निसूर्ययोः ॥ १९४ ॥ भृङ्गारी झिल्लिकायां स्याद्भृङ्गारः कनकालुके । भ्रमरः कामुके भृङ्गे भ्रामरं माक्षिकाश्मयोः ॥ १९५ ॥ मकरस्तु मराले स्यान्निधिराशिप्रभेदयोः । मकुरो मुकुरश्चैव दर्पणे बकुलद्रुमे ॥ १९६ ॥ मत्सरोऽन्यशुभद्वेषे मात्सर्ये क्रुधि मत्सरः । त्रिषु तद्वत्कृपणयोर्मक्षिकायां तु मत्सरा ॥ १९७ ॥ मन्दारः सिन्धुरे धूर्त्ते मधुद्रौ भृङ्गकामिनोः । मधुरस्तु रसे पुंसि मधुरं तु विषान्तरे ॥ १९८ ॥ ;p{0310} मधुरो रसवत्स्वादुप्रियेषु त्रिषु वाच्यवत् । मधुरा मधुकुक्कुट्यां शतपुष्पाऽपुरीभिदोः ॥ १९९ ॥ मिश्रेयाशुक्रयोर्मेदामधुलीयष्टिकासु च । मन्थरः सूचके कोशे मन्थानेऽप्यथ मन्थरम् ॥ २०० ॥ कुसुंभ्यां मन्थरस्तु स्यान्मन्दे वक्रे पृथौ त्रिषु । मन्दारः स्वर्गमन्दारमन्थशैलेषु पुंस्ययम् ॥ २०१ ॥ मन्दरस्तु मतो मन्दे बहलेऽप्यभिधेयवत् । मन्दिरं नगरेऽगारे मन्दिरो मकरालये ॥ २०२ ॥ मंदारो देववृक्षे स्यात्पारिभद्रार्कपर्णयोः । मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ॥ २०३ ॥ मयूरः शिख्यपामार्गशिखिचूडासु दृश्यते । मर्मरो वस्त्रभेदेऽपि पत्रभेदेऽपि मर्मरः ॥ २०४ ॥ ;p{0311} मर्मरी दारुवर्णिन्यां पीतदारौ च मर्म्मरी । मसूरो मसुरश्चैव व्रीहिभित्पण्ययोषितोः ॥ २०५ ॥ मसूरा मसुरा चात्र मसूरी पापरुग्भिदि । मिहिरस्तपने बुद्धे महेन्द्रे वासवे गिरौ ॥ २०६ ॥ स्यात्पारिपार्श्विके भानोर्द्विजभेदेऽपि माठरः । मायूरं चापि मार्जारं क्रीडाबन्धे च तद्गणे ॥ २०७ ॥ मार्जार ओतौ खट्टाशे मुदिरः कामुकेऽम्बुदे । लोष्टादिभेदनोपाये मल्लीभेदेऽपि मुद्गरम् ॥ २०८ ॥ मुर्मुरः सूर्यतुरगे तुषवह्नौ च मन्मथे । मुहिरः पुंसि मदने मूर्खे तु मुहिरस्त्रिषु ॥ २०९ ॥ रुधिरं कुङ्कुमे रक्ते रुधिरो भूमिनन्दने । वठरः कुमठेऽपि स्याद्वठरः शठवस्त्रयोः ॥ २१० ॥ ;p{0312} बर्करस्तरुणे वाच्यलिङ्गो मेषे तु वर्करः । वल्लूरं त्रिषु संशुष्कमांसे मांसे च दंष्ट्रिणः ॥ २११ ॥ वल्लूरस्तू्षरे क्लीबं वनक्षेत्रेऽपि वाहने । वल्लरी वल्लरं चैव मञ्जर्यामथ वल्लरः ॥ २१२ ॥ शाद्वले निर्झरस्थाने बिल्वक्षेत्रनिकुञ्जयोः । वशिरः सिन्धुलवणकिणिहीभकणार्थकः ॥ २१३ ॥ वार्द्दरं दक्षिणावर्त्तशङ्खे वारि च वार्दरम् । वार्दरं रक्तगुञ्जायां बीजेपि कृमिजेऽपि च ॥ २१४ ॥ धूपेऽपि पक्षिवासाय गृहकुम्भेऽपि वासतुः । विकारो विकृतौ रोगे विदारो दारणे रणे ॥ २१५ ॥ विदुरः पण्डिते खिड्गे कौरवाणां च मन्त्रिणि । विधुरं तु प्रविश्लेषे प्रत्यवायेऽपि तन्मतम् ॥ २१६ ॥ ;p{0313} विधुरा तु रसालायां विधुरं विकलेन्यवत् । विवरं वर्त्तते गर्त्ते दोषेऽपि छिद्ररन्ध्रवत् ॥ २१७ ॥ विसरः प्रसरे पुंसि विसरो निकुरम्बके । विस्तरः पुंसि विस्तारे प्रपञ्चे प्रणयेऽपि च ॥ २१८ ॥ विस्तारः पुंसि विटपे विस्तारो विस्तृतावपि । विष्टरः कुशमुष्टौ स्यादासनेऽपि महीरुहे ॥ २१९ ॥ विहारो भ्रमणे स्कन्धे सुगतालयलीलयोः । छन्दोभेदे नदीभेदे मेखलायां च शक्वरी ॥ २२० ॥ शङ्करः पार्वतीनाथे त्रिषु कल्याणकारिणि । शणीरं शोणमध्यस्थपुलिने दर्दरीतटे ॥ २२१ ॥ शर्करा शर्करायुक्तदेशे स्यात्कर्परांशके । शकले खण्डविकृतावुपलायां च तद्भिदि ॥ २२२ ॥ ;p{0314} शर्वरी तु त्रियामायां हरिद्रायोषितोरपि । श(ब)वरो म्लेच्छभेदेऽपि शबरः शङ्करे जले ॥ २२३ ॥ शक्वरस्तु वलीवर्दे छन्दोभेदे तु शाक्वरम् । शाङ्करिर्विघ्नपे स्कन्दे शारीरो देहजे वृषे ॥ २२४ ॥ शार्करो दुग्धफेने स्याद्वाच्यवच्छर्करावति । शार्वरं त्वन्धतमसे घातुके त्रिषु शार्वरम् ॥ २२५ ॥ शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे । शावरो लोध्रवृक्षे स्यात्तथा पापाऽपराधयोः ॥ २२६ ॥ शावरी शूकशिम्ब्यां च तद्भवे त्रिषु शावरम् । शिखरं शैलवृक्षाग्रे कक्षापुलककोटिषु ॥ २२७ ॥ पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । शिलीन्ध्रस्तु पुमान्मीनभेदे वृक्षप्रभेदयोः ॥ २२८ ॥ ;p{0315} शिलीन्ध्रं कवके रम्भापुष्पत्रिपुटयोरपि । शिलीन्ध्री विहगीभेदे तथा गण्डूपदीमृदि ॥ २२९ ॥ शिशिरस्तु ऋतौ पुंसि तुषारे शीतलेऽन्यवत् । शीकरः शरले वाते निःसृताम्बुकणेषु च ॥ २३० ॥ शुषिरं विवरे वाद्ये नाऽग्नौ रन्ध्रवति त्रिषु । शृङ्गारः सुरते नाट्यरसे द्विरदभूषणे ॥ २३१ ॥ शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमे मतम् । सङ्कारोऽग्निचटत्कारे सम्मार्जन्यपमार्जिते ॥ २३२ ॥ नरदूषितकन्यायां सङ्करी क्वचिदिष्यते । सङ्गरस्तु प्रतिज्ञाजिक्रियाकारे विषापदोः ॥ २३३ ॥ सङ्गरं स्यात्फले शम्याः सम्भारः सम्भृतौ गणे । संवरस्तु मृगक्ष्माभृद्दैत्यमत्स्यजिनान्तरे ॥ २३४ ॥ ;p{0316} संबरं सलिले बौद्धव्रतभेदे घनेऽपि च । संबरी त्वौषधीभेदे सामुद्रं त्वङ्गलक्षणे ॥ २३५ ॥ सामुद्रं स्यात्समुद्रीयलवणादिषु वाच्यवत् । सावित्री देवताभेदे सावित्रः पार्वतीपतौ ॥ २३६ ॥ सिन्दूरस्तरुभेदे ना सिन्दूरं रक्तवालुके । सिन्दूरमपि सिन्दूरयुक्तलेखे महीभृताम् ॥ २३७ ॥ सिन्दूरी धातकीरक्तचेलिकारोचनीष्वपि । सुन्दरी नायिकाभेदे तरुभेदेऽपि सुन्दरी ॥ २३८ ॥ सुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः । सैरिन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ॥ २३९ ॥ वर्णसङ्करजायादौ वधाद्यां च महल्लके । सौवीरं काञ्जिके स्रोतोञ्जने बदरदेशयोः ॥ २४० ॥ संस्कारः पुंस्यनुभवे सङ्कल्पप्रतियत्नयोः । संस्तरः प्रस्तरे पुंसि पुंसि यज्ञेपि संस्तरः ॥ २४१ ॥ ;p{0317} हिण्डीरस्तु पुमान्फेने तथा वातिङ्गने नरि । ;v{रचतुर्थम्} ;c{रचतुर्थम् ।} अकूपारः स्रवन्तीनां नाथे कर्म्मठनायके ॥ २४२ ॥ अग्निहोत्रो मतो वह्नौ वह्निहोत्रे हविष्यपि । अनुत्तरं त्रिषु श्रेष्ठे प्रतिवाक्यविवर्जिते ॥ २४३ ॥ उपर्युदीच्यश्रेष्ठानां विपर्यासे त्वनुत्तरः । वधे युद्धेऽप्यभिमरः स्वबलादपि साध्वसे ॥ २४४ ॥ अभिहारोऽभियोगे स्याच्चौर्ये सन्नहनेऽपि च । अरुष्करस्तु भल्लाते व्रणकारिणि वाच्यवत् ॥ २४५ ॥ अर्द्धचन्द्रस्तु खण्डेन्दौ गलहस्ते शरान्तरे । चन्द्रकेऽप्यर्द्धचन्द्रः स्यादर्द्धचन्द्रा त्रिवृद्भिदि ॥ २४६ ॥ अलङ्कारस्तु भूषायामुपमादिगुणेषु च । भवेदवसरः पुंसि मतः प्रस्ताववर्षयोः ॥ २४७ ॥ ;p{0318} अवतारोऽवतरणे तीर्थखातादिकेपि च । अवहारः पुमान्ग्रामे युद्धद्यूतादिविभ्रमे ॥ २४८ ॥ निमन्रणोपनेतव्ये द्रव्ये चौरे च सम्मतः । अवस्करः पूमान्गूथे गुह्येऽपि स्यादवस्करः ॥ २४९ ॥ भवेदश्वतरो वेगसरे नागाधिपान्तरे । असिपत्रः पुमान्कोषकारेऽपि नरकान्तरे ॥ २५० ॥ आडम्बरः करीन्द्राणां गर्जिते तूर्यनिस्वने । समारम्भे प्रपञ्चे च रचनायां च दृश्यते ॥ २५१ ॥ आत्मवीरो महाप्राणे श्यालपुत्रे विदूषके । इन्दीवरं कुवलये वर्यामिन्दीवरी स्त्रियाम् ॥ २५२ ॥ उदुम्बरो जन्तुफले देहल्यां लघुमेढ्रके । उदुम्बरं कुष्ठभेदे ताम्रेऽपि स्यादुदुम्बरम् ॥ २५३ ॥ ;p{0319} उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटदन्तयोः । उपकारो मतः कीर्णकुसुमायुधकृत्ययोः ॥ २५४ ॥ उपह्वरं समीपे स्याद्रहोमात्रेऽप्युपह्वरम् । औदुम्बरः श्राद्धदेवे रोगभेदे नपुंसकम् ॥ २५५ ॥ कटम्भरा प्रसारिण्यां रोहिणीकरियोषितोः । कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ॥ २५६ ॥ करवीरोऽश्वमारे स्याद्दैत्यभेदकृपाणयोः । सपुत्रादेवसूश्रेष्ठगवीषु करवीर्यपि ॥ २५७ ॥ मल्लिकाप्रतिहार्योस्तु करवीरी क्वचिन्मता । कर्णिकारो मतः पुंसि शम्याके च द्रुमोत्पले ॥ २५८ ॥ कर्णपूरं कुवलयेऽप्यवतंसशिरीषयोः । त्रिषु कर्म्मकरो भृत्ये भृतिजीविनि कर्षके ॥ २५९ ॥ ;p{0320} मूर्वायां बिम्बिकायां च स्त्रियां कर्म्मकरी क्वचित् । कलिकारस्तु धूम्याटे पीतमुण्डे करञ्जके ॥ २६० ॥ कादम्बरस्तु दध्यग्रे मद्यभेदेऽपि न द्वयोः । कादम्बरी परभृतासीधुगीःसारिकास्वपि ॥ २६१ ॥ कालंजरो योगिचक्रमेलके भैरवे गिरौ । देशभेदेऽपि पार्वत्यां भवेत्कालञ्जरी मता ॥ २६२ ॥ कुम्भकारः कुलाले स्यात्कुलथ्यां तु स्त्रियामपि । कृष्णसारो मृगे पुंसि स्नुहीशिंशपयोः स्त्रियाम् ॥ २६३ ॥ गङ्गाधरो गिरिसुतानाथे नाथे च पाथसाम् । गिरिसारस्तु लौहे स्यान्मलयाचललिङ्गयोः ॥ २६४ ॥ कम्बलच्छन्नदोलायां कुन्थाङ्गेऽपि गृहाम्बरः । घनसारोऽप्सु कर्पूरे दक्षिणावर्त्तपारदे ॥ २६५ ॥ ;p{0321} भवेच्चक्रधरो विष्णौ भुजङ्गे ग्रामजालिनि । चराचरं तु भुवने स्यादिङ्गे जङ्गमे त्रिषु ॥ २६६ ॥ चर्म्मकारः पुमान्पादूकृति चर्मकषौषधौ । चर्म्मकारी स्त्रियां चित्राटीरस्तु रजनीपतौ ॥ २६७ ॥ घण्टाकर्णवलिहतच्छागास्रतिलकेऽपि च । जटाटीरो जटायां स्यादोकणे पार्वतीपतौ ॥ २६८ ॥ वरोहे पादपानां च समावेदोक्तवैजवे । रण्डायां तालपत्री स्यात्तालपत्रं तु कुण्डले ॥ २६९ ॥ तुङ्गभद्रा नदीभेदे तुङ्गभद्रो मदोत्कटे । तुण्डिकेरी तु कर्पास्यां बिम्बिकायामपि स्त्रियाम् ॥ २७० ॥ तुलाधारस्तुलाराशौ तुलाधारो वणिक्ष्वपि । भवेत्तोयधरो मेघे मुस्तके सुनिषण्णके ॥ २७१ ॥ ;p{0322} यमे नृपे दण्डधरो दण्डधारो यमे नृपे । दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥ २७२ ॥ क्लीबं दशपुरं देशे पुरगोनर्दयोरपि । दिगम्बरस्तु क्षपणे नग्ने ध्वान्ते च शूलिनि ॥ २७३ ॥ दरोदरं पणे द्यूते द्यूतकारे दुरोदरः । देहयात्रा मता मृत्यौ देहयात्राऽपि भोजने ॥ २७४ ॥ द्वैमातुरो जरासन्धे द्वैमातुर इभानने । धराधरश्चक्रधरे क्ष्माधरे च धराधरः ॥ २७५ ॥ भवेद्धाराधरो वारिवाहिनिस्त्रिंशयोः पुमान् । धाराङ्कुरस्तु ना सीरे करकायां च शीकरे ॥ २७६ ॥ धाराष्ट्रोऽसितैश्चञ्चुपदैर्हंसेऽपि कौरवे । सर्पेऽप्यथो धवतरौ धूर्वहे च धुरन्धरः ॥ २७७ ॥ ;p{0323} धुन्धुमारः शक्रगोपे गृहधूमे पदालिके । धृतराष्ट्रस्त्वांबिकेये पक्षिभेदे सुराज्ञि च ॥ २७८ ॥ धृतराष्ट्री मता हंसपदीनामौषधान्तरे । नभश्चरो घने विद्याधरे वाते विहङ्गमे ॥ २७९ ॥ निशाचरः फेरवभूतरक्षोभुजङ्गघूकेषु निशाचरी तु । भवेदसत्यां हि निषद्वरः स्यात्पङ्के निशायां तु निषाद्वरी स्यात् ॥ २८० ॥ परम्परः प्रपौत्रादौ मृगभेदे परम्परः । परम्परा तु सन्ताने खड्गकोशे परिच्छदे ॥ २८१ ॥ भवेत्परिसरो दैवोपात्ते मृत्युप्रदेशयोः । यूथभ्रष्टपृथक्चारिगजे पक्षचरो विधौ ॥ २८२ ॥ पात्रटीरो जरत्पात्रे मुक्तव्यापारमन्त्रिणि । सिङ्घाणे लौहकांस्ये च जतुपात्रे च पाठके ॥ २८३ ॥ ;p{0324} पारावारः सरिन्नाथे पारावारं तटद्वये । पारिभद्रः पुमान्निम्बतरौ मन्दारपादपे ॥ २८४ ॥ मतः पीताम्बरश्चक्रपाणौ पीताम्बरो नटे । पीतसारस्तु गोमेदे मणौ मलयसम्भवे ॥ २८५ ॥ पूर्णपात्रं तु सम्पूर्णपात्रे वर्धापकेऽपि च । यात्रायां पटहे चैव पूर्णपात्रमिति स्मृतम् ॥ २८६ ॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहारी त्वनन्तरा । पुंसि प्रतिसरो माल्ये चमूपृष्ठेऽपि कङ्कणे ॥ २८७ ॥ भूषायां व्रणशुद्धौ च नियोज्याऽऽरक्षयोरपि । मन्त्रभेदे स्त्रियां पुंसि हस्तसूत्रेऽपि न स्त्रियाम् ॥ २८८ ॥ समे प्रतिक्रियायां च प्रतीकारो भटेऽपि च । प्रभाकरोर्के दहने वक्रनक्रः शुके खले ॥ २८९ ॥ ;p{0325} बलभद्रा कुमार्यां स्यात्त्रायमाणे वले पुमान् । वार्वटीरस्त्रपौ चूतास्थ्यङ्कुरे गणिकासुते ॥ २९० ॥ उकणे वारकीरः स्यान्नीराजितहयेऽपि च । वीरभद्रोऽश्वमेघाश्वे महावीरेऽपि वीरणे ॥ २९१ ॥ क्लीबं वीरतरं वीरश्रेष्ठे वीरणगुन्द्रयोः । मणिच्छिद्रा तु मेदायामृषभाख्यौषधावपि ॥ २९२ ॥ महावीरस्तु गरुडे शूरे कण्ठीरवे पवौ । महावीरः पिके चाश्वमखाग्नौ च जराटके ॥ २९३ ॥ महामात्रो हस्तिपके समूहामात्ययोरपि । रथकारस्तु माहिष्यात्करणीजेऽपि तक्षणि ॥ २९४ ॥ रागसूत्रं तुलासू्त्रे पट्टसूत्रेऽपि न द्वयोः । वसन्तकङ्कणाभिख्यशङ्खे नोगण्डिपट्टके ॥ २९५ ॥ ;p{0326} दग्धदीपदशाष्वेष मतो लङ्गंश्चतुः पुमान् । लम्बोदरः स्यादुध्माने हेरम्बे लम्बकुक्षिके ॥ २९६ ॥ लक्ष्मीपुत्रस्तु कन्दर्पे लक्ष्मीपुत्रस्तुरङ्गमे । वातपुत्रो महाधूर्त्ते हनूमद्भीमयोरपि ॥ २९७ ॥ बिन्दुतन्त्रः पुमाञ्शारिफलके चतुरङ्गके । विभाकरो बृहद्भानौ चित्रभानौ विभाकरः ॥ २९८ ॥ विभावरी तमस्विन्यां हरिद्रायां विभावरी । विवाहवस्त्रगुण्ठ्याञ्च कुट्टिन्यां वक्रयोषिति ॥ २९९ ॥ विश्वम्भरो हरौ शक्रे स्त्रियां विश्वम्भरा भुवि । विश्वकद्रुः खले ध्वाने स्यादाखेटिककुक्कुरे ॥ ३०० ॥ वीतिहोत्रो बृहद्भानौ वीतिहोत्रो दिवाकरे । भवेद्व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ॥ १ ॥ व्यवहारो व्यवहृतौ वृक्षभेदे स्थितावपि । शतपत्रो राजकीरे दार्वाघाटे शिखण्डिनि ॥ २ ॥ ;p{0327} शतपत्रं तु राजीवे वरीशुण्ठ्योः शतावरी । शिशुमारो जलकपौ तारात्मकहरावपि ॥ ३ ॥ समुद्रारुर्मतः सेतुबन्धे ग्राहे तिमिङ्गिले । संप्रहारो मृतौ युद्धे झिण्ट्यां सहचरी द्वयोः ॥ ४ ॥ स्याद्वयस्ये सहचरस्त्रिषु प्रतिकृतौ पुमान् । सालसारो मतो हिङ्गौ सालसारो महीरुहे ॥ ५ ॥ सुकुमारस्तु पुण्ड्रेक्षौ कोमले त्वभिधेयवत् । सूत्रधारो मतः शिल्पिप्रभेदेऽपि पुरन्दरे ॥ ६ ॥ नान्द्यनन्तरसञ्चारिपात्रभेदेऽपि स स्मृतः । स्थिरदंष्ट्रो भुजङ्गे स्याद्वराहाकृतिकेशवे ॥ ७ ॥ ;v{रपञ्चमम्} ;c{रपञ्चमम् ।} उत्पलपत्रं तूत्पलच्छदे योषिन्नखक्षते । स्वर्गनद्यां तु कपिलधारा तीर्थान्तरे पुमान् ॥ ८ ॥ ;p{0328} तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च । तालीशपत्रं तालीशे तामलक्या च न द्वयोः ॥ ९ ॥ सैकते करके छागे पिप्पले पादचत्वरः । परदीपप्रकाशैकतत्परेऽपि मतो नरे ॥ १० ॥ क्लीबं तु पीतकाबेरं पित्तले कुङ्कुमेऽपि च । स्यात्पांशुचामरो धूलीगुच्छकेऽपि प्रशंसने ॥ ११ ॥ वर्द्धापके पुरोटौ च दूर्वाञ्चिततटीभुवि । बकुले वेधके नागकुसुमे नागकेसरः ॥ १२ ॥ स्याद्राजबदरं रक्तामलके लवलीफले । रोमगुच्छे च मन्तौ च रोमकेसर इष्यते ॥ १३ ॥ वस्वौकसारा श्रीदस्य नलिन्यामलकापुरि । विप्रतीसारः कौकृत्ये रोषेऽप्यनुशयेऽपि च ॥ १४ ॥ ;p{0329} मतः समभिहारस्तु पौनःपुन्ये भृशार्थके । पुंस्येव सर्वतोभद्रः काव्यचित्रे गृहान्तरे ॥ १५ ॥ निम्बेऽथ सर्वतोभद्रा गम्भार्यां नटयोषिति ॥ १६ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां रेफान्तवर्गः समाप्तः ॥} ;k{लान्तवर्गः} ;c{अथ लान्तवर्गः ।} ;v{लैकम्} ;c{लैकम् ।} ल इन्द्रे ला तु दाने स्यादाश्लेषेऽपि लयेऽपि च । अपि लूश्छेदके पुंसि लवणे लूरपि स्मृता ॥ १ ॥ ;v{लद्वितीयम्} ;c{लद्वितीयम् ।} अम्लो रसप्रभेदे स्यादम्ली चाङ्गेरिकौषधौ । अलिर्भृङ्गे सुरायां स्त्री स्यादालिः पिण्डले स्त्रियाम् ॥ २ ॥ सख्यां पड्क्तावपि ख्याता वाच्यवद्विशदाशये । आलुर्गलन्तिकायां स्त्री क्लीबे भेलककन्दयोः ॥ ३ ॥ ;p{0330} इला गोभूमिपीयूषे भारत्यां सौम्ययोषिति । ओल्लस्तु सूरणे पुंसि स्यादार्द्रे त्वभिधेयवत् ॥ ४ ॥ कलस्तु मधुराव्यक्तशब्देऽजीर्णे कलं सिते । कला तु षोडशांशे स्यादिन्दोरप्यंशमात्रके ॥ ५ ॥ मूलार्थवृद्धौ शिल्पादौ कलनाकालभेदयोः । कलिरन्त्ययुगे कन्दे कन्दले सुभटे पुमान् ॥ ६ ॥ कालस्तु समये मृत्यौ महाकाले यमे शितौ । कृष्णे त्रिष्वथ काली स्यात्कालिकामातृभेदयोः ॥ ७ ॥ गौर्यां नवाम्बुदानीके क्षीरकीटापवादयोः । काला तु कृष्णत्रिवृत्ति नीलीमञ्जिष्ठयोरपि ॥ ८ ॥ कीला कफोणिघाते स्यात्कीले शङ्कौ च कीलवत् । कुलं सजातीयगणे गोत्राङ्गगृहनीवृति ॥ ९ ॥ ;p{0331} कूलं प्रतीरे सैन्यस्य पृष्ठे स्तूपतडागयोः । कोलोङ्कपालावुत्सङ्गे क्रोडे भेलकचित्रयोः ॥ १० ॥ खञ्जे कोलं तु कुवले कोला पिप्पलिचव्ययोः । खलः शठेऽधमे नीचे त्रिषु स्यात्तु खलं भुवि ॥ ११ ॥ खलं स्थानेऽपि कल्केऽपि सस्यस्थानेऽपि न द्वयोः । खल्ला चर्म्मणि निम्नेऽपि वस्त्रभेदेऽपि चातके ॥ १२ ॥ खल्ली तु हस्तपादावमर्द्दनाख्यरुजि स्त्रियाम् । खिलं भवेदप्रहते सारसङ्क्षिप्तवेधसोः ॥ १३ ॥ गलः कण्ठे सर्ज्जरसे गलः स्कन्धे महीरुहे । गोला गोदावरीसख्योर्गोला पत्राञ्जने मता ॥ १४ ॥ कुनट्यामपि गोलं तु मणिके मण्डलेऽपि च । चलश्चलाचले कम्पे कमलाविद्युतोश्चला ॥ १५ ॥ ;p{0332} चालश्छदिषि पुंस्येव चालः स्यात्कम्पनेऽपि च । क्लिन्नाक्षितायिनश्चिल्लश्चिल्ली स्यात्क्षुद्रवास्तुके ॥ १६ ॥ क्लिन्ननेत्रयुते तु स्याच्चिल्लः खुल्लश्च वाच्यवत् । चुल्लः क्लिन्नेऽक्ष्णि चुल्ली तु चितावुद्धानवाद्ययोः ॥ १७ ॥ चेलं स्यादंशुके नीचे गर्हितेप्यभिधेयवत् । छल्ली तु वल्कले पुष्पभेदे सन्नतिवीरुधोः ॥ १८ ॥ छलं तु स्खलितेऽपि स्याद्व्याजेऽपि छलमद्वयोः । जलं शोकरवे नीरे ह्रीवेरेऽपि जडे त्रिषु ॥ १९ ॥ जालस्तु क्षारकानायगवाक्षे दम्भवृक्षयोः । जाली पटोलिकायां स्याज्जालौ नीपमहीरुहे ॥ २० ॥ झला स्यादातपस्योर्मौ तथा पुत्रीसुलुक्कयोः । झिल्ली त्वातपरुग्वन्द्यां झीरुकोद्वर्त्तनांशयोः ॥ २१ ॥ ;p{0333} तलस्ताले तलं खड्गमुष्टौ ज्याघातवारणे । वने चपेटे न स्त्री तु स्वरूपाऽऽधारयोस्तलम् ॥ २२ ॥ तल्ली तरुण्यां तल्लस्तु बिल्ले पुंसि नपुंसके । तालो द्रुमान्तरेङ्गुष्ठमध्यमाभ्यां च सम्भिते ॥ २३ ॥ गीतकालक्रियाभावे तालः खड्गादिमुष्टिषु । तालः स्यात्कांस्यरचितवाद्यभाण्डान्तरे तथा ॥ २४ ॥ करास्फारे करतले तालं तु हरितालके । तुला राशौ पलशते तुल्यतामानभेदयोः ॥ २५ ॥ बन्धाय गृहदारूणां पीठिकायां सभाजने । तूलः पिचौ पुमांस्तूलमाकाशे ब्रह्मदारुणि ॥ २६ ॥ अपद्रव्ये छदोच्छ्रायखण्डे शस्त्रीछदे दलम् । डुलिः पुंसि मुनेर्भेदे कमठ्यां तु स्त्रियां डुलिः ॥ २७ ॥ ;p{0334} दोला यानान्तरे नील्यां धूलिः सङ्ख्यान्तरे रजे । नलः पोटगले राज्ञि कपीशे पितृदैवते ॥ २८ ॥ नली मनःशिलायां स्यान्नलं तु सरसीरुहे । पद्मदण्डे न ना नाला नाली शाककदम्बके ॥ २९ ॥ नाला पानकरङ्कादिरन्ध्रे नालस्तु पञ्जरे । नीलस्तु कृष्णवर्णे स्यात्त्रिषु नीलः कपीश्वरे ॥ ३० ॥ नीलो नगान्तरे कृष्णे नीलं वृक्षाङ्कभेदयोः । पल्ली तु कुट्यां कुग्रामे पल्लः स्थूलकुसूलयोः ॥ ३१ ॥ पलं मासे तथोन्माने पालिः पङ्किप्रदेशयोः । प्रस्थे कर्णलताग्रेंऽशे यूकासश्मश्रुयोषितोः ॥ ३२ ॥ इन्द्रादेर्देयभागे च विश्राम्य चागतज्वरे । अश्रौ चिह्ने च पिल्लस्तु क्लिन्नेऽक्ष्णि त्रिषु तद्वति ॥ ३३ ॥ ;p{0335} पीलुर्द्रुमे गजे पुष्पे काण्डतालास्थिखण्डयोः । अणुमात्रेऽप्यथ पुलः पुलके विपुले त्रिषु ॥ ३४ ॥ फलं तु सस्ये हेतूत्थे फलके व्युष्टिलाभयोः । जातीफलेऽपि कङ्कोले मार्गणाग्रेऽपि न द्वयोः ॥ ३५ ॥ स्यात्फलं त्रिफलायां च फलिन्यां तु फली स्त्रियाम् । फालं सीरस्य लौहे स्यात्कर्पासादेश्च वाससि ॥ ३६ ॥ बलो हलिनि दैत्येङ्गे काके बलिनि वाच्यवत् । बलं गन्धरसे सैन्ये स्थामनि स्थौल्यरूपयोः ॥ ३७ ॥ बला वाट्यालके प्रोक्ता बलिः पुंस्यसुरान्तरे । बलिश्चामरदण्डेपि करपूजोपहारयोः ॥ ३८ ॥ सैन्धवेपि बलिः स्त्री तु जरसा श्लथचर्म्मणि । कुक्षिभागविशेषे च गृहकाष्ठान्तरे द्वयोः ॥ ३९ ॥ ;p{0336} बल्ली स्यादजमोदायां लतायां कुसुमान्तरे । बालः पुंसि शिशौ केशे वाजिवारणबालधौ ॥ ४० ॥ मूर्खेऽपि बालो बालं तु ह्रीबेरे पुंनपुंसकम् । बिलं गुहायां रन्ध्रे च बिलस्त्विन्द्रहये पुमान् ॥ ४१ ॥ वेला कालेऽपि सीमायामीश्वराणां च भोजने । दत्तमांसेऽधिवेला स्यात्पयोनाशेऽपि नीरधेः ॥ ४२ ॥ तन्नीरेऽक्लिष्टमरणे राशौ वाचि बुधस्रियाम् । भल्लो बाणेऽपि भल्लूके भल्ली भल्लातबाणयोः ॥ ४३ ॥ भालं तु न द्वयोरेव ललाटमहसोर्मतम् । ऋषिभेदे प्लवे भेलो भेलं भीरुहृदि त्रिषु ॥ ४४ ॥ मलस्त्रिष्वेव कृपणे न स्त्री विट्किट्टकिल्विषे । मल्लः पात्रे कृपाले च मत्स्यभेदे कपालिनि ॥ ४५ ॥ ;p{0337} भल्लो बलाढ्ये सुभगे मल्ली तु कुसुमान्तरे । मालुः पत्रलतायां स्याद्वनितायामपि स्त्रियाम् ॥ ४६ ॥ मालं क्षेत्रे जने मालो माला पुष्पादिदामनि । मूलमाद्यशिफापार्श्वकुञ्जे मूलेऽपि तारके ॥ ४७ ॥ मसिमेलकयोर्मेला मौलिर्धम्मिल्लचूडयोः । किरीटेऽपि द्वयोरेव पुंसि वञ्जुलपादपे ॥ ४८ ॥ लीला हावान्तरे स्त्रीणां केलौ खेलाविलासयोः । लोला जिह्वाश्रियोर्लोलः सतृष्णचलयोस्त्रिषु ॥ ४९ ॥ व्यालः शठे भुजङ्गे च श्वापदे दुष्टदन्तिनि । शलं तु शल्लकीलोम्नि शलो भृङ्गिगणे विधौ ॥ ५० ॥ शालो मत्स्यान्तरे वृक्षसामान्ये हालभूभुजि । शाला वेश्मनि वेश्मैकप्रदेशे स्कन्धशाखयोः ॥ ५१ ॥ ;p{0338} शालुः कषायद्रव्येपि शालुश्चोराख्यभेषजे । मतः शालिः पुमान् गन्धमार्जारे कलमादिषु ॥ ५२ ॥ शिला कुनट्यां द्वाराधोदारुणि ग्रावणि स्त्रियाम् । शिलमुञ्छशिले क्लीबं गण्डूपद्यां शिली मता ॥ ५३ ॥ शीलं स्वभावे सद्वृत्ते शुक्ले धवलयोगयोः । शुक्लं तु रूप्यके शुक्लां त्रिषु शुक्लगुणान्विते ॥ ५४ ॥ शूलं मृत्यौ ध्वजे ना तु योगे न स्त्री रुगस्त्रयोः । शूला तु पण्ययोषायां दुष्टनाशाय कीलकः ॥ ५५ ॥ शैलः क्षमाभृति शैलं तु शैलेये तार्क्ष्यशैलके । शालः स्याद्धरणे हाले पादपे सर्जपादपे । स्थालं भाजनभेदे स्यात्स्थाली स्यात्पाटलोखयोः ॥ ५६ ॥ ;p{0339} स्थूलस्तु वाच्यवत्पीने कूटनिष्प्रज्ञयोरपि । हाला मद्ये नृपे हालो हेलाऽवज्ञाविलासयोः ॥ ५७ ॥ ;v{लतृतीयम्} ;c{लतृतीयम् ।} स्यादङ्गुली तु मातङ्गकर्णिकाकरशाखयोः । अचलः पर्वते कीले निश्चलेऽप्यचला भुवि ॥ ५८ ॥ अञ्जलिः पुंसि कुडवे करसंपुटकेऽञ्जलिः । अनलो वसुभेदेऽग्नावनिलो वसुवातयोः ॥ ५९ ॥ अवेलः पूगरागेऽपि रवतोयचशालयोः । अपलापेऽप्यवेलं स्यादवेला पूगचूर्णयोः ॥ ६० ॥ अमला कमलायां स्यादमलं विशदेऽभ्रके । स्यादरालः पुमान्सर्जे मत्तेभे कुटिलेऽन्यवत् ॥ ६१ ॥ ;p{0340} अन्तःकपाटयोर्दण्डे कल्लोलेऽप्यर्गलं त्रिषु । आभीलं न द्वयोः कष्टे त्रिष्वाभीलं भयानके ॥ ६२ ॥ मृगशीर्षशिरस्तारास्विल्वलाः स्युरथेल्वलः । मीने दैत्यप्रभेदे च शृङ्गार उज्ज्वलः पुमान् ॥ ६३ ॥ उज्ज्वलो वाच्यवद्दीप्ते परिव्यक्तविकाशिषु । उत्तालो मर्कटे श्रेष्ठे विकरालोत्कटे त्रिषु ॥ ६४ ॥ उत्पलं कुवले कुष्ठे निर्म्मांसे तु त्रिषूत्पलम् । उत्फुल्लः करणे स्त्रीणामुत्ताने विकचेऽन्यवत् ॥ ६५ ॥ उत्ताल उद्गते श्रेष्ठेप्यू्र्ध्वनालेऽपि वाच्यवत् । उपला शर्करायां स्यादुपलो ग्रावरत्नयोः ॥ ६६ ॥ कदलीभपताकायां पताकायां मृगान्तरे । रम्भायां चाथ कदली पृश्न्यां डिम्ब्यां च शाल्मलौ ॥ ६७ ॥ ;p{0341} कन्दलं कलहे युद्धे नवाङ्कुरकपालयोः । कलध्वनौ चाथ तरौ मृगभेदेऽपि कन्दली ॥ ६८ ॥ कपिलो मुनिभेदेऽग्नौ शुनि पिङ्गे तु वाच्यवत् । कपिला शिंशपागोत्रभिद्वह्निदिग्दन्तयोषिति ॥ ६९ ॥ रेणुकायां च कपिला कपालोऽस्त्री शिरोस्थनि । घटादिशकले कुष्ठरोगभेदे व्रजेऽपि च ॥ ७० ॥ कमलं जलजे नीरे क्लोम्नि तोषे च भेषजे । कमलो मृगभेदे स्यात्कमला श्रीवरस्त्रियाम् ॥ ७१ ॥ कम्बलो नागराजे ना सास्नायां च कुथे कृमौ । अपि स्यादुत्तरासङ्गे क्लीबं पयसि कम्बलम् ॥ ७२ ॥ करालो दन्तुरे तुङ्गे भीषणेऽप्यभिधेयचत् । करालो धूनतैले स्यात्करालं तु कुठेरके ॥ ७३ ॥ ;p{0342} कल्लोलः ख्यात उल्लोलः प्रमोदपरिपन्थिषु । काकोलो द्रोणाकाके स्याद्विषभेदकुलालयोः ॥ ॥ ७४ ॥ अपि काकोलकाकोल्यौ स्यातामोषधिभेदयोः । काकीलस्तु कलाजीवे कामकेलिप्रणालयोः ॥ ७५ ॥ अपाश्रयमनोहारितरुच्छायार्थकोप्ययम् । कामलः कामुके रोगभेदे मरुवसन्तयोः ॥ ७६ ॥ काहली तु तरुण्यां स्यात्काहलं भृशशुष्कयोः । काहला वाद्यभाण्डस्य विशेषे काहलः खले ॥ ७७ ॥ किट्टालस्ताम्रकलशे लोहगूथेऽप्ययं पुमान् । कीलालं रुधिरेऽपि स्यात्पानीयेऽपि नपुंसकम् ॥ ७८ ॥ कुकूलं शङ्कुसङ्कीर्णश्वभ्रे पुंसि तुषानले । कुचेला विद्धकर्ण्यां स्यात्कुचेलो मलिनांशुके ॥ ७९ ॥ ;p{0343} कुटिलं वाच्यवद्दुर्गे कुटिला निम्नगान्तरे । कुण्डलं कर्णभूषायां तथा वलयपाशयोः ॥ ८० ॥ काञ्चनद्रौ गुडूच्यां च कुण्डली वर्तते स्त्रियाम् । कुद्दालो युगपत्रे स्यात्कुद्दालो भूमिदारणे ॥ ८१ ॥ कुन्तलाः स्युर्जनपदे देशे केशे च कुन्तलः । कुन्तलो लाङ्गलेऽपि स्याद्यवे भालेऽपि दृश्यते ॥ ८२ ॥ श्लोकच्छायाहरे चौरे श्याले मीने च कुम्भिलः । कुरलः पक्षिभेदे स्यात्कुरलश्चूर्णकुन्तले ॥ ८३ ॥ कुलालः कुम्भकारेऽपि कुक्कुभे कौशिकेपि च । कुवलं तूत्पले मुक्ताफलेऽपि बदरीफले ॥ ८४ ॥ कुशलं धर्मपर्याप्तिक्षेमेषु त्रिषु शिक्षिते । वाच्यवत्केवलस्त्वेककृत्स्नयोः कुहनेऽपि च ॥ ८५ ॥ ;p{0344} निणींते केवलं ज्ञानभेदे स्यात्केवली न ना । मतः कौ वारिके केशद्रुमजातेऽपि कैशिलः ॥ ८६ ॥ कोमलं मृदुले नीरे मुनौ मद्ये च कोहलः । गन्धोली वरटायां स्याद्भद्राशट्योरपि स्मृता ॥ ८७ ॥ विषे मानेऽपि गरलं गरलं तृणपूलके । गोकिलो मुसले सीरे गोपालो गोपभूपयोः ॥ ८८ ॥ गैरिलो लोहचूर्णे स्याद्गौरिलो गौरसर्षपे । ग्रन्थिलस्त्रिषु संग्रन्थौ ना करीरे विकङ्कते ॥ ८९ ॥ चञ्चला च तडिल्लक्ष्म्योश्चञ्चलश्चलकामिनोः । वाते पुंस्यथ चत्वालः स्याद्गर्मे हेमकुण्डले ॥ ९० ॥ चन्द्रिलश्चन्द्रमौलौ च वास्तूके नापितेऽपि च । चपलः क्षणिके शीघ्रे चञ्चलेऽप्यभिधेयवत् ॥ ९१ ॥ ;p{0345} चपलः पारदे मीने शिलाभेदेऽपि चोरके । चपला कमला विद्युत्पुंश्चलीपिप्पलीष्वपि ॥ ९२ ॥ चूडाला चक्रलायां स्याद्वाच्यवच्चूडयान्विते । छगली छागयोषायां छगली वृद्धदारके ॥ ९३ ॥ छगलस्तु मतश्छागे छगलं नीलवाससि । जगलो मेदके मद्ये कैतवे मदनद्रुमे ॥ ९४ ॥ जङ्गलस्त्रिषु निर्वारिदेशेऽस्त्री जङ्गलं पले । जटिलस्तु जटायुक्ते जटिला मांसिकौषधौ ॥ ९५ ॥ जम्भलः पुंसि जम्बीरे जम्भलो देवतान्तरे । जम्बूलो जम्बुविटपे जम्बूलः क्रकचच्छदे ॥ ९६ ॥ जम्बालः शैवले पङ्के जाङ्गलस्तु कपिञ्जले । वाच्यवज्जङ्गलोद्भूते शूकशिम्ब्यां तु जाङ्गली ॥ ९७ ॥ ;p{0346} जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले । स्यात्तण्डुलस्तु धान्यादिनिकरेऽपि विडङ्गके ॥ ९८ ॥ तमालः खड्गे तापिच्छे तिलके वरुणद्रुमे । तरलश्चञ्चले खड्गे भासुरे त्रिषु पुंसि तु ॥ ९९ ॥ हारमध्यमणौ मद्ययवाग्वोस्तरला स्त्रियाम् । ताम्बूली नागवल्ल्यां स्यात्ताम्बूलं क्रमुके मतम् ॥ १०० ॥ तुमुलं रणसङ्घट्टे तुमुलस्तु कलिद्रुमे । तैतिलो गण्डके पुसि तैतिलं करणान्तरे ॥ १०१ ॥ दुकूलमद्वयोः क्षौमे दुकूलः सूक्ष्मवाससि । धवलः सुन्दरे श्वेते त्रिषु पुंसि महावृषे ॥ १०२ ॥ धवली सौरभेय्यां स्यान्नकुलः पाण्डवान्तरे । बभ्रौ च नकुली तु स्यात्कुक्कुट्यां मांसिकौषधौ ॥ १०३ ॥ ;p{0347} नाकुली कुक्कुटीकन्दे नाकुली चव्यरास्नयोः । नाभीलं नाभिगर्भाण्डे वङ्क्षणे चोत्तमस्त्रियः ॥ १०४ ॥ निचुलस्तु निचोले स्यान्निचुलो हिज्जलद्रुमे । निर्माल्येऽप्यभ्रके क्लीबं विमले त्रिषु निर्मलम् ॥ १०५ ॥ निष्कलस्तु कलाशून्ये नष्टबीजेऽपि वाच्यवत् । निष्कला तु मता तस्यां या नारी विगतार्त्तवा ॥ १०६ ॥ वर्तुलेऽपि चलेऽपि स्यान्निस्तलं वाच्यलिङ्गकम् । नैपाली नवमाल्यां स्यात्कुनटीसुवहाख्ययोः ॥ १०७ ॥ पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः । पटलं तु छदिर्नेत्ररुक्पिटके परिच्छदे ॥ १०८ ॥ न पुंसि वृन्दे पटलं पटोलं कर्कशच्छदे । पटोलं वस्त्रभेदे स्याज्ज्योत्स्निकायां पटोल्यपि ॥ १०९ ॥ ;p{0348} तिलपूर्णे पले पङ्के पललं राक्षसे पुमान् । पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ॥ ११० ॥ कुटपूर्वश्च तत्रैव नवपाके तु पाकली । पाचलो राधनद्रव्ये दहने पवनेऽपि च ॥ १११ ॥ पाटला पाटलितरौ पुष्पे स्यात्पाटला न ना । पाटली पाटलायां स्यादाशुव्रीहौ तु पाटलः ॥ ११२ ॥ पाटलः श्वेतरक्तेऽपि तद्वति त्रिषु पाटलम् । मृत्पात्रभेदे वामायां वागुरायां च पातिली ॥ ११३ ॥ पातालं भूतलेऽप्यौर्वे बन्धक्यां भुवि पांशुला । पांशुलः पुंश्चले शम्भुखट्वाङ्गे पांशुसंयुते ॥ ११४ ॥ पिङ्गलो मुनिभेदेऽग्नौ चण्डांशोः पारिपार्श्विके । निधिभेदे कपौ रुद्रे पिङ्गलः कपिलेऽन्यवत् ॥ ११५ ॥ ;p{0349} स्त्रियां करायिकावेश्या कुमुदस्त्रीषु पिङ्गला । पिचुलो झबुके पुंसि निचुले वारिवायसे ॥ ११६ ॥ पिच्छिला शाल्मलौ सिन्धुभेदशिंशपयोः स्त्रियाम् । स्त्रियामुपोदिकायां च पिच्छिलो विजिले त्रिषु ॥ ११७ ॥ पिञ्जलं कुशपत्रे स्यात्पीतेऽपि त्रिषु पिञ्जलम् । पित्तलं तैजसद्रव्ये पित्तयुक्ते तु वाच्यवत् ॥ ११८ ॥ पिप्पला जलपिप्पल्यां बोधिवृक्षे तु पिप्पलः । निरंशुले पक्षिभेदे पिप्पलः पिप्पलं जले ॥ ११९ ॥ वसनच्छेदभेदेऽपि कणायां तु च पिप्पली । पुद्गलः सुन्दराकारे देहे चात्मनि पुद्गलः ॥ १२० ॥ पेशलो रुचिरे दक्षे चारुशीलेऽपि वाच्यवत् । प्रस्खलो वाजिसन्नाहे त्रिषु ह्यन्तश्चले चले ॥ १२१ ॥ ;p{0350} प्रतलः स्यात्संहतयोर्वामदक्षिणहस्तयोः । पाताललोके प्रतलस्तताङ्गुलिकरेऽपि च ॥ १२२ ॥ वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे । फेनिलोऽरिष्टवृक्षे स्यात्फेनिलं बदरीफले ॥ १२३ ॥ मदनद्रुफले चैव सफेने फेनिलस्त्रिषु । बन्धलस्त्वामले पुञ्जे पल्वले मत्तकुञ्जरे ॥ १२४ ॥ बहुलं व्योम्नि बहुला त्वेलानीलिकयोर्भुवि । बहुलाः कृत्तिकासु स्युः कृष्णपक्षेऽनले पुमान् ॥ १२५ ॥ वहुलस्तु मतः प्राज्ये कृष्णवर्णेऽपि वाच्यवत् । वार्दलो दुर्दिने पुंसि मसीघानेऽपि वार्द्दलः ॥ १२६ ॥ मङ्गला श्वेतदूर्वायां मङ्गलस्तु महीसुते । मङ्गलं श्रेयसि क्लीबं तथा लब्धार्थरक्षणे ॥ १२७ ॥ ;p{0351} मञ्जुलो जलरङ्कौ स्यान्मञ्जौ तु त्रिषु पेषलः । मञ्जुलं शैवले कुञ्जे बिम्बेषु त्रिषु मण्डलम् ॥ १२८ ॥ मण्डलं निकुरुम्बेऽपि देशे द्वादशराजके । कुष्ठाहिभेदे परिधौ चक्रवाले च मण्डलम् ॥ १२९ ॥ मण्डलं स्यान्मण्डलके सारमेये तु मण्डलः । महिला तु महेलायां महिलाऽभीरुगुन्द्रयोः ॥ १३० ॥ माचलो वन्दिचौरे स्यादामये ग्राहयादसोः । धत्तूरे सामके व्रीहौ मदनद्रौ च मातुलः ॥ १३१ ॥ समन्तात्तालमूल्याखुकर्ण्योस्तु मुसली स्त्रियाम् । मुसली गृहगोधायामयोग्रे मुसलं मतम् ॥ १३२ ॥ काञ्च्यां शैलनितम्बे च खड्गबन्धे च मेखला । मेखला कटिदेशे च रसालः सरसे त्रिषु ॥ १३३ ॥ ;p{0352} रसाल इक्षौ चूते च रसालं बेलिसिह्लयोः । रसाला मार्जितायां स्याज्जिह्वादूर्वाविदारिषु ॥ १३४ ॥ रामिलो रमणे कामे लाङ्गूलं पुच्छशेफयोः । लाङ्गली जलपिप्पल्यां लाङ्गलं कुसुमान्तरे ॥ १३५ ॥ गृहदारुविशेषे च सीरे ताले च लाङ्गलम् । लोहलः शृङ्खलाधार्ये त्रिषु त्वव्यक्तभाषिणि ॥ १३६ ॥ वण्टालः शूरयोर्युद्धे पुंसि नौकाखनित्रके । वातुलो वातसंघाते वातले मारुताऽसहे ॥ १३७ ॥ वातलं राजकूष्माण्डबीजकोलास्थिबीजयोः । वामिलो दाम्भिकेऽपि स्यात्त्रिषु वामेऽपि वामिलः ॥ १३८ ॥ विडालः पुंसि मार्जारे विडालो विहगान्तरे । विपुलः पृथुलेऽगाधे मेरुपश्चिमपर्वते ॥ १३९ ॥ ;p{0353} विमला शातलाभूमिमेदयोर्निर्म्मले त्रिषु । विशालो वृक्षभेदे स्याद्विशाले विपुलेऽन्यवत् ॥ १४० ॥ विशाला त्विन्द्रवारुण्यामुज्जयिन्यां च दृश्यते । वृषलः पुंसि शूद्रे स्याच्चन्द्रगुप्तेऽपि राजनि ॥ १४१ ॥ शकलं वल्कले खण्डे रागवस्तुत्वचोरपि । क्लीबं पाथेयकुलयोर्म्मत्सरे त्रिषु शम्बलम् ॥ १४२ ॥ शयालुः शुन्यजगरे निद्राशीले तु वाच्यवत् । शरालं नीरसोपाने वास्तुपोतेऽपि पञ्जरे ॥ १४३ ॥ ऋजौ वक्रे च शीले च शार्दूलो राक्षसान्तरे । अष्टापदेऽपि व्याघेऽपि श्रेष्ठे स्यादुत्तरस्थितः ॥ १४४ ॥ शाल्मलिस्तु द्वयोर्वृक्षभेदे द्वीपान्तरेऽपि च । शीतलं शैलजे पुष्पे काशीशे मलयोद्भवे ॥ १४५ ॥ ;p{0354} शीते चासनपर्ण्यां च शीतलः शीतले त्रिषु । शेवाले शीतलं क्लीबं शैलेयेऽपि च शीतलम् ॥ १४६ ॥ शृगाली तु शिवाभीत्योः शृगालः फेरुदैत्ययोः । शृङ्खला निगडेऽपि स्यात्पुंस्कटीवस्त्रबन्धने ॥ १४७ ॥ शेवाले पद्मकाष्ठेऽपि शैवलं मतमद्वयोः । शौष्कलः शुष्कमांसस्य पाणिके पिशिताशिनि ॥ १४८ ॥ श्मामलस्त्वसितेऽस्वच्छे श्यामवर्णे तु वाच्यवत् । श्रद्धालुर्दोहदिन्यां स्याद्वाच्यवच्छ्रद्धयान्विते ॥ १४९ ॥ श्रीफली नीलिकाधात्र्योर्म्मालूरे श्रीफली पुमान् । पण्डाली तु सरोजिन्या कामुकीतैलमानयोः ॥ १५० ॥ सङ्कुलं वाच्यवद्व्याप्तेऽस्पष्टार्थवचनेऽपि च । सन्धिला तु सुरङ्गायां नदीमदिरयोरपि ॥ १५१ ॥ ;p{0355} ;v{लचतुर्थम्} ;c{लचतुर्थम् ।} बलाभेदे त्वतिबला प्रबलेऽतिबलस्त्रिषु । अक्षमाला विजानीयादरुन्धत्यक्षसूत्रयोः ॥ १५२ ॥ उदूखलं गुग्गुलौ स्यादुलूखलमुलूखले । एकाष्ठीला स्त्रियां पुंसि पापचेल्यां बुके क्रमात् ॥ १५३ ॥ कचमालो मरुद्वाहे नागभेदे जटान्तरे । कन्दरालः पुमान्गर्द्दभाण्डेऽक्षप्लक्षवृक्षयोः ॥ १५४ ॥ अस्त्री कमण्डलुः कुण्ड्यां पर्क्कटीपादपे पुमान् । क्लीबं कर्म्मफलं कर्म्मरङ्गकर्म्मविपाकयोः ॥ १५५ ॥ पुंसि कोलाहले सर्जरसे कलकलः स्मृतः । कुतूहलं कौतुके स्यात्त्रिषु शस्ते कुतूहलम् ॥ १५६ ॥ कृताञ्जलिस्तु भैषज्ये विहितो येन चाञ्जलिः । खतमालः पुमान्धूमे खतमालो बलाहके ॥ १५७ ॥ ;p{0356} गण्डशैलो गिरिभ्रष्टस्थूलोपलकपोलयोः । स्त्रियां गन्धफली फल्यां तथा चम्पककोरके ॥ १५८ ॥ गोलांगूलं तु गोपुच्छे गोलाङ्गूलः कपौ पुमान् । चक्रबालो गिरेर्भेदे चक्रवालं तु मण्डले ॥ १५९ ॥ जलाञ्चलं तु शैवाले स्वतः पानीयनिर्गमे । दलामलं मरुबके दमनेऽपि दलामलम् ॥ १६० ॥ ध्वनिनाला तु वीणायां वेणुकाहलयोरपि । भवेत्परिमलश्चित्तहारिगन्धविमर्दयोः ॥ १६१ ॥ रतामर्दसमुन्मीलदङ्गरागादिसौरभे । पीठकेलिः पीठमर्द्दे करकाकेक्षिरागयोः ॥ १६२ ॥ दौर्गतौ वारिवाहे च पीठकेलिपदाभिधा । स्त्रीपुंसयोर्बहुफला मलयूनीपयोः क्रमात् ॥ १६३ ॥ ;p{0357} बृहन्नलो गुडाकेशे महापोटगलेऽपि च । भद्रकाली तु पार्वत्यां गन्धोल्यामोषधीभिदि ॥ १६४ ॥ भस्मतूलं हिमे पांशुवर्षणग्रामकूटयोः । मणिमाला मता योषिद्दशनक्षतहारयोः ॥ १६५ ॥ मदकलः स्यान्मत्तेभे मदेनाऽव्यक्तवाचि च । महाकालो महादेवे किम्पाके प्रमथान्तरे ॥ १६६ ॥ महानीलो नागभेदे महानीलश्च मार्कवे । महाबलं सीसके च बलप्रौढे तु वाच्यवत् ॥ १६७ ॥ गोरक्षतण्डुलायां तु स्त्रियामेव महाबला । मुक्ताफलं तु मुक्तायां कर्णपूरे बले फले ॥ १६८ ॥ स्यात्कदल्यां मृत्युफली महाकालतरौ पुमान् । पुमान्यवफलो वेणौ कुटजे मांसिकौषधौ ॥ १६९ ॥ ;p{0358} रजस्वलस्तु महिषे पुष्पवत्यां रजस्वला । वातकेलिः कलालापे षिड्गानां दन्तखण्डने ॥ १७० ॥ क्लीबं वायुफलं शक्रकार्मुके वर्षणोपले । पुमान्विचकिलो मल्लीभेदे दमनकेऽपि च ॥ १७१ ॥ उदुम्बरे स्कन्धफले नालिकेरे सदाफलः । हरिताली नभोरेखाखड्गदूर्वासु दृश्यते ॥ १७२ ॥ हलाहलो ब्रह्मसर्प्पे ज्येष्ठिकायां विषान्तरे । ऐरावते हस्तिमल्लो हस्तिमल्लो विनायके ॥ १७३ ॥ ;v{लपंचमम्} ;c{लपंचमम् ।} आसुतोवलशब्दस्तु मतो यज्वनि शौण्डिके । भवेदुद्दण्डपालस्तु मत्स्यसर्प्पप्रभेदयोः ॥ १७४ ॥ राजराजेऽपि कालिन्दीभेदनेप्येककुण्डलः । गजपित्तज्वरे पाके पवने कूटपाकलः ॥ १७५ ॥ ;p{0359} कृपीटपालः पुंस्येव केनिपातसमुद्रयोः ॥ १७६ ॥ स्यात्पाण्डुकम्बलः श्वेतकम्वले ग्रावदन्तरे । विवाहदिनसम्बन्धशिरोमाल्येऽपि सम्मता ॥ १७७ ॥ मता सुरतताली तु दूतिकामस्तकस्रजोः । मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि ॥ १७८ ॥ डाकिनीमोक्षमन्त्रज्ञे कुशाम्बुप्रोक्षणेऽपि च ॥ १७९ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां लकारान्तवर्गः ।} ;k{वान्तवर्गः} ;c{अथ वान्तवर्गः ।} ;v{वैकम्} ;v{वैकम् ।} वः कुम्भे वरुणे व स्यादिवार्थे सांत्वनेऽव्ययम् । वा वाततातयोर्ग्रन्थौ विः खगाकाशयोः पुमान् ॥ १ ॥ स्वो ज्ञातावात्मनि स्वं तु त्रिष्वात्मीये घनेऽस्त्रियाम् । ;p{0360} ;v{वद्वितीयम्} ;c{वद्वितीयम् ।} कविः शुक्रेऽपि वाल्मीके सूरौ काव्यकरे पुमान् ॥ २ ॥ किण्वं पापे सुराबीजे क्लीबः पण्डेऽप्यविक्रमे । खर्वो ह्रस्वे न्यगर्थेपि खर्वः स्यादभिधेयवत् ॥ ३ ॥ ग्रीवा ग्रीवाशिरायां स्याद्ग्रीवा स्यात्कन्धराभिधा । छविः स्यादपि शोभायां द्युतावपि मतश्छविः ॥ ४ ॥ ओन्ड्रपुष्पे जवा वेगे जवो वेगिनि वाच्यवत् । जीवो वाचस्पतौ वृक्षप्रभेदे प्राणिमात्रयोः ॥ ५ ॥ जीवा जीवन्तिकामौर्वीक्षितिशिञ्जितवृत्तिषु । मता जीवा वचायां च जीवा जीवं च जीविते ॥ ६ ॥ तत्त्वं स्वरूपे नृत्यस्य प्रभेदे परमात्मनि । दवो दावश्च पुंस्येव वनेऽपि वनपावके ॥ ७ ॥ दिवं स्वर्गेऽन्तरिक्षे च द्यौर्द्यौर्दिवि च खे स्त्रियाम् । देवो राज्ञि सुरे मेघे देवं स्यादिन्द्रिये मतम् ॥ ८ ॥ ;p{0361} देवी भट्टारिकायां च तेजनीपृक्कयोरपि । नाट्योक्यां चाभिषिक्तायां देवी देवी नृपस्त्रियाम् ॥ ९ ॥ द्रवः स्यान्नर्मणि रसे प्रद्रावे विद्रवे गतौ । द्वन्द्वं तु मिथुने युग्मे द्वन्द्वः कलहगुह्ययोः ॥ १० ॥ धवः पत्यौ पुमान्वृक्षभेदे धूर्त्ते नरेऽपि च । ध्रुवः क्लीबे शिवे शङ्कौ मुनौ योगे वटै वसौ ॥ ११ ॥ ध्रुवं तु निश्चिते तर्क्के नित्यनिश्चलयोस्त्रिषु । ध्रुवा मू्र्वाशालिपर्ण्योर्गीतिस्रुग्भेदयोरपि ॥ १२ ॥ नवः काके स्तुतौ पुंसि नवं नव्येऽभिधेयवत् । नीवी तु स्त्रीकटीवस्त्रग्रन्थौ मूलधनेऽस्त्रियाम् ॥ १३ ॥ मतं पक्वं परिणते विनाशाभिमुखे त्रिषु । पार्श्वं कक्षाऽधरे चक्रोपान्ते पर्शुगणाऽन्तिके ॥ १४ ॥ ;p{0362} पृथ्वी भुवि पृथौ हिङ्गुपत्रिकाकृष्णजीरयोः । प्राध्वं तु बन्धने प्रह्वेऽप्यतिदूरपथे तथा ॥ १५ ॥ प्लवः कारण्डवे भेके मेलके वारिवायसे । प्लक्षे प्लुतिगतौ शब्दे निषादे कुलके कपौ ॥ १६ ॥ क्रमनिम्नक्षितौ गन्धतृणेऽपि न द्वयोः प्लवम् । भवः श्रीकण्ठसंसारश्रेयःसत्ताप्तिजन्मसु ॥ १७ ॥ भावः स्वभावचेष्टाऽभिप्रायसत्त्वात्मजन्मनि । भावः क्रियायां लीलायां पदार्थेऽभिनयान्तरे ॥ १८ ॥ जन्तौ बुधे विभूतौ च नाट्योक्त्या पण्डितेऽपि च । रेवा जंबालिनीभेदे रेवा नीलीस्मरस्त्रियोः ॥ १९ ॥ मता लघ्वी तु ह्रस्वायां प्रकारे स्यन्दनस्य च । लट्वा करंजभेदे स्यात्फले वाद्ये खगान्तरे ॥ २० ॥ ;p{0363} लवो लेशे विलासे च च्छेदने रामनन्दने । श्रीफलेऽपि फले बिल्वं विश्वे देवेषु नागरे ॥ २१ ॥ विश्वा विषायां सर्वस्मिन्विश्वं स्यादभिधेयवत् । विश्वं तु विष्टपे क्लीबं शिविर्भूर्जे नृपान्तरे ॥ २२ ॥ शिवो हरे योगभेदे वेदे कीलेऽपि बालुके । गुग्गुले पुण्डरीकद्रौ शिवं मोक्षे सुखे जले ॥ २३ ॥ कुशलेऽपि शिवा तु स्याद्गौर्यामलकहेतुषु । शिवा झाटामलापथ्याक्रोष्ट्रीसक्तुफलासु च ॥ २४ ॥ सत्त्वं जन्तुषु न स्त्री स्यात्सत्त्वं प्राणात्मभावयोः । द्रव्ये बले पिशाचादौ सत्तायां गुणवित्तयोः ॥ २५ ॥ स्वभावे व्यवसाये च सत्त्वमित्यभिधीयते । सवं जलाढ्ययोः स्नाने सवः सन्धानयज्ञयोः ॥ २६ ॥ ;p{0364} सान्त्वं दाक्षिण्यमान्नेऽपि सांत्वं सामनि च स्मृतम् । स्रुवा स्रुग्भेदशल्लक्योर्मूर्वायां च मता स्रुवा ॥ २७ ॥ हवः स्यादध्वराह्वाननिदेशेषु मतः पुमान् । ह्रस्वः खर्वे न्यगर्थेपि राजिकायां क्षुते क्षवः ॥ २८ ॥ ;v{वतृतीयम्} ;c{वतृतीयम् ।} अभावः स्यादसत्तायामभावो मरणेऽपि च । अक्षीवस्त्रिष्वमन्दे स्यादक्षीवोऽवसरे पुमान् ॥ २९ ॥ आर्त्तवं पुष्परजसोः समुद्भूते तु वाच्यवत् । आश्रवः स्यात्प्रतिज्ञायां क्लेशेऽपि वचनस्थिते ॥ ३० ॥ आहवस्तु पुमान्यागे सङ्गरेऽप्याहवस्तथा । उत्सवो मह उत्सेध इच्छाप्रसरकोपयोः ॥ ३१ ॥ उद्धवस्तूत्सवे कृष्णमातुले यज्ञपावके । कारवी दीप्यमधुरात्वक्पत्रीकृष्णजीरके ॥ ३२ ॥ ;p{0365} कितवः पुंसि धुस्तूरे मत्तवञ्चकयोरपि । पुन्नागे माधवे पुंसि केशाढ्ये त्रिषु केशवः ॥ ३३ ॥ कैतवं तु छले द्यूते कैरवः शत्रुधूर्त्तयोः । कैरवं कुमुदे क्लीबं चन्द्रिकायां तु कैरवी ॥ ३४ ॥ कौट्टवी चण्डिकायां स्यात्तथा नग्नस्त्रियामपि । गाण्डीवगाण्डिवौ न स्त्री कार्मुकेऽर्जुनकार्मुके ॥ ३५ ॥ गालवस्तु मुनौ लोध्रे ताण्डवं तृणनृत्ययोः । स्वर्गेऽन्तरिक्षे त्रिदिवस्त्रिदिवा सरिदन्तरे ॥ ३६ ॥ दीदिविस्त्रिदशाचार्ये भवेदन्नेऽपि दीदिविः । द्विजिह्वः पन्नगे पुंसि सूचके त्वभिधेयवत् ॥ ३७ ॥ निष्पावः शूर्प्पपवने पचने च कडङ्गरे । निष्पावो निर्विकल्पेऽपि शिम्बिकाराजमाषयोः ॥ ३८ ॥ अपलापेऽपि निकृतावविश्वासेऽपि निह्नवः । पञ्चत्वं स्यात्तु पञ्चानां भावेऽपि निधनेऽपि च ॥ ३९ ॥ ;p{0366} पल्लवो विस्तरे खङ्गे शृङ्गारेलक्तरागयोः । चलेऽप्यस्त्री तु किसले विटपेऽपि च पल्लवः ॥ ४० ॥ तुगायां पार्थिवी भूपे पुमान्भूविकृतौ त्रिषु । पुङ्गवो वृषभे श्रेष्ठे गवोमेषजलान्तरे ॥ ४१ ॥ प्रभवो जन्महेतौ स्यादपांमूले पराक्रमे । प्रभवः किंवदन्तीनां सञ्चारगतिकारके ॥ ४२ ॥ आद्योपलब्धये स्थाने प्रभावः शक्तितेजसोः । प्रसवो गर्भमोक्षे स्याद्वृक्षाणां फलपुष्पयोः ॥ ४३ ॥ परंपराप्रसङ्गे च लोकोत्पादे च पुत्रयोः । प्रसेवो वल्लकीवाद्यकाष्ठे स्यू्तेऽपि दृश्यते ॥ ४४ ॥ फेरवो राक्षसे फेरौ वल्लवः सूदगोपयोः । भीमसेनेऽप्यथ पुमान्बन्धौ सुहृदि बान्धवः ॥ ४५ ॥ ;p{0367} भार्गवः शुक्रगजयोः परशुरामे सुधन्वनि । भार्गवी पार्वतीलक्ष्मीसितदूर्वासु सम्मता ॥ ४६ ॥ भैरवः पुंसि भर्गे स्याद्भैरवं भीषणे त्रिषु । माधवः केशवे राधे वसन्तेऽथ माधवी ॥ ४७ ॥ मधूत्थशर्क्करामद्यकुट्टनीष्वतिमुक्तके । राघवस्तु महामीनप्रभेदे रघुवंशजे ॥ ४८ ॥ राजीवो मत्स्यमृगयोस्त्रिषु राजोपजीविनि । क्लीबं पद्मे रौरवस्तु नरके त्रिषु भैरवे ॥ ४९ ॥ वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम् । वाडवा वडवासङ्घे स्त्रीणां च करणान्तरे ॥ ५० ॥ पाताले न स्त्रियामौर्वं विप्रे च नरि वाडवः । पद्रवोऽपक्रमे बुद्धौ विभवो निर्वृतौ घने ॥ ५१ ॥ ;p{0368} विभावः स्यात्परिचये कामस्योद्दीपनेऽपि च । शत्रूणां भावसंहत्योः शात्रवं शात्रवो द्विषि ॥ ५२ ॥ सुषवी कारवेल्ले स्याज्जीरके कृष्णजीरके । षाडवस्तु रसे नागेऽप्याशुव्रीहिप्रसूनयोः ॥ ५३ ॥ नौकायां वासने चाथ सचिवो भृत्यमन्त्रिणोः । सम्भवः स्मृत उत्पत्तौ हेतौ सत्त्वे च मेलके ॥ ५४ ॥ आधारानतिरक्तत्वे आधेयस्य च सम्भवः । सुग्रीवो वानरपतौ चारुग्रीवे तु वाच्यवत् ॥ ५५ ॥ सैन्धवो माणिमन्थेऽश्वे सिन्धुदेशभवे त्रिषु । ;v{वचतुर्थम्} ;c{वचतुर्थम् ।} अनुभावः प्रभावे स्यान्निश्चये भावसूचके । अपह्नवोऽपलापेऽपि पुंसि स्नेहेऽप्यपह्नवः ॥ ५६ ॥ ;p{0369} स्नानेऽपि मद्यसन्धाने यज्ञे चाभिषवः पुमान् । आदीनवस्तु दोषे स्यात्परिक्लिष्टदुरन्तयोः ॥ ५७ ॥ उत्पाते विप्लवे चैव सैंहिकेयेऽप्युपप्लवः । वल्मीकजन्मनि नटे याचके च कुशीलवः ॥ ५८ ॥ एकयोक्त्या मतौ रामपुत्रयोश्च कुशीलवौ । जलबिल्वो मतः कूर्म्मे कर्क्कटे जलचत्वरे ॥ ५९ ॥ जीवंजीवश्चकोरे स्यात्पक्षिभेदे द्रुमान्तरे । दोलाजीवो वार्द्धुषिके मिथ्याज्ञानप्रहर्षिते ॥ ६० ॥ धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः । चञ्चले व्याकुलेऽपि स्याद्वाच्यलिङ्गः परिप्लवः ॥ ६१ ॥ पराभवस्तिरस्कारे विनाशे च पराभवः । मतः पारशवः पारस्त्रैणे शूद्रासुते द्विजात् ॥ ६२ ॥ ;p{0370} शस्त्रेऽप्यथ पुटग्रीवो गर्गरीताम्रकुम्भयोः । वार्द्धुषिके वलदेवः स्याद्बलदेवो बलेऽनिले ॥ ६३ ॥ रोहिताश्वो हरिश्चन्द्रतनये जातवेदसि । शैलेये सैन्धवे क्लीबं मिश्यां शीतशिवः पुमान् ॥ ६४ ॥ सहदेवा बलादण्डोत्पलयोः शारिवौषधौ । सहदेवी भुजङ्गाक्ष्यां सहदेवस्तु पाण्डवे ॥ ६५ ॥ ;v{वपञ्चमम्} ;c{वपंचमम् ।} स्यादाशितंभवस्तृप्तावन्नाद्ये त्वाशितंभवम् ॥ ६६ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां वकारान्तवर्गः ।} ;k{शान्तवर्गः} ;c{अथ शान्तवर्गः ।} ;v{शैकम्} ;c{शैकम् ।} शः शतायुषि हिंसायां शं धर्म्मे शा तु मातरि । शी स्त्रीषु स्वपरस्त्रीषु शीः स्यात्सदननिद्रयोः ॥ १ ॥ ;p{0371} ;v{शद्वितीयम्} ;c{शद्वितीयम् ।} आशा तृष्णादिशोराशुर्व्रीहौ क्लीबं तु सत्वरे । ईशा लाङ्गलदण्डे स्यादीशः स्यादीश्वरे प्रभौ ॥ २ ॥ अंशुस्त्विषि रवौ लेशे काशस्तु क्षवथौ तृणे । वाराणस्यां तु काशी स्यात्कीशो मर्क्कटनग्नयोः ॥ ३ ॥ कुशो रामसुते द्वीपे योक्त्रे दर्भे तु न स्त्रियाम् । कुशो मत्तेऽपि पापिष्ठे त्रिषु क्लीबे तु वारिणि ॥ ४ ॥ मता कुशा तु बलायां कुशी फाले प्रकीर्तिता । केशो बालेऽपि ह्रीबेरे दैत्यभेदप्रचेतसोः ॥ ५ ॥ क्लेशो दुःखेऽपि रोगादौ व्यवसाये च दृश्यते । दर्शस्तु दशमे पुंसि दर्शः सूर्येन्दुसङ्गमे ॥ ६ ॥ पक्षान्तवैदिकविधौ दशा तु वसनांशुके । दशा कर्मविपाकेऽपि स्याद्दशा वर्त्त्यवस्थयोः ॥ ७ ॥ ;p{0372} दृग् दर्शने च नेत्रे स्त्री ज्ञातृदर्शकयोस्त्रिषु । दंशः सन्नाहवनमक्षिकयोर्भुजगक्षते ॥ ८ ॥ दोषेऽपि खण्डने दंशो दंशो मर्म्मणि च स्मृतः । नाशः पलायनेऽपि स्यान्निधनानुपलम्भयोः ॥ ९ ॥ स्यान्निशा निगडे क्वापि स्त्रियां रात्रिहरिद्रयोः । निशा दारुहरिद्रायां महापूर्वा निशार्द्धके ॥ १० ॥ पशुर्मृगादौ च प्रमथे पशुर्मांसारिकात्मनि । अज्ञाने छागमात्रेऽपि पशु हव्यर्थमव्ययम् ॥ ११ ॥ पाशः पक्षादिबन्धे स्याच्चयार्थस्तु कचात्परः । छात्राद्यन्ते च निन्दार्थः कर्णांते शोभनार्थकः ॥ १२ ॥ पांशुर्धूलिषु शस्यार्थचिरसञ्चितगोमये । पेशी पललपिण्ड्यां स्यान्मासीखड्गपिधानयोः ॥ १३ ॥ ;p{0373} सुपक्वकणिके पेशी पेशी मण्डान्तरेऽपि च । राशिस्तु पुञ्जे पुंस्येव तथा मेषवृषादिषु ॥ १४ ॥ वशस्त्रिषु स्याद्विवशे वशं वाञ्छाप्रभुत्वयोः । वशा योषासुतावन्ध्यास्त्रीगवीकरिणीष्वपि ॥ १५ ॥ विट् पुंसि वैश्ये मनुजे प्रवेशे तु स्त्रियामियम् । वेशः प्रवेशे नेपथ्ये वेशो वेश्यागृहे गृहे ॥ १६ ॥ वंशो वेणौ कुले वर्गे पृष्ठस्यावयवास्थनि । नासाविवरदेशेऽपि वाद्यभाण्डान्तरेऽपि च ॥ १७ ॥ शशः पशौ गन्धरसे पुरुषान्तरलोध्रयोः । मतः शश इति क्वापि शीतांशोरपि लाञ्छने ॥ १८ ॥ स्पर्शस्तु स्पर्शने दाने रुजायां स्पर्शकेऽपि च । स्पर्शः स्यात्पुंसि सङ्ग्रामे प्रणिधौ च मतो ह्ययम् ॥ १९ ॥ ;p{0374} ;v{शतृतीयम्} ;c{शतृतीयम् ।} आदर्शः पुंसि मुकुरे टीकायां प्रतिपुस्तके । उड्डीशः पार्वतीकान्ते ग्रन्थभेदे च स स्मृतः ॥ २० ॥ उपांशुर्जापभेदे स्यादुपांशु विजनेऽव्ययम् । माधव्यां कपिशा श्यावे त्रिषु पुंसि च सिह्लके ॥ २१ ॥ कम्पिल्लकासमर्द्देक्षुकृपाणे पुंसि कर्क्कशः । निर्दये परुषे क्रूरे दृढे साहसिके त्रिषु ॥ २२ ॥ कुलिशो मत्स्यभेदेऽस्थिसंहारे कुलिशं पशौ । गिरीशः शङ्करे वाचस्पतावद्रिपतावपि ॥ २३ ॥ तुङ्गीशस्तु हरे चन्द्रे दुःस्पर्शः स्याद्यवासके । कण्टकार्यां तु दुःस्पर्शा खरस्पर्शे तु वाच्यवत् ॥ २४ ॥ निदेशः स्यादुपान्तेऽपि शासने भाषणे पुमान् । निर्वेशो वेतने भोगे निर्वेशो मूर्छनेऽपि च ॥ २५ ॥ ;p{0375} निवेशः शिबिरे पुंसि तथोद्वाहविनाशयोः । निस्त्रिंशो निर्दये खड्गे नीकाशो निश्चये समे ॥ २६ ॥ पलाशः किंशुके शट्यां पलाशो निकषात्मजे । क्लीबं पलाशं छदने पलाशो हरिति त्रिषु ॥ २७ ॥ पक्षीशो गरुडे कृष्णे पिङ्गाशं जात्यकाञ्चने । मत्स्ये पल्लीपतौ पुंसि पिङ्गाशी नीलिकौषधौ ॥ २८ ॥ प्रकाशोऽतिप्रसिद्धे च प्रहासे चाऽऽतपे स्फुटे । प्रदेशो देशभित्त्योः स्यात्तर्जन्यङ्गुष्ठसम्मिते ॥ २९ ॥ बालिशस्तु शिशौ बाल्यलिङ्गे मूर्खेऽपि बालिशः । भूकेश्यवल्गुजेऽपि स्याद्भूकेशः शैवले वटे ॥ ३० ॥ लोमशस्तु पुमान्मेषे वाच्यवल्लोमसंयुते । शृगालीमर्कटीमांसीशूकशिम्बिषु लोमशा ॥ ३१ ॥ ;p{0376} लोमशा काकजङ्घायां काशीशे शाकिनीभिदि । महाभेदातिबलयोर्वीकाशस्तु विकाशवत् ॥ ३२ ॥ प्रकाशे स्याद्विकसने विजनेऽपि मतः पुमान् । विकोशः पटवर्त्तौ स्याद्विकाशे विकचे त्रिषु ॥ ३३ ॥ विपाशा तु नदीभेद त्रिषु पाशसमुद्गते । विवशो विह्वलेऽपि स्यादवश्यात्मनि च त्रिषु ॥ ३४ ॥ सङ्काशः सन्निधौ तुल्ये सदृशं तूचिते समे । सदेशः सन्निधौ देशे सदेशो देशवत्यपि ॥ ३५ ॥ सुखाशो राजतिनिशे वरुणे सुमनोरथे । आसनेऽपि च संवेशः सवेशः शयनेऽपि च ॥ ३६ ॥ हताशो वाच्यवत्क्रूरे निेर्द्दये निर्वाञ्छिते । ;v{शचतुर्थम्} ;c{शचतुर्थम् ।} अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ॥ ३७ ॥ ;p{0377} अपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः । आश्रयाशो बृहद्भानौ त्रिष्वेवाश्रयनाशके ॥ ३८ ॥ उपदंशः पुमान्मेढ्रे पीडायां च विदंशने । उपस्पर्शस्तु संस्पर्शे स्नानाचमनयोरपि ॥ ३९ ॥ क्रूरदृक् स्यात्खले वक्रे खण्डपर्शुः पिनाकिनि । राहौ खण्डामलकयोर्लेपकृत्पर्शुरामयोः ॥ ४० ॥ जीवितेशो यमे कान्ते जीवातौ जीवितेश्वरे । नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे ॥ ४१ ॥ वसेत्पञ्चदशी पौर्णमास्यमावस्ययोर्मता । परिवेशः परिवृतौ भानोश्चाभ्यर्णमण्डले ॥ ४२ ॥ पलंकशा तु मुण्डीर्यां लाक्षायां पुंसि गुग्गुले । पादपाशी चटुकायां शृङ्खलाकटुकेऽपि च ॥ ४३ ॥ ;p{0378} पुरोडाशो हविर्भेदे तथा सोमलतारसे । पिष्टकस्य चमस्यां च हुतशेषे च सम्मतः ॥ ४४ ॥ वार्ताहरे पुरोगे च सहाये च प्रतिष्कशः । भूमिस्पृक् सम्मतो वैश्ये भूमिस्पृग्मनुजेपि च ॥ ४५ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां शान्तवर्गः ।} ;k{षान्तवर्गः} ;c{अथ षान्तवर्गः ।} ;v{षैकम्} ;c{षैकम् ।} षकारस्तु मतः श्रेष्ठेऽपि स्याद्गर्भविमोचने । ;v{षद्वितीयम्} ;c{षद्वितीयम् ।} उषा बाणसुतायां स्यात्प्रभातेऽपि विभावरौ । उषस्तु कामुके पुंसि गुग्गुलादावुषः पुमान् ॥ १ ॥ ऋषिश्छन्दे वसिष्ठादौ दीधितौ तु ऋषिः स्त्रियाम् । कर्षः पलचतुर्थांशे कर्षः स्यात्कर्षणेऽपि च ॥ २ ॥ ;p{0379} कर्षूः पुंसि करीषाग्नौ कर्षूः कुल्याभिधायिनी । कोषोऽस्त्री कुड्मले दिव्ये पेश्यां शब्दादिसङ्ग्रहे ॥ ३ ॥ अर्थौघे जातिकोशे च पात्रखड्गपिधानयोः । पनसादिफलस्यापि कोषः स्यान्मध्यवर्त्तिनि ॥ ४ ॥ घोषा तु शतपुष्पायां घोषः कांस्येम्बुदध्वनौ । घोषः स्याद्घोषकाभीरनिस्वनाभीरपल्लिषु ॥ ५ ॥ झषा नागबलायां स्याज्झषो वैसारिणि स्मृतः । पिपासालिक्षयोस्तर्षस्तुषो धान्यत्वगक्षयोः ॥ ६ ॥ तृट् तृषा च पिपासायां लिप्सायां च स्त्रियामुभे । त्विट् कान्तौ रुचि भारत्यां व्यवसायजिगीषयोः ॥ ७ ॥ दोषस्तु दूषणे पापे दोषा रात्रौ भुजेऽपि च । पौषो मासविशेषे स्यात्पौषमुद्धवयुद्धयोः ॥ ८ ॥ ;p{0380} पौषी तु पौषपौर्णम्यां पुष्ययुक्ता भवेद्यदि । प्रैषस्तु प्रेषणोन्मानमर्द्दनक्लेशवाचकः ॥ ९ ॥ भाषा गिरि सरस्वत्यां विकल्पार्थे विपूर्वके । माषो व्रीह्यन्तरे माने मूर्खे त्वग्दूषणान्तरे ॥ १० ॥ मिषस्तु स्पर्द्धने व्याजे निमेषे तु निपूर्वकः । मेषः स्यादुरणे राशिभेदभैषज्यभेदयोः ॥ ११ ॥ मेष उत्पूर्वको वेधे वर्षाः स्युः प्रावृषि स्त्रियाम् । वर्षमस्त्री वर्षणेऽब्दे जम्बूद्वीपे घने पुमान् ॥ १२ ॥ विषा त्वतिविषायां स्याद्विषं तु गरले जले । विड् व्यापने पुरीषे च वृषो मूषकधर्म्मयोः ॥ १३ ॥ वृषभे वासके श्रेष्ठे राशौ शृङ्ग्यां च शुक्रले । शुक्रे पुरुषभेदेऽपि व्रतिनामासने वृषी ॥ १४ ॥ ;p{0381} वृषा मूषकपर्ण्यां स्यात्कपिकच्छ्वामपि स्मृता । शुषिः शोषे बिले ख्यातः शेषः सङ्कर्षणे वधे ॥ १५ ॥ अनन्तेऽप्यवशिष्टेऽपि शेषा निर्म्माल्यभिद्यपि । ;v{षतृतीयम्} ;c{षतृतीयम् ।} अभीषुः पुंसि भासि स्यादभीषुः प्रग्रहेऽपि च ॥ १६ ॥ आकर्षस्त्विन्द्रिये ख्यातो द्यूताकर्षणयोरपि । पाशके शारिफलके कोदण्डाभ्यासवस्तुनि ॥ १७ ॥ क्लीबमामिषमुत्कोचे मांसे सम्भोगलोभयोः । आमिषं सुंदराकाररूपादौ विषयेऽपि च ॥ १८ ॥ उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे । कल्माषो राक्षसे कृष्णकृष्णपाण्डरयोरपि ॥ १९ ॥ कलुषं किल्बिषे क्लीबमाविले कलुषं त्रिषु । किल्बिषं वृजिने रोगेऽप्यपराधेऽपि किल्विषम् ॥ २० ॥ ;p{0382} कुल्माषो यवके पुंसि चणके यवषष्टके । कुल्माषं काञ्जिके क्लीबं गण्डूषः प्रसृतोन्मिते ॥ २१ ॥ गण्डूषो मुखपूरेऽपि करिहस्ताङ्गुलावपि । जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ॥ २२ ॥ तरीषः शोभनाकारे भेलेब्धिव्यवसाययोः । ताविषस्तु सरिन्नाथे कनकस्वर्गयोरपि ॥ २३ ॥ नहुषो राजभेदे स्यान्नहुषो भुजगान्तरे । निकषः कषपाषाणे निकषा यातुमातरि ॥ २४ ॥ निमेषनिमिषौ कालभेदे नेत्रनिमीलने । परुषं कर्बुरे रूक्षे त्रिषु निष्ठुरवाच्यपि ॥ २५ ॥ पुरुषः पुन्नागमातङ्गे माधवे परमात्मनि । पौरुषं तेजसि क्लीबं पुंसो भावेऽपि कर्म्मणि ॥ २६ ॥ ;p{0383} ऊर्द्ध्वविस्तृतदोःपाणिनृमाने त्रिषु पौरुषम् । प्रत्यूषोऽहर्मुखे पुंसि प्रत्यूषो वसुदैवते ॥ २७ ॥ प्रदोषः पुंसि दोषे स्यान्नाट्योक्त्यार्ये च मारिषः । रौहिषं कत्तृणे पुंसि मृगभेदे तु रौहिषः ॥ २८ ॥ विशेषो भेदमात्रेऽपि विशेषस्तिलकेऽपि च । विश्लेषः स्याद्विघटने विश्लेषो विधुरे तथा ॥ २९ ॥ व्याकर्षः शारिफलके द्यूताक्षाकर्षणेषु च । शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः ॥ ३० ॥ कुशीलवेषे शैलूषः शैलूषो बिल्वपादपे । सङ्घर्षः स्यर्द्धने घर्षे प्रमोदेऽपि प्रभञ्जने ॥ ३१ ॥ ;v{पचतुर्थम्} ;c{पचतुर्थम् ।} अनुकर्षो रथस्याधोदारुण्यप्यनुकर्षणे । अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ॥ ३२ ॥ ;p{0384} सुरे मत्स्येऽप्यनिमिषः सुरे मत्स्येऽनिमेषवत् । अम्बरीषो रणे भ्राष्ट्रेऽम्बरीषो भूभृदन्तरे ॥ ३३ ॥ मार्त्तण्डे खण्डपरशौ कपीतनकिशोरयोः । अलम्बुषः पुमानेव मतश्छर्दनपादपे ॥ ३४ ॥ अलम्बुषा तु मुण्डीरीस्वर्गवेश्याप्रभेदयोः । तुरङ्गवदने लोकभेदे किंपुरुषः पुमान् ॥ ३५ ॥ नन्दिघोषः पार्थरथे स्तुतिपाठकघोषणे । परिघोषस्त्ववाच्ये स्यान्निनादे वारिदध्वनौ ॥ ३६ ॥ पलङ्कषा गौक्षुरके लाक्षागुग्गुलकिंशुके । मुण्डीरीरास्नयोश्चैव राक्षसे तु पलङ्कषः ॥ ३७ ॥ शृङ्गीभेदे महाघोषा पुंसि हट्टेऽतिघोषयोः । वातरूपस्तु वातूलेऽप्युत्कोचे शक्रकार्मुके ॥ ३८ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां षान्तवर्गः ।} ;p{0385} ;k{सान्तवर्गः} ;c{अथ सान्तवर्गः ।} ;v{सैकम्} ;c{सैकम् ।} सा पुंस्यन्धौ रमायां स्याद्रत्यां से श्रीश्रुतेऽपि सः । सोरच्युते तु पार्वत्यामंसस्कन्धविभूषयोः ॥ १ ॥ ;v{सद्वितीयम्} ;c{सद्वितीयम् ।} कासूर्विकलवाचि स्यात्कासूः शक्त्यायुधे स्त्रियाम् । कंसो दैत्यान्तरे कांस्ये कांस्यभाजनमानयोः ॥ २ ॥ स्याद्गुत्सः स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः । गोसः प्रभाते पुंस्येव गोसो गन्धरसेऽपि च ॥ ३ ॥ चासः सुवर्णचूडे स्यात्प्रभेद इक्षुपर्वणः । मणिदोषे भये त्रासो दासो भृत्येऽपि धीवरे ॥ ४ ॥ शूद्रेऽपि दानपात्रेऽपि चेटीसिंनकयोः स्त्रियाम् । नासा तु नासिकायां स्यान्नासा द्वारोर्द्ध्वदारुणि ॥ ५ ॥ ;p{0386} प्रसूर्मातरि कन्दल्यामश्वायां पुंसि वीरुधि । वसुर्ना देवभेदे च योक्त्रे वह्नौ युधे त्रिषु । वसु वृद्ध्यौषधे रत्नेऽपि श्यामे हट्टके घने ॥ ६ ॥ वाच्यवन्मधुरेऽपि स्याद्भाः प्रभावे रुचि स्त्रियाम् । भासस्तु भासि गृध्रे च गोष्ठकुक्कुटकेऽपि च ॥ ७ ॥ मांसं स्यादामिषे मांसी कक्कोलीजटयोः स्त्रियाम् । माः सुधीदीधितौ मासे चन्द्रे चन्द्रात्परोऽपि सः ॥ ८ ॥ मिसिः स्त्री मधुरीमांस्योः शतपुष्पाजमोदयोः । प्रसस्तु मुहिमूहे स्यान्मूसो मास्यामपि स्मृतः ॥ ९ ॥ रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे । पारदे धातुवीर्याम्बुरागे गन्धरसे तनौ ॥ १० ॥ रसो घृतादावाहारपरिणामोद्भवेऽपि च । रसा जिह्वास्रुवापाठाशल्लकीकङ्गुषु स्त्रियाम् ॥ ११ ॥ ;p{0387} रासस्तु गोपक्रीडायां भाषाशृङ्खलके ध्वनौ । पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि ॥ १२ ॥ वासो गृहेऽप्यवस्थाने वासा स्यादाटरूषके । मुनिविस्तारयोर्व्यासः शंसा वचनवाञ्छयोः ॥ १३ ॥ हिंसा चौर्यादिवधयोः हंसः सूर्यमरालयोः । कृष्णेङ्गवाते निर्ल्लोभनृपतौ परमात्मनि ॥ १४ ॥ योगमन्त्रादिभेदे च मत्सरे तुरगान्तरे । ;v{सतृतीयम्} ;c{सतृतीयम् ।} अलसा हंसपद्यां स्यादागः पापापराधयोः ॥ १५ ॥ आशीः स्त्री सर्प्पदंष्ट्रायां तथा स्त्री शुभशंसने । आख्यायिकापरिच्छेदेऽप्यावासो निर्वृतावपि ॥ १६ ॥ इष्वासः स्याद्धनुर्म्मात्रे स्यादिष्वासो धनुर्धरे । उच्छ्वासः शासनाश्वासगद्यबन्धगुणान्तरे ॥ १७ ॥ ;p{0388} उत्तंसश्चावतंसश्च वतंसश्चेत्यमी त्रयः । अस्त्रियामेव वर्त्तन्ते कर्णपूरेऽपि शेखरे ॥ १८ ॥ उरस्तु वक्षोवरयोरुषः सन्ध्याप्रभातयोः । एनोऽपराधे कलुषेऽप्योकस्त्वाश्रयसद्मनोः ॥ १९ ॥ ओजो दीप्तौ च सामर्थ्येऽप्यवष्टम्भप्रकाशयोः । ओजस्तेजसि धातूनामिति पञ्चसु दृश्यते ॥ २० ॥ कीकसः क्रिमिजातौ स्यात्कीकसं क्लीबमस्थनि । चमसः पिष्टभेदे स्यात्पर्प्पटे चूर्णसंबले ॥ २१ ॥ छन्दः श्रुतीच्छयोः पद्ये स्वाच्छन्द्ये ना तु वर्त्तते । ज्यायांस्त्रिष्विति वृद्धे स्यादपि श्रेष्ठातिशस्तयोः ॥ २२ ॥ गुणे कोपेऽप्यभिमतं तरः स्याद्बलवेगयोः । तामसी चण्डिकायां स्यात्तामसः खलसर्प्पयोः ॥ २३ ॥ तेजः पराक्रमे दीप्तौ प्रभावे बलशुक्रयोः । धनुः शरासने राशौ धनुर्द्धन्विपियालयोः ॥ २४ ॥ ;p{0389} धनुर्धनुर्धरेऽपि स्याद्धनुरर्जुनभूरुहे । नभो व्योम्नि नभो मेघे बिससूत्रे पतद्ग्रहे ॥ २५ ॥ वर्षासु श्रावणे घ्राणे नभाः पलितमस्तके । पनसः कण्टकिफले कण्टके कपिरुग्भिदोः ॥ २६ ॥ दुग्धे नीरे वटादीनां क्षीरेऽपि क्षीरवत्पयः । श्रीवासे पायसः पुंसि परमान्ने तु पायसम् ॥ २७ ॥ पुष्कसी कालिकानील्योः पुष्कसः श्वपचेऽधमे । प्रहासः स्यान्नटवटौ हास्यतीर्थविशेषयोः ॥ २८ ॥ पुनरर्थेऽव्ययं भूयो भूयांस्तु बहुषु त्रिषु । मनश्चित्ते मनीषायां महस्तूत्सवतेजसोः ॥ २९ ॥ मानसं स्वान्तसरसो रजः स्यादार्त्तवे गुणे । रजः परागे रेणौ तु रजवद्दृश्यते रजः ॥ ३० ॥ ;p{0390} हर्षे वेगे च रभसस्तत्त्वे गुह्ये रते रहः । दंष्ट्रायां राक्षसी ख्याता राक्षसी राक्षसस्त्रियाम् ॥ ३१ ॥ रेतः शुक्रे रसे रेफाः क्रूरेऽपि कृपणेऽधमे । रोदश्च रोदसी चैव दिवि भूमौ द्वयोरपि ॥ ३२ ॥ लालसस्तु द्वयोस्तृष्णाविष्टे चौत्सुक्ययाच्ञयोः । वपुर्नपुंसकं देहे वपुर्भव्याकृतावपि ॥ ३३ ॥ वयस्तु यौवने बाल्यप्रभृतौ विहगे वयाः । बर्हिस्तु पुंसि दहने बर्हिः पुंसि कुशेऽपि च ॥ ३४ ॥ वरासिः स्यादसिश्रेष्ठे वरासिः स्थूलशाटके । वर्चो दीप्तौ पुरीषे च वर्चो रूपेऽपि न द्वयोः ॥ ३५ ॥ श्रीवासे वायसः पुंसि बलिपुष्टेऽपि वायसः । काकोदुम्बरिकायां च काकमाच्यां च वायसी ॥ ३६ ॥ ;p{0391} वासस्तु वसने ख्यातमोष्ठे दशनपूर्वकम् । वाहसोऽजगरे वारिनिर्माणे सुनिषण्णके ॥ ३७ ॥ विद्वान्धीरात्मवित्प्राज्ञे विलासो हावलीलयोः । वीतंसो बन्धनोपाये मृगाणां पक्षिणामपि ॥ ३८ ॥ तद्विश्वासाय वस्त्रे च वीतंसमपि न द्वयोः । बीभत्सो नाऽर्जुने हिंस्रे विकृते सघृणे त्रिषु ॥ ३९ ॥ पितामहे बुधे वेधा वेधा दामोदरेऽपि च । शिरस्तु मस्तके सेनाग्रभागेऽग्य्रप्रधानयोः ॥ ४० ॥ श्रेयस्तु मङ्गले धर्म्मे श्रेयाञ्शस्तेऽभिधेयवत् । श्रेयसी करिपिप्पल्यामभयारास्नयोरपि ॥ ४१ ॥ श्रीवासो वृकधूपेऽपि श्रीवासो विष्णुपद्मयोः । स्रोतोऽम्बुलेशे कर्णे च स्रोतो देहशिरास्वपि ॥ ४२ ॥ ;p{0392} सङ्क्षेपेऽपि समासः स्यात्समासः स्यात्समर्थने । द्वन्द्वादौ च समासाख्या सरस्तोयतडागयोः ॥ ४३ ॥ सहो ज्योतिष्मति बले सहा हेमन्तमार्गयोः । सारसं पङ्कजे क्लीबं सारसः पक्षिचन्द्रयोः ॥ ४४ ॥ साहसं तु बलात्कारकरणे साहसं मदे । सुरसौषधिभेदेऽपि हविस्तु घृतहव्ययोः ॥ ४५ ॥ ;v{सचतुर्थम्} ;c{सचतुर्थम् ।} अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः । अधिवासस्तु वसतौ संस्कारे धूपनादिभिः ॥ ४६ ॥ अवध्वंसस्तु निंदायां परित्यागावचूर्णयोः । उदर्चिः पुंसि दहने उदर्चिस्तूत्प्रभे त्रिषु ॥ ४७ ॥ कनीयाननुजेऽत्यल्पे त्रिषु स्यादतियूनि वा । कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ॥ ४८ ॥ ;p{0393} कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे । भुजङ्गमेऽप्यथो कुम्भीनसी लवणमातरि ॥ ४९ ॥ भवेद्घनरसो नीरे दक्षिणावर्त्तपारदे । सान्द्रनिर्यासकर्पूरपीलुपर्णीषु मोरटे ॥ ५० ॥ चन्द्रहासो दशग्रीवखड्गे खड्गे च दृश्यते । क्लीबं तामरसं ताम्रे काञ्चने जलजेऽपि च ॥ ५१ ॥ त्रिस्रोता जाह्नवीनद्योर्दिवौकाश्चातके सुरे । दीर्घायुः पुंसि मार्त्तण्डकाकशाल्मलिजीवके ॥ ५२ ॥ निःश्रेयसं शुभे शुक्ले पुंसि निःश्रेयसो हरे । नीलाञ्जसाऽप्सरोभेदे नदीभेदे तडित्यपि ॥ ५३ ॥ पुनर्वसुःस्त्रियामृक्षे कृष्णे कात्यायने पुमान् । पौर्णमासी तु पौर्णम्या पौर्णमासः क्रतौ नरि ॥ ५४ ॥ ;p{0394} प्रचेताः पुंसि वरुणे मुनौ हृष्टे तु वाच्यवत् । योगे वरीयाञ् श्रेष्ठे च वरिष्ठे युवते त्रिषु ॥ ५५ ॥ मता मधुरसा मूर्वा द्राक्षादग्धिकयोरपि । म्लाने मलीमसो लोहपुष्पकाशीशयोः पुमान् ॥ ५६ ॥ महारसस्तु खर्जूरे कोशकारे कसेरूणि । राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे ॥ ५७ ॥ रासेरसस्तु रासे स्याद्रससिद्धिवलावपि । विभावसुर्बृहद्भानौ भानौ हारान्तरेऽपि च ॥ ५८ ॥ विभावसुः स्याद्गन्धर्वभेदे पुंसि निशि स्त्रियाम् । विहायाः पुंसि विहगे विहायः सुरवर्त्मनि ॥ ५९ ॥ श्वःश्रेयसं तु कल्याणे परानन्दे च शर्म्मणि । सप्तार्च्चिर्द्दहनेऽपि स्यात्सप्तार्चिः क्रूरलोचने ॥ ६० ॥ ;p{0395} समञ्जसः स्यादुचितेऽप्यभ्यस्तेऽपि समञ्जसः । मतः सर्वरसो वीणाप्रभेदे धूनके पुमान् ॥ ६१ ॥ साधीयानतिसाधौ स्यादतिवादेऽपि वाच्यवत् । भवेत्सिद्धरसो व्याडिप्रभृतौ च रसेऽपि च ॥ ६२ ॥ सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान् । सुमेधास्तु स्त्रियां ज्योतिष्मत्यां दिव्यमतौ त्रिषु ॥ ६३ ॥ ;v{सपञ्चमम्} ;c{सपञ्चमम् ।} दिव्यचक्षुः पुमानन्धे सुगन्धेऽपि सुलोचने । स्यान्नभश्चमसश्चित्रापूपे चन्द्रेन्द्रजालयोः ॥ ६४ ॥ हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसे पुमान् । ;v{सषष्ठम्} ;c{सषष्ठम् ।} हिरण्यरेताः सप्तार्चिःसप्तपर्ण्योः पुमानयम् ॥ ६५ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां सान्तवर्गः ।} ;p{0396} ;k{हान्तवर्गः} ;c{अथ हान्तवर्गः ।} ;v{हैकम्} ;c{हैकम् ।} सरोषवारणे हीरे हः स्यादीशात्मजे तु हिः । ;v{हद्वितीयम्} ;c{हद्विवीयम् ।} अहिर्वृत्राऽसुरे सर्प्पे स्यादीहा तू्द्यमेच्छयोः ॥ १ ॥ नष्टेन्दुकलादर्शेपि पिकालापे स्त्रियां कुहूः । गह्वरे सिंहपुष्प्यां च गुहा स्कन्दे गुहः पुमान् ॥ २ ॥ गृहाः पुंसि गृहे पत्न्यां ग्राहो जलचरे पुमान् । ग्रहः सूर्यादिनिर्बन्धोपरागेषु रणोद्यमे ॥ ३ ॥ ग्रहणे पूतनादौ च सैंहिकेयेऽप्यनुग्रहे । नाहस्तु बन्धने कूटेऽप्युपाद्वैरानुबन्धने ॥ ४ ॥ प्राहो निपुणतर्केऽपि प्रौहो हस्त्यांघ्रिपर्वणोः । बहुः स्यात्त्र्यादिसंख्यासु बहुः स्याद्विपुलेऽन्यवत् ॥ ५ ॥ ;p{0397} वाहावाहौ हये वाहौ वाहः स्याद्वृषमानयोः । मही क्षितौ च नद्यां च मह उत्सवतेजसोः ॥ ६ ॥ मोहो मूढत्वमात्रेऽपि स्यादहम्मतिमूर्च्छयोः । लोहस्तु शस्त्रे लोहं तु जोङ्गके सर्वतैजसे ॥ ७ ॥ वर्हं मयूरपिच्छेऽपि दलेऽपि स्यान्नपुंसकम् । वहो गन्धवहे स्कन्धदेशे स्याद्वृषभस्य च ॥ ८ ॥ व्यूहस्तु बलविन्यासे वृन्दे निर्माणतर्कयोः । सहो बले च भूम्यां तु मुद्गपर्ण्यां नखौषधे ॥ ९ ॥ सहदेवाकुमार्योश्च सहः क्षान्तियुते त्रिषु । सिंहः कण्ठीरवे राशिभेदे श्रेष्ठे परस्थितः ॥ १० ॥ सिंही बृहत्यां वार्त्ताकौ राहुमातरि वासके । ;v{हतृतीयम्} ;c{हतृतीयम् ।} आरोहस्तु नितम्बे स्याद्दीर्घत्वे च समुच्छ्रये ॥ ११ ॥ ;p{0398} अवरोहे हस्तिपके मानारोहणयोरपि । उत्साहस्तूद्यमे सूत्रतन्तावपि पुमानयम् ॥ १२ ॥ कटाहो घृततैलादिपाकामत्रेऽपि कर्परे । दीपेऽपि कूर्म्मपृष्ठेऽपि कटाहो महिषीशिशौ ॥ १३ ॥ कलहो भण्डने युद्धे खड्गकोषे वराटके । दात्यूहः कालकण्ठेऽपि तथा वन्दिविहङ्गमे ॥ १४ ॥ नवाहो नूतनदिने नवाहः प्रतिपत्तिथौ । निग्रहो भर्त्सने बन्धे मर्यादायां च निग्रहः ॥ १५ ॥ निर्यूहो द्वारि निर्यासे शिखरे नागदन्तके । निरूहो बस्तिभेदे स्यात्तर्क्कनिश्चितयोरपि ॥ १६ ॥ पटहस्तु समारम्भे न स्त्री पटहमानके । प्रग्रहस्तु तुलासूत्रे बन्धे च नियमे भुजे ॥ १७ ॥ ;p{0399} रश्मौ हयादिरश्मौ च वन्द्यां स्वर्णालुनीपयोः । प्रग्राहस्तु तुलासूत्रे वर्षादिप्रग्रहेऽपि च ॥ १८ ॥ प्रवाहो जलवेगे स्यात्पारंपर्यानुवर्त्तने । वराहः किरिमुस्ताद्रिविष्णुमेघेषु मानके ॥ १९ ॥ वाराही मातृकाबुद्धदेव्योर्गृष्ट्याख्यभेषजे । कायसङ्ग्रामविस्तारप्रविभागेषु विग्रहः ॥ २० ॥ विग्रहः स्यात्समासेऽपि विदेहो मिथिले पुमान् । विदेहा मिथिलायां स्याद्देहशून्येऽपि वाच्यवत् ॥ २१ ॥ वैदेही रोचनासीतावणिग्योषित्सु पिप्पलौ । सङ्ग्रहो बृहद्युत्तुङ्गे मुष्टौ सङ्ग्रहणेऽपि च ॥ २२ ॥ सुवहस्तु सुवाते स्यात्पुंसि सम्यग्वहे त्रिषु । एलापर्ण्यां तु सुवहा सल्लकीरास्नयोपि ॥ २३ ॥ ;p{0400} सुवहा वल्लकीहंसपदीशेफालिकासु च । ;v{हचतुर्थम्} ;c{हचतुर्थम् ।} अभिग्रहोऽभिग्रहणेऽप्यभियोगेऽपि गौरवे ॥ २४ ॥ अवरोहोऽवतरणे मतो मूलाल्लतोद्गमे । शाखाशिफायां त्रिदिवेऽवग्रहस्तु गजालिके ॥ २५ ॥ वृष्टिरोधे प्रतिबन्धेऽप्यस्वातन्त्र्येऽप्यवग्रहः । अवग्राहो भवेद्वृष्टिरोधहस्तिललाटयोः ॥ २६ ॥ अश्वारोहाऽश्वगन्धायामश्वारोहोऽश्ववारके । पुमानुपग्रहो वन्द्यामुपयोगेऽनुकूलने ॥ २७ ॥ उपनाहस्तु वीणायां बन्धने व्रणलेपने । नासिकायां गन्धवहा वाते गन्धवहः पुमान् ॥ २८ ॥ तनूरुहं तु गरुति स्याल्लोम्नि च तनूरुहम् । तमोपहो जिने सूर्ये दहने मृगलक्ष्मणि ॥ २९ ॥ ;p{0401} सूतो देवसहो देवसहा दण्डोत्पलौषधौ । परिग्रहः परिजने पत्न्यां स्वीकारशापयोः ॥ ३० ॥ मूलेऽपि परिबर्हस्तु राजयोग्ये परिच्छदे । परीवाहो जलोच्छ्वासे भूपालोचितवस्तुनि ॥ ३१ ॥ पितामहः पितुस्ताते ब्रह्मण्यपि पितामहः । प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे ग्रहान्तरे ॥ ३२ ॥ महद्भ्यो विधिवद्देये तद्ग्रहे च पतद्ग्रहे । वरारोहा कटौ नार्यां पुंसि साद्यवरोहयोः ॥ ३३ ॥ महासहा मासपर्ण्यामम्लानेऽपि महासहाः । ;v{हपञ्चमम्} ;c{हपञ्चमम् ।} पितामहेऽपि तातस्य विधौ च प्रपितामहः ॥ ३४ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां हान्तवर्गः ।} ;p{0402} ;k{क्षान्तवर्गः} ;c{अथ क्षान्तवर्गः ।} ;v{क्षैकम्} ;c{क्षैकम् ।} राक्षसे क्षेत्रमात्रेऽपि क्षकारः परिकीर्त्तितः । ;v{क्षद्वितीयम्} ;c{क्षद्वितीयम् ।} अक्षस्तु पाशके चक्रे शकटे च बिभीतके ॥ १ ॥ आचारे व्यवहारे च चुल्लावात्मज्ञकर्षयोः । अक्षं स्यादिन्द्रिये क्लीबं तुत्थे सौवर्चलेऽपि च ॥ २ ॥ ऋक्षस्तु पुंसि भल्लूके शोणफे कृतवेधने । ऋषिभेदेऽद्रिभेदे च तारायामृक्षमस्त्रियाम् ॥ ३ ॥ कक्षः सैरिभदोर्मूलकच्छे शुष्कवने तृणे । गुल्मिन्यामपि कक्षा तु गृहे काञ्चीप्रकोष्ठयोः ॥ ४ ॥ परिधाने परीधाने पश्चादञ्चलपल्लवे । स्पर्द्धोद्गारवरत्रासु गजरज्जौ रथांशके ॥ ५ ॥ रौक्षं गीते त्वन्यवत् स्यात्तीक्ष्णे शुचिमनोज्ञयोः । दक्षो मुनौ हरवृषे कुक्कुटेऽग्नौ च धातरि ॥ ६ ॥ दक्षः स्याद्दक्षिणभुजे प्रगल्भेऽनलसे त्रिषु । ;p{0403} दक्षा पृथिव्यामाख्याता ध्वाङ्क्षी कक्कोलिकौषधौ ॥ ७ ॥ ध्वाङ्क्षस्तु वायसे कङ्के गृहे तक्षकभिक्षुके । न्यक्षः परशुरामे स्यान्न्युक्षः कार्त्स्न्यनिकृष्टयोः ॥ ८ ॥ पक्षः केशात्परो वृन्दे पक्षो मासार्द्धपार्श्वयोः । गृहभित्तौ ग्रहे भृत्ये सख्यौ राजगजे बले ॥ ९ ॥ साध्ये गरुति देहाङ्गे चुल्लिरन्ध्रविरोधयोः । न्यायानुसारके प्रेक्षः प्रेक्षा नृत्येक्षणे गतौ ॥ १० ॥ प्लक्षस्तु पिप्पले जङ्घद्वारपार्श्वे गृहस्य च । द्वीपभेदे गर्द्दभाण्डे भिक्षुकीतिविशेषयोः ॥ ११ ॥ भिक्षा भृत्यर्थनासेवास्वपि भिक्षितवस्तुनि । मोक्षोऽपवर्गे मृतौ च मोक्षो मुष्ककपादपे ॥ १२ ॥ ;p{0404} कुबेरे गुह्यके यक्षो रक्षा रक्षणलाक्षयोः । रूक्षो वृक्षान्तरे प्रेमशून्यकर्क्कशयोस्त्रिषु ॥ १३ ॥ लक्षं न पुंसि सङ्ख्यायां क्लीबं छद्मशरव्ययोः । लक्षं वितस्तौ च क्लीबं वीक्षं दृश्येऽभिधेयवत् ॥ १४ ॥ ;v{क्षतृतीयम्} ;c{क्षतृतीयम् ।} अध्यक्षः स्यादधिकृते प्रत्यक्षेऽप्यभिधेयत् । आरक्षं रक्षणीयेऽपि शिरोकर्म्मणि दन्तिनाम् ॥ १५ ॥ उत्प्रेक्षा तु मता काव्याऽलङ्काराऽनवधानयोः । गवाक्षी त्विन्द्रवारुण्यां पुंसि जालककीशयोः ॥ १६ ॥ गोरक्षो नागरङ्गे स्याद्गवां च परिरक्षके । मृगाक्षी मृगनेत्रायामिन्द्रवारुणिकामिनोः ॥ १७ ॥ रक्ताक्षः सैरिभे क्रूरे पारावतचकोरयोः । समीक्षा तत्त्वे बुद्धौ स्याद्ग्रन्थभेदे निभालने ॥ १८ ॥ ;p{0405} ;v{क्षचतुर्थम्} ;c{क्षचतुर्थम् ।} देववृक्षः सप्तपर्णे मन्दारादिषु गुग्गुले । वीरवृक्षस्तु भल्लातपादपे ककुभद्रुमे ॥ १९ ॥ भूतवृक्षस्तु शाखोटयक्षश्योनाकपादपे । विख्यातो राजवृक्षस्तु सुवर्णालुपियालयोः ॥ २० ॥ विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम् । सकटाक्षो धवद्रौ स्यात्कटाक्षसहिते त्रिषु ॥ २१ ॥ अणादितव्यादिगुणादियोगात्पदं बहुव्रीहिमतं च वीक्ष्य । अनुक्तलिङ्गं च समूहनीयं कृतं यदि क्वापि बहुत्वभीतेः ॥ २२ ॥ ;c{इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां क्षकारान्तवर्गः ।} ;p{0406} ;k{अव्ययानि} ;c{अथाव्ययानि ।} ;v{अजन्तानि} ;c{अजन्तानि ।} अकारादिकमप्येवमिदानीं समनुक्रमात् । मया नानार्थकाण्डेऽस्मिन्विधीयन्तेऽव्ययानि च ॥ १ ॥ अः श्रीकण्ठेऽव्ययं तुल्याभावयोराः पितामहे । आ प्रगृह्यः स्मृतौ वाक्येऽत्यल्पेऽव्ययमथाऽव्ययम् ॥ २ ॥ आङीषदर्थेऽभिव्याप्तौ सीमायां धातुयोगजे । सन्तापे च प्रकोपे च भवेदाः स्मृतमव्ययम् ॥ ३ ॥ इस्तु कामे पुमान्खेदे रुषोक्तौ चाव्ययं भवेत् । ई लक्ष्म्यामव्ययं त्वी स्याद्दुःखभावनकोपयोः ॥ ४ ॥ उः शिवे नाऽव्ययं तु स्यात्सम्बुद्धौ रोषमापणे । ऊः स्यादनव्ययं रक्षारक्षसू त्रिषु रक्षके ॥ ५ ॥ सूतिक्रियायां सूतौ च वाक्यारम्भे त्वसङ्ख्यकम् । ऋर्देवमातरि स्त्री स्यादव्ययं वाक्यकुत्सयोः ॥ ६ ॥ ;p{0407} ॠश्च स्त्री देवताम्बायां स्यादेः पुंसि चतुर्भुजे । स्मृतिसम्बोधनाह्वानेऽव्ययमैस्तु शिवे पुमान् ॥ ७ ॥ अव्ययं त्वै समाख्यातं स्मृत्यामन्त्रणहूतिषु । ओः पुमान्ब्रह्मणि ख्यातेऽव्ययमामन्त्रणाह्वयोः ॥ ८ ॥ और्नभस्यव्ययं तु स्यात्सम्बुद्ध्याह्वानयोर्मतम् । परब्रह्मण्यनुमतावः स्यादश्च तथाऽव्ययम् ॥ ९ ॥ अः पुंसि शङ्करे ख्यातः कादिख्यातमतोव्ययम् । ;v{कान्तानि} ;c{क०} कु निन्दायामीषदर्थे किल्बिषे वारणेऽपि च ॥ १० ॥ ;v{गान्तानि} ;c{ग०} निर्भर्त्सनेऽपि निन्दायां धिग् मनागल्पमन्दयोः । अङ्ग सम्बोधने हर्षे पुनरर्थेऽपि दृश्यते ॥ ११ ॥ ;v{चान्तानि} ;c{च०} चः पादपूरणे पक्षान्तरे चापि समुच्चये । अन्वाचये समाहारेऽप्यन्योन्यार्थेऽवधारणे ॥ १२ ॥ ;p{0408} किञ्चारम्भेऽपि साकल्ये वस्तुहेतौ विनिश्चये । तिर्यक्तिरोर्थे च कुले विहगादिष्वनव्ययम् ॥ १३ ॥ ननुच प्रश्नदुष्टोक्त्योः प्राक् स्यादिग्देशकालतः । प्रागग्रातीतपूर्वेषु प्रभाते चाप्यनन्तरे ॥ १४ ॥ सम्यग् बाढे प्रशंसायां हिरुग् मध्यविनार्थयोः । ;v{ञान्तानि} ;c{ञ०} नञभावे निषेधे च तद्विरुद्धतदन्ययोः ॥ १५ ॥ सादृश्ये चेषदर्थे च स्वरूपार्थेऽप्यतिक्रमे । ;v{ठान्तानि} ;c{ठ०} सुष्ठु प्रशंसनेऽत्यर्थेऽपष्ठु शोभानवद्ययोः ॥ १६ ॥ ;v{णान्तानि} ;c{ण०} अन्तरेण विनामध्यार्थयोः ख्यातं ;v{तान्तानि} ;c{त०} त्वति स्तुतौ । नितान्ताऽसंप्रतिक्षेपप्रकर्षे लङ्घनेप्यति ॥ १७ ॥ ;p{0409} अतोऽपदेशे निर्देशे पञ्चम्यन्ते च कारणे । अन्ततः शासने पंचम्यर्थे सम्भावनाङ्गयोः ॥ १८ ॥ अस्तु स्यादभ्यनुज्ञानेऽप्यसूयामात्रयोरपि । अहोबत मतं खेदे सम्बुद्धौ चानुकम्पने ॥ १९ ॥ अहोबताद्भुतेऽपि स्यादाराद्दूरसमीपयोः । इतस्तु पञ्चम्यर्थे स्यादिते नियमभागयोः ॥ २० ॥ इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ॥ २१ ॥ उत प्रश्ने वितर्केर्थेऽप्युतात्यर्थविकल्पयोः । किन्तु स्यात्प्रश्नमात्रेऽपि किन्तु कामवितर्कयोः ॥ २२ ॥ किमुताऽतिशये प्रश्ने विकल्पार्थेऽपि कीर्त्तितः । कुतः स्यान्निह्नुते प्रश्ने पञ्चम्यर्थे कुतः स्मृतम् ॥ २३ ॥ ;p{0410} ते तवार्थे त्वयार्थे च मे च मममयार्थयोः । तु पादपूरणे भेदाऽवधारणसमुच्चये ॥ २४ ॥ पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे । तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ॥ २५ ॥ आनन्तर्येऽपि तावत्तु कार्त्स्न्ये मानावधारणे । परिच्छदे तु पश्चात्तु प्रतीच्यां चरमेऽपि च ॥ २६ ॥ पुरस्तात्प्रथमे प्राच्यामग्रतोऽर्थपुरार्थयोः । प्रति स्यात्प्रतिदाने च प्रति प्रतिनिधावपि । प्रधाने सम्भवे वीप्सालक्षणादौ प्रयोगतः ॥ २७ ॥ मात्रार्थे चाभिमुख्ये च प्रकाशे च स्मृतं प्रति । बत खेदे कृपानिन्दासन्तोषाऽऽमन्त्रणाद्भुते ॥ २८ ॥ यतःशब्दस्तु नियमे पञ्चम्यर्थविभागयोः । ;p{0411} यद्वत्प्रश्ने वितर्के च यावन्मानेऽवधारणे ॥ २९ ॥ सीम्नि कार्त्स्न्ये परिच्छेदे शश्वत्पुनःसहार्थयोः । स्वित्प्रश्ने च वितर्के च सकृत्सहैकवारयोः ॥ ३० ॥ युक्तार्थे बहुमात्रार्थेप्यधुनार्थेऽपि सम्प्रति । प्रत्यक्षवाचकः साक्षात्साक्षात्तुल्यार्थवाचकः ॥ ३१ ॥ स्वस्त्याशीःक्षेमपुण्येषु मतं स्वस्ति सुखादिषु । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ ३२ ॥ विवादे शोभनार्थे च हन्तशब्दः प्रयुज्यते । ;v{थान्तानि} ;c{थ०} अथाऽथो च शुभे प्रश्ने साकल्यारम्भसंशये ॥ ३३ ॥ अनन्तरेऽप्यन्यथात्वपरार्थवितथार्थयोः । तथा सादृश्यनिर्देशनिश्चयेषु समुच्चये ॥ ३४ ॥ ;p{0412} कारणस्योपपत्तावप्युद्देशप्रतिवाक्ययोः । यथाऽनुमाने सादृश्ये निर्देशोद्देशयोरपि ॥ ३५ ॥ कारणस्योपपत्तौ च वृथा तु विधिवर्जिते । वृथा निष्कारणे वन्ध्ये सर्वथा हेतुवादयोः ॥ ३६ ॥ उत्प्राधान्ये प्रकाशे च मोक्षबन्धोर्द्ध्वकर्म्मसु । प्राबल्यलाभभावेषु विभागाऽस्वास्थ्यशक्तिषु ॥ ३७ ॥ तत्कारणे तदात्वे च हेतुयद्यर्थयोस्तु यत् । ;v{नान्तानि} ;c{न०} अनु त्वनुक्रमे हीने पश्चादर्थसहार्थयोः । आयामेऽपि समीपार्थे सादृश्ये लक्षणादिषु ॥ ३८ ॥ किन्नु प्रश्ने वितर्के च ननु प्रश्नावधारणे । नन्वनुज्ञावितर्कायमन्त्रेष्वनुनये ननु ॥ ३९ ॥ नाना विनार्थेऽपि मतं नानाऽनेकोभयार्थयोः । ;p{0413} निः स्यान्नित्यभृशाश्चर्यविन्यासक्षेपराशिषु ॥ ४० ॥ अन्तर्भावेऽप्यधोभावे दर्शने दानकर्म्मणि । बन्धोपरमसामीप्यमोक्षकौशलसंयमे ॥ ४१ ॥ निवेशेऽप्यथ नु प्रश्नेऽतीतेऽनुनयवार्थयोः । स्थाने तु युक्तसादृश्यकारणार्थेषु दृश्यते ॥ ४२ ॥ ;v{पान्तानि} ;c{प०} अप स्यादपकृष्टार्थे वर्जनार्थे विपर्यये । वियोगे विकृतौ चौर्ये हर्षनिर्देशयोरपि ॥ ४३ ॥ अपि सम्भावनाशङ्काप्रश्नगर्हासमुच्चये । अपि युक्तपदार्थेषु कामकारक्रियास्वपि ॥ ४४ ॥ उप हीनेऽधिके व्याप्तौ शक्तौ चारम्भपूजयोः । आचार्यकरणे दाने दाक्षिण्ये व्यत्ययेऽपि च ॥ ४५ ॥ तद्योगे दोषकथने मरणार्थोद्यमार्थयोः । समासन्नेऽपि लिप्सायामुपशब्दः प्रकीर्त्तितः ॥ ४६ ॥ ;p{0414} ;v{वान्तानि} ;c{व०} वशब्द उपमायां स्याद्वरुणे वः पुमानयम् । वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये ॥ ४७ ॥ वै पादपूरणे सम्बोधनेऽप्यनुनये ध्रुवे । ;v{भान्तानि} ;c{भ०} अभीत्थंभूतकथनेऽप्यतिवीप्साऽभिमुख्ययोः ॥ ४८ ॥ अभीक्ष्णं तु मुहुःशीघ्रप्रकर्षेऽप्यतिसन्तते । स्यादभीक्ष्णं तथा पौनःपुन्यसन्ततयोर्मतम् ॥ ४९ ॥ ;v{मान्तानि} ;c{म०} अमा सहार्थाऽन्तिकयोरमावास्याममा स्त्रियाम् । अलं भू्षणपर्याप्तिशक्तिवारणनिष्फले ॥ ५० ॥ यत्ने नित्येऽप्यवश्यं स्यादास्मृताववधारणे । इदानीं वाक्यभूषायां सम्प्रत्यर्थे च सम्मतम् ॥ ५१ ॥ इं दुःस्वभावने क्रोधे प्रत्यक्षे सन्निधावपि । ;p{0415} उं प्रश्नेङ्गीकृतौ रोषे ऊं प्रश्ने रोषभाषणे ॥ ५२ ॥ एवं प्रक्रारोपमयोरङ्गीकारेऽवधारणे । ओं स्यादनुमतौ प्रोक्तं प्रणवे चाप्युपक्रमे ॥ ५३ ॥ कं शिरःसुखनीरेषु कथं प्रश्नप्रकारयोः । सम्भ्रमे सम्भवे चाथ कामं त्वनुमतौ मतम् ॥ ५४ ॥ प्रकामानुगमाऽसूयास्वथ किं प्रश्नकुत्सयोः । जोषं तु तूष्णींसुखयोः प्रशंसायां च लङ्घने ॥ ५५ ॥ तद्दिनं दिनमध्ये स्यात्तद्दिनं प्रतिवासरे । तूष्णीकां मौनमात्रे स्यात्तूष्णीकं त्रिषु मौनिनि ॥ ५६ ॥ नाम प्राकाश्यसम्भाव्यकुत्साऽभ्युपगमे क्रुधि । नूनं तर्के तु विख्यातं नूनं स्यादर्थनिश्चये ॥ ५७ ॥ ;p{0416} प्राध्वं नर्मेऽनुकूलेऽपि प्रकर्षात्यर्थयोर्भृशम् । शं कल्याणे सुखे चाथ स्माऽतीते पादपूरणे ॥ ५८ ॥ सं सड्गार्थे शोभनार्थे प्रहृष्टार्थसमार्थयोः । सामि निन्दार्द्धयोर्युक्तेऽप्यधुनार्थेऽपि साम्प्रतम् ॥ ५९ ॥ हं रुषोक्तावनुनये हुं स्यात्प्रश्नवितर्कयोः । हूं विक्रमे चानुमतौ तज्जनेऽपि क्वचिन्मतम् ॥ ६० ॥ ;v{यान्तानि} ;c{य०} अये स्मृतौ विषादे स्यादये सम्भ्रमकोपयोः । अयि काकुकुलालापसम्बोधप्रेमभाषिते ॥ ६१ ॥ अयि प्रश्नानुनययोः समयाऽन्तिकमध्ययोः । ;v{रान्तानि} ;c{र०} अन्तरा तु विनार्थे स्यान्मध्यार्थनिकटार्थयोः ॥ ६२ ॥ ;p{0417} अन्तः प्रान्तार्थमध्यार्थस्वीकारार्थे तु वर्जने । उरर्युरुरीवदूरी विस्तारेऽङ्गीकृतौ त्रयम् ॥ ६३ ॥ दुर्निषेधेऽपि कष्टेऽपि गताद्यर्थाऽप्रकर्षयोः । निर्निःशेषे निषेधे च क्रान्ताद्यर्थे च निश्चये ॥ ६४ ॥ परा गतौ वधे प्रातिलोम्यप्राधान्यघर्षणे । आभिमुख्ये विमोक्षे च भृशार्थे विक्रमेऽपि च ॥ ६५ ॥ परि स्यात्सर्वतोभावे वीप्सायां लक्षणादिषु । आलिङ्गने निरसने व्यापने व्याधिशोकयोः ॥ ६६ ॥ पूजोपरमभूषासु दोषाख्यानेऽपि वर्जने । पुनर्भिदाऽप्रथमयोः पुरा भाविपुराणयोः ॥ ६७ ॥ प्रबन्धे निकटेऽतीते स्वः स्वर्गपरलोकयोः । ;v{लान्तानि} ;c{ल०} किल त्वरुचौ वार्त्तायां सम्भाव्यानुनयार्थयोः ॥ ६८ ॥ ;p{0418} खलु स्याद्वाक्यभूषायां खलु वीप्सानिषेधयोः । निश्चिते सान्त्वने मौने जिज्ञासादौ खलु स्मृतम् ॥ ६९ ॥ ;v{वान्तानि} ;c{व०} अव व्याप्तौ परिभवे वियोगालम्बशुद्धिषु । ईषदर्थेऽपि विज्ञानेप्येवौपम्येऽवधारणे ॥ ७० ॥ वस्तु युष्माकमित्यर्थे वर्त्तते भेदने तु वि । वि स्यादतीते नानार्थे श्रेष्ठे विस्तु खगे पुमान् ॥ ७१ ॥ ;v{षान्तानि} ;c{ष०} उषाऽसङ्ख्यं ससङ्ख्यं च निशान्तनिशयोर्मतम् । दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ ॥ ७२ ॥ निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम् । विभाषा तु स्त्रियां क्वापि विकल्पार्थे समुच्चये ॥ ७३ ॥ ;v{सान्तानि} ;c{स०} अग्रतः प्रथमेऽग्रे स्यादञ्जसा तत्त्वतूर्णयोः । ;p{0419} अभितोऽन्तिकसाकल्यसम्मुखोमयतो द्रुते ॥ ७४ ॥ तिरोऽन्तर्द्धौ तिर्यगर्थे निस् निश्चयनिषेधयोः । साकल्यातीतयोश्चाथ नीचैः स्वैराल्पयोर्म्मतम् ॥ ७५ ॥ पुरोऽग्रे प्रथमे च स्यात्पुरतः प्रथमाग्रयोः । प्रातर्द्दिनेऽपि पूर्वेद्युः पूर्वेद्युर्द्धर्म्मवासरे ॥ ७६ ॥ पूर्वत्रार्थेऽपि पूर्वेद्युर्भूयस्तु स्यात्पुनःपुनः । अनव्ययं प्रभूतार्थे मिथोन्योन्यं मिथो रहः ॥ ७७ ॥ प्रादुः स्यात्प्रकटीभावे प्रादुः सम्भाव्यमात्रके । शनैः शनैश्चरे ख्यातं स्वैरेऽपि च शनैरिति ॥ ७८ ॥ सु पूजायां भृशार्थाऽनुमतिकृच्छ्रसमृद्धिषु । तत्कालमात्रे सहसा सहसाऽऽकस्मिकेऽपि च ॥ ७९ ॥ ;v{हान्तानि} ;c{ह०} अहा शोके धिगर्थे च विषादकरुणार्थयोः । ;p{0420} अहो प्रश्ने विचारे स्यादहहाद्भुतखेदयोः ॥ ८० ॥ अहह स्यादनुशये परिक्लेशप्रकर्षयोः । आह क्षेपनियोगार्थेऽप्युताहो प्रश्नतर्कयोः ॥ ८१ ॥ सहशब्दस्तु साकल्ययौगपद्यसमृद्धिषु । सादृश्ये विद्यमानेऽपि सम्बन्धेऽपि सह स्मृतम् ॥ ८२ ॥ ह पादपूरणे सम्बोधने हीरे त्वनव्ययम् । हा विषादेऽपि दुःखेऽपि शोके हाहा तु खेदने ॥ ८३ ॥ गन्धर्वेऽनव्ययं हाहा हि विशेषेऽवधारणे । हि पादपूरणे हेतौ ही विस्मयविषादयोः ॥ ८४ ॥ ही हर्षे दुःखहेतौ च हीही विस्मयहास्ययोः । हूहू हर्षेऽपि गन्धर्वे गन्धर्वे किन्त्वनव्ययम् ॥ ८५ ॥ हेहे व्यस्तौ समस्तौ च संस्मृत्यामान्त्रहूतिषु । हो च हौ च समस्तौ च सम्बुद्ध्याध्यानयोर्मतौ ॥ ८६ ॥ ;p{0421} मङ्क्षुः शीघ्रे भृशार्थेऽपि मङ्क्षु तत्त्वेऽपि कुत्रचित् ॥ ८७ ॥ ;c{इति विश्वलोचनेऽपरामियानायां मुक्तावल्यामव्ययानेकार्थवर्गः ।} ;c{इति श्रीपण्डितश्रीश्रीधरसेनविरचिते विश्वलोचनेऽपराभिधानायां मुक्तावल्यां नानार्थकाण्डः समाप्तः ।} ;c{श्री ॥ श्री ॥ विक्रम संवत् १९६९ ॥} ;c{समाप्तोऽयं ग्रन्थः ।}