;METADATA ;title{विश्वप्रकाशः} ;author{श्रीमहेश्वरसूरि} ;bookFullName{विश्वप्रकाशः । नाम शब्दकोषः । विद्वद्वरश्रीमहेश्वरसूरिणा प्रणीतः ।} ;bookSeriesDetails{Chowkhamba Sanskrit Series; A Collection of Rare & Extraordinary Sanskrit Works Nos. 160 & 168.} ;editor{Śrīśīlaskandha Sthavira, Paṇḍita Ratna Gopāla Bhaṭṭa} ;editorQualifications{लङ्कायां शैलबिम्बारामविहारे सरस्वतीमण्डपाधिपतिना पूज्याचार्य्यश्रीशीलस्कन्धाभिधानेन स्थविरेण प्रयत्नेन तथा श्रीमदाचार्यरत्नगोपालभट्टेन च संशोधितः} ;publisher{Chowkhamba Sanskrit Book-depot, Benaras. Agents - Otto Harrassowitzi Leipzigl Paṇḍita Jyeṣṭharāma Mukundaji, Bombay; Probsthain & Co. Booksellers, London} ;pressDetails{Jai Krishna Dasa Gupta, at the Vidyā Vilāsa Press, Benares} ;publicationYear{1911 A.D.} ;dataEntryBy{Dr. Dhaval Patel} ;dataEntryEmail{drdhaval2785@gmail.com} ;proofReadBy{Dr. Dhaval Patel} ;proofReaderEmail{drdhaval2785@gmail.com} ;annotatedBy{} ;annotatorEmail{} ;version{0.1.0} ;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.} ;projectWebPage{http://github.com/sanskrit-kosha/kosha} ;emailTo{drdhaval2785@gmail.com} ;description{} ;shortCode{VPRM} ;funding{Shree Ramkrishna Knowledge Foundation.} ;licence{GNU GPL v3.0} ;credits{1. SRKKF for funding. 2. www.archive.org for providing us the scanned book to digitize. 3. Dr. Dhaval Patel for spending time to do data entry and to proofread the data.} ;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.} ;editorialChanges{On page 17, verse 179 is missing.} ;nymic{homo} ;pagenum{true} ;linenum{false} ;chapterArrangements{kanda holds varga which holds subvarga.} ;newVerseNumbersAtChangeOf{varga} ;newLineNumbersAtChangeOf{none} ;version0.0.1{12 February 2019} ;version0.0.2{17 February 2019} ;version0.0.3{17 February 2019} ;version0.0.4{13 June 2019} ;version0.1.0{13 June 2019} ;version0.2.0{} ;version0.2.1{} ;version0.2.2{} ;version0.3.0{} ;version0.3.1{} ;version0.3.2{} ;version0.3.3{} ;version0.3.4{} ;version0.3.5{} ;version0.3.6{} ;version1.0.0{} ;CONTENT ;p{0001} ;c{श्रीः ।} ;c{विश्वप्रकाशः} ;c{विद्वद्वरश्रीमहेश्वरविरचितः} ;c{नमः सम्यक्सम्बुद्धाय ॥} ;preface{ स्तुवीमहि महामोहक्लेशान्तकभिषग्वरम् । त्रैधातुकनिदानज्ञं सर्वज्ञं दुःखहानये ॥ १ ॥ कलाविलासान्मकरन्दबिन्दु- मुद्रां विनिद्रे हृदयारविन्दे । या कल्पयन्ती रमते कवीनां देवीं नमस्यामि सरस्वतीं ताम् ॥ २ ॥ कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरम् । वाचस्पतिमतिस्पर्द्धिशेमुषीचन्द्रिकोज्ज्वलम् ॥ ३ ॥ क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासियशःश्रियम् । गुरुं वन्दे जगद्वन्द्यं गुणरत्नैकरोहणम् ॥ ४ ॥ श्रीसाहसाङ्कनृपतेरनवद्यवैद्य- विद्यातरङ्गपदमद्वयमेव बिभ्रत् । यश्चन्द्रचारुचरितो हरिचन्द्रनामा स्वव्याख्यया चरकतन्त्रमलञ्चकार ॥ ५ ॥ आसीदसीमवसुधाधिपवन्दनीये तस्यान्वये सकलवैद्यकलावतंसः । शक्रस्य दस्र इव गाधिपुराधिपस्य श्रीकृष्ण इत्यमलकीर्त्तिलतावितानः ॥ ६ ॥ ;p{0002} सङ्कल्पसम्भवदनल्पविकल्पजल्प- कल्पानलाकुलितवादिसहस्रसिन्धुः । तर्कत्रयत्रिनयनस्तनयो यदीयो दामोदरः समभवद्भिषजां वरेण्यः ॥ ७ ॥ तस्याभवत् सूनरुदारवाचो वाचस्पतिश्रीललनाविलासी । सद्वैद्यविद्यानलिनीदिनेशः श्रीमह्लणः सत्कुमुदाकरेन्दुः ॥ ८ ॥ यद्भ्रातृजः सकलवैद्यकतत्त्वरत्न- रत्नाकरश्रियमवाप्य च केशवोऽभूत् । कीर्त्तेर्निकेतनमनिन्द्यपदप्रमाण- वाक्यप्रपञ्चरचनाचतुराननश्रीः ॥ ९ ॥ कृष्णस्य चाऽजनि सुतः स्मितपुण्डरीक- षण्डातपत्रपरभागयशःपरागः । श्रीब्रह्म इत्यविकलात्ममुखारविन्द- सोल्लासलासितरसार्द्रसरस्वतीकः ॥ १० ॥ तस्यात्मजः सरसकैरवकान्तकीर्तिः श्रीमान्महेश्वर इति प्रथितः कवीन्द्रः । निःशेषवाङ्मयमहार्णवपारदृश्वा शब्दागमाम्बुरुहषण्डरविर्बभूव ॥ ११ ॥ यः साहसाङ्कचरितादिमहाप्रबन्ध- निर्म्माणनैपुणगुणागतगौरवश्रीः । यो वैद्यकत्रयसरोजसरोजबन्धु- र्बन्धुः सतां सुकविकैरवकाननेन्दुः ॥ १२ ॥ इयं कृतिस्तस्य महेश्वरस्य ;p{0003} वैदग्ध्यसिन्धोः पुरुषोत्तमानाम् । देदीप्यतां हृत्कमलेषु नित्य- माकल्पमाकल्पितकौस्तुभश्रीः ॥ १३ ॥ लब्धैः कथञ्चिदभिजातसुवर्णकार- लीलेन कोषवररत्नधिशब्दरत्नैः । विश्वप्रकाश इति काञ्चनबन्धशोभां बिभ्रन्मयाऽत्र घटितो मुखखण्ड एषः ॥ १४ ॥ क्षोणीश्वरोदीरितशब्दकोष- रत्नाकरालोडनलालसानाम् । सेव्यः कथं नैष सुवर्णशैलो विश्वप्रकाशो विबुधाधिपानाम् ॥ १५ ॥ भोगीन्द्रकात्यायनसाहसाङ्क- वाचस्पतिव्याडिपुरःसराणाम् । सविश्वरूपामलमङ्गलानां शुभाङ्गगोपालितभागुराणाम् ॥ १६ ॥ कोषावकाशात् प्रकटप्रभाव- सम्भाविताऽनर्घ्यगुणः स एषः । सम्पादयन्नेष्यति वाञ्छितार्थान् कथं न चिन्तामणितां कवीनाम् ॥ १७ ॥ आ मित्रशैलचरमाचलमेकलाद्रि- कैलासभूभिवलयाद्यदिहाऽस्ति किञ्चित् । एकत्र सम्भृतमगोचरशब्दरत्न- मालोक्यतां तदखिलं सुधियः कवीन्द्राः ॥ १८ ॥ यद्यस्ति वाङ्मयमहार्णवण्मथनेच्छा प्राप्तुं पदं फणिपतेर्यदि कौतुकं वः ॥ ;p{0004} विश्वप्रकाशमनिशं तदिमं निषेव्य सम्भाव्यतां परमशाब्दिकशेखरश्रीः ॥ १९ ॥ सतां पुस्तकसम्भारभारमोक्षः कृतो मया । नामानुशासनमिदं सम्पूर्णं तन्वताऽद्भुतम् ॥ २० ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः । कान्तादिवर्गैर्नानार्थसङ्ग्रहोऽयं वितन्यते ॥ २१ ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः । सप्तम्यन्तेषु शब्देषु वर्तमानः सुनिश्चितः ॥ २२ ॥ दृष्टान्तेन सह क्वाऽपि सप्तम्याधार एव च । स्पष्टाय लिङ्गभेदाय क्वाऽप्यत्र पुनरुक्तता ॥ २३ ॥ } ;k{अनेकार्थशब्दपरिच्छेदः} ;v{कान्तवर्गः} ;vv{कैककम्} को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावके च मयूरे च सुखशीर्षजलेषु कम् ॥ २४ ॥ ;vv{कद्विकम्} अकं पापे च दुःखे च शको राजन्यदेशयोः । वकस्तु वकपुष्पे स्यात् कष्टे श्रीदे च रक्षसि ॥ २५ ॥ शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । ग्रन्थिपर्णे शिरीषे च शुकं स्याच्छोणके क्वचित् ॥ २६ ॥ द्विकः काके च कोके च सृको बाणानिलोत्पले । अर्कोऽर्कपर्णे स्फटिके रवौ ताम्रे दिवस्पतौ ॥ २७ ॥ कर्कः कर्के राशिभेदे शुक्लाश्वे दर्पणे घटे । तर्कः काङ्क्षावितर्कोहकर्मभेदेषु कीर्त्यते ॥ २८ ॥ श्लोको यशसि पद्ये च लोकस्तु भुवने जने । स्तोकोऽल्पे चातके तोकमपत्यपुत्रयोरपि ॥ २९ ॥ कोकश्चक्रे वृके ज्येष्ठ्यां खर्ज्जूरीद्रुमभेकयोः ॥ ;p{0005} रोको दीप्तौ विले रोकं नौकाक्रयणभेदयोः ॥ ३० ॥ बेको विदग्धे छेकश्च विश्वस्तमृगपक्षिणोः । रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च ॥ ३१ ॥ काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोबक्षालिने मानविशेषदीपभेदयोः ॥ ३२ ॥ काका स्यात् काकनासायां काकोलीकाकजङ्घयोः । रक्ते कायां मलप्वाञ्च काकमाच्याञ्च कीर्त्तिता ॥ ३३ ॥ काकं स्त्रीरतरबन्धे स्यात् काकानामपि संहतौ । पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च ॥ ३४ ॥ शाको द्वीपान्तरे शक्तौ नृपद्रुमविशेषयोः । शाकं हरितके चापि नाकः स्वर्गान्तरिक्षयोः ॥ ३५ ॥ मूकोऽप्यवाङ्मतौ दीने शूकोऽनुक्रोशशृङ्गयोः । भूकश्छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३६ ॥ एकन्तु केवलं श्रेष्ठ इतरस्मिंश्च वाच्यवत् । शौकं शुकसमूहे च स्त्रीणाञ्च करणान्तरे ॥ ३७ ॥ अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु । नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे ॥ ३८ ॥ कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः । वङ्कः पर्य्याणभागे स्यान्नदीपात्रे च भङ्गुरे ॥ ३९ ॥ टङ्कः कपित्थभेदे स्यान्मानान्तरखनित्रयोः । कोपेऽसिकोशे जङ्घायां टङ्कणे ग्रावदारणे ॥ ४० ॥ रङ्कस्तु कृपणे मल्ले पङ्कः कर्द्दमपापयोः । न्यङ्कुर्मृगे ऋषौ नाकुर्वामलूरे गिरौ मुनौ ॥ ४१ ॥ शङ्कुः कीले शिवेऽस्त्रे च संख्यायादप्रभेदयोः । कल्कः पापाशये पापे दम्भे विट्किट्टयोरपि ॥ ४२ ॥ ;p{0006} वल्कन्तु वल्कले खण्डे शल्कं शकलवल्कयोः । शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च ॥ ४३ ॥ निष्कमष्टाधिकस्वर्णशते दीनारकर्षयोः । वक्षो[ष्को]ऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥ ४४ ॥ मुष्कोऽण्डकोशे सङ्घाते मुष्को मोक्षे च पादपे । किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सितेऽपि च ॥ ४५ ॥ त्रिकाकूपस्य नेमौ स्यात् त्रिकं पृष्ठाधरे त्रये । लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ॥ ४६ ॥ शङ्का त्रासे वितर्के च राका तु सरिदन्तरे । कच्छूनवरजकन्यापूर्णेन्दुपूर्णिमासु च ॥ ४७ ॥ ;vv{कत्रिकम्} कनकं चम्पके स्वर्णे किंशुके नागकेशरे । धुत्तूरे काञ्चनारे च कालीयेऽपि क्वचिन्मतम् ॥ ४८ ॥ करकस्तु करङ्के स्याद्दाडिमे च कमण्डलौ । पक्षिभेदे करे चापि करका च घनोपले ॥ ४९ ॥ नरको निरये दैत्ये सरकः सीधुभाजने । अच्छिन्नाध्वगपङ्क्तौ च सीधुपाने च सीधुनि ॥ ५० ॥ खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषिके । जनकः पितृराजर्ष्योर्युतकं संशये युगे ॥ ५१ ॥ यौतके चलनाग्रे च स्त्रीवस्त्राञ्चलयुक्तयोः । कृषकः कषर्के फाले रजको धावके शुके ॥ ५२ ॥ मधुको वन्दिभेदे स्याज्ज्येष्ठ्याह्वे विहगान्तरे । मधुकं मधुपर्ण्यां स्यादनुको निपुणाल्पयोः ॥ ५३ ॥ वसुकः शिवमल्ल्यां स्यादर्क्कपर्णे च रोमके । शिशुकः शिशुमारे स्याद्बालकोलूपिनोरपि ॥ ५४ ॥ ;p{0007} क्रमुकः पट्टिकालोध्रे भद्रे मुस्तकपूगयोः । फले कार्पासिकायाश्च क्रमुको ब्रह्मदारुणि ॥ ५५ ॥ बहुकः कर्क्कटेऽर्के च दात्यूहे जलखातके । धनिकः साधुघन्याकधवेषु धनिका स्त्रियाम् ॥ ५६ ॥ प्रियकः पीतशाले स्यान्नीपे चित्रमृगेऽलिनि । कुङ्कुमे च प्रियङ्गौ च पृथुकश्चिपिटे शिशौ ॥ ५७ ॥ यमकं यमजे शब्दालङ्कारे संयमेऽपि च । मशकः कथ्यते क्षुद्ररोगजन्तुविशेषयोः ॥ ५८ ॥ कुलकन्तु पटोले स्याच्छ्लोकसम्बन्धगुच्छके । कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुके ॥ ५९ ॥ तिलकं चित्रके प्राहुर्ललामे तिलकालके । रोगविद्रुमभेदेषु लोम्नि सौवर्चलेऽपि च ॥ ६० ॥ कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे । कुशिकः स्यान्मुनौ तैलशेषे सर्ज्जाक्षवृक्षयोः ॥ ६१ ॥ चषकन्तु सुरापात्रे मधुमद्यप्रभेदयोः । चटकः कलविङ्के स्याच्चटका तत्स्त्र्यपत्ययोः ॥ ६२ ॥ कटकं वलये सानौ राजधानीनितम्बयोः । सामुद्रलवणे दन्तमण्डले दन्तिनामपि ॥ ६३ ॥ कटुका कटुरोहिण्यां व्योषेऽपि कटुकं स्मृतम् । चुलुकः प्रसुतौ भाण्डभेदे चुलुकवन्मतः ॥ ६४ ॥ पुलकः कृमिभेदे स्याद्गुच्छार्क्कमणिदोषयोः । गजान्नपिण्डे रोमाञ्चे हरिताले शिलान्तरे ॥ ६५ ॥ रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः । उत्कटे बीजपूरे च सौवर्चलविड[ह]ङ्गयोः ॥ ६६ ॥ रोचनायाञ्च रुचकमश्वाभरणमाल्ययोः ॥ ;p{0008} क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥ ६७ ॥ कामुकः कमनेऽशोकपादपे चातिमुक्तके । पातुकः पातयालौ स्यात् प्रपातजलहस्तिनोः ॥ ६८ ॥ आनकः पटहे भेर्य्यां मृदङ्गे स्वनदम्बुदे । आढकं मानभेदे स्यात् तुवर्य्यामाढकी मता ॥ ६९ ॥ कारकः कर्त्तरि प्रोक्तः कर्म्मादावपि कारकम् । चारकः पालकेऽश्वादेः स्यात् सञ्चारकवन्धयोः ॥ ७० ॥ तारकः कर्णधारे स्याद्दैत्ये च दृशि तारकम् । कनीनिकाया नक्षत्रे तारकं तारकेति च ॥ ७१ ॥ वारकोऽश्वगतावश्वविशेषे च निषेधके । जाहको घोङ्खमार्ज्जारखट्वाकारुण्डिकासु च ॥ ७२ ॥ पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके । भल्लातके विडङ्गे च सायकः शरखड्गयोः ॥ ७३ ॥ नायको नेतरि श्रेष्ठे हारमध्यमणावपि । प्राणकः सत्त्वजातीये जीवकद्रुमवेलयोः ॥ ७४ ॥ जालकं कोरके प्रोक्तं कुलाये जालिनीफले । आनाये दम्भभेदे च वस्त्रभेदे च जालिका ॥ ७५ ॥ बालकोऽग्रे शिशौ केशे वाजिवारणवालधौ । अङ्गुलीयकहीवेरपारिहार्य्येषु वालकम् ॥ ७६ ॥ वार्द्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्म्यणि । मामकं ममतायुक्ते मातुले मामकः स्मृतः ॥ ७७ ॥ याजको याजिनि ख्यातो याजको राजकुञ्जरे । ग्राहको घातविहगे व्यालानाञ्च ग्रहीतरि ॥ ७८ ॥ दारको भेदकेऽपत्ये रात्रकं पञ्चरा[त्र]के । येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः ॥ ७९ ॥ ;p{0009} लासकोऽलसके लास्यकारिण्यपि मयूरके । शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः ॥ ८० ॥ हारकः कितवे चौरे गद्यविज्ञानभेदयोः । स्थासकाख्या च चार्च्चिक्ये जलादेरपि बुद्बुदे ॥ ८१ ॥ द्रावकस्तु शिलाभेदे विदग्धे मोषकेऽपि च । भ्रामको जम्बुके धूर्ते सूर्यावर्ताश्मभेदयोः ॥ ८२ ॥ पिण्याकः सिह्लके हिङ्गौ तिलचूर्णेऽपि कुङ्कुमे । पिनाको हरकोदण्डे पांशुवर्षत्रिशूलयोः ॥ ८३ ॥ कावृकः कृकवाकौ स्यापी[त्पी]तमुस्तककोकयोः । क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च ॥ ८४ ॥ पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः । अक्षादिचालने मूलद्रव्योपचयवेधसोः ॥ ८५ ॥ {अत्रादर्शे एकाङ्कस्यानिर्देशात्‌ त्रुटिः संभाव्यते । } वराकः सङ्गरे शोच्ये पराको व्रतखड्गयोः । पुलाकस्तुच्छधान्ये स्यात् सङ्क्षेपे भक्तसिक्थके ॥ ८६ ॥ विपाकः कीर्त्त्यते स्वादौ परिणामे च दुर्गतौ । विपाकः पचने स्वेदेऽप्यसत्कर्म्मफलेऽपि च ॥ ८७ ॥ लम्पाको लम्पटे देशे शिम्फाकः शफमूर्खयोः । सम्पाकस्तार्किके धृष्टे सम्पाकश्चतुरङ्गुले ॥ ८८ ॥ मोचकः कदलीशिग्रुनिर्म्मोचकविरागिषु । पेचको गजलाङ्गूलमूलपर्य्यन्तघूकयोः ॥ ८९ ॥ मेचको बर्हिचन्द्रे स्यान्मेचकः श्यामलेऽपि च । तिमिरे कृष्णवर्णे तु मेचकं वाच्यवद्भवेत् ॥ ९० ॥ सूचकः सीवनद्रव्ये बोधके वृषदंशके । पिशुने शुनि काके च केचकः सेक्तृमेघयोः ॥ ९१ ॥ ;p{0010} लोचको मांसपिण्डे स्यादक्ष्णि तारे च कङ्गुले । ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ॥ ९२ ॥ निर्बुद्धौ कर्णपूरे च मौर्व्यां भूश्लथचर्म्मणि । मोदको हर्षके ज्ञेयः खाद्यभेदे च मोदकम् ॥ ९३ ॥ खोलकः पाकवल्मीकपूगकोषशिरस्त्रके । गोलको विधवापुत्रे जाराच्च मणिके गुडे ॥ ९४ ॥ कूपको गुणवृक्षे स्यात्तैलपात्रे कुकुन्दरे । उदपाने चितायाञ्च कूपिकाऽम्भोगतोपले ॥ ९५ ॥ कूलकः कृमिशैले च प्रतीरस्तूपयोरपि । रूपकं नाटके धूर्ते काव्यालङ्करणे विदुः ॥ ९६ ॥ चूतकः कूपकेऽप्याम्रे सूतकं रसजन्मनोः । लूनकः स्यात् पशौ भिन्ने शूचकः प्रावटे रसे ॥ ९७ ॥ कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे । कीटकः कृमिभेदे स्यान्निष्ठुरे कीटकोऽन्यवत् ॥ ९८ ॥ जीवकः पीतशाले स्यात् क्षपणे वृद्धजीविनि । सेविनि प्राणकेऽप्याहितुण्डिके पादपान्तरे ॥ ९९ ॥ आजीवे जीविकामाहुर्जीवन्त्यामपि कुत्रचित् । दीपकं वागलङ्कारे दीपको दीप्तिकारके ॥ १०० ॥ चीरको धिक्क्रियालेरवे पतङ्ग्यां[?] चीरिका मता । सेवकस्तु प्रसेवे स्यादनुजीविनि चान्यवत् ॥ १०१ ॥ अशोको वञ्चुले माने द्रुमनिःशोकयोर्मतः । अशोका कटुरोहिण्यामशोकं पादपे स्मृतम् ॥ १०२ ॥ आलोको दर्शने द्योते आलोको वन्दिभाषणे । पेटकं पुस्तकादीनां मञ्जूषाणां कदम्बके ॥ १०३ ॥ हेरको बुद्धभेदे स्यान्महाकालगणेऽपि च ॥ ;p{0011} धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०४ ॥ विवेकः स्याज्जलद्रोण्यां विचारेऽपि रहस्यपि । गैरिकं कनके धातौ प्रसेकः सेचने च्युतौ ॥ १०५ ॥ वैजिके शिग्रुतैले च हेतौ सद्योऽङ्कुरेऽपि च । कोरकं कुड्मले विद्यात् कक्कोलकमृणालयोः ॥ १०६ ॥ कौतुकञ्चाभिलाषे स्यादुत्सवे नर्म्महर्षयोः । परम्परासमायातमङ्गले च कुतूहले ॥ १०७ ॥ विवरे सूत्रगीतादिभोगकाब्दे च स्मृतम् । कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः ॥ १०८ ॥ विश्वामित्रे च कोशाग्र्योकृकयोरपि कौशिकः । कौशिकी चण्डिकायाञ्च नदीभेदे च कौशिकी ॥ १०९ ॥ प्रतीकोऽवयवे प्रोक्तः प्रतिकूलविलोमयोः । भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तृणे[?] ॥ ११० ॥ अभीकः कामुके क्रूरे कवौ च भयवर्जिते । वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ॥ १११ ॥ अनीकन्तु प्रिये प्रोक्तं व्यलीको नागरे स्मृतः । व्यलीकमप्रियाकार्य्ये वैलक्ष्येष्वपि पीडने ॥ ११२ ॥ नालीकं शरखण्डेऽब्जे नालीकः शरशल्ययोः । अलीकमप्रिये प्रोक्तमलीकमनृतेऽपि च ॥ ११३ ॥ अनूकन्तु कुले शीलेऽप्यनूको गतजन्मनि । उलूकः कुरविन्दे स्यात् पेचके जम्भभेदिनि ॥ ११४ ॥ शम्बूको गजकुम्भान्ते दैत्यभेदे च घोङ्गके । बन्धूको बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ ११५ ॥ मण्डूकं बन्धुभेदेऽपि दर्दुरे शोणके विदुः । मण्डूकपर्ण्यां मण्डूकी वर्णकश्चारणे स्मृतः ॥ ११६ ॥ ;p{0012} विलेपने चन्दने च वर्णकं स्यादथार्भकः । डिम्भे मूर्खे कृशे चूणे वर्तकोऽश्वखुरे खगे ॥ ११७ ॥ पुष्पकं प्रीतिकानेत्ररोगयो रत्नकङ्कणे । कुबेरस्य विमाने च काशीशे च रसाञ्जने ॥ ११८ ॥ लोहे कांस्ये मृदङ्गारशकट्यामपि पुष्पकम् । पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्न्यान्तु पूर्णिका ॥ ११९ ॥ दर्शकः स्यात् प्रतीहारे दर्शयितृप्रवीणयोः । पद्मकं पद्मकाष्टेभविन्दुजालकयोरपि ॥ १२० ॥ दीप्यकञ्चाजमोदे स्याद्यवानीबर्हिचूडयोः । सस्यकः स्यान्मणौ खड्गे नारिकेलस्य चान्तरे ॥ १२१ ॥ रक्तको म्लानबन्धूकरक्तवस्त्रानुरागिषु । चित्रकः स्यात्तरुव्याघ्रभेदयोर्भेषजान्तरे ॥ १२२ ॥ वृश्चिकस्तु द्रुणे[?] राशौ शूककीटे तथौषधे । अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ १२३ ॥ अन्तिकं निकटे चुल्ल्यामन्तिका शीतलौषधे । तथा ज्येष्ठभगिन्याञ्च नाट्योक्तौ कीर्त्त्यतेऽन्तिका ॥ १२४ ॥ स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः । पिष्टकस्य विकारे च स्वस्तिको रजतालिके ॥ १२५ ॥ कञ्चुको वारबाणे स्यान्निर्म्मोके कवचेऽपि [च] । वर्द्धापकगृहीताङ्गस्थितवस्त्रे च चोलके ॥ १२६ ॥ औषधौ कञ्चुकी चाथ वञ्चकः खलधूर्त्तयोः । जम्बूके गृहबभ्रौ च गुह्यकश्छेकनिघ्नयोः ॥ १२७ ॥ बन्धक स्याद्विनिमये पुँश्चल्यां स्याच्च बन्धकी । गान्धिकं लेखके प्राहुः सुगन्धिव्यवहारिणि ॥ १२८ ॥ ग्रन्थिकं पिप्पलीमूले ग्रन्थिकं गुग्गुलुद्रुमे ॥ ;p{0013} माद्रेये च करीरे च दैवज्ञे च प्रकीर्त्तितम् ॥ १२९ ॥ बाह्लिको देशभेदेऽश्वे बाह्निकं धीरहिङ्गुनोः । अनयोरपि वाहीको याज्ञिको याजके कुशे ॥ १३० ॥ वार्षिकं त्रायमाणे स्याद्वर्षाकालभवेऽन्यवत् । खङ्गिको महिषीक्षीरे फेनसौनिकयोरपि ॥ १३१ ॥ आह्निकं दिननिर्वर्त्ये भोजने नित्यकर्मणि । गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ॥ १३२ ॥ गण्डकः खड्गिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ १३३ ॥ तण्डकः खञ्जने फेने समासप्रायवाचि च । गृहदारौ तरुस्कन्धमायाबहुलयोरपि ॥ १३४ ॥ कण्टकः क्षुद्रशत्रौ च कर्म्मस्थानकदोषयोः । रोमाञ्चे च द्रुमाङ्गे च कण्टको मकरेऽपि च ॥ १३५ ॥ तक्षकः फणिभेदे च वर्द्धकिद्रुमभेदयोः । पक्षकः पार्श्वमात्रे च पक्षद्वारे च पक्षकः ॥ १३६ ॥ शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः । नन्दको हरिरवड्गे स्याद्धर्षके कुलपालके ॥ १३७ ॥ शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि । उष्णकस्तु निदाघे स्याद्दातुरे क्षिप्रकारिणि ॥ १३८ ॥ दुच्छको गन्धकुट्यां स्याद्विहाराभ्यवकाशयोः । दुन्दुकः शोणके क्रूरे क्षुल्लकः स्वल्पनीचयोः ॥ १३९ ॥ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । भस्मकं रोगभेदे स्याद्विड[ह]ङ्गकलधौतयोः ॥ १४० ॥ तुम्वकः स्याद् बहुगुरुधूर्त्तायस्कान्तकामुके । जम्बुकः श्वापदे नीचे प्रतीचीदिक्पतावपि ॥ १४१ ॥ ;p{0014} कार्मुकं वंशधनुषोः कर्म्मशक्ते तु वाच्यवत् । निर्म्मोको मोक्षके व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १४२ ॥ रुडुक्को वाद्यभेदे स्याद्दात्यूहे मदमत्तके । तुरुष्कः सिह्ल[?]के म्लेच्छजातौ श्रीवासके क्वचित् ॥ १४३ ॥ इक्ष्वाकुः कटुतुम्ब्याञ्च सूर्य्यवंशनृपेऽपि च । कुण्ठाकुश्च दुराधर्षे दुःशीले च बिलेशये ॥ १४४ ॥ कुषाकुर्मर्कटे भानौ परोत्तापिनि पावके । पृदाकुर्वृश्चिके व्याघ्रे चित्रके च सरीसृपे ॥ १४५ ॥ सृदाकुरनिले वज्रे दावाग्नौ प्रतिसूर्य्यके । गोरङ्कुः पक्षिजातौ च भवेन्नग्नकबन्दिनोः ॥ १४६ ॥ त्रिशङ्कुः शलभे राजविशेषे वृषदंशके । पल्यङ्को मञ्चपर्य्यङ्कवृषीपर्य्यस्तिकासु च ॥ १४७ ॥ करङ्को मस्तके शस्यनारिकेलफलास्थिनि । कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ १४८ ॥ भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते । महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १४९ ॥ वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः । मृगाङ्को मारुते चन्द्रे स्तबकः शुभ्रगुच्छयोः ॥ १५० ॥ आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ । पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ १५१ ॥ अलर्को धवलार्के स्याद्योगोन्मादिनि कुक्कुरे । उदर्क एष्यत्कालीये फले मदनकण्टके ॥ १५२ ॥ सम्पर्कः सरते पृक्तौ वितर्कः संशयोहयोः । अम्बिका पार्वतीपाण्डुजनन्योरपि मातरि ॥ १५३ ॥ अन्धिका कैतवे मिश्रे सर्षप्यामपि कीर्त्यते ॥ ;p{0015} अम्लिका तिन्त्रिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ १५४ ॥ यूथिकाऽम्लानके पुष्पविशेषेऽपि च यूथिका । राजिकापि च केदारे राजसर्षपरेखयोः ॥ १५५ ॥ रसिकापि रसालायां काञ्चीरसनयोरपि । रुण्डिका द्वारपिण्ड्याञ्च दूतिकायां रणक्षितौ ॥ १५६ ॥ भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे । कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि ॥ १५७ ॥ क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे । बीजकोशे सरोजस्य कुट्टन्यामपि कुत्रचित् ॥ ०१५८ ॥ कर्णिका कथ्यतेऽत्यन्तं सूक्ष्मवस्त्वग्निमन्थयोः । गणिका यूथिकावेश्यातर्कारीकरिणीषु च ॥ १५९ ॥ गणकोऽपि च दैवज्ञे कारिकानटयोषिति । कृतौ विवरणश्लोके यातनायाञ्च कारिका ॥ १६० ॥ नापितादिकशिल्पेऽपि जालिका जालिनीफले । भटानामश्मरचिताङ्गरक्षिण्याश्च जालिका ॥ १६१ ॥ गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् । जालिकः पुनरुद्दिष्टो ग्रामकूटे च धीवरे ॥ १६२ ॥ नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि । कालिका योगिनीभेदे कार्ष्ण्ये गौर्य्यां घनावलौ ॥ १६३ ॥ क्रमदेये वस्तुमूल्ये भूसरीनवमेघयोः । पटोलशाखारोमालीमांसीकाकीषु कालिका ॥ १६४ ॥ तथा वृश्चिकपत्रेऽपि मालिका सरिदन्तरे । ग्रैवेये पुष्पमालायां पक्षिमल्ले च मालिका ॥ १६५ ॥ बाालिका वालुकाबालापिच्छोलाकर्णभूषणे । तूलिका कथिता लेख्यकूर्च्चिकातूलशय्ययोः ॥ १६६ ॥ ;p{0016} चूलिका नाटकस्याऽङ्गे कर्णमूले च दन्तिनाम् । मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ॥ १६७ ॥ मल्लिको हंसभेदे स्याज्झिल्लिका झिलिकापि च । विलेपने मले झिल्ल्यामातपस्य रुचि स्मृता ॥ १६८ ॥ वालुका सिकतासु स्याद्वालुकन्त्वैलवालुके । नग्निका तु कुमार्य्यां स्यादथ क्षपणव[ब]न्दिनोः ॥ १६९ ॥ नग्नको धेनुकाधेनौ स्त्रीकरेण्वोः प्रसूतयोः । रेणुकापि हरेणौ स्याज्जामदग्निस्त्रियामपि ॥ १७० ॥ जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः । कूर्चिका सूचिकायाञ्च तूलिकायाञ्च कुड्मले ॥ १७१ ॥ कवाटकुट्टके क्षीरविकृतावपि कूर्चिका । मातृका धात्रिकामात्रोर्मात्रिकं करणेऽम्बरे ॥ १७२ ॥ पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च । स्यात् पुत्रिका पुत्तलिका दुहित्रोर्यावतूलिके ॥ १७३ ॥ पुत्रकः शरभे धूर्ते शैलवृक्षप्रभेदयोः । उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ १७४ ॥ डिम्बिका जलनिम्बे स्यान्मोणके कामुकस्त्रियाम् । कामिका नीलिकायाञ्च स्यमीको नाकुवृक्षयोः ॥ १७५ ॥ दूषिका तूलिकायाञ्च दूषिका नेत्रयोर्मले । ऊर्म्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥ १७६ ॥ तथोद्बााहुलकेऽपि स्यादूर्म्मिका मधुपध्वनौ । स्याच्छलाकापि मदनशारिकाशल्ययोः शला ॥ १७७ ॥ छत्रपञ्जरकाष्ठ्याञ्च शल्लकी पशुवृक्षयोः । नर्त्तकी[ ]लासिकायाञ्च करेण्वामपि नर्त्तकी ॥ १७८ ॥ नर्त्तकः केलके पोटगलचारणयोर्नटे ॥ ;p{0017} चुलुकी शिशुमारेऽपि कुण्डीभेदे कुलान्तके ॥ १८० ॥ चतुष्की मशके हर्य्यां चतुष्की यष्टिकान्तरे । ;vv{कचतुष्कम्} अलिमकः पिके भेके मधुके पद्मकेशरे ॥ १८१ ॥ भवेदलिपको भृङ्गे कोकिले रथहिण्डके । स्मृतः कुरवकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ॥ भवेन्मरुवकः पुष्पविशेषे मदनद्रुमे । बलाहको गिरौ मेघे दैत्यनागविशेषयोः ॥ १८३ ॥ भ्रमरको जले भृङ्गे गिरिजे चूर्णकुन्तले । वराटकः स्थूलरज्जौ पद्मबीजे कपर्द्दके ॥ १८४ ॥ शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे । गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १८५ ॥ आकल्पकस्तमोमोहग्रन्थीषूत्कलिकामुदोः । आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ॥ १८६ ॥ प्रचलाकः शराघाते दन्दशूके भुजङ्गमे । वृन्दारकः सुरे श्रेष्ठे मनोज्ञे पुनरन्यवत् ॥ १८७ ॥ नियामकः कर्णधारे पोतवाहे नियन्तरि । विनायकस्तु हेरम्बे तार्क्ष्ये विज्ञे जिने गुरौ ॥ १८८ ॥ निश्चारकः पुरीषस्य क्षये स्वैरे समीरणे । भट्टारकः सुरे राज्ञि कथितश्च तपोधने ॥ १८९ ॥ दासेरकः स्यात् करभे दासीपुत्रे च धीवरे । अङ्गारकं कुजे विद्यादुल्मुकांशे कुरुण्टके ॥ १९० ॥ अङ्गारिकेक्षुकाण्डे स्यात् कोरके किंशुकस्य च । दलाढकस्तु कुन्दे स्यात् करिकर्णशिरीषयोः ॥ १९१ ॥ स्वयञ्जाततिले फेने खातके नागकेशरे । ;p{0018} वात्यायां प्रश्निकायाञ्च गैरिके च महत्तरे ॥ १९२ ॥ भवेत् पूर्णानकं पूर्णपात्रे पटहपात्रयोः । प्रकीर्णकं ग्रन्थभेदे चामरे विस्तरे हये ॥ १९३ ॥ स्मृतः पुष्कलको गन्धमृगे क्षपणकीलयोः । कोशातकः कचे ज्यौत्स्निपटोलीघोषकेषु तु ॥ १९४ ॥ कोशातकी वाणिजके वाडवाग्नौ वणिज्यपि । निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९५ ॥ स्यादश्मन्तकमुद्धाने मालुकाच्छदनेऽपि च । कटिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः ॥ १९६ ॥ कपर्दको वराटे स्याज्जटाजूटेऽपि धूर्ज्जटेः । गोमेदकं पीतमणौ काकोले पत्रकेऽपि च ॥ १९७ ॥ मण्डोदकश्चित्ररागे भवेदातपर्णेऽपि च । शतानीको मुनेर्भेदे वृद्धे चातखरालिकः ॥ १९८ ॥ ग्रामणीर्भाण्डभारावोपधानेषु प्रयुज्यते । लेखनिको लेखहारे यः स्वहस्तं विलेखयेत् ॥ १९९ ॥ लेखेषु परहस्तेन तत्राप्येष प्रदर्शितः । भवेन्मण्डलकं वि[बि]म्बे कुष्ठभेदे च दर्पणे ॥ २०० ॥ पिप्पलकं स्तनवृन्ते मतं सीवनसूत्रके । पिण्डीतकः स्यात्तगरे मदनद्रौ फणिज्यके ॥ २०१ ॥ त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रिके । शालावृकः शृगालेऽपि सारमेये बलीमुखे ॥ २०२ ॥ कौलेयकः कुलश्रेष्ठे स्यादिन्द्रमहकामुके । सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २०३ ॥ जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि । रतर्द्धिकं स्याद्दिवसे सुखस्नानेऽष्टमङ्गले ॥ २०४ ॥ ;p{0019} वैनाशिकः स्यात् क्षणिके परतन्तोर्णनाभयोः । वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च ॥ २०५ ॥ वितुन्नकन्तु धन्याके तथा झाण्टामलौषधौ । गोकुणिकः केकरे स्यात् पङ्कस्थे गव्युपेक्षके ॥ २०६ ॥ भार्याटिको भवेद्भार्या[ं] निर्जिते हरिणान्तरे । कापटिकोऽन्यमर्मज्ञे छात्रस्याकादशासिनि ॥ २०७ ॥ कौक्कुटिको दाम्भिके स्याददूरप्रेरितेक्षणे । लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ॥ २०८ ॥ कार्याक्षमेऽप्याकलितः शिलाटकः शिलाट्टयोः । कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ॥ २०९ ॥ वरण्टकस्तु मातङ्गवैद्यां यौवनकण्टके । संवर्त्तुलेऽप्याखनिकश्चौरे क्रोडे च मूषके ॥ २१० ॥ वैतालिको बोधकरे खेटितालेऽप्युदीरितः । तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ २११ ॥ मयूरकोऽप्यपामार्गे तुच्छके तु मयूरकम् । विशेषकः स्यात्तिलके विशेषावाहकेऽपि च ॥ २१२ ॥ विदूषकश्चाटुपटौ परनिन्दाकरेऽपि च । भवेत् सैकतिकं मातृयात्रामङ्गलसूत्रयोः ॥ २१३ ॥ तथा सन्यस्तसन्देहजीवक्षेपणकेष्वपि । एडमूकः स्मृतो[ ]धीरैः शठे वाक्श्रुतिवर्ज्जिते ॥ २१४ ॥ वर्त्तरूको नदीभेदे काकनीले जलावटे । काकरूक उलूके स्यान्निःस्वे स्त्रीजितदम्भयोः ॥ २१५ ॥ दिगम्बरे भीरुके च दन्दशूकोऽहिरक्षसोः । मुष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि ॥ २१६ ॥ कृकवाकुर्मयूरेऽपि सरटे चरणायुधे । ;p{0020} राधरङ्कस्तु नासीरे शीकरे च घनोपले ॥ २१७ ॥ कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके । सौगन्धिकन्तु कह्लारे पद्मरागे च कत्तृणे ॥ २१८ ॥ गन्धोपले गान्धिकेऽपि सौगन्धिक इति ध्वनिः । सोमवक्ल[ल्क]स्तु धवलखदिरे खट्फलेऽपि च ॥ २१९ ॥ भयानकः स्मृतो व्याघ्रे सैंहिकेयेऽपि भीषणे । पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे ॥ २२० ॥ कोशकारान्तरे व्याघ्रे पुण्डरीकोऽग्निदिग्गजे । जर्ज्जरीकं बहुच्छिद्रे जर्ज्जरीको जरातुरे ॥ २२१ ॥ चर्च्चरीको महाकाले केशविन्यासशाकयोः । तर्त्तरीकं वहित्रे स्यात्तर्त्तरीकश्च पारगे ॥ २२२ ॥ फर्फरीकश्च पेटे स्यात् फर्फरीकन्तु मार्द्दवे । भवेदुत्कलिकोत्कण्ठाहेलासलिलवीचिषु ॥ २२३ ॥ शृगालिका शिवायां स्यात् त्रासादपि पलायने । चण्डालिका किन्नरायामुमायामोषधीभिदि ॥ २२४ ॥ पाञ्चालिका भवेद्वस्त्रपुत्रिकागीतभेदयोः । कनीनिका तारकेऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि ॥ २२५ ॥ भवेद् गुणनिका नृत्ये शून्याङ्के पाठनिश्चितौ । सन्तानिकाऽपि क्षीरादिसारे मर्क्कटजालके ॥ २२६ ॥ सन्दंशिकाऽपि सुचुटीलोहयन्त्रविशेषयोः । सङ्घाटिका तु युग्मे स्यात् कुट्टनीघ्राणयोरपि ॥ २२७ ॥ जीवन्तिकाऽपि जीवाख्यशाकवन्दीगुडूचिषु । विद्याद् बृहन्तिकाऽभिख्यामूरुबस्त्रप्रभेदयोः ॥ २२८ ॥ वकेरुका बलाकाभिद्वातवेल्लितशाखयोः । स्मृता घर्घरिका क्षुद्रघण्टिकाभ्रष्टधान्ययोः ॥ २२९ ॥ ;p{0021} वाद्यप्रभेदवादित्रे दण्डयोरापगान्तरे । ;vv{कपञ्चकम्} स्यादाऽच्छुरितकं हासनखाघातप्रभेदयोः ॥ २३० ॥ प्रतिसूर्य्यकमिच्छन्ति कृकलासोपसूर्य्ययोः । अनेडमूकमिच्छन्ति वाक्यश्रुतिविवर्ज्जिते ॥ २३१ ॥ राजपटस्य काचस्य गुडके काचवर्त्तिकः । गोजागरिकमित्याहुर्मङ्गले कण्टकारके ॥ २३२ ॥ स्यात्कृमिकण्टकञ्चित्राविड[ह]ङ्गोदुम्बरेषु च । सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ २३३ ॥ कक्षावेक्षकमिच्छन्ति शुद्धान्तोद्यानपालयोः । द्वारपाले कवौ षिङ्गे रङ्गाजीविन्यपि क्वचित् ॥ २३४ ॥ नागचारिक उद्दिष्टो राजकुञ्जरहस्तिपे । गणस्थराजे गरुडे चित्रमेखलके क्वचित् ॥ २३५ ॥ स्याद्व्रीहिराजिकः कामलिकायां चीनधान्यके । शीतचम्पकशब्दोऽयं स्यादातर्पणदीपयोः ॥ २३६ ॥ अन्धौ जलकरङ्कः स्यान्नालिकेरफलेऽम्बुदे । शङ्खे जललतायाञ्च कथ्यते जलवापिका ॥ २३७ ॥ काकचीरादिशफरमत्स्ययोः कटखादकः । खादके काचकलशे बलिपुष्टे च जम्बुके ॥ २३८ ॥ स्याच्चिलनीलिका कण्ठीभेदे खद्योतविद्रुतोः । स्यान्नवफलिका नव्ये नवजातरजःस्त्रियाम् ॥ २३९ ॥ स्याच्छतपर्विकादूर्वावचयोरुपकारिका । विष्टभेदे गृहे राज्ञामुपकर्त्र्यामपीष्यते ॥ २४० ॥ स्याद्व्यवहारिका[ ]लोकयात्रा सम्मार्ज्जनीङ्गुदे । स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २४१ ॥ ;p{0022} ;vv{कषट्कम्} लूतामर्क्कटकः पुत्र्यां नवमाल्यां प्लवङ्गमे । सिन्दूरतिलको नागे सिन्दूरतिलका स्त्रियाम् ॥ २४२ ॥ वर्णविलोडकः श्लोके छायाहारिणि कुम्भिले । मातुलपुत्रको धूर्त्तफले स्यान्मातुलात्मजे ॥ २४३ ॥ ग्राममद्गुरिका शृङ्ग्यां ग्रामयुद्धे च कीर्त्त्यते । स्यान्मदनशलाकाऽपि शार्य्या कामोदयोषधौ ॥ २४४ ॥ ;c{इति कान्तवर्गः ॥} ;v{खान्तवर्गः} ;vv{खैककम्} खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि । पुरे संवेदने क्षेत्रे कुलाहलफले क्वचित् ॥ १ ॥ ;vv{खद्विकम्} नखः कररुहे शस्त्रे गन्धद्रव्ये नखं नखी । मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥ २ ॥ सुखं शर्म्मणि नाके च सुखा पुर्यां प्रचेतसः । शङ्खो निध्यन्तरे कम्बुललाटास्थिनखीषु च ॥ ३ ॥ रेखा स्यादल्पके छद्मिन्याम्भोगोल्लेखयोरपि । लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता । मुखः सम्यग्मनोज्ञेऽपि साम्नः षट्प्रणयेष्वपि ॥ ४ ॥ शिखा शिफायां चूडायां ज्वालायामग्रमात्रके । लाङ्गल्याश्चापि शाखायां चूडायाञ्च शिखण्डिनः ॥ ५ ॥ सखा मित्रे सहाये च शाखा[ ]पक्षान्तरे भुजे । शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च ॥ ६ ॥ प्रेङ्खा पर्यटने नृत्ये भवेदश्वगतावपि ॥ ;p{0023} खङ्खा गतिविशेषेऽपि शूकशिम्ब्याश्च नर्त्तने ॥ ७ ॥ ;vv{खत्रिकम्} त्रिशिखं शेखरे विद्या स्त्री[त्स्त्री]लेखा[?]राक्षसान्तरे । सुमुखं तार्क्ष्यतनये फणिभेदे च पण्डिते ॥ ८ ॥ दुर्मुखो नागराजेऽपि मुखरे वानराश्वयोः । गोमुखं कुटिलागारे वाद्यभाण्डे च लेपके ॥ ९ ॥ प्रमुखः प्रथमे श्रेष्ठे विशिखस्तोमरे शरे । रथ्यां खनित्र्यां विशिखा नलिकायामपि कचित् ॥ १० ॥ विशाखस्तारके स्कन्दे विशाखर्षौ कटिल्लके । मयूखस्त्विट्करज्वाले वैशाखो राधमन्थयोः ॥ ११ ॥ ;vv{खचतुष्कम्} अग्निमुखो द्विजे देवे भल्लाते चित्रके क्वचित् । पञ्चनखो गजे कूर्मे शिलीमुखोऽलिबाणयोः ॥ १२ ॥ भवेद्व्याघ्रनखः कन्दगन्धद्रव्यविशेषयोः । महाशङ्खो नरास्थ्नि स्यान्निधिसङ्ख्याप्रभेदयोः ॥ १३ ॥ इन्दुलेखाऽमृतासोमलताशशिकलासु च । शशिलेखा कलाभागे बाकुचीवृत्तभेदयोः ॥ १४ ॥ अग्निशिखा लाङ्गलिक्यां कुङ्कुमेऽग्निशिखं मतम् । बद्धशिखा जटायां स्याद् बाले बद्धशिखो मतः ॥ १५ ॥ ;vv{खपञ्चकम्} स्यान्मलिनमुखः प्रेते गोलाङ्गूले खलेऽनले । अथ शीतमयूखोऽपि शशाङ्कघनसारयोः ॥ १६ ॥ सर्वतोमुखमाख्यातमन्तरिक्षे च पाथसि । विधिक्षेत्रज्ञरुद्रेषु कथितः सर्वतोमुखः ॥ १७ ॥ ;c{इति खान्तवर्गः ॥} ;p{0024} ;v{गान्तवर्गः} ;vv{गैककम्} गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः । अर्ज्जुने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥ १ ॥ ;vv{गद्विकम्} अगः शैले द्रुमे भानौ नगवत्पवनासने । खगः सूर्ये ग्रहे देवे मार्गणे च विहङ्गमे ॥ २ ॥ भगमैश्वर्थ्यमाहात्म्यज्ञानवैराग्ययोनिषु । यशोवीर्य्यप्रयत्नेच्छाश्रीधर्म्मरविमुक्तिषु ॥ ३ ॥ युगं हस्तचतुष्केऽपि रथसीराङ्गयोर्युगः । युगं कृतादौ युगले वृद्धिनामौषधेऽपि च ॥ ४ ॥ मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः । याच्ञायां मृगयायाञ्च मृगी स्याद्वनितान्तरे ॥ ५ ॥ भृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि । भागे रूपार्द्धके प्रोक्तो भागधेयैकदेशयोः ॥ ६ ॥ नागन्तु सीसके रङ्गे स्त्रीबन्धे करणान्तरे । नागः पन्नगमातङ्गक्रूरचारिषु तोयदे ॥ ७ ॥ नागकेशरपुन्नागनागदन्तकमुस्तके । देहानिलप्रभेदेऽथ श्रेष्ठे स्यादुत्तरस्थितः ॥ ८ ॥ रागोऽनुरक्तौ मात्सर्य्ये क्लेशादौ लोहितादिषु । गान्धारादौ नृपे रागस्त्यागो वर्ज्जनदानयोः ॥ ९ ॥ भोगः सुखे धने चाहेः शरीरफणयोर्मतः । पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ १० ॥ योगोऽपूर्वार्थसम्प्राप्तौ सङ्गतिध्यानयुक्तिषु । वपुस्थैर्य्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ ११ ॥ विश्रब्धघातिनि द्रव्योपायसंनहनेष्वपि । ;p{0025} कार्म्मणेऽपि च योगः स्याद्रोगः कुष्ठौषधे गदे ॥ १२ ॥ वेगो जवे प्रवाहे च महाकालफलेऽपि च । पूगस्तु क्रमुके वृन्दे चङ्गः शोभनदक्षयोः ॥ १३ ॥ अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके । अङ्गा देशविशेषे स्युरङ्ग सम्वोधनेऽव्ययम् ॥ १४ ॥ इङ्गः स्यादद्भुते ज्ञाने जङ्गमेङ्गितयोरपि । टङ्गः कृपाणभेदे स्याज्जङ्घायाञ्च खनित्रके ॥ १५ ॥ तुङ्गः पुन्नागनगयोस्तुङ्गः स्यादुन्नतेऽन्यवत् । वर्वरानिशयोस्तुङ्गी तङ्गं सीसकरङ्गयोः ॥ १६ ॥ वङ्गः कार्पासवार्त्ताकदेशभेदेषु भाषितः । लङ्गः सङ्गे च षिङ्गे च व्यङ्गो हीनाङ्गभेकयोः ॥ १७ ॥ भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये । भङ्गा शणाख्यसस्येऽपि भृङ्गो धूम्याटषिङ्गयो ॥ १८ ॥ मधुव्रतेऽपि भृङ्गन्तु केशराजगुडत्वचोः । रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुन्यपि ॥ १९ ॥ लिड्गं चिह्नेऽनुमानेऽपि साङ्ख्योक्तप्रकृतावपि । शिवमूर्तिविशेषेऽपि मेहने च प्रचक्षते ॥ २० ॥ शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके । विषाणोत्कर्षयोश्चाय शङ्गः स्यात्कूर्च्चशीर्षके ॥ २१ ॥ शृङ्गी विषायामृषभे स्वर्णमीनविशेषयोः । गाङ्गस्तु गङ्गासम्भूते भीष्मे शक्तिधरेऽपि च ॥ २२ ॥ पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गन्तु बालके । रामटे नाडिकायाञ्च पिङ्गा गोरोचनोमयोः ॥ २३ ॥ खड्गो गण्डकशृणःगासिबुद्धभेदेषु गण्डके । दुर्गः स्याद् दुर्गमे दुर्गा गौरीनीलकयोरपि ॥ २४ ॥ ;p{0026} सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु । मार्गो मृगमदे मासप्रभेदेऽन्वेषणाध्वनोः ॥ २५ ॥ शार्ङ्गं कार्म्मुकमात्रेऽपि विष्णोरपि शरासने । वल्गु छागे मनोज्ञे च वल्गुभाषितमन्यवत् ॥ २६ ॥ फल्गुः प्रोक्तो मले सारे निःसारे फल्गु वाच्यवत् । शुङ्गी वटाम्रातकयोः पर्कट्यामपि विश्रुता ॥ २७ ॥ ;vv{गत्रिकम्} पन्नगः पद्मकाष्ठे स्यात् पन्नगोऽपि भुजङ्गमे । प्लवगो वानरे भेके सारथौ चोष्णदीधितेः ॥ २८ ॥ जिह्मगो मन्दगे सर्पे विहगश्चाग्रजे खगे । सर्वगं सलिले ख्यातं सर्वगः शङ्करे विभौ ॥ २९ ॥ आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि । आयोगो व्यापृतौ रोधगन्धमाल्योपहारयोः ॥ ३० ॥ अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे । आशुगो मारुते बाणेऽप्युद्वेगं क्रमुकीफले ॥ ३१ ॥ उद्वेगोऽप्युद्वाहुलकोद्वेजनाकोद्गमेऽपि च । सम्भोगः सुरते भोगे सम्भोगो जिनशासने ॥ ३२ ॥ परागः पुष्परजसि धूलीस्नानीययोरपि । गिरिप्रभेदे विख्यातावुपराग च चन्दने ॥ ३३ ॥ प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः । प्रयोगः कार्मणे प्रोक्तः प्रयुक्तौ च निदर्शने ॥ ३४ ॥ वातिगः कथितो भण्ट्यां धातुवादिनि वातिगः । तडागस्तु जलाधारविशेषे कटकेऽपि च ॥ ३५ ॥ पुन्नागः पुरुषश्रेष्ठे पाण्डुनागे सितोत्पले । जातीफले च पुन्नागो निसर्गः सर्गशीलयोः ॥ ३६ ॥ ;p{0027} विसर्गस्त्यागवद्दाने विसर्गो मलनिर्गमे । विसर्ज्जनीयेऽप्ययनप्रभेदेऽपि विभावसोः ॥ ३७ ॥ उत्सर्गो वर्ज्जने त्यागे सामान्यन्यायदानयोः । त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ॥ ३८ ॥ वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते । तातगुः क्षुद्रताते स्याज्जनयित्रीहितेऽपि च ॥ ३९ ॥ अनङ्गो मदनेऽनङ्गमाकाशमनसोः स्मृतम् । मृदङ्गः पटहे घोषे भुजङ्गः षिङ्गसर्पयोः ॥ ४० ॥ पतङ्गः शलभे शालिप्रभेदे विहगे रवौ । पतङ्गं पारदे क्वापि नरङ्गन्तु वरण्डके ॥ ४१ ॥ शेफे नरङ्गमप्याहु निषङ्गः सङ्गतूणयोः । विडङ्गं कृमिघ्ने ख्यातं विडङ्गो नागरेऽन्यवत् ॥ ४२ ॥ कलिङ्गः पूतिकरजे धूम्याटे नीवृदन्तरे । कलिङ्गं कौटजफले कलिङ्गा योषिति स्मृता ॥ ४३ ॥ अपाङ्गमङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च । वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वचि ॥ ४४ ॥ पत्राङ्गं पद्मके भूर्ज्जे पत्राङ्गं रक्तचन्दने । रथाङ्गश्चक्रवाकेऽपि रथाङ्गञ्चक्र इष्यते ॥ ४५ ॥ रक्ताङ्गं विद्रुमे भौमे विद्यात् कम्पिल्लधीरयोः । रक्ताङ्गश्चापि जीवन्त्यां मातङ्गः श्वपचे गजे ॥ ४६ ॥ कालिङ्गो भूमिकर्कारौ दन्तावलभुजङ्गयोः । कालिङ्गी राजकर्कट्यां धारङ्गः खड्गतीर्थयोः ॥ ४७ ॥ हेमाङ्गो द्रुहिणे तार्क्ष्ये नारङ्गं पिप्पलीरसे । नागरङ्गे विटे जन्तौ यमजेऽपि प्रकीर्त्तितम् ॥ ४८ ॥ सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे ॥ ;p{0028} पक्षभेदे च सारङ्गः सारङ्गः शबलेऽन्यवत् ॥ ४९ ॥ प्रियङ्गुः फलिनीकङ्गुपिप्पलीराजिकासु च । नीलाङ्गुः कृमिभेदे स्याद्भ्रमरालीमुसारयोः ॥ ५० ॥ तुरङ्गी चाश्वगन्धायां तुरङ्गश्चित्तवाजिनोः । चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि ॥ ५१ ॥ ;vv{गचतुष्कम्} ईहामृगो वृके जन्तो प्रभेदे रूपकस्य च । मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ५२ ॥ उपरागः परीवादे राहुग्रस्तार्क्कचन्द्रयोः । दुर्नये ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोः ॥ ५३ ॥ क्रियावसानसाफल्येऽप्यपवर्गः प्रयुज्यते । उपसर्गः स्मृतो रोगभेदोपप्लवयोरपि ॥ ५४ ॥ समायोगस्तु संयोगे समवाये प्रयोजने । सम्प्रयोगं रते विद्यादन्विते कार्म्मणेऽपि च ॥ ५५ ॥ दीर्घाध्वगः शङ्खलके लेखहारे तु भेद्यवत् । अभिषङ्गस्तु शपथे स्यादाक्रोशे पराभवे ॥ ५६ ॥ छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः । कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये ॥ ५७ ॥ ;vv{गपञ्चकम्} कथाप्रसङ्गो वातूले विषवैद्ये च वाच्यवत् । नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ ५८ ॥ ;c{इति गान्तवर्गः ॥} ;v{घान्तवर्गः} ;vv{घैककम्} घो घर्घरे च घण्टायां काञ्चिकाघातयोरपि ॥ ;p{0029} ;vv{घद्विकम्} अघं तु व्यसने प्रोक्तमघं पातकदुःखयोः ॥ १ ॥ अर्घः पूजाविधौ मूल्येऽप्यङ्गिपादद्रुमूलयोः । ओघो वृन्दे पयोवेगे द्रुतनृत्योपदेशयोः ॥ २ ॥ ओघः परम्परायाञ्च मेघः स्यान्मुस्तके घने । लघुर्मनोज्ञनिःसारागुरुषु प्रथितो लघु ॥ ३ ॥ कृष्णागुरुणि शीघ्रे च स्पृक्कायाञ्च स्मृता लघुः । उद्घः स्यात्पावके हस्तपुटके देहजानिले ॥ ४ ॥ मोघाऽपि पाटलायां स्यान्मोघो निष्फलहीनयोः । मघा माघी च नक्षत्रे भेषजे च यथाक्रमम् ॥ ५ ॥ श्लाघा मता प्रशंसायां परिचर्य्याभिलाषयोः । ;vv{घत्रिकम्} अनघो निर्म्मलापापमनोज्ञेष्वभिधेयवत् ॥ ६ ॥ पलिघः काचकलशघटप्राकारगोपुरे । परिघो योगभेदे स्यान्मुद्गरेऽर्गलघातयोः ॥ ७ ॥ प्रतिघः प्रतिघाते च रोषे च प्रतिघो मतः । काचिघः काञ्चने प्रोक्तोऽन्नमण्डे मूषकेऽपि च ॥ ८ ॥ महार्घस्तु महामूल्ये तथा लावकपक्षिणि । निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥ ९ ॥ उल्लाघस्तु शुचौ हृष्टे दक्षनीरोगयोरपि । सर्वौघो गुरुवेगार्थसर्वसंहननार्थयोः । अमोघः सफलेऽमोघा विडङ्गाभययोः स्मृता ॥ १० ॥ ;c{इति घान्तवर्गः ॥} ;p{0030} ;v{चान्तवर्गः} ;vv{चद्विकम्} कचः केशे गुरोः पुत्रे बन्धे शुष्कव्रणे कचः । कचा करिण्यां काचस्तु मनौ शिक्ये मृदन्तरे ॥ १ ॥ नेत्ररोगेऽपि नीचस्तु वामने पामरे स्मृतः । मोचः शोभाञ्जने प्रोक्तो मोचा शाल्मलिरम्भयोः ॥ २ ॥ पिचुस्तूले च कर्षे च कुष्ठरोगेऽसुरान्तरे । भैरवस्य प्रभेदेऽपि पिचुः क्वाऽपि प्रकीर्त्तितः ॥ ३ ॥ कूर्च्चो विकत्थने मध्ये भुवो श्मश्रुणि कैतवे । क्रौञ्चः खगनगद्वीपप्रभेदेषु प्रयुज्यते ॥ ४ ॥ चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषे । चञ्चुः पञ्चाङ्गुले त्रोट्यां गोनाडीकेऽपि पठ्यते ॥ ५ ॥ शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते । ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि ॥ ६ ॥ रुचिर्मयूखे शोभायामभिष्वङ्गाभिलाषयोः । वीचिः स्वल्पे तरङ्गे स्यादवकाशे सुखेऽपि च ॥ ७ ॥ सूची कराद्यभिनये नारीणां करणान्तरे । सूची च सीवनद्रव्ये शचीऽन्द्राण्यां शतावरौ ॥ ८ ॥ काञ्ची स्यान्मेखलादाम्नि गुञ्जायां नीवृदन्तरे । वचा स्यादुग्रगन्धायां सारिकायां शुके वचः ॥ ९ ॥ अर्चा पूजाप्रतिमयोश्चर्च्चा स्थासकचिन्तयोः । चर्च्चिकायाञ्च रुक्शोभाकिरणेच्छासु चेष्यते ॥ १० ॥ त्वक् चर्मवल्कयोस्त्वाचे न्यङ् नीचे निम्नकार्ण्ययोः । वाग् वचने सरस्वत्यां भाषागीर्भारती यथा ॥ ११ ॥ ;vv{चत्रिकम्} कवचो गर्द्दभाण्डे स्यात् सन्नाहे पटहेऽपि च । ;p{0031} विकचः क्षपणे केतुग्रहे च स्फुटितेऽन्यवत् ॥ १२ ॥ क्रकचः करपत्रे स्याद्ग्रन्थिलाख्यद्रुमेऽपि च । सङ्कोचमपि काश्मीरे सङ्कोचो मीनबन्धयोः ॥ १३ ॥ नाराचो लोहबाणे स्यान्नाराचो जलहस्तिनि । नाराच्येषणिकायाञ्च सम्यक् सम्मतहृद्ययोः ॥ १४ ॥ प्रपञ्चः सञ्चये प्रोक्तो विस्तरे च प्रतारणे । मरीचिः कृपणे दीप्तावृषिभेदेऽपि दृश्यते ॥ १५ ॥ मारीचो रक्षसो भेदे कक्कोले याजके द्विजे । मारीची देवताभेदे नमुचिः स्मरदैत्ययोः ॥ १६ ॥ कनीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च । अवीचिर्नरकानूर्म्योर्विपञ्ची केलिवीणयोः ॥ १७ ॥ प्रागुदक्प्रत्यगित्येते दिग्देशे कालतोऽव्ययम् । प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ १८ ॥ ;vv{चचतुष्कम्} मलिम्लुचोऽनिले चौरे जलसूचिर्जलौकसि । शृङ्गाटे शिशुमारे च कङ्के शेटिझषेऽपि च ॥ १९ ॥ ;vv{चपञ्चकम्} रतनारीच इत्येष कथितो रतवल्लभे । कुक्कुरं रतनारीचः सीत्कारे वरयोषिताम् ॥ २० ॥ ;c{इति चान्तवर्गः ॥} ;v{छान्तवर्गः} ;vv{छद्विकम्} अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे ॥ १ ॥ नौकान्ते परिधानस्य पश्चादञ्चलपल्लवे ॥ ;p{0032} कच्छा तु चीरिकायाञ्च वाराह्याञ्च निगद्यते ॥ २ ॥ स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः । पुच्छः पाश्चात्यभागे स्याल्लाङ्गूले पुच्छमिष्यते ॥ ३ ॥ म्लेच्छः पापतरे जातिभेदे स्यादपभाषिणि । पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये ॥ ४ ॥ पङ्क्तौ पूगच्छटाकोशमोचानिजयिनेषु च । ;vv{छचतुष्कम्} पिच्छपुच्छे महाकच्छः समुद्रे च प्रचेतसि ॥ ५ ॥ ;c{इति छान्तवर्गः ॥} ;v{जान्तवर्गः} ;vv{जैककम्} जो जन्यो जातमात्रे च मृत्युञ्जये जनार्द्दने । जूराकाशे सरस्वत्यां पिशल्या जवनेऽपि च ॥ १ ॥ ;vv{जद्विकम्} कञ्जः केशे विरिञ्चौ च कञ्जः पीयूषपद्मयोः । अजो हरौ हरे कामे विधौ छागे रघोः सुते ॥ २ ॥ व्रजो गोष्ठाध्ववृन्देषु निजमात्मीयनित्ययोः ध्वजं चिह्ने पताकायां ध्वजः शौण्डिकशेफयोः ॥ ३ ॥ खड्वाङ्गे च स्वजं रक्ते स्वजः प्रस्वेदपुत्रयोः । द्विजो विप्रेऽण्डजे दन्ते भार्गीरेणुकयोर्द्विजा ॥ ४ ॥ बीजं रेतसि तत्त्वे च हेतावङ्कुरकारणे । आधानेऽपि च सज्जः स्यात् सन्नद्धे सम्भूतेऽपि च ॥ ५ ॥ वाजं घृतेऽपि यज्ञान्ने वाजो निःस्वनपक्षयोः । वाजं जले मुनौ वाजो व्याजः शाठ्यापदेशयोः ॥ ६ ॥ भुजः पाणौ च बाहौ च कुजः स्यान्नरकारयोः ॥ ;p{0033} अब्जो धन्वन्तरौ चन्द्रे निचुले शङ्खपद्मयोः ॥ ७ ॥ अब्जं स्यादथ कुब्जोऽपि न्युब्जः स्यात् पादपान्तरे । न्युब्जस्तु कर्णरोगे स्यान्न्युब्जः प्रोक्तः कुशस्रुचि ॥ ८ ॥ अधोमुखे च कुब्जे च न्युब्जो वाच्यवदिष्यते । आजिः समावनौ युद्धे राजिः स्यात् पङ्क्तिरेफयोः ॥ ९ ॥ लाजाः स्युर्भृष्टभान्येषु लाजः स्यादार्द्रतण्डुले । उशीरे लाजमुद्दिष्टं प्रजासन्तानलोकयोः ॥ १० ॥ गुञ्जाऽपि पटहे प्रोक्ता काकचिञ्च्यां कलध्वनौ । गञ्जा खानौ सुरागेहे स्याद्भाण्डागाररीढयोः ॥ ११ ॥ गञ्जः कुञ्जो निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम् । सञ्जः प्रजापतौ रुद्रे लञ्जः स्यात् पट्टकच्छयोः ॥ १२ ॥ भर्ज्जा बले महोत्साहे खजा मन्थप्रहस्तयोः । पिञ्जा तूले हरिद्रायां पिञ्जस्तु व्याकुलेऽन्यवत् ॥ १३ ॥ पिञ्जो बले चये पिञ्जं रज्जुर्वेण्यां गुणे स्मृता । खर्ज्जूः कण्ड्वाञ्च कीटे च खर्जूरीपादपेऽपि च । मर्ज्जूः स्याद्रजके शुद्धौ सर्जूर्वणिजविद्युति ॥ १४ ॥ ;vv{जत्रिकम्} करजस्तु करञ्जे स्यान्नखे व्याघ्रनखेऽपि । कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ॥ १५ ॥ सहजस्तु निसर्गे स्यात् सहोत्थे पुनरन्यवत् । नीरजं कमले कुष्ठे जलजं शङ्खपद्मयोः ॥ १६ ॥ वलजं गोक्षुरे क्षेत्रे सस्यसङ्गरयोरपि । वलजा वरयोषायां वसुमत्यामपि स्मृता ॥ १७ ॥ कारुजः शिल्पिनाञ्चित्रे कलभे नागकेशरे । स्वयञ्जाततिले फेने वल्मीके गैरिकेऽपि च ॥ १८ ॥ ;p{0034} बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च । वनजो मुस्तके पद्मे वनजं वनजो गजे ॥ १९ ॥ वनजा मुद्गपर्ण्याञ्च वणिग् वाणिज्यजीविनि । वणिक् करणभेदे च वणिज्यायामपीष्यते ॥ २० ॥ सामजस्तु गजे प्रोक्तः सामोत्थे पुनरन्यवत् । भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा ॥ २१ ॥ गिरिजञ्चाभ्रके ख्यातं शिलाजतुसुगन्धयोः । लोहेऽपि गिरिजा गौरीमातुलुङ्ग्यो[?]रुदीरिता ॥ २२ ॥ कम्बोजो हस्तिभेदे स्याच्छङ्खदेशविशेषयोः । अङ्गजं रुधिरेऽनङ्गपुत्रकेशमदेऽङ्गजः ॥ २३ ॥ काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे । काम्बोजी मासपर्ण्याञ्च हिङ्गुपर्ण्यामपि क्वचित् ॥ २४ ॥ अण्डजः कृकलासे स्यात् खगे मीने भुजङ्गमे । कस्तूर्यामण्डजा प्रोक्ता परञ्जस्तैलयन्त्रके ॥ २५ ॥ फेने च करवाले च परञ्जः क्षुरिकाफले । हिमजाऽपि शचीगौर्योर्मैनाके हिमजः स्मृतः ॥ २६ ॥ ;vv{जचतुष्कम्} जघन्यजोऽनुजे शूद्रे भारद्वाजः स्मृतो मुनौ । द्रोणे च वनकार्पास्यां भारद्वाजी च कथ्यते ॥ २७ ॥ भारद्वाजो गुरोः पुत्रे व्याघ्राकाख्यविहङ्गमे । काश्मीरजाख्याऽतिविषा कुष्ठकुङ्कुमपौष्करे ॥ २८ ॥ क्षीराब्धिजं तु सामुद्रलवणे मौक्तिके क्वचित् । क्षीराब्धिजा श्रियां प्रोक्ता चन्द्रे क्षीराब्धिजो भवेत् ॥ २९ ॥ द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि । धर्मराजो यमे बुद्धे धर्मराजो युधिष्ठिरे ॥ ३० ॥ ;p{0035} राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे । भृङ्गराजस्तु मधुपे मार्कवे विहगान्तरे ॥ ३१ ॥ ग्रहराजो रवौ चन्द्रेऽप्यहिभुक्केकितार्क्ष्ययोः । यक्षराट् त्र्यम्वकसरवे मल्लानां रङ्गचत्वरे ॥ ३२ ॥ ;vv{जपञ्चकम्} मुनिभेषजमागस्त्ये हरीतक्याञ्च लङ्घने । वृषभध्वजशब्दोऽसौ शङ्करे चार्हदन्तरे ॥ ३३ ॥ ;c{इति जान्तवर्गः ॥} ;v{झान्तवर्गः} ;vv{झद्विकम्} झञ्ज्ञा ध्वनिविशेषेऽपि झञ्झाऽणुजलवर्षणे । झञ्ज्ञा वाते तारवायौ नष्टेऽपि परिकीर्त्तिता ॥ १ ॥ ;c{इति झान्तवर्गः ॥} ;v{ञान्तवर्गः} ;vv{ञैककम्} ज्ञो विरिञ्चे बुधे सौम्ये ;vv{ञद्विकम्} चाज्ञस्तु जडमूर्खयोः । प्रज्ञा बुद्धौ पण्डितेऽपि प्रज्ञो वाच्यवदिष्यते ॥ १ ॥ संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम् । अर्थसूचनिकायाञ्च हस्ताद्यैरपि कथ्यते ॥ २ ॥ ;vv{ञत्रिकम्} सर्वज्ञः शङ्करे बुद्धे कृतज्ञः कुक्कुरेऽपि च । दैवज्ञो गणकेऽपि स्यात् क्षेत्रज्ञश्छेक आत्मनि ॥ ३ ॥ ;c{इति ञान्तवर्गः ॥} ;p{0036} ;v{टान्तवर्गः} ;vv{टद्विकम्} कटः श्रोणौ क्रियाकारे किलिञ्जेऽतिशये शवे । समये गजगण्डे च पिप्पल्याश्च कटी मता ॥ १ ॥ खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः । भटः पामरभेदे च वीरे च प्रगमे भटिः ॥ २ ॥ धटः समाधिभेदेभशिरःकूटकुटेषु च । घटा घटनगोष्ठीभघटनासु च दृश्यते ॥ ३ ॥ कुटः कोटे घटे गेहे शिलाकुट्टकपूरुषे । स्याच्छुटी कुम्भदास्याञ्च सुरायाञ्चित्रमुस्तके ॥ ४ ॥ पटः प्रियालवृक्षे च सुचेले च पुरस्कृतौ । पटः प्रमादवचनदोषयोरप्युदाहृतः ॥ ५ ॥ वटो गोले गुले भक्ष्ये वटो साम्यवराटयोः । वटः कपर्द्दे न्यग्रोधे शुम्बरक्तिकयोर्वटी ॥ ६ ॥ विटोऽद्रौ लवणे षिङ्गे मूषके खदिरेऽपि च । स्फुटो व्यक्ते प्रफुल्ले च व्याप्ते च कलितेऽन्यवत् ॥ ७ ॥ निर्भिन्नकर्क्कटीसस्ये पादस्फोटे स्फुटिर्मता । कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे ॥ ८ ॥ मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः । पुरद्वारे च शंसन्ति लाटो देशेंऽशुकेऽपि च ॥ ९ ॥ झाटो निकुञ्जे कान्तारे व्रणसम्मार्ज्जनेऽपि च । वटो वृतौ च मार्गेऽपि वाटी तु गृहनिष्कुटे ॥ १० ॥ चटुश्चाटौ पिचण्डे च व्रतिनामासनान्तरे । कटुः सुगन्धे तीक्ष्णे स्यादकार्ये मक्षरे रसे ॥ ११ ॥ कटुः प्रियङ्गुकटुका राजिकास्वथ दूषणे । कटु प्रोक्तं पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत् ॥ १२ ॥ ;p{0037} पटुः पटोलपत्रेऽपि छत्रालवणयोः पटुः । खेटः कफे ग्रामभेदे निन्दिते वसुनन्दके ॥ १३ ॥ अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे । पट्टः पेषणपाषाणे व्रणादीनाञ्च वन्धने ॥ १४ ॥ चतुष्पथे च राजादिशासनान्तरपीठयोः । पट्टी ललाटभूषायां पट्टी लाक्षाप्रसाधने ॥ १५ ॥ क्रुष्टञ्च रोदने रावे कष्टं गहनकृच्छयोः । इष्टमाशंसिते पूज्यतमे प्रियतमेऽन्यवत् ॥ १६ ॥ इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि । रिष्टं क्षेमाशुभाभावकृपाणेषु प्रचक्ष्यते ॥ १७ ॥ म्लिष्टमव्यक्तवाचि स्यान्म्लिष्टं म्लानेऽन्यवन्मतम् । दिष्टं दैवे च काले स्याद्दिष्टः सृष्टं तु निर्मिते ॥ १८ ॥ युक्तनिश्चितयोः प्राज्ये हृष्टो हृषितवन्मतः । रोमाञ्चिते प्रहसिते जातदर्पे च विस्मिते ॥ १९ ॥ व्युष्टं दिने प्रभाते च फले पर्युषितेऽपि च । त्वष्टा शिल्पिनि देवानां तथा वर्द्धकिसूर्ययोः ॥ २० ॥ इष्टिः स्यादभिलाषेऽपि सङ्ग्रहश्लोकयागयोः । विष्टिः कर्मकरे भद्रे प्रेषणे वेतनेऽपि च ॥ २१ ॥ दिष्टिः परीमाणमुदोर्दृष्टिर्विदर्शनाक्षिषु । रिष्टिः खड्गे समृद्धौ च कृष्टिः स्यात् कर्षणे बुधे ॥ २२ ॥ सृष्टिः स्वभावे निर्माणे पुष्टिर्वृद्धौ च पोषणे । यष्टिर्हारलताशस्त्रभेदयोर्ध्वजदण्डके ॥ २३ ॥ भाण्ड्याञ्च मधुयष्ट्याञ्च मुष्टिर्बद्धकरे पले । व्युष्टिः स्याद् घर्षणे विष्णुक्रान्तास्पर्द्धाकिरिष्वपि ॥ २४ ॥ जटालग्नकचे मूले प्लक्षमाक्षिकयोर्जटी ॥ ;p{0038} सटा जटाकेशरयोः फटा च फणदम्भयोः ॥ २५ ॥ घोण्टा स्याद् बदरे पूगे घटीखण्डे च वाससः । परीक्षार्थतुलायाञ्च घटः सूरिभिरिष्यते ॥ २६ ॥ पटिः पटविशेषेऽपि द्वाशुले कुष्टिकाद्रुमे । स्यात् कोटिरश्रौ चापाग्रे सङ्ख्याभेदप्रकर्षयोः ॥ २७ ॥ स्यात् त्रुटिः संशये लेशे सूक्ष्मैलाकालमानयोः । त्रोटिः स्यात् कट्फले चञ्च्वां खगमीनविशेषयोः ॥ २८ ॥ खाटिः किणे शवरथे खाटिरेकग्रहे स्मृता । नटी हट्टविलासिन्यां शोणके नर्त्तके नटः ॥ २९ ॥ ;vv{टत्रिकम्} अवटः स्यात् खिले गर्ते कूपे कुहकजीविनि । विकटः सुन्दरे प्रोक्तो विशालविकरालयोः ॥ ३० ॥ करटो गजगण्डे स्यात् कुसुम्भे निन्दजीविनि । एकादशाहसार्द्धेऽपि दुर्दुरूढेऽपि वायसे ॥ ३१ ॥ करटो वाद्यभेदेऽपि निर्द्दटो निर्द्दये स्मृतः । परापवादसंरक्ते निर्द्दटो निष्प्रयोजने ॥ ३२ ॥ चिपिटः खाद्यभेदेऽपि चिपिटो विस्तृतेऽन्यवत् । जकुटो यमले ख्यातो वार्त्ताककुसुमे शुनि ॥ ३३ ॥ निष्कुटस्तु गृहोद्याने केदारककपाटयोः । हर्म्मुटः कच्छपे सूर्येऽप्युत्कटस्तीव्रमत्तयोः ॥ ३४ ॥ चर्पटः स्फारविपुलचपेटे पर्पटेऽपि च । पर्पटः पिष्टविकृतौ पर्पटो भेषजान्तरे ॥ ३५ ॥ पिच्चटो नेत्ररोगे स्यात् पिच्चटं त्रपुसीसयोः । सम्पाटं शिक्यभेदेऽपि धौताञ्जन्यामपि स्मृतम् ॥ ३६ ॥ कर्द्दटः करहाटे स्यात् पङ्कपङ्कारयोरपि ॥ ;p{0039} कृपीटमुदरे[ ]नीरे कार्पटो जतुकार्यिणोः ॥ ३७ ॥ कुक्कुटस्ताम्रचूडे स्यात् कुक्कुभेऽग्निकणेऽपि च । निषादशूद्रयोः पुत्रे तालमध्ये तु कुक्कुटम् ॥ ३८ ॥ रसो नस्यप्रभेदे स्यादुच्चटा दम्भचर्च्चयोः । केकटः श्रोणके विष्णावऽर्गटोऽन्तर्गले गले ॥ ३९ ॥ कर्कटः करणे स्त्रीणां राशिभेदे कुलीरयोः । शाल्मलीफलवालुक्योः कर्क्कटी कर्कटः खगे ॥ ४० ॥ कीकटस्तुरगे निःस्वे देशभेदे मितम्पचे । मोचाटः कृष्णजीरे स्याद्रम्भास्थ्नि मलयोद्भवे ॥ ४१ ॥ चक्राटो विषवैद्येऽपि धूर्त्तदीनारयोरपि । वर्णाटो गायने चित्रकारे स्त्रीकृतजीविनि ॥ ४२ ॥ भावाटो भावके साधुनिवेशे कामुकेऽपि च । शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ॥ ४३ ॥ द्वोहाटः कयितो गाथाप्रभेदे मृगलुब्धके । वैडालवृत्तिकेऽपि स्याद्धाराटश्चातकाश्वयोः ॥ ४४ ॥ मोरटस्तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः । सप्तरात्रात् परे क्षीरे मूर्विकायान्तु मोरटा ॥ ४५ ॥ वेकटः स्याद्वैकटिके तथा सञ्जातयौवने । वेरटो मिश्रिते नीचे वेरटं बदरीफले ॥ ४६ ॥ त्रिकूटं सिन्धुलवणे त्रिकूटश्च सुवेलके । भाकूटः कथ्यते मीनभेदे शैलान्तरेऽपि च ॥ ४७ ॥ अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः । अरिष्टं सूतिकागारे तक्रे चिह्ने शुभाशुभे ॥ ४८ ॥ संसृष्टं तद्गते विद्यात् संशुद्धे वसनादिना । अवटुः कथितो घाटा कूपगर्त्तेषु सूरिभिः ॥ ४९ ॥ ;p{0040} परीष्टिः परिचर्यायां प्राक्राम्येऽपि गवेषणे । वरटा हंसयोषायां गन्धोल्यां वरटाऽपि च ॥ ५० ॥ त्रिपुटा मल्लिकायाञ्च सूक्ष्मैलात्रिवृतोरपि । सतीलके च तीरे च त्रिपुटः समुदाहृतः ॥ ५१ ॥ बर्वटी व्रीहिभेदे स्याद्रघटीपण्ययोरपि । पर्क्कटी नूतनफले पूगादेः प्लक्षपादपे ॥ ५२ ॥ मर्कटी वानरीशूकशिम्ब्योः स्यात् करजान्तरे । मर्क्कटस्तूर्णनाभेऽपि कपौ स्त्रीकरणेऽपि च ॥ ५३ ॥ कुरुण्टी दारुपुत्र्याञ्च कुरुण्टो झिण्टिकान्तरे । चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयःस्त्रियाम् ॥ ५४ ॥ ;vv{टचतुष्कम्} श्रुतिकटः प्राञ्चलोहे प्रायश्चित्तभुजङ्गयोः । उच्चिङ्गटो मीनभेदे तथा कोपनपूरुषे ॥ ५५ ॥ कुटन्नटस्तु शोणाके कैवर्त्तौ मुस्तकेऽपि च । स्यात् खञ्जरीटः फलकासिधाराव्रतचारिणोः ॥ ५६ ॥ कुण्डकीटस्तु चार्वाकवचनाभिज्ञपूरुषे । जारजब्राह्मणीपुत्रदासीकामुकयोरपि ॥ ५७ ॥ नारकीटोऽश्मकूटे स्यात् स्वदत्ताश्मविहन्तरि । कार्यकूटस्तु कृपणोन्मत्तानर्थकरेष्वपि ॥ ५८ ॥ कामकूटस्तु वेश्यायाः प्रियविभ्रमयोर्मतः । चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ॥ ५९ ॥ वर्कराटः कटाक्षे स्यात् तरुणादित्यरोचिषि । स्त्रीणां पयोधरोत्सङ्गकान्तदत्तनखेऽपि च ॥ ६० ॥ करहाटोऽब्जकन्दे स्यात् पुष्पवृक्षप्रभेदयोः । परपुष्टः परभृते परपुष्टाऽऽपणस्त्रियाम् ॥ ६१ ॥ ;p{0041} प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्षिते । प्रतिकृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् ॥ ६२ ॥ शिपिविष्टस्तु खलतौ शिवे दुश्चर्मणि स्मृतः । चतुःषष्टिर्बह्वृचेऽपि चतुःषष्टिकलास्वपि ॥ ६३ ॥ स्याद्गाढमुष्टिः कृपणे कृपाणादिषु चेष्यते । ;vv{टपञ्चकम्} अथ स्याद्दशनोच्छिष्टो निश्वासाधरचुम्बयोः ॥ ६४ ॥ ;c{इति टान्तवर्गः ॥} ;v{ठान्तवर्गः} ;vv{ठद्विकम्} कठः स्वर ऋचाम्भेदे स्यात्तदध्येतृवेदिनोः । मुनावपि हठो वारिपर्ण्यां स्यात् प्रसभेऽपि च ॥ १ ॥ शठो मध्यस्थपुरुषे शठो धुत्तूरधूर्त्तयोः । शठोऽलसे च मूर्खे च कुण्ठो कर्मण्यमूर्खयोः ॥ २ ॥ पाठः स्यात् पठने विद्धकर्ण्यां पाठाऽपि पठ्यते । कण्ठो गले संविधाने ध्वनौ मदनपादपे ॥ ३ ॥ वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च । पृष्ठं चरमगात्रे स्याद्देहस्यावयवान्तरे ॥ ४ ॥ कोष्ठः कुशूले चात्मीये कुक्षेरन्तर्गृहस्य च । कुष्ठो रोगे सुगन्धे च गोष्ठं गोस्थानकेऽपि च ॥ ५ ॥ गोष्ठी सभायां संलापे दुष्ठुः स्याद् दुर्बलेऽधमे । प्रष्ठः श्रेष्ठाग्रयोरुक्तः प्रष्ठा चाण्डालिकौषधौ ॥ ६ ॥ ज्येष्ठः श्रेष्ठेऽतिवृद्धे च ज्येष्ठो मासान्तरेऽपि च । गृहगोधर्क्षयोर्ज्येष्ठा श्रेष्ठा वैश्रवणे वरे ॥ ७ ॥ काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः । ;p{0042} स्याद्दिशि स्थानमात्रे च काष्ठमाख्यातमिन्धने ॥ ८ ॥ निष्ठा निष्पत्तिनाशान्तयाच्ञानिर्वहणेषु च । षष्ठी षण्णाञ्च पूरण्यां कात्यायन्यामपीष्यते ॥ ९ ॥ ;vv{ठत्रिकम्} कमठः कच्छपे भाण्डभेदे च कमठं मतम् । जरठः कर्कशे पाण्डौ जरठः कठिनेऽन्यवत् ॥ १० ॥ नर्म्मठश्चूचुके षिङ्गे वैकुण्ठः कृष्णशक्रयोः । श्रीकण्ठः खण्डपरशौ श्रीकण्ठः कुरुजाङ्गले ॥ ११ ॥ वरिष्ठः स्यादरुतरे प्रवरे तित्तिरावपि । वरिष्ठं मरिचे ताम्रे सादिष्ठोऽतिदृढार्य्ययोः ॥ १२ ॥ अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च । अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूतिकयोरपि ॥ १३ ॥ कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ । लघिष्ठोऽत्यल्पके भेलेऽप्यपष्ठुः कालबालयोः ॥ १४ ॥ प्रकोष्ठो विस्तृतकरे भूपकक्षान्तरेऽपि च । कूर्परादधरे चापि प्रतिष्ठा स्थानमात्रके ॥ १५ ॥ गौरवे यागनिष्पत्तिचतुरक्षरपद्ययोः । मकुष्ठो व्रीहिभेदे स्यान्मकुष्ठो मन्थरेऽन्यवत् ॥ १६ ॥ ;vv{ठचतुष्कम्} दन्तशठः स्याज्जम्बीरे कपित्थे कर्म्मरङ्गके । नागरङ्गेऽपि चाङ्गेर्य्या स्मृता दन्तशठा बुधैः ॥ १७ ॥ सूत्रकण्ठो द्विजे प्रोक्तः खञ्जरीटकपोतयोः । हारिकण्ठः परभृते हारान्वितगलेऽपि च ॥ १८ ॥ कालकण्ठस्तु दात्यूहे कलविङ्के च खञ्जने । सितापा[?]ङ्गे हरे पीते सारके नीलकण्ठवत् ॥ १९ ॥ ;p{0043} कलकण्ठः कलध्वाने हंसे पारावते पिके । देवकाष्ठन्तु सरलदेवदारुमहीरुहोः ॥ २० ॥ कालपृष्ठं भवेत् कर्णचापे कोदण्डमात्रके । कालपृष्ठस्तु सारङ्गविशेषे कङ्कपक्षिणि ॥ २१ ॥ ;c{इति ठान्तवर्गः ॥} ;v{डान्तवर्गः} ;vv{डद्विकम्} गुडः स्याद्गोलके हस्ते सन्नाहेक्षुविकारयोः । गुडा स्नुहीगुडिकयोर्गडो मीनान्तराययोः ॥ १ ॥ जडो मूर्खे हिमग्रस्ते शूकशिम्ब्यां जडा मता । गडुः पुष्टगुडे कुब्जे षडः पेयान्तरे भिदि ॥ २ ॥ व्याडो हिंस्रपशौ सर्पे ताडस्ताडनघोषयोः । मुष्टिमेयतृणादौ च ताडी तालीदलद्रुमे ॥ ३ ॥ नीडं स्थाने कुलाये च सकारपूर्वकोऽन्तिके । क्रोडः सूकरपातङ्ग्यो क्रोडं क्रौडे च वक्षसि ॥ ४ ॥ चोडो देशविशेषे स्याच्चोडः प्रावरणान्तरे । क्ष्वेडः कर्णामये ध्वाने गरले कुटिलेऽपि च ॥ ५ ॥ लोहितार्कफले क्ष्वेडं घोषपुष्पे दुरासदे । योधानां सिंहनादे तु क्ष्वेडा स्याद्वंशशल्यके ॥ ६ ॥ अण्डं खगादिकोशे स्यान्मुष्के वीर्येऽपि च क्वचित् । स्यात् खण्डः शकले चेक्षुविकारमणिदोषयोः ॥ ७ ॥ गण्डः कपोले पिटके योगभेदे च गण्डके । गण्डः प्रवीरे चिह्ने स्यादश्वभूपणबुद्रुदे ॥ ८ ॥ चण्डो दैत्यान्तरे तीव्रे चण्डो दासे यमस्य च । चण्डा धनहरीशङ्खपुष्प्योश्चण्डोऽतिकोपने ॥ ९ ॥ ;p{0044} चण्डी कात्यायनीहिंस्राकोपनस्त्रीषु सम्मता । षण्डं पद्मादिसङ्घाते खण्डः स्याद् गोपतावपि ॥ १० ॥ कुण्डं देवजलाधारे पिठरेऽथ कमण्डलौ । कुण्डी कुण्डः स्मृतो जारात् पतिवत्नीसुतेऽपि च ॥ ११ ॥ दण्डी यमे मानभेदे लगुडे दमसैन्ययोः । व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १२ ॥ अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके । गौडः पामरजातौ च वृद्धनाभौ च वाच्यवत् ॥ १३ ॥ पिण्डं सान्द्रे बलं[ले] वोले गृहांशे जीवनायसोः । पिण्डो देहे जवापुष्पे निवापे सिह्लकेऽपि च ॥ १४ ॥ पिण्डी स्यात्तगरेऽलावुररुर्न्दरीभेदयोरपि । पण्डः षण्डे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥ मण्डं मस्तुनि शाके च मण्डः स्यात् सारपिच्छयोः । एरण्डे भूषणे चाथ मण्डा धात्र्यामुदीरिता ॥ १६ ॥ मुण्डो दैत्यान्तरे राहौ मूर्द्धमुण्डितयोरपि । शौण्डो मत्तेऽपि विख्यातः शौण्डा पिप्पलिचर्ययोः ॥ १७ ॥ काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः । कुत्सिते रहसि स्तम्बे काण्डं गर्वेऽप्युदाहृतम् ॥ १८ ॥ भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने । नदीपात्रे तुरङ्गाणां भूषणे भाजनेऽपि च ॥ १९ ॥ इडा वाचि गवि क्षोणाविडा च बुधयोषिति । क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ २० ॥ चूडा शिखायां वलभौ चूडा वाहुविभूषणे । पीडा कृपाशिरोमालापमर्द्दसरलद्रुषु ॥ २१ ॥ ;p{0045} नाडी नाले शिरागण्डदूर्वयोः स्याद्गुणान्तरे ॥ नाडी षट्क्षणकालेऽपि चर्य्यायां कुहनस्य च ॥ २२ ॥ रण्डा मूषिकपर्ण्याञ्च रण्डा विधवयोषिति । वण्डाऽपि पांसुलायां स्याद्वण्डो हस्तादिवर्ज्जिते ॥ २३ ॥ शुण्डाऽपि जलहस्तिन्यां मदिराकरिहस्तयोः । नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे ॥ २४ ॥ ;vv{डत्रिकम्} गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् । द्राविडः स्याज्जानपदे वेधमुख्यकशङ्खयो[ः] ॥ २५ ॥ प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि । पिचण्डमुदरे विद्यात् पशोरवयवेऽपि च ॥ २६ ॥ तरण्डो बडिशीसूत्रबद्धवस्तुनि मेलके । वरण्डोऽप्यन्तरावेदौ सन्दोहमुखरोगयोः ॥ २७ ॥ पूत्यण्डो गन्धकीटेऽपि तथा गन्धमृगे स्मृतः । मार्त्तण्डस्तपने क्रोडे शिखण्डो बर्हचूडयोः ॥ २८ ॥ प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः । कोदण्डो भ्रूलतायां स्याद्देशभेदे च कार्मुके ॥ २९ ॥ सरण्डः सरटे धूर्ते सरण्डो भूषणान्तरे । मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३० ॥ करण्डो मधुकोशासिकारण्डवदलाढके । कूष्माण्डो गणभेदे स्याद् भ्रूणे करर्क्कारुकेऽपि च ॥ ३१ ॥ कूष्माण्डो चौषधीगौर्व्योर्भेरुण्डो भीमदर्शने । भेरुण्डो देवताभेदे पक्षिणो भिदि चेष्यते ॥ ३२ ॥ वारुण्डः सेकपात्रे स्यान्मले दृक्कर्णयोरपि । गणिस्थराजे वारुण्डी द्वारपिण्ड्यामुदीरिता ॥ ३३ ॥ तिन्तिडी भूरुहे कालदामे दैत्यान्तरेऽपि च । ;p{0046} तिन्तिडस्तिन्तिडी तु स्याच्चिञ्चावृक्षाम्लयोरपि ॥ ३४ ॥ विचण्डा सारिकावर्त्तिखड्गधेनुषु कथ्यते । वितण्डा वादभेदे स्यात् कच्छीशाके शिलाह्वये ॥ ३५ ॥ वितण्डा करवीर्याञ्च निर्गुण्डी सिन्दुवारके । नीलशेफालिकायाञ्च करहाटेऽपि कुत्रचित् ॥ ३६ ॥ ;vv{डचतुष्कम्} भवेद्वातथुडो वात्या[?] वामव्योर्वातशोणिते । पिच्छिलस्फोटिकायाञ्च देवताडस्तु घोषके ॥ ३७ ॥ सैंहिकेयग्रहे चापि देवताडो हुताशने । चक्रवाडोऽद्रिभेदे स्याच्चक्रवाडन्तु मण्डले ॥ ३८ ॥ जलरुण्डो जलावर्त्ते पयोरेणौ भुजङ्गमे । अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ३९ ॥ ;c{इति डान्तवर्गः ॥} ;v{ढान्तवर्गः} ;vv{ढाद्वकम्} दृढः स्थूले मृशे शक्ते प्रगाढेऽपि दृढो मतः । बाढं दृढे प्रतिज्ञायां मूढस्तन्द्रितबालयोः ॥ १ ॥ गूढं रहसि गुह्ये च संवृते पुनरन्यवत् । व्यूढः संहतविन्यस्तपृथुलेषु च भेद्यवत् ॥ २ ॥ षण्ढो वर्षधरे क्लीबे गोपतौ बन्ध्यपूरुषे । वोढा स्याद्भारिते सूते सोढा मर्षणशक्तयोः ॥ ३ ॥ राढा सूक्ष्मे च शोभायां दाढा दंष्ट्राभिलाषयोः । माढिः पत्रादिभङ्गौ स्यान्माढिर्दैन्यप्रकाशने ॥ ४ ॥ ;vv{ढत्रिकम्} आषाढो व्रतिनां दण्डे मासे मलयपर्वते ॥ ;p{0047} वारूढः शम्बलेऽपि स्याद्वस्त्राञ्चलकपाटयोः ॥ ५ ॥ पञ्जरे पावके वाथ प्ररूढो ज[ठ]रे स्मृतः । बद्धमूले विरूढस्तु सञ्जातेऽङ्कुरितेऽन्यवत् ॥ ६ ॥ समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते । उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥ निगूढो गर्हिते गुप्ते प्रमीढो मूत्रिते घने । सरूढोऽङ्कुरिते प्रौढे प्रगाढो दृढपृच्छयोः ॥ ८ ॥ अध्यूढा कृतसापत्न्यां नार्यामध्यूढ ईश्वरे । ;vv{ढचतुष्कम्} अध्यारूढं समारूढेऽप्यधिके चाऽप्यऽभेद्यवत् ॥ ९ ॥ ;c{इति ढान्तवर्गः ॥} ;v{णान्तवर्गः} ;vv{णद्विकम्} कणोऽतिसूक्ष्मे धान्यांशे कृष्णाजीरकणादिषु । पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ॥ १ ॥ क्रय्यशाकटिकद्यूतव्यवहारे भृतौ धने । गणः समूहे प्रथमे सङ्ख्यासैन्यप्रभेदयोः ॥ २ ॥ घ्राणं घ्राते च नासायां काणः काकैकचक्षुषोः । बाणः स्यात् केवले काण्डे काण्डावयवदैत्ययोः ॥ ३ ॥ बाणा झिण्ट्यां मता धीरैः शणी मासचतुष्टये । कषणे करपत्रे च शाणी प्रावरणान्तरे ॥ ४ ॥ त्राणा तु त्रायमानायां रक्षिते रक्षणेऽपि च । प्राणो हृन्मारुते बाले काव्यजीवेऽनिले वले ॥ ५ ॥ वाच्यवत् पूरिते प्राणं प्राणाश्चाऽसुषु कीर्त्तिताः । द्रुणं चापे च खङड्गे च द्रुणो वृश्चिकभृङ्गयोः ॥ ६ ॥ ;p{0048} द्रुणी कच्छपिकायाञ्च जलद्रोण्यामुदाहृता । द्रोणः कृपीपतौ कृष्णका[?]के स्यादाढकेऽपि च ॥ ७ ॥ आढवापचतुष्के च द्रोणी स्यान्नीवृदन्तरे ॥ {आदर्शे, जाभुजापचतुष्क इति पाठः} द्रोणी काष्ठाम्बुवाहिन्यां गवाङ्घासभुजि स्थितौ ॥ ८ ॥ मोणः शुष्कफले नक्रमक्षिकाहिकरण्डयोः । कोणो वाद्यप्रभेदे स्यात् कोणोऽस्त्रे लगुडेऽर्कजे ॥ ९ ॥ वीणा वाद्यादिनोपायेऽप्येकदेशे गृहस्य च । शोणः श्योणाकनदयोः शोणः कोकनदच्छदे ॥ १० ॥ लोहिताश्वे कृशानौ च भ्रूणः स्त्रीगर्भडिम्भयोः । तीक्ष्णं सामुद्रलवणे विषलोहाग्निमुष्कके ॥ ११ ॥ तीक्ष्णः सारे च तिग्मात्मत्यागिनोर्वाच्यवद्भवेत् । कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि ॥ १२ ॥ जर्णश्चन्द्रे च वृक्षे च वर्णः काञ्चनयज्ञयोः । वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे ॥ १३ ॥ विलेपने कथायाञ्च वर्णः स्याद् गुणभेदयोः । पर्णं स्यात् किंशुके पत्रे शीर्णं तनुविशीर्णयोः ॥ १४ ॥ पूर्णः शब्दे समग्रे च पूरिते चापि वाच्यवत् । चूर्णं क्षोदे क्षारभेदे चूर्णा निवासयुक्तिषु ॥ १५ ॥ कीर्णं छन्ने परिक्षिप्ते हिंसिते कीर्णमिष्यते । जीर्णं पक्वे पुराणे च दीर्णं दारितभीतयोः ॥ १६ ॥ उष्णः स्यादातपे ग्रीष्मे दक्षे कृष्णस्तु केशवे । व्याप्तेऽर्ज्जुने कोकिले च कृष्णं मरिचलोहयोः ॥ १७ ॥ कृष्णा तु द्रौपदीनीलीहारहूरासु कथ्यते । वाच्यवन्मेचके कृष्णे जिष्णुः शक्रे धनञ्जये ॥ १८ ॥ ;p{0049} जित्वरे चाथ विष्णुः स्यात् कृष्णेऽर्के वसुदैवते । गेष्णुर्नटे गायने च देष्णुर्दातूरि दुर्दमे ॥ १९ ॥ वृष्णिस्तु यादवे मेषे दृष्णिः पाखण्डिचण्डयोः । पार्ष्णिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः ॥ २० ॥ सेनापृष्ठे च कुम्भ्याशञ्च तृष्णा लिप्सापिपासयोः । ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके भ्रुवोः ॥ २१ ॥ मणिर्गोले मेहनाग्रे रत्ने चाजागलस्तने । अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः ॥ २२ ॥ कुणिस्तुन्नकवृक्षेऽपि कुणिः स्यात् कुकरेऽन्यवत् । झूणिः क्रमुकभेदेऽपि तुष्टदैवश्रुतावपि ॥ २३ ॥ श्रेणिः पङ्क्तौ सेकपात्रे श्रेणिः स्यात् कारुसंहतौ । वाणिः स्यादूतिभारत्योर्वाणिर्मूल्ये बलाहके ॥ २४ ॥ वेणी कचस्य बन्धे स्यान्नदीनां मेलकेऽपि च । देवताडे च तूणी तु नील्या तूणौ निषङ्गके ॥ २५ ॥ घृणा जुगुणाकृपयोः फाणिर्गुडकरम्बयोः । श्राणा यवाग्वां पक्वे तु श्राणं स्थूणाऽयसः स्मृता ॥ २६ ॥ प्रतिमायां गृहस्तम्भे वीणा वल्लकिविद्युतोः । वेणुर्भूपान्तरे वंशे स्थाणुः कीले स्थिरे हरे ॥ २७ ॥ रेणुः पर्पटके धूल्यामल्पेऽणुर्व्रीहिसूक्ष्ययोः । ;vv{णत्रिकम्} अरुणो व्यक्तरागे स्यात् सन्ध्यारागेऽर्क्कसारथौ ॥ २८ ॥ निःशब्दे कपिले कुष्ठे द्रव्ये वाच्यवदिष्यते । अरुणाऽतिविशाश्यामामञ्जिष्ठात्रिवृतासु च ॥ २९ ॥ करुणस्तु रसे वृक्षे कृपायां करुणा मता । वरुणः सम्मतो नीरे स्वर्लोके परमेष्ठिनि ॥ ३० ॥ ;p{0050} वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः । वरणस्तिक्तशाकेऽपि प्राकाारे वरणं वृतौ ॥ ३१ ॥ तरुणः स्यान्नवे यूनि कुब्जपुष्पोरुबूकयोः । चरणं बह्वृचादौ स्यान्मूले गोत्रे पदेऽपि च ॥ ३२ ॥ चरणं भ्रमणेऽत्तौ च चरण रासभध्वनौ । लवणो रसरक्षोऽब्धिभेदेषु लवणान्विते ॥ ३३ ॥ करणं साधनक्षेत्रकाचकायस्थकर्म्मसु । गीताङ्गहारसंवेशक्रियाभेदेन्द्रियेषु च ॥ ३४ ॥ बालवादौ च करणः स्मृतः शूद्राविशोः सुते । जरणं जीरकाजाजिहिङ्गुसौवर्चलेष्वपि ॥ ३५ ॥ धरणं मानभेदेऽपि धारणे धरणीभुवि । रमणं स्यात् पटोलस्य मूलेऽपि रमणः प्रिये ॥ ३६ ॥ शरणं वधरक्षित्रोः शरणं रक्षणे गृहे । कत्तृणं तृणभेदेऽपि वारिपर्ण्याञ्च कत्तृणम् ॥ ३७ ॥ यन्त्रणं स्यान्नियमने बन्धने रक्षणेऽपि च । प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ३८ ॥ द्रुघणो मुद्गरेऽपि स्याद् द्रुघणा च परश्वधे । प्रवणः क्रमनिम्नोर्व्यामायत्ते च चतुष्पथे ॥ ३९ ॥ प्रगुणेऽपि क्षणेऽपि स्यादीरणं शून्य ऊषरे । ग्रहणं तूपलब्धौ स्यादादरे ग्रहणं करे ॥ ४० ॥ ग्रहोपरागस्वीकारवन्दिषु ग्रहणं मतम् । ईक्षणं दर्शने दृष्टौ प्रोक्षणं सेचने वधे ॥ ४१ ॥ लक्षणं नाम्नि चिह्ने च सौमित्रे चाऽपि लक्षणः । लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥ ४२ ॥ लक्ष्मणौषीधसारस्योः सश्रीके चाभिधेयवत् । ;p{0051} दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु ॥ ४३ ॥ वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः । द्रविणं काञ्चने वित्ते द्रविणञ्च पराक्रमे ॥ ४४ ॥ मसृणः कर्कशे स्निग्धे क्षुमायां मसृणा भवेत् । ऊषणं मरिचे ख्यातं कणायामूषणा भवेत् ॥ ४५ ॥ धिषणस्त्रिदशाचार्य्ये धिषणा धियि सम्मता । धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी ॥ ४६ ॥ भीषणो दारुणे रुद्रे भीषणं सल्लकीरसे । हरणं यौतुकद्रव्ये भुजेऽपि हरणं हृतौ ॥ ४७ ॥ हिरणं रेतसि स्वर्णे वराटे च हिरण्यवत् । हरिणः स्यात् कुरङ्गेऽपि हरिणः पाण्डुरेऽन्यवत् ॥ ४८ ॥ हरिणी हरितायाञ्च चारुस्त्रीवृत्तभेदयोः । सुवर्णप्रतिभायाञ्च हर्षणोऽक्षिरुगन्तरे ॥ ४९ ॥ हर्षके योगभेदे च श्राद्धदेवेऽपि क्वचित् । श्रवणं स्याद् वृक्षभेदे श्रवणं श्रुतिकर्णयोः ॥ ५० ॥ श्रावणो मासपाषण्डे दध्याल्यां श्रावणी मता । श्रमणो यतिभेदेऽपि श्रमणो निन्द्यजीविनि ॥ ५१ ॥ सुदर्शनामुण्डतिकामांसीषु श्रमणां विदुः । कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च ॥ ५२ ॥ कृपाणोऽसौः कृपाणी तु छुरिकायां च कर्तरौ । सिंहाणं काचपात्रे च लोहनासिकयोर्मले ॥ ५३ ॥ पुराणं वाच्यवत् प्रत्ने पुराणं पञ्चलक्षणे । प्रमाणं नित्यमर्यादासत्यवादिप्रमातृषु ॥ ५४ ॥ एकतायामियत्तायां हेतुशास्त्रेषु च स्मृतम् । निर्याणं वानरापाङ्गदेशे मोक्षे च निर्गमे ॥ ५५ ॥ ;p{0052} निर्माणं निर्मितौ सारे निर्माणञ्च समञ्जसे । निर्वाणमस्तङ्गमने निर्वृतौ गजमज्जने ॥ ५६ ॥ अपवर्गे च कुर्वाणे भृत्यकारकयोरपि । दौर्वाणं नष्टपर्णे स्याद् दूर्वायाः स्वरसेऽपि च ॥ ५७ ॥ वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे । कारणं करणे हेतुबन्धयोरपि कारणम् ॥ ५८ ॥ कारणा यातनायाञ्च कृपणः कुत्सिते कृमौ । कार्म्मणं मन्त्रतन्त्रादियोजने कर्मकारके ॥ ५९ ॥ मार्गणं प्रार्थनेऽन्वेषे मार्गणो याचके सरे । मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ॥ ६० ॥ उद्दशे नारिकेले च धरर्म्मणोऽहिद्रुभेदयोः । कोङ्कणो देशभेदे स्याच्छस्त्रभेदे तु कोङ्कणम् ॥ ६१ ॥ कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि । पूरणः पूरके पिष्टभेदे पूरणमिष्यते ॥ ६२ ॥ पटारम्भकसूत्रे च शाल्मली पूरणी मता । सुषेणः करमर्द्देऽपि विष्णुसुग्रीववैद्ययोः ॥ ६३ ॥ रोषणः पारदे हेमघर्षणोपलयोस्तथा । रोषणेऽपि विषाणन्तु क्रोडद्विरदन्तयोः ॥ ६४ ॥ पशोः शृङ्गे विषाणा तु मेषशङ्ग्यां प्रकीर्त्तिता । करेणुर्गजहस्तिन्योः कर्णिकारेऽपि च क्वचित् ॥ ६५ ॥ हरेणुस्तु सतीले स्याद्रेणुकाकुलयोषितोः । सुवर्णं स्वर्णमात्रे स्यात् सुवर्णं कर्षबिस्तयोः ॥ ६६ ॥ सुवर्णश्च सुवर्णालुकृष्णागुरुमखान्तरे । सुपर्णस्ताम्रचूडे स्याद्गरुडे कृतमालके ॥ ६७ ॥ सुपर्णा कमलिन्याञ्च सुपर्णा तार्क्ष्यमातरि ॥ ;p{0053} श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ॥ ६८ ॥ दुर्वर्णञ्च कुवर्णे स्याद्वास्तुके रजतेऽपि च । पत्रोर्णं धौतकौषेये पत्रोर्णः शोणकेऽपि च ॥ ६९ ॥ सङ्कीर्णं निचिते प्रोक्तमशुद्धे चापि भेद्यवत् । गोकर्णोऽश्वतरे सर्पे सारङ्गे प्रमथान्तरे ॥ ७० ॥ अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकौषधौ । अरणिर्वह्निमन्थेऽपि स्मृतो निर्म्मन्थ्यदारुणि ॥ ७१ ॥ तरणिस्तरणे भानौ कुमार्योषधिनौकयोः । विपणिः पण्यवीथ्याञ्च भवेदापणपण्ययोः ॥ ७२ ॥ प्रवेणिर्वेणिकुथयोः सरणिः पङ्क्तिवर्त्मनोः । निःश्रेणिस्त्वधिरोहिण्यां खर्ज्जूरीपादपेऽपि च ॥ ७३ ॥ भरणी शोणके ऋक्षे भरणं वेतने भृतौ । भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ॥ ७४ ॥ ग्रामणीर्भोगिके पत्यौ प्रधाने नापितेऽपि च । ग्रामणी नीलिकायाञ्च ग्रामेयीपण्ययोषितोः ॥ ७५ ॥ धारणी नाडिकायां स्याद्बुद्धोक्तमन्त्रभिद्यपि । इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ७६ ॥ एषणी व्रणमार्गानुसारिण्याञ्च तुलाभिदि । क्षेपणी जालभेदे स्यान्नौकादण्डे च कथ्यते ॥ ७७ ॥ वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि । सारणी स्वल्पसरिते प्रसारण्याञ्च सारणी ॥ ७८ ॥ सारणः स्यादतीसारे सचिवे रावणस्य च । काकिणी पणतुर्यांशे मानदण्डे च काकिणी ॥ ७९ ॥ कृष्णलैकवराट्योः स्यादुदमानांशकेऽपि च । ब्राह्मणी पञ्जिकास्पृक्काद्विजपत्नीषु विश्रुता ॥ ८० ॥ ;p{0054} विप्रे तु ब्राह्मणो वेदे ब्राह्मणं द्विजसंहतौ । पक्षिणी पूर्णिमायां स्यात् पक्षिणी शाकिनीभिदि ॥ ८१ ॥ आगामिवर्त्तमानाहर्युक्तायां निशि पक्षिणी । रोहिणी कटुरोहिण्यां रोहिणी लोहितागवोः ॥ ८२ ॥ कण्ठरोगान्तरेभे च सोमवल्के च रोहिणी । ;vv{णचतुष्कम्} आतर्पणञ्च सौहित्ये विद्यादालिम्पनेऽपि च ॥ ८३ ॥ आथर्वणोऽप्यथर्वज्ञे ब्राह्मणेऽपि पुरोधसि । आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ८४ ॥ रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्गमे । उत्क्षेपणन्तु व्यजने धान्यमर्द्दनवस्तुनि ॥ ८५ ॥ उद्धरणं समुद्धारवान्तान्नोन्मूलनेष्वपि । निगरणं भोजनेऽपि गले निगरणो मतः ॥ ८६ ॥ निःशरणं स्यान्मरणोपायनिर्याणमुक्तिषु । संसरणं रणारम्भे पुरनिर्गमगोपुरे ॥ ८७ ॥ घण्टापथे च ससारेऽप्यसम्बाधचमूगतौ । निस्तरणं स्यादुपाये निस्तारे निर्गमेऽपि च ॥ ८८ ॥ विदारणं रणे भेदे विडम्बे च विदारणम् । निरूपणं स्यादालोके विचारे च निदर्शने ॥ ८९ ॥ नारायणोऽच्युतेऽभीरुगौर्य्योर्नारायणी विदुः । परायणमभीष्टे स्यात् तत्पराश्रययोरपि ॥ ९० ॥ पारायणं समासङ्गे कार्त्स्न्ये पारगतावपि । कार्षापणः कार्षिके स्यात् पणषोडशकेऽपि च ॥ ९१ ॥ कामगुणः स्मृतो रागे विषयाभोगयोरपि । परीरणः स्यात् कमठे दण्डे च पट्टशाटके ॥ ९२ ॥ ;p{0055} समीरणः स्यात् पवने पथिके च फणिज्झके । पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले ॥ ९३ ॥ पर्णवृन्तरसेऽपि स्यात् पर्वरीणञ्च पर्वणि । तण्डुरीणः कीटमात्रे वर्वरे तण्डुलोदके ॥ ९४ ॥ मीनाम्रीणो दर्दुराम्रे मीनाम्रीणश्च खञ्जने । प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् ॥ ९५ ॥ जुहुराणोऽनलेऽध्वर्यौ रेरिहाणो हरेऽम्बरे । देवमणिः शिवेऽश्वस्य कण्ठावर्त्ते च कौस्तुभे ॥ ९६ ॥ चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च । परवाणिः स्मृतो धर्म्माध्यक्षवत्सरयोरपि ॥ ९७ ॥ शरवाणिः शरमुखे षाण्डकषे शरजीविनि । लम्बकर्णः स्मृतः कोलपादपे छगलेऽपि च ॥ ९८ ॥ रागचूर्णः स्मरे दन्तधावने रक्तवालुके । हस्तिकर्णोऽरुबूके स्यात् पलाशगणभेदयोः ॥ ९९ ॥ चीर्णपर्णस्तु निम्बे स्यात् खर्ज्जूरीभूरुहेऽपि च । तैलपर्णी मलयजे श्रीवासे सिंहकेऽपि च ॥ १०० ॥ पीलुपर्णी तु बिम्बायां मूर्वायामोषधीभिदि । दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु च ॥ १०१ ॥ पुष्करिणी सरोजिन्यां हस्तिन्याञ्च जलाशये । शिखरिणी स्याद्रोमाल्यां रसालावृत्तभेदयोः ॥ १०२ ॥ स्त्रीरत्ने मल्लिकायाञ्च प्रोक्ता शिखरिणी बुधैः । अङ्गारिणी हसन्त्याञ्च भास्करत्यक्तदिश्यपि ॥ १०३ ॥ भवेद्वैतरणी नद्यां प्रेतानां यातुमातरि । ;vv{णपञ्चकम्} अवग्रहणमित्याहुः प्रतिरोधेऽप्यनादरे ॥ १०४ ॥ ;p{0056} प्रविदारणमाख्यातं सङ्गरे च विदारणे । अवतारणं भूतादिग्रहे वस्त्राञ्चलेऽर्च्चने ॥ १०५ ॥ रोमहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके । परिभाषणमालापे नियमे परिभाषणम् ॥ १०६ ॥ निन्दोपालम्भवचने परिभाषणमिष्यते । मत्तवारणमिच्छन्ति दानक्लिन्नकटद्विपे ॥ १०७ ॥ महाप्रासादवीथीनां वरण्डे चाप्यपाश्रये । वातरायणमुन्मत्ते निष्प्रयोजनपूरुषे ॥ १०८ ॥ काण्डे च करपत्रे च कूटे च शरसङ्क्रमे । मण्दूकपर्णोऽरलुके शोणके च कपीतने ॥ १०९ ॥ मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्वकासु च । ;vv{णषट्कम्} दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते । यौवनलक्षणाऽभिख्या[ ]लावण्ये च पयोधरे ॥ ११० ;c{इति णान्तवर्गः ॥} ;v{तान्तवर्गः} ;vv{तद्विकम्} ततं विततवद्व्याप्ते विस्तृते वाच्यवन्मतम् । ततं वीणादिवाद्ये च पवमाने ततः पुनः ॥ १ ॥ इतं गते स्याद्विज्ञाते रतं सुरतगुह्ययोः । इतमुञ्छशिले तोये दीप्ते सत्येऽभिपूजिते ॥ २ ॥ कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले । घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम् ॥ ३ ॥ मृतं स्याद्याचिते मृत्यौ मृत्युमत्यभिधेयवत् । गतन्तु यात्राधिगते मतं पूजितसन्धिते ॥ ४ ॥ ;p{0057} धुतं त्यक्ते विभूते च धूतं कम्पितभर्त्सिते । पूतं पवित्रे रटिते पूतञ्च बहुलीकृते ॥ ५ ॥ श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः । नतं स्याद्वाच्यवन्नम्रे नतस्तगरपादपे ॥ ६ ॥ द्रुतं शीघ्रे विलीने च विद्रावे चाभिधेयवत् । युतं हस्तचतुष्के स्याद्युतं युक्ते युतं पृथक् ॥ ७ ॥ स्थितं भवेद्गत्यभावे सुप्रतिज्ञे सुनिश्चिते । सितः समाप्ते धवले निबद्धज्ञातयोरपि ॥ ८ ॥ शितं शातञ्च निशिते कृशे शान्तश्च शर्मणि । हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः ॥ ९ ॥ प्लुतं तुरङ्गमगतौ प्लुतमाहुस्त्रिमात्रके । प्रोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते ॥ १० ॥ सूतस्तु सारथौ ताक्ष्णि प्रसूते प्रेरितेऽपि च । क्षत्रियाद् ब्राह्मणीजेऽपि सूतः पारदबन्दिनोः ॥ ११ ॥ श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च ॥ १२ ॥ सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु । सती पतीव्रतागौर्योरेतः कर्बूर आगते ॥ १३ ॥ तातोऽनुकम्प्ये जनके जातं जात्योघजन्मसु । पातः स्यात् पतने त्राते घातः काण्डप्रहारयोः ॥ १४ ॥ पोतः शिशौ वहित्रे च लते श्मश्रुणि चोरिते । गीतन्तु शब्दिते गाने प्रीतं हृषितनर्मणोः ॥ १५ ॥ वीतञ्चासारहस्त्यऽश्वे वीतमङ्कुशकर्मणि । भीतं भये भययुते वाच्यवत् परिकीर्त्तितम् ॥ १६ ॥ भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ॥ ;p{0058} भूतो देवलके प्राप्तवृत्तयोरभिधेयवत् ॥ १७ ॥ केतुर्द्युतौ पताकायां ग्रहोत्पातारिलक्ष्यसु । सेतुरालौ च वरुणे क्रतुर्यज्ञे मुनेर्भिदि ॥ १८ ॥ धातुः स्यादश्मविकृतौ विषयेष्विन्द्रियेषु च । भूवादिरसरक्तादिश्लेष्मादिवसुधादिषु ॥ १९ ॥ वर्त्तते धातुशब्दोऽयं विशेषादस्थ्नि गैरिके । ऋतुः स्त्रीकुसुमे मासि वसन्तादिषु धारयोः ॥ २० ॥ गातुः पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च । मन्तुः स्यादपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ २१ ॥ धूर्त्तूः स्यात् खण्डलवणे खलधुत्तूरयोरपि । पूत्तस्तु पूरिते छन्ने पूर्तं खातादिकर्मणि ॥ २२ ॥ मूर्त्तं मूर्त्तिमित[?] प्रोक्तं मूर्च्छाले कठिनेऽपि च । गर्त्तस्त्रिगर्त्तभेदे स्यादवटे च कुकुन्दरे ॥ २३ ॥ आप्तः सभ्ये च लब्धे च प्राप्तं वित्ते समञ्जसे । व्याप्तं ख्याते समाक्रान्ते गुप्तं रक्षितगूढयोः ॥ २४ ॥ लिप्तं विषाप्ते गुप्ते च वाच्यवत् स्याद्विलेपिते । दीप्तं निर्भासिते दग्धे वदन्ति ज्वलितेऽपि च ॥ २५ ॥ अस्तं क्षिप्ते गते प्रोक्तमस्तः पश्चिमभूधरे । ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ २६ ॥ पुस्तन्तु पुस्तके लेख्यकर्मविज्ञानयोरपि । शस्तं क्षेमे प्रशस्ते च व्यक्तं व्याप्ते च सङ्कुले ॥ २७ ॥ हस्तो नक्षत्रभेदे स्यात् करेभकरयोरपि । कचात्परः कलापार्थे सप्रकोष्ठे तताङ्गुलौ ॥ २८ ॥ वित्तं ख्याते धने लब्धे वित्तं ज्ञाते विचारिते । कृत्तन्तु चेष्टिते छिन्ने दत्तं विश्राणितेऽर्चिते ॥ २९ ॥ ;p{0059} वृत्तोऽतीते दृढे ख्याते वर्त्तुलेऽपि वृते मृते । वाच्यवद्वर्त्तते वृत्तं चरित्रच्छन्दसोरपि ॥ ३० ॥ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे । वृन्तं प्रसवबन्धे स्याद्घटधाराकुचाग्रयोः ॥ ३१ ॥ दन्तो निकुञ्जे दशने दन्तः सानुनि कथ्यते । दन्ती स्यादोषधीभेदे कान्तचेतसि गह्वरे ॥ ३२ ॥ कुन्तः प्राप्ते चण्डभावे क्षुद्रजन्तौ गवेधुके । कुन्ती पाण्डुप्रियायाञ्च शल्लक्यां गुग्गुलुद्रुमे ॥ ३३ ॥ कान्तोऽश्मनि गृहे चारौ कान्तानुफलिनीस्त्रियोः । शान्तो रसविशेषे स्यादतिभुक्तकदान्तयोः ॥ ३४ ॥ उक्तमेकाक्षरं छन्दस्युक्तं स्याद्भाषितेऽपि च । शुक्तोऽम्ले परुषे पूते व्यक्तं स्फुटमनीषिणोः ॥ ३५ ॥ तिक्तो रसे सुगन्धे च तिक्तं पर्पटके स्मृतम् । तिक्ता तु कटुरोहिण्यां रिक्तं काननशून्ययोः ॥ ३६ ॥ रक्तं स्यात् कुङ्कुमे ताम्रे प्रचीनामलकेऽसृजि । अनुरागिणि नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ३७ ॥ यन्ता हस्तिपके सूते वप्ता पितरि पावके । त्रेता युगेऽग्नित्रितये भर्त्ता स्वामिनि धारके ॥ ३८ ॥ शास्ता च शासके बुद्धे वक्ता वाग्मिनि पण्डिते । मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्ते च मोचने ॥ ३९ ॥ क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ । भुजिष्यतनये क्षत्ता नियुक्ते च प्रजासृजि ॥ ४० ॥ धाता हिरण्यगर्भे स्यात् पालके त्वभिधेयवत् । माता कात्याप्रसूगोषु ब्रह्मण्याद्यास्तु मातरः ॥ ४१ ॥ लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु ॥ ;p{0060} लता[ ]कस्तूरिकायाञ्च माधवीदूर्वयोरपि ॥ ४२ ॥ लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे । पीता स्मृता हरिद्रायां पीतं स्याद्गौरपीतयोः ॥ ४३ ॥ सीता रामकलत्रे स्यात् तथा लाङ्गलपद्धतौ । नभोनद्याञ्च शीतस्तु वानीरबहुवारयोः ॥ ४४ ॥ शीतं हिमगुणे प्रोक्तं वाच्यवच्छीतलेऽलसे । चिता च्छन्ने चुल्लिकायां चिता संहतिचिन्तयोः ॥ ४५ ॥ वार्त्ता वातिङ्गणे वृत्तौ वार्त्ता कृष्याद्युदन्तयोः । वृत्तिमन्नीरजोर्वार्त्ता वार्त्तमारोग्यफल्गुनोः ॥ ४६ ॥ गतिर्मार्गे दशायाञ्च ज्ञाने यात्राभ्युपाययोः । नाडीव्रणसरण्याञ्च मतिर्ह्रीच्छास्मृतिष्वपि ॥ ४७ ॥ चितिः समूहे चिन्तायां दितिः स्यात् खण्डने दितौ । पतिः प्रभौ गतौ मूले दृतिश्चर्म्मपुटे झषे ॥ ४८ ॥ यतिर्निकारे यतिनि पाठच्छेदक्रमे यतिः । शितिः कृष्णे शितिर्भूर्ज्जे भृतिर्भरणमूल्ययोः ॥ ४९ ॥ क्षितिर्निवासे मेदिन्यां स्थानमात्रेऽपि च क्षितिः । धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु ॥ ५० ॥ श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्त्तायां श्रोत्रकर्मणि । स्मृतिरिच्छाधियोर्धर्मसंहितायामपि स्मृतिः ॥ ५१ ॥ रतिः स्मरप्रियायाञ्च रागे च रमणे रतिः । ऋतिर्गतौ जुगुप्सायां स्पर्द्धामङ्गलयोरपि ॥ ५२ ॥ वृत्तिः स्याद्वरणे वाटे मृतिर्गगनमार्गयोः । मितिर्मानेऽप्यवच्छेदे कृतिः करणहिंसयोः ॥ ५३ ॥ ईतिः प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च । वीतिर्गतौ च दीप्तौ च धावने प्रजनेऽशने ॥ ५४ ॥ ;p{0061} गीतिश्छन्दसि गाने च नीतिस्तु प्रापणे नये । रीतिः प्रसारे स्यन्दे च लोहकिट्टारकूटयोः ॥ ५५ ॥ पीतिः पाने तुरङ्गे च भीतिः साध्वसकम्पयोः । प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥ ५६ ॥ भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि । स्यूतिः सीवनसन्तत्योरूतिः स्मृतौ च रक्षणे ॥ ५७ ॥ हेतिः स्यादायुधे ज्वाले हेतिस्तरणितेजसि । वृत्तिर्विवरणे जीव्ये कौशिक्यादिषु चेष्यते ॥ ५८ ॥ कृत्तिश्चर्मत्वचो भूर्ज्जे कृत्तिकायाञ्च कीर्त्तिता । पत्तिः पदातौ गमने वीरसैन्यप्रभेदयोः ॥ ५९ ॥ वित्तिर्ज्ञाने विचारे च लाभसम्भवयोरपि । भित्तिः कुड्ये प्रदेशे च संविभागावकाशयोः ॥ ६० ॥ आप्तिः संवरणप्राप्त्योः प्राप्तिर्लाभे महोदये । गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे ॥ ६१ ॥ सुप्तिः स्पर्शज्ञतायाञ्च स्वापे विश्रम्भघातिनि । शान्तिः शमेऽपि कल्याणे कान्तिः शोभाभिलाषयोः ॥ ६२ ॥ जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः । जातिर्जातीफले धात्र्यां चुल्लीकम्पिल्लयोरपि ॥ ६३ ॥ ज्ञातिः सगोत्रे पितरि व्याप्तिर्व्यापनलम्भयोः । सातिर्दानेऽवसाने च प्राप्तिः पूर्त्तिप्रदेशयोः ॥ ६४ ॥ वर्त्तिर्दीपदशादीपगात्रानुलेपनीषु च । वर्त्तिर्भेषजनिर्म्माणनयनाञ्जनलेखयोः ॥ ६५ ॥ अर्त्तिः पीडाधनुष्कोट्योर्मूर्त्तिः काठिन्यकाययोः । कीर्त्तिः प्रसादयशसोर्विस्तारे कर्द्दमेऽपि च ॥ ६६ ॥ भ्रान्तिर्मिथ्यामतौ ख्याता भ्रमणे चाऽनवस्थितौ । ;p{0062} नृतिः कृमौ नर्त्तने च सन्नः सरिति बर्त्मनि ॥ ६७ ॥ भक्तिर्विभागे सेवायां पङ्क्तिर्गौरवपाकयोः । मुक्तिः स्यान्मोचने मोक्षे युक्तिर्न्याये च योजने ॥ ६८ ॥ पङ्क्तिर्दशाक्षरच्छन्दोदशसङ्खधावलीष्वपि । शक्तिर्वले प्रभावादौ शक्तिः प्रहरणान्तरे ॥ ६९ ॥ शुक्तिः कपालशकले नख्यश्वावर्त्तयोरपि । मुक्तास्फोटे च दुर्नामा[?] शङ्खशङ्खनखेषु च ॥ ७० ॥ ;vv{तत्रिकम्} अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च धन्वन्तरिसुपर्वणोः ॥ ७१ ॥ स्यादमृतोऽमृतापथ्यागुडूच्यामलकीषु च । अनृतं कृषावसत्येऽप्यजितः कमलापतौ ॥ ७२ ॥ अनिर्ज्जिते चाच्युतस्तु स्थिरे स्याद्गरुडध्वजे । अर्द्दितं याचिते ज्ञेयं वातव्याधौ च हिंसिते ॥ ७३ ॥ अक्षतञ्चापि लाजेषु तृतीयप्रकृतावपि । अहिंसितेऽपि चापातस्तदात्वे पतनेऽपि च ॥ ७४ ॥ आघ्रातं शिङ्घिते क्रान्तेऽप्याख्यातं भाषिते तिङि । आध्मातं पवनव्याधौ दग्धशब्दितयोरपि ॥ ७५ ॥ आप्लुतः स्नातके स्नातेऽप्याहृतः सादरेऽर्च्चिते । आचितः शकटोन्मेये पलानामयुतद्वये ॥ ७६ ॥ छन्नेऽपि सङ्गृहीते स्यादाहतन्तु मृषार्थके । आहतं गुणितेऽपि स्यात् ताडिते नामितेऽपि च ॥ ७७ ॥ स्यात् पुरातनवस्त्रे च नूतनवस्त्रे त्वाहतम् । आनर्त्तो देशभेदे स्यान्नृत्यस्थाने जने रणे ॥ ७८ ॥ आवर्त्त आवर्त्तने स्याच्चिन्तने चाम्भसाम्भ्रमे ॥ ;p{0063} संवर्त्तः प्रलये प्रोक्तो बिभीतकतरावपि ॥ ७९ ॥ त्रिगर्त्तः स्याज्जनपदे त्रिगर्त्तो गणितान्तरे । भवेद् घर्घरिकायान्तु त्रिगर्त्ता कामुकस्त्रियाम् ॥ ८० ॥ विवर्त्तः समुदाये स्यादपवर्त्तननृत्ययोः । उत्तप्तं शुष्कमांसेऽपि सन्तप्ते च परिप्लवे ॥ ८१ ॥ उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समञ्जसे । उद्वृत्तं स्यादुत्तुलिते परिमुक्तोज्झितेऽपि च ॥ ८२ ॥ उत्थितं वृद्धयुक्ते च प्रोद्यतोत्पन्नयोरपि । उषितं व्युषिते दग्धे मुषितं खण्डिते हृते ॥ ८३ ॥ उद्धातः कथ्यते पादस्खलने समुपक्रमे । पवनाभ्यासयोगस्य कुम्भकादित्रयेऽपि च ॥ ८४ ॥ उत्तुङ्गे मुद्गरेऽपि स्यादुदितं प्रोक्त उद्गते । स्यादुच्छ्रितन्तु सञ्जाते समुन्नद्धप्रवृद्धयोः ॥ ८५ ॥ रजतं विशदे दन्तिदन्तयोस्तारहारयोः । सुरतं स्यान्निधुवने देवत्वे सुरता मता ॥ ८६ ॥ प्रहतं विजिते क्षुण्णे संहतं संहते दृढे । रसितन्तु सुवर्णादिखचिते स्तनिते रुते ॥ ८७ ॥ पलितं शैलजे तापे पाण्डुकेशे च कर्दमे । ललितं हारभेदे स्यादीप्सिते ललितेऽपि च ॥ ८८ ॥ स्खलितं चलिते भ्रंशे कलितं विदिताप्तयोः । ज्वलितं भास्वरे दग्धे त्वरितं प्रजवे हुते ॥ ८९ ॥ स्तिमितोऽचञ्चलक्लिन्ने हंसितं क्षिप्तदग्धयोः । सुहितोऽतिहिते तृप्ते मूर्च्छितं सोच्छ्रये दृढे ॥ ९० ॥ हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि । गर्ज्जितो मत्तमातङ्गे गर्जितं जलदध्वनौ ॥ ९१ ॥ ;p{0064} वर्द्धितं प्रसुते च्छिन्ने पूरिते चापि वर्द्धितम् । स्थापितं निश्चिते न्यस्ते चेङ्गितं गतिचेष्टयोः ॥ ९२ ॥ वेष्टितं रसके रुद्धे स्त्रीणाञ्च करणान्तरे । भावितं वासिते प्राप्ते विदितं विदितार्थयोः ॥ ९३ ॥ वेल्लितं कुटिले प्रोक्तं वाच्यवद्विधृते प्लुते । ग्रथितं गुम्फिताक्रान्तहिंसितेषु समीरितम् ॥ ९४ ॥ प्रथितं निर्ज्जलोदश्वित्यालोडितनिघृष्टयोः । प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहितेऽपि च ॥ ९५ ॥ जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि । क्रन्दितं ख्यातमाह्वाने क्रन्दितं रुदितेऽपि च ॥ ९६ ॥ प्रोक्षितं निहते क्षिप्ते वापितं मुण्डितं मतम् । बीजाकृते दंशितस्तु दुष्टचर्म्मितयोरपि ॥ ९७ ॥ क्षारितः स्राविते सारे चाभिशस्ते च संशितः । सुकृतञ्च शुभे पुण्ये सुविधाने च वाच्यवत् ॥ ९८ ॥ निकृतं विप्रलब्धं स्यान्नीचे विप्रकृतेऽपि च । विकृतौ संस्कृतेऽपि स्याद् बीभत्से रोगितेऽपि च ॥ ९९ ॥ संस्कृतः कृत्रिमे शस्ते भूषिते भेद्यवन्मतः । संस्कृतं लक्षणोपेता प्रभूतं प्राज्य उद्गते ॥ १०० ॥ प्रसृतः सप्रसारे स्याद्विनीते विगतेऽपि च । अर्द्धाञ्जलौ च प्रसृतं जङ्घायां प्रसृता मता ॥ १०१ ॥ सूनृतं मङ्गले सत्यप्रियवाचि च सूनृतम् । प्रसूतं वाच्यवज्जाते प्रसूतं कुसुमेऽपि च ॥ १०२ ॥ विसृतं ज्ञातसंहृष्टप्रतीतेष्वभिधेयवत् । निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ॥ १०३ ॥ अव्यक्तः शङ्करे विष्णावव्यक्तं महदादिके ॥ ;p{0065} आत्मन्यपि स्यादव्यक्तमस्फुटे चाऽभिधेयवत् ॥ १०४ ॥ विविक्तं स्यादसम्पृक्ते विवेकान्वितपूतयोः । वाच्यवद्दर्शितो धीरैर्विविक्तं रहसि स्मृतम् ॥ १०५ ॥ रोहितं रुधिरे धीर ऋजुशक्रशरासने । रोहितो मानमृगयोर्भेदे रोहितकद्रुते ॥ १०६ ॥ लोहितं कङ्कुमे रक्ते गोशीर्षे च कुचन्दने । लोहितः स्यान्नदे भौमे वर्णभेदे तु वाच्यवत् ॥ १०७ ॥ कुटितं स्याद्धस्तपुटे पाटितसूतयोरपि । पीडितं बाधिते स्त्रीणां करणे चापि यन्त्रिते ॥ १०८ ॥ पिण्डितं गणिते सान्द्रे पण्डितः सल्लके कवौ । हारीतः पक्षिभेदे स्यान्मुनिभेदेऽपि कैतवे ॥ १०९ ॥ प्रणीतः संस्कृते वह्नौ विहिते च प्रवेशिते । निक्षिप्ते चोपसम्पन्ने प्रणीतो भेद्यवन्मतः ॥ ११० ॥ प्रतीतः सादरे ज्ञाते प्रख्यातः ख्यातहृष्टयोः । वाच्यवत् स्यात् प्रमीतन्तु प्रोक्षितेऽपि मृतेऽपि च ॥ १११ ॥ विनीतमुपनीते स्यादपनीते जितेन्द्रिये । वाणिजे सुवहेऽश्वे च निभृते चाभिधेयवत् ॥ ११२ ॥ पृषतो हरिणे विन्दौ पृषतश्चाश्वरोहिते । भवेत् पृषदिव श्वेते बिन्दुयुक्तं तु वाच्यवत् ॥ ११३ ॥ भरतो वाद्यभेदेऽपि दौष्यन्तौ सञ्चरे नटे । रामानुजे च भरतस्तन्तुवायेऽपि च कचित् ॥ ११४ ॥ भारतं ग्रन्थभेदे स्याज्जम्बूद्वीपेऽपि भारतम् । भारती तु सरस्वत्यां पक्षिणीवृत्तिभेदयोः ॥ ११५ ॥ दुर्ज्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि । परेतो भूतभेदे स्यात् परेतो वाच्यवन्मृते ॥ ११६ ॥ ;p{0066} कपोतः पारावते स्यात् कवकाख्यविहङ्गमे । कापोतमञ्जनेऽपि स्यात् कपोतानाञ्च संहतौ ॥ ११७ ॥ व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् । व्याघातो योगभेदे स्यादन्वरायप्रहारयोः ॥ ११८ ॥ सङ्घातः संहतौ घाते सङ्घातो नरकान्तरे । रैवतस्तु सुवर्णालौ शैलभेदेऽपि शूलिनि ॥ ११९ ॥ स्यात् किरातस्तु भूनिम्बे म्लेच्छे चाल्पतनावपि । मन्दाकिन्यां किराती स्यात् कुट्टिन्यामपि दृश्यते ॥ १२० ॥ आस्फीतश्चार्कपर्णे स्यादास्फीतः कोविदारके । आस्फीता गिरिकर्ण्यां स्याद्वनमल्ल्याञ्च विश्रुता ॥ १२१ ॥ उदात्तः स्वरभेदे स्यात् काव्यालङ्कारहृद्ययोः । उदात्तो दातृमहतोर्निमित्तं हेतुलक्ष्मणोः ॥ १२२ ॥ उन्मत्त उन्मादवति धुत्तूरमुचुकुन्दयोः । पर्वतः शैलदेवर्षौ प्रपातो निर्झरे भृगौ ॥ १२३ ॥ पर्याप्तन्तु यथेष्टे स्यात् तृप्तौ शक्ते निवारणे । जीमूतः स्याद् धृतिकरे शक्रेऽद्रौ घोषके घने ॥ १२४ ॥ जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधे । एधतुः पुरुषे वह्नौ वाहेतुः पथिके वृषे ॥ १२५ ॥ विहस्तो विह्वले पण्डे पर्यस्तः पतिते हते । आयस्तः स्तिमिते क्षिप्ते क्लेशिते कुपिते हते ॥ १२६ ॥ निरस्तः क्लेशितेषौ स्यान्निष्ठ्यूते त्वरितोदिते । सन्त्यक्ते च प्रतिहते विश्वस्तो निभृते स्मृतः ॥ १२७ ॥ विश्वासयोगे विश्वस्तो विश्वस्ता विधवास्त्रियाम् । निवातो दृढसन्नाहे वातान्ते चाश्रयेऽपि च ॥ १२८ ॥ अनन्तः शेषविष्ण्वोः स्यादनन्तः सुरवर्त्मनि । ;p{0067} अनन्तश्चाप्यनवधौ वाच्यवत् समुदाहृतः ॥ १२९ ॥ अनन्ता शारिवादूर्वाविशल्यालाङ्गलीषु च । अनन्ता हैमवत्याञ्च गुडूच्याञ्च निरूप्यते ॥ १३० ॥ शकुन्तः पक्षिभेदे स्याद्भासपक्षिविहङ्गयोः । दृष्टान्तः शास्त्र उभयोदाहरणे प्रकीर्त्तितः ॥ १३१ ॥ कृतान्तो यमसिद्धान्तदैवाकुशलकर्म्मसु । निशान्तः कथितः शान्ते निशान्तं भवनोषसोः ॥ १३२ ॥ वृत्तान्तोऽवसरे भावकार्त्स्न्यवार्त्ताविशेषयोः । वृत्तान्तः प्रक्रियायाञ्च क्वचिदेकान्तवाचकः ॥ १३३ ॥ उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत् । शुद्धान्तोऽन्तःपुरे राज्ञो रहःकक्षान्तरेऽपि च ॥ १३४ ॥ अस्वन्तमशुभे चुल्ल्यां मरणेऽनवधावपि । क्षेत्रेऽपि कथ्यतेऽस्वन्तमुदन्तः साधुवार्त्तयोः ॥ १३५ ॥ जयन्तः शङ्करेऽपि स्याज्जयन्तः पाकशासनौ । जयन्ती पादपे गौर्यामिन्द्रपुत्रीपताकयोः ॥ १३६ ॥ गोदन्तो हरिताले स्याद्दंशिते हरितेऽपि च । भासन्तः सुन्दराकारे भासन्तो भासपक्षिणि ॥ १३७ ॥ महद्राज्ये विशाले च महती वल्लकीभिदि । मरुद्देवे समीरे स्यादर्हन् पूज्ये जिनेऽपि च ॥ १३८ ॥ जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च ॥, जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि च ॥ १३९ ॥ पित्सन्[त्‌] पिपतिषन्नेतौ[?] पतनेच्छुविहङ्गयोः । हरित् ककुभि वर्णे च तृणवाजिविशेषयोः ॥ १४० ॥ हरितेऽपि च दूर्वायां हरिद्वर्णयुतेऽन्यवत् । विद्युत् सौदामिनीसन्ध्योर्निष्प्रभे त्वभिधेयवत् ॥ १४१ ॥ ;p{0068} गर्मुत् सुवर्णलतयो रोहित् सूर्यलताभिदोः । भूभृन्नरेन्द्रे शैले च पतन् पातुकपक्षिणोः ॥ १४२ ॥ कुर्वन् कर्मकरे भृत्ये स्यादर्वन् कुक्षितेऽन्यवत् । अर्वती कुम्भदास्याञ्च वाम्याञ्च परिकीर्त्तिता ॥ १४३ ॥ श्रीमांस्तिन्नकवृक्षे स्यान्मनोज्ञे धनकेऽपि च । धीमान् वाचस्पतौ धीरे भास्वान् भास्वरसूर्ययोः ॥ १४४ ॥ सुव्रता पुङ्खसन्दोह्यसुरभ्यां शोभनव्रते । वाच्यवद्विवृता क्षुद्ररोगे स्याद्विवृतं स्फुटे ॥ १४५ ॥ वनिता जनितात्यर्थानुरागायाञ्च योषिति । वनितं याचितेऽपि स्याद्वनितं शोचितेऽपि च ॥ १४६ ॥ जामाता वल्लभे सूर्यावर्त्तेऽपि दुहितुः पतौ । विनेता देशिके राज्ञि विधाता वेधसि स्मरे ॥ १४७ ॥ विनता पिटकाभेदे विनता तार्क्ष्यमातरि । विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ॥ १४८ ॥ पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च । विजाताख्या प्रसूतायां जनिते विकृतेऽपि च ॥ १४९ ॥ सिकता वालुकायां स्युः सिकताऽप्यामयान्तरे । सिकतान्वितदेशे च शर्करायाञ्च कीर्त्तिता ॥ १५० ॥ वासिता करिणीनार्योर्वासितं सुरभीकृते । ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते ॥ १५१ ॥ पिशिता मांसिकायां स्यादामिषे पिशितं मतम् । तृणताऽपि तृणत्वे स्यात्तृणता कार्मुकेऽपि च ॥ १५२ ॥ द्विजातिरण्डजे विप्रे श्रीपतिः क्ष्मापतौ हरौ । गोपतिः शङ्करे षण्डे पार्थिवेऽपि विकर्त्तने ॥ १५३ ॥ स्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि । ;p{0069} जीवेष्टियाजके सूतेऽप्यमतिः कालचन्द्रयोः ॥ १५४ ॥ अङ्कति स्यादग्निहोत्रे ज्वलनाम्बुजयोनिषु । रमतिर्नायके स्वर्गेऽप्यहतिस्त्यागरागयोः ॥ १५५ ॥ निरृतिः स्यादलक्ष्म्याञ्च दिक्पाले निरुपद्रवे । अगस्तिर्वङ्गसेने स्यादगदस्तिः कुम्भसम्भवे ॥ १५६ ॥ गभस्तिः किरणे सूर्ये स्वाहायाञ्च विलोक्यते । सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतौ ध्वनौ ॥ १५७ ॥ आयतिः सङ्गमे दैर्घ्ये प्रभावागामिकालयोः । आपत्तिः स्याद् बले स्नेहे वशित्वे वासरेऽपि च ॥ १५८ ॥ मर्यादायां तथाऽऽपत्तिर्विपत्तिर्यातनापदोः । नियतिर्नियमे दैवे पद्धतिः पङ्क्तिवर्त्मनोः ॥ १५९ ॥ सन्ततिः पङ्क्तिविस्तारगोत्रेषु कविभिः स्मृता । परम्पराभवेऽपि स्यात् सन्ततिः पुत्रकन्ययोः ॥ १६० ॥ सम्मतिः स्यादनुज्ञानेऽप्यभिलाषेऽपि सम्मतिः । समितिः सङ्गरे साम्ये सभायामपि सङ्गमे ॥ १६१ ॥ अदितिर्वसुधायां स्याददितिर्देवमातरि । वसतिः स्यादवस्थाने यामिन्याञ्च निकेतने ॥ १६२ ॥ पक्षतिः पक्षमूले स्यात् पक्षतिः प्रतिपत्तिथौ । उन्नतिस्तार्क्ष्यदारेषु समृद्धावुदयेऽपि च ॥ १६३ ॥ प्रसूतिस्तनयोत्पत्तौ तथा दुहितरि स्मृता । व्रततिर्विस्तृतौ वल्ल्यां वहतिः सचिवे गवि ॥ १६४ ॥ दुर्गतिर्नरके नैःस्वे विकृतिर्डिम्बरोगयोः । निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाट्ययोः ॥ १६५ ॥ आकृतिः कथितारूपसामान्यवपुषोरपि । प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ १६६ ॥ ;p{0070} निर्वृत्तिः स्वस्थतायां स्यादस्तङ्गमनसौख्ययोः । सुनीतिः शोभननये सुनीतिर्ध्रुवमातरि ॥ १६७ ॥ प्रवृत्तिः कथिता वृत्तौ प्रवाहोदन्तयोरपि । विच्छित्तिरङ्गरागे स्याद्धावविच्छेदयोरपि ॥ १६८ ॥ संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च । आपत्तिः प्रापणे दोषे चासत्तिः सङ्घलाभयोः ॥ १६९ ॥ पर्याप्तिः स्यात् प्रकामेऽपि प्राप्तौ च परिरक्षणे । समाप्तिश्चावसाने स्यात् समाप्तिश्च समर्थने ॥ १७० ॥ बृहती क्षुद्रवार्त्ताक्यां कण्टकार्याञ्च वाचि च । वारिधान्यां महत्याञ्च छन्दोवसनभेदयोः ॥ १७१ ॥ मालती जातियुवतीज्योत्स्नासु सरिदन्तरे । काकमाच्यां विशालायां विभावर्यामपीष्यते ॥ १७२ ॥ भवती बाणभेदे स्यादन्यवद् वत्सदर्थ[?]योः । रेवती हलिपत्न्यां स्यात् ताराभेदेऽपि मातृषु ॥ १७३ ॥ पार्वती शल्लकीदुर्गाज्रोपदीजीविनीषु च । स्रवन्ती च द्रवन्ती च सरिदोषधिभेदयोः ॥ १७४ ॥ जीवन्ती जीविनीशम्योर्गुडूचीवृन्दयोरपि । हसन्त्यङ्गारधान्याञ्च मल्लिकाशाकिनीभिदोः ॥ १७५ ॥ वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके । वासन्ती कोकिलेऽपि स्याद्वासन्तोऽविहिते विटे ॥ १७६ ॥ ;vv{तचतुष्कम्} भवेदवसितं ज्ञाते गतौ रुद्धावसानयोः । अवदातं सिते पीते विशुद्धे प्रवरेऽपि च ॥ १७७ ॥ अवगीतन्तु निर्वादे मुहुर्दृष्टे विगर्हिते । अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च कथ्यते ॥ १७८ ॥ ;p{0071} अङ्गारितं पलाशीयकलिकोद्गमदग्धयोः । अपावृतः स्वतन्त्रे स्यात् पिहिते चाऽप्यपावृतः ॥ १७९ ॥ अत्याहितं महाभीतौ जीवनोपेक्षकर्मणि । उपाहितोऽनलोत्पात आहिते चाप्युपाहितः ॥ १८० ॥ उपाकृतोऽध्वरहतपशूपद्रुतयोर्मतः । उदास्थितः प्रतीहारेऽध्यक्षे च प्रणिधौ चरे ॥ १८१ ॥ अभिनीतो भवेन्न्याय्ये संस्कृतामर्षिणोरपि । अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः ॥ १८२ ॥ पारिजातः सुरतरौ मन्दारे पारिभद्रके । भवेत्परिगतं लाभे प्रयाते वेष्टितेऽपि च ॥ १८३ ॥ ख्यातं प्रणिहितं लब्धे विन्यस्ते च समाहिते । भवेत् प्रतिहितोऽद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १८४ ॥ उल्लिखितं समुत्कीर्णे वाच्यवच्च तनूकृते । विद्यादुपचितं दिग्धे समृद्धे च समाहिते ॥ १८५ ॥ समुद्धतः समुद्गीर्णेऽप्यविनीते समुद्धतः । कुहरितं पिकालापे रटिते रतनिस्वने ॥ १८६ ॥ भवेत् पल्लवितं लाक्षारक्ते सप्रसवे तते । उज्जृम्भितन्तु चेष्टायामुत्फुल्ले चाभिधेयवत् ॥ १८७ ॥ उद्ग्राहितमुपन्यस्ते बद्धग्राहितयोरपि । निस्तुषितं निस्त्वचि स्याद्वर्ज्जिते च लघूकृते ॥ १८८ ॥ ऐरावतोऽभ्रमातङ्गनारङ्गलिकुचाहिषु । ऐरावतं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १८९ ॥ ऐरावती स्यात्तडिति सरिद्भेदेऽपि लक्ष्यते । कलधौतं रूप्यहेम्नोः कलधौतं कलध्वनौ ॥ १९० ॥ दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ॥ ;p{0072} पाशुपतो वकपुष्पे पशुपत्यधिदैवते ॥ १९१ ॥ निष्कासितो निर्गमितेऽप्यूहिते धिक्कृतेऽपि च । व्यतीपातो महोत्पाते योगभेदापयानयोः ॥ १९२ ॥ समाघातो वधे युद्धेपरिघातोऽस्त्रघातयोः । विनिपातोऽवपाते स्याद्दैवादिव्यसनेऽपि च ॥ १९३ ॥ समाहितः प्रतिज्ञाते समाधिस्थे यतात्मनि । वाच्यवन्निहिते सिद्धे समाधाने समाहितम् ॥ १९४ ॥ नन्द्यावर्त्तः स्मृतो वेश्मप्रभेदे तगरद्रुमे । परिवर्त्तो विनिमये कूर्मराजे पलायने ॥ १९५ ॥ अभियुक्तः परै रुद्धे तथा स्यादतितत्परे । अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कलेऽपि च ॥ १९६ ॥ उपरक्तः सैहिकेये तद्ग्रहे व्यसनातुरे । सूर्य्यभक्तो बन्धुजीवे तथा भास्करपूजके ॥ १९७ ॥ नदीकान्तः समुद्रे स्यात् सिन्दुवारेऽपि हिज्जले । नदीकान्ता स्मृता जम्बूकाकजङ्घालतासु च ॥ १९८ ॥ नागदन्तो द्विपरदे गृहान्नितदारुणि । नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपीष्यते ॥ १९९ ॥ पुष्पदन्तस्तु दिङ्नागे नागविद्याधरान्तरे । चन्द्रकान्तोऽश्मभेदे स्याच्चन्द्रकान्तश्च कैरवे ॥ २०० ॥ वैजयन्तो गृहे शक्रप्रासादध्वजयोरपि । वैजयन्ती पताकायां जयन्ती[ ]वह्निमन्थयोः ॥ २०१ ॥ पुरस्कृतं स्कीकृताभिशस्तयोऽरभिधेयवत् । अग्रे कृताभ्यर्च्चितयोः सिक्ते चापि पुरस्कृतम् ॥ २०२ ॥ अवध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते । धूमकेतुः स्मृतो वह्नावुत्पातग्रहभेदयोः ॥ २०३ ॥ ;p{0073} चित्रगुप्तः कृतान्ते स्याल्लेखके चास्य सम्मतः । पञ्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च ॥ २०४ ॥ अधिक्षिप्तः प्रणिहिते तथा निर्भर्त्सितेऽपि च । प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते ॥ २०५ ॥ आयुष्मान् योगभेदे स्यादायुष्मांश्चिरजीविनि । विवस्वान् विबुधे भानौ भगवान् बुद्धपूज्ययोः ॥ २०६ ॥ द्वीपवान् सिन्धुनदयोर्द्वीपवत्यापगाभुवोः । गरुत्मान् विहगे तार्क्ष्ये सङ्ख्यावान् पण्डिते मिते ॥ २०७ ॥ अंशुमान् भास्करे शालपर्ण्यामंशुमती मता । अर्थपतिः कुवेरे स्यादीश्वरेऽर्थपतिस्तथा ॥ २०८ ॥ गृहपतिर्गृहस्थे स्यादत्याधाने च सत्रिणि । सेनापतिः कार्त्तिकेयेऽप्यनीकाधिकृतेऽपि च ॥ २०९ ॥ लक्ष्मीपतिर्वासुदेवे लवङ्गद्रुमपूगयोः । प्रजापतिर्विधौ भूपे हिमारातिः खगेऽनले ॥ २१० ॥ वनस्पतिर्वृक्षभात्रे विना पुष्पं फलद्रुमे । सदागतिः स्यात् पवने निर्वाणे च सदीश्वरे ॥ २११ ॥ दिवाकीर्त्तिस्तु चाण्डाले नापितोलूकयोरपि । शतधृतिर्धातरीऽन्द्रे सुधासूतिर्मखे विधौ ॥ २१२ ॥ भवेदऽपचितिः पूजाक्षयहानिषु निष्कृतौ । अनुमतिः स्यादूनेन्दुपूर्णिमाऽनुज्ञयोरपि ॥ २१३ ॥ प्रतिकृतिः प्रतीकारे प्रतिमायाश्च पूजने । निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ ॥ २१४ ॥ प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च । प्रागल्भ्ये च प्रबोधे च प्रतिपत्तिः प्रयुज्यते ॥ २१५ ॥ उपसत्तिः सङ्गमे च सेवायां प्रतिपादने ॥ ;p{0074} अभिशस्तिः स्मृता लोकापवादे प्रार्थनेऽपि च ॥ २१६ ॥ पारावती गोपगीतिलवलीलतयोर्मता । पारावतः कलरवे शैले मर्कटतिन्दुके ॥ २१७ ॥ भोगवती भुजङ्गानां नगरीसरितोरपि । गन्धवती सुराभूम्योः पुरीयोजनगन्धयोः ॥ २१८ ॥ हैमवत्यऽभयास्वर्णक्षीर्योः श्वेतवचोमयोः । चर्मण्वती नदीभेदे कदलीपादपेऽपि च ॥ २१९ ॥ कुमुद्वती कुमुदिन्यां कुशपत्न्यां कुमुद्वती । शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति ॥ २२० ॥ सरस्वती सरिद्भेदे गोवाग्देवतयोर्गिरि । स्त्रीरत्ने चापगायाञ्च सरस्वान् सिन्धुकेऽम्बुधौ ॥ २२१ ॥ रागमाताऽपि कुट्टन्यां स्मृता भूमिरुहामये । प्रभूमिता क्लेशितायां सूर्यगन्तव्यदिश्यऽपि ॥ २२२ ॥ प्रव्रजिता तपस्विन्यां मुण्डीर्यामांसिकौषधौ । ऋष्यप्रोक्ता शतावर्य्यां शूकशिम्ब्यां बलाभिदि ॥ २२३ ॥ कृष्णवृन्ता पाटलायां माषपर्ण्याञ्च भाविता । समुद्रान्ता तु कार्पासीस्पृक्कादुरालभासु च ॥ २२४ ॥ ;vv{तपञ्चकम्} स्यादऽवलोकितो बुद्धे प्रक्षिप्ते त्वविलोकितम् । उपधूपित आसन्नमरणे परिधूपिते ॥ २२५ ॥ स्यादऽपराजितो विष्णौ श्रीकण्डे चाऽपराजिता । श्वेताजयन्तीदुर्गास्वऽनिर्ज्जिते त्वऽभिधेयवत् ॥ २२६ ॥ गणाधिपतिर्विख्यातः शङ्करेऽपि गजानने । यादसाम्पतिरम्भोधौ प्रतीचीदिक्पतावपि ॥ २२७ ॥ स्यात् पृथिवीपतिर्भूपे ऋषभाख्यौषधेऽपि च ॥ ;p{0075} मूर्द्धाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २२८ ॥ वसन्तदूतश्चूते स्यात् पिकपञ्चमरागयोः । वसन्तदूती पाटल्यां प्रतीच्यामतिमुक्तके ॥ २२९ ॥ ;vv{तषट्कम्} अर्द्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि । ;vv{तसप्तकम्} समुद्रनवनीताख्या पीयूषामृतरचिषोः ॥ २३० ॥ ;c{इति तान्तवर्गः ॥} ;v{थान्तवर्गः} ;vv{थद्विकम्} रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च । कुथः प्रवेणीकुशयोः पीथोऽर्के पीथमम्भसि ॥ १ ॥ कोथस्तु शठिते नेत्ररुग्भेदे मन्थनेऽपि च । प्रोथोऽध्वगेऽश्वघोणायां कटीस्त्रीगर्भयोरपि ॥ २ ॥ क्वाथः स्याद् द्रवनिष्पाके दुःखव्यसनयोरपि । सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे ॥ ३ ॥ पृथुर्नृपे कृष्णजीरे वाप्यां पृथु महत्यपि । दुःस्थः स्याद् दुर्गते मूर्खे प्रस्थः शिखरमानयोः ॥ ४ ॥ तुत्थोऽग्नावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि । मन्थः साक्तवमन्थाननेत्रामयदिवाकरे ॥ ५ ॥ ग्रन्थो धने स्यात् सन्दर्भे द्वात्रिंशद्वर्णनिर्म्मितौ । ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपर्णे गदान्तरे ॥ ६ ॥ अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने ॥ ७ ॥ तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु ॥ ;p{0076} अवतारर्षिजुष्टाम्भःस्त्रीरजःसु च विश्रुतम् ॥ ८ ॥ सार्थो वणिक्समूहे स्यादऽपि सङ्घातमात्रके । पार्थस्तु ककुभे जिष्णौ गाथावाग्भेदवृत्तयोः ॥ ९ ॥ कन्था मृन्मयभित्तौ स्यात् कन्था प्रावरणान्तरे । आस्था चाऽलम्बनास्थानयत्नापेक्षासु कथ्यते ॥ १० ॥ संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि । वीथी गृहाङ्गे पङ्क्तौ च नाट्यरूपकवर्त्मनोः ॥ ११ ॥ यूथी पुष्पप्रभेदे स्यान्मागध्याञ्च कुरण्टके । यूथं तिर्यक्समूहे स्याद्वृन्दमात्रे च भाषितम् ॥ १२ ॥ ;vv{थत्रिकम्} मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे । उन्माथः कूटयन्त्रे स्यान्मारणे घातकेऽपि च ॥ १३ ॥ प्रमथोऽपि गणे प्रोक्तः पथ्यायां प्रमथा भवे । निशीथोऽप्यर्द्धरात्रे स्यान्निशीथो रात्रिमात्रके ॥ १४ ॥ विदिथो योगिकृतिनोरुद्रथः शुनिकुक्कुटे । शमथः सचिवे शान्तौ दमथो दमदण्डयोः ॥ १५ ॥ वरूथो रथगुप्तौ स्याद्वरूथं चर्मवेश्मनोः । अतिथिः कुशपुत्रेऽपि कोपे प्राघुणकेऽपिच ॥ १६ ॥ वमथुर्वमनेऽपि स्याद् गजस्य करशीकरे । क्षवथुः कथितः काशे हिक्कायामपि दृश्यते ॥ १७ ॥ समर्थोऽपि हिते शक्ते सम्बद्धार्थेऽपि सम्मतः । सिद्धार्थः शाक्यसिंहे स्यात् सिद्धार्थः सितसर्षपे ॥ १८ ॥ कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि । कायस्था तु हरीतक्यामामलक्याञ्च दर्शिता ॥ १९ ॥ वयःस्थो वाच्यवद्यूनि वयःस्था शाल्मलीद्रुमे । ;p{0077} ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ २० ॥ अश्वत्थो गर्द्दभाण्डे स्यात् पिप्पले पूर्णिमातिथौ । उपस्थो मेण्ढ्र उत्सङ्गे भगे पायौ च कथ्यते ॥ २१ ॥ निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि । गोग्रन्थिस्तु करीषे स्याद् गोष्ठे गोजिह्विकौषधे ॥ २२ ॥ अव्यथा तु हरीतक्यां पन्नगे निर्व्यथेऽपि च । षङ्ग्रन्थाऽपि वचासिंह्योः षड्ग्रन्थोऽपि प्रकीर्त्यते ॥ २३ ॥ ;vv{थचतुष्कम्} चित्ररथः स्याद्गन्धर्वे रवौ विद्याधरान्तरे । चतुष्पथश्चतुर्मार्गसङ्गमेऽपि द्विजेऽपि च ॥ २४ ॥ वानप्रस्थो मधूके स्यात् किंशुके चाश्रमान्तरे । दशमीस्थं नष्टबीजे स्थविरेऽपि प्रचक्ष्यते ॥ २५ ॥ अनीकस्थो रणखले गजशिक्षाविचक्षणे । राजरक्षिषु चिह्ने ब वीरमर्द्दनकेऽपि च ॥ २६ ॥ भवेदितिकथा नष्टधर्मेऽपार्थे वचस्यऽपि । अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ ॥ २७ ॥ ;c{इति थान्तवर्गः} ;v{दान्तवर्गः} ;vv{दद्विकम्} गदो भ्रातरि विष्णोः स्यादामयेऽप्यायुधे गदा । नदः समुद्रे निनदे नदी तु सरिति स्मृता ॥ १ ॥ मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः । मद्येऽपि मद आख्यातो मदी कृषकवस्तुनि ॥ २ ॥ पदं शब्दे च वाक्यं च व्यवसायापदेशयोः । पादपच्चिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ ३ ॥ ;p{0078} छदः पलाशे गरुति ग्रन्थिपर्णितमालयोः । रदो विलेखने दन्ते भद्रं कल्याणशर्म्मणोः ॥ ४ ॥ भेदो द्वैधे विशेषे स्यादुपजापे विदारणे । स्वेदस्तु स्वेदने घर्म्मे शादः कर्द्दमशस्ययोः ॥ ५ ॥ पादो ब्रध्नेे तुरीयांशे शैलप्रत्यन्तपर्वते । चरणे च मयूखे च क्षोदो रजसि पेषणे ॥ ६ ॥ सूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च । स्वादुर्मनोज्ञे मृष्टे च मृदुः स्यात् कोमलेऽखरे ॥ ७ ॥ अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके । विन्दुर्दन्तच्छदेऽपि स्यात्तथा वेदितृविमुषोः ॥ ८ ॥ कुन्दश्चक्रभ्रमौ माध्ये निधिभेदे मुरद्विषि । कन्दस्तु शरणे शस्यमूले जलधरेऽपि च ॥ ९ ॥ मन्दः खले मन्दरते मूर्खे स्वैरेऽल्परागिणोः । अभाग्येऽपि च मातङ्गे गजजातिप्रभेदयोः ॥ १० ॥ छन्दो वशेऽप्यभिप्राये हृदाख्याचित्तबुक्कयोः । वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले ॥ ११ ॥ अन्दुः स्याद् षन्धनद्रव्ये प्रभेदे भूषणस्य च । नन्दिरानन्दने द्यूते प्रतीहारे हरस्य च ॥ १२ ॥ विदा ज्ञाने च बुद्धौ च धीदा कन्यामनीषयोः । निन्दाऽपवादे कुत्सायां नन्दा मणिकसम्पदोः ॥ १३ ॥ ;vv{दत्रिकम्} धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे । नलदं स्यात्पुष्परसे मांसिकोशीरयोरपि ॥ १४ ॥ प्रमदः सम्मदे मत्ते कामिन्यां प्रमदा मता । विशदः पाण्डुरे व्यक्ते जीवदो वैद्यविद्विषोः ॥ १५ ॥ ;p{0079} अङ्गदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते । अङ्गदा याम्यदिग्दन्तिहस्तिन्यां समुदाहृता ॥ १६ ॥ वरदोऽपि प्रसन्ने स्याद्वरदः शान्तचेतसि । वरदाऽपि च कन्यायामामोदो गन्धहर्षयोः ॥ १७ ॥ नर्मदः केलिसचिवे नर्मदा सरिदन्तरे । क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ १८ ॥ कप. खण्डपरशोर्जटाजूटे वराटके । आस्पदन्तु पदे कृत्ये निषादः श्वपचे स्वरे ॥ १९ ॥ प्रसादोऽनुग्रहे काव्यगुणस्वाथ्यप्रसक्तिषु । प्रसादः कथ्यते देवनरदेवनिवासयोः ॥ २० ॥ शारदः पीतमुद्गे स्याच्छालीने प्रतिभे नवे । वर्षेऽथ जलपिप्पल्यां सप्तपर्णे च शारदि ॥ २१ ॥ दारदो विषभेदे स्याद्धिङ्गुले पारदेऽपि च । तोयदन्तु घृते प्रोक्तं तोयदो मुस्तकाब्दयोः ॥ २२ ॥ निर्वादः स्यात् परीवादपरिनिष्ठितवादयोः । अर्बुदो मांसकीले स्याद्दशकोटिषु चाऽर्बुदः ॥ २३ ॥ शैलेऽर्बुदोऽथ सम्भेदः स्फुटने सिन्धुसङ्गमे । कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदिके ॥ २४ ॥ प्रणादस्तारशब्दे स्यात् प्रणादः श्रवणामये । प्रमदः प्रमदे दैत्ये दायादे ज्ञातिपुत्रयोः ॥ २५ ॥ मेनादः केकिमार्ज्जारच्छागलेषु समीरितः । गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पतौ ॥ २६ ॥ आक्रन्दो दारुणरणे मित्रे त्रातरि रोदने । माकन्दः सहकारे स्यान्माकन्द्यामलकीफले ॥ २७ ॥ अर्द्धेन्दुश्चन्द्रशकले गलहस्तनखाङ्कयोः ॥ ;p{0080} अर्द्धेन्दुः स्यादतिप्रौढे स्त्रीगुह्याङ्गुलियोजने ॥ २८ ॥ कर्णेन्दुरुत्क्षिप्तिकायां कर्णपाश्यामपीरिता । स्यात् कौमुदः कार्त्तिकिके चन्द्रिकायाञ्च कौमुदी ॥ २९ ॥ कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ । दैत्यान्तरे च दिङ्गागनागयोरपि कीर्त्तितः ॥ ३० ॥ कुमुदा कुम्भिगाम्भार्योः स्यात् कुमुत् कृपणेऽन्यवत् । कुमुदेऽपि कुमुत् प्रोक्तं क्रव्यां मांसाशिरक्षसोः ॥ ३१ ॥ ककुद्वत् ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि । मुकुन्दः पुण्डरीकाक्षे रत्नभेदे च पारदे ॥ ३२ ॥ दरत् प्रपातेऽद्रिभवे शरत् संवत्सरे ऋतौ । दृषत् पेषणपट्टे स्याद् दृशत्पाषाणमात्रके ॥ ३३ ॥ सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि दृश्यते । भासत् प्रभास्वरे मासे तरत् कारण्डवे प्लवे ॥ ३४ ॥ संविज्ज्ञाने प्रतिज्ञायां सङ्केताचारनामसु । सम्भाषणे तोषणेऽपि क्रियाकारे च सङ्गरे ॥ ३५ ॥ कामदा धेनुकायां स्याद्वाच्यवत् कामदोग्धरि । सुनन्दा रोचनानार्योर्मर्यादाधारणे स्थिता ॥ ३६ ॥ ;vv{दचतुष्कम्} एकपदं स्यात्तत्काले पदव्यामेकपद्यऽपि । चतुष्पदं स्यात् स्वीकारे गवाश्वादिपशुष्वऽपि ॥ ३७ ॥ भवेद्विष्णुपदाभिख्या क्षीरोदे गगनेऽम्बुजे । प्रोक्ता विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च ॥ ३८ ॥ भवेज्जनपदो देशे जने जानपदोऽपि च । प्रियंवदः खेचरे स्यात् प्रियवाचिषु वाच्यवत् ॥ ३९ ॥ अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि ॥ ;p{0081} परिवादः कलङ्के स्याद्वीणावादनवस्तुनि ॥ ४० ॥ समर्यादः समीपे स्यान्मर्यादासहितेऽपि च । पुटभेदो नदीवक्त्रे पतनातोद्ययोरपि ॥ ४१ ॥ अष्टापदं स्यात् कनके शारीणां फलकेऽपि च । अष्टापदश्च शरभे चन्द्रमल्याञ्च मर्क्कटे ॥ ४२ ॥ मेघनादस्तु वरुणे रावणस्य सुतेऽपि च । महानादः कुञ्जरे स्याद्वर्षुकाब्जे शयानके ॥ ४३ ॥ भवेत् कोकनदं रक्तकैरवे रक्तपङ्कजे । विशारदो बुधे धृष्टेऽभिमर्द्दो रणमन्थयोः ॥ ४४ ॥ पीठमर्द्दोऽतिधृष्टे स्यान्नाट्योक्तौ नायकप्रिये । मुचुकुन्दो द्रुभेदे स्यान्मुनिदैत्यविशेषयोः ॥ ४५ ॥ कुरुविन्दस्तु मुस्तायां कुल्माषव्रीहिभेदयोः । हिङ्गुले पद्मरागे स्यान्मुकुरे च समीरितः ॥ ४६ ॥ अभिष्यन्दोऽतिवृद्धौ स्यादाश्रावेऽक्षिगदेऽपि च । कटुकन्दं विदुः शिग्रौ शृङ्गवेररसोनयोः ॥ ४७ ॥ तमोनुदऽग्रीन्द्वर्केषु प्रतिपत्तिथिसंविदोः । शतह्रदा भवेद्वज्रे सौदामिन्याञ्च कीर्त्तिता ॥ ४८ ॥ ;vv{दपञ्चकम्} सहस्रपादः कारण्डे मार्तण्डे यज्ञपूरुषे । भषेदुपनिषद्धर्म्पे वेदान्तेऽपि रहस्यऽपि ॥ ४९ ॥ ;c{इति दान्तवर्गः ॥} ;v{धान्तवर्गः} ;vv{धद्विकम्} राधो वैशाखमासे स्याद्राधा गोप्याञ्च विद्युति । विष्णुक्रान्तामलक्योश्च चित्रवेधे च धन्विनाम् ॥ १ ॥ ;p{0082} गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः । मेधः क्रतुर्धियां मेधा मेधः स्यात् खलदारुणे ॥ २ ॥ बुधः कवौ रौहिणेये मिद्धमालस्यनिद्रयोः । तथा चित्ताभिसंक्षेपे नद्धमुद्वृत्तबद्धयोः ॥ ३ ॥ सिद्धो व्यासादिषु ख्यातः सिद्धाः स्युर्दैवयोनिषु । नित्ये प्रसिद्धे निष्पन्नेऽपीद्धमातप्तदीस्तयोः ॥ ४ ॥ ऋद्धं त्वतिसमृद्धे स्यात् सम्यग्वाते तु वाच्यवत् । वृद्धन्तु शैलजे सूरिजीर्णरूढेषु भेद्यवत् ॥ ५ ॥ विद्धं स्याद्वेदिते क्षिप्ते सादृश्येऽपि निगद्यते । बुद्धो जिने च धीरे च सौम्ये च बुधितेऽपि च ॥ ६ ॥ अर्द्धः खण्डे समांशेऽर्द्धं लुब्धो मृगयुकाङ्खिणोः । अन्धं स्यात्तिमिरे दृष्टिहीनेऽन्धः समुदाहृतः ॥ ७ ॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः । स्कन्धः प्रकाण्डे सैन्यांशे बाहुमूलसमूहयोः ॥ ८ ॥ समीकनृपयोश्चाऽपि बन्धस्त्वाधौ च वन्धने । दग्धं प्लुष्टेऽन्यवद्दग्धा स्थितार्कदिशि दर्शिता ॥ ९ ॥ दिग्धं विषाक्तवाणे स्याद्दिग्धं लिप्तार्थकेऽन्यवत् । दुग्धं प्रपूरणे क्षीरे मुग्धः सुन्दरमूढयोः ॥ १० ॥ मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च जीवाशाके मधुद्रुमे ॥ ११ ॥ विधुः शशाङ्के कर्पूरे हृषीकेशेऽपि राक्षसे । साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् ॥ १२ ॥ सिन्धुः समुद्रे नद्याञ्च नदे देशेभदानयोः बन्धुर्वन्धूकपुष्पे स्याद्बन्धुर्भ्रातरि बान्धवे ॥ १३ ॥ आधिर्मानसपीडायां प्रत्याशायाश्च[ञ्च] बन्धके ॥ ;p{0083} व्यसने चापधिष्ठाने व्याधिरामयवाक्ययोः ॥ १४ ॥ बोधिः समाधिभेदे स्याद्बोधिः पिप्पलपादपे । सन्धिर्भेदे सुरुङ्गायां भगे सङ्घटनेऽपि च ॥ १५ ॥ अब्धिः समुद्रे सरसि सिद्धिर्निष्पत्तियोगयोः । वृद्धिरानन्दने ऋद्धौ वर्द्धनेऽपि कलान्तरे ॥ १६ ॥ दोग्धा गोपालके वत्से कवौ वार्त्तोपजीविनि । विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ॥ १७ ॥ गोधा तले निहाकायां बाधा दुःखनिषेधयोः । सुधाऽमृते स्नुहीमूर्वालेपगाङ्गेष्टिकासु च ॥ १८ ॥ सन्धा स्थितौ प्रतिज्ञायां श्रद्धा श्राद्धत्वकाङ्क्षयोः । स्पर्द्धा संघर्षणे साम्ये स्पर्द्धा क्रमसमुन्नतौ ॥ १९ ॥ वधूः स्नुषानवोढास्त्रीभार्यास्पृक्काङ्गनासु च । शट्याञ्च शारिवायां स्यात् सृधूर्बुद्धौ गुदेऽपि च ॥ २० ॥ ;vv{धत्रिकम्} विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः । विबुधः पण्डिते देव सम्बाधः सङ्कटे भगे ॥ २१ ॥ निषधः कठिने देशे तद्राजे च नगान्तरे । संरोधो रोधने क्षेपे निरोधो रोधनाशयोः ॥ २२ ॥ उत्सेधश्चोच्छ्रये काये दुर्विधो दुर्गते खले । विश्रब्धोऽऽनुद्भटेऽत्यर्थे शातविश्वस्तयोरपि ॥ २३ ॥ न्यग्रोधी व्यामवटयोर्न्यग्रोधश्च शमीतरौ । न्यग्रोधे वृषपर्ण्याञ्च मोहनाख्यौषधावपि ॥ २४ ॥ अगाधो विवरे स्थाने प्रसिद्धोऽलङ्कृतेऽपि च । विख्यातेऽपि च सन्नद्धे वर्मितव्यूढयोरपि ॥ २५ ॥ आनद्धं बद्धमात्रे स्यादानद्धं मुरुजादिके । ;p{0084} आविद्धो वाच्यवज्ञेयः कुटिले च पराहते ॥ २६ ॥ कबन्धस्तूदरे रक्षोविशेषेऽपि विधुन्तुदे । आबन्धो दृढबन्धे स्यात् प्रेमालङ्कारयोरपि ॥ २७ ॥ सुगन्धिः स्यादिष्टगन्धे सुगन्धि हरिवालुके । उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे ॥ २८ ॥ कुटुम्वव्यापृतेऽपि स्यादुपधिर्व्याधिचक्रयोः । परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ २९ ॥ अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च । समाधिर्नियमे ध्याने नीवाके च समर्थने ॥ ३० ॥ सन्निधिः सन्निधानेऽपि भवेदिन्द्रयगोचरे । संसिद्धिः सहजे सिद्धौ मदोग्रायामपि स्मृता ॥ ३१ ॥ प्रणिधिश्चरे याच्ञायां वीरुद्विटपशाखयोः । मागधी पिप्पलीयूथ्योर्मागधो मगधोद्भवे ॥ ३२ ॥ वैश्यजक्षत्रियापुत्रे शुक्लजीरकबन्दिनोः । ;vv{धचतुष्कम्} अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनि ॥ ३३ ॥ महौषधं शृङ्गवे[बे]रे विषायां लशुनेऽपि च । परिव्याधो वेतसे स्यात् परिव्याधो द्रुमोत्पले ॥ ३४ ॥ अवष्टब्धमदूरे स्यादाक्रान्ते च विलम्बिते । समुन्नद्धः समुद्भूते पण्डितम्पन्यपृष्टयोः ॥ ३५ ॥ अनिरुद्ध उषानाथे चरे चानर्गलेऽन्यवत् । अनुबन्धः प्रकृत्यादेर्दोषोत्पादे विनश्वरे ॥ ३६ ॥ मुख्यानुयायिनि शिशौ प्रवृत्तस्य निवर्त्तने । अनुबन्धी च हिक्कायां तृष्णायामपि कथ्यते ॥ ३७ ॥ कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे । ;p{0085} आशावन्धः समाश्वासे तया मर्कटजालके ॥ ३८ ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम् । उग्रगन्धाजमोदायां वचायां छिक्ककौषधौ ॥ ३९ ॥ तीक्ष्णगन्धा वचायाञ्च शिग्रुराजिकयोरपि । इक्षुगन्धा कोकिलाक्षे क्रोष्ट्र्यां काशे च गोक्षुरे ॥ ४० ॥ तृणगोधा चित्रकोले कृकलासे च लक्ष्यते । उपलब्धिर्मतौ प्राप्तौ ज्ञाने चाऽपि प्रयुज्यते । ;vv{धपञ्चकम्} योजनगन्धा कस्तूर्य्यां सीतायां व्यासमातरि ॥ ४१ ॥ ;c{इति धान्तवर्गः ॥} ;v{नान्तवर्गः} ;vv{नद्विकम्} इनः सूर्ये नृपे पत्यौ धनं गोधनवित्तयोः । जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे ॥ १ ॥ जनो लोके महर्ल्लोकात् परलोके च पामरे । जनी सीमन्तिनीवध्वोरुत्पत्तौ च जनिर्मता ॥ २ ॥ घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । घनं सान्द्रे दृढे दार्ज्ये विस्तारे लोहमुद्गरे ॥ ३ ॥ मेघमुस्तकयोश्चाऽपि वनं कानननीरयोः । प्रवासे निलये चाऽपि वनं प्रस्रवणेऽपि च ॥ ४ ॥ वानं शुष्कफले शुष्के कटे सीवनकर्मणि । जलसंस्रववातोर्मिसुरङ्गागतिसौरभे ॥ ५ ॥ दानं गजमदे त्यागे पालनच्छेदशुद्धिषु । मानं प्रयाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे ॥ ६ ॥ यानं गतौ वाहनेऽपि पानं पीतौ च रक्षणे ॥ ;p{0086} स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ॥ ७ ॥ स्थानं स्थितौ च सादृश्ये सन्निवेशावकाशयोः । युक्तार्थे करणार्थे च स्थाने स्यादव्ययं पुनः ॥ ८ ॥ सूनं वाच्यवदूनेषु सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ॥ ९ ॥ ऊनं हीने रणोद्याने स्मृतः किरणसूर्ययोः । मीनो राश्यन्तरे मत्स्ये सीनोऽजगरमूर्खयोः ॥ १० ॥ चीनो मृगान्तरे तन्तुव्रीहिदेशांशुकान्तरे । हीनं गर्ह्योनयोर्न्यूनमनयोरपि कीर्त्तितम् ॥ ११ ॥ कृत्स्नं कष्टे समस्ते च रस्नस्तक्षकचण्डयोः । वस्नं स्याद्वेतने मूल्ये वसनद्रव्ययोरपि ॥ १२ ॥ स्वप्नः सुप्तस्य विज्ञाने स्वप्नः स्वापे च दर्शने । बुध्नः शिफायां रुद्रे च रत्नं श्रेष्ठे मणावपि ॥ १३ ॥ नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत् । लग्नं राश्युदये लग्नं सक्तलज्जितयोरपि ॥ १४ ॥ छन्नं रहश्छादितयोः स्यादन्नं भुक्तभक्तयोः । भिन्नमन्यार्थवचने सङ्गते दारिते स्फुटे ॥ १५ ॥ विन्नं ज्ञाते स्थितौ लब्धे छिन्नं भिन्ने तु वाच्यवत् । छिन्नाऽमृतायां पुंश्चल्यामुन्नः क्लिन्ने च सूरते ॥ १६ ॥ चिह्नं ध्वजे पताकायां पुत्रं वित्ते पराक्रमे । धनुःसंज्ञा पियालद्रौ राशिभेदे शरासने ॥ १७ ॥ तनुः काये कृशे चाऽल्पे विरलेऽपि च वाच्यवत् । हनुः प्रहरणे मृत्यौ कपोलावयवे गदे ॥ १८ ॥ हनुर्हट्टविलासिन्यां सूनुः पुत्रेऽनुजे रवौ । सानुः शृङ्गे बुधे मार्गे वात्यायां पल्लवे नवे ॥ १९ ॥ ;p{0087} दानुर्दातरि विज्ञाते भानुः किरणसूर्ययोः । धेनः समुद्रे नद्यान्तु धेनी स्योनः सिते खगे ॥ २० ॥ मुनिर्यमीङ्गुदीबुद्धपियालागस्ति[?] किंशुके । ज्यानिर्हानौ स्रवन्त्याञ्च योनिः स्यादाकरे भगे ॥ २१ ॥ ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तविभावरौ । ज्यौत्स्नी सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च ॥ २२ ॥ रास्ना स्मृता भुजङ्गाक्ष्यामेलापर्ण्याञ्च कथ्यते । मृत्स्ना तु वरिकायां स्यान्मृत्सायामपि दृश्यते ॥ २३ ॥ गीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् । धानाभृष्टयवे प्रोक्ता धान्याकेऽभिनवोद्भिदि ॥ २४ ॥ ;vv{नत्रिकम्} अवनं रक्षणे प्रीतौ भवनं भाववेश्मनोः । भुवनं विष्टपे मह्यां सलिलेऽपि वियत्यऽपि ॥ २५ ॥ सवनं यज्ञियस्नाने सोमनिर्द्दलनेऽपि च । अयनं पथि भानोः स्यादुदग्दक्षिणतो गतौ ॥ २६ ॥ जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च । शयनं सुरते निद्राशय्ययोरपि भाषितम् ॥ २७ ॥ शयनं शान्तिवधयोः शमनः श्राद्धदैवते । दशनः कवचे दन्ते दशनः शिखरेऽपि च ॥ २८ ॥ जघनश्च स्त्रियाः श्रोणिपुरोभागे कटीरके । तपनस्तरणौ तापे भल्लाते नरकान्तरे ॥ २९ ॥ रसनं स्वादने ध्वाने रसना काञ्चिजिह्वयोः । रसनञ्चाऽपि रास्नायां वसनं छादनेंऽशुके ॥ ३० ॥ हसनञ्च स्मृतं हासेऽङ्गारधान्या हसन्यपि । श्वसनो मारुते श्वासे श्वसनो मदनद्रुमे ॥ ३१ ॥ ;p{0088} कदनं मर्द्दने पापे सदनं मन्दिरे जले । मदनः स्मरधुत्तूरवसन्तद्रुमसिक्थके ॥ ३२ ॥ दहनश्चित्रके वह्नौ भल्लाते दुष्टवेष्टिते । गहनं गहने दुःखे विपिने कलिलेऽपि च ॥ ३३ ॥ स्तननं ध्वनिमात्रे स्यात् कुन्थने मेघगर्जिते । निधनं स्यात् कुले नाशे प्रधनं दारणे रणे ॥ ३४ ॥ पवनाख्या कुलाले स्यात् पाकस्थानेऽपि मारुते । निष्पावे चाथ[ ]वपनं बीजाधानेऽपि मुण्डने ॥ ३५ ॥ दमनः कुसुमे वीरे वमनं छर्द्दनेऽर्द्दने । स्यादाहृतौ च यमनं दुःखे चोपरतौ यमे ॥ ३६ ॥ कमुनः कामुके कामेऽभिरूपेऽशोकपादपे । धमनोऽप्यनले भस्त्राध्मापकक्रूरयोः स्मृता ॥ ३७ ॥ धमनी तु हरिद्रायां कन्धराशिरयोरपि । मलनः पटवासे स्यान्मर्द्दने मलनं मतम् ॥ ३८ ॥ चलनं कम्पनं कम्पे कम्प्रे चलनकम्पनौ । चलनी वस्त्रघर्घर्य्यां वारिभेदेऽपि च क्वचित् ॥ ३९ ॥ सेचनं रक्षणे सेके नौकासेचनभाजने । सेवनं सीवनोपास्त्योः संव्यानं छादनेंऽशुके ॥ ४० ॥ समानं सत्समैकेषु समानो नाभिमारुते । शोभनो ग्रहयोगे स्याच्छोभनं सुन्दरेऽन्यवत् ॥ ४१ ॥ शासनं राजदत्तोर्व्यां लेखाज्ञाशास्त्रशास्त्रिषु । वासनं वसने वीरासने ज्ञाने च धूपने ॥ ४२ ॥ आसनं द्विरदस्कन्धे पीठे यात्रानिवर्त्तने । असनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥ ४३ ॥ स्पर्शनो मारुते स्पर्शधानयोः स्पर्शनं मतम् । ;p{0089} दर्शनं नयनस्वप्नबुद्धिधर्मोपलब्धिषु ॥ ४४ ॥ शास्त्रदर्पणयोश्चाऽपि दंशनं दंशवर्मणोः । पिशुनं कुङ्कुमे क्रूरे सूचके चाऽभिधेयवत् ॥ ४५ ॥ पिशुनः कपिवक्त्रे स्यात् स्पृक्कायां पिशुना मता । शकुनञ्च शुभाशंसानिमित्ते शकुनः खगे ॥ ४६ ॥ मिथुनो राशिभेदे स्यान्मिथुनं दम्पतीयुगे । तलुनं पवने यूनि स्त्रियाञ्च तलुनी विदुः ॥ ४७ ॥ तलिनं विरले स्तोके स्वच्छेऽपि तलिनं मतम् । मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यऽपि ॥ ४८ ॥ कठिनं निष्टुरे स्थाल्यां शर्करायां गुडस्य च । कठिना काटिकायान्तु कठिनीति प्रयुज्यते ॥ ४९ ॥ पीतनं हरितालं स्यात् कुङ्कुमे पीतदारुणि । आम्रातके पीतनश्च मैथुनं सङ्गते रते ॥ ५० ॥ केतनं लाञ्छने कार्षे गेहे चोपनिमन्त्रणे । छर्द्दनोऽलम्बुषे निम्बे छर्दनं वमने तरे ॥ ५१ ॥ छेदनं कर्त्तने भेदे छदनं पक्षपत्रयोः । रोदनं व्यथने तोत्रे रोदनं रोधनेऽश्रुणि ॥ ५२ ॥ अपानन्तु गुदे प्रोक्तमपानस्तस्य मारुते । सन्तानं सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ५३ ॥ वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोः ॥ ५४ ॥ उत्तानं स्यादगम्भीरे तथा सुप्तोन्मुखेऽन्यवत् । आदनं ग्रहणे विद्यादलङ्कारे च वाजिनाम् ॥ ५५ ॥ निदानं कारणे रोगनिर्णये वत्सदामनि । उद्यानं वनभेदे स्यान्निःसृतेऽपि प्रयोजने ॥ ५६ ॥ ;p{0090} अम्लानो झिण्टिकाभेदे वाच्यवन्निर्मले स्मृतः । व्युत्थानं स्वैरकरणे विरोधाचरणेऽपि च ॥ ५७ ॥ उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे । अङ्गनोद्गमहर्षेषु मलवेगेऽपि कीर्त्तितम् ॥ ५८ ॥ संस्थानमाहृतौ मृत्यौ सन्निवेशे चतुष्पथे । धावनं प्रगमे शुद्धौ पृश्निपर्ण्यान्तु धावनी ॥ ५९ ॥ पावनन्तु जले कृच्छ्रे पावकाध्माशयोर्विदुः । पावनः सिह्लके वह्नौ प्रायश्चित्ते च पावनम् ॥ ६० ॥ वाच्यवत् पावयितरि हरीतक्यान्तु पावनी । वामनो कोटवैकुण्ठखर्वदक्षिपादिग्गजे ॥ ६१ ॥ स्थापनं स्यात् पुंसवने समाधौ रोपणेऽपि च । यापन वर्त्तने कालक्षेपे निरसनेऽपि च ॥ ६२ ॥ युञ्जानः सारथौ विप्रे बु[?]धानः पण्डिते गुरौ । दृशानं ज्योतिषि प्रोक्तं दृशानश्च विरोचने ॥ ६३ ॥ जवनो देशभेदे स्याद्वेगवेगाधिकाश्वयोः । जवन्योषधिभेदे स्याद्वाच्यवद्वेगिनि स्मृतः ॥ ६४ ॥ जीवनं वर्त्तने नीरे पुत्रजीवे तु जीवनः । जीवनी जीवना चेति जीवन्तीमेदयोः क्रमात् ॥ ६५ ॥ देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि । अक्षेषु देवनः प्रोक्तो वाच्यवद् वाग्मिविप्रयोः ॥ ६६ ॥ तेमनं व्यञ्जने क्लेदे तेमने चुल्लिकान्तरे । सावनो यज्ञकर्म्मान्ते यजमानप्रचेतसोः ॥ ६७ ॥ विज्ञानं कर्मणे ज्ञाने प्रज्ञानं लाञ्च्छने धियि । हायनोऽर्च्चिषि वर्षे च व्रीहिभेदे च हायनः ॥ ६८ ॥ फाल्गुनस्तु तपस्ये स्यात् पूर्णिमायान्तु फाल्गुनी । ;p{0091} फाल्गुनः कथितः पार्थे नदीजे ककुभेऽपि च ॥ ६९ ॥ वेष्टनं कर्णशष्कुल्यामुष्णीषे परिवारणे । गोस्तनो हारभेदे स्याद् द्राक्षायां गोस्तनीति च ॥ ७० ॥ कल्पनं कर्त्तने कॢप्तौ सज्जनायान्तु कल्पना । कर्त्तनं छेदने प्राहुर्नारीणां तूलसेवने ॥ ७१ ॥ लङ्घनन्तूपवासे स्यात् क्रमणे प्लवनेऽपि च । मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवत् ॥ ७२ ॥ भण्डनं कवचे युद्धे खलीकारे च वर्त्तते । मुण्डनं वपने त्राणे हिण्डिनं लेखने रते ॥ ७३ ॥ अङ्गनं प्राङ्गने याने कामिन्यामङ्गना मता । गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने ॥ ७४ ॥ नन्दनं वासवोद्याने नन्दनो हर्षके सुतै[ते] । स्यन्दनन्तु सृतौ नीरे स्यन्दनस्तिनिशे रथे ॥ ७५ ॥ क्रन्दनं रोदने हाने चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु रुदनी ॥ ७६ ॥ वर्द्धनं छेदने वृद्धौ वारिधान्यान्तु वर्द्धनी । व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च ॥ ७७ ॥ रञ्जनो रागरजने रञ्जनं रक्तचन्दने । गुञ्जारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी ॥ ७८ ॥ अञ्जनं कज्जले चाङ्के सौवीरे च रसाञ्जने । अञ्जनो दिग्गजे जेष्ठ्यामञ्जनाऽप्यनिलस्त्रियाम् ॥ ७९ ॥ अञ्जनी लेपनायां स्याद् गृञ्जनस्तु रसोनके । विषदिग्धपशोर्मांसे गुञ्जनञ्च प्रकीर्त्तितम् ॥ ८० ॥ लेखनं छदने भूर्ज्जे लिपिन्यासे च लेखनम् । योजनश्च चतुष्क्रोश्यां योगे च परमात्मनि ॥ ८१ ॥ ;p{0092} गर्जनं निस्वने कोपे वर्जनं त्यागहिंसयोः । मार्ज्जनं कथितं मार्ष्टौ मार्ज्जनो लोध्रशाखिनि ॥ ८२ ॥ सज्जनो वाच्यवत् साधौ सज्जनं घट्टगुल्मके । सज्जना कल्पनायान्तु भाजनं योग्यपात्रयोः ॥ ८३ ॥ अर्ज्जुनः ककुभे पार्थे कार्त्तवीर्य्यमयूरयोः । मातुरेकसुते च स्यादर्ज्जुनो धवलेऽन्यवत् ॥ ८४ ॥ अर्ज्जुनन्तु तृणे नेत्रगदे चाऽप्यार्ज्जुनी गवि । उषायां करतोयायां कुट्टन्यामपि च क्वचित् ॥ ८५ ॥ वृजिनं कल्मषे केशे वृजिनः कुटिलेऽन्यवत् । लाञ्छनं लक्षणे नाम्नि बन्धनं वधबन्धयोः ॥ ८६ ॥ जगग्नुरग्नौ जन्तौ च मेहनं मूत्रशिश्नयोः । प्रसूनं वाच्यवज्जाते प्रसूनं फलपुष्पयोः ॥ ८७ ॥ कानीनः कन्यकाजाततनये व्यासकर्णयोः । काननं विपिने गेहे परमेष्ठिमुखेऽपि च ॥ ८८ ॥ काञ्चनः काञ्चनारे स्याच्चम्पके नागकेशरे । उदुम्बरे च पुन्नागे हरिद्रायाञ्च काञ्चनी ॥ ८९ ॥ काञ्चनं हेम्नि किञ्जल्के पुन्नागे काचभाजने । गोलके चाथ शकुनिः सौबले करणे खगे ॥ ९० ॥ रोचनो रक्तकह्लारे रोचनः कूटशाल्मलौ । मङ्गल्येऽपि च गोपित्ते रोचना रुचिरस्त्रियाम् ॥ ९१ ॥ व्यसनन्त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे ॥ ९२ ॥ उदानोऽप्युदरावर्त्ते मरुत्सर्पविशेषयोः । उद्धानमुद्गते चुल्ल्यां विलग्नो मध्यलग्नयोः ॥ ९३ ॥ सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥ ;p{0093} राधनं राधने प्राप्तौ राधनं तोषणेऽपि च ॥ ९४ ॥ साधनं निर्वृतौ मेणण्ढ्रे सैन्ये सिद्धौ गतौ वधे । उपाये मृतसंस्कारे दापनेऽनुगमे धने ॥ ९५ ॥ प्रधानः स्यान्महामात्ये प्रकृतौ परमात्मनि । प्रज्ञायाञ्च प्रधानं स्यादेकत्वेऽनुसदोत्तमे ॥ ९६ ॥ ग्रामीनो ग्रामसम्भूते ग्रामीनः शुनिवायसे । पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुद्रुमे ॥ ९७ ॥ कौलीनः स्यात् कुलीनत्वे गुह्ये जन्ये कुकर्म्मणि । कौशेयके विहङ्गादिपशूनां सङ्गरेऽपि च ॥ ९८ ॥ कौपीनं स्यादकार्ये च गुह्यचीरप्रदेशयोः । विक्लिन्नो जरया जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥ ९९ ॥ आपन्नः सविपत्तौ स्यात् प्राप्ते वाच्यवदीरितः । विपन्नः कथितो नष्टे विपन्नश्च भुजङ्गमे ॥ १०० ॥ विच्छिन्नञ्च समालब्धे विपन्ने कुटिलेऽन्यवत् । सम्पन्नं साधिते प्रोक्तं सम्पत्तिसहितेऽन्यवत् ॥ १०१ ॥ तमोघ्नः सूर्यवह्नीन्दुबुद्धशङ्करविष्णुषु । विषघ्नाख्या शिरीषे स्यात्त्रिवृताऽमृतयोरपि ॥ १०२ ॥ शिखी वह्नौ बलीवर्द्दे शरे केतुग्रहे द्रुमे । केकिकुक्कुटयोश्चाऽथ शिखी चूडान्वितेऽन्यवत् ॥ १०३ ॥ शाखी स्यात् पादपे वेदे तुरुष्काख्यजनेऽपि च । खड्गी खड्गायुधे गण्डे शृङ्गी नागद्रुमाद्रिषु ॥ १०४ ॥ चक्री कुलालवैकुण्ठे कोकाहिग्रामजालिषु । धन्वी धनुर्धरे पार्थे विदग्धे ककुभद्रुमे ॥ १०५ ॥ कृती स्यात् पण्डिते योग्ये पाशी पाशधरेऽरपतौ । नन्दी हरप्रतीहारे गर्द्दभाण्डे वटद्र[द्रु]मे ॥ १०६ ॥ ;p{0094} नन्दिनी तु ननन्दायां धेन्वां सुरसरित्यपि । रोही रोहितकेऽश्वत्थवटपादपयोरपि ॥ १०७ ॥ हली बले कृषीके स्यादली वृश्चिकभृङ्गयोः । वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ १०८ ॥ शिल्पी स्याद्वाच्यवत् कारौ नायिकायाञ्च शिल्पिनी । कामी स्यात् कामुके चक्रवाके पारावतेऽपि च ॥ १०९ ॥ गोमी तु पाशके पूरौ वाग्मी वाचस्पतौ पटौ । चर्म्मी फलकपाणौ स्याद्भूर्ज्जे भृङ्गरटावपि ॥ ११० ॥ अर्थी स्याद्याचके यज्ञे सेवके च विवादिनि । स्वामी प्रभौ विशाखे च रागी रक्ते च कामुके ॥ १११ ॥ ध्वजी शैले रथे विप्रे भुजङ्गमतुरङ्गयोः । भोगी भुजङ्गमे राज्ञि ग्रामिण्यां नापितेऽपि च ॥ ११२ ॥ विहाय महिषीञ्चान्यराजयोषिति भोगिनी । द्युवा त्वभिनवे भानौ प्रेत्वा मरुति सारके ॥ ११३ ॥ राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः । अध्वा वर्त्मनि संस्थाने साश्रवस्कन्धकालयोः ॥ ११४ ॥ धन्वा जङ्गलदेशे स्याद्धन्वचापे स्थलेऽपि च । आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु ॥ ११५ ॥ प्रयत्ने चाऽप्यथ ग्रावा प्रस्तरे जलदे गिरौ । ब्रह्मा[ ]विरिञ्चद्विजयोरृत्विक्चन्द्रार्कयोगयोः ॥ ११६ ॥ ब्रह्म प्रोक्तं तपोऽध्यात्यवेदज्ञानेषु सूरिभिः । अर्धा च कुक्षिते वाहे वृषा कर्णमहेन्द्रयोः ॥ ११७ ॥ युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि । पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे ॥ ११८ ॥ दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि । ;p{0095} भर्म्म स्वर्णे भृतौ भारे चर्म्म स्याद्वल्कलत्वचोः ॥ ११९ ॥ कर्म्म व्याप्ये क्रियायाञ्च वर्त्मनेत्रच्छदाध्वनोः । वर्ष्म देहे प्रमाणातिसुन्दराकारयोरपि ॥ १२० ॥ सद्म स्यान्मन्दिरे नीरे छद्म साध्यापदेशयोः । धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः ॥ १२१ ॥ प्रेम नर्म्मणि च स्नेहे व्योम वारिविहायसोः । पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ॥ १२२ ॥ लक्ष्मि[?] चिह्ने प्रधाने स्यादशनिः पविविद्युतोः । अरत्निः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १२३ ॥ सेनानीः कार्त्तिकेये स्यात्तथा सेनापतावऽपि । ह्ला[?]दिनी वज्रतडितोः कामिनी भीरुवन्दयोः ॥ १२४ ॥ वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः । वर्त्तनी तर्कुपिण्डे स्याद्वर्त्तनी मलिने पथि ॥ १२५ ॥ बोधनी बोधपिप्पल्योर्बोधनं गन्धबोधने । वाणिनी नर्त्तकीमत्तविदग्धवनितासु च ॥ १२६ ॥ रजनी नीलिकालाक्षाहरिद्रायामिनीषु च । नलिनी पद्मिनीपद्मव्योमसिन्धुसरोवरे ॥ १२७ ॥ नलिकायाञ्च नलिनी नलिनं कमले जले । मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ॥ १२८ ॥ चम्पानगर्य्यां गौर्य्याञ्च मन्दाकिन्याञ्च मालिनी । शङ्खिनी श्वेतपुन्नागे चौरपुष्प्यां वधूभिदि ॥ १२९ ॥ पद्मिनी स्त्रीविशेषे स्यात् सरस्यामम्बुजेऽपि च । हस्तिनी गजयोषायां नारीभेदे च हस्तिनी ॥ १३० ॥ सन्धिनी तु वृषाक्रान्ताकालदुग्धगवोः स्मृता । भट्टिनी द्विजभार्य्यायां नाट्योक्तौ राजयोषिति ॥ १३१ ॥ ;p{0096} रेचनी त्रिवृतादन्ती गुडरोचनिकासु च । अर्शोघ्नी तालमूल्यां स्यादर्शोघ्नः शूरणेऽपि च ॥ १३२ ॥ शतघ्नी शस्त्रभेदे स्याद् वृश्चिकाल्यां करञ्जके । असिक्नी स्यादवृद्धान्तःपुरप्रेष्यस्त्रियां धुनौ ॥ १३३ ॥ सूचना[?]व्यधने दृष्टौ गन्धनेऽभिनयेऽपि च । भावना लेपने ध्याने वेदना ज्ञानदुःखयोः ॥ १३४ ॥ कुहना दम्भचर्य्यायामीर्ष्यालौ कुहनः पुनः । पूतना राक्षसीभेदे हरीतक्याञ्च पूतना ॥ १३५ ॥ पृतनाऽनीकनीसेना चमूसैन्यान्तरेऽपि च । चेतना संविदि प्रोक्ता वाच्यवत् प्राणिनि स्मृता ॥ १३६ ॥ प्रसन्ना मदुरायाञ्च प्रसादसहितेऽन्यवत् । ललना नाडिकाभेदे जिह्वायां वरयोषिति । श्लेष्मघ्नी कथिता मल्ल्यां कम्पिल्लकफणिज्जयोः ॥ १३७ ॥ ;vv{नचतुष्कम्} महाधनं महालये सुवस्त्रे सिल्हकेऽपि च । तपोधनस्तापसे स्यान्मुण्डीर्य्याञ्च तपोधना ॥ १३८ ॥ आराधनं तोषणे स्यात् प्राप्तौ च पचनेऽपि च । उपधानं विशेषे च गेडुके प्रणयेऽपि च ॥ १३९ ॥ प्रणिधानं प्रयत्ने स्यात् प्रवेशे च समाहितौ । आयोधनं वधे युद्धेऽवलग्नो मध्यलग्नयोः ॥ १४० ॥ अभिजनः कुले ख्यातौ जन्मभूम्यां कुलध्वजे । भवेत् पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ॥ १४१ ॥ विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च । पृथग्जनः स्मृतो नीचे मूर्खे चाऽथ प्रयोजने ॥ १४२ ॥ कार्य्यहेत्वोर्निधुवनं सुरते कम्पनेऽपि च । ;p{0097} अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे ॥ १४३ ॥ अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् । प्रवचनं स्मृतं वेदे प्रकृष्टवचनेऽपि च ॥ १४४ ॥ वैरोचनस्तु सुगते बलिदैत्यार्कपुत्रयोः । विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने ॥ १४५ ॥ आतञ्चनं प्रतीवापजवनाप्यायनेषु च । अभिपन्नोऽपराध्येऽभिद्रुते ग्रस्ते विपद्गते ॥ १४६ ॥ प्रतिपन्नः स्मृतो धीरैर्विज्ञातेऽङ्गीकृतेऽपि च । समापन्नं समासे स्यात् प्राप्ते क्लिष्टे वधेऽपि च ॥ १४७ ॥ भवेत् प्रजननं योनौ जन्मनि प्रगमेऽपि च । आकलनं विबन्धे स्यादाकाङ्क्षापरिसङ्ख्ययोः ॥ १४८ ॥ सम्मूर्च्छनमभिव्याप्तौ सम्मूर्च्छामोहयोरपि । निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतौ ॥ १४९ ॥ कपीतनं गर्द्दभाण्डशिरीषाम्रातकेषु च । अश्वत्थे च समुत्थानमुद्यमे रोगनिर्णये ॥ १५० ॥ आच्छादनं सम्पिधाने स्मृतं वस्त्रे प्रवारणे । राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ॥ १५१ ॥ क्रौञ्चादनस्तु पिप्पल्यां चिञ्चोटकमृणालयोः । उत्सादनं समुल्लेखोद्वाहनोद्वर्त्तनेषु च ॥ १५२ ॥ वृक्षादनश्चलदले मधुक्षुद्रकुठारयोः । वृक्षादनी स्मृता वन्दाविदारीगन्धयोरपि ॥ १५३ ॥ सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि । अवदानमितिवृत्ते कर्मखण्डनयोरपि ॥ १५४ ॥ कुचन्दनञ्च पत्राङ्गे द्रुभेदे रक्तचन्दने । आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च ॥ १५५ ॥ ;p{0098} संवननं समालोचे वशीकारे प्रकीर्त्तितम् । विहेठनन्तु हिंसायां मर्द्दने च विडम्बने ॥ १५६ ॥ जलाटनो लोहपृष्ठे जलौकायां जलाटनी । प्रस्फोटनं भवेत् सूर्ये ताडने च प्रकाशने ॥ १५७ ॥ उत्पतनं समुत्पत्तौ तथार्द्धगमनेऽपि च । उद्वर्तनं सोत्पतनेऽप्यपावृत्तौ विलेपने ॥ १५८ ॥ समादानं समीचीनग्रहणे नित्यकर्मणि । संयमनी व्रते पुर्य्यां संयमनी यमस्य च ॥ १५९ ॥ निशमनं स्तुतौ दृष्टौ दृष्ट्यालोचे निशामनम् । प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ १६० ॥ अभिमानः स्मृतो ज्ञाने वर्गे प्रणयहिंसयोः । अधिष्ठानं पुरेचक्रे प्रभावेऽध्यासनेऽपि च ॥ १६१ ॥ वर्द्धमानः पुष्टिभेदे शरावैरण्डविष्णुषु । मालुधानश्चित्रसर्पे मालुधानी लतान्तरे ॥ १६२ ॥ प्रतियत्नस्तु संस्कारलिप्सोपग्रहणेषु च । भवेदुदयनो वत्सराजेऽगस्त्यमुनावऽपि ॥ १६३ ॥ विहननं विघाते स्यात् पिञ्जने तूलधूनने । संवाहनं वाहनेऽपि भारादेरङ्गमर्द्दने ॥ १६४ ॥ उद्वाहनं दिशीत्ये स्याद्रज्जावुद्वाहिनी मता । महासेनो विशाखे स्यान्महासैन्यपतावपि ॥ १६५ ॥ रसायनं विडङ्गे स्याद्राजव्याधिजितौषधे । रसायनः पक्षिराजे विषेऽपि च रसायनम् ॥ १६६ ॥ कात्यायनो वररुचौ गौर्यां कात्यायनी मता । काषायवस्त्रविधवाऽर्द्धजरत्यामपीष्यते ॥ १६७ ॥ सुदर्शनो हरेश्चक्रेऽमरावत्यां सुदर्शना । ;p{0099} आज्ञायामोषधीभेदे मरुजम्ब्वां सुदर्शना ॥ १६८ ॥ निर्भर्त्सनं खलीकारेऽलक्तके च समापनम् । परिच्छेदे समाप्तौ च समाधाने प्रमापणे ॥ १६९ ॥ अन्वासनं स्नेहवस्तावुपास्तावनुशोचने । उपासनं शराभ्यासे शुश्रूषायाञ्च हिंसने ॥ १७० ॥ निरसनं निरासे स्याद्वधे निष्ठीवनेऽपि च । निर्वासनं हिंसने च नगरादेर्बहिष्कृतौ ॥ १७१ ॥ आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः । सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम् ॥ १७२ ॥ प्रहसनं भवेद्भङ्गे प्रहासाक्षेपयोरपि । वारासनं वाःसदने शूल्मपद्वारपालयोः ॥ १७३ ॥ घनाघनो घातुकमत्तदन्तिनो- निरन्तरे वासववर्षुकाब्दयोः । सनातनः शाश्वतकंसवैरिणोः शिवे पितॄणामतिथौ सुनिश्चले ॥ १७४ ॥ सुयामुनो वत्सराजे प्रसादेऽभ्यन्तरेऽच्युते । विस्मापनाख्या कुहके गन्धर्वनगरे स्मरे ॥ १७५ ॥ सुकर्मा ग्रहयोगे स्यात् सुकर्मा देवशिल्पिनि । दुर्नामाख्यातिगुदजदीर्घकोशिकयोरपि ॥ १७६ ॥ द्विजन्मा दशने विप्रे भूतात्मा पुद्गले विधौ । आर्यमा सूर्यभक्तायां सूर्ये च पितृदैवते ॥ १७७ ॥ सुदामा भूधरे मेघे विश्वग्ज्ञाऽनलचन्द्रयोः । सुधन्वा प्रौढधानुष्के सुधन्वा विश्वकर्मणि ॥ १७८ ॥ वनश्वा गन्धमार्ज्जारे बन्धकव्याघ्रयोरपि । परिश्वा क्रतुकर्मज्ञे याज्ञिके परिचारके ॥ १७९ ॥ ;p{0100} अथर्वा ब्राह्मणे वेदे त्वऽथर्व परिकीर्तितम् । सुपर्वा त्रिदशे वंशे शरे धूमेऽपि पर्वणि ॥ १८० ॥ ललाम च ललामञ्च लाञ्छनध्वजवाजिषु । शृङ्गे प्रधाने भूषायां रम्ये बालधिपुण्ड्रयोः ॥ १८१ ॥ प्रभावे च कलापी तु प्लक्षबर्हिणयोरपि । प्रत्यर्थी कथितः शत्रौ प्रत्यर्थी प्रतिवादिनि ॥ १८२ ॥ केशरी तुरगे सिंहे पुन्नागे नागकेशरे । शिखरी पादपे शैले तथाऽपामार्गकोट्टयोः ॥ १८३ ॥ शृङ्गारी तु सुवेशे स्यात् क्रमुके च मतङ्गजे । विलासी भोगिनि व्याले पलाशी वृक्षरक्षसोः ॥ १८४ ॥ शिखण्डी तु मयूरे स्याद्बाणक्षत्रियभेदयोः । कलापे चाऽथ गुञ्जायां यूथिकायां शिखण्डिनी ॥ १८५ ॥ विषयि त्विन्द्रिये ख्यातं वाच्यवद्विषयान्विते । व्यवायी कामपे द्रव्यविशेषे च समीरितः ॥ १८६ ॥ तपस्वी तापसे चानुकम्पके च तपस्विनी । मांसिका कटुरोहिण्योस्तरस्वी वेगिशूरयोः ॥ १८७ ॥ लाङ्गली बलभद्रे स्यान्नारिकेले च लाङ्गली । कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले ॥ १८८ ॥ चोलकी तु करीरे स्यान्नारङ्गे किष्कुपर्वणि । फलकी स्यादल्लिसाख्यमत्स्ये फलकपाणिके ॥ १८९ ॥ कञ्चुकी भुजगे षिङ्गे मल्ले जाङ्गलिकद्रुमे । सामयोनिस्तु सामोत्थे सामयोनिर्गजे विधौ ॥ १९० ॥ कुम्भयोनिरगस्त्ये स्यादर्ज्जुनस्य गुरावपि । आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले ॥ १९१ ॥ महामुनिरगस्त्ये स्याद्धन्याकागस्त्ययोरपि । ;p{0101} कलध्वनिः कोकिले स्यात् पारावतमयूरयोः ॥ १९२ ॥ गदयित्नुः स्मृतः कामे जल्पके कामुकेऽपि च । मदयित्नुर्भवेत् सीधौ मद्ये स्यान्मदयित्नु च ॥ १९३ ॥ हर्षयित्नु सुते हेम्नि घोषयित्नुर्द्विजे पिके । स्तनयित्नुः पयोवाहे तद्ध्वनौ मृत्युरोगयोः ॥ १९४ ॥ विष्वक्सेना फलिन्यां स्याद्विश्वक्सेनो जनार्द्दने । देवसेनेन्द्रवाहिन्यां सेनायाञ्च दिवौकसाम् ॥ १९५ ॥ नागाङ्गना नागयष्टिकरिमुद्गरिकाख्ययोः । श्लेष्मघना मल्लिकायां केतक्यामपि कथ्यते ॥ १९६ ॥ प्रसाधिनी कङ्कतिका सिद्धौ वेशे प्रसाधनम् । सामिधेनी ऋचि प्रोक्ता सामधेनी समिध्यऽपि ॥ १९७ ॥ सरोजिनी स्यात् कासारे पद्मिनीपद्मयोस्तथा । विलेपनी स्यात्तुरला सुवेशाङ्गनयोरपि ॥ १९८ ॥ मातुलानी कलापे स्थाद्भङ्गायां मातुलस्त्रियाम् । पयस्विनी तु गोधेन्वां विभावर्यां पयस्विनी ॥ १९९ ॥ गवादनीन्द्रवारुण्या गवां घोषादनाश्रये । सौदामिन्यऽप्सरोभेदे तडित्तद्भेदयोरपि ॥ २०० ॥ ;vv{नपञ्चकम्} पीतचन्दनमित्येतत् कालीयकहन्द्रियोः । वरचन्दनमाख्यातं कालीये देवदारुणि ॥ २०१ ॥ हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे । ज्योत्स्नायां कुङ्कुमे चाऽतिसर्ज्जनं वधदानयोः ॥ २०२ ॥ मधुसूदनसंज्ञा च भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शम्भौ श्रीफलद्रोणकाकयोः ॥ २०३ ॥ स्यादपवर्ज्जनं मोक्षे परित्यागे विहायिते । ;p{0102} अपसर्ज्जनमास्नाते परिवर्ज्जनदानयोः ॥ २०४ ॥ महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः । स्यात् प्रतिपादनं दाने प्रतिपत्तौ च बोधने ॥ २०५ ॥ गन्धमादनमित्याहुर्गन्धके वानरान्तरे । अद्रिभेदे च भृङ्गे च सुरायां गन्धमादनी ॥ २०६ ॥ स्यादनुवासनं स्नेहकर्म्मधूपनयोरपि । श्वेतवाहन इत्याख्या सुधाधाम्नि धनञ्जये ॥ २०७ ॥ हरिवाहन इत्युक्तः शचीपतिविवस्वतोः । अभिनिष्ठानशब्दोऽपि विसर्ज्जनीयेऽक्षरे मतः ॥ २०८ ॥ धूमकेतनमिच्छन्ति हुताशग्रहभेदयोः । स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ॥ २०९ ॥ शिवकीर्त्तननामाऽपि भृङ्गरीटेऽसुरद्विषि । शालङ्कायनशब्दः स्यादृषिभेदे च नन्दिनि ॥ २१० ॥ स्यात्पद्मलाच्छनाभिख्या विधौ लोकेश्वरार्कयोः । धनदे च सरस्वत्यां तारालक्ष्म्योरपि स्मृता ॥ २११ ॥ स्यात् षष्ठहायनो धान्यविशेषेऽपि मतङ्गजे । जानीयादुपसम्पन्नं निहिते च सुसंस्कृते ॥ २१२ ॥ विश्वकर्मा देवशिल्पिमुनिभेदोष्णरश्मिषु । कृष्णवर्त्मा हुताशे स्याद् दुराचारे विधुन्तुदे ॥ २१३ ॥ अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतः । श्वेतधामा कलानाथे घनसाराब्धिभेदयोः ॥ २१४ ॥ तिक्तपर्वा तु यष्ट्याह्वगुडूचीहिलमोचिषु । विष्कुपर्वा भवेद्वेणाविक्षौ पोटगलेऽपि च ॥ २१५ ॥ वृषपर्वा हरे दैत्ये शृङ्गारुणि कसेरुणि । व्योमचारी खगे देवे चिरजीवी द्विकाकयोः ॥ २१६ ॥ ;p{0103} कारन्धमे कांस्यकारे धातुवादरतेऽपि च । वनमाली तु गोविन्दे वाराह्यां वनमालिनी ॥ २१७ ॥ प्रचलाकी भुजङ्गे स्याच्चित्रमेखलकेऽपि च । सम्प्रयोगी कलाकेलौ कामुके सुप्रयोजके ॥ २१८ ॥ अन्तेवासी भवेच्छिष्ये चाण्डाले प्रान्तगेऽपि च । विघ्नकारी स्मृतो घोरदर्शनेऽपि विघातिनि ॥ २१९ ॥ कामचारी तु कमने स्वच्छन्दकलविङ्कयोः । हृष्टशृङ्गी भवेद्दंशे नारीषण्डे वृकोदरे ॥ २२० ॥ शकुलादन्यऽभिख्या तु मांसीपिचुलिकाह्वयोः । कटुकाजलपिप्पल्योः कथ्यते शकुलादिनी ॥ २२१ ॥ स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु । स्त्रीरत्ने च फलिन्याञ्च दृश्यते वरवर्णिनी ॥ २२२ ॥ ;vv{नषट्कम्} अन्तावसायी श्वपचे मुनिभेदे च नापिते । जायानुजीवी तु नटे दुर्गताश्विनयोर्बके ॥ २२३ ॥ सहस्रवेधी स्यादम्लवेतसे रामटेऽपि च । कलानुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ २२४ ॥ ;c{इति नान्तवर्गः ॥} ;v{पान्तवर्गः} ;vv{पद्विकम्} रूपं स्वभावे सौन्दर्य्ये नामके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥ १ ॥ रेपः स्मान्निन्दिते क्रूरे रोपो रोपणवाणयोः । सूपो व्यञ्जनभेदे स्यात् सूपकारे च कीर्त्तितः ॥ २ ॥ छुपः क्षुपस्पर्शनयोश्चुपः पवनयुद्धयोः । ;p{0104} कूपः कूपकगर्ताभ्युमृन्मानगुणवृक्षके ॥ ३ ॥ तापोऽस्तितापे दवथौ तापी तु सरिदन्तरे । शापः शपथ आक्रोशे त्रपुसीसकरङ्गयोः ॥ ४ ॥ स्वापः स्पर्शाज्ञतानिद्राशयनाशनमात्रके । नीपो धूलिकदम्बे स्यान्नीलाशोके च धन्विनि ॥ ५ ॥ गोपो ग्रामौघगोष्ठाधिकृतयोर्वल्लवे नृपे । गोपी गोपालमहिला शारिवारत्तिकासु च ॥ ६ ॥ क्षेपो विलम्बे निन्दायां हेलापे रणलङ्घने । गर्वेऽपि लेपस्तु सुधाभोजनालेपनेषु च ॥ ७ ॥ तल्पन्तु शयनीये स्यात्तल्पमट्टकलत्रयोः । कल्पः स्यात् प्रलये न्याये शास्त्रे ब्राह्मदिने विधौ ॥ ८ ॥ दर्पोऽहङ्कारकसूर्योर्बाष्पो नेत्रजलोष्मणोः । पुष्पं विकाशे कुसुमे स्त्रीणाञ्च रजसि स्मृतम् ॥ ९ ॥ शष्पं स्यात् प्रतिभाहानौ शष्पं बालतृणेऽपि च । शष्पः स्तवे क्रियायोग्ये शष्पः क्रोधे बलात्कृतौ ॥ १० ॥ कृपा दयायां व्यासर्षौ कृपो भारतपूरुषे । त्रपा लज्जाकुलटयोर्वपा विवरमेदसोः ॥ ११ ॥ ;vv{पत्रिकम्} कृतपः स्यात् कुशे वाद्ये तपने छागकम्बले । कृतपो भागिनेये स्यादष्टमांशे दिनस्य च ॥ १२ ॥ कुटपो मानभेदे स्यात् कुटपो निष्कुटे मुनौ । विटपः पल्लवे शृङ्गे विस्तारे स्तम्बशाखयोः ॥ १३ ॥ उलपस्तृणभेदे स्याद् गुल्मिन्यामुलपः स्मृतः । उडुपस्तु प्लवे चन्द्रे प्रपातः स्वेदतेजसोः ॥ १४ ॥ रक्तपो रक्षसि प्रोक्तो जलौकायान्तु रक्तपा । ;p{0105} जिह्वापः शुनि मार्ज्जारे व्याघ्रचित्रकयोरपि ॥ १५ ॥ काश्यपः स्यान्मुनौ मानभेदे भूमौ तु काश्यपी । पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा ॥ १६ ॥ अनूपं महिषे विद्याज्जलप्राये तु वाच्यवत् । आवापो भाण्डपवने परिक्षेपालवालयोः ॥ १७ ॥ आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कृतिषु स्मृतः । एकोक्त्या कशिपुर्भक्त्या छादने च द्वयोः पृथक ॥ १८ ॥ आकल्पः कल्पने वेशे विकल्पो भ्रान्तिपक्षयोः । कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे ॥ १९ ॥ मल्लबन्धविशेपेऽपि कच्छपः कुणपी पुनः । विट्शारिकाया कुणपः पूतिगन्धौ शवेऽपि च । कलापो भूषणे बर्हे तूणीरे संहतेऽपि च ॥ २० ॥ ;vv{पचतुष्कम्} प्राप्तरूपो बुधे रम्येऽप्यभिरूपः सुरूपवत् । बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ॥ २१ ॥ वृकधूपस्तु सरले द्रवकृत्त्रिमधूपयोः । परिवापस्तु पर्याप्तौ जलस्थाने परिच्छदे ॥ २२ ॥ उपतापस्त्वरायां स्यादुत्तापगदयोरपि । अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च ॥ २३ ॥ विप्रलापो विरोधाक्तावपार्थवचनेऽपि च । वृषाकपिः शिवे कृष्णे ज्वलने च वृषाकपिः ॥ २४ ॥ परिकम्पो भवे कम्पेऽपलापः प्रेम्ण्यपह्नवे । बीजपुष्पं मरुवके तथा दमनकेऽपि च ॥ २५ ॥ हेमपुष्पं जवापुष्पे चम्पकाशोकयोर्मतम् । नागपुष्पस्तु पुन्नागे नागकेशरचम्पके ॥ २६ ॥ ;p{0106} पिण्डपुष्पमशोके च जवायाञ्च कुशेशये । मेघपुष्पन्तु पिण्डाभ्रे नादेयजलयोरपि ॥ २७ ॥ जलकूपी कूपगर्त्ते पुष्करिण्याञ्च कथ्यते । ;vv{पपञ्चकम्} भवेच्चामरपुष्पस्तु चूते केतकहासयोः ॥ २८ ॥ ;c{इति पान्तवर्गः ॥} ;v{फान्तवर्गः} ;vv{फद्विकम्} रेफो रवर्णे सम्प्रोक्तः कुत्सिते वाच्यवत् पुनः । शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च ॥ १ ॥ गुफः स्याद्गुम्फने बाहोरलङ्कारे च कीर्त्यते । शिफा जटायां सरिति मांसिकायाञ्च मातरि ॥ २ ॥ ;c{इति फान्तवर्गः ॥} ;v{बान्तवर्गः} ;vv{बद्विकम्} पूर्वाख्या पूर्वजेषु स्यादग्रे प्राचि च वाच्यवत् । निम्बः स्यात् पिचुमर्द्दे च तिक्तके च चिरायते ॥ १ ॥ बिम्बं फले बिम्बिकायां प्रतिबिम्बे च मण्डले । डिम्बः स्याद्विप्लवप्लीह्नोरेरण्डे पुप्फुसे भये ॥ २ ॥ स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च । शम्बः स्यान्मुषलाग्रस्थे लोहमण्डलके पवौ ॥ ३ ॥ शुभान्विते च खर्बः स्याद् ह्रस्वे सङ्ख्यान्तरेऽपि च । कम्बुः शम्बूकगजयोर्वीवानलकशङ्खयोः ॥ ४ ॥ जम्बूः सुमेरुसरिति द्वीप मविशेषयोः । कम्बिरंशे च वंशस्य खजाकायामपीष्यते ॥ ५ ॥ ;p{0107} दर्बी भवेत् खजाकायां फणायामुरगस्य च । दार्बी दारुहरिद्रायां देवदारुहरिद्रयोः । चार्बी तु शोभनावृद्ध्योर्लम्बा श्रीतिक्ततुम्बयोः ॥ ६ ॥ ;vv{बत्रिकम्} कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके । कादम्बः कलहंसेष्वोर्द्विजिह्बो भुजगे खले ॥ ७ ॥ गजाह्बा करिपिप्पल्यां गजाह्वं हस्तिनापुरे । नितम्बो रोधसि स्कन्धे शिखरेऽपि कटीरके ॥ ८ ॥ हेरम्बो विघ्नराजे स्यात् कासरे शौर्यगर्विते । कलम्बः शायके नीपे नाऽलिशाबकलब्यपि ॥ ९ ॥ प्रलम्बो दैत्यभेदे स्याद् बालाङ्कुर_शाखयोः । प्रलम्बो हारभेदे स्यात्त्रपुषेऽपि पयोधरे ॥ १० ॥ गन्धर्वो मृगभेदे स्यत् पुंस्कोकिलतुरङ्गयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च ॥ ११ ॥ गोडुम्बः शीर्णवृन्ते स्याद्गवादन्याः फलेऽपि च । भूजम्बूरपि गोधूमे विकङ्कतफलेऽपि च ॥ १२ ॥ ;vv{बचतुष्कम्} ललज्जिह्वो मतो हिंस्रे क्रमेलकशुनोरपि । शतपर्बा च दूर्वायां भार्गवेऽस्य स्त्रियामपि ॥ १३ ॥ राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोः स्मृता । ;vv{बपञ्चकम्} धूलीकदम्बो नीपे स्यात्तिनिशे वरुणद्रुमे ॥ १४ ॥ गोरक्षजम्बूर्गोधूमे तथा गोरक्षतण्डुले । शृगालजम्बूर्गोडुम्बे क्वापि घोण्टाफलेऽपि च ॥ १५ ॥ ;c{इति बान्तवर्गः ॥} ;v{भान्तवर्गः} ;p{0108} ;vv{भैककम्} भः स्यान्मयूखे शुक्रे भं नक्षत्रे च प्रकीर्त्तितम् । भूः पृथिव्यां स्थानमात्रे- ;vv{भद्विकम्} स्वभूर्वेधसि शार्ङ्गिणि ॥ १६ ॥ शुभो योगे शुभे क्षेमे निभो व्याजसदृक्षयोः । विभुः शिवे प्रभौ नित्ये शम्भुर्ब्रह्मार्हतोर्हरे ॥ १७ ॥ दम्भस्तु कैतवे कल्के डिम्भो बालिशपोतयोः । जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च ॥ १८ ॥ कुम्भः स्यात् कुम्भकर्णस्य सुते वेश्यासुते घटे । राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति गुग्गुलौ ॥ १९ ॥ गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके । जृम्भो मुखविकाशे च स्तम्भः स्थूणाजडत्वयोः ॥ २० ॥ रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके । सभा सामाजिके द्यूते गोष्ठीमन्दिरयोरपि ॥ २१ ॥ शोभा कान्तीच्छयोरुक्ता दृम्भूः पन्नगवज्रयोः । नाभिः प्राण्यङ्गजे क्षत्रे चक्रान्तचक्रवर्त्तिनोः । नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः ॥ २२ ॥ ;vv{भत्रिकम्} करभा मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके । करभः शरभस्त्वष्टापदे प्रोक्तो मृगान्तरे ॥ २३ ॥ ऋषभः स्वरभेदे स्यादष्टवर्गौषधे वृषे । श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः ॥ २४ ॥ ऋषभी शूकशिम्ब्यां स्यान्नराकारस्त्रियामपि । विधवायां शिरालायां वृषभः पुज्ञवे वृषे ॥ २५ ॥ ;p{0109} वल्लभो दयितेऽयक्षे कुलीनाश्वे च वल्लभः । दुर्लभः कर्चूरे न्याये दुष्प्रापे वल्लभेऽपि च ॥ २६ ॥ निकुम्भः कथितो दैत्ये कुम्भकर्णसुतेऽपि च । कुसुम्भो हेमनि महारजने च कमण्डलौ ॥ २७ ॥ विष्टम्भः प्रतिबन्धे च वैदर्भे च प्रयुज्यते । विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ २८ ॥ विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः । रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥ २९ ॥ ककुभो रागभेदेऽपि वीणाङ्गेऽर्ज्जुनपादपे । आरम्भस्तु तुरायां स्यादुद्यमे वधदर्पयोः ॥ ३० ॥ सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः ॥ ३१ ॥ सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः । सनाभिः सदृशे ज्ञातावात्मभूर्वेधसि स्मरे ॥ ३२ ॥ वर्षाभूः पुनर्नवायां प्लवे किचलुकेऽपि च । दुन्दुभिर्दितिजे भेर्य्यामक्षबिन्दुत्रिकद्वये ॥ ३३ ॥ वैदर्भं वाक्यवक्रत्वे विदर्भश्च नृपान्तरे । गर्द्दभो गन्धभेदे स्याद्गर्द्दभं कैरवे खरे ॥ ३४ ॥ गर्दभो गर्दभी क्षुद्ररोगजन्तुविशेषयोः । ककुब शोभादिशोः शास्त्रे प्रवेण्यां चम्पकस्रजि ॥ ३५ ॥ ;vv{भचतुष्कम्} अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि । शातकुम्भं सुवर्णे स्याच्छातकुम्भोऽश्वमारके ॥ ३६ ॥ ;c{इति भान्तवर्गः ॥} ;p{0110} ;v{मान्तवर्गः} ;vv{मैककम्} मः शिवे मा रमायाञ्च मा निषेधेऽव्ययं मतम् । ;vv{मद्विकम्} किं स्याद्वितर्के प्रश्ने च क्षेपे निन्दाप्रकारयोः ॥ १ ॥ दमस्तु दमथे दण्डे कर्द्दमे दमनेऽपि च । गमो द्यूतप्रभेदे स्यादपर्यालोचितेऽध्वनि ॥ २ ॥ द्रुमस्तरौ पारिजाते द्रुमः किम्पुरुषेश्वरे । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥ ३ ॥ हिमं शीते तुषारे च चन्दने च हिमं विदुः । रमः कान्ते रमा लक्ष्म्यां रक्ताशोकद्रुमे स्मरे ॥ ४ ॥ यमो दण्डधरे ध्वाङ्क्षे संयमे यमजेऽपि च । शरीरसाधनापेक्षनित्यकर्मणि चोच्यते ॥ ५ ॥ क्रमः शक्तौ परीपाट्यां क्रमश्चलनकम्पयोः । क्षौममट्टे दुकूले स्यादतसीवसनेऽपि च ॥ ६ ॥ क्षेमा स्यान्मङ्गले लब्धरक्षणे चौरकेऽपि च । क्षेमा धनहरीगौर्योः क्षमः ख्यातः क्षमान्विते ॥ ७ ॥ क्षितिः क्षान्तौ क्षमाख्याता हिते शक्ते च वाच्यवत् । आमो रोगे तद्विशेषे आमोऽपक्वे च वाच्यवत् ॥ ८ ॥ कामः स्मरेऽभिलाषे च कामं रेतोनिकामयोः । अव्ययन्त्वभ्यनुज्ञायां यामस्तु प्रहरं व्रते ॥ ९ ॥ श्यामः स्यान्मेचके वृद्धदारके हरिते घने । वटद्रुमे प्रयागस्य श्यामः श्यामा तु बल्गुलौ ॥ १० ॥ अप्रसूताङ्गनायाञ्च तथा सोमलतौषधौ । त्रिवृता शारिबागुन्द्रानिशाकृष्णाप्रियङ्गुषु ॥ ११ ॥ श्यामा नील्याम्पिके श्यामं मरीचे लवणान्तरे । ;p{0111} श्यामो दमनके गन्धतृणे श्यामेऽभिधेयवत् ॥ १२ ॥ गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः सैन्यरक्षणे । गुल्मी स्यादामलक्येलापर्णिकावस्त्रवेश्मसु ॥ १३ ॥ जाल्मः स्यात् पामरे क्रूरे जाल्मोऽसमीक्ष्यकारिणि । ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ॥ १४ ॥ भीमोऽल्पवेतसे शम्भौ घोरे चापि वृकोदरे । युध्मः सङ्गामधनुषो रिष्मः कामवसन्तयोः ॥ १५ ॥ तोक्मं कर्णमले तोक्मो हरिते च हरिद्यवे । रुक्मञ्च काञ्चने लोहे खर्म्मं क्षौमे च पौरुषे ॥ १६ ॥ धर्म्मः पुण्ये यमे न्याये स्वभावाचारयोः क्रतौ । उपमायामहिंसायां चापे चोपनिगद्यते ॥ १७ ॥ घर्म्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि । जिह्मस्तु कुटिले मन्दे जिह्मं तगरपादपे ॥ १८ ॥ सूक्ष्मं स्यात् कैतवेऽध्यात्मेऽप्यणौ सूक्ष्मोल्पकेऽन्यवत् । भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचरे ॥ १९ ॥ शुष्मं तेजोऽर्कयोरुक्तं सूमं क्षीरे नभस्यऽपि । दस्मस्तु यजमाने स्यादपि चौरे हुताशने ॥ २० ॥ रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चाऽसितश्वेतमनोज्ञेषु च वाच्यवत् ॥ २१ ॥ रामाऽङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः । वामं सव्ये प्रतीपे च द्रविणे चाऽतिसुन्दरे ॥ २२ ॥ पयोधरे हरे कामे विद्याद्वामापि च स्त्रियाम् । वामी शगालीवडवारासभीकरभीषु च ॥ २३ ॥ पयः स्यात् पन्नगे व्यूहे निधौ सङ्ख्यान्तरेऽम्बुजे । पद्मके बिन्दुजालेऽपि पद्मा भाङ्गीश्रियोरपि ॥ २४ ॥ ;p{0112} सोमः कुबेरे पितृदेवतायां वसुप्रभेदे च सुधाकरे च । दिव्यौषधीसोमलतासमीर- कर्पूरनीरेषु च वानरे च ॥ २५ ॥ भूमिः क्षितौ स्थानमात्रे वमिर्वान्तौ हुताशने । रश्मिरंशौ प्रग्रहे च जामिः स्वसृकुलस्त्रियोः ॥ २६ ॥ नेमिस्त्रिकायां कूपस्य चक्रान्ते तिनिशद्रुमे । नेमः कालेऽवधौ गर्त्ते प्राकारे कैतवेऽपि च ॥ २७ ॥ कृमिः स्यात्तृणकीटे च लाक्षायां कृमिले स्वरे । कामिः स्यात् कामुके रत्यां होमिः सर्पिषि पावके ॥ २८ ॥ ऊर्म्मिस्तरङ्गे पीडायां वेगभङ्गप्रकाशयोः । उत्कण्ठावस्त्रसङ्कोचलेखयोरपि कीर्तिता ॥ २९ ॥ लक्ष्मीः श्रीशिवसम्पत्तिपद्माशोभाप्रियङ्गुषु । किर्मी पलाशे शालायां हेमपुत्र्यामुदीरिता ॥ ३० ॥ शमी शक्तुफलायाञ्च शिम्बायामपि वल्गुलौ । ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु ॥ ३१ ॥ फञ्जिकापङ्कजटिकाशाकभेदेषु च स्मृता । समा वर्षे समं तुल्ये साधौ च सदृशेऽन्यवत् ॥ ३२ ॥ सीमा घोटे स्थितौ क्षेत्रे मर्यादावेलयोरपि । क्षुमाऽतसीनालिकयोर्नृनाम्नि परमद्युतौ ॥ ३३ ॥ उमाऽतसीहैमवतीहस्तिकीर्त्तिकान्तिषु । रुमा सुग्रीवदारेषु विशिष्टे लवणाकरे ॥ ३४ ॥ ;vv{मत्रिकम्} उत्तमा दुग्धिकायां स्यादुत्कृष्टे चोत्तमेऽन्यवत् । मध्यमः स्यात् स्वरे मध्ये मध्यदेशे च भेदजे ॥ ३५ ॥ ;p{0113} वाच्यवन्मध्यमातूक्ता राकादृष्टरजःस्त्रियोः । कर्णिका त्र्यक्षरच्छन्दःकरमध्याङ्गुलीषु च ॥ ३६ ॥ अधमः कुत्सिते न्यूने प्रक्रमोऽवसरे क्रमे । विक्रमः क्रान्तिमात्रे स्याद्विक्रमः शक्तिसम्पदि ॥ ३७ ॥ सङ्क्रमः क्रमणे सम्पद्वारिसञ्चारयन्त्रके । निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च ॥ ३८ ॥ आगमः शास्त्र आयाते विभ्रमो भ्रान्तिहावयोः । सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि ॥ ३९ ॥ विद्रुमो रत्नदृक्षेऽपि प्रवाले पल्लवेऽपि च । आश्रमो ब्रह्मचर्यादिचतुष्केऽपि मठेऽपि च ॥ ४० ॥ सत्तमश्चान्यवत् पूज्ये श्रेष्ठसाधीयसोरपि । नियमो मन्त्रणायां स्यात प्रतिज्ञायाञ्च संयमे ॥ ४१ ॥ निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे । नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च ॥ ४२ ॥ कलमो लेरवनीचौरशालिकाक्षरकेषु च । तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके ॥ ४३ ॥ परमं स्यादनुज्ञातेऽप्यव्ययं परमः परे । परमं स्यात् प्रधानाद्योरोङ्कारेऽपि तथोच्यते ॥ ४४ ॥ कुसुमं पुष्पफलयोः स्त्रीरजोनेत्ररोगयोः । कृत्रिमं रचिते प्रोक्तं सिह्रके लवणान्तरे ॥ ४५ ॥ सुषमं चारुसमयोः सुषमा परमद्युतौ । सुषीमः शिशिरे चारौ सुषीमः पन्नगान्तरे ॥ ४६ ॥ पञ्चमो रागभेदे स्यात् पञ्चानामपि पूरणे । पञ्चमश्चतुरे हृद्ये पञ्चमी पाण्डवस्त्रियाम ॥ ४७ ॥ गौतमः शाक्यसिंहे च मुनिभेदेऽथ गौतमी । ;p{0114} रोचन्यामम्बिकायाञ्च दाडिमः करकैलयोः ॥ ४८ ॥ गोधूमो नागरङ्गे स्याद्भेषजव्रीहिभेदयोः । व्यायामो दुर्गसञ्चारे व्यायामः पौरुषेऽपि च ॥ ४९ ॥ विलोमस्तु प्रतीपे स्याद् भुजङ्गे वरुणे शुनि । आमलक्यां विलोमी च विलोमं चारुघट्टके ॥ ५० ॥ गोलोमी श्वेतदूर्वायां षढ्ग्रन्थावारयोपितोः । प्रतिमा दन्तबन्धे स्याद्गजस्यानुकृतावपि ॥ ५१ ॥ ;vv{मचतुष्कम्} प्लवङ्गमः कपौ भेकेऽनुपमः सुन्दरेऽन्यवत् । सुप्रतीकस्य योषायां भवेदनुपमाऽपि च ॥ ५२ ॥ अभ्यागमोऽन्तिके घाते विरोधाभ्युद्गमादिषु । यातयामस्तु जीर्णे स्यात् परिभुक्तोज्झितेषु च ॥ ५३ ॥ दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे । सार्वभौमस्तु दिङ्नागे सार्वपृथ्वीपतावपि ॥ ५४ ॥ पराक्रमो विक्रमे स्यात् सामर्थ्योद्योगयोरपि । उपक्रमः स्यादुपधाचिकित्सारम्भविक्रमे ॥ ५५ ॥ जलगुल्मो जलावर्त्ते कच्छपे जलचत्वरे । महापद्मः स्मृतो नागनिधिसङ्ख्यान्तरेषु च ॥ ५६ ॥ ;vv{मपञ्चकम्} अभ्युपगमः स्वीकारे समीपागमनेऽपि च । नक्षत्रनेमिः शीतांशौ रेवत्याञ्च ध्रुवे क्वचित् ॥ ५७ ॥ ;c{इति मान्तवर्गः} ;v{यान्तवर्गः} ;vv{यैककम्} यः सर्वनामानिलयोर्ज्या मौर्वीमातृभूमिषु । ;p{0115} द्युरग्नौ दिवसेऽपि स्याद् द्यौः स्वर्गसुरवर्त्मनोः ॥ १ ॥ ;vv{यद्विकम्} जयो जयन्तौ विजये जया दुर्गाग्निमन्थयोः । जयन्ती तिथिभेदोमासखीपथ्यासु च स्मृता ॥ २ ॥ चयः समूहे प्राकारे मूलबन्धे समाहृतौ । नयो नीतौ द्यूतभेदे शयः शय्याहिपाणिषु ॥ ३ ॥ भयं प्रतिभये घोरे प्रसूने कुब्जकस्य च । मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च ॥ ४ ॥ लयो विनाशे संश्लेषे साम्ये तौर्य्यत्रिकस्य च । स्मयो गर्वेऽद्भुते गेयो गातव्ये गायनेऽपि च ॥ ५ ॥ क्षयो रोगान्तरे वेश्मकल्पान्तापचयेष्वपि । प्रियो धवे सौहृद्ये च वृद्धिनामौषधेऽपि च ॥ ६ ॥ कायः कदैवते मूर्त्तौ सङ्घे लक्ष्यस्वभावयोः । कायो मनुष्यतीर्थेऽपि सायः काण्डापराह्णयोः ॥ ७ ॥ दायो दाने यौतकादिघने सोल्लुण्ठभाषणे । विभक्तपितृद्रव्यञ्च दायमाहुर्मनीषिणः ॥ ८ ॥ प्रायश्चाऽनशने मृत्यौ तुल्यबाहुल्ययोरपि । पेयं पातव्यपयसोः पेया श्राणोत्थमण्डयोः ॥ ९ ॥ स्थेयो विवादस्य पदनिर्णेतरि पुरोहिते । पीयुः काले रवौ घूके ययुः क्रतुहये हये ॥ १० ॥ मयुस्तुरङ्गवदने मृगेऽपि मयुरुच्यते । मन्युः क्रोधे क्रतौ दैन्ये मृत्युर्मरणदेवयोः ॥ ११ ॥ दस्युः स्तेने च शत्रौ च जन्युः प्राण्यग्निधातृषु । वन्यं वनभवे वन्या वनवारिसमूहयोः ॥ १२ ॥ जन्यं हट्टे परीवादे संयुजे जनके पुनः । ;p{0116} जन्यः स्याच्छयनीये च जन्या मातृसखीमुदोः ॥ १३ ॥ जन्यो वरधूज्ञातिप्रियभृत्यहितेऽपि च । शून्याख्या निर्ज्जने नल्यामन्यो भिन्नासमानयोः ॥ १४ ॥ पश्यं पानीयकेऽलिन्दे पूज्यः श्वसुरवन्द्ययोः । हार्यो बिभीतकतरौ हर्तव्ये हार्य्यमन्यवत् ॥ १५ ॥ वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि । आर्यः साधौ सौविदल्लेऽप्यार्योमावृत्तभेदयोः ॥ १६ ॥ अर्यः स्वामिनि वैश्ये च कार्य हेतौ प्रयोजने । सूर्यः सूरे तत्प्रियायां सूर्या स्यादोषधावपि ॥ १७ ॥ शौर्य्यं चारभटीशक्त्योर्वर्यः स्मरवरेण्ययोः । गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः ॥ १८ ॥ सह्यः शैलान्तरारोग्यसोढव्येषु प्रचक्ष्यते । गुह्यं पुरीषमार्गेऽपि भवेदस्वैरपक्षयोः ॥ १९ ॥ गृह्या च शाखानगरे गृह्यश्छेकेऽप्युदीरितः । योग्यः प्रवीणे योग्यार्होपायशक्तेषु चान्यवत् ॥ २० ॥ योग्यमुद्व्याख्यभैषज्ये योग्याभ्यासार्कयोषितोः । भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि ॥ २१ ॥ पाठ्यं पिण्डाख्यलवणे यवक्षारेऽपि दृश्यते । पथ्यं हिते हरीतक्यां पथ्यापथ्योरथोद्वहे ॥ २२ ॥ रथ्या रथौघे विशिखा वर्त्तनीचत्वरेषु च । अर्थ्यं शिलाजतुन्यर्थे बुधे न्याय्ये तु वाच्यवत् ॥ २३ ॥ ग्राम्यो जनेऽन्यवद्ग्राम्यमश्लीलरथबन्धयोः । सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोमदैवते ॥ २४ ॥ इल्वलासु च सौम्याः स्युर्नीचे बोध्ये च वाच्यवत् । रम्यं मनोरमे रम्या रात्रौ रम्यश्च चम्पके ॥ २५ ॥ ;p{0117} सङ्ख्यं समिति सङ्ख्या स्यादेकत्वादिविचारयोः । मध्यं न्याय्येऽवकाशे चावलग्ने लग्नकेऽधमे ॥ २६ ॥ मेध्यं शुचौ मेदुरे च वाच्यवन्मेध्यमाश्रमे । साध्याऽभिख्या साधनीये योगे गणदैवतयोः ॥ २७ ॥ वन्ध्योऽफलद्रुमे वन्ध्या त्वप्रजातस्त्रियामपि । हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च ॥ २८ ॥ वशकृद्वेदमन्त्रे च हृद्यं वृद्धाख्यभेषजे । चोद्यं स्यादद्भुते प्रश्ने चोदनार्हे तु वाच्यवत् ॥ २९ ॥ पद्यं श्लोके सृतौ पद्या पद्युः शूद्रे निगद्यते । पुण्यं मनोज्ञेऽभिहितं तया सुकृतधर्मयोः ॥ ३० ॥ धिष्ण्यं पद्मनि नक्षत्रे स्थाने शक्तौ च पावके । धान्यं व्रीहिसुधान्याके धन्यो धनवति स्मृतः ॥ ३१ ॥ धन्या धात्र्यामलक्योश्च कुड्यं भित्तौ विलेपने । काव्यं ग्रन्थे गृहे काव्यः काव्या स्यात् पूतनाधियोः ॥ ३२ ॥ चव्यन्तु चविके चव्या शतपर्वोग्रगन्धयोः । गव्यञ्च गोहिते गव्यं तथा क्षीरादिकं गवाम् ॥ ३३ ॥ रागद्रव्ये च गव्या तु गोकुले कथिता बुधैः । द्रव्यं स्याद् द्रविणे भव्ये पृथिव्यादै च पित्तले ॥ ३४ ॥ भेषजे च निवेद्ये च जतुद्रुमविकारयोः । भव्यं सत्ये शुभे चाऽथ भेद्यवद्योग्यभाविनोः ॥ ३५ ॥ कर्मरङ्गतरौ भव्यो भव्या करिकणोमयोः । दिव्यं लवङ्गके दिव्यं वल्गौ दिविभवेऽन्यवत् ॥ ३६ ॥ आमलक्यां स्मृता दिव्या सव्यं वामप्रतीकयोः । सेव्यं प्रोक्तमुशीरे च सेवार्हे पुनरन्यवत ॥ ३७ ॥ गोप्यो दासीसुते गोप्यो रक्षणीयेऽभिधेयवत् । ;p{0118} रूप्यं स्यादाहते स्वर्णरजते रजतेऽपि च ॥ ३८ ॥ रूप्यं प्रशस्तरूपे तु वाच्यवत् समुदीरितम् । इभ्य आव्ये करेण्वान्तु भवेदिभ्या तु शल्लकौ ॥ ३९ ॥ लभ्यं युक्ते च लब्धव्ये चार्ध्यमर्घार्थयोग्ययोः । चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ४० ॥ चैत्यमायतने बुद्धबिम्बे चोद्देशपादपे । दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि ॥ ४१ ॥ भृत्यो दासे भृतौ भृत्या दन्त्यो दन्तभवेऽधमे । सत्यञ्च शपथे तथ्ये कृते तद्वति वाच्यवत् ॥ ४२ ॥ तपोलोकात् परे सत्यो नित्यन्तु सतते ध्रुवे । मूल्यन्तु वेतने वस्त्रे माल्यं मालाप्रसूनयोः ॥ ४३ ॥ बल्यं प्रषाने धातौ स्याद् बल्यं बलकरेऽपि च । कल्पं सज्जे प्रभाते च कल्पो नीरोगदक्षयोः ॥ ४४ ॥ कल्या कल्याणवाचि स्यात् कादम्बर्य्यामपि स्मृता । शल्यं शङ्कौ शरे वंशकम्बिकायाञ्च तोमरे ॥ ४५ ॥ शल्यस्तु कथितः श्वाविन्मदनद्रुमयोरपि । कुल्यः कुलोद्भवेऽमात्ये कुलस्यातिहितेऽपि च ॥ ४६ ॥ कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । पयः प्रणालीसरितोः कुल्याजीवन्तिकौषषौ ॥ ४७ ॥ वेश्यं वेश्यागृहे वेश्या गणिकायामुदीरिता । आस्यं वक्त्रे वक्त्रमध्ये स्थितावास्या च विश्रुता ॥ ४८ ॥ लास्यं तौर्यत्रिके नाट्ये शस्ये शस्ते फले गुणे । कश्यं मध्ये तुरङ्गाणां कश्यं मध्यकशार्हयोः ॥ ४९ ॥ कांस्यन्तु तैजसद्रव्ये वाद्यभित्पानपात्रयोः । मत्स्यो मीनान्तरे मीने विराटाभिख्ययादवे ॥ ५० ॥ ;p{0119} तिष्यः पुष्ये कलौ धात्र्यां तिष्या पुष्यवदिष्यते । दूष्यन्तु दूषणीये स्याद् दूष्यं वस्त्रे च तद्ग्रहे ॥ ५१ ॥ वीक्ष्यन्तु विस्मये दृश्ये वीक्ष्यो लासकवाजिनोः । तार्क्ष्यः स्यादश्वकर्णाख्यवृक्षे रथतुरङ्गयोः ॥ ५२ ॥ तार्क्ष्यं रसाञ्जने तार्क्ष्यो गरुडे गरुडाग्रजे । लक्ष्यं शरव्ये सङ्ख्यायां लक्ष्यं छद्मनि सम्मतम् ॥ ५३ ॥ याम्याऽवाच्यां भरण्याञ्च याम्योऽगस्त्ये च चन्दने । इज्या दानेऽध्वरेऽर्च्चायां सङ्गे चेज्यो गुरौ मतः ॥ ५४ ॥ व्रज्या पर्यटने प्रोक्ता वर्गप्रस्थानयोरपि । शय्या तल्पे शब्दतल्पे स्यान्माया शाम्बरीधियोः ॥ ५५ ॥ कन्या कुमारिकानार्योरोषधीराशिभेदयोः । कक्ष्या बृहन्तिकायां स्यात् कक्ष्या मध्येभबन्धने ॥ ५६ ॥ हर्म्यादीनां प्रकोष्ठे च कृत्यं विद्विष्टकार्ययोः । कृत्याऽपि देवताभेदे कृत्या स्तव्यादिषु स्मृता ॥ ५७ ॥ विन्ध्या तु शैलवल्याञ्च विन्ध्यो रुक्शैलभेदयोः । सन्ध्या नदीकालभिदोश्चिन्तामर्यादयोरपि ॥ ५८ ॥ प्रतिज्ञायाञ्च सन्धाने सन्ध्या तु कुसुमान्तरे । छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥ ५९ ॥ पालनोत्कोचयोः कान्तिसच्छोभापङ्क्तिषु स्मृता । क्रिया कर्मणि चेष्टायां करणे सम्प्रधारणे ॥ ६० ॥ आरम्भोपायशिक्षार्यचिकित्सानिष्कृतिष्वपि । माया दम्भे कृपायाञ्च मायः पीताम्बरेऽम्बरे । त्रयी त्रिवेद्यां त्रितये पुरन्ध्र्यां सुमतावपि ॥ ६१ ॥ ;vv{यत्रिकम्} विजयस्तु जये पार्थे गौर्यान्तु विजया तिथौ । ;p{0120} विनयं प्रणतौ प्राहुः शिक्षायां विनया मता ॥ ६२ ॥ विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च । गोचरे च प्रबन्धाद्ये यस्य ज्ञातस्तु तत्र च ॥ ६३ ॥ अनयो व्यसने दैवे अशुभे चापदि स्मृतः । सन्नयः समवायेऽपि पृष्ठस्थायिबलेऽपि च ॥ ६४ ॥ प्रणयः प्रेम्णि विश्रम्भे याच्ञाप्रसरयोरपि । वलयः कण्ठरोगे स्याद्वलयं कङ्कणेऽपि च ॥ ६५ ॥ मलयो देश आरामे शैलांशे पर्वतान्तरे । मलया त्रिवृतायां स्याद्विस्मयोऽद्भुतगर्वयोः ॥ ६६ ॥ प्रलयो मृत्युकल्पान्तमूर्च्छार्थेषु प्रयुज्यते । अभयं स्यादुशीरे च पथ्यायामभयं स्त्रियाम् ॥ ६७ ॥ निर्भये वाच्यवत् प्रोक्तं हृदयं मानसोरसोः । सृक्कायामुदयः पूर्वपर्वते चोन्नतावपि ॥ ६८ ॥ प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे सनादौ चाऽप्यधीनज्ञानयोरपि ॥ ६९ ॥ अतिक्रमे च दण्डे च विनाशे दोषकृच्छ्रयोः । आशयः स्यादभिप्राये मानसाधारयोरपि ॥ ७० ॥ निकायो निलये लक्ष्ये संहतानां समुच्चये । एकार्थभाजि निवहे परमात्मनि चेष्यते ॥ ७१ ॥ क्षेत्रियं क्षेत्रजतृणे परदाररतेऽपि च । अन्यदेहचिकित्स्ये चाऽसाध्यरोगे च जानते ॥ ७२ ॥ कषायो रसभेदे स्यादङ्गरागे विलेपने । निर्यासेऽपि कषायोऽथ सुरभौ लोहितेश्ववत् ॥ ७३ ॥ कुलायः पक्षिनिलयस्थानयोर्नीडवन्मतः । उपायः सामभेदादादुपायः स्यादुपागतौ ॥ ७४ ॥ ;p{0121} पर्यायस्तु प्रकारे स्यान्निर्माणेऽवसरे क्रमे । संस्त्यायः सन्निवेशे च संस्थाने विश्रुतावपि ॥ ७५ ॥ व्यवायः सुरतेऽन्तर्द्धौ व्यवायं तेजसि स्मृतम् । शोलयं शतपुष्पायामाहुः शाल्युद्भवोचिते ॥ ७६ ॥ शैलेयं सिन्धुलवणे तालपर्ण्याञ्च सिन्धुजे । चञ्चरीके तु शैलेयी गाङ्गेयो जाह्नवीसुते ॥ ७७ ॥ कशेरुस्वर्णमुस्तेषु गाङ्गेयमिति कथ्यते । चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे ॥ ७८ ॥ कालेयो दैत्यभेदे स्यात् कालेयं कालखण्डके । बालेयोऽङ्गारवल्लर्य्यां स्वरे बालहिते मृदौ ॥ ७९ ॥ आत्रेयो मुनिभेदे स्यादात्रेयी सरिदन्तरे । आत्रेयी पुष्पवत्याञ्च पानीयं पेयवारिणोः ॥ ८० ॥ ऐणेयमेणचर्मादौ रतबन्धान्तरे स्त्रियाः । अश्वीयमश्वसङ्घातेऽश्वीयमश्वहितेऽन्यवत् ॥ ८१ ॥ इन्द्रियञ्च हृषीके स्यादिन्द्रियं रेतसि स्मृतम् । जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत् ॥ ८२ ॥ वदान्यो दानशौण्डे स्याद्वदान्यश्चारुभाषिणि । पर्जन्यो मेघशब्दे स्याद्धनदम्बुदशक्रयोः ॥ ८३ ॥ ब्रह्मण्यो ब्रह्मसाधौ स्याद्ब्रह्मण्यश्च शनैश्चरे । ब्राह्मण्यं ब्राह्मणत्वे स्यात् समूहेऽपि द्विजन्मनाम् ॥ ८४ ॥ शीर्षण्यमाहुर्विशदकेशशीर्षकयोरपि । हिरण्यमक्षयद्रव्ये वराटे स्वर्णरेतसोः ॥ ८५ ॥ सौकर्य्यं स्यादनायासे क्रियायां सूकरस्य च । श्वशुर्य्यौ देवरे श्यालेऽप्यहार्य्यः स्थिरशैलयोः ॥ ८६ ॥ प्रकीर्य्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् । ;p{0122} सौरभ्यमाहुः सौगन्ध्ये चारुत्वे गुणगौरवे ॥ ८७ ॥ नेपथ्यं रङ्गभूमौ स्यान्नेपथ्यञ्च प्रसाधने । आतिथ्यमातिथेये स्यादातिथ्यश्चातिथावपि ॥ ८८ ॥ सामर्थ्यं योग्यताशक्त्योरपत्यं पुत्रयोर्मतम् । कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८९ ॥ लौहित्यः सागरे व्रीहावादित्यस्त्रिदशे रवौ । पौलस्त्यो रावणे श्रीदेऽप्यौचित्यं सत्ययोग्ययोः ॥ ९० ॥ प्रसव्यमनुकूले स्यात् प्रतिकूले च वाच्यवत् । अवध्यमवधारर्ये स्यादनर्थकवचस्यपि ॥ ९१ ॥ प्रणाय्योऽसम्मते प्रोक्तोऽप्यभिलाषविवर्ज्जिते । शाण्डिल्यो मुनिभेदे स्यान्मालूरे पावकान्तरे ॥ ९२ ॥ मङ्गल्यस्त्रायमाणे स्याद्बिल्वेऽश्वत्थे मसूरके । मङ्गल्यं दध्नि मङ्गल्यो मनोज्ञे त्वभिधेयवद् ॥ ९३ ॥ मङ्गल्या रोचनायाञ्च प्रियङ्गुशतपुष्पयोः । अधः पुष्पीशङ्खपुष्पीशमीशुक्लवचासु च ॥ ९४ ॥ अधृष्यस्तु प्रगल्भे स्यादधृष्या निम्नगाभिदि । पारुष्यं परुषत्वे स्याद्वने शक्रस्य गीष्पतौ ॥ ९५ ॥ पारुष्योऽथ भुजिष्यः स्यात् सहाये हस्तसूत्रके । स्वतन्त्रे च भुजिष्या तु दासीगणिकयोर्मता ॥ ९६ ॥ चक्षुष्यः केतके पुण्डरीकवृक्षे रसाञ्जने । कुलत्थिकासुभगयोश्चक्षुष्योऽक्षिहितेऽन्यवत ॥ ९७ ॥ जटायुर्गुग्गुलुतरौ जटायुर्विहगान्तरे । ऊर्णायुः क्षणभङ्गे स्यान्मेषकम्बलमेषयोः ॥ ९८ ॥ देवयुर्धार्मिके ख्यातो देवयुर्लोकयात्रिके ॥ ' मृगयुर्ब्रह्मणि प्रोक्तो गोमायुव्याधयोरपि ॥ ९९ ॥ ;p{0123} भुवन्युर्ज्वलने भानौ भुवन्युः शशलाञ्छने । शरण्युर्वारिदे वाते क्षिपन्युः सुरभौ तनौ ॥ १०० ॥ तपस्या व्रतचर्यायां तपस्यो मासि फाल्गुने । रहस्या निम्नगाभेदे गोपनीये तु वाच्यवत् ॥ १०१ ॥ पयस्या क्षीरकाकोल्यां पयोहितभवेऽन्यवत् । पयस्या दुग्धिकायाञ्च स्वर्णक्षीर्याञ्च कथ्यते ॥ १०२ ॥ स्यादहल्याऽप्सरोभेदे गौतमस्य च योषिति । विशल्या लाङ्गलीदन्तीगुदूचीत्रिपुटासु च ॥ १०३ ॥ अभिख्या कीर्त्तियशसोरभिख्यानामशोभयोः । द्वितीया तिथिभित्पत्न्योः पूरण्यामपि च द्वयोः ॥ १०४ ॥ नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां जवायां च काङ्गुष्ठे च समीक्ष्यते ॥ १०५ ॥ ;vv{यचतुष्कम्} भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः । स्मृतः समुदयो वृन्दे संयुगे समुपक्रमे ॥ १०६ ॥ प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः । समुच्छ्रयः समुत्सेधे विरोधेऽपि समुच्छ्रयः ॥ १०७ ॥ हिरण्मयो लोकधातौ स्यात सुवर्णमयेऽन्यवत् । अवश्यायो हिमे गर्वे समुदायो गणे युधि ॥ १०८ ॥ परिधायो जलस्थाने परिच्छदनितम्बयोः । सम्परायः समीके स्यादापदुत्तरकालयोः ॥ १०९ ॥ निरामयोऽन्यवत् कल्ये स्यादिडिक्के निरामयः । समाह्वयः स्यात् सङ्ग्रामे द्यूते च पशुपक्षिभिः ॥ ११० ॥ महालयो विहारे स्यात्तीर्थे च परमात्मनि । रौहिणेयो भवेद्वत्से रेवतीरमणे बुधे ॥ १११ ॥ ;p{0124} पौरुषेयो विकारे स्यात् पुरुषस्य पदान्तरे । पुंसः समूहवधयोः पुरुषेण कृतेऽपि च ॥ ११२ ॥ भागधेयं स्मृतं भाग्ये भागप्रत्यययोरपि । बिलेशयो मूषिके स्याद् भुजङ्गेऽपि बिलेशयः ॥ ११३ ॥ जलाशयमुशीरे च जलाधारे जलाशयः । चन्द्रोदयो विताने स्यात्तथा चन्द्रोदयोषधौ ॥ ११४ ॥ फलोदयः स्यात् त्रिदिवे लाभेऽपि च फलोदयः । महोदयः कान्यकुब्जेऽप्याधिपत्यापवर्गयोः ॥ ११५ ॥ स्थूलोच्चयस्त्वऽसाकल्ये गण्डोपलकरण्डयोः । गजानां मध्यमगतौ स्थूलोच्चय उदाहृतः ॥ ११६ ॥ धनञ्जयोऽर्ज्जुने वह्नौ ककुभे देहमारुते । नागान्तरे चाऽपसव्यं दक्षिणप्रतिकूलयोः ॥ ११७ ॥ मार्ज्जारीयः स्मृतः शूद्रे बिडाले कायशोधने । तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ॥ ११८ ॥ तृणशून्यं मल्लिकायां केतक्याश्च फले मतम् । महामूल्यं महार्घे स्यात् पद्मरागमणावपि ॥ ११९ ॥ अधःशय्या मृतौ भूमिशय्यायाम्पितृकानने । उपकार्य्या वस्त्रसद्मन्युपकारोचितेऽन्यवत् ॥ १२० ॥ ;vv{यपञ्चकम्} दुग्धतालीयमित्येतद् दुग्धाम्रे दुग्धफेणके । भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥ १२१ ॥ कालानुसार्य्यं कालीये शैलेये शिंशपाद्रुमे । वृषाकपायी श्रीगौर्य्योर्जीवन्त्याञ्च शतावरी ॥ १२२ ॥ ;vv{यषट्कम्} प्रत्युद्गमनीयमुपस्थेये स्याच्च धौतांशुकद्वये । ;p{0125} विश्वक्सेनप्रिया लक्ष्म्यां त्रायमाणौषघावपि ॥ १२३ ॥ ;c{इति यान्तवर्गः ॥} ;v{रान्तवर्गः} ;vv{रैककम्} रः पावके च तीक्ष्णे च राः स्मृतः स्वर्णवित्तयोः । स्रुः स्रवे निर्ज्झरे चाऽपि द्रूः स्वर्णे कामरूपिणि ॥ १ ॥ श्रीर्वेशरचनाशोभाभारतीसरलद्रवे । लक्ष्म्यां त्रिवर्गसम्पत्तौ वेशोपकरणे मता ॥ २ ॥ ;vv{रद्विकम्} अरं शीघ्रे च च चक्राङ्गे शीघ्रगे पुनरन्यवत । करो वर्षोपले पाणौ शुण्डाप्रत्ययरश्मिषु ॥ ३ ॥ खरः स्याद्गर्दभे देवताडे तीक्ष्णाग्रकेऽपि च । गरो व्याधावुपविषे विषे च करणे गरम् ॥ ४ ॥ वरो द्यूतप्रभेदे स्याच्चारजङ्गमयोश्चले । नरं तु रामकर्पूरे नरोऽजे मानवेऽर्ज्जुने ॥ ५ ॥ परः स्यादुत्तमानात्मवैरिदूरेषु केवले । परमव्ययमिच्छन्ति भरोऽतिशयभारयोः ॥ ६ ॥ वरोऽभीष्टे देवतादेर्वरो जामातृषिङ्गयोः । श्रेष्ठेऽन्यवत् परिवृतौ वरं काश्मीरजे मतम् ॥ ७ ॥ त्रिफलायां वरा प्रोक्ता शतावर्य्यां वरी वरम् । अव्ययन्तु मनागिष्टे सरो दध्यग्रबाणयोः ॥ ८ ॥ स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः स्वरो नासासमीरणे ॥ ९ ॥ शरं नीरे शरः काण्डे शरस्तेजनकेऽपि च । धरस्तु शैले कार्पासतूलके कमठाधिपे । ;p{0126} धरा मेधसि भूम्याञ्च स्त्रीणां गर्भाशयेऽपि च ॥ १० ॥ क्षरं नीरे क्षरो मेघे दरः साध्वसगर्त्तयोः । कन्दरे तु दरीमाहुरीषर्थे दराव्ययम् ॥ ११ ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । पुरं पाटलिपुत्रे स्यागृहोपरिगृहे पुरम् ॥ १२ ॥ पुरं पुरि शरीरे च गुग्गुलौ कथितः पुरः । पुराऽव्ययं पूर्वकाले खुरः कोलदले शफे ॥ १३ ॥ सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित् । कारो वधे निश्चये च बलौ यत्ने यतावपि ॥ १४ ॥ कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे केमकारिकयोरपि ॥ १५ ॥ चारः प्रियालवृक्षे स्याद्गतौ बन्धापसर्पयोः । पारम्परतटे प्रान्ते पारी पात्रीतडागयोः ॥ १६ ॥ गर्गरीपूरयोः पारी पादरज्ज्वाञ्च दन्तिनः । वारः सूर्यादिदिवसे वारोऽवसरवृन्दयोः ॥ १७ ॥ कुब्जवृक्षे हरेर्वारं द्वारे मद्यस्य भाजने । तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके ॥ १८ ॥ तारञ्च रजतेऽप्युच्चस्वरेऽप्यन्यवदीरितम् । ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः ॥ १९ ॥ बुद्धदेव्यां मता तारा शारः शबलवातयोः । भारस्तु वीवधे स्वर्णपलानामयुतद्वये ॥ २० ॥ मारो मृत्यौ वृषेऽनङ्गे मारी चण्ड्यां जनक्षये । स्फारः स्याद्विकटे स्फारः कनकादेश्च बुद्बुदे ॥ २१ ॥ क्षारो रसान्तरे धूर्त्ते लवणे काचभस्मनोः । हारो मुक्तारलौ युद्धेऽप्यारः क्षितिसुतेऽर्कजे । ;p{0127} आरा चर्म्मप्रभेदिन्यां नारस्तर्णकनीरयोः ॥ २२ ॥ सारो बले मज्जनि च स्थिरांशे न्याय्ये च नीरे च धने च सारम् । वरेऽन्यवत् सारमुदाहरन्ति द्वारं पुनर्निर्गमनेऽप्युपाये ॥ २३ ॥ पूरो जलप्रवाहे स्याद् व्रणसंशुद्धिखाद्ययोः । चिरन्तु गोस्तने हस्ते चूडायां सीसकेऽपि च ॥ २४ ॥ क्रूरस्तु कठिने घोरे नृशंसे त्वऽभिधेयवत् । सूरश्चारभटे सूर्य्ये चोरश्चौरसुगन्धयोः ॥ २५ ॥ तीरं तटे त्रपौ तीरः सीरस्तिग्मकरे हले । चीरी कच्छूरिकाझिल्योः स्वैरः स्वच्छन्दमन्दयोः ॥ २६ ॥ जीरः खड्गे वणिग्द्रव्ये मीरस्तोयदशैलयोः । क्षीरं नीरे च दुग्धे च कीरो जनपदे शुके ॥ २७ ॥ गौरः पीतेऽरुणे श्वेते विशुद्धे चाऽभिधेयवत् । गौरन्तु विशदे पद्मकेशरे सितसर्षपे ॥ २८ ॥ गौरः शशिनि गौरी तु नग्नकन्योमयोः स्मृता । रोचनी रजनीपिङ्गाप्रियङ्गुवसुधासु च ॥ २९ ॥ नदीभेदेऽपि गौरी स्याद्वरुणस्य च योषिति । पौरन्तु कत्तृणे पौरः स्मृतः पुरभवेऽन्यवत् ॥ ३० ॥ वेरं शरीरे काश्मीरे वेरं वातिङ्गणेऽपि च । घोरं भीमे हरे घोरष्टारो लङ्गतुरङ्गयोः ॥ ३१ ॥ होरा लग्नेऽपि राश्यर्द्धे शास्त्ररेखाभिदोरपि । हीरा पिपीलिकालक्ष्म्योर्हीरः शङ्करवज्रयोः ॥ ३२ ॥ गोत्रं नाम्नि कुले क्षेत्रे कानने चित्तवर्त्मनोः । सम्भावनीयबोधेऽपि गोत्रः क्षोणीधरे मतः ॥ ३३ ॥ ;p{0128} गोसमूहभुवोर्गोत्रा गात्रमङ्गे कलेवरे । स्तम्बेरमाग्रजङ्घायां विभागेऽपि समीरितम् ॥ ३४ ॥ पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणाम् । पात्रञ्च भाजने योग्ये पात्रं तीरद्वयान्तरे ॥ ३५ ॥ पात्रं स्रुवादौ पर्णेऽपि राजमन्त्रिणि चेष्यते । पोत्रं वस्त्रे मुखाग्रे च शूकरस्य हलस्य च ॥ ३६ ॥ चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसि । चित्राऽऽखुपर्णीगोदुग्धीसुभद्रादन्तिकासु च ॥ ३७ ॥ ऋक्षाप्सरोऽहिभेदेषु कर्बुरे चाभिधेयवत् । चैत्रं मृतकचित्ये स्याच्चैत्रो मासाद्रिभेदयोः ॥ ३८ ॥ वृत्रो रिपौ घने ध्वान्ते शैले शक्रे च दानवे । सत्रमाच्छादने यज्ञे सदादाने च कैतवे ॥ ३९ ॥ सूत्रन्तु सूचनायां स्यात् मूत्रं तन्तुव्यवस्थयोः । मित्रं सुहृदि मित्रोऽर्के शास्त्रं ग्रन्थनिदेषयोः ॥ ४० ॥ मात्रं चाऽवधृतौ कार्त्स्न्ये मात्रा कर्णविभूपणे । अक्षरावयवे वृत्ते मानेऽल्पे च परिच्छदे ॥ ४१ ॥ शस्त्रं लोहास्त्रयोः शस्त्री छुरिकायाञ्च विश्रुता । अस्त्रं प्रहरणे चापे वक्त्रं छन्दोऽन्तरे मुखे ॥ ४२ ॥ नेत्रं मन्थिगुणे वस्त्रे तरुमूले विलोचने । नेत्रं रथे च नाड्याञ्च नेत्रो नेतरि वाच्यवत् ॥ ४३ ॥ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः । रेत्रं रेतसि पीयूषे पटवासेऽपि सूतके ॥ ४४ ॥ मन्त्रो वेदप्रभेदे स्याद्देवादीनाञ्च साधने । गुप्तवादे च तोत्रन्तु प्राजने वल्लवेऽपि च ॥ ४५ ॥ तन्त्रं कुटुम्बकृत्ये स्यात् कारणे च परिच्छदे । ;p{0129} शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे ॥ ४६ ॥ तत्त्वादिसाधनोपाये श्रुतिशाखान्तरेऽपि च । इतिकर्त्तव्यतायाञ्च तन्त्री वीणागुणे तनोः ॥ ४७ ॥ शिरायाममृतायाञ्च छत्रमातपवारणे । छत्रा मधुरिकायां स्यात् कुस्तुम्बुरुशिलीन्द्रयोः ॥ ४८ ॥ चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्टास्रयोरपि ॥ ४९ ॥ अम्भसामपि चाऽवर्त्ते चुक्रस्त्वम्लेऽम्लवेतसे । चुक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते ॥ ५० ॥ शुक्रः काव्येऽनले ज्येष्ठे शुक्रो रेतोऽक्षिरोगयोः । शुक्रं शक्रो महेन्द्रे स्यात् कुटजार्ज्जुनभूरुहोः ॥ ५१ ॥ नक्रः कुम्भीरके नक्रं नासायामग्रदारुणि । वक्रः स्यात् कुटिले क्रूरे पुटभेदे शनैश्चरे ॥ ५२ ॥ अग्रमालम्बने व्राते परिमाणे पलस्य च । प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्द्ध्वयोः ॥ ५३ ॥ उग्रः शूद्रासुते क्षत्त्राच्छ्रीकण्ठे चोत्कटेऽन्यवत् । उग्रा वचाछिक्किकयोर्व्यग्रो व्यासक्त आकुले ॥ ५४ ॥ भद्रं स्यान्मङ्गले हेम्नि मुस्तके करणान्तरे । भद्रो रुद्रे वृषे रामचन्द्रे मेरुकदम्बयोः ॥ ५५ ॥ हस्तिजात्यन्तरे भद्रो वाच्यवच्छ्रेष्ठसाधुनोः । भद्रा मन्दाकिनीरास्नाकृत्स्नानन्तासु कट्फले ॥ ५६ ॥ क्षुद्रः स्यादधमे क्रूरे कृपणेऽल्पे च वाच्यवत् । क्षुद्रा वेश्यानटीकण्टकारिकासरघासु च ॥ ५७ ॥ चाङ्गेरी बृहतीहिंस्रा मक्षिकामात्रकेषु च ॥. क्षौद्रं मधुनि पानीये वध्रं त्रपुवरत्रयोः ॥ ५८ ॥ ;p{0130} गृध्रः खगान्तरे प्रोक्तो वाच्यवच्चार्थलुब्धके । रोध्रः सावरके रोध्रमपराधेऽपि किल्विषे ॥ ५९ ॥ नीध्रं नेमौ वलीकेन्द्वो रेवतीभे च कानने । राष्ट्रमुद्दिष्टमुत्पाते तथा स्यादुपवर्त्तने ॥ ६० ॥ कृच्छ्रमाख्यातमाभीले तपःसान्तपनादिनोः । चन्द्रः सुधांशुकर्पूरकाम्पिल्लस्वर्णवारिषु ॥ ६१ ॥ इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः । इन्द्रा फणिज्झके सान्द्रो घनकाननयोर्मृदौ ॥ ६२ ॥ गुन्द्रस्तेजनके गुन्द्रा प्रियङ्गौ भद्रमुस्तके । कैवर्त्तीमुस्तके चाऽपि रौद्रो नाट्यरसान्तरे ॥ ६३ ॥ रौद्रोऽतिभीषणे तीव्रे रौद्रा स्कन्दस्य मातरि । उड्रो जने जपावृक्षे उड्रा जनपदान्तरे ॥ ६४ ॥ पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः । पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके ॥ ६५ ॥ चित्रे कृमौ पुण्डरीके पुण्ड्राः स्युर्नीवृदन्तरे । वज्रं हीरकदम्भोलिबालकामलकेषु च ॥ ६६ ॥ वज्रा गुडूचिकायां स्यात् ताम्रं शुल्वेऽरुणेऽन्यवत् । तीव्रमत्युष्णकटुकनितान्तेष्वन्यवन्मतम् ॥ ६७ ॥ तीव्रा च कटुरोहिण्यामासुरीगण्डदूर्वयोः । अस्रः कोणे शिरसिजे चाऽस्रमश्रुणि शोणिते ॥ ६८ ॥ दस्रः खरे चाऽश्विनयोर्घस्रो दिवसहिंस्रयोः । वाश्रोऽपि दिवसे वाश्रं मन्दिरे च चतुष्पथे ॥ ६९ ॥ शीघ्रं द्रुतगतौ शीघ्रं चक्राङ्गोशीरयोरपि । व्याघ्रो दीपिनि विख्यातः शुक्लैरण्डकरञ्जयोः । व्याघ्री निदिग्धिकायाञ्च श्रेष्ठे स्यादुत्तरस्थितः ॥ ७० ॥ ;p{0131} अभ्रं नभः स्वर्गबलाहकेषु शुभ्रं प्रदीप्ते धवलेऽभ्रके च । बभ्रुर्विशाले नकुले कृशानौ वज्रे मुनौ शूलिनि पिङ्गले च ॥ ७१ ॥ शिग्रुः शोभाञ्जने शाके शरुः कुलिशकोपयोः । स्वरुर्वज्रेऽध्वरे वाणे यूपखण्डेऽपि च स्वरुः ॥ ७२ ॥ खरुर्दन्ते हरे दर्पे हये श्वेते तु वाच्यवत् । चरुर्भाण्डे च हव्यान्ने भरुर्भर्त्तरि काञ्चने ॥ ७३ ॥ गुरुर्निपेकादिकरे पित्रादौ सुरमन्त्रिणि । दुर्ज्जरालधुनोः प्रोक्तो गुरुर्महति वाच्यवत् ॥ ७४ ॥ रुरुर्मृगे दैत्यभेदे कारुः कारकशिल्पिनोः । विश्वकर्मणि शिल्पे च कुरुः श्रीकण्ठजाङ्गले ॥ ७५ ॥ उन्दने नृपभेदे च पुरुः प्राज्यपरागयोः । पुरुः स्वर्लोकनृपयोर्मरुर्भूधरधन्वनोः ॥ ७६ ॥ आरुस्तरुविशेषे स्यादारुः कर्कटदंष्ट्रिणोः । कद्रूर्मातरि नागानां कद्रुः कनकपिङ्गले ॥ ७७ ॥ हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च ॥ ७८ ॥ हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः । भूरिर्ब्रह्माच्युतेशेषु भूरिप्राज्यसुवर्णयोः ॥ ७९ ॥ गिरिर्गीर्णौ गिरियके क्रीडाकन्दुकशैलयोः । नेत्रामयविशेषेऽपि मत्स्ये तु गिरिरन्यवत् ॥ ८० ॥ वारिः स्मृत्या सरस्वत्यां वारि ह्रीवेरनीरयोः । वारी घटीभबन्धन्यो रङ्घ्रिः स्यात् पादबुध्नयोः ॥ ८१ ॥ शारिस्त्वक्षोपकरणे तथा शकुनिकान्तरे । ;p{0132} युद्धार्थगजपर्याणे व्यवहारेऽपि च क्वचित् ॥ ८२ ॥ कारिः क्रियायामाख्याता नापितादिकशिल्पिनि । अद्रिः शैलद्रुमार्केषु ऐन्द्रिः काकजयन्तयोः ॥ ८३ ॥ ऐन्द्रिरम्भोधरे जिष्णौ तन्द्री निद्राप्रमीलयोः । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ ८४ ॥ उष्ट्री गोलकिकायां स्यात् करभस्य च योषिति । क्रोष्ट्री शृगालिकाक्षीरविदारीलाङ्गलीषु च ॥ ८५ ॥ तरिर्नावि दशायाञ्च वस्त्रादीनाञ्च पेटके । जारी स्यादोषधीभेदे जारस्तूपपतावपि ॥ ८६ ॥ इरा वारिसुराभूमिभारतीषु मयुज्यते । स्थिरा भूमौ शालपर्ण्यां स्थिरो निश्चलमोक्षयोः ॥ ८७ ॥ धारा सैन्याग्रिमस्कन्धसन्तत्योः पत्तनान्तरे । द्रवद्रव्यप्रपातेऽपि तुरङ्गगतिपञ्चके ॥ ८८ ॥ खड्गादीनाञ्च निशितमुखे धाराऽपि कीर्त्यते । धारः क्वचिद्घनासारवर्षणे स्यादृणेऽपि च ॥ ८९ ॥ वीरा स्यात् क्षीरकाकोलितामलक्येलवालुषु । पतिपुत्रवतीरम्भागम्भीरामदिरासु च ॥ ९० ॥ गोष्ठोदुम्बरिकाक्षीरविदारीदुग्धिकासु च । वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्ग्यां नतेऽपि च ॥ ९१ ॥ आर्द्रा नक्षत्रभेदे स्यादार्द्रं क्लिन्नेऽभिधेयवत् । यात्रा तु यापनोपाये गतौ देवार्च्चनोत्सवे ॥ ९२ ॥ उस्रा गव्युपचित्रायामुस्रस्तु किरणे स्मृतः । हिंस्रा काकादने मत्स्यो हिंस्रः स्याद्घातकेऽन्यवत् ॥ ९३ ॥ ;vv{रत्रिकम्} अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिज्ञद्रुमे । ;p{0133} दूर्वाऽमरावतीस्थूणा गुडूचीष्वऽमरा मता ॥ ९४ ॥ अपरन्त्वधुनार्थे स्यात् पश्चाद्गात्रे च दन्तिनाम् । अर्वाचीने परं प्राहुर्जरायौ चापरामपि ॥ ९५ ॥ अधरो दन्तवसनेऽनूर्द्ध्वे हीनेऽधरोऽन्यवत । अध्वरो वसुभेदे स्यात् सावधाने कृतावपि ॥ ९६ ॥ अन्तरन्तु परीधाने भेदे रन्ध्रावकाशयोः । आत्मान्तर्द्धिविनात्मीयबहिर्मध्यावधिष्वपि ॥ ९७ ॥ तादर्थ्येऽवसरे चोक्तमवरं चरमेऽन्यवत् । गजान्त्यजङ्घादेशे च भवान्यामवरा मता ॥ ९८ ॥ उत्तरं प्रतिवाक्ये स्यादूर्द्ध्वोदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य तनये दिशि चोऽत्तरा ॥ ९९ ॥ इतरः पामरेऽन्यस्मिन्नक्षरं ब्रह्मवर्णयोः । ऋक्षरं वारिधारायामृक्षरश्चर्त्विजि स्मृतः ॥ १०० ॥ प्रवरं सन्ततौ गोत्रे श्रेष्ठे तु प्रवरोऽन्यवत् । शबरो वारिचण्डालभेदयोः शङ्करेऽपि च ॥ १०१ ॥ अम्बरं वाससि व्योम्नि कार्पासे च सुगन्धके । शम्बरं सलिले चित्तबौद्धव्रतविशेषयोः ॥ १०२ ॥ शम्बरो दैत्यहरिणमत्स्यशैलजिनान्तरे । ओषधौ शम्बरीमाहुः प्रखरोऽश्वतरे शुनि ॥ १०३ ॥ तुरङ्गानाञ्च सन्नाहे प्रखरोऽतिभृशस्वरे । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ १०४ ॥ पक्वदाडिमबीजाभमाणिक्यशकलेऽपि च । खिङ्खिरस्तु शिवाभेदे खट्वाङ्गे वारिवालके ॥ १०५ ॥ खिखीरा तद्बहुत्वे च विष्टरस्तु महीरुहे । आसने कुशमुष्टौ च द्विरदस्कन्धपीठयोः ॥ १०६ ॥ ;p{0134} कवटे चाऽथ पिठरो मुस्तमन्थानदण्डयोः । पिठरः स्यादुखायाञ्च जठरः कठिनेऽन्यवत् ॥ १०७ ॥ कुक्षौ वृद्धे च जठरं वण्ठरस्तालपल्लवे । करीरकोशेऽप्यररं कपाटे छदनेऽपि च ॥ १०८ ॥ क्रकरः क्रकचे दीने करीरे च खगान्तरे । कदरः श्वेतखदिरे क्षुद्ररोगेऽपि भाषितः ॥ १०९ ॥ बदरं कोलकार्पास्योः फले स्याद्बदरी तयोः । एलापर्ण्यान्तु बदरा विष्णुक्रान्तौषधावपि ॥ ११० ॥ प्रदरो रोगभेदे स्यात् प्रदरः शरभङ्गयोः । मकरो यादसि ज्ञेयो निधिराशिप्रभेदयोः ॥ १११ ॥ निकरो निवहे सारे न्यायदेयधनान्तरे । शीकरं शबले वातसृताम्बुकणयोर्विदुः ॥ ११२ ॥ प्रकरश्चोपकारश्च विकीर्णकुसुमादिषु । संहतौ चोपकृत्यायां यथासङ्ख्यमवस्थितौ ॥ ११३ ॥ जोङ्गके प्रकरं प्रोक्तं प्रकरी चत्वरावनौ । विस्तरस्तु प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च ॥ ११४ ॥ संस्तरप्रस्तरावेतौ संस्तराध्वरयोरपि । मणिपाषाणयोश्चाऽपि यथाक्रममुदीरितौ ॥ ११५ ॥ टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे । वाच्यवत् केकराक्षे तु मुद्गरं मल्लिकाभिदि ॥ ११६ ॥ लोष्ट्रादिभेदनेऽपि स्यादुदरं जठरे युधि । प्रसरः प्रणये वेगे सङ्गरे चाऽथ मत्सरः ॥ ११७ ॥ असह्यपरसम्पत्तौ मात्सर्य्यं कृपणे युधि । मत्सरा मक्षिकायाञ्च विसरः प्रसरे व्रजे ॥ ११८ ॥ कुहरः कोठरे छिद्रे नागराजविशेषयोः । ;p{0135} दहरो मूषिकायाञ्च स्वल्पभ्रातरि बालके ॥ ११९ ॥ चमरं चामरे प्राहुर्मञ्जरीमृगभेदयोः । चमरी भ्रमरे भृङ्गे कामुकेऽपि मधूत्थवत् ॥ १२० ॥ रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः । चन्दिरोऽनेकपे चन्द्रे मुदिरः कामुकेऽम्बुदे ॥ १२१ ॥ मिहिरो भास्करे वृद्धे मदिरः काममूर्खयोः । विवरं दूषणे गर्त्ते कथितं छिद्ररन्ध्रवत् ॥ १२२ ॥ खपुरः क्रमुके भद्रे मुस्तकेऽलसकेऽपि च । गोपुरन्तु पुरद्वारि द्वारमात्रे च मुस्तके ॥ १२३ ॥ चिकुरश्चञ्चले केशे गृहबभ्रुभुजङ्गयोः । पक्षिद्रुभेदयोः शैले चङ्कुरो रथवृक्षयोः ॥ १२४ ॥ अङ्कुरो रुधिरे रोम्णि पानीयेऽभिनवोद्भिदि । कुक्कुरो वक्रपुच्छे स्याद्ग्रन्थिपर्णेऽपि कुक्कुरे ॥ १२५ ॥ मुकुरो मल्लिकापुष्पे दर्पणे च कलिद्रुमे । कुलालदण्डे वकुले मकुरोऽप्येषु विश्रुतः ॥ १२६ ॥ अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ । अशिते राक्षसे वह्नावशिरस्तपनेऽपि च ॥ १२७ ॥ शिशिरः स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । वशिरं किणिहीसिन्धुलवणे कुम्भकेषु च ॥ १२८ ॥ सुषिरं विवरे वाद्ये सरन्ध्रे सुषिरोऽन्यवत् । सुषिरोऽग्नौ च तिमिरं ध्वान्ते नेत्रामयेऽपि च ॥ १२९ ॥ छिदिरः पावके रज्जौ करवाले परश्वधे । दन्तुरं वाच्यवद्विद्याद्विषमोन्नतदन्तयोः ॥ १३० ॥ विदुरो नागरे वीरे कौरवाणाञ्च मन्त्रिणि । विधुरं स्यात् प्रविश्लेषे विधुरो विकलेऽन्यवत् ॥ १३१ ॥ ;p{0136} विधुराऽपि रसालायां मधुरस्तु रसे विषे । मधुरं रसवत् स्वादुप्रियेषु मधुरोऽन्यवत् ॥ १३२ ॥ मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः । मधुकर्कटिकाभेदामधूलीयष्टिकासु च ॥ १३३ ॥ बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः । बन्धुके च विदुङ्गे च बन्धूरापण्ययोषिति ॥ १३४ ॥ बर्बरः पामरे केशविन्यासे नीवृदन्तरे । बर्बरा फञ्जिकायान्तु बर्बराशाकपुष्पयोः ॥ १३५ ॥ कर्बुरं सलिले हेम्नि कर्बुरं पापरक्षसोः । कर्बुरा पुष्पवृन्तायां किर्मीरे कर्बुराऽन्यवत् ॥ १३६ ॥ कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोः । कूर्परो जानुनि प्रोक्तः कफोणावपि कूर्परः ॥ १३७ ॥ खर्परः तस्करे पूर्वे भिक्षापात्रकपालयोः । गर्गरो मीनभेदे स्यान्मन्थन्यामपि गर्गरी ॥ १३८ ॥ घर्घरस्तु चलद्वारिध्वानोलूकनदान्तरे । निर्झरस्तु सहस्रांशु तुरङ्गे तुषपावके ॥ १३९ ॥ मुर्म्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि । जर्जरो वाच्यवज्जीर्णे जर्जरं वासवध्वजे ॥ १४० ॥ निर्ज्जरस्तु जरात्यक्ते वाच्यवन्निर्ज्जरः सुरे । निर्जरा तु गुडूच्यां स्यात्तालपत्र्यामपि क्वचित् ॥ १४१ ॥ जर्झरः स्यात् कलियुगे वाद्ये भाण्डे नदान्तरे । दर्दुरस्तु गिरावीषद्भग्नवस्तुनि वाच्यवत् ॥ १४२ ॥ दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायाञ्च ग्रामजाले तु दर्दुरम् ॥ १४३ ॥ वार्द्दरं दक्षिणावर्त्तशृङ्गे कृमिजनीरयोः । ;p{0137} काकचिन्त्याश्वबीजेऽपि वाचि वार्द्दरमिष्यते ॥ १४४ ॥ दुर्धरं वाच्यवद् दुःखधार्य्ये स्याद्वृषभौषधे । दुर्धरो निर्भरे सारे निर्भये निरपत्रपे ॥ १४५ ॥ कुञ्जरोऽनेकपे केशे घातक्यामपि कुञ्जरा । पिञ्जरं कनके वाजिभेदे पीते च पिञ्जरः ॥ १४६ ॥ मन्दरो मन्थरे शैले स्वर्गमन्दारयोरपि । मन्दरो बहले मन्दे कन्दरो विवरे कुशे ॥ १४७ ॥ मन्दिरं नगरेऽगारे मन्दिरो मकरालये । वर्करस्तरुणे मेषे कर्क्करो दर्पणे दृढे ॥ १४८ ॥ कन्धरा वारिवाहे स्याद्ग्रीवायामपि कन्धरा । वल्लरं शाद्वले प्रोक्तं निर्जलस्थानकुञ्जयोः ॥ १४९ ॥ वल्लक्षेत्रे च मञ्जर्य्यां वल्लरी तु प्रकीर्त्तिता । मन्थरः सूचके कोठे मन्थाने चाऽथ मन्थरम् ॥ १५० ॥ कुसुम्भ्यां मन्थरो मन्दे पृथौ वक्रे च वाच्यवत् । कच्चरं कुत्सिते तक्रे चत्वरं स्थण्डिलेऽङ्गने ॥ १५१ ॥ छित्वरं छेदनद्रव्ये छित्वरो धूर्त्तवैरिणोः । इत्वरो दुर्विधे नीचे पथिककूरकर्म्पणोः ॥ १५२ ॥ पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः । औषधद्वीपविहगतीर्थराजोरगान्तरे ॥ १५३ ॥ पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च । डिङ्गरो डङ्गरे क्षेपे सङ्गरोऽङ्गीकृतौ युधि ॥ १५४ ॥ विषापदोः क्रियाकारे सङ्गरन्तु शमीफले । गह्वरस्तु गृहादम्भनिकुञ्जगहनेष्वपि ॥ १५५ ॥ कर्वरः कथितो व्याघ्रे शिवायामपि कर्वरी । चतुरश्चातुरकवच्चक्रगण्डौ नियन्तरि ॥ १५६ ॥ ;p{0138} एतौ स्यातामुभौ नेत्रगोचरे चाटुकारिणि । ईश्वरो विभवैराढ्ये शम्भौ स्वामिनि मन्मथे ॥ १५७ ॥ पार्वत्यामीश्वरामाहुर्द्वापरः संशये युगे । आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ॥ १५८ ॥ भास्करस्तपने वह्नौ प्रभाकरसमः स्मृतः । पार्परो भक्तसिक्थे स्यात् कीनाशे राजयक्ष्मणि ॥ १५९ ॥ जराटेऽपि कदम्बस्य केशरेऽपि च भस्मनि । शार्वरन्त्वन्धतमसे शार्वरी धातुकेऽन्यवत् ॥ १६० ॥ प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे । शार्करो दुग्धफेणेऽपि शर्करान्वितदेशवत् ॥ १६१ ॥ शार्करो वृषभे छन्दोविशेषे शार्करं मतम् । नागरं मुस्तके शुण्ठ्यां विदग्धे नागरोऽन्यवत् ॥ १६२ ॥ शंसन्ति नगरोद्भूते रतबन्धे च नागरम् । वागरो वारके शाणे निर्झरे वाडवे वृके ॥ १६३ ॥ विशारदे मुमुक्षौ च गवामङ्के च वागरम् । चामरं ग्रावमधुनोः पामरः स्वस्थनीचयोः । वासरो दिवसे रागप्रभेदेऽपि च वासरः ॥ १६४ ॥ कान्तारमुपसर्गादौ वने दुर्गमवर्त्मनि । इक्षुप्रभेदे कान्तारः पादारः पादधूलिषु ॥ १६५ ॥ पादलिङ्गे च मन्दारः पारिभद्रार्कपर्णयोः । सुरद्रुमेऽपि गान्धारः सिन्दूरे रागदेशयोः ॥ १६६ ॥ आधारश्चाऽधिकरणेऽप्यालवालेऽम्बुधारणे । आसारः स्यात् प्रसरणे वेगवर्षे सुहृद्बले ॥ १६७ ॥ केदारः पर्वते शम्भौ क्षेत्रभेदालवालयोः । उदारो दातृमहतोर्दक्षिणेऽप्यभिधेयवत् ॥ १६८ ॥ ;p{0139} मदारो द्विरदे धूर्त्ते विदारो दारणे रणे । विदारी शालपर्ण्याञ्च रोगभेदे भगन्दरे ॥ १६९ ॥ विकारो विकृतौ रोगेऽप्याकारः संस्थिताङ्गयोः । निकारः स्यात् परिभवे धान्यस्योत्किरणेऽपि च ॥ १७० ॥ प्रकारः सदृशे भेदे टङ्कारः षिञ्जिनीध्वनौ । विस्मये च प्रसिद्धौ च दण्डारः शरयन्त्रके ॥ १७१ ॥ कुलालचक्रे वहने दण्डारो मत्तवारणे । पिण्डारः क्षपणक्षेपे महिषीरक्षके द्रुमे ॥ १७२ ॥ तुषारो हिमभेदे च मकरेऽपि हिमेऽपि च । शुनारस्तु शुनीस्तन्ये सर्पाण्डकलविङ्कयोः ॥ १७३ ॥ कुमारो बालके स्कन्दे युवराजेऽश्वचारके । शुके च वरुणद्रौ च कुमारं जात्यकाञ्चने ॥ १७४ ॥ कुमारी रामतरणीनवमाल्योर्नदीभिदि । कन्याऽपराजितागौरीजम्बूद्वीपेषु च स्मृता ॥ १७५ ॥ आहारो भोजने हारे भवेदाहरणेऽपि च । विहारो भ्रमणे स्कन्धे लीलायां सुगतालये ॥ १७६ ॥ कुटारं मैथुने विद्यात् कुटारं केवलेऽपि च । कोट्टारो नागरे कूपे पुष्करिण्याञ्च पाटके ॥ १७७ ॥ कडारः पिङ्गले दासे सम्भारः सम्भृतौ गणे । केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥ १७८ ॥ शङ्करोऽग्निचटत्कारे सम्मार्ज्जन्यवपुञ्जिते । नरदूषितकन्यायां शङ्करा क्वाऽपि दृश्यते ॥ १७९ ॥ पङ्कारः शैवले सेतौ सोपाने जलकुब्जके । संस्कारः प्रतियत्ने स्यात् सङ्कल्पेऽनुभवेऽपि च ॥ १८० ॥ शालारं स्याद्धस्तिनखे सोपाने पक्षिपञ्जरे । ;p{0140} कञ्जारो जठरे सूर्ये विरिञ्चौ वारणे मुनौ ॥ १८१ ॥ मार्जार ओतौ धट्वांशे भृङ्गारः कनकालुके । भृङ्गारी झिल्लिकायां स्यादङ्गारोऽलातभौमयोः ॥ १८२ ॥ शृङ्गारः सुरते नाट्यरसेऽपि गजमण्डने । शृङ्गारं चूर्णसिन्दूरलवङ्गकुसुमेषु च ॥ १८३ ॥ विस्तारो विस्तृतौ स्तम्ब उद्धारश्चोद्धृतावृणे । माठरो द्विजभेदे स्याद्व्यासेऽर्कपारिपार्श्वके ॥ १८४ ॥ शावरः पठ्यते रोध्रे तथा पापापराधयोः । शावरी शूकशिम्ब्याञ्च शारीरं देहजे वृषे ॥ १८५ ॥ करीरः कलत्रे वृक्षभेदे वंशाङ्कुरेऽपि च । करीरी चीरिकायाञ्च दन्तमूले च दन्तिनाम् ॥ १८६ ॥ शणीरं शोणमध्यस्थपुलिने दर्द्दरीतटे । जम्बीरं प्रस्थपुष्पाख्यशाके दन्तशठेऽपि ॥ १८७ ॥ औशीरमाहुश्चमरदण्डे च शयनासने । सौवीरं बदरे स्तोत्राञ्जने देशे च काञ्जिके ॥ १८८ ॥ किर्मीरः कर्बुरे दैत्यराक्षसान्तरयोरपि । काश्मीरं कुङ्कुमे प्रोक्तं टङ्कपुष्करमूलयोः ॥ १८९ ॥ पाटीरो वार्तिके रङ्गे मूलके तितउन्यपि । धाराधरेऽपि केदारे वेणुसारेऽपि चेष्यते ॥ १९० ॥ अण्डीरः पुरुषे शक्ते हिण्डीरः पुरुषे स्मृतः । फेणे वातिङ्गणे चापि धूसरः पाण्डुरे खरे ॥ १९१ ॥ कूबरः कुब्जके चारौ कूबरश्च युगन्धरे । रूबरोऽश्मश्रुपुरुषे प्रौढाशृङ्गवृषेऽपि च ॥ १९२ ॥ स्यान्नीवरो वाणिजके वास्तव्येऽपि च नीवरः । पीवरः कच्छपे स्थूले धीवरो लुब्धके बुधे ॥ १९३ ॥ ;p{0141} केशरं हिङ्गुनि प्रोक्तं केशरो नागकेशरे । सिंहच्छटायां पुन्नागकिञ्जल्कवकुलेष्वपि ॥ १९४ ॥ किशोरस्तरुणावस्थे हयशावकसूर्ययोः । तैलायन्यां कुबेरस्तु नन्दीवृक्षे धनाधिपे ॥ १९५ ॥ कणेरुः स्याद्वशावेश्याकर्णिकारे गणेरुवत् । कैटीरुः शक्रगोपे च शक्रे च नकुलेऽपि च ॥ १९६ ॥ अगुरुः स्याच्छिंशपायां जोङ्गकेऽपि लघुन्यपि । किंशारुः सस्यशूकेऽपि विशिखे कङ्कपक्षिणि ॥ १९७ ॥ भार्यारुः शैलभेदे स्यान्मृगभेदे च तत्र च । क्रीडायां परभार्यायां पुत्रो येनोपपादितः ॥ १९८ ॥ कुठारुः पादपे कीशे कटप्रूः स्यान्महानटे । विद्याधरे रक्षसि च कटप्रूरक्षदेवने ॥ १९९ ॥ दासेरो दासिकापुत्रे दासेरः स्यात् क्रमेलके । मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि ॥ २०० ॥ खर्ज्जूरं रजते विद्यावृश्चिकद्रुमभेदयोः । खर्ज्जूरश्चाऽथ कर्च्चूरं शटीकाञ्चनयोर्मतम् ॥ २०१ ॥ सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके । सिन्दूरी रोचनीरक्तचेलिकाधातकीषु च ॥ २०२ ॥ वल्लूरं स्याद्वनक्षेत्रे वाहनोषरयोरपि । वल्लूरमाहुः संशुष्कमांसशूकरमांसयोः ॥ २०३ ॥ एकाग्रमेकताने स्यादेकाग्रञ्चाप्यऽनाकुले । नरेन्द्रो वार्त्तिके राज्ञि विषवैद्येऽपि कथ्यते ॥ २०४ ॥ महेन्द्रः पर्वते शक्रे जलेन्द्रो वरुणेऽम्बुधौ । जम्भलेऽपि जलेन्द्रः स्यात् सामुद्रं देहलक्षणे ॥ २०५ ॥ सामुद्रञ्च समुद्रीयलवणादिषु भेद्यवत् । ;p{0142} खण्डाभ्रमभ्रलेशे स्यात् स्त्रीणां दन्तक्षतान्तरे ॥ २०६ ॥ कटित्रं रसनायां स्याच्चर्माङ्गे कटिवाससि । शिलीन्ध्रं कदलीपुष्पे करकत्रिपुटाख्ययोः ॥ २०७ ॥ शिलीन्ध्रः कथितो धीरैस्तङ्गमीनप्रभेदयोः । मृदा गण्डूपदी प्रोक्ता शिलीन्ध्री विहगीभिदि ॥ २०८ ॥ तमिस्रं तिमिरे कोपे तमिस्रा च तमस्ततौ । कृष्णपक्षनिशायाञ्च त्वक्पत्रन्तु वराङ्गके ॥ २०९ ॥ त्वक्पत्रीति च कारव्यां कलत्रं श्रोणिभार्ययोः । दुर्गस्थाने नृपादीनां पवित्रं वर्षणे कुशे ॥ २१० ॥ पवित्रं ताम्रपयसोर्मेध्ये चाऽपि तदन्यवत् । सावित्रः शङ्करे प्रोक्तः सावित्री देवतान्तरे ॥ २११ ॥ दैत्यारिस्त्रिदशे विष्णौ तित्तिरिर्विहगे मुनौ । शाङ्करिर्विघ्नहे स्कन्दे जैमुरिः पावके पवौ ॥ २१२ ॥ मन्दुरा वाजिशालायां समीपार्थे च वस्तुनि । उर्वरा सर्वसस्याढ्यभूमौ स्याद् मूमिमात्रके ॥ २१३ ॥ असुरा रजनीवास्योरसुरो दानवे रवौ । वासुरा वासितायां स्याद्वासितेय्यां मता भुवि ॥ २१४ ॥ मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरमसुरौ च द्वावेतावप्येतयोर्मतौ ॥ २१५ ॥ शर्करा खण्डविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशे च रुग्भेदे सकलेऽपि च ॥ २१६ ॥ कच्छुरा शूकशिम्ब्याञ्च शटीदुःस्पर्शयोरपि । कच्छुरं वाच्यवत् प्राहुः पामरे पुंश्चलेऽपि च ॥ २१७ ॥ मर्मरा तु दरीभाण्डमुररानिकुलासु च । गायत्री कथिता छन्दःप्रभेदे खदिरेऽपि च ॥ २१८ ॥ ;p{0143} सैरिन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् । वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ॥ २१९ ॥ खदिरी शाकभेदे स्यात् खदिरो दन्तधावने । सुन्दरी स्त्रीतरुभिदोः शर्वरी रात्रियोषितोः ॥ २२० ॥ हरिद्रायाञ्च कवरी केशशाकविशेषयोः । कवरं लवणेऽम्ले च तुम्बरी शरमर्द्दयोः ॥ २२१ ॥ मञ्जरी वल्लरीस्थूलमुक्तातिलकशाखिषु । मर्म्मरी पीतदारौ स्याद्वस्त्रभेदे च मर्मरः ॥ २२२ ॥ टट्टरी स्यान्मृषावादे लम्पापटहवाद्ययोः । शक्वरा मेखलानद्योश्छन्दोभेदेऽपि शक्वरी ॥ २२३ ॥ सल्लरी सिल्लरी च द्वे हुडुके चारचक्रके । कावेरी स्यात् सरिद्भेदे पण्यनारीहरिद्रयोः ॥ २२४ ॥ ;vv{रचतुष्कम्} भवेत् परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि ॥ २२५ ॥ व्यतिकरः समाख्यातो व्यसनव्यतिषङ्गयोः । विभाकरोऽग्नौ तपनेऽवस्करो गूथगुह्ययोः ॥ २२६ ॥ कर्म्मकरस्तु कीनाशे भृत्ये वेतनजीविनि । कर्मकरी तु मूर्वायां बिम्बिकायमपि क्वचित् ॥ २२७ ॥ अरुष्कारो व्रणकृति भल्लाते चाप्यरुष्करम् । भवेत् सहचरो झिण्ट्यां वयस्यं प्रतिबिम्बके ॥ २२८ ॥ निशाचरः पेचकाहियातुधानेषु फेरवे । निशाचरी पंसुलायां भवेत् पक्षचरो विधौ ॥ २२९ ॥ यूथभ्रष्टपृथक्चारी वारणेऽपि प्रकीर्त्तितः । चराचरं स्याज्जगति वाच्यवज्जङ्गमेङ्गयोः ॥ २३० ॥ ;p{0144} विदुर्दशपुरं देशे मुस्तायां पत्तनेऽपि च । अभिमरो वधे युद्धे तथा स्वबलसाध्वसे ॥ २३१ ॥ आहुः प्रतिसरं हस्तसूत्रे माल्येऽपि मण्डने । व्रणशुद्धौ चमूपृष्टे नियोज्यारक्षकङ्कणे ॥ २३२ ॥ मन्त्रभेदेऽप्यवसरो वर्षप्रस्तावयोरपि । स्मृतः परिसरो मृत्यौ दैवोपान्त्यप्रदेशयोः ॥ २३३ ॥ दिगम्बरः स्यात् क्षपणे नग्ने तपसि शङ्करे । पीताम्बरः पद्मनाभे भवेत् पीताम्बरो नटे ॥ २३४ ॥ कादम्बरन्तु दध्यग्रे मद्यभेदे च शीधुनि । कादम्बरी परभृताभारतीशारिकासु च ॥ २३५ ॥ उदुम्बरस्तु देहल्यां वृक्षजातौ च पण्डके । उदुम्बरं स्मृतं ताम्रे कुष्टभेदेऽप्युदुम्बरः ॥ २३६ ॥ औदुम्बरः श्राद्धदेवे रोगभेदे च कथ्यते । नीलाम्बरः प्रलम्बघ्ने कौणपे क्रूरलोचने ॥ २३७ ॥ आडम्बरः समारम्भे गजगज्जिततूर्ययोः । निषद्वरस्तु जम्बाले निशायाञ्च निषद्वरी ॥ २३८ ॥ उपह्वरं समीपे स्यादेकान्ते चाऽप्युपह्वरम् । इन्दीवरं कुवलये वर्य्यामिन्दीवरी मता ॥ २३९ ॥ कारञ्जरो योगिचक्रे मेलके भैरवे गिरौ । कारञ्जरोऽच्युते शक्रे भवेद्विश्वम्भरा भुवि ॥ २४० ॥ दुरोदसे द्यूतकरे पणे द्यूते दुरोदरम् । लम्बोदरः स्यादुद्ध्माते गणानामधिपेऽपि च ॥ २४१ ॥ अनुत्तरः स्मृतः श्रेष्ठे प्रतिजल्पविवर्ज्जिते । तुलाधरस्तुलाराशौ भवेद्वाणिजकेऽपि च ॥ २४२ ॥ भवेत्तोयधरो मेघे सुनिषण्णौषधेऽपि च । ;p{0145} धुरन्धरो धवतरौ धूर्वहेऽपि घुरन्धरः ॥ २४३ ॥ चक्रघरो हरौ सर्पे वाच्यवद्ग्रामजालिनि । अश्वतरो वेसरे च नागराजान्तरेऽपि च ॥ २४४ ॥ विदुर्वीरतरं श्रेष्ठे शरवीरणयोरपि । नभश्चरो घने वाते विद्याघरविहङ्गयोः ॥ २४५ ॥ उद्दन्तुरः स्यादुत्तुङ्गे करालोत्कटदन्तयोः । द्वैमातुरो जरासन्धवारणाननयोर्मतः ॥ २४६ ॥ परम्परं प्रपौत्रादौ मृगभेदे परम्परः । परम्परा परीपाट्यां सन्तानेऽपि वधे क्वचित् ॥ २४७ ॥ धराधरः क्ष्माभृति चक्रपाणौ धाराधरस्तोयधरे कृपाणे । पयोधरः स्यात् कुचकोषकार- कसेरुकाम्भोधरनारिकेले ॥ २४८ ॥ कलिकारः करञ्जे स्याद् धूम्याटे पीतमस्तके । अलङ्कारस्तूपमादौ हारकेयूरकादिषु ॥ २४९ ॥ कर्णिकारश्च सम्पाके कर्णिकारो द्रुमोत्पले । रथकारस्तु माहिष्ये करणीजे च तक्षणि ॥ २५० ॥ चर्मकारः स्मृतः पादुकृति चर्म्मकषौषधे । चर्मकारी च कथिता प्रतिकरः समे भटे ॥ २५१ ॥ घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे । कृष्णसारः स्नुहीवृक्षे शिंशपामृगभेदयोः ॥ २५२ ॥ गिरिसारो भवेल्लोहे लिङ्गे मलयपर्वते । पीतसारो मलयजे गोमेदकमणावपि ॥ २५३ ॥ शालसारो द्रुमे हिङ्गौ सूत्रधारः शचीपतौ । नाट्यानन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः ॥ २५४ ॥ ;p{0146} दण्डधारो यमे भूपे सम्प्रहारो रणे गतौ । प्रतीहारप्रतीहार्यौ द्वाःस्थे द्वारेऽप्यनन्तरे ॥ २५५ ॥ अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च । व्यवहारो द्रुभेदे स्याद्व्यवहारः पणे स्थितौ ॥ २५६ ॥ अवहारः स्मृतश्चौरे द्यूतयुद्धादिविश्रमे । निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ २५७ ॥ परिवारः परिजने खड्गकोषे परिच्छदे । पारावारः समुद्रे च पारावारं तटद्वये ॥ २५८ ॥ अवतारोऽवतरणपुष्करिण्यादितीर्थयोः । अकूपारः समुद्रेऽपि कूर्मराजेऽपि कीर्त्तितः ॥ २५९ ॥ शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते । सुकुमारश्च पुण्ड्रेक्षौ कोमले त्वऽभिधेयवत् ॥ २६० ॥ धुन्धुमारः शक्रगोपे गृहधूमे पदालिके । कर्णपूरोऽवतंसे स्यान्नीलोत्पलशिरीषयोः ॥ २६१ ॥ करवीरः कृपाणे स्याद्दैत्यभेदाश्वमारयोः । श्रेष्ठगव्यां पुत्रवत्यामदितौ करवीर्यऽपि ॥ २६२ ॥ महावीरः पवौ तार्श्वे शूरे सिंहेऽपि कोकिले । मखानले च कर्के च महावीरो जराटके ॥ २६३ ॥ आत्मवीरः प्राणवति श्यालपुत्रे विदूषके । चार्वटीरस्त्रपावाम्रास्थ्न्यङ्कुरे गणिकासुते ॥ २६४ ॥ चित्रटीरो विधौ भालमङ्कितं येन तत् रच । घण्टाकर्णोपहाराय हतच्छागास्रबिन्दुभिः ॥ २६५ ॥ पात्रटीरो बुधैरुक्तो मुक्तव्यापारमन्त्रिणि । लोहकांस्ये जरत्पात्रे प्रमाणे पावकेऽपि च ॥ २६६ ॥ धाराङ्कुरः सुनासीरे शीकरेऽपि घनोपले । ;p{0147} समुद्रारुः स्मृतो ग्राहे सेतुबन्धे तिमिङ्गिले ॥ २६७ ॥ विश्वकद्रुः खले ध्वाने स्यादाखेटिककुक्कुरे । असिपत्रो भवेत् कोषकारे च नरकान्तरे ॥ २६८ ॥ शतपत्रो राजकीरे दार्वाघाटमयूरयोः । राजीवे शतपत्रन्तु वातपुत्रो हनूमति ॥ २६९ ॥ महाधूर्त्ते च भीमे च लक्ष्मीपुत्रः स्मरे हये । पूर्णपात्रं वस्तुपूर्णपात्रे वर्द्धापकेऽपि च ॥ २७० ॥ महामात्रः समृद्धेऽग्रमात्ये हस्तिपकाधिपे । बिन्दुतन्त्रं विदुः शारिफलके चतुरङ्गके ॥ २७१ ॥ रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि दृश्यते । तालपत्रन्तु ताटङ्के रण्डायां तालपत्र्यपि ॥ २७२ ॥ अग्निहोत्रोऽग्निहविषोर्वीतिहोत्रोऽनलार्क्कयोः । वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे ॥ २७३ ॥ पारिभद्रस्तु मन्दारनिम्बपादपयोर्मतः । बलभद्रो रौहिणेये त्रायमाणौषधावपि ॥ २७४ ॥ बलभद्रा कुमार्यां स्यादर्द्धचन्द्रस्तु चन्द्रके । गलहस्ते बाणभेदेऽप्यर्द्धचन्द्रा त्रिवृद्भिदि ॥ २७५ ॥ धार्त्तराष्ट्रोऽसितास्याङ्घ्रिहंसकौरवभोगिषु । धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः ॥ २७६ ॥ धृतराष्ट्री हंसपन्त्यां स्थिरदंष्ट्रो भुजङ्गमे । वराहाकृतिविष्णौ च वक्त्रनक्रः शुके खले ॥ २७७ ॥ कटम्भरा प्रसारण्यां रोहिण्यां गजयोपषिति । कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ॥ २७८ ॥ मणिच्छिद्रा तु मेदायामृषभाख्यौषधेऽपि च । तुङ्गभद्रा नदीभेदे तुङ्गभद्रो मदोत्कटे ॥ २७९ ॥ ;p{0148} दण्डयात्रा दिग्विजये सन्दानवरयात्रयोः । देहयात्रा भोजने स्यात् कृतान्तागमनेऽपि च ॥ २८० ॥ विभावरी हरिद्रायां रजन्याञ्च विभावरी । विवादे वस्त्रकुट्याञ्च कुट्टन्यां चक्रयोषिति ॥ २८१ ॥ कुम्भकारी कुलाल्यां स्यात् कुम्भकारः कुलालके । तुण्डिकेरी तु कार्पास्यां बिम्बिकायामपीष्यते ॥ २८२ ॥ ;vv{रपञ्चकम्} पांशुसञ्चार इत्येष दूर्वाञ्चिततटीभुवि । वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके ॥ २८३ ॥ स्यात् पादचत्वरश्छागे सैकते पिप्पलेऽपि च । विप्रतीसारमिच्छन्ति कौकृत्येऽनुशये रुषि ॥ २८४ ॥ समभिहारो भृशत्वे पौनःपुन्येऽपि कथ्यते । करके परदोषैकभाजि पूरुषकेऽपि च ॥ २८५ ॥ गीतकावेरमिच्छन्ति पित्तले कुङ्कुमेऽपि च । तालीशपत्रं तालीशे तामलक्यामपि स्मृतम् ॥ २८६ ॥ भवेदुत्पलपत्रन्तु तद्दले स्त्रीनखक्षते । तमालपत्रं तापिञ्जे तिलके पत्रकेऽपि च ॥ २८७ ॥ सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बेऽपि सर्वतोभद्रा गम्भारीनटयोषितोः ॥ २८८ ॥ वस्वौकसारा श्रीदस्य शक्रस्य नलिनीपुरोः । भवेत् कपिलधाराख्या स्वर्नदीतीर्थभेदयोः ॥ २८९ ॥ ;c{इति रान्तवर्गः ॥} ;v{लान्तवर्गः} ;vv{लद्विकम्} बलं गन्धरसे रूपे स्थामनि स्थौल्पसैन्ययोः । ;p{0149} बलो हलायुधे दैत्यभेदे बलिनि वायसे ॥ १ ॥ वाट्यालके बला तूक्ता पलञ्चोन्मानमांसयोः । फलं हेतुसमुत्थे स्यात् फलके व्युष्टिलाभयोः ॥ २ ॥ जातीफलेऽपि कक्कोले सस्यवाणाग्रयोरपि । फलिन्यान्तु फलं प्राहुस्त्रिफलायां फलं क्वचित् ॥ ३ ॥ जलं गोकवले नीरे ह्रीवेरे च जडेऽन्यवत् । खलं भूस्थानकल्केषु क्रूरे नीचेऽधमे खलः ॥ ४ ॥ गलः सर्ज्जरसे कण्ठे चलः कम्पे चलाश्रये । दलं शस्त्री छदोत्सेधतद्द्रव्ये खण्डपर्णयोः ॥ ५ ॥ नलः पोटगले राज्ञि पितृदेवे कपीश्वरे । नली मनःशिलायान्तु मलिने तु नलं मतम् ॥ ६ ॥ तलं स्वरूपाधरयोः खड्गमुष्टिचपेटयोः । ज्याघातवारणेऽपि स्यात्तलस्तालतरावपि ॥ ७ ॥ मलं किट्टे पुरीषे च पापे च कृपणे मलः । शलन्तु शल्लकीलोम्नि शलो भृङ्गे गणे विधौ ॥ ८ ॥ खिलं भवेदप्रहते सारसंक्षिप्तवेधसोः । बिलं छिद्रे गुहायाञ्च बिल उच्चैःश्रवोहये ॥ ९ ॥ बलन्तु स्खलिते व्याजे पुलन्तु पुलिनेऽन्यवत् । पुलः स्यात् पुलके चाऽपि कुलं जनपदे गृहे ॥ १० ॥ सजातीयगणे गोत्रे देहेऽपि कथितं कुलम् । कालो मृत्यौ महाकाले समये यमकृष्णयोः ॥ ११ ॥ कृष्णत्रिवृत्तौ काला तु नीलीमञ्जिष्ठयोरपि । काली गौर्य्यां क्षीरकीटे कालिकामातृभेदयोः ॥ १२ ॥ नवाम्बुवाहवृन्देऽपि परिवादेऽपि च क्वचित् । भालं ललाटमहसोर्गालः स्कन्दमहीरुहोः ॥ १३ ॥ ;p{0150} शालो हालनृपे मत्स्यप्रभेदे सर्ज्जपादपे । शाला गृहे तरुस्कन्धशाखागारैकदेशयोः ॥ १४ ॥ मालं क्षेत्रे गृहे माली माला पुष्पादिदामनि । सालः पादपमात्रं स्यात् प्राकारे शङ्कुकद्रुमे ॥ १५ ॥ तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते । गीराकालक्रियामाने तालः खड्गादिमुष्टिषु ॥ १६ ॥ द्रुमभेदे करास्फाले तालन्तु हरितालके । वाद्यभाण्डे च कांस्यस्य तालश्छदिषि कम्पने ॥ १७ ॥ जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः । जालो .नीपद्रुमे जाली कोषातक्यामुदाहृता ॥ १८ ॥ व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि । नालं दण्डे सरोजस्य नाली शाककलम्बके ॥ १९ ॥ स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः । फालं शिरोपकरणे कार्पासादिकवाससि ॥ २० ॥ बालः कचे शिशौ मूर्खे ह्रीवेरे श्वेभपुच्छयोः । अलङ्कारान्तरे मेध्ये वाली वाला त्रुटिस्त्रियोः ॥ २१ ॥ चेलो नीचेऽन्यवच्चेलमंशुके गर्हितेऽन्यवत् । भेलः प्लवे भीरुके च निर्बुद्धिमुनिभेदयोः ॥ २२ ॥ कौलोऽङ्कपालावृत्सङ्गे भेलके पोत्रिचित्रयोः । कोला कणायां चव्ये च कोलन्तु बदरीफले ॥ २३ ॥ शैलो भूभृति शैलन्तु शैलेये तार्क्ष्यशैलके । शीलं स्वभावे सद्वृत्ते नीलः कृष्णे नगान्तरे ॥ २४ ॥ नीलः कपीश्वरे नीली वृक्षलाञ्छनभेदयोः । कूलं स्तूपे तडागे च सैन्यपृष्ठप्रतीरयोः ॥ २५ ॥ कूलः पिचौ भवेत् कूलं ब्रह्मदारुविहायसोः । ;p{0151} मूलमाद्ये शिफायां स्याद्भनिकुञ्जान्तिकेषु च ॥ २६ ॥ शूलं प्रहरणे मृत्यौ केतने रोगयोगयोः । शूला दुष्टवधार्थाय कीलके पण्ययोषिति ॥ २७ ॥ स्थूलं स्यात् पीवरे कूटे निष्प्रज्ञे पुनरन्यवत् । अम्लो रसप्रभेदे स्यादाम्ली चाङ्गेरिकौषधौ ॥ २८ ॥ शुक्लो योगान्तरे श्वेते शुक्लञ्च रजते मतम् । मल्लः पात्रे कपाले च मत्स्यभेदे बलीयसि ॥ २९ ॥ भल्लो भल्ली च बाणे स्याद्भल्लो भल्लुक इष्यते । भल्लातक्यान्तु भल्ली स्यादोल्लश्चार्द्रे च शूरणे ॥ ३० ॥ चुल्लचिल्लौ मतौ क्लिन्ने नेत्रे क्लिन्नाक्ष्णि पिल्लवत् । आतापिनि भवेच्चिल्लश्चिल्ली स्याद्गौडवास्तुके ॥ ३१ ॥ चुल्ली चितायामुद्वाने क्वचिद्वाद्येऽप्युदीरिता । बली वीरुधि सन्ताने वल्कले कुमुमाम्बरे ॥ ३२ ॥ खल्ली तु हस्तपादावमर्द्दनाख्यरुजि स्मृता । खल्लो वस्त्रप्रभेदे स्यान्निम्ने चर्मणि चातके ॥ ३३ ॥ आलुर्गलन्तिकायां स्यात् कन्दभेदे च भेलके । पीलुर्गजे द्रुमे काण्डे परमाणुप्रसूनयोः ॥ ३४ ॥ पीलुस्तालास्थिखण्डे च मालुः पत्रलतास्त्रियोः । शालुः कषायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥ ३५ ॥ वलिश्चामरदश्वे च जरया श्लथचर्मणि । उदरावयवे दैत्ये करपूजोपहारयोः ॥ ३६ ॥ गृहदारुविशेषे च गन्धकेऽपि क्वचिन्मतः । दोला यानान्तरे नील्यां मेला स्यान्मेलके मुनौ ॥ ३७ ॥ इला कलत्रे सौम्यस्य धरित्र्यां गवि वाचि च । कीलः कफोणौ निर्घाते शङ्काज्वाले तु कीलवत् ॥ ३८ ॥ ;p{0152} शिला कुनद्यां दृषदि द्वाराधःस्थितदारुणि । शिलं शिली भवेदुञ्छे गण्डूपद्यां यथाक्रमम् ॥ ३९ ॥ तुला पलशते राशौ भाण्डे स्याद् दृश्यमानयोः । गृहाणां दारुबद्धायां पीठिकायामपीष्यते ॥ ४० ॥ वेला काले च जलधेस्तीरनीरविकारयोः । अक्लिष्टमरणे रागे सीम्नि वाचि बुधस्त्रियाम् ॥ ४१ ॥ भोजनेऽपीश्वराणां स्याज्झला दुहुतरि स्मृता । आतपोर्मीषु लुकायां झाली क्वापि विलोक्यते ॥ ४२ ॥ कला स्यान्मूलविवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालयोः कला ॥ ४३ ॥ कलं शुक्रे कलो जीर्णेऽप्यव्यक्तमधुरध्वनौ । लोला जिह्वाकमलयोर्लोलस्व्ह्चलसतृष्णयोः ॥ ४४ ॥ लीलां विदुः केलिविलासखेला- शृङ्गारभावप्रभवक्रियासु । हेलामवज्ञानविलासयोश्च हाला सुरायां नृपतौ च हालः ॥ ४५ ॥ गोला सखीवर्त्तुलयोर्गोलं लक्ष्यानुसारतः । पत्राञ्जने कुनद्याञ्च गोदावर्याञ्च मण्डले ॥ ४६ ॥ अलिः सुरापुष्पलिहोरालिस्तु विशदाशये । आलिः पङ्क्तौ च सख्याञ्च सेतौ च परिकीर्तिता ॥ ४७ ॥ कलिः स्यात् कलहे शूरे कलिरन्त्ययुगे युधि । धूलिः सङ्ख्यान्तरे रेणौ डुलिस्तु कमठे मुनौ ॥ ४८ ॥ मौलिः किरीटे धम्मिले कङ्केलिद्रुमचूडयोः । शालिस्तु गन्धमार्ज्जारे कलमादिषु च स्मृतः ॥ ४९ ॥ पालिः कर्णलताग्रेऽश्रौ पङ्क्तावङ्कप्रदेशयोः । ;p{0153} पालिः प्रस्ते च यूकायां जातश्मश्रुस्त्रियामपि ॥ ५० ॥ झिल्ली स्यादातपरुषि वर्त्त्यामुद्वर्त्तनांशुके । वल्ली स्यादजमोदायां पुष्पभेदेऽपि वीरुधि ॥ ५१ ॥ पल्ली कुटीग्रामकयोः पल्लः स्थूलकुशूलके । तल्ली तरुण्यां तल्लस्तु जलाधारान्तरेऽपि च ॥ ५२ ॥ ;vv{लत्रिकम्} कमलं सलिले ताम्रे जलजे लोम्नि भेषजे । मृगभेदे च कमलः कमला श्रीवरस्त्रियोः ॥ ५३ ॥ चपलः पारदे मीने चौरके प्रस्तरान्तरे । चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च ॥ ५४ ॥ चपलं क्षणिके शीघ्रे चपलश्चिकुरे चले । उपलः प्रस्तरे रजे शर्करायां स्मृतोपला ॥ ५५ ॥ उत्पलं मांसशूल्ये स्यात् कुष्ठेन्दीवरयोरपि । अनलो वासुदेवेऽग्नावनलो वसुवातयोः ॥ ५६ ॥ शकलं त्वचि खण्डे स्याद्रागवस्तुनि वल्कले । गरलन्तु विषे माने गरलं तृणपूलके ॥ ५७ ॥ तरलश्चञ्चले षिङ्गे हारमध्यमणावऽपि । भासुरे चाऽथ तरला यवागुसुरयोर्मता ॥ ५८ ॥ सरलः पूतिकाष्ठे स्यादुदारावक्रयोरपि । कपिलो मुनिभेदे स्याद् वासुदेवे च पावके ॥ ५९ ॥ कपिला शिंशपायाञ्च रेणुकागोविशेषयोः । पुण्डरीककरिण्याञ्च पिङ्गे तु कपिलोऽन्यवत् ॥ ६० ॥ पललं तिलचूर्णे स्यात् पललं पङ्कमांसयोः । पललो यातुधाने स्यात् पटलं छदिषि व्रजे ॥ ६१ ॥ पिटके नेत्ररोगे च तिलके परिच्छदे । ;p{0154} जगलः पिष्टमद्ये च मेदके मदनद्रुमे ॥ ६२ ॥ कितवे छगलश्छागे छगली छागमातरि । वृद्धदारकभेषज्ये छगलं नीलवाससि ॥ ६३ ॥ पिप्पलो बोधिवृक्षे स्यात् पतिभेदे निरङ्गुले । पिप्पलं वसनच्छेदे भेदेऽपि सलिले मतम् ॥ ६४ ॥ कणायां पिप्पली चोक्ता धवलः सुन्दरे सिते । महोक्षे चाऽथ धवली सौरभेय्यामुदीरिता ॥ ६५ ॥ कुवलञ्चोत्पले मुक्ताफलेऽपि बदरीफले । कुशलः शिक्षिते क्षेमपर्याप्तिसुकृतेषु च ॥ ६६ ॥ कुशलं मुषलं तु स्यादयोऽग्रे मुषली मता । तालमूल्यामासुपर्णी गृहगोधिकयोरपि ॥ ६७ ॥ निचुलो हिज्जलतरौ निचुलश्च निचोलके । पिचुलो झावुकेऽपि स्याद् हिज्जले जलवायसे ॥ ६८ ॥ विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे । तुमुलः कलिवृक्षे स्यात्तुमुलं रणसङ्कुले ॥ ६९ ॥ बहुलः कृष्णपक्षेऽग्नौ शितौ च बहुला गवि । एलायां नीलिकायाञ्च बहुला कृत्तिकासु च ॥ ७० ॥ बहुलं प्राज्यनभसोर्मातुलो मदनद्रुमे । मातृभ्रातरि धुत्तूरे व्रीहिभेदेऽपि मातुलः ॥ ७१ ॥ कुटिलं वाच्यवद् भुग्ने कुटिला सरिदन्तरे । जटिलस्तु जटायुक्ते जटिला मांसिकौषघौ ॥ ७२ ॥ सुतलप्रतलौ चेति पातालभुवनद्वये । स्यातामट्टालिकाबन्धे तताङ्गुलिकरे क्रमात् ॥ ७३ ॥ पित्तलं तैजसद्रव्ये पित्तलः पित्तसङ्गते । पित्तला तोयपिप्पल्पां निस्तलं वर्तुले चले । ;p{0155} कुन्तलः स्याद्यवे देशे केशलाङ्गलयोगपि ॥ ७४ ॥ कम्बलो नागराजे स्यात सास्नाप्रावारयोः कृमौ । कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् ॥ ७५ ॥ शम्बलं कुलपाथेयमत्सरेषु समीरितम् । कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे ॥ ७६ ॥ कलध्वनौ कन्दली तु मृगपक्षिविशेषयोः । पिङ्गलः स्यान्मुनौ रुद्रे चण्डांशोः पारिपाश्वके ॥ ७७ ॥ निधिभेदे कपावग्नौ पिङ्गलः कपिलेऽन्यवत । करायिकायां वेश्यायां पिङ्गला कुमुदस्त्रियाम् ॥ ७८ ॥ जङ्गलो जलनिर्मुक्तदेशे मांसे च जङ्गलम् । मङ्गलं श्रेयसि श्वेतदूर्वायामपि मङ्गला ॥ ७९ ॥ सर्वार्थलक्षणे चापि मङ्गलं समुदीरितम् । कुण्डलं वलये पाशे कुण्डलं कर्णपूरणे । गुडूच्यां काञ्चनादौ च कुण्डली समुदीरिता ॥ ८० ॥ स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजङ्गभेदे शुनि मण्डलः स्यात् ॥ ८१ ॥ स्यादर्गलन्तु कल्लोले दण्डे चान्तःकपाटयोः । निर्मलं विमले विद्यान्निर्म्माल्याभ्रकयोरपि ॥ ८२ ॥ शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि । पांशुलः पुंश्चले शम्भोः खट्वाङ्गे पांशुला भुवि ॥ ८३ ॥ सङ्कुलं वाच्यवद्व्याप्तेऽविस्पष्टार्थवचस्यपि । उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ॥ ८४ ॥ ;p{0156} वञ्जुलो वेतसाशोकतिनिशेष्वऽथ मञ्जुलम् । निकुञ्जे शैवले मञ्जौ जलरङ्कौ तु मञ्जुला ॥ ८५ ॥ पिञ्जलन्तु हरिद्राभे कुशपत्रेऽपि पिञ्जलम् । पुद्गलः सुन्दराकारे पुद्गलश्चात्मदेहयोः । जम्भलो देवताभेदे जम्बीरेऽपि च जम्भलः ॥ ८६ ॥ कुम्भिलः श्यालके चौरे श्लोकच्छायाहरे झषे । चन्द्रिलो नापिते ख्यातो हरवास्तुकशाकयोः ॥ ८७ ॥ ग्रन्थिलो ग्रन्थिसहिते करीरद्रौ विकङ्कते । वामिलो दाम्भिके यामे रामिलो रमणे स्मरे ॥ ८८ ॥ वार्द्दल दुर्दिने मेलानन्दायामपि वार्द्दलः । तण्डुलाख्या विडङ्गे स्याद्धान्यादिनिकरेऽपि च ॥ ८९ ॥ वृषलः कथितः शूद्रे चन्द्रगुप्ते च वाजिनि । निष्कलस्तु कलाशून्ये नष्टबीजे तु वाच्यवत् ॥ ९० ॥ पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे । पाचलो राधनद्रव्येऽप्यनिलानलयोरपि ॥ ९१ ॥ माचलो वन्दिचौरे स्याद्ग्राहे रक्षसि चाऽमये । पाटलः श्वेतरक्ते स्यादाशुव्रीहौ च पाटलः ॥ ९२ ॥ पाटली पाटलाऽपि स्यादस्याः पुष्पेऽपि पाटलम् । लोहलः शृङ्खलाधार्ये भवेदव्यक्तवाचि च ॥ ९३ ॥ कोहलो मद्यभेदे स्यात् कोहलः स्यान्मुनावऽपि । तैतिलो गण्डके प्रोक्तस्तैतिलं करणान्तरे ॥ ९४ ॥ हेमलः स्वर्णकारे स्यात् कृकलासे शिलान्तरे । श्यामलो मेचेकेऽश्वत्ये कोमलो मृदुले दले ॥ ९५ ॥ कामलः कामुके रोगे मरुदेशवसन्तयोः । पेशलो रुचिरे दक्षे गोकिलो मुषले हले ॥ ९६ ॥ ;p{0157} गौरिलो लोहचूर्णे स्याद्गौरिलो गौरसर्षपे । फेनिलः स्यादरिष्टे च फेनिलं बदरीफले ॥ ९७ ॥ मदनस्य फले चाऽथ वाच्यवत फेनवन्यपि । शावलाख्या तु शैवाले शैलेयेऽपि च शावलम् ॥ ९८ ॥ शैवलं पद्मकाष्ठे च शैवलञ्च जलाञ्चले । शीतलं पुष्पकासीसे शैलजे मलयोद्भवे ॥ ९९ ॥ भवेदासनपर्ण्याञ्च शीतलः शिशिरेऽन्यवत् । कल्लोलो हर्ष उल्लोले कल्लोलः परिपन्थिनि ॥ १०० ॥ पटोलमोषधीवस्त्रभिदोर्ज्योत्स्न्यां पटोल्यऽपि । काकोली विषभेदे स्याद्द्रोणकाककुलालयोः ॥ १०१ ॥ तमालस्तिलके खड्गेरे तापिञ्छे वरुणद्रुमे । सुवेलः प्रणते शान्ते सुवेलः पर्वतान्तरे ॥ १०२ ॥ अवेलस्त्वपलापे स्यादवेला पूगचूर्णके । कपालं शिरसोऽस्थ्नि स्याद् घटादिशकले व्रजे ॥ १०३ ॥ कुष्ठरोगविशेषे च गोपालो गोपभूपयोः । किट्टालस्ताम्रकलशे किट्टालो लोहगूथके ॥ १०४ ॥ पातालं नागलोके स्यात् पातालं वडवानले । प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ १०५ ॥ अराल कुटिले सर्ज्जरसे समददन्तिनि । करालो दन्तुरे तुङ्गे करालञ्च कुठेरके ॥ १०६ ॥ करालोद्धूनतैलेऽपि करालो भीषणेऽन्यवत् । शृगालो जम्बुके दैत्ये शृगाली डमरे विदुः ॥ १०७ ॥ कुलालः कुम्भकारे स्यात् कुक्कुभे कौशिकेऽपि च । कुद्दालो युगपत्रे स्यात् कुद्दालो भूमिदारणे ॥ १०८ ॥ विडालो नेत्रपिण्डे स्याद्विडालोऽपि खगान्तरे । ;p{0158} विडाली पूतनाभेदे लताघूकेऽपि शस्यते । जम्बालं शैवले पङ्के कीलालं रुधिरे जले ॥ १०९ ॥ वण्ठीलं शूरयोर्युद्धे नौकायाश्च खनित्रके । आभीलञ्चाऽपि कृच्छ्रे स्यादाभीलश्च भयानके ॥ ११० ॥ नाभीलं नाभिगर्भाण्डे वङ्क्षणे प्रोक्तमस्त्रियाः । उत्फुल्लः करणे स्त्रीणामुत्ताले च विकस्वरे ॥ १११ ॥ शयालुः स्यादजगरे निद्राशीलेऽपि कुक्कुरे । श्रद्धालुर्दोहिदिन्याञ्च श्रद्धावति तु वाच्यवत् ॥ ११२ ॥ लाङ्गुलं मेहने पुच्छे शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ॥ ११३ ॥ वातूलो वातसङ्घाते वातुले मारुतासहे । कुकूलं शङ्कुसङ्कीर्णे श्वभ्रे चाऽपि तुषानले ॥ ११४ ॥ कुकूलं स्याद् दुकूलन्तुक्षौमे सूक्ष्मांशुकेऽपि च । जम्बूलो जम्बुविटपे जम्बूलः क्रकचच्छदे ॥ ११५ ॥ चषालो होमकुण्डे स्याद्गर्त्ते चोत्ताल उत्कटे । श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवङ्गमे ॥ ११६ ॥ चूडाली तूच्चटायां स्याच्चूडावति तु वाच्यवत् । विशाला त्विन्द्रवारुण्यां विशालोऽज्जयिनीपुरि ॥ ११७ ॥ विशालो वृक्षभेदेऽपि विशालः पृथुलेऽन्यवत् । मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः ॥ ११८ ॥ शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च । कुचेला विद्धपर्ण्यां स्यात् कुचेलस्तु कुवाससि ॥ ११९ ॥ अचला वसुधायां स्यादचलः शैलकीलयोः । चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलः कामुकेऽनिले ॥ १२० ॥ इल्वला तारकाभेदे इल्वलो दैत्यमत्स्ययोः । ;p{0159} पिच्छिला शाल्मलीसिन्धुभेदपोतकिकामु च ॥ १२१ ॥ पिच्छिला शिंशपायाञ्च पिच्छिलो विज्जलेऽन्यवत् । सप्तला पाटलौ गुञ्जानवमालिकयोरपि ॥ १२२ ॥ भवेच्चर्म्मकशायाञ्च महिला भीरुगुन्द्रयोः । सिध्मला मत्स्यचूर्णे स्यात सिध्मलश्च किलासिनि ॥ १२३ ॥ सन्धिला तु सुरुङ्गायां नदीमन्दिरयोरपि । रसाला मार्ज्जितायां स्याज्जिह्वादूर्वाविदारिषु । रसालं सिह्लके वोले रसालश्चेक्षुचूतयोः ॥ १२४ ॥ विमला शीतलायां स्याद् भुवो भेदे च निर्म्मले । विमले चाऽमला लक्ष्म्यामऽमलं विशदेऽभ्रके ॥ १२५ ॥ श्रीफली नीलिकाधात्र्योर्मालूरे श्रीफलः स्मृतः । खण्डाली तैलमाने स्यात् सरसीकामुकस्त्रियोः ॥ १२६ ॥ पातली वागुरायां स्यान्नारीमृत्पात्रभेदयोः । जाङ्गली शूकशिम्ब्यां स्याज्जाङ्गलश्च कपिञ्जले ॥ १२७ ॥ लाङ्गली गजपिप्पल्यां लाङ्गलं कुसुमान्तरे । सीरेऽपि लाङ्गलं तालगृहदारुविशेषयोः ॥ १२८ ॥ अङ्गुली करशाखायां कर्णिकायां गजस्य च । जाङ्गुली विषविद्यायां जाङ्गुलं जालिनीफले ॥ १२९ ॥ कदली वैजयन्त्याञ्च रम्भायां हरिणान्तरे । कदला शाल्मलीब्राह्मीडिम्बिकासु च कथ्यते ॥ १३० ॥ नकुली कुक्कुटीमांस्योर्नकुलः पाण्डवे पशौ । नाकुली कुक्कुटीकन्दे नाकुली चव्यरास्नयोः ॥ १३१ ॥ नैपाली नवमालीमनःशिलासुवहासु च । ताम्बूली नागवल्ल्याञ्च ताम्बूलं क्रमुकेऽपि च ॥ १३२ ॥ पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः । ;p{0160} शाल्मली तरुभेदे स्याद्दीपभेदे च शाल्मली ॥ १३३ ॥ केवलो ज्ञानभेदे स्यात् केवलश्चैककृत्स्नयोः । निर्णीते केवलञ्चोक्तं केवलः कुहने क्वचित् ॥ १३४ ॥ काहली तु तरुण्यां स्यात् काहलं भृशशुष्कयोः । वाद्यभाण्डविशेषे तु काहला काहले खले ॥ १३५ ॥ गन्धोली वरटाभद्राशटीषु कथिता बुधैः । अञ्जली कुडवे विद्यादञ्जलिः करसम्पुटे ॥ १३६ ॥ ;vv{लचतुष्कम्} मदकलः स्यान्मत्तेभे मदेनाव्यक्तवाचि च । भवेत् कलकलः सर्ज्जरसे कोलाहलेऽपि च ॥ १३७ ॥ स्मृतो विचिकिलो मल्लीप्रभेदे मदनेऽपि च । बृहन्नलो गुडाकेशे महापोटगले मतः ॥ १३८ ॥ परिमलो विमर्शे च स्यान्मनोहरगन्धवत् । रतोपमर्द्दविकसद्देहरागादिसौरभे ॥ १३९ ॥ यवफलः स्मृतो वेणौ मांसीकुटजयोरपि । मुचाफलन्तु कर्पूरे मौक्तिके लवलीफले ॥ १४० ॥ सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे । विदुः कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ १४१ ॥ मृत्युफलो महाकाले कदल्यां मृत्युफल्यऽपि । भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥ १४२ ॥ हलाहलो विषे ज्येष्ठ्यां हयलालाह्वयोरगे । कुतूहलं कौतुके स्यात् प्रशस्तेऽपि कुतूहलम् ॥ १४३ ॥ दलामलं दमनके तथा मरुवकेऽपि च । महाबलं सीसके स्याद् बलाह्येऽपि महाबला ॥ १४४ ॥ वेदतिबलायाञ्च खतमालो बलाहके । ;p{0161} धूमेऽपि कन्दरालः स्यात् पर्कटीगर्द्दभाण्डयोः ॥ १४५ ॥ महाकालस्त्रिनयने किम्पाके प्रमथान्तरे । महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ १४६ ॥ भवेद् बहुफलाभिख्याऽऽमलकीनीपवृक्षयोः । जलाञ्चलं स्वतोवारिनिर्गमे शैवलेऽपि च ॥ १४७ ॥ गण्डशैलो ललाटे स्याच्च्युते स्थूलोपले गिरेः । उलूखलं गुग्गुले स्यात् कण्डन्यर्थे उलूखलम् ॥ १४८ ॥ चक्रवालोऽद्रिभेदे स्याच्चक्रवालन्तु मण्डले । स्मृतः पोटगलः काशे नले पोटगलो झषे ॥ १४९ ॥ हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके । भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥ १५० ॥ वातकेलिः कलालापे पिङ्गानां दन्तलेखने । कमण्डलुः स्यात् करके पर्कटीपादपेऽपि च ॥ १५१ ॥ अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्मृता । मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे ॥ १५२ ॥ ध्वनिलीला स्मृता वेणौ काहलावीणयोरपि । रजस्वला पुष्पवत्यां सैरिभेऽपि रजस्वलः ॥ १५३ ॥ एकाष्टीलामपि प्राहुः शिवमल्लौषधीभिदोः । अतिबला बलाभेदे प्रवालेऽतिबलो मतः ॥ १५४ ॥ भद्रकाली तु गन्धोल्यामुमायामोषधीभिदि । हरिताली नभोररेवादूर्वाखड्गलतासु च ॥ १५५ ॥ अन्धपाली स्मृता कोट्यां धात्रिकापरिरम्भयोः । गन्धफली प्रियङ्गौ स्यात् कोरके चम्पकस्य च ॥ १५६ ॥ ;vv{लपञ्चकम्} आसुतीबल इत्याख्या कन्यापालकयज्वनोः । ;p{0162} स्यात् पण्डुकम्वलः श्वेतकम्बले च शिलान्तरे ॥ १५७ ॥ एककुण्डल इत्येष सौनन्दिनि धनाधिपे । भवेदुद्दण्डपालस्तु सर्पमत्स्यप्रभेदयोः ॥ १५८ ॥ कृपीटपालमिच्छन्ति केनिपातसमुद्रयोः । भवेत् सुरतताली तु दूतिकायां शिरःस्रजि ॥ १५९ ॥ ;c{इति लान्तवर्गः ॥} ;v{वान्तवर्गः} ;vv{वैककम्} वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् । स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्ष्यते ॥ १ ॥ ;vv{वद्विकम्} भवः संसारसम्पाप्तिश्रेयःशङ्करजन्मसु । दवो दाव इव ख्यातो वनाग्निवनयोरपि ॥ २ ॥ द्रवः प्रद्रावरसयोर्गतौ नर्मणि विद्रवे । घवः पत्यौ नरे धूर्त्ते वृक्षभेदेऽपि कीर्त्तितः ॥ ३ ॥ जवो वेगिनि वेगे स्यादोण्ड्रपुष्पे जवा मता । लवो लेशे विनाशे च छेदने रामनन्दने ॥ ४ ॥ प्लवः कारण्डवे भेके कुलके भेलके कपौ । शब्दे प्लुतगतौ प्लक्षे चण्डालजलकाकयोः ॥ ५ ॥ प्लवं गन्धतृणे प्रोक्तं कैवर्त्तीमुस्तकेऽपि च । हवो यज्ञे तथाह्वाने निदेशेऽपि हवो मतः ॥ ६ ॥ शवो मृते शवं नीरे सवः सन्धानयज्ञयोः । क्षवः क्षुते राजिकायां नवं नव्ये स्तवे विदुः ॥ ७ ॥ ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ । ध्रुवा मूर्वाशालपर्ण्योर्गीतिस्रुग्भेदयोरपि ॥ ८ ॥ ;p{0163} ध्रुवन्तु निश्चिते तर्के निश्चले शश्वतेऽन्यवत् । स्तुवाख्या सल्लकीमूर्वास्रुग्भेदेषु च विश्रुता ॥ ९ ॥ शिवं मोक्षे सुखे भद्रे सलिलेऽथ शिवो हरे । वेदे योगान्तरे कीले वालुके गुग्गुलेऽपि च ॥ १० ॥ पुण्डरीकद्रुमे चाऽपि शिवा झण्टामलौषधौ । अभयाऽऽमलकीगौरीक्रोष्ट्रीसक्तुफलासु च ॥ ११ ॥ दिवं स्वर्गेऽन्तरीक्षे च क्लीबं शण्डेऽप्यपौरुषे । जीवो वृक्षप्रभेदे स्याज्जीवः प्राणिनि गीष्पतौ ॥ १२ ॥ जीवा जीवन्तिकाभूम्योर्मौर्वीशिञ्जितवृत्तिषु । वचायामपि जीवा स्याज्जीवं जीव्यञ्च जीविते ॥ १३ ॥ भावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्मसु । क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥ १४ ॥ देवः सुरे घने राज्ञि देवमाख्यातमिन्द्विये । देवी भट्टारिकायाञ्च तेजनीस्पृक्कयोरपि ॥ १५ ॥ सत्त्वं द्रुमे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वे व्यवसाये च चित्ते प्राणेषु जन्तुषु ॥ १६ ॥ सान्तं सामनि दाक्षिण्ये कण्वं पापे मुनौ विदुः । किण्वं पापे सुराबीजे बिल्वन्तु श्रीफले फले ॥ १७ ॥ तत्त्वं वाद्यप्रभेदे स्न्मयात् स्वरूपे परमात्मनि । ह्रस्वखर्वाविमौ शब्दावेकार्थौ वामनार्थयोः ॥ १८ ॥ विश्वं समस्ते जगति विश्वदेवेऽपि नागरे । विश्वा चाऽतिविषायां स्यादश्वः पुम्भेदवाजिनोः ॥ १९ ॥ पार्श्वं कक्षाधरे चक्रोपान्ते पर्शुगणेऽपि च । प्राध्वं सुप्रणते चातिदूरवर्त्मनि बन्धने ॥ २० ॥ पक्वं परिणतार्थे स्याद्विनाशाभिमुखेऽपि च । ;p{0164} द्वन्द्वो रहस्ये कलहे द्वन्द्वं मिथुनयुग्मयोः ॥ २१ ॥ ऊर्द्ध्वं स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् । दिवं द्यौः स्वर्गलोके च गगने च प्रयुज्यते ॥ २२ ॥ अविः शैले रवौ मेषे भवेन्मूषिककम्बले । ऋतुमत्यामविः प्रोक्ता शिविर्भूर्ज्जे नृपान्तरे ॥ २३ ॥ कविः काव्यकरे सूरी कविर्वाल्मीकिशुक्रयोः । कवी खलीने कथिता छविः शोभारुचोर्मता ॥ २४ ॥ ग्रीवाऽपि कन्धरायां स्यात्तच्छिरायामपीष्यते । रेवा तरङ्गिणीभेदे रेवा नील्यां स्मरस्त्रियाम् ॥ २५ ॥ लट्वा करञ्जभेदेऽस्य फले वाद्ये खगान्तरे । नीवी परिपणे ग्रन्थो स्त्रीणां जघनवाससः ॥ २६ ॥ पृथ्वी भूमौ पृथौ हिङ्गुपत्रिकाकृष्णजीरयोः । लघ्वी ह्रस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ २७ ॥ ;vv{वत्रिकम्} प्रभवो जलमूले स्याज्जन्मभूमौ पराक्रमे । आद्योपलब्धयोः स्थाने विभवो निर्वृतौ धने ॥ २८ ॥ प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने । तोकोत्पादे च सचिवः सहाये मन्त्रिणि स्मृतः ॥ २९ ॥ कितवो धूर्त्तवन्मत्ते वञ्चके कनकाह्वये । त्रिदिवस्त्रिदशावासे त्रिदिवा सरिदन्तरे ॥ ३० ॥ बल्लवः सूपकारे स्याद्भीमसेनेऽपि गोदुहि । पल्लवः स्यात् किसलये विटपे विस्तरे बले ॥ ३१ ॥ शृङ्गारे रक्तरागे च विद्रवस्तु पलायने । युद्धे च पुङ्गवः श्रेष्ठे वृषभे भेषजान्तरे ॥ ३२ ॥ उद्धवो मातुले विष्णोरुत्सवे क्रतुपावके । ;p{0165} उत्सवो मह उत्सेक इच्छाप्रसरकोपयोः ॥ ३३ ॥ केशवो वासुदेवे स्यात् पुन्नागे केशवत्यपि । कैतवन्तु छले द्यूते फेरवो जमूकेऽस्रपे ॥ ३४ ॥ रौरवो नरके घोरे कैरवः कितवे रिपौ । कैरवं कुमुदे चोक्तं चन्द्रिकायाञ्च कैरवी ॥ ३५ ॥ भैरवं भीषणे गर्भे भैरवः समुदाहृतः । सैन्धवो मणिमन्थेऽपि सिन्धुदेशोद्भवाश्वयोः ॥ ३६ ॥ वाडवं करणे स्त्रीणामौर्वे विप्रेऽपि वाडवः । वाडवं वडवासङ्घे वाडवो रागनागयोः ॥ ३७ ॥ आश्रवः स्यात् प्रतिज्ञाने क्लेशे च वचनस्थिते । शाव्रवं भावसंहत्योः शत्रूणां शात्रवो द्विषि ॥ ३८ ॥ माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे । माधवी मदिरायाञ्च कुट्टन्यामतिमुक्तके ॥ ३९ ॥ मधुनः शर्करायाञ्च गालवो मुनिलोध्रयोः । आर्त्तवन्त्वृतुसम्भूते स्त्रीरजःपुष्पयोरपि ॥ ४० ॥ भार्गवः पर्शुरामे स्याद्गजे शुक्रे सुधन्विनि । भार्गवी हैमवत्याञ्च कमलासितदूर्वयोः ॥ ४१ ॥ आहवः सङ्गरे यागे राघवो रघुवंशजे । महामीनप्रभेदेऽपि जलधे राघवः स्मृतः ॥ ४२ ॥ ताण्डवं कथितं नृत्ये तृणभेदेऽपि ताण्डवम् । निह्नवं निकृतौ विद्यादविश्वासापलापयोः ॥ ४३ ॥ सम्भवः कथितो होतावुत्पत्तौ मेलकेऽपि च । आधारानतिरिक्तत्व आधेयस्य च सम्भवः ॥ ४४ ॥ बान्धवो बन्धुसुहृदोः पञ्चत्वं निधने स्मृतम् । पञ्चनामपि भावे च प्रभावः शक्तितेजसोः ॥ ४५ ॥ ;p{0166} अभावः स्यादसत्तायायभावो निधनेऽपि च । विभावः स्यात् परिचितौ कामस्योऽद्दीपनेऽपि च ॥ ४६ ॥ निष्पावः सूर्यपवने राजमाषे कडिङ्गरे । पचने शिम्बिकायाञ्च निष्पावो निर्विकल्पके ॥ ४७ ॥ सुग्रीवः शोभनग्रीवे सुग्रीवो वानराधिपे । राजीवाख्या मृगे मत्स्ये पद्ये राजोपजीविनि ॥ ४८ ॥ गाण्डीवं गाण्डिवं जिष्णोः कोदण्डे कार्मुकेऽपि च । अक्षीवञ्च शिरे विद्यादमत्तेऽक्षीवमन्यवत् ॥ ४९ ॥ पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत् । पार्थिवी स्यात् क्षमायाञ्च दीदिविर्धिषणान्नयोः ॥ ५० ॥ प्रसेवः कथितो धीरैर्वीणाङ्गसूतयोरपि । वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम् ॥ ५१ ॥ कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके । सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः ॥ ५२ ॥ ;vv{वचतुष्कम्} भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः । उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि ॥ ५३ ॥ परिप्लवश्चञ्चले स्यादाकुलेऽपि परिप्लवः । कुशीलवस्तु वाल्मीकौ नटयाचकयोरपि ॥ ५४ ॥ अपह्नवोऽपलापे च सौ चाऽपह्नवो मतः । पराभरस्तिरस्कारे विनाशे च पराभवः ॥ ५५ ॥ भवेत् पारशवः पारस्त्रैणे शूद्रासुते द्विजात् । शस्त्रेऽप्यादीनवो दोषे परिक्लिष्टदुरन्तयोः ॥ ५६ ॥ विदुः शीतशिवं शम्यां शैलेयशतपुष्पयोः । सैन्धवेऽपि पुटग्रीवो गर्गरीताम्रकुम्भयोः ॥ ५७ ॥ ;p{0167} धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः । अनुभावः प्रभावे स्यान्निश्चये भावसूयने ॥ ५८ ॥ बलदेवः स्मृतो वाते कालिन्दीभेदनेऽपि च । बलदेवामपि प्राहुस्त्रायमाणौषधे बुधाः ॥ ५९ ॥ जलविल्वस्तु पञ्चाङ्गे कर्कटे जलचत्वरे । रोहिताश्वो बृहद्भानौ हरिश्चन्द्रे नृपात्मजे ॥ ६० ॥ सहदेवा बलादण्डोत्पलशारिवभेषजे । सहदेवी तु सर्पाक्ष्यां सहदेवश्च पाण्डवे ॥ ६१ ॥ जीवञ्जीवश्चकोरे स्याद् द्रुमपक्षिविशेषयोः । ;vv{वपञ्चकम्} आशितम्भवमन्नाद्ये तृप्तावाप्याशितम्भवः ॥ ६२ ॥ ;c{इति वान्तवर्गः ॥} ;v{शान्तवर्गः} ;vv{शैककम्} शं सुखे शर्मणि प्रोक्तं श्रेयसि शश्च शस्त्रके । ;vv{शद्विकम्} वशमायत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः । वशा वन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ॥ १ ॥ कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले । कुशी फालेऽपि वल्गायां कुशा पापिष्ठमत्तयोः ॥ २ ॥ कुशो वाच्यवदाख्यातः स्पशः प्रणिधियुद्धयोः । शशो गन्धरसे लोध्रे स्यात् पशौ पुरुषान्तरे ॥ ३ ॥ दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने । पक्षान्ते वैदिकविधौ दर्शश्च समुदाहृतः ॥ ४ ॥ स्पर्शो रुजायां दाने च स्पर्शने स्पर्शकेऽपि च । विट् स्मृतो वैश्यमनुजप्रवेशे तु मनीषिभिः ॥ ५ ॥ ;p{0168} पाशः कचान्ते सङ्घार्थः कर्णान्ते शोभनार्थकः । छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ ६ ॥ नाशः पलायने प्रोक्तो निधनानुपलम्भयोः । काशस्तृणे स्यात् क्षवथौ वाराणस्यां तु काश्यपि ॥ ७ ॥ केशो दैत्यान्तरे बाले ह्रीवेरे च प्रचेतसि । कीशो दिगम्बरे प्रोक्तः कीशः शाखामृगेऽपि च ॥ ८ ॥ ईशः प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके । वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके ॥ ९ ॥ क्लेशो दुःखेऽपि रागादौ व्यवसायेऽपि च क्वचित् । वंशो वेणौ कुले वर्गे पृष्ठस्यावयवेऽपि च ॥ १० ॥ दंशः स्यात् खण्डने दोषे दंशो मर्मणि कीर्त्तितः । सर्पक्षतेऽपि सन्नाहवनमक्षिकयोरपि ॥ ११ ॥ अंशुर्लेशे रवौ रश्मावाशुव्रीहौ च सत्वरे । पांशुर्धूलिषु शस्यार्थचिरसञ्चितगोमये ॥ १२ ॥ दृग्दर्शने लोचने च दृग्बुद्धौ वीक्षकेऽपि च । दशा वर्त्ताववस्थायां वस्त्रांशे स्युर्दशा अपि ॥ १३ ॥ निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः । आशा तृष्णादिशोः प्रोक्ता राशिर्मेषादिपुञ्जयोः ॥ १४ ॥ पेशी पललपिण्ड्यां स्यान्मांस्यां खड्गपिधानके । अण्डभेदेऽपि पेशी स्यात् सुपक्वकणिकेऽपि च ॥ १५ ॥ ;vv{शत्रिकम्} कपिशः सिह्लके श्यावे माधव्यां कपिशी मता । कुलिशो मत्स्यचण्डे स्याद्दम्भोलौ कुलिशं स्मृतम् ॥ १६ ॥ विवशः स्यादवश्यात्या क्लिष्टदुष्टधियोरपि । निस्त्रिंशो निर्द्दये खड्गे सदृशन्तूचिते समे ॥ १७ ॥ ;p{0169} बालिशः शावके मूर्खे लोमशो लोमसंयुते । मेण्डके चाथ कासीसशूगालीजटिलासु च ॥ १८ ॥ लोमशा शूकशिम्ब्याञ्च मर्कटीकाकजङ्घयोः । महामेदातिबलयोः शाकिनीभिदि चेष्यते ॥ १९ ॥ विकाशो विजने व्यक्तौ सकाशः सदृशेऽन्तिके । प्रकाशोऽतिप्रसिद्धे स्यात् प्रहासातपयोः स्फुटे ॥ २० ॥ नीकाशो निश्चये तुल्ये हताशो निर्दये खले । कीनाशः कर्कशे क्षुद्रे कृतान्तपशुघातिनोः ॥ २१ ॥ सुखाशो राजतिनिशे शोभनाऽऽशप्रचेतसोः । पिङ्गाशो मत्स्यभेदे स्यात्तथा पल्लीपतावपि ॥ २२ ॥ पिङ्गाशी नीलिकायाञ्च पिङ्गाशं जात्यकाञ्चने । पलाशः किंशुके शट्यां हरिते राक्षसेऽपि च ॥ २३ ॥ पत्रे पलाशं संवेशः शयने चासनेऽपि च । निवेशः शिबिरोद्वाहविन्यासेषु प्रकीर्त्तितः ॥ २४ ॥ निर्वेशो मूर्च्छने भोगे निर्वेशो वेतनेऽपि च । प्रदेशो देशमात्रे स्यात्तर्ज्जन्यङ्गुष्ठसम्मिते ॥ २५ ॥ भित्तावपि प्रदेशः स्यात् सदेशोऽभ्यर्णदेशयोः । निदेशः शासनोपान्तभाषणेऽपि प्रयुज्यते ॥ २६ ॥ आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि । कर्कशः परुषे क्रूरे कृपणे निर्द्दये दृढे ॥ २७ ॥ इक्षौ साहसिके काशमर्द्दकम्पिल्लयोरपि । गिरीशो वाक्पतौ रुद्रे गिरीशोऽद्रिपतावपि ॥ २८ ॥ उट्टीशो ग्रन्यभेदे स्यादुड्डीशश्चण्डिकापतौ । तुङ्गीशः शङ्करे चन्द्रे पक्षीशस्तार्क्ष्यकृष्णयोः ॥ २९ ॥ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् । ;p{0170} दुःस्पर्शाख्या खरस्पर्शे कण्टकार्याञ्च वासके ॥ ३० ॥ विपाशाख्या सरिद्भेदपाशवर्ज्जितयोर्मता । विकेशी पटुवर्त्तौ स्याद्विकेशी निष्कचस्त्रियाम् । भूकेशी वल्वजेषु स्याद् भूकेशः शैवले वटे ॥ ३१ ॥ ;vv{शचतुष्कम्} अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि । जीवितेशो यमे कान्ते जीवातौ जीविताधिपे ॥ ३२ ॥ आश्रयाशो हुतवहे भवेदाश्रयनाशके । नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे ॥ ३३ ॥ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रमे सोमलतायाश्च हुतशेषेऽपि कीर्त्तितः ॥ ३४ ॥ परिवेशः परिवृत्तौ भानोः सविधमण्डले । प्रतिष्कशः सहाये स्याद्वार्त्ताहरपुरोगयोः ॥ ३५ ॥ उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि । भूमिस्पृग्वैश्यनरयोः पूरदृक स्यात् खले शनौ ॥ ३६ ॥ अपभ्रंशोऽपशब्दे स्याद्भाषाभेदावपातयोः । उपदंशोऽवदंशे स्यान्मेण्ढ्रे रोगेऽपि वर्त्तते ॥ ३७ ॥ खण्डपर्शुः पर्शुरामे शङ्करे चूर्णलेपिनि । खण्डामलकभैषज्ये सिंहिकातनयेऽपि च ॥ ३८ ॥ पादपाशी खण्डकायां शृङ्खलाकटकेऽपि च । स्मृता पञ्चदशी पौर्णमास्यमावास्ययोरपि ॥ ३९ ॥ ;vv{शपञ्चकम्} धूर्जटौ खण्डपरशुर्जामदग्न्ये विधुन्तुदे । खण्डामलकभैषज्ये चूडालेऽपि स्मृतो बुधैः ॥ ४० ॥ ;c{इति शान्तवर्गः ॥} ;p{0171} ;v{षान्तवर्गः} ;vv{षद्विकम्} वृषः स्याद्वासके धर्मे सौरभेये च शुक्रले । पुंराशिभेदयोः शृङ्ग्यां मूषिकश्रेष्ठयोरपि ॥ १ ॥ क्रपिकच्छ्वां वृषा प्रोक्ता व्रतिनामासने वृषी । विषन्तु गरले तोयेऽतिविषायां विषा भवेत् ॥ २ ॥ तुषो धान्यत्वचि ख्यातो विभीतकतरावपि । निषश्च स्पर्शने व्याजे तर्षो लिप्सापिपासयोः ॥ ३ ॥ वर्षं संवत्सरे वृष्टौ जम्बूद्वीपे घने विदुः । प्रावृट्काले तु वर्षाः तु कर्षः कर्षणमानयोः ॥ ४ ॥ माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः । मेषो राशिविषेषे स्यादुरणे भेषजान्तरे ॥ ५ ॥ शेषः संकर्षणेऽनन्त उपयुक्ततरे वधे । प्रसादान्निजनिर्माल्यदाने शेषेऽपि कीर्त्तिता ॥ ६ ॥ शोषस्तु शोषणे राजयक्ष्मण्यपि निगद्यते । दोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च ॥ ७ ॥ कोषस्तु कुड्मले पात्रे दिव्ये खड्गपिधानके । जातिकोषेऽर्थसङ्घाते पेश्यां शबादिसङ्ग्रहे ॥ ८ ॥ घोषस्तु घोषके ध्वाने गोपालाभीरपल्लिषु । घोषा तु शतपुष्पायां घोषः कांस्येऽम्बुदध्वनौ ॥ ९ ॥ प्रैषः स्यात् प्रेषणे क्लेशे मर्द्दनोन्मानयोरपि । पौषो मासविशेषे स्यात् पौषन्तु महयुद्धयोः ॥ १० ॥ त्विट कान्तौ व्यवसाये च जिगीषायां रुचौ गिरि । विट् व्यापने च विष्ठायां शुषिः शोषे विलेऽपि ॥ ११ ॥ ऋषिर्वेदे वशिष्ठादौ दीधितावपि पठ्यते । उषा वाणसुतारात्र्योरुषः कामिनि गुग्गुलौ ॥ १२ ॥ झषा नागबलायां स्याद्वैसारिणि झषो मतः । ;p{0172} कर्षूः करीपदहने कुल्यायामपि चेष्यते ॥ १३ ॥ ;vv{षत्रिकम्} निकषः शाणफलके निकषा यातुमातरि । नहुषो राज्ञि भुजगे कलुषञ्चाविलैनसोः ॥ १४ ॥ किल्विषे वृजिने रोगेऽप्यपराधेऽपि किल्विषम् । निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ॥ १५ ॥ परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि । पुरुषः पूरुषे साङ्ख्यज्ञे च पुन्नागपादपे ॥ १६ ॥ पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि । ऊर्द्ध्वविस्तृतदोःपाणिनृमानेऽपि च पौरुषः ॥ १७ ॥ कल्माषो राक्षसे कृष्णे कल्माषं कृष्णपाण्डुरे । कुल्माषो यावके प्रोक्तः कुल्माषं काञ्जिकेऽपि च ॥ १८ ॥ उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे । तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः ॥ १९ ॥ रोहिषं कत्तृणे ज्ञेयं रोहिषो हरिणान्तरे । विश्लेषः स्याद्विघटने विश्लेषो विधुरेऽपि च ॥ २० ॥ प्रदोषः कालभेदे स्यात् प्रदोषो दोष इष्यते । अभीषुः प्रग्रहे रश्मौ प्रत्यूषोऽहर्मुखे वसौ ॥ २१ ॥ गण्डूषो मुखपूर्त्तौ स्यात् करिहस्ताङ्गुलावपि । प्रसृतोन्मिते शैलूषः कथितो नटबिल्वयोः ॥ २२ ॥ मारिषः शाकभेदे स्यान्मारिषा दक्षमातरि । नाट्योक्त्यां मारिषश्चार्ये तारीषः कनकेऽम्बुधौ ॥ २३ ॥ आमिषं पलले लोभे सम्भोगोत्कोचयोरपि । आमिषं सुन्दराकारपूपादिविषयेऽपि च ॥ २४ ॥ आकर्षः शारिफलके पाशके दूत इन्द्रिये । ;p{0173} आकर्षणेऽपि चाऽकर्षः कोदण्डाभ्यासवस्तुनि ॥ २५ ॥ संहर्षमाहुः स्पर्द्धायां प्रमोदेऽपि प्रभञ्जने । शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः ॥ २६ ॥ जिगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः । महिषी नृपपत्न्याञ्च सैरिभ्यामोषघीभिदि ॥ २७ ॥ ;vv{पचतुष्कम्} अनिमिषः सुरे मत्स्येऽप्यनुकर्षोऽनुकर्षणे । अनुकर्षो रथस्याऽधःस्थिते दारुणि चेष्यते ॥ २८ ॥ अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः । वातरूषस्तु वातूलोत्कोचयोः शक्रकार्म्मुके ॥ २९ ॥ अम्बरीषं रणे भ्राष्ट्रेऽप्यम्बरीषो नृपान्तरे । मार्त्तण्डे खण्डपरशावाम्रातककिशोरयोः ॥ ३० ॥ परिघोषो निनादे स्यादवाच्ये जलदध्वनौ । नन्दिघोषोऽर्ज्जुनरथे घोषे वन्दिजनस्य च ॥ ३१ ॥ महाघोषो मतङ्गे च महाघोषोऽतिघोषणे । स्मृता कर्क्कटशृङ्ग्याञ्च महाघोषा मनीषिभिः ॥ ३२ ॥ किम्पुरुषः किन्नरे स्याल्लोकभेदेऽप्यलम्बुषः । छर्द्दनेऽलम्बुषा प्रोक्ता मुण्डीरीस्वर्गवेश्ययोः ॥ ३३ ॥ पलङ्कषा गोक्षुरकरास्नागुग्गुलुकिंशुके । तुण्डीरीलाक्षयोश्चाऽपि राक्षसेऽपि पलङ्कषः ॥ ३४ ॥ ;c{इति पान्तवर्गः ॥} ;v{सान्तवर्गः} ;vv{सद्विकम्} रसो गन्धरसे स्वादे चित्तादो विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधातौ च पारदे ॥ १ ॥ ;p{0174} रसा तु सल्लकीपावाजिह्वाधरणिकङ्गुषु । भासो भासि समाख्यातो घोष्टकुक्कुटगृध्रयोः ॥ २ ॥ दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि । दासी चेट्याञ्च झिण्ट्याञ्च रासः कोलाहले ध्वनौ ॥ ३ ॥ भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् । वासः सुवर्णचेले स्यात् प्रभेदे किष्कुपर्वणः ॥ ४ ॥ भाः प्रभावे मयूखे च माः स्मृतश्चन्द्रमासयोः । अदः परस्मिन्नत्राऽपि गोसो गन्धरसोषयोः ॥ ५ ॥ वत्सस्तर्णकपुत्रादिवर्षे वत्सन्तु वक्षसि । बुत्सः स्तम्बे हारभेदे स्तबके ग्रन्थिपर्णके ॥ ६ ॥ वासो गेहेऽप्यवस्थाने वासा स्यादटरूषके । व्यासो मुनौ स्याद्विस्तारे त्रासो भीमणिदोषयोः ॥ ७ ॥ हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे । योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥ ८ ॥ निर्लोभनृपतौ हंसः शारीरमरुदन्तरे । अंसः स्कन्धे विभागे च कंसो दैत्यान्तरे स्मृतः । कांस्ये च कांस्यपात्रे च मानभेदेऽपि कीर्त्तितः । मांसः स्यादामिषे मांसी कक्कोलीजटयोरपि ॥ ९ ॥ वसुर्मयूखाग्निजनाधिपेषु योक्त्रे वके स्माद्वसुहट्टके च । वृद्ध्यौषधश्यामधनेषु रत्ने वसु स्मृतं स्यान्मघुरेऽन्यवच्च ॥ १० ॥ नासा तु नासिकायां स्यान्नासा द्वारोर्ध्वदारुणि । मृत्सा तु कथिता वासिश्रेष्ठमृत्तिकयोर्बुधैः ॥ ११ ॥ हिंसा चौर्यादिवधयोः शंसा वचनवाञ्छयोः । ;p{0175} मिसिस्तु मधुरामांस्योर्गजपुष्पाजमोदयोः ॥ १२ ॥ कासूर्विकलवाचि स्यात् लासूः शक्त्यायुधेऽपि च । प्रसूरश्वाजनन्योश्च कन्दलीवीरुधोरपि ॥ १३ ॥ ;vv{सत्रिकम्} अलसः पादरोगे स्यात् क्रियामन्दे द्रुमान्तरे । अलसा हंसपद्याञ्च रभसो वेगहर्षयोः ॥ १४ ॥ पनसः कण्टकिफले कण्टके कपिरुग्भिदोः । सुरसः स्यात् सुमधुरे पर्णासे सुरसाऽपि च ॥ १५ ॥ सारसः पक्षिभेदे स्यात् सारसं सरसीरुहे । श्रीवासो यक्षधूपे स्यात् पङ्कजे पीतवाससि ॥ १६ ॥ साहसन्तु बलात्कारकृतकार्ये दमेऽपि च । वाहसो जलनिर्यासेऽजगरे सुनिषण्णके ॥ १७ ॥ लालसो लालसाऽपि स्याद्याच्ञातृष्णातिरेकयोः । औत्सुक्ये च समासस्तु संक्षेपे च समर्थने ॥ १८ ॥ कीकसः कृमिजातौ स्यादस्थ्नि कीकसमिष्यते । पायसं परमान्ने स्याच्छ्रीवासेऽपि च पायसः ॥ १९ ॥ वायसो नाडिजङ्घे स्याच्छ्रीवासे चागुरुद्रुमे । काकोदुम्बरिकायाञ्च काकमाच्याञ्च वायसी ॥ २० ॥ मानसं सरसि स्वान्तेऽप्याश्वासो निर्वृतौ मतः ॥ ' आख्यायिकापरिच्छेदेऽप्यभ्यासो व्यसनेऽन्तिके ॥ २१ ॥ उच्छ्वासः प्राणनाश्वासगद्यबन्धगुणान्तरे । इष्वासो धन्विधनुषोर्विलासो भावलीलयोः ॥ २२ ॥ वीतसो बन्धनोपाये मृगाणां पक्षिणामपि । तेषामपि च विश्वासहेतोः प्रावरणे स्मृतम् ॥ २३ ॥ उत्तंसः कर्णपूरे स्याच्छेकरे च वतंसवत् । ;p{0176} बीभत्सो विकृते क्रूरेऽप्यर्जुने च घृणात्मनि ॥ २४ ॥ विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् । भूयान् बहुतरार्थे स्यात् पुनरर्थे त्वदोऽव्ययम् ॥ २५ ॥ ज्यायान् वृद्धे च शस्ते च हविर्होतव्यसर्पिषोः । रेषाः स्यादधमे क्रूरे कृपणेऽपि च कथ्यते ॥ २६ ॥ वेधा विधौ बुधे विष्णावागः पापापराधयोः । वर्च्चो दीप्तौ पुरीषे च वर्च्चो रूपेऽपि च क्वचित् ॥ २७ ॥ छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः । एनोऽपराधे कलुषे मनश्चित्तमनीषयोः ॥ २८ ॥ रोदश्च रोदसी चाऽपि दिवि भूमौ पृथक पृथक् । सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥ २९ ॥ ओजस्तेजसि धातूनामवस्तम्भप्रकाशयोः । भुजो वले च दीप्तौ च तेजो धाम्नि पराक्रमे ॥ ३० ॥ प्रभावरेतसोश्चाथ रजः स्यादार्त्तवे गुणे । रजःपरागे रेणौ तु रजवत् परिकीर्त्तितम् ॥ ३१ ॥ वपुर्भव्याकृतौ देहे पयः स्यात् क्षीरनीरयोः । वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके ॥ ३२ ॥ श्रेयस्तु मङ्गले धर्मे श्रेयान् शस्ते तु वाच्यवत् । श्रेयसी करिपिप्पल्यामभयारास्नयोरपि ॥ ३३ ॥ स्रोतोऽम्बुवेगेन्द्रिययोरोकः सद्मनि चाश्रये । शिरः प्रधाने सेनाग्रभागमस्तकयोरपि ॥ ३४ ॥ तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च । तपा माघे च शिशिरे सरस्तोयतडागयोः ॥ ३५ ॥ उषः प्रभाते सन्ध्यायामुरः श्रेष्ठे च वक्षसि । तमोऽन्धकारे स्वर्भानौ तमःशोके गुणान्तरे ॥ ३६ ॥ ;p{0177} नभो व्योम्नि नभा मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः ॥ ३७ ॥ तरो बले च वेगे च रेतः शुक्रे च पारदे । अर्च्चिर्मयूखशिखयोर्बर्हिः कुशहुताशयोः ॥ ३८ ॥ सहो वले ज्योतिषि मार्गशीर्ष- हेमन्तयोश्चाऽपि सहः प्रदिष्टः । रहोऽपि गुह्ये सुरते च तत्त्वे महो भवेदुत्सवतेजसोश्च ॥ ३९ ॥ ज्योतिः प्रकाशे दृशि तारकासु ज्योतिर्दिनेशानलयोरपि स्यात् । घनुः प्रियालद्रुमराशिभेदयोः शरासने चापि धनुर्धनुर्धरे ॥ ४० ॥ आशीरुक्ता हिताशंसापवनाशनदंष्ट्रयोः । राक्षसीति च दंष्ट्रायां राक्षसी रक्षसः स्त्रियाम् ॥ ४१ ॥ तामसीति च दुर्गायां तामसो भुजगे खले । पुक्कसी कालिकानील्योः पुक्कसः श्वपचेऽधमे ॥ ४२ ॥ ;vv{सचतुष्कम्} भवेद्घनरसः सान्द्रनिर्यासमोरटाप्सु च । कर्पूरे पीलुपर्ण्याञ्च सस्ये सिद्धरसेऽपि च ॥ ४३ ॥ सर्वरसः स्मृतो वाद्यभाण्डभेदे च धूनके । स्मृतं तामरसं पद्मे ताम्रकाञ्चनयोरपि ॥ ४४ ॥ सिद्धरसो रसे व्याधिप्रभृतीषु च दृश्यते । महारसः स्यात् खर्ज्जूरे कोशकारकसेरुणोः ॥ ४५ ॥ रासेरसस्तु रासे स्याद्रससिद्धिबलावपि । ;p{0178} षष्ठीजागरिके गोष्ठ्यां शृङ्गारपरिहासयोः ॥ ४६ ॥ श्वःश्रेयसञ्च भद्रे स्यात् परानन्दे च शर्मणि । निःश्रेयसञ्च कल्याणे चन्द्रचूडापवर्गयोः ॥ ४७ ॥ कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे । कुम्भीनसी जनन्याञ्च लवणाख्यस्य रक्षसः ॥ ४८ ॥ मलीमसन्तु मलिने पुष्पकासीसलोहयोः । पौणेमासपौर्णमास्यौ यज्ञपूर्णिमयोः क्रमात् ॥ ४९ ॥ अधिवासो निवासे च संस्कारे धूपकादिभिः । चन्द्रहासो दशग्रीवकरवालेऽसिमात्रके ॥ ५० ॥ विश्वावसुः स्याद्गन्धर्वभेदे विश्वावसुर्निशि । विभावसुर्दिनमणौ हारभेदे च पावके ॥ ५१ ॥ पुनर्वसुर्भवेदृक्षे कात्यायनमुनावपि । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ ५२ ॥ कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे । अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥ ५३ ॥ स्मृता मधुरसा द्राक्षामूर्विकादुग्धिकासु च । नीलञ्जसाऽप्सरोभेदे सरिद्भेदेऽपि विद्युति ॥ ५४ ॥ सुमेधास्तु सुबुद्धौ स्याज्ज्योतिष्मत्यामपीष्पते । सुमनाः पुष्पमालत्योस्त्रिदशे कोविदेऽपि च ॥ ५५ ॥ प्रचेतास्तु मुनौ हृष्टे स्यात् प्रतीचीपतावपि । विहायास्तु शकुन्ते स्याद्विहायः सुरवर्त्मनि ॥ ५६ ॥ त्रिस्रोता जह्नुकन्यायां त्रिस्रोताः सरिदन्तरे । अगौकाश्च नगौकाश्च शरभे सिंहपक्षिणोः ॥ ५७ ॥ उदर्च्चिरुत्प्रभे वह्नौ दिवौकाश्चातके सुरे । दीर्घायुः शाल्मलौ काके मार्कण्डेयेऽतिजीविनि ॥ ५८ ॥ ;p{0179} सप्तार्च्चिः पावके प्रोक्तः सप्तार्च्चिः क्रूरलोचने । कनीयाननुजेऽत्यल्पे कनीयानतियूनि च ॥ ५९ ॥ वरीयानतियूनि स्याद्वरिष्ठे श्रेष्ठयोगयोः । साधीयानतिबाढे स्यादतिसाधौ च वाच्यवत् ॥ ६० ॥ ;vv{सपञ्चकम्} स्यान्नभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः । हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च ॥ ६१ ॥ दिव्यचक्षुः सुगन्धस्य भेदेऽन्धे च सुलोचने । ;vv{सषट्कम्} हिरण्यरेतसम्प्राहुर्दिवाकरहविर्भुजोः ॥ ६२ ॥ ;c{इति सान्तवर्गः ॥} ;v{हान्तवर्गः} ;vv{हद्विकम्} सहो बले सहा मुद्गपर्ण्याञ्च नखभेषजे । सहा देवीकुमार्योश्च सहः कान्ते सहा भुवि ॥ १ ॥ ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे । सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥ २ ॥ वहः स्याद्वृषभस्कन्धदेशे गन्धवहेऽपि च । बर्हं दले केकिपिच्छे गृहा पत्न्यां गृहे स्मृताः ॥ ३ ॥ ग्राहो ग्रहेऽवहारे च नासे बन्धनकूटयोः । स्नेहस्तैलादिकरसद्रव्ये स्यात् सौहृदेऽपि च ॥ ४ ॥ प्रोहो निपुणतर्के स्यात् प्रोहो हस्त्यण्घ्रिपर्वणोः । मोहमिच्छन्ति मूर्च्छायामविद्यायाञ्च सूरयः ॥ ५ ॥ ;p{0180} लोहस्तु शस्त्रकं लोहं जोङ्गके सर्वतैजसे । व्यूहः स्याद् बलविन्यासे निर्माणे वृन्दतर्कयोः ॥ ६ ॥ सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही क्षुद्राबृहत्योः स्याद्वासके राहुमातरि ॥ ७ ॥ बहुः स्याद्विपुले त्र्यादि सङ्ख्यासु त्वभिधेयवत् । अहिर्वृत्रासुरे सर्पेऽपीहा तूद्यमवाञ्छयोः ॥ ८ ॥ गुहा तु गह्वरे सिंहपुच्छ्यां स्कन्दे गुहो मतः । वाहो भुजायां वाहस्तु मानभेदे वृषे हये ॥ ९ ॥ मही भूमौ मही नद्यां मह उत्सवतेजसोः । कुहूः स्यात् कोकिलारावनष्टेन्दुकरदर्शयोः ॥ १० ॥ ;vv{हत्रिकम्} पटहस्तु समारम्भ आनकं पटहं मतम् । कलहः खड्गकोशे स्याद्भण्डने युद्धराढयोः ॥ ११ ॥ प्रग्राहस्तु तुलासूत्रे बन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ॥ १२ ॥ निग्रहो भर्त्सने प्रोक्तो मर्यादायाञ्च बन्धके । विग्रहः समरे काये विस्तारप्रविभागयोः ॥ १३ ॥ सङ्ग्राहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि । आग्रहोऽनुग्रहाशक्त्योराक्रमे ग्रहणेऽपि च ॥ १४ ॥ नवाहः स्यान्नवदिने नवाहः प्रतिपत्तिथौ । प्रवाहो व्यवहारे स्यादपि स्रोतसि वारिणः ॥ १५ ॥ कटाहो घृततैलादिपाकपात्रे च खर्परे । कटाहः कूर्मपृष्ठे च स्तूपे च महिषीशिशौ ॥ १६ ॥ उत्साहस्तूद्यमे सूत्रेऽप्यारोहे दैर्घ्यमानयोः । ;p{0181} आरोहणे नितम्बे च समुच्छ्रयनिषादिनोः ॥ १७ ॥ निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके । विदेहो देहशून्ये स्याद्विदेहो मिथिले स्मृतः ॥ १८ ॥ निरूहो वस्तिभेदे स्यात् तर्कनिश्चितयोरपि । दात्यूहः कालकण्ठे स्याद्दात्यूश्चातकेऽपि च ॥ १९ ॥ अत्यूहा नीलिकायां स्यादत्यूहश्चित्रमेखले । सुवहा सल्लकीगोधापदीशेफालिकासु च ॥ २० ॥ एलापर्ण्याञ्च सुवहा वल्लकीरास्नयोरपि । सम्यग्वाहे तु सुवहो वाच्यवत् समुदाहृतः ॥ २१ ॥ वैदेही रोचनासीतावणिक्स्त्रीपिप्यलीष्वपि । वाराही मातृभेदे स्याद् गृष्टिनामौषधेऽपि च ॥ २२ ॥ ;vv{हचतुष्कम्} अवग्रहा इति ख्यातो दृष्टिरोमे गजालिके । स्वतन्त्रतानिषेधेऽपि प्रतिबन्धेऽप्यवग्रहः ॥ २३ ॥ प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ २४ ॥ परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः । शापेऽप्युपग्रहो वन्द्यामुपयोगेऽनुकूलने ॥ २५ ॥ अभिग्रहोऽभियोगेऽभिग्रहणे गौरवेऽपि च । परिवर्हन्तु राजार्हवस्तुन्यऽपि परिच्छदे ॥ २६ ॥ पितामहो विरिञ्चौ स्यात्तातस्य जनकेऽपि च । तमोऽपहः सहस्रांशुमृगाङ्कजिनवह्निषु ॥ २७ ॥ उपनाहो व्रणालेपपिण्डे वीणानिबन्धने । परीवाहो जलोच्छ्वासे महीभृद्भोग्यवस्तुनि ॥ २८ ॥ ;p{0182} तनूरुहं गरुल्लोम्नोर्वरारोहाकटावपि । वरारोहस्तु कथितो हस्त्यारोहावरोहयोः ॥ २९ ॥ अवरोहोऽवतरणे तरोरङ्गे लतोद्गमे । अश्वारोहाऽश्वगन्द्यायामश्वारोहोऽश्ववारके ॥ ३० ॥ महासहा माषपर्ण्यामम्लानकुसुमेऽपि च । गन्यवहा तु नासायां वायौ गन्धवहो मतः ॥ ३१ ॥ भवेदेकसहाभिख्या सूते दण्डोत्पलौषधौ । ;vv{हपत्रकम्} प्रपितामह इत्येष विधौ पितृपितामहे ॥ ३२ ॥ ;c{इति हान्तवर्गः ॥} ;v{क्षान्तवर्गः} षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः । पृथक्क्रमेण कथ्यन्ते तथाऽप्येते समन्वयात् ॥ १ ॥ ;vv{क्षद्विकम्} अक्षः कर्षे तुषे चक्रे शकटे व्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थसौवर्च्चलेन्द्रिये ॥ २ ॥ ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने । ऋक्षमुक्तञ्च नक्षत्रे यक्षः श्रीदे च गुह्यके ॥ ३ ॥ दक्षः पटौ हरवृषे ताम्रचूडे प्रजापतौ । मुनिभेदे द्रुमे वह्नौ दक्षो दक्षा भुवि स्मृता ॥ ४ ॥ पक्षो मासार्द्धके पार्श्वे ग्रहे साध्यविरोधयोः । पक्षश्च परतो वृन्दे बले सखिसहाययोः ॥ ५ ॥ पतत्रे चुल्लिरन्ध्रे च देहाङ्गे राजकुञ्जके । लक्षं शरव्ये सङ्ख्यायां लक्षं छद्मनि कथ्यते ॥ ६ ॥ ;p{0183} प्लक्षो द्वीपविशेषे स्यात् पर्क्कटीगर्द्दभाण्डयोः । पिप्पले द्वारपार्श्वे च गृहस्य परिकीर्त्तितः ॥ ७ ॥ न्यक्षः परक्षुरामे स्यान्न्यक्षः कार्त्स्न्ये निकृष्टयोः । चोक्षो गीते ध्रुवौ दक्षे तया तीक्ष्णमनोज्ञयोः ॥ ८ ॥ ध्वाङ्क्षस्तु काकबकयोस्तर्कुके भिक्षुके गृहे । ध्वाङ्क्षी कक्कोलिकायां स्यात् कक्षो दोर्मूलकच्छयोः ॥ ९ ॥ सैरिभे च वृपे कक्षः शुष्ककाननवीरुधोः । कक्षा ग्राहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु ॥ १० ॥ सार्द्धे पदे परीधानपश्चादञ्चलपल्लवे । रथभागेऽपि कक्षा स्याद्वीक्षा विस्मयरश्ययोः ॥ ११ ॥ मोक्षो मुष्ककवृक्षे स्यादपवर्गे च मोचने । रूक्षः पादपजातौ स्याद् रूक्षोऽप्रेमण्यचिक्कणे ॥ १२ ॥ भिक्षा भृतौ च याच्ञायां सेवाभिक्षितवस्तुनोः । प्रेक्षाऽनुत्प्रेक्षणे बुद्धौ रक्षा रक्षणरक्षयोः ॥ १३ ॥ ;vv{क्षत्रिकम्} अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षेऽध्यक्षमिष्यते । गोरक्षो नागरङ्गे स्याद् गवाञ्च परिरक्षके ॥ १४ ॥ आरक्षो रक्षणीये स्याच्छीर्षमर्मणि दन्तिनाम । रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ १५ ॥ समीक्षा ग्रन्थभेदे स्यात् तत्त्वबुद्धौ निभालने । उत्प्रेक्षाऽनवधाने स्यात् काव्यालङ्करणेऽपि च ॥ १६ ॥ मृगाक्षी चेन्द्रवारुण्यां मृगनेत्रात्रियामयोः । गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥ १७ ॥ ;vv{क्षचतुष्कम्} वीरवृक्षस्तु भल्लातककुभद्रुमयोर्मतः ॥१८४ ॥ ;p{0184} राजवृक्षः प्रियाले स्यात् सुवर्णालुतरावपि ॥ १८ ॥ देववृक्षः सप्तपर्णे मन्दरादिषु गुग्गुलौ । भूतवृक्षस्तु शाकोटे तथा श्योनाकपादपे ॥ १९ ॥ विशालाक्षो हरे तार्क्ष्ये विशालाक्षी वरस्त्रियाम् । सकटाक्षो घवद्रौ स्यात् कटक्षसहितेऽपि च ॥ २० ॥ ;c{इति क्षान्तवर्गः ॥} ;c{इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य गद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे अनेकार्थशब्दपरिच्छेदः प्रथमः ।} ;p{0185} ;k{अयव्ययानेकार्थवर्गः} ;v{अव्ययानि} अथाव्ययानि वक्ष्यन्ते व्यक्तं पूर्वाक्षरक्रमात् । अकारादिकमप्यस्ति नाधिकं पूर्वतोऽपि च ॥ १ ॥ ;vv{अ} अ स्यादभावे स्वल्पार्थे विष्णावीशे त्वनव्ययम् । ;vv{आङ} आङ् सीमायां परिव्याप्तौ कियायोगेषदर्थयोः ॥ २ ॥ ;vv{आ} आ प्रगृज्ञः स्मृतौ वाक्ये आः स्यात् सन्तापकोपयोः । ;vv{इ} इ खेदे च रुषोक्तौ च कामदेवे त्वनव्ययम् ॥ ३ ॥ ;vv{ई} ई दुःसभावने कोपे लक्ष्म्यामीः स्यादनव्ययम् । ;vv{च} उ सम्बुद्धौ रुषोक्तौ च शम्भुवाची त्वनव्ययम् ॥ ४ ॥ ;vv{ऊ} ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम् । ;vv{ऋ} ऋ वाक्ये चाऽपि कुत्सायां देवाम्बायान्त्वनव्ययम् ॥ ५ ॥ ;vv{ए ऐ} ए-ऐ-शब्दौ तु हे-हैवत् स्मृत्यामन्त्रणहूतिषु । ;vv{ओ औ} ओऔशब्दौ च होहौवत सम्बुद्ध्याह्वानयोर्मतौ ॥ ६ ॥ ;p{0186} ;vv{कान्ताः} कु पापे चेषदर्थे च कुत्सायाञ्च निवारणे । मनागल्पे च मन्दे च धिग् निर्भर्त्सननिन्दयोः ॥ ७ ॥ ;vv{गान्ताः} अङ्ग सम्बोधने हर्षे पुनरर्थे च कीर्त्तितम् । ;vv{चान्ताः} तिर्यक् तिरोऽर्थे वक्रे च विहङ्गादौ त्वनव्ययम् ॥ ८ ॥ चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये । पक्षान्तरे तथा पादपूरणेऽप्यवधारणे ॥ ९ ॥ प्राक प्रभातेऽप्यतीते च दिग्देशकालतः स्मृतम् । प्रागऽग्रेऽपि च पूर्वस्मिन् भवे प्रागप्यनन्तरे ॥ १० ॥ ननुच प्रश्नदृष्ट्योक्त्योः सम्यग्गाढप्रशंसयोः । किञ्चारम्भे च साकल्ये हिरुग् मध्यविनार्थयोः ॥ ११ ॥ ;vv{मान्ताः} नञऽभावे निषेधे च स्वरूपार्थे व्यतिक्रमे । ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ॥ १२ ॥ ;vv{ठान्ताः} सुष्टु प्रशंसनेऽपि स्यादत्यर्थेऽपि च कथ्यते । अपष्ठु निरवद्ये स्याच्छोभमानेऽपि च स्मृतम् ॥ १३ ॥ ;vv{णान्तः} अन्तरेण-पदं विद्याद्विनामध्यार्थयोरपि । ;vv{तान्ताः} तु पादपूरणे भेदे समुच्चयेऽवधारणे ॥ १४ ॥ अस्तु स्यादभ्यनुज्ञानेऽप्यसूयानीहयोरपि । ;p{0187} किंस्वित् प्रश्ने वितर्के च शश्वत् पुनःसदार्थयोः । पश्चात् प्रतीच्यां चरमे साक्षात् प्रत्यक्षतुल्ययोः । सकृत् सहैकवारे स्यादाराद् दूरसमीपयोः ॥ १५ ॥ यावत् तावत् परिच्छेदे कार्त्स्न्ये मानेऽवधारणे । पुरस्ताच्चतुर्षु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ १६ ॥ उत प्रश्ने वितर्के स्यादुताऽप्यर्थविकल्पयोः । किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते ॥ १७ ॥ हन्त हर्षे विषादे च वाक्यारम्भविवादयोः । स्वस्त्याशीःक्षेमपुण्यादौ तद्वत प्रश्नविकल्पयोः ॥ १८ ॥ बताऽमन्त्रणसन्तोषखेदानुक्रोपविस्मये । अहोबताऽनुकम्पायां खेदे सम्बोधनेऽपि च ॥ १९ ॥ तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे । आनन्तर्ये कुतः प्रश्ने पञ्चम्यर्थे च निह्नवे ॥ २० ॥ अतो भवेत् कारणापदेशनिर्द्देशयोरपि । पञ्चम्यर्थे ततः प्रोक्तं पञ्चम्यर्थे च शासने ॥ २१ ॥ सम्भावनावयवयोरन्ततः-पदमिष्यते । इतो यतश्च नियमे पञ्चम्यर्थविभागयोः ॥ २२ ॥ इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु । निदर्शनप्रकारे स्यादनुकर्षे च सम्मतम् ॥ २३ ॥ अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति । नितान्तासम्प्रतिक्षेपवाचकोऽप्येष दर्शितः ॥ २४ ॥ प्रति प्रतिविधौ वीप्सा लक्षणेषु प्रयोगतः । मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥ २५ ॥ ;vv{थान्ताः} अथो अथ च सम्प्रश्ने मङ्गलारम्भयोरपि । ;p{0188} अनन्तरे च कार्त्स्न्ये च संशये च प्रकीर्तितः ॥ २६ ॥ यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमानयोः । तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ २७ ॥ उभौ चोद्देशनिर्द्देशसादृश्येषु प्रकाशितौ । कारकस्योऽपपत्तौ च सर्वथा हेतुबाढयोः ॥ २८ ॥ अन्यथा वितथार्थे स्यादन्यथा चाऽपरार्थके । वृथा निष्कारणे बन्धे वृथा स्याद्विधिवर्ज्जिते ॥ २९ ॥ ;vv{दान्ताः} उत् प्रकाशे विभागे च प्राबल्यास्वास्थ्यशक्तिषु । प्राधान्ये बन्धने भावे मोक्षे लाभोर्द्धकर्मणोः ॥ ३० ॥ ;vv{नान्ताः} नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः । ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे ॥ ३१ ॥ आमन्त्रणे चाऽपि ननु किन्नु प्रश्नवितर्कयोः । नाना विनार्थेऽपि भवेन्नानाऽनेकोभयार्थयोः ॥ ३२ ॥ स्थाने तु कारणार्थे च युक्तसादृश्ययोरपि । अनु हीने सहार्थे च पश्चात् सादृश्ययोरनु ॥ ३३ ॥ आयामे च नियामे च लक्षणादावनुक्रमे । नि निवेशभृशार्थाधोभावविन्यासराशिषु ॥ ३४ ॥ आश्रये बन्धने मोक्षे दारकर्मणि दर्शने । अन्तर्भावे च सामीप्यकौशलोपरमेषु च । नित्यार्थे संयमे चाऽपि क्षेपार्थेऽपि च विश्रुतम् ॥ ३५ ॥ ;vv{पान्ताः} अप स्यादपकृष्टार्थे वर्ज्जनार्थवियोगयोः । ;p{0189} विपर्ययेऽपि विकृतौ चौर्ये निर्द्देशहर्षयोः ॥ ३६ ॥ उप सामर्थ्यदाक्षिण्यदोषाख्यानात्ययेषु च । आचार्यकरणे दाने व्याप्तावारम्भपूजयोः ॥ ३७ ॥ तद्योगेऽपि च लिप्सायां भरणार्थोपमार्थयोः । उप हीनेऽधिके प्रोक्तोऽप्यासन्नेऽप्युप कीर्त्तितः ॥ ३८ ॥ अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थेषु कामचारक्रियासु च ॥ ३९ ॥ ;vv{बान्ताः} बशब्द उपमायां स्याद्वरुणे वानुनयेऽपि च । वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये ॥ ४० ॥ वि श्रेष्ठातीतनानार्थे विः स्यात् पक्षिष्वनव्ययम् । वै स्यात् सम्बोधने पादपूरणेऽनुनयेऽपि च ॥ ४१ ॥ ;vv{भान्ताः} अभीऽत्थम्भूतकथनेऽप्यभि वीप्साभिमुख्ययोः । ;vv{मान्ताः} स्म पादपूरणेऽतीते सामि निन्दार्द्धयोर्मतम् ॥ ४२ ॥ अमा सहार्थान्तिकयोर्नूनं निश्चिततर्कयोः । कामम् प्रकामेऽनुमतावसूयानुगमेऽपि च ॥ ४३ ॥ नाम प्राकाश्यसम्भाव्यकुत्साभ्युपगमेषु च । साम्प्रतं चाधुनार्थे स्याद् युक्तार्थेऽपि च साम्प्रतम् ॥ ४४ ॥ हुं वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिषु । तुम् प्रश्नेऽङ्गीकृतौ रोषे आस्मृतौ चावधारणे ॥ ४५ ॥ कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्रानुकूलयोः । किं प्रश्नेऽपि च कुत्सायां कं शिरःमुखवारिषु ॥ ४६ ॥ ;p{0190} नुमिन्यनुमतौ प्रोक्तं प्रणवे चाऽप्युपक्रमे । एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥ ४७ ॥ अलं भूषणपर्याप्तिवारणेषु निरर्थके । अलं शक्तौ च निर्द्दिष्टं शं कल्याणे सुखेऽपि च ॥ ४८ ॥ सं सङ्गार्थे प्रकृत्यर्थे शोभनार्थसमर्थयोः । जोषं सुखे प्रशंसायां तूष्णींलङ्घनयोरपि ॥ ४९ ॥ तूष्णीकं तु स्मृतं मौने मौनशीले त्वनव्ययम् । तद्दिनं दिनमध्ये स्यात् तद्दिनं प्रतिवासरे ॥ ५० ॥ अभीक्ष्णं मुहुरश्रान्ते शीघ्रप्रकर्षयोरपि । अभीक्ष्णं तु तथा पौनःपुन्ये स्यात् सन्ततेऽपि च ॥ ५१ ॥ इदानीं वाक्यभूषायां सम्प्रत्यर्थे च वर्त्तते । कथं प्रश्ने सम्भ्रमे च प्रकारार्थे च सम्भवे ॥ ५२ ॥ किमु सम्भावनायां स्याद्विमर्शे च किमु स्मृतम् । भृशं प्रकर्षे चात्यर्थेऽवश्यं नित्यप्रयत्नयोः ॥ ५३ ॥ ;vv{यान्ताः} अयि प्रश्नानुनययोः समयान्तिकमध्ययोः । अये क्रोषे विषादे च सम्भ्रमे स्मरणेऽपि च ॥ ५४ ॥ ;vv{रान्ताः} प्र प्रकर्षे गताद्यर्थे दुः स्यात् कष्टनिषेधयोः । पुनरप्रथमे भेदे स्वः स्वर्गपरलोकयोः ॥ ५५ ॥ परा विमोक्षप्राधान्यप्रतिलोमेषु वर्त्तते । आभिमुख्ये भृषार्थे च विक्रमे च गतौ वधे ॥ ५६ ॥ पुरा पुराणे निकटप्रबन्धातीतभाविषु । परि स्यात् सर्वतोभावे वर्ज्जने लक्षणादिषु ॥ ५७ ॥ ;p{0191} पूजालिङ्गनवीप्सासु भूषणे व्याधिशोकयोः । दोषाख्यानेऽप्युपरमे व्याप्तौ निवसनेऽपि च ॥ ५८ ॥ प्रादुः प्राकाश्यवृत्तौ स्यात् सम्भाव्ये च प्रयुज्यते । निर्निश्चये क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः ॥ ५९ ॥ अन्तर्मध्ये तथा प्रान्ते स्वीकारार्थेऽपि दृश्यते । उररी चोररी चोरी विस्तारेऽङ्गीकृतौ त्रयम् ॥ ६० ॥ अन्तरापि विनार्थे स्यान्मध्यार्थनिकटार्थयोः । ;vv{लान्ताः} किलशब्दस्तु वार्त्तायां सम्भाव्यानुनयार्थयोः ॥ ६१ ॥ खलु स्याद्वाक्यभूषायां जिज्ञासादौ च सान्तने । निषेधनेऽपि वीप्सायां समु माने च कीर्त्तितम् ॥ ६२ ॥ ;vv{वान्ताः} अवाऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु । इषदर्थे परिभवेऽप्येवौपम्येऽवधारणे ॥ ६३ ॥ ;vv{षान्ताः} उषा रात्रौ तदन्ते स्यादत्रानव्ययमप्युषा । दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ ॥ ६४ ॥ निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम् । सु पूजायां भृषार्थानुमतिकृच्छ्रसमृद्धिषु ॥ ६५ ॥ पुरतः प्रथमे चाऽग्रेऽप्यग्रतः प्रथमाग्रयोः । पुरोऽग्रे प्रथमे च स्यादञ्जसा तत्त्वतूर्णयोः ॥ ६६ ॥ अमितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके । भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम् ॥ ६७ ॥ निर्निश्चये निषेधे च साकल्यातीतयोरपि । ;p{0192} तिरोऽन्तर्द्धौ तिर्यगर्थे मिथोऽन्योन्यं मिथो रहः ॥ ६८ ॥ पूर्वेद्युरिष्यते प्रातः पूर्वेद्युः पूर्ववासरे । शनैः शनैश्चरे स्वैरे नीचैः स्वैराल्पयोर्मतम् ॥ ६९ ॥ ;vv{हान्ताः} ह स्यात् सम्बोधने पादपूरणेऽनव्ययं शिवे । हा विषादे च शोके च दुःखार्थेऽपि च कथ्यते ॥ ७० ॥ हि पादपूरणे हेतौ विशेषेऽप्यवघारणे । ही दुःखहेतावुद्दिष्टो ही विस्मयविषादयोः ॥ ७१ ॥ हाहा दुःखं हुहू हर्षे गन्धर्वेऽमू त्वनव्यये । हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयोः ॥ ७२ ॥ हो हौ चैवंविधौ ज्ञेयौ सम्बुद्धाह्वानयोरपि । सह साकल्यसादृश्ययौगपद्यसमृद्धिषु ॥ ७३ ॥ विद्यमाने च सम्बन्धे सहशब्दः प्रकीर्त्तितः । अहो धिगर्थे शोके च करुणार्थविषादयोः ॥ ७४ ॥ आहो उताहो द्वावेतौ परिप्रश्नविचारयोः । अहशब्दो नियोगार्थे क्षेपार्थेऽपि निगद्यते । ;vv{क्षान्ताः} मङ्क्षु शीघ्रे भृषार्थे च तत्त्वार्थेऽपि क्वचिन्मतम् ॥ ७५ ॥ ;c{इत्यव्ययानेकार्थवर्गः ॥} ;end{ यद्यपूर्वतया किञ्चिन्नामात्र प्रतिभाति च । तत्तदन्विष्यतां सद्भिर्नामपारायणादिषु ॥ १ ॥ तत्तक्तवीन्द्रैरथ पण्डितेन्द्रैः प्रयोगसम्बोधफलद्वयाप्त्यै । यैर्नामकण्ण्ठाभरणं कृतं तैः सर्वज्ञता स्वप्रणयीकृतैव ॥ २ ॥ ;p{0193} स्वैरप्रचारैः परिकल्पिताभिः शब्दार्थसम्बोधकथाप्रथाभिः । व्याख्याभिरप्राप्तमुदां प्रमोद- माधातुमत्रैष परिश्रमो नः ॥ ३ ॥ एतां कृतिं कृतधियः कृतकृत्यभाव- मापादयन्तु सदयं, सदयं तु चेतः । नित्यं महेश्वरकवेः परिभावयन्तः सन्तः परोन्नतिरता हि भवन्ति लोके ॥ ४ ॥ रामानलव्योमरूपैः शककालेऽभिलक्षिते । कोषं विश्वप्रकाशाख्यं निरमाच्छ्रीमहेश्वरः ॥ ५ ॥ } ;c{इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य गद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे अनेकार्थाव्ययपरि च्छेदो द्वितीयः ।} ;c{समाप्तोऽयं विश्वप्रकाशः ।} ;c{शुभमस्तु ।}